चतुर्थः मन्त्रः
अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन् पूर्वमर्षत् ।
तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ।।4।।
B.4
आनन्दभाष्यम्
" सकलजगद्वयापितया प्रकृतस्य ईश्वरस्य विरोधाभासान्वितविचित्रानेक-"
शक्तिमत्त्वमुपदिशति
शिष्यस्य ब्रह्मज्ञानाभिमुख्याय-अनेजदेकं —- इति ।।
" न एजते कम्पते इति अनेजत् - अकम्पनामं सर्वत्र व्यापकत्वेन जगत्वात् गन्तव्यो देश एव"
नास्तीति गत्यभावादेव न कम्पोऽपि तत्र ; तथापि मनसो जवीयः - जवोवेगः अतिशयेन यत्रास्ति
तत् जवीयः ; वेगवत्तरम् । मनो हि वेगवतां प्रथमं प्रसिद्धम् ; ततोऽपि ब्रह्म जवीयः
; मनोवेगस्यापि अविषयत्वात् अनेजत् जवीयः इति विरोधोऽत्र भासते ; विभुत्वेन वस्तुतो
नैजते इति तत्परिहारः। जवीयत्वं तूपचारादेव ब्रह्मणीति
बोध्यम् । एकम् - स्वसमाभ्यधिकद्वितीयरहितमेव
ब्रह्म पूर्वम् - प्रागेव ,
सर्वान् देवान् अर्षत्- प्राप्तवत् तथापि देवाः बहुत्वसंख्यावन्तोऽपि एकत्वसंख्यावत्
एनत् - ब्रह्म नाप्नुवन् - न प्राप्तवन्तः एतावत्कालपर्यन्तमित्यर्थः । यो यं प्राप्नोति
स तमपि प्राप्नोति इति लोकप्रसिद्धनियमः, प्राप्तेः परस्परसंयोगरूपत्वात् ।
" इह तु प्राप्तमपि ब्रह्म देवाः न प्राप्नुवन्"
इति विरोधः प्रतीयते कर्मसंज्ञिताऽविद्यासंकुचितज्ञाना
देवाः अन्तर्यामितया प्राप्तमपि न प्राप्नुवन्तीति परिहारो अत्र बोध्यः । यथा हिरण्यनिधिं
क्षेत्रे निहितमपि क्षेत्रज्ञानविधुराः उपर्युपरिसंचरन्तोऽपि न जानन्ति एवं गुरूपदेशमन्तरा
स्वबुद्धिमात्रेण स्वान्तर्गतमपि ब्रह्म न जानन्ति इति भावः ।
" तत् - ब्रह्म , तिष्ठत् - सर्वत्र वर्तमानं एव यः सर्वभूतेषु तिष्ठन् (बृ.उ.5-7-19)"
य आत्मनि तिष्ठन् (बृ.उ.मा.पा.5-7-22) इत्यादिश्रुतेः । धावतः - शीघ्रं गतिं कुर्वतः
पवनगरुडादीनपि अत्येपि - अतिक्राम्यति । यतो यतो गरुडादयो धावन्ति तत्परस्तादपि ब्रह्म
वर्तत एवेति भावः । अत्रापि तिष्ठतः धावदतिक्रमणं विरुद्धमिवाऽऽभाति , ब्रह्मणः व्यापित्वे
न धावदतिक्रमणं विरुद्ध्यते इति परिहर्तव्यम् । तस्मिन् - सर्वव्यापिनि ब्रह्मणि ; व्यवस्थित
इति शेषः, मातरिश्वा - वायुः अपः - इदमुपलक्षणं तेन महीमहीधरपयोधरग्रहनक्षत्रादिकं सर्वं
, दधाति - विभर्ति ; ब्रह्मणि स्थितो वायुः ब्रह्माहितवीर्यतया सर्वं धर्तुं शक्नोति
। न स्ववीर्यमात्रेण इत्याभिप्रायः ।
" एष सेतुर्विधरण एषां लोकानामसम्भेदाय (बृ.उ.6-4-22) इत्यादि श्रुतेः। "
द्यौस्सचन्द्रार्कनक्षत्रं
खं दिशो भूर्महोदधिः ।
" वासुदेवस्य वीर्येण विधृतानि महात्मनः ।। (म.भा.अनु.156)"
इत्यादिस्मृतेश्च ब्रह्मण एव सर्वविधारकत्वावगमात् । अनेन विचित्रशक्तियोगः स्फुटमुक्तो भवति ।
(ब्रह्मणि सर्ववैलक्षण्यपरतया भङ्गयन्तरेण व्याख्यानम्)
" अथवा ईशावास्यम् (ई.उ.1) इति मन्त्रेण व्यापकतया"
वर्णितस्य परमात्मनः, व्याप्यतया वर्णितस्य
चिदचिद्रूपस्य जगतश्च, परस्परविलक्षणताम् अनेन मन्त्रेण शिष्यं प्रति उपदिशति । व्याप्यभूतं
चिदात्मकं जगत्, एजत् - कम्पमानं ज्ञानसङ्कोचविकासरूपस्वभावच्युतिमत् । अचिद्रूपं जगत्तु,
स्वरूपान्यथाभावरूपस्वरूपच्युतिमत् । ब्रह्म तु, तादृशोभयच्युतिरहितम् अतः अकम्पमानम्
इति द्वयोः वैलक्षण्यम् । ब्रह्म एकम् - स्वसमाभ्यधिकद्वितीयरहितम्
व्याप्यं तु न तथा ; किन्तु स्वसमानाधिकद्वितीययुक्तं व्याप्यं जगत् सकलमेव मनोगोचरम्
; ब्रह्म तु व्यापकतया न मनोगोचरम् अवांडमनसगोचरम् (नृ.उ.2-7) इति श्रुतेः । वैलक्षण्यं
मनसो जवीय इत्यनेन दर्शितम् । व्यापकं ब्रह्म पूर्वं पूर्वकालत एवेति सर्वं वस्तु अर्षत्
- प्राप्नुवदस्ति । देवा इति उपलक्षणम्, परिच्छिन्नं व्याप्यं जगत्, एतत् 1ब्रह्म अधुनापि
नाप्नुवत्, अतः सर्वप्राप्तिमत्ता न तत्रेति विलक्षणत्वं द्योतितं भवति ।
" तत् व्यापकं ब्रह्म तिष्ठत् - गतिनिवृत्तिमदपि, ष्ठागति - निवृत्तौ (पा.धा.928) इति"
धातुः, धावतः - अतिशयितगतिमतः, अन्यान् अत्येति - अतिक्रम्य
वर्तते, व्यवहितविप्रकृष्टसर्वदेशवर्तित्वं
ब्रह्मणि एतेन प्रतिपादितम् । परिच्छिन्नं जगत् प्रगतिशीलमपि व्यवहितविप्रकृष्टसर्वदेशवर्ति
नास्त्येवेति तयोः वैलक्षण्यम् ।
" मातरिश्वा - वायुः अप्प्रभृतीन् पदार्थान् यद्दधाति"
तत् तस्मिन् - सर्वात्मके ब्रह्मण्येव
। अतः सर्वधारकत्वं ब्रह्मणः आयाति, व्याप्यं जगत्
चिद्रूपमचिद्रूपं वा किमपि न सर्ववस्तुविधारकम्
इति व्याप्यव्यापकयोरपरं वैलक्षण्यमुक्तम् ।।