तृतीयो मन्त्रः
असुर्या नाम ते लोका अन्धेन तमसावृताः ।
ताँस्ते प्रेत्याभिगच्छन्ति ये के चाऽऽत्महनो जनाः ।।3।।
B.3
आनन्दभाष्यम्
" विद्यायामविलम्बेन प्रवृत्तिसाधनाय अविदुषाम् अनर्थमुपदिशति -"
असुर्या इत्यादिना असुराणां तमः स्वभावानां
जीवानां इमे, असुर्याः - आसुरप्रकृतिकजीवानां भाव्याः, रौरवादिसंज्ञाः लोकाः भोगभूमयः
प्रसिद्धाः ; शास्त्रेषु नामेत्यस्य प्रसिद्धिपदार्थत्वात् ।
" कीदृशास्ते इत्यपेक्षायामाह - अन्धेन तमसावृता इति । अन्धेन - अतिगाढेन तमसा अन्धकारेण"
आवृताः - आविष्टाः, यत्र आलोकः कदापि न प्रसज्यते तादृशाः इत्यर्थः । तान् - लोकान्
रौरवादिसंज्ञितान् निरयान्, ते प्रेत्य- मृत्वा अभिगच्छन्ति - अभितः प्राप्नुवन्ति ।
" ते के इत्याकांक्षायामाह - ये के चात्महनो जनाः इति ।"
आत्मानं घ्नन्ति, ब्रह्मज्ञानवैधुर्येण
हिंसन्ति संसारमहागर्ते पातयन्ति ते आत्महनः असन्नेव स भवति, असद््ब्रह्मेति वेद चेत्
(तै.आ.30) इति श्रुत्या ब्रह्मज्ञानरहितानामेव आत्मघातित्वप्रतीतेः स्वभूताः ये के च
- ब्राह्मणः क्षत्रियादयो वा देवयोनयो वा जनाः - जनिमन्तः सन्ति ते सर्वे निरयपातिनो भवन्ति ।
" अतः (नित्यनैमित्तिक) कर्मव्यतिरिक्तेषु काम्यनिषिद्धकर्मसु वैमुख्यमासाद्य ब्रह्मज्ञानाय"
शीघ्रं प्रयतनीयमिति भावः ।।