द्वितीयो मन्त्रः
(विदुषो विद्याङ्गतया यावज्जीवं कर्मानुष्ठानम्)
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतगँ समाः।
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे।।2।।
B.2
आनन्दभाष्यम्
ब्रह्मविद्याङ्गभूतं कर्म मुमुक्षूणामपि यावज्जीवं कर्तव्यमेवेति उपदिशति कुर्वन्नेवेति ।
शतं समाः - शतसंवत्सरान् यावत्, उपलक्षणमेतत्,
यावज्जीवमित्यस्य, मनुष्याणां शतायुष्ट््वश्रवणात्तु
एवमुक्तम् शतं समा इति । कर्माणि - नित्यनैमित्तिकानि, अहरहः सन्ध्यामुपासीत, राहूपरागे
स्नायात् इत्यादि विधिवाक्यविहितानि सन्ध्योपासनादीनि कुर्वन् - आचरन्नेव, इह - लोके,
जिजीविषेत् - जीवितुमिच्छेत्, विद्यापूर्तिपर्यन्तं ब्रह्मविदोऽपि जीवनेच्छासम्भवात्
। विद्यासम्पत्तये फलासक्तिकर्तृत्वाभिमानराहित्येन नित्यनैमित्तिककर्माणि मुमुक्षुणा
यावज्जीवम् अनुष्ठेयान्येव ; विद्याङ्गकर्मणः त्यागस्य विद्यासिद्धिविरोधित्वात् इति भावः ।
त्वयि - ईश्वरपारतन्त्र्यज्ञानवत्तया ईश्वराज्ञापालनकृति त्वयि, एवम् - यावज्जीवं
कर्मानुष्ठानमेव युक्तम्, इतः - फलाभिसन्धिरहितविद्याङ्गकर्मानुष्ठानात्
अन्यथा - प्रकारान्तरम्
नास्ति - भगवदाज्ञापालनमेव भगवत्तोषकारणं तत्परतन्त्राणाम् नान्यत् किमपि कारणम् । अतः
तदाज्ञारूपकर्म यावज्जीवम् अनुष्ठेयमेव इति भावः ।
(निष्कामकर्मणोऽलेपकत्त्वम्)
कर्मानुष्ठानेन तत्फलबन्धः स्यादिति भयं न कार्यमित्याह - न कर्म लिप्यते नरे इति
उक्तविद्याविरुद्धकर्मफलेषु न रमते इति नरः, तस्मिन्नरे, विद्याङ्गतया क्रियमाणं निष्कामं
कर्म न लिप्यते - न बन्धाय भवति, रागोपहितं हि यागादिकर्म
बन्धहेतुर्भवति । परमात्मव्यतिरिक्तसर्वविषयविरक्तस्य
स्वरूपतः कर्मबन्धहेतुः न भवतीत्यर्थः ।