बृहदारण्यकोपनिषद्भाष्यवार्तिकम् (तृतीयो भागः)

[[बृहदारण्यकोपनिषद्भाष्यवार्तिकम् (तृतीयो भागः) Source: EB]]

[

[TABLE]

अथ तृतीयोऽध्यायः।
————

समाप्तो मधुकाण्डार्थो याज्ञवल्कीयकाण्डगः॥
अतः परं प्रयत्नेन श्रुत्या व्याख्यायते स्फुटम्॥१॥

साक्षादेवापरोक्षं यदानन्दज्ञानमद्वयम्।
अमृतं तदहं ब्रह्म सर्वस्यापि परायणम्॥१॥

प्रधान मधुकाण्डं व्याख्याय युक्तिप्रधानं मुनिकाण्डमवतितारयिषुः संगतिमाह समाप्त इति। काण्डगोऽर्थ इति शेषः। प्रश्नप्रतिवचनाभ्यामसकृदुक्तिर्व्याख्याने प्रयत्नः। उक्तस्यैव पुनरुक्तौ फलमाह। स्फुटमिति॥१॥

याज्ञवल्कीयमेतस्मान्मधुकाण्डादनन्तरम्॥
काण्डं विचारभूयिष्ठमधुनाऽऽरभ्यते परम्॥२॥

काण्डस्य पाश्चात्ये हेतुमाह। याज्ञवल्कीयमिति। प्रमाणोक्त्यनन्तरभाविनी पुण्यार्कोक्तिस्तद्युक्तमागमयुक्तिप्रधानयो1रनयोः पौर्वापर्यमित्यर्थः॥२॥

ननु पूर्वं य उक्तोऽर्थः स एवेहापि भण्यते॥
पुनरुक्तं न च न्याय्यमेकप्रवचनस्थयोः॥३॥

ननुमिति परिहृतमिव पुनरुक्तिमविद्वानाशङ्कते। नन्विति। एकस्यैव प्रकाण्डभेदेनाप्युक्तो को दोषस्तत्राऽऽह। पुनरुक्तमिति। द्वयोरपि अशेषवशादेवापुनरुक्तिरिष्टाऽन्यथा सर्वशाखाप्रत्ययन्यायविरोधादेकशाखाकाण्डयोरर्थभेदाभावे न युक्ता पुनरुक्तिरफलत्वादित्यर्थः॥३॥

एकार्थत्वेऽपि च सति नैवास्य पुनरुक्तता॥
याज्ञवल्कीयकाण्डस्य ह्युपपत्तिप्रधानतः॥४॥

उक्तमेव समाधिमाह। एकार्थत्वेऽपीति। प्रधानभूतोपपादकभेदादपौनरुक्त्यं प्रसिति हिशब्दार्थः॥४॥

आगमोक्तप्रधानत्वं मधुकाण्डस्य वर्णितम्॥
आगमार्थविशुद्ध्यर्थं युक्तीरत्र प्रवक्ष्यति॥५॥

तुल्यं मधुकाण्डस्यापि तत्प्रधानत्वमित्याशङ्क्याऽऽह। आगमेति। कथमस्योपपत्तिप्रधानतेत्यत आह। आगमेति॥५॥

न चाऽऽगमस्य स्वातन्त्र्यं युक्त्युक्तेरपनुद्यते॥
अर्थान्तरत्वाद्युक्तीनां प्रमाणेभ्यो यतस्ततः॥६॥

तर्हि युक्त्यपेक्षत्वादागमस्यानपेक्षत्वलक्षणप्रामाण्यक्षतिस्तत्राऽऽह। न चेति। यतस्ततो निरुच्यमानयुक्तीनाममानत्वादागमस्य तदपेक्षत्वेऽपि न स्वातन्त्र्यहानिरित्यर्थः॥६॥

सर्वप्रमाणशेषत्वं युक्तीनामुपवर्णितम्॥
शास्त्रान्तरेष्वपि तथा नातः स्वातन्त्र्यखण्डनम्॥७॥

कथं तासाममानत्वमत आह। सर्वेति। उक्तं हि—अविज्ञाततत्त्वेऽर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थमूहस्तर्क इति। न्यायभाष्यकारोऽप्याह—तत्त्वविषयाभ्यनुज्ञालक्षणादूहाद्भावितात्प्रसन्नादनन्तरं प्रमाणसामर्थ्यात्तत्त्वज्ञानमुपपद्यत इति। तद्वार्तिककारश्च प्रमाणानि पुनः प्रवर्तमानानि तर्कविविक्तमर्थं यथाभूतमधिगमयन्तीति। अन्योऽप्याह—तया प्रमाणोपपत्त्येतिकर्तव्यतया प्रमाणविषयमभ्यनुजानन्त्या विशोधिते विषये प्रमाणमित्यूहं प्रवर्तत इति। युक्तीनां प्रमाणशेषत्वे तदपेक्षागमस्य न स्वातन्त्र्यहानिरिति फलितमाह। तथेति। अतः सापेक्षत्वादित्येतत्॥७॥

पदार्थविषया चेयं युक्तिस्तर्कोऽभिधीयते॥
वाक्यार्थस्त्वागमादेव निरपेक्षमतो वचः॥८॥

अस्तु वानुमानान्तर्भावेन युक्तिर्मानं तथाऽपि नाऽऽगमस्य स्वातन्त्र्यभङ्गो विषयमेदादित्याह। पदार्थेति॥८॥

पौरुषेयवचःस्वेव युक्तेः प्राधान्यमिष्यते॥
अनरोक्तौ तु तात्पर्यं युक्तेरर्थो न युक्तितः॥९॥

वेदवाक्यस्य स्वातन्त्र्ये हेत्वन्तरमाह। पौरुषेयेति। लौकिकवाक्येष्वाप्तानारोक्तत्वादिसंशयनिरासित्वेन युक्तिं प्रधानीकृत्य प्रामाण्यं वेदवाक्येषु तु युक्त्या तात्पर्यनिश्चये तदनपेक्षमेवातः श्रुतिलिङ्गादियुक्त्यवगततात्पर्यस्य प्रत्यक्षादिविरोधनिरासद्वारा दृढीकरणं वाचारम्भणत्वादियुक्तिकृतमिति नाऽऽगमार्थे युक्तेः स्वतन्त्रतेत्यर्थः॥९॥

प्रत्यक्षाद्यतिवर्तित्वाद्युक्त्यपेक्षा न विद्यते॥
आगमार्थे यथैवं स्याद्युक्त्यर्थे नाऽऽगमेक्षणम्॥१०॥

किंच विमतं न युक्त्यपेक्षं प्रत्यक्षाद्ययोग्यत्वाद्धर्भवदित्यनुमानादैक्यागमस्यानपेक्षतेत्याह। प्रत्यक्षादीति। स्वविषये युक्तेरागमापेक्षावत्तस्यापि स्वविषये युक्त्यपेक्षता किं न स्यात्तत्राऽऽह। यथेति। न हि लोकसिद्धेऽर्थे वेदापेक्षेति भावः॥१०॥

पुंस्वभावानुरोधेन युक्तिर्वेदेऽभिधीयते॥
आगमस्य प्रवृत्तिस्तु मेयवृत्तव्यपेक्षया॥११॥

वेदः स्वार्थे युक्त्यनपेक्षश्चेत्कथं तर्हि तत्र सोच्यते तत्राऽऽह। पुंस्वभावेति। अयं हि पुंस्वभावो यद्ब्रह्मात्मन्युक्तेऽप्यसंभावनादिद्वाराऽऽरोपितकर्तृत्वाद्यभिमानित्वं

तन्निरासानुसारेण वेदे युक्तिरिष्टेत्यर्थः। ननु वेदस्यापि पुरुषबुद्ध्यनुरोधेन प्रवृत्तेस्तर्कादविशेषस्तत्राऽऽह। आगमस्येति। न हि वस्तु पुरुषोत्प्रेक्षामनु2सरति क्षणिकत्वादेरपि वस्तुत्वप्रसङ्गादतः सिद्धमर्थमागमः स्वतोऽवगमयेदध्यक्षादिवदित्यर्थः॥११॥

ननूक्ता मधुकाण्डेऽपि दुन्दुभ्याद्युपपत्तयः॥
आगमैकप्रधानत्वं कथं तस्येति भण्यते॥१२॥

आगमप्रधानं मधुकाण्डमिदं तु युक्तिप्रधानमिति व्यवस्थया पुनरुक्तिसमाधिरुक्तः संप्रति व्यवस्थामाक्षिपन्पौनरुक्त्यतादवस्थ्यं शङ्कते। नन्विति॥१२॥

नैष दोषो यतस्तत्र युक्तीनामप्रधानता॥
प्राधान्यं याज्ञवल्कीये युक्तीनामभिधीयते॥१३॥

पूर्वत्राऽऽगमप्राधान्याद्युक्तेर्गुणत्वादत्र च वैपरीत्यादुभयत्रोभयसत्त्वेऽपि न पौनरुक्त्यमित्याह। नेत्यादिना॥१३॥

युक्त्यागमौ हि संभूय करस्थामलकादिवत्॥
सुसूक्ष्ममपि सद्वस्तु शक्तौ ज्ञापयितुं यतः॥१४॥

नन्वेवं पुनरुक्तिपरिहारेऽपि किमागमगम्येऽर्थे युक्त्त्युपन्यासेन न हि तामनुसृत्याऽऽगमः स्वार्थं प्रमापयेदत आह। युक्तीति। आगमिकेऽर्थे विपरीतभावनादिभञ्जकत्वेन युक्तीनामुपयोगाद्युक्ता तत्संगतिरिति हिशब्दार्थः॥१४॥

युक्तयोऽतोऽभिधीयन्ते पूर्वपक्षादिसंश्रयाः॥
याज्ञवल्कीय एतस्मिन्काण्डे जल्पोक्तिवर्त्मना॥१५॥

काण्डारम्भमुपसंहरति। युक्तय इति। द्विविधा कथा जल्पो वादश्च तत्र जल्पद्वारा युक्तीरुक्त्वा तदनुसारेण तत्त्वं निर्णीयते पञ्चमेनेत्यध्यायार्थमाह। जल्पेति॥१५॥

उद्गीथप्रमुखा येऽर्था मधुकाण्डे पुरोदिताः॥
तेषामेव विशुद्ध्यर्थं विचारः क्रियतेऽधुना॥१६॥

काण्डाध्यायारम्भमुक्त्वा भाष्योक्तमाख्यायिकासंबन्धं सिद्धवत्कृत्य ब्राह्मणस्य संगतिमाह। उद्गीथेति॥१६॥

दर्शनस्यास्य तेनात एकवाक्यत्वमिष्यते॥
तथैवान्यपदार्थेषु तद्द्वयोरपि काण्डयोः॥१७॥

उद्गीथब्राह्मणोक्तवागादिस्वरूपनिरूपणार्थत्वादस्य ब्राह्मणस्यात्रत्यदर्शनस्य तत्रत्योपास्तिशेषत्वादनयोर्ब्राह्मणयोरेकवाक्यतेति फलितमाह। दर्शनस्येति। न केवलमाद्यब्राह्मणस्यैव पूर्वसंगतिरपि त्वन्येषामपीत्याह। तथैवेति। अन्यैर्ब्राह्मणैरुक्तार्थेषु तर्क-

रूपेषु मधुकाण्डोक्ततत्त्वमाद्यर्थनिर्णयदृष्टेर्युक्तं तेषां पूर्वेणैकवाक्यत्वमित्यर्थः। काण्डयोर्द्वयोरेकवाक्यत्वं निगमयति। तदिति। तदा परामृष्टमेकवाक्यत्वम्॥१७॥

यदिदं कर्मणोऽशेषसाधनं मृत्युनाऽऽप्लुतम्॥
स्वामिमन्त्रर्त्विगग्न्यादि त्वभिपन्नं वशीकृतम्॥१८॥

काण्डादिसंगतीरुक्त्वा पदार्थव्याख्यामारभते। यदिदमिति। आप्लुतं व्याप्तमिति यावत्। तस्य कर्मणः ससाधनस्य कर्ता यजमानः केन मृत्योराप्तेर्मुक्तो भवतीति शेषः॥१८॥

परिच्छेदकृदज्ञानं सासङ्गं मृत्युसंज्ञितम्॥
केनायं यजमानोऽतो मृत्योराप्तेर्विमुच्यते॥१९॥

को मृत्युर्येन ससाधनं कर्म संसृष्टं वशीकृतं च यस्य चाऽऽप्तेर्मुमुक्षेत्यत आह। परिच्छेदेति। ब्रह्मक्षत्रादिभेदकारणं भ्रान्तिज्ञानं रागादिसहितं मृत्युरित्यर्थः। केनेत्यादिवाक्यमादत्ते। केनेति॥१९॥

यन्मर्त्यसाधनं साध्यं मर्त्यं तदपि जायते॥
साधनानुमितं साध्यं मुक्तिः केनात उच्यते॥२०॥

यथोक्तमृत्युनाशे ससाधनं सर्वमेव कर्म त्यक्तं स्यान्न चानतिशयपुमर्थहेतुकर्मत्यागो युक्तस्ततो नायं प्रश्नो युज्यते तत्राऽऽह। यन्मर्त्येति। हेतोर्नाशित्वेऽपि फलस्यानाशित्वं मोक्षवदित्याशङ्क्याऽऽह। साधनेति। कारणानुसारित्वात्कार्यस्य मुक्तेश्चाकार्यत्वान्नाशित्वं साध्यस्यावश्यंभावीति भावः। सहेतुफलस्य कर्मणो नाशित्वेन3 त्याज्यत्वात्तद्व्यापकस्य मृत्योरत्ययोपायो वाच्य इति प्रश्नं निगमयति। मुक्तिरिति॥२०॥

होत्रर्त्विजाऽग्निना वाचा मृत्योराप्तेर्विमुच्यते॥
इति प्रश्नप्रतिवचो याज्ञवल्क्योऽप्युवाच तम्॥२१॥

परिहारमवतारयति। होत्रेति। तमित्यश्वलस्य निर्देशः॥२१॥

प्रवक्ता याज्ञवल्क्योऽत्र तं पृच्छन्त्यश्वलादयः॥
सराजके समाजेऽयं विचारः क्रियते महान्॥२२॥

अथाश्वलो याज्ञवल्क्यं जेतुं जल्पेन प्रवृत्तस्तत्र तेनापि तेनैव च्छलादि प्रयोक्तुं युक्तमहृदयवाचामत्दृदया एव प्रतिवाचो भवन्तीति न्यायादतो यथातत्त्वं प्रतिवचनमनुचितं जल्पस्य तत्त्वनिर्णयफलत्वानुपपत्तेस्तत्राऽऽह। प्रवक्तेति। अत्रेति जल्पकथोक्तिः। विचारस्य महत्त्वं तत्त्वनिर्णयफलत्वम्। ज्ञानवतामेवाश्वलादीनां जयादिविवक्षया प्रश्नदर्शनादुत्तरत्र निग्रहोद्भावनाच्च भवत्येषा जल्पकथा साऽपि कदाचिन्महाजनपरिगृहीता

तत्त्वनिर्णयं फलति। उक्तं हि—तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे बीजप्ररोहसंरक्षणार्थं कण्टकशाखावरणवदिति। वात्स्यायनश्चाऽऽह—तानि हि प्रयुज्यमानानि परपक्षविघातेन स्वपक्षं रक्षन्तीति। अन्योऽप्याह—तत्त्वसंरक्षणार्थत्वान्नासदाचार इति। अतो वादवज्जल्पोऽपि कदाचित्तत्त्वनिर्णायक इति भावः॥२२॥

यजमानस्य येयं वाग्घोता चैतद्द्वयं यदा॥
अधिदैवात्मना वेत्ति स होतैवंविधो भवेत्॥२३॥

वाग्वै यज्ञस्येत्यादेरर्थमाह। यजमानस्येति। अध्यात्मं यजमानस्य वागधियज्ञं होता चेति द्वयमग्निरूपेण यदा होता ध्यायति तदा स यजमानस्याऽऽत्मनश्च मृत्युनाशे हेतुः स्यादित्यर्थः॥२३॥

अनन्तविग्रहः सोऽग्निर्होता मृत्योर्यथोदितात्॥
यजमानस्य मुक्तिः स्यादतिमुक्तिस्तथैव च॥२४॥

स मुक्तिरित्याद्यवतारयति। अनन्तेति॥२४॥

आसुरात्साधनाद्दैवप्राप्तिर्मुक्तिरिहोच्यते॥
साध्यादप्यासुराद्दैवसाध्याप्तिरतिमुक्तिता॥२५॥

मुक्तिपदार्थमाह। आसुरादिति। ज्ञानहीनात्केवलात्पापमिश्रिताद्वा पुण्यात्कर्मणः सूत्राद्याप्तिहेतोः समुच्चयस्याऽऽप्तिरत्र मुक्तिरित्यर्थः। अतिमुक्तिशब्दार्थमाह। साध्यादिति। आसुरसाधनफलात्स्वर्गादेर्दैवसाधनफलस्य सूत्रादेराप्तिरत्रातिमुक्तिरित्यर्थः॥२५॥

यथोक्तोपासनादेव कैवल्यं चेद्विवक्ष्यते॥
ब्रह्मविद्या किमर्थेयं नान्यन्मुक्तेः फलं ततः॥२६॥

केचित्तु सूत्रोपास्तेः समुच्चितायाः साक्षान्मुक्तिरित्यस्मिन्नर्थे साऽतिमुक्तिरिति वाक्यं व्याचक्षते तान्प्रत्याह। यथेति। सा कर्मशेषतया तत्फलेति चेन्नेत्याह। नान्यदिति। ततो ब्रह्मविद्यावशादिति यावत्। विद्याकर्मणोः शेषशेषित्वं दूषितमिति भावः॥२६॥

आसुरात्कर्मणो मृत्योरतिमुक्तिरिहोदिता॥
कालात्कर्मातिरेकेण मृत्योर्मुक्तिरिहोच्यते॥२७॥

यदिदमित्याद्युत्तरवाक्यतात्पर्यं वक्तुं वृत्तमनुवदति। आसुरादिति। उत्तरं वाक्यमवतारयति। कालादिति। कर्मणो मुक्तिरुक्ता चेत्कालादपि सोक्तैव तस्य कर्मान्तर्भावेन मृत्युत्वादित्याशङ्क्याऽऽह। कर्मेति॥२७॥

प्रयोगसमवाय्येव द्रव्यकर्त्रादिसाधनम्॥
तत्प्रयोगावसाने च4 सर्वं तदपवृज्यते॥२८॥

तन्निरपेक्षतया कालस्य मृत्युत्वं वक्तुं भूमिकां करोति। प्रयोगेति। तस्य शेषिणो विनाशे स्वरूपेण सतोऽपि कर्त्रादेस्तच्छेषत्वनाशादपवर्गवाचोयुक्तिः॥२८॥

प्रयोगावसितस्तूर्ध्वं कालः प्राक्च प्रयोगतः॥
क्षपयन्वर्ततेऽजस्रं सर्वं तत्कर्मसाधनम्॥२९॥

कालस्य मृत्युत्वमुपपादयति। प्रयोगावसितेरिति॥२९॥

तस्मात्कर्मातिरेकेण कालो मृत्युः प्रतीयताम्॥
ततोऽपि मुक्तिर्वक्तव्येत्यत आरभ्यते परः॥३०॥

तस्य तत्क्षपयितृत्वे फलितमाह। तस्मादिति। तस्य मृत्युत्वे सिद्धे किं जातं तदाह। ततोऽपीति। कर्मदृष्टान्तार्थोऽपिशब्दः॥३०॥

कालश्च द्विविधः प्रोक्त एकोऽहोरात्रलक्षणः॥
तिथ्यादिलक्षणश्चान्यस्ताभ्यां मुक्तिरिहोच्यते॥३१॥

उत्तरग्रन्थस्थप्रश्नयोर्विषयं भेत्तुं कण्डिकाद्वयमादत्ते। कालश्चेति॥३१॥

उपस्थापयतः कर्म तथा क्षपयतो यतः॥
अहोरात्रे ततो मृत्युस्ताभ्यां मुक्तिः कुतो भवेत्॥३२॥

अहोरात्रयोर्मृत्युत्वोक्तिपूर्वकं ताभ्यां मुक्तिहेतुं पृच्छन्नाद्यं प्रश्नं विभजते। उपस्थापयत इति॥३२॥

अध्यात्मं चक्षुरध्वर्युरधियज्ञं द्वयं रविः॥
साक्षादनन्तदेहोऽयमिति ध्यायन्विमुच्यते॥३३॥

परिहारतात्पर्यमाह। अध्यात्ममिति। यजमानस्याध्यात्मं चक्षुरधियज्ञमध्वर्युश्चेत्युभयमनवच्छिन्नः सवितैवेति साक्षाद्ध्यायन्नध्वर्युः स्वयमहोरात्राख्यान्मृत्योर्मुच्यते यजमानं च मोचयतीत्यर्थः॥३३॥

आत्मावयव एवायं सूर्यचक्षुर्ममांशुमान्॥
अध्वर्युरहमेवेति साक्षात्कृत्वा विमुच्यते॥३४॥

चक्षुर्वै यज्ञस्येत्यादेस्तात्पर्यं वदन्नुक्तं व्यनक्ति। आत्मेति। ममाध्वर्योः संबधी योऽयमात्मा यजमानस्तदवयवश्चक्षुरहं चाध्वर्युरित्युभयमंशुमानेवेति साक्षाद्ध्यानं कृत्वा यदाऽध्वर्युस्तिष्ठति तदा यजमानोऽध्वर्युश्चाहोरात्राख्यमृत्योर्मुच्यत इत्यर्थः॥३४॥

कलावृद्धिक्षयाभ्यां तु5 पक्षयोरुभयोस्तथा॥
चन्द्रः कर्तेह तत्प्राप्त्या पक्षाभ्यां विप्रमुच्यते॥३५॥

यदिदं सर्वं पूर्वपक्षेत्यादिप्रश्ने ब्रह्मणर्त्विजा मनसा चन्द्रेणेति माध्यंदिनश्रुत्या तावदु-

त्तरमाह। कलेति। चन्द्रमसि वृद्धिह्रासयोर्भावात्पक्षयोरपि तयोः सत्त्वात्सादृश्यात्स तत्कर्ताऽतश्चन्द्रात्मना ब्रह्मणो मनसश्च ध्यानात्पक्षद्वयात्मकमृत्योर्यजमानो ब्रह्मा च मुच्यत इत्यर्थः॥३५॥

ह्रासवृद्ध्योर्यतः कर्ता वायुश्चन्द्रमसस्ततः॥
वायुनैवोपसंहारः प्राणोद्गात्रोरयं कृतः॥३६॥

उद्गात्रर्त्विजा वायुना प्राणेनेति काण्वश्रुतेस्तात्पर्यमाह। ह्रासेति। सूत्रात्मवायुः स्वावयवस्य चन्द्रमसो वृद्ध्यादौ कारयिता तद्यजमानप्राणस्योद्गातुश्च वाय्वात्मनैवोपसंग्रहः काण्वश्रुतौ कृतोऽतो वाय्वात्मनैवोद्गात्रादेर्ध्यानात्पक्षद्वयात्मकमृत्योरुद्गाता यजमानश्च मुच्यत इत्यर्थः॥३६॥

मनोऽध्यात्मं यदस्याभूद्ब्रह्मा6 चैवाधियज्ञगः॥
तस्याधिदेवता चन्द्र इति माध्यंदिनश्रु7तिः॥३७॥

किमिदं विरुद्धं ध्यानद्वयमनुष्ठेयमित्याशङ्क्य शाखाभेदेनोदितानुदितहोमवद्विकल्पमभिप्रेत्य कलावृद्धिक्षयाभ्यामित्यत्रोक्तं स्मारयन्नाह। मन इति॥३७॥

कर्मतः कालतो मृत्योर्मुक्तोऽयं स्वर्गमेष्यति॥
तं प्रयास्यति केनायमाक्रमेणेति पृच्छ्यते8॥३८॥

यदिदमन्तरिक्षमित्यादिप्रश्नं वृत्तमनूद्यावतारयति। कर्मत इति॥३८॥

स्वर्गलोकगतावत्र साधनं पृच्छ्यते यतः॥
अन्तरिक्षमनाधारं गतौ हेतुनिषेधनम्॥३९॥

आक्रमशब्दार्थं दर्शयन्प्रश्नविषयं विशदयति। स्वर्गेति। तत्र हेतुः। यत इति। अन्तरिक्षमनाधारमिति गतौ हेतोर्निषेधनं यतो भात्यतो गतिसाधनप्रश्नमर्हतीति योजना॥३९॥

न तु देहग्रहे प्रश्नः सति गन्तरि पृच्छ्यते॥
अग्न्यादिदृष्टिभिश्चास्य देहः प्राक्प्रतिपादितः॥४०॥

भर्तृप्रपञ्चास्त्वारम्बणाक्रमणशब्दयोः शरीरविषयत्वमिच्छन्तो देहग्रहविषयमिमं प्रश्नं व्याचक्षते तान्प्रत्याह। न त्विति। तत्र हेतुः। सतीति। गन्तरि सत्येव केनेति पृच्छ्यते न च विना देहं गन्तृत्वमतो गतिबलात्तद्योग्यदेहलाभान्न तद्ग्रहे प्रश्नसिद्धिरित्यर्थः। किंच सोऽग्निरभवदित्यादिना चक्षुरादीनामग्न्यादिदृष्ट्या द्रष्टृर्देहस्योद्गीथब्राह्मणे सिद्धत्वाददेहस्य द्रष्टृत्वायोगान्न तद्ग्रहे प्रश्न इत्याह। अग्न्यादीति॥४०॥

तन्निरपेक्षतया कालस्य मृत्युत्वं वक्तुं भूमिकां करोति। प्रयोगेति। तस्य शेषिणो विनाशे स्वरूपेण सतोऽपि कर्त्रादेस्तच्छेषत्वनाशादपवर्गवाचोयुक्तिः॥२८॥

प्रयोगावसितस्तूर्ध्वं कालः प्राक्च प्रयोगतः॥
क्षपयन्वर्ततेऽजस्रं सर्वं तत्कर्मसाधनम्॥२९॥

कालस्य मृत्युत्वमुपपादयति। प्रयोगावसितेरिति॥२९॥

तस्मात्कर्मातिरेकेण कालो मृत्युः प्रतीयताम्॥
ततोऽपि मुक्तिर्वक्तव्येत्यत आरभ्यते परः॥३०॥

तस्य तत्क्षपयितृत्वे फलितमाह। तस्मादिति। तस्य मृत्युत्वे सिद्धे किं जातं तदाह। ततोऽपीति। कर्मदृष्टान्तार्थोऽपिशब्दः॥३०॥

कालश्च द्विविधः प्रोक्त एकोऽहोरात्रलक्षणः॥
तिथ्यादिलक्षणश्चान्यस्ताभ्यां मुक्तिरिहोच्यते॥३१॥

उत्तरग्रन्थस्थप्रश्नयोर्विषयं भेत्तुं कण्डिकाद्वयमादत्ते। कालश्चेति॥३१॥

उपस्थापयतः कर्म तथा क्षपयतो यतः॥
अहोरात्रे ततो मृत्युस्ताभ्यां मुक्तिः कुतो भवेत्॥३२॥

अहोरात्रयोर्मृत्युत्वोक्तिपूर्वकं ताभ्यां मुक्तिहेतुं पृच्छन्नाद्यं प्रश्नं विभजते। उपस्थापयत इति॥३२॥

अध्यात्मं चक्षुरध्वर्युरधियज्ञं द्वयं रविः॥
साक्षादनन्तदेहोऽयमिति ध्यायन्विमुच्यते॥३३॥

परिहारतात्पर्यमाह। अध्यात्ममिति। यजमानस्याध्यात्मं चक्षुरधियज्ञमध्वर्युश्चेत्युभयमनवच्छिन्नः सवितैवेति साक्षाद्ध्यायन्नध्वर्युः स्वयमहोरात्राख्यान्मृत्योर्मुच्यते यजमानं च मोचयतीत्यर्थः॥३३॥

आत्मावयव एवायं सूर्यचक्षुर्ममांशुमान्॥
अध्वर्युरहमेवेति साक्षात्कृत्वा विमुच्यते॥३४॥

चक्षुर्वै यज्ञस्येत्यादेस्तात्पर्यं वदन्नुक्तं व्यनक्ति। आत्मेति। ममाध्वर्योः संबधी योऽयमात्मा यजमानस्तदवयवश्चक्षुरहं चाध्वर्युरित्युभयमंशुमानेवेति साक्षाद्ध्यानं कृत्वा यदाऽध्वर्युस्तिष्ठति तदा यजमानोऽध्वर्युश्चाहोरात्राख्यमृत्योर्मुच्यत इत्यर्थः॥३४॥

कलावृद्धिक्षयाभ्यां तु5 पक्षयोरुभयोस्तथा॥
चन्द्रः कर्तेह तत्प्राप्त्या पक्षाभ्यां विप्रमुच्यते॥३५॥

यदिदं सर्वं पूर्वपक्षेत्यादिप्रश्ने ब्रह्मणर्त्विजा मनसा चन्द्रेणेति माध्यंदिनश्रुत्या तावदु-

त्तरमाह। कलेति। चन्द्रमसि वृद्धिह्रासयोर्भावात्पक्षयोरपि तयोः सत्त्वात्सादृश्यात्स तत्कर्ताऽतश्चन्द्रात्मना ब्रह्मणो मनसश्च ध्यानात्पक्षद्वयात्मकमृत्योर्यजमानो ब्रह्मा च मुच्यत इत्यर्थः॥३५॥

ह्रासवृद्ध्योर्यतः कर्ता वायुश्चन्द्रमसस्ततः॥
वायुनैवोपसंहारः प्राणोद्गात्रोरयं कृतः॥३६॥

उद्गात्रर्त्विजा वायुना प्राणेनेति काण्वश्रुतेस्तात्पर्यमाह। ह्रासेति। सूत्रात्मवायुः स्वावयवस्य चन्द्रमसो वृद्ध्यादौ कारयिता तद्यजमानप्राणस्योद्गातुश्च वाय्वात्मनैवोपसंग्रहः काण्वश्रुतौ कृतोऽतो वाय्वात्मनैवोद्गात्रादेर्ध्यानात्पक्षद्वयात्मकमृत्योरुद्गाता यजमानश्च मुच्यत इत्यर्थः॥३६॥

मनोऽध्यात्मं यदस्याभूद्ब्रह्मा6 चैवाधियज्ञगः॥
तस्याधिदेवता चन्द्र इति माध्यंदिनश्रु7तिः॥३७॥

किमिदं विरुद्धं ध्यानद्वयमनुष्ठेयमित्याशङ्क्य शाखाभेदेनोदितानुदितहोमवद्विकल्पमभिप्रेत्य कलावृद्धिक्षयाभ्यामित्यत्रोक्तं स्मारयन्नाह। मन इति॥३७॥

कर्मतः कालतो मृत्योर्मुक्तोऽयं स्वर्गमेष्यति॥
तं प्रयास्यति केनायमाक्रमेणेति पृच्छ्यते8॥३८॥

यदिदमन्तरिक्षमित्यादिप्रश्नं वृत्तमनूद्यावतारयति। कर्मत इति॥३८॥

स्वर्गलोकगतावत्र साधनं पृच्छ्यते यतः॥
अन्तरिक्षमनाधारं गतौ हेतुनिषेधनम्॥३९॥

आक्रमशब्दार्थं दर्शयन्प्रश्नविषयं विशदयति। स्वर्गेति। तत्र हेतुः। यत इति। अन्तरिक्षमनाधारमिति गतौ हेतोर्निषेधनं यतो भात्यतो गतिसाधनप्रश्नमर्हतीति योजना॥३९॥

न तु देहग्रहे प्रश्नः सति गन्तरि पृच्छ्यते॥
अग्न्यादिदृष्टिभिश्चास्य देहः प्राक्प्रतिपादितः॥४०॥

भर्तृप्रपञ्चास्त्वारम्बणाक्रमणशब्दयोः शरीरविषयत्वमिच्छन्तो देहग्रहविषयमिमं प्रश्नं व्याचक्षते तान्प्रत्याह। न त्विति। तत्र हेतुः। सतीति। गन्तरि सत्येव केनेति पृच्छ्यते न च विना देहं गन्तृत्वमतो गतिबलात्तद्योग्यदेहलाभान्न तद्ग्रहे प्रश्नसिद्धिरित्यर्थः। किंच सोऽग्निरभवदित्यादिना चक्षुरादीनामग्न्यादिदृष्ट्या द्रष्टृर्देहस्योद्गीथब्राह्मणे सिद्धत्वाददेहस्य द्रष्टृत्वायोगान्न तद्ग्रहे प्रश्न इत्याह। अग्न्यादीति॥४०॥

मनोऽधियज्ञं ब्रह्मैव ब्रह्मा चन्द्रोऽधिदैवतम्॥
चन्द्रेण मनसा लोकमवष्टम्भेन यास्यति॥४१॥

परपक्षं निराकृत्य ब्रह्मणेत्यादिपरिहारतात्पर्यमाह। मन इति। यदध्यात्मं यजमानस्य मनस्तदधियज्ञमृत्विग्ब्रह्मैव स चाधिदैवश्चन्द्रोऽतश्चन्द्रात्मना दृष्टेन मनसा ब्रह्मणाऽवष्टम्भेन ब्रह्मलोकं यजमानो ब्रह्मा च प्राप्स्यतीत्यर्थः॥४१॥

अध्यात्मं प्राण एव स्यादुद्गाता योऽधियज्ञगः॥
स वायुरिति पाठे स्याद्व्याख्या माध्यंदिने त्वियम्॥४२॥

काण्वश्रुत्योत्तरमुक्त्वा माध्यंदिनश्रुत्याऽपि तदाह9अध्यात्ममिति। योऽध्यात्मं यजमानस्य प्राणः सोऽधियज्ञमुद्गाता स्यात्स च वायुरिति दृष्ट्या ब्रह्मलोकप्राप्तिरित्युद्गात्रर्त्विजा वायुना प्राणेनेति माध्यंदिनपाठे व्याख्या शाखाभेदेन च विकल्प इत्यर्थः॥४२॥

यजमानश्रुतेरत्र पूर्वोद्गीथैकवाक्यतः॥
यजमानो जपस्तत्र ज्ञानं नेत्य10वसीयताम्॥४३॥

किमिदमुपास्तिजातं याजमानमार्त्विज्यं वेति वीक्षायामाह। यजमानेति। उद्गीथब्राह्मणे यजमानस्वामिकस्तत्कर्तृकश्च जपो ज्ञानं तु तत्स्वामिकमपि न तत्कर्तृकं किंत्वार्त्विज्यमित्युक्तं तथाऽत्रापि यजमानश्रुतेस्तत्स्वामिकमेव ज्ञानमृत्विक्कर्तृकमित्यवसेयमुद्गीथवाक्येनास्य वाक्यैकवाक्यत्वादित्यर्थः॥४३॥

संभाव्यते न यत्तत्र यजमानस्य मानतः॥
अस्तु कामं तदुद्गातुर्नतु तद्यजमानगम्॥४४॥

स्वसुवर्णादिज्ञानवदुद्गीथादिज्ञानमपि किमित्युद्गातृस्वामिकं न स्यादित्याशङ्क्याऽऽह। संभाव्यत इति। तत्रेत्युपासनान्युक्तानि तेषु यज्ज्ञानं सुवर्णादिविषयं यजमानस्य मानतोऽसंभावितं तदौद्गातृकमेव यत्तु यजमानगतमुद्गीयादिज्ञानं न तदार्त्विज्यमित्यर्थः॥४४॥

इतीत्युक्तपरामर्शो ह्यतिदेशार्थ उच्यते॥
इतोऽन्यत्रातिमोक्षा ये तेऽप्येवमिति वीक्ष्यताम्॥४५॥

प्रकृतज्ञानस्योद्गात्रादिकर्तृत्वं यजमानस्वामिकमित्युक्त्वोत्तरवाक्यस्थेतिशब्दार्थमाह। इतीत्युक्तेति। तत्फलं हिशब्दसूचितमाह। अतिदेशार्थ इति। अतिमोक्षा इत्यस्यार्थं वदन्नतिदेशप्रकारमाह। इतोऽन्यत्रेति। यथा वागादयोऽग्न्याद्यात्मना दृष्टा मृत्योरतिमोक्षहेततस्तथाऽनुक्तास्त्वगादयोऽपि वाय्वादिरूपेण दृष्टास्तद्धेतवो द्रष्टव्या इत्यर्थः॥४५॥

अधिदैवात्मना तेषां दृष्टयः साधनात्मनाम्॥
अतिमोक्षाः स्युः सर्वत्र यथोक्तादेव लक्षणात्11॥४६॥

अतिदेशमेव प्रपञ्चयति। अधिदैवात्मनेति। यथा साधनरूपाणां वागादीनामग्न्यादिदेवतात्मना दृष्टयो मृत्युमतीत्य मोक्षहेतवस्तथा त्वगादिष्वपि सर्वेषु पूर्वोक्तवाय्वादिदेवतात्मत्वदर्शनादतिमोक्षाः स्युरित्यर्थः॥४६॥

फलवत्कर्मणां क्वापि किंचित्सामान्यसंश्रयात्॥
संपत्तिमर्हतां संपदल्पीयःकर्मसूच्यते॥४७॥

उद्गीथोपास्तिशेषं निरूप्य साधनविशेषोक्तिप्रसङ्गेन संपदो निरूपयन्नथेत्यादौ संपत्पदार्थमाह। फलवदिति। महतां फलवतामश्वमेधादिकर्मणां कर्मत्वादिकिंचित्सादृश्यात्क्वाप्यल्पीयःस्वग्निहोत्रादिषु संपत्तिः संपदुच्यते यथाशक्त्यग्निहोत्रादिनिर्वर्तनेनाश्वमेधादीनि निर्वर्त्यन्ते मयेति ध्यानं संपदित्यर्थः॥४७॥

यदि वा तत्फलस्यैव किंचित्सामान्यवर्त्मना॥
संपादनं भवेत्संपदग्निहोत्रादिकर्मणि॥४८॥

फलस्यैव वेति भाष्यार्थमाह। यदि वेति। अत्र तु सामान्यमग्रे स्फुटी भविष्यति॥४८॥

संपदा चेत्फलप्राप्तिरश्वमेधादिकर्मणाम्॥
त्रयाणामपि वर्णानां तत्पाठः फलवान्भवेत्॥४९॥

कर्मणामेव बलवत्त्वं न संपदामतो न संपत्कार्येत्याशङ्क्याऽऽह। संपदेति। विहिताध्ययनस्यार्थज्ञानानुष्ठानादिपरंपरया फलवत्त्वमिष्टं न चाश्वमेधादिषु सर्वेषां त्रैवर्णिकानामनुष्ठानसंभवोऽतस्तेषां तदध्ययनार्थवत्त्वानुपपत्त्या संपदोऽपि फलसिद्धिरेष्टव्येत्यर्थः॥४९॥

नातिभारोऽस्ति नो बुद्धेः शास्त्रं चेत्तत्परं भवेत्॥
विदुषां श्रेयसेऽतोऽध्वा न क्वचित्प्रतिहन्यते॥५०॥

अश्वमेधादिफलस्य महतः संपदा कथमल्पीयस्या प्राप्तिरित्याशङ्क्याऽऽह। नेत्यादिना। संपच्छास्त्रं संपदाऽप्यश्वमेधादिफलाप्तिरित्यत्र तात्पर्यवच्चेत्तदा प्रतिपत्तॄणां शास्त्रार्थप्रतिपत्तौ न मनःखेदो युक्तः शास्त्रस्यानतिशङ्क्यत्वादित्यर्थः। अनुष्ठानसंपदोऽपि फलवत्त्वे फलितमाह। विदुषामिति। क्वचिदिति ब्राह्मणादीनामश्वमेधादिपाठो विवक्षितः॥५०॥

तिसृभिरिति संख्यार्थप्रश्ननिर्णयमब्रवीत्॥
पुरोनुवाक्याद्युक्त्या तु संख्येयार्थविनिर्णयम्॥५१॥

अथेत्यादि व्याख्याय कतिभिरित्यादिप्रश्नस्य कतमा इत्यादिप्रश्नस्य च पौनरुक्त्यं तिसृभिरित्याद्युत्तरस्य पुरोनुवाक्येत्यादेश्च पुनरुक्तिरित्याशङ्क्याऽऽह। तिसृभिरितीति॥५१॥

त्रैलोक्यसंख्यासामान्यात्स्यात्सर्वप्राणभृज्जयः॥
सर्वप्राणभृतां यस्मात्त्रिष्वेवैतेषु संभवः॥५२॥

किं ताभिरिति प्रश्ने यत्किंचेत्यादि प्रतिवचनं तस्यार्थमाह। त्रैलोक्येति। त्रयो लोकास्त्रैलोक्यं तत्र भूरादौ त्रित्वसंख्याऽस्ति पुरोनुवाक्यादौ चातो लोकत्रयस्य तस्य च संख्यासादृश्यात्पुरोनुवाक्यादौ लोकत्रयं संपाद्य सर्वप्राणिजयः स्यादित्यर्थः। फलस्योपास्त्यनुसारितया लोकोपास्त्या तज्जयो युक्तो न सर्वप्राणिजय इत्याशङ्क्य लोकान्तर्भावात्प्राणिनां तज्जयो लोकजयान्नार्थान्तरमित्याह। सर्वेति॥५२॥

उज्ज्वलत्वादिसामान्याद्देवलोकादिसंपदः॥
फलसंपद एवैता नात्र कर्म विवक्ष्यते॥५३॥

कर्मसंपत्फलसंपदिति द्वयी संपदनुक्रान्ता तत्र देवलोकमेवेत्यादौ कीदृशी संपदिष्टेति तत्राऽऽह। उज्ज्वलत्वादीति॥५३॥

दीप्तिर्नादोऽधःशयनमाज्यमांसपयोम्भसाम्॥
देवलोकादिसंपत्स्याद्दीप्तिमत्त्वादिसंभवात्॥५४॥

तत्प्रपञ्चयति। दीप्तिरिति। आज्याहुतीनां दीप्तिर्मांसाद्याहुतीनां नादः पयःसोमाद्याहुतीनामधःशयनं देवपितृमनुष्यलोकेष्वपि दीप्तिमत्त्वादि संभवत्यतो घृताद्याहुतीषु देवलोकसंपन्मांसाद्याहुतीषु पितृलोकसंपत्सोमाद्याहुतीषु मनुष्यलोकसंपदेताः खल्वाहुतयो यदा निर्वर्त्यन्ते तदा लोका निष्पद्यन्त इत्यनुसंधानात्ततो लोकजयः स्यादित्यर्थः॥५४॥

वृत्त्यानन्त्यान्मनोऽनन्तं शब्दादीनामनन्ततः॥
विश्वेदेवान्मनोवृत्तीः संपाद्याऽऽनन्त्यसाम्यतः॥५५॥

अनन्तमेव तेनासौ सम्यग्ज्ञानेन विन्दति॥
लोकं यथोक्तदृष्टिः सन्यजमानः फलं स्वयम्॥५६॥

अनन्तं वै मन इत्यस्यार्थमाह। वृत्तीति। वृत्त्यानन्त्ये हेतुः। शब्दादीनामिति। अनन्ता इत्यादेरर्थमाह। विश्वेदेवानिति। लोकशब्दार्थमाह। फलमिति। यजमानकर्तृकेयं दृष्टिरिति सूचयति। स्वयमिति। न च यजमानशब्दादङ्गावबद्धोपासनमिदमिति वाच्यं मनसः सर्वसाधारण्यादिति भावः॥५५॥ ५६॥

तिस्रः पुरोनुवाक्याद्या ऋचः पूर्वमुदीरिताः॥
यास्ता एवात्र विज्ञेयाः स्तोत्रिया अपि नापराः॥५७॥

स्त्रोत्रियाः स्तोप्यतीत्यत्र स्तोत्रियशब्दार्थमाह। तिस्र इति॥५७॥

गीतयस्त्वधियज्ञं ता अध्यात्मं कास्तु ता इति॥
प्राणापानव्यानरूपा अध्यात्मं ताः प्रचक्षते॥५८॥

कतमास्ता या अध्यात्ममित्यस्यार्थं प्रश्नरूपं प्रकटयति। गीतयस्त्विति। प्राण एवेत्यादेरर्थमाह। प्राणेति॥५८॥

जयो भूरादिलोकानां संख्यादित्वादिसाम्यतः॥
अश्वलोऽप्युपरेमेऽथ स्वोक्तप्रश्नविनिर्णयात्॥५९॥

श्लोकानामादितः समष्ट्यङ्काः—५६८९॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके तृतीयाध्यायस्य
प्रथममश्वलब्राह्मणम्॥१॥

किं ताभिरित्यादेरर्थमाह। जय इति। त्रित्वसाम्यादादित्वमध्यत्वान्त्यत्वसाम्यैश्च भूरादीन्पुरोनुवाक्यादिषु संपाद्य तया संपदा लोकजय इत्यर्थः। ततो हेत्यादेरर्थमाह। अश्वलोऽपीति। अपिस्तदौद्धत्यद्योती। स्वगोचरत्वं याज्ञवल्क्यस्य नास्तीतिज्ञानानन्तर्यमथशब्दार्थः॥५९॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिकटीकायां तृतीयाध्यायस्य प्रथममश्वल-
ब्राह्मणम्॥१॥
————

अथ द्वितीयं ब्राह्मणम्।
———

मृत्योर्मुक्त्यतिमुक्ती द्वे पूर्वस्मिन्ब्राह्मणे गते॥
मृत्युरूपावधृतये परं ब्राह्मणमुच्यते॥१॥

वृत्तं कीर्तयति। मृत्योरिति। ब्रह्मक्षत्रादिपरिच्छेदहेतो रागादिसहितान्मिथ्याज्ञानात्कर्म तस्मादुपायोपेतात्कालाच्च मृत्योर्मुक्तिं व्याकुर्वता त्वमर्थशुद्धिर्विहितेत्यर्थः। आर्तभागब्राह्मणमवतारयति। मृत्युरूपेति॥१॥

किंलक्षणेन ग्रस्तोऽयं मृत्युनेति प्रचोदिते॥
ग्रहातिग्रहरूपेण ग्रस्तोऽयमिति कथ्यते॥२॥

किं तन्मृत्यो रूपं यदवधारयितुमिष्टमित्याशङ्क्याऽऽकाङ्क्षापूर्वकमाह। किमिति॥२॥

अधिभूताधियज्ञादिपरिच्छेदफलात्मकः॥
मोहासङ्गास्पदो मृत्युर्ग्रहातिग्रहलक्षणः॥३॥

ग्रहादिरूपस्यापि मृत्योरसाधारणं रूपं वाक्यमिति चेत्तत्राऽऽह। अधिभूतेति। अध्यात्मादिपरिच्छेदकरः क्रियाकारकफलात्मको मोहनिमित्तरागाद्यवष्टम्भश्चेन्द्रियविषयरूपो यथोक्तो मृत्युरित्यर्थः॥३॥

इतो मुक्तस्य रूपाणि त्वग्न्यादीनि पु12राऽब्रवम्॥
उद्गीथब्राह्मणे पूर्वमश्वलब्राह्मणे तथा॥४॥

उक्तमृत्युग्रहग्रस्तत्वं प्रागेव देवताप्तेरित्याशङ्क्याग्न्यादीनामुत्पत्त्यादिमत्त्वादुक्तमृत्युग्रस्तताऽस्तीति मत्वोक्तं स्मारयति। इत इति। परिच्छेदाभिमानादासङ्गपाप्मरूपान्मृत्योरित्यर्थः। पुरेत्युक्तिमेव व्यनक्ति। उद्गीथेति॥४॥

फलं च ज्ञानयुक्तानां कर्मणामेतदिष्यते॥
उत्पत्त्याद्यन्वयात्तस्मादनित्यं स्याद्घटादिवत्॥५॥

अग्न्यादिभावस्य मृत्युग्रस्तत्वेऽपि समुच्चयफलस्य सूत्रस्य तदग्रस्तत्वात्तत्प्राप्तिरेव मुक्तिरिति व्यर्थः सम्यग्ज्ञानार्थं श्रम इत्याशङ्क्याऽऽह। फलं चेति। यद्धि समुच्चयफलमिष्टमेतच्च घटवदनित्यं जन्मादिमत्त्वात्तस्मान्न सूत्रप्राप्तिर्मुक्तिरित्यर्थः॥५॥

अतो यथोक्तादेतस्मात्साध्यसाधनलक्षणात्॥
संसाराद्बन्धनान्मोक्षः कर्तव्यो ज्ञानहेतुतः13॥६॥

अग्न्यादेस्तदात्मकसूत्रस्य च जगदात्मनो जन्माद्यन्वयान्मृत्युग्रस्तत्वे ज्ञानादज्ञाननिरासेन ततो मुक्तिः कार्येत्येतदर्थमेतद्ब्राह्मणमिति फलितमाह। अत इति॥६॥

ज्ञानकर्मफलं दिव्यं यदि नाम पुरोदितम्॥
ग्रहातिग्रहबन्धेन तथाऽपि सितमेव तत्14॥७॥

समुच्चयफलस्य सूत्रस्य मृत्युव्याप्त्या हेयत्वे हेत्वन्तरमाह। ज्ञानेति॥७॥

वाङ्मनःप्राणरूपाणां त्र्यन्नात्मन्यपि संभवात्॥
ग्रहातिग्रहरूपाणां नातो मुक्तः प्रजापतिः॥८॥

कथं ग्रहादिरूबन्धेन सू15त्रस्य बद्धत्वं तत्राऽऽह। वागिति। सविषयाणां तेषां प्रजापतौ सत्त्वमेवातःशब्दार्थः॥८॥

वागादयो ग्रहा ज्ञाताश्चतुष्ट्वं चाविवक्षितम्॥
अतिमोक्षातिदेशोक्तेस्तद्विशेषोऽथ भण्यते॥९॥

पूर्वब्राह्मणे कालादिरूपान्मृत्योरतिमुक्तिमुक्त्वा तेन ग्रहादिरूपेण मृत्युना सर्वस्य व्याप्तेस्ततो जगदात्मनो ब्रह्मादिस्तम्बान्तादतिमुक्तिर्वाक्यार्थान्वयिपदार्थशुद्धये वाच्येत्येतदर्थमेतद्ब्राह्मणमिति संगतिरुक्ता। संप्रति पदार्थव्याख्यामारभमाणो वाग्वै यज्ञस्येत्यादिना वाक्चक्षुर्घ्रणमनसां ग्रहाणां नामरूपगन्धकामानां चातिग्रहाणां तद्गतचतुष्टयस्य च प्रागेव प्राप्तेः कति ग्रहा इत्यादिप्रश्नस्याष्टावित्यादिप्रतिवचनस्य चानुपपत्तिमाशङ्क्य ग्रहातिग्रहाणां निर्ज्ञातत्वमङ्गी करोति। वागादय इति। तर्हि तद्गतत्वेन चतुष्ट्वसंख्याऽपि

ज्ञातैवेति कथं प्रश्नप्रत्युक्ती तत्राऽऽह। चतुष्ट्वं चेति। पश्वेकत्ववच्चतुष्टयस्यापि विवक्षितत्वमाशङ्क्याऽऽह। अतिमोक्षेति। इत्यतिमोक्षा इति वागादावुक्तन्यायस्य त्वगादावतिदेशाद्ग्रहैकत्ववदविवक्षितं चतुष्ट्वं युक्ता हि पशुना यजेतेत्यत्रोपादेयविशेषणत्वादेकत्वविवक्षा ग्रहं संमार्ष्टीत्यत्र तु ग्रहगतैकत्वं तदवच्छेदकत्वेनाविवक्षितमन्यथा ग्रहत्वैकत्वोद्देशेन संमार्गविधावुद्दिश्यमानयोर्मिथोऽसंबन्धात्प्रत्युद्देश्यं वाक्यसमाप्तौ ग्रहं संमार्ष्टि तं चैकमिति वाक्यभेदः स्यादतो ग्रहैकत्ववदिहापि चतुष्ट्वाविवक्षेति भावः। ननु ज्ञातेषु ग्रहातिग्रहेषु न प्रश्नप्रतिवचने युक्ते तदविश्रान्तेरत आह। तद्विशेष इति। हेत्वर्थोऽथशब्दः। यतः सामान्यतो ज्ञाता ग्रहादयोऽतस्तेषु बुभुत्सितसंख्याविशेषनिरूपणार्थं प्रश्नादीत्यर्थः॥९॥

ग्रहा घ्राणादयो ज्ञेया गन्धाद्यास्तदतिग्रहाः॥
ग्रहैर्गन्धादयो ग्रस्त ग्रहाश्चाऽऽत्मा च गोचरैः॥१०॥

प्राणो वै ग्रह इत्यादेरर्थमाह। ग्रहा इति। ग्रहातिग्रहाणां ग्रहीतुश्च मिथोबद्धत्वमाह। ग्रहैरिति॥१०॥

अपानेनाऽऽहृतो गन्धो घ्राणस्यैति वशं यथा॥
चक्षुरादिग्रहास्तद्वत्प्राणादिसचिवैरिह॥११॥

तदेव दृष्टान्तेन साधयन्नपानेनेत्यादेस्तात्पर्यमाह। अपानेनेति। अपश्वासप्रेरितो गन्धो यथा घ्राणस्य वशे वर्तते तथा रूपाद्यपि तत्तदनुरूपवायुप्रेरितं चक्षुराद्यधीनं तथा चक्षुरादिग्रहाः प्राणादिभिः सह रूपाद्यतिग्रहेषु वशवर्तिनो न च तेषां मिथोबद्धत्वेऽपि गृहीतृबद्धतां विना फलवत्तेति तेनापि ते बद्धा इत्यर्थः॥११॥

गन्धादिविषया धीस्थाः कर्मसंबोधिता यतः॥
प्रयुञ्जते हि घ्राणादींस्तत16स्ते स्युरतिग्रहाः॥१२॥

प्राणादयो यद्यपि गृह्णन्तीति व्युत्पत्त्या भवन्ति ग्रहास्तथाऽपि कथं गन्धादीनामपि ग्रहत्वं तदाह। गन्धादीति। बुद्धौ खल्वनादिवासनारूढा विषयाः शुभेनाशुभेन कर्मणा प्रेरिताः स्वाकारधीसमुल्लासार्थं घ्राणादीन्प्रेरयन्ति तथाच ते ग्रहानतिक्रम्य स्ववशमानयन्तीत्यतिग्रहा इत्यर्थः। विषयाणामिन्द्रियप्रेरकत्वमनुभवसिद्धमिति हिशब्दार्थः॥१२॥

योऽयं मृत्युरिह प्रोक्तो मृत्युस्तस्यापि चापरः॥
अस्ति नास्तीति वा ब्रूहि याज्ञवल्क्य यथातथम्॥१३॥

यदिदं सर्वं मृत्योरित्यादि व्याचष्टे। योऽयमिति॥१३॥

अस्ति चेदनवस्था स्यादनिर्मोक्षो न चेद्भवेत्॥
इति प्रतिवचः कष्टं मत्वैनं पर्यपृच्छत॥१४॥

प्रष्टुरभिप्रायमाह। अस्तीति। प्रश्नं निगमयति। इतीति॥१४॥

न कश्चिन्नियतो भावो मृत्युरित्युपदिश्यते॥
विनाशको यतो मृत्युर्विनाश्यान्प्रति भण्यते॥१५॥

अग्निर्वै मृत्युरिति प्रत्युक्तिरयुक्ता मृत्युशब्दस्य वैवस्वते रूढेरित्याशङ्क्याऽऽह। नेति॥१५॥

मृत्योरपि सतो मृत्युरस्त्येवेति मयोच्यते॥
न चानवस्थेहाऽऽप्नीति सर्वमृत्युत्वकारणात्॥१६॥

मृत्युशब्दस्याश्वकर्णादिवद्रूढ्यभावेऽस्ति तावदित्यादिभाष्यमुपपन्नमित्याह। मृत्योरिति। ग्राह्याद्यात्मकस्य मृत्योः सकारणस्याऽऽत्मैक्यसाक्षात्कारो मृत्युरित्यर्थः। मृत्योरपि मृत्युश्चेदनवस्थेत्युक्तमाशङ्क्याऽऽह। न चेति। आत्मसाक्षात्कारः सर्वं द्वैतं जग्ध्वा निरिन्धनाग्निवद्दाहकान्तरानपेक्षः शाम्यतीति नानवस्थेत्यर्थः॥१६॥

सर्वान्नभक्षणादग्निर्मृत्युस्तावदसावपि॥
अपामन्नं भवन्दृष्टो बह्वीनां तनुविग्रहः॥१७॥

प्रत्युक्तितात्पर्यमुक्त्वा तदक्षराणां यथाश्रुतमर्थमाह। सर्वान्नेति॥१७॥

अग्निर्हिरण्यगर्भो वा ह्यापस्तत्कारणं मताः॥
कार्याणां मारणान्मृत्युः कारणं प्रथितं भुवि॥१८॥

अग्नेरपां मृत्युत्वे कथं ज्ञानस्य मृत्योर्मृत्युत्वमित्याशङ्क्यार्थान्तरमाह। अग्निरिति। अपां हिरण्यगर्भं प्रति कारणत्वमप एव ससर्जाऽऽदौ तासु वीर्यमवासृजदित्यादौ प्रसिद्धमिति हिशब्दार्थः। सूत्राव्याकृतयोर्मृत्युत्वे हेतुमाह। कार्याणामिति। यद्वा भवत्वव्याकृताख्यानामपां सूत्राख्यहिरण्यगर्भं प्रति कारणत्वं तथाऽपि कथं तन्मृत्युत्वमित्याशङ्क्याऽऽह। कार्याणामिति॥१८॥

प्रत्यग्याथात्म्यविज्ञानं मृत्युरज्ञानरूपिणः॥
संसारहेतोर्मृत्योः स्यान्नापीहास्त्यनवस्थितिः॥१९॥

अव्याकृतस्य मृत्युरस्ति चेदनवस्था नास्ति चेदनिर्मुक्तिंरितिचोद्यतादवस्थ्यमाशङ्क्याऽऽह। प्रत्यगिति॥१९॥

निरुणद्धि यथा जन्म तन्नाशमपि तत्तथा॥
प्रत्यग्याथात्म्यविज्ञानं नानवस्थाऽप्यतो भवेत्॥२०॥

यद्यपि ज्ञानमज्ञानं तत्कार्यं स्वात्मानं च निवर्तयति तथाऽपि निवृत्तेरात्मनोऽर्थान्तरत्वान्निवर्तकान्तरापेक्षेति तदवस्थाऽनवस्थेत्याशङ्क्याऽऽह। निरुणद्धीति। तद्विज्ञानं

सर्वजन्मनाशादि सनिदानं बन्धनमात्मतया निवर्तयन्निवृत्तिमपि तन्मात्रमापादयतीति नानवस्थेत्यर्थः॥२०॥

अन्येऽतो मृत्यवो गौणास्तैर्मृतौ स्यात्पुनर्जनिः॥
प्राक्तनान्यपि जन्मानि सम्यग्ज्ञानं तु हन्ति नः॥२१॥

सूत्रमव्याकृतं तत्त्वधीर्यमादयश्चेति मृत्यूनां भेदादेकस्य शब्दस्यानेकार्थत्वमन्याय्यमित्याशङ्क्याऽऽह। अन्य इति। तेषां गौणमृत्युत्वे हेतुमाह। तैरिति। सम्यग्धियो मुख्यमृत्युत्वे युक्तिमाह। प्राक्तनानीति। कालत्रयवर्तिनामपि जन्मनां तन्निदाननिरासेन निरासाद्युक्तं सम्यग्धियो मुख्यमृत्युत्वमित्यर्थः॥२१॥

यथोक्त एव व्याख्याने युक्तेयं स्यात्फलश्रुतिः॥
न तु निःशेषसंसारविध्वंसिन्यात्मबोधने॥२२॥

ज्ञानपदमध्याहृत्य कुतो व्याख्यायतेऽध्याहारप्रापकाभावादित्याशङ्क्याप पुनरित्यादिफलश्रुतिस्तत्प्रापिकेत्याह। यथेति। ज्ञानपदमध्याहृत्य व्याख्यायामेव सा युक्तेत्यत्र हेतुमाह। न त्विति। एवंविधात्मबोधे सति यतो नास्ति मृत्युरतो युक्ता फलश्रुतिरित्यर्थः। यद्वा यथाश्रुतव्याख्याने ज्ञानपदाभावादयुक्तैव फलश्रुतिः स्यादिति पूर्वार्धार्थः। त्वत्पक्षे17 वा कथं तदुपपत्तिरित्याशङ्क्याऽऽह। न त्विति। उक्तात्मबोधेऽध्याहृते फलश्रुतिर्नायुक्ता सति तस्मिन्मृत्य्वन्तराभावादित्यर्थः॥२२॥

समस्तमृत्योस्तमसः सम्यगात्मावबोधनम्॥
मृत्युस्तत्फलविज्ञप्त्यै परो ग्रन्थोऽवतार्यते॥२३॥

यदिदमित्यादि व्याख्याय यत्रायमित्यादेस्तात्पर्यमाह। समस्तेति। यद्यपि सम्यग्ज्ञानस्याप पुनर्मृत्युं जयतीति फलमुक्तं तथाऽपि तद्विशदीकरणार्थमुत्तरं वाक्यमित्यर्थः॥२३॥

सम्यग्ज्ञातात्मयाथात्म्यो यदाऽयं म्रियते पुमान्॥
किमुत्क्रामन्त्यतः प्राणा उताहो नेति भण्यताम्॥२४॥

तत्र प्रश्नाक्षराणि व्याचष्टे। सम्यगिति। यदेति प्रारब्धकर्मावसानदशोच्यते। पुमानेवातःशब्दार्थः॥२४॥

उत्क्रान्तौ स्यादनिर्मोक्षो जन्मार्थं मरणं यतः॥
अमृतिश्चाप्यनुत्क्रान्तौ सत्सु प्राणेषु का मृतिः॥२५॥

प्रष्टुरभिप्रायमाह। उत्क्रान्ताविति। जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य चेति स्मृतेरित्यर्थः। द्वितीये मृतिप्रतीतिविरोधमाह। अमृतिश्चेति॥२५॥

दुःशकोत्तरमित्येवं प्रश्नं मत्वाऽन्वपृ18च्छत॥
आर्तभागो मुनिर्विद्वान्स च नेति तमब्रवीत्॥२६॥

प्रश्नं निगमयति। दुःशकेति। जल्पवृत्तिं सूचयितुं विद्वानिति प्रष्टुर्विशेषणम्। प्रत्युक्तिमवतारयति। स चेति॥२६॥

अकर्त्रात्मपरिज्ञानाद्ध्वस्ताविद्यस्य सर्वतः॥
देहान्तरग्रहाभावात्प्राणोत्क्रान्तेरसंभवः॥२७॥

तस्यास्तात्पर्यमाह। अकर्त्रात्मेति॥२७॥

यदैव19 सम्यग्विज्ञानं जातमस्याऽऽगमोक्तितः॥
प्राणाः सहेतवः सर्वे तदैवास्ता निरन्वयाः॥२८॥

विदुषो हेत्वभावाद्देहान्तरग्रहाभावेऽपि सतां प्राणानामुत्क्रान्त्या भाव्यमित्याशङ्क्याऽऽह। यदेति। हेतवः कामकर्मादयोऽन्वयो मूलकारणमविद्या॥२८॥

नान्वयं सहते प्रत्यङ्न चापि व्यतिरेकताम्॥
कौटस्थ्यैकत्वहेतुभ्यां प्रत्यग्याथात्म्यवस्तुनः॥२९॥

आत्मनो वाक्यीयज्ञानादूर्ध्वं सप्रयोजकानां समूलानां प्राणानां ध्वस्तिश्चेत्प्राक्तैरभेदो भेदो वाऽऽत्मनि स्यादित्याशङ्क्याऽऽह। नेत्यादिना। न तावत्प्रतीचोऽस्ति प्राणैः सहैकत्वं कूटस्थत्वाद्विकारिभिरैक्यायोगान्नापि भिन्नत्वमद्वितीयत्वादतो ध्वंसात्प्रागनिर्वाच्यतैव तेषामित्यर्थः॥२९॥

ध्वस्तध्वान्तस्य विज्ञानादतो हेतुफलात्मनाम्॥
दृशौ स्यात्समवनयः सर्पादीनां यथा स्रजि॥३०॥

अत्रेत्यादेरर्थमाह। ध्वस्तेति। पञ्चम्यौ समानाधिकरणे। समवनयो लयः॥३०॥

न स्वकारणसंसर्गस्तस्य ज्ञानादपह्नुतेः॥
निष्फलं च भवेज्ज्ञानं यदि कारणसंगतिः॥३१॥

स कार्याणां प्राणादीनां स्वकारणे भवतीति कुतो दृशाविति विशेषणमित्याशङ्क्याऽऽह। नेत्यादिना। ज्ञाने सत्यज्ञानस्य ध्वंसान्न तत्र प्राणादिसंसर्गाख्यो लयः संभवतीत्यर्थः। किंच सति ज्ञाने कार्याणां कारणसंसर्गश्चेत्ताद्विनाऽपि तत्संभवाज्ज्ञानवैयर्थ्यमाह। निष्फलं चेति॥३१॥

उत्क्रामन्ति न चेत्प्राणा नायं तर्हि मृतो भवेत्॥
देहस्यैव मृतेर्नैवं जीवो न म्रियते सदा॥३२॥

स उच्छ्वयतीत्यादेर्व्यावर्त्यां शङ्कामाह। उत्क्रामन्तीति। किं जीवमरणेन प्राणो-

क्रान्तिः साध्यते किंवा प्राणानुत्क्रान्त्या जीवमरणप्रसिद्ध्यनुपपत्तिश्चोद्यत नाऽऽद्य इत्याह। देहस्येति॥३२॥

जीवापेतमिति ह्युक्तेर्जन्मादेश्च निषेधतः॥
यत्संबन्धादचित्कोऽपि जीवतीत्यभिधीयते॥३३॥

देहस्तस्य कथं मृत्युर्जीवस्येहोपपद्यते॥
यतोऽतो देहमरणं प्रात्यक्ष्यादुपपद्यते॥३४॥

तत्र श्रुतिं प्रमाणयति। जीवेति। न स्वतो जीवस्य जन्मनाशावित्येतच्चिन्तितं नाऽऽत्माऽश्रुतेरित्यत्रेति वक्तुं हीत्युक्तम्। तत्रैव श्रुतार्थापत्तिमाह। जन्मादेरिति। जीवस्य श्रुतिस्मृत्योरिति शेषः। अमरणे युक्तिं समुच्चिनोति। यदिति। न द्वितीयो जीवस्यामृतेस्तन्मृतिप्रसिद्धेरौपाधिकत्वाच्चराचरव्यपाश्रयस्तु स्यादिति न्यायादित्यभिप्रेत्य प्रकृतवाक्यं प्रत्यक्षसिद्धदेहमरणानुवादकमित्याह। यत इति॥३३॥ ३४॥

प्राणा एव विलीयन्ते किंवाऽन्यदपि कृत्स्नतः॥
प्रयोजकादि निःशेषं म्रियमाणाद्विपश्चितः॥३५॥

किमित्यादेरर्थमाह। प्राणा इति। किमेनमित्यादि स्फोरयति। प्रयोजकादीति। प्रयोजकाः कामादय आदिशब्देन प्रयोज्यराशिरुक्तः॥३५॥

प्राणमात्रविनाशे स्याद्भूयो जन्म प्रयोजकात्॥
सप्रयोजकतन्नाशे मुक्तिरस्योपपद्यते॥३६॥

तत्राऽऽद्ये दोषमाह। प्राणेति। द्वितीयं प्रत्याह। सप्रयोजकेति। तत्र प्राणविशेषणासिद्धिरिति भावः॥३६॥

किमेनं न जहातीति पृष्टो नामेत्यथाब्रवीत्॥
न किंचिन्न जहातीति प्रसिद्धेरिदमुच्यते॥३७॥

प्रत्युक्तिमादत्ते। किमिति। प्रश्नस्य प्रतिवचनप्रवृत्तिहेतुत्वमथशब्दार्थः। तस्यास्तात्पर्यमाह। न किंचिदिति। कथमयमर्थोऽस्मिन्वाक्ये भात्यत आह। प्रसिद्धेरिति॥३७॥

नाममात्रावशेषं तदित्युक्तौ गम्यते यतः॥
न किंचिदवशिष्टं स्यादिति यद्वत्तथेह तत्॥३८॥

तामेव प्रकटयति। नामेति। तत्पुत्रक्षेत्रादि नाममात्रावशेषमिति लौकिकोक्तौ नावशिष्टं किंचिदिति यथा गम्यते तथाऽत्रापि वाक्ये नाममात्रं म्रियमाणं विद्वांसं न जहातीत्युक्ते न किंचिदवशिष्टमिति स्याद्दृष्टिरतो युक्ता प्रत्युक्तिरित्यर्थः॥३८॥

शब्दार्थश्चाऽऽकृतिर्यस्मान्नातो नाम विनश्यति॥
आनन्त्यं नित्यतैवास्य नाम्नो न व्य20क्तिभूरिता॥३९॥

विदुषो नामावशेषे हेतुरनन्तं वै नामेति तस्यार्थमाह। शब्देति। आकृतेः शब्दार्थत्वं तृतीये व्युत्पादितम्। अनन्तशब्दान्नाम्नो व्यक्तिप्राचुर्ये दृश्यमाने कुतो नाम नित्यमित्याशङ्क्याऽऽह। आनन्त्यमिति। व्यक्तिभेदस्य प्रसिद्धत्वान्न तद्वक्तव्यं ब्रह्मविदः स्वदृष्ट्या नामापि न शिष्यते परदृष्ट्या तदवशेषोक्तिः शुको मुक्तो वामदेवो मुक्त इत्यादिदर्शनादतो नामनित्यत्वं व्यावहारिकमिति भावः॥३९॥

मृत्योः प्रयोजकं यत्स्याद्ग्रहातिग्रहरूपिणः॥
तत्स्वरूपावधृतये प्रारब्धैषोत्तरा श्रुतिः॥४०॥

यत्रास्येत्यादेस्तात्पर्यमाह। मृत्योरिति॥४०॥

वैश्वानरवरादत्र केचिदाहुर्महाधियः॥
देहद्वयविमोकेऽपि नैव मुक्तः पुमानिति॥४१॥

किमित्यादिवाक्यस्य व्याख्यामुक्त्वा यत्रेत्यादेस्तात्पर्यं चोक्तमिदानीं भर्तृप्रपञ्चप्रस्थानमुत्थापयति। वैश्वानरेति। अत्र किमेनमित्यादाविति यावत्। किमाहुरित्यपेक्षायां तत्प्रक्रियामाह। देहेति॥४१॥

नाममात्रावशेषोऽसावन्तरालेऽवतिष्ठते॥
परात्मनः परिच्छिन्नोऽविद्ययोषररूपया॥४२॥

समुच्चयानुष्ठानाद्देहयोर्नाशेऽपि पुमान्मुक्तो नेति वदन्ति चेत्तर्हि तस्य बद्धत्वायोगात्कामसौ दशामवलम्बतेऽत आह। नामेति। अन्तरालस्थितिं स्फुटयति। परात्मन इति॥४२॥

उच्छिन्नकामकर्माऽसौ कृत्स्नतत्फलभोगतः॥
उच्छिन्नाशेषबुद्ध्यादिस्तत्कारणपरिक्षयात्॥४३॥

क्षितेरूषरवदवस्थितात्माविद्यया परस्मात्परिच्छिन्नश्चेदात्मा तर्हि बद्ध एव21 स्यादित्याशङ्क्याऽऽह। उच्छिन्नेति। तदुच्छेदोपायमाह। कृत्स्नेति। सर्वस्य कर्मादिफलस्य सूत्रात्मना समुच्चयासादितस्य भोगादप्राप्तार्थाभावात्कामासिद्ध्या कर्माभावात्प्रयोजकराशेरुच्छित्तिरित्यर्थः। तथाऽपि बुद्ध्यादिमत्त्वेन बद्धत्वान्नान्तराले स्थितिरित्याशङ्क्याऽऽह। उच्छिन्नेति। तस्योच्छिन्नत्वे तद्धेतोर्देहद्वयस्य प्रयोजकस्य ध्वस्तत्वं हेतुमाह। तदिति॥४३॥

अद्वैतदर्शनेनास्य द्वैतदृष्ट्यपनुत्तये॥
पर आरभ्यते ग्रन्थो ब्रह्मविद्यावबुद्धये॥४४॥

किमेनमित्यादावान्तरालावस्थस्य विद्याधिकारिणो निर्धारणात्तदपेक्षितपरविद्याशेषत्वेनोत्तरग्रन्थारम्भं संभावयति। अद्वैतेति। तर्हि यत्रोषस्तप्रश्नादौ ब्रह्मविद्योच्यते तस्यैवाऽऽरम्भो युक्तो यत्रास्येत्यादिस्तु वृथेत्याशङ्क्याऽऽह। ब्रह्मेति। फलवद्विद्याप्राप्तिशेषत्वेन निवर्त्यग्रहाद्यात्मकमृत्युप्रयोजकनिर्धारणार्थो यत्रेत्यादिग्रन्थ इत्यर्थः॥४४॥

अत्र यत्प्रतिवक्तव्यं तदुक्तमसकृत्पुरा॥
जिह्रेम्यत्र पुनर्वक्तुं पुनरुक्तगिरा भृशम्॥४५॥

आत्मानमेवेत्यादौ भर्तृप्रपञ्चनिराकरणे यथोक्तार्थस्य निराकृतत्वान्न पुनस्तन्निरासाय प्रयतितव्यमित्याह। अत्रेति॥४५॥

भाष्योपात्तमतो ब्रूमो नानुपात्तं कथंचन॥
पिष्टपेषणवत्सर्वं पूर्वपक्षोक्तिदूषणम्॥४६॥

तर्हि श्रुतिव्याख्यानमेवानुवर्त्यतामित्याशङ्क्य कर्तव्यान्तरमाह। भाष्येति। पूर्वपक्षभूतासु परोक्तिषु दूषणं सर्वं पूर्वमेवोक्तमिति पुनरुच्यमानं पिष्टपिष्टिवद्यतो भवत्यतो भाष्योक्तं दूषणं कथमपि न ब्रूमः किंतु तेनानुक्तं भर्तृप्रपञ्चभाष्योक्तं तैः स्वदोषत्वेनाज्ञातं तद्दूषणमपूर्वं वर्णयाम इत्यर्थः॥४६॥

द्वैतदृष्ट्यैव निःशेषद्वैतकार्यपरिक्षयात्॥
न भूतमात्रोपादाने बीजमस्ति मनागपि॥४७॥

किं तर्हि तदपूर्वं दूषणमित्याशङ्क्य पूर्वपक्षोक्तं वक्तुमुत्तरग्रन्थावतितारयिषया परोक्तां शङ्कामाह। द्वैतेति। समुच्चयानुष्ठानाद्द्वैतकार्यस्य कर्मादेः सर्वस्य ध्वस्तेर्देहारम्भकभूतमात्राणां स्वीकारे न किंचिन्निमित्तमस्ति द्वैतदर्शनेन कृत्स्नद्वैतकार्यमुच्छिन्नं न भूतमात्रोपादाने बीजमिति हि तैरुक्तमित्यर्थः॥४७॥

पुमर्थावसितेः शास्त्रं कृतार्थं विनिवर्तते॥
अद्वैतदर्शनेनातो नास्ति किंचित्प्रयोजनम्॥४८॥

आद्यसमुच्चयफलतया सर्वसंसारध्वंससिद्धेर्निराकाङ्क्षं शास्त्रं नाद्वैतधियं प्रसूते तेनैवापवृक्तः पुरुषः कृतार्थः शास्त्रान्नेदानीमद्वैतदर्शने प्रयोजनमस्तीति हि वदन्तीत्याह। पुमर्थेति॥४८॥

अद्वैतदर्शनार्थाय शास्त्रारम्भोऽत एव च॥
नैवोपपद्यते कृत्स्नपुरुषार्थावसानतः॥४९॥

एवं सत्युत्तरानारम्भफलमाह। अद्वैतेति। शास्त्रं कहोलप्रश्नादि। कृत्याभावोऽतःशब्दार्थः। तमेव स्पष्टयति। कृत्स्नेति। द्वैतदर्शनेनैवेति शेषः॥४९॥

उपपन्नस्तदारम्भो मिथःकार्यपृथक्त्वतः॥
द्वैताद्वैतात्मसंदृष्ट्योर्दन्तोलूखलयोरिव॥५०॥

तदीयं सिद्धान्तमाह। उपपन्न इति। प्रस्तुतशास्त्रविषयस्तच्छब्दः। कार्यभेदे दृष्टान्तः। दन्तेति। न हि दन्तकार्यं चर्वणाद्युलूखलनिर्वर्त्यं नापि तत्कार्यमवघातादीतरोत्पाद्यं तथाऽनयोर्दृष्ट्योरिति युक्तं कार्यपृथक्त्वमित्यर्थः॥५०॥

आसङ्गकार्यमुच्छिन्नं द्वैतदृष्ट्याऽऽत्मनो यतः॥
आसङ्ग एव भूतानामुपादानमिहेष्यते22॥५१॥

द्वैतदृष्टेस्तर्हि किं पृथक्फलमित्याशङ्क्य द्वैतदर्शनेनाऽऽसङ्गकार्यमुच्छिन्नमितिभाष्यार्थमाह। आसङ्गेति। अतः कार्यध्वस्तेस्तद्धेत्वासङ्गस्यापि ध्वस्तिरिति शेषः। तद्ध्वस्तौ फलं वदन्नासङ्ग उपादानं भूतानामित्यस्यार्थमाह। आसङ्ग इति। भूतानां देहारम्भकाणामिति यावत्। उपादानं ग्रहणकारणमित्यर्थः। इहेति स्वपक्षोक्तिः। तथाचाऽऽसङ्गोच्छेदे नास्ति तदुपादानमित्यर्थः॥५१॥

स एष द्वैतदृष्ट्याऽत्र कर्मपक्षो निराकृतः॥
कामश्च वासनाः सर्वा माहारजनपूर्विकाः॥५२॥

स एष कामपक्ष उच्छिन्नः कामश्च कर्मपक्षस्यैवेत्यादिभाष्यादुक्तमेव व्यनक्ति। स एष इति। अत्र प्रतीचीत्येतत्। कामकर्मवासनानां सकार्याणां ध्वस्तिराद्यसमुच्चयफलमित्यर्थः॥५२॥

सर्वं चेद्विनिवृत्तं स्यात्किमन्यदवशिष्यते॥
तत्परिच्छेदि विज्ञानमविद्यैवावशिष्यते॥५३॥

द्वैतदृष्ट्या सर्वं कामाद्युच्छिन्नं चेदद्वैतदृष्टेर्निवर्त्याभावाद्वैफल्यमिति शङ्कते। सर्वं चेदिति। यथाऽऽहुः—विज्ञानात्मनः किमवशिष्यत इति। विज्ञानमवशिष्यत इति भाष्येणोत्तरमाह। तदिति। तस्य जीवस्य परस्मात्परिच्छेदकं ज्ञानमवशिष्टं तदद्वयदृष्टिनिरस्यमित्यर्थः। किं पुनर्विज्ञानं तदाह। अविद्येति॥५३॥

कर्माऽऽरम्भे विकर्त्रेव स्वाश्रयस्य सदेष्यते॥
इयत्ता कारकावस्था परिच्छिज्ज्ञानमेव तु॥५४॥

कर्मादेरविद्यायाश्च कार्यतो भेदाभावमाशङ्क्य कार्यभेदं वदन्नविद्या23कर्मणोरारम्भेऽत्यन्तं हि कर्म विकर्त्रेव केवलमाकारपरिणामावस्थाविशेषेष्वितिभाष्यार्थमाह। कर्मेति। कर्म हि सकामवासनं स्वस्य स्वफलस्य चाऽऽरम्भे स्वाश्रयस्य पुंसः सदैव विक्रियाहेतुरित्यर्थः। विज्ञानं परिच्छेत्रिति भाष्यं व्याचष्टे। इयत्तेति। वस्तुतोऽनवच्छिन्ने चिदात्मनि परिच्छेदमियत्ताशब्दितमारोप्य कर्त्राद्यात्मनाऽवस्थानं कल्प्यते तथाविधपरिच्छेदकारणमज्ञानमेव न कर्मादीत्यर्थः॥५४॥

सैषाऽविद्या परिच्छेत्री ययाऽयं परमात्मनः॥
संसारित्वं परिच्छिन्नो विज्ञानात्मत्वमश्नुते॥५५॥

सैषाऽविद्या परिच्छेदकं विज्ञानमिति भाष्यं व्याकुर्वाणो ज्ञानपदार्थमनूद्य तत्कार्यमाह। सैषेति॥५५॥

निवृत्तो द्वैतविषयाद्यद्यप्येष तथाऽपि तु॥
संसारावस्थ एवायं द्वैतत्वाद्ब्रह्मभेदतः॥५६॥

परिच्छेदकज्ञा24नभावेऽप्याद्यसमुच्चयवशात्पुंसः संसाराद्व्यावृत्तेरद्वैतदृष्टिरनुपयुक्तेत्याशङ्क्य यस्मात्परिच्छिन्नः परमात्मनः पृथग्भूत आस्ते स एष संसारविषयस्थ एव द्वैतात्माऽस्य ब्रह्मणि लयः कर्तव्य इतिभाष्यार्थमाह। निवृत्त इति। संसाराद्व्यावृत्तोऽपि सत्यामविद्यायां तदवस्थ एव ब्रह्मणो विभक्तत्वेन द्वैतावस्थत्वादित्यक्षरार्थः॥५६॥

यतोऽनवसितं वाक्यं पुमर्थानवसानतः॥
प्रवर्तते पुरेवातो ब्रह्मण्यप्ययसिद्धये॥५७॥

तस्य प्रलयः कर्तव्य इत्यनवसितार्थमेव वाक्यं प्रवर्तत आप्रलयादिति भाष्येण फलितमाह। यत इति। आद्यसमुच्चयानुष्ठानात्प्रागिवोर्ध्वमपि जीवस्य ब्रह्मणि लयपर्यन्तं पुमर्थासमाप्तेर्यतो वेदान्तवाक्यं न निराकाङ्क्षमतो ब्रह्मणि तल्लयहेत्वद्वयदृष्ट्यर्थं वाक्यप्रवृत्तिरित्यर्थः॥५७॥

एकवाक्यत्वमेतस्माद्द्वैताद्वैतार्थवाक्ययोः॥
मोहाध्वस्तेर्न चाशेषः पुरुषार्थः समाप्यते॥५८॥

द्वैताद्वैतदृष्ट्योरेकवाक्यत्वमिच्छता कार्यभेदस्तयोरशक्यो वक्तुमित्याशङ्कायामित्येकवाक्यतेत्यस्यार्थमाह। एकवाक्यत्वमिति। एतस्माद्द्वैतदृष्टिफलावस्थस्याद्वैतदृष्टावधिकारादित्यर्थः। तत्फलावस्थस्य कृतार्थत्वं तन्नान्यत्राधिकार इत्याशङ्क्याऽऽह। मोहेति॥५८॥

परिच्छेदं हि यत्कार्यं तदेव विनिवर्तते॥
ध्वान्तोच्छित्तौ विकर्तृत्वं कर्मणस्त्वनुवर्तते॥५९॥

आसङ्गश्च तथैवाऽऽस्ते ते25 एते सङ्गकर्मणी॥
अनिवृत्ते सती भूयोऽविद्यां जनयितुं क्षमे॥६०॥

अविनिर्भागवृत्तित्वात्सर्वदैव परस्परम्॥
न चाविशुद्धे द्वैतार्थे शक्यमद्वैतमीक्षितुम्॥६१॥

ऐक्यदृष्ट्यैवाविद्योच्छेदात्तर्हि सर्वभावापत्तौ नार्थो द्वैतदृष्ट्येत्याशङ्क्याविद्योच्छेदे हि

परिच्छेदकं स्यान्निवृत्तं न तु कर्मणो विकर्तृत्वमासङ्गश्चेत्यस्यार्थमाह। परिच्छेदं हीति। परितश्छेदो यस्य तत्कार्यं तथेति यावत्। कारणनिवृत्तेः का26र्यनिवृत्तिप्रसिद्ध्यर्थो हिशब्दः। अज्ञानतज्जध्वस्त्या ब्रह्मभूतस्य कामकर्मणी कथं चिदवस्थिते अपि न कार्याय पर्याप्ते इत्याशङ्क्य ते आसङ्गकर्मणी अनिवृत्ते पुनर्विज्ञानं प्रयुञ्जीयातां तेषां परस्परेणाविनिर्भागवृत्तित्वादित्यस्यार्थमाह। ते इति। अविनिर्भागवृत्तित्वात्कर्मासङ्गमिथ्याधियां त्रिदण्डविष्टम्भवन्मिथोबद्धत्वादित्यर्थः। कामादिध्वस्त्या भाव्यमन्यथा मुक्त्यनुपपत्तेरित्युक्तं तत्रैव हेत्वन्तरमाह। न चेति। यद्वा विनाऽपि कामादिध्वस्त्या स्यान्मुक्तेऽद्वैतदर्शनादित्याशङ्क्याऽऽह। न चेति। उक्तं हि—न चाशुद्धेऽद्वैतदर्शनं शक्यमिति॥५९॥६०॥६१॥

इत्यादिपूर्वपक्षोक्तिदूषणेष्वभिधास्यते॥
ग्रन्थभूयस्त्वसंत्रासान्नेह कृत्स्नोऽभिधीयते॥६२॥

एवमुक्तायामनुक्तायां च समस्तव्यस्तमैकात्म्यमित्यादिकायां पूर्वपक्षस्वरूपायां भर्तृप्रपञ्चोक्तौ बहुषु दूषणेषु संभवत्स्वत्यल्पमेव तदुच्यते न सर्वं ग्रन्थभूयस्त्वभयादिति सिद्धान्तयति। इत्यादीति॥६२॥

भूरि दूषणमत्रोक्तं श्रुत्या च स्वयमेव च॥
पुरुषो वा इति ह्युक्त्या तथाऽस्मादिति वाक्यतः॥६३॥

यत्तावदाद्यसमुच्चयानुष्ठानाद्द्वैतक्षय इति तत्राऽऽह। भूरीति। कथं श्रुत्या भर्तृप्रपञ्चैश्चास्मिन्पक्षे बहु दूषणमुक्तं तत्राऽऽह27पुरुष इति। पुरुषो वा अक्षितिरस्माद्ध्येवाऽऽत्मनो यद्यत्कामयते तत्तत्सृजत इत्यादिवाक्यैर्द्वैताक्षयवादिभिस्तानि व्याचक्षाणैश्च भर्तृप्रपञ्चैरस्य पक्षस्य निरस्तत्वान्न द्वैतध्वस्तिराद्यसमुच्चितिफलमित्यर्थः। श्रुतिस्वव्याख्याविरोध्यर्थो नाङ्गीकारमर्हतीति हिशब्दार्थः॥६३॥

कारणादक्षरादन्नं पुरुषेणेह कर्मणा॥
अव्याकृतादिभावेन व्रीह्मादित्वाय जन्यते॥६४॥

परपक्षस्य श्रुतिस्वोक्तिविरोधौ प्रपञ्चयितुं श्रौतं जगदक्षयं प्रकटयन्नादौ जन्मप्रकारमाह। कारणादीति। प्रागवस्थायामव्याकृतत्वेन ततो ब्रीहियवादिभावेनोपभोगार्थ व्याकृतत्वेन स्थितमन्नं कूटस्थात्परस्मादज्ञातादुपादानात्कर्मणा निमित्तेन सृज्यते भोक्तुरित्यर्थः। इहेति भोगभूमिग्रहः॥६४॥

तत्रैवं सति यद्येतदद्येतैव हि केवलम्॥
न जन्यतेऽतः क्षीयेत न त्वेतन्नेह जन्यते॥६५॥

सृष्टेऽपीत्थमन्ने तस्य प्रत्यहं भक्ष्यमाणस्य कथमक्षतत्वं तत्राऽऽह। तत्रेति। तस्मिन्नन्ने दर्शितरीत्या सृष्टे सति प्रतिक्षणं भक्षणवत्तस्य सृष्टेरपि सत्त्वादक्षयसिद्धिरित्यर्थः। भोगस्य सर्गाविनाभावद्योती हिशब्दः॥६५॥

