०१

प्रथमो मन्त्रः
ईशावास्यमिदगँ सर्व यत्किंच जगत्यां जगत् ।
तेन त्यक्तेन भुजीथा मा गृधः कस्यस्विद्धनम् ।।1।।
B.1
आनन्दभाष्यम्
मुक्तिः काशीमृतानां मृतिसमयशिवप्रत्तयन्मन्त्रशक्तेः
यन्नामग्राहमन्तस्समुदितपुलकः सास्रनेत्रस्त्रिणेत्रः।
साकेतेशः समस्तश्रुतिसकलशिरोऽभ्यस्तमाहात्म्यभूमि-
र्भव्यायास्माकमास्तामनुपधिकरुणो भूमिजाभूषिताङ्गः।।1।।
आराध्यं ब्रह्मरुद्रादेर्जगद्धेतुं च मुक्तिदम्।
दिव्यदेहं गुणाम्भोधिं रामं ब्रह्म समाश्रये।।2।।
सूत्रवृत्तिकृतौ नत्त्वा व्यासबोधायनौ मुनी।
श्रीमन्तं राघवानन्दाचार्यं गुरुं नमाम्यहम् ।।3।।
कुर्वे गुरुं नमस्कृत्य ज्ञानभक्तिदयानिधिम्।
ईशावास्योपनिषदो भाष्यमानन्दसंज्ञकम्।।4।।
ब्रह्मविद्योपदेशाय प्रवृत्तायामस्यामुपनिषदि प्रथमतः
स्वतन्त्रात्मतादिभ्रमवन्तं संसारानलपरितप्तं
तत्त्वजिज्ञासया शरणमुपागतं शिष्यं प्रति, तादृशभ्रमनिवृत्तिफलकं सर्वस्य भोक्तृभोग्यवर्गस्य
परमपुरुषाधीनत्वं मुमुक्षोचितां वृत्तिं च गुरुरुपदिशति- ईशेति । जगत्यां पृथिव्याम्
इह लोके, एतस्य लोकान्तरोपलक्षणतया परलोकेऽपि यत्किञ्च चिदचिदरूपं जगत् अन्यथाभावं
प्राप्नुवत् अस्तीत्यध्याहारः। सर्वमिदम् ब्रह्मादि 1स्तम्बपर्यन्तम् । ईशा- ईष्ट इति
ईट् तेन सर्वनियामकेन परमपुरुषेण श्रीरामाख्येन वास्यम्-व्याप्यम् नियाम्यमिति भावः
। एतेन चिदचिद््रूपस्य समस्तस्य जगतः परमात्माधीनत्वप्रदर्शनात्
स्वातन्त्र्यभ्रमनिवृत्तिरुपदिष्टा।
अत्र अचित्पदार्थस्य अन्यथा भावः स्वरूपविकाररूपः स च
भोग्यतासम्पत्तये भवति । चित्पदार्थस्य
नित्यत्वात् स्वरूपविकारो न सम्भवति, अतः तस्य अन्यथाभावः
ज्ञानसंकोचविकासादिरूपस्वभावविकारात्मकः।
सोऽपि भोक्तृत्वसम्पत्तये । अत उभयमपि जगत् इत्यनेन संगृहीतम् इति ध्येयम् । एवं पूर्वार्धेन
परमात्माधीनत्वमुपदिश्य मुमुक्षानुकूलां वृत्तिमुत्तरार्धेन उपदिशति- तेनेति ।
तेन - सर्वनियन्त्रा परमपुरुषेण 2त्यक्तेन - दत्तेन भगवदिच्छया संप्राप्तेन
वस्तुना भुञ्जीथाः- भोगं कुर्वीथाः ।
भगवदुपासनोपयुक्तदेहधारणमात्रोपयोगिपदार्थमनुभवेत्यर्थः।
यद्वा तेन जगता दुःखमूलत्वस्वाभाविकब्रह्मानन्दानुभवविरुद्धत्वादिदोषचिन्तनपूर्वकं मनसा
त्यक्तेन भोग्यभूतेन उपलक्षितः सन् भुञ्जीथाः भोग्यजातं
मनसा त्यक्त्वा शास्त्राऽविरुद्धं भोगमनुतिष्ठेत्यर्थः।
मा गृधः कस्यस्वित् कस्यापि स्वसम्बन्धिनः असम्बन्धिनो वा धनं द्रव्यं मा
गृधः मा कांक्षीः । गृधु अभिकांक्षायामित्यस्मात् लुड् । यद्वा मा गृधः सर्वथा अभिलाषं
मुञ्च, कुत इत्यपेक्षायामाह- कस्यस्वित्- अत्र स्वित् इति निपातः आक्षेपार्थः तेन धनमिति
किं कस्यचित् अस्ति? अर्थात् न कस्यापि धनम् । यतः परमपुरुषस्य सर्वान्तःप्रविष्टत्वात्
सर्वमेव तस्य शरीरम् । तस्मात्सर्वं ब्रह्मात्मकम् इति किमपि कस्यापि भोग्यं नास्तीत्यतः
परमात्मभिन्नसर्वविषयामाशां परित्यजेत्यर्थः। अत्र जगत््पदेन भोक्तृभोग्ययोः ईशेत्यनेन
ईश्वरस्य च कथनात् चिदचिदीश्वररूपं तत्त्वत्रयम्-
ईशेतितव्यभेदश्च उक्तो भवति । ईशावास्यमित्यनेन
अन्तः प्रविश्य नियमनं व्यज्यते।