नित्यं भुङ्क्ते यथैवान्नमात्मा वाग्देहबुद्धिभिः॥
अक्षीणैः कर्मसंतानैस्तथैव जनयत्यपि॥६६॥

अन्नसृष्टेर्भोगार्थत्वाद्भोगनियमवत्तत्सृष्ट्यनियमात्कुतोऽक्षयत्वमित्याशङ्क्याविनाभावं साधयन्नाह। नित्यमिति॥६६॥

भूतानि क्षीयमाणानि कर्मणा परमात्मनः॥
पुरुषेणेह जन्यन्ते तस्मात्स पुरुषोऽक्षितिः॥६७॥

पुरुषो वा अक्षितिरिति वाक्यमत्र प्रमाणयति। भूतानीति। व्रीह्यादीनि प्रत्यहं भोगेन क्षीयमाणानि भोक्त्रा पुंसा भोगभूमौ परस्मादुपादानात्कर्मणा निमित्तेन यस्माज्जन्यन्ते तस्मादन्नाक्षये पुरुषो हेतुरित्यर्थः॥६७॥

पूर्वकर्मोपभोगो यः पुरुषाणां शुभाशुभः॥
तस्मादासङ्गवैशेष्याद28न्यस्य प्रक्रिया पुनः॥६८॥

अन्नाक्षये हेत्वन्तरमाह। पूर्वेति। जन्मान्तरीयकर्मप्रयुक्तो वर्तमानो भोगः सुखाद्यात्मको जन्तूनामन्यथाकृताभ्यागमादिप्रसङ्गात्तस्मादस्मिन्नपि भोगे सति समानजातीयविषयकामवैचित्र्यादनुष्ठानद्वारा भोगान्तरस्य जन्मेत्यर्थः॥६८॥

तत्रैवं सति सासङ्गाः प्रायेण प्राणिनो यतः॥
अतः कामाशयवशात्सृज्यतेऽन्नं मुहुर्मुहुः॥६९॥

तथाऽपि कथमन्नाक्षयस्तत्राऽऽह। तत्रेति। तस्मिन्भोगे कामवैचित्र्याज्जायमाने सति बाहुल्येनाविदुषां तत्प्राधान्यात्तत्समूहानुसारेण पुनः पुनरन्नस्य सृज्यमानत्वादक्षयसिद्धिरित्यर्थः॥६९॥

क्षीयन्तेऽन्याश्च भोगेन चीयन्तेऽन्याश्च कर्मणा॥
भूतमात्राः प्रदीपस्य संतानेनार्चिषो यथा॥७०॥

कार्यकारणसंघातारम्भकभूतमात्राणां कार्यत्वात्क्षये भोक्तृत्वेन कर्तृत्वेन चेष्टस्य पुंसोऽपि क्षयान्नान्नाक्षय इत्याशङ्क्याऽऽह। क्षीयन्त इति। आरम्भकभूतमात्राणां प्रवाहात्मना सृष्टौ29 दृष्टान्तमाह। प्रदीपस्येति। तस्यार्चिषः संतानेनापचयोपचयवद्भूतमात्राणामपि तौ स्यातां भोक्तश्चाकार्यत्वान्न क्षयाशङ्केत्यर्थः॥७०॥

परस्परात्तृभोज्यत्वसंस्कारोपनिबन्धनम्॥
विज्ञानात्मभिरारब्धं बंभ्रमीत्यखिलं जगत्॥७१॥

जगज्जनको जीवः सृष्टं जगद्भुक्त्वा मुक्तश्चेत्कथं जगदक्षयोऽन्यथा मोक्षशास्त्राप्रामाण्यमित्याशङ्क्याऽऽह। परस्परेति। मिथोभोक्तृभोज्यत्वेन कामकर्मवासनाभिश्च युक्तं जगज्जीवैस्तद्वशादारब्धमतो जीवस्यैकस्य मोक्षेऽपि स्वप्नवदन्येषां स्रष्टृणां सत्त्वादनिशमतिशयेन भ्राम्यति जगदिति तदक्षय इत्यर्थः॥७१॥

विज्ञानात्मा हि यः कश्चित्कर्मणा येन केनचित्॥
साधिभूताधिदैवस्य जगतः सर्गकारणम्॥७२॥

कथमिदं जगज्जीवैरारब्धं सूत्रक्षेत्रज्ञस्यैकस्यैव बुद्ध्यादिशक्तिमतस्तदारम्भकत्वोपगमात्तत्राऽऽह। विज्ञानेति। यः कश्चिन्निकृष्टोऽपीति यावत्। येन केनचिदित्यप्रकृष्टेनापीत्यर्थः। क्षेत्रज्ञमात्रस्य जगत्सर्गकारणत्वं प्रागुक्तमिति वक्तुं हिशब्दः॥७२॥

श्रुत्यैतत्स्वयमेवोक्तं कर्म न क्षीयते यथा॥
दैववागादिसंपत्तिस्तथा त्र्यन्नात्मदर्शिनः॥७३॥

कर्म प्रतिक्षणं क्षीयते तत्कथं तेन तज्जगत्सृष्टमित्याशङ्क्य न हास्येत्यादिश्रुतिमाश्रित्याऽऽह। श्रुत्येति। यथा कर्म न क्षीयते तथा स्वयमेव श्रुत्या तदेतदुक्तमिति संबन्धः। किंच सूत्रे त्र्यन्नात्मन्यहंग्रहोपासकस्य यद्दैवं वागादि जगदात्मकसूत्ररूपं तत्प्राप्तिः पृथिव्यै चैनमित्यादिनोच्यते सा च न क्षीयतेऽथैनमेते दैवाः प्राणा अमृता आविशन्तीति श्रुतेरतो जगदक्षयसिद्धिरित्याह। दैवेति॥७३॥

इदं तत्तदिदं चेति त्रिषु कालेषु नित्यताम्30
प्राहास्य विद्यमानस्य विक्रियामात्रमेव तु॥७४॥

तद्भेदं तर्हीति व्याकृताव्याकृतसामानाधिकरण्यश्रुतिरपि जगदक्षयसाधिकेत्याह। इदमिति। प्रागपि जगतः सत्त्वे कथं तज्जगज्जन्मोक्तिस्तत्राऽऽह। विद्यमानस्येति। विक्रियाऽभिव्यक्तिः। असतो नोत्पत्तिरिति वक्तुं तुशब्दः॥७४॥

यद्यत्कामयते चास्मादविद्याकामकर्मणाम्॥
ब्रह्मण्यवस्थितस्यापि त्वक्षयत्वं श्रुतिर्जगौ॥७५॥

अस्माद्ध्येवाऽऽत्मनो यद्यदित्यादिश्रुतिरपि जगदक्षये मानमित्याह। यद्यदिति। अस्मादात्मनो यद्यत्कामयते तत्तत्सृजत इति श्रुतिश्च ब्रह्मण्यवस्थितस्याप्यविद्यादीनामक्षयत्वं जगाविति संबन्धः॥७५॥

कृत्स्नप्राप्त्या क्षयो नातो विद्यते कामकर्मणोः॥
प्रमाणासंभवात्तस्मादसमीचीनमुच्यते॥७६॥

तदक्षये सिद्धे समुच्चयेन सूत्राप्त्या न कामादिध्वस्तिरिति फलितमाह। कृत्स्नेति

सूत्राप्त्या कामादिक्षये मानाभावादाद्यसमुच्चितिफलत्वेन देहद्वयध्वंसादिवचोऽयुक्तमित्युपसंहरति। प्रमाणेति॥७६॥

व्यक्ततायाः क्षयो यस्तु कारणात्मतया श्रुतः॥
तादृक्क्षयः सुषुप्तेऽपि नैवास्माभिर्निवार्यते॥७७॥

ननु जगदक्षयो नोपपद्यते तस्य कार्यतया स्वकारणे क्षयस्य यत्प्रयन्त्यभिसंविशन्तीति श्रुतत्वादत आह। व्यक्तताया इति। कारणे कार्यक्षयस्य स्वापेऽपि सिद्धेस्तदर्थं समुच्चयानु31ष्ठानं व्यर्थमित्यर्थः॥७७॥

प्रत्यक्तत्त्वपरिज्ञानजन्मैव ध्वंसहेतुताम्॥
द्वैतस्यैति पुमर्थश्च नातोऽन्यत्किंचिदिष्यते॥७८॥

कथं तर्हि त्वत्पक्षे द्वैतक्षयद्वारा मोक्षस्तत्राऽऽह। प्रत्यगिति। द्वैतध्वंसस्य धीकृतत्वेऽपि ब्रह्माप्तेः कर्मसाध्यतेत्याशङ्क्याऽऽह। पुमर्थश्चेति। न हि साक्षान्मोक्षसाधनं ज्ञानादन्यदस्ति कर्मणस्तद्द्वारा तत्रान्वयादित्यर्थः॥७८॥

तमेतमिति च तथा सर्वेषामपि कर्मणाम्॥
प्रत्यग्ज्ञानसमुत्पत्तौ विनियोगः प्रदर्शितः॥७९॥

तस्य प्रणाड्या मोक्षान्वये मानमाह। तमिति। तथा प्राणाडिकान्वयानुरोधेनेति यावत्॥७९॥

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः॥
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे॥८०॥

अथ विविदिषावाक्यं ज्ञानसहकारितया कर्मणः साक्षान्मोक्षान्वयमाह मैवं श्रुत्यन्तरविरोधादित्याह। भिद्यत इति॥८०॥

भोगक्षयेण काम्यानां निषिद्धानां च कर्मणाम्॥
क्षय आरब्धकार्याणां ज्ञानिनोऽपि, न बोधतः॥८१॥

ज्ञानात्कर्मणः क्षयश्चेदारब्धकार्याणामपि तेषां क्षयाज्जीवन्मुक्त्यनुपपत्तेः श्रुतिस्मृतिविरोध इत्याशङ्क्य भोगेन त्वितरे क्षपयित्वा संपद्यत इति न्यायेनाऽऽह। भोगेति॥८१॥

आभवादर्जितानां तु सर्वेषामपि कर्मणाम्॥
क्षयोऽनारब्धकार्याणां सम्यग्ज्ञानप्रसूतितः॥८२॥

कर्मान्तरस्यापि तद्वज्ज्ञाना32निवर्त्यत्वाज्ज्ञानवैयर्थ्यमित्याशङ्क्यानारब्धकार्ये एव तु पूर्वे तदवधेरिति न्यायेनाऽऽह। आभवादिति। वर्तमानदेहग्रहात्प्रागिति यावत्॥८२॥

ज्ञानोत्पत्तौ क्षये मानं कर्मणां विद्यते यथा॥
कृत्स्नप्राप्त्या क्षये मानं न तथा किंचिदिष्यते॥८३॥

ज्ञानात्कर्मक्षयबत्सूत्राप्त्याऽपि तत्क्षये का क्षतिस्तत्राऽऽह। ज्ञानोत्पत्ताविति॥८३॥

परिच्छेत्री न चाविद्या तमोरूपा हि सा यतः॥
आच्छादिकाऽतः सा युक्ता समस्तव्यस्तरूपिणः॥८४॥

आद्यसमुच्चयेन सूत्राप्त्या कर्मादिक्षयो निरस्तो, यत्त्वविद्या जीवस्य परस्मात्परिच्छेत्रीति तत्राग्रहोऽन्यथाग्रहो वाऽविद्येति विकल्प्याऽऽद्यं दूषयति। परिच्छेत्रीति। आच्छादकत्वस्य बाह्ये तमसि प्रसिद्धत्वादिति हिशब्दार्थः॥८४॥

न चापि मिथ्याविज्ञानं परिच्छेदकमिष्यते॥
परिच्छिनत्ति किं व्योम नीलज्ञानं मनागपि॥८५॥

द्वितीयं निराह। न चेति। विमतं न परिच्छेदकं मिथ्याज्ञानत्वात्संमतवदित्यर्थः॥८५॥

सतो हि व्यञ्जकं मानं, न तु तत्कुम्भकारवत्॥
मेयवस्त्वनुरोधित्वात्परि33च्छेदकता धियः॥८६॥

मिथ्याज्ञानत्वेऽपि परिच्छेदकत्वे तत्त्वहानिः सम्यग्धीवदित्याह। सतो हीति। तस्य प्रातिभासिकार्थव्यञ्जकत्वेऽपि न बाधितार्थव्यञ्जकतेति वक्तुं हीत्युच्यते। तस्य व्यञ्जकत्वं व्यनक्ति। न त्विति। किंच विमतं न परिच्छेदकं मेयाननु34रोधित्वान्नभोनैल्यधीवदित्याह। मेयेति॥८६॥

यथावस्त्वनुरोधित्वमज्ञानस्यापि चेन्मतम्॥
मुक्ते मे सदा मुक्तिर्बन्धो वा स्याद्विपर्यये॥८७॥

हेत्वसिद्धिं शङ्कते। यथेति। किं तस्य मेयं सदा मुक्तं बद्धं वा नाऽऽद्यः सदा मुक्तेर्बन्धाभावाच्छास्त्रानारम्भप्रसङ्गान्नेतरः सदाबन्धादमुक्तेरुक्तदोषात्तन्नासिद्धो हेतुरित्याह। मुक्त इति। न च तस्याऽऽगन्तुकौ बन्धमोक्षौ बन्धस्य वस्तुत्वे तदध्वस्तेर्मोक्षायोगादवस्तुत्वे तद्ध्वस्तेर्ज्ञानाधीनतया ज्ञानध्रौव्ये तदेव वस्त्वनुरोधीति भावः॥८७॥

नाऽऽत्माऽनान्मीयकार्यस्य स्यादुपादानकारणम्॥
अतादात्म्यान्न हि घटं जनयन्तीह तन्तवः॥८८॥

किंच त्वन्मते जगदुपादानं ब्रह्माविद्या वा नाऽऽद्य इत्याह। नाऽऽत्मेति। अतादात्म्याज्जाड्याजाड्येन विरुद्धतया तादात्म्यायोगादित्यर्थः। विनाऽपि तादात्म्यं कार्यकारणता चेत्तन्तुघटयोरपि सा स्यादित्याह। न हीति॥८८॥

परात्मनः स्वतोऽविद्या बहिष्ठे कामकर्मणी॥
आगते नत्वविद्याया भवतैवैतदुच्यते॥८९॥

द्वितीये स्वाभ्युपगमविरोधमाह। परात्मन इति। क्षितेरूषरवदविद्या परस्मात्स्वतो जायते कामकर्मणी तु सवासने पूर्वपूर्वकामादिवशादुत्तरोत्तरे प्रतीच्युत्पद्येते नाविद्याकृते इत्येतद्भर्तृप्रपञ्चैरेवोच्यतेऽतोऽविद्या कामकर्माविद्यात्मकजगदुपादानमित्येतत्स्वोक्तिविरुद्धमित्यर्थः॥८९॥

न चाप्यविद्यामसतीं शक्नुतः कामकर्मणी॥
तदकारणतः कर्तुं मृत्स्नेभाश्वादिकं यथा॥९०॥

यत्तु कामकर्मणी स्थिते चेज्जनयतो नष्टामप्यविद्यामिति तत्राऽऽह। न चेति। असतीमिति हेतूक्तिः। अविद्यानुत्पत्तौ हेत्वन्तरमाह। तदिति। यथा संस्कृता मृत्कृत्रिमं हस्त्यादि जनयति न तथाऽविद्यां कामकर्मणी तस्या हेतुराहित्यादात्मवदित्यर्थः॥९०॥

न चात्यन्तासतो जन्म कुर्याल्लोकेऽपि कारणम्॥
नर्ते धरां सुवृष्ट्याऽपि पद्मिनीसंभवोऽम्बरात्॥९१॥

कामकर्मणोस्तद्धेतुत्वासंभवे हेत्वसिद्धिमाशङ्क्याऽऽह। न चेति। सदपि कारणं नाविद्यां जनयति तस्या नष्टायाः सर्वथाऽसत्त्वान्न हि लोके कारणमसज्जनकं दृष्टमित्यर्थः। कारणमसतो न जनकमित्यत्र दृष्टान्तमाह। नर्त इति॥९१॥

ब्रह्मैव चेदविद्याया जन्मनः कारणं मतम्॥
तस्मिन्सति समुच्छित्तिरविद्यायाः कथं भवेत्॥९२॥

अथ पृथिवीव पद्मिन्या ब्रह्मैवोपादानमविद्यायाः कामादि वृष्टिवन्निमित्तं तत्कथं तस्या हेतुराहित्यमिति शङ्कते। ब्रह्मेति। तर्हि सति ब्रह्मण्यविद्याया नाऽऽत्यन्तिकी हानिरित्यमुक्तिरित्याह। तस्मिन्निति॥९२॥

आत्यन्तिकी समुच्छित्तिः स्याच्चेन्मोहस्य कारणे॥
सत्येव नश्वरस्यास्य स्वतः किं साधनैर्वद॥९३॥

विपक्षमनुभाष्य दोषमाह। आत्यन्तिकीति। सत्येव हेतौ मोहस्यात्यन्तोच्छेदे तस्य स्वतो नाशशीलतया नाशकापेक्षानुपपत्तेः सहेतुसंसारनाशोद्देशेनोपायानुष्ठानवैयर्थ्य स्यादित्यर्थः॥९३॥

न चेत्ते शक्नुतोऽविद्यां रक्षितुं कामकर्मणी॥
विद्यमानां विनष्टां तु कर्तुं ते शक्नुतः कथम्॥९४॥

ब्रह्मणोऽविद्योपादानत्वं निरस्य कामादेस्तन्निमित्तत्वनिरासे हेत्वन्तरमाह। न चेदिति॥९४॥

कामकर्मादिहानेऽपि यद्यविद्याऽवशिष्यते॥
नेतीति वचसो व्याख्या तथा सति विरुध्यते॥९५॥

यत्त्वाद्यसमुच्चयात्कामादिध्वस्तावपि नाविद्याध्वस्तिरिति तदनुवदति। कामेति। आद्यसमुच्चयफलं कामादिध्वस्तिः कारणसंसर्गो वा निरन्वयनाशो वा नाऽऽद्यः स्वापेऽपि तद्योगा35दुपायानुष्ठानवैयर्थ्यान्नेतरः सत्यामविद्यायां तदयोगान्न च मा भूदात्यन्तिकी कामादिध्वस्तिर्भवद्व्याख्याविरोधादित्यभिप्रेत्याऽऽह। नेतीत्यादिना॥९५॥

नेतीति प्रथमः शब्दो मूर्तामूर्तनिषेधकृत्॥
द्वितीयो नेति यः सोऽथ भावनाप्रतिषेधकृत्॥९६॥

विरोधं वक्तुं तदीयं व्याख्यानमनुभाषते। नेति। मूर्तादिराशिनिषेधे भावनाराशेरेव निषेध्यत्वेनावशेषादित्यथशब्दार्थः॥९६॥

भावनादिविशेषेषु यच्छान्तेष्ववशिष्यते॥
निष्कलं तत्परं ब्रह्म नेति नेत्युपदिश्यते36॥९७॥

पदार्थमुक्त्वा वाक्यार्थमाह। भावनेति। तथाच कामादेरात्यन्तिकध्वंसाभावे मूर्तामूर्तब्राह्मणे परेषामादेशव्याख्याविरोध इति भावः॥९७॥

ज्ञातं ब्रह्म यथावच्च न चापागात्ततस्तमः॥
इत्येतदविरुद्धं स्यात्प्रसादाज्जातवेदसः॥९८॥

आदेशवाक्योत्थज्ञानात्कामादेरात्यन्तिकध्वंसेऽप्यविद्यावशेषात्तद्ध्वस्तये परमात्मोपासनं कार्यमित्याशङ्क्याऽऽह। ज्ञातमिति॥९८॥

द्वैतार्थस्य विशुद्धिश्च कीदृश्यत्र विवक्षिता॥
अद्वैतानभिसंबन्धो नाशो वा मलशुद्धिवत्॥९९॥

न चाविशुद्धे द्वैतार्थे शक्यमद्वैतमीक्षितुमित्यत्र द्वैतार्थविशुद्धिं विकल्पयति। द्वैतेति। अत्रेति भर्तृप्रपञ्चभाष्योक्तिः॥९९॥

समस्तव्यस्तसंदृष्टौ नाद्वैताद्द्वैतता पृथक्॥१००॥

तयोरैकात्म्यतो युक्ता नापि तन्नाश इष्यते॥
नष्टे द्वैतेऽखिले न स्यात्समस्तव्यस्तदर्शनम्॥१०१॥

द्वैतस्याद्वैतायोगः शुद्धिरित्याद्यं दूषयति। समस्तेति। एकं वस्तु समस्तव्यस्तात्मकमित्यस्मिन्मते द्वैतमद्वैतान्नात्यन्तमर्थान्तरं तयोर्मिथः संसृष्टत्वादतो नानभिसंबन्धसिद्धिरित्यर्थः। मलशुद्धिवद्द्वैतस्य नाशः शुद्धिरिति द्वितीयं निरस्यति। नापीति। अनङ्गीकारे हेतुः। नष्ट इति॥१००॥१०१॥

शीतोष्णयोरिव कथं परस्परविरोधिनोः॥
एकत्र समवायः स्यात्समस्तव्यस्तधर्मयोः॥१०२॥

एकं तत्त्वं समस्तव्यस्तमित्यङ्गीकृत्य द्वैतशुद्धिरद्वैतधीहेतुत्वेनेष्टा प्रत्यादिष्टा संप्रत्येकस्य समस्तव्यस्तत्वमेवायुक्तमित्याह। शीतेति॥१०२॥

अपूर्वादिषु जीवत्सु श्रुतिवाक्येषु शक्यते॥
नेश्वरेणापि निर्वक्तुं समस्तव्यस्तताऽऽत्मनः॥१०३॥

श्रुतिविरोधाच्च नैकस्य समस्तव्यस्ततेत्याह। अपूर्वादिष्विति॥१०३॥

न च कुम्भादिवद्दृष्टिरात्मनोऽव्यतिरेकतः॥
अनात्मत्वप्रसक्तिः स्याद्द्रष्टृदृश्यमभेदतः॥१०४॥

किंचाऽऽत्मनः समस्तव्यस्तत्वे प्रत्यक्षमागमोऽनुमानादिर्वा मानं नाऽऽद्य इत्याह। न चेति। कुम्भादेः सामान्यविशेषाभ्यां नानात्वेन दृष्टिवन्नाऽऽत्मनो दृष्टिस्तस्य सर्वस्य प्रत्यक्त्वेनाव्यतिरेकात्प्रतीचो निष्कृष्टस्य निःस्वरूपत्वात्तन्न तस्मिन्नेकरसे नानात्वग्राहि प्रत्यक्षमस्तीत्यर्थः। द्रष्टृदृश्यभेदस्येष्टत्वादात्मनो नैकरस्यमित्याशङ्क्याऽऽह। अनात्मत्वेति॥१०४॥

नो चेत्समस्तदृष्ट्यै37व व्यस्तदृ38ष्टिः समाप्यते॥
आत्मनीति श्रुतेर्वाक्यमप्रमाणं प्रसज्यते॥१०५॥

आगमस्त्वात्मनो न समस्तव्यस्तत्वबोधी प्रत्युत विरोधीति द्वितीयं निराह। नो चेदिति॥१०५॥

येनाश्रुतं श्रुतमिति कस्मिन्न्विति तथा वचः॥
इत्यादि सुविरुद्धं स्यान्न चापीहापरा मितिः॥१०६॥

न केवलं समस्तव्यस्तदर्शने बृहदारण्यकविरोधः किंतु च्छान्दोग्याथर्वणविरोधोऽपीत्याह। येनेति। आदिशब्देनैकरस्यवादिश्रुतिजातं गृह्यते। विरुद्धं समस्तव्यस्तदर्शनमिति शेषः। तृतीयं प्रत्याह। न चेति। न हि तस्य समस्तव्यस्तत्वे प्रमितिरनुमानाद्या युक्ता तद्व्याप्तलिङ्गाद्यभावादित्यर्थः॥१०६॥

समस्तव्यस्तसंदृष्टौ न किंचिदपि दृश्यते॥
पूर्णाज्ञानैकहेतुत्वाद्रज्जुसर्पादिदृष्टिवत्॥१०७॥

परमते मानाभावमुपसंहरति। समस्तेति। किंचिदपि मानमिति शेषः। मानमूलत्वाभावे परमतस्याखण्डवस्त्वज्ञानप्रयुक्तत्वात्तदधीनभ्रान्तिमूलत्वंफलमित्याह। पूर्णेति॥१०७॥

अणून्प्रत्येकशः सर्वान्स गृह्णीयादयत्नतः॥
द्वैतभेदानिमान्सर्वानेकैकस्य न39 वेत्ति यः॥१०८॥

किंचाऽऽत्मनो नानात्वं ज्ञेयत्वेन ध्येयत्वेन वोच्यते नाऽऽद्योऽसर्वज्ञस्य सर्वद्वैतभेदविषयज्ञानस्यातिप्रसङ्गित्वेनायोगादित्याह। अणूनिति॥१०८॥

सर्वेष्वपि च दृष्टेषु द्वैतभेदेषु केनचित्॥
आनन्त्यं ब्रह्मता चास्य दुर्घटा स्यात्तथा सति॥१०९॥

द्वितीयं प्रत्याह। सर्वेष्विति। तद्ध्यानं हि तज्ज्ञानवतो भवति न च व्यस्तभागः सामस्त्येन शक्यो ज्ञातुमसर्वज्ञेनेत्युक्तम्। अस्तु वा समस्तस्यापि व्यस्तभागस्य धीस्तथाऽपि केनचिदेकेनाऽऽत्मना द्वैतभेदेषु सर्वेष्वनुसंहितेषु नाऽऽनन्त्यं वस्तुनः स्याद्वस्तुनः प40रिच्छेदात्तथाचायुक्ता ब्रह्मता निरतिशयमहतो ब्रह्मत्वात्तन्नोपास्यत्वेनापि समस्तव्यस्तताऽऽत्मनोऽस्तीत्यर्थः॥१०९॥

द्रव्यदृष्ट्या समीक्ष्यन्ते धर्मा नीलादयो यथा॥
आत्मदृष्ट्या तथेक्ष्यन्ते नानात्मानो विरोधतः॥११०॥

पक्षद्वयायोगे हेत्वन्तरमाह। द्रव्येति। यथा नीलादेरुत्पलादेस्तद्दृष्ट्योश्चाविरोधादुत्पलादिदृष्ट्या तदात्मानो नीलादयो दृश्यन्ते नैवमात्मदृष्ट्या तादात्म्येनानात्मानो द्रष्टुं शक्यन्ते तयोस्तद्दृष्ट्योश्च मिथो विरोधादित्यर्थः॥११०॥

तथाचेहाऽऽगमवचः पराञ्चीति विरुद्धताम्॥
आत्मानात्मार्थसंदृष्ट्योः स्फुटं नः प्रत्यपीपदत्॥१११॥

विरोधं श्रुत्या साधयति। तथाचेति। इहेति काठकोक्तिः॥१११॥

आत्मा वा अर इत्युक्तौ नैवानात्मेक्षणे विधिः॥
अनूद्यैव यथाप्राप्तमात्मदृष्टिर्विधीयते॥११२॥

द्रष्टव्यवाक्ये समस्तव्यस्तदृष्टिरात्मनो विधीयते तथाच विधिश्रुतेस्तस्य ज्ञेयत्वेन ध्येयत्वेन वा नानात्वमेष्टव्यमित्याशङ्क्याऽऽह। आत्मेति। अत्र विधिस्तावन्निरस्तस्तदुपगमेऽपि नानात्मदृष्टौ सोऽस्तीत्यर्थः। अनेन तर्हि किं विधीयते तत्राऽऽह। अनूद्येति। इदं ब्रह्मेत्यादिना लोकसिद्धं द्वैतमनूद्य यदयमात्मेति तस्यातिरेकेणाभावमुक्त्वाऽऽत्मनो दर्शनार्हत्वमत्रोच्यत इत्यर्थः॥११२॥

यत्र यत्र विधिर्दृष्टस्तत्र तत्राऽऽत्मकर्मकः॥
कृत्स्नानात्मानुवादेन प्रत्यग्दृष्टिर्विधीयते॥११३॥

ऐतदात्म्यमित्यादौ समस्तव्यस्तदृष्टौ विधिरस्तीत्याशङ्क्याऽऽह। यत्रेति। आत्म-

विषयो बोधनप्रकारो यत्र यत्राऽऽम्नायदेशे वर्तते तत्र तत्र सर्वानात्मानुवादेन प्रत्यङ्मात्रधीरेव श्रवणादिद्वारोत्पाद्यते नानात्मदृष्टौ विधिरस्तीत्यर्थः॥११३॥

साध्यसाधनसंबन्धविज्ञानं नान्यतः श्रुतेः॥
तदन्येषु पदार्थेषु प्रत्यक्षादिप्रमाणतः॥११४॥

प्रत्यग्दृष्टिर्विधीयत इत्युक्त्वा कर्मवाक्यवद्ब्रह्मवाक्यस्यापि नियोगपरत्वमिष्टमित्याशङ्क्य दृष्टान्तं विघटयति। साध्येति। कर्मवाक्यमपि न नियोगपरं तस्मिन्नप्रसिद्धे लिङ्ङादेः संबन्धाग्रहात्साध्यसाधनसंबन्धज्ञानं तु श्रुतेरन्यतोऽप्राप्तमिति तदेव वाक्याधीनमित्यर्थः। साध्यसाधनसंबन्धधियोऽध्यक्षाद्यधीनत्वात्कथमन्यतोऽप्राप्तिरिति तत्राऽऽह। तदन्येष्विति। संबन्धातिरिक्तयागादिस्वरूपमेवाध्यक्षादिमेयं तदनुवादेन तद्गतं साधनत्वाद्यागमैकगम्यमतो न मानान्तरकृता संबन्धधीस्तद्वदनात्मानुवादेनाऽऽत्ममात्रं बोध्यते ब्रह्मवाक्येनेति भावः॥११४॥

सर्वमानातिवर्त्यात्मप्रतिपत्तौ ततः श्रुतिः॥
निमित्तत्वेन सन्मानं सुषुप्तोत्थापकोक्ति41वत्॥११५॥

आत्मनोऽपि सर्वमानाविषयत्वान्नियोगवत्तत्र संगतिग्रहायोगात्कुतः शास्त्रार्थतेत्याशङ्क्य विशिष्टे दृष्टसंगतिः शब्दो लक्षणया निर्विशेषमात्मानं बोधयतीति स्थितेर्मैवमित्याह। सर्वेति। प्रतिपत्तौ श्रुतिर्मानमिति संबन्धः। शास्त्रीयधियः स्वप्रकाशे प्रतीच्यफलवत्त्वात्कथं तत्र तत्प्रामाण्यमित्याशङ्क्याऽऽह। तत इति। श्रुतिश्चोत्पन्नज्ञानादज्ञाननिवृत्तिनिमित्तत्वेन सद्रूपे वस्तुनि भवति मानमित्यर्थः। निवर्तकत्वेन वाक्यप्रामाण्ये दृष्टान्तमाह। सुषुप्तेति॥११५॥

मन्त्राम्नायोऽप्युपन्यस्तो यथेह न विरुध्यते॥
तथोदर्के प्रवक्ष्यामः सर्वं भद्रं ततोऽस्त्विदम्११६॥

समस्तव्यस्तदर्शनमप्रमाणमप्रयोजनं चेत्युक्तमिदानीं विद्यां चेत्यादिमन्त्राम्नायो भिन्नकार्ययोरेकार्थयोर्ज्ञानकर्मणोः समुच्चयेन विनियोगमाहेति परोक्तं प्रत्याह। मन्त्रेति। इहेत्येकरसवस्तुपक्षोक्तिः। समुच्चयानुपपत्त्या वस्तुनो नानात्वायोगात्तदेकरसं तज्ज्ञानादेव कैवल्यमिति स्वमतस्य साधुत्वमुपसंहरति। सर्वमिति॥११६॥

परापरत्वभेदेन द्वे विद्ये समुदीरिते॥
विद्याविद्ये इहोच्येते तमोवस्त्ववसानतः॥११७॥

विद्यां चेत्यादिमन्त्रार्थं वक्ष्यमाणमपि बुद्धिसौकर्यार्थमत्र संक्षिप्याऽऽह। परेति। द्वे विद्ये वेदितव्ये परा चैवापरा चैत्यत्र ये द्वे विद्याविद्ये परापरत्वभेदेनोक्ते ते विद्यां

चाविद्यां चेत्यत्र विद्याविद्याशब्दाभ्यां ज्ञानकर्मवाचिभ्यामुच्येते कर्मणस्तमोवसानत्वादविद्याशब्दार्हत्वाज्ज्ञानस्य वस्त्ववसानत्वाद्विद्याशब्दयोग्यत्वादित्यर्थः॥११७॥

तपो विद्या च विप्रस्य निःश्रेयसकरं परम्॥
तपसा कल्मषं हन्ति विद्ययाऽमृतमश्नुते॥११८॥

विद्यां चाविद्यां चेत्यस्यार्थमुक्त्वा मनुवाक्योक्त्या सहशब्दार्थमुत्तरार्धार्थं च दर्शयति। तप इति। ज्ञानकर्मणोरुपायोपेयभावेन समुच्चयः सहार्थः स पूर्वार्धार्थः। कर्मणा ज्ञानप्रतिबन्धकपापहानिस्ततश्च परिपक्वविद्यया स निर्वाणमाप्नोतीति मन्त्रोत्तरार्धार्थः। एतदेवोक्तं तपसेति॥११८॥

ध्वस्ताध्यात्मादिसंभेदः प्रत्यङ्मोहैकमात्रभाक्॥
द्रष्टव्य इत्यादिविधौ प्रवर्तेत जडः कथम्॥११९॥

वक्ष्यमाणो मन्त्रार्थः श्रुतिस्मृतिभ्यां संक्षिप्तः। यत्त्वन्तरालावस्थस्याऽऽत्मदृष्टिविधावधिकार इति तत्राऽऽह। ध्वस्तेति॥११९॥

इत्यादि पूर्वमेवोक्तं दूषणं दूषितात्मनाम्॥
आत्मानमेवेत्यत्रैव न भूयोऽत्राभिधीयते॥१२०॥

आत्मानमेवेत्यत्र परमतस्य प्रत्युक्तत्वात्पुनरुक्तिरित्याशङ्क्याऽऽह। इत्यादीति। दूषितात्मनां दूषितः समस्तव्यस्ततया नानारसत्वेनाऽऽत्मा यैस्तेषामिति यावत्। कलुषितधियामिति वा। इहोक्तं दोषजातमितिना परामृष्टं तत्तत्र नोक्तं यत्तु तत्रैव तेषां दूषणमादिपदोपात्तमुक्तं तदत्र नोच्यते तन्न पौनरुक्त्यमित्यर्थः॥१२०॥

सुविस्पष्टार्थतो भाष्यं टीकां नैव व्यपेक्षते॥
तस्माद्भाष्याक्षरैरेव शेषोऽर्थोऽत्र प्रतीयताम्॥ १२१॥

परमतनिरासेन तद्भाष्यस्थानि दूषणानि स्वदोषत्वेन तैरज्ञातान्युद्भावितान्यधुना तत्र वक्तव्यमित्यादिभाष्यव्याख्याप्रसक्तावाह। सुविस्पष्टेति। शेषार्थः शिष्टं दूषणमिति यावत्। अत्रेति भर्तृप्रपञ्चपक्षनिरासोक्तिः॥१२१॥

ग्रहातिग्रहरूपं तत्प्रयुक्तं केन बन्धनम्॥
प्रयोजकावधृतये याज्ञवल्क्येत्युवाच ह॥१२२॥

विचारं परिसमाप्य श्रुतिव्याख्यामनुसंदधानो यत्रेत्याद्याकाङ्क्षापूर्वकमवतारयति। ग्रहेति। प्रयोजकावधारणस्याऽऽवश्यकत्वद्योती निपातः॥१२२॥

कर्माश्रयत्वतो लिङ्गादविद्वानिह गृह्यते॥
प्रकृताया विभक्तेश्च विभक्त्यन्तरसंश्रयात्॥१२३॥

तत्र पुरुषशब्देन विद्वानुक्तोऽनन्तरवाक्ये तत्संनिधेरित्याशङ्क्य लिङ्गेन बाध्यः संनिधिरित्याह। कर्मेति। यद्यपि कर्माश्रयत्वमस्य वक्ष्यते तच्च लिङ्गं संनिधेर्बलीयस्तथाऽ-

प्यस्येति सर्वनामश्रुतेः संनिहिते विदुषि पुरुषशब्दः स्थास्यतीत्याशङ्क्यायमित्यस्येति च विभक्तिभेदान्न सर्वनामश्रुतिः संनिहितार्था यदाग्नेय इतिवत्प्रसिद्धाविद्वद्विषयैवेत्याशयेनाऽऽह। प्रकृताया इति॥१२३॥

यत्रास्याविदुषः पुंसो मृतस्याऽऽयुष्परिक्षयात्॥
स्वयोनिं वाक्समप्येति वातं प्राणोऽनुगच्छति॥१२४॥

पुरुषशब्दार्थमुक्त्वा यत्रेत्यादि योजयति। यत्रेति। तस्मिन्काले क्वायं पुरुषो भवतीत्युत्तरत्र संबन्धः॥१२४॥

अग्न्यादिदेवतांशा ये भोगार्थं कर्मणाऽर्जिताः॥
वागादिशब्दैरुच्यन्ते त एवात्र न पौरुषाः॥१२५॥

अविदुषो वागादिलयाभावाद्वाङ्मनसि दर्शनादित्यादिन्यायात्तस्य चात्र श्रुतेर्विद्वानेव पुरुषस्तदीयकलाविलयस्य गताः कलाः पञ्चदशेत्यादावुक्तेरित्याशङ्क्याऽऽह। अग्न्यादीति। पुरुषेण भोक्त्राऽधिष्ठिताः करणात्मानो भावा वागादिशब्दा न भवन्तीत्येवकारार्थमाह। नेति॥१२५॥

पुंसः कर्मक्षये स्वांशान्संहरन्ति यथायथम्॥
अग्न्यादिदेवताः सोऽयमुपसंहार उच्यते॥१२६॥

अग्न्याद्यंशा वागादिशब्दैरुच्यन्तां तेषामपि भोगार्थं कर्मार्जितानां42 तदर्थे कर्माणि सन्ति कथमप्ययः को वा तदप्ययकर्ता कश्चांशानामंश्यभिन्नानामप्ययस्तत्राऽऽह। पुंस इति॥१२६॥

पुंसो देहग्रहे भूयो देहस्थानेषु देवताः॥
अंशं निदधति स्वं स्वं कर्मभोगप्रसिद्धये॥१२७॥

वर्तमानदेहपाते देवतांशानामुपसंहारश्चेद्देहान्तरग्रहे करणान्यधिष्ठातृदेवताशून्यानि भोगसाधनानि न स्युरित्याशङ्क्याऽऽह। पुंस इति॥१२७॥

हृद्याकाश इहाऽऽमेति स्यादाकाशाप्ययत्वतः॥
प्रश्नस्य विषयत्वेन विज्ञानात्मोपयोगतः॥१२८॥

वागादिशब्दार्थमुक्त्वाऽऽकाशमात्मेत्यत्राऽऽत्मशब्दार्थमाह। हृदीति। मुख्यमात्मानं हित्वाऽऽत्मशब्देन हार्दाकाशग्रहे हेतुमाह। आकाशेति। आत्मनो भूताकाशे लयश्रुतेर्मुख्यस्य चातत्प्रकृतित्वेन तदयोगादित्यर्थः। किंच क्वायमितिप्रश्नविषयत्वेनोपयोगादात्मनो न तस्यात्राऽऽत्मशब्दतेत्याह। प्रश्नस्येति॥१२८॥

अधिष्ठातृवियुक्तानि न्यस्तदात्रोपमानि हि॥
वागादिकरणानीति नालं पुंभोगसिद्धये॥१२९॥

स्थूलदेहविगमेऽपि मोक्षादर्वाग्जीवस्य लिङ्गाश्रयत्वात्क्वायमितिप्रश्नानुपपत्तिरित्याशङ्क्याऽऽह। अधिष्ठात्रिति। यद्यपि जीवो लिङ्गमाश्रितस्तथाऽपि स्थूलदेहाभावे तदधिष्ठातृहीनं न भोगदमिति सतोऽपि तस्यासत्समत्वाद्भोगहेत्वाश्रयप्रश्नो युक्त इत्यर्थः। चेतनस्याधिष्ठातुः सत्त्वेऽपि स्थूलदेहं विना लिङ्गस्य भोगौपयिकत्वं नास्तीति हिशब्दार्थः॥१२९॥

विदेहदेवतः क्वायं भवत्येष पुमानिति॥
आश्रयं केति पुंसोऽसावप्राक्षीन्मुनिसत्तमम्॥१३०॥43

प्रश्नवाक्यमवतार्य व्याकरोति। विदेहेति। अयमित्यस्य व्याख्यानमेष इति॥१३०॥

किं कारणात्मतामेति किंवा केनचिदात्मना॥
अवतिष्ठत एवायं किंवा कर्मैव संश्रितः॥१३१॥

गुणान्वा यदि वेशानं कालं वा दैवमेव वा॥
यदृच्छां संततिं शून्यं विनाशं वेति भण्यताम्॥१३२॥

प्रश्नमेव प्रपञ्चयति44किमित्यादिना। स्थूलदेहं हित्वा स्थितो जीवः साभासप्रत्यगविद्यालक्षणकारणरूपतामेति जीवस्यापि कार्यत्वमिच्छन्तः स्वयूथ्या वदन्ति त्यक्ते स्थूले देहे प्रतिबन्धकाभावादसाधारणेन स्वेन रूपेणैव स तिष्ठतीत्येक एष संप्रसादोऽस्माच्छरीरादित्यादिश्रुतेरित्यर्थः। मीमांसकसांख्यतार्किकमतान्याह। किंवेतिज्योतिर्विदां प्रक्रियामाह। कालं वेतिदेवताकाण्डाभिप्रायमाह। दैवमिति। लोकायतयोगाचारमाध्यमिकमतान्याह। यदृच्छामित्यादिना। प्राक्सतो जीवस्य ध्वंसो विनाशस्तं स यातीति जीवकार्यत्ववादिनो मतान्तरमाह। विनाशमिति। उक्ताधिकरणेषु विवक्षितं वाच्यमिति प्रश्नं निगमयति। इति भण्यतामिति॥१३१॥१३२॥

प्रश्नेन भावितस्तुष्टः पाणिमस्याग्रहीदृषिः॥
अन्यासाधारणं प्रश्नमप्राक्षीदिति विस्मितः॥१३३॥

आहरेत्यादेरर्थमाह। प्रश्नेनेति। भावितो वशीकृत इति यावत्। तुष्टत्वं पाणिग्रहणे हेतुमुक्त्वा हेत्वन्तरमाह। अन्येति॥१३३॥

असाधारण्यसिद्ध्यर्थमावामेवेत्यतोऽवदत्॥
विद्यागुप्तिश्च बहुशः श्रुतावपि समीक्ष्यते॥१३४॥

आवामित्यादेस्तात्पर्यमाह। असाधारण्येति। प्रश्नप्रत्युक्त्यर्थज्ञानस्य प्रष्टृप्रतिवक्तृमात्रनिष्ठत्वार्थमिति यावत्। अतः पाणिग्रहानन्तरमित्यर्थः। किमर्थं ज्ञानस्यासाधारण्यं न हि तद्गोप्यं मानाभावादत आह। विद्येति। “विद्या ह वै ब्राह्मणमाजगाम तवाह-

मस्मि त्वं मां पालयस्वानर्हते मानिने नैव माऽदाः। गोपाय मा श्रेयसी तेऽहमस्मि विद्यया सार्धं म्रियेत न विद्यामूषरे वपेत45। ब्रह्मचारी धनदायी मेधावी श्रोत्रियः प्रियो विद्यया वा वि46द्यां यः प्राह तानि तीर्थानि षण्मम” इति श्रुतिः॥

“आचार्यपुत्रः शुश्रूषुर्ज्ञानदो धार्मिकः शुचिः।
शक्तोऽर्थदोऽर्थी स्वः साधुरध्याप्यादेशधर्मतः॥

विद्ययैव समं कामं मर्तव्यं ब्रह्मवादिना।
आपद्यपि च घोरायां न त्वेनामीरिणे वपेत्॥

विद्या ब्राह्मणमेत्याऽऽह शेवधिस्तेऽभिरक्ष माम्।
असूयकाय मा मा दास्तथा स्यां वीर्यवत्तमा”॥

इति स्मृतिरप्यर्थः॥१३४॥

आवयोरेव विज्ञानं यथेदं प्रागभूदितः॥
आवामेव तथैवोर्ध्वं वेदिष्यावो यथोदितम्॥१३५॥

आवामित्यादिवाक्याक्षराणि योजयति। आवयोरिति। इदं विज्ञानमिति प्रयोजकगोचरमुच्यते। एतस्य प्रयोजकविज्ञानस्य यथोदितं स्वरूपमित्यर्थः॥१३१॥

सजने प्रश्न एतस्मिन्ख्याप्यमाने त्वयोदिते॥
न सिध्येदावयोरुक्तं प्रयोजनमिदं ध्रुवम्॥१३६॥

न नावित्यादेस्तात्पर्यमाह। सजन इति। नानाजनसमूहसहितेऽस्मिन्देशे त्वत्प्रश्ने व्याख्यायमाने बन्धनिबन्धनं ज्ञानं नाऽऽवयोरसाधारणं स्यादिति सजनान्निर्गन्तव्यमित्यर्थः॥१३६॥

न त्वन्योक्तिपरित्रासाद्याज्ञवल्क्योऽब्रवीदिदम्॥
जल्पे वाद्यतिरेकेण नान्यो वक्ति यतस्ततः॥१३७॥

प्रयोजकज्ञानस्यासाधारण्यार्थं न ततो निर्गमनं किंत्वन्येऽपि मध्ये प्रक्ष्यन्ति तथाचाशक्यो निर्णयः स्यादिति भयादित्याशङ्क्याऽऽह। न त्विति। इदमिति प्रकृतवाक्योक्तिः। अन्यप्रश्नप्रयुक्तत्रासाभावे हेतुमाह। जल्प इति। विजिगीषुस्तत्राधिक्रियते। यथाऽऽह—विजिगीषुणा सह जल्पवितण्ड इति। तथाच तदीयशक्तिनिर्णयपर्यन्तं नान्यप्रवृत्तिरित्यर्थः॥१३७॥

परिशिष्टानपि प्रश्नानुत्क्रम्य व्याकरोदसौ॥
सजनादिति नातः स्यादन्योक्तिभयकारणम्॥१३८॥

सजनान्निर्गमनं नान्योक्तिभयादित्यत्र हेत्वन्तरमाह। परिशिष्टानिति। सजनाद्दे-

शादुत्क्रम्य निर्गत्याऽऽर्तभागप्रश्नं व्याकरोदृषिरिति यत्तन्नान्योक्तिभयकारणं यतस्तमेव देशमेत्य47 शिष्टान्भुज्युप्रभृतिप्रश्नानस्मै व्याकृतवानतो भयाद्बहिरगतेः प्रयोजकज्ञानासाधारण्यार्थमेव गमनमिष्टमन्यथा तस्माद्देशादुत्क्रम्य परिशिष्टानपि प्रश्नान्न व्याकरिष्यन्न चैवं व्याकरोति च तस्मान्नान्योक्तिभयकृतं गमनमित्यर्थः॥१३८॥

साध्वेतदिति संभाव्य सजनादुत्ससर्पतुः48
याज्ञवल्क्यार्तभागौ तावुत्क्रम्य च49 जजल्पतुः॥१३९॥

तौ हेत्यादेरर्थमाह। साध्विति॥१३९॥

सजनात्तावथोत्क्रम्य मिथस्तत्र यदूचतुः॥
तत्सर्वं श्रुतिराचख्यावस्मत्प्रियचिकीर्षया॥१४०॥

तौ ह यदित्यादेरर्थमाह। सजनादिति। श्रोतॄणामनुजिघृक्षानन्तर्यमथशब्दार्थः। तत्रेत्येकान्तदेशोक्तिः। न हि तौ होत्क्रम्येत्यादि प्रष्टुर्वक्तुर्वा वाक्यं50 किंतु श्रुतेः श्रोत्रनुग्रहार्थमित्यर्थः॥१४०॥

कर्मादिपरतन्त्रत्वात्स्वाश्रयो नायमिष्यते॥
संसारभूमिवर्तित्वान्न चाऽऽत्मा कारणाश्रयः॥१४१॥

स्वमतशुद्ध्यर्थं केनचिदात्मनेत्यादिपक्षं दूषयति। कर्मादीति। यत्तु कारणात्मतामेतीति तत्राऽऽह। संसारेति। भोगभूमिष्ठत्वेन भोक्तृत्वादित्यर्थः॥१४१॥

अचित्कत्वात्प्रधानादि पुंसो न स्थानमिष्यते॥
न कर्म तत्फलं वेत्ति न च कस्यैति51 संगतिम्॥१४२॥

यत्तु गुणान्वा कालं वा दैवमेव वेति तत्राऽऽह। अचित्कत्वादिति। न हि जडं स्वातन्त्र्येण भोक्तुर्भोगायतनमित्यर्थः। यदपि कर्मैव संश्रित इति तत्राऽऽह। न कर्मेति। किंच कस्येदं फलमिति फलफलिसंबन्धमपि कर्म न बुध्यतेऽतो न तदाश्रयो भोक्तुरित्याह। न चेति। यद्वा कर्मफलवेत्ता हिरण्यगर्भो भोक्तुराश्रय इत्याशङ्क्याऽऽह। न चेति। विदेहदेवतो जीवः सूत्रमाश्रित्य देहान्तरमाप्नोतीत्यत्र मानाभावादिति भावः॥१४२॥

न चेश्वरे स्थितिस्तस्य शास्त्रानारम्भसक्तितः॥
कृतनाशाकृतप्राप्ती प्राप्नुतो नुस्तथा सति॥१४३॥

यत्तु यदि वेशानमिति तत्राऽऽह। न चेति। ईशस्य बन्धप्रयोजकत्वे स्वर्गापवर्गयोस्तदधीनत्वात्तस्य च स्वातन्त्र्यादनुपयोगिशास्त्रमनारभ्यं स्यादित्यर्थः। तत्रैव दोषा-

न्तरमाह। कृतेति। भोक्तुरीश्वराश्रयत्वे सति तद्वशादेव भोगसिद्धेर्दोषद्वयं दुर्वारभित्यर्थः॥१४३॥

दैवाधिष्ठित एवायं कर्मकालवशानुगः॥

प्रवर्ततां चेत्पुरुषो नैवमप्युपपद्यते॥
जडत्वादिति पूर्वोक्तो दोषोऽत्रापि च विद्यते॥१४४॥

ईशाधिष्ठितो भोक्ता कालकर्माश्रयः संस52रत्यतो न कृतहानादीति शङ्कते। दैवेति। केवलयोर्वा सदैवयोस्तयोराश्रयत्वमीशप्रधानयोर्वेति विकल्प्याऽऽद्यं दूषयति। नैवमिति। अग्न्यादिदेवतानां चैतन्येऽपि स्वातन्त्र्याभावात्तद्युक्तस्य कालादेर्न भोक्त्राश्रयत्वमित्यर्थः॥१४४॥

सदेवताकं पूर्वोक्तं समर्थमिति चेन्मम्॥१४५॥

प्रवृत्तिरवृत्तिर्वा देवतैश्वर्यतः सदा॥
नियमे त्वसद्भावान्न स्यान्नैयमिकी स्थितिः॥१४६॥

द्वितीयमनुभाषते। सदेवताकमिति। कालकर्माख्यद्वयमग्न्यादिदेवतासहितमीशप्रधानं पुंस्प्रवृत्तौ शक्तमित्यर्थः। अतिप्रसक्त्योत्तरमाह। प्रवृत्तिरिति। ईशो देवताशब्दार्थः। कदाचित्प्रवृत्तिः कदाचिन्निवृत्तिरिति व्यवस्था तत्स्वातन्त्र्येऽपि किं न स्यादत आह। नियम इति॥१४५॥१४६॥

न चापि केवलं कर्म पुंसः स्यादाश्रयो यतः॥
अचेतनत्वानित्यत्वदोषदुष्टं पुरोदितम्॥१४७॥

मा भूदीशप्रधानं कर्मादि प्रयोजकं केवलं तु स्यादित्याशङ्क्य न कर्मेत्यत्रोक्तं स्मारयति। न चेति॥१४७॥

मयाऽयमनुयातव्यः कर्ता चायं ममाभवत्॥
कालादिविषयं ज्ञानं ध्वंसिनः कर्मणः कुतः॥१४८॥

न च कस्ये53त्यादिनोक्तं हेत्वन्तरं स्फोरयति। मयेति॥१४८॥

यत एवमतः सर्वे कालदैवेश्वरादयः॥
कर्मप्रधानाः पुंसः स्यादाश्रयोऽयमनुत्तमः॥१४९॥

एकैकस्य समुदितस्य च प्रयोजकत्वायोगे कथं तन्निर्धारणमित्याशङ्क्य स्वमतमाह। यत इति॥१४९॥

हठो यदृच्छा नियतिः कारणत्वेन नाऽऽश्रिताः॥
संततौ चानवस्थानान्नाऽऽश्रयत्वं प्रमाणतः॥१५०॥

यदृच्छासंततिशून्यपक्षेष्वदूषितेषु कथं स्वपक्षसिद्धिरित्याशङ्क्य यदृच्छापक्षं प्रत्याह। हठ इति। एते शब्दाः स्वभाववाचिनः स च न प्रवर्तको नियतहेतूपादानानर्थक्यादित्यर्थः। योगाचारं प्रत्याह। संततौ चेति। न हि ज्ञानसंतानो बन्धप्रयोजको मानाभावात्तस्यावस्तुत्वेन च स्थित्ययोगादित्यर्थः॥१५०॥

न कर्म पूर्वस्कन्धेषु नष्टत्वादुपपद्यते॥
न चेह परिणामः स्यादुत्तरस्कन्धसंगतौ॥१५१॥

संतानोऽपि ज्ञा54नस्कन्धो वस्तुत्वात्कर्मद्वारा प्रयोजकः स्यादिति चेत्तत्र कर्म साश्रयं निराश्रयं वा प्रथमेऽपि क्षणिकस्कन्धाश्रयं तदितरस्थिराश्रयं वाऽऽद्ये पूर्वोत्तरत्वेन वर्तमानस्कन्धमध्ये पूर्वस्कन्धेषु कर्मोत्तरस्कन्धेषु वेति विकल्प्याऽऽद्यं दूषयति। न कर्मेति। न हि वर्तमानं कर्म देहत्यागात्पूर्वभाविषु स्कन्धेषु सिध्यति तेषां नष्टत्वादाश्रयत्वायोगादित्यर्थः। द्वितीयं प्रत्याह। न चेति। उत्तरस्कन्धेष्वाश्रितत्वेन कर्मणः संगतौ वर्तमानक्षणे तस्य नोत्पत्तिः स्यान्निराश्रयकर्मोत्पत्त्ययोगात्तदैवाऽऽश्रयसत्त्वे च क्षणिकताक्षतिरित्यर्थः॥१५१॥

अनिष्ठितं न कर्मापि फलायालं भवेत्क्वचित्॥
न चैकत्रैकदा स्थानं विरोधाज्जन्मनाशयोः॥१५२॥

निराश्रयत्वपक्षं निराह। अनिष्ठितमिति। क्वचिदनाश्रितं कर्मैव न सिध्यति नित्यपारतन्त्र्यस्वाभाव्यात्सिध्यदपि न फलवत्स्यादित्यर्थः। विज्ञानस्कन्धानां क्षणिकत्वमाश्रित्य कर्माश्रयत्वायोगमुक्त्वा क्षणिकत्वमेवायुक्तमित्याह। न चेति। तथाच क्षणभेदेन जन्मनाशयोरेकत्रावस्थानावश्यंभावात्तदाश्रयस्य क्षणद्व55यसंबन्धान्न विवक्षितक्षणिकत्वसिद्धिरित्यर्थः॥१५२॥

न च स्कन्धातिरेकेण स्थिरः कश्चिदपीष्यते॥
भोगमोक्षाभिसंबन्धी यं प्रत्येतत्प्रवर्तते॥१५३॥

क्षणिकस्कन्धाश्रयमनाश्रयं वा कर्मेति पक्षौ प्रतिक्षिप्य पक्षान्तरं प्रत्याह56न चेति। एतदिति कर्मोक्तिः क्षणभङ्गभङ्गेनापराद्धान्तादिति भावः॥१५३॥

अनारम्भश्च शून्येऽपि यथाऽयमुपलभ्यते॥
मितेश्चासंभवाच्छून्यं सर्वथा नोपपद्यते॥१५४॥

शून्यनाशपक्षौ दूषयति। अनारम्भश्चेति। शून्ये नाशे वा प्रयोजके शास्त्रारम्भो न युक्तः कृत्याभावादित्यर्थः। दोषान्तरमाह। यथेति। यथाऽयं प्रपञ्चो दृश्यते न तथा शून्यं जीवनाशश्च न चोभयत्र मानान्तरमस्तीति जीवनाशधीस्त्वौपाधिकी व्याख्याता

तन्न शून्यनाशौ प्रयोजकावित्यर्थः। शून्यग्रहणं जीवनाशोपलक्षणम्। सर्वथा प्रमाणतो युक्तितश्चेत्यर्थः॥१५४॥

यत एवमतो न्याय्यं कर्मैवास्य समाश्रयः॥
संसारभूमौ पुंसः स्यात्कालादेस्तत्प्रधानतः॥१५५॥

बाह्यपक्षान्प्रतिक्षिप्य स्वपक्षमुपसंहरति। यत इति। क्रियापदादुपरिष्टादितिशब्दमध्यात्दृत्यान्वयो द्रष्टव्यः। कालादेरपि सत्त्वादवधारणायोगमाशङ्क्याऽऽह। कालादेरिति॥१५५॥

कर्मप्राधान्यमेवातः स्वयमेवाब्रवीच्छ्रुतिः॥
कालदैवेश्वरादिभ्यः कालादेस्तत्प्रयुक्तितः॥१५६॥

उक्तेऽर्थे तौ हेत्यादिश्रुतिमवतारयति। कर्मेति। अतःशब्दार्थं स्पष्टयति। कालादेरिति॥११६॥

सति कर्मणि वैचित्र्यं भूतानामुपपद्यते॥
कर्मशब्देन विद्या च भावना कर्म चोच्यते॥१५७॥

कर्मप्रयुक्तत्वे कालादेर्युक्तिमाह। सतीति। कालादीनां प्रवर्तकत्वादिवैचित्र्यं विचित्रे कर्मणि सत्येव प्रयोजके युक्तमन्यथा प्रवृत्तिरप्रवृत्तिर्वेत्युक्ताऽव्यवस्था स्यादित्यर्थः। कर्म हैवेत्यत्र कर्मशब्दार्थमाह। कर्मेति॥१५७॥

देहारम्भे न शुद्धस्य कर्मणः शक्तिरिष्यते॥
तस्मात्त्रितयमप्येतत्कर्मशब्देन भण्यते॥१५८॥

केवलमेव कर्म कर्मशब्दं किं न स्यात्तत्राऽऽह। देहेति। यथा कर्मेत्यादिश्रुतेरित्यर्थः। कर्मशब्दार्थमुपसंहरति। तस्मादिति॥१५८॥

एवं तौ संप्रधार्यैतदुक्तदोषानभिप्लुतम्॥
यियासोः परलोकाय कर्मैवाऽऽश्रयमूचतुः॥१५९॥

वाक्यार्थं निगमयति। एवमिति। परपक्षेषूक्तदोषास्पृष्टं कर्मेति यावत्॥१५९॥

कारणानां यथोक्तानां यच्च तौ प्रशशंसतुः॥
कर्मैवोक्तेषु सर्वेषु प्रशशंसतुरादरात्॥१६०॥

अथेत्यादेरर्थमाह। कारणानामिति॥१६०॥

कारणत्वाविशेषेऽपि किं प्रधानमितीक्षणे॥
कर्मणः स्यात्प्रशंसैवं तत्प्राधान्योपपत्तितः॥१६१॥

अविशिष्टे बहूनां कारणत्वे किमिति कर्मप्रशंसेत्याशङ्क्याऽऽह। कारणत्वेति। तुल्येऽपि सर्वेषां कारणत्वे किं प्रधानं किं वाऽप्रधानमिति वीक्षायां कर्मप्रशंसादृष्टेस्तत्प्राधान्योपपत्तेः साऽर्थवतीत्यर्थः॥१६१॥

वशीकृत्येश्वरादीनि कारणानि स्वतन्त्रवत्॥
कर्म सिध्यद्यतो दृष्टं प्रधानं कर्म तेन तत्॥१६२॥

क्रियां प्रत्यगुणीभूतं नेश्वराद्यपि सिध्यति॥
कर्मातस्तेषु सर्वेषु प्रधानमिति भण्यते॥१६३॥

तत्प्राधान्येऽन्वयव्यतिरेकावपि प्रमाणयति। वशीकृत्येति। उक्तं हि वैषम्यनैर्घृण्ये न सापेक्षत्वादिति। उक्तप्रमाणफलं निगमयति। कर्मात इति॥१६२॥१६३॥

यस्मादेवमतः प्रेतो देवताविरहेऽपि ना॥
देहादस्मात्परिभ्रष्टः कर्मप्राधान्यसंश्रयात्57॥१६४॥

पुण्यः पुण्येन भवति पापः पापेन कर्मणा॥
इति श्रौतं वचो ज्ञेयमागमैकप्रमाणतः॥१६५॥

श्लोकानामादितः समष्ट्यङ्काः—५८५४

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके तृतीयाध्यायस्य
द्वितीयमार्तभागब्राह्मणम्॥२॥

पुण्यो वै पुण्येनेत्यादेः सोपस्कारमर्थमाह। यस्मादिति। कर्मप्रयुक्तं ग्रहातिग्रहात्मककार्यकर58णोपादानमित्येवं यतः सिद्धमतः स्थूलदेहान्निर्गतो मृतः पुमानधिष्ठातृदेवताभागाभावेऽपि कालादिसहकृतकर्मबलात्पौनःपुन्येन संसरतीत्यत्र मानमुपसंहरति। इतीति। कर्मैव कालादिसहकृतं मृतस्य बन्धप्रयोजकमित्यस्यालौकिकत्वेनाऽऽगममात्रगम्यत्वादस्मिन्नर्थे यथोक्तं वचो मानमित्यर्थः॥१६४॥१६५॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिकटीकायां शास्त्रप्रकाशिकाख्यायां
तृतीयाध्यायस्य द्वितीयमार्तभागब्राह्मणम्॥२॥
————

अथ तृतीयं ब्राह्मणम्।
————

संसारान्मुच्यमानानां तथा संसरतामिह॥
देहादिनाशे तुल्येऽपि तत्रैकेषां पुनर्भवः॥१॥

देहाद्यात्यन्तिकी हानिरन्येषां यत्र कारणे॥
सति चासति चैवं स्यात्तत्प्रयोजकमीरितम्॥२॥

संगतिं वक्तुं वृत्तं कीर्तयति। संसारादिति। जीवन्मुक्तानाममुक्तानां च मृतिकाले कार्यकार59णनाशे समेऽपि तेषां मध्ये जीवन्मुक्तातिरिक्तानां पुनर्देहादिग्रहो यस्मिन्सति

स्यान्मुक्तानां चासति यस्मिन्देहादेरात्यन्तिकी हानिस्तद्भावाभावाभ्यां बन्धमोक्षप्रयोजकं किमित्यपेक्षायामुक्तरीत्या विद्यावासनासहितं कर्मैव तदिति विचार्य निर्णीतमित्यर्थः॥१॥२॥

ग्रहातिग्रहरूपस्य मृत्योः कर्मेति निश्चितम्॥
कियती कर्मणस्तस्य60 व्याप्तिः स्यादिति भण्यते॥३॥

तत्प्रयोजकमीरितमित्येतदेव व्यनक्ति। ग्रहेति। अर्थेन्द्रियात्मकबन्धनस्य प्रयोजकं विद्यासहितं कर्मेत्युक्तमित्यर्थः। आकाङ्क्षापूर्वकं संगतिमाह। कियतीति। प्रयोजकत्वेन प्रकृतक61र्मणः फलपरिमितिर्व्याप्तिः सा कियतीत्यपेक्षायां तन्निरूपणायानन्तरब्राह्मणमित्यर्थः॥३॥

साधारण्यविशेषाभ्यां कर्मणश्च व्यवस्थितिः॥
विशेषावस्था प्रागुक्ता सामान्यं त्वधुनोच्यते॥४॥

वैदिककर्मफलपरिमाणं प्रागेवोक्तं तत्किमनेनेत्याशङ्क्यास्यापुनरुक्तं विषयं वक्तुं कर्मफलं भिनत्ति। साधारण्येति। कर्मणः समष्टिरूपेण व्यष्टिरूपेण च द्विधा फलस्थितिरित्यर्थः। व्यष्टिरूपेण तत्फलस्थितिरुद्गीथब्राह्मणे सोऽग्निरभवदित्यादिनोक्तेति परिशेषार्थं स्मारयति। विशेषेति। अथास्यापुनरुक्तं विषयमाह। सामान्यं त्विति। कर्मफलं समष्टिरूपं सौत्रं निरूपयितुमेतदित्यर्थः॥४॥

संसारे कियती व्याप्तिरभिव्यक्तस्य कर्मणः॥
सामान्यात्मविशेषाभ्यामित्येतद्भुज्युनोच्यते॥५॥

ननु वैदिककर्मफलं सौत्रं संसाररूपमिहोच्यते तच्च समष्टिव्यष्ट्यात्मकमिति नोक्ता व्यवस्था युक्ता न च व्यष्ट्यंशमुपदिश्य समष्ट्यंशमुपदेष्टुमिदमिति श्लिष्टं तस्यापि मृत्युरस्याऽऽत्मा भवतीत्युक्तत्वादत आह। संसार इति। द्वयोरवस्थयोरुक्तत्वेऽप्यारब्धकर्मणः समष्टिव्यष्टिरूपेण कियती फलव्याप्तिरित्याशङ्कायां तत्परिमाणं संसारेऽन्तर्भूततया तन्मात्रमेवेत्येतदनेन भुज्युब्राह्मणेनोच्यते तदर्थविशेषसिद्धिरित्यर्थः॥५॥

प्रत्यग्याथात्म्यमोहस्य कार्येयत्तेह भण्यते॥
एतस्यां सम्यगुक्तायां नानुक्तमवशिष्यते॥६॥

ननु पूर्वमपि संसारात्मकमेव कर्मफलमुक्तं तस्य सूत्रस्य मृत्योरशनायादिमत्त्वश्रुतेरित्याशङ्क्य विवक्षितमर्थविशेषमाह। प्रत्यगिति। साध्यं सर्वं स्वाविद्योत्थमेवेत्यस्मिन्ब्राह्मणे कथ्यतेऽतोऽर्थभेदादगतार्थतेत्यर्थः। मोहकार्ये यत्नोक्तिफलमाह। एतस्यामिति। अनुक्तं द्वैतान्तःपातीति शेषः॥६॥

भ्रूणहत्याश्वमेधाभ्यां न परं पापपुण्ययोः॥
इत्येवं धर्मकाराणामपि वाक्यानि कोटिशः॥७॥

वैदिककर्मफलस्याविद्योत्थबन्धमध्यपातित्वमेवेति वक्तुमेतद्ब्राह्मणमित्युक्तं कथं सर्वमपि कर्मफलं संसारत्वेनात्र विवक्षितमित्याशङ्क्याऽऽह। भ्रूणेति। भवतां पापानां पुण्यानां च मध्ये ब्रह्मवधोऽश्वमेधश्च महान्तौ तथाऽपि कथं सर्वं कर्मफलं संसारस्तत्राऽऽह। इत्येवमिति। इतिशब्देनोक्तब्रह्मवधादिपरामर्शः। एवंशब्देन तत्सदृशपुण्यापुण्यप्रकारोक्तिः। तथाच ब्रह्मवधेन तत्सदृशैश्च पापैरश्वमेधेन तत्तुल्यपुण्यैश्च संसारः क्रियते। यथाऽऽहुः—

“श्वसूकरखरोष्ट्राणां गोजाविमृगपक्षिणाम्।
चण्डालपुल्कसानां च ब्रह्महा योनिमृच्छति” इति॥

“धर्मरज्ज्वा व्रजेदूर्ध्वं पापरज्ज्वा व्रजेदधः” इति च।

अपिना तद्य इह रमणीयचरणा इत्यादिश्रुतीनामपीत्यर्थः॥७॥

पापस्य कर्मणः कार्यमन्यत्रापि मितं यतः॥
नेहातो भण्यते भूयोऽनर्थत्वाच्चाप्यनादरः॥८॥

अस्तु कर्मफलं संसारस्तथाऽपि पुण्यफलवदत्र पापफलमपि तथा वाच्यमन्यथा ततो विरागायोगादित्याशङ्क्याऽऽह। पापस्येति। पश्वादिषु प्रेतादिषु च नानादुःखानुभवाख्यपापफलस्य लोकसिद्धत्वेनापूर्वत्वाभावान्न तन्निरूपणमित्यर्थः। किंच पुमर्थार्थं श्रुतिराद्रियते पापफलस्य चाधिकानर्थत्वान्न तत्राऽऽदरः श्रुतेरित्याह। भूय इति॥८॥

स्वतश्च तज्जिहासायाः सिद्धत्वान्नेह कीर्त्यते॥
परमोदारफलता त्वश्वमेधाख्यकर्मणः॥९॥

अधर्मोऽपि जिज्ञास्यः परिहारायेति न्यायादनर्थस्यापि तस्य जिहासया निरूपणमुचितमित्याशङ्क्याऽऽह। स्वतश्चेति। तर्हि कर्मफलत्वाविशेषादश्वमेधफलेऽप्यनादरः श्रुतेरुचितो नेत्याह। परमेति। अश्वमेधादेरनतिशयफलवत्त्वात्ततः स्वतोवैराग्यायोगात्तदर्थं तस्य संसारत्वेनानर्थकोटिप्रविष्टत्वं प्रकटनीयमिति भावः॥९॥

निःशेषपुरुषार्थानां पुण्यं कर्म हि साधनम्॥
इत्याहुः श्रुतयः सर्वाः स्मृतयश्चाप्यनेकशः॥१०॥

शास्त्रीयं कर्म सर्वमपि संसारफलमेवेति वक्तुं ब्राह्मणमित्युक्त्वा शङ्कोत्तरत्वेनावतारयितुं पातनिकामाह। निःशेषेति। हिशब्दसूचितां प्रसिद्धिमाह। इत्याहुरिति। स्वर्गकामवाक्यं विविदिषावाक्यमित्येवं द्विधा श्रुतयो धर्मात्सुखं च ज्ञानं च कर्मणैव हि संसिद्धिमास्थिताः कर्मयोगो विशिष्यत इत्याद्याः स्मृतयस्तासां तत्र तात्पर्यमाह। अनेकश इति॥१०॥

पुरुषार्थत्वसामान्यात्स्वर्गादिपुरुषार्थवत्॥

पुण्यसाधनताशङ्का मुक्तेरपि यतस्ततः॥
तदाशङ्कानिवृत्त्यर्थं प्रारब्धैषोत्तरा श्रुतिः॥११॥

इदानीं शङ्कामनूद्योत्तरत्वेन ब्राह्मणं प्रवर्तयति। पुरुषार्थत्वेति॥११॥

ज्ञानोपबृंहितस्यापि क्रतुराजस्य कर्मणः॥
संसारविषयैवाऽऽप्तिर्मुक्तौ सा न मनागपि॥१२॥

कथं शङ्कानिवृत्तिस्तत्राऽऽह। ज्ञानेति। सेत्याप्तिरुक्ता। ज्ञानसहितमपि कर्म संसारफलमेवेत्यस्मिन्ब्राह्मणे व्यक्ती भविष्यतीत्यर्थः॥१२॥

प्रत्यग्याथात्म्यसंमोहः क्रियाकारकरूपवान्॥
प्रथतेऽपास्तनिःशेषक्रियाकारकवस्तुनि॥१३॥

आविद्यसंसारस्तत्र तत्रेष्यते स चेदत्र कर्मफलत्वेनोच्यते कथं पूर्वापरविरोधो न स्यात्तत्राऽऽह। प्रत्यगिति। निर्विशेषे चिदात्मनि तदविद्या कर्माद्यात्मना विजृम्भते तथाच बन्धस्य कर्मजत्वेऽपि नाविद्याजत्वहानिरित्यर्थः॥१३॥

अनिर्ज्ञातात्मयाथात्म्यैर्यत्तु कैश्चिदिहोच्यते॥
फलाभिसंधिरहितं विद्येतं कर्म मुक्तये॥१४॥

विद्यासहितमपि कर्मसंसारफलं विद्यैव मोक्षार्थेतिस्वपक्षशुद्ध्यर्थं विचारयन्पूर्वपक्षयति। अनिर्ज्ञातेति। उक्तरीत्या स्थितं ब्राह्मणारम्भमिहेति परामृशति। विद्येतं विद्यासमुच्चितम्॥१४॥

बन्धहेत्वपि मोक्षाय विरुद्धफलकृद्यथा॥
विषदध्यादिवदिति तथोदाहृतिरुच्यते॥१५॥

बन्धहेतुः कर्म कथं मोक्षहेतुर्विरोधादित्याशङ्क्याऽऽह। बन्धेति। यद्यपि कर्म बन्धहेतुः कर्मणा बध्यते जन्तुरिति स्मृतेस्तथाऽपि विद्यासहितं बन्धविरुद्धं तद्धानिरूपफलकरं सद्यथा मोक्षार्थं तथा भाष्ये विषदध्यादिवदित्युदाहरणमुच्यतेऽतो यथा केवलं विषदध्यादि मरणज्वरादिकरमपि मन्त्रशर्करादियुक्तं जीवनपुष्ट्याद्यारभते तथा स्वतो बन्धफलमपि कर्म समुच्चितं मोक्षाय क्षममित्यर्थः॥१९॥

इत्युक्तपरिहारार्थं नैतत्सम्यगितीर्यते॥
अनारभ्यत्ववचनं तद्धेतुप्रतिपत्तये॥१६॥

सिद्धान्तमाह। इत्युक्तेति। अनारभ्यत्वान्मोक्षस्येति भाष्यमवतारयति। अनारभ्यत्वेति॥१६॥

आरभ्यत्वाभ्युपगमे मुक्तेस्तत्स्याद्यथोदितम्॥
अनारभ्या त्वियं मुक्तिस्तत्सिद्धेर्ज्ञानहेतुतः॥१७॥

तद्व्याकरोति। आरभ्यत्वेति। मुक्तेः साध्यत्वाङ्गीकारे समुच्चितकर्मसाध्यत्वं स्यान्न तु तस्याः साध्यत्वं धीमात्रायत्तत्वादित्यर्थः॥१७॥

ब्रह्म वा इदमित्युक्तेः प्रागपि ज्ञानजन्मतः॥
जगद्ब्रह्मात्मसंसिद्धेर्नातो मुक्तिः क्रियोद्भवा॥१८॥

धीसाध्यत्ववत्क्रियासाध्यत्वमपि स्यादित्याशङ्क्य दृष्टान्तं प्रत्याह। ब्रह्मेति। ज्ञानोत्पत्तेः प्रागपि जगतः संसारिणो ब्रह्मत्वं सिद्धं ब्रह्म वा इदमग्र आसीदित्यादिश्रुतेरतो न ज्ञानसाध्या मुक्तिस्तद्दृष्टान्ताभावान्न क्रियासाध्याऽपीत्यर्थः॥१८॥

यदि वस्तु स्वतो मुक्तं परतो बद्धमिष्यते॥
मोक्षाय यत्नः फलवांस्तदा स्यान्न विपर्यये॥१९॥

किंच मुक्तिरसाध्या तथाहि किं प्रत्यग्वस्तु स्वतो मुक्तं परतो बद्धं किंवा स्वतो बद्धं परतो मुक्तं तत्राऽऽद्यमनुवदति। यदीति। तत्र बन्धहेतोः परस्यावस्तुत्वं वस्तुत्वं वा प्रथमं प्रत्याह। मोक्षायेति। बन्धहेतोरवस्तुत्वे सहेतुबन्धध्वस्तेः सुकरत्वादनायाससिद्धा मुक्तिर्न कर्मापेक्षेत्यर्थः। बन्धहेतोर्वस्तुत्वे प्रतीचः स्वतोबद्धत्वे च मोक्षार्थप्रवृत्तेरफलतेति कल्पद्वयं दूषयति। नेति॥१९॥

विद्याऽभिव्यञ्जिकैवेयं स्वतः सिद्धस्य वस्तुनः॥
आरम्भकत्वं जगति तस्या नैवोपपद्यते॥२०॥

मुक्तेर्विद्यासाध्यत्वाभावे हेत्वन्तरमाह। विद्येति। किमिति व्यञ्जकत्वं तस्या नियम्यते तत्राऽऽह। आरम्भकत्वमिति। कारकत्वे न प्रकाशकत्वं मृदादिवदित्यर्थः॥२०॥

अज्ञानमात्रव्यवधौ वस्तुनि व्यापृतिर्मितेः॥
आरभ्येऽर्थेऽफलं ज्ञानं व्यञ्जकत्वात्प्रदीपवत्॥२१॥

स्वतः सिद्धेर्व्यञ्ज62कत्वमप्ययुक्तं व्यक्तेः सहजत्वादित्याशङ्क्याऽऽह। अज्ञानेति। व्यक्तिः स्वतःसिद्धाऽपि प्रतीच्यविद्याव्यवहिते वाक्योत्थधीवृत्तिरूपविद्याप्रवेशात्तद्ध्वस्तिरेव तथा व्यवह्रियत इत्यर्थः। मोक्षस्यासाध्यत्वे हेत्वन्तरमाह। आरभ्य इति। मोक्षलक्षणे फले साध्ये स्वीकृते तत्र ज्ञानस्याप्रवेशात्तदनर्थकं स्यात्तस्य हि दीपवद्व्यञ्जकत्वाद्व्यङ्ग्ये प्रवेशो न साध्ये तस्मात्तत्फलवत्त्वानुपपत्त्याऽपि न मुक्तेः साध्यतेत्यर्थः॥२१॥

न चाविद्यातिरेकेण मुक्तेर्बन्धोऽन्य इष्यते॥
निवृत्तिः क्रियते यस्य विद्येतेनेह कर्मणा॥२२॥

मा भूद्धीसाध्या सा तत्सहितकर्मसाध्या तु स्यादज्ञानान्यतद्व्यवधानस्य समुच्चयापास्यत्वादित्याशङ्क्याऽऽह। न चेति। बन्धः प्रतिबन्धो व्यवधिरिति यावत्। विद्येतेन विद्यासहितेनेत्यर्थः। इहेति प्रत्यगर्थोक्तिः॥२२॥

अविद्यानाशमात्रश्च मोक्ष आत्मन इष्यते॥
यतस्ततोऽतिरेकेण मोक्षोऽनित्यो भवेद्ध्रुवम्॥२३॥

मुक्तेः समुच्चयासाध्यत्वे युक्त्यन्तरमाह। अविद्येति। अविद्यानाशातिरेकेण मोक्षः साधनाधीनो भवन्ध्रुवमनित्यो भवत्यतः प्रतीचि स्वाविद्याध्वस्तिरेव मुक्तिरिति न समुच्चयावकाश इत्यर्थः॥२३॥

सम्यग्ज्ञानातिरेकेण न चान्येनास्ति निह्नुतिः॥
प्रयङ्मोहस्य नातः स्याज्ज्ञानकर्मसमुच्चयः॥२४॥

सैव समुच्चयसाध्येत्याशङ्क्याऽऽह। सम्यगिति॥२४॥

निर्ज्ञातविषयत्वाच्च कर्मशक्तेर्जगत्यपि॥
दृष्टं हि कर्मणः कार्यमुत्पत्त्यादिचतुष्टयम्॥२५॥

तदसाध्या चेन्मुक्तिस्तर्हि केवलकर्मसाध्या स्यादित्याशङ्क्याऽऽह। निर्ज्ञातेति। चकारोऽवधारणे। सर्वत्रापीत्यपेरर्थः। न मुक्तेस्तत्साध्यतेति शेषः। तस्या निर्ज्ञातविषयत्वं विशदयति। दृष्टं हीति॥२५॥

उत्पत्त्याप्तिविकारा हि संस्कारश्च क्रियाफलम्॥
नातोऽन्यत्कर्मणः कार्यं नातो मुक्तौ तदिष्यते॥२६॥

तदेव स्पष्टयति। उत्पत्तीति। पञ्चममपि किंचित्कर्मकार्यं स्यादित्याशङ्क्य हिशब्दसूचितमाह। नेति। चतुर्विधकर्मफलमतःशब्दार्थः। कर्मकार्यत्वायोगो द्वितीयेनातःशब्देनोच्यते। कर्म तच्छब्दार्थः॥२६॥

न चान्यतम एतेषां मोक्षो युक्त्योपपद्यते॥
उत्पत्त्यादिप्रकाराणामनित्यत्वसमन्वयात्॥२७॥

अन्यस्यालोकवेदसिद्धत्वेऽपि मुक्तौ कर्म हेतुस्तस्याश्चतुर्णामन्यतमत्वादित्याशङ्क्याऽऽह। न चेति। कथं युक्तितोऽन्यतमत्वासंभवस्तत्राऽऽह। उत्पत्त्यादीति। अथवोत्पत्त्यादिप्रकाराणामेतेषामिति संबन्धस्तदाऽवशिष्टो हेतुः॥२७॥

अविद्यामात्रव्यवधिर्यतो मोक्षोऽभ्युपेयते॥
तदन्यव्यवधाने हि प्रमाणं नोपपद्यते॥२८॥

नित्यस्तर्हि मोक्षोऽस्तु का क्षतिस्तत्राऽऽह। अविद्येति। अतः स्वरूपभूतः सन्नानित्यो युक्त इति शेषः। व्यवधानान्तरस्यापि संभवान्नाविद्यामात्रं व्यवधिरित्याशङ्क्य समाध्यन्तरमाह। तदन्येति। प्रागुक्तसमाधानद्योतनार्थो हिशब्दः॥२८॥

विनाशिफलवत्त्वं चेत्केवलस्यैव कर्मणः॥
विद्येतस्य तु तस्यैव फलं ध्रौव्यं भवेदिति॥२९॥

संक्षेपतश्चोद्यसमाधानं कृत्वा चोद्यं विवृणोति। विनाशीति। चेच्छब्दस्येतिशब्देन संबन्धः॥२९॥

पूर्वशक्तिनिरासेन शक्त्यन्तरसमुद्भवः॥३०॥

वस्त्वन्तरसमायोगाद्विषादेर्दृश्यते यतः॥
प्रमाणासंभवान्मैवं वोचो लौकिकवस्तुवत्॥३१॥

कथमेषा व्यवस्था तत्राऽऽह। पूर्वेति। अतः कर्मणोऽपि विद्यासंबन्धात्पूर्वशक्तिनिरासेन शक्त्यन्तरस्योद्भवः स्यादिति शेषः। समाधत्ते। प्रमाणेति। विषदध्यादिवत्कर्मणः सहकारिभेदान्न कार्यान्तरारम्भकत्वं मानाभावादित्यर्थः॥३०॥३१॥

नाऽऽगमादपरं मानं मुक्तावभ्युपगम्यते॥
विषदध्यादिवत्तस्मान्नैतत्सूक्तं भवेद्वचः॥३२॥

ज्ञानयुक्तं नित्यं कर्म मोक्षारम्भकमित्यत्र मानाभावं वक्तुं पातनिकामाह। नाऽऽगमादिति। अलौकिकत्वाद्धर्मवदित्यर्थः। मानान्तराभावे फलितमाह। विषेति। मुक्तौ मानान्तराभावाद्विषदध्यादिवदित्यादिवचोऽयुक्तं न हि दृष्टान्तमात्रायत्ता सेत्यर्थः॥३२॥

उक्तकार्यातिरेकेण विपदध्यादिवन्मितिः॥
कार्यान्तरसमुत्पत्तौ कर्मणोऽपि न विद्यते॥३३॥

पातनिकां कृत्वा कर्मसाध्या मुक्तिरित्यत्र मानाभावं साधयति। उक्तेति। उक्तं कार्यमुत्पत्त्यादि तदतिरेकेण कार्यान्तरस्य मोक्षाख्यस्योत्पत्तौ कर्मणो नित्यस्य समुच्चितस्यासमुच्चितस्य वा सामर्थ्यास्तित्वे न मितिरस्ति विषादेस्तु कार्यान्तरोत्पत्तौ तदस्तित्वे तदेव दृष्टत्वान्मानमित्यर्थः॥३३॥

साध्यावृत्त्यात्मकं ज्ञानं कर्मैवावस्तुतन्त्रतः॥
ज्ञानं हि वस्तुतन्त्रं स्यान्न तु तत्कारकाश्रित63म्॥३४॥

किंचोपास्त्या मानेन वा कर्मसमुच्चयस्तत्राऽऽद्ये ज्ञानकर्मसमुच्चयाभावं वक्तुमुपास्तेर्ज्ञानत्वाभावमाह। साध्येति। साध्यं ध्येयं वस्तु तत्र प्रत्ययावृत्तिरूपोपास्तिरवस्तुतन्त्रत्वात्कर्मैवेत्यर्थः। वस्तुतन्त्रात्वाभावेऽपि ज्ञानत्वं शङ्कित्वाऽऽह। ज्ञानं हीति। मानवस्तुतन्त्रं हि ज्ञानं न कर्तृतन्त्रमुपास्तिस्तु कर्तृतन्त्रा तन्न ज्ञानमित्यर्थः॥३४॥

कर्मेतं कर्म तेनेदृग्विद्येतं न कथंचन॥
क्रियासमुच्चयोऽतोऽयं न तु विद्यासमुच्चयः॥३५॥

तस्या ज्ञानत्वाभावे फलितमाह। कर्मेति। ईदृगित्युपास्तियुक्तं कर्मोच्यते। उक्तमेव फलितं स्फुटयति। क्रियेति। अतःशब्देनोपास्तेर्मानसक्रियात्वमाह॥३५॥64

साध्यसाधनसंबन्ध आगमैकप्रमाणकः॥
मुक्तेश्च साधनत्वेन कर्म नैव श्रुतं श्रुतौ॥३६॥

किंच समुच्चितमसमुच्चितं वा कर्म मुक्तिहेतुरित्यत्राध्यक्षादि मानमागमो वा प्रथमं प्रत्याह। साध्येति। पारलौकिक इति शेषः। द्वितीयं दूषयति। मुक्तेश्चेति। अपाम सोममित्यादि तु कर्मस्तावकत्वान्न स्वार्थे मानं मानान्तरविरोधादिति भावः॥३६॥

अज्ञानहानं नो मुक्तिस्तस्याः कर्म न साधनम्॥
न हि कर्म तमो हन्ति तमसीवोत्थितं तमः॥३७॥

मुक्तेरकर्मसाध्यत्वे हेत्वन्तरमाह। अज्ञानेति। किमिति कर्माज्ञानहानेर्न हेतुरित्याशङ्क्य सम्यग्ज्ञानातिरेकेणेत्यत्रोक्तं दृष्टान्तेन स्पष्टयति। न हीति। तमसि रज्ज्वज्ञाने समुत्पन्नं तमो भुजंगादिज्ञानमिति यावत्॥३७॥

अविद्यैकोद्भवत्वं स्याद्यद्यपि ज्ञानकर्मणोः॥
मेयैकात्म्यानुरोधित्वं तथाऽप्यतिशयो धियः॥३८॥

कर्म नाज्ञानं निवर्तयत्यज्ञानजत्वाद्रज्जुसर्पधीवदित्ययुक्तं ज्ञानेऽपीत्यमनुमानसंभवादित्याशङ्क्य वस्त्वननुसारित्वमुपाधिरित्याह। अविद्येति॥३८॥

नाऽऽत्माविद्यामतिक्रम्य कर्मैकात्म्यानुरोधि हि॥
तमोमात्राभिजनतो नातोऽविद्यां निहन्ति तत्॥३९॥

उपाधेरसंभवमाशङ्क्याऽऽह। नाऽऽत्मेति। हिशब्दोपात्तं हेतुमाह। तमोमात्रेति। न हि कर्तृत्वाद्यभिमानं विना कर्म ज्ञानं पुनस्तदुपमर्दीतिविशेषसिद्धिरित्यर्थः। कर्मणो वस्त्वननुसारित्वे फलितमाह। नात इति॥३९॥

स्वतःसिद्धात्मवस्त्वेकमात्रोत्थानत्वकारणात्॥
ज्ञानं हन्ति तमोऽशेषं न तु कर्म तमोन्वयात्॥४०॥

उपाधेः साधनव्याप्तिमाशङ्क्याऽऽह। स्वत इति। स्वप्रकाशसच्चिदानन्दात्माकाराखण्डैकरसवस्त्वाकारेण वाक्याज्ज्ञानमुत्पद्यते तदशेषं तमो निवर्तयतीत्यर्थः। उपाधिफलं निगमयति। न त्विति। तमोनुसारित्वाद्वस्त्वननुसारित्वान्न कर्म तमोध्वंसीति यावत्॥४०॥

अज्ञानादित्रयं प्रत्यगाभासं यद्यपीष्यते॥
ज्ञानवज्ज्ञानसंभूतेर्नैव प्रागभ्युपेयते॥४१॥

ननु यद्वस्त्वनुसारि तदज्ञानध्वंसीति न व्यतिरेकोऽज्ञानादौ व्यभिचारादतो व्यतिरेकाशुद्धेर्नोपाधिरत आह। अज्ञानादीति। अज्ञानं मिथ्याज्ञानं संशयज्ञानमिति त्रयं ज्ञानवच्चैतन्यानुविद्धमपि प्राग्ज्ञानोत्पत्तेः सहेतुबन्धध्वंसहेतु नेष्यते तस्य चैतन्याकारभाक्त्वेऽपि विपरीतप्रथाहेतुत्वेन वस्त्वनुसारित्वाभावादतो न व्यतिरेकाशुद्धिर्विमतमज्ञानध्वंसि वस्त्वनुसारित्वाद्रज्जुज्ञानवदित्यनुमानादित्यर्थः॥४१॥

कर्मातः कारणं मुक्तेर्न कथंचन युज्यते॥
साक्षादविद्याप्रध्वस्तौ पारंपर्यात्तु युज्यते॥४२॥

उक्तोपाधिसंभवात्प्रत्यनुमानायोगात्पूर्वोक्तानुमानं स्थितमिति फलितमाह। कर्मेति। कर्मणां साक्षान्मोक्षानुपयोगे कथं विविदिषावाक्यादि निर्वहतीत्याशङ्क्याऽऽह। अविद्येति॥४२॥

मुक्तौ च कर्मसाध्यायां किमेकैकं विमुक्तिदम्॥
किंवा संभूय सर्वाणि कर्माणि घ्नन्ति संसृतिम्॥४३॥

प्रत्यनुमानाभावेऽप्यज्ञानकार्यत्वहेतुर्ज्ञाने व्यभिचरतीति चेन्नैवमप्रकाशत्वस्य हेत्वर्थत्वादित्यभिप्रेत्य कर्मणां मुक्तिहेतुत्वं विकल्पयति। मुक्तौ चेति॥४३॥

सकृद्भूयःप्रयोगाद्वा यावज्जीवप्रयोगतः॥
एकादिदक्षिणास्वेवं विकल्पस्तुल्य इष्यते॥४४॥

पक्षद्वयेऽप्यनुष्ठाने विकल्पत्रयमाह। सकृदिति। मुक्तिरिति शेषः। अनुष्ठानवद्दक्षिणामपि विकल्पयति। एकादीति। एकस्य वा बहूनां वा सर्वस्य वा गवादेर्दक्षिणायां मुक्तिरिति विकल्पार्थः॥४४॥

काम्यैर्वा यदि वा नित्यैः सर्वैर्वा मुक्तिरिष्यते॥
श्रौतैर्वा यदि वा स्मार्तैर्यदि वोभयकर्मभिः॥४५॥

अनुष्ठीयमानकर्मस्वेव विकल्पान्तराणि करोति। काम्यैर्वेति॥४५॥

तेषां च ज्ञानसंयोगे प्रधानगुणभेदतः॥
त्रिधा विकल्पो विज्ञेयो विमुक्तिफलसिद्धये॥४६॥

केवलानि कर्माणि विकल्प्य समुच्चितानि विकल्पयति। तेषां चेति। मोक्षार्थं कर्मणां ज्ञानसमुच्चये सत्युभयोः समप्रधानत्वेन गुणप्रधानत्वेन च भेदाद्विकल्पत्रयं ते हि समप्रधाने वा कर्म प्रधानं तद्गुणो ज्ञानमिति वा वैपरीत्यं वेत्यर्थः॥४६॥

एकैकं मुक्तिकृच्चेत्स्याद्यवव्रीह्यादिहोमवत्॥
एकेनैव कृतार्थत्वान्नानुतिष्ठेत्ततोऽपरम्॥४७॥

एकैकं कर्म मुक्तिदमित्याद्यनु65वदति। एकैकमिति। यथैकैको व्रीहियवादिहोमोऽ-

पूर्वहेतुस्तथाऽग्निहोत्रादिकमेकैकं विकल्पेन मुक्तिहेतुरित्यर्थः। तत्र कर्मान्तरवैयर्थ्यमिति दूषयति। एकेनेति। न च व्रीह्यादिवद्विकल्पेनार्थवत्त्वं मोक्षमुद्दिश्य कर्मसु तदश्रुतेरगत्या च तदाश्रयणादिति भावः॥४७॥

प्रयोगे दक्षिणायां च समानोऽयं परिक्रमः॥
अथ संभूय सर्वाणि मुक्तिं कर्माणि कुर्वते॥४८॥

ऐककर्म्यं ध्रुवं प्रापत्सर्वेषामपि कर्मणाम्॥
दर्शादिवत्फलैकत्वात्तच्चानिष्टं प्रसज्यते॥४९॥

सकृत्प्रयोगादेकदक्षिणायां च मुक्तिरिति पक्षयोरुक्तं दोषमतिदिशति। प्रयोग इति। न हि तत्र प्रयोगान्तरं दक्षिणान्तरं वा सार्थकमित्यर्थः। कल्पान्तरमनूद्य दूषयति। अथेति। ऐककर्म्ये हेतुमाह। फलैकत्वादिति। दृष्टान्तस्तु प्रागेव विवृतः। ऐककर्म्ये का हानिस्तत्राऽऽह। तच्चेति। न हि बृहस्पतिसवराजसूयादीनां भिन्नाधिकारिणामैककर्म्यमिति भावः। असकृद्वा यावज्जीवं वा प्रयोगाद्बहूनां वा गवादीनां सर्वस्य वा दक्षिणायां66 मोक्षो न सेत्स्यत्येकस्यैवासकृद्यावज्जीवं वा प्रयोगे मुक्तिश्चेत्कर्मान्तरप्रयोगवैयर्थ्यात्सर्वकर्मप्रयोगस्त्वेकस्याशक्यो न च बहूनां सर्वस्य वा दक्षिणा मोक्षहेतुरिति मानमस्ति न च हिरण्यदा अमृतत्वं भजन्त इति श्रुतिर्मानं दानप्रशंसापरत्वादन्यथा निषेधश्रुतिविरोधादिति चार्थः॥४८॥४९॥

अन्यद्धि मुक्तिफलतः काम्यानां श्रूयते फलम्॥
तेषां मुक्तिफलत्वं तु न श्रुतेर्नापि चान्यतः॥५०॥

काम्यैर्वेति पक्षं प्रत्याह। अन्यदिति। काम्यानां स्वर्गादिफलत्वे श्रुतेऽपि मोक्षफलत्वं न विरुध्यते दध्यादेर्नित्यार्थे काम्यार्थे च श्रवणादि67त्याशङ्क्याऽऽह। तेषामिति। अश्रुतमपि स्मृतेर्न्यायाद्वेष्यतामित्याशङ्क्याऽऽह। नापीति॥५०॥

न च गोदोहनन्यायः काम्यकर्मसु युज्यते॥
तेषां मुक्तिफलत्वे हि न मानं विद्यते यतः॥५१॥

ननु यथा गोदोहनेन पशुकामस्य प्रणयेदित्यत्र क्रत्वपेक्षितप्रणयननिर्वृत्त्या गोदोहनं पशुफलं दृष्टं तत्र हि दृष्टद्वारा क्रतुनियोगेन प्रयुक्तिः शीघ्रमवतरति नियोगार्थत्वाद्विनियोगस्य कामपदमपि प्रकृतमधिकारं लक्षणयाऽनुवदति तथाचोपादानानुरोधेन वाक्यमेव क्रत्वर्थप्रणयनशेषतया गोदोहनं विनियुङ्क्ते तदाश्रित्य विधानात्पुरुषार्थमपि क्रत्वर्थम्। यथाऽऽहुः—अन्यार्थमपि संनिहितमन्येन संबध्यत इति। तथा काम्यान्यपि कर्माणि स्वर्गादिद्वारा मोक्षार्थानि तत्राऽऽह। न चेति। अयं भावः—कामपदस्य लक्षणया प्रकृताधिकारपरत्वेऽनुवादत्वप्रसङ्गाद्विनियोगतस्तावन्नियोगान्तरं प्रतीयते तच्च

स्वात्मानं फलं च प्रति गोदोहनस्य शेषत्वमापादयतीत्यौपादानिकमस्य पुरुषार्थत्वं न चोपादानवशाद्विनियोगभङ्गस्तदपेक्षत्वादात्मोपकाराय हि विधिः साधनं प्रयुङ्क्ते। उपकारविशेषावगमश्च विनियोगात्क्रत्वपेक्षितप्रणयननिवृत्तिरपि गोदोहनायत्तेति वाक्यादेवावगम्यते तथा च विनियोगापेक्षो नियोगस्तदपेक्षश्चेत्कामपदान्वयो न शक्यस्त्यक्तुमित्याश्रित्य विहितमपि गोदोहनं पुरुषार्थम्। तदुक्तं नैमित्तिके विकारत्वात्क्रतुप्रधानमन्यत्स्यादिति। नैवं काम्यकर्मणां स्वर्गादिफलानां मोक्षफलत्वं मानाभावादिति न्यायशब्दः पूर्वपक्षन्यायविषयस्तेषामित्यादिनोक्तहेतुसाधकत्वमुक्तं सिद्धान्तन्यायस्य द्योतयितुं हिशब्दः॥५१॥

सर्वं चाप्यप्रमाणं स्याद्यदुक्तं भेदलक्षणम्॥
मुक्तिं सर्वाणि कर्माणि यदि संभूय कुर्वते॥५२॥

यदि वा नित्यैरिति पक्षमग्रे दूषयिष्यति संप्रति सर्वैर्वेत्यादिपक्षचतुष्टयं निराचष्टे। सर्वं चेति। अस्यार्थः—नित्यानां काम्यानां श्रौतानां स्मार्तानां सर्वेषां वा कर्मणां मोक्षफलत्वे प्राच्यां मीमांसायां शब्दान्तराभ्यासप्रक्रियानामधेया68दिभेदकं यदुक्तं सर्व तदप्रमाणं स्यात्फलैकत्वे कर्मभेदानुपपत्तेरतो मोक्षफलत्वे सर्वकर्मणामैककर्म्याद्भेदलक्षणविरोधः स्यादिति॥५२॥

साध्यसाधनबुद्धिर्नो वचनात्पारलौकिकी॥
न चाश्रौषं श्रुतेर्वाक्यात्कर्म मोक्षफलं क्वचित्॥५३॥

एकैकं कर्म मोक्षदमित्यादिसर्वपक्षेषु साधारणं दोषमाह। साध्येति॥५३॥

न तत्र दक्षिणा यन्ति विद्ययैव तदाप्यते॥
वेदाहमिति मन्त्रश्च ज्ञानान्मार्गान्तरापनुत्॥५४॥

मानाभावं स्मारयित्वा केवलकर्मणां मोक्षहेतुत्वे मानविरोधमाह। न तत्रेति। सप्तम्या प्रथमया च कैवल्यं परामृश्यते। मन्त्रे तु तमेवं विद्वानिति शेषोऽनुसंधेयः॥५४॥

न कर्मणा कनीयस्ता वृद्धिर्वा नान्तरात्मनः॥
नित्योऽस्य महिमेत्येवमुदर्केऽपि प्रवक्ष्यते॥५५॥

प्रत्यग्भूते मोक्षे कर्मणोऽतिशयानाधायकत्वाच्च तदसाध्येत्याह। न कर्मणेति। वाक्यशेषादपि तदसाध्या मुक्तिरित्याह। नित्योऽस्येति॥५५॥

क्षयी कर्मार्जितो लोको नित्यो ज्ञानजितस्तु यः॥
इति स्पष्टं श्रुतेर्वाक्यं कस्मान्नाऽऽद्रियते त्वया॥५६॥

अतश्च नित्या सा न साध्येत्याह। क्षयीति॥५६॥

समुच्चयश्चाप्यसकृत्पुरैव सुनिराकृतः॥
भूयोऽपीह प्रवक्ष्यामः प्रसङ्गान्नातिविस्तरात्॥५७॥

केवलकर्मणो मोक्षहेतुत्वं निरस्य तेषां च ज्ञानसंयोग इत्यत्रोक्तं त्रेधासमुच्चयं निरस्यति। समुच्चयश्चेति। पुरेति संबन्धोक्तिः। उत्तरत्रापि प्रसङ्गात्तन्निराकरणं वक्ष्यामः। इहापि नातिविस्तरात्तन्निराकरणं संक्षेपतस्तु ब्रूम इति योजना॥५७॥

संनिपत्य न च ज्ञानं कर्माज्ञानं निरस्यति॥
साध्यसाधनभावत्वादेककालानवस्थितेः॥५८॥

अत्रापि समुच्चयं निरस्यामो नातिविस्तरादित्युक्तमेव दर्शयन्प्रमाणज्ञानस्य कर्मणश्चाङ्गाङ्गित्वेन समुच्चयं निरस्यति। संनिपत्येति। कर्मणोऽङ्गत्वेन संनिपत्यज्ञानं नाविद्यां निरस्यति तत्र हेतुमाह। साध्येति। शुद्धिद्वारा कर्म साधनं ज्ञानं साध्यं तथाच पूर्वोत्तरकालयोरेककालास्थितेर्नाङ्गाङ्गित्वं न च तत्साध्यस्य तदङ्गत्वमेकप्रयोगानारूढत्वाज्जन्मान्तरीयस्यापि कर्मणो ज्ञानोपायत्वाङ्गीकाराच्चेति भावः॥५८॥

बाध्यबाधकभावाच्च पञ्चास्योरणयोरिव॥
एकदेशानवस्थानान्न समुच्चयता तयोः॥५९॥

समप्रधानतया समुच्चयं प्रत्याह। बाध्येति। पञ्चास्यः सिंहः। उरणो मेषः। एकदेशानवस्थानादेकस्मिन्नाश्रये सहास्थितेरित्यर्थः॥५९॥

बाध्यबाधकभावेन काममस्तु समुच्चितिः॥
स्वशक्त्यनपहारेण दाह्यदाहकयोरिव॥६०॥

ननु ज्ञानकर्मणोः संबन्धोऽस्ति न वाऽऽद्ये समुच्चयसिद्धिर्द्वितीये बाध्यबाधकत्वासिद्धिस्तत्राऽऽह। बाध्येति। ज्ञानगतबाधकत्वशक्तेः कर्मगतबाध्यत्वशक्तेश्चात्यागेन तयोर्बाध्यबाधकत्वेन संगतेः समुच्चितिश्चेत्सा काष्ठाग्न्योरिवेष्टैवेत्यर्थः॥६०॥

अयथावस्त्वविद्या स्याद्विद्यैतस्या विरोधिनी॥
समुच्चयस्तयोरेवं रविशार्वरयोरिव॥६१॥

उक्तं समुच्चयं सोपपत्तिकमुदाहरणान्तरेण दर्शयति। अयथेति॥६१॥

वस्त्वधीना भवेद्विद्या कर्त्रधीना क्रिया तथा॥
कर्त्रादि चाऽऽत्ममोहोत्थं स्वतोऽकारकताऽऽत्मनः॥६२॥

समुच्चयाभावे हेत्वन्तरमाह। वस्त्विति। कथमेतावता तदभावस्तत्राऽऽह। कर्त्रादीति। आत्मनः कौटस्थ्येन कर्तृत्वादेराविद्यत्वात्तज्ज्ञाने सत्ययोगान्न समुच्चय इत्यर्थः॥६२॥

बृहस्पतिसवे यद्वत्क्षत्त्रियो न प्रवर्तते॥
ब्राह्मणत्वानहंमानी विप्रो वा क्षत्त्रकर्मणि॥६३॥

किंच ज्ञानिनो न नियोगस्तदभिमानशून्यत्वात्तत्कुतः समुच्चय इति वक्तुं दृष्टान्तमाह। बृहस्पतीति। क्षत्त्रियत्वानहंमानिनं वक्तुं वाशब्दः॥६३॥

विदेहो वीतसंदेहो नेति नेत्येव बो69धितः॥
देहाद्यनात्मदृक्तद्वत्तत्क्रियां वीक्षतेऽपि न॥६४॥

दार्ष्टान्तिकमाह। विदेह इति। स्थूलदेहाभिमानहीनो विदेहः संशयादिधर्मकसूक्ष्मदेहाभिमानशून्यश्च वीतसंदेहस्तत्र हेतुः। नेतीति॥६४॥

मृत्स्नेभके यथेभत्वं शिशुरध्यस्य वल्गति॥
अध्यस्याऽऽत्मनि देहादीन्मूढस्तद्वद्विचेष्टते॥६५॥

देहादौ मिथ्याभिमानवत एव कर्मसु प्रवृत्तिर्न तद्धीनस्येति कुतः समुच्चय इत्येतमर्थं70 दृष्टान्तान्तरेणाऽऽह। मृत्स्नेति। संस्कृतमृन्निर्मिते हस्तिनीति यावत्। वल्गति चेष्टते॥६५॥

स्थाणुं चोरधियाऽऽलाय भीतो यद्वत्पलायते॥
बुद्ध्यादिभिस्तथाऽऽत्मानं भ्रान्तोऽध्यारोप्य चेष्टते॥६६॥

कथं संनिपत्येत्यादिना समुच्चयो निरस्यते यदेव विद्यया करोति ज्ञात्वा कर्माणि कुर्वीतेत्यादिना विरोधादित्याशङ्क्य यत्र निमित्तनैमित्तिकभावस्तत्र वा समुच्चयः सर्वत्र वेति विकल्प्याऽऽद्यं दृष्टान्तद्वारा स्वीकरोति। स्थाणुमिति। आलायाऽऽदाय गृहीत्वा॥६६॥

स्थाणोः सतत्त्वविज्ञानं यथा नाङ्गं पलायने॥
आत्मनस्तत्त्वविज्ञानं तद्वन्नाङ्गं क्रियाविधौ॥६७॥

कल्पान्तरं दृष्टान्तेन निराचष्टे। स्थाणोरिति॥६७॥

यद्धि यस्याविरोधेन स्वभावमनुवर्तते॥
तत्तस्य गुणभूतं स्यान्न प्रधानाद्गुणो यतः॥६८॥

प्रधानत्वेनेष्टकर्मध्वंसित्वादपि न ज्ञानं तदङ्गतया समुच्चीयत इत्याह। यद्धीति। प्रधानमत्तीति प्रधानाद्यत्प्रधानविरोधि न तत्तदङ्गमतो ज्ञानमपि कर्मविरोधित्वान्न तदङ्गमित्यर्थः॥६८॥

अज्ञानमनिराकुर्वज्ज्ञानमेव न सिध्यति॥
विपन्नकारकग्रामं ज्ञानं कर्म न ढौकते॥६९॥

समुच्चयमिच्छताऽपि ज्ञानस्य प्रमाणत्वात्स्वार्थाज्ञानध्वंसित्वमेष्टव्यं तत्कुतः समुच्चय इत्याह। अज्ञानमिति। तथाऽपि समुच्चये किमायातं तदाह। विपन्नेति। यस्य कर्मणो विपत्तिमापादितो ज्ञानेन कारकसमुदायस्तन्न ज्ञानं स्पृशति कारकाभावेऽभावान्नहि तन्निरपेक्षा क्रियाऽऽत्मानं बिभर्तीत्यर्थः॥६९॥

हेतुस्वरूपकार्याणां प्रकाशतमसोरिव॥
मिथो विरोधतो नातः संगतिर्ज्ञानकर्मणोः॥७०॥

त्रिधासमुच्चयाभावे युक्त्यन्तरमाह। हेत्विति। ज्ञानस्य मानं हेतुः स्वरूपं वस्तुप्रकाशकत्वं कार्यमविद्याध्वस्तिः कर्मणो हेतुरविद्यारागादि स्वरूपमप्रकाशकत्वं कार्यमुत्पत्त्यादि तेषां मिथो विरोधात्तमःप्रकाशवन्नानयोः संगतिरित्यर्थः॥७०॥

सकृत्प्रवृत्त्या मृद्गाति क्रियाकारकरूपभृत॥
अज्ञानमागमज्ञानं सांगत्यं नास्त्यतोऽनयोः॥७१॥

ज्ञानस्य स्वोत्पत्तिमात्रेणाज्ञानध्वंसित्वात्कर्मभिरसमुच्चय इत्ययुक्तं वाक्योत्थज्ञानोत्तरभाविभावनोत्कर्षजन्यसाक्षात्काराख्यज्ञानान्तरेणाज्ञानध्वस्तेरभ्यासावस्थायां समुच्चयसिद्धेरित्याशङ्क्याऽऽह। सकृदिति। भावनायाश्चित्तैकाग्र्यहेतुतया विक्षेपध्वंसेन ज्ञानोत्पत्तावुपक्षयाज्जातमात्रमागमिकं ज्ञानं सकार्यमज्ञानं निवर्तयतीति नावसरः समुच्चयस्येत्यर्थः॥७१॥

सर्वथा नैव घटते ज्ञानकर्मसमुच्चयः॥
विद्ययैव तमोहानादकार्ये कर्म किंफलम्॥७२॥

तदसंभवमुपसंहरति। सर्वथेति। त्रेधाऽपीत्यर्थः। किंच ज्ञानोत्पत्तौ वा समुच्चयस्तत्फले वा नाऽऽद्योऽङ्गीकाराद्द्वितीयेऽप्यविद्याध्वस्तौ स्वरूपस्थितौ वा नाऽऽद्य इत्याह। विद्ययेति। न द्वितीय इत्याह। अकार्य इति॥७२॥

न मानं किंचिदप्यस्ति ज्ञानकर्मसमुच्चितेः॥
प्रत्यक्कैवल्यसंसिद्धौ ज्ञानादेव तमोहतेः॥७३॥

मेयाभावमुपसंहृत्य मानाभावमुपसंहरति। न मानमिति। प्रतीचो मुक्तिप्राप्तौ हेतुत्वेनेष्टसमुच्चितेर्मानमपि न किंचिदस्तीति योजना। अज्ञाननिवृत्त्यन्यथानुपपत्तिरत्र मानमित्याशङ्क्यान्यथोपपत्तिमाह। ज्ञानादिति॥७३॥

उत्पत्त्याद्यतिरेकेण संसारविनिवृत्तये॥
कर्मणोऽपि तथा मानं न किंचिदुपपद्यते॥७४॥

यदि वा नित्यैरित्येतदतिरिक्तानां पक्षाणां मुखतो निरासादवशिष्टं पक्षं मुखतो निराचष्टे। उत्पत्त्यादीति॥७४॥

अस्ति मानं यतो नित्यं कर्म सर्वत्र चोद्यते॥
न चोत्पत्त्यादिमत्किंचित्तत्र साक्षात्फलं श्रुतम्॥७५॥

नित्यस्यापि कर्मणश्चतुर्विधान्यतमफलापोहेन मोक्षार्थत्वे काम्यस्येव न मानमित्ययुक्तं तत्राध्यक्षाद्यभावेऽपि श्रुतार्थापत्तेर्भावादिति शङ्कते। अस्तीति। सर्वासु श्रुतिषु यावज्जीवमग्निहोत्रं जुहुयादित्याद्यासु नित्यं कर्म विधीयते न चान्तरेण फलं तद्विधिर्न हि

महायासे कर्मण्यफले प्रेक्षावत्प्रवृत्तिरतः श्रुतनित्यचोदनानुपपत्तिर्नित्यकर्मणो मोक्षार्थत्वे मानमित्यर्थः। नित्यकर्मविधिरुत्पत्त्यादिमदन्यतमफलत्वेनापि स्यादित्यन्यथोपपत्तिमाशङ्क्याऽऽह। न चेति। तत्र नित्यचोदनायामिति यावत्। कर्मणा पितृलोक इति तत्फलं श्रुतमित्याशङ्क्य नित्यकर्मप्रकरणेऽश्रवणान्मैवमित्याह। साक्षादिति॥७५॥

विश्वजिद्वन्न सामर्थ्यं तत्र संभाव्यतेऽण्वपि॥
उत्पत्त्यादिफलोद्भूतौ मुक्तिरस्तु ततः फलम्॥७६॥

ननु विश्वजिति श्रुताधिकाराभावेऽपि निरधिकारत्वं निरस्य साधिकारत्वमुक्तं तत्रापि सर्वफलार्थिनामधिकारशङ्कामपास्य बहुकल्पनायामप्येककल्पनस्याऽऽवश्यकत्वात्तावतैवापेक्षाशान्तेरेकस्यैवाधिकारः साधितस्तत्रापि स्वर्गकामस्यैव स निरूपितस्तथा नित्यानामपि कर्मणां कैवल्यविलक्षणं फलं कल्प्यते नेत्याह। विश्वजिद्वदिति। यथा विश्वजिति स्वर्गोद्भूतौ सामर्थ्यमिति स्वर्गकामो नियोज्यो नैवं नित्यकर्मसूत्पत्त्यादिमत्फलोत्पत्तावीषदपि सामर्थ्यमिति न स नियोज्यो जीवञ्जुहुयादिति जीवनविशिष्टस्य नियोज्यस्य तत्र लाभादित्यर्थः। ननु जीवतोऽनुष्ठानात्फलकल्पनायामपि जीवनस्यापरिहार्यत्देनाधिकारिविशेषणत्वं युक्तं तथाऽपि विधेयप्र71युक्तिकल्पनायां पुंसां कामप्रवृत्तित्वात्फलार्थिनामेवाधिकारो यद्यद्धि कुरुते जन्तुस्तत्तत्कामस्य चेष्टितमिति स्मृतेस्तन्नित्यानामपि कर्मणां स्यादुत्पत्त्यादिमत्फलं नेत्याह। मुक्तिरिति। यद्यप्यविवेकिनो नाऽऽत्यन्तिकदेहोच्छेदलक्षणो मोक्षोऽपेक्षितस्तथाऽपि विवेकिनो मुमुक्षवो नित्यकर्माधिकारिण इति युक्ता मुक्तेस्तत्फलतेति भावः॥७६॥

पुरुषार्थेऽसति फले विधानं नोपपद्यते॥
नित्यानां कर्मणां तस्मिन्सत्येव घटते यतः॥७७॥

नित्यानां श्रुतं फलं नास्ति चेदफलान्येव तानि स्युर्विहितत्वाच्चानुष्ठीयेरन्नित्याशङ्क्याऽऽह। पुरुषार्थ इति। फलं विना विध्यसंभवे हेतुमाह। तस्मिन्निति॥७७॥

दुःखात्मकेषु नित्येषु समीक्षापूर्वकारिणः॥
पुरुषा न प्रवर्तेरन्न चेत्तेभ्यः फलं भवेत्॥७८॥

फले सत्येव कथं विधेर्घटमानत्वं तत्राऽऽह। दुःखात्मकेष्विति। प्रवृत्तिफलो विधिर्न च विना फलं प्रवृत्तिर्न च नित्येषु फलान्तरमतो मुक्तिस्तत्फलमित्यर्थः ॥७८॥

नैवं वाक्यात्फलं यस्मान्न किंचिदपि लभ्यते॥
तत्सामर्थ्यश्रवाभावात्फले नातो मितिश्च नः॥७९॥

यावज्जीवादिवाक्यवशाद्वा तदर्थसामर्थ्याद्वा नित्यानां मुक्तिफलतेति विकल्प्याऽऽद्यं दूषयति। नैवमिति। न हि यावज्जीवादिश्रुतिसामर्थ्यान्मोक्षोऽन्यद्वा नित्यकर्मफलं

लभ्यते तत्फलसंबन्धबोधसामर्थ्यवतः पदस्यात्राश्रुतेरर्थानुपपत्तिश्च निरसिष्यते तन्नित्यानां मोक्षलक्षणे फले न मानमस्ति तस्य स्वरूपत्वेन स्वतस्तत्सिद्धेस्तद्व्यवध्यज्ञानध्वस्तेश्च धीमात्राधीनत्वादित्यर्थः॥७९॥

प्रमाणबलतः प्राप्तमपि भूरि न वार्यते॥
अणुमात्रं न तद्ग्राह्यं वस्तु यन्निष्प्रमाणकम्॥८०॥

नित्यानां मुक्तिफलत्वस्याप्रमाणत्वे फलितमाह। प्रमाणेति॥८०॥

पुमाशयवशाच्चेयं फलकॢप्तिस्त्वयोच्यते॥
अन्यानपेक्षं सन्मानं प्रमेयार्थसमर्पकम्॥८१॥

अथ काम्यनिषिद्धवर्जनादुत्तमाधमयोरप्राप्तेर्नित्यनैमित्तिकानुष्ठानात्प्रत्यवायहतेर्वर्तमानदेहपाते मुमुक्षोर्देहान्तरग्रहे हेत्वभावादनायाससिद्धा मुक्तिरत आह। पुमाशयेति। मानाभावान्नेयं कल्पना ग्राह्येत्यर्थः। अस्मदुत्प्रेक्षामपेक्ष्य यावज्जीवादिवाक्यमेतमर्थमर्पयति तत्कुतो मानराहित्यमित्याशङ्क्याऽऽह। अन्येति। उत्प्रेक्षानपेक्षमेव तन्नित्यकर्मणो नित्यकर्तव्यत्वं बोधयन्नोक्तकल्पनायां मानमित्यर्थः॥८१॥

प्रत्यवायाद्यभावश्च फलं नित्यस्य कर्मणः॥
क्लृप्तं सत्कल्प्यते कस्माद्विमुक्तिर्नित्यकर्मणः॥८२॥

नित्यकर्मफलं मुक्तिरित्यत्र वाक्याप्रामाण्यमुक्त्वा तदर्थानुपपत्तिं प्रत्याचष्टे। प्रत्यवायादीति। आदिपदं तत्फलार्थं न चोत्पत्त्यादिमत्किंचिदित्याद्येतेन प्रत्युक्तम्॥८२॥

तावतैव कृतार्थत्वाद्विधेर्नित्यस्य कर्मणः॥
विमुक्तिफलसंबन्धे न मानं विद्यते ततः॥८३॥

क्लृप्तकल्प्यमानयोः क्लृप्तं बलवदितिन्यायविरोधमर्थापत्तेरुक्त्वाऽन्यथैवोपपत्तिमाह। तावतेति। प्रत्यवायध्वस्त्यादिफलेनेति यावत्। ततो न नित्यकर्मफलं मुक्तिरिति शेषः॥८३॥

अन्यथाऽनुपपत्त्या चेद्विश्वजिद्वत्प्रकल्प्यते॥
फलं कथं नु न भवेद्विश्वजिन्न्याय ईर्यताम्॥८४॥

यत्तु विश्वजिद्वन्न सामर्थ्यमिति तत्राऽऽह। अन्यथेति। विध्यनुपपत्त्या नियोज्यलाभाय विश्वजितीव फलं कल्प्यते चेत्तर्हि विश्वजिन्न्याय एव स्वीकृत इत्यर्थः॥८४॥

काम्याग्निहोत्रवन्नित्यं काम्यं चापि प्रसज्यते॥
फलेनास्याभिसंबन्धान्निष्कामं नित्यमुच्यते॥८५॥

यत्तु नित्येषु जीवनविशिष्टनियोज्यलाभान्नासौ न्याय इति तत्र तेषां फलवत्त्वमङ्गीकृत्य वा न्यायाभावस्तदनङ्गीकृत्य वोच्यते नाऽऽद्यो नित्यकाम्यवैषम्यासिद्धेरित्याह। काम्येति। फलसंबन्धेऽपि नित्यानित्यफलभेदान्नित्यकाम्यवैषम्यं किं न स्यादित्याश-

ङ्क्य कामप्रयुक्तत्वेऽपि चित्राज्योतिष्टोमवस्काम्यविशेषत्वापत्तेर्नित्यत्वानुपपत्तिरित्याह। निष्काममिति॥८५॥

मतं चेन्न फलत्वेन मोक्षो नित्योऽभ्युपेयते॥
प्रतिज्ञातार्थहानाप्तेर्नैवमप्युपपद्यते॥८६॥

नित्येषु फलकल्पनायां विश्वजिन्न्यायो न च तेषु तत्कल्प्यते मोक्षस्य स्वरूपस्थितित्वेनास्यानुत्पाद्यस्याफलत्वादिति द्वितीयं शङ्कते। मतमिति। उत्तरमाह। प्रतिज्ञातेति॥८६॥

आरभ्यमाणता मुक्तेः प्रत्यज्ञायि त्वयैव सा॥
विरुध्यतेऽफलोक्त्यैवमारभ्यं स्याद्यतः फलम्॥८७॥

कथं प्रतिज्ञा कथं वा तद्धानिरत आह। आरभ्यमाणतेति। सत्यं मुक्तेरारभ्यमाणता प्रतिज्ञाता न तु सा विरुध्यते फलत्वस्यैव तस्या निरासादत आह। आरभ्यमिति। कर्मारभ्यं हि तत्फलं तस्मान्मोक्षस्य तत्फलत्वे निषिद्धे तदारभ्यतैव निषिद्धेति प्रतिज्ञाहानिरित्यर्थः॥८७॥

मुक्तेश्च कर्मकार्यत्वे विशेषो भवतोच्यताम्॥
स्वर्गादिभ्यो विनाशादौ मोक्षे तेऽनिर्वृतिर्यतः॥८८॥

कर्मारभ्यत्वं मुक्तेरुपेत्य प्रतिज्ञाहानिमुक्त्वा तस्यास्तदारभ्यत्वं मुख्यममुख्यं वेति विकल्प्याऽऽद्यं दूषयति। मुक्तेश्चेति। कर्मकार्यत्वे मुक्तेः स्वर्गादिभ्यो यतो विशेषो वक्तुं न शक्योऽतस्तद्वत्तत्रापि नाशापकर्षादौ प्राप्ते संसारवत्तत्र सुखं नेति न ते मुमुक्षा स्यादित्यर्थः॥८८॥

अथोपचारतो मोक्षः कार्यं स्यान्नित्यकर्मणः॥
ज्ञानकार्यवदित्येवं मतं चेन्नैवमिष्यते॥८९॥

अज्ञानध्वंसकारित्वान्मोक्षो ज्ञानस्य भण्यते॥
उपचारात्कार्यमिति तदसत्त्वान्न कर्मणः॥९०॥

द्वितीयमुत्थाप्य निरस्यति। अथेत्यादिना। कर्मणोऽपि व्यवधिनिरासित्वान्मुक्तिस्तत्कार्यत्वेनोपचर्यतामिति चेन्नेत्याह। तदसत्त्वादिति। कर्मणो व्यवधानाध्वंसित्वान्न मुक्तिस्तत्कार्यत्वेनोपचारार्हेत्यर्थः॥८९॥९०॥

व्यवधानापनुज्ज्ञानं न कर्माज्ञानहानिकृत्॥
यतोऽतो नोपचारेण कर्मणो मुक्तिकार्यता॥९१॥

ज्ञानमपि तर्हि न व्यवधिध्वंसि कुतस्तत्कार्यत्वेन सोपचर्यते तत्राऽऽह। व्यवधानेति॥९१ ॥

न चाज्ञानातिरेकेण व्यवधानान्तरं मतम्॥
निवर्त्यत्वेन मोक्षस्य कर्मणा यन्निवर्त्यते॥९२॥

ज्ञानवत्कर्मणोऽपि तद्ध्वंसिता स्यादिति चेत्किं तद्व्यवधानमज्ञानादर्थान्तरमज्ञानं वेति विकल्प्याऽऽद्यं निराह। न चेति॥९२॥

विरोध्यन्तरविध्वंसो दृष्टो लोके विरोधिना॥
तमःप्रकाशवत्कर्म नाज्ञानेन विरुध्यते॥९३॥

द्वितीयं प्रत्याह। विरोध्यन्तरेति॥९३॥

मतमज्ञानमेवैतत्कर्म नाशयतीति चेत्॥
नाविरोधात्तमो हन्ति कर्म किंचित्कदाचन॥९४॥

उक्तमेव चोद्यसमाधिभ्यां विभजते। मतमिति॥९४॥

अज्ञानमनभिव्यक्तिर्बोधोऽभिव्यक्तिरात्मनः॥
बाध्यबाधकभावोऽयं विरोधाद्घटते तयोः॥९५॥

कर्माज्ञानयोरविरोधान्न निवर्त्यनिवर्तकत्वं चेत्तर्हि ज्ञानेऽप्यविरोधात्तथेत्याशङ्क्याऽऽह। अज्ञानमिति॥९५॥

विरुद्धधर्मकत्वं तु मिथो नाज्ञानकर्मणोः॥
बाध्यबाधकभावोऽयं न तयोर्युज्यते ततः॥९६॥

तयोरिवाज्ञानकर्मणोर्विरुद्धता किं न स्यादित्याशङ्क्याऽऽह। विरुद्धेति। अलोकवेदसिद्धत्वादिति शेषः। विरुद्धत्वाभावफलं कथयति। बाध्येति॥९६॥

कर्मणोऽदृष्टसामर्थ्यं यद्यज्ञानापनुन्मतम्॥
ज्ञानेनाज्ञानविध्वस्तेः प्रात्यक्ष्यात्तदसद्वचः॥९७॥

कर्मणो विरोधाभावादज्ञाननिवर्तकत्वं नान्वयव्यतिरेकसिद्धं किंत्वदृष्टमिति शङ्कते। कर्मण इति। दृष्टे सत्यदृष्टकल्पनाऽन्याय्येति परिहरति। ज्ञानेनेति॥९७॥

तुषतण्डुलनिर्मोके प्रत्यक्षे ह्यवघातजे॥९८॥

सामर्थ्यात्तद्विनिष्पत्तिर्नाग्निहोत्रादिकर्मणः॥
कल्प्यते तद्वदेवेह प्रत्यक्षेणावबोधतः॥९९॥

प्रत्यगज्ञानविध्वंसे सामर्थ्यान्नित्यकर्मणः॥
न युक्तोऽज्ञानविध्वंसो बलात्कल्पयितुं त्वया॥१००॥

तत्र दृष्टान्तमाह। तुषेति। तुषस्य तण्डुलस्य च विश्लेषे व्रीह्याद्यवघातजन्ये प्रत्यक्षे सत्यग्निहोत्रादिसामर्थ्यादुक्तकार्यजन्म न कल्प्यत इति योजना। दार्ष्टान्तिकमाह। तद्वदिति। बलान्मानं विनेत्यर्थः॥९८॥९९॥१००॥

कर्मभिश्चाविरुद्धं यद्देवताद्रव्यतत्त्वगम्॥
समुच्चीयेत तज्ज्ञानं न तु कर्मविरोधि यत्॥१०१॥

अस्तु ज्ञानादज्ञानध्वस्तिः किंतु यदेव विद्ययेत्यादिश्रुतेः समुच्चितकर्मवत्तत्समुच्चितं ज्ञानमपि फलातिशयवदित्याशङ्क्याऽऽह। कर्मभिश्चेति। यदेव विद्ययेत्यादौ देवतादिज्ञानस्याविरोधित्वाद्युक्तः समुच्चयस्तत्त्वमस्यादिवाक्योत्थज्ञानस्य तु कर्मविरोधित्वान्न समुच्चयोऽतस्तत्केवलमेवाज्ञानध्वंसीत्यर्थः॥१०१॥

कल्प्ये चादृष्टसामर्थ्ये नित्यानां कर्मणां त्वया॥
विरुद्धं कर्मभिः किंवा यदुत्पत्त्यादिवर्जितम्॥१०२॥

नित्यकर्मणां समुच्चितानामसमुच्चितानां च स्वरूपस्थितौ मोक्षे तत्प्रतिबन्धकाज्ञानध्वस्तौ वा नादृष्टं सामर्थ्यं कल्प्यमित्युक्तमिदानीमदृष्टसामर्थ्यमङ्गीकृत्यापि मोक्षे न तत्कल्पनेत्याह। कल्प्ये चेति। मोक्षे न तत्कल्प्यमिति शेषः। तदर्थं विचारयति। विरुद्धमिति। विरोधमभिनयति। यदिति॥१०२॥

न जन्यं जनकं वस्तु न द्रव्यगुणकर्मभिः॥
जन्यते यत्फलं तादृक्कल्प्यतां नित्यकर्मणः॥१०३॥

तदेवाकार्यकारणत्वेन व्यनक्ति। नेति। तदेव कथं तत्राऽऽह। न द्रव्येति। द्रव्यादिविलक्षणत्वात्तज्जन्यत्वाभावाच्चाकार्यकारणमुत्पत्त्यादिचतुष्टयातिरिक्तं कर्मभिर्यद्विरुद्धं मोक्षाख्यं फलं तत्किं नित्यानां फलं कल्प्यमित्यक्षरार्थः॥१०३॥

किंवोत्पत्त्यादिमत्किंचित्सामर्थ्यं यत्र कर्मणः॥
तादृक्फलं प्रकल्प्यं स्याद्यथा न्याय्यं तथाऽस्त्विह॥१०४॥

पक्षान्तरमाह। किंवेति। विचारे कथं निर्णयस्तत्राऽऽह। यथेति॥१०४॥

अवश्यं चेत्प्रकल्प्यं स्यात्पुंस्प्रवृत्तिप्रयोजकम्॥
तदुत्पत्त्यादिमत्स्वेव युक्तं कल्पयितुं फलम्॥१०५॥

न्यायानुसारिणं निर्णयं दर्शयति। अवश्यमिति। विरोधमवधूय हि कल्पना सत्यपि विरोधे कल्पनायामतिप्रसङ्गादिति भावः॥१०५॥

अर्थापत्तेश्च तत्रैव क्षीणत्वान्मोक्षकल्पने॥
न सामर्थ्यं यतस्तस्मान्न युक्ता मुक्तिकल्पना॥१०६॥

नित्यकर्मचोदनानुपपत्तिर्मुक्तिफलकल्पिकेत्युक्तत्वात्तत्कथमवधारणमित्याशङ्क्याऽऽह। अर्थापत्तेश्चेति। तत्रेत्युत्पत्त्यादिमदन्यतमफलवचनम्॥१०६॥

नित्यस्य कर्मणः कार्यं पारिशेष्यसमाश्रयात्॥
युक्ता कल्पयितुं मुक्तिरन्यस्यासंभवो यतः॥१०७॥

यद्यपि केवला सा नित्यकर्मणो मुक्तिफलं न कल्पयति तथाऽपि पारिशेष्यसहिता कल्पयिष्यतीति शङ्कते। नित्यस्येति॥१०७॥

मोक्षात्फलान्तरैर्योगः काम्यानां स्याच्छ्रुतत्वतः॥
नित्यकर्माभिसंबन्धो मुक्तेः स्यात्पारिशेष्यतः॥१०८॥

कथं फलान्तराभावेन पारिशेष्यं तत्राऽऽह। मोक्षादिति। विध्युद्देशे फलाश्रुतेरफलस्य च विधेरयोगादिति हेतुमाह। पारिशेष्यत इति॥१०८॥

मैवं कर्मफलव्यक्तेरानन्त्यादुपपद्यते॥
पारिशेष्यनयद्वारा मुक्तेः कर्मफलात्मता॥१०९॥

परिहरति। मैवमिति॥१०९॥

पुंस्कामविषयाणां तु नेयत्तेहोपपद्यते॥
काम्यकर्मफलानां हि तथा तत्साधनस्य च॥११०॥

पारिशेष्यासंभवार्थं कर्मफलव्यक्त्यानन्त्यमुक्तं व्यनक्ति। पुंस्कामेति। इहेति कर्मफलभूमिरुक्ता। विषयाणामित्यस्य व्याख्या काम्यकर्मफलानामिति। फलानन्त्ये स्वानुभवमनुकूलयितुं हीत्युक्तम्। फलवत्फलसाधनस्यापि नेयत्तेत्याह। तथेति॥११०॥

देशकालाद्यनियमात्पुमिच्छानामनन्तता॥
तथा तत्साधनानां च काम्येष्टार्थप्रयुक्तितः॥१११॥

द्वयोरानन्त्ये हेतुमाह। देशेति। इच्छानन्त्ये हेत्वन्तरमाह। तथेति। तत्साधनानामिच्छोपायानां शोभनाध्यासभेदानामिति यावत्। तथेत्यानन्त्योक्तिः। इच्छातद्धेतुभेदात्तद्विषयफलभेदेऽपि कथं तदुपायकर्मभेद एकमेव प्रकृष्टं कर्म सर्वमिष्टं किं न साधयेदित्याशङ्क्याऽऽह। काम्येति। इष्टमनुस्मृत्य हि साधनानि प्रयुज्यन्ते तेन तद्भेदे साधनभेदोऽन्यथा तद्भेदस्याऽऽकस्मिकत्वापत्तेरिति भावः॥१११॥

प्रतिप्राणि च वैचित्र्याद्देशकालादिहेतुतः॥
इच्छातत्साधनानां च स्यादानन्त्यं तथा सति॥११२॥

पारिशेष्यनयो न स्यात्सर्वज्ञस्याप्यनन्ततः॥
न च कर्मफलत्वेन पारिशेष्यं प्रसिध्यति॥११३॥

नित्यकर्मफलत्वेन मुक्तेरपि परिग्रहात्॥
न पारिशेष्यसंसिद्धिस्तथाऽपीहोपपद्यते॥११४॥

इच्छानामिष्यमाणफलतत्साधनानां चाऽऽनन्त्ये हेत्वन्तरमाह। प्रतिप्राणीति। सर्वेषु प्राणिषु देशादिवशादिच्छादीनां वैचित्र्यादानन्त्येऽपि प्रकृते किं स्यात्तदाह। तथेति। कैमुतिकन्यायार्थोऽपिशब्दः। तथा सतीत्युक्तमेव हेतुं व्यनक्ति। अनन्तत इति। इच्छाफलहेतूनामानन्त्येऽपि कर्मफलत्वस्य सर्वेषु तुल्यत्वान्मुक्तेश्चाकर्मफलत्वेन

शिष्टत्वाद्युक्तं पारिशेष्यमित्याशङ्क्याऽऽह। न चेति। तदसिद्धिं साधयति। नेत्यादिना। इहेति मोक्षोक्तिः। तथाऽपीति कर्मफलत्वस्य स्वर्गादिषु सर्वेषु तुल्यत्वेऽपीत्यर्थः॥११२॥११३॥११४॥

नित्यकर्मफलत्वं चेन्मुक्तेरप्यभ्युपेयते॥
कर्मकार्यसजातित्वात्पारिशेष्यनयः कुतः॥११५॥

मोक्षादन्यत्र काम्यकर्मफलत्वस्य सत्त्वान्मोक्षे तदभावात्पारिशेष्यमित्याशङ्क्याऽऽह। नित्येति॥११५॥

अर्थापत्तिक्षयोऽतः स्यादन्यथाऽप्युपपत्तितः॥
उत्पत्त्यादेरन्यतमो न च मोक्ष इहेष्यते॥११६॥

उत्पत्त्यादिविरुद्धत्वा72न्मोक्षरूपस्य नित्यतः॥
नोत्पाद्योवा विकार्यो वा विकारप्रतिषेधतः॥११७॥

पारिशेष्यासंभवे तत्सहकृतार्थापत्तिर्नित्यस्य मुक्तिफलत्वं कल्पयतीत्येतदपि निरस्तमिति फलितमाह। अर्थापत्तीति। उत्पत्त्यादीनां चतुर्णामन्यतमफलत्वेनापि नित्यचोदनोपपत्तेर्न मुक्तेस्तत्फलत्वसाधिकाऽर्थापत्तिरित्यर्थः। सत्यं नित्यानामुत्पत्त्याद्यन्यतमफलत्वं किंतु मोक्षोऽपि तेषामन्यतम इत्याशङ्क्य न चान्यतम एतेषामित्यत्रोक्तं व्यनक्ति। उत्पत्त्यादेरिति। इहेति मोक्षशास्त्रोक्तिः। विरुद्धत्वे हेतुः। नित्यत इति। उत्पाद्यत्वविकार्यत्वयोरभावे हेत्वन्तरमाह। नेति। विकारप्रतिषेधतः श्रुतिस्मृत्योरिति शेषः॥११६॥११७॥

व्रीहिपात्रादिवन्नापि मोक्षः संस्कार्य इष्यते॥
असाधनत्वान्नाप्याप्यः प्रत्यङ्मात्रस्वभावतः॥११८॥

संस्कार्यत्वाभावे हेत्वन्तरम्। व्रीहीत्यादि। आप्यत्वाभावे हेत्वन्तरम्। नापीत्यादि॥११८॥

नित्यस्य सर्वकर्मभ्यो वैलक्षण्याच्च कारणात्॥
कारणानुविधायित्वात्फलमप्यस्तु चेत्तथा॥११९॥

अग्निहोत्रादिनित्यकर्मणो नित्यत्वसमाख्यया कर्मान्तरवैलक्षण्यात्तत्फलेऽपि नित्यतेति संज्ञावशेन शङ्कते। नित्यस्येति॥११९॥

नैवं कर्मत्वसारूप्यात्सालक्षण्यं भवेन्न किम्॥
काम्यकर्मफलैर्नित्यफलस्येत्यभिधीयताम्॥१२०॥

समाख्यान्तरेण समाधत्ते। नैवमिति॥१२०॥

वैलक्षण्यं निमित्ताच्चेन्न नैमित्तिकतुल्यतः॥
क्षामवत्यादिवन्नित्यं कस्मान्न स्यात्सलक्षणम्॥१२१॥

नाग्निहोत्रादिषु नित्यत्वसमाख्यया वैलक्षण्यं येन कर्मत्वसमाख्यान्तरेण तेषु फलसालक्षण्यमुच्येत किंतु जीवनादिनिमित्तवशादिति शङ्कते। वैलक्षण्यमिति। सत्यपि निमित्तकृते वैलक्षण्ये न नित्यानां मोक्षफलता नैमित्तिकैस्तुल्यफलत्वेनातत्फलत्वादित्याह। नेति। कथं तेषां नैमित्तिकतुल्यत्वं तत्राऽऽह। क्षामेति। अस्यार्थः—यस्याऽऽहिताग्नेरग्निर्गृहान्दहेदग्नये क्षामवते पुरोडाशमष्टाकपालं निर्वपेदित्यत्र दहेदिति विधिविभक्त्या प्रसिद्धार्थयच्छब्दोपहितया गृहदाहाख्यनिमित्तपरामर्शेनाग्नये क्षामवते पुरोडाशमित्यादिना क्षामवती विधीयते यस्योभयं हविरार्तिमार्छेत्स ऐन्द्रं पञ्चशरावमोदनं निर्वपेदित्यत्र वाऽऽर्छेदिति विधिविभक्त्या निर्वपेदितिविधास्यमाननिर्वापनिमित्तं हविरार्तिमनूद्य निर्वापो विधीयते भिन्ने जुहोति स्कन्ने जुहोत्यथ यस्य पुरोडाशौ क्षायतस्तं यज्ञं वरुणो गृह्णाति यदा तद्धविः संतिष्ठेताथ तदेव हविर्निर्वपेद्यज्ञो हि यज्ञस्य प्रायश्चित्तमिति च भेदनादिनिमित्तं प्रायश्चित्तमुक्तं न च तन्मुक्तिफलं तथा निमित्तभेदेऽपि न नित्यं मुक्तिफलमिति॥१२१॥

न हि लौकिकचक्षुर्भिर्वैलक्षण्यात्समर्थ्यते॥
उलूकचक्षुषोऽरूपाद्रसादिग्रहणं क्वचित्॥१२२॥

नित्यं कर्म कर्मान्तराद्विलक्षणमपि न मोक्षफलमित्यत्र दृष्टान्तमाह। न हीति। अरूपात्तद्वर्जनादित्यर्थः॥१२२॥

रसादिग्रहणे शक्तिर्लोके दृष्टा न चक्षुषः॥
सामर्थ्यस्याग्रहात्तस्मान्न विरुद्धा प्रकल्प्यते॥१२३॥

तत्र हेतुः। रसादीति। विरुद्धा रसादिविषया शक्तिरिति शेषः॥१२३॥

सामर्थ्यं यस्य यत्रैव दृष्टं तत्रैव तस्य तत्॥
सुदूरमपि गत्वेह ह्यतिशीतिरपीष्यते॥१२४॥

कथं तर्हि सामर्थ्यव्यवस्था तत्राऽऽह। सामर्थ्यमिति। सुदूरमपि मनुष्यान्विहायोलूकादौ गत्वाऽपीत्यर्थः। आलोकानपेक्षमुलूकादिचक्षुरस्मदादिचक्षुर्वत्कथं कार्यं कुर्यादत आह। इहेति। आलोकानपेक्षस्याप्युलूकादिचक्षुषः स्वगोचरे रूपादावेव शक्त्यतिशयो न रसादावित्यर्थः। तत्र चक्षुषः शक्त्यग्रहादित्युक्तहेतुपरामर्शार्थो हिशब्दः॥१२४॥

कर्मकार्यान्तरं नित्यं विषदध्यादिवद्ध्रुवम्॥
यदारभत इत्युक्तं तच्चाप्यस्तु स्वगोचरे॥१२५॥

दार्ष्टान्तिकमाह। कर्मेति। आलोकानपेक्षोलूकादिचक्षुर्वज्ज्ञानसंयुक्तमपि कर्म स्वगोचरे चतुर्णामन्यतम आर73म्भकमिति भावः॥१२५॥

यदेव विद्ययेत्यादि श्रुतेरपि वचस्तथा॥१२६॥

देवयाजिसकाशाच्च विशेषश्चाऽऽत्मयाजिनः॥
तदाहुरिति विस्प74ष्टं श्रूयते श्रुतिवाक्यतः॥१२७॥

विद्यासंयोगस्य वैयर्थ्यमाशङ्क्य विशिष्टकार्यारम्भोपयोगान्मैवमिति मत्वा तत्र मानमाह। यदेवेति। विद्यासंयुक्तं कर्म विशिष्टकार्यकरमित्येतदनुसारेण शातपथश्रुतिमाह। देवेति। तदाहुरित्युपक्रम्य देवयाजी श्रेयानात्मयाजीत्यादिवाक्यात्काम्यकर्तुर्देवयाजिनः सकाशादात्मशुद्ध्यर्थं कर्म कुर्वन्नात्मयाजी श्रेयानिति तस्य विशेषोऽतिस्पष्टो निर्दिष्ट इत्यर्थः। सर्वक्रतुयाजिनामात्मयाजी विशिष्यत इतिस्मृतिसमुच्चयश्चार्थः॥१२६॥१२७॥

मनुनाऽप्यात्मयाजीति यदुक्तं परदर्शने॥
तत्रापि च समं पश्यन्नात्मयाजी भवत्यम्॥
समदृष्टिप्रशंसैषा यदि वा भूतपूर्वतः॥१२८॥

ननु मनुना

“नैःश्रेयसं कर्मविधिं विप्रस्येमं निबोधत” इत्यारभ्य—

“वेदाभ्यासस्तपो ज्ञानमिन्द्रियाणां च संयमः।
अहिंसा गुरुसेवा च नैःश्रेयसकरं परम्”॥

इत्यादिना कर्मविशेषानुक्त्वा—

“श्रेयस्करतरं ज्ञेयं सर्वदा कर्म वैदिकम्”

इति चाऽऽदिश्य—

“सर्वभूतेषु चाऽऽत्मानं सर्वभूतानि चाऽऽत्मनि।
संपश्यन्नात्मयाजी वै स्वाराज्यमधिगच्छति”॥

इति वदता विद्यायुक्तस्य कर्मणो मुक्तिफलत्वमिष्टमत आह। मनुनाऽपीति। यद्यधिकृतः पुरुषः समं पश्यन्भवेत्तदा परेणाऽऽत्मनैकीभूतः स्वराड्भवत्यात्मज्ञानस्तुतिरत्र विवक्षितेत्यर्थः। परदर्शनवत्यात्मयाजिशब्दस्य गत्यन्तरमाह। यदि वेति। भूता या पूर्वस्थितिस्तामपेक्ष्याऽऽत्मयाजिशब्दो विदुषीत्यर्थः॥१२८॥

आत्मसंस्कृतये कर्म यः करोति यथाविधि॥
आत्मयाजीति मनुना स एवेहाभिधीयते॥१२९॥

एतत्प्रपञ्चयति। आत्मेति। इहशब्देन समं पश्यन्नित्यादिवाक्योक्तिः॥१२९॥

सुसंस्कृतधियः पुंसो यथोक्तैः कर्मभिः समम्॥
इह वाऽमुत्र वा ज्ञानं जायते मोक्षकृद्ध्रुवम्॥१३०॥

मनोरभिप्रायमुक्त्वा तत्रैव तद्वाक्यं व्याचष्टे। सुसंस्कृतेति। ऐहिकैरामुष्मिकैर्वा कर्मभिः शुद्धबुद्धेः श्रवणादिवशादेकरसाकारं ज्ञानं मुक्तिफलमुदेतीत्येतन्मनुवाक्ये विवक्ष्यते—

“महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः”।

इति तेनैवोक्तेरित्यर्थः॥१३०॥

ब्रह्मा विश्वसृजोवाक्याद्देवसार्ष्ट्यतिरेकतः॥
भूतापीतिं मनुः साक्षाद्दर्शयत्यविनश्वरीम्॥१३१॥

किंच—

“सत्त्वं रजस्तमश्चेति त्रीन्विद्यादात्मनो गुणान्”।

इति प्रस्तुत्य—

सत्त्वं ज्ञानं तमोऽज्ञानं रागद्वेषौ रजः स्मृतौ॥

इत्यादि तल्लक्षणमुक्त्वा—

“त्रयाणामपि च तेषां गुणानां यः फलोदयः।
अग्र्यो मध्यो जघन्यश्च तं प्रवक्ष्याम्यशेषतः”॥

इत्यादिना च तत्फलोदयं विभज्योक्त्वा—

“त्रिविधा त्रिविधैवैषा विज्ञेया गौणिकी गतिः।
अधमा मध्यमाऽग्र्या च कर्मविद्याविशेषतः”॥

इति च त्रैविध्यमभिधाय तामसीं राजसीं च गतिं त्रिधा त्रिधोपदिश्य सात्त्विकीमपि जघन्यां मध्यमां च गतिमाख्याय तामेवोत्तमाम् ‘ब्रह्मा विश्वसृजो धर्मो महान्’ इत्यादिनोपन्यस्य—

“एष सर्वः समुद्दिष्टस्त्रिप्रकारस्य कर्मणः।
त्रिविधस्त्रिविधः कर्मसंसारः सार्वभौतिकः”॥

इत्युपसंहरन्विद्यायुक्तस्य कर्मणः संसारफलत्वमेवेति मन्यते मनुरित्याह। ब्रह्मेति

किंच—

“प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम्।
इह वाऽमुत्र वा काम्यं प्रवृत्तमिह कीर्त्यते॥

निष्कामं ज्ञानपूर्वं च निवृत्तमुपदिश्यते।
प्रवृत्तं कर्म संसेव्य देवानामेति सार्ष्टिताम्॥

इति कर्मफलभूतदेवतासदृशैश्वर्याप्त्यतिरेकेण भूतेषु व्यक्ताव्यक्तेषु पञ्चसु समुच्चयानुष्ठायिनः सापेक्षाविनाशोपेतमप्ययम्—

‘निवृत्तं सेवमानस्तु भूतान्यप्येति पञ्च च’।

इति साक्षादाह तन्न समुच्चयस्य मुक्तिफलतेत्याह। देवेति॥१३१॥

अत्येतीति तु ये पाठं कुर्वते तेऽविपश्चितः॥
यथोक्तदोषदुष्टत्वान्नात्ययो बोधतोऽन्यतः॥१३२॥

निवृत्तं सेवमानस्तु भूतान्यत्येति पञ्च चेति पाठान्मुक्तिरेव समुच्चयानुष्ठानाद्विवक्षितेति चेत्तत्राऽऽह। अत्येतीति त्विति। नान्यः पन्था अयनायेत्यादिश्रुतिविरोधं सूचयति। अविपश्चित इति। किंच न कर्मणा भूतात्ययस्तदविरोधित्वादतो ज्ञानादेव तत्सिद्धेः समुच्चयायोगाद्भूतान्यप्येतीत्येव पाठस्तदनुसारीत्यभिप्रेत्याऽऽह। यथोक्तेति। एतदेव यथोक्तदोषदुष्टत्वं यत्कर्मणो मोहतत्कार्याविरोधित्वम्॥१३२॥

स्पष्टार्थमुत्तरं भाष्यं न व्याख्यानमपेक्षते॥
यतोऽत उत्तरो ग्रन्थः सम्यग्व्याख्यायतेऽधुना॥१३३॥

किंचान्यदित्यादिभाष्ये व्याख्याते न चेत्यादिभाष्यव्याख्याप्राप्तावाह। स्पष्टेति। स्पष्टत्वान्न व्याक्रियते तर्हि समाप्तिरेव ब्राह्मणस्य युक्ता किमनन्तरसंदर्भेणेत्याशङ्क्य सर्वस्य कर्मफलस्य संसारत्वप्रदर्शनाय ब्राह्मणारम्भे स्थिते तदक्षरव्याख्याभाष्यमाश्रित्योत्तरसंदर्भ इत्याह। यत इति॥१३३॥

प्रयोज्यस्य हि बन्धस्य प्रयोजकमिहोदितम्॥
प्राधान्येनेह कर्मैव तदन्यत्तूपसर्जनम्॥१३४॥

समुच्चितमसमुच्चितं वा सर्वंकर्म बन्धार्थं सम्यग्धीरेव मुक्त्यर्थेति वक्तुं ब्राह्मणमितिविचारद्वारा संबन्धमुक्त्वा विचारव्यवधानाद्विस्मृतिर्मा भूदिति वृत्तं स्मारयति। प्रयोज्यस्येति। तस्य प्रयोजकापेक्षाध्रौव्यार्थो हिशब्दः। इहेत्यार्तभागग्रन्थोक्तिः। किं तत्प्रयोजकं न हि बहुषु संप्लवमानेषु तत्तद्विशेषनिर्णयस्तत्राऽऽह। प्राधान्येनेति। इहेति निर्धारणे। कालाद्यपि प्रयोजकमिति कुतोऽवधारणं तत्राऽऽह। तदन्यत्त्विति॥१३४॥

परिच्छिन्नापरिच्छिन्नं तच्च कर्म स्वभावतः॥१३५॥

परिच्छिन्नस्य संव्याप्तिर्व्याख्याता पूर्वमेव तु॥
अपरिच्छिन्नसंव्याप्तिर्भुज्युप्रश्नेन भण्यते॥१३६॥

कर्मणो व्यावृत्तानुवृत्तत्वेन द्वैविध्यं स्मारयति। परिच्छिन्नेति। तत्र व्यावृत्तस्य कर्मणो व्याप्तिरादित्याद्या ब्रह्माण्डान्तस्था प्रागेवोद्गीथग्रन्थे दर्शितेति वाच्यपरिशेषार्थमाह। परिच्छिन्नस्येति। वृत्तं संक्षिप्य ब्राह्मणतात्पर्यमाह। अपरिच्छिन्नेति॥१३५॥१३६ ॥

ब्रह्माण्डाद्बहिरन्तश्च समष्टिव्यष्टिरूपिणः॥
व्याप्तिर्हिरण्यगर्भस्य बन्धज्ञानाय भण्यते॥१३७॥

द्विविधस्यापि कर्मणो व्याप्तिरुच्यमाना कुत्रोपयुज्यते न हि सा भोगापवर्गयोरुपकरोति तत्राऽऽह। ब्रह्माण्डादिति। इयान्हि बन्धो नाधिको न्यूनो वेत्यन्यव्यवच्छेदेन बन्धपरिमाणपरिच्छेदार्थं द्विविधकर्मव्याप्तिरुच्यते तत्परिच्छेदश्च वैराग्यद्वारा मुक्तिहेतुरित्यर्थः॥१३७॥

वैषम्यप्रतिपत्त्यर्थं प्रश्नस्य त्रासजन्मने॥
प्रतिवादिधियो यत्नाद्भुज्युनाऽऽख्यायिकोच्यते॥१३८॥

ब्राह्मणस्यैवं प्रवृत्तावपि किमिति भुज्युः स्वस्य निर्वृत्तां कथामाहेत्याशङ्क्याऽऽह। वैषम्येति। समष्टिव्यष्ट्यात्मदृष्टिफलविषयप्रश्नस्य वैषम्यमलौकिकार्थत्वं तत्प्रतिपत्त्यर्थं भुज्युना निर्वृत्ता कथोपादीयते तया याज्ञवल्क्यबुद्धिव्यामोहार्थं च जल्पे परपराजयेनाऽऽत्मजयस्येष्टत्वादित्यर्थः। यत्नादित्याख्यायिकाप्रवचनस्योपोद्धातत्वं सूच्यते॥१३८॥

लोकानामवसानानि पर्यपृच्छाम तं यदा॥
गन्धर्वं तत्र काले तमथाब्रूम क्व तेऽभवन्॥१३९॥

ब्राह्मणाख्यायिकयोस्तात्पर्यमुक्त्वा तं यदेत्यादिवाक्याक्षराणि व्याचष्टे। लोकानामिति। अथशब्दार्थस्तत्र काल इति। भुवनकोशपरिमाणज्ञानार्थं प्रवृत्तेषु बहुष्वात्मानं श्लाघयन्तो वयं क्व पारिक्षिता अभवन्नित्यश्वमेधयाजिनां गतिं गन्धर्वं पृष्टवन्तः स च सर्वमस्मभ्यमभ्यधादतो गन्धर्वाद्यज्ज्ञानं लब्धमस्माभिस्तत्ते नेति प्रतिज्ञाहानिस्तस्मिन्पृष्टे तदुक्तेस्तवाशक्तेरिति भावः॥१३९॥

अप्रसिद्धाभिधानोक्त्या वादिव्यामोहसिद्धये॥
अश्वमेधकृतो वक्ति भुज्युः पारिक्षिता इति॥१४०॥

अश्वमेधयाजिनां गतिरत्र प्रष्टुमिष्टा चेत्तेषां प्रसिद्धां संज्ञां हित्वा किमित्यप्रसिद्धसंज्ञोपादानमित्याशङ्क्याऽऽह। अप्रसिद्धेति। परितः क्षीयते सर्वं ब्रह्महत्यादि येन स परिक्षिदश्वमेधस्तद्याजिनः पारिक्षिता इति द्रष्टव्यम्॥१४०॥

पारिक्षिताः क्व तेऽभूवन्नित्युक्तिस्त्रिरिहोदिता॥
त्रिरुक्तेरुपयोगोऽयं विभागेनोपवर्ण्यते॥१४१॥

क्व पारिक्षिता अभवन्निति त्रिरुक्तिरनर्थिका पुनरुक्तेरिति शङ्कते। पारिक्षिता इति। इहेति प्रकृतसंदर्भोक्तिः। उत्तरम्। त्रिरुक्तेरिति॥१४१॥

प्रश्नार्था प्रथमोक्तिः स्यात्प्रत्युक्त्यर्था तथा परा॥
तृतीया याज्ञवल्क्यार्थं तिस्रोऽप्युक्तीरितीरयेत्॥१४२॥

विभागेनोपयोगं दर्शयति। प्रश्नार्थेति। आद्या तावत्क्व ते पारिक्षिता अभवन्नित्यु-

क्तिर्गन्धर्वं प्रति प्रश्नार्था द्वितीया तदनुरूपप्रतिवचनार्था यो हि क्व पारिक्षिता अंभवन्निति प्रश्नो गन्धर्वं प्रति कृतस्तस्य प्रत्युक्तिं सर्वां सोऽस्मभ्यमब्रवीदिति तत्र विवक्ष्यते तृतीया तु मुनिं प्रति प्रश्नार्थेति त्रिरुक्तेर्विभागान्न पौनरुक्त्यमित्यर्थः॥१४२॥

भानुस्यन्दनगत्याऽध्वा मितो यावानहर्निशम्॥
द्वात्रिंशद्गुणितस्तावान्व्याप्तो भानुगभस्तिभिः॥१४३॥

मुनिस्तेषां गतिविवक्षया भुवनकोशपरिमाणं निरूपयति। तत्र द्वात्रिंशतमित्यादेरर्थमाह। भान्विति। अहोरात्रमादित्यरथगत्या यावान्पन्था मितस्तावान्देशो द्वात्रिंशद्गुणितस्तत्किरणव्याप्तः स च चन्द्ररश्मिव्याप्तेन देशेन साकं पृथिवीत्युच्यते।

“रविचन्द्रमसोर्यावान्मयूखैरवभास्यते।
ससमुद्रसरिच्छैला तावती पृथिवी स्मृता”॥

इति भावः॥१४३॥

द्वात्रिंशद्भिरहोरात्रैर्यावन्तं देशमुद्व्रजन्॥
मण्डली कुरुते भानुस्तावाल्ँ लोकरवेरितः॥
शरीरमेतद्वैराजं देवताकरणं महत्॥१४४॥

अयं लोक इत्यत्र लोकं व्याचष्टे। द्वात्रिंशद्भिरिति। लोकरवो लोकशब्दस्तेनेरित उक्त विषयीकृत इति यावत्। अयं लोको लोकालोकगिरिपरिवेष्टितस्तत्र लोकरूपमाह। शरीरमिति। अग्निर्मूर्धेत्यादिश्रुतिमाश्रित्य विशिनष्टि। देवतेति। महत्त्वं तस्य स्थूलसमष्टित्वम्॥१४४॥

इयानेव तु देशोऽयं प्राणिनां भोगसिद्धिकृत्॥
अग्न्यादिदेवतानां च व्याप्तिरेतावती मता॥१४५॥

तस्यैव भोगभूमित्वं दर्शयति। इयानेवेति। प्राणिनामिति विशेषणात्ततोऽन्यत्रापि देवताव्याप्तिमाशङ्क्योक्तम्। अग्न्यादीति॥१४५॥

लोकात्परं निरालोकः सर्वप्राणिविवर्जितः॥
पर्येति लोकं द्विस्तावत्पृथिवी पूर्वमानतः॥१४६॥

अलोकरूपमाह। लोकादिति। तस्य भोगभूमित्वं व्यावर्तयति। सर्वेति। तं समन्तमित्यादेरर्थमाह। पर्येतीति। लोकपरिमाणाद्द्विगुणपरिमाणा पृथिवी सा लोकं परितो व्याप्नोति न च रविचन्द्रमसोरित्यादिना विरोधस्तत्र तद्भागस्योक्तेरिति भावः॥१४६॥

लोकालोकगिरेर्भागः सर्वप्राणिविवर्जितः॥
समुद्रो द्विगुणो भूमेः परस्तादवतिष्ठते॥१४७॥

लोकात्परमित्यत्रोक्तं प्रकटयन्नस्य लोकवेष्टनस्य पृथिवीभागस्याभोगभूमित्वं व्यनक्ति। लोकेति। तामित्यादेरर्थमाह। समुद्र इति॥१४७॥

यं घनोदमिति प्राहुः पुराणज्ञा विपश्चितः॥
ब्रह्माण्डसंपुटस्तस्मात्परेणाभ्येति सर्वतः॥१४८॥

तत्र पौराणिकसंमतिमाह। यमिति। उक्तं हि—

“अण्डस्यास्य समन्तात्तु संनिविष्टोऽमृतोदधिः॥

समन्ताद्धनतोयेन धार्यमाणः स तिष्ठति।
बाह्यतो घनतोयस्य तिर्यगूर्ध्वानुमण्डलम्॥

धार्यमाणः समन्तात्तु तिष्ठते घनतेजसा।
अयोगुडनिभो वह्निः समन्तान्मण्डलाकृतिः” इति।

तद्यावतीत्याद्यवतारयितुं भूमिकामाह। ब्रह्माण्डेति। तस्माद्धनोदशब्दितसमुद्रादिति यावत्॥१४८॥

पृथिव्यनन्तरं साक्षात्समुद्रः श्रूयते श्रुतौ॥
अण्डाद्बहिः पुराणे तु विरोधे स्मृतिबाधनम्॥१४९॥

ननु पौराणिका ब्रह्माण्डाद्बहिरेव घनोदाख्यं समुद्रं वदन्तस्तन्मध्यपतितानि बहूनि ब्रह्माण्डान्युन्मज्जननिमज्जनान्यनुभवन्तीति मन्यन्ते। उक्तं हि—

“भूतेभ्योऽण्डं महाबुद्धे बृहत्तदुदकेशयम्” इति।

“एतदण्डकटाहेन तिर्यगूर्ध्वमधस्तथा॥

कपित्थस्य यथा बीजं सर्वतो वै समावृतम्।
दशोत्तरेण पयसा मैत्रेयाण्डं च तद्वृतम्” इति च।

तत्कथमत्र पौराणिकसंमतिस्तत्राऽऽह। पृथिवीति। तां समन्तमित्यादिना पृथिव्यनन्तरमण्डान्तरे च समुद्रः श्रूयते चेत्तर्हि पुराणे तस्य बहिः श्रवणान्मिथो विरोधः श्रुतिस्मृत्योरित्याशङ्क्याऽऽह। विरोध इति। अस्यार्थः—औदुम्बरी सर्वा वेष्टयितव्येति स्मृतिरौदुम्बरीं स्पृष्ट्वोद्गायेदिति श्रुत्या विरुद्धा सा श्रुतिमूला भ्रान्तिमूला वेति संशये कर्तृसामान्यादष्टकादिस्मृतिवदत्रापि श्रुत्यनुमानादनुमितप्रत्यक्षश्रुत्योर्विरोधात्प्रत्यक्षाप्रत्यक्षत्वेनातुल्यत्वाच्च विकल्पायोगाद्द्वयोरप्रामाण्यमिति पूर्वपक्षे प्रत्यक्षश्रुतिविरोधे वह्नाविवानुष्णानुमानानुदयादष्टकादिस्मृतीनां श्रुतिमूलत्वं तद्विरुद्धस्मृतीनां च भ्रान्तिमूलतेति विभागात्सर्ववेष्टनस्मृतिः सृष्टिश्रुत्या बाध्येति राद्धान्तितं प्रमाणलक्षणे विरोधे त्वनपेक्षं स्यादसति ह्यनुमानमित्यत्र तथेहापि पौराणिकं वचः श्रुतिविरोधे बाध्यतामिति॥१४९॥

व्याख्येह संप्रवृत्तेयमश्वमेधकृतां पथः॥
स चैवं शक्यते वक्तुं लोकालोकादिमानतः॥१५०॥

अश्वमेधयाजिनां गतिरत्र विवक्षिता चेत्सैवोच्यतां किं भुवनकोशेनेत्याशङ्क्याऽऽह। व्याख्येति। यद्यपि श्रुतावश्वमेधयाजिनामध्वनो व्याख्या प्रकृता तथाऽपि लोकस्यालोकस्य लोकालोकस्य पृथिव्यादेश्च परिमाणतो भुवनकोशनिर्णये स शक्यो निश्चेतुमतस्तद्वचनं प्रकृतोपयोगीत्यर्थः॥१५०॥

यथोक्तपरिमाणेन ध्यानकर्मविवक्षया॥
लोकालोकादिकार्याणां परिमाणवचस्ततः॥१५१॥

भुवनकोशोक्तेर्विधान्तरेण फलमाह। यथोक्तेति। लोकस्यालोकस्य लोकालोकस्य तदन्तस्थपृथिव्यादेश्चोक्तपरिमाणेन तदात्मसूत्रध्यायिनो ध्यानविवक्षया द्वात्रिंशतमित्याद्या श्रुतिस्ततश्च भुवनकोशवचोऽर्थवदित्यर्थः॥१५१॥

अस्ति तावदयं लोको यथोक्तपरिमाणवान्॥
भानुप्रकाशसंव्याप्तो विराजो विस्तृतिस्त्वियम्॥१५२॥

अयं लोक इत्यस्यार्थमनुवदति। अस्तीति। भानुशब्दश्चन्द्रमसोऽपि भवत्युपलक्षणम्॥१५२॥

ततो लोकाद्विनिष्क्रम्य द्विगुणा पृथिवी स्थिता॥
समन्ताद्द्विगुणोऽब्धिश्च संवेष्ट्य पृथिवीं स्थितः॥१५३॥

तमित्यादेरर्थमनुद्रवति। तत इति॥१५३॥

तं समुद्रं समुत्तीर्य यदन्यत्परतस्ततः॥
गन्तव्यमुपमानोक्तिः क्रियते तस्य सांप्रतम्॥१५४॥

तद्यावती क्षुरस्येत्याद्यवतारयति। तमिति। प्रस्तुतं समुद्रमतिक्रम्य लोकादेरन्यदण्डाद्बहिः स्थितं यद्गन्तव्यं तद्गत्युपयुक्ताण्डकपालसंधिच्छिद्रस्योपमानमनेनोच्यत इत्यर्थः॥१५४॥

कपालसंधिगं व्योम सामर्थ्यात्परिमाणतः॥
यावतीत्युपमोक्तेह श्रुत्याऽऽविष्क्रियतेऽनया॥१५५॥

तावानित्याकाशान्तरमेवोच्यते न कपालच्छिद्रं नियामकाभावादतो न तस्येयमुपमेत्याशङ्क्याऽऽह। कपालेति। समुद्रात्परस्तादण्डकपालच्छिद्रातिरेकेणातिसूक्ष्मार्थानुपपत्तेरण्डकपालसंधिस्थमेव व्योम तावानित्यादिनोच्यतेऽतः संधिस्थमेव नभो दृष्टान्तश्रुत्या परिमाणविशिष्टतया स्फुट्यते नाऽऽकाशान्तरमर्थापत्तिविरोधादित्यर्थः॥१५५॥

तेन पारिक्षितान्खेन चित्यात्मत्वमुपागतान्॥
अन्तः संस्थाप्य नयति समष्टिव्यष्टितामसुः॥१५६॥

तानिन्द्र इत्यस्य विवक्षितमाह। तेनेति॥१५६॥

चित्यात्माऽत्र सुपर्णः स्यादादित्यात्माऽथवोच्यते॥
इमं देशं यतः प्राप्तानादित्याद्युक्तवर्त्मना॥१५७॥

सुपर्णशब्दार्थमाह। चित्येति। अस्मिन्वाक्ये विराट्सूत्रं वा सुपर्णः स्यादित्यत्र हेतुमाह। इममिति। अर्चिराद्युक्तमार्गेण ब्रह्मलोकं प्राप्याण्डकपालसमीपदेशं प्राप्तानश्वमेधवतो बहिर्नेतुं शक्तिर्यतः सूत्रविराजोरेवातस्तयोरन्यतरस्यैव सुपर्णतेत्यर्थः॥१५७॥

एवं पारिक्षितान्सर्वानग्निरिन्द्रो वियत्पथा॥
निर्गमय्याण्डतः प्रादाद्वायवे सूक्ष्मरूपिणे॥१५८॥

सूत्रस्यान्तरिव बहिरपि व्याप्तेर्बहिर्नयनसामर्थ्येऽपि विराजोऽन्तरेव सत्त्वात्कथं तच्छक्तिरित्याशङ्क्येन्द्रशब्दार्थं वदन्वायवे प्रायच्छदित्यस्यार्थमाह। एवमिति। इन्द्रस्य चित्यात्मनो विराट्सूत्ररूपस्य बहिर्गमयितृत्वयोगाद्वायवे स तानदादित्यर्थः। ननु सूत्रस्य वायोश्च वायुर्वै गौतम तत्सूत्रमित्यैक्यश्रुतेः सूत्रात्मा कुतो बहिरण्डतो निर्गमय्य तान्वायवे प्रादादिति तत्राऽऽह। सूक्ष्मेति। ज्ञानशक्तिमतः सूत्रस्य क्रियाशक्तिमन्तं स्वात्मानमेव वायुं प्रति क्रियाज्ञानवतां नयनमुचितमिति भावः॥१५८॥

अश्वमेधमखापूर्वं दे75वताऽग्निरिहोच्यते॥
वायुवेष्टनमेतच्च यदपूर्वमिहोदितम्॥१५९॥

अथेन्द्रस्य यथोक्तस्यापि कथमश्वमेधयाजिषु फलदातृतेत्याशङ्क्य प्रकृतमग्निशब्दार्थं विशदयति। अश्वमेधेति। इहेति प्रकृतवाक्योक्तिः। अग्निरूपा देवता चेदश्वमेधजन्यापूर्वत्वेनोच्यते तर्हि तदेव धर्मं जैमिनिरिति न्यायेन फलदमस्तु कृतं वायुनेत्याशङ्क्याऽऽह। वायुवेष्टनमिति। यदत्रापूर्वं तद्वायुशरीरमेवेति यावत्॥१५९॥

वायुरेव ततोऽपूर्वमभिव्यक्ततनुर्मतः॥
अनन्तरमपूर्वस्य कार्यं निर्दिश्यतेऽधुना॥१६०॥

वायुः शरीरी शरीरमपूर्वमिति भेदादेकस्यैव फलदत्वसंभवे किं द्वाभ्यामित्याशङ्क्याऽऽह। वायुरिति। अश्वमेधान्निर्वृत्तमपूर्वं फलदानार्थमभिव्यक्तप्रभावो वायुरेवेति नानयोर्भेद इत्यर्थः। तानित्यादेस्तात्पर्यमाह। अनन्तरमिति। अश्वमेधकृतां वायवे प्रदानादिति शेषः। कार्यं फलम्॥१६०॥

पारिक्षितानथाऽऽदाय वायुः स्वात्मसमाश्रयान्॥
आपाद्य गमयामास तत्र प्राणैकरूपिणः॥१६१॥

अश्वमेधकृतो यत्र पूर्वे तस्थुरितो गताः॥
वाय्वात्मा गमयामास समष्टिव्यष्टिताप्तये॥१६२॥

अक्षराणि व्याचष्टे। पारिक्षितानिति। विराजा सूत्रेण वा प्रदानानन्तर्यमथशब्दार्थः। कुत्र गमितवानित्यपेक्षायामाह। तत्रेति। प्राणैकरूपिण इत्युपास्त्या देवभावमापन्नत्वं देवो भूत्वेत्यादिश्रुतेर्दर्शयति। तत्र गतिमनूद्य तत्फलमाह। वाय्वात्मेति॥१६१॥१६२॥

अश्वमेधमखापूर्वफलप्रकथनेन या॥
प्रवृत्ताऽऽख्यायिका सेयं समाप्ताऽनवशेषतः॥१६३॥

एवमित्याद्यवतारयितुं भूमिकामाह। अश्वमेधेति॥१६३॥

प्रश्नशेषमथेदानीं स्वयमेव श्रुतिर्जगौ॥
यदि वा याज्ञवल्क्योक्तिरेवमेवेति यद्वचः॥१६४॥

तस्मादित्यादिकं वाक्यं श्रुतेरिति च76 निर्दिशेत्॥
वायुमेव स गन्धर्वः प्रशशंसातिविस्मितः॥१६५॥

आख्यायिका समाप्ता चेत्किमुत्तरेणेत्याशङ्क्याऽऽह। प्रश्नेति। पूर्वेऽश्वमेधयाजिनो यत्र जग्मुस्तत्र वायुराधुनिकानपि गमितवानित्येतावन्मात्रोक्तौ पूर्वे कुत्र तस्थुरिति जिज्ञासायां क्वेत्यादिप्रकृतप्रश्नस्यैव शेषमीमं विशेषमेवमित्यादिश्रुतिः स्वमुखेनाऽऽहेत्यर्थः। तदक्षराणि योजयति। वायुमिति॥१६४॥१६५॥

वायुं मुक्त्वा बहिर्यस्मान्नान्यस्या विद्यतेऽवहिः॥
देवताया गतिस्तस्माद्वायुर्ज्यायानिहैकलः॥१६६॥

अग्न्यादिष्वपि विद्यमानेषु कुतो वायोरेव प्रशंसेति तत्राऽऽह। वायुमिति। अण्डाद्बहिरबहिश्च वायुवद्देवतान्तरस्य यतो न गतिः किंत्वण्डान्तरेवातो देवतानां मध्ये वायुरेव महानिति तत्प्रशंसेत्यर्थः॥१६६॥

यत एवमतो ज्ञेयो वायुरेव न चापरः॥
व्यष्टिः समष्टिरित्येवमण्डादन्तर्बहिश्च सः॥१६७॥

तस्मादित्यादेरर्थमाह। यत इति। वायोर्ज्यायस्त्वेन प्रशस्यमानत्वादसावेव बहिर्व्याप्त्या समष्टिरन्तर्व्याप्त्या व्यष्टिश्चेत्यर्थः। व्यष्टिसमष्टिपदयोर्व्याख्यानमण्डादित्यादि॥१६७॥

व्याप्तिर्विशेषरूपेण व्यष्टिरित्यभिधीयते॥
सामान्येन समष्टिश्च वायुरेव द्विधा स्थितः॥१६८॥

वायुरेवेत्यादेरर्थमाह। व्याप्तिरिति। सामान्येन व्याप्तिरिति पूर्वेण संबन्धः। पदार्थमुक्त्वा वाक्यार्थमाह। वायुरेवेति॥१६८॥

वस्तु यल्लक्ष्यते किंचिज्जगत्यस्मिंश्चराचरे॥
सामान्येन विशेषेण वायुरेव तदीक्ष्यते77॥१६९॥

अन्यस्याप्युभयात्मनः संभवात्कुतोऽवधारणमित्याशङ्क्याऽऽह। वस्त्विति॥१६९॥

न सामान्यविशेषाभ्यां वायोरन्यस्य वस्तुनः॥
संबन्धो वायुरेवेति सावधारणवाक्यतः॥१७०॥

कथमेतदर्थसिद्धिरित्याशङ्क्यावधारणवशादित्याह। नेत्यादिना॥१७०॥

अन्ययोगव्यवच्छेदे प्रशंसेयमसोर्भवेत्॥
न त्वयोगव्यवच्छेद उत्कर्षस्तादृगिष्यते॥१७१॥

अथायोगव्यवच्छेदेनापि तद्धटिष्यते नेत्याह। अन्येति। तादृगित्यन्ययोगव्यवच्छेदकृतोत्कर्षवदित्यर्थः॥१७१॥

अश्वमेधक्रतोरेष समष्टिव्यष्टिलक्षणः॥
महिमाऽऽविष्कृतः श्रुत्या विद्यायुक्तस्य संभ्रमात्॥१७२॥

वायोरुभयरूपत्वनिरूपणं प्रकृतप्रश्नप्रत्युक्त्यनुपयुक्तं तेन तत्प्रशंसाऽपि वृथेत्याशङ्क्य विशिष्टाश्वमेधफलस्यैव श्रुत्योच्यमानत्वान्मैवमित्याह। अश्वेति। आख्यायिकातोऽपसृत्य स्वेनाऽऽत्मना श्रुतिर्यथोक्तं महिमानमाहेति तस्यास्तत्र तात्पर्यं सूचयति। संभ्रमादिति॥१७२॥

समष्टिव्यष्टिरूपं यो वायुमात्मेति संश्रितः॥
सोऽपहन्ति पुनर्मृत्युं मृत्युमात्मानमेत्यसौ॥१७३॥

श्लोकानामादितः समष्ट्यङ्काः—६०२७

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके तृतीयाध्यायस्य तृतीयं भुज्युब्राह्मणम्॥३॥

अप पुनरित्यादेरर्थमाह। समष्टीति। उपासकस्य सकृन्मृत्वा पुनर्मरणाय देहग्रहाभावे हेतुमाह। मृत्युमिति॥१७३॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिकटीकायां तृतीयाध्यायस्य तृतीयं भुज्युब्राह्मणम्॥३॥
—————

अथ चतुर्थं ब्राह्मणम्।
——————

ऐकात्म्यानवबोधस्य कार्यमुक्तमशेषतः॥
तन्मूलध्वस्तयेऽथोर्ध्वं परो ग्रन्थोऽवतार्यते॥१॥

ब्राह्मणत्रयार्थं संक्षिप्यानुद्रवति। ऐकात्म्येति। अनर्थमूलाज्ञानध्वंसिज्ञानार्थत्वेनोत्तरब्राह्मणषट्कारम्भं प्रतिजानीते। तन्मूलेति। उक्तेऽनर्थे सहेतुतद्ध्वंसिहेत्वपेक्षाऽस्तीत्यथशब्दार्थः। ऊर्ध्वमित्यनन्तरब्राह्मणमात्रग्रहव्यावृत्तिः॥१॥

पुण्यापुण्यप्रयुक्तः सन्ग्रहातिग्रहबन्धनः॥
आब्रह्माऽऽस्थाणु चाजस्रं यः संसरति मूढधीः॥२॥

सोऽयमुक्तस्तथोत्कर्षः परः पुण्यस्य चोदितः॥
मुमुक्षुरस्ति नास्तीति परो ग्रन्थोऽवतार्यते॥३॥

अध्यायशेषस्य संबन्धमुक्त्वोषस्तब्राह्मणार्थोक्त्यर्थं वृत्तं कीर्तयति। पुण्येति। योऽज्ञानादारोपितमातृभावोऽविद्यादियुक्तो ग्रहातिग्रहगृहीतो नानायोनिषु जायमानो म्रियमाणश्च सदा बध्यते स पूर्वमुक्तः कर्मफलं संसर्तुरेवेति चोक्तमित्यर्थः। उत्तरब्राह्मणतात्पर्यमाह। मुमुक्षुरिति। मातृसाक्षी तद्द्वाराऽऽत्मन्यध्यस्तसंसारो मुमुक्षुस्त्वमर्थोऽत्र निर्धार्यत इत्यर्थः॥२॥३॥

देहेन्द्रियमनोबुद्धिवेदनाव्यतिरेकतः॥
अस्तित्वे तस्य संसिद्धे तन्मुक्त्यै यत्यते यतः॥४॥

मुमुक्षोरपेक्षितो मोक्षो वक्तव्यस्तदस्तित्वनिर्धारणं त्वनिबन्धनमत आह। देहेति। वेदना दुःखाद्यात्मिका धीवृत्तयः। साक्ष्यातिरेकेण साक्षिणः सत्त्वे निश्चिते तस्य तस्मान्मुक्त्यर्थं यत्नसंभवात्तदस्तित्वं वाच्यमित्यर्थः॥४॥

भविष्यल्लोकसंबन्धी येषामागमतो मतः॥
न तान्प्रति समारम्भः सिद्ध एव हि तान्प्रति॥५॥

कस्य तर्हि देहातिरिक्तत्वमस्तित्वं चोच्यते मातुरन्यस्य वा नाऽऽद्यस्तस्य कर्मकाण्डप्रामाण्यादेव सिद्धेर्नेतरस्तस्याप्रसिद्धस्य बुद्धिमनारोहतोऽशक्यप्रतिपादनत्वादित्याशङ्क्याऽऽद्यं दोषमङ्गी करोति। भविष्यदिति। स्थूलदेहाद्यतिरिक्तः परलोकी कर्मकाण्डवशादेव येषां सिद्धो न तान्प्रति प्रमातृसाधनार्थमिदं ब्राह्मणं तस्य तान्प्रति सिद्धत्वादित्यर्थः॥५॥

कर्त्रात्मनः पुरा सिद्धेर्बुद्ध्याद्यव्यतिरेकतः॥
कर्त्रादेरिह साक्ष्यात्मा दृष्टेर्द्रष्टोच्यतेऽधुना॥६॥

द्वितीयं दोषं निरस्यति। कर्त्रिति। बुद्ध्यादिवैशिष्ट्येन कर्मकाण्डे मातुः सिद्धेस्त-

त्साक्षी समनन्तरब्राह्मणे विद्याधिकारित्वेन निरूप्यते न च तस्याप्रसिद्धत्वादशक्यप्रतिपाद्यत्वं मात्रादिभावाभावसाधकत्वेन सामान्यतो धर्मवत्प्रसिद्धस्य विशेषाकारेण प्रतिपादनाविरोधादिति भावः॥६॥

विषयो ब्रह्मविद्याया योग्यः क इति चिन्त्यते॥
विषयेऽवधृते यस्मादुपदेशोऽर्थवान्भवेत्॥७॥

आब्रह्मस्तम्बपर्यन्तैरित्यादि वदद्भिराचार्यैः सुलभोऽधिकारी दर्शितस्तथाच न्यायवार्तिकं शमाय शास्त्रं जगतो जगदिति तत्र किमधिकारिचिन्तयेत्याशङ्क्याऽऽह। विषय इति। आब्रह्मेत्यादावधिकारिसत्त्व78मात्रं विवक्षितं, न सर्वाधिकारित्वं। न हि किमपि शास्त्रं सर्वाधिकारमतो ब्रह्मविद्याया योग्यमधिकारिणं निरूपयितुं ब्राह्मणमिति भावः। विद्योपदेशे स्वयमेव श्रद्धावान्प्रवर्तिष्यते किमधिकारिचिन्तयेत्याशङ्क्याऽऽह। विषय इति। अधिकारिणं प्रत्येव तद्योगादन्यत्र तद्वैफल्यात्तच्चिन्ताऽर्थवतीत्यर्थः॥७॥

ब्रह्मणो वोपदेशः स्यादथवाऽब्रह्मणो भवेत्॥
ब्रह्मत्वस्य स्वतः सिद्धेर्ब्रह्मणि स्यादनर्थकः॥८॥

कस्तर्हीह योग्योऽधिकारीति विकल्पयति। ब्रह्मणो वेति। आद्ये वैयर्थ्यमुपदेशस्येत्याह। ब्रह्मत्वस्येति॥८॥

उपदेशशतेनापि ब्रह्मत्वं न कथंचन॥
स्वतोऽब्रह्मत्वतस्तस्य नातोऽब्रह्मण इष्यते॥९॥

द्वितीयं प्रत्याह। उपदेशेति॥९॥

सर्वस्यैकात्म्ययाथात्म्यान्न चाब्रह्मेह लभ्यते॥
क्षेत्रज्ञेश्वरसंभेदशङ्कानुत्त्यर्थमुच्यते॥१०॥

पक्ष एवायमनुपपन्न इत्याह। सर्वस्येति। शास्त्रं सप्तम्यर्थः। तन्नाधिकारिणं निरूपयितुं ब्राह्मणमारभ्यमिति प्राप्तं तत्राऽऽह। क्षेत्रज्ञेति। प्रत्यग्ब्रह्मणोर्वास्तवभेदशङ्कानिरासेन ब्रह्मैवाविद्याव्यवहितं विद्यायोग्यमिति निश्चेतुं ब्राह्मणं न च ब्रह्मकण्डिकया गतार्थत्वमस्य तद्विवरणत्वादित्यर्थः॥१०॥

यदित्यनेन निर्देशो विशेष्यस्य विवक्षितः॥
सामान्यमात्रविज्ञानाद्विशेषस्याप्रतीतितः॥११॥

पदार्थव्याख्यामारभमाणो यदित्यस्यार्थमाह। यदित्यनेनेति। तत्र हेतुः सामान्येति। यत्पदं विशेष्यवाचि ततः सामान्यमात्रदृष्टेर्विशेषादृष्टेश्चेत्यर्थः॥११॥

साक्षादित्यादिकं सर्वं तद्विशेषणमुच्यते॥
विशिष्टार्थावबोधित्वान्नीलरक्तोत्पलादिवत्॥१२॥

पदपञ्चकस्य तात्पर्यमाह। साक्षादित्यादिकमिति। किमर्थमित्थं विभागस्तत्राऽऽह। विशिष्टेति। नीलोत्पलादिपदवदेषां पदानां विशिष्टार्थवाचित्वादेष विभाग इत्यर्थः॥१२॥

यदित्यादिपदानां च सामानाधिकरण्यतः॥
विशेषणविशेष्यत्वं श्रुत्यैवेहावसीयते॥१३॥

विशिष्टार्थबोधित्वं साधयन्नुक्तविभागे हेत्वन्तरमाह। यदित्यादीति। श्रुत्या मुखत इति यावत्। इहेति पदार्थोक्तिः। पदेषु सामानाधिकरण्यं तदर्थेषु विशेषणविशेष्यत्वगमकमित्यर्थः॥१३॥

साक्षादित्यभिधानेन प्रत्यक्षोऽर्थोऽभिधीयते॥
मनसोऽग्रहणं तस्य न दृष्टेरिति वारणात्॥१४॥

पदविभागमुक्त्वा साक्षादित्यस्यार्थमाह। साक्षादितीति। यत्पदार्थः साक्षात्पदेन प्रत्यक्षो विवक्ष्यते चेदात्मनो मनोग्राह्यत्वमिष्टं स्यादित्याशङ्क्याऽऽह। मनस इति। अग्रहणमिति च्छेदः॥१४॥

यदि वा द्रष्टरि प्राप्ते साक्षादिति विशेषणात्॥
तत्प्रसङ्गनिवृत्त्यर्थमपरोक्षादितीर्यते॥१५॥

अपरोक्षादित्यस्यार्थमाह। यदि वेति। वक्ष्यमाणेन विकल्पः साक्षात्पदात्प्रत्यक्षे दृष्टिकर्तरि प्रसक्ते तन्निरासार्थमपरोक्षादित्युक्तं न हि तस्यागौणं प्रात्यक्ष्यं साक्षिवेद्यत्वादित्यर्थः॥१५॥

द्रष्टृदर्शनदृश्यार्थप्राप्तावाद्यविशेषणात्॥
लोकवत्तन्निषेधार्थमपरोक्षादितीर्यते॥१६॥

यदि वेत्यत्र सूचितं पक्षान्तरमाह। द्रष्ट्रिति। लोके द्रष्ट्रादित्रयस्य प्रात्यक्ष्यप्रसिद्धेस्तदनुसारेणात्रापि साक्षादित्युक्ते त्रितयप्राप्तौ तन्निवृत्त्यर्थमपरोक्षादित्युक्तं न हि त्रितयमगौणं प्रत्यक्षमित्यर्थः॥१६॥

द्रष्टृदर्शनदृश्यार्थसंभेदविषयस्य हि॥
निषेधायापरोक्षाद्गीरभिन्नार्थग्रहाय तु॥१७॥

त्रितयप्रात्यक्ष्यनिषेधायापरोक्षात्पदं चेत्तन्निषेधफलं वाच्यमित्याशङ्क्य निषेधानुवादेन तत्फलमाह। द्रष्ट्रिति। तद्विषयस्य दर्शनस्येति सूचयितुं हीत्युक्तम्॥१७॥

द्रष्टृदर्शनदृश्यार्थसंभेदस्य निषेधतः॥
दृष्टिमात्रं स्वतः सिद्धं विशेषणफलं भवेत्॥१८॥

किं तन्निषेधफलमभिन्नार्थग्रहशब्दितं तदाह। द्रष्टृदर्शनेति। संभेदस्य दर्शनस्येति शेषः। विशेषणमपरोक्षात्पदम्॥१८॥

एकं सदेकरूपं च यदि नामोक्तलक्षणम्॥
निर्द्वयं सद्वयं वेति नोक्तहेतोस्तदीक्ष्यते॥१९॥

यतोऽतोऽद्वयसिद्ध्यर्थं ब्रह्मेत्येतद्विशेष्यते॥
अव्यावृत्ताननुगतं वस्तु ब्रह्मेति भण्यते॥२०॥

ब्रह्मपदं शङ्काद्वारोत्थापयति। एकमिति। यद्येकं साधारणं वस्तु प्रतीयते तच्चापरोक्षैकरसं पदाभ्यां यदि नाम भाति तथाऽपि तदुक्तं वस्त्वद्वयं सद्वयं वेति पदत्रयाद्यतो न निश्चितमतः संदेहे तन्निरासेनाद्वयमेव तदिति निश्चेतुं ब्रह्मपदेन यत्पदवाच्यं विशेष्यत इत्यर्थः। ब्रह्मपदं व्याकरोति। अव्यावृत्तेति॥१९॥२०॥

अपुमर्थमिदं प्राप्तं न चेदात्मैव तद्भवेत्॥
यतोऽत आत्मरूपार्थमात्मेत्येवं विशेष्यते॥२१॥

यच्छब्दोपात्तं विशेष्यं य इत्यनूद्याऽऽत्मेति विशेष्यते तस्याभिप्रायमाह। अपुमर्थमिति। न हि स्वर्गादेरात्यन्तिकपुमर्थत्वमतो यथोक्तं ब्रह्माऽऽत्मेति निश्चयेन तस्यानतिशयपुमर्थत्वनिर्धारणार्थमात्मविशेषणमित्यर्थः॥२१॥

सजातीयासजातीयद्वितीयार्थानभिप्लुतम्॥
सांख्यराद्धान्तपुंवत्तत्प्राप्तं नानात्वदर्शनात्॥२२॥

विशेषणान्तरव्यावर्त्यमाह। सजातीयेति। सर्वप्रकारानात्मास्पृष्टं सांख्यीयात्मवद्यत्पदाभिधेयं तथाच परिच्छिन्नत्वान्न ब्रह्मेति प्राप्तं न चानात्मैव नास्ति तद्धीविरोधादित्यर्थः॥२२॥

यतोऽतस्तन्निषेधार्थं सर्वान्तर इतीरणम्॥
सर्वेषामान्तरो योऽर्थो नाना स कथमुच्यते॥२३॥

शङ्कामनूद्य तन्निवर्तकं विशेषणमादत्ते। यत इति। सर्वान्तरत्वेऽपि परिच्छिन्नत्वमाशङ्क्याऽऽह। सर्वेषामिति॥२३॥

स्रग्वत्सर्पादिक्लृप्तानां प्रत्यङ्मात्रैकरूपतः॥
प्रत्यग्वस्तूपरोधेन नानार्थो नावशिष्यते॥२४॥

सर्वेषामित्युक्त्वा परिच्छेदाभावं वदतो व्याहतिरित्याशङ्क्याऽऽह। स्रग्वदिति। सर्पादीनां क्लृप्तानां स्रगेकरूपत्ववदनात्मनां प्रत्यङ्मात्रमेवानपेक्षरूपमतोऽधिष्ठानप्रत्यगनुसारेण द्वैतानवशेषान्न परिच्छेद इत्यर्थः॥२४॥

प्रत्यग्रूपावबोधस्य भावाभावात्मवस्तुषु॥
सर्वत्राव्यभिचारित्वादात्मा सर्वान्तरो भवेत्॥२५॥

नानार्थाभावे कथं सर्वान्तरत्वमित्याशङ्क्य कल्पितं द्वैतमादाय तदुपपत्तिमाह। प्रत्यगिति॥२५॥

यत्साक्षादपरोक्षाद्भ्यां79 ब्रह्म वेह80 विशिष्यते॥
सर्वान्तरगृहीत्या च प्रत्यगर्थस्य संगतिः॥२६॥

यत्पदं विशेष्यवाचि पदान्तराणि विशेषणार्पकाणीत्युक्त्वा पक्षान्तरमाह। यदिति। अस्मिन्वाक्ये यद्ब्रह्मेति विशेष्योक्तिस्तस्य विशेषणे साक्षादपरोक्षादिति य आत्मेति विशेष्यान्तरं तस्य सर्वान्तर इति विशेषणं न चैवमर्थभेदाद्वाक्यभेदः पदार्थविषयावान्तरवाक्यभे81देऽपि वाक्यार्थविषयमहावाक्यस्यैक्यादिति भावः॥२६॥

साक्षादित्यव्यवहितमगौणमपरोक्षतः॥
इति द्वयं प्रतीच्येव संभाव्यं ब्रह्मणीरितम्॥२७॥

ब्रह्मविशेषणयोरर्थमाह। साक्षादिति। अथोभयं प्रतीचः संभाव्यते तत्कथमिदं ब्रह्मविशेषणमित्यत आह। इति द्वयमिति। यद्यपि यथोक्तं द्वयं प्रतीच्येव संभावितं तथाऽपि ब्रह्मणि विशेषणमुक्तमिति यावत्॥२७॥

तथा सर्वान्तरत्वस्य भेदवृत्तिविरोधतः॥
संभावनाऽद्वितीयत्वाद्ब्रह्मण्येवाऽऽत्मसंस्थितेः॥२८॥

कथं सर्वान्तरत्वं प्रतीचो विशेषणं तस्याद्वये ब्रह्मण्येव संभवात्तत्राऽऽह। तथेति। ब्रह्मणोऽद्वयत्वाद्भेदस्थितिविरोधित्वाद्यद्यपि तस्मिन्नेव सर्वान्तरत्वस्य संभावना तथाऽप्यात्मनि विशेष्ये तस्य स्थितेस्तथा तस्यैव तद्विशेषणमिष्ट82मित्यर्थः॥२८॥

यतोऽत एकवाक्यत्वे ब्रह्मात्माख्यपदार्थयोः॥
द्वैतसंसर्गबाधेन पूर्णं वस्तु प्रतीयते॥२९॥

किमर्थमित्थं व्यत्यासेन विशेषणोपादानं तत्राऽऽह। यत इति। यत्साक्षादित्यादेर्य आत्मेत्यादेश्चैकवाक्यत्वे सति ब्रह्मात्मनोर्भेदसंसर्गनिरासेनाखण्डत्वं यतो वाक्येन बोध्यतेऽतोऽनवच्छिन्नमेव वस्तु महावाक्यतात्पर्यात्सिध्यतीत्यर्थः॥२९॥

यदि वैकविशेष्येण विशेषणतया युतिः॥
साक्षादित्यादिकानां स्यान्मिथोऽन्योन्यानपेक्षतः॥३०॥

ब्रह्मात्मनोर्विशेष्यत्वमितरेषां यथायोगं विशेषणत्वमित्युक्तं संप्रति साक्षादित्यादि सर्वंसर्वस्य विशेषणं विशेष्यं चेत्याह। यदि वेति। साक्षादित्यादिपदार्थानां मध्ये विशेषणतयैकैकेन विशेष्येण मिथः संगतिः स्यादिति योजना। एकैकस्य विशेष्यत्वे हेतुः। अन्योन्येति॥३०॥

एकवस्त्ववसायित्वादन्योन्यार्थानुरोधतः॥
विशेषणानि सर्वाणि विशिषन्त्युत्पलादिवत्॥३१॥

मिथोनपेक्षत्वोक्त्या प्रत्येकं प्राधान्यं लक्ष्यते चेत्कथं तर्हि मिथो विशेषणत्वं तत्राऽऽह। एकेति। एतान्यन्योन्यार्थानुसारेणाखण्डेऽर्थेऽवसानाद्भवन्ति मिथो विशेषणान्यतो यथा नीलादीन्युत्पलादीनि विशिंषन्ति तथेमान्यपि मिथो व्यावर्तकान्यन्योन्यार्थानुरोधं विनैकार्थावसानायोगादित्यर्थः॥३१॥

उपात्तस्वविशेष्याणि साक्षादित्यादिकानि हि॥
परस्परोपरोधेन स्वविरुद्धार्थहानतः॥३२॥

मिथो विशेषणविशेष्यत्वं चेदर्थभेदेन वाक्यभेदान्न साक्षादित्यादीनामखण्डार्थतेत्याशङ्क्य वाक्यस्य स्वार्थबोधनप्रकारमाह। उपात्तेति। साक्षादित्यादीनि स्वस्वविशेष्यसंसृष्टानि तत्तद्विशेष्यानुसारेण वाक्यार्थान्वयविरोधिस्वगतभागत्यागेन लक्षणयाऽखण्डार्थे पर्यवस्यन्तीत्यर्थः। तेषामखण्डार्थत्वं लक्षणया वाक्यतात्पर्यवशादावश्यकमिति वक्तुं हिशब्दः॥३२॥

स्वार्थासंत्यागमार्गेण नानासंसर्गबाधनात्॥

भेदहेतुतमोघातिप्रत्यग्याथात्म्यशेमुषी-
जन्मनैवाऽऽप्तमाप्नोति स्वतोऽमेयं वचःश्रवात्॥३३॥

साक्षादित्यादिपदैर्वाक्यार्थो लक्ष्यते चेद्गङ्गापदलक्ष्यतीरस्यागङ्गात्ववदस्यापि प्रत्यक्षत्वादि न स्यादित्याशङ्क्याऽऽह। स्वार्थेति। शोणादिपदवदमूनि स्वार्थमादायैव वाक्यार्थे पर्यवस्यन्तीत्यर्थः। यद्येतानि स्वार्थस्मृतिद्वारा वाक्यार्थं लक्षयन्ति तर्हि गामानय नीलमुत्पलमितिवद्भेदः संसर्गे वा लक्ष्यमाणो वाक्यार्थः स्यादित्याशङ्क्याऽऽह। नानेति। न हि भेदादिरिह वाक्यार्थोऽबुभुत्सितत्वादपुमर्थत्वाच्चातो युक्तमखण्डेऽर्थे पर्यवसानमित्यर्थः। ननु वाक्यार्थज्ञानं स्वर्गकामादिवाक्यार्थज्ञानवदनुष्ठानं विना विफलमिति नेत्याह। भेदेति। प्रत्यक्त्वेनाऽऽप्तमेव कैवल्यमज्ञानव्यवहितं वाक्यश्रवणात्समूलसंसारघातिज्ञानोत्पत्तिमात्रेण व्यवधिध्वस्तौ विद्वानाप्नोतीत्युच्यते, न स्वतो यागादिफलवदिदं साध्यं, नित्यत्वश्रुतेरित्यर्थः॥३३॥

सामानाधिकरण्योक्तेर्विशेषणविशेष्यतः॥
लक्ष्यलक्षणगत्याऽतो यथोक्तार्थं प्रपद्यते॥३४॥

अन्त्यपक्षमुपसंहरति। सामानाधिकरण्येति। यस्मादित्थं वाक्यार्थज्ञानं फलवत्तस्मात्पदानां सामानाधिकरण्यात्तदर्थानां विशेषणविशेष्यभावात्प्रत्यङ्मात्रस्य तेषां च लक्ष्यलक्षणसंबन्धादखण्डमात्मानं मुमुक्षुर्यदित्यादिवाक्यान्निश्चिनोतीत्यर्थः॥३४॥

सर्वार्थं यदि वाऽऽद्यं स्यात्साक्षादिति विशेषणम्॥
अपरोक्षान्तमथवा ब्रह्मान्तं वोत्तरस्य तु॥३५॥

साक्षादिति विशेषणं सर्वस्य व्यावर्तकं सर्वमितरद्बिशेष्यमिति पक्षान्तरमाह। सर्वा-

र्थमिति। साक्षादपरोक्षादिति विशेषणे ब्रह्मात्मसर्वान्तरा विशेष्या इति विधान्तरमाह। अपरोक्षान्तमिति। आत्मसर्वान्तरौ विशेष्यौ सर्वमितरद्विशेषणमिति कल्पान्तरमाह। ब्रह्मान्तं वेति॥३५॥

यत्साक्षाच्चा83परोक्षाच्च ब्रह्मणः स्तो विशेषणे॥
वाक्याद्ब्रह्माभिसंबन्धात्तदन्यस्य तथाऽश्रवात्॥३६॥

कथमेकस्मिन्वाक्येऽर्थभेदो भिद्येत हि तथा वाक्यमित्याशङ्क्य संभावनोपनीतमर्थबाहुल्यमिति मन्वानो विवक्षितं पक्षमाह। यदिति। अत्र हि ब्रह्मणो द्वे विशेषणे चकाराभ्यामात्मा सर्वान्तर इति तस्यैव विशेषणे समुच्चिते प्रकृतवाक्यादेतद्विशेष्यत्वेन परस्यैव संबन्धात्तदन्यस्य ब्रह्मवदत्र विशेष्यत्वेनाश्रवणादित्यर्थः॥३६॥

यदव्यवहितं द्रष्टुर्व्यवधानेन केनचित्॥
प्रत्यङ्मात्रस्वभावत्वाद्ब्रह्मणोऽव्यवधानता॥३७॥

परोक्षं व्यवहितं ब्रह्म तत्कथं साक्षादित्युक्तमत आह। यदिति। तद्व्याचक्ष्वेति संबन्धः। अव्यवहितत्वं साधयति। प्रत्यगिति॥३७॥

अव्यावृत्ताननुगतं ब्रह्मागौणं प्रचक्षते॥
अपरोक्षाद्भवेत्तादृङ्नातोऽन्यादृक्कथंचन॥३८॥

अपरोक्षाद्विशेषणस्य ब्रह्मण्येव संभवमाह। अव्यावृत्तेति॥३८॥

सर्वानात्मनिषेधेन बोध आत्मन्यथैकले॥
परमार्थं त्वसंप्राप्य निषेधो नेष्यते यतः॥३९॥

कथं सति द्वैते ब्रह्माव्यावृत्ताननुगतं तत्राऽऽत्मविशेषणेनोत्तरमाह। सर्वेति। प्रमितानात्मनिषेधेऽविशेषादात्मनोऽपि तत्प्रसङ्गान्निर्विषयो बोधो न स्यादिति शङ्कते। अथेति। निरवधिकनिषेधायोगान्मैवमित्याह। परमार्थमिति। अतोऽवधित्वेनाऽऽत्मा शेष इति शेषः॥३९॥

व्यतिरेकान्वयाभावैः का84र्यं वस्त्वभिलप्यते॥
कारणत्वनिषेधेन ब्रह्माऽऽत्मानं प्रपद्यते॥४०॥

किंच कार्यस्यैवान्वयादयो न च प्रत्यग्ब्रह्म कार्यमतस्तदव्यावृत्ताननुगतमित्याह। व्यतिरेकेति। ब्रह्माकार्यं चेत्कारणं तर्हीति तदवस्थमन्वयादीत्याशङ्क्याऽऽह। कारणत्वेति। ब्रह्म कार्यत्वादिनिषेधेनाऽऽत्मत्वमापद्यते तन्न तत्रान्वयादि सावकाशमित्यर्थः॥४०॥

एतावन्मात्रयाथात्म्यात्कार्यकारणवस्तुनः॥
अव्यावृत्ताननुगतं ब्रह्माऽऽत्मैव ततो भवेत्॥४१॥

निषेध्यं कार्यादि भिन्नं चेन्नाव्यावृत्तं ब्रह्माभिन्नं चेत्तस्यापि निषेध्यता, कारणत्वादनुगतिः कार्यत्वाद्व्यावृत्तिश्चेत्याशङ्क्याऽऽह। एतावदिति। सर्पादिवदारोपितस्य निषेधादधिष्ठानैकरस्यादद्वयं ब्रह्म प्रत्यग्भूतं सिध्यतीति भावः॥४१॥

यश्चाऽऽत्मैव भवेत्प्रत्यक्सर्वान्तरतमस्तथा॥
तमेवंलक्षणं मह्यं यथावद्वक्तुमर्हसि॥४२॥

यदित्यादि व्याख्याय तमित्यादि व्याचष्टे। यश्चेति। एवंलक्षणं साक्षात्त्वादिविशेषणं ब्रह्मात्मानमित्यर्थः। यथावद्यथा शृङ्गे गृहीत्वा लोको गां दर्शयति तथा सोऽयमिति ब्रह्मात्मानं प्रत्यक्षं दर्शयेत्यर्थः॥४२॥

सामानाधिकरण्योक्तेर्ब्रह्मात्मार्थाभिधायिनोः॥
ऐकार्थ्यमेतयोर्न्याय्यं मिथोर्थावसितेस्तथा॥४३॥

ब्रह्मात्मभेदप्रात्यक्ष्यात्तदैक्यपृच्छा न युक्तेत्याशङ्क्याऽऽह। सामानाधिकरण्येति। ब्रह्मात्मपदयोः सामानाधिकरण्यात्तदर्थयोरभेदो भिन्नप्रवृत्तिनिमित्तशब्दैकार्थवृत्तेस्तथात्वोपगमादित्यर्थः। नाम ब्रह्मेत्यादाविव गौणमैक्यमादायापि तत्स्यादित्याशङ्क्याऽऽह। मिथ इति। तथेत्यैक्यस्यागौणत्वोक्तिः॥४३॥

ब्रह्माऽऽत्मैकस्वभावेन साक्षादिति विशेष्यते॥
असंभवात्तदन्यत्र ब्रह्मत्वस्य यतस्ततः॥४४॥

कथं ब्रह्मशब्दार्थस्याऽऽत्मनि पर्यवसानं तत्राऽऽह। ब्रह्मेति। आत्मनोऽन्यत्र भिन्नत्वेन ब्रह्मत्वायोगादात्मनैव ब्रह्म साक्षादिति यतो विशेष्यते ततो ब्रह्मार्थस्याऽत्मन्येवावसानमित्यर्थः॥४४॥

आत्माऽपि ब्रह्मणोऽन्यत्र नैव संभाव्यते यतः॥
सामानाधिकरण्योक्तिस्तस्माद्ब्रह्मात्मशब्दयोः॥४५॥

आत्मशब्दार्थस्य ब्रह्मण्येवावसानं साधयति। आत्माऽपीति। अन्यस्य घटादिवदनात्मत्वादित्यर्थः। ब्रह्मात्मशब्दयोः स्वार्थस्यान्योन्यावसाने सामानाधिकरण्यं मुख्यैक्यमिष्टमिति फलितमाह। यत इति॥४५॥

विशेषणविशेष्यत्वे मिथो ब्रह्मात्मनोरतः॥
अब्रह्मानात्मापह्नुत्याऽसंसर्गैकात्म्यधी85र्भवेत्॥४६॥

तथाऽपि कथं वाक्यादैकरस्यधीरात्मन्यब्रह्मत्वस्य ब्रह्मणि चानात्मत्वस्य च दृष्टेरित्याशङ्क्याऽऽह। विशेषणेति। सामानाधिकरण्यस्य मुख्यत्वादर्थयोर्विशेषणविशेष्यत्वे सति ब्रह्मविशेषणार्पकात्मपदसामर्थ्यादात्मन्यब्रह्मत्वस्याऽऽत्मविशेषणार्पकब्रह्मपदवशाद्ब्रह्मण्यनात्मत्वस्य च ध्वस्त्या भेदसंसर्गहीनं तदैक्यमधिकृत्य वाक्याद्धीरुदेतीत्यर्थः॥४६॥

ब्रह्मणोऽप्यात्मनो मोहादब्रह्मत्वं न वस्तुतः॥
आत्मनोऽपि परोक्षत्वं ब्रह्मणोऽपि तमोन्वयात्॥४७॥

आत्मन्यब्रह्मत्वस्य ध्वस्तियोग्यत्वमाह। ब्रह्मणोऽपीति। ब्रह्मण्यनात्मत्वस्यापि तद्योग्यत्वमाह। आत्मनोऽपीति॥४७॥

तमसो ज्ञानविध्वस्तावब्रह्मानात्मताहतेः॥
अपूर्वाद्यात्मकं ब्रह्म निःसंसर्गं प्रपद्यते॥४८॥

द्वयोराविद्यत्वेन बाधयोग्यत्वे फलितमाह। तमस इति। निःसंसर्गं निर्भेदमित्यपि द्रष्टव्यम्। प्रपद्यते विद्वानिति शेषः॥४८॥

प्रत्यग्याथात्म्यविज्ञानात्तत्तमोनात्मबाधतः॥
प्रत्यङ्मात्रावशेषत्वात्स्यामपूर्वादिमानहम्॥४९॥

अब्रह्मत्वादिध्वस्तेः शून्यतान्तत्वात्कथमेकरसार्थधीरित्याशङ्क्याऽऽह। प्रत्यगिति। बाधतो बाधस्येति यावत्॥४९॥

प्रणिधायाऽऽत्मनि दृष्टिं प्रत्यग्बोधैकरञ्जिताम्॥
प्रतिवक्त्येष इति तं याज्ञवल्क्योऽप्युदारधीः॥५०॥

प्रश्नवाक्यं संक्षेपविस्तराभ्यां व्याख्याय प्रत्युक्तिमादत्ते। प्रणिधायेति। तं प्रष्टारमुषस्तं प्रति। उदारमुत्कृष्टं ब्रह्म॥५०॥

आत्मप्रमातृमानादेरनेकस्येह संभवात्॥
प्रत्यक्षार्थस्यैष इति न विद्मः को विवक्षितः॥५१॥

एषशब्दार्थं निर्णेतुं पृच्छति। आत्मेति। प्रत्यक्षव्यवहारभूमिरिहेत्युक्ता॥५१॥

विवक्षितार्थविज्ञप्त्यै त आत्मेति ततोऽवदत्॥
सर्वान्तरगृहीतिस्तु तत्पूर्वोक्तोपलक्षणम्॥५२॥

उत्तरत्वेन पदद्वयमादत्ते। विवक्षितेति। एषशब्दस्येति शेषः। आकाङ्क्षानन्तर्यं ततःशब्दार्थः। सर्वान्तर इति विशेषोक्त्या प्रश्नस्थविशेषणान्तरानास्थामाशङ्क्याऽऽह। सर्वान्तरेति॥५२॥

क्षोण्युपक्रममाकाशात्षष्ठ्यन्तेनाभिधीयते॥
आत्मेति च प्रमात्रादेरागमापायसाक्ष्यपि॥५३॥

त इतिषष्ठ्यर्थमाह। क्षोणीति। पृथिव्याद्याकाशान्तं सकारणं जगदत्र षष्ठ्यन्तपदगम्यमित्यर्थः। आत्मशब्दार्थमाह। आत्मेति चेति। अपिरवधारणार्थः॥५३॥

मातृमानप्रभेदेऽपि प्रतिदेहं न भिद्यते॥
साक्षी बाह्यार्थवद्यस्मात् आत्मेत्युच्यते ततः॥५४॥

कथं प्रसिद्धं मातारं हित्वाऽऽत्मशब्देन साक्षी गृह्यते तत्राऽऽह। मात्रिति। न हि भिन्नस्य मातुर्घटादिवदात्मत्वं तथाचाद्वितीयसाक्ष्येवाऽऽत्मेत्यर्थः॥५४॥

व्यभिचारो मिथो यद्वत्प्रमात्रादेः स्वसाक्षिकः॥
सर्वमात्राद्यभावार्थसाक्षित्वान्न तथाऽऽत्मनः॥५५॥

तस्यापि प्रतिदेहं व्यभिचारित्वान्मात्रादिवद्भिन्नत्वमाशङ्क्य हेत्वसिद्धिमाह। व्यभिचार इति। भावाभावसाक्षिणो व्यभिचारायोगान्न तस्य प्रतिदेहं भेदस्तस्यापि साक्षित्वादित्यर्थः॥५५॥

साक्षादित्यादिभिः प्रत्यक्प्रत्यग्दृष्ट्या यदेक्ष्यते॥
प्रत्यग्वस्त्वतिरेकेण नान्यदात्मा तदेक्ष्यते॥५६॥

तर्हि मात्रादेः साक्ष्यत्वादात्मनः साक्षित्वाद्द्वैतापत्तिरित्याशङ्क्यानुभवमनुसृत्याऽऽह्। साक्षादित्यादिभिरिति॥५६॥

प्रत्यङ्मात्रैकयाथात्म्यादात्माविद्यातदुत्थयोः॥
तावन्मात्रावसायित्वं सम्यग्बोधादतस्तयोः॥५७॥

प्रत्यगतिरेकेणानुपलम्भेऽपि कुड्यादिव्यवहितकुम्भादिवत्तत्सत्तासंभवाद्द्वैततादवस्थ्यमित्याशङ्क्याऽऽह। प्रत्यगिति॥५७॥

आत्मनोऽनवशेषेण तदन्यार्थस्य संगतेः॥
साक्षादित्यादिकं सर्वं संभाव्यं स्याद्विशेषणम्॥५८॥

सकार्यं कारणं प्रत्यङ्मात्रमिति कुतः सिद्धं तत्राऽऽह। आत्मन इति। आत्मनोऽर्थान्तरत्वेनेष्टस्य तेन सह सर्वात्मना संगतेस्तन्न पृथगस्त्यात्मान्यस्य निःस्वरूपत्वात्तत्प्रत्यङ्मात्रमेव जगतो याथात्म्यमित्यर्थः। किंच पूर्वोक्तं विशेषणमन्यथाऽनुपपत्त्या ब्रह्मात्मनोऽद्वयत्वं साधयतीत्याह। साक्षादित्यादिकमिति॥५८॥

प्रत्यक्तयैवावसितेः प्रतीचोऽन्यस्य वस्तुनः॥
व्यतिरेकैकरूपस्य व्यतिरेको न लभ्यते॥५९॥

तथाऽप्यनात्मप्रतियोगिको भेदः स्यादित्याशङ्क्याऽऽह। प्रत्यक्तयेति॥५९॥

विरोधादन्वयो नास्य खण्डादौ गोत्ववत्तथा॥
व्यतिरेकोऽपि नैकात्म्ययाथात्म्यादुपपद्यते॥६०॥

भेदभेदिस्वरूपस्य प्रतीचो भेदो दुर्लभश्चेत्तदभेदाज्जडतेत्याशङ्क्याऽऽह। विरोधादिति। जातेर्व्यक्त्यभेदवत्प्रतीचो नानात्माभेदश्चिदचित्त्वेन विरोधात्तद्भेदवदभेदोऽपि न तयोरित्यर्थः। तर्हि द्वैतस्य तुच्छतैव परिशिष्यते नेत्याह। व्यतिरेकोऽपीति। व्यतिरेकः शून्यता॥६०॥

प्रत्यङ्मात्रतयैवातोऽनात्माऽऽत्मनि विलीयते॥
तवाऽऽत्मेत्यपि निर्णीतौ नैव स्यात्प्रश्ननिर्णयः॥६१॥

का तर्हि जगतो गतिस्तत्राऽऽह। प्रत्यगिति। अन्वयव्यतिरेकाभावासंभवादित्यतःशब्दार्थः। एष इत्यादेरर्थमुक्त्वा कतम इत्यादिप्रश्नमवतारयितुं भूमिकामाह। तवेति॥६१॥

ममाऽऽत्मनामनेकेषां संभवादप्रबोधतः॥६२॥

पिण्डान्तस्तावदात्मैको लिङ्गान्तस्तु त86था परः॥
बुद्धिसाक्षी तृतीयः स्याद्योऽयं संदिह्यते तथा॥६३॥

निर्णयभावेऽपि निर्णयो नेति व्याहतिमाशङ्क्याऽऽह। ममेति। अनेकात्मसंभवमेवाबोधोत्थं प्रपञ्चयति। पिण्डान्त इति। स्थूलसूक्ष्मदेहसाक्षिभेदेन नानात्वमित्यर्थः॥६२॥६३॥

यत एवमतो ब्रूहि कतमोऽत्र विवक्षितः॥
साक्षादित्यादिमानात्मा निर्धार्येदं तयाऽन्यतः॥६४॥

प्रश्नस्वरूपमाह। यत इति। यस्मादनेकात्मसंभवस्तस्मात्तेषां मध्ये कतमः साक्षादित्यादिमान्विवक्षितस्तमन्यतो निष्कृष्य गवादिवत्प्रत्यक्षतया वदेत्यर्थः॥६४॥

याज्ञवल्क्योऽपि तं प्राह यः प्राणेनेति लिङ्गतः॥
प्राणादेः प्रत्यगात्मानं बुबोधयिषुरञ्जसा॥६५॥

यः प्राणेनेत्यादिप्रत्युक्तिमादत्ते। याज्ञवल्क्योऽपीति॥६५॥

प्राणनाद्यनुमानेन ग्राहयित्वा धियः परम्॥
ततोऽवबोधयिष्यामि यथोपात्तविशेषणम्॥६६॥

इत्येतद्धृदये कृत्वा याज्ञवल्क्यो निराह तम्॥
यः प्राणेनेति वचसा न लिङ्गादुक्तबोधनम्॥६७॥

साक्षादित्यादिविशेषणमात्मानं साक्षाद्बोधयितव्यमुपेक्ष्य किमिति लिङ्गेन तं बोधयितुं प्रवर्तते तत्राऽऽह। प्राणनादीति। अनुमानेन त्वमर्थं परिशोध्य तस्य ब्रह्मत्वमुक्तविशेषणं विशदयिष्यामीति मन्वानो यः प्राणेनेत्यादि प्रणीतवानित्यर्थः। पदार्थशुद्धिवद्वाक्यार्थधीरपि लिङ्गादेवेति चेन्नेत्याह। नेति। वाक्यैकगम्यत्वादैक्यस्येत्यर्थः॥६६॥६७॥

मुखसंचारिणाऽप्राणो यः प्राणेनानितीक्षिता॥
सर्वप्रत्यक्तमः सोऽयमात्मा सर्वान्तरावधिः॥६८॥

प्रतिवचनं साभिप्रायमादाय तदक्षराणि व्याचष्टे। मुखेति। अप्राण इति च्छेदः। सर्वान्तरत्वेन सर्वावसानभूमित्वार्थं सर्वप्रत्यक्तम इत्युक्तम्॥६८॥

सुप्तेऽस्मिन्करणग्रामे योऽसुप्तोऽलुप्तदृष्टितः॥
वासनारूपकान्पश्यन्प्राणान्प्राणिति वायुना॥६९॥

चक्षुरादिसमुदायादेवानात्मनः प्राणनादिसंभवात्कथं यः प्राणेनेत्यादि तत्राऽऽह। सुप्त इति॥६९॥

अनात्मत्वमतः सिद्धं प्राणादेः करणोक्तितः॥
प्राणात्मत्वाच्च बुद्ध्यादेः पिण्डान्तस्याप्यनात्मता॥७०॥

प्राणादिवशात्प्राणनादिक्रियायामपि कथं विवेकसिद्धिरित्याशङ्क्याऽऽह। अनात्मत्वमिति। अतः करणोक्तित इति संबन्धः। प्राणादिरनात्मा करणत्वाद्दीपवन्न च हेत्वसिद्धिस्तृतीयाश्रुत्या तदुक्तेरित्यर्थः। बुद्ध्यादौ व्यभिचारमाशङ्क्याऽऽह। प्राणेति। बुद्धेस्तावदस्ति तादात्म्यं “यो वै प्राणः सा प्रज्ञा या वा प्रज्ञा स प्राण” इति श्रुतेरस्ति चेन्द्रियाणां “तस्मादेते87नाऽऽख्यायन्ते प्राणा” इति श्रुतेरस्ति च देहस्य तदधीनत्वात्तादात्म्यं “प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयतीति” श्रुतेस्तत्प्राणशब्दत्वात्संप्रतिपन्नवद्बुद्ध्यादीनामनात्मतेत्यर्थः॥७०॥

दृश्यत्वाद्धवद्देहः प्राणादेः करणत्वतः॥
अनात्मत्वमसिद्धिः स्याल्लिङ्गपिण्डात्मनोरतः॥७१॥

देहस्यानात्मत्वे युक्त्यन्तरमाह। दृश्यत्वादिति। प्राणादेरनात्मत्वे हेतुमनूद्य देहद्वयानात्मत्वमुपसंहरति। प्राणादेरिति॥७१॥

प्राणादिकार्यकरणैः स्वतोऽसंहत88 एकलः॥
तच्चेष्टां कुरुतेऽकुर्वन्नयस्कान्तो मणिर्यथा॥७२॥

एवं विवेकेऽपि प्राणनादिहेतुश्चेदात्मा89 संहतः सक्रियश्च स्यादित्याशङ्क्याऽऽह। प्राणादीति। अकुर्वन्निति च्छेदः। संनिधिमात्रेणान्यत्र क्रियाहेतुत्वे दृष्टान्तः। अयस्कान्त इति॥७२॥

लोकेऽनधिष्ठितस्येह केनचिच्चेतनावता॥
न दृष्टा नियता चेष्टा रथादेर्जडरूपिणः॥७३॥

संघातातिरिक्तो नास्ति चिदात्मा कुतस्तस्याक्रियत्वादीत्याशङ्क्याऽऽह। लोक इति। अचेतनप्रवृत्तिश्चेतनाधिष्ठातृपूर्विकाऽचेतनप्रवृत्तित्वाद्रथादिवदित्यर्थः॥७३॥

देहेन्द्रियमनोबुद्धिप्राणादेर्नियतेक्ष्यते॥
प्रवृत्तिर्येन तेनैभ्यो ज्ञात्माऽन्योऽभ्युपगम्यताम्॥७४॥

पक्षधर्मतोक्तिपूर्वकमनुमिनोति। देहेति। विमता प्रवृत्तिश्चेतनाधिष्ठातृपूर्विकाऽचेतनप्रवृत्तित्वात्संमतवदित्यर्थः। दृष्टान्ते नियतपदं रथादिप्रवृत्तेश्चेतनाधिष्ठातृपूर्वकत्वसंमत्यर्थं दार्ष्टान्तिके तु साध्यस्य स्पाष्ट्यायेति द्रष्टव्यम्॥७४॥

प्रतिज्ञाय पुरा साक्षाद्गामहं दर्शयामि ते॥
अशक्नुवंस्तथा कर्तुं लिङ्गेन प्रतिबोधयेत्॥७५॥

यथा कश्चित्तथैव त्वं प्रतिज्ञाय परात्मनः॥
साक्षात्त्वं तदसंपाद्य लिङ्गेनाऽऽवेदयस्यमुम्॥७६॥

यथेत्यादिप्रश्नं व्याचष्टे। प्रतिज्ञायेति। तथा कर्तुं प्रतिज्ञानुसारेण प्रत्यक्षयितुमिति यावत्। लिङ्गेन धावनादिनेत्यर्थः। दार्ष्टान्तिके लिङ्गेनेति प्राणनादिनेति यावत्॥७५॥७६॥

यथाप्रतिज्ञमेवातो यथा पृष्टं तथैव तत्॥
मह्यं प्रतिवचो वाच्यं दोषस्तु स्यात्ततोऽन्यथा॥७७॥

यदेवेत्यादेस्तात्पर्यमाह। यथाप्रतिज्ञमिति। त्वत्प्रतिज्ञानुसारेण मत्प्रश्नानुरोधेन च मदर्थं प्रतिवचस्त्वया वाच्यमन्यथा प्रतिज्ञाहानिरनवधेयवचनता च स्यात्तत्प्रतिज्ञाप्रश्नावनुसर्तव्यावित्यर्थः॥७७॥

यथाप्रतिज्ञं प्रत्युक्तिमवोचामासकृत्तव॥
ततोऽप्यपरितुष्टस्त्वमन्यथैव बुभुत्ससे॥७८॥

प्रत्युक्तेस्तात्पर्यमाह। यथेति। प्रतिज्ञां प्रश्नं चानुसृत्य ते प्रत्युक्तिमेष त आत्मा यः प्राणेनेति चासकृदब्रवं तेनाविषयतयैवाऽऽत्मा ज्ञातुं शक्यो नान्यथेत्यर्थः। असकृदुक्तादपि वाक्यादतुष्टस्त्वमात्मानं विषयतयैव घटादिवद्बोद्धुमिच्छसीत्याह। ततोऽपीति॥७८॥

उक्तवर्त्मातिरेकेण नाऽऽत्मवस्तु घटादिवत्॥
शक्यते प्रतिनिर्देष्टुं प्रमाणागोचरत्वतः॥७९॥

मद्बुभुत्सानुसारेणैव वाच्यतामित्याशङ्क्याऽऽह। उक्तेति। उक्तं चाऽऽत्मनः प्रत्यक्त्वेनाविषयतया ज्ञानं तदतिरेकेणाऽऽत्मवस्तु विषयतया वक्तुमशक्यमित्यत्र हेतुमाह। प्रमाणेति॥७९॥

वेद्मीति यद्बलादात्थ न वेद्मीत्यपि यद्बलात्॥
तद्दृष्ट्यैवेह तं दृष्ट्वा ब्रूह्यवद्यं यदीक्षसे॥८०॥

तज्ज्ञानानुपपत्तस्तद्विषयत्वं कथमिति चेन्नेत्याह। वेद्मीतीति। यस्य कूटस्थानुभ-

वस्य प्रसादाज्ज्ञानाज्ञाने शब्दादिविषये कालभेदेन प्रवर्तेते तस्य स्वरूपदृष्ट्या तमेव दृष्ट्वा यद्यात्मनि विषयत्वदोषमीक्षसे तर्हि ब्रूहि न चोक्तदृष्टिरूपेणाऽऽत्मदृष्टौ विषयत्वावसर इत्यर्थः॥८०॥

अप्रमेयं हि यद्वस्तु न तच्छक्यं प्रमाणतः॥
कुम्भवत्प्रतिनिर्देष्टुं यथा तदभिधीयते॥८१॥

कस्मादविषयं विषयीकर्तुमशक्यमित्याशङ्क्य वस्तुस्वाभाव्यादिति भाष्यमवतारयति। अप्रमेयमिति। स्वभावविपरिलोपासंभवो हिशब्दार्थः। तथा तदभिधीयते भाष्येणेति शेषः॥८१॥

द्रष्टृदर्शनदृश्यानां संहतानां परस्परम्॥
साक्षित्वमात्मनो नित्यं वस्तुस्वाभाव्यमुच्यते॥८२॥

किं तदित्यपेक्षायां दृष्ट्यादिद्रष्टृत्वमिति भाष्यं व्याचष्टे। द्रष्ट्रिति॥८२॥

प्रमात्रादिप्रवृत्तेः प्राक्सदानस्तमितोदिता॥
अकारकात्मना तस्थौ प्रत्यग्दृष्टिरसंगतः॥८३॥

ननु साक्षिणोऽपि वस्तुत्वादस्ति मात्रादिग्राह्यत्वमिति कुतो मात्रादेस्तद्ग्राह्यत्वं नेत्यत आह90प्रमात्रादीति। प्रत्यग्दृष्टिः सदैवोदयास्तमयवर्जिता कूटस्था तथाच प्रागपि मात्रादिप्रवृत्तेः स्वापादौ तस्याः स्फुरणान्न सा तद्ग्राह्येत्यर्थः। साक्षित्वे प्रतीचो लौकिकसाक्षिवत्सक्रियत्वान्न कौटस्थ्यमित्याशङ्क्य स्वतः परतो वा क्रियावत्त्वायोगात्कौटस्थ्यात्मना प्रत्यग्दृष्टेः सर्वासु श्रुतिस्मृतिषु स्थितेरसङ्गत्वाच्च मैवमित्याह। अकारकेति॥८३॥

अकार्यकारणात्मैतद्वास्तवं रूपमात्मनः॥
सकृद्विभातमैकात्म्यं वितमस्कमभेदकम्॥८४॥

कार्यकारणेतरत्वाच्च प्रतीचोऽक्रियत्वमित्याह। अकार्येति। यजमानत्वमप्यात्मा सक्रियत्वात्प्रपद्यत इत्यात्मनः सक्रियत्वमुक्तमिति चेन्नौपाधिकस्य तद्भावेऽप्यन्यस्य तदभावादिति मत्वाऽऽह। एतदिति। किंच प्रकाशार्था वा ब्रह्माप्त्यर्था वा तमोध्वस्त्यर्था वा भेदध्वस्त्यर्था वाऽऽत्मनः क्रिया नाऽऽद्य इत्याह। सकृदिति। न द्वितीय इत्याह। ऐकात्म्यमिति। न तृतीय इत्याह। वितमस्कमिति। न चतुर्थ इत्याह। अभेदकमिति॥८४॥

एतत्तमोभिसंबन्धात्साक्षित्वं प्रतिपद्यते॥
तमोमात्रैकहेतुश्च मोहसंगतिरात्मनः॥८५॥

तस्य साक्षित्वं कुतस्त्यमिति चेत्तत्राऽऽह। एतदिति। तथाऽऽत्मनस्तमःसंबन्धो वस्तुतोऽस्ति न वा? नाऽऽद्योऽसङ्गत्वविरोधान्नेतरोऽनवस्थानादवास्तवे हि तमःसंबन्धे तमोन्तरमभ्युपेयत आह। तमोमात्रेति। अनवस्था संबन्धे निरस्तेति भावः॥८५॥

कूटस्थदृष्टितन्मोहौ दृष्ट्याभासश्च तत्त्रयम्॥
कारणं जगतः साक्षी नियन्तेति च भण्यते॥८६॥

साक्षित्वमपि कारणत्वादिवद्वास्तवमेवेति चेत्तत्राऽऽह। कूटस्थेति। त्रितयं मिथो गुणप्रधानत्वेन त्रिधोच्यते तथाच कारणत्वादि चाऽऽविद्यमित्यर्थः॥८६॥

कारणत्वं न कौटस्थ्यात्तन्मोहविरहाद्भवेत्॥
जाड्यान्वयाच्च बुद्ध्यादेर्युक्ता तत्कारणानुमा॥८७॥

परिणामवादिनस्तु ब्रह्मणः शुद्धस्य कारणत्वमिच्छन्तो वास्तवं तदाहुस्तान्प्रत्याह। कारणत्वमिति। केवलस्य चिदात्मनोऽकारणत्वे कारणान्तरमाह। जाड्येति। कार्यस्य जाड्यात्कारणेऽपि जाड्यांशोऽनुमेयः कारणानुसारित्वात्कार्यस्यातो जडशक्तिविशिष्टस्यैव तद्भावान्न तद्वास्तवमित्यर्थः॥८७॥

प्रमात्राद्यतिरेकोऽपि वस्तुनो बोधरूपिणः॥
अज्ञातस्य प्रमेयस्य युक्तः स्वध्वान्तसाक्षिणः॥८८॥

आत्मनो मात्रादेर्भेदोऽभेदो वा वस्तुतोऽस्ति चेदस्तु साक्षित्वाद्यपि तथा नास्ति चेन्मात्रादिवदात्मनोऽप्यनिर्वाच्यतेत्याशङ्क्याऽऽह। प्रमात्रादीति। अपिरनतिरेकसमुच्चयार्थः। वस्तुनश्चिन्मात्रस्यानाद्यनिर्वाच्याज्ञानशबलस्य मात्रादिभेदाभेदौ कल्पितौ, न शुद्धस्य तौ, निरुपाध्यवस्थायामभावादतो भेदाद्यपि कल्पनामात्रमित्यर्थः। अज्ञातस्य मेयत्वं चेदज्ञानस्यापि विशेषणत्वेन मेयतेत्याशङ्क्याज्ञानस्योपलक्षणत्वान्नेति मत्वा विशिनष्टि। स्वेति॥८८॥

कूटस्थदृष्टेः साक्षित्वं जडस्येव न युज्यते॥
साक्ष्यार्थानभिसंबन्धात्तस्मिन्सत्यपि नाचितेः91॥८९॥

किंच चेतनस्याचेतनस्य वा साक्षित्वमाद्ये शुद्धस्याज्ञस्य वा नाऽऽद्य इत्याह। कूटस्थेति। पक्षान्तरं प्रत्याह। तस्मिन्निति। साक्ष्यवस्तुसंबन्धेऽपि नाचेतनस्य साक्षित्वं घटवदित्यर्थः॥८९॥

तस्मात्परस्य साक्षित्वं स्वमोहाभासवर्त्मना॥
कार्यकारणसंबन्धे चिदाभासस्य संगतेः॥९०॥

अज्ञस्येति पक्षमङ्गी करोति। तस्मादिति। कथं परस्य स्वमोहस्थाभासद्वारा साक्षि-

त्वमर्थासंबन्धात्तत्राऽऽह। कार्येति। पारतन्त्र्यात्कार्यदेरेव संबन्धस्तत्राऽऽभासानुप्रवेशादात्मा साक्षीत्यर्थः॥९०॥

प्रमात्राद्यभिसंबन्धो यथाऽनुभवसिद्धिकः॥
तथैव तदभावोऽपि सिद्धोऽनुभवमात्रतः॥९१॥

मात्रादिभावस्य साक्षिवेद्यत्वमुक्त्वा तदभावस्यापि तदाह। प्रमात्रादीति। अभिसंबन्धो भावः॥९१॥

अनन्यहेतुकं तावत्त्रयमेतद्यथोदितम्॥
प्रमात्रादिपदार्थस्तु धर्माधर्मादिहेतुकः॥९२॥

साक्षित्वमन्तर्यामित्वं कारणत्वं च नाऽऽविद्यं किंतु धर्मादिकृतमित्याशङ्क्याऽऽह। अनन्येति। परस्य धर्माद्ययोगादज्ञानमात्रकृतं चेत्त्रितयं तर्हि कुत्र धर्मादेरुपयोगस्तत्राऽऽह। प्रमात्रादीति। अधर्मादीत्यादिपदं रागादिग्रहार्थं मात्रादेरुपादानमज्ञानं निमित्तं धर्मादीत्यर्थः॥९२॥

बुद्ध्यादेरभिसंबन्धो जन्मनैव चिदात्मना॥
घटाद्यर्थाभिसंबन्धो धर्माधर्मादिकारणः॥९३॥

मात्रादिस्वरूपवत्तस्याऽऽत्मसंबन्धोऽपि धर्मादिकृतस्तेन सन्नपि स कदाचिदात्मासंबन्धः स्यादिति चेन्नेत्याह। बुद्ध्यादेरिति। चिदाकारता तस्य सदाऽस्ति चेद्घटाद्याकारताऽपि तथाऽस्तु तथाच घटादेर्न भानाभानव्यवस्थेत्याशङ्क्याऽऽह। घटादीति। बुद्ध्यादेर्घटादिसंगतिरागन्तुकी हेतुमपेक्षते सत्यां च तस्यां सुखादिदृष्टेर्धर्मादि तत्र कारणमित्यर्थः॥९३॥

प्रमातृदृष्टिरेकाऽत्र शब्दाद्यर्थावलेहिनी॥
भूरिसाधनसापेक्षा सुखदुःखफलप्रदा॥९४॥

वस्तुस्वाभाव्यादिति भाष्यं व्याख्यातं यत्त्वात्माविषयत्वार्थं दृष्टेर्द्रष्टा ह्यात्मेति तदयुक्तं न हि सोऽस्तीति सौगतास्तान्प्रति दृष्टिरिति द्विधेत्यादिभाष्यं तत्र लौकिकीं दृष्टिं व्याचष्टे। प्रमात्रिति। लौकिकपरमार्थदृष्ट्योर्मध्ये साभासबुद्धिपरिणामो लौकिकी दृष्टिरित्यर्थः। सा चाऽऽत्मानं न विषयी करोति विषयान्तरेण चरितार्थत्वादित्याह। शब्दादीति। पारमार्थिकदृष्टितो लौकिकदृष्टर्विषयतो विशेषमुक्त्वा हेतुतोऽप्याह। भूरीति। फलतो विशेषमाह। सुखेति॥९४॥

क्षणप्रध्वंसिनी चेयं तद्धेतोर्भङ्गुरत्वतः॥
प्रतिदेहं विभिन्ना च त्वसाधारणकारणात्॥९५॥

स्वरूपतोऽप्याह। क्षणेति। तद्धेतुर्लौकिकदृष्टिहेतुविषयानुषङ्गादिः। विधान्तरेण

वैलक्षण्यमाह। प्रतिदेहमिति। पारमार्थिकदृष्टौ नेदमस्तीति वक्तुं तुशब्दः। तत्र हेतुः। असाधारणेति। प्रत्येकं चैत्रादिकृतधर्मादिजन्यत्वस्वीकारादित्यर्थः॥९५॥

क्रियाकारकरूपेयमक्रियाऽकारकात्मना॥
तावन्मात्रैकयाथात्म्यात्तया व्याप्तैव जायते॥९६॥

विशेषान्तरमाह। क्रियेति। क्रिया हि दृष्टिः कर्त्रादिभिर्निरूप्येत्यर्थः। पारमार्थिकी दृष्टिर्न क्रिया कूटस्थात्मना स्थितेरिति द्वितीयां दृष्टिं व्याकरोति। अक्रियेति। तर्हि दृष्टिद्वयेष्टेरद्वैतहानिस्तत्राऽऽह। तावन्मात्रेति। परमार्थदृष्टिरेव लौकिक्या दृष्टेर्वास्तवं रूपमतस्तया व्याप्तैव लौकिकी दृष्टिर्भवन्ती तस्यामन्तर्भवतीति न द्वैतापत्तिरित्यर्थः॥९६॥

कार्त्स्न्येन यत्र वृत्तिः स्याद्व्याप्यव्यापकवस्तुनोः॥
व्याप्तिस्तत्रैव मुख्या स्याद्रज्जुसर्पादिवस्तुवत्॥९७॥

एकत्र व्याप्यव्यापकत्वायोगाद्धूमाग्न्योरिव दृष्ट्योर्भेदः स्यादित्याशङ्क्याऽऽह। कार्त्स्न्येनेति। द्विविधा व्याप्तिर्मुख्याऽमुख्या चाऽऽद्या रज्जुसर्पयोरिव व्याप्यव्यापकयोस्तादात्म्यरूपा सा दृष्ट्योरेवेति नाद्वैतहानिरित्यर्थः॥९७॥

देशकालादिसंभेदादसाधारणतत्त्वयोः॥
व्याप्तिर्न घटते साक्षाद्धिमवद्विन्ध्ययोरिव॥९८॥

अमुख्यव्याप्तिस्थलमाह। देशेति। स्वरूपतो भिन्नयोर्देशाद्यभेदाद्या व्याप्तिः सा न मुख्याऽत्यन्तभिन्नयोस्तददृष्टेरतो धूमादौ व्याप्तिर्न मुख्येत्यर्थः॥९८॥

प्रमात्रादिव्यपेक्षेयं लौकिकी दृष्टिरात्मनः92
तत्प्रत्यगात्मदृष्टिस्तु विज्ञेया पारमार्थिकी॥९९॥

परमार्थात्मदृष्ट्येयं लौकिकी दृष्टिरात्मनः॥
षड्भावविक्रियामेति व्याप्तैवाऽऽकाशकुम्भवत्93॥१००॥

धर्माधर्मानपेक्षत्वाच्चैतन्याभासतां प्रति॥
घटाद्याभासवत्तस्मान्नाऽऽत्माभासो विनश्वरः॥१०१॥

ननु तयोरिव दृष्ट्योरपि वास्तवो भेदो न रज्जुसर्पवत्कल्पितस्तत्कथं मुख्या व्याप्तिस्तत्राऽऽह। प्रमात्रादीति। आत्मनो लौकिकी दृष्टिः सापेक्षत्वात्सर्पादिवत्कल्पितेति न वास्तवस्तत्र भेदोऽस्तीत्यर्थः। तर्हि दृष्टित्वादितराऽपि कल्पितेति शून्यतेत्यत आह। तदिति। कल्पितत्वेऽनात्मत्वं प्रयोजकमिति भावः। दृष्ट्योरुक्ते विभागे रज्जुसर्पवन्मुख्या व्याप्तिस्तत्र युक्तेति फलितमाह। परमार्थेति। व्याप्तैवेत्यवधारणमयुक्तं लौकिकदृष्टेरर्थव्याप्तिवदात्मव्याप्तेरपि नश्वरत्वादित्याशङ्क्याऽऽह। धर्मेति। लौकिक्या दृष्टेरात्मव्या-

प्तिरर्थव्याप्तिश्चास्ति तत्राऽऽद्या स्वाभाविकी द्वितीया धर्मादिकृता तद्धर्मादेर्नाशित्बादर्थव्याप्तेर्नाशो यावदृष्टिभाविनी चैतन्यव्याप्तिरित्यर्थः॥९९॥१००॥१०१॥

निष्क्रियश्चेतनः साक्षी सक्रियोऽचेतनः पराङ्॥
व्यावृत्तश्च प्रमात्रादेः सिद्धः साक्षी सुषुप्तगः॥१०२॥

लौकिक्या दृष्टेर्भेदेन नेतरा दृष्टिरदृष्टेरित्याशङ्क्यानुभवतो भेदं साधयति। निष्क्रिय इति॥१०२॥

न चेदनुभवव्याप्तिः सुषुप्तस्याभ्युपेयते॥
नावेदिषं सुषुप्तेऽहमिति धीः किंबलाद्भवेत्॥१०३॥

कथं सौषुप्तः साक्षी मात्रादिव्यावृत्तोऽनुभूयते न तत्रानुभवो हेत्वभावादिति शङ्कते। न चेदिति। अस्ति तावदुत्थितस्य नावेदिषमिति धीः सा परामर्शत्वात्पूर्वानुभवमाकाङ्क्षत्यतः सौषुप्तनित्यानुभवानुपगमे तदसिद्धेर्मात्रादिव्यावृत्तः साक्षी सौषुप्तः सिद्ध इत्याह। नेत्यादिना॥१०३॥

बुद्ध्यादेः प्रविलीनत्वाद्देहादेश्च जडत्वतः॥
लोष्टादेरिव, नैव स्यान्नाज्ञासिषमितीक्षणम्॥१०४॥

परामर्शाधीना सौषुप्तधीर्बुद्ध्यादिनिबन्धनैव स्यादित्याशङ्क्याऽऽह। बुद्ध्यादेरिति। न देहद्वयकृतं सौषुप्तं ज्ञानमित्यत्र हेत्वन्तरमाह। देहादेश्चेति। अतः सौषुप्तनित्यानुभवाभावे परामर्शासिद्धिरिति फलितमाह। नैवेति॥१०४॥

चिदाभासैकमात्रेण तमः सिद्धिर्न मातृतः॥
संवित्तन्मोहचिद्विम्बैः प्रात्यक्ष्यं कर्तृरूपिणः॥१०५॥

नित्यानुभवादृते परामर्शायोगोक्त्या सुषुप्ताख्याज्ञानस्य मेयत्वमप्यपास्तमित्याह। चिदिति। चैतन्यतदाभासाभ्यामज्ञानसिद्धिमुक्त्वा मातृसिद्धिप्रकारमाह। संविदिति। चैतन्यतदाभासाज्ञानैरापरोक्ष्यं मातुरित्यर्थः॥१०५॥

स्मृतिनिश्चितिसंशीतिरागादिहिरुगात्मसु॥
अहंरूपेण योऽन्वेति स प्रमाता परो मतः॥१०६॥

कोऽसौ माता तत्राऽऽह। स्मृतीति। ज्ञानादिवृत्त्याश्रयो मातेत्यर्थः। अन्विष्टः स्यात्प्रमातैव पाप्मदोषादिवर्जित इति न्यायेनाऽऽह। पर इति॥१०६॥

स्मरणादिविभागेन ज्ञातर्येकत्र यत्पृथक्॥
प्रथतेऽनेकरूपाभं तज्ज्ञानं ज्ञातुकर्तृकम्॥१०७॥

किं तर्हि ज्ञानं तदाह। स्मरणादीति। स्वरूपेण पृथक्त्ववद्विषयतोऽपि तदस्तीत्याह। अनेकेति। तत्रानुभवं प्रमाणयति। प्रथत इति। एकत्र ज्ञातरि या ज्ञान-

स्थितिः सा ज्ञात्रन्तरेऽपि तुल्येति सूचयति। ज्ञातुकर्तृकमिति। अर्थविशेषितं प्रकाशरूपं कर्तृनिष्ठं ज्ञानमिति समुदायार्थः॥१०७॥

विभिन्नो बहिराभाति जातिरूपक्रियादिमान्॥
विभिन्नोऽनुभवादेव ज्ञातुर्ज्ञानात्स गोचरः॥१०८॥

कीदृशो विषयस्तत्राऽऽह। विभिन्न इति। ज्ञानादिव्यावृत्त्यर्थं बहिरिति विभिन्नत्वं साधयति। जातीति। भिन्नो भातीत्युक्तं व्यनक्ति। विभिन्न इति। साक्ष्यनुभवं व्यावर्तयति। ज्ञातुरिति। ज्ञातृक्रियारूपज्ञानाद्यो ज्ञात्रादेरन्यो भाति स विषय इत्यर्थः॥१०८॥

संवित्तन्मोहधीवृत्तिशरीरादिविशेषणम्॥
भोक्तरीह यदाभाति तत्प्रमाणफलं स्मृतम्॥१०९॥

प्रसङ्गान्मानफलस्वरूपमाह। संविदिति। चैतन्यं स्फुरतीत्यादिना चैतन्यादिविशेषितं यदात्मनिस्फुरणं भाति तत्फलमित्यर्थः॥१०९॥

कर्तृत्वं करणत्वं च कर्मत्वं चाऽऽत्मसाक्षितः॥
व्यतिरेकेण कर्त्रादेः सिद्धेर्नाऽऽत्मत्वमस्त्यतः॥११०॥

उक्तचतुष्टयस्य नित्यानुभवसिद्धतामाह। कर्तृत्वमिति। एकश्चकारः फलसमुच्चयार्थः। आभातीति पूर्वेण संबन्धः। मात्रादेः साक्ष्यत्वे फलितमाह। व्यतिरेकेणेति। अतः साक्षिण इति प्रतियोग्युक्तिः॥११०॥

साक्षित्वेनाऽऽत्मनः सिद्धिर्मात्रादिव्यतिरेकतः॥
न कर्तृता प्रमात्रादेः साक्ष्यत्वेनैव तत्क्षयात्॥१११॥

प्रतीचः साक्षित्वे फलितमाह। साक्षित्वेनेति। मात्रादेः साक्ष्याद्भेदेन प्रतीचः साक्षित्वात्तस्याऽऽत्माधीना सिद्धिरतः साक्षिताफलमात्मतेत्यर्थः। मात्रादेः साक्ष्यत्वमुपसंहरति। नेति। नाऽऽत्मतेत्यर्थः॥१११॥

प्रत्यङ्मोहजबुद्ध्यादिजडरूपप्रधानतः॥
कर्तृत्वमात्मनो युक्तं चित्प्राधान्याच्च भोक्तृता॥११२॥

तर्हि मात्रादिरेकस्तत्साक्षी चान्यः कूटस्था दृष्टिरपरेति भेदः स्यात्तत्राऽऽह। प्रत्यगिति। आत्मनः स्वाज्ञानोत्थबुद्ध्यादिप्राधान्येन मातृत्वादि स्वाभासप्राधान्येन साक्षिता स्वतस्तु कूटस्थतेति न वास्तवो भेद इत्यर्थः॥११२॥

अव्याकृतव्याकरणे यदुक्तं सर्वमेव तत्॥
अनुसंधेयमत्रापि वस्तुतत्त्वविशुद्धये॥११३॥

दृष्टिरिति द्विधेत्यादिभाष्यं व्याख्यायोक्तेऽर्थे तार्तीयन्यायस्यानुग्राहकत्वमाह।

अव्याकृतेति। वस्तुतत्त्वं वस्तुस्वाभाव्यादित्यादिभाष्यार्थस्तस्य विशुद्धिर्निर्धारणं तदर्थमिति यावत्॥११३॥

स्वमहिम्ना न संसिध्येत्स्वतोऽनवगमात्मकम्॥
भावाभावौ न वस्त्वेति प्रत्याख्यातं यदात्मना॥११४॥

तत्रोक्तमेव बुद्धिसौकर्यार्थं स्मारयति। स्वमहिम्नेति। न तावज्जडं स्वतः सिध्यति जडत्वात्तदेव च जन्मविनाशवद्दृश्यते न प्रत्यग्वस्तु यस्मात्तेन तदुभयं निरस्तं तस्मात्कूटस्थं तदित्यर्थः॥११४॥

तस्मादजायमानैव जायमानेव लक्ष्यते॥
संवित्तिस्तदसंबोधहेतूत्थानात्मजन्मना॥११५॥

तद्विनाशेऽपि तत्साक्ष्याद्विनश्यन्तीव लक्ष्यते॥
यतोऽतः कार्यतां तस्या नेश्वरोऽपि प्रसाधयेत्॥११६॥

अनात्मन्येव जन्मादि चेत्कथमात्मनि तद्धीरित्याशङ्क्योपाधिवशादित्याह। तस्मादित्यादिना। चिदात्मनो जन्मादेर्मिथ्यात्वे फलितमाह। यत इति॥१११॥११६॥

अज्ञानभूमिगं वस्तु मानसंगतिमाप्नुवत्॥
मेयत्वं लभते नान्यद्यच्च त्यक्तक्षि94तिद्वयम्॥११७॥

संविद्रूपस्याऽऽत्मनोऽकार्यत्वेऽपि ज्ञेयत्वाज्जाड्यं ततश्च कारणतेत्याशङ्क्याऽऽह। अज्ञानेति। क्षितिशब्देन कार्यैकदेशवाचिना कारणमपि लक्ष्यते॥११७॥

हेतोः कार्यसमुत्पत्तेः सिद्धेः प्रागपि संविदः॥
कार्यकारणताहीना तस्मात्संवित्प्रतीयताम्॥११८॥

कार्यकारणान्यतरकोटिव्यतिरेकेण संवित्सत्त्वे मानाभावात्कथमजडोभयविलक्षणा सेति तत्राऽऽह। हेतोरिति। हेतुहेतुमद्विभागात्पुराऽपि स्वापादौ संविदः सिद्धेस्तत्साधिका या द्वयबहिर्भावादजडा सा निश्चितेत्यर्थः॥११८॥

शून्यस्यापि हि शून्यत्वं तत्साक्षिणि सतीक्ष्यते॥
असाक्षिकं चेच्छून्यत्वं साक्षिवत्स्यादसाक्षिकम्॥११९॥

शून्यवादिनस्तु तामेव न सहन्ते तत्कथं तस्या हेत्वादिराहित्यमत आह। शून्यस्येति। यद्यपि सर्वप्रमाणप्रकोपप्रसङ्गान्न शून्यं नाम संभवति तथाऽपि तस्याभ्युपगमे तत्त्वं साक्षिसापेक्षं साधकमन्तरेण तदसिद्धेरित्यर्थः। ननु तत्साधकत्वेन साक्षी नेष्यते तं विनाऽपि तत्प्रथासंभवात्तत्तर्हि स्वप्रकाशं न वेति विकल्प्याऽऽयं प्रत्याह। असाक्षिकमिति। साक्षिणं विना शून्यं प्रकाशते चेत्तदाऽसाक्षिकत्वेनेष्टं परेष्टसाक्षिवत्स्वप्रकाशं स्यात्ततो नास्ति विप्रतिपत्तिरित्यर्थः॥११९॥

साक्ष्यसाक्ष्यपि संसिध्येत्स्वार्थत्वान्न तु शून्यता॥
पारार्थ्यात्स्वार्थविरहे षष्ठगोचरवद्भवेत्॥१२०॥

कल्पान्तरं निरस्यति। साक्ष्येति। अस्मदिष्टः साक्ष्यसाक्षी निरपेक्षोऽपि सिध्यति स्वप्रकाशकत्वेन स्वतन्त्रत्वान्न त्वदिष्टा शून्यता तथा तस्या जाड्येनाजडसाधकापेक्षत्वादतः स्वतन्त्रसाधकाभावे शून्यमेव शून्यं स्यादिति सदेकरसा कूटस्था संविदास्थेयेत्यर्थः॥१२०॥

देहान्तः प्रत्यगात्माऽयं पञ्चधा गम्यते मितेः॥
एककारणसाक्षित्वकर्तृदुःखित्वरूपतः॥१२१॥

यथोक्तसंवित्सत्त्वेऽपि कथं तदैकरस्यमित्याशङ्क्य तद्गतभेदापवादार्थं पञ्चधा तदवस्थानमाह। देहेति। स्थूलदेहमारभ्याव्याकृतपर्यन्तं जगन्मध्ये योऽस्ति प्रत्यग्धातुः सोऽयं पञ्चधाऽनुभूयत इति यावत्। मितिरनुभवः। तदेव पञ्चधात्वं प्रकटयति। एकेति। तत्रैक्यं वास्तवमितरदाविद्यमिति विभागः॥१२१॥

श्रुतितो लिङ्गतः साक्षात्कार्यकारणसंगतिः॥
यतोऽनुभूयते तस्मात्कारणत्वं परात्मनः॥१२२॥

न कारणत्वं प्रत्यग्भूतस्य परस्य युक्तं वादिविप्रतिपत्तेरिति चेन्नेत्याह। श्रुतित इति। पञ्चम्यौ समानाधिकरणे। लिङ्गं ज्ञापकं कार्यमाकाशादि जगतः कारणभूतं ब्रह्मेति ब्रह्मजगतोः संबन्धश्रुतेर्ब्रह्मैव कारणमित्यर्थः॥१२२॥

प्रत्यक्साक्ष्यतिरेकेण नाभावोऽपि प्रसिध्यति॥
किमु भावो जगत्यस्मिन्साक्षी चानन्यसिद्धिकः॥१२३॥

तथाऽपि कथं साक्षित्वं मातारं विना तदप्रतीतेस्तत्राऽऽह। प्रत्यगिति। मातृभावाभावसाधकः साक्षी मातृव्यतिरिक्तः सिध्यतीत्यर्थः। मातृवत्साक्षिणोऽपि साधकान्तरापेक्षयाऽनवस्थेत्याशङ्क्याऽऽह। साक्षी चेति॥१२३॥

यथोक्तानुभवारूढो बुद्ध्यन्तोऽपि प्रसिध्यति॥
माता मातरि मानं च मानान्मेयं प्रसिध्यति॥१२४॥

तर्हि साक्षी माता चेति द्वैतप्रसक्तिरित्याशङ्क्य प्रतीचः स्वाविद्याकृतं ज्ञानकर्तृत्वमाह। यथोक्तेति। कारणत्वादिदृष्टान्तार्थोऽपिशब्दः। तस्यैवाविद्यया दुःखित्वं वक्तुं पातनिकामाह। मातरीति। अनुभवारूढत्वमाक्रष्टुं चशब्दः॥१२४॥

सुखी गौरो धनी गोमान्वाह्यमेयसमाश्रयात्॥
प्रमाणभूमौ स्थित्वैतदुक्तं सर्वं प्रसिध्यति॥१२५॥

दुःखित्वस्योपलक्षणत्वमुपेत्य मेयापेक्षं स्वरूपमाह। सुखीति। पञ्चधास्थितिमुपसंहरति। प्रमाणेति॥१२५॥

प्राक्प्रमात्रादिसंभूतेर्यत्प्रमात्रादिकारणम्॥
अनन्यानुभवात्माभं तत्प्रमाणं सदादृशेः॥१२६॥

अस्तु कारणत्वाद्याविद्यं वस्तु चाद्वयं तथाऽपि व्यवहारकाले मात्रादिरूपेण तत्सिद्धावपि स्वापादौ न तत्सिद्धिर्मानाभावात्तत्राऽऽह। प्रागिति। स्वापाद्यवस्थास्वप्यज्ञानं स्फुरत्यन्यथोत्थितस्य नावेदिषमितिपरामर्शायोगात्तस्मादज्ञानसिद्ध्यनुपपत्तिस्तत्साधकमात्मानं तासु साधयतीत्यर्थः॥१२६॥

मेयमानप्रमात्रादिविभागस्तत्र नेक्ष्यते॥
प्रत्यग्बोधैकयाथात्म्यवस्तुमात्रोपरोधतः॥१२७॥

अर्थापत्तिरात्मनि मानं चेत्तत्र मात्रादिना भाव्यं नेत्याह। मेयेति। तत्र हेतुः प्रत्यगिति॥१२७॥

ईदृगेव फलं चात्र मानमेयादिकं तथा॥
कुतो भेदावकाशः स्यादद्वयैकप्रमात्मनि॥१२८॥

श्रौतज्ञानादात्मनि फलमिष्टं न वाऽऽद्ये मानादिविभागोपगमो द्वितीये मुक्त्यसिद्धिरित्याशङ्क्याऽऽह। ईदृगिति। रज्जुसर्पादिसदृशं काल्पनिकमिति यावत्। तथेति कल्पितत्वोक्तिः। वस्तुतो विभागाभावे हेतुः। कुत इति॥१२८॥

प्रमाणवर्त्मनाऽऽयातमिदं मोहापनुत्तये॥
वस्तुवृत्तेन नैवालं शास्त्रानारम्भसक्तितः॥१२९॥

आत्मा प्रमास्वभावश्चेत्स्वयमेव स्वाज्ञानं नुदेत्किं काल्पनिकेन मानेनेत्यत आह। प्रमाणेति। अद्वयचैतन्यमिदमा परामृष्टम्। यदीदं स्वरूपतो मोहं नुदेन्न तदोपनिषदारम्भस्तदुत्थधियो निवर्त्याभावे वैफल्यादित्याह। वस्त्विति॥१२९॥

उक्तार्थापरिहारेण तदज्ञानजभूमिषु॥
व्यवहारः प्रमात्रादेः स्वप्नमायेन्द्रजालवत्॥१३०॥

किं सर्वव्यवहारस्यानुभवाधीनत्वात्तस्य स्वरूपेणाज्ञानादिसाधकत्वान्मानं विना न तद्ध्वंसितेत्याह। उक्तार्थेति। संविदात्मा प्रत्यगात्मोक्त्तार्थस्तन्मात्रेण स्वाज्ञानानिरासेनेति यावत्। यथा स्वप्नादिषु मात्रादिकृतो व्यवहारस्तद्द्रष्टृनिमित्तो दृष्टस्तथेहापि स्वाविद्योत्थमात्रादिव्यवहारस्तदधीनो युक्तस्तथाच प्रतीचः स्वाज्ञानादिसाधकस्य न स्वरूपेण तद्ध्वंसितेत्यर्थः॥१३०॥

अविचारितसंसिद्धितमोवत्स्यात्तदुद्भवम्॥
कृत्स्नं जगदतो मोहध्वस्तौ ध्वस्तं भवेच्चितिः॥१३१॥95

दृष्टान्तवैषम्यमाशङ्क्याऽऽह। अविचारितेति। कार्यकारणात्मकद्वैतस्य कल्पितत्वे फलमाह। अत इति। वाक्योत्थाद्वयाकारधीवृत्तेः सहेतुबन्धध्वस्तौ चिन्मात्रनवशिष्टमित्यर्थः॥१३१॥

भिन्नमानप्रमात्रादौ कार्यकारणवस्तुनि॥
अभिन्नमातृमानादिरात्मैवैकोऽद्वयः स्वतः॥१३२॥

अज्ञानध्वस्तेरूर्ध्वं तदवशेषश्चेत्पूर्वमर्थान्तरस्यापि सत्त्वाच्चिदद्वैतासिद्धिरित्याशङ्क्याऽऽह। भिन्नेति। स्वतश्चितोऽद्वयत्वं न विहन्यते कदाचिदपीत्यर्थः॥१३२॥

न देशकालावस्थादावपेक्षाऽस्त्यात्मनः स्वतः॥
अनन्यापेक्षसंसिद्धेर्देशादेस्तदपेक्षतः॥१३३॥

चिदात्मा स्वसिद्धौ देशाद्यपेक्षते न वाऽऽद्ये घटादिवत्सद्वयत्वं द्वितीये नियतभानानुपपत्तिरित्याशङ्क्याऽऽह। नेति। तत्र हेतुः। स्वत इति। आत्मनो देशादिसत्तास्फूर्तिहेतुत्वाच्च न तदपेक्षेत्याह। देशादेरिति॥१३३॥

देशकालनिमित्तादिव्यपेक्षं वस्तु यद्भवेत्॥
तदेव तदपेक्षं स्यान्न तु देशादिसिद्धिदम्॥१३४॥

किं तर्हि तत्सापेक्षं तदाह। देशेति॥१३४॥

कारकादिवशाद्यावत्किंचिद्वस्तूपलभ्यते॥
क्रियाफलं तद्विज्ञेयमनपेक्षिततत्त्वकम्॥१३५॥

तर्हि किंचिद्देशाद्यपेक्षं किंचिन्नेति द्वैतापत्तिर्नेत्याह। कारकादीति। कार्यस्य सर्वस्य रज्जुसर्पवत्कल्पितत्वान्न द्वैतं वस्तुतोऽस्तीत्यर्थः॥१३५॥

वस्त्वधीना यतो विद्या कर्त्रधीना क्रियाऽखिला॥
कर्त्रादि चाऽऽत्ममोहोत्थं वस्तु सिद्धं स्वतोऽद्वयम्॥१३६॥

क्रियाकारकयोरिव तत्फलस्यापि कल्पितत्वं किं न स्यादित्याशङ्क्याऽऽह। वस्त्विति। विद्याया वस्त्वनुसारित्वात्क्रियाकारकयोश्चाऽऽविद्यत्वाद्विद्यया तद्ध्वस्तौ तत्कार्यक्रियादिध्वस्तेरात्मवस्तु कूटस्थं स्वतोऽद्वयं स्यादित्यर्थः॥१३६॥

कारकाण्युपमृद्गाति विद्या बीजमिवोषरम्॥
96त्कारणोपमर्दित्वाज्जन्मनैव न कारकम्97॥१३७॥

विद्ययाऽविद्यानिवृत्त्या तत्कार्यकारकादिनिवृत्तिं दृष्टान्तेन स्पष्टयति। कारकाणीति। विद्या वस्तु व्यनक्त्येव न भावमभावं वा करोति तत्कथमज्ञानादि निवर्तयतीत्याशङ्क्याऽऽह। जन्मनेति। सा हि स्वोत्पत्तिमात्रेण वस्तु स्फुटयन्ती तदज्ञानं नान्तरीयकतया निवर्तयति न व्यापारान्तरेणेत्यर्थः॥१३७॥

प्रमातृपरिणामत्वात्प्रमासिद्धिः प्रमातरि॥
प्रमात्रव्यवधानेन संविदैव न वृत्तिभिः॥१३८॥

अथाज्ञानादिध्वंस्यपि विज्ञानमात्माश्रयमित्यात्मनः सविशेषता तत्राऽऽह। प्रमात्रिति। प्रमासिद्धिः संविदेति संबन्धः। ज्ञानस्य फललिङ्गानुमेयत्वान्न साक्षिवेद्यतेति केचित्तान्प्रत्याह। प्रमात्रव्यवधानेनेति। साभासमन्तःकरणं तद्गतं ज्ञानं च नित्यानुभवसिद्धमित्यर्थः॥१३८॥

मात्रन्तरे व्य98पेक्षायां मातुर्मानान्तरे मितेः॥
दुर्वारत्वात्प्रसङ्गस्य ह्यनवस्था प्रसज्यते॥१३९॥

प्रमातृमानयोर्मेयत्वाभावं साधयति। मात्रन्तर इति99। मातुर्मात्रन्तरे मानस्य च मानान्तरे व्यपेक्षायां तत्र तत्र प्रसङ्गस्य दुर्वारत्वाद्द्विधाऽनवस्थेत्यर्थः। फलस्य फलान्तरापेक्षायामपि तुल्याऽनवस्थेति वक्तुं हिशब्दः॥१३९॥

प्रमात्रतिशयेनैव कारणं स्यात्प्रमात्रपि॥
विज्ञानातिशयं सिध्येन्मानं निश्चयवत्तथा॥१४०॥

वस्तुस्वाभाव्यादित्यादिभाष्यार्थोपयोगित्वेनाव्याकृतप्रक्रियोक्तमनुस्मार्य संप्रति वस्तुस्वाभाव्यमेवाऽऽश्रित्य तद्गतमविद्याकृतं रूपं व्याख्यातुं व्यवहारदशायां प्रमाणप्रक्रियामाह। प्रमात्रिति। साभासमन्तःकरणं प्रमातृज्ञानं प्रति करणत्वान्यथानुपपत्तिकल्पितान्यथाभावाख्यातिशयेनैव तस्य कारणमतिशयोत्पत्त्यनन्तरं तदेव प्रमातृ ज्ञानाख्यातिशयविशिष्टं सिध्यति ततो ज्ञानशब्दितं मानं विषयनिश्चयफलशिरस्कं भवतीत्यर्थः। अपिरवधारणे। तथेति क्रियाऽनुकृष्यते॥१४०॥

मेयासाधारणात्मोत्थरूपवान्निश्चयो यथा॥
बाह्यमेयप्रधानत्वे सत्यसाधारणार्थधीः॥१४१॥

निश्चयस्याऽऽकारोक्तिपूर्वकं तेन तुल्याकारत्वं ज्ञानस्याऽऽह। मेयेति। घटादेर्मेयस्यासाधारणेनाऽऽत्मनाऽभिव्यक्ताकारविशिष्टो यथा मानफलभूतो निश्चयस्तथा ज्ञानस्य घटादि प्रधानं कृत्वा प्रवृत्तत्वे सति घटोऽयं पटोऽयमिति घटाद्यसाधारणाकारेव धीरुदेतीति मानतत्फलयोस्तुल्याकारतेत्यर्थः॥१४१॥

मानव्यापारकाले स्याद्बाह्यमेयोपसर्जनम्॥
आभासादिप्रमाणान्तं तद्विशिष्टफलोत्थितेः॥१४२॥

कदा विषयस्य प्राधान्यं मानादेश्चोपसर्जनत्वं तदाह। मानेति। यदा मानं स्वफलमुत्पादयितुं व्याप्रियते तदा तन्मानं तत्कर्ता तद्गताभासश्चेत्येतद्घटादि प्रधानीकृत्य तद्गुणतया तत्प्रवणं भवति घटादिविशिष्टत्वेन फलोत्पत्तेरिष्टत्वादित्यर्थः॥१४२॥

प्रमाणव्यापृतेस्तूर्ध्वं वासनाधानकारणात्॥
मेयोपसर्जना बुद्धिः स्मृत्या साक्षात्प्रतीयते॥१४३॥

कदा विषयस्याप्राधान्यं बुद्धेश्च प्राधान्यं तदाह। प्रमाणेति। प्रमाणं स्वफलनिश्चयजननव्यापारानन्तरं कृतार्थतया निवर्तमानं स्वाश्रये मातरि वासनामाधाय तद्रूपेण तिष्ठति तच्च तदात्मना स्थितमदृष्टादिभिरुद्बोधितं स्मृतिरूपेणोत्पद्यते स्मरणकाले मेयमुपसर्जनीकृत्य बुद्धिर्भवतीति तत्प्राधान्यं, मेयस्य च गुणतेत्यर्थः॥१४३॥

साक्षात्कुर्वत्स्वमात्मानं यदालम्बनतां व्रजेत्॥
कार्यकारणरूपस्य तदेवाऽऽलम्बनं मतम्॥१४४॥

कदाचिज्ज्ञेयस्य ज्ञानस्य च कदाचित्प्राधान्यं चेत्तदा कथमेकमेव वस्तु प्रधानमिति स्वमतसिद्धिस्तत्राऽऽह। साक्षादिति। सवृत्तिकमन्तःकरणं साभासं प्रमातृशब्दितं स्वविषयं साक्षात्कारं कूटस्थचैतन्यतादात्म्यारोपादापादयद्यत्कूटस्थापरोक्षचैतन्यमाश्रयत्वेन स्वीकृत्याऽऽश्रिततां गच्छति तदेव यथोक्तं चैतन्यं कार्यकारणप्रपञ्चस्य रज्जुरिव सर्पादेरधिष्ठानं तस्य तदविद्याविलसितत्वात्तस्मादेकमेव प्रधानमिति पक्षस्य न क्षतिरित्यर्थः॥१४४॥

पूर्वोपलम्भसंस्कारसमुत्थस्मृतिविभ्रमात्॥
वस्तुवृत्तातिवर्त्येष व्यापारः सार्वलौकिकः॥१४५॥

अनेकप्रधानोपगमकृतदोषाभावेऽपि मेयोपसर्जना बुद्धिरिति वदता स्मृतेर्मेयाङ्गीकारादनालिङ्गितबाह्यार्था स्मृतिरिति स्वमतं त्यक्तमिति चेन्नेत्याह। पूर्वेति। स्वविषयानुभवजन्यसंस्कारोत्था स्मृतिर्भ्रान्त्या सविषयेव भात्यतः सर्वः स्मार्तो व्यवहारो वस्तुतो न वस्तुस्वरूपानुसारीति न सिद्धान्तहानिरित्यर्थः॥१४५॥

मेयाभिसंगतेः पूर्वं ज्ञानं ज्ञातृसमाश्रयम्॥
ज्ञातृत्वसिद्धये ज्ञानं100 ज्ञातृत्वं तत्कृतं यतः॥१४६॥

स्मृतेर्बाह्यार्थशून्यत्वे ज्ञानत्वाविशेषान्मानमपि तद्धीनं स्यादित्याशङ्क्याऽऽह। मेयेति। अर्थयोगात्पूर्वं ज्ञातृगतज्ञातृत्वसिद्ध्यर्थं ज्ञातारमाश्रित्य ज्ञानं तिष्ठति ज्ञातृत्वस्य तत्कृतत्वान्न चार्थासंबद्धं ज्ञानमेव नास्त्युपादानात्मना सतो विशेषेण व्यज्यमानस्य तत्संबन्धान्न चार्थव्यवहारस्तद्योगं विना ज्ञानकृतः सिध्यतीति बाह्यार्थता तस्येति भावः॥१४६॥

वासनाबलतः स्पष्टं बहिर्वद्यन्मतौ स्थितम्॥
भावनागोचरं ज्ञानं बाह्यवस्त्ववलम्बनम्॥१४७॥

तर्हि स्मृतेरपि बाह्यार्थता ज्ञानत्वान्मानवदन्यथा तस्यास्तदर्थत्वविरोधस्तत्राऽऽह। वासनेति। यज्ज्ञानमनुभवाख्यं स्वकाले बाह्यविषयमुत्पन्नं तत्स्वकृतसंस्कारात्सूक्ष्माकारेण बुद्धौ स्थितमदृष्टाद्युद्बोधकानुरोधेन स्पष्टमुद्बुद्धं स्मृतिरूपेण जायमानं पूर्वानुभूतार्थसंस्कारगोचरं बहिर्विषयमिव भवत्यतो वस्तुतोऽर्थाभावादनालिङ्गितबाह्यार्थेत्यादेरविरोधाद्वासना-वशाच्चार्थवत्त्वधीसिद्धेर्न किंचिद्दौस्थ्यमित्यर्थः॥१४७॥

अपेक्षावृत्तवद्वस्तु यावत्किंचिदिहेक्ष्यते॥
मातृमात्राश्रयं तत्स्यान्न स्वतःसिद्धिनिष्ठितम्॥१४८॥

अविद्याकाले मानस्थितिमुक्त्वा वस्तुस्वाभाव्यमुक्तमुपसंहरति। अपेक्षेति। सर्वमपि सापेक्षं जडं जगन्मातुर्माता साक्षी, तन्मात्राश्रयं सिध्यति, न तु तज्जडत्वादेव स्वतः सेद्धुमर्हत्यतश्चिन्मात्रमद्वयमवेद्यं पारमार्थिकं, सर्वमितरन्मायिकमित्यर्थः॥१४८॥

अन्तःकरणवृत्तिर्या चक्षुरादिसमाश्रया॥
रूपादिविषयाभासा लौकिकी दृष्टिरुच्यते॥१४९॥

वस्तुस्वाभाव्यादित्यादि पारमार्थिकी चेत्यन्तं भाष्यं व्याख्याय तत्रेत्यादि विभजते। अन्तःकरणेति। बुद्धिपरिणामश्चक्षुरादिकरणको रूपादिविषयो लौकिकदृष्टिरित्यर्थः॥१४९॥

तस्याश्च क्रियमाणत्वाज्जन्मनाशाभिसंगतिः॥
आत्मदृष्टिस्त्वियं नित्या जन्मनाशादिवर्जिता॥१५०॥

सा क्रियत इत्यादिभाष्यार्थमाह। तस्याश्चेति। या त्वित्यादिभाष्यं व्याकरोति। आत्मेति। पूर्वस्या दृष्टेरस्या विशेषार्थस्तुशब्दः॥१५०॥

कार्यकारणयोस्तत्त्वं प्रत्यगात्मा चितिर्यतः॥
तस्मान्नित्यश्चिदाभासो बुद्धौ तत्प्रत्ययेषु च॥१५१॥

नित्यत्वे हेतौ जन्मादिराहित्ये हेतुमाह। कार्येति। अथ सा न नित्या दृष्टित्वाद्बुद्ध्यादिगतदृष्टिवदन्यथा घटादिगताऽपि नित्या स्यादत आह। तस्मादिति। बुद्ध्यादिस्थाऽपि सा दृष्टिपदलक्षिता नित्यैवेति साध्यवैकल्यं, न च घटादिस्थदृष्टेर्नित्यत्वप्रसङ्गो बाध, इष्टत्वाद्व्यञ्जकाभावात्तु कदाचिन्न व्यज्यते, न च वाच्या दृष्टिर्दृष्टान्तो, दृष्टित्वस्यापितद्वाच्यत्वे हेत्वसिद्धेस्तल्लक्ष्यत्वे साधनवैकल्यादेवं प्रसङ्गोऽपि प्रतिपत्तव्यस्तस्माच्चित्प्रकाशः सर्वत्र नित्य एवेत्यर्थः॥१५१॥

प्रत्यक्चिदुपरक्तायां बुद्धौ धर्मादिहेतुकः॥
आकारो जायतेऽनित्यो दुःखशब्दादिलक्षणः॥१५२॥

आत्मदृष्टेर्नित्यत्वेऽपि लौकिकी दृष्टिरनित्येति दृष्टिविशेषणाद्वृत्त्यन्तरस्य नित्यत्व-

प्राप्तिरित्याशङ्क्याऽऽह। प्रत्यगिति। दृष्टिग्रहणस्योपलक्षणत्वाद्बुद्धिवृत्तिः सर्वाऽनित्येत्यर्थः॥१५२॥

स्थास्नौ प्रत्यक्चिदाकारे बाह्यहेतुनिबन्धनः॥
आकारो जायते बुद्धेरागमापायधर्मवान्॥१५३॥

बुद्धेः शब्दाद्याकारपरिणामवच्चिदुपरागोऽपि धर्मादिकृतः स्यादित्याशङ्क्योक्तमेव व्यनक्ति। स्थास्नाविति॥१५३॥

उपाधिभूतया दृष्ट्वा हानोपादानरूपया॥
एकाश्रयत्वतः स्थास्न्वी संसृष्टेवोपजायते॥१५४॥

लौकिक्या दृष्टेरनित्यत्वेऽपि पारमार्थिकी दृष्टिरात्मैवेत्ययुक्तं द्रष्टेत्युक्तेर्भेदव्यपदेशस्यायोगप्रसङ्गादित्याशङ्क्य सेत्यादिभाष्यार्थमाह। उपाधीति। एकाश्रयत्वं दृष्ट्योरेकबुद्धिस्थत्वम्। साक्ष्यधीतद्वृत्तिस्थं कर्तृत्वं क्रियात्वं चाऽऽरोपान्नित्यदृग्रूपे व्यवह्रियते तेन व्यपदेशाविति शेषः॥१५४॥

बुद्धितद्वृत्तिसाक्षित्वाद्बुद्धितत्प्रत्ययैरजः॥
गृह्यतेऽविद्ययाऽभिन्नो मणिर्यद्वदुपाश्रयैः॥१५५॥

नित्यदृष्टित्वे कथं पश्यति न पश्यति जायते नश्यतीत्यादिव्यपदेशस्तत्राऽऽह। बुद्धीति। यथोपाधिभिः स्फटिकस्तत्तदाकारः क्रियते तद्वदभिन्नोऽप्यात्मा स्वाविद्यया बुद्ध्यादिसाक्षित्वात्तद्वशाद्दर्शनादिविक्रियाशाली व्यवह्रियत इत्यर्थः॥१५५॥

कर्तृकार्यावभासित्वात्कर्तृकार्याभिधायिभिः॥
लक्ष्यते नामभिः साक्षी साक्षान्न त्वभिधीयते॥१५६॥

कस्मादात्मदृष्टेरनित्यदृष्टियोगादनित्यत्वं शब्दविषयतया स्वत एव किं न स्यादित्याशङ्क्य वाच्यत्वं लक्ष्यत्वं वा हेतुरिति विकल्प्याऽऽद्यं दूषयति। कर्त्रिति॥१५६॥

तज्जन्मनाशसाक्षित्वादजोऽनाशी स्वयंप्रभः॥
जायते नश्यतीत्येवं तत्साक्ष्यप्यभिधीयते॥१५७॥

द्वितीयं निराह। तज्जन्मेति। लक्ष्यत्वेऽपि न वस्तुतो जन्मादिसिद्धिस्तद्दृष्टेरौपाधिकत्वोक्तेरिति भावः। एतेन दृष्टित्वहेतुर्निरस्तः॥१५७॥

दृष्टेर्जडस्वभावायाः परार्थायाः स्वतश्चितिम्॥
न पश्येः प्रत्यगात्मानं द्रष्टारं दृश्ययाऽनया॥१५८॥

न दृष्टेरित्यादिवाक्यतात्पर्यमुक्त्वा तदक्षराणि व्याचष्टे। दृष्टेरिति॥१५८॥

दिदृक्षितपरिच्छिन्नपराग्रपाद्यपेक्षया॥
तद्विरुद्धं कथं पश्येर्दृष्ट्या तत्कर्मभूतया॥१५९॥

दृश्यविलक्षणत्वाच्च तस्य तया विषयीकरणानुपपत्तिरित्याह। दिदृक्षितेति॥१५९॥

द्रष्टुर्हि व्यापृतिर्दृष्टौ दृष्टे रूपादिकर्माणि॥
ताभ्यां तत्प्रत्यगात्मानं कथं पश्येश्चितिं स्वतः॥१६०॥

द्रष्टुर्दृष्टिविषयत्वाभावे युक्त्यन्तरमाह। द्रष्टुरिति। क्रियायां कर्तुरुत्पादकत्वं तस्याश्च विषये फलाधायकत्वं कर्तृक्रियाफलप्रत्यग्भूतस्य न क्रियाव्याप्यत्वं न हि प्रतीचः स्वतश्चितो दृग्व्याप्यत्वमित्यर्थः। उक्तेऽर्थे सर्वसंमतिद्योतको हिशब्दः॥१६०॥

नाकारकं समीक्षेत द्रष्टृदर्शनगोचरान्॥
कारकत्वमृतेऽविद्यां कूटस्थस्याऽऽत्मनः कुतः॥१६१॥

आत्मा नित्यदृष्टिर्बुद्ध्यादिसाक्षीत्युक्तम्। इदानीं तत्कर्तृत्वमपि तस्यैवेत्याह। नेत्यादिना। कूटस्थं चैतन्यमुदासीनत्वान्न द्रष्ट्रादि द्रष्टुमीष्टे तत्तस्य101 कारकत्वमस्तीत्यर्थः। तर्हि वास्तवं कर्तृत्वं नेत्याह। कारकत्वमिति॥१६१॥

कारकं सत्तथैकात्म्यं न कथंचन वीक्षते॥
अविद्यानन्वयाद्भास्वत्प्रत्यग्ज्योतिः सतत्त्वतः॥१६२॥

कर्तृत्वस्याऽऽविद्यत्वेऽपि तत्संबन्धकृतं स्वपरेक्षणं वास्तवमित्याशङ्क्याऽऽह। कारकमिति। यथैकात्म्यमारोपितकर्तृत्वेन द्रष्ट्रादिकमीक्षते तथाऽकारकं भूत्वा स्वपरदृष्टिं न करोत्यविद्यासंबन्धस्यापि वस्तुतोऽभावादित्यर्थः। तत्र हेतुः। भास्वदिति। प्रतिबन्धविधुरस्फुरणमात्रत्वादित्यर्थः॥१६२॥

येन चक्षुरिदं दृष्टं चक्षुषा यन्न पश्यति॥
ब्रह्म विद्धि तदेव त्वं न तु तद्यदुपासते॥१६३॥

न दृष्टेरितिश्रुत्यर्थे श्रुत्यन्तरं संवादयति। येनेति॥१६३॥

मनसा मनुते यन्न येन चाऽऽहुर्मनो मतम्॥
ब्रह्म विद्धि तदेव त्वं न त्विदं यदुपासते॥१६४॥

बाह्येन्द्रियाविषयत्वेऽपि मनोविषयता स्यादित्याशङ्क्य न मतेरित्यादौ श्रुत्यन्तरसंमतिमाह। मनसेति॥१६४॥

इत्येवमादिवाक्यानि यथोक्तार्थसमर्थने॥
श्रौतानि शतशः सन्ति दृगमेयत्वसिद्धये॥१६५॥

श्रुत्यन्तरसंवादं निगमयति। इत्येवमादीति। यथोक्तार्थसमर्थन इत्यस्यैव व्याख्या दृगिति॥१६५॥

एतन्मोहसमुत्थत्वात्प्रमात्रादेर्मनागपि॥
नैकात्म्यं शक्यते वक्तुं102 क्लृप्तहेतोरबाधया॥१६६॥

आत्मनोऽमेयत्वे श्रुतिमुक्त्वा युक्तिं समुच्चिनोति। एतदिति। क्लृप्तं मात्रादि तस्य हेतुरज्ञानं तस्याबाधया ब्रह्मात्मत्वं मात्रादिना न ज्ञातुं शक्यमज्ञानादिप्रतिबन्धान्नष्टे त्वज्ञाने तदुत्थमात्राद्यभावान्न तत्तेन सुज्ञानं तदमेयं प्रत्यग्ब्रह्मेत्यर्थः॥१६६॥

दृष्टिभेदमकृत्वैव दृष्टेरित्यादिकां श्रुतिम्॥
केचिद्व्याचक्षते धीराः प्रसादाज्जातवेदसः॥१६७॥

न दृष्टेरित्यादि भाष्यानुसारेण व्याख्याय भर्तृप्रपञ्चव्याख्यामनुवदति। दृष्टीति॥१६७॥

दृष्टेः कर्तारमात्मानं न पश्येः क्रियमाणया॥
दृष्ट्या रूपानुपातिन्या न क्रिया कर्तृकर्मिका॥१६८॥

कथं तद्व्याख्येत्याशङ्क्य नेत्यादिश्रुत्यक्षरार्थं तदिष्टमाह। दृष्टेरिति। दृष्टिर्हि चक्षुर्द्वारा जाता धीवृत्ती रूपं गोचरयति तया दृष्ट्या न शक्यो विषयीकर्तुमिति हेतुमाह। रूपेति। किंच न सा तं विषयी करोति तत्क्रियात्वाद्गतिरिव गन्तारमित्याह। नेति॥१६८॥

दृष्टेरिति च षष्ठीयं क्रियमाणत्वहेतुतः॥
कर्मण्येव तु विज्ञेया नासावर्थान्तरे यतः॥१६९॥

एवं व्याकुर्वतामभिप्रायमाह। दृष्टेरिति चेति। कर्मण्येव षष्ठीत्यत्र दृष्टेरात्मना निष्पाद्यत्वं हेतुमाह। क्रियमाणत्वेति। सकर्मिकायां क्रियायां कर्मणोऽन्तरङ्गत्वं गमयितुं तुशब्दः। एवकारार्थमाह। नेति। क्रियमाणाया दृष्टेः शेषरूपस्यार्थान्तरस्य बहिरङ्गत्वादित्याह। यत इति॥१६९॥

दृष्टिकर्तृत्वमाचष्टे तृजन्तेन तथाऽऽत्मनः॥
यतोऽतः कर्मदृष्ट्या तं द्रष्टारं नानुपश्यति॥१७०॥

षष्ठीं व्याख्याय द्वितीयां व्याचष्टे। दृष्टीति। उक्तं षष्ठ्यर्थं दृष्टान्तयितुं तथेत्युक्तम्। अस्तु कर्मदृष्टिर्द्रष्टा च कर्ता किं ततो जातं तदाह। यत इति॥१७०॥

कर्मेप्सिततमं रूपं दृष्टेः कार्यत्वहेतुतः॥
चक्षुर्मनो वा बुद्धिर्वा कर्तुः करणमिष्यते॥१७१॥

कर्मत्वं दृष्टेः स्पष्टयति। कर्मेति। यथाऽऽहुर्दृष्टिः क्रिया तस्या यद्रूपं तत्कर्म तद्धीप्सिततममिति। आत्मनः सा कर्म चेत्किं करणमित्युक्ते चक्षुर्मनो बुद्धिरिति करणानीति तद्भाष्यमनुसृत्याऽऽह। चक्षुरिति॥१७१॥

विज्ञानात्मा तु कर्ताऽत्र स्वातन्त्र्यात्सर्वकर्मसु॥
फलं रूपोपलब्धिश्च कर्तुर्दृष्ट्यवसानजम्॥१७२॥

जीवः परो वा द्रष्टेति संदिहानं प्रत्याह। विज्ञानेति। दृष्टिः सप्तम्यर्थः। तत्र

हेतुः। स्वातन्त्र्यादिति। कारकान्तराप्रयोज्यस्य तत्प्रयोक्तृत्वं स्वातन्त्र्यं तदस्ति जीवस्य सर्वासु क्रियास्विति युक्ता दृष्टिकर्तृतेत्यर्थः। विज्ञानात्मनिर्वृत्ताया दृष्टिक्रियायाः फलं रूपोपलब्धिरिति तदुक्त्या तद्दृष्टिफलमाह। फलमिति॥१७२॥

साधनत्वेन कर्ताऽत्र दृष्टाववसितिं गतः॥
क्रियासिद्ध्युत्तरे काले फलं कस्यापि चेष्यते॥१७३॥

इत्थं व्यवस्थायां द्रष्टुर्दृष्ट्यविषयत्वं स्पष्टीकर्तुं कर्तृतया गुणत्वेन दृष्टौ पर्यवसानमाचष्टे। साधनत्वेनेति। उक्तं हि क्रियासाधनत्वेन विनियुक्त इति। क्रियायां कतृत्वेन गुणत्वमुक्त्वा फलित्वेन प्राधान्यमाह। क्रियेति। उक्तं हि क्रियासिद्ध्युत्तरकाले फलं कस्यापि भविष्यतीति॥१७३॥

स्वामिनो यदि वाऽन्यस्य कर्म प्रत्येव च क्रिया॥
कर्म दर्शयितव्यं स्याद्दृष्ट्या द्रष्टा न दृश्यते॥१७४॥

किंशब्दार्थं प्रकटयति। स्वामिन इति। स्वामी जीवोऽन्यस्तदुपाधिर्माता साभासबुद्ध्याख्यस्तयोरन्यतरस्य रूपाद्युपलब्धिः फलमित्यर्थः। फलवत्क्रियाऽपि रूपस्याऽऽत्मनो वेति विकल्प्यता103मित्याशङ्क्याऽऽह। कर्मेति। क्रिया हीप्सिततमं कर्म प्रत्यभिमुखीभूतेत्युक्तत्वाज्ज्ञानं संवेदनफलकं क्रिया सा रूपादिविषया नाऽऽत्मविषयेत्यर्थः। तदेव स्फोरयति। कर्मेति। यथाऽऽहुस्तद्दर्शयितव्यं न कर्तेति॥१७४॥

तत्रैवं सति तं दृष्टेर्द्रष्टारं कर्मभूतया॥
दृष्ट्या पश्येः स्वमात्मानं न कथंचन कर्तृतः॥१७५॥

उक्तरीत्या स्थिते विभागे फलितमुपसंहरति। तत्रेति॥१७५॥

व्याख्यानमेतन्महतां न साधु प्रतिभाति नः॥
न्यायाक्षरानुपात्तत्वाद्यथा तदभिधीयते॥१७६॥

उक्तां परव्याख्यां प्रत्याख्यातुं प्रक्रमते। व्याख्यानमिति॥१७६॥

यथाप्रश्नमियं तावत्प्रत्युक्तिर्नोपपद्यते॥
यतो द्रष्टर्यसंभाव्यं कृत्स्नं प्रश्नविशेषणम्॥१७७॥

तत्र श्रुत्यक्षरानुपात्तत्वमुपपादयति। यथेति। दृष्टिकर्तारमधिकृत्य प्रवृत्ता न दृष्टेरित्यादिप्रत्युक्तिर्यत्साक्षादित्यादिप्रमानुसारिणी नेत्यत्र हेतुमाह। यत इति॥१७७॥

साक्षादित्यादिकं यस्मान्न मनागपि युज्यते॥
विशेषणं यथोक्तं तत्कारके दृष्टिकारिणि॥१७८॥

प्रश्नवाक्यस्थविशेषणजातस्य दृष्टिकर्तरि कथमसंभवस्तत्राऽऽह। साक्षादित्यादि-

कमिति। यथोक्तं सर्वान्तरत्वं तस्मान्न प्रश्नानुसारि परमते प्रतिवचनमिति शेषः॥१७८॥

क्षेत्रज्ञपरमात्मानौ नापि प्रश्ने विवक्षितौ॥
एकार्थयोगाद्वाक्यस्य नैकोक्तौ स्याद्द्वयार्थता॥१७९॥

ननुप्रश्ने परापरौ विवक्षितौ तत्र यथायोगं विशेषणोपपत्तिस्तत्राऽऽह। क्षेत्रज्ञेति। तत्र हेतुः। एकार्थेति। अर्थैकत्वादेकं वाक्यमिति न्यायादित्यर्थः॥१७९॥

न चेप्सिततमत्वं स्याद्द्रष्टुर्दृष्टे104रसंभवात्॥
दृष्ट्यन्तरस्य दृष्टुश्च न च द्रष्ट्रन्तरं तथा॥१८०॥

यत्तु दृष्टेरिति षष्ठी कर्मणीत्यङ्गीकृत्य क्रियमाणत्वेन कर्मत्वं दृष्टेरादिष्टं तन्निराकुर्वन्परव्याख्याया न्यायानुपात्तत्वमाह। न चेति। द्रष्टुरिव दृष्टेरपि न कर्मत्वं दृष्टिविषयदृष्टेरसंभवादित्यर्थः। दृष्टान्तं साधयति। द्रष्टुश्चेति। तथेति दार्ष्टान्तिकोक्तिः॥१८०॥

तदभ्युपगमे वः105 स्यादनवस्थाऽनिवारणाः॥
दृष्ट्यन्तरेण संव्याप्तिर्नातो दृष्टेः कथंचन॥१८१॥

उभयत्र दृष्टिद्रष्ट्रन्तराभ्युपगमे को दोषस्तत्राऽऽह। तदिति। तस्या मूलक्षयकरीत्वेन दूषणत्वं प्रकटयितुमनिवारणेति विशेषणं तत्फलमाह। दृष्ट्यन्तरेणेति। द्रष्ट्रन्तरेणेत्यपि द्रष्टव्यं दृष्टेरित्यपि द्रष्टुरुपलक्षणम्॥१८१॥

तथा द्रष्टृगृहीत्यैव कामितार्थसमाप्तितः॥
निरर्थकमिदं च स्याद्दृष्टेरिति यदुच्यते॥१८२॥

यत्तु दृष्टिकर्तृत्वमित्यादि तन्निराह। 106थेति। यथा दृष्टेरिति षष्ठी न कर्मणीत्युक्तं तथा द्रष्टेत्यपि कर्तरि न संभवतीति यावत्। द्रष्टारमिति दृष्टिकर्तृत्वविवक्ष्मयामिष्टोऽर्थो दृष्टिकर्तृत्वं तस्य द्रष्टृपदेनैव सिद्धेर्दृष्टेरित्यनर्थकमित्यर्थः। अवधारणार्थश्चकारः॥१८२॥

सदैवाव्यभिचारित्वाद्दृष्टिद्रष्ट्रोः परस्परम्॥
विशेषणविशेष्यत्वं व्यभिचारे सतीष्यते॥१८३॥

परपक्षे दृष्टिविशेषणमधिकमित्यत्र हेत्वन्तरमाह। सदेति। नीलोत्पलयोर्मिथो व्यभिचारे सत्युत्पलस्य नीलेन विशेष्यत्वं दृष्टं न तथा द्रष्टृदृष्ट्योरन्योन्यं व्यभिचारो न हि द्रष्टा दृष्टिं व्यभिचरति तं वा दृष्टिरतो दृष्टेरित्यनर्थकमित्यर्थः॥१८३॥

न च प्रमादपाठोऽयं सर्वेषामविगानतः॥
विध्यशेषत्वतो नापि चार्थवादत्वमिष्यते॥१८४॥

सत्यमनर्थकमपि प्रमादात्पठितमित्याशङ्क्याऽऽह। न चेति। सर्वेषामित्युभयेषां शाखिनामित्यर्थः। अर्थवादत्वेन तर्हीदमुपात्तं नेत्याह। विधीति॥१८४॥

अहंदृष्ट्यधिगम्यत्वमपि द्रष्टुरिहेष्यते॥
प्रत्यक्षमाविरुद्धत्वं तथाचोक्तेः प्रसज्यते॥१८५॥

यत्तु कर्म दर्शयितव्यं न कर्तेति तत्राऽऽह। अहमिति। द्रष्टुरहंधीगम्यत्वे लौकिकपरीक्षकसंमतेऽपि न दृष्टेरित्यादिश्रुतौ तस्य दृष्टिविषयत्वं निरसितुं शक्यमित्याशङ्क्याऽऽह। प्रत्यक्षेति॥१८५॥

मेयमानप्रमातृृणां प्रात्यक्ष्यं प्रागपीरितम्॥
व्याख्या व्यरोधि तेनेयं दृष्टेरित्यत्र या कृता॥१८६॥

परस्य प्रमाणन्यायविरोधमुक्त्वा स्वोक्तिविरोधमाह। मेयेति। दृष्टेरहंधीगम्यत्वं यथेदानीमुक्तं तथेत्यपेरर्थः। ईरितं भर्तृप्रपञ्चैरिति शेषः॥१८६॥

यथोक्तादात्मनोऽन्यद्यत्कार्यकारणरूपकम्॥
आर्तं विनाशि तत्तुच्छं शुक्तिकारजतादिवत्॥१८७॥

न दृष्टेरित्यादिवाक्यस्य परकीयव्याख्यां निरस्य स्वव्याख्यानं व्यवस्थाप्यातोऽन्यदार्तमित्यस्यार्थमाह। यथोक्तादिति। कारणसंसर्गरूपं विनाशित्वं निवर्तयति। तुच्छमिति। अपसिद्धान्तं परिहरति। शुक्तीति॥१८७॥

एतदेवमनार्तं स्यात्स्वतःसिद्धत्वकारणात्॥
सदैकानुदितालुप्तप्रत्यग्दृष्टिसतत्त्वकम्॥१८८॥

शब्दार्थमुक्त्वाऽऽर्थिकमर्थमाह। एतदिति। उक्तं ह्येतदेवैकमनार्तमविनाशि कूटस्थमिति॥१८८॥

हेतूक्तिरथवाऽतः स्यादुक्तवस्तुस्वभावतः॥
तदन्यभावासंसिद्धेरार्तत्वं हेतुमद्भवेत्॥१८९॥

श्लोकानामादितः समष्ट्यङ्काः—६२१६

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके तृतीयाध्यायस्य
चतुर्थमुषस्तब्राह्मणम्॥४॥

अतःशब्दमनूद्यार्थान्तरमाह। हेतूक्तिरिति। हेतुरूपमर्थं व्यनक्ति। उक्तेति। साक्षात्त्वादिविशेषणवतो वस्तुनः सर्वत्र प्रत्यक्त्वेन स्वभावत्वात्तदुद्रिक्तस्य सत्त्वासिद्धेरर्थान्तरत्वेन भासमानं सर्वं तुच्छमेव स्यादेवमनात्मप्रपञ्चस्याऽऽर्तत्वमतःशब्दोक्तहेतुसहितमुपपन्नमित्यर्थः॥१८९॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिकटीकायां तृतीयाध्यायस्य
चतुर्थमुषस्तब्राह्मणम्॥४॥
————

अथ पञ्चमं ब्राह्मणम्।
———

आदावभिहितं सर्वं बन्धनं सप्रयोजकम्॥
अस्तित्वव्यतिरिक्तत्वे बद्धस्य च विनिश्चिते॥१॥

संगतिं वक्तुं वृत्तमनुद्रवति। आदाविति। ब्राह्मणत्रयेण कर्मादिप्रयोजकसहितः संसार उक्तश्चतुर्थेन कूटस्थबोधः प्रत्यगात्मा मुमुक्षुर्निश्चित इत्यर्थः॥१॥

संसारानर्थसंप्राप्तिहेतोर्विध्वस्तयेऽधुना॥
संन्यासैकसहायात्मयाथात्म्यज्ञानमुच्यते॥२॥

उत्तरब्राह्मणतात्पर्यमाह। संसारेति। सहेतुबन्धध्वंसि ससंन्यासं सम्यग्ज्ञानं वक्तुं पञ्चमं ब्राह्मणमित्यर्थः॥२॥

उत्पन्नसम्यग्ज्ञानस्य संन्यासो लक्षणं यतः॥
साधनं च तदुत्पत्तौ संन्यासोऽतोऽत्र भण्यते॥३॥

ननु ज्ञानमेव वाच्यं तस्याज्ञानध्वंसित्वान्न संन्यासस्तस्य ज्ञानात्प्रागूर्ध्वं चानुपयोगात्तत्राऽऽह। उत्पन्नेति। साधनं च ज्ञानस्येति107 शेषः। अत्रेति प्रकृतज्ञानप्रकरणोक्तिः॥३॥

प्रवृत्तिलक्षणो योगो ज्ञानं संन्यासलक्षणम्॥
तस्माज्ज्ञानं पुरस्कृत्य संन्यसेदिह बुद्धिमान्॥४॥

तस्य तत्साधनत्वे मानमाह। प्रवृत्तीति॥४॥

उषस्तप्रश्न एवायं कहोलेनापि पृच्छ्यते॥
तत्किमर्थं पुनः प्रश्नः108 स एव कृतनिर्णयः॥५॥

स्वाभिप्रेतां संगतिमुक्त्वा भर्तृप्रपञ्चाभिप्रेतां वक्तुं पूर्वपक्षयति। उषस्तति। तत्तत्रार्थभेदाभावे सतीति यावत्॥५॥

प्रष्टृभेदाददोषश्चेन्मैवं प्रत्युक्तिभेदतः॥
एकार्थप्रश्नवाक्यस्य ह्येका प्रत्युक्तिरिष्यते॥६॥

पुनरुक्तिपरिहारं शङ्कते। प्रष्टृभेदादिति। दूषयति। मैवमिति। एकार्थस्य प्रश्नस्य भिन्नकर्तृकस्यापि प्रतिवचनमेकमेव युक्तं प्रतिवक्तृभेदाभावादिह तु न दृष्टेर्योऽशनायेत्यादिप्रत्युक्तिभेदोऽस्त्यतो109 न प्रष्टृभेदः पुनरुक्तिं परिहरेदित्यर्थः॥६॥

पुनरुक्तं न च न्याय्यमेकप्रवचने क्वचित्॥
न चेह लौकिको जल्पः प्रष्टृभेदो यतो भवेत्॥७॥

अस्तु तर्हि पुनरुक्तिरेव दृश्यते हि शाखाभेदे पुनर्वचनं नेत्याह। पुनरुक्तमिति। प्रवचनशब्दः शाखाविषयः। प्रष्टृभेदात्पुनरुक्तिपरिहारो नेत्यत्र हेत्वन्तरमाह। न चेति। न हि श्रुतौ लोकप्रसिद्धो जल्पोऽस्ति येन प्रष्टृभेदः पुनरुक्तिपरिहाराय स्यादपौरुषेयायां श्रुतौ वास्तवस्य प्रष्टृभे110दस्यानिष्टत्वात्कल्पितस्याकल्पितपुनरुक्तिपरिहारानुपयोगित्वादित्यर्थः॥७॥

समानशब्दौ तेनेमौ स्यातां भिन्नार्थवाचकौ॥
कहोलोषस्तवक्त्रोक्तौ प्रश्नाविति विनिर्णयः॥८॥

सिद्धान्तयति। समानेति। एकार्थत्वे पुनरुक्तिस्तच्छब्दार्थः॥८॥

क्षेत्रज्ञात्मानमप्राक्षीदुषस्तो न परं पदम्॥
अप्राक्षीत्परमात्मानं कहोलोऽपि न दुःखिनम्॥९॥

कथं तयोर्भिन्नार्थत्वं तत्राऽऽह। क्षेत्रज्ञेति। यथाऽऽहुः पूर्वः प्रश्नः परमात्मविषयोऽयं विज्ञानात्मविषय इति। माध्यंदिनशाखया भाष्ये पौर्वापर्यमुन्नेयम्॥९॥

एकदेश उपन्यासादैकार्थ्यमवसीयते॥
मिथःसंकीर्णधर्मोक्तौ यथायोगं व्यवस्थितिः॥१०॥

अस्य हि विज्ञानात्मनः परमात्मन्यप्ययो वक्तव्य इति वदद्भिस्तयोरैक्यमिष्टं तन्न प्रश्नयोर्भिन्नार्थत्वे युक्तमित्याशङ्क्याऽऽह। एकेति। एकस्मिन्प्रकरणे द्वयोरुक्त्या प्राकरणिकं तदैक्यं तत्रोषस्तप्रकरणे वाक्यार्थावयवो विज्ञानात्मा निरुच्यते कहोलप्रकरणे तु तद्भागः परस्तयोः111 समानदेश उपन्यासात्समानकार्यतेत्युक्तत्वादित्यर्थः। वाक्यार्थभागौ जीवपरौ प्रश्नविषयावित्युक्तं प्रश्नयोर्धर्मव्यत्यासादेकार्थत्वदृष्टेरित्याशङ्क्याऽऽह। मिथ इति॥१०॥

यदन्तरतमत्वं प्रागुक्तं तत्परमात्मनि॥
तदेकदेशाभिहितेर्विज्ञानात्मानमेष्यति॥११॥

यद्यपि जीवपरधर्मौ परस्परसंकीर्णावुच्येते तथाऽपि यथासंभवं व्यवस्थितत्वेनैष्टव्यावित्येतदेव दर्शयति। यदिति। कहोलवाक्ये परमात्मधर्मत्वेनोक्तं सर्वान्तरत्वं विज्ञानात्मधर्मत्वात्तमेवोषस्तपृष्टगतं गमिष्यत्येकस्मिन्प्रकरणे द्वयोरुक्तेरन्तरतमत्वं परमात्मन्युच्यमानं विज्ञानात्मनि सिद्धं भविष्यतीति तदुक्तेरित्यर्थः॥११॥

शोकमोहाद्यतीतत्वं प्रकाशात्मकता तथा॥
विज्ञानात्मनि चोक्ताऽपि परमात्मानमेष्यति॥१२॥

परमात्मधर्मे दर्शितं प्रकारं विज्ञानात्मधर्मेऽपि योजयति। शोकेति। यद्यपि शोका-

द्यतीतत्वं स्वप्रकाशत्वं च ज्योतिर्ब्राह्मणे जैवमुक्तं तथाऽपि तत्पाञ्चमिकं परं गमिष्यति तस्य तद्धर्मतया तेनैव संबन्धाच्छोकमोहाद्यतीतता प्रकाशमात्ररूपता च विज्ञानात्मन्युच्यमाना परमात्मनि सिद्धा भविष्यतीति तदुक्तेरित्यर्थः॥१२॥

पञ्चमाध्यायशेषेण परमात्मविनिर्णयः॥
षष्ठे तु वक्ष्यतेऽध्याये विज्ञानात्मविनिर्णयः॥१३॥

प्रश्नयोर्विषयभेदमुक्त्वा पञ्चमशेषस्य कहोलप्रकरणेनैकवाक्यतामाह। पञ्चमेति। उक्तं हि पञ्चमाध्यायशेषेण परमात्मनो निर्णयो वक्ष्यमाण इति। ज्योतिर्ब्राह्मणादेरुषस्तप्रकरणेनैकवाक्यतामाह। षष्ठे त्विति। यथाऽऽहुः—षष्ठेन विज्ञानात्मन इति॥१३॥

उपन्यासो द्वयोरत्र विज्ञानात्मपरात्मनोः॥
व्यज्ञाय्यपुनरुक्तत्वं न्यायमार्गसमाश्रयात्॥१४॥

प्रश्नयोर्भिन्नार्थत्वे गमकमाह। उपन्यास इति। तदुक्तमपुनरुक्तेन हि द्वितीयेन प्रश्नेन भवितव्यमिति॥१४॥

इति व्याचक्षते केचित्प्रश्नावेतौ यथोदितौ॥
न सम्यगेतद्व्याख्यानं यथा तदभिधीयते॥१५॥

परपक्षमुपसंहरति। इति व्याचक्षत इति। ब्राह्मणद्वयेनार्थद्वयं विवक्षितमित्येतदयुक्तमित्याह। न सम्यगिति॥१५॥

प्रत्युक्तेरेष त इति प्रश्नयोरुभयोरपि॥
क्षेत्रज्ञपरमात्मानौ नात्राऽऽत्मानौ विवक्षितौ॥१६॥

असम्यक्त्वं व्यनक्ति। प्रत्युक्तेरिति॥१६॥

प्रश्नोक्तिरेकरूपा च प्रत्यभिज्ञायतेऽञ्जसा॥
प्रत्युक्तिश्च तवाऽऽत्मेति भिन्नार्थे वचसी कथम्॥१७॥

प्रत्युक्तेरिव प्रश्नयोरेकरूपत्वप्रत्यभिज्ञानाच्च न भिन्नार्थतेत्याह। प्रश्नोक्तिरिति। प्रश्नप्रत्युक्त्योरेकरूपत्वे फलं निगमयति। प्रत्युक्तिश्चेति। प्रश्नैकरूप्यसमुच्चयार्थश्चकारः॥१७॥

एकत्र च न संभाव्यावात्मानौ द्वौ शरीरके॥
आत्मप्रत्यय एकार्थस्तथा श्रुतिवचांस्यपि॥१८॥

इतश्च वाक्ययोर्न भिन्नार्थतेत्याह। एकत्रेति। नन्वेकत्र भोक्तृद्वयायोगेऽपि भोक्त्रभोक्त्रोर्नायोगो गुहाधिकरणन्यायादुषस्तकहोलयोश्च संघातभेदादात्मभेदोऽत आह। आत्मेति। आत्मेति प्रत्ययस्तावदेकविषयस्तस्य वस्तुतो भिन्नविषयत्वे मानाभावादित्यर्थः। एको देवः सर्वभूतेष्वित्यादिश्रुतिविरोधाच्च वस्तुतो नाऽऽत्मभेदोऽस्तीत्याह। तथेति॥१८॥

एकात्मकाः सर्वदेहा विवादो येषु वर्तते॥
शरीरत्वाविशेषत्वात्प्रतिवादिशरीरवत्॥१९॥

आत्मैक्यसाधकानुमाविरोधाच्च तद्भेदो नेति बृहद्विचारोक्तं स्मारयति। एकेति॥१९॥

सर्वान्तरावसानस्य साक्षादित्यादिकस्य च॥
ऐकार्थ्यात्प्रश्नवाक्यस्य नाऽऽत्मानौ द्वौ विवक्षितौ॥२०॥

आत्मैक्ये सिद्धे प्रश्नद्वयस्याऽऽत्मद्वयविषयत्वायोगमुक्तमनुवदति। सर्वेति॥२०॥

अगौणाव्य112वधानादिविशेषणविशेष्यता॥
नानेकस्याऽऽस्मनो न्याय्या तदसंभवहेतुतः॥२१॥

प्रश्नयोर्भिन्नार्थत्वायोगे हेत्वन्तरमाह। अगौणेति। एतैर्विशेषणैर्विशेष्यतेति यावत्। अनेकस्यागौणत्वसर्वान्तरत्वादेरसंभवादिति हेतुमाह। तदसंभवेति॥२१॥

व्यर्थोपनिषदारब्धिर्यदि भेदो भवे113त्तयोः॥
अनिर्मोक्षप्रसक्तिश्च क्षेत्रज्ञपरमात्मनोः॥२२॥

प्रश्नार्थात्मभेदे दोषान्तरमाह। व्यर्थेति। ब्रह्मात्मैक्यं ज्ञातुमुपनिषदारम्भो वस्तुतस्तद्भेदे न साऽऽरभ्या भिन्नयोरैक्यज्ञानायोगात्कल्पितभेदे प्रश्नयोर्न भिन्नार्थतेत्यर्थः। किंच जीवेश्वरयोर्वस्तुतो भेदे जीवस्य ब्रह्मत्वाख्यो मोक्षो न स्यान्न चाविद्याक्षयस्तस्यापि त्वत्पक्षे हेत्वभावादेवायोगादतोऽफलं शास्त्रमनारभ्यमित्याह। अनिर्मोक्षेति॥२२॥

अकृत्स्नदृष्टिविषयो निषेधोऽपि न युज्यते॥
प्रविष्टस्य न चेत्कार्त्स्न्यं विज्ञानात्मन इष्यते॥२३॥

वास्तवात्मभेदाभावे हेत्वन्तरमाह। अकृत्स्नेति। स योऽत एकैकमुपास्ते न स वेदाकृत्स्नो ह्येष इत्यादि निषेधः॥२३॥

वस्तुवृत्तानुरोधेन नातो भेदोऽस्ति कुत्रचित्॥
वस्तुवृत्तानभिज्ञानाद्भेदः स्वप्नेन्द्रजालवत्॥२४॥

आत्मभेदं निरस्य प्रसङ्गादनात्मभेदमपनुदति। वस्त्विति। आत्मापरिच्छिन्नत्वमतःशब्दार्थः। वस्तु चेदपरिच्छिन्नं कथं परिच्छेदभानं तत्राऽऽह। वस्त्विति॥२४॥

एक एव ततः प्रश्नो न प्रश्नद्वयमिष्यते॥
कंचिद्विशेषमापेक्ष्य पृष्टो भूयोऽपि पृच्छ्यते॥२५॥

आत्माभेदे प्रश्नैक्यं फलमाह। एक इति। पुनरुक्तिस्तर्हि तदवस्थेति तत्राऽऽह। कंचिदिति॥२५॥

उपदेशस्य विषयः प्रश्नप्रत्युक्तिवाक्ययोः॥
निरधारि पुरा तस्य याथात्म्यं त्वत्र पृच्छ्यते॥२६॥

तमेव विशेषं दर्शयति। उपदेशस्येति॥२६॥

बुद्ध्यन्ताद्व्यतिरिक्तोऽस्ति साक्षी प्रश्नस्य गोचरः॥
योग्यः प्रत्यङ्ङिति ज्ञेयः पूर्वप्रश्नार्थसंग्रहः॥२७॥

पादत्रयोक्तमाद्यप्रश्नविषयं विशदयति। बुद्ध्यन्तादिति। प्रमातृव्यतिरिक्तस्तत्साक्षी साक्षादित्यादिप्रश्नस्य योग्यो विषयः प्रत्यगात्मा मुमुक्षुरस्तीति पूर्वत्र प्रश्नप्रत्युक्तिभ्यां निर्धारितमित्यर्थः॥२७॥

अशनायाद्यतीतत्वं पूर्वोक्तस्यैव वस्तुनः॥
द्वितीयेनोच्यते तत्त्वं प्रत्यङ्मोहनिवृत्तये॥२८॥

तस्येत्यादिनोक्तं व्यनक्ति। अशनायादीति। तत्त्वप्रपञ्चनफलमाह। प्रत्यगिति॥२८॥

यथाप्रश्नं प्रतिवचो न सम्यगुदितं पुरा॥
इति मत्वाऽथवाऽप्राक्षीत्पृष्टमर्थं पुनर्ऋषिम्॥२९॥114

पूर्वप्रश्नस्य विशेषजिज्ञासया प्रश्नान्तरप्रवृत्तिमुक्त्वा प्रकारान्तरेण तत्प्रवृत्तिमाह। यथेति॥२९॥

साक्षादित्यादिना पृष्टं साक्षादित्यादिलक्षणम्॥
यथा संभाव्यते नेदृक्प्रत्युक्तौ किंचिदीक्ष्यते॥३०॥

कथं यथाप्रश्नं प्रतिवचो नोक्तं तत्राऽऽह115साक्षादिति॥३०॥

असंतोषात्कहोलोऽत उपस्तप्रश्नमेव तु॥
भूयोऽप्राक्षीन्मुनिं विद्वा116न्याथात्म्यार्थावबुद्धये॥३१॥

असंतोषहेतुमुक्त्वा तत्फलमाह। असंतोषादिति। यथाप्रश्नं प्रतिवचो नोक्तं चेदुषस्तेनैव प्रष्टव्यं कथमन्यः पृच्छति तत्राऽऽह। विद्वानिति। कहोलप्रश्नस्य प्रयोजनमाह। याथात्म्येति॥३१॥

एष आत्मेति प्रत्युक्तिर्यः प्राणेनेति चापरा117
तावन्मात्रोक्तितो नासौ प्रश्नार्थोऽवधृतो भवेत्॥३२॥

असकृत्प्रत्युक्त्योषस्तप्रश्नस्य निर्णीतत्वान्नासंतोषहेतुरस्तीत्याशङ्क्याऽऽह। एष इति। तथाच पृष्टस्यार्थस्य सम्यगनिर्धारितत्वात्तन्निर्दिधारयिषया भूयस्तत्रैव प्रश्नोपपत्तिरिति शेषः॥३२॥

ननूर्मिषट्कातीतत्वं दुःखित्वं चाद्वयात्मनि॥
एकदैकत्र न स्यातां प्रकाशतमसी यथा॥३३॥

एकमेवाऽऽत्मतत्त्वमधिकृत्य प्रश्नावित्यत्र चोदयति। नन्विति॥३३॥

नैष दोषस्तदज्ञानमिथ्याधीभ्रमहेतुतः॥
संसारिताऽऽत्मनः क्लृप्ता कृष्णिमेव नभस्तले॥३४॥

प्रश्नार्थौ मिथो भिन्नौ विरुद्धधर्मत्वात्तमःप्रकाशवादित्यत्र मानतो वा विरुद्धधर्मत्वं भानतो वा नाऽऽद्योऽसिद्धेरित्याह। नेति॥३४॥

बृहद्विचारे सम्यक्च प्रागप्येतद्विचारितम्॥
विरुद्धागमविषयप्रविवेकमसङ्गतः॥३५॥

प्रत्यग्ज्ञानजभ्रमादात्मनः संसारिता कल्पितेति कथं सिद्धवदुच्यते तत्राऽऽह। बृहदिति। विचारान्तरेष्वपि तत्र तत्र प्रसङ्गादेतदुक्तमेवेति वक्तुं चकारापिकारौ। किंच सविशेषत्वनिर्विशेषत्वश्रुत्योर्विषयविभागोक्तिप्रसङ्गेन संसारित्वस्य मिथ्यात्वं मधुब्राह्मणान्ते दर्शितमित्याह। विरुद्धेति। एतद्विचारितमिति पूर्वेण संबन्धः॥३१॥

रज्जुत्वाहित्वयोर्यद्वदेकस्मिन्नपि वस्तुनि॥
स्वतस्तन्मोहतश्चैव संभवस्तद्वदात्मनि॥३६॥

मुक्तत्वं च सितत्वं च परस्परविरुद्धयोः॥
धर्मयोः समवायः स्यान्न तु नीलोत्पलादिवत्॥३७॥

कल्पान्तरमुत्थापयति। रज्जुत्वेति। सितत्वं चेत्यस्मादूर्ध्वमितिशब्दाध्याहारः। मुक्तत्वबद्धत्वयोरेकत्र वस्तुतो नाऽऽवेशोऽस्तीत्यत्र वैधर्म्यदृष्टान्तः। न त्विति॥३६॥३७॥

एवं विरुद्धधर्मत्वे न च दोषोऽस्ति कश्चन॥
नामरूपादिसद्भावो दोषश्चेदिह चोद्यते॥३८॥

प्रातिभासिकविरुद्धधर्मत्वहेतौ साध्यो भेदः कल्पितोऽकल्पितो वा नाऽऽद्यः सिद्धसाध्यत्वाद्द्वितीये रज्ज्वादावनैकान्त्यमिति मत्वा दूषयति। एवमिति। निरुपाधिकरूपेणासंसारित्वं सोपाधिकरूपेण संसारित्वमित्यविरोध उक्तः। इदानीमुपाध्युपगमे सद्वयत्वं सत्यस्यैव घटादेरुपाधित्वदृष्टेरिति शङ्कते। नामेति। इहेत्यद्वैतपक्षोक्तिः॥३८॥

नेह नानेति वचनादेकमेवेति चोक्तितः॥
नैवं परिहृतेस्तस्य मृद्दृष्टान्तादियुक्तिभिः॥३९॥

तेन सद्वयत्वे किं स्यादत आह। नेहेति। उक्तितो विरोध इति शेषः। मृदाद्यतिरेकेण तद्विकाराः शरावादयो नेतिदृष्टान्ताख्ययुक्तिबलादाविद्यनामरूपरचितकार्यकारणसंघातस्याविद्यामात्रत्वात्तस्याश्च विद्यया निरासान्नैवमिति परिहरति। नैवमिति॥३९॥

अगृह्यमाणं सत्तत्त्वं विपरीतमिवेक्ष्यते॥
यथावस्त्वीक्ष्यमाणं तु यथावस्त्वेव वीक्ष्यते॥४०॥

परिहारमेव स्फोरयति। अगृह्यमाणमिति। कुतो विपरीतमिवेत्युच्यते सद्वयमेव

तत्त्वं किं न स्यादत आह। यथावस्त्विति। अनिर्वाच्याज्ञानविलसितनामरूपकृतसंसारोऽतो नाद्वैतहानिरिति भावः॥४०॥

यदत्र चोद्ये वक्तव्यं तत्पुरैवासकृद्बहु॥
सम्यगुक्तं तदखिलमिह स्मर्तव्यमादृतैः॥४१॥

ये तु संसारस्याऽऽविद्यत्वममृष्यन्तः सद्वयमेव तत्त्वमाहुस्तान्प्रत्युक्तं स्मारयति। यदत्रेति। तत्प्रासङ्गिकत्वादविवक्षितमित्याशङ्क्याऽऽह। असकृदिति। संबन्धादौ तत्र तत्रोक्तस्याल्पत्वाद्बुद्ध्यसौकर्यमाशङ्क्याऽऽह। बह्विति। तस्याबाधं सूचयति। सम्यगिति। इहेति द्वैतसत्यत्वशङ्का परामृश्यते॥४१॥

अविचारितसंसिद्धिमो118होपहतचेतसाम्॥
अप्यद्वयं परं ब्रह्म द्वयवत्प्रथते मृषा॥४२॥

किं तदुक्तं समाधानमित्याकाङ्क्षायां संक्षिपति। अविचारितेति॥४२॥

यथा विशुद्धमाकाशं तिमिरोपप्लुतो जनः॥
संकीर्णमिव मात्राभिश्चित्राभिरुपलक्षयेत्॥४३॥

तथेदममलं ब्रह्म निर्विकारमविद्यया॥
कलुषत्वमिवाऽऽपन्नं भेदरूपं प्रकाशते॥४४॥

वतिवैयर्थ्यशङ्काहेतुं द्वैतधियं दृष्टान्तेनान्यथयति। यथेत्यादिना। मात्राभिर्मीयमाननीलपीतादिविषयैरिति यावत्॥४३॥४४॥

तस्यैकमपि चैतन्यं बहुधा प्रविभज्यते॥
अङ्गाराङ्कितमुत्पाते वारिराशेरिवोदकम्॥४५॥

एकस्यैव ब्रह्मणो नानारूपेणाविद्यया प्रकाशमानत्वं दृष्टान्तान्तरेणाऽऽह। तस्येति। अङ्गाराङ्कितमङ्गारवदाचरितं तथाप्रतिपन्नमिति यावत्॥४५॥

बाध्य एवाऽऽत्मसंमोहो न त्वसौ बाधको यतः॥
प्रत्यग्याथात्म्यविज्ञानं न बाध्यं बाधकं यतः॥४६॥

ब्रह्मणोऽविद्यया द्वयवद्भानेऽपि तस्यां लब्धपदायां विद्यायोगान्नानर्थध्वस्तिरित्याशङ्क्याऽऽह। बाध्य इति। नियमे हेतुः। न त्विति। अविद्यायास्तमोवद्बाध्यत्वनियमे ज्ञानस्य प्रकाशवद्बाधकत्वनियमः फलतीत्याह। प्रत्यगिति। यतो ज्ञानं न बाध्यमतो बाधकमेवेति योजना। न हि सति तमसि सविता नोदेति तद्वद्विद्यमानायामविद्यायां विद्या नानवकाशा तथाच सा स्वोदयनान्तरीयकत्वेनाबोधं धुन्वती तज्जमपि धुनोतीति भावः॥४६॥

स्वभावानपहारेण संगतिः स्यात्ततस्तयोः॥
इति चेतसि संधाय सर्वयोगेश्वरेश्वरः॥४७॥

अनुभवसिद्धे विद्याविद्ययोर्बाध्यबाधकभावे भगवद्वाक्यमवतारयितुं पातनिकामाह। स्वभावेति। ततःशब्दोऽनुभवसिद्धपरामर्शी॥४७॥

मोहापनुत्तये प्राह प्रपन्नाय किरीटिने॥
बाध्यबाधकरूपं च न व्येतीति प्रकाशयन्॥४८॥

ज्ञानाज्ञानयोः स्वभावानपहारेण संगतिरित्येतद्वाचिपदं वक्ष्यमाणवाक्ये नास्तीत्याशङ्क्याऽऽह। मोहेति॥४८॥

या निशा सर्वभूतानां तस्यां जागर्ति संयमी॥
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः॥४९॥

किं पुनर्भगवानाह तदाह। या निशेति। अविदुषां निशेव ब्रह्मावस्था तत्र विद्वाञ्जागर्ति यत्राविद्यायां सर्वाणि भूतानि जाग्रति सा ब्रह्मविदो न भाति विद्यया ध्वंसादित्यर्थः॥४९॥

ज्ञानाज्ञाने ततोऽपेक्ष्य व्यवहारोऽयमात्मनि॥
शास्त्रीयो लौकिकश्चातो विरोधोऽत्र न शङ्क्यते॥५०॥

ज्ञानाज्ञानयोः स्वभावानपहारेण संबन्धे फलितमाह। ज्ञानेति। तयोरुक्तसंबन्धस्ततःशब्दार्थः। ज्ञानमपेक्ष्याहं ब्रह्मेति व्यवहार इतरः सर्वोऽप्यज्ञानमपेक्ष्येति भेदस्तदस्मत्पक्षे न केनचिदपि व्यवहारेण विरोधोऽस्तीत्यर्थः॥५०॥

उत्पन्नात्मप्रबोधानामात्माविद्यातदुद्भवम्॥
सम्यग्ज्ञानाग्निना नित्यं दह्यमानं प्रजायते॥५१॥

ज्ञानिनोऽपि सर्वव्यवहारदृष्टेरहं ब्रह्मेति व्यवहारादन्यो व्यवहारः कथमज्ञानकृतः प्रतिज्ञायते तत्राऽऽह। उत्पन्नेति। तदीयसर्वव्यवहारस्य बाधितत्वेनानुवृत्तिरसकृदुक्तेति भावः॥५१॥

ऐकात्म्यवस्तुयाथात्म्यमभिप्रेत्यात उत्तरः॥
साक्षादित्यादिकः प्रश्नो यदेवेतिपुरःसरः॥५२॥

ज्ञानाज्ञानाभ्यां द्विविधं व्यवहारमुक्त्वा ब्राह्मणारम्भमुपसंहरति। ऐकात्म्येति। यतः सर्वमाविद्यमशनायाद्यतस्तदतीतं वस्तुप्रतिपादनाय ब्राह्मणमित्यर्थः। उत्तरो ग्रन्थ इति शेषः। ब्राह्मणमवतार्य प्रश्नमवतारयति। साक्षादित्यादिक इति॥१२॥

प्रत्याहैष त आत्मेति याज्ञवल्क्योऽपि पूर्ववत्॥
संभाव्यते यतोऽत्रैव साक्षादित्यादिलक्षणम्॥५३॥

प्रत्युक्तिमादत्ते। प्रत्याहेति। पूर्वस्मिन्नुषस्तप्रश्ने यथोत्तरं तथाऽत्राप्यादावाहे119त्यर्थः। पूर्ववत्प्रत्युक्तौ हेतुः। संभाव्यत इति। अत्रेत्यात्मोक्तिः॥५३॥

निःशेषनिर्णयोक्तीच्छुः कहोलोऽप्याह पूर्ववत्॥
कतमो याज्ञवल्क्येति स तं प्रत्याह शुद्धधीः॥५४॥

द्वितीयप्रश्नतात्पर्यमाह। निःशेषेति। अशनायाद्यतीतवस्तुविषयोऽयं प्रश्न इत्यर्थः। योऽशनायेत्यादिवाक्यमादत्ते। स तमिति। शुद्धे निरुपाधिके ब्रह्मण्यशनायाद्यतीते सदाबुद्धिमत्त्वात्कहोलाभिप्रेतमेवोत्तरं विवक्षुराहेत्यर्थः॥५४॥

योऽशनायापिपासादीन्धर्मान्सर्वान्विरोधतः120
अतीत्य वस्तुवृत्तेन स्वमहिम्नि व्यवस्थितः॥५५॥

तस्यार्थं संक्षिपति। योऽशनायेति। असङ्गत्वाविक्रियत्वादिस्वरूपेण विरोधादूर्मिषट्कस्य तेनैव स्वाभाव्येन तदतिक्रम्य यः स्वरूपेण स्थितः स सकारणसंसाररहितः प्रत्यगात्मा सर्वान्तरत्वादिस्वरूप इत्यर्थः॥५५॥

अशनायापिपासे यस्तद्धेतोरत्ययात्सदा॥
अत्येति वस्तुवृत्तेन स साक्षादिति गृह्यताम्॥५६॥

प्रत्युक्तेः समुदायार्थमुक्त्वा प्रतिपदमर्थं विवक्षुर्योऽशनायापिपासे इत्यस्यार्थमाह। अशनायेति॥५६॥

शोकादासङ्गबीजाद्धि जज्ञाते ते यथोदिते॥
इच्छाविशेषास्ताभ्यां च जज्ञिरेऽन्ये सहस्रशः॥५७॥

हेतोरत्ययात्तदत्ययश्चेत्को हेतुस्तयोरिति तमाह। शोकादिति। सङ्गात्संजायते काम इति स्मृतेरासङ्गकार्याच्छोकादिशब्दितात्कामादशनायापिपासे जायेते इति योजना। यथोक्तस्मृतिद्योती हिशब्दः। तयोः कार्यं प्रसङ्गादाह। इच्छेति॥५७॥

आत्माऽत्येतीति संबन्धो योऽशनायादिलक्षणान्॥
क्रियार्थोऽत्येतिशब्दश्चेन्न क्रियार्थो विवक्षितः॥५८॥

क्रियापदार्थकथनार्थमादावन्वयमाह। आत्मेति। अशनायादीन्धर्मान्योऽत्येति स आत्मेति संबन्ध इति योजना। क्रियार्थश्चेदत्येतिशब्दस्तर्हि कर्तुरात्मनः सक्रियत्वं नेत्याह। न क्रियेति॥५८॥

औष्ण्यं शैत्यं यथाऽत्येति वस्तुवृत्तेन सर्वदा॥
गर्ताद्यत्ययवत्त्वत्र न मानादुपपद्यते॥५९॥

कथं तर्हि क्रियापदप्रयोगो न हि निर्विषयं पदमस्ति नित्यानुवादेनेत्याह। औष्ण्यमिति। चैत्रो गर्तमत्येतीतिवदत्येतिर्मुख्यः किं न स्यान्न हि संभवति मुख्ये गौणोऽर्थो

युक्तस्तत्राऽऽह। गर्तादीति। अत्रेत्यशनायादिर्विषयो गृह्यते। अनुपपत्तौ हेतुः। मानादिति। आत्मनोऽक्रियत्वावेदकमानसंभवादित्यर्थः॥५९॥

अशनायापिपासे द्वे एव नात्येति केवले॥
शोकश्च यस्तयोर्बीजं तमप्येषोऽतिवर्तते॥६०॥

अशनायाद्यत्ययमुक्त्वा शोकाद्यत्ययमाह। अशनायेति। यद्वा कथं तदत्ययो हेत्वत्ययादुक्तस्तस्यात्राप्रतीतेरित्याशङ्क्याऽऽह। अशनायेति॥६०॥

शोकोऽत्रारतिमात्रं स्याच्चेतसो याऽनवस्थितिः॥
मोहं चात्येति वैचित्यं विषयापहृतिं धियः121॥६१॥

तस्य स्वरूपमाह। शोकोऽत्रेति। अरतिं व्याकरोति। चेतस इति। शोकाद्यत्ययवन्मोहात्ययं प्रतिजानीते। मोहं चेति। तस्य स्वरूपमाह। वैचित्यमिति। किंच तद्विपरीतचित्तत्वं तदाह। विषयेति। तत्तदिन्द्रियसंबद्धैरर्थैरपहारो बुद्धेरात्मनो विमुखीकृत्य स्वप्रवणत्वापादनमित्यर्थः॥६१॥

स्वतोऽनानात्मकेऽज्ञानाद्यन्नानात्मसमीक्षणम्॥
मिथ्याज्ञानमनात्माभं मोह इत्युपदिश्यते॥६२॥

उक्तमोहरूपं प्रपञ्चयति। स्वत इति। अद्वये सद्वयज्ञानमतस्तस्मिंस्तद्धीत्वान्मिथ्याज्ञानं तदत्र स्वाज्ञानकार्यं मोहशब्दितमित्यर्थः॥६२॥

सर्वग्रःप्राणधर्मत्वादशनायापिपासयोः॥
समासेनाभिधानं स्याद्यदि वा शोककार्यतः॥६३॥

अशनायापिपासयोः समासे हेतुमाह। सर्वेति। सर्वं ग्रसति वागादिकं संहरतीति प्राणः सर्वग्रस्तदेकधर्मत्वाच्छोक122मूलत्वाद्वा तयोः समासस्तत्रोपादानं प्राणः कामो निमित्तमिति भावः॥६३॥

असमासेन निर्देशो भिन्नकार्यत्वकारणात्॥
प्रवृत्तिररतेः कार्यं मोहस्यानर्थसंप्लुतिः॥६४॥

तयोरिव शोकमोहयोरपि समासे प्राप्ते किमिति व्यासोक्तिस्तत्राऽऽह। असमासेनेति। कथं भिन्नकार्यत्वं तदाह। प्रवृत्तिरिति॥६४॥

जरेति परिणामः स्याद्वलीपलितलक्षणः॥
देहस्य मृत्युर्विच्छेदो वियोगो देहलिङ्गयोः॥६५॥

जरामृत्युशब्दयोरर्थभेदमाह। जरेति। विच्छेदं स्फुटयति। वियोग इति॥६५॥

प्राणाधिकरणे पूर्वे शोकमोहौ मनोगतौ॥
जरामृत्यू तु देहस्य धर्माविति विनि123श्चयः॥६६॥

उक्तस्य षट्कस्याऽऽश्रयविशेषं दर्शयति। प्राणेति। उक्तविनिश्चयस्यानुभवानुसारित्वद्योती तुश124ब्दः॥६६॥

अशनायादिसंबन्धो नाऽऽत्मनो वास्तवो मतः॥
अनिर्मोक्षप्रसक्तिः स्यात्तस्य चासङ्गरूपतः॥६७॥

ननु तेषामात्मधर्मत्वान्न धीप्राणादिधर्मत्वं न हि ते चेतनादन्यत्र भान्त्यत आह। अशनायादीति। विपक्षे दोषमाह। अनिर्मोक्ष इति। इतश्चाऽऽत्मन्यशनायादिसंबन्धो न वस्तुतोऽस्तीत्याह। तस्य चेति॥६७॥

यत एवमतः प्रत्यग्याथात्म्यानवबोधतः॥
अशनायादिसंबन्धः सम्यग्बोधादतो ह्नुतिः॥६८॥

त्वत्पक्षे वा कथं मुक्तिस्तत्राऽऽह। यत इति। आत्मनि वस्तुतोऽशनायाद्यभावात्तस्य मोहजत्वाज्ज्ञानात्तद्ध्वस्तौ मुक्तिः सुकरेत्यर्थः॥६८॥

यः स्वकारणसंसर्गः कार्याणामत्ययो भवेत्॥
अनात्यन्तिकरूपत्वा125दत्ययोऽसौ न गृह्यते॥६९॥

यः कार्यात्ययो नाशः स स्वकारणसंसर्गस्तदशनायादेरपि स्वकारणसंसर्ग एवात्यय इत्याशङ्क्याऽऽह। य इति॥६९॥

तत्कारणनिषेधो यः स्वमहिम्नैव वस्तुनः॥
तमत्ययं मोक्षविधौ तद्विद्वांसः प्रचक्षते॥७०॥

लोकप्रसिद्धश्चेदत्ययोऽत्र न गृह्यते तर्हि कीदृशो विवक्षितस्तत्राऽऽह। तत्कारणेति। तच्छब्देनाशनायाद्युच्यते। मोक्षविधौ तत्प्रतिपादने विवक्षिते सतीत्यर्थः। तद्विद्वांसो मोक्षविदः॥७०॥

अशनायापिपासाभ्यां तस्मात्तत्कारणग्रहः॥
संवर्गात्मातिवर्तित्वात्तत्कार्यातिगतिस्ततः॥७१॥

कारणात्ययादृते कार्यस्याऽऽत्यन्तिकात्ययायोगादशनायादिशब्देन तत्कारणं लक्षितमित्याह। अशनायेति। कार्यवाचिशब्देन कारणग्रहे फलितमाह। संवर्गेति। अशनायाद्यत्ययोक्त्या तत्कारणप्राणातिक्रमस्य सिद्धत्वात्तत्कार्याशनायादेरपि ध्वस्तेर्युक्तं कारणग्रहणमित्यर्थः॥७१॥

मृत्युनैवेत्युपक्रम्य तथाच श्रुतिरब्रवीत्॥
लक्षणं ह्यशनायेति प्राणमृत्युप्रबुद्धये॥७२॥

अशनायादिना तद्धेतुग्रहे वाक्योपक्रमोऽप्यनुगुणो भवतीत्याह। मृत्युनेति। कार-

णमत्र लक्ष्यमित्यस्यानुसारेण मृत्युनैवेदमावृतमासीदित्युपक्रम्य कोऽसौ मृत्युरित्यपेक्षायां प्राणस्य मृत्योर्ग्रहार्थमशनाया हि मृत्युरिति तल्लक्षणं श्रुतिरुक्तवती तद्युक्तमत्र कारणोपादानमित्यर्थः॥७२॥

अविचारितसंसिद्धप्रत्यगज्ञानलक्षणम्॥
अशनायापिपासादिधर्मिणं प्राहुरीश्वरम्॥७३॥

किमत्र लक्ष्यमवान्तरकारणं मूलकारणं वेति वीक्षायामाह। अविचारितेति। अनिर्वाच्याज्ञानोपाधिकमीश्वरमशनायादिधर्मवन्तमत्राशनायादिपदलक्ष्यमाचक्षते तन्मूलकारणमत्र ग्राह्यमित्यर्थः॥७३॥

तत्प्रत्यगात्मयाथात्म्यभास्वज्ज्ञानोदयात्तमः॥
प्रध्वस्याऽऽत्माऽयमत्येति तदुत्थं वस्तुवृत्ततः॥७४॥

अथेशस्येप्सितत्वादत्ययाभावात्तत्कार्याशनायाद्यत्ययायोगादलमनेन कारणग्रहेणेत्यत आह। तत्प्रत्यगिति। निरुपाधिकं नित्यप्राप्तमज्ञानादनाप्तं प्राप्स्यति तच्चाज्ञानं ज्ञानादपनीयते तथाच तदुपाधिकेश्वरस्वभावात्ययात्तत्कार्याशनायाद्यत्ययोऽपि सिध्यतीत्यर्थः। ननु ज्ञानमज्ञानात्मकमज्ञानतत्कार्ये नापनेतुमर्हति तत्राऽऽह। वस्त्विति॥७४॥

आत्माऽसामान्यचैतन्यरूपोत्थेनाऽऽत्मगं तमः॥
जग्ध्वा मानेन निःशेषं प्रत्यङ्पूर्णोऽवशिष्यते॥७५॥

आत्मा कार्यकारणे चेदत्येति शून्यनिष्ठं स्यादित्याशङ्क्याऽऽह। आत्मेति। प्रत्यङ्ङात्मेति संबन्धः। असामान्येति च्छेदः। अव्यावृत्ताननुगतवस्त्वात्मप्रवृत्तवाक्यीयज्ञानेनाऽऽत्मगतमज्ञानमशेषं सकार्यं स्वात्मन्येव विलाप्य प्रत्यगात्मा पूर्णो भवति तथाच कुतः शून्यतेत्यर्थः॥७५॥

यस्मादेष स्वतो बुद्धो निरविद्यः स्वतस्ततः॥
शुद्धश्चातोऽद्वितीयत्वात्प्रत्यङ्युक्तः स्वतस्ततः॥७६॥

पूर्णत्वं वर्णयितुं प्रतीचः स्वरूपं हेतुहेतुमद्भावेनाऽऽह। यस्मादिति॥७६॥

एवं ध्वस्तात्ममोहस्य कुतोऽविद्योत्थवस्तुभिः॥
प्रतीचोऽस्त्यभिसंबन्धो ह्यशनायादिलक्षणैः॥७७॥

उक्ततत्त्वज्ञानात्तदज्ञानतज्जध्वंसे पूर्णत्वं तस्य सुस्थं भवतीति ज्ञानफलमाह। एवमिति। उक्तवस्तुप्रकारज्ञानेनेति यावत्। कारणध्वस्तौ कार्यध्वस्तिर्व्यक्तेति वक्तुं हिशब्दः॥७७॥

यथा विशुद्धमाकाशं सति वाऽसति वा मले॥
नीहारादौ तथैवाऽऽत्मा कार्यकारणवस्तुनि॥७८॥

सकार्याज्ञानध्वस्तेरात्मा पूर्णश्चेत्पूर्वं परिच्छिन्नत्वादशुद्धः स्यादित्याशङ्क्याऽऽह। यथेति॥७८॥

प्रत्यग्याथात्म्यदृष्ट्याऽऽत्मा कारणं स्वतमोवधि॥
बाधित्वाऽज्ञानसंसारौ यात्यपूर्वादिरूपताम्॥७९॥

आत्मा सदा शुद्धश्चेन्न तस्य कारणत्वं नो चेदपूर्वादिरूपत्वासिद्धिरित्याशङ्क्याऽऽह। प्रत्यगिति॥७९॥

शोकमोहावतः स्यातां सूत्रकार्योपलक्षणम्॥
जरामृत्यू वि126राजश्च सर्वकार्योपसंहृतिः॥८०॥127

अशनायादिना तत्कारणं गृहीत्वा ज्ञानात्तन्नाशे पूर्णावशेषो दर्शितः संप्रति शोकादिनाऽपि तत्कारणं ग्राह्यमित्याह128शोकेति। अतःशब्देन शोकादेरशनायादिना तुल्यवाक्योपात्तत्वोक्तिः। मूलकारणापेक्षया सूत्रस्य कार्यत्वम्। जरादिनाऽपि तत्कारणं लक्ष्यमित्याह। जरेति। उपलक्षणफलमाह। सर्वेति। सर्वस्य कार्यस्य सहेतोरुपसंहृतिरस्मिन्पक्षे लभ्यते तद्युक्तमुपलक्षणमित्यर्थः॥८०॥

अध्यात्माद्यधियज्ञादेराधिदैवतरूपता॥
पुरोक्ताऽर्थवती चैवं सति सर्वा भवेद्ध्रुवम्॥८१॥

अशनायादिशब्दैर्मूलकारणसूत्रविराजां ग्रहे कारणात्ययात्कार्यस्याऽऽत्यन्तिकात्ययसिद्धेर्मुक्तिसिद्धिरित्युक्त्वा तत्रैव श्रौतं लिङ्गमाह। अध्यात्मादीति। नानारूपेण स्थितस्य वागादेरग्न्यादिकारणात्मत्वं सोऽग्निरभवदित्यादिना यदुक्तं तत्सर्वं कारणात्ययादात्यन्तिके कार्यात्यये सफलं स्याद्वागादिकार्यस्य हि कारणाग्न्यादिभाववचनं कारणात्ययात्कार्यात्ययं सूचयति विद्याप्रकरणस्थोद्गीथोपासनं च तत्फलेनैव फलवन्न च129 वागादेरात्यन्तिकनाशाभावे तद्युक्तं नापि सति कारणे तदात्यन्तिकनाशोऽतो वागादेः स्वकारणापत्तिद्वारा तद्ध्वस्त्याऽऽत्यन्तिकध्वस्तौ क्रममुक्तिरुद्गीथोपास्तिफलमिति वागाद्यग्न्यादिभाववचनं कारणात्ययादात्यन्तिककार्यात्ययद्योतीत्यर्थः॥८१॥

सर्वाण्युपासनान्येवं ब्रह्मविद्याभिसंगतेः॥
विद्याधिकार उक्तत्वादर्थवन्तीति निश्चितिः॥८२॥

उद्गीथोपास्तिवदुपास्त्यन्तराण्यपि विद्याप्रकरणस्थानि तद्योगात्तत्फलेनैव फलवन्ति कारणात्ययात्कार्यात्ययं प्रकरणाद्गमयन्तीत्याह। सर्वाणीति॥८२॥

प्रतीचोऽसङ्गयाथात्म्यान्मोहादेश्चाप्यवस्तुतः॥
प्रत्यङ्मात्रावशेषत्वात्कुतः षष्ठ्यर्थसंभवः॥८३॥

योऽशनायेत्यादिवाक्यस्य कार्यकारणातीतप्रत्यक्परत्वमुक्त्वा तस्य वस्तुतोऽशनायाद्यत्यये हेत्वन्तरमुक्तहेत्वनुवादपूर्वकमाह। प्रतीच इति। षष्ठ्यर्थः संबन्धः स नैकस्मिन्युक्तो द्विष्ठत्वादित्यर्थः॥८३॥

हेतुहेतुमदुक्त्यैतद्व्याख्येयं त्रयमात्मनि॥
आनन्दवद्वा शङ्क्योक्तिर्योऽशनायेतिपूर्विका॥८४॥

मूलकारणादत्ययैरशनायादिसंगतिरात्मनो वस्तुतो नेत्येतदत्र प्रतिपाद्यमस्तु तथाऽपि तदत्ययानां परस्परं कः संबन्धो येनैकवाक्योपात्ततेत्याशङ्क्याऽऽह। हेत्विति। कारणात्ययात्सूत्रात्ययस्ततो विराडत्यय इत्यर्थः। मा भूदशनायादीनामात्मधर्मत्वं तद्रूपत्वं तु स्यादानन्दादिवदित्याशङ्क्येदमेव वाक्यमवतारयति। आनन्दवदिति॥८४॥

स्वाभाविकत्वं मा प्रापच्छोकादेरात्मसौख्यवत्॥
यस्मिन्सत्येव यत्सत्स्यात्तस्मिंस्त्वस130ति तन्न सत्॥८५॥

शङ्कोत्तरस्य श्रुतेस्तात्पर्यमाह। स्वाभाविकत्वमिति। शोकादेरात्मरूपत्वाभावे युक्तिमाह। यस्मिन्निति। अज्ञानान्वयव्यतिरेकित्वात्तदात्मकं शोकादि तन्नाऽऽत्मरूपं रज्जुसर्पवदित्यर्थः॥८५॥

अशनायादिकांस्तस्मात्कार्यकारणलक्षणान्॥
तद्विरुद्धात्मविज्ञानाद्ध्वंसित्वाऽऽत्मैकलो भवेत्॥८६॥

अशनायादीनामात्मधर्मत्वतद्रूपत्वाभावे फलितं वाक्यार्थमुपसंहरति। अशनायादिकानिति॥८६॥

परमात्मस्वभावोऽयं स्वयं श्रुत्या प्रपञ्चितः॥
एतमेव तमात्मानं विदित्वोक्तेन वर्त्मना॥
व्युत्थाय131 ब्राह्मणा यत्नाद्भिक्षाचर्यं चरन्ति हि॥८७॥

व्याख्यातवाक्यार्थमनुवदति। परमात्मेति। उक्तस्वभावस्याऽऽर्थत्वं व्युदस्य शाब्दत्वं वक्तुं स्वयमित्युक्तम्। तज्ज्ञानार्थं संन्यासं विधातुमुत्तरं वाक्यं तदादत्ते। एतमिति। कार्यकारणात्ययद्वारा तमात्मानमेतं विदित्वा व्युत्थाय भिक्षाचर्यं चरन्तीति योजना॥८७॥

अधिकारिविशेषस्य ज्ञानाय ब्राह्मणग्रहः॥
न संन्यासविधिर्यस्माच्छ्रुतौ क्षत्त्रियवैश्ययोः॥८८॥

संन्यासविधायके वाक्ये किमित्यधिकारिणि ब्राह्मणपदं तत्राऽऽह। अधिकारीति। किमिति तस्यैव संन्यासेऽधिकारो ज्ञाप्यते तत्राऽऽह। नेति॥८८॥

त्रयाणामविशेषेण संन्यासः श्रूयते श्रुतौ॥
यदोपलक्षणार्थं स्याद्ब्राह्मणग्रहणं तदा॥८९॥

भाष्याभिप्रायमुक्त्वा स्वाभिप्रायेण ब्राह्मणग्रहणस्यार्थमाह। त्रयाणामिति। ब्रह्मचर्यादेव प्रव्रजेदित्यादिश्रुतौ वर्णत्रयस्य सामान्येन संन्यासः श्रूयते न च ब्राह्मणग्रहानुसारेण सामान्यश्रुतिर्विशेषे नियम्यते—

“ब्राह्मणः क्षत्रियो वाऽपि वैश्यो वा प्रव्रजेद्गृहात्”।

इतिविशेषस्मृत्यनुगृहीतसामान्यश्रुतेः संकोचायोगाद्यदा ब्राह्मणवत्क्षत्रियवैश्ययोरपि संन्यासाधिकारस्तदा विशेषणमुपलक्षणार्थमाचारादृष्टिस्तु प्रत्युक्तेति भावः॥८९॥

कर्माधिकारविच्छेदि ज्ञानं चेदभ्युपेयते॥
कुतोऽधिकारनियमो व्युत्थाने क्रियते बलात्॥९०॥

संन्यासे ब्राह्मणाधिकारनियमासंभवे युक्तिमाह। कर्मेति। कुतो बलादिति संबन्धः। फलात्मा संन्यासः साक्षात्काराधीनत्वान्न विधेयः साधनरूपस्तु प्रयोजकज्ञानाधीनो वा परोक्षज्ञानकृतो वा यद्यपि विधेयस्तथाऽपि ज्ञाने त्यागहेताविष्टे न तत्राधिकारनियमो हेत्वभावादित्यर्थः॥९०॥

प्रत्यग्याथात्म्यविज्ञानस्वभावश्चेत्समर्थ्यते॥
व्युत्थानं यस्य यस्य स्यात्स स व्युत्थातुम132र्हति॥९१॥

कुतो हेत्वभावस्तत्राऽऽह। प्रत्यगिति। यथोक्तान्यतरज्ञानस्वभावः संन्यासं प्रयोजयतीति साध्यते चेत्तर्हि यस्य ब्राह्मणादीनामन्यतमस्य व्युत्थापकं ज्ञानं स्यात्स व्युत्थानेऽधिकारीतीष्टनियमासिद्धिरित्यर्थः॥९१॥

एवं चेद्ब्राह्मणोक्तिः स्याद्ध्वस्ताविद्यगृहीतये॥
स ब्राह्मण इति स्पष्टं श्रुतिरन्ते च वक्ष्यति॥९२॥

त्रैवर्णिकस्य संन्यासाधिकारश्चेद्ब्राह्मणग्रहणं किमर्थमित्याशङ्क्योपलक्षणार्थत्वाद्गत्यन्तरमाह। एवं चेदिति। त्रैवर्णिकाधिकृतं चेद्व्युत्थानं तदा तत्पूर्वकसाक्षात्कारफलभूताविद्यारहितस्वरूपानुवादार्थं ब्राह्मणपदं युक्तं च विशेषावस्थायां क्षत्त्रियादेरपि ब्राह्मण्यं राजसूयादौ तत्रापि तच्छब्दादिति भावः। कथं ब्राह्मणपदेन फलावस्थोच्यते वाक्यशेषादित्याह। स इति॥९२॥

प्राणस्वान्ततनूधर्मा अशनायादिलक्षणाः॥
य एते सर्वभूतेषु वर्तन्तेऽम्भःप्रवाहवत्॥९३॥

एतमित्यादिवाक्ये संन्यासविधिपरे ब्राह्मणग्रहणस्य तात्पर्यमुक्तमिदानीमात्मपदार्थं

संसारनिर्मुक्तमुक्त्वा तज्ज्ञानात्ततो विरक्तस्य व्युत्थानमिति वक्तुं संसाररूपमनुवदन्नशनायादिसाश्रयमनुवदति। प्राणेति। तस्य सर्वप्राणिषु स्रोतोभावेन नैरन्तर्यमाह। य एत इति। अशनायादयो ये पूर्वत्रोक्ता एते भूतेषु तोयस्रोतोवद्वर्तन्ते सदेति योजना॥९३॥

संसारोऽनर्थ इत्येष प्रत्यङ्मोहैकहेतुकः॥
यतो बिभ्यति भूतानि परोत्कर्षगतान्यपि॥९४॥

बन्धरूपमनूद्यते चेत्किमशनायाद्यनुवादेनेत्याशङ्क्याऽऽह। संसार इति। न तस्य संसारत्वेनानर्थत्वं वस्तुत्वादिति चेन्नेत्याह। प्रत्यगिति। कथं संसारोऽनर्थो न हि सर्वस्पृहणीयस्य तस्य तथात्वमत आह। यत इति। अतिशयपदवीमापन्नान्यपि ब्रह्मादीनि भूतानि यन्निमित्ततया भयभाञ्जि भवन्ति स कथं नानर्थोऽविवेकिनो हि तस्मै स्पृहयन्त्यन्ये तु तं तित्यक्षन्तीत्यर्थः॥९४॥

कारणं प्रत्यगज्ञानं कार्यं संसार उच्यते॥
तद्विरुद्धात्मकः प्रत्यङ्ब्रह्मापूर्वादिवाक्यतः॥९५॥

उक्तं संसारं विभजते। कारणमिति। कार्यं सूत्रादि तदुभयं संसार एवेति भावः। संसाररूपमनूद्याऽऽत्मशब्दार्थमाह। तद्विरुद्धेति। कार्यकारणात्मकबन्धविपरीतरूपः प्रत्यङ्ङित्यत्र प्रमाणमाह। ब्रह्मेति॥९५॥

एतं तमिति वाक्येन दृष्ट्यादेः साक्षिणं श्रुतिः॥
अनूद्यापेतदुःखेन साक्षात्संगतिमब्रवीत्॥९६॥

आत्मपदार्थमुक्त्वा तमेतमितिपदयोरर्थोक्तिपूर्वकं सामानाधिकरण्यलब्धमर्थमाह। एतमिति। तमिति त्वमर्थमनूद्य तस्य तदर्थेनैतमिति परामृष्टेन साक्षादेकरसतया संगतिं सामानाधिकरण्यवाक्येन श्रुतिरवोचदिति योजना। यद्वैतमिति त्वमर्थस्य तमिति तदर्थस्योक्तिः॥९६॥

तं दृष्ट्यादिदृशं साक्षादात्मानं कल्पितात्मनाम्॥
तमेतमिति विज्ञाय यथाव्याख्यातलक्षणम्॥९७॥

विदित्वेत्यस्यार्थमाह। तमिति। पूर्वार्धेन त्वमर्थानुवादः। एतं यथाव्याख्यातमशनायाद्यतीतमिति तदर्थानुवादः। तमेतमापाततो विज्ञाय व्युत्तिष्ठन्तीत्यर्थः। इतिशब्दो व्युत्थानपरामर्शी॥९७॥

उषस्तोक्तो विशेष्योऽत्र कहोलोक्तो विशेषणम्॥
एवं संसारविध्वस्तिस्तद्धेतोर्ज्ञानहानितः॥९८॥

एतं तमित्यत्र विशेषणविशेष्यत्वव्यवस्थामाह। उषस्तेति। इत्थं विशेषणविशेष्यत्वे प्रतीचो ब्रह्मत्वज्ञानात्तदज्ञानध्वस्त्या तज्जबन्धध्वस्तिफलमाह। एवमिति॥९८ ॥

घटाकाशो महाकाश इत्युक्तेः केवलं वियत्॥
यथाऽधिगम्यते तद्वत्साक्षादित्यादिलक्षणः॥९९॥

भेदसंसर्गहीनोऽर्थस्तद्धेतुध्वंसवर्त्मना॥
एतस्मादेव विज्ञेयो वाक्यान्नान्यप्रमाणतः॥१००॥

विशेषणविशेष्यत्वे तत्त्वमर्थयोर्नीलोत्पलवद्वाक्यार्थो नाखण्डः स्यादित्याशङ्क्याऽऽह। घटेति। तस्य सिद्धत्वेन मानान्तरयो133ग्यतया वाक्यतात्पर्याग134म्यतेति चेन्नेत्याह। तद्धेत्विति। भेदादिहेत्वज्ञानध्वंसद्वारा वाक्यादेवाखण्डार्थो ज्ञातुं शक्यस्तत्र मानान्तरासंभवस्यासकृदुक्तेरित्यर्थः॥९९॥१००॥

साक्षादित्यादिकं सर्वमुषस्तप्रश्नगोचरः॥
योऽशनायेति चात्रोक्तौ संभाव्यं तदशेषतः॥१०१॥

इतश्च कहोलोक्तस्य विशेषणतेतरस्य विशेष्यतेत्याह। साक्षादित्यादिकमिति। तस्मादस्मदुक्तं विशेषणविशेष्यत्वमेष्टव्यमिति शेषः॥१०१॥

सामान्यमात्रप्रत्युक्तेर्न यथापृष्टवस्तुधीः॥
पूर्वत्राभूद्यथा साक्षादिति प्र135त्युक्तितो मतिः॥१०२॥

नन्वनपेक्षितं कहोलवाक्यमुषस्तवाक्यमेवाऽऽत्मयाथात्म्यं यः प्राणेनेत्यादिना वेदयत्यतो नेदं विशेषणविशेष्यत्वमत आह। सामान्येति। तथाच तदपेक्षमुषस्तवाक्यमिति युक्ता यथोक्तव्यवस्थेति शेषः॥१०२॥

पौर्वापर्यं यथायोगं क्त्वान्तयोः पदयोर्द्वयोः॥
पूर्वं यदि विदित्वेति तदा द्वेधा प्रकल्पनम्॥१०३॥

एतमित्यादि व्याख्याय विदित्वा व्युत्थायेति यथाश्रुतं वा पौर्वापर्यमन्यथा वेति संदिहानं प्रत्याह। पौर्वापर्यमिति। तत्र पाठक्रमोऽनुस्रियते चेत्तदा वेदनं द्विविधं संभवतीत्याह। पूर्वमिति॥१०३॥

ज्ञानस्वभावाद्व्युत्थानं ज्ञेयवस्तूपरोधतः॥
व्युत्थाने चोदनापेक्षा नाधिकारोपमर्दतः॥१०४॥

कथं तद्धि तत्त्वसाक्षात्करणं वा प्रयोजकज्ञानं वा तत्राऽऽद्यं प्रत्याह। ज्ञानेति। साक्षात्कारवशाद्व्युत्थानं वस्तुस्वरूपमनुसृत्य तदात्मनैव स्थितिस्तन्न तत्र विधिः स्वरूपे फलात्मनि विध्यभावात्साक्षात्कारेण विधिपुरुषसंबन्धस्य निरासादधिकार्यभावाच्चेत्यर्थः॥१०४॥

शाब्दी वा प्रतिपत्तिः स्याद्व्युत्थानादेः प्रयोजिका॥
विध्यर्थो ह्यपि बाल्यादिस्तथोर्ध्वमपि दृश्यते॥१०५॥

द्वितीयं प्रत्याह। शाब्दीति। अधीतसाङ्गस्वाध्यायस्य शब्दोत्था संन्यासपूर्वकश्रवणादिप्रयोजिका धीर्यदि विदित्वेत्युच्यते तदा साक्षात्कारार्थं संन्यासादिविधिर्युक्त इत्यर्थः। नास्मिन्वाक्ये विधिरस्ति लिङाद्यश्रवणात्तत्कथमिह संन्यासादिविधिरित्याशङ्क्याऽऽह। विधीति। यद्यपीह विधिर्न दृश्यते तथाऽपि बाल्यादिर्विधेयः सहकार्यन्तरविधिरिति न्यायात्तिष्ठासेदिति चोत्तरत्र विधिः स्पष्ट इत्यर्थः। उक्तन्यायद्योती हिशब्दः॥१०५॥

व्युत्थायाथ विदित्वेति पौर्वापर्यं यदेष्यते॥
व्युत्थानसाधना विद्येत्ययमर्थो भवेत्तदा॥१०६॥

पाठक्रमपक्षे वेदनं विभज्य व्यवस्थामुक्त्वा श्रौतात्क्रमादर्थक्रमो बलवानिति पौर्वापर्यान्तरमाह। व्युत्थायेति। श्रौतक्रमव्यवच्छेदकोऽथशब्दः। तत्र ज्ञानस्य श्रवणादिद्वारा संन्यासः साधनमित्युक्तं भवतीत्याह। व्युत्थानेति॥१०६॥

विदित्वा कथमित्यस्य प्रत्युक्त्यर्था परा श्रुतिः॥
तस्मादित्यादिका योज्या न्यासहेतुत्वसिद्धये॥१०७॥

पाठक्रमे संन्यासस्य धीसाधनत्वासिद्धेर्नासावनुसरणीय इत्याशङ्क्याऽऽह। विदित्वेति। विदित्वा व्युत्थानमिति मते कथं संन्यासस्य वेदनसाधनत्वं न हि पश्चाद्भावी पूर्वसिद्धस्य हेतुरिति चोद्यं परिहर्तुं तस्माद्ब्राह्मणः पाण्डित्यमित्याद्या श्रुतिस्तत्र हि प्रयोजकज्ञानवतः संन्यासिनः पाण्डित्यादि विधीयतेऽतः संन्यासस्य धीहेतुत्वार्थं विपरीतक्रमवद्यथाक्रमेऽपि नावद्यमित्यर्थः॥१०७॥

तस्मादेवंविदित्येवं तथाचोर्ध्वं प्रवक्ष्यति॥
निःशेषकर्मसंन्यासं विद्यायाः साधनं श्रुतिः॥१०८॥

पौर्वापर्यद्वयेऽपि संन्यासस्य श्रवणद्वारा ज्ञानोपायत्वमुक्तं तत्र वाक्यशेषं प्रमाणयति। तस्मादिति। एवं श्रुतिरिति संबन्धः। तत्रोपरतशब्देन विद्यासाधनतया संन्यासो विधास्यते॥१०८॥

संन्याससाधनं ज्ञानं निर्वक्त्यत्रापि च श्रुतिः॥
यथा तथा पराश्चात्र136 श्रुतयः सन्ति कोटिशः॥१०९॥

न केवलं बृहदारण्यकश्रुतावेवाऽऽत्मधीसाधनतया संन्यासविधिः किंतु श्रुत्यन्तरेऽपीत्याह। संन्यासेति। अपिकारचकारौ पूर्वोत्तरवाक्यपरामर्शार्थौ तावग्रे लेशतो दर्शयिष्यति॥१०९॥

ज्ञानानुरोधिनी यद्वत्प्रवृत्तिः प्राणिनामिह॥
तथेहापि श्रुतिर्वक्ति प्रत्यग्याथात्म्यवेदिनाम्॥११०॥

ननु प्रामाणिकोऽपि संन्यासः कस्मात्प्रयोजकज्ञानवताऽऽद्रियते कर्मानुष्ठानादभिलषितलाभात्तत्राऽऽह। ज्ञानेति। यथेह कर्मणि कामिनां श्रौतज्ञानात्प्रवृत्तिस्तथा तत्त्यागेऽपि प्रयोजकज्ञानवतां प्रवृत्तिं वक्ति श्रुतिस्तथाच कर्मणीव संन्यासे प्रवृत्तिरवश्यंभाविनी विवेकिनामित्यर्थः॥११०॥

पुत्रोत्पत्तिं समुद्दिश्य दारान्परिजिघृक्षति॥
यतो दारार्थ उद्योगस्ततः पुत्रैषणोच्यते॥१११॥

विदित्वा व्युत्थायेति यथायोगं क्रममुक्त्वा व्युत्थानप्रतियोगिप्रदर्शनार्थं पुत्रैषणायाश्चेत्यादौ पुत्रैषणाशब्दार्थमाह। पुत्रेति॥१११॥

पुरुषार्थाय यन्नालं लब्धात्माऽपि कुठारवत्॥
अप्रविश्य प्रयोगं तद्वित्तमित्युपदिश्यते॥११२॥

वित्तैषणायाश्चेत्यत्र वित्तशब्दार्थमाह। पुरुषार्थायेति। न हि कुठारः स्व137रूपेण सन्नपि विना व्यापारावेशं दारु विदारयति तद्वद्विद्यमानमपि नानुष्ठानादृते फलमङ्कुरयति तद्गवादि वित्तं प्रसिद्धमित्यर्थः॥११२॥

यत्त्वात्मलाभमात्रेण पुरुषार्थसमाप्तिकृत्॥
व्युत्थानं तद्बलादेव न तु यत्स्याद्गवादिवत्॥११३॥

वित्तशब्देनोपास्तिमपि गृहीत्वा ततो व्युत्थानं भाष्योक्तमयुक्तं तद्बलाद्धि व्युत्थानं ततो व्युत्थाने हेत्वभावात्तदस्थाने स्यादिति भर्तृप्रपञ्चमतमाशङ्क्याऽऽह। यत्त्विति। आत्मधीबलादेव व्युत्थानं नोपास्तिवशात्तस्या गवादिवदात्मलाभमात्रेण पुरुषार्थाहेतुत्वादतो गवादेरिव ततोऽपि व्युत्थातव्यमित्यर्थः॥११३॥

प्रत्यगज्ञानसंभूतकामोत्थं साधनात्मकम्॥
देवतादिपरिज्ञानं मन्त्रवद्वित्तमुच्यते॥११४॥

वित्तादत्र व्युत्थानं श्रूयते न चोपास्तौ वित्तपदप्रसिद्धिस्तत्कथं ततो व्युत्थानमत आह। प्रत्यगिति। मन्त्रादिकारकवदुपास्तेर्मानुषवित्तत्वाभावेऽपि दैववित्तत्वात्ततोऽपि व्युत्थानमत्रैष्टव्यमित्यर्थः॥११४॥

नाऽऽत्मानं लभते कर्म यतो वित्तमृते ततः॥
वित्तैषणेयं कर्मार्था न लोकार्थेति निश्चितिः॥११५॥

वित्तशब्दस्यार्थान्तरं वक्तुं भूमिकां करोति। नाऽऽत्मानमिति। न लोकार्था साक्षादिति शेषः॥११५॥

नित्यकर्मप्रसिद्ध्यर्थमतो वित्तमिहेष्यते॥
न चेज्जामि भवेद्वाक्यं पृथग्लोकैषणाग्रहात्॥११६॥

एवमपि कथं वित्तशब्दस्यार्थान्तरं तदाह। नित्येति। यतो वित्तं विना न कर्म लौकिकसामर्थ्यविरहादतो नित्यकर्मप्रतिपत्त्यर्थमस्मिन्वाक्ये वित्तपदं यदि तेन लोकसाधनमेव गवादि गृह्येत न नित्यं कर्म तदा वित्तैषणायाः सकाशात्पृथगेव लोकैषणाग्रहाल्लोकशब्देनैव तत्साधनवित्तस्य गृहीतत्वाद्वित्तैषणायाश्चेत्यत्रापि तन्मात्रग्रहे पुनरुक्तिः स्यादतो वित्तैषणाशब्देन नित्यकर्मार्थमुद्यमो विवक्षित इत्यर्थः॥११६॥

लोकानुद्दिश्य यः कामस्तत्साधनसमाश्रयः॥
लोकैषणेति तामाहुः काम्यकर्मार्थमुद्यमम्॥११७॥

लोकैषणायाश्चेत्यत्र लोकैषणाशब्दार्थमाह। लोकानिति। फलेच्छया तद्धेतुविषयो यः कामः स लोकैषणेत्युच्यते तां च काम्यकर्मार्थमारम्भमाहुरिति योजना॥११७॥

यतोऽसाधनसाध्यं तं प्रत्यगात्मानमात्मना॥
साक्षादित्यादिनाऽज्ञासीद्विरुद्धं साध्यसाधनैः॥११८॥

व्युत्थानप्रतियोग्येषणात्रयमुक्त्वा तत्प्रयोजकमनुवदति। यत इति। तृतीयाद्वयमित्थंभावे। असाध्यसाधनत्वं साधयति। विरुद्धमिति। सिद्धत्वात्परमपुरुषार्थत्वाच्चेत्यर्थः॥११८॥

साध्यसाधनरूपाभ्यस्तस्मादुक्तार्थवेदिनः॥
व्युत्तिष्ठन्त्येषणाभ्यस्ते तद्विरुद्धात्मकत्वतः॥११९॥

यतःशब्दापेक्षितं पूरयन्प्रयोज्यं व्युत्थानं सप्रतियोगिकं निगमयति। साध्येति। क्रियाकारकादिविलक्षणात्मदर्शिनां कथमेषणाभ्यो व्युत्थानं तस्याप्याविद्यत्वेनैषणात्वादित्याशङ्क्य ज्ञातस्वरूपवशादित्याह। तद्विरुद्धेति। आपातदर्शिनामेषणासहिष्णुदृष्टस्वरूपसाक्षाच्चिकीर्षया व्युत्थानमित्यर्थः॥११९॥

अज्ञानकामजन्यत्वं वाङ्मनःकायकर्मणाम्॥
सोऽकामयत इत्येवं पुराऽप्युक्तं तमस्विनः॥१२०॥

इतश्च विरक्तस्य जिज्ञासोर्युक्तमेषणाभ्यो व्युत्थानमित्याह। अज्ञानेति। त्रिविधमपि कर्माज्ञानपूर्वकात्कामाज्जायते तद्विरक्तस्य विविदिषोर्युक्तमेषणाभ्यो व्युत्थानमित्यर्थः। विरक्तो व्युत्तिष्ठति चेत्कस्तर्हि कर्मण्यधिकारीति तत्राऽऽह। सोऽकामयतेति। अज्ञस्याविरक्तस्य देवानां पशोः क138र्माधिकारस्तृतीये व्याख्यात इत्यर्थः। अपिरविरक्तसमुच्चयार्थः॥१२०॥

यदज्ञानात्प्रवृत्तिर्या तज्ज्ञानात्सा कुतो भवेत्॥
प्रत्यग्ज्ञानोदयेऽतः स्यान्निवृत्तिः सर्वकर्मणाम्॥१२१॥

ज्ञानिनोऽपि कर्मदर्शनात्कथमज्ञस्य कर्माधिकारो, दृश्यन्ते हि ज्ञानिनोऽपि कर्मिणो जनकादयस्तत्राऽऽह। यदज्ञानादिति। ज्ञानाज्ञानयोर्मिथो विरोधाज्ज्ञाने सत्यज्ञानायोगात्तन्निमित्तप्रवृत्तिरप्ययुक्ता तद्धीस्तु बाधितानुवृत्त्येत्यसकृदुक्तमित्यर्थः। ज्ञानिनोऽकर्माधिकारे फलितमाह। प्रत्यगिति॥१२१॥

जिज्ञासुरपि चैतस्य यथोक्तस्याऽऽत्मवस्तुनः॥
सर्वैषणानिवृत्त्यैव तज्ज्ञानं समवाप्नुयात्॥१२२॥

अस्तु ज्ञानिनो व्युत्थानं ज्ञानस्येत्याशङ्क्य विरक्तस्याविरक्तस्य वेति विकल्प्याऽऽद्यं दूषयति। जिज्ञासुरिति। अज्ञस्यापि विरक्तस्य ज्ञानार्थं व्युत्थानं कार्यमित्यर्थः॥१२२॥

यस्तु त्यक्तुं न शक्नोति रागादिप्रबलत्वतः॥
रागादिहेतुनाशार्थं कार्यं कर्मैव तेन तु॥१२३॥

कल्पान्तरं प्रत्याह। यस्त्विति॥१२३॥

आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते॥
योगारूढस्य तस्यैव शमः कारणमुच्यते॥१२४॥

अविरक्तस्य कर्माधिकारे मानमाह। आरुरुक्षोरिति। योगश्चित्तशुद्धिः। उक्तं हि योगश्चित्तवृत्तिनिरोध इति। विरक्तस्य संन्यासाधिकारे मानमाह। योगेति॥१२४॥

न्याय्यां वृत्तिं समुल्लङ्घ्य तद्विरुद्धतया स्थितिः॥
व्युत्थानमिति तामाहुर्व्युत्थानज्ञा महाधियः॥१२५॥

किं तद्व्युत्थानं यद्विरक्तस्य कर्तव्यं तदाह। न्याय्यामिति। एषणानुगुणतया स्थितिमतिक्रम्य तत्प्रतिकूलत्वेन या स्थितिस्तां व्युत्थानमिति विवेकिनो वदन्तीत्यर्थः॥१२५॥

सामन्तो व्युत्थितो राज्ञा139 विरोधेन व्यवस्थितौ॥
व्युत्थानशब्दो लोकेऽपि प्रसिद्धोऽत्र तथैव सः॥१२६॥

तत्र लोकप्रसिद्धं प्रमाणयति। सामन्त इति। राज्ञा सह विरोधेन तत्प्रतिकूलतया सामन्तस्य स्थितौ सत्यामसौ व्युत्थित इत्ययं व्युत्थानशब्दो लोके प्रयुज्यतेऽत्रापि वाक्ये स व्युत्थानशब्दो लोकवदेव नेयो लोकवेदयोः शब्दार्थाविशेषादविशिष्टस्तु वाक्यार्थ इति न्यायादेषोऽत्र व्युत्थानमेषणाप्रातिकूल्येन निर्व्यापारतयाऽवस्थानमित्यर्थः॥१२६॥

भिक्षया लक्ष्यते चर्या ह्याकिंचन्यैकसंश्रया॥
अममापरिग्रहोक्तेर्निष्कर्मा मुनिरुच्यते॥१२७॥

अथ भिक्षाचर्यमित्यत्र भिक्षाशब्दस्य विवक्षितमर्थमाह। भिक्षयेति। तदीयचर्याया लोकशास्त्रप्रसिद्ध्यर्थो हिशब्दः। अकिंचनमात्रसंबन्धा वृत्तिर्भिक्षाशब्देन लक्ष्यतामाकिंचन्यं तु न जानीमस्तत्राऽऽह। अममेति॥१२७॥

एषणा कामपर्यायः कामश्चाप्राप्तगोचरः॥
अवाप्ताशेषकामेऽसौ भवंस्तन्मोहतो भवेत्॥१२८॥

मुनिशब्दितस्याकिंचनस्य श्रुतिवशान्नैष्कर्म्यमुक्त्वा तत्रैवोपपत्तिं वक्तुं पातनिकामाह। एषणेति। आत्मन्याप्तकामे भवन्कामस्तन्मोहजो न वस्तुतोऽस्ति कामाभावे चानुष्ठानाभावान्नैष्कर्म्यमित्यर्थः॥१२८॥

आनन्दैकस्वभावत्वान्नाऽऽत्मनः सुखकामिता॥
विरोधात्सुखरूपस्य न दुःखेन समागमः॥१२९॥

आत्मनोऽनात्मकामाभावेऽपि परमानन्दे सोऽस्तीति तत्प्रयुक्तमनुष्ठानमपि स्यादित्याशङ्क्याऽऽह। आनन्देति। तर्हि दुःखनिवृत्तीच्छाकृतमनुष्ठानं तत्राऽऽह। विरोधादिति॥१२९॥

बुभुक्षादिनिषेधोऽयं तथाऽप्यात्मन उच्यते॥
सर्वानर्थैकमूलस्य प्रत्यङ्मोहस्य हानये॥१३०॥

आत्मनि दुःखाभावश्चेद्योऽशनायेत्यादिना तत्राशनायादिप्रतिषेधोऽप्राप्तनिषेधः स्यादित्याशङ्क्याऽऽह। बुभुक्षादीति। यद्यपि वस्तुतो नाऽऽत्मनो दुःखतद्धेतुस्तथाऽपि तस्याशनायादिसंबन्धो मोहकृतोऽतस्तद्धेतुमोहनिरासार्थं योऽशनायेत्यादिना षडूर्मिनिषेधो नाप्राप्तनिषेध इत्यर्थः॥१३०॥

निरेषणैकयाथात्म्ये न यथावस्तुकामधीः॥
निरेषणात्मसंबोधाद्बाध्यैवेयमतो भवेत्॥१३१॥

कारणनिषेधात्प्रतीचि षडूर्मिनिषेधमुक्त्वा स्वरूपेण बाधयोग्यत्वाच्च तन्निषेध इत्याह। निरेषणेति॥१३१॥

फलार्थैषणयैकत्वप्रसिद्ध्यर्थमतः श्रुतिः॥
प्रवक्तुमुपचक्राम पुत्रवित्तैषणैकताम्॥१३२॥

आत्मनो निरेषणत्वे मोक्षेऽप्यप्रवृत्तिरेषणाभावे तदयोगादित्याशङ्क्य या हीत्यादेस्तात्पर्यमाह। फलेति। एकत्वप्रतिपत्त्यर्थं साधनैषणाया इति शेषः। तत्र श्रुतिवशादेकैवैषणेत्यर्थः॥१३२॥

यतो धनाभिलाषोऽयं कृतदारस्य सार्थकः॥
पुत्रैषणाऽतोऽभिन्नैव ज्ञेया वित्तैषणात्मनः॥१३३॥

या हीत्यादेः सोपपत्तिकमर्थमाह। यत इति। न हि धनमनुष्ठानं विना पुरुषार्थं न चानुष्ठानमृते दारसंग्रहादतस्तयोरुक्तसंबन्धादैक्यमित्यर्थः॥१३३॥

साधनत्वाविशेषत्वात्पुत्रवित्तैषणात्मनोः॥
एवं चैकत्वमनयोरिह व्याख्येयमादृतैः॥१३४॥

तत्र हेत्वन्तरमाह। साधनत्वेति। एकत्वमिति संबन्धः। तन्निगमयति। एवं चेति। इहेति प्रकृतश्रुत्युक्तिः। मिथो हेतुहेतुमद्भावादृष्टफलहेतुत्वसाम्याच्च पुत्रवित्तैषणयोरैक्यं दृष्टफलसाधनत्वतुल्यत्वादित्युक्तेरित्यर्थः॥१३४॥

साध्यैषणाप्रयुक्तत्वात्पुत्रवि140त्तैषणात्मनः॥
एका लोकैषणैवेयं त्रिधाऽतो व्यपदिश्यते॥१३५॥

या वित्तैषणेत्यादेरर्थमाह। साध्येति। या पुत्रैषणेत्यादिना त्रिधोक्ता सेयमेकैव लोकैषणेतरस्यास्तत्प्रयुक्तत्वादिति योजना। उक्तं हि सर्वफलार्थप्रयुक्त एव हि सर्वसाधनमुपादत्त इति॥१३५॥

स्वमहिम्नैव निष्पत्तिर्न विना साधनं यतः॥
साध्यस्य साधनादानमतः साध्यानुरोधतः॥१३६॥

उभे हीत्यादेरर्थमाह। स्वमहिम्नेति। न हि साध्यस्य साधनं विना स्वभावादुत्पत्तिः स्वभाववादनिरासादतः साध्यानुसारि साधनमेष्टव्यमिति मत्वोभे हीत्यादि प्रवृत्तमित्यर्थः॥१३६॥

अपास्ताशेषानर्थाप्तपुरुषार्थत्वतः स्वतः॥
तन्मोहमात्रजे त141स्मादेषणे प्र142त्यगात्मनि॥१३७॥

अस्त्वेषणाद्वयं तथाऽपि तन्नाऽऽत्मनि युक्तं तस्य निरेषणत्वोक्तेरतो मोक्षासिद्धिरित्याशङ्क्याऽऽह। अपास्तेति। अज्ञानकृतैषणावशान्निरेषणस्याप्यात्मनो मुमुक्षेति भावः॥१३७॥

ब्रह्माज्ञानं यतो हेतुरेषणानां न वस्तुतः॥
परमार्थविदां न स्युरेषणा या यथोदिताः॥१३८॥

किमित्यज्ञानकृतत्वमेषणानां वास्तवत्वमेव किं न स्यादत आह। ब्रह्मेति। अन्वयव्यतिरेकाभ्यामज्ञानमेषणाहेतुस्तन्न वास्तव्यस्ता इत्यर्थः। न वस्तुत इत्युक्तं व्यतिरेकं व्याकरोति। परमार्थेति॥१३८॥

आप्ताशेषपुमर्थत्वान्नापेक्षा साधनं प्रति॥
साध्यत्वेऽपि हि सिद्धस्य किंत्वसाध्यस्य वस्तुनः॥१३९॥

अज्ञानजत्वादेषणानां तत्त्यागेऽपि कर्मत्यागायोगात्कुतस्त्वदिष्टव्युत्थानमित्याशङ्क्य ज्ञानिनो जिज्ञासोर्वा कर्मत्यागानुपपत्तिरिति विकल्प्याऽऽद्यं दूषयति। आप्तेति। कृतकृत्यत्वाज्ज्ञानिनो नापेक्षेत्येतत्कैमुतिकन्यायेनाऽऽह। साध्यत्वेऽपीति। ग्रामादेः साध्यत्वे सत्यपि सिद्धस्य तस्य नोपायापेक्षा स्वतस्त्वसाध्यस्य मोक्षस्य न साधनं प्रत्यपेक्षेति किं वाच्यमतो ज्ञानिनो युक्तः कर्मत्यागः कृतकृत्यत्वादित्यर्थः॥१३९॥

सर्वोपाया निवर्तन्त उपेयावसितौ यतः॥
चरितार्थत्वतोऽमीषां नापेक्षा सिद्धवस्तुनः॥१४०॥

सिद्धवस्तुनो न साधनापेक्षेत्युक्तं समर्थयते। सर्वेति। साध्यस्यापीष्टस्याऽऽप्तौ कृत्याभावादुपाया यतो नापेक्ष्यन्तेऽतः स्वतःसिद्धस्यार्थस्य तदपेक्षा सुतरां नास्तीत्यर्थः॥१४०॥

अप्यज्ञातात्मयाथात्म्यो जिज्ञासुर्योऽत्र वस्तुनि॥
सर्वकर्मपरित्यागो ज्ञानाप्त्यै तस्य साधनम्॥१४१॥

कर्मत्यागेऽपि ज्ञानिनो, जिज्ञासोर्न तत्त्यागस्तस्य हि कर्म ज्ञानहेतुर्विविदिषाश्रुतेरिति द्वितीयमाशङ्क्याऽऽह। अपीति। तस्यापीति संबन्धः॥१४१॥

तस्मादेवंविदित्यत्र श्रुतिः स्पष्टं यथोदितम्॥
निःशेषकर्मसंन्यासं स्वयमेव प्रवक्ष्यति॥१४२॥

जिज्ञासोः संन्यासो ज्ञानसाधनमित्यत्र तस्मादेवंविदित्येवं तथाचोर्ध्वमित्यत्र प्रमाणीकृतं वाक्यशेषं स्मारयति। तस्मादिति॥१४२॥

प्रत्यग्याथात्म्यविज्ञानसाधनत्वप्रसिद्धये॥
श्रुत्यन्तरेषु तद्वच्च सन्ति वाक्यान्यनेकशः॥१४३॥

संन्यासस्य ज्ञानसाधनत्वार्थं श्रुत्यन्तरं दर्शयन्संन्याससाधनं ज्ञानं निर्वक्त्यत्रापि च श्रुतिरित्यत्रोक्तमनुसंदधाति। प्रत्यगिति। संन्यासस्येति शेषः। पूर्वोक्तश्रुतिवदेवेत्यर्थः॥१४३॥

मुक्तेश्च बिभ्यतो देवा मोहेनापिदधुर्नरान्॥
प्रावर्तन्त ततो भीताः कर्मस्वज्ञाततत्त्वकाः॥१४४॥

तान्युदाहरति। मुक्तेश्चेति॥१४४॥

सर्वकर्माण्यतस्त्यक्त्वा प्रत्यक्प्रवणबुद्धयः॥
मोहं भित्त्वाऽऽत्म143संबोधाद्ययुः कैवल्यमुत्तमम्॥१४५॥

अस्त्वज्ञानात्कर्मसु प्रवृत्तिः किं तावतेति तदाह। सर्वेति॥१४५॥

इति भाल्लविश्रुतिवचः सम्यग्ज्ञानस्य जन्मने॥
संन्यासं साधनं वक्ति वाङ्मनःकायकर्मणाम्॥१४६॥

उक्तश्रुतितात्पर्यमाह। इति भाल्लवीति॥१४६॥

पराञ्चि खानीति तथा पराक्प्रवणसाधनम्॥
निषेधत्यात्मविज्ञाने मन्त्रवर्णोऽपि काठके॥१४७॥

संन्यासस्य ज्ञानसाधनत्वे काठकवाक्यमपि मानमित्याह। पराञ्चीति। एष हि मन्त्रो ज्ञाने विषयप्रवणमिन्द्रियं निषेधयन्विषयप्रावण्याविशेषात्कर्मापि निषेधत्यतस्तत्त्यागस्य तत्साधनत्वं विवक्षतीत्यर्थः॥१४७॥

वेदान्तविज्ञानसुनिश्चितार्थाः
संन्यासयोगाद्यतयः शुद्धसत्त्वाः॥
मन्त्रोऽपि चैकात्म्यविनिश्चयाय
निःशेषकर्मोज्झितिमाह साक्षात्॥१४८॥

तत्रैव मन्त्रान्तरमाह। वेदान्तेति। अनेकजन्मसु नित्याद्यनुष्ठानात्परिशुद्धधियः संयतेन्द्रियाः संन्यासपूर्वकवेदान्तश्रवणादिजन्यसम्यग्धीसाक्षात्कृतात्मतत्त्वा मुच्यन्त इत्यर्थः। तस्य तात्पर्यमाह। मन्त्रोऽपीति॥१४८॥

ब्रह्मचर्यं समापय्य गृही तस्माद्भवेद्द्विजः॥
गृहाश्रमं समाप्याथ वानप्रस्थं समापयेत्॥१४९॥

संन्यासं ज्ञानसाधनं सामान्येन श्रुतिभिर्दर्शयित्वा क्रमसंन्यासस्य तत्साधनश्रुतिमाह। ब्रह्मचर्यमिति। वैराग्यरूपप्रतिबन्धकाभावद्योतकोऽथशब्दः॥१४९॥

यथोक्ताश्रमवासार्थं सामर्थ्यान्नियमो भवेत्॥
एवं सति समर्थः स्यात्सर्वाश्रमसमुच्चयः॥१५०॥

श्रौतक्रमव्यवस्थापकमाह। यथोक्तेति। प्रव्रजेदित्युक्तमोक्षाश्रमे वाससिद्ध्यर्थं रागादिसामर्थ्यात्पूर्वाश्रमेषु गृही भवेदित्यादिना नियमोऽभ्युपगतोऽविरक्तस्य संन्यासानधिकारात्तथाच पूर्वाश्रमेषु स्थित्वा तत्र तत्र विहितानुष्ठानेन रागादिनिरासे सति त्रयाणामाश्रमाणां क्रमेण समुच्चयो वैराग्यमापाद्य चतुर्थाश्रमवासं साधयितुं समर्थः स्यादित्यर्थः॥१५०॥

वानप्रस्थाश्रमादूर्ध्वं प्रव्रजेदविचारयन्॥
प्रत्यक्षश्रुतिमूलोऽयं सर्वाश्रमसमुच्चयः॥१५१॥

आश्रमत्रयविहितकर्मानुष्ठानफलं वैराग्यं तत्फलं संन्यासावश्यंभावं दर्शयति। वानप्रस्थेति। उक्तरीत्या चतुर्णामाश्रमाणां ज्ञाने समुच्चयो यथोक्तस्पष्टश्रुतिदृष्टत्वाददुष्ट इत्युपसंहरति। प्रत्यक्षेति॥१५१॥

कषायं पाचयित्वा च श्रेणीस्थानेषु च त्रिषु॥
प्रव्रजेच्च परं स्थानं पारिव्राज्यमनुत्तमम्॥१५२॥

क्रमसंन्यासे स्मृतिं दर्शयति। कषायमिति। चकारोऽवधारणे। मध्यमोऽप्यर्थो भिन्नक्रमः॥१५२॥

इति व्यासस्मृतौ वाक्यं प्रत्यक्षश्रुतिबन्धनम्॥
तथाऽन्यान्यपि विद्यन्ते वाक्यान्यत्र सहस्रशः॥१५३॥

आप्तोक्तेन तत्प्रामाण्यं सूचयति। इति व्यासेति। औदुम्बरीसर्ववेष्टनादिस्मृतिवैलक्षण्यमाह। प्रत्यक्षेति। क्रमसमुच्चयवाक्यान्तराण्यपि श्रौतस्मार्तान्यनुसंधेयानि तानि संबन्धे लेशतो दर्शितानीत्याह। तथेति॥१५३॥

ब्रह्मचर्याश्रमादेव यदि वा प्रव्रजेद्द्विजः॥
गृहाच्च पव्रजेत्तद्वत्प्रव्रजेच्च वनात्तथा॥१५४॥

क्रमसंन्यासं श्रुतिस्मृतिभ्यामुक्त्वा क्रमस्यावश्यंभावभङ्गार्थमक्रमश्रुतिमाह। ब्रह्मचर्येति। त्रैवर्णिकाधिकारद्योतनार्थं द्विजग्रहणम्॥१५४॥

विकल्पेनैव व्याख्यात एकद्वित्रिसमुच्चयः॥
कषायपक्तिमापेक्ष्य विकल्पोऽयं त्रिधोदितः॥१५५॥

श्रुतेरर्थमाह। विकल्पेनेति। विकल्पप्रयोजकमाह। कषायेति॥१५५॥

परीक्ष्य लोकानित्यादि तथाचाऽऽथर्वणे वचः॥
विरक्तः कर्मभूमिभ्यो ज्ञानं प्रति नियुज्यते॥१५६॥

क्रमेणाक्रमेण वा विरक्तस्यैव संन्यासो ज्ञानहेतुरित्यत्र श्रुत्यन्तरमाह। परीक्ष्येति। तस्य तात्पर्यमाह। विरक्त इति॥१५६॥

सर्वकर्मपरित्यागात्संत्यक्ताशेषसाधनः॥
श्रुत्युक्तोऽत्र परिवाट्स्यादैकात्म्यज्ञानजन्मने॥१५७॥

भवतूक्तप्रमाणकः संन्यासो ज्ञानहेतुस्तथाऽपि व्युत्थायेत्यत्र श्रौतः स्मार्तो वा कः संन्यासो ज्ञानहेतुरिष्टस्तत्राऽऽह। सर्वेति॥१५७॥

मुण्डोऽपरिग्रहश्चेति प्रत्यक्षश्रुतिवाक्यतः॥
तद्विरुद्धं स्मृतेर्वाक्यं नापेक्ष्यं दुर्बलत्वतः॥१५८॥

नन्वाश्रमान्तराणि लक्षयित्वा त्रिदण्डेन यतिश्चैवेति मोक्षाश्रमं लक्षयता दक्षेण शिखायज्ञोपवीतादित्यागरूपं पारिव्राज्यं पराकृतमतः शिखादिशालिनस्त्रिदण्डिनः सर्वस्मृतिप्रसिद्धाः संन्यासिनस्तेषामेवात्रापि ग्रहणं तत्र स्मार्तसंन्यासस्य श्रुतिविरोधे सत्त्वमेव नास्तीत्याह। मुण्ड इति॥१५८॥

विगीता च विरुद्धा च दृष्टार्था दृष्टकारणा॥
इति वेदविदाऽप्युक्तं तदप्रामाण्यकारणम्॥१५९॥

किंच मिथो विरोधात्स्मृतयो न प्रमाणं यथा क्षणिकविशुद्धविज्ञानस्मृतिः सर्वशून्यतास्मृतिश्च तथेहापि त्रिदण्डादिधारणस्य तत्त्यागस्य च स्मृतत्वात्परस्परविरोधादप्रामाण्यमित्याह। विगीतेति। किंच वेदविरुद्धाः स्मृतयो न प्रमाणं यथौदुम्बरी सर्वा वेष्टयितव्याऽष्टाचत्वारिंशद्वर्षाणि वेदव्रतं क्रीतराजकोऽभोज्यान्न इत्याद्या स्मृतिरौदुम्बरीं स्पृष्ट्वोद्गायेत्कृष्णकेशोऽग्नीनादधीताग्नीषोमीये संस्थितेऽहनि यजमानस्य गृहेऽशितव्यमित्यादिश्रुतिविरोधादप्रमाणं तथेहापि मुण्डोऽपरिग्रह इत्यादिश्रुतिविरोधात्त्रिदण्डेन यतिश्चेदित्यादिस्मृतिर्न मानमित्याह। विरुद्धेतियथाऽऽहुरशक्यत्वाद्व्यामोह इत्यवगम्यत इति। किंच दृष्टफलविप्रलम्भादिमूला स्मृतिर्न प्रमाणम्। उक्तं हि—

“रागद्वेषमदोन्मादप्रमादालस्यलुब्धताः।
क्व वा नोत्प्रेक्षितुं शक्याः स्मृत्यप्रामाण्यहेतवः”॥

इति त्रिदण्डादिविषया च स्मृतिर्जीवनमात्रफला लोभादिमूला। यथाऽऽहुर्भिक्षाचर्यं चरन्तीत्युक्त्वा स्मार्तं लिङ्गं केवलमाश्रममात्रशरणानां जीवनसाधनं पारिव्राज्यव्यञ्जकमिति। तद्युक्तं त्रिदण्डादिस्मृतेरप्रामाण्यमित्याह। दृष्टार्थेति। किंच भ्रान्त्यादिदृष्टकारणवती स्मृतिर्नादृष्टवेदमूलतया प्रमाणं दृष्टे सत्यदृष्टकल्पनायोगात्। उक्तं हि—

“क्वचिद्भ्रान्तिः क्वचिल्लोभः क्वचिद्युक्तिविकल्पनम्।
प्रतिभाकरणत्वेन निराकर्तुं न शक्यते” इति॥

प्रकृते प्रत्यक्षश्रुतिविरोधे भ्रान्त्यादिमूलसंभवादप्रामाण्यमित्याह। दृष्टकारणेति। उक्तेऽर्थे विरोधाधिकरणं प्रमाणयति। इति वेदविदेति। न चैवं सर्वस्मृत्यप्रामाण्यं समूलत्वनिर्मूलत्वाभ्यां तन्नियमात्। उक्तं च तत्र यावद्धर्ममोक्षसंबन्धि तद्वेदप्रभवं यत्त्वर्थसुखविषयं तल्लोकव्यवहारपूर्वकमिति विवेक्तव्यमिति। न च त्रिदण्डादिस्मृतीनामपि वेदमूलतया प्रामाण्यं मोक्षसाधनज्ञानाङ्गत्वेन त्रिदण्डादिधारणसंन्यासविधायिवेदानुपलम्भात्। स हि ब्रह्मलोकादिप्राप्तिहेतुः। उक्तं हि—तद्व्यतिरेकेण चास्त्याश्रमरूपं पारिव्राज्यं ब्रह्मलोकादिप्राप्तिसाधनमिति। अतो न त्रिदण्डादिस्मृतीनां मोक्षाश्रमविषयतया प्रामाण्यं तदाभासविषयतया तु तदाभासतेति भावः॥१५९॥

क्रियमाणानि कर्माणि यथा स्युः फलसिद्धये॥
तदक्रियोक्ता श्रुत्येह तथाऽऽत्मज्ञानजन्मने॥१६०॥

स्मार्तः संन्यासो ज्ञानहेतुर्मा भूत्तथाऽपि कथं श्रौतस्तद्धेतुरुपपत्त्यभावादित्याशङ्क्य ज्ञानानुरोधिनी यद्वत्प्रवृत्तिरित्यत्रोक्तं स्मारयति। क्रियमाणानीति। इहेत्यध्यात्मप्रकरणोक्तिः॥१६०॥

सत्यानृते सुखदुःखे वेदाल्लोँकद्वयं तथा॥
संन्यस्याऽऽत्मा144नमन्विच्छेदित्यदुष्टं स्मृतेर्वचः॥१६१॥

सर्वकर्मसंन्यासोऽपि संन्यासत्वादितरसंन्यासवन्न धीहेतुरित्याशङ्क्य श्रुतिविरोधमुक्त्वा स्मृतिविरोधमाह। सत्येति। त्रिदण्डस्मृतिवदिदमपि न मानमित्याशङ्क्य प्रत्यक्षश्रुतिमूलत्वान्नैवमित्याह। इत्यदुष्टमिति॥१६१॥

त्यज धर्ममधर्मं च तथा सत्यानृते त्यज॥
उभे सत्यानृते त्यक्त्वा येन त्यजसि तं त्यज॥१६२॥

आपस्तम्बोक्तेऽर्थे व्यासवाक्यमपि मानमित्याह। त्यजेति॥१६२॥

नैष्कर्म्यसाधनेष्वेवं145 श्रुतयः स्मृतिभिः सह॥
मुमुक्षुं विनियुञ्जन्ति सदाऽऽत्मज्ञानजन्मने॥१६३॥

विदुषः संन्यासः श्रुतिस्मृत्यभिप्रेतो न विविदिषोरित्याशङ्क्य संन्यासप्रकरणमुपसंहरति। नैष्कर्म्येति। शमदमोपरमादिष्विति यावत्॥१६३॥

तथाऽनधिकृतानां च संन्यासस्य विधानतः॥
काणकुब्जादि146विषया न्यासकॢप्ति147रतोऽशुभा॥१६४॥

कर्मानधिकृतान्धादिविषयाः संन्यासश्रुतयः स्मृतय इति चेन्नेत्याह। तथेति। तस्माद्यथोक्तश्रुतिस्मृतयोऽधिकृतविषया एवेत्यतःशब्दार्थः॥१६४॥

सत्सु प्रत्यक्षविधिषु यथोक्तेष्वफलः श्रमः॥
भिक्षाचर्यं चरन्तीतिविध्यर्थः क्रियते महान्॥१६५॥

एतमित्याद्यर्थवादं व्याकुर्वता श्रवणादिद्वारा ज्ञानाङ्गत्वेन संन्यासः समर्थितः। भाष्यकृतस्तु व्युत्थायेति संन्यासविधिर्भिक्षाचर्यं चरन्तीति तद्धर्मविधिरिति पूर्वोत्तरपक्षान्यामुक्तवन्तस्तत्राऽऽह। सत्स्विति। अफलः प्रौढवादारूढत्वातिरिक्तफलहीन इति यावत्। महत्त्वं पूर्वोत्तरपक्षसाहित्यम्॥१६५॥

तिष्ठासेदिति चात्रापि प्रत्यक्षः श्रूयते विधिः॥
तस्मिन्सति वृथा कस्माज्जनोऽयं परिखिद्यते॥१६६॥

एतमित्यादिर्नार्थवादस्तच्छेषिविध्यश्रवणादित्याशङ्क्याऽऽह। तिष्ठासेदिति चेति। अत्रेति वाक्यशेषोक्तिः। शेषिविध्यभावाशङ्कानिषेधार्थोऽपिशब्दः। ज्ञानसाधनविषयवेधौ प्रत्यक्षे सार्थवादे संन्यासादिविधिसमर्थनार्थं श्रमो वृथेति फलितमाह। तस्मिन्नेति। जनशब्दो भाष्यकारविषयः॥१६६॥

साध्यसाधनरूपाभ्यां विरुद्धं प्रत्यगीक्षणम्॥
यतो यथोक्तं तत्सिद्धौ तस्मादेतद्विधीयते॥१६७॥

अथोत्तरवाक्ये श्रवणादिद्वारा प्रत्यग्धीर्विधीयते न संन्यासोऽतो व्युत्थायेति तद्विधिस्तत्राऽऽह। साध्येति। तत्सिद्धौ प्रत्यग्धीप्राप्तावुद्देश्यायामिति यावत्। एतत्साधनसाध्यत्यागरूपं पारिव्राज्यमित्यर्थः॥१६७॥

व्युत्थायातो यथोक्ताभ्य एषणाभ्यो निरेषणः॥
पाण्डित्यमथ निर्विद्य बाल्यं परिसमापयेत्॥१६८॥

तस्मादित्यादिवाक्यमादत्ते। व्युत्थायेति। आत्मज्ञानस्य कर्मतत्फलाभ्यां विरुद्धत्वात्तत्त्यागो यतो विधेयोऽतः संन्यस्य ज्ञानार्थं श्रवणादि कुर्यादित्यर्थः। संन्यासस्य श्रवणादावङ्गत्वद्योतकोऽथशब्दः॥१६८॥

पदार्थाधिगतिः पूर्वं ततस्तदभिसंगतिः॥
विरुद्धार्थह्नुतिः पश्चात्ततो वाक्यार्थबोधनम्॥१६९॥

पाण्डित्यपदार्थमाह। पदार्थेति। अधीतस्वाध्यायस्य तत्त्वमादिपदश्रवणे तच्छक्तिनिरूपणायां प्रथमं पदार्थज्ञानं ततः समानाधिकृतपदवाच्यार्थानां विशेषणविशेष्यत्वेन संबन्धस्ततो विरोधस्फूर्तौ विरुद्धांशस्य कर्तृत्वादेर्ध्वस्तिरित्थं पदसामर्थ्यादर्थत्रयज्ञानानन्तरं वाक्यस्य स्वार्थबोधनं तात्पर्यनिर्धारणमिति ब्रह्मात्मनि वेदान्तानां शक्तितात्पर्यनिश्चयरूपं चतुर्विधं ज्ञानं श्रवणाख्यं पाण्डित्यमित्यर्थः॥१६९॥

एकैकश्येन नीत्वाऽथ निष्ठां पाण्डित्यलक्षणाम्॥
बाल्यं चैव यथायोगमन्वयव्यतिरेकतः॥१७०॥

निर्विद्येत्यस्यार्थमाह। एकैकश्येनेति। चतुर्विधज्ञानरूपां निश्चयेन स्थितिं क्रमेण कृत्वा स्थितस्यानन्तरं बाल्यं कर्तुं सामर्थ्यमित्यर्थः। बाल्येनेत्यादेस्तात्पर्यमाह। बाल्यं चेति। कृतपाण्डित्यो ज्ञातपदार्थादिविषये चतुर्विधान्वयव्यतिरेकबलाज्ज्ञानबलभावं यथासंभवं नीत्वा स्थातुमिच्छेदित्यर्थः॥१७०॥

अद्वितीयार्थनिष्ठत्वमात्मप्रत्ययशब्दयोः॥
तथाचाऽऽत्मैकनिष्ठत्वमद्वितीयस्य मानतः॥१७१॥

अन्वयादिफलं दर्शयन्बाल्यं विवृणोति। अद्वितीयेति। तस्मादन्यस्य घटवदनात्मत्वादित्यर्थः। आत्मधीशब्दयोर्ब्रह्मनिष्ठत्ववद्ब्रह्मधीशब्दयोरप्यात्मनिष्ठतेत्याह। तथेति। अनात्मनो ब्रह्मत्वानुपपत्तेरित्याह। मानत इति॥१७१॥

ऐकार्थ्यान्नेह संसर्गस्तद्विरुद्धार्थयोरिव॥
अशनायाद्यतिक्रान्तदृष्टिद्रष्टृपदार्थयोः॥१७२॥

पदार्थविषयं बाल्यमुक्त्वा वाक्यार्थविषयमाह। ऐकार्थ्यादिति। वाक्यार्थान्वय-

विरोधी कर्तृत्वादिः परोक्षादिश्च तयोरसंसर्गवदिहापि ब्रह्मात्मनोरशनायाद्यतीतदृष्ट्यादिसाक्षिणोर्न संसर्गो भेदो वा तयोरेकरसस्वभावत्वादतस्तदखण्डतेत्यनुसंधानं वाक्यार्थे148 बाल्यमित्यर्थः॥१७२॥

पण्डेति बुद्धिनामैतत्सा जाता यस्य मानतः॥
तं पण्डितमिति प्राहुः सोऽत्र श्रुत्या नियुज्यते॥१७३॥

बाल्यपाण्डित्ये संक्षेपतो व्याख्याते कथं चतुर्विधं ज्ञानं पाण्डित्यमप्रसिद्धेरित्याशङ्क्य पाण्डित्यशब्दस्य प्रकृतिप्रत्ययभेदेनार्थमाह। पण्डेतीति। अधीतवेदान्तस्य मुमुक्षोस्तस्मादुत्पन्नं विचारप्रयोजकं ज्ञानं पण्डा साऽस्य जातेति पण्डितस्तस्य कर्म पाण्डित्यं चतुर्विधं ज्ञानं तत्र प्रयोजकज्ञानी तस्मादित्यादिश्रुत्या नियुज्यत इत्यर्थः॥१७३॥

यत्पण्डितस्य कर्म स्यात्तत्पाण्डित्यं प्रचक्षते॥
अप्राप्ततत्त्वनिष्ठोऽतः पाण्डित्ये विनियुज्यते॥१७४॥

अत्रेत्यस्यार्थं स्फुटयति। 149दिति। उक्तरूपे पाण्डित्ये तत्त्वज्ञानिनो नियोगमभ्यासवादिनो वदन्ति तान्प्रत्याह। अप्राप्तेति। प्रयोजकज्ञानं पण्डेत्येतदतःशब्देनोच्यते॥१७४॥

शास्त्राचार्यात्मतो निष्ठां नीत्वाऽऽत्मप्रत्ययं यतिः॥
तिष्ठासेदथ वाल्येन कृत्स्नानात्मधियो ह्नुतिः॥१७५॥

बाल्यशब्दाभिधेया स्यात्तां समापय्य शुद्धधीः॥
मुनिभावं ततो त्गवा ब्रह्मैव ब्राह्मणो भवेत्॥१७६॥

पाण्डित्यं निर्विद्येत्यस्यार्थमनूद्यानन्तरवाक्यार्थं प्रपञ्चयितुं वाक्यमादत्ते। शास्त्रेति। पाण्डित्यस्य बाल्यं प्रति हेतुत्वं द्योतयितुमथेत्युच्यते। बाल्यं हि बालस्य कर्म तिष्ठन्मुत्रत्वादि तत्कथं पदार्थादिज्ञानबलभावे तत्पदं प्रयुक्तमित्याशङ्क्याऽऽह। कृत्स्नेति150। भवति हि बालस्य कर्म सर्वानात्मधीवैधुर्यमप्ररूढेन्द्रियं हि बालमाहुरनाविष्कुर्वन्नन्वयादिति न्यायाद्भवति च पदार्थादिज्ञानबलभावो बाल्यमतो यथोक्तज्ञानबलरूपा सर्वानात्मधीध्वस्तिर्युक्त्यधीना बाल्यमुच्यते बलं नामाऽऽत्मविद्ययाऽशेषविषयदृष्टितिरस्करणमतस्तद्भावेन बाल्येन तिष्ठासेदित्युक्तेरित्यर्थः। बाल्यं चेत्यादेरर्थमाह। तामिति। अथ मुनिरित्यस्यार्थमाह। शुद्धधीरिति। अमौनं चेत्यादेरर्थमाह। मुनीति। पाण्डित्यबाल्यनिर्वर्त्यानन्तर्यं ततःशब्दार्थः। अथ ब्राह्मण इत्यस्यार्थमाह। ब्रह्मैवेति॥१७५॥१७६॥

निःशेषमात्मसंबोधं कुर्यादिति विधीयते॥
तिष्ठासेदिति संबन्धः सर्वत्र विधिना भवेत्॥१७७॥

अथात्र पाण्डित्यादित्रयमेव विधीयते न संन्यासस्तथाच तस्मिन्सति वृथा कस्मादित्युपालम्भो वृथेति तत्राऽऽह। निःशेषमिति। आत्मज्ञानमुद्दिश्य पाण्डित्यादिसाधनं कुर्यादित्यत्र विधीयतेऽतः शमदमोपरमादिरपि विधेयत्वेनात्राभीष्टस्तदभावे बाल्यादेरयोगादुद्देश्यासिद्धेरित्यर्थः। बाल्ये विधिश्रवणात्तस्यैव विधेयत्वमाशङ्क्याऽऽह। तिष्ठासेदितीति। पाण्डित्येन तिष्ठासेत्तन्निश्चयेन लब्ध्वा बाल्येन तिष्ठासेत्ततो मौनेन तिष्ठासेन्मुनिर्भूत्वा ब्राह्मणो भवतीति सर्वत्र तिष्ठासेदिति विधिना संबन्ध इति योजना॥१७७॥

प्राणेन प्राणितीत्युक्तो दृष्टेर्द्रष्टेति चोदितः॥
स आत्मानुभवात्सिद्ध आ देहादा परात्मनः॥१७८॥

तस्मादित्याद्यथ ब्राह्मण इत्यन्तं व्याख्यायं पाण्डित्यपदस्यार्थान्तरं वक्तुं भूमिकामाह। प्राणेनेति। उषस्तप्रश्ने त्वमर्थः प्रस्तुत इत्यर्थः॥१७८॥

अस्य प्रत्यक्पदार्थस्य ह्या समाप्तेर्विधीयते॥
धीः पाण्डित्यगिरा साक्षादन्वयव्यतिरेकतः॥१७९॥

तत्परिशोधनं पाण्डित्यमित्याह। अस्येति। पदार्थप्रसङ्गस्य तत्परिशोधनहेतुत्वं वक्तुं हीत्युक्तम्। आ समाप्तेर्वाक्यार्थान्वयित्वेन प्रतिपत्तिपर्यन्तमिति यावत्। अन्वयव्यतिरेकतो धीः शोधनरूपेत्येतत्। पाण्डित्यगिरा पाण्डित्येन तिष्ठासेदिति वाक्येनेत्यर्थः। साक्षादा समाप्तेरिति संबन्धः॥१७९॥

तथैव योऽशनायेति परमात्माऽपि शब्दितः॥
तस्य निष्ठाविधानार्थं बाल्येनेति परं वचः॥१८०॥

बाल्येन तिष्ठासेदित्यस्यार्थान्तरमाह। तथेति। यथा त्वमर्थशोधनं पाण्डित्येन तिष्ठासेदिति विहितं तथा तदर्थशोधनं बाल्येनेत्यादिना विधीयत इत्यर्थः॥१८०॥

नान्यत्रेहाद्वितीयार्थात्साक्षादात्मार्थसंभवः॥
इत्यर्थोऽत्र विधेयः स्यादन्वयव्यतिरेकतः॥१८१॥

कथं त्वमर्थशोधनं यत्पाण्डित्यवाक्येन विधित्सितं तदाह। नान्यत्रेति। इहेति त्वमर्थोक्तिः। अत्रेति पाण्डित्यवाक्योक्तिः। न हि त्वमर्थेऽन्वयादिना शोध्यमाने साक्षात्त्वादिरर्थो ब्रह्मणोऽन्यत्र संभवति परिच्छिन्नस्य घटवदात्मत्वाद्ययोगात्तस्मादात्मीयविशेषणजातस्य ब्रह्मण्येव संभवादात्मा ब्रह्मेत्येवंप्रकारशोधनात्मार्थोऽत्र पाण्डित्यवाक्ये विधेय इत्यर्थः॥१८१॥

अद्वितीयपदार्थस्य तथा नैवाऽऽत्मनोऽन्यतः॥
संभवोऽस्तीतिविध्यर्थस्तिष्ठासेदिति भण्यते151॥१८२॥

तत्पदार्थशोधनविधानं दर्शयन्बाल्येनेत्यादिवाक्यार्थं निगमयति। अद्वितीयेति। यथाऽऽत्मार्थस्य नाद्वयादन्यत्र संभवस्तथा ब्रह्मार्थस्य नाऽऽत्मानं हित्वोपपत्तिरनात्मनो घटवदब्रह्मत्वादतो ब्रह्माऽऽत्मैवेति तदर्थस्य त्वमर्थपर्यन्तशोधनरूपोऽर्थो बाल्यवाक्य विधीयत इत्यर्थः॥१८२॥

विशेषणविशेष्यत्वसंबन्धोऽथ पदार्थयोः॥
विरुद्धार्थनिवृत्त्याऽत्र मुनिरित्यभिधीयते॥१८३॥

मुनिशब्दस्यार्थान्तरमाह। विशेषणेति। पदयोः सामानाधिकरण्यानन्तर्यमथशब्दार्थः॥१८३॥

ब्रह्मात्मनोरसंसर्गस्तद्विरुद्धार्थयोरिव॥
पदार्थैकत्वतो भेदो ध्वान्तध्वस्तौ निवर्तते॥१८४॥

अथ मुनिरित्यत्र मुनिशब्देन तत्त्वमर्थयोर्विरुद्धपारोक्ष्यसद्वयत्वादिनिवृत्त्या विशेषणविशेष्यत्वमुच्यते चेत्कथमखण्डार्थतेत्याशङ्क्याऽऽह। ब्रह्मेति। विशेषणविशेष्यत्वेन स्थितयोर्विरोधस्फूर्तौ तद्ध्वस्त्या लक्षणया भेदसंसर्गहीनोऽखण्डार्थो बोध्यतेऽतो ज्ञानादज्ञानध्वस्तौ पदार्थैकरस्याद्भेदादिध्वस्तिरित्यर्थः॥१८४॥

सामानाधिकरण्यं च विशेषणविशेष्यता॥
लक्ष्यलक्षणसंबन्धः पदार्थप्रत्यगात्मनाम्॥१८५॥

वाक्यादख152ण्डार्थसिद्धिक्रमं स्फुटयति। सामानाधिकरण्यमिति॥१८५॥

सामानाधिकरण्यादेर्घटेतरखयोरिव॥
व्यावृत्तेः स्यादवाक्यार्थः साक्षान्नस्तत्त्वमर्थयोः॥१८६॥

अथ विमतं संसृष्टार्थं वाक्यत्वाद्गवानयनवाक्यवदित्यनुमानान्न तत्त्वमादिवाक्यादखण्डार्थसिद्धिरित्याशङ्क्य व्यभिचारमाह। सामानाधिकरण्यादेरिति॥१८६॥

चिदज्ञानैकहेतुत्वाद्धातव्यानां चिदात्मनि॥
मोहध्वस्तौ प्रतीचोऽन्यो नातोऽर्थोऽत्रावशिष्यते॥१८७॥

विरुद्धांशव्यावृत्तेरवाक्यार्थसिद्धिश्चेद्विरुद्धांशस्तर्हि चिदात्मनो निरस्तोऽन्यत्र तिष्ठेदित्यद्वैतहानिरत आह। चिदज्ञानेति। अत्र चिति हातव्यकर्तृत्वादीनामात्माज्ञानजत्वाज्ज्ञानात्तदज्ञानध्वस्तावतः प्रतीचोऽन्यो नेति नाद्वैतहानिरित्यर्थः॥१८७॥

आत्मधीविषयं नैति तदज्ञानैककारणः॥
अनात्ममा153नमेयोऽर्थो यतोऽतः केवलात्मता॥१८८॥

तर्हि भेदनिराकरणात्तेषामात्मन्यभेदेन स्थितेस्तदखण्डत्वक्षतिरत आह। आत्मेति॥१८८॥

समाप्यामौनमखिलं बाल्यपाण्डित्यलक्षणम्॥
निर्विद्य च तथा मौनं पदार्थद्वयसंगतिम्॥१८९॥

श्रवणमनननिदिध्यासनानि पाण्डित्यबाल्यमुनिपदैरादावुक्तानि ततस्तैरेव पदार्थयोः शुद्धिः शुद्धयोर्विशेषणविशेष्यत्वमित्यर्थान्तरमुक्तमिदानीममौनं चेत्यादेरर्थमनुवदति। समाप्येति। पदार्थद्वयसंगतिर्निदिध्यासनं तज्ज्ञानत्वात्तद्धेतुत्वाद्वा संगतिं निर्विद्य ब्राह्मणो भवतीति संबन्धः॥१८९॥

अथ ब्राह्मण इत्युक्त्या फलावस्थाऽस्य भण्यते॥

भेदसंसर्गहीनोऽर्थः स्वम154हिम्नि व्यवस्थितः॥
साक्षादित्यादिरूपोऽथ ब्रह्म ब्राह्मण उच्यते॥१९०॥

अथ ब्राह्मण इत्यस्य तात्पर्यमाह। अथेति। अस्येति विद्वदुक्तिः। काऽसौ फलावस्था तामाह। भेदेति। तत्त्वसाक्षात्कारानन्तर्यं फलावस्थाया वक्तुमथशब्दः॥१९०॥

इमामवस्थां संप्राप्य155 सर्वो ब्राह्मण उच्यते॥
ब्राह्मण्यं गौणमन्यत्र पूर्वभूमिषु नाञ्जसा॥१९१॥

जातिविषयो ब्राह्मणशब्दः कथमस्यां फलावस्थायां प्रयुज्यतेऽस्ति हि क्षत्त्रियादेरपि ज्ञानिनो यथोक्ता फलावस्था तत्राऽऽह। इमामिति। ज्ञानवति मुक्ते तद्रहिते च बद्धे कथमेको ब्राह्मणशब्दः सत्यां गतावेकस्यानेकार्थत्वायोगादित्याशङ्क्याऽऽह। ब्राह्मण्यमिति। ज्ञानहीनेषु ब्रह्मचार्यादिषु स्थिते ब्राह्मणत्वे गौणो ब्राह्मणशब्दः परमहंसपरिव्राजके ज्ञानिनि मुक्ते मुख्योऽतो नैकस्यानेकार्थता शक्तिभेदाभावादित्यर्थः ॥१९१॥

केनाथ ब्राह्मणः स स्यादिति प्रश्नमपृच्छत॥
उक्तोपायातिरेकेण पृच्छ्यते साधनान्तरम्॥१९२॥

स ब्राह्मणः केन स्यादिति वाक्यं प्रश्नपरत्वेनावतारयति। केनेति। ज्ञानस्यब्राह्मण्यं प्रति साधनत्वस्य सिद्धत्वात्तद्विषयप्रश्नायोगादित्याशङ्क्याऽऽह। उक्तेति॥१९२॥

यज्ञादिलक्षणं तावत्पारंपर्येण साधनम्॥
निर्ज्ञातमागमात्तस्मात्पृच्छ्यते साधनान्तरम्॥१९३॥

अस्तु तर्हि यज्ञादि प्रश्नगोचरस्तत्राऽऽह। यज्ञादीति। आगमाद्विविदिषावाक्यादिति यावत्। साधनं मुक्तेरिति शेषः। अग्निहोत्रादि तु तत्कार्यायैवेत्यादिन्यायादित्यर्थः॥१९३॥

चतुर्णां कतमेनेति न तु प्रश्नोऽत्र युज्यते॥
कैवल्याश्रममादाय ब्राह्मण्यस्य समाप्तितः॥१९४॥

आश्रमस्तर्हि मुक्तिं प्रत्युपायतया पृच्छ्यते नेत्याह। चतुर्णामिति। मुक्तिः सप्तम्यर्थः॥१९४॥

न चाऽऽश्रमान्तरं युक्तं मुनेर्व्युत्थायिनः सतः156
कृतार्थस्याकृतार्थस्य तस्य नैवाऽऽश्रमान्तरम्॥१९५॥

कुतो विशेषणमाश्रमान्तरेणापि मुक्तिसिद्धेरित्याशङ्क्याऽऽह। न चेति। कृतार्थः साक्षात्कृतब्रह्मा मुनिस्तस्य त्यक्तैषणस्य नाऽऽश्रमान्तरं मोक्षोपायो न खल्वेषणाभ्यो व्युत्थितेनाऽऽश्रमान्तरमाश्रयितुं शक्यम्। अकृतार्थस्तु प्रयोजकज्ञानी तस्यापि नाऽऽश्रमान्तरं मुक्तिहेतुरन्यत्र श्रवणादिद्वारा ज्ञानायोगान्नाविरक्ताय संसारादित्यादिन्यायादित्यर्थः॥१९५॥

प्रश्नोऽयं साधनज्ञप्त्यै ब्राह्मणस्येह पृच्छ्यते॥
किंसाधनो ब्राह्मणः स्यादिति साधनमुच्यताम्॥१९६॥

तर्हि विषयाभावात्प्रश्नो मा भूत्क्षेपस्तु स्यान्नेत्याह। प्रश्नोऽयमिति। इहेति वाक्योक्तिः। नायं क्षेपो हेत्वभावादिति मत्वा प्रश्नप्रकारमभिनयति। किमिति॥१९६॥

प्रश्नप्रतिवचस्तेन ब्राह्मणः स्याद्यथोदितः॥
येनानवाप्तज्ञानोऽपि भवेदीदृश एव ना॥१९७॥

सम्यग्ज्ञानाद्यज्ञादेराश्रमान्तराच्चातिरिक्ते मुक्तिहेतौ पृष्टे येनेत्याद्युत्तरमाह। प्रश्नेति। अनुत्पन्नज्ञानोऽपि पुरुषो येन साधनेन निर्व्यापारो भवति तेन मुख्यं ब्राह्मण्यं लभ्यत इत्यर्थः॥१९७॥

उक्तब्राह्मणसादृश्यं सर्वकर्मनिरासतः॥
नैष्कर्म्यसाधनेनैव ब्राह्मणः स्याद्यथोदितः॥१९८॥

किं तदिति तदाह। उक्तेति। सर्वव्यापारोपरमात्मकनैष्कर्म्यं पारमहंस्यं ज्ञानादन्यत्तेनैव मुख्यो ब्राह्मणो भवति तच्च साधनं सर्वकर्मत्यागतो लभ्यते तस्य ब्राह्मण्यं प्रति साधनत्वं तेन सारूप्यत्वादुभयोरपि निर्व्यापारत्वाविशेषाद्धेतुफलयोरैकरूप्यस्य न्याय्यत्वादित्यर्थः॥१९८॥

इत्येषोऽर्थो विधेयोऽत्र येनेति वचसा श्रुतेः॥
स्मृतयोऽपीममेवार्थं तत्र तत्र प्रचक्षते॥१९९॥

कथं नैष्कर्म्यमधिगतं तदाह। इत्येष इति। अत्रेत्युद्देश्यमोक्षोक्तिः। परमहंसाश्रमो नैष्कर्म्यं तस्य धीसमुच्चितस्य मोक्षोपायत्वे मानमाह। स्मृतयोऽपीति। अपिशब्दः श्रुतिसंग्रहार्थः॥१९९॥

लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ॥
ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम्॥२००॥

तत्राऽऽदौ स्मृतीरुदाहरन्भगवद्वाक्यमाह। लोकेऽस्मिन्निति। प्राणिनिकायो लोकः। पुरेति द्वितीयाध्यायोक्तिः सर्गादिकालो वा पुरेत्युक्तिः। के ते निष्ठे तत्राऽऽह। ज्ञानेति। सांख्याः सम्यग्धीप्रधानास्तेषां परमहंसानां ज्ञानयोगो निर्व्यापाररूपं नैष्कर्म्यं तेनैव निष्ठा, कर्मिणो योगिनस्तेषां कर्मयोगस्तदनुष्ठानं तेनैव निष्ठेति वदन्भगवान्नैष्कर्म्यस्य ज्ञानोपेतस्य मुक्तिसाधनत्वमभिप्रेतवानित्यर्थः॥२००॥

इमौ द्वावेव पन्थानौ कर्मतत्त्यागलक्षणौ॥
सजातीयाद्विनिष्क्रान्तावनुक्रान्ततराविमौ॥२०१॥

तत्रैव व्यासवाक्यमाह। इमाविति। अन्ययोगव्यवच्छेदेनोक्तौ पुमर्थमार्गौ विशिनष्टि। कर्मेति। तयोर्मिथो वैजात्यमाह। सजातीयादिति। श्रुतिषु तयोरसकृदुक्तत्वेन प्रामाणिकत्वमाह। अनुक्रान्तेति॥२०१॥

संन्यास एव ताभ्यां च विशेषेणातिवर्तते॥
तथा किं प्रजयेत्यादिः पन्थाः कर्मत्यजां श्रुतः॥२०२॥

समभिव्याहारात्तयोरैकरूप्यमाशङ्क्याऽऽह। संन्यास इति। संन्यासिनां स्मृताविव श्रुतावपि नैष्कर्म्यमार्गो दृष्ट इत्याह। तथेति॥२०२॥

ब्रह्मचर्याश्रमादेव प्रव्रजेदिति भूरिशः॥
संन्यासमेव ब्रुवते मुक्तये सर्वकर्मणाम्॥२०३॥

श्रुतयः स्मृतयश्चोच्चैः शुद्धन्यायसमाश्रयात्॥
सर्वकर्मनिरासेन ब्राह्मण्यं लभते ततः॥२०४॥

ननु क्रमेण संन्यस्यतो यथोक्तो मार्गोऽत्र विवक्षितः प्रथमाश्रमे तु संन्यासमेव न मृष्यामस्तत्राऽऽह। ब्रह्मचर्येति। इतिशब्दः पन्थाः श्रुतः श्रुतावित्यनेन संबध्यते। त्यागेनैके अमृतत्वमानशुरिति श्रुतेः कस्यचित्कर्म कस्यचित्त्यागो मुक्तिहेतुरिति विकल्पमाशङ्क्याऽऽह। संन्यासमिति। उच्चैरित्युक्ततात्पर्यद्योतनार्थमभ्यासाख्यं लिङ्गं दर्शयति। भूरिश इति। न च तासामन्यार्थत्वमबाधितन्यायानुग्रहादित्याह। शुद्धेति। आत्मस्वरूपभूतमुक्तेरसाध्यत्वादि न्यायः। ज्ञानातिरिक्तं नैष्कर्म्याख्यं मुक्तिहेतुमुपपाद्य येनेत्यादेरर्थमुपसंहरति। सर्वेति॥२०३॥२०४॥

केनेति यदि वाऽऽक्षेप उत्पत्त्यादेरसंभवात्॥
साधनानामिहैकात्म्ये तथाच प्रागवादिषम्॥२०५॥

स इत्यादेरर्थान्तरमाह। केनेति। आक्षेपं स्फोरयति। उत्पत्त्यादेरिति। मोक्षे

ज्ञानातिरिक्तकर्मादिहेतूनां केनेत्याक्षेपस्तस्य चतुर्विधकर्मकार्यत्वायोगात्तदयोगश्च संबन्धादावुक्त इत्यर्थः॥२०५॥

साधनेनैतदैकात्म्यं येन येन चिकीर्ष्यते॥
तेन तेनेदृगेवाऽऽत्मा नातिशीतिर्मनागपि॥२०६॥

ज्ञानेतरसर्वहेत्वाक्षेपमुपेत्य येनेत्यादेरर्थमाह। साधनेनेति। अग्निहोत्राद्यनुष्ठानात्प्रागूर्ध्वं च मुक्तेराकाशवदैकरूप्यादज्ञानध्वस्तेश्च ज्ञानमात्रायत्तत्वान्नैष्कर्म्यस्य च ज्ञानाद्वा तत्फलाद्वा तद्धेतोर्वाऽनतिरेकान्न मुक्त्यर्थं हेत्वन्तरं मृग्यमित्यर्थः॥२०६॥

अथवा लक्षणोक्तिः स्याद्यथोक्तब्रह्मवेदिनः॥
येनेदृगेव चिह्नेन ब्राह्मणस्तेन लक्ष्यताम्॥२०७॥

स इत्यादेर्विधान्तरेण प्रश्नरूपमर्थमाह। अथवेति। विदुषो मुक्तस्य लक्षणं केनेति पृच्छ्यत इत्यर्थः। उक्तिशब्दः प्रश्नवचनः। येनेत्यादेरर्थमाह। येनेति। मुक्तस्य स्वरूपमेव लक्षणं न लक्षणान्तरमस्तीत्यर्थः॥२०७॥

देहेन्द्रियमनोबुद्धिधर्मानेषोऽत्यवर्तत॥
प्रत्यगैकात्म्यसंबोधात्त157द्धर्मैर्लक्ष्यते कथम्॥२०८॥

पृथिव्यादेर्गन्धवत्त्वादि स्वातिरिक्तं लक्षणं तत्कथं मुक्तस्य न लक्षणान्तरं तत्र किं शमादिर्वा संसाराभावो वा तस्य लक्षणान्तरमिति विकल्प्याऽऽद्यं प्रत्याह। देहेति। देहादेस्तद्धर्माच्च तत्त्वज्ञानेनातीतो मुक्तो नास्य बुद्ध्यादिधर्मः शमादिर्लक्षणं वैयधिकरण्यादित्यर्थः॥२०८॥

सर्वसंसारभावोऽस्य न यथा लक्षणं तथा॥
सर्वाभावोऽपि नैव स्याल्लक्षणं ब्रह्मवेदिनः॥२०९॥

द्वितीयं दूषयति। सर्वेति॥२०९॥

वेद्यानुरोधतो यस्मात्तद्विदो न्यायल158क्षणम्॥
भावाभावद्वयध्वंसि ब्रह्म वेद्यं च तद्विदः॥२१०॥

तत्र हेतुः। वेद्येति॥२१०॥

येनेदृगेव तेनेति तस्मादाह श्रुतिः स्फुटम्॥
मुमुक्षोर्लक्षणं तादृक्श्रद्दधाना यदब्रुवन्॥२११॥

अथ तद्यथाऽहिनिर्ल्वयनी सचक्षुरचक्षुरिवेत्यादिश्रुतेः स्थितप्रज्ञगुणातीतलक्षणस्मृतेश्च विदुषो मुक्तस्य लक्षणमुक्तं तत्कुतो न लक्षणान्तरं तत्राऽऽह। येनेति। प्रतिवचो हि लक्षणान्तराभावादेव प्रवृत्तं श्रुतिस्मृती तु विदुषो व्यवहारदृष्ट्या लक्षणमाचक्षाते न वस्तुतो

वस्तुतस्तद्राहित्यमिह विवक्षितमिति भावः। ननु शमादिर्ज्ञानात्पूर्वं साधनमूर्ध्वं ज्ञानिलक्षणमिति संप्रदायविदो न तदन्यथयितुं युक्तमत आह। मुमुक्षोरिति। सांप्रदायिका यदास्तिकाः सन्तः शमादिलक्षणमाचचक्षिरे तत्सर्वं व्यवहारावस्थस्यैव न तदतीतस्येत्यर्थः॥२११॥

सुषुप्तेऽप्यतिमूढस्य सर्वसंसारनिह्नुतिः॥
गम्यते लक्षणं तादृङ्न चासौ ब्रह्मविन्मतः॥२१२॥

संसाराभावस्य मुक्तलक्षणत्वाभावे हेत्वन्तरमाह। सुषुप्तेऽपीति। अब्रह्मविदोऽपि संसाराभावानुभवान्न तन्मुक्तलक्षणां न चाज्ञानाभावस्तल्लक्षणं तस्य स्वरूपत्वे लक्षणान्तरत्वायोगादस्वरूपत्वे संसाराभावादविशेषादिति भावः॥२१२॥

आत्मनो ब्रह्मतेहोक्ता न त्वनात्मन ईरिता॥
यथोक्तज्ञानतो ध्वस्तिरार्तश्रुत्याऽत उच्यते॥२१३॥

मुक्तस्य लक्षणान्तराभावेऽपि कथमतोऽन्यदार्तमित्युक्तं मुक्तादन्यस्यैवासत्त्वेन वाक्यस्य निर्विषयत्वादित्याशङ्क्याऽऽह। आत्मन इति। पाण्डित्यादिवाक्यमिहेति परामृष्टम्॥२१३॥

अतो ब्राह्मण्यतोऽन्यद्यत्क्रियाकारकलक्षणम्॥
आर्तं विनाशि तज्ज्ञेयं ब्रह्मानार्तं यतस्ततः॥२१४॥

श्लोकानामादितः समष्ट्यङ्काः—६४३०

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके तृतीयाध्यायस्य
पञ्चमं कहोलब्राह्मणम्॥५॥

अतोऽन्यदित्यादिश्रुतेरर्थान्तरमाह। अत इति। अन्यस्य नाशित्वे हेतुमाह। ब्रह्मेति। यद्वा यतोऽन्यदार्तमतो ब्रह्मैवानार्तमिति फलोक्तिः॥२१४॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिकटीकायां तृतीयाध्यायस्य
पञ्चमं कहोलब्राह्मणम्॥५॥
————

अथ षष्ठं ब्राह्मणम्।
————

यः सर्वान्तर इत्युक्तस्तन्निर्णयविवक्षया॥
आ शाकल्यात्परो ग्रन्थ इतो व्याख्यायतेऽधुना॥१॥

पूर्वब्राह्मणयोरात्मनः सर्वान्तरत्वमुक्तं तन्निर्णयार्थमुत्तरब्राह्मणत्रयमिति संगतिमाह। य इति॥१॥

विशेषणस्य सर्वस्य साक्षादित्यादिकस्य च॥
सर्वान्तरविनिर्णीतौ निर्णयः स्यात्कथं न्विति159॥२॥

ननु विशेषणान्तराण्यपि प्रकृतानि, तानि विहाय किमिति सर्वान्तरत्वं निर्णीयते तत्राऽऽह। विशेषणस्येति। आत्मनः सर्वान्तरत्वनिर्णये साक्षात्त्वादि यतो निर्णीतमेव भवत्यतस्तस्य कथं सर्वान्तरत्वमिति विशेषतो निरूप्यत इत्यर्थः॥२॥

अशनायाद्यतिक्रान्त्या प्रश्नार्थाविष्कृतिः कृता॥
न सम्यगिति मन्वाना गार्ग्यपृच्छदतः पुनः॥३॥

तन्निर्णयात्तदविनाभूतसाक्षात्त्वादिनिर्णयेऽपि योऽशनायेत्यादिना सर्वान्तरत्वादेर्निर्णीतत्वात्किं पुनरारम्भेणेत्याशङ्क्याथेत्यादिप्रश्नं प्रस्तौति। अशनायादीति॥३॥

क्षित्यादेर्वियदन्तस्य यावन्नैकात्म्यमुच्यते॥
निर्णीतार्थो न तावत्स्यात्प्रश्नः साक्षादितीरितः॥४॥

यत्साक्षादित्यादिप्रश्नार्थस्य योऽशनायेत्यादिना कृताऽऽविष्कृतिः कथं न सम्यगित्याशङ्क्याऽऽह। क्षित्यादेरिति॥४॥

बुभुक्षाद्येकदेहस्थनिषेधादनिषेधतः॥
क्षि160त्यादेर्वियदन्तस्य नातः प्रश्नार्थनिर्णयः॥५॥

अशनायादिनिषेधेनैव भूतपञ्चकमपि प्रतिषिध्य प्रत्यङ्मात्रस्य निर्णीतत्वात्कथं प्रश्नार्थानिर्णयस्तत्राऽऽह। बुभुक्षादीति॥५॥

य एते पार्थिवा भावा लोष्टकुम्भादयो मताः॥
तेषामन्तर्बहिर्व्याप्तिः पृथिव्यैवेह लक्ष्यते॥६॥

प्रश्नस्य सम्यगनिर्णीतत्वबुद्ध्या गार्गी पृच्छतु, तत्पृच्छा तु किंमूलेत्याशङ्क्य व्याप्तिमूलेति वक्तुं लोकप्रसिद्धां व्याप्तिमाह। य एत इति॥६॥

यथैव पार्थिवा भावाः पृथिव्यैवं धरित्र्यपि॥
अद्भिरन्तर्बहिश्चेयं व्याप्तैवेह समीक्ष्यते॥७॥

पृथिव्या व्यापकत्वेऽपि कीदृशी त्वदिष्टा व्याप्तिस्तत्राऽऽह। यथेति॥७॥

एवं दृष्टं यतस्तस्माद्गार्गी पप्रच्छ लिङ्गतः॥
प्रश्नं यदिदमित्येवं याज्ञवल्क्यं महाधियम्॥८॥

यदनात्मत्वे सति व्यापकं तदन्यव्याप्यं यथा पृथिवीति व्याप्तिमुक्त्वा तन्मूलं प्रश्नं दर्शयति। एवमिति। तं प्रत्येव प्रश्ने हेतुः। महाधियमिति। पृष्टनिष्टङ्कनशक्तिमत्त्वं महाधीत्वम्॥८॥

ओतप्रोतात्मना कार्यं येन येन समाप्लुतम्॥
तस्य तस्यान्यसंव्याप्तिर्दृष्टा लोके क्षितेर्यथा॥९॥

लिङ्गशब्दितमनुमानं वक्तुं व्याप्तिं स्मारयति। ओतेति। कार्यं स्थूलं परिच्छिन्नं च येन कारणेन सूक्ष्मेण व्यापकेनान्तर्बहिर्व्याप्तं तस्यानेन सूक्ष्मतरेण व्याप्तिर्लोके दृष्टा यथा पृथिव्यां लोष्टादिव्यापिकायां व्याप्तिरद्भिरन्यथा सक्तुमुष्टिवद्विसरणापत्तेरित्यर्थः॥९॥

अद्भिश्चेयं क्षितिर्व्याप्ता तस्मात्तासामपीष्यते॥
अन्येन केनचिद्व्याप्तिर्व्यापकत्वाद्यथा भुवः॥१०॥

व्यापकत्वहेतोः प161क्षधर्मतामाह। अद्भिश्चेति। अनुमानमाह। तस्मादिति॥१०॥

प्रत्युक्तिर्गार्गि वायावित्येवमेवोत्तरेष्वपि॥
वाक्येषु प्रतिपत्तव्या प्रत्युक्तिप्रश्नयोर्गतिः॥११॥

अपां व्यापके पृष्टे प्रत्याह। प्रत्युक्तिरिति। प्रथमपर्यायोक्तन्यायमुत्तरपर्यायेष्वतिदिशति। एवमेवेति॥११॥

पार्थिवाप्यौ समाश्रित्य तेजोऽभिव्यज्यते यतः॥
धातू न तु स्वतन्त्रं सन्नावदत्तेजसीत्यतः॥१२॥

अग्नेराप इति श्रुतेरग्नाविति वक्तव्ये वायावित्ययुक्तमिति चेत्तत्राऽऽह। पार्थिवेति। अग्नेरुदकव्यापकत्वेऽपि काष्ठविद्युदादिपारतन्त्र्यात्स्वतन्त्रेण162 केनचिदपां व्याप्तिर्वाच्येत्यग्निं हित्वा तत्कारणवायावित्युक्तं वायोश्च स्वकारणतन्त्रत्वेऽपि नोदकतन्त्रतेति तद्व्यापकत्वसिद्धिरित्यर्थः॥१२॥

सूक्ष्मताव्यापिते ज्ञेये भूम्यादेरुत्तरोत्तरम्॥
अक्षरात्मावसानानां पूर्वपूर्वप्रहाणतः॥१३॥

उत्तरोत्तरेण पूर्वपूर्वव्याप्तौ युक्तिमाह। सूक्ष्मतेति। भूम्यादेरारभ्य प्रत्यगन्तानां मध्ये पूर्वपूर्वत्यागेनोत्तरोत्तरस्य सूक्ष्मत्वादि ज्ञेयमिति योजना॥१३॥

आरम्भकबहुत्वाच्च बहूक्तिरिह गृह्यते॥
आत्मनोऽन्यद्यतः सर्वं पञ्चभूतात्मकं विदुः॥१४॥

अन्तरिक्षलोकेष्वित्यादि बहुवचोऽयुक्तं प्रत्येकमन्तरिक्षादेरेकत्वादित्याशङ्क्याऽऽह। आरम्भकेति। तेषु तद्बहुत्वमेवायुक्तमात्मनः स्वाविद्यया तत्कारणत्वादित्याशङ्क्याऽऽह। आत्मन इति। उक्तं हि न च परमात्मनोऽर्वाक्तद्व्यतिरेकेण वस्त्वन्तरमस्तीति॥१४॥

द्वात्रिंशद्गुणितो मार्गो रथगत्या विवस्वतः॥
य उक्तस्तस्य संस्थित्या तस्थुरिन्द्रान्तदेवताः॥१५॥

पृथिव्यादीनामिन्द्रान्तानामोतप्रोतत्वेनोक्तानां लोकालोकपर्यन्तलो163कान्तर्वर्तित्वमेवेत्यवान्तरविशेषमाह।द्वात्रिंशदिति॥१५॥

स्थूलसूक्ष्मात्मना सर्वास्तारतम्येन संस्थिताः॥
व्याप्यव्यापितयाऽन्योन्यं सर्वतःपरिमण्डलाः॥१६॥

तासां च लोकान्तर्वर्तिदेवतानामुत्तरोत्तरापेक्षया पूर्वत्र पूर्वत्र स्थौल्यं व्याप्यत्वं च पूर्वपूर्वापेक्षयोत्तरत्रोत्त164रत्र सौक्ष्म्यं व्यापित्वं चेत्याह। स्थूलेति। तासां च लोकमध्ये सर्वत्राप्रतिहतगतित्वं सर्वतःपरिमण्डलत्वम्॥१६॥

प्रजापतिर्विराडत्र योऽण्डस्यान्तर्व्यवस्थितः॥
ओतप्रोतानि तत्त्वानि तेन पूर्वाणि सर्वशः॥१७॥

प्रजापतिलोकेष्वित्यत्र प्रजापतिं व्याचष्टे। प्रजापतिरिति। अण्डव्यापिविराजो यथोक्तदेवताभ्यो विशेषमाह। ओतेति॥१७॥

तस्योतप्रोतभावोऽयं ब्रह्मलोकेषु भण्यते॥
अण्डारम्भकभूतानां ब्रह्मलोकाभिधेष्यते॥१८॥

ब्रह्मलोकेष्वति व्याकुर्वन्ब्रह्मलोकशब्दार्थमाह। तस्येति॥१८॥

तदेतल्लोकनिर्माणमोतप्रोतात्मनोदितम्॥
अण्डान्तमेव व्याख्यातं किमन्यदवशिष्यते॥१९॥

प्रश्नान्तरार्थं भूमिकामाह। तदेतदिति। पृथिव्यादीनामन्तर्बहिर्व्याप्त165तया यदेतदवस्थानं पृष्टं तदुक्तप्रकारेण ब्रह्मलोकान्तं स्फुटीकृतं न चाण्डादुपरिष्टादनुमानेन प्रष्टव्यमित्यर्थः॥१९॥

समष्टिव्यष्टिभावेन वायुः सर्वाश्रयः पुरा॥
व्याख्यातो यः स वक्तव्यस्तदर्थः प्रश्न उत्तरः॥२०॥

उक्ताभिप्रायाज्ञानकृ166तप्रश्नविषयमाह। समष्टीति। पुरेति भुज्युप्रश्नोक्तिः॥२०॥

ओताः प्रोताश्च कस्मिन्नु ब्रह्मलोका इतीर्यताम्॥
इति पृष्टोऽब्रवीद्गार्गि माऽतिप्राक्षीः कथंचन॥२१॥

सूत्रविषयत्वं प्रश्नस्योक्त्वा तदक्षराणि व्याकरोति। ओता इति। प्रत्युक्तिमादत्ते। इति पृष्ट इति॥२१॥

माऽतीत्य प्रश्नविषयं गार्गि प्राक्षीः कथंचन॥
मा ते मूर्धा व्यपप्तेति त्वामहं वारयाम्यतः॥२२॥

तां व्याचष्टे। माऽतीत्येति। आनुमानिकप्रश्नविषयमिन्द्रादिकमतिक्रम्य सूत्रमधिकृत्यानुमानेन सर्वथैव प्रश्नं मा कार्षीरित्यर्थः। मा ते मूर्धा व्यपप्तदित्यस्य तात्पर्यमाह। मा त इति। व्यपप्तेति व्यपप्तदित्यस्यांशोक्तिर्माङ्योगादटो लोपेऽपि तदभावश्छान्दसः॥२२॥

उचितोऽस्या भवेत्प्रश्नो देवता येन पृच्छ्यते॥
वर्तते यस्तमुल्लङ्घ्य सोऽतिप्रश्नोऽनुमोच्यते॥२३॥

अनतिप्रश्न्यामित्यादेरर्थं वक्तुमतिप्रश्नशब्दार्थमाह। उचित इति। सूत्रस्याऽऽगमैकगम्यत्वात्तेन प्रश्नो योग्यस्तमतिक्रान्तोऽतिप्रश्नोऽनुमेत्यर्थः॥२३॥

या तमर्हति पूर्वोक्ता साऽतिप्रश्न्येह देवता॥
तदन्यत्वादिमां त्वाहुरनतिप्रश्न्यनामिकाम्॥२४॥

प्रत्ययार्थमाह। या तमिति। अण्डान्तर्वर्तिनी देवताऽतिप्रश्न्येत्यर्थः। नातिप्रश्न्येत्यनतिप्रश्न्या सूत्रदेवता केवलागमगम्यत्वादित्याह। तदन्यत्वादिति॥२४॥

तामेतामनतिप्रश्न्यामतिप्रश्नेन साहसात्॥
पृच्छन्त्या मूर्धपातस्ते स्यादेव स्वापराधतः॥२५॥

अस्त्वनतिप्रश्न्या सूत्रदेवता किं तावतेत्याशङ्क्य वाक्यार्थमाह। तामिति॥२५॥

स्थूलान्यनुमया युक्तं प्रष्टुं तत्त्वानि कामतः॥
इयं तु न तथा स्थूला यां त्वं पृच्छसि देवताम्॥२६॥

इन्द्रादिवदनुमानेन सूत्रप्रश्ने कोऽपराधो देवतात्वाविशेषादित्याशङ्क्याऽऽह। स्थूलानीति॥२६॥

अचिन्त्या चाप्रतर्क्या च प्राणभावेन च स्थिता॥
नातोऽन्येन प्रमाणेन प्रष्टव्या देवताऽऽगमात्॥२७॥

गार्गीत्यादिनिगमनस्य तात्पर्यमाह। अचिन्त्येति। तदभावशङ्कां वारयति। प्राणेति॥२७॥

एतस्मादेव हेतोस्तां तर्कशास्त्रेषु तार्किकाः॥
नैवानुमिन्वते त्रासात्पृथिव्यादीन्यथा तथा॥२८॥

अप्रतर्क्यत्वं समर्थयते। एतस्मादिति। त्रासान्मूर्धपातभयादिति यावत्॥२८॥

प्राणोऽयमनिरुक्तो हि कस्तं निर्वक्तुमर्हति॥
मानान्तरेणाऽऽगमतो मा प्राक्षीरित्यतो वचः॥२९॥

श्लोकानामादितः समष्ट्यङ्काः—६४५९

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके तृतीयाध्यायस्य
षष्ठं गार्गिब्राह्मणम्॥६॥

प्राणस्य सूत्रात्मनः श्रुतिष्वनिरुक्तत्वप्रसिद्धेश्च नानुमेयतेत्याह। प्राणोऽयमिति। निगमनवाक्यार्थमुपसंहरति। मानान्तरेणेति॥२९॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिकटीकायां तृतीयाध्यायस्य
षष्ठं गार्गिब्राह्मणम्॥६॥

अथ सप्तमं ब्राह्मणम्।
————

यत्पिपृच्छिषितं गार्ग्या समष्टिव्यष्टिलक्षणम्॥
लिङ्गेनोद्दालकः सूत्रं तदपृच्छदथाऽऽगमात्॥१॥

पूर्वस्मिन्ब्राह्मणे सूत्रादर्वाक्तनं व्यापकमुक्तमिदानीं सूत्रं तदन्तर्गतमन्तर्यामिणं च विवक्षन्नथ हैनमित्यादेरर्थमाह। यदिति। अथेति प्रश्नवाक्यप्रतीकग्रहणम्॥१॥

तथा च तन्नियन्तारं जगज्जन्मादिकारणम्॥
आगमाद्गौतमोऽप्राक्षीद्याज्ञवल्क्यमुदारधीः॥२॥

न केवलं सूत्रमेवाप्राक्षीत्किंतु तदन्तर्गतमन्तर्यामिणं चेत्याह। तथाचेति। ज्ञातेऽज्ञाते वाऽर्थे न प्रश्नो वैयर्थ्यादशक्यत्वाच्चेत्याशङ्क्याऽऽद्ये परीक्षार्थं तदुपपत्तिमभिप्रेत्याऽऽह। उदारेति॥२॥

सूत्राद्यागमसंप्राप्तिं सोऽथाऽऽख्यानैकवर्त्मना॥
व्याचख्यौ गौतमः साक्षाद्गन्धर्वाल्लब्धवानिति॥३॥

ब्राह्मणतात्पर्यमुक्त्वाऽथाऽऽख्यायिकातात्पर्यमाह। सूत्रादीति। सूत्रान्तर्यामिज्ञानस्योपदेशात्प्राप्तिमाख्यानद्वारा स्वस्योक्तवानित्यर्थः। तज्ज्ञानस्याऽऽनुमानिकत्वासंभवं हेतूकर्तुमथशब्दः। व्याख्याप्रकारमाह। साक्षादिति। सूत्रादिज्ञानं गन्धर्वोपदेशादहं साक्षात्प्राप्तवानित्यूचिवानित्यर्थः॥३॥

ब्रह्मेह परमात्मोक्तो लोका भूरादयस्तथा॥
देवास्त्वग्न्यादयो ज्ञेया वेदाश्चैव प्र167सिद्धितः॥४॥

ब्राह्मणादितात्पर्यमुक्त्वा स ब्रह्मविदित्यादौ ब्रह्मादिपदार्थानाह। ब्रह्मेत्यादिना॥४॥

ब्रह्मादीनि च भूतानि ग्रथितान्यक्षसूत्रवत्॥
सूत्रेण ध्रियमाणानि सदैवेशयतानि च॥५॥

स भूतविदित्यस्यापुनरुक्तमर्थमाह। ब्रह्मादीनीति। यः सूत्रान्तर्यामिणौ जानाति स यथोक्तानि भूतानि वेदेत्यर्थः। ईशयतानीश्वरेण नियमितानीति यावत्॥५॥

सूत्रेण विधृतं चान्तर्यामिणा संयतं तथा॥
आत्मानं वेद भोक्तारं, वेद सर्वं जगत्तथा॥६॥

स आत्मविदित्यादेरर्थमाह। सूत्रेणेति॥६॥

सूत्रान्तर्यामिरूपेण यो वेदैतान्पुरोदितान्॥
स एव ब्रह्मलोकान्तान्वेदेत्येषोऽस्य संग्रहः॥७॥

स सर्वविदित्यस्य पूर्वेण पुनरुक्तिमाशङ्क्य तात्पर्यमाह। सूत्रेति। सूत्रेण विधृतानन्तर्यामिणा च नियमितान्पूर्वब्राह्मणोक्तान्ब्रह्मलोकान्तान्पृथिव्यादीन्यो वेद स एवोक्तं सर्व ब्रह्मादि वेदेत्येषोऽस्य स ब्रह्मविदित्यादेः संदर्भस्य संक्षेपः स सर्वविदित्युच्यते तन्न पौनरुक्त्यमित्यर्थः॥७॥

अभ्यन्तरतमं सूत्रं ब्रह्मलोकावधेरपि॥
सूक्ष्मं हि तदतीवोक्तं सर्वसत्त्वसमाश्रयम्॥८॥

सूत्रादिज्ञाने प्रस्तुतेऽपि तन्नानुमानेन प्रष्टव्यमागमैकगम्यत्वादिति कुतस्तत्राऽऽह। अभ्यन्तरतममिति। सर्वान्तरत्वादतिसूक्ष्मत्वाच्चाऽऽगमैकगम्यं सूत्रमित्यर्थः। हेतुद्वयं कथमिति चेदेष सर्वभूतान्तरात्मेत्यादिवाक्यादित्याह। उक्तमिति। तस्य सूत्रत्वं साधयति। सर्वेति॥८॥

सर्वसाधारणं कर्म यदभिव्यक्तमिष्यते॥
वाय्वात्मना परिच्छिन्नं तदास्ते कारणात्मनि॥९॥

वायुर्वै गौतमेत्यत्र वायुशब्दार्थं वक्तुं स्थलशुद्धिं करोति। सर्वसाधारणमिति। यद्धि सर्वप्राणिसाधारणं सूत्रेण यजमानावस्थायां निर्वर्तितं सामान्यविशेषात्मकं कर्मापूर्वं यजमानदेहान्ते फलदानार्थमभिव्यक्तं तत्प्रलयकाले सूत्रात्मना परिच्छिन्नं तद्रूपेण स्थितं मूलकारणे तिष्ठतीत्यर्थः॥९॥

नाऽऽत्मानं लभते कर्म यतोऽसंश्रित्य साधनम्॥
वाय्वाश्रितमतः कर्म स्वरूपं प्रतिपद्यते॥१०॥

किमिति प्रलये वाय्वात्मना परिच्छिन्नं कर्मेति विशेष्यते तत्राऽऽह। नाऽऽत्मानमिति। कर्म हि कारकमनाश्रित्य स्वातन्त्र्येण नाऽऽत्मानं धारयति साध्यमानरूपत्वादतो वायोस्तत्कारणत्वात्तदाश्रितं तदात्मानं लभते न हि स्पन्दस्यासाधारणं प्राणादृते कारणमस्ति तद्विशेषणमर्थवदित्यर्थः॥१०॥

साधारणस्य यो वायुर्विशिष्टस्य च धारकः॥
समष्टिव्यष्टिभावेन कर्मणः सर्वदेष्यते॥११॥

तं वायुं तच्च कर्मेह य उपेत्य व्यवस्थितः॥
वायुकर्माभिमा168नी सन्पुमान्वायुः169 स उच्यते॥१२॥

अस्त्वेवं प्रस्तुते किं जातं तदाह। साधारणस्येति। यो वायुः सामान्यविशेषात्मकस्य कर्मणस्तद्भावेनाऽऽश्रयः सदा मानादवगतो न हि क्रियाशक्तिमन्तं वायुमतिक्रम्यान्यत्र क्रिया युक्ता तं कर्माश्रयं वायुं तच्चाऽऽश्रितं कर्म संबन्धित्वेन प्राप्य पुंसां मध्ये यः स्थितः स तयोरात्मी170याभिमानी जीवोऽत्र फलरूपो वायुरित्यर्थः॥११॥१२॥

स एष वायुः सूत्रात्मा देवः सर्वाश्रयः प्रभुः॥
देवतालिङ्गकर्मादि सर्वमत्रैव संश्रितम्॥१३॥

तत्सूत्रमित्यत्र सूत्रं व्याचष्टे। स एषेति। कथं वायोः सूत्रत्वं तत्राऽऽह। सर्वाश्रय इति। देवत्वं साधयति। प्रभुरिति। सर्वाश्रयत्वं व्यनक्ति। देवतेति॥१३॥

अनेन विधृतं जन्म वायुनेदं शरीरकम्॥
यच्चोत्पित्सु परं जन्म धृतं तदपि वायुना॥१४॥

वायुनेत्यादेरर्थमाह। अनेनेति॥१४॥

विष्टम्भकं पृथिव्यादेः सूक्ष्ममाकाशवत्स्थितम्॥
यदात्मकमिदं लिङ्गं यत्सप्तदशमुच्यते॥१५॥

सर्वाणि चेत्यादि व्याचष्टे। विष्टम्भकमिति। किं तदाकाशवदवस्थितं तदाह। यदात्मकमिति। लिङ्गं विशिनष्टि। यदिति॥१५॥

यस्याऽऽवहादयो भेदाः सागरस्योर्मयो यथा॥
वासनानां व सर्वासामाश्रयो यस्तु कथ्यते॥१६॥

वायोरेव विशेषणान्तरम्। यस्येति। आवहप्रवहनिवहसंवहोद्वहा इत्यादयः। वायुः सूत्रं वायुना सूत्रेणेत्यनयोरर्थभेदं निरसितुमुक्तकर्माश्रयत्वं स्मारयति। वासनानामिति। तदेतद्वायुतत्त्वं सर्वविधारकं सूत्रमिति शेषः॥१६॥

यत एवमयं लोकः परश्चायं च सर्वतः॥
भूतानि चैव सर्वाणि वायुना ग्रथितान्यतः॥१७॥

वायुनेत्यादिवाक्यार्थमुपसंहरति। यत इति। अयं वायुरुक्तरीत्या सर्वस्य यतो धारकोऽतो वायुनाऽयं लोकः परश्च लोकः सर्वाणि च भूतानि सर्वतो ग्रथितानीति योजना॥१७॥

तस्यापसर्पणेऽङ्गानि नालं स्युः कर्मणे मृतौ॥
इत्यर्थे लोकसंसिद्धां प्रसिद्धिं श्रुतिरब्रवीत्॥१८॥

तस्मादित्यादेस्तात्पर्यमाह। तस्येति। प्राणात्मनो वायोरिति यावत्॥१८॥

वायुनैव धृताङ्गानीत्यत्र लो171केऽपि विद्यते॥
प्रसिद्धिरिति तामाह तस्मादित्येवमादिना॥१९॥

प्रसिद्ध्यनुवादिनीं श्रुतिमादत्ते। वायुनेति। धृताङ्गानि भूतानीति शेषः॥१९॥

वायुनैव धृतं यस्माल्लिङ्गदेहादिकं ततः॥
ज्ञातयः पुरुषं प्रेतमाहुः कार्यं मृतेरिदम्॥२०॥

तस्मादित्यस्यार्थमाह। वायुनेति। पुरुषमित्यादेरर्थमाह। ज्ञातय इति। वायोः सर्वाधारत्वात्प्रेतं पुरुषं दृष्ट्वा प्राणत्यागस्य लिङ्गमेतदाहुरित्यर्थः॥२०॥

यथाऽस्याङ्गानि लक्ष्यन्ते विस्रस्तानि न पूर्ववत्॥
मृतमेनं तथा मन्येनेदृक्चिह्नं मृतिं विना॥२१॥

किं तदित्यपेक्षायां व्यस्रंसिषतेत्यादेरर्थमाह। यथेति। ज्ञातीनां प्रत्येकं मृतं प्रति वचनमिति दर्शयितुमुत्तमपुरुषैकवचनप्रयोगः॥२१॥

वायुनैव यथाऽङ्गानि संदृब्धानि यदा तदा॥
कर्मण्यानि भवन्त्यस्य न तु तानि तथा यतः॥२२॥

तस्मात्प्रवसितप्राणो मृतोऽयं नात्र संशयः॥
यथोक्तसूत्रसद्भावे प्रसिद्धिर्गौतमेदृशी॥२३॥

उक्तं मृतिलक्षणं प्रपञ्चयति। वायुनेति। यदाऽङ्गानि प्राणेन धृतानि तदा यथा तानि स्वव्यापारक्षमाणि न तथेदानीमस्याङ्गानि कर्मार्हाण्यतोऽयमप्राणो मृत इति चाऽऽहुरित्यर्थः। वायुना हीत्यादिप्रसिद्धिनिगमनतात्पर्यमाह। यथोक्तेति॥२२॥२३॥

सम्यगुक्तमिदं सूत्रं याज्ञवल्क्य यथा तथा॥
तदन्तर्गतमात्मानं ब्रूह्यन्तर्यामिणं मम॥२४॥

एवमेवेत्यादेरर्थमाह। सम्यगिति। यथा सूत्रमुक्तं तथा तदन्तर्गतं ममाऽऽत्मानमिति संबन्धः॥२४॥

सूत्रादप्यन्तरतमस्त्वन्तर्याम्यधुनोच्यते॥
कार्यकारणभावोऽयं यस्मिन्नुक्ते समाप्यते॥२५॥

यः पृथिव्यामित्यादिसंदर्भस्य तात्पर्यमाह। सूत्रादिति। तस्मिन्नुक्तेऽपि वक्तव्यशेषमाशङ्क्याऽऽह। कार्येति। सोऽयमुच्यत इति पूर्वेण संबन्धः॥२९॥

तिष्ठन्पृथिव्यां योऽत्र स्यात्सोऽन्तर्यामीति गृह्यताम्॥
इत्युक्तावतिसंव्याप्तिप्रसक्तावुत्तरं वचः॥२६॥

यः पृथिव्यामित्याद्यक्षराणि योजयति। तिष्ठन्निति। पृथिव्यां तिष्ठन्नन्तर्यामीत्युक्ते सर्वोऽपि तथेति सर्वान्तर्यामित्वप्राप्तावुत्तरं वाक्यमित्याह। इत्युक्ताविति॥२६॥

अन्तरो यः पृथिव्याः स्यात्क्षितेरभ्यन्तरो हि यः॥२७॥

पृथिवी देवता तर्हि त्वदुक्तार्थसमन्वयात्॥
इतिदोषापनुत्त्यर्थं यं न वेदेति भण्यते॥२८॥

तदादाय व्याकरोति। अन्तर इति। क्षितेरचेतनत्वेन नियन्त्रपेक्षां सूचयितुं हि शब्दः। सोऽन्तर्यामीति संबन्धः। यं पृथिवीत्यादि शङ्कापूर्वकमादत्ते। पृथिवीति। त्वदुक्तार्थस्य क्षितेरान्तरत्वस्य तद्देवतायाः सत्त्वादित्यर्थः॥२७॥२८॥

सूत्रेण ध्रियमाणेयं महाभूतशरीरिणी॥
अहमस्मि पृथिव्येका बिभर्मि जगदव्ययम्॥
इत्येवमभिमाना या नान्तर्यामीति सोच्यते॥२९॥

पृथिवीशब्दार्थोक्तिपूर्वकं तस्या नान्तर्यामितेति प्रतिजानीते। सूत्रेणेति। अव्ययमिति क्रियाविशेषणम्॥२९॥

पृथिव्यपि च यं देवं न वेद स्वात्मनि स्थितम्।
सोऽन्तर्यामीति मन्तव्यो न त्वियं देवता क्षितिः॥३०॥

तदेव वाक्ययोजनया द्रढयति।पृथिवीति॥३०॥

क्षितौकरणवत्यां किमन्योऽपि करणादिमान्॥
नैवं यतः पृथिव्येव शरीरं यस्य नापरम्॥३१॥

यस्य पृथिवी शरीरमित्यस्य शङ्कामाह। क्षिताविति। सा हि कार्यकरणवती तस्यामन्यो नियन्ता चेत्सोऽपि राजादिवत्तद्वान्वाच्यस्तथाच नासावीशोऽस्मदादिवदित्यर्थः। ईशस्य न स्वतस्तद्वत्तेत्याह। नैवमिति। तत्र हेतुत्वेन वाक्यमादत्ते। यत इति॥३१॥

क्ष्माकार्यकरणेनैव कार्यवान्करणी च यः॥
न कार्यं करणं चास्य किंचिदात्मीयमिष्यते॥३२॥

तद्व्याचष्टे। क्ष्मेति। सोऽन्तर्यामीति शेषः। स्वाभाविकमस्य तद्वत्त्वं किं न स्यादित्याशङ्क्यन तस्य कार्यं करणं चेति श्रुत्यन्तरेणाऽऽह। नेति॥३२॥

अन्तर्यामी परः साक्षादशरीरोऽगुणोऽद्वयः॥
विलक्षणोऽतो विज्ञेयः पृथिवीदेवतात्मनः॥३३॥

तथाऽपि कुतः स172देवतातोऽर्थान्तरं तत्राऽऽह। अन्तर्यामीति॥३३॥

स्वकार्यभूतां तामेव पृथिवीं मोहवर्त्मना॥
तत्रलब्धविशेषः संस्तामेवायं173नियच्छति॥३४॥

यः पृथिवीमित्यादेरर्थमाह। स्वकार्येति। परो हि पृथिवीं स्वमोहद्वारैव करोति कृत्वा च तामेव प्रविश्य तत्र प्राप्तकार्यकरणः सन्नियच्छतीति योजना॥३४॥

अदाहकोऽपि वह्निः सन्दाह्यद्रव्यसमाश्रयात्॥
तत्र लब्धात्मकस्तस्य दग्धा दाह्यस्य न स्वतः॥३५॥

यथा ज्ञातैवमेवाऽऽत्मा देवताद्यात्मकार्यगः॥
देवतादिशरीराद्यैर्देवतादीन्नियच्छति॥३६॥

ननु परस्य स्वतो नियन्तृत्वं न वाऽऽद्ये नियम्यकार्यकरणापेक्षानुपपत्तिर्द्वितीये तदपेक्षयाऽपि तदसिद्धिरित्याशङ्क्यदृष्टान्तमाह। अदाहकोऽपीति। तत्र काष्ठादाविति यावत्। लब्धात्मकत्वं जाज्वल्यमानत्वम्। दार्ष्टान्तिकमाह। ज्ञातेति। उक्तदृष्टान्तानुसारेण चिद्धातुर्नियन्तव्यदेवताभूतादिस्वमोहकृतकार्यगतो देवतादीनि तदीयकार्यकरणैरेव नियच्छतीति योजना॥३५॥३६॥

स्वतस्त्वकरणोऽदेहोनिर्गुणोऽभेद एव च॥
चिदाभासस्वमोहोत्थकार्यैस्तद्वानिवेक्ष्यते॥३७॥

स्वकीयकरणादिभिर्नियन्तृत्वसंभवे किं परापेक्षयेत्याशङ्क्याऽऽह। स्वतस्त्विति। स्वतः कार्यादिहीनश्चेत्कथं तद्वत्त्वधीस्तत्राऽऽह। चिदिति॥३७॥

चतुर्धा प्रविभज्यैनं सात्वताः पर्युपासते॥
तथा हैरण्यगर्भीयास्तथा पाशुपतादयः॥३८॥

उक्तेऽन्तर्यामिणि पञ्चरात्रिणां संमतिमाह। चतुर्धेति। वासुदेवसंकर्षणप्रद्युम्नानिरुद्धात्मनेति यावत्। उक्तं हि

**‘परं ब्रह्म परं धाम चतुरात्मकमव्ययम्’**इति।
**‘प्रीणयेद्वासुदेवं च मूर्तित्रयसमन्वितम्’**इति च॥

अन्योऽप्याह—

**“या वै सर्वेश्वरी शक्तिरीश्वराख्या नियामिका।
ज्ञानादिभेदभिन्नेन आद्येन चतुरात्मना”**इति॥

“अन्तर्यामी च सर्वेषां देवानां पुरुषोत्तमः”इति च

भागवतवद्योगशास्त्रविदोऽपि स्वशास्त्रोक्तक्रमेण कार्यकार174णादिभावेन तं विभज्यध्यायन्तीत्याह। तथेतिउक्तं हीश्वरप्रणिधानाद्वा क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरस्तत्र निरतिशयं सर्वज्ञबीजं स पूर्वेषामपि गुरुरित्यादि। तत्रैव माहेश्वरसंमतिमाह। तथेतियथोक्तम्

“निरञ्जने परे व्योम्नि नित्यस्थः कारणोऽव्ययः।
साञ्जनं शक्तिकरणैरधितिष्ठति शंकरः॥

**स्थितौ स कारकानेतान्समाक्रम्य स्वतेजसा।
युनक्ति स्वार्थसिद्ध्यर्थं भूतैरनभिलक्षितः” **इति॥

आदिशब्देन सर्वे सेश्वरवादिनो गृह्यन्ते॥३८॥

कृष्णदैयपानोव्यासो वेदात्मा ध्वान्तहानिकृत्॥
प्राहेममेव बहुशः प्राणिनां हितकाम्यया॥३९॥

तत्रैव व्याससंमतिमाह। कृष्णेति॥३९॥

नारायणः परोऽव्यक्तादण्डमव्यक्तसंभवम्॥
अण्डस्यान्तस्त्विमे लोकाः सप्तद्वीपा च मेदिनी॥४०॥

कथमाहेति तदाह। नारायण इति। कथं तर्हि तस्य कारणत्वमज्ञानद्वारेत्याह। अण्डमिति। भूरादिलोकानां हेत्वन्तरं वारयति। अण्डस्येति। तानेव विशेषतो दर्शयति। सप्तेति। चशब्दोऽनुक्तलोकसमुच्चयार्थः॥४०॥

तस्मै नमोऽस्तु देवाय निर्गुणाय गुणात्मने॥
नारायणाय विश्वाय देवानां परमात्मने॥४१॥

किमित्यन्तर्यामी नारायणो निर्दिश्यते सर्वपुरुषार्थहेतुप्रकटी175भावविषयत्वेनेत्याह। तस्मा इति॥४१॥

एतमेव समुद्दिश्य मन्त्रोनारायणस्तथा॥
वेदविद्भिर्महाप्राज्ञैः पुरुषैर्विनियुज्यते॥४२॥

न केवलं पुराणागमाभ्यामेव सोऽधिगम्यते किंतु श्रुत्यक्षरैरपीत्याह। एतमेवेतिसहस्रशीर्षं देवं विश्वाक्षं176 विश्वशंभुवम्177। विश्वं नारायणं देवमक्षरं परमं पदमित्यादिर्मन्त्रोवेदार्थविद्भिरन्तर्यामिणमुद्दिश्य विनियुक्तोऽतः स वैदिक इत्यर्थः॥४२॥

प्रत्यग्ध्वान्तं चिदाभासं स्वकार्यनियमात्मकम्॥
तदुपाधिर्नियन्तैष परः प्रोक्तो न तु स्वतः॥४३॥

केचित्तु निरुपाधिकमेव परमन्तर्यामिणमाहुस्तान्प्रत्याह।प्रत्यगिति। चिदाभासाक्रान्तं प्रत्यगज्ञानं स्वकीयविवर्तनियमनरूपमिष्टमेव तदुपहितश्च परमात्मा नियन्तोच्यते न स्वतस्तस्य नियन्तृत्वं निर्व्यापारत्वादित्यर्थः। सोपाधिकस्यैवान्तर्यामित्वं स्फुटी करिष्यति॥४३॥

सर्वज्ञः सर्वशक्तिश्चसर्वात्मा सर्वगो ध्रुवः॥
जगज्जनिस्थितिध्वंसहेतुरेष सदेश्वरः॥४४॥

निरुपाधिकस्य सर्वज्ञत्वादिवदन्तर्यामित्वमपि किं न स्यादित्याशङ्क्यदृष्टान्तासिद्धिमाह। सर्वज्ञ इति। सर्वात्मत्वादौ हेतुः। जगदिति। अत्र च सर्वज्ञत्वादि हेतुः। सदाशब्दः सर्वत्र संबध्यते॥४४॥

स एषोऽभ्यन्तरो देवः सर्वकारणकारणः॥
नियच्छति क्षितिं देवीं सर्वावस्थासु सर्वदा॥४५॥

यः पृथिवीमित्यादेरर्थमुक्त्वैष त आत्मेत्यादेरर्थमाह। स एष इति। सर्वस्य

कारणं सूत्रं तस्यापि कारणत्वेन स्थितो देवः सर्वासु स्वव्यापारस्थितिषु सदा पृथिवीं देवतामभ्यन्तरः सन्यो नियच्छति स त्वया बुभुत्सितोऽन्तर्यामी स च सर्वेषामात्मेत्यर्थः॥४५॥

तेजःसामान्यमात्रं स्यात्तदधिष्ठातृदेवता॥
एवं तमस्यपि ज्ञेयं क्षेत्रज्ञश्चाऽऽत्मसंज्ञितः॥४६॥

प्रथमपर्यायस्योत्तरपर्यायाणां तुल्यत्वादव्याख्येयत्वं मत्वा यस्तेजसीत्यत्र तेजःशब्दस्य प्रकाशसामान्यविषयत्वमाह। तेज इति। यत्तेजो न वेदेत्यत्र विवक्षितमाह। तदिति। यस्तमसीत्यत्र तमःशब्देन तेजोविपरीतमप्रकाशमात्रं गृह्यते। यं तमो न वेदेति च तदधिष्ठातृदेवतेत्याह। एवमिति। य आत्मनि तिष्ठन्निति माध्यंदिनास्तत्राऽऽत्मशब्दार्थमाह। क्षेत्रज्ञश्चेति॥४६॥

देवतास्थानकरणत्रयं प्राणगिरोच्यते॥
नियच्छति यतो गन्धे त्रयमप्येतदीश्वरः॥४७॥

यः प्राणे तिष्ठन्नित्यत्र प्राणं व्याचष्टे। देवतेति। प्राणशब्देन घ्राणग्रहणम्। देवतादेरपि हेतुमाह। नियच्छतीति। एतेन यो वाचीत्यादि व्याख्यातम्॥४७॥

पृथिवी यं न वेदेति यदुक्तं तस्य निर्णयः॥
अदृष्टोऽश्रुत इत्युक्त्या क्रियते ज्ञानशुद्धये॥४८॥

अदृष्टो द्रष्टेत्यादेस्तात्पर्यमाह। पृथिवीति। यं पृथिवी न वेदेत्यादिना पृथिव्यादिक्षेत्रज्ञो नान्तर्यामिणं जानातीत्युक्तम्। स हि महाभागधेयः स्वात्मनिष्ठमन्तर्यामिणं कुतो न विद्यादित्याशङ्क्यतस्याविषयत्वमनन्तरश्रुत्या निश्चीयते विनाऽपि विषयत्वं तत्स्वरूपं ज्ञातुं शक्यमिति ज्ञापयितुमित्यर्थः॥४८॥

द्रष्टृदर्शनदृश्यानां प्रत्यग्दृष्टिसमीक्षणे॥
जाड्यपारार्थ्यहेतुभ्यां शक्तिर्नास्ति मनागपि॥४९॥

कस्मादस्मदादिवदन्तर्यामी न विषयस्तत्राऽऽह। द्रष्ट्रिति॥४९॥

न द्रष्ट्रोर्दृश्ययोर्नापि तथा दर्शनयोर्मिथः॥
ग्राह्यग्राहकसंबन्धस्तत्साक्षी न च वीक्ष्यते॥५०॥

किंच द्रष्ट्रादेरन्योन्याग्राह्यत्वेनान्तर्यामिग्राह्यत्वान्न तस्य तैर्ग्राह्यतेत्याह। नेत्यादिना। द्रष्ट्रोर्वा दृश्ययोर्वा दर्शनयोर्वा न मिथो ग्राह्यग्राहकत्वं समत्वात्तेषां द्रष्ट्रादीनां साक्ष्यन्तर्यामी तैश्च विषयैर्न दृश्यत इत्यर्थः॥५०॥

रूपादिदर्शनान्त178स्थ आगमापायसाक्ष्यसौ।
नित्यात्मदृष्टिश्चिन्मात्रः पश्येत्तं पृथिवी कथम्॥५१॥

तत्रैव हेत्वन्तरमाह। रूपादीति। स्वीयरूपादिज्ञानसाक्षित्वात्तदागमापायसाक्षित्वादान्तरत्वाच्चिन्मात्रतया नित्यात्मदृष्टित्वाच्चान्तर्यामिणं पृथिव्यादिक्षेत्रज्ञो न क्षमो वीक्षितुमित्यर्थः॥५१॥

मागोचरातिवर्तित्वादसाधारणदृष्टितः॥
द्रष्टुरन्यस्य चाभावान्न तं पश्यन्ति देवताः॥५२॥

इतश्चास्याविषयतेत्याह। मागोचरेति। शब्दादिहीनत्वात्स्वप्रकाशत्वाद्द्रष्ट्रन्तराभावाच्च न साक्षिणो ग्राह्यतेत्यर्थः॥५२॥

दृष्टेर्द्रष्टारमित्यत्र यः साक्षी प्रागुदाहृतः॥
अन्तर्यामीति सोऽत्रापि नातोऽन्योऽस्तीति भण्यते॥५३॥

अदृष्टो द्रष्टेतिवाक्यार्थमुक्त्वाऽन्ये नियन्तव्या विज्ञातारोऽन्यो नियन्ताऽन्तर्यामीति भेदशङ्कायां नान्योऽतोऽस्तीत्याद्यवतारयति। दृष्टेरिति॥५३॥

बुद्ध्यन्तः पर एवाऽऽत्मा विज्ञानात्मेति भण्यते॥
बुद्ध्यागमापायसाक्षी नियन्तैवोच्यते परः॥५४॥

भेदो नास्ति चेत्कस्तर्हि ज्ञाता तत्राऽऽह। बुद्ध्यन्त इति। परश्चेद्बुद्ध्युपाधिर्ज्ञाता कथं सोऽन्तर्यामी नियन्तव्याभावात्तत्राऽऽह। बुद्धीति। एवशब्दः परशब्दसंबन्धी॥५४॥

अव्यावृत्ताननुगतः पूर्णः स्वात्मन्यवस्थितः॥
संसारहेत्वसंबन्धः सर्वो ब्रह्मेति भण्यते॥५५॥

कथं तर्हि तस्य निर्विशेषत्वं तत्राऽऽह। अव्यावृत्तेति। कर्तृत्वनियन्तृत्वादिव्युदासेन सर्वश्चिद्धातुरनवच्छिन्नब्रह्मरूपेण स्वमहिमस्थितो यदेष्टस्तदा बन्धतद्धेतुसंबन्धशून्यश्चिदात्मा निर्विशेषं ब्रह्मेति व्यपदेशमर्हतीत्यर्थः॥५५॥

कार्यकारणरूपस्य संसारस्य मृषात्मनः॥
अपूर्वानपरानन्ततत्त्वं ब्रह्मैव वाक्यतः॥५६॥

बन्धाद्यसंबन्धीत्युक्तत्वात्तस्य पृथगवस्थानमाशङ्क्याऽऽह। कार्येति। इदं सर्वमित्यादिवाक्यादित्यर्थः॥५६॥

पृथिव्यादेश्चद्रष्टृत्वं तथाऽन्तर्यामिणः श्रुतम्॥
दृष्टृभेदः प्रसक्तोऽतो नान्योऽतोऽस्तीति भण्यते॥५७॥

नेत्यादिवाक्यतात्पर्यं निगमयति। पृथिव्यादेश्चेति। अतः कार्यकारणात्मकजगतो ब्रह्मातिरेकेणाभावादित्यर्थः॥५७॥

एष एवैकलोद्रष्टा कारकादिविवर्जितः॥
संभाव्यते तदज्ञानकार्यमात्रस्तमस्विभिः॥५८॥

द्रष्ट्रादेरन्यस्याभावे कथं तद्भेदधीस्तत्राऽऽह। एष इति॥५८॥

मां प्रत्येवैतीह यथाऽसाधारण्येन भास्करम्॥
संभावयन्ति द्रष्टारस्तथाऽज्ञास्तदबोधजैः॥५९॥

अद्वयश्चिद्धातुः स्वाज्ञानजबुद्ध्याद्यवच्छिन्नो बहुधाऽऽरोपितो मूढैरित्येतद्दृष्टान्तेन साधयति। मामिति। यथा लोके सवितुः सर्वसाधारण्येऽपि मां प्रत्येवाभिमुखस्तिष्ठति स्वासाधारण्येन तमारोपयन्ति द्रष्टारस्तथा मूढाः स्वाविद्योत्थबुद्ध्यादिभिरात्मानं बहुधा कल्पयन्तीत्यर्थः॥५९॥

दृष्टिरेकैव सर्वत्र सर्वानात्मविलक्षणा॥
आभाति बहुधैवेयं तदविद्योत्थहेतुभिः॥६०॥

श्लोकानामादितः समष्ट्यङ्काः—६५१९

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके तृतीयाध्यायस्य
सप्तममन्तर्यामिब्राह्मणम्॥७॥

अद्वया प्रत्यग्दृष्टिरविद्ययाऽनेकधा भातीत्युक्तमुपसंहरति। दृष्टिरिति॥६०॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिकटीकायां तृतीयाध्यायस्य सप्तममन्तर्यामिब्राह्मणम्॥७॥

——————————

अथाष्टमं ब्राह्मणम्।

——————————

अशनायादिनिर्मुक्तं साक्षादित्यादिलक्षणम्॥
अतोऽक्षरं प्रवक्तव्यं निरुपाध्यात्मनि स्थितम्॥१॥

पूर्वस्मिन्ब्राह्मणे सूत्रान्तर्यामिणौप्रश्नप्रत्युक्तिभ्यांनिर्धारितौ संप्रत्युत्तरब्राह्मणतात्पर्यमाह। अशनायादीति। सोपाधिकत्वेनान्तर्यामिरूपस्य हेयत्वात्तज्ज्ञानात्पुमर्थासमाप्तेर्निरुपाध्यक्षरज्ञानादेव तत्समाप्तेरप्रपञ्चमक्षरं साक्षात्त्वादिविशेषणं वाक्यार्थरूपं वाच्यमित्यक्षरब्राह्मणोत्थानामित्यर्थः॥१॥

यदुद्दिश्य प्रवृत्तैषाव्याख्या सर्वान्तरं प्रति॥
तदक्षरं प्रवक्तव्यमित्यर्थैषोत्तरा श्रुतिः॥२॥

सर्वान्तर्या179मिणि व्याख्याते व्याख्येयं नावशिष्यते तदन्याक्षराभावादित्याशङ्क्यसंगृहीतं विवृणोति। यदुद्दिश्येति॥२॥

गौतमेनपुरा पृ180ष्टे सूत्रान्तर्यामिवस्तुनी॥
ओतप्रोतात्मतां गार्गी तयोरेवान्वपृच्छत॥३॥

पूर्वेणोत्तरस्यागतार्थत्वमाह। गौतमेनेति। सूत्रादिस्वरूपमेव प्राङ्निर्णीतं न तत्र व्याप्यव्यापकभावः संप्रति सूत्रस्याव्याकृतमाकाशान्तस्य चाक्षरं व्यापकमिति निर्णीयते तदर्थभेदसिद्धिरित्यर्थः॥३॥

दिवो यदूर्ध्वंवस्तु स्यात्सद्वाऽसद्वा विशेषितम्॥
अर्वाग्यच्च कपालात्स्यान्मध्ये यच्च कपालयोः॥४॥

ब्राह्मणस्य तात्पर्यमगतार्थत्वं चोक्त्वा यदित्यादेरर्थमाह। दिव इति। तत्सर्वं सूत्रात्मकं कस्मिन्नोतं च प्रोतं चेति संबन्धः॥४॥

ऊर्ध्वं दिवः कपालाद्यदधो यच्चाधरात्पुटात्॥
यस्य मध्ये कपाले ते यच्च भूतादिलक्षणम्॥५॥

ऊर्ध्वादिशब्दस्य तत्तद्देशस्थार्थविषयत्वमुक्त्वा देशविषयमर्थान्तरमाह। ऊर्ध्वमिति। अत्रापि पूर्ववदन्वयः॥५॥

पदार्थगतिमेवं वा व्याचक्षीताविरोधतः॥
भूतं यत्समतिक्रान्तं भवद्यदधुनातनम्॥६॥

भविष्यच्च यदागामि नातीतं नापि वर्तते॥
इत्याचक्षत इत्युक्त्याऽनुमादोषोऽपनुद्यते॥७॥

न द्वितीयोऽर्थो भाष्येऽनुक्तेरित्याशङ्क्याऽऽह। पदार्थेति। भाष्यानुक्तोऽपि पदार्थो वाक्यार्थाविरोधित्वाद्दृश्यते चेन्न क्षतिरित्यर्थः। यच्च भूतादिलक्षणमित्युक्तं व्यनक्ति। भूतमिति। अन्वयस्तु पूर्ववत्। इत्याचक्षत इत्यस्यार्थमाह। इतीति॥६॥७॥

एतदेवंविधं सूत्रमागमज्ञाः प्रचक्षते ॥
ओतं प्रोतं च तत्कस्मिन्निति पृष्टो ब्रवीहि मे॥८॥

आगमैकगम्यस्य सूत्रस्यानुमेयत्वं प्रजापतिलोकादिवदयुक्तमितिशङ्कितदोषनिरासार्थमेतदिति तात्पर्यमुक्त्वा तदक्षरार्थमाह। एतदिति। श्रुत्यर्थं जानन्तः सर्वं जगद्भूतादिरूपं सूत्रमिति वदन्तीत्यर्थः। कस्मिन्नित्यादेरर्थमाह। ओतमिति। ब्रवीहीति च्छान्दसं ब्रूहीत्येतत्॥८॥

सूत्रे तावदिदं सर्वमोतं च प्रोतमेव च॥
वर्तमाने जगत्काल इति तावत्सुनिश्चितम्॥९॥

ससूत्रस्य जगतोऽत्राऽऽश्रयः पृच्छयते स च प्रश्नो वर्तमानकाले वाऽतीतानागतयोर्वेति संशये द्वितीयमादातुमाद्यं दूषयति। सूत्र इति। प्राणाख्यसूत्रस्य देहादपसर्पणे देहाङ्गानां विस्रंसनदृष्टेरन्वयव्यतिरेकाभ्यां ततोऽर्वाक्तनस्य तदाश्रयत्वं तस्य च सदाश्रयत्वं वर्तमानकाले तावन्निश्चितं वायौ सद्बुद्धिदर्शनादतो नाऽऽद्यकल्पोपपत्तिरित्यर्थः। प्रतिज्ञाद्योती द्वितीयस्तावच्छब्दः॥९॥

जगच्चाप्यनभिव्यक्तमाविर्भवति सांप्रतम्॥
व्यक्तिश्चेयं सतो युक्ता नासतो घटते यतः॥१०॥

कालान्तरेऽपि जगदाश्रयो न प्रष्टव्यो नाशादूर्ध्वं प्रागुत्पत्तेश्च तस्यासत्त्वादित्याशङ्क्याऽऽह। जगच्चेति। प्रागुत्पत्तेः सदपि जगदव्यक्तं जन्मकाले नामरूपाभ्यांव्यज्यतेऽतो न भूतकाले तदसत्तेत्यर्थः। असदेव व्यज्यतामिति चेन्नेत्याह। व्यक्तिश्चेति॥१०॥

अभिव्यक्तं च सदिदं पुनरव्यक्ततामितम्॥
वायुना विधृतं तस्य रूपं यद्वार्तमानिकम्॥११॥

प्रागुत्पत्तेरत्यन्तासत्त्वाशङ्कां जगतो निरस्य नाशादूर्ध्वमपि तां निरस्यति। अभिव्यक्तं चेति। अतीतानागतकालयोर्जगतः सत्त्वमुक्त्वा फलितं प्रश्नं वक्तुं पूर्वोक्तमनुवदति। वायुनेति॥११॥

अतीतानागतयोस्तु कालयोर्जगदात्मनः॥
सत्ता येनाऽऽत्मना कस्मिन्नोता प्रोतेति भण्यताम्॥१२॥

कालद्वयेऽपि जगदाश्रयप्रश्नं परिशिष्टमाचष्टे। अतीतेति। वर्तमानकाले जगतः सत्ता येन सूत्रात्मना विहिता सा तेन सहावर्तमानकाले कस्मिन्नोतप्रोतत्वेन स्थितेति प्रश्नार्थः॥१२॥

प्रत्युच्चार्याथ गार्ग्योक्त181माकाशे प्राब्रवीदृषिः।
ओतप्रोतकतां182 वायोर्जगतोऽसौ प्रयत्नतः॥१३॥

प्रत्युक्तिमादत्ते। प्रत्युच्चार्येति। अनुवादाभावे निग्रहप्रसक्तेरनुवादस्याऽऽवश्यकत्वं दर्शयितुमथेत्युक्तम्। प्रयत्नस्तु प्रश्नाभ्यासद्वारा प्रत्युक्तेरभ्यासः॥१३॥

क्ष्माद्येतत्सूत्रपर्यन्तं नाशादूर्ध्वं जनेः पुरा॥
आकाशे तदविज्ञातं सत्तामात्रेण विद्यते183॥१४॥

तां विभजते। क्ष्मादीति॥१४॥

यावद्धि जनिमत्किंचिन्नामादिप्रविभागवत्॥
आकाशस्तस्य सर्वस्य तत्त्वमत्र विवक्षितम्॥१५॥

तस्या विवक्षितमर्थमाह। यावद्धीति। नामरूपकर्मात्मनो जनिमतो जगतोऽतिरिक्तं कार्यमप्रसिद्धमिति हिशब्दार्थः ॥१५॥

व्यतिरेकं सतो नेदं लभतेऽनात्मकत्वतः॥
नाप्यन्वयं तदव्याप्तेर्नाप्यभावः सतीष्यते॥१६॥

अज्ञातं ब्रह्मैव जगतस्तत्त्वमित्येतदुपपादयितुं कल्पितत्वं तस्य साधयति। व्यतिरे-

कमिति। अनात्मकत्वतो निःस्वरूपप्रसङ्गादिति यावत्। तदव्याप्तेर्जडस्याजडेन तादात्म्यायोगान्मिथो विरोधादित्यर्थः। अतुच्छत्वे दृश्यत्वं हेतुः॥१६॥

सदतो जनिमत्तत्त्वं सर्पादे रशना यथा॥
सत्तत्त्वव्यतिरेकेण नान्या जनिमतो गतिः॥१७॥

अन्वयव्यतिरेकाभावपरिहारेण सदेव जगतस्तत्त्वमिति फलितमाह। सदिति। अतःशब्दार्थं स्पष्टयति। सत्तत्त्वेति॥ १७॥

सदेवेदमतः सर्वमुद्भूतिस्थितिहानिषु॥
सदेवेति तथा स्पष्टं छान्दोग्योपनिषद्वचः॥१८॥

स्थितिकाले जगतः सद्रूपत्वेऽपि कालान्तरे नैवमित्याशङ्क्याऽऽह। सदेवेति। गत्यन्तराभावोऽतःशब्दार्थः। कालत्रयेऽपि जगतः सदेव तत्त्वमित्यत्र मानमाह। सदिति॥१८॥

अर्वागेवाक्षराज्ज्ञेया सत्तेयं जगतो निधिः॥
कार्यकारणनिर्मुक्तमक्षरं वक्ष्यते यतः॥१९॥

अज्ञातं सदेव जगतस्तत्त्वं चेत्तस्मात्परं तत्त्वं नास्तीत्याशङ्क्याऽऽह। अर्वागिति। निधिर्निदानम्॥१९॥

सर्वशक्तिरियं शक्तिर्या सदित्यभिधीयते॥
न च सत्तेति सामान्यं प्रत्ययार्थासमीक्षणात्॥२०॥

न सत्ता जगतो निधिस्तस्यास्तद्धेतुत्वे मानाभावादित्याशङ्क्याऽऽह। सर्वशक्तिरिति। सदेव सोम्येत्यारभ्य या शक्तिः सच्छब्दवाच्या तेजोबन्नानामीक्षणपूर्वंस्रष्टृत्वेनोच्यते सा सर्वस्य जगतः शक्तिरुपादानमागमप्रामाण्यादित्यर्थः। सतो भावः सत्तेति व्युत्पत्तेः सत्तायाः सामान्यात्मत्वेनोपादानत्वायोगादागमस्यान्यपरतेत्याशङ्क्याऽऽह। न चेति॥२०॥

न सतो व्यतिरेकेण सतोऽन्यो भाव ईक्ष्यते॥
अप्यभावो न लभते किमु भावोऽतिरेकताम्॥२१॥

प्रत्ययार्थो भावस्तस्य सदतिरिक्तस्यासमीक्षणं कथमिति तत्राऽऽह। नेति। सदन्यभावाभावेऽनुभवाभावं हेतुमुक्त्वा युक्तिमाह। अप्यभाव इति॥२१॥

सदन्यबुद्धिगम्यस्य श्रुतिस्तस्मादनेकशः॥
अब्रवीद्भ्रान्तिमात्रत्वं मृत्तिकादिनिदर्शनैः॥२२॥

तदनुग्राह्यं मानं सूचयति। सदिति। घटादेर्मृदाद्यतिरेकेणाभाववज्जगतो मूलकारणाद्भेदेनाभावं वदन्ती वाचारम्भणश्रुतिर्भावाभावात्मकस्य सदतिरेकाद्यसंभवाद्भ्रान्तिमात्रत्वमाहेत्यर्थः॥२२॥

आकाशवचसाऽऽत्मैव ज्ञेयो नान्योऽत्र कश्चन॥
सर्वान्तरत्वं नान्यस्य युज्यतेऽनात्मनो यतः॥२३॥

आकाशे तदोतं चेत्यत्राऽऽकाशशब्देनाज्ञातं ब्रह्म विवक्षितमित्युक्तमन्ये त्वाकाशशब्देनाव्याकृतमादाय ततोऽभ्यन्तरमन्तर्यामिणं कल्पयन्तस्ताभ्यामन्यत्तत्त्वान्तरं परमात्मानमाहुस्तान्प्रत्याह। आकाशेति। जगतः ससूत्रस्याऽऽन्तरत्वेन श्रुतमाकाशं नाज्ञाताद्ब्रह्मणोऽर्थान्तरं सर्वान्तरत्वस्यान्यत्रायोगादित्यर्थः॥२३॥

आकाशो वा इति तथा ब्रह्मैव श्रुतिरब्रवीत्॥
कारणं चाऽऽत्मनो नान्यत्त्रय्यन्तेषूपलभ्यते॥२४॥

अथ भूताकाशे रूढाकाशश्रुत्या सर्वान्तरत्वलिङ्गं बाधित्वा तस्यैवेह ग्रहो युक्तस्तत्राऽऽह। आकाश इति। आकाशो वै नाम नामरूपयोर्निर्वहितेत्यत्रापि भूताकाशविषयत्वमाकाशशब्दस्य किं न स्यादित्याशङ्क्याऽऽह। कारणं चेति। अत्र हि कारणत्वमाकाशस्योच्यत आत्मैवाज्ञातस्तथेति च वेदान्तस्थितिस्तथाच सर्वकारणत्वनामरूपास्पृष्टत्वलिङ्गाभ्यां तद्ब्रह्मेति श्रुतेश्चाऽऽकाशशब्दस्य श्रुत्यन्तरे ब्रह्मविषयत्वस्याऽऽकाशोऽर्थान्तरत्वादिव्यपदेशादित्यत्रोक्तत्वात्प्रकृतेऽपि तद्विषयता न हि सति संभवे सर्वान्तरत्वं बाधितुमुचितमाकाशशब्दस्तु प्रयोगबाहुल्याद्ब्रह्मण्यपि संभवतीति दहराधिकरणे चिन्तितमाकाशस्तल्लिङ्गादिति चोक्तमिति भावः॥२४॥

जगज्जनिस्थितिध्वस्तिनियमाद्यर्थकार्यपि॥
नाऽऽत्मनः कारणादन्यः कश्चित्संभाव्यते श्रुतेः॥२५॥

आकाशशब्दोऽज्ञातब्रह्मविषयोऽपि नान्तर्यामिविषयस्तस्य ततोऽन्यत्वादित्याशङ्क्याऽऽह। जगदिति॥२५॥

एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ॥
माण्डूकेयश्रुतिवच इति स्पष्टमधीयते॥२६॥

कारणान्तर्यामिणोर्भेदे मानाभावमुक्त्वा तदभेदे श्रुतिं प्रमाणयति। एष इति॥२६॥

नातोऽन्तर्यामिणः कल्प्यमन्यदव्याकृतं बुधैः॥
अक्षरान्तेषु तत्त्वेषु नाव्याकृतवचो यतः॥२७॥

एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानामितिश्रुतिप्रसिद्धं फलमाह। नात इति। भेदे मानाभावादभेदे तद्भावाच्चेत्यतःशब्दार्थः। अन्तर्यामिणोऽन्यन्नाव्याकृतमित्यत्र युक्त्यन्तरमाह। अक्षरान्तेष्विति। ब्राह्मणत्रयेऽपि पृथिव्याद्यक्षरान्तेष्वव्याकृतशब्दाश्रवणात्ससूत्रजगदधिष्ठानत्वेनाऽऽकाशं निर्दिष्टं नान्तर्यामिणोऽर्थान्तरमव्याकृतमिति शक्यं कल्पयितुमित्यर्थः॥२७॥

तद्धेदमिति चात्रापि जगदेवाभिधीयते॥
अव्याकृतगिरा तस्य व्याकृताव्याकृतत्वतः॥२८॥

अत्राव्याकृतशब्दाभावेऽपि तद्भेदमित्यत्र श्रुतमव्याकृतमिहाऽऽकाशशब्देनाऽऽकृष्यान्तर्याम्यव्याकृताक्षरभेदसिद्धिरित्याशङ्क्याऽऽह। तद्धेति। न त्वदिष्टमन्तर्याम्यक्षरातिरिक्तं तत्त्वमित्येवार्थो जगतो व्यक्तस्य व्याकृतशब्दत्वमेव नाव्याकृतशब्दत्वमित्याशङ्क्याऽऽह। तस्येति॥२८॥

सर्वस्यैष वशीत्युक्त्वा यतस्तस्यैव वेद्यताम्॥
यत्नात्प्राह श्रुतिस्तस्माद्यन्ताऽव्याकृतमुच्यते॥२९॥

तद्धेत्यत्राव्याकृतशब्देन कारणावस्थं जगदुक्तं चेदत्रापि तदेवाऽऽकाशशब्देनोक्त्वा तत्र कार्यावस्थं जगदोतं प्रोतं चास्तु तथाऽपि ततोऽर्थान्तरमन्तर्यामीत्याशङ्क्याऽऽह। सर्वस्येति। सर्वस्य वशी सर्वस्येशानः स न साधुनेत्यादिना नियन्तारमुक्त्वा तस्यैव विविदिषावाक्येन वेद्यत्वं श्रूयते न च तदज्ञातत्वं विना युक्तमज्ञातमव्याकृतमिति च पर्यायोऽतोऽन्तर्याम्येवाव्याकृतमित्यर्थः॥२९॥

विद्या कर्म च संस्काराः प्रत्यगज्ञानतत्त्वकाः॥
देहग्रहणहेतुत्वं येषां184 नः श्रुतिरब्रवीत्॥३०॥

भर्तृप्रपञ्चप्रस्थानेनापि नाव्याकृतान्तर्यामिभेद इति वक्तुं कर्मादीनां स्वाविद्याविलसितत्वमाह। विद्येति। तेषामकिंचित्करत्वात्किं तदाविद्यत्वोक्त्येत्याशङ्क्याऽऽह। देहेति। तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा चेत्याद्या श्रुतिः॥३०॥

अविचारितसंसिद्धिप्रत्यगज्ञानसंस्थितिः॥
त्रयमेतत्सदा ग्राह्यं न कार्यं कारणं विना॥३१॥

तथाऽपि तेषां कथमाविद्यत्वं तत्राऽऽह। अविचारितेति। सत्त्वादिना दुर्निरूपमपि त्रयं किमिति स्वाज्ञानकार्यमिष्टं तत्राऽऽह। नेति। न हि स्वाज्ञानातिरेकित्रयानुरूपं कारणमस्तीत्यर्थः॥३१॥

कर्मैवैतत्त्रयं तच्च नाऽऽत्मानं लभते यतः॥
कारकाणि विनोत्पत्तौ प्रयोगमनुरुध्यते॥३२॥

त्रयस्याऽऽविद्यत्वमुक्त्वा प्रकृतोपयोगं दर्शयन्भर्तृप्रपञ्चमतमाह। कर्मैवेतियथाऽऽहुः— सर्वान्तरं विज्ञानात्मरूपं महारजनादिलक्षणं त्रयमप्येतत्कर्मैवेति। कर्म च कारकाधीनत्वात्तद्व्यापारं स्वोत्पत्तावाकाङ्क्षतीत्याह। तच्चेति॥३२॥

प्रयोगरूपेणैवातो वेष्टितं कर्म तिष्ठति॥
कारणात्म185नि संसृष्टं नान्यथाऽतोऽस्य186 संस्थितिः॥३३॥

न केवलं जन्मकाले कारकाधीनतया कर्मानुष्ठानमपेक्षते किंतु स्थितिकालेऽपीत्याह। प्रयोगेति। अतः कर्मणः कारकाधीनत्वनियमादिति यावत्। कारकासंसृष्टत्वे तस्य स्वरूपासत्त्वं दोषमाह। नेति। यथोक्तं कर्मणः पुनर्बाह्येन विशेषेणापरिगृहीतस्यावस्थानं नास्तीत्युत्पत्तिसहभुवा प्रयोजकरूपेण भौतिकेन परिष्कृतमास्ते स्वप्रयोगकाल इति॥३३॥

सप्रयोगगणः सर्वः सौक्ष्म्येण परमेण तु॥
प्राक्फलोद्भवतो नष्ट्वा187प्रतीचि व्यवतिष्ठते॥३४॥

कर्मणो जन्मस्थितिकालयोः कारकाधीनत्वेऽपि न नाशकाले तदस्ति स्वयमभावादित्याशङ्क्यविनाशोत्तरकालं परेण सौक्ष्म्येण व्यवतिष्ठतेऽस्तित्वमात्रेणेति परोक्तिमाश्रित्याऽऽह। सप्रयोगेति। सर्वो हि कर्मराशिः सह कारकगणैरव्यक्तस्थूलरूपः फलात्मना व्यक्तेः पूर्वमपूर्वात्मना प्रतीचि तिष्ठत्यतो न कदाचिदपि तस्य कारकानधीनत्वमित्यर्थः॥३४॥

प्रत्यक्संवित्तिवस्तुस्थः प्रमाणविरहादयम्॥
न ज्ञातः कुम्भवन्नापि चित्स्थत्वात्खरशृङ्गवत्॥३५॥

नाशादूर्ध्वमप्यात्मनि तिष्ठति चेत्किमिति पूर्ववन्न ज्ञायते तत्राऽऽह। प्रत्यगिति। तर्हि मानाभावान्नास्त्येवेत्याशङ्क्यसाक्षिसिद्धेर्मैवमित्याह। नापीति॥३५॥

न चायं नेति नेतीति कारणत्वादिहोच्यते॥
विशेषस्याग्रहात्तद्वद्गृह्यते नेदमित्यपि॥३६॥

चिदात्मस्थस्यापि द्वैतस्य निषेधवाक्यान्निषेधवत्तद्गतोऽपि कर्मराशिर्निषिध्यतामित्याशङ्क्याऽऽह। न चेति। नेति नेतीति द्वैतनिषेधवत्प्रतीचि कर्मराशेर्निषेधो नोच्यते तस्योत्तरकार्यं प्रति कारणत्वेन स्थितेस्तस्मिन्नेतीति व्यपदेशो नोपपद्यते विशेषतोऽविद्यमानत्वादित्युक्तेरित्यर्थः। प्रतीचि स्वरूपेण प्रलयादावपि कर्म तिष्ठति चेत्कुतस्तदग्रहः साक्षिणैव तत्प्राप्तेरित्याशङ्क्याऽऽह। विशेषस्येति। स्वापादौ कारणवत्कर्मापि सविकल्पकत्वेन न गृह्यतेऽहंरूपविशेषस्य188 तदा ग्रहाभावान्निर्विकल्पकत्वेन तद्ग्रहस्त्वस्त्येव नापीदं तदिति व्यपदेशोऽस्ति विशेषस्यागृह्यमाणत्वादिति हि भाष्यमित्यर्थः॥३६॥

क्षित्यादिसूत्रपर्यन्तं नियम्यापेक्षयोच्यते॥
नियन्ता कारणं चेति न तु सूत्रान्तिकेऽसति॥३७॥

परमतमुक्त्वा तस्य प्रकृतोपयोगमुपसंहरति। क्षित्यादीति। सति साभासे प्रत्यगज्ञाने सूत्रान्तिकशब्दे नियम्यकार्यापेक्षया नियन्तृकारणव्यपदेशो नान्यथेति भर्तृप्रप-

ञ्चानामपि मतं त्रयमपि कर्मैवेति हि वदन्ति तच्च कारकाधीनमाविद्यमिति साधितमतो मतान्तरेऽपि स्वाविद्याधीनकर्मकार्यजगदपेक्षत्वान्नियन्तृत्वादेर्नान्तर्यामिकारणाक्षरभेद इति भावः॥३७॥

स्वात्मानुभवतन्त्रत्वात्प्रत्याख्यातुं न शक्यते॥
व्यावृत्तिविधिरूपाभ्यां सुषुप्तिरनुभूयते॥३८॥

ननु प्रतीच्यविद्यैव नोपपद्यते स्वप्रकाशत्वात्तत्राऽऽह। स्वात्मेति। अविद्येति शेषः। स्वप्रकाशे प्रतीचि कथमज्ञानस्यानुभवस्तत्राऽऽह। व्यावृत्तीति। सुषुप्तिरविद्या॥३८॥

व्यावृत्तः शुक्लपीतादेरन्धकारोऽनुभूयते॥
तथा विधिमुखेनापि द्विरेफोदरवत्तमः॥३९॥

व्यावृत्तिरूपेणानुभवे दृष्टान्तमाह। व्यावृत्त इति। विधिरूपेणानुभवे तमाह। तथेति॥३९॥

स्वप्नबोधात्तदा तद्वद्विविक्तोऽर्थोऽनुभूयते॥
मूढोऽस्मीत्यपि साक्षाच्च मोहोऽयमनुभूयते॥४०॥

व्यावृत्तिरूपेण दृष्टिं दार्ष्टान्तिके ब्रूते। स्वप्नेति। तदेति स्वापोक्तिः। विधिरूपेणापि धियं दार्ष्टान्तिके दर्शयति। मूढोऽस्मीत्यपीति॥४०॥

मूढोत्पत्तेः पुरा मोहः प्रत्यग्वस्त्वनुरोध्यभूत्॥
तदुत्पत्तौ ससंवित्को मोहो मूढप्रधानकः॥४१॥

अनुभवात्प्रतीच्यज्ञानं साध्यते चेन्न लयादौ तत्सिद्धिस्तदाऽनुभवाभावादित्याशङ्क्याऽऽह। मूढेति। अहंकारो मूढस्तदुद्भवात्पूर्वं व्यवहाराक्षमत्वेनाज्ञानमासीत्तदुत्तरकालं दृश्यमानं तत्क्षमं भवति तस्याहंकारनिबन्धनत्वादित्यर्थः॥४१॥

सोऽयमैकात्म्यगर्भः सन्मोहः सर्वस्य कारकः॥
धर्मी च सर्वधर्माणां न परोक्षस्ततोऽश्ववत्॥४२॥

प्रतीच्यज्ञाने सिद्धे फलितमाह। सोऽयमिति। ऐकात्म्यस्य गर्भे मध्ये स्थितः सन्नित्येतत्। सर्वधर्माणां नियन्तृत्वसर्वज्ञत्वादीनामिति यावत्। स्वानुभवावसेयसाभासप्रत्यगनवबोधस्य जगद्धेतुत्वे सिद्धे, कार्यलिङ्गानुमेयो जगद्धेतुरिति यदाहुस्तदपि निरस्तमित्याह। नेति। तत्र वैधर्म्यदृष्टान्तः। अश्ववदितियत्रेदमुच्यते

**“पश्यतः श्वेतिमारूपं हेषाशब्दं च शृण्वतः।
खुरनिष्पेषशब्दं च श्वेतोऽश्वो धावतीति धीः”**इति।

तत्र विशिष्टाश्वाव्यभिचारादेते चार्थास्तमनुमापयन्ति नैवं जगत्कारणं परोक्षमि-

त्यर्थः। गवाश्वादिर्यथा न परोक्षस्तथा जगद्धेतुरिति साधर्म्यदृष्टान्तो वास्तु। अज्ञोऽहमित्यज्ञानस्य प्रत्यक्षत्वं ततःशब्दार्थः॥४२॥

यन्तृत्वहेतुविध्वस्तावेष संपद्यतेऽक्षरम्॥
कूटस्थस्य द्वितीयेन संबन्धोऽबोधकारितः॥४३॥

चिदात्मैको नियन्ता कारणं चेति स्थितौ कथं साभासाज्ञानस्य तथात्वमित्याशङ्क्याऽऽह। यन्तृत्वेति। प्रतीचो नियन्तृत्वं कारणत्वं चाज्ञानकृतं तस्य ज्ञानाद्ध्वंसे सोऽकार्यकारणमक्षरं संपद्यते तथाच कल्पितमात्मनो नियन्तृत्वादि न वस्तुतोऽस्तीत्यर्थः। प्रतीचो नियम्यकार्यसंबन्धस्य कल्पितत्वाच्च कल्पितत्वं नियन्तृत्वादेरित्याह। कूटस्थस्येति॥४३॥

प्रश्नोऽयं न तृतीयः स्यात्प्रतिज्ञातत्वतो द्वयोः॥
पूर्वोक्तस्यैव दार्ढ्यार्थंप्रश्नोऽयं पृच्छ्यते पुनः॥४४॥

आकाशे तदोतं चेत्यादेरर्थमुक्त्वा यदूर्ध्वमित्यादि द्वितीयं वाक्यं प्रश्नान्तरमिति शङ्कां प्रत्याह। प्रश्नोऽयमिति। द्वौ प्रश्नौ प्रक्ष्यामि द्वाभ्यां प्रश्नाभ्यामुपोदस्थामित्युपक्रमादित्यर्थः। पृष्टस्यैव पुनर्वचनं किमर्थमित्याशङ्क्याऽह। **पूर्वोक्तस्येति॥**४४॥

पृष्टं भूयोऽपि चापृच्छदुक्तधीदृढनिश्चितौ॥
परायत्तप्रबोधोऽपि शक्तो वक्तुं यतस्ततः॥४५॥

तदेव स्पष्टयति। पृष्टमिति। उक्तेऽर्थे दृढा धीरस्यास्तीति निश्चयमुद्दिश्य पुनः प्रश्नो नोपपद्यते प्राचीनप्रतिवचनादेव तन्निश्चयादित्याशङ्क्याऽऽह। परायत्तेति। भूतप्रेताद्यधीनत्वेनापि प्रत्युक्तिमात्रं यतः संभवत्यतो न तद्वशादुक्तेऽर्थे धीदार्ढ्यंदृश्यन्ते हि शूद्रादयोऽपि भूतावेशादपूर्वमपि शास्त्रमधीयाना इत्यर्थः॥४५॥

एवेत्यवधृतेर्यद्वा पूर्वप्रश्नार्थशेषता॥४६॥

किमनेकत्र लीनिः स्यात्सूत्रस्यापि क्षितेरिव॥
आकाश एव किंवा स्यादित्येवं पूर्वशेषता॥४७॥

उक्तस्यैव दार्ढ्याय प्रश्नप्रत्युक्तिरूपा पुनरुक्तिरित्युक्त्वा पुनरुक्तेरर्थान्तरमाह। एवेत्यवधृतेरिति। पूर्वप्रश्नार्थमनूद्य कथमुत्तरवाक्यस्य तच्छेषताऽवधारणादधिगतेति तत्राऽऽह। किमिति। यथा पारंपर्येण पृथिव्यादेराकाशे लयस्तथा सूत्रस्यापि किंवा साक्षादित्यभिप्रेत्य पुनः प्रश्ने पृथिव्यादिवदनेकत्र सूत्रस्य न लयः किंत्वाकाश एव साक्षादित्यवधारणेन पूर्वशेषतोत्तरस्य सिद्धेत्यर्थः॥४६॥४७॥

मोहोच्छित्तिर्यथावस्तुसम्यग्ज्ञानप्रसूतितः॥
सम्यग्ज्ञानप्रसिद्ध्यर्थमतः प्रश्नोऽयमुत्तरः॥४८॥

कस्मिन्नु खल्वाकाश इत्यादिप्रश्नस्य तात्पर्यमाह। मोहेति॥४८॥

सूत्रादिक्षितिपर्यन्तमर्वाग्यन्तुरचेतनम्॥
निष्प्रमाणं यतस्तस्मात्पृच्छयते सप्रमाणकम्॥४९॥

पूर्वप्रश्नस्यापि तादर्थ्यं तुल्यमित्याशङ्क्याऽऽह। सूत्रादीति। निष्प्रमाणं मिथ्याधीगम्यमिति यावत्। सप्रमाणकं सम्यग्धीगम्यमित्यर्थः॥४९॥

सूत्रं तावत्सुदुर्ज्ञानमाकाशस्तु ततोऽप्यति॥
तस्मात्परतरं तत्त्वं दुर्वचोऽपि बृहस्पतेः॥५०॥

विवक्षितं तात्पर्यमुक्त्वा स्थूलं तात्पर्यमाह। सूत्रमिति॥५०॥

सूत्रान्तं वस्तु निर्देश्यमनिर्देश्ये प्रवेशितम्॥
यन्तरि व्योम्नि तदपि दुर्वाच्यमतिसूक्ष्मतः॥५१॥

सूत्राकाशयोर्दुर्ज्ञानत्वं साधयति। सूत्रान्तमिति। अपिस्तन्निवेशितसूत्रसंग्रहार्थः॥५१॥

सर्वमानातिवर्त्येकमुक्तं प्रत्यक्चिदात्मकम्॥
अव्यावृत्ताननुगतं ततोऽप्यक्षरसंज्ञितम्॥५२॥

अक्षरस्य दुर्ज्ञानत्वमापादयति। सर्वेति। एतानि विशेषणानि प्रत्येकमक्षरस्य दुर्ज्ञानत्वनिमित्तानि। ततोऽपि सूत्रादेः सूक्ष्ममिति शेषः॥५२॥

अज्ञातज्ञाततोऽन्यत्वान्निर्देश्यं न तदक्षरम्॥
साक्षादित्यादिरूपत्वान्नापि स्यात्तदपह्नुतिः॥५३॥

अक्षरस्यानिर्देश्यत्वे कार्यकारणवैलक्षण्यं हेत्वन्तरमाह। अज्ञातेति। अनिर्देश्यत्वे नैःस्वाभाव्यमित्याशङ्क्याऽऽह।साक्षादित्यादीति॥५३॥

अपि चेद्वक्त्यनिर्देश्यं कथंचिन्मोहविभ्रमात्॥
तथा विप्रतिपत्तिः स्यादनुक्तौ च पराजितः॥५४॥

इति चेतसि संधाय याज्ञवल्क्यमपृच्छत॥
गार्ग्यक्षरमनिर्देश्यं तां चासावब्रवीदिदम्॥५५॥

स्थूलं तात्पर्यमुपसंहरति। अपि चेदिति। मोहविभ्रमाद्गोतृष्णाबलादिति यावत्। प्रत्युक्तिमवतारयति। तां चेति॥५४॥ ५५॥

एतद्वै तदिति प्राह प्रत्यक्साक्षिकमक्षरम्॥
अपास्ताशेषनिर्देशं यदनन्यप्रमाणकम्॥५६॥

इदंशब्दार्थमाह। एतदिति। एतत्पदार्थं कथयति। प्रत्यगिति। तस्य वाच्यत्वं वारयति। अपास्तेति। तत्र हेतुः। यदनन्येति॥५६॥

यत्साक्षाच्चापरोक्षाच्च ब्रह्मात्मेति विशेषितम्॥
प्रत्यक्तया तदैकात्म्यं स्वयमेव प्रतीयताम्॥५७॥

तत्साधयति। यत्साक्षादिति॥५७॥

न व्यावृत्तं विशेषेभ्यो नानुवृत्तं च गोत्ववत्॥
अव्यावृत्ताननुगतं चैतन्यं संविदीक्ष्यताम्॥५८॥

वस्तुत्वादैकात्म्यमपि घटवन्मेयमित्याशङ्क्यवैषम्यमाह। नेत्यादिना॥५८॥

यस्मात्प्रसिद्धं नास्त्यन्यत्प्रसिद्धं यन्नकस्यचित्॥
अनन्यममषष्ठ्यर्थं वैशब्दस्तत्प्रसिद्धये॥५९॥

उषस्तप्रश्नोक्तं साक्षिचैतन्यं त्वंपदलक्ष्यमेतत्पदेनात्र विवक्षितमित्युक्त्वा वैशब्दार्थमाह। यस्मादिति। स्वेतरप्रसिद्ध्यभावेऽपि स्वस्य प्रसिद्धतया लौकिकत्वमाशङ्क्याऽऽह। प्रसिद्धमिति। तर्हि शून्यता नेत्याह। अनन्यममिति। तत्र हेतुः। अषष्ठ्यर्थमिति। कार्यकारणनिर्मुक्तमद्वयं स्वप्रकाशमसङ्गंवस्तु द्योतयितुं वैशब्द इत्यर्थः॥५९॥

साक्षादित्यादिवाक्येन योऽशनायादिना तथा॥
प्रत्यङ्ङभिहितो यत्नात्तद्गिरा सोऽत्र युज्यते॥६०॥

तच्छब्दार्थमाह। साक्षादिति। यत्नात्तज्ज्ञानोपायोपन्यासादिति यावत्। कहोलप्रश्नोक्तस्तत्पदार्थोऽत्र तच्छब्दार्थ इत्यर्थः॥६०॥

प्रत्यक्षासन्ननिष्ठत्वादेतच्छब्दस्य कुम्भवत्॥
यदेतदिति तत्साक्षाद्यथावत्प्रतिपद्यताम्॥६१॥

अथोषस्तोपन्यस्तस्य तच्छब्देन कहोलोक्तस्य चैतच्छब्देनोपादानं किं न स्यात्तत्राऽऽह। प्रत्यक्षेति। यत्साक्षादित्यादिना यदुषस्तप्रश्नेत्वंपदलक्ष्यमुक्तं तदेवात्रैतच्छब्देन ज्ञेयं तस्य कुम्भवदपरोक्षत्वेन संनिहितत्वादेतच्छब्दस्य चैवमर्थत्वान्न त्वत्र तच्छब्दस्त्वमर्थमुषस्तोक्तं गोचरयति तस्य परोक्षवृत्तेः कहोलोक्ततदर्थविषयत्वस्य युक्तत्वादित्यर्थः॥६१॥

प्रत्यक्षैकप्रमाणोऽर्थो लौकिकोऽपि न शक्यते॥
प्रत्यक्षवद्बोधयितुं किमु प्रत्यङ्निरञ्जनम्॥६२॥

प्रत्यगक्षरं संनिहितं चेद्घटवदिदमिति निर्दिश्येतेत्याशङ्क्याऽऽह। प्रत्यक्षेति। लौकिकोऽपि मात्रादिः कूटस्थानुभवगम्यो न घटवन्निर्देष्टुं शक्य आन्तरत्वेनायोग्यत्वात्प्रत्यगात्मा त्विदमिति न शक्यो बोधयितुमिति किं वाच्यं तस्य सर्वान्तरस्यासङ्गस्य सर्वमानाविषयत्वादित्यर्थः॥६२॥

क्षराद्विरुद्धधर्मत्वादक्षरं ब्रह्म भण्यते॥
कार्यकारणवद्वस्तु क्षरमत्र निषिध्यते॥६३॥

तद्विरुद्धं दर्शयन्नक्षरपदं व्याचष्टे। क्षरादिति। नञो मुख्यमर्थमाह। कार्येति॥६३॥

हानिवृद्धिस्वभावेन कारणात्मैव वर्तते॥
तत्प्रत्यगात्मा तद्धीनः कूटस्थोऽनन्यमानगः॥६४॥

कार्यस्य क्षरत्वेऽपि नैवं कारणस्येति चेत्तत्राऽऽह। हानीति। प्रतीचोऽपि कारणतया तत्संभावनामाशङ्क्याऽऽह। तदिति॥६४॥

ब्राह्मणास्तद्वदन्तीति स्वापराधनिषेधगीः॥
नाऽऽत्माज्ञानाय सा युक्ता स हि साक्षात्तदीक्षते॥६५॥

यदुक्तमपि चेद्वक्तीत्यादि तत्राऽऽह। ब्राह्मणा इति। अवाच्योक्तौ विप्रतिपत्तिरनुक्तावप्रतिपत्तिरिति स्वापराधस्तन्निवृत्त्यर्थं नेदं वाक्यं किंतु स्वाज्ञानं द्योतयितुमित्याशङ्क्याऽऽह। नाऽऽत्मेति। अन्यथा त्वक्षरविषययाज्ञवल्कीयवाक्यशेषविरोधादित्यभिप्रेत्य हेतुमाह। स हीति॥६५॥

निर्देश्यत्वानुमादोषप्रसङ्गविनिवृत्तये॥
आगमैकप्रमाणत्वे वदन्तीत्यभिशब्दनम्189॥६६॥

आख्याताभिप्रायमाह। निर्देश्यत्वेति॥६६॥

एतावदेव प्रत्यक्षं सर्वयाथात्म्यवेदिनाम्॥
ब्राह्मणानामतो युक्तं फलपर्यवसायिनाम्॥६७॥

आगमैकगम्यत्वे ब्राह्मणा वदन्तीति कथं वक्तृग्रहणं न हि ते स्वाविषयं वक्तुमलं तत्राह। एतावदिति। सर्वस्य जगतो याथात्म्यमक्षरं ब्रह्म तत्प्रत्यक्त्वेन जानतां तस्मिन्नेव परमपुरुषार्थे समाप्तानां ब्राह्मणानामेतावत्प्रत्यगक्षरं शास्त्रात्प्रत्यक्षमेवातो युक्तं वक्तृग्रहणमित्यर्थः॥६७॥

ध्वस्तात्माज्ञानतत्कार्याः प्रत्यग्याथात्म्यबोधतः॥
वदन्ति ब्राह्मणास्तेऽतस्त्यक्तसर्वैषणास्पदम्190॥६८॥

फलावसायित्वं साधयन्पदद्वयार्थं निगमयति। ध्वस्तेति। अतो न वाच्यत्वादिदोषशङ्केति शेषः॥६८॥

एतदेव तु विज्ञाय व्युत्तिष्ठन्त्येषणात्रयात्॥
यतोऽतस्तत्स्वसंवेद्यं गार्ग्यक्षरांमेदं ध्रुवम्॥६९॥

एतदित्यादेर्गार्गीत्यन्तस्यार्थमुपसंहरति। एतदिति। त्वंपदार्थमापाततो ज्ञात्वा तत्र जिज्ञासया यतः संन्यस्यन्त्यतस्तेषां श्रवणादिपराणां तत्पदार्थरूपमक्षरं प्रत्यग्भावेन स्वानुभवयोग्यं भवतीत्यर्थः॥६९॥

तेषां चेत्स्यात्स्वसंवेद्यं निर्देश्यं तद्घटादिवत्॥
अस्थूलत्वान्न तच्छक्यं निर्देष्टुमिति सो191ऽब्रवीत्॥७०॥

अस्थूलपदस्य शङ्कापूर्वकमर्थमाह। तेषामिति॥७०॥

अक्षरं यदि न स्थूलमणु तर्हि तदिष्यताम्॥
यतस्तत्प्रतिषेधार्थमनण्विति जगाद ताम्॥७१॥

अनणुविशेषणं शङ्काद्वारा व्याकरोति। अक्षरमिति॥७१॥

परिमाणमहाभूतप्राणनामान्व192यादयः॥
कारणाद्या निषिध्यन्ते क्रमेण प्राप्त्यपेक्षया॥७२॥

अह्रस्वमित्यादीनां तात्पर्यं193 संगृह्णाति। परिमाणेति। आद्येनाऽऽदिपदेन रसादिग्रहो द्वितीयेन तेजोमुखाद्युक्तिः। क्रमेण निषेधे हेतुमाह। प्राप्तीति॥७२॥

प्रसज्यपर्युदासाभ्यां नञर्थः कोऽत्र गृह्यते॥
स्थूलापह्नुतिरेकत्र पर्युदासे तदन्यता॥७३॥

सर्वेषु विशेषणेषु पूर्ववादी नञर्थं विकल्पयति। प्रसज्येति। प्रसज्यप्रतिषेधपक्षे वाक्यस्याभावनिष्ठत्वमाह। स्थूलेति। द्वितीये त्वद्वैतहानिः स्थूलादीनामक्षरादन्यत्वादित्याह। पर्युदास इति॥७३॥

स्थूलापह्नुतिरत्र स्याद्वस्तु यत्पारमार्थिकम्॥
नाभावनिष्ठोऽन्यत्रापि निषेधः किमुताक्षरे॥७४॥

सिद्धान्ती प्रथमपक्षं समाधत्ते। स्थूलेति। सप्तम्यर्थं स्फुटयति। वस्त्विति। तर्हि वाक्यस्याभावनिष्ठत्वं नेत्याह। नाभावेति॥७४॥

पर्युदासेऽपि क्लृप्तानां न पृथक्त्वेन संस्थितिः॥
रज्जुसर्पादिवत्तस्मान्नोभयत्रापि दोषता॥७५॥

द्वितीये समाधिमाह। पर्युदास इति। वाक्यस्याभावनिष्ठत्वमद्वैतहानिर्वा नेति निगमयति। तस्मादिति॥७५॥

दृष्टोऽपवादोलोकेऽस्मिन्नुत्सर्गविषये सति्॥
स्थूलादेरपवादोऽयं निर्द्वये घटते कथम्॥७६॥

प्रथमपक्षमाक्षिपति। दृष्ट इति। न हिंस्यादित्युत्सर्गविषये सत्यग्नीषोमीयं पशुमालभेतेत्यपवादो दृष्टो न च तद्विषयभेदोऽद्वयेऽस्त्यतः स्थूलादेर्नापवाद इत्यर्थः॥७६॥

उत्सर्गस्यास्ति विषयो194 योऽनिर्ज्ञातात्मतत्त्वकः॥
अपवादस्य विषयो ज्ञातात्मैकसतत्त्वकः॥७७॥

वस्तुनोऽद्वयत्वेऽपि तत्रोत्सर्गापवादव्यवस्था युक्तेति परिहरति। उत्सर्गस्येति। प्रतीच्यज्ञाते प्राप्तं स्थूलादि तस्मिन्नेव ज्ञाते निषिध्यते दृश्यते च रज्ज्वामज्ञातायां प्राप्तस्य सर्पादेस्तस्यां ज्ञातायां निषेधस्तत्प्रसज्यप्रतिषेधः साधीयानित्यर्थः॥७७॥

अध्यस्तदिङ्निषेधश्च व्योम्न्येकस्मिन्यथा तथा॥
उत्सर्गापवादविधिनिषेधा एकलात्मनि॥७८॥

एकत्रैवाऽऽत्मनि प्राप्तिप्रतिषेधौ स्थूलादेरित्येतद्दृष्टान्तेन स्पष्टयति। अध्यस्तेति॥७८॥

यदि वाऽक्षरयाथात्म्यं स्थूलादेरिह भण्यते॥
स्रग्याथात्म्यमहेर्यद्वत्तथाऽस्याक्षरमात्रतः195॥७९॥196

प्रसज्यप्रतिषेधानुरोधेनास्थूलादिवाक्यस्यार्थमुक्त्वा पर्युदासमनुसृत्यार्थान्तरमाह। यदिवेति। तदेव दृष्टान्तेनाऽऽह। स्रगिति। स्थूलादिजगतोऽद्वयत्वावेदनपरं वाक्यं न निषेधपरमित्यर्थः॥७९॥

स्थूलादिहेतोर्दाहो वा ध्वान्तस्य प्रत्यगात्मनि॥
अस्थूलोक्तिसमुत्थात्मयाथात्म्यज्ञानवह्निना॥८०॥

प्रतीचि स्थूलादिहेत्वबोधस्य वाक्योत्थबोधेन बाधपरं वा वाक्यमित्याद्यमेव कल्पमाश्रित्यार्थान्तरमाह। स्थूलादीति॥८०॥

क्षित्यादौ वियदन्तेऽस्मिन्स्थूलादेः संभवो ननु197
तदोतप्रोतवाक्येन तच्च सर्वं निराकृतम्॥८१॥

निषेधपक्षे पुनरर्थान्तरं वक्तुं पूर्वपक्षयति। क्षित्यादाविति। अस्तु तर्हि पृथिव्यादावव्याकृतान्ते स्थूलादिनिषेधो नेत्याह। तदिति।यदिदं सर्वमप्स्वित्यादिना पृथिव्याद्यव्याकृतान्तमक्षरातिरेकेण नेत्यवधारणान्न तत्र स्थूलादिनिषेधो धर्म्यभावादित्यर्थः॥८१॥

तस्याक्षरे कः प्रसङ्गो यतस्तत्प्रतिषिध्यते॥
अपि खे तदसंभाव्यं किमु तत्प्रत्यगात्मनि॥८२॥

अक्षरे तर्हि तन्निषेध्यतामुक्तदोषाभावादित्याशङ्क्यप्राप्त्यभावान्मैवमित्याह। तस्येति। प्राप्त्यभावं कैमुतिकन्यायेनाऽऽह। अपीति। खमव्याकृतम्॥८२॥

समस्तव्यस्ततां केचिद्ब्रह्मणः प्रतिजानते॥
यतोऽतस्तन्निषेधार्थं निषिद्धं सन्निषिध्यते॥८३॥

एवमाक्षेपेस्वयूथ्यमतनिरासपरत्वेन वाक्यस्यार्थवत्त्वमाह। समस्तेति॥८३॥

व्यक्तावस्थाऽथवैतेषां निषिद्धा कारणात्मनि॥
शक्त्यवस्थानिषेधोऽयं क्रियते त्वक्षरात्मनि॥८४॥

कारणनिषेधफलोक्त्यर्थं स्थूलादिहेतोर्दाहो वेत्युक्तमनुवदति। व्यक्तेति। यदिदं

सर्वमित्यादिना व्यक्तावस्था स्थूलादीनां कारणे निरस्ता तेषामेव शक्त्यवस्था कार्यकारणविलक्षणेऽक्षरे निरस्या तदर्थमस्थूलादिवाक्यमित्यर्थः॥८४॥

एवं च सति तत्पूर्णं ब्रह्म कृस्नंच युज्यते॥
अन्यथाऽकृस्नमेव स्यादनिर्मोक्षश्च सज्यते॥८५॥

कारणनिषेधे किं फलति तदाह। एवं चेति। कार्यकारणनिषेधे सति प्रतीचि श्रुतं ब्रह्मादिपदं मुख्यार्थं स्यात्तदनिषेधे वस्तुपरिच्छेदाद्गौणार्थमेवाखण्डवस्त्वात्मनाऽवस्थानारूपोमोक्षश्च न सिध्येत्ततो मोक्षशास्त्रबाधः स्यादित्यर्थः॥८५॥

न वा निषेधः स्थूलादेस्तस्य प्रागेव सिद्धितः॥
तन्निषेधानुवादेन प्रतीचि ब्रह्म बोध्यते॥८६॥

तत्त्वमादिवद्विधिमुखेन बोधकमस्थूलादिवाक्यमित्यर्थान्तरं वदन्निषेधपरत्वं त्यजति। न वेति। ओतप्रोतवाक्येन स्थूलादिनिषेधस्य सिद्धत्वादिति हेत्वर्थः। निषेधपरत्वाभावे किंपरं वाक्यं तदाह। तन्निषेधेति॥८६॥

स्थूलादिमेयमामातृनिषेधफलगं स्वभम्॥
विद्धि सर्वान्तरं ब्रह्म साक्षादित्यादिलक्षणम्॥८७॥

स्थूलादिनिषेधमनूद्य तत्साक्षिणि त्वमर्थे ब्रह्मत्वबोधनप्रकारमभिनयति। स्थूलादीति। स हि त्रेधास्थितस्तन्निषेधस्य फलं स्फुरणं तदात्मना गम्यमानं स्वप्रकाशं त्वंपदलक्ष्यमा198त्मानमुक्तविशेषणं ब्रह्म विद्धीति योजना॥८७॥

सर्वेषामपि चोद्यानामेवं सति न संभवः॥
नेति नेतीतिवद्व्याख्या सर्वाऽपीह समीक्ष्यताम्॥८८॥

विधिमुखेन बोधकत्वे वाक्यस्याभावनिष्ठत्वमक्षरस्य सद्वयत्वमित्यादि चोद्यमनवकाशमिति लाभं दर्शयति। सर्वेषामिति। कथं नञ्वति वाक्ये विधिमुखेन बोधकत्वं तत्राऽऽह। नेत्यादिना॥८८॥

स्थूलादिपरिमाणं हि द्रव्यमात्रव्यपाश्रयम्॥
तस्माद्द्रव्यनिषेधोऽयं परिमाणनिषेधतः॥८९॥

वाक्यस्यानेकधा तात्पर्यमुक्त्वा विशेषणचतुष्टयस्यावान्तरतात्पर्यमाह। स्थूलादीति। हिशब्दोपात्तं हेतुमनूद्य फलितमाह। तस्मादिति॥८९॥

सर्वथाऽपि तु यत्किंचिद्वाचो गोचरतां गतम्॥
प्रमाणस्य च तत्सर्वमक्षरे प्रतिषिध्यते॥९०॥

अक्षरे द्रव्यत्वनिषेधेऽपि गुणत्वादिप्राप्तिरलोहितमित्यादिना तन्निषेधे विशेषान्तर-

मत्रानिषिद्धं भविष्यतीत्याशङ्क्याऽऽह। सर्वथाऽपीति। उक्तविशेषनिषेधोऽनुक्तविशेषनिषेधोपलक्षणमिति भावः॥९०॥

विशेषप्रतिषेधे च क्रम आश्रीयते ध्रुवम्॥
सामर्थ्यादेव नान्यस्मात्कारणादिति निश्चयः॥९१॥

तर्हि युगपदशेषनिषेधसंभवाद्व्यर्थमनेकविशेषणोपादानं तत्राऽऽह। विशेषेति। क्रमाश्रयणे हेतुः। सामर्थ्यादिति। वाचः क्रमवर्तित्वादपर्यायेण सर्वनिषेधासिद्धेरित्यर्थः॥९१॥

पूर्वोत्तरनिषेध्यानां सामर्थ्यादेव च क्रमः॥
पूर्वस्मिन्प्रतिषिद्धेऽन्यः सामर्थ्यादेव ढौकते॥९२॥

निषेध्यक्रमाच्च निषेधक्रमोऽनुसर्तव्य इत्याह। पूर्वेति। सामर्थ्यमेव दर्शयति। पूर्वस्मिन्निति। विरोधिनिषेधानुपपत्त्या तद्विरोधिप्राप्तिस्ततश्च क्रमो निषेध्यानामित्यर्थः॥९२॥

अस्थौल्यादणु तत्प्राप्तं तन्नान199णु यतोऽक्षरम्॥

ह्रस्वं नैव यतोऽह्रस्वं नापि दीर्घं यतोऽक्षरम्॥
अदीर्घमित्यतो द्रव्यं न स्यादक्षरमव्ययम्॥९३॥

स्थौल्यनिषेधेनावशिष्टनिषेधोपलक्षणाद्विशेषणान्तराणि क्रमनिषेधबोधकान्यनर्थकानीत्याशङ्क्यस्थौल्यादौ निषेधेऽर्थादणुत्वादौ प्राप्ते तन्निषेधार्थं तान्यर्थवन्तीति मन्वानो विशेषणचतुष्टयार्थं निगमयति। अस्थौल्यादिति॥९३॥

आदित्यवर्णवचनादस्तु तद्रोहितात्मकम्॥
नैवं यतोऽलोहितं तत्सर्वरूपादिव200र्जितम्॥९४॥

अलोहितपदं शङ्काद्वारा व्याकरोति। आदित्येति॥९४॥

अपां गुणोऽत्र स्नेहः स्याच्छायाऽदीप्तिरिहेष्यते।
तमो ध्वान्तमिति ज्ञेयमतमोऽक्षरमुच्यते॥९५॥

अस्नेहमित्यत्र स्नेहशब्देन रागविशेषग्रहं व्यावर्तयति। अपामिति। छायातमः— शब्दयोरर्थभेदं वदन्पदद्वयं व्याचष्टे। छायेति। अदीप्तिरिति च्छेदः। निषेधविधिभ्यां प्रतियोगिभेदात्प्रतिषेधभेद इति भावः॥९५॥

न भूतं तत्पृथिव्यादि नापि भूतगुणास्तथा॥
सर्वान्तराधिकाराद्धि तथोभयनिषेधः॥९६॥

अवाय्वनाकाशमित्यनयोरर्थमाह। न भूतमिति। अरसमगन्धमित्यनयोरर्थमाह।

नापीति। वाय्वाकाशयो रसगन्धयोश्च निषेधः श्रुतस्तत्कथं भूतमात्रस्य तद्गुणमात्रस्य च निषेधो व्याख्यातस्तत्राऽऽह। सर्वान्तरेति। अक्षरस्य हि सर्वान्तरस्येदं प्रकरणमतस्तस्य सर्वान्तरत्वसमर्थनार्थमुक्तवाय्वादिनिषेधस्यानुक्तभूततद्गुणनिषेधोपलक्षणत्वादक्षरं सर्वप्रत्यक्तमं सर्वभूततद्धर्महीनमखण्डं युक्तमित्यर्थः॥९६॥

अस्तु सङ्गात्मकं तर्हि वासनासङ्गदर्शनात्॥
नैतद्यतोऽसङ्गमिदमसङ्गो हीति वक्ष्यति201॥९७॥

असङ्गमित्यस्य व्यावर्त्यमाह। अस्त्विति। सूक्ष्मस्य रागादेरात्मनि दृष्टेस्तदन्वयवानसावित्यर्थः। वाक्यशेषमाश्रित्य परिहरति। नैतदिति॥९७॥

नापीन्द्रियमिदं ज्ञेयं यतोऽचक्षुष्कमक्षरम्॥
नेन्द्रियाण्यस्य विद्यन्ते नापि तत्स्वयमिन्द्रियम्॥९८॥

अचक्षुष्कमित्यादिपदचतुष्टयं व्याचष्टे। नापीति। समासद्वयेनेन्द्रियसंबन्धतादात्म्ये निरस्यति। नेत्यादिना॥९८॥

विज्ञानलक्षणं तेजोऽतेजस्कमिति वार्यते॥
कस्मादेतन्न तत्सर्वं यतोऽप्राणं तदक्षरम्॥९९

तेज एवेति वक्ष्यमाणत्वात्कुतोऽतेजस्कमित्यत्राऽऽह। विज्ञानेति। आगन्तुकज्ञानात्मकं न भवतीत्यर्थः। आकाङ्क्षापूर्वकमुक्तेऽर्थे हेतुत्वेनोत्तरं पदमादत्ते। कस्मादिति॥९९॥

कारणप्रतिषेधेन कृत्स्नकार्यनिषेधतः॥
पूर्णं तदक्षरं ज्ञेयं साक्षादित्यादिलक्षणम्॥१००॥

तद्व्याकरोति। कारणेति॥१००॥

अक्षरं येन रूपेण स्थूलं वस्तु निषेधति॥
तेनैवाण्वादि निःशेषं तस्य सर्वविरोधतः॥१०१॥

प्रतीचि स्थौल्यादिनिषेधात्तत्तन्निषेध्यविरुद्धानेकाकारत्वप्राप्तेरैकरस्यं न स्यादित्याशङ्क्याऽऽह। अक्षरमिति॥१०१॥

अन्येनान्येन रूपेण विरुद्धान्हन्ति पावकः॥
विरोधिना यथा तद्वन्नेह स्थूलाद्यपाक्रिया॥१०२॥

तदेव वैधर्म्यदृष्टान्तेन स्पष्टयति202अन्येनेति। जठरकुहरविपरिवर्तित्वं काष्ठपृष्ठनिष्ठत्वमित्यादिनेत्यर्थः। इहेत्यक्षरोक्तिः॥१०२॥

मानित्वादिनिषेधः स्याद्यथैकाक्रि203यरूपतः॥
प्रत्यक्कूटस्थरूपेण तथा सर्वनिषेधकृत्॥१०३॥

किं तदक्षरे सर्वविरोध्येकरूपमित्याशङ्क्यसाधर्म्यदृष्टान्तेनाऽऽह। मानित्वादीति। प्रत्यगिति कर्तृनिर्देशः॥१०३॥

कूटस्थबोधपूर्णत्वं प्रत्यक्त्वं वस्तुनः स्वतः।
एतदस्य विरोधित्वं कार्यकारणवस्तुभिः॥१०४॥

कथं तस्योक्तरूपेण सर्वविरोधित्वं तत्राऽऽह। कूटस्थेति। कूटस्थबोधस्य त्वंपदलक्ष्यस्याद्वयत्वं तस्य च तत्पदलक्ष्यस्य यथोक्तप्रत्यक्त्वं यत्तत्त्वमादिवाक्याधिगतमेतदक्षरस्य कार्यकारणरूपसर्वविशेषविरोधीत्यर्थः॥१०४॥

द्वारं मुखं प्रतीकं वा यदि वा लिङ्गमुच्यते॥
निषेधोऽमुखमित्येवं त्रयस्याप्यभिधीयते॥१०५॥

अमुखमित्यत्र मुखशब्दार्थमाह। द्वारमिति। छिद्रालम्बनचिह्नेषु मुखशब्दप्रयोगदृष्टेरित्यर्थः। नञर्थमाह। निषेध इति॥१०५॥

मात्रेति मानमिच्छन्ति मेयोऽर्थस्तेन मीयते॥
अक्षरे तदसंभाव्यममात्रं तद्यतस्ततः॥१०६॥

अमात्रमित्यस्यार्थमाह। मात्रेतीति॥१०६॥

मात्रादिलक्षणा यत्र सामग्री वस्तुनीष्यते॥
तत्प्रमेयमिति न्याय्यं न तु वस्त्वद्वयं स्वतः॥१०७॥

अक्षरे मानायोगादमेयत्वं चेत्कुत्र तर्हि मेयत्वं तत्राऽऽह। मात्रादीति॥१०७॥

व्याप्यव्यापकसंबन्धो न चाप्यक्षरवस्तुनि॥
न तदश्नातिवाक्येन यतस्तद्वार्यते द्वयम्॥१०८॥

न तदश्नातीत्यादेस्तात्पर्यमाह। व्याप्येति। तत्राऽऽद्यवाक्येन व्यापकत्वस्य निषेधो द्वितीयेन व्याप्यत्वस्येति भेदः॥१०८॥

निषिद्धमखिलं वस्तु यत्किंचिज्जगतीक्ष्यते॥
अवशिष्टं च यत्तच्च न प्रमाणोपपादितम्॥१०९॥

उक्ते निर्विशेषत्वे शून्यत्वापत्तिं शङ्कते। निषिद्धमिति। अक्षरस्य शिष्टत्वान्न शून्यतेति चेन्नेत्याह। अवशिष्टं चेति॥१०९॥

एवं चेदक्षरं तादृक्कथमस्तीति गम्यते॥
न हि प्रमाणविरहादस्ति वस्त्विति वीक्ष्यते204॥११०॥

कुड्यादिव्यवहितघटादिवदप्रमितमपि तदस्तीत्याशङ्क्याऽऽह। एवं चेदिति। सर्वथैवाप्रमितस्यावस्तुत्वे हेतुमाह। न हीति॥११०॥

सिद्धसाध्यत्वतो नैवं तथाचोक्तोत्तरत्वतः॥
भावाभावातिरेकित्वादभ्युपेतं त्वयोच्यते॥१११॥

किमक्षरस्यामेयत्वमेव साध्यते किंवा नास्तित्वमपीति विकल्प्योऽऽद्यमङ्गीकृत्य सिद्धान्तयति। सिद्धेति। द्वितीयं दूषयति। तथाचेति। अप्रमेयत्वेऽपि नाक्षरस्यासत्त्वं स्वप्रकाशतया सिद्धेरसकृदुक्तेरित्यर्थः। सिद्धसाध्यत्वं साधयति। भावेति॥१११॥

मानाभावे205 च तन्नेति व्यतिरेकः कुतोऽन्वयम्॥
मानाभावं किमद्राक्षीर्येनैवमभिधीयते॥११२॥

इतश्च मानाभावादक्षराभावोक्तिरयुक्तेत्याह। मानेति। आक्षेपं विशदयति। मानाभावमिति। स हि दृष्टोऽदृष्टो वा नाऽऽद्येऽक्षराभावो भावाभावसाधकस्यैव तत्त्वाद्द्वितीयेऽपि न तदभावस्तत्साधकमानाभावस्यादृष्टत्वादिति भावः॥११२॥

सर्व हि मानं लोकेऽस्मिन्वस्त्वभिव्यक्तिसाधनम्॥
तदभावेऽनभिव्यक्तं वस्तु नास्तीति दुर्वचः॥११३॥

मानाभावे मेयाभावमुपेत्योक्त्वोपेत्यवादं त्यजति। सर्वंहीति। न हि दीपाभावे तदभिव्यङ्ग्यंघटादि तमसाऽऽवृतं नास्तीति सुवचनमिति हिशब्दार्थः॥११३॥

स्थूलाद्यनेकधर्माणां निषेधायासकारणात्॥
अस्तित्वमक्षरस्येह सिद्धं तावद्दृगात्मनः॥११४॥

अथ तदस्तीत्यपि दुर्वचंनिश्चायकाभावादत आह। स्थूलादीति। निषेध्यकल्पनानुपपत्त्या तन्निषेधानुपपत्त्या चाधिष्ठानत्वेनावधित्वेन च स्वप्रकाशमक्षरं सिद्धमित्यर्थः॥११४॥

स्वमहिम्ना त्वभावोऽपि सेद्धुं नैवाऽऽत्मवत्क्षमः॥
तत्पारार्थ्यजडत्वाभ्यां, मित्यभावस्तथा समः॥११५॥

अक्षरस्य स्वप्रकाशत्ववन्मानमेयाभावयोरपि तद्योगान्मानाभावे चेत्याद्ययु206क्तमिति चेत्तत्राऽऽह। स्वमहिम्नेति। अभावो मेयस्येति शेषः। तथेति पारार्थ्याद्यनुक्रमः। समोमेयाभावेनेत्यर्थः॥११५॥

मामेयमात्रसद्भावात्तेभ्योऽत्यन्तनिवृत्तितः॥
स्वमहिम्ना प्रसिद्धेश्चकुतोऽभावस्य संभवः॥११६॥

अक्षरसाम्यं मानाद्यभावस्य जाड्यादिनाऽपोद्याक्षरस्यासत्त्वाभावे युक्त्यन्तरमाह। मामेयेति। असङ्गोदासीनतया पात्रादिभ्योऽतिशयेन निवृत्तत्वादक्षरे तेषामप्राप्तेस्तस्य स्वप्रकाशत्वाच्च नासत्त्वाशङ्केत्यर्थः॥११६॥

स्वतो माफलरूपत्वान्न माकार्यं प्रमाणतः॥
नास्तीति तु विना मानं न सिध्येत्कुम्भवत्स्वतः॥११७॥

विमतं मेयं वस्तुत्वाद्घटवदित्याशङ्क्यजडत्वोपाधिना निरस्यति। स्वत इति। संविद्रूपत्वादात्मनो, मानेन संविदन्तरं तत्र कार्यमिति न मानतः शक्यं वक्तुमित्यर्थः। अक्षराभावोऽपि न मानाधीनप्रकाशोऽक्षरतदभावयोरन्यतरत्वादक्षरवदित्याशङ्क्याऽऽह। नेत्यादिना। विमतं मेयं जडत्वाद्घटवदन्यथा स्वरूपहानिरिति भावः॥११७॥

कुम्भ आरोप्यते यद्वत्प्रकाशो भानुसंगतेः॥
भानुप्रकाशसंबन्धे भानोर्नान्यदपेक्षते207॥११८॥

अक्षरास्तित्वं स्वतः सिद्धं तदभावस्तु नैवमित्यत्र दृष्टान्तमाह। कुम्भ इति। कुम्भे हि भानुसंबन्धात्प्रकाशतेऽसावित्यारोप्यते प्रकाशो नैवं भानोरेष प्रकाशत इति स्वप्रकाशसंबन्धे कुम्भाद्यपेक्षते यथेत्यर्थः॥११८॥

स्वतोऽवगतिसंबन्धात्तथाऽभावोऽवगम्यते॥
तथाऽवगतिसंबन्धे नापेक्षाऽवगतेः स्वतः॥११९॥

दार्ष्टान्तिकमाह। स्वत इति। उक्तदृष्टान्तादभावो भावश्चावगतियोगाद्गम्यते न स्वतोऽवगतेस्त्ववगन्तव्यवदवगतिसंबन्धे नान्यापेक्षा किंतु स्वत एवावगतिरित्यर्थः। उत्तरार्धे स्थितं नञ्पदं पूर्वार्धेऽपि संबध्यते॥११९॥

अतोऽवगत्यभावोऽपि न स्वतोऽवगतिं विना॥
सिध्यतीह ततोऽस्तित्वं स्वत एवाक्षरात्मनः॥१२०॥

अवगतेः स्वतस्त्वे तदभावोऽपि स्वतः स्यात्तद्भावाभावयोरन्यतरत्वात्तद्भाववदित्याशङ्क्योपजीव्यभावविरोधान्नेत्याह। अत इति। विपक्षे त्ववगत्यभावाज्जगत्यान्ध्यप्रसक्तिरित्याह। अवगतिमिति। फलितं निगमयति। तत इति॥१२०॥

उक्तो निरन्वयोऽभावो नबौद्धादि208समाश्रयात् ॥
तत्त्वमस्यादिवाक्योत्थविज्ञानविरहात्क्वचित्॥१२१॥

अक्षरस्य स्वतः सिद्धेस्तदभावस्य दुर्वचनत्वान्न स्थूलादिनिषेधेऽपि शून्यतेत्यापाद्य तत्रैव हेत्वन्तरमाह।उक्त इति। वाक्यीयवस्त्वाकारं ज्ञानं विना न क्वचिदपि स्थूलादावात्यन्तिकोऽभावो बाह्यवदस्माभिरुच्यते तन्न शून्यतेत्यर्थः॥१२१॥

नान्यदज्ञानतोऽस्तित्वं द्वितीयस्याऽऽत्मनो यथा॥
निवृत्तिस्तद्वदेवास्य नावगत्यात्मनोऽपरा॥१२२॥209

स्थूलाद्यभावस्याऽऽत्मत्वे सैव शून्यताऽनात्मत्वे त्वद्वैतहानिरित्याशङ्क्याऽऽह। नान्यदिति॥१२२॥

अकार्यकारणं साक्षादित्यादिगुणलक्षणम्210
कूटस्थमक्षरं ध्वान्तध्वस्तौ स्यान्नोनिरन्वयम्॥१२३॥

अज्ञानस्याऽऽत्मानतिरेके तस्याजाढ्यमतिरेके तेनैव सद्वयतेत्याशङ्क्याऽऽह। अकार्येति। सम्यग्ज्ञानान्निःशेषतयाऽज्ञाननिवृत्तावद्वयमेव वस्तु स्यादित्यर्थः॥१२३॥

नास्यास्तित्वे यथा मानमेकत्वादक्षरात्मनः॥
तन्नास्तित्वेऽपि च तथा तयोस्तस्मात्प्रसिद्धितः॥१२४॥

तस्य मानानातिरेके मेयसंबन्धादसङ्गताहतिरतिरेके च सैवाद्वैतहानिरित्याशङ्क्याऽऽह। नास्येति। अक्षरस्य सत्त्वेऽसत्त्वे वा न मानमस्ति सर्वत्र सत्त्वासत्त्वयोरक्षरादेव सिद्धेर्न च तस्य प्रकाशत्वेऽपि दीपवन्मानापेक्षा संविदेकरसत्वादज्ञानध्वंसित्वेनापेक्षितमपि न द्वैतमावहति मृतमारणाल्लज्जन्ती सा भावमपि निर्दहेदिति न्यायादित्यर्थः॥१२४॥

सत्त्वं वा यदि वाऽसत्त्वं कार्यकारणवस्तुनः॥
अतद्वद्बोध एवैतत्सिध्यतीव न तु स्वतः॥१२५॥

सर्वस्यानात्मनोऽकार्यकारणे प्रतीचि चिद्धातौ कल्पितत्वाच्च नाद्वैतहानिरित्याह। सत्त्वं वेति॥१२५॥

यत एवमतो नेह कश्चिद्विप्रतिपद्यते॥
अक्षरात्मनि नास्तित्वे तस्माद्धेतूक्तिरिष्यते॥१२६॥

उक्तरीत्या प्रत्यगक्षरस्य यतोऽस्तित्वं सिद्धमतोऽस्मिन्वादिनामविवादात्तदस्तित्वे वक्ष्यमाणहेतूक्तिर्नेष्यते तथाचानुमानोपन्यासपरोऽनन्तरसंदर्भोवृथेति शङ्कते। यत इति॥१२६॥

यतो विप्रतिपद्यन्ते त्वन्तर्यामिणि वादिनः॥
तत्सिद्धयेऽनुमायत्नः क्रियतेऽतः परोक्तिभिः॥१२७॥

निरुपाध्यक्षरविषयत्वेनानुमोक्तिवैयर्थ्येऽपि सोपाधिकतद्विषयतया तदर्थवत्तेति समाधत्ते। यत इत्यादिना॥१२७॥

ईशितव्यार्थसंबन्धादन्तर्याम्येतदक्षरम्॥
चैतन्याभासमोहाख्यवर्त्मनैव न तु स्वतः॥१२८॥

अक्षरमेवान्तर्यामीत्युक्तत्वात्तयोरनुमाविषयत्वं तदविषयत्वं वा तुल्यं व्यवस्थायां भेदात्पूर्वापरविरोध इत्याशङ्क्याऽऽह। ईशितव्येति॥१२८॥

अनुमानश्रुतिस्तस्मादागात्तस्यैव सिद्धये॥
कारणात्मनि संसिद्धे सर्व सिद्धं भवेद्यतः॥१२९॥

काल्पनिको भेदो वस्तुतश्चाभेद इति स्थिते कल्पितभेदमन्तर्यामिणमधिकृत्यानुमानप्रवृत्तिरिति फलितमाह। अनुमानेति। अन्तर्यामिण्यनुमानसिद्धेऽपि कथमनुमानादक्षरसिद्धिस्तत्राऽऽह। कारणेति। जगत्कारणस्योप211लक्षणताया जन्मादिसूत्रे स्थितत्वात्तत्सिद्धौ सर्वं पूर्णमनौपाधिकमक्षरं सिध्यतीति तटस्थलक्षणद्वारा ब्रह्मणि स्वरूपलक्षणसिद्धेरतोऽन्तर्यामिण्यनुमा प्रकृतोपयोगिनीत्यर्थः॥१२९॥

एतस्य212वा अक्ष213रस्य प्र214शासनविधौ सति॥
सर्वतःस्थिरम215र्यादं जगदेतद्विवर्तते॥१३०॥

अनुमानश्रुत्यक्षराणि व्याकरोति। एतस्येति॥१३०॥

प्रशासने यथा राज्ञोऽभिन्नमर्यादिकाः प्रजाः॥
पृथिव्याद्यास्तथैवेमा अक्षरस्य प्रशासने॥१३१॥

उक्तमर्थं दृष्टान्तेन स्फोरयति। प्रशासन इति। अभिन्नेति च्छेदः॥१३१॥

विवादगोचरापन्ना यन्तृपूर्वा जगत्स्थितिः॥
व्यवस्थितत्वाल्लोकस्य राजपूर्वा स्थितिर्यथा॥१३२॥

उक्तमर्थमनुमानारूढं करोति। विवादेति॥१३२॥

सूर्याचन्द्रमसौ तज्जकार्याभिज्ञपुरःसरौ॥
सर्वप्राण्युपकारित्वात्प्रासादस्थप्रदीपवत्॥१३३॥

सूर्याचन्द्रमसावित्यादौ विवक्षितमनुमानमाह। सूर्येति॥१३३॥

सूर्याचन्द्रमसावीशौ मर्यादां नातिगच्छतः॥
येनेह विधृतौ नित्यं सोऽन्तर्यामीति गम्यताम्॥१३४॥

तत्फलमाह। सूर्याचन्द्रमसाविति॥१३४॥

कुसूलवन्न भिद्येते सांशत्वात्पततोऽपि न॥
गुरुत्वाल्लोहवत्पृथ्वी द्यौरपीत्यतिविस्मयः॥१३५॥

एतस्येत्यादिद्वितीयपर्याये विवक्षितमाह। कुसूलवदिति। स्फुटनपतनप्राप्तावपि द्यावापृथिव्योस्तदुभयमदृष्टमित्यर्थः॥१३५॥

चेतनावत्स्वतन्त्रत्वाद्देवतात्मत्वकारणात्॥
नान्तरेण नियन्तारं तयोरेषा व्य216वस्थितिः॥१३६॥

अचेतनत्वादस्वतन्त्रत्वाच्च तयोरस्फुटनादीत्याशङ्क्यदेवतात्वाच्चेतनावत्त्वं स्वातन्त्र्यं च तयोरस्ति तथाऽपि व्यवस्था दृष्टेत्याह। चेतनावदिति। तथाऽपि कथं नियन्तृसि-

द्धिस्तत्राऽऽह। नान्तरेणेति। पृथिव्यादिव्यवस्था विना नियन्तारमनुपपन्ना तत्कल्पिकेत्यर्थः॥१३६॥

संयुक्तयोर्वियोगोऽपि न तयोरीक्ष्य217ते क्वचित्॥
प्रशासनमृते शास्तुर्न व्यवस्थेदृशी भवेत्॥१३७॥

द्यावापृथिव्योर्लोकेऽस्मिन्नान्यथेयं समीक्ष्यते॥
स्वभावमतिलङ्घ्यैते तिष्ठतः शास्तृशासने॥१३८॥

अर्थापत्त्यन्तरमाह। संयुक्तयोरिति। प्रशासनमिति प्रशब्दः शास्तुरित्यनेनापि संबध्यते। ईदृशी वियोगप्राप्तावपि तदभावरूपेत्यर्थः। संयोगस्य वियोगावसानत्वेऽपि द्यावापृथिव्योः संयुक्तयोर्वियोगादर्शनं नियन्तारं विनाऽनुपपद्यमानं तत्कल्पकमित्यर्थः। लोकानुभवादपि नियन्तृसिद्धिरित्याह। लोकेऽस्मिन्निति। इयमिति व्यवस्थोक्तिः। अनुभवार्थापत्तिसिद्धं निगमयति। स्वभावमिति। अतोऽस्ति प्रशास्तेति शेषः। असंज्ञायां शास्तृशब्दे प्रोपसर्गो द्रष्टव्यः। विमते प्रयत्नवता धृते गुरुत्वे सत्यपातित्वाद्धस्तन्यस्तपाषाणादिवदिति भावः॥१३७॥१३८॥

निमेषादिविभक्तानां कालांशानां व्यवस्थितिः॥
या स्वलिङ्गाजहद्वृत्त्या तदीशस्य प्रशासनम्॥१३९॥

तृतीये पर्याये विवक्षितमाह। निमेषादीति। स्वलिङ्गस्य निमेषादिव्यापारस्य कलयितृत्वस्याजहद्वृत्त्या त्यागं विनेति यावत्। निमेषादयो नियन्तृपूर्वकाः कलयितृत्वात्संप्रतिपन्नवदिति भावः॥१३९॥

नियतैव प्रवृत्तिश्च स्रोतसां महतामपि॥
नान्तरेण नियन्तारं संभाव्येत्यवसीयताम्॥१४०॥

चतुर्थपर्यायार्थमाह। नियतेति। विमता नियन्तृपूर्विका नियतप्रवृत्तित्वाद्भृत्यादिप्रवृत्तिवदिति भावः॥१४०॥

दुःखार्जितधनत्यागिनु218तिश्चजगतीक्ष्यते॥
नेयं युक्ताऽप्रसिद्धेशे तत्कर्मफलदायिनि॥१४१॥

पञ्चमपर्यायार्थमाह। दुःखेति। अप्रसिद्धेति च्छेदः॥१४१॥

दातृप्रतिग्रहीत्रोश्च क्रियात्यक्तव्ययोस्तथा॥
अन्वक्षमेव विलयो दृश्यते सार्वलौकिकैः॥१४२॥

दाता प्रतिग्रहीता दानं देयं वा फलं दास्यति किमीशेनेत्याशङ्क्याऽऽह। दात्रिति॥१४२॥

तथाऽपि तान्प्रशंसन्ति दुःखार्जितधनत्यजः॥
अपि सम्यक्प्रमाणज्ञास्तच्च नर्ते महेश्वरम्॥१४३॥

तर्हि फलदातुरभावात्स्वार्थभ्रंशो हि मूर्खतेति न्यायाद्दातृप्रशंसैव मा भूदित्याशङ्क्याऽऽह। तथाऽपीति। अप्रामाणिकप्रशंसा न प्रामाणिकैः स्वीकार्येत्याशङ्क्याऽऽह। अपि सम्यगिति। तथाऽपि कथमीश्वरसिद्धिस्तत्राऽऽह। तच्चेति। नष्टानां फलदानासामर्थ्यात्प्रशंसादृष्टेश्चफलदात्रेश्वरेण भाव्यमित्यर्थः॥१४३॥

दानादिकर्मणः साक्षात्पश्यन्तः फलसंगतिम्॥
प्रमाणज्ञाः प्रशंसन्ति यच्च तच्च सतीश्वरे॥१४४॥

तदनुमानेन द्रढयति। दानादीति। कथं कर्मतत्फलसंगतौ पश्यतिप्रयोगः पारलौकिकसाध्यसाधनभावस्य श्रौतत्वादित्याशङ्क्याऽऽह। प्रमाणज्ञा इति। विमतं विशिष्टविज्ञानवद्दातृकं कर्मफलत्वात्सेवाफलवदिति भावः॥१४४॥

शास्तर्यसति तत्कर्मफलवैचित्र्यवेदिनि॥
सर्वज्ञेऽनुपपन्नं स्यात्कर्मज्ञानफलप्रदे॥१४५॥

तत्रैवार्थापत्तिं मत्वाऽऽह। शास्तरीति। तद्धि दातृप्रशंसनं विशिष्टे नियन्तर्यसत्यनुपपन्नं तत्कल्पकमित्यर्थः॥१४५॥

नाप्यनीशमपूर्वं च प्रकल्प्यं फलसंगतौ॥
यतोऽपूर्वस्य संसिद्धौ प्रमाणं नोपपद्यते॥१४६॥

अपूर्वस्यैव फलदातृत्वात्कृतमीश्वरेणेति केचित्तान्प्रत्याह। नापीति। स्वयमचेतनं चेतनेनानधिष्ठितं चापूर्वं न फलदातृकल्प्यमित्यर्थः। जीवात्मना चेतनेनाधिष्ठितं तत्फलदातृस्यादिति चेन्नेत्याह। यत इति। अतो न तत्फलदातृस्यादिति शेषः। पराक्रान्तं चात्र संबन्धादौ॥१४६॥

नियन्तुरपि चेन्मैवं श्रुतेर्वस्तुन्यपि ध्रुवम्॥
प्रामाण्यस्य पुरोक्तत्वात्तत्सिद्धेश्चानुमानतः॥१४७॥

ईश्वरद्वेषिणः शङ्कामुत्थाप्य शिथिलयति। नियन्तुरित्यादिना। संसिद्धौप्रमाणं नोपपद्यत इति संबन्धः। इतश्च नियन्तृसिद्धौ मानादृष्टिरसिद्धेत्याह। तत्सिद्धेश्चेति॥१४७॥

अर्थापत्तेरपूर्वस्य कल्पनाऽपि न युज्यते॥
अन्यथाऽप्युपपन्नत्वादर्थापत्तेः क्षयो यतः॥१४८॥

कर्मविधिर्हि फलदात्रतिरेकेण नोपपद्यते न कर्माऽऽशुतरविनाशि कालान्तरभाविफलानुकूलं तदर्थापत्तिसिद्धेऽपूर्वे कथं मानासिद्धिरित्याशङ्क्याऽह। अर्थापत्तेरिति। अपूर्वातिरेकेण फलप्राप्तिरन्यथोपपत्तिः॥१४८॥

सेव्यात्सेवाफलप्राप्तिदर्शनान्न त्वपूर्वतः॥
सेवायाश्च क्रियात्मत्वाद्दानयागादि च क्रिया॥१४९॥

तामेव साधयति। सेव्यादिति। ईश्वरात्फलप्राप्तिसंभवादर्थापत्तेरन्यथोपपत्तेरिति शेषः। कथमीशाधीना फलप्राप्तिस्तत्राऽऽह। सेवायाश्चेति। सेवाफलवद्दानादिफलमिति शेषः॥१४९॥

दानादिफलप्राप्तिः सेव्याद्भवितुमर्हति॥
क्रियात्मकत्वाद्दानादे राजसेवाफलाप्तिवत्॥१५०॥

तत्रानुमानमाह। दानादीति। विमता विशिष्टज्ञानवता दीयमानफलवती विशिष्टक्रियात्वात्संमतवदित्यर्थः॥१५०॥

सर्वकर्मफलप्राप्तिरीश्वरादेव नान्यतः॥
इत्याह भगवान्व्यासः सर्वज्ञोऽपि महामतिः॥१५१॥

ईश्वरो न वैदिकक्रियाफलदातेश्वरत्वाल्लौकिकेश्वरवदित्याशङ्क्य स्मृतिविरोधमाह। सर्वेति॥१५१॥

यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम्॥
स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः॥१५२॥

व्यासप्रणीतं भगवद्वाक्यमुदाहरति। यत इति॥१५२॥

अपि दृष्टक्रियाधर्मसामर्थ्यमनिरस्य तु॥
फलाप्तिकल्पनासिद्धावपन्यायोऽन्यथा भवेत्॥१५३॥

ननु सेवाफलं सेव्याद्युक्तं दृष्टत्वाद्दानादिफलं तु नेश्वरादप्रसिद्धेरित्याशङ्क्याऽऽह। अपि दृष्टेति॥१५३॥

लोकदृष्टक्रियाधर्मसामर्थ्यत्यागलक्षणः॥
अपन्यायो न युक्तोऽतो न्यायवर्त्मासमन्वयात्॥१५४॥

अपन्यायं स्फोरयति। लोकेति। दृष्टं सेवाया धर्मत्वेन सामर्थ्यं सेव्यात्फलप्रापकत्वं तदनुसृत्य दानादौ फलप्राप्तिसंभवे तन्निरासेनापूर्वात्तत्कल्पना न न्याय्या दृष्टानुसारिण्यां कल्पनायां तद्विरोधकल्पनायोगादित्यर्थः॥१५४॥

कल्पनाधिक्यतश्चैतदपूर्वं नोपपद्यते॥
कल्प्य ईशोऽथवाऽपूर्वं किं कल्प्यमुपपद्यते॥१५५॥

अर्थापत्तेरन्यथैवोपपत्तिमुक्त्वाऽपूर्वस्य फलहेतुत्वे दोषान्तरमाह। कल्पनेति। तदाधिक्यं वक्तुं परामृशति। कल्प्य इति॥१५५॥

सेव्यात्क्रियाफलप्राप्तिर्दृष्टेयं न त्वपूर्वतः॥
नाप्यपूर्वं क्वचिद्दृष्टं तन्मानासंभवादिह॥१५६॥

नापूर्वं कल्प्यं क्लृप्तत्वात्तन्न कल्पनाधिक्यमित्याशङ्क्याऽऽह। सेव्यादिति। इहेति शास्त्रलोकयोर्ग्रहणम्॥१५६॥

अपूर्वं निष्प्रमाणं च दातुं शक्तिरथास्य च॥
फलदातृत्वसामर्थ्येदानं चाभ्यधिकं तथा॥१५७॥

भूमिकां कृत्वा कल्पनाधिक्यं स्फुटयति। अपूर्वमिति॥१५७॥

इह त्वीशातिरेकेण नान्यत्किंचित्प्रकल्प्यते॥
परिशिष्टस्य कल्प्यस्य सेव्ये दृष्टत्वकारणात्॥१५८॥

त्वन्मतेऽपि तुल्या कल्पनेत्याशङ्क्याऽऽह। इह त्विति। तस्य फलदानसामर्थ्यं तस्मिन्सति दानं च कल्प्यमित्याशङ्क्याऽऽह। परिशिष्टस्येति। स्वपक्षे धर्मिमात्रं कल्प्यं परपक्षे धर्मी धर्मश्चेत्याधिक्यं तस्मात्फलमत उपपत्तेरिति न्यायेन परस्यैव फलदातृतेति भावः॥१५८॥

देवाश्च पितरश्चैव मनुष्याणामधीनताम्॥
नाऽऽप्नुयुर्हव्यकव्यार्थंयदि नाभूत्प्रशासिता॥१५९॥

ददत इत्यादि व्याख्याय यजमानमित्यादि व्याचष्टे। देवाश्चेति। देवादीनामीश्वराणामपि हव्याद्यर्थित्वेन मनुष्याधीनत्वाख्यहीनवृत्तिभाक्त्वं नियन्तृकल्पकमित्यर्थः॥१५९॥

यदज्ञानाज्जगत्यस्मिंस्तीव्रानर्थपरंपरा॥
ज्ञानाच्च मुक्तिः संसारात्कथं नास्ति प्रशास्तृतत्॥१६०॥

ईश्वरास्तित्वे युक्त्यन्तरमाह। यदज्ञानादिति॥१६०॥

ननु क्रियात एवेयं संसारोच्छिचिरिष्यते॥
नैवं यतो न कर्मभ्यो मुक्तिः संभाव्यतेऽश्रुतेः॥१६१॥

ज्ञानान्मुक्तिं सिषाधयिषुश्चोदयति। नन्विति। परिहरति। नैवमिति। असंभवेः हेतुः। अश्रुतेरिति॥१६१॥

यथाच कर्मणा मुक्तिर्न कथंचन युज्यते॥
तथोक्तत्वात्पुरा नेह भूयो वक्तव्यमिष्यते॥१६२॥

न परमश्रुतेरेव तेभ्यो मुक्त्ययोगः किंतु न्यायविरोधाच्चेति प्रागुक्तं स्मारयति। यथा चेति॥१६२॥

असंभवो यथा मुक्तेः क्रियासाधनसंश्रयात्॥
तथेयं219 श्रुतिरप्याह यो वा इत्यादिवाक्यतः॥१६३॥

न कर्मभ्यो मुक्तिरित्यत्रैवानन्तरवाक्यमवतारयति। असंभव इति॥१६३॥

उदारफलदायीनि बहुशोऽनुष्ठितान्यपि॥
क्षयिष्णुफलवन्त्येव कर्माणि यदबोधतः॥१६४॥

तदक्षराणि व्याकरोति। उदारेति। यस्याज्ञानादसकृदनुष्ठितानि विशिष्टफलान्यपि सर्वाणि कर्माणि संसारमेव फलयन्ति तदज्ञातं वस्तु नास्तीत्ययुक्तं संसाराभावप्रसङ्गादित्यर्थः॥१६४॥

तथाच यत्परिज्ञानात्कृत्स्नकार्पण्यनिःसृतिः॥
कथमेवंविधं गार्गि नास्तीत्यक्षरमुच्यते॥१६५॥

कर्मभ्यो मोक्षायोगादक्षराज्ञानाच्च बन्ध इति स्थिते फलितमाह। तथाचेति॥१६५॥

सर्वे कार्पण्ययुक्ताः स्युर्यदि न स्यात्तदक्षरम्॥
ईक्ष्यन्ते चाप्यकृपणास्तच्च सत्येव यन्तरि॥१६६॥

अक्षरास्तित्वे हेत्वन्तरमाह। सर्व इति। इष्टापत्तिमाशङ्क्याऽऽह। ईक्ष्यन्ते चेति॥१६६॥

यो वा एतदिति स्पष्टं श्रुतिरप्याह यत्नतः॥
अक्षराज्ञानतः पुंसां कार्पण्येनावियु220क्तताम्॥१६७॥

उत्तरवाक्ययोस्तात्पर्यमुक्त्वाऽनन्तरवाक्यस्थाक्षरार्थमाह। यो वा इति। स्पष्टं वाचकशब्दप्रयोगपूर्वकमित्यर्थः। तत्त्वज्ञानात्कार्पण्यनिवृत्तिरित्यभिप्रायो यत्नः॥१६७॥

अक्षरं यो विदित्वाऽस्माल्लोकाद्गार्गि प्रमीयते॥
निवर्तते स कार्पण्यात्तज्ज्ञानाद्ध्वान्तबाधतः॥१६८॥

अथेत्यादिवाक्याक्षराणि व्याकरोति। अक्षरमिति। अस्माल्लोकाद्देहादिति यावत्। प्रमीयते हिंस्यते म्रियत इत्यर्थः॥१६८॥

यस्त्वक्षरपरिज्ञानान्मृत्युमृत्युः प्रमीयते॥
स एव ब्राह्मणो नान्यो जगत्यध्यवसीयताम्॥१६९॥

अक्षरविदो युक्तमकार्पण्यं कार्पण्यहेत्वज्ञानस्याक्षरज्ञानादपनयाद्ब्राह्मण्यं त्वन्यस्यापि तुल्यमिति कथं फलत्वेनोक्तमित्याशङ्क्याऽऽह। यस्त्विति॥१६९॥

सर्वज्ञः सर्वकृच्चासौ निरस्ता शेषसंसृतिः॥221
प्राप्ता222शेषपुमर्थश्च ब्राह्मणोऽत्राभिधीयते॥१७०॥

तस्य मुख्यं ब्राह्मण्यं प्रकटयति। सर्वज्ञ इति॥१७०॥

ज्ञेयत्वसिद्धये प्राह यथोक्तेश्वरवर्त्मना॥
अक्षरस्य श्रुतिः साक्षात्तद्वा इत्येवमादिना॥१७१॥

सोपाधिकस्य सर्वज्ञत्वादिमतोऽक्षरस्य ज्ञानान्मुक्तिश्चेन्निरुपाध्यक्षरं नास्त्येवेत्याशङ्क्यानन्तरवाक्यमादत्ते। ज्ञेयत्वेति। अकार्यकारणप्रत्यगक्षरस्य स्वस्मिन्नारोपितेश्वरत्वादिनिरासद्वारेणापरोक्षतया प्रतिपत्त्यर्थं तद्वा इत्यादिवाक्येन श्रुतिरनौपाधिकं तदाहेत्यर्थः॥१७१॥

एतदस्य प्रशास्तृत्वं स्वमोहाभासहेतुकम्॥
नेति नेत्यादिवाक्येभ्यो दृष्टिमात्रात्मवस्तुनः॥१७२॥

अग्नेरिव प्रकाशकत्वं स्वाभाविकमक्षरस्येश्वरत्वं तत्कथं तन्निरासद्वारा निरुपाध्यक्षरसिद्धिस्तत्राऽऽह। एतदिति। ईश्वरत्वादेरारोपितत्वे गमकमाह। नेतीति॥१७२॥

इत्येतत्प्रतिपत्त्यर्थं तद्वा एतदिति श्रुतिः॥
मागोचरातिवर्तित्वाददृष्टं स्यात्तदक्षरम्॥१७३॥

तस्याध्यस्तत्वे सिद्धे तन्निरासेन निरुपाध्यक्षरदृष्ट्यर्थमनन्तरश्रुतिर्युक्तेत्याह। इत्येतदिति। तात्पर्यमुक्त्वाऽदृष्टमिति पदं व्याचष्टे। मागोचरेति॥१७३॥

अभावत्वनिषेधार्थं द्रष्ट्रक्षरमिहोच्यते॥
कूटस्थदृष्टिमात्रत्वान्न तु द्रष्टृत्वमुच्यते॥१७४॥

अमेयत्वादसत्त्वे प्राप्ते द्रष्टृपदमादत्ते। अभावत्वेति। दृष्टिकर्तृत्वात्तर्हि क्रियावत्त्वं तत्किं स्वविषयमन्यविषयं वा दर्शनमाद्यं दूषयति। कूटस्थेति॥१७४॥

ओतप्रोतगिराऽशेषदृश्यवस्तुनिराकृतेः॥
अकारकाद्वयत्वाभ्यां द्रष्टृत्वं नाक्षरात्मनः॥१७५॥

द्वितीयं प्रत्याह। ओतेति। पक्षयोरसंभवे हेत्वन्तरमाह। अकारकेति॥१७५॥

बहुद्रष्टृनिषेधार्थं नान्यदित्याद्युदीरणम्॥
विजातीयसजातीयवस्त्वन्तरनिषेधतः॥
कूटस्थमेकं चैतन्यं सिद्धं श्रुत्यनुसारतः॥१७६॥

नेत्यादिवाक्यस्य तात्पर्यमाह। बह्विति। प्रकरणार्थमुपसंहरति। विजातीयेति। ओतप्रोतवाक्येन प्रत्यगतिरिक्तं जडं निरस्तं नान्यदित्यादिना चाजडं तस्मादखण्डं वस्तु श्रुतितात्पर्यगम्यं सिद्धमित्यर्थः॥१७६॥

एतस्मिन्नक्षरे गार्गि स्रजि क्लृप्तफणीन्द्रवत्॥
ओतः प्रोतश्च निःशेष आकाशोऽकारणात्मनि॥१७७॥

एतस्मिन्नित्यादिवाक्याक्षराणि योजयति। एतस्मिन्निति। निःशेषः सकार्यः॥१७७॥

अक्षरं स्वात्मसंमोहात्कारणत्वं निगच्छति॥
तथा कार्यत्वमप्येतन्निरवद्यं तदेकलम्॥१७८॥

अकारणात्मनीत्यक्षरस्य कथं कार्यकारणवैलक्षण्यं तस्य सर्वाश्रयत्वाश्रयणादित्याशङ्क्याऽऽह। अक्षरमिति॥१७८॥

सर्वस्याक्षरमात्रत्वान्न किंचिन्नोपसंहृतम्॥
प्रत्यग्विरोधतस्तद्वन्न किंचिन्नापि निह्नुतम्॥१७९॥

निरवद्यमेकलमित्येतदेव स्फुटयति। सर्वस्येति। न तावदक्षरेणासंगृहीतमर्थान्तरमस्ति सर्वस्य तदितरस्वरूपाभावान्न च तदभेदेन तद्वर्तते प्रत्यक्पराञ्चोर्विरोधात्तद्युक्तं तदैकरस्यमित्यर्थः॥१७९॥

तथा ज्ञेयस्य सर्वस्य ज्ञाताज्ञातविभागिनः॥
उक्ताक्षरात्मावसितेर्न किंचिदवशिष्यते॥१८०॥

प्रतीचो भेदाभेदाभ्यां कार्यकारणयोरभावेऽपि वस्त्वन्तरं स्यादित्याशङ्क्याऽऽह। तथेति। तद्धि ज्ञेयं न वाऽऽद्ये कारणाद्यन्तर्भावाद्भेदाभेदाभ्यां तद्वदभावो द्वितीये स्वतः स्फूर्तावक्षरान्तर्भावोऽन्यथा मानाभावात्तदसत्तेत्यर्थः॥१८०॥

नानुत्पन्नमितो ज्ञानात्किंचिदप्यवशिष्यते॥
नाप्यध्वस्तं तथाऽज्ञानं कृत्स्नज्ञेयसमाप्तितः॥१८१॥

श्लोकानामादितः समष्ट्यङ्काः—६७००

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके तृतीयाध्यायस्याष्टमं
ब्राह्मणम्॥८॥

उत्पिपादयिषितं ज्ञानं वस्त्वन्तरमिति चेन्नेत्याह। नानुत्पन्नमिति। निराचिकीर्षितमज्ञानं तर्हि वस्त्वन्तरं नेत्याह। नापीति। न चेदमाकाशाधिकरणमक्षरं वर्णविशेषात्मकमक्षराधिकरणविरोधादिति भावः॥१८९॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिकटीकायां तृतीयाध्याय-
स्याष्टमं ब्राह्मणम्॥८॥

<MISSING_FIG href="../books_images/U-IMG-1734079226Screenshot2024-12-13141014.png"/>

अथ नवमं ब्राह्मणम्।

—————————

सूत्रादिकार्यमार्गेण यन्तृत्वं कारणात्मनः॥
यदभ्यधायि प्राक्श्रुत्यातदेवानूद्य पूर्ववत्॥१॥

साक्षादित्यादि याथात्म्यं भूयोऽप्यात्मन उच्यते॥
नियम्यदेवताभेदव्याससंक्षेपवर्त्मना॥२॥

यत्साक्षादित्यादि प्रस्तुत्य सर्वान्तरत्वनिरूपणद्वारा साक्षात्त्वादिकमार्थिकं ब्राह्मणत्रयेण निर्धारितमधुना साक्षादेव तन्निर्धारणार्थमिदं ब्राह्मणमिति संगतिमाह। सूत्रादीति

यदन्तर्यामिब्राह्मणे यः पृथिव्यामित्यादिश्रुत्या नियम्यसर्वापेक्षया कारणस्याऽऽत्मनो नियन्तृत्वमुक्तं तदत्र पूर्वोक्तप्रकारानुसारेण प्राणसमानशब्दाभ्यामनूद्य तदेवाऽऽलम्ब्य नियम्यदेवताविशेषविस्तारसंकोचोक्तिद्वारा साक्षात्त्वादिरूपमात्मसंबन्धितया प्रागुक्तमपि पुनर्निर्णेतुमेतद्ब्राह्मणमित्यर्थः॥१॥२॥

चिदाभासं स्वमज्ञानं संनिपत्य तदक्षरम्॥
कारणं सत्स्वकार्येषु नियन्तृत्वं प्रपद्यते॥३॥

कूटस्थासङ्गाद्वयस्याऽऽत्मनो नियन्तृत्वायोगमाशङ्क्योक्तमनुवदति। चिदिति॥३॥

सुषुप्तप्रलयावस्थप्रा223णात्माऽक्षरमुच्यते॥
स ब्रह्म त्यदिति तथा श्रुतिरप्याह तत्स्फुटम्॥४॥

उक्तलक्षणमक्षरं साभासाज्ञानोपाधिकारणं भूत्वा नियन्तृ भवतीत्ययुक्तं, प्राणं तर्हि वागप्येतीत्यादौ प्राणस्यैव स्वापाद्यवस्थापन्नस्य कारणत्वश्रुतेरित्याशङ्क्यप्राणाक्षराभेदान्मैवमित्याह। सुषुप्तेति। तयोरभेदे वाक्यशेषं प्रमाणयति। स ब्रह्मेति। स ब्रह्मत्यदित्याचक्षत इति श्रुतिरपि सशब्देन प्राणमनुकृष्य तत्र ब्रह्मशब्दं प्रयुञ्जाना प्राणाख्यकारणस्य ब्रह्मणश्चास्मदुक्तानुसारेणैक्यं स्फुटमाहेत्यर्थः॥४॥

इत्यन्तर्याम्यवस्थायां स्थित्वैकां प्राणदेवताम्॥
सूत्राद्यवच्छेदवशात्सर्वमेतन्नियच्छति॥५॥

प्राणाख्यकारणैक्यादक्षरस्यैव कारणत्वेऽपि केन क्रमेण तस्य नियन्तृत्वमित्याशङ्क्याऽऽह। इत्यन्तर्यामीति। उक्तरीत्या साभासाज्ञानोपाध्यक्षरस्य कारणत्वे स्थिते तदेव नियन्त्रवस्थायां स्थित्वा प्रथमं प्राणदेवताख्यं साभासमज्ञानं नियच्छति ततस्तत्कार्यसूत्राद्यवच्छेदात्तदात्मना स्थित्वा तत्तन्नियमयत्येवं सर्वजगन्नियन्तृताऽक्षरस्येत्यर्थः॥५॥

नानात्वैकत्वरूपाभ्यां सा पुनः प्राणदेवता॥
स्थिता जगदिदं व्याप्य प्राणिकर्मवशादियम्॥६॥

यस्य क्रमेण नियन्तृत्वं तदेवोत्तरप्रश्नविषयविवेकार्थमनुभाषते। नानात्वेति। नियन्तुः सर्वजगद्व्याप्तौ हेतुमाह। प्राणीति॥६॥

तस्या विक्षेपसंहारौ शाकल्यः पर्यपृच्छत॥
नियन्तव्यनियन्तृत्वसंबन्धस्य प्रसिद्धये॥७॥

उक्तप्राणदेवतास्वरूपविषयं प्रश्नमुत्थापयति। तस्या इति। देवताविकाससंकोचप्रश्नफलमाह। नियन्तव्येति। स्थूलरूपस्य नियम्यत्वं सूक्ष्मरूपस्य नियन्तृत्वमित्येवंविधं संबन्धं ज्ञातुं पृष्टवानित्यर्थः॥७॥

देवसंख्यां स संपृष्टो निविदैव प्रपेदिवान्॥
देवा निविदियावन्तो वैश्वदेवस्य संश्रिताः॥८॥

तावन्त एव सोऽसुः स्याज्जगत्यस्मिंश्चराचरे॥
आनन्त्यं बहुशब्देन देवानां प्राब्रवीन्मुनिः॥९॥

स हेत्यादेरर्थमाह। देवेति। निविदा निवेद्यते देवतासंख्या यया मन्त्रपदरूपया वाचा तयेति यावत्। यावन्त इत्यादेरर्थमाह। देवा इति। या निविद्वैश्वदेवशस्त्रसंबद्धा तत्र यावत्संख्याकाः शस्यमानत्वेन स्थितास्तावन्तो देवा इत्यर्थः। कथं तर्हि प्राणैक्यं प्रतिज्ञायते तत्राऽऽह। सोऽसुरिति। देवताभेदः प्राण एवेति तदैक्यप्रतिज्ञेत्यर्थः। त्रयश्चेत्यादिनिवित्पदेषु बहुवचनस्य तात्पर्यमाह। आनन्त्यमिति॥८॥९॥

त्रयस्त्रिंशत्प्रभृत्येषां षडादिषु यथाक्रमम्॥
संहृतिः प्रातिलोम्येन व्यूहस्त्वागणनाक्षयात्॥१०॥

त्रयस्त्रिंशदित्यादेस्तात्पर्यं वदन्देवानां संकोचविकासावधिमाह। त्रयस्त्रिंशदिति। षडधिकत्रिशताधिकत्रिसहस्रसंख्यानां देवानां त्रयस्त्रिंशद्देवेषु तानारभ्यषट्सु तेषां त्रिषु तेषां द्वयोस्तयोरध्यर्धे तस्य प्राणे पाठक्रमेणोपसंहारस्तद्विपरीतक्रमेण विस्तारोऽनन्तदेवपर्यन्त इत्यर्थः॥१०॥

कतम इति पृष्टोऽथ वस्वादीन्प्रत्यपद्यत।
वसूनप्यथ संपृष्टः सोऽग्न्यादीन्प्राब्रवीद्वसून्॥११॥

कतमेत इत्यादेरर्थमाह। कतम इति। कतमे वसव इत्यादेरर्थमाह। वसूनिति। त्रयस्त्रिंशद्देवानां गणशो निर्णयानन्तरमित्यथशब्दार्थः॥११॥

संहृतात्मप्रभेदा हि सैवैका प्राणदेवता॥
वसुत्वमष्टधा भिन्ना बिभर्ति जनिमत्स्थितौ॥१२॥

अन्ये तर्हि वसवोऽन्या च प्राणदेवतेति तदैक्यविरोधमाशङ्क्याऽऽह। संहृतेति। देवतायाः संकोचविकाससंभवो हिशब्दार्थः॥१२॥

वसु कर्मफलं चाऽऽहुः कर्मणः साधनं वसु॥
यस्मात्तदेषु निहितं तस्मात्ते वसवः स्मृताः॥१३॥

एतेषु हीत्यादौ वसुशब्दार्थमाह। वस्विति। तस्मादित्यादि व्याचष्टे। यस्मादिति। तदधीनत्वात्कर्मादेरित्यर्थः॥१३॥

पुरुषे ये दश प्राणा इन्द्रियाणि सहाऽऽत्मना॥
मनसैकादशात्रैतान्रुद्रानित्याचचक्षिरे॥१४॥

एकादशेत्यादेरर्थमाह। पुरुष इति। प्राणशब्दार्थमाह। इन्द्रियाणीति। आत्म-

शब्दार्थमाह। मनसेति। इत्येकादश ये पुरुषाकारे देहे सन्ति तानत्र रुद्रान्वदन्तीति योजना॥१४॥

रोदयन्तो द्रवन्त्येते रुदन्ति च यतस्ततः॥
रुद्रा इत्यभिधीयन्ते प्राणा एकादशोदिताः॥१५॥

ते यदेत्यादेरर्थमाह। रोदयन्त इति॥१५॥

आददाना यतो यन्ति मर्त्यानां स्थितिकारणम्॥
मासाभिमानिनो देवा आदित्यास्तेन ते स्मृताः॥१६॥

एते हीत्यादेरर्थमाह। आददाना इति॥१६॥

आयुर्वीर्यं स्मृतिं प्रज्ञां सौकुमार्यं वपुः श्रियम्॥
आददाना यतो यन्ति तेनाऽऽदित्या अमी स्मृताः॥१७॥

तेषां स्थितिकारणं व्याकुर्वन्नुक्तं विवृणोति। आयुरिति॥१७॥

इन्द्रश्च देवता ज्ञेया मेघनादाभिमानिनी॥
स्तनयित्नुरिह ज्ञेयस्तथा यज्ञः प्रजापतिः॥१८॥

स्तनयित्नुरित्यादेरर्थमाह। इन्द्रश्चेति। अत्र स्तनयित्नुरेवेन्द्रो ज्ञेयः स्तनयित्नुश्च मेघनादाभिमानिनी देवता ज्ञेयेति योजना। यथाऽत्रेन्द्रः स्तनयित्नुरुक्तस्तथा प्रजापतिरिह यज्ञः स्यादिति योजनीयम्॥१८॥

वीर्यं वज्रोऽशनिरिति स्तनयित्नुरिहोच्यते॥
पशुसाधनको यस्माद्यज्ञस्तस्मात्पशुः स्मृतः॥१९॥

अशनिशब्दार्थमाह। वीर्यमिति। यद्यपि पूर्वं स्तनयित्नुर्मेघनादाभिमानिनी देवतोक्ता तथाऽप्यत्र वीर्यादिशब्दितोऽसावित्यभिप्रायेणेहशब्दप्रयोगः। पशव इत्यस्यार्थमाह। पश्विति॥१९॥

अग्न्यादिषु यतः षट्सु यथोक्ताः सर्वदेवताः॥
षट्संख्यामेव संयान्ति षडग्न्याद्यास्ततः स्मृताः॥२०॥

एते हीदमित्यादि व्याकरोति। अग्न्यादिष्विति। अन्तर्भूताः सत्य इति शेषः॥२०॥

आधाराधेययोरैक्यात्पृथिव्यग्न्यादिषु त्रिषु॥
यो देवास्ततोऽग्न्या224द्याः कृत्स्नान्तर्भावकारणात्॥२१॥

इम एवेत्यादि व्याकरोति। आधारेति। एषु हीत्यादि व्याचष्टे225कृत्स्नेति। ततः शब्दस्तु प्राच्या पञ्चम्या योज्यः॥२१॥

अन्नंप्राणश्च देवौ द्वौ द्वयोरेष विनिर्णयः॥
एतावन्मात्रयाथात्म्यं सर्वस्य जगतस्ततः॥२२॥

अन्नं चेत्यादेरर्थमाह। अन्नमिति। कथमेतावेव द्वौ देवौ तत्राऽऽह। एतावन्मात्रेति॥२२॥

योऽयं पवत इत्युक्तिरध्यर्धस्य विनिर्णये॥
एकत्वात्पवमानस्य तदाहुरिति चोदना॥२३॥

योऽयमित्यादि व्याचष्टे। योऽयमिति। तदित्यादेस्तात्पर्यमाह। एकत्वादिति॥२३॥

एकसंख्यैव नान्याऽस्ति द्विसंख्याया यतस्ततः॥
पृष्टोऽध्यर्धइति प्राह सोपहासमृषिः सुधीः॥२४॥

यदित्यादिप्रत्युक्तिमवतारयति। एकेति। द्वितीयसंख्यायाः सकाशादर्वागेकत्वसंख्यैवास्ति न च संख्यान्तरमतोऽध्यर्धशब्दस्य संख्याविषयत्वायोगेऽपि तद्विषयत्वमुपेत्य कथमयमेकः सन्नध्यर्धः स्यादिति पृष्ट एष मुनिरयोग्यविषयत्वं प्रश्नस्य पश्यन्नुपहासपूर्वकं यदस्मिन्नित्याद्युक्तवानित्यर्थः॥२४॥

वायुर्वा देवता कृत्स्ना तदन्यस्य तदात्मनः॥
अर्धत्वं स्यात्कनीयस्त्वाद्व्याप्यस्याग्न्यादिरूपिणः॥२५॥

अध्यर्धशब्दस्य संख्याविषयत्वमुपेत्य श्रुतेर्बहिः समाधिमाह। वायुर्वेति॥२५॥

ऋद्धिं प्रापद्यतः226 सर्वं वायौ227 सति चराचरम्॥
तस्मादध्यर्ध इत्येवं वायुमाचक्षते बुधाः॥२६॥

यदस्मिन्नित्यादिश्रुत्यक्षराणि व्याचष्टे। ऋद्धिमिति॥२६॥

संख्याप्राधान्यमध्यर्धे विदग्धेन विवक्षितम्॥
सर्वमृध्नोति यत्प्राणे तेनेति श्रुतिहृद्गतम्॥२७॥

प्रकरणादध्यर्धशब्दस्य संख्याविषयत्वे कथमुपहासोक्तिरत आह। संख्येति। कथं तर्हि यौगिकार्थोक्तिस्तत्राऽऽह। सर्वमिति। शाकल्यस्य मिथ्यावादिनो मतमपास्य सम्यग्ज्ञानिनो मुनेर्मतमुपास्यमित्यर्थः। प्राणे सति सर्वं जगदृद्धिं यस्मादाप्नोति तेनाध्यर्धः स इति श्रुतेर्मतमिति योजना॥२७॥

अन्नाशितृत्वसिद्ध्यर्थं यथा व्युत्पत्तिरुच्यते॥
अन्नेनाश्रुत इत्येवमध्यर्धस्यापि योजना॥२८॥

अध्यर्धशब्दस्य यौगिकत्वं दृष्टान्तेनाऽऽह। अन्नेति। ऐतरेयके228प्राणस्यान्नाशितृत्व-

मुक्तं तत्सिद्ध्यर्थमन्नेन हीदं सर्वमश्नुते प्राण इत्येवंप्रकारेण व्युत्पत्तिर्यथोच्यते तथाऽध्यर्धशब्दस्यापि व्युत्पत्तिरित्यर्थः॥२८॥

जनिमत्सर्वभूतानां प्राणेऽन्तर्भावहेतुतः॥
प्राणो देवोऽत एवैकस्तस्यैव महिमा परः॥२९॥

प्राणशब्दार्थमाह। जनिमदिति॥२९॥

भरणात्सर्वकार्याणां प्राणो ब्रह्मेति भण्यते॥
त्यदित्याचक्षते तस्मात्प्राणं ब्रह्म परोक्षतः॥३०॥

स ब्रह्मेत्यादेरर्थमाह। भरणादिति॥३०॥

साक्षान्निर्देशनुत्त्यर्थं कारणत्वावबुद्धये॥
प्राणं ब्रह्म त्यदित्याहुःपारोक्ष्येण महाधियः॥३१॥

प्राणस्य ब्रह्मत्वं परोक्षत्वं च कस्मादुक्तं तत्राऽऽह। साक्षादिति। प्राणस्य साक्षान्निर्दशनिरासार्थं त्यदिति पारोक्ष्येण तन्निर्दिशति तस्य कारणत्वप्रतिपत्त्यर्थं ब्रह्मेति तद्विदस्तं वदन्तीत्यर्थः॥३१॥

करणेष्वेषु सर्वेषु तथा कार्यात्मकेषु च॥
अध्यात्मादिषु कार्त्स्न्येन तेषु तेष्ववतिष्ठते॥३२॥

पृथिव्येवेत्याद्यवतारयितुं प्राणस्य सर्वात्मत्वमनुवदति। करणेष्विति॥३२॥

अष्टधाऽतः पुनस्तस्य भेदोऽयमुपवर्ण्यते॥
अधिकारविशेषेण पृथिवीत्यादिनाऽधुना॥३३॥

कार्यकरणेष्वध्यात्मादिभिन्नेषु स्थूलसूक्ष्मोपाधिषु सर्वेषु स्वरूपत्वेन प्राणस्तिष्ठतीत्युक्तमनूद्योत्तरवाक्यतात्पर्यमाह। अष्टधेति। सर्वात्मत्वमतःशब्दार्थः। ननु प्राणस्य संकोचविकासाभ्यामैक्यमानन्त्यं चोक्तं तत्कथमष्टधात्वं तत्राऽऽह। अधिकारेति। एकस्यापि प्राणस्य पृथिव्यादौ स्वामित्वेन संबन्धविशेषादष्टधात्वमित्यर्थः॥३३॥

अनन्तभेदभिन्नस्य पुनरप्यष्टधोच्यते॥
देवतासमुदायस्य भेदः संक्षेपलक्षणः॥३४॥

अनन्तभेदे प्राणे व्याख्याते तस्याष्टधा भेदोऽप्युक्त एवेति किं पुनरुक्त्येत्याशङ्क्योक्तं प्रपञ्चयति। अनन्तेति। देवतासमुदायस्य सर्वदेवतात्मकस्य प्राणस्येत्यर्थःI ध्यानसौकर्यार्थं संक्षेपोक्तिरिति भावः॥३४॥

पृथिव्यायतनं यस्य तत्स्थोऽग्निर्लोक एव च॥
तस्याऽऽलोकनहेतुः स्यादग्निर्देवस्य सर्वदा॥३५॥

पृथिवीत्यादेरक्षरार्थमाह। पृथिवीति। चकाराद्यस्येति संबन्धः। तं यो विद्यात्स229

वेदितेत्युत्तरत्र230 संबन्धः। कथमग्निरस्य लोकस्तत्राऽऽह। तस्येति। अतः स लोकोऽग्निरिति शेषः॥३५॥

मनश्च ज्योतिर्विज्ञानं संकल्पादिस्वलक्षणम्॥
स्वरूपं वा मनोज्योतिर्यस्य231 देवस्य भण्यते॥३६॥

मनोज्योतिरिति व्याचष्टे। मनश्चेति। संकल्पादिरूपं मनो ज्योतिःशब्दितं विज्ञानं प्रति यस्य कारणं तं विद्वान्वेदितेत्यर्थः। अस्यार्थान्तरमाह। स्वरूपमिति। यस्य मनोरूपं ज्योतिः स्वरूपं तं विद्वान्वेदितेति यावत्॥३६॥

क्षितिदेहोऽग्निनयनो मनःसंकल्पसाधनः॥
यः पृथिव्यभिमान्यत्र सर्वस्यैव परायणम्॥३७॥

आध्यात्मिकस्य सर्वस्य कार्यस्य करणस्य च॥
परायणमवष्टम्भ आत्मनः स्यात्तथाविधम्॥३८॥232

याज्ञवल्क्येह यो विद्याद्वेदिता स्यात्स एव तु॥
पण्डितो न त्वनेवंविद्यथा त्वं पण्डितायसे॥३९॥

वाक्यत्रयार्थं संक्षिपति। क्षितीति। पृथिव्यस्मीत्यभिमानी पूर्वोक्तो यो देवस्तं विद्वानत्र विद्वानित्यर्थः। सर्वस्येत्यादि व्याचष्टे। सर्वस्यैवेति। यो वै तमित्यादेरर्थमाह। तथेति। इहेत्यधिकृतनिर्धारणार्था सप्तमी। वैशब्दस्य स एवेत्युक्तमवधारणार्थत्वं विशदयति। न त्विति॥३७॥३८॥३९॥

इयता यदि पाण्डित्यं लभ्यते वेदतर्हि तम्॥
शारीरः पार्थिवेंऽशेऽत्र देवोऽध्यात्माभिमानवान्॥४०॥

वेदेत्यादेरर्थमाह। इयतेति। य एवायं शारीर इत्यत्र शारीरशब्दार्थमाह। शारीर इति। अत्र पार्थिवेंऽशे मातृजे मांसादित्रितये यस्तन्मयो भवति सोऽध्यात्माभिमानवान्देवः शारीर इति योजना॥४०॥

पृथिव्येवाहमित्येवं योऽभिमानी व्यवस्थितः॥
लोमत्वङ्मांससंघातः कार्यं तस्यायमेव तु॥४१॥

पृथिवीशारीरवाक्ययोरर्थभेदमाह। पृथिवीति। तत्र हि सामान्यायतनो देवः शाकल्येनोक्तोऽत्र विशेषायतनो देवो मुनिनोच्यत इति भेदः॥४१॥

स एष देवो यः पृष्टो वद भूयोऽप्यहल्लिक॥
यतोऽसमाप्तमेवेदं दर्शनं ते विवक्षितम्॥४२॥

स एष इत्यस्यार्थमाह। स इति। वदैवेत्यादेरर्थमाह। वदेति। पृच्छैवेति

यावत्। प्रश्नस्य कार्यत्वे हेतुः। यत इति। उक्तदेवसंबन्धित्वेन वाच्यस्य हेतोरपृष्टत्वादित्यर्थः॥४२॥

तस्य का देवतेत्येनमप्राक्षीत्क्षोभितो रुषा॥
तं प्रत्याहामृतमिति याज्ञवल्क्योऽपि देवताम्॥४३॥

तस्येत्यादिप्रश्नमवतारयति। तस्येति। प्रत्युक्तिमादत्ते। तं प्रतीति॥४३॥

यतो यो लभते सिद्धिं तस्यासावेव देवता॥
विवक्षितेह विज्ञेयाऽमृतमित्यादिलक्षणा॥४४॥

देवताशब्दार्थमाह। **यत इति।**इहेति प्रकरणोक्तिः॥४४॥

योषिज्जग्धस्य योऽन्नस्य रसः स्यात्परिणामजः॥
मातृजस्यासृजो हेतुरमृतं सोऽत्र भण्यते॥४५॥

अमृतं व्याचष्टे। योषिदिति। प्रकृतं वाक्यमत्रेत्युक्तम्॥४५॥

रसाच्छोणितनिष्पत्तिः शोणिताद्बीजसंश्रयात्॥
शरीरं जायते साक्षाद्येन शारीर उच्यते॥४६॥

कथमिदममृतं शारीरस्य हेतुस्तत्राऽऽह। रसादिति। साक्षादिति प्रत्यक्षयोग्यत्वमुच्यते॥४६॥

अन्येऽमृतमिदं प्राहुर्दिव्यं चान्द्रमसं पयः॥
तत्पर्जन्यादिना जातं233 दार्ढ्यकृत्क्षितदेहयोः॥४७॥

अमृतशब्दस्यार्थान्तरमाह। अन्य इति। कथं तस्य देहहेतुत्वं तत्राऽऽह। तदिति। पर्जन्यादिनेत्यादिशब्दो वृष्ट्यादिविषयः॥४७॥

उत्तरेष्वपि वाक्येषु यथोक्तमुपपादयेत्॥
न्यायः साधारणं सर्वं विशेषस्तु प्रवक्ष्यते॥४८॥

उक्तन्यायमुत्तरपर्यायेष्वतिदिशति। उत्तरेष्विति। तत्र हेतुः। न्याय इति। तर्हि शाकल्येति होवाचेत्याद्यनन्तरं व्याख्यातव्यं किमिति कामादिपदव्याख्यानमित्याशङ्क्याऽऽह।विशेषस्त्विति॥४८॥

योषित्समागमेच्छेह काम इत्यभिधीयते॥
हृदयं बुद्धिरालोकः सर्वं तेन हि पश्यति॥४९॥

काम एव यस्येत्यादि व्याकुर्वन्विशेषमाह। योषिदिति। इहशब्देन कामपर्यायो गृह्यते। तस्याऽऽलोकत्वे हेतुः। सर्वमिति॥४९॥

स च काममयो देवः कामभावनयाऽञ्जितः॥
देवताऽस्यस्त्रियो ज्ञेयाः कामः स्त्रीतो हि जायते॥५०॥

य एवायमित्यादेरर्थमाह। स चेति। यस्त्वया कामायतनो देवः पृष्टः स कामवासनाख्यविशेषायतनवानेष एवेत्यर्थः। तस्येत्यादेरर्थमाह। देवतेति। स्त्रीणां काममयपुरुषं प्रति हेतुत्वमनुभवतः साधयति। काम इति॥५०॥

शुक्लादीन्यत्र रूपाणि भास्वराण्युत्तरत्र तु॥
सावित्रः पुरुषस्तस्य चक्षुः सत्यं च देवता॥५१॥

रूपाण्येवेत्यादिद्विरुक्तेरपौनरुक्त्यमाह। शुक्लादीनीति। य एवासावादित्य इत्यादेरर्थमाह। सावित्र इति। साधारणरूपायतनो देवः234 सवितृमण्डलरूपविशेषायतनवांस्तस्य च सत्यशब्दितं चक्षुः कारणमधिष्ठेयं तन्निष्पत्तौ तदपेक्षयाऽधिष्ठात्रादित्योत्पत्तेरित्यर्थः॥५१॥

रूपभास्करसत्येषु त्रिधैषोऽपि व्यवस्थितः॥
पूर्ववच्चोत्तरत्रापि सर्वत्रैव235 त्रिधा त्रिधा॥५२॥

रूपाणीत्यादिप्रथमपर्यायतात्पर्यमुपसंहरति। रूपेति। अपिरवधारणे। सामान्यायतनत्वेन विशेषायतनत्वेन कारणत्वेन चायमेव देवो व्यवस्थितो रूपादिष्विति श्रुत्यर्थः। आकाश एवेत्यादावुक्तमतिदिशति। पूर्ववदिति। यथा पूर्वपर्याये च सामान्यायतनादिना देवस्त्रिधोक्तस्तथाऽऽका236शादिपर्यायेष्वपि237 सामान्यायतनं विशेषायतनं कारणं चेति त्रिधा त्रिधा स द्रष्टव्य इत्यर्थः॥५२॥

प्रतिश्रवणवेलायां श्रोत्रे यः संनिधीयते॥
स त्वयेहाभिनिर्दिष्टो दिशस्तस्यापि देवता॥५३॥

य एवायं श्रौत्र इत्यादेरर्थमाह। प्रतिश्रवणेति। आकाशायतनदेवस्य प्रतिश्रवणयुक्तं श्रोत्रं विशेषायतनं दिशः कारणमित्यर्थः। इहेत्याकाशपर्यायोक्तिः। अपिस्तु पूर्ववदवधारणे॥५३॥

अन्धकारस्तमो ज्ञेयं तथा छायामयः पुमान्॥
मृत्युश्च देवता तस्य तमसैव मृतिर्यतः॥५४॥

तम एवेत्यत्र तमःशब्दार्थमाह। अन्धकार इति। शार्वरान्धकारायतनस्य विशेषायतनच्छायाख्यमज्ञानमिति वदन्य एवेत्यादेरर्थमाह। तथेति। मृत्युरित्यादेरर्थमाह। मृत्युश्चेति। कथमज्ञानायतनस्य कारणं मृत्युस्तत्राऽऽह। तमसेति। दृढतराबोधेन व्याप्ता यतो लोके मृतिर्दृष्टाऽतः कारणानुमानान्मृत्योरज्ञानायतनपुरुषहेतुत्वं युक्तमित्यर्थः॥५४॥

रूपायतनदेवस्य प्रतिबिम्बोदयाश्रयः॥
विशेषकार्यं प्राणोऽसुस्तस्यापीहाधिदेवता॥५५॥

रूपाणीत्यादिद्वितीयपर्यायस्य तात्पर्यं संक्षिप्याऽऽह। रूपेति। भास्वररूपात्मकसामान्यायतनस्य प्रतिबिम्बोदयाश्रयभूतमादर्शादि विशेषायतनं प्राणः कारणं तेनाऽऽदर्शादौ घृष्यमाणे प्रतिबिम्बोदयादित्यर्थः। इहापिशब्दौ पूर्ववत्॥५५॥

सामान्याम्मयदेहस्य विशिष्टाः कार्यमस्य ताः॥
वरुणो देवता तस्य वरुणाद्धि स जायते॥५६॥

आप एवेत्यादेस्तात्पर्यमाह। सामान्येति। अस्य हि जलमात्रायतनस्य देवस्याऽऽपो विशिष्टा वाप्यादिनिविष्टा विशेषायतनानि तस्य चाऽऽयतनद्वयवतो वरुणशब्दितमुदकं कारणमित्यर्थः। किं तद्वरुणशब्दितं तदाह238वरुणादिति। मूत्रलोहिताद्यात्मकादुदकादेष संघातो भवति स च वाप्याद्यपांपुरुषद्वारा हेतुरित्यर्थः। संघातस्य लोहितादेर्निष्पत्तिरिति प्रसिद्धेति वक्तुं हिशब्दः॥५६॥

शुक्रस्नाय्वस्थिमज्जानो भवन्ति पितृतो यतः॥
प्रजापतित्वं पितरि तस्मादेतदिहोच्यते॥५७॥

रेतःसामान्यायतनस्य विशेषायतनं पुत्रस्तस्य च कारणं प्रजापतिरिति मत्वा तच्छब्दार्थमाह। शुक्रेति। इहेति रेतःपर्यायग्रहणम्॥५७॥

यावत्किंचिद्विजानाति शाकल्यः सर्वमेव तत्239
पर्यपृच्छद्यथाशक्ति मुक्त्वा दिग्ज्ञानमात्रकम्॥५८॥

शाकल्येत्यादेस्तात्पर्यं वक्तुं भूमिकामाह। यावदिति॥५८॥

अवशिष्टं यदप्यस्य तन्मां पृच्छतु कामतः॥
इति चेतसि संधाय याज्ञवल्क्योऽभ्यभाषत॥५९॥

तस्य तात्पर्यमाह। अवशिष्टमिति। शाकल्येनानुक्तोऽपीत्यपेरर्थः॥५९॥

अतिनिर्बन्धतोवाऽपि निषेध्योऽयं प्रमादवान्॥
इत्येतद्धृदये कृत्वा कारुण्यात्तमथाब्रवीत्॥६०॥

तात्पर्यान्तरमाह। अतिनिर्बन्धत इति। तस्य प्रमादवत्त्वप्रतिपत्त्यानन्तर्यमथशब्दार्थः॥६०॥

मय्यग्नौ शिशुवन्मोहात्प्रविशन्तं न कश्चन ॥
त्वां वारयति यत्नेन साधुब्राह्मणसंसदि॥६१॥

त्वां स्विदित्यादेस्तात्पर्यमाह। मयीति। सभातो बहिर्नयनादि यत्नः॥६१॥

सर्वेषामपि नूनं त्वं हन्तव्यत्वेन संमतः॥
अक्रत त्वां यतो विप्राः संदंशं मयि पावके॥६२॥

तस्माद्बुध्यस्व शाकल्य महद्भयमुपस्थितम्॥
अतिनिर्मथनादग्निश्चन्दनादपि जायते॥६३॥

अनिवारणे कारणमाह। सर्वेषामिति। त्वामित्याद्यक्षराणि व्याकरोति। अक्रतेति। उपशान्तक्रोधारातिर्ब्रह्मविद्भवानतो न भवन्निमित्तं भयमिति चेत्तत्राऽऽह। अतिनिर्मथनादिति॥६२॥६३॥

विषायतेऽमृतमपि यथा पथ्यं मुमूर्षतः॥
तथैव नाग्रहीत्सूक्तं शाकल्यः कालचोदितः॥६४॥

याज्ञवल्क्येत्यादिवाक्यमवतारयति। विषायत इति॥६४॥

ब्राह्मणैर्घातयिष्यामि मां जिघांसन्तमाश्विमम्॥
इत्यर्थं240 कोपकृद्वाक्यं शाकल्यो मुनिरब्रवीत्॥६५॥

तस्य तात्पर्यमाह। ब्राह्मणैरितिजिघांसन्तं जिघांसीयान्न तेन भ्रूणहा भवेदिति न्यायं सूचयति। जिघांसन्तमिति। शापदानात्प्रागेवेत्याशुशब्दार्थः। कोपकृद्याज्ञवल्क्यस्य ब्राह्मणानां चेति शेषः॥६५॥

अङ्गारावक्षयणोक्त्या विद्वान्किं ब्रह्म श्रेयसः॥
अत्यवादीस्त्वमज्ञः सन्का विद्या फलिनी तव॥६६॥

यदिदमित्यादेरर्थमाह। अङ्गारेति। त्वामङ्गारावक्षयणं कृतवन्तो ब्राह्मणा मयीत्युक्त्या किं ब्रह्म विद्वानत्यन्तश्रेयोरूपान्ब्राह्मणानधिक्षिप्तवानसि किं वा त्वमज्ञः सन्ब्राह्मणान्धिक्कृतवानज्ञत्वे त्वयि नोत्तरं ब्रह्मवित्पणभूता गावस्तु त्वया नाज्ञेनापहर्तुं शक्या विद्वांश्चेत्का तर्हि ते फलवती विद्येति वाच्यमित्यर्थः॥६६॥

दिग्विभागाधिकारेण यथोक्ता एव देवताः॥
पञ्चधेहोपदिश्यन्ते तदेतदनुवर्ण्यते॥६७॥

दिशो वेदेत्यादेस्तात्पर्यमाह। दिगिति। पृथिव्येवेत्यादावष्टधा भिन्नत्वेन देवतानां ध्यानमुक्त्वा प्राच्यादिविशेषसंबन्धेन पञ्चधा देवता ध्यानार्थमेवात्रोच्यन्ते तच्चानन्तरमेव व्युत्पाद्यत इत्यर्थः॥६७॥

का विद्या सफला साक्षात्तवेतिप्रश्नवादिनम्॥
सदेवाः सप्रतिष्ठाश्च दिशो वेदेत्यथाब्रवीत्॥६८॥

तात्पर्यं संदर्भस्योक्त्वा दिशो वेदेत्यादिवाक्यमादत्ते। का विद्येति। प्रश्नानन्तर्यमथशब्दार्थः॥६८॥

सदेवसप्रतिष्ठादिशरीरं प्रतिजज्ञिवान्॥
आत्मानं स मुनिः पृष्टो यतस्तं पर्यपृच्छत॥६९॥

यद्दिशो वेत्थेत्यादिप्रश्नं संगृह्णाति। सदेवेति। आदिशब्देन दिशामुक्तिः। यतः शाकल्येन पृष्टो मुनिर्देवताप्रतिष्ठासहितदिगात्मकमात्मानं प्रतिज्ञातवानतो मुनिं पुनरस्यां किंदेवतोऽसीति शाकल्योऽप्राक्षीदित्यर्थः॥६९॥

सदेवाः सप्रतिष्ठैता दिशोऽहमितिवादिनम्॥
प्राच्यां किंदेवतोऽसीति विदग्धस्तमपृच्छत॥७०॥

प्राच्या दिशः का देवतेति वाच्ये प्राच्यां दिशि किंदेवतोऽसीति कथं मुनिविशेषणत्वेन देवता पृच्छ्यते तत्राऽऽह। सदेवा इति॥७०॥

पूर्वदिगात्मभूतं मां त्वं विद्ध्यादित्यदेवतम्॥
इत्युक्ते तमृषिं भूयः स प्रतिष्ठामपृच्छत॥७१॥

आदित्येत्यादि व्याचष्टे। पूर्वेति। स आदित्य इत्यादेरर्थमाह। इत्युक्त इति॥७१॥

सर्वरूपात्मकः सूर्यश्चक्षुष्येव प्रतिष्ठितः॥
सर्वरूपेषु चक्षुश्च रूपाणि हृदये तथा॥७२॥

चक्षुषीत्यस्यार्थमाह। सर्वेति। कस्मिन्नित्यादेरर्थमाह। सर्वरूपेष्विति॥७२॥

रूपारब्धमिदं चक्षू रूपाणामेव तद्ग्रहात्॥
अभिव्यङ्ग्यसजातीयो व्यञ्जको रूपदीपवत्॥७३॥

कथं चक्षुषो रूपप्रतिष्ठत्वमित्याशङ्क्यचक्षुषेत्यादेस्तात्पर्यमाह। रूपेति। चक्षूरूपारब्धं रूपग्राहकत्वादित्यत्र व्याप्तिमाह। अभिव्यङ्ग्येति। तद्भूमिं दर्शयति। रूपेति॥७३॥

अशेषविषयात्मत्वं मनोबुद्ध्योर्विनिर्दिशेत् ॥
सर्वगोचरभासित्वात्तादात्म्ये तच्च युज्यते ॥ ७४ ॥

रूपादिग्रा241हित्वेऽपि मनोबुद्ध्योस्तदारब्धत्वाभावान्न व्याप्तिरिति चेन्नेत्याह। अशेषेति। रूपदीपयोः साजात्येऽप्यारम्भकारभ्यत्वाभावात्साध्यविकलतेति चेन्नेत्याह। तादात्म्य इति। विषयविषयिणोः साजात्यं तादात्म्ये सत्येव स्याद्विधान्तरेण तस्य दुर्वचत्वादित्यर्थः॥७४॥

एष एवानुसंधेयो न्यायो योऽयमिहोदितः॥
वक्ष्यमाणासु सर्वासु दिक्षु प्रत्येकशः क्रमात्॥७५॥

किंदेवतोऽस्यामित्यादावुक्तन्यायं किंदेवतोऽस्यां दक्षिणायामित्यादावतिदिशति। एष इति। इहेति प्राच्यां दिशीति यावत्॥७५॥

प्राच्यां रूपोपसंहारो दिक्त्रये कर्मसंहृतिः॥
ध्रुवायां संहृतिर्नाम्नोहृद्येवं सर्वसंहृतिः॥७६॥

दिशो वेदेत्यादिश्रुत्या दिग्विभागेन पञ्चधात्वं ध्यानार्थं देवस्योक्तम्। इदानीमेवंविभागवादिन्याः श्रुतेराशयमाह। प्राच्यामिति। आद्यपर्यायेण हृदये रूपप्रपञ्चोपसंहारो दर्शितो हृदये ह्येव रूपाणीति श्रुतेर्दक्षिणायामित्यादिपर्यायत्रयेण तत्रैव कर्मोपसंहार उक्तो ध्रुवायामित्याद्यन्त्यपर्यायेण तस्मिन्नेव नामसंहारोऽग्निप्रतिष्ठाया वाचो हृदये प्रतिष्ठितत्वोक्तेरेवं नामरूपकर्मात्मकस्य सर्वस्य जगतः संहृतिर्हृदये प्रस्तुतश्रुत्युक्तेत्यर्थः॥७६॥

केवलं कर्म याम्यायां प्रतीच्यां पुत्रजन्म च॥
ज्ञानयुक्तमुदीच्यां च कर्मैवमुपसंहृतम्॥७७॥

दिक्त्रये कर्मसंहृतिरुक्ता तत्रावान्तरविभागमाह। केवलमिति। दक्षिणायामित्यादिना केवलं कर्म हृदि संहृतं गम्यते यज्ञस्य दक्षिणादिद्वारा हृदये प्रतिष्ठितत्वोक्तेः प्रतीच्यामित्यादिना च पुत्रजन्माख्यं कर्म तत्रोपसंहृतं हृदये ह्येव रेतः प्रतिष्ठितमिति श्रुतेरुदीच्यामित्यादिना च ज्ञानयुक्तं कर्म परिशेषात्तत्र संहृतं सोमदेवताया दीक्षादिद्वारा तत्प्रतिष्ठितत्वश्रुतेरेवं दिक्त्रये सर्वं कर्म हृदि संहृतमित्यर्थः॥७७॥

नाम्नश्चाप्युपसंहारो ध्रुवायां हृदि वर्णितः॥
एवं क्रमेण निःशेषं जगद्धृद्युपसंहृतम्॥७८॥

ध्रुवायामित्यादि विवृणोति। नाम्नश्चेति। एवं सर्वसंहृतिरित्युक्तं निगमयति। एवमिति॥७८॥

सामर्थ्याच्च मनोऽप्यत्र विज्ञेयमुपसंहृतम्॥
रूपादिपञ्चकं यस्मात्तद्द्वारेणाऽऽश्रितं हृदि॥७९॥

निःशेषं जगदुपसंहृतं हृदीत्ययुक्तमस्मिन्प्रकरणे मनसो हृद्युपसंहाराश्रुतेरित्याशङ्क्याऽऽह। सामर्थ्याच्चेति। सामर्थ्यं स्फुटयन्मनसो हृदि संहारे हेतुमाह। रूपादीति। रूपरसगन्धस्पर्शशब्दाख्यमर्थपञ्चकं मनोविकल्पितं तद्द्वारा हृदि संहृतं न च मनसस्तत्र संहारं विना तद्विकल्पितस्य स युक्तोऽतो मनोऽपि हृदये संहृतमित्यर्थः॥७९॥

निःशेषं ब्रह्मलोकान्तं संहृत्य हृदयात्मना॥
याज्ञवल्क्यं स्थितं भूयो विदग्धः पर्यपृच्छत॥८०॥

कस्मिन्नु हृदयमित्यादिप्रश्नमुत्थापयति। निःशेषमिति। ब्रह्मलोकान्तं जगदिति शेषः॥८०॥

सर्वोपसंहृद्धृदयं ब्रूहि क्वैतत्प्रतिष्ठितम्॥
इत्युक्तोऽहल्ँलिकेत्येवं संबोध्योत्तरमब्रवीत्॥८१॥

प्रश्नप्रकारं दर्शयन्वाक्यं योजयति। सर्वेति। अहल्ँलिकेत्यादिवाक्यमादत्ते। इत्युक्त इति॥८१॥

अहल्ँलिकेति वचसा नाऽऽधारान्तरमुच्यते॥
आद्युदात्तत्वलिङ्गेन ह्यभिधानं विदग्धवत्॥८२॥

यथा हृदयपदेन नामाद्यधिकरणमुक्तं तथाऽहल्ँलिकशब्देनापि हृदयाधारो विवक्षितो वाक्यच्छायासाम्यादित्याशङ्क्याऽऽह। अहल्ँलिकेतीति। तर्हि कोऽर्थस्तस्येत्याशङ्क्यतं वक्तुमादौ संज्ञात्वमाह। आद्युदात्तत्वेति। अहनि लीयत इति विगृह्य क्विप्चेति क्विपि कृते साधनं कृता बहुलमिति समासे तोर्लीति लत्वे संज्ञायां कन्निति कनि केऽण इति ह्रस्वत्वे च ञ्नित्यादिर्नित्यमित्युदात्तस्तथाचाहल्ँलिकशब्दोऽस्य संज्ञेत्यर्थः। तत्र दृष्टान्तः। विदग्धवदिति। दहतेः कर्मणि क्तप्रत्यये विशब्देन गतिसमासे गतिरनन्तर इति पूर्वप्रकृतिस्वरे विदग्ध इत्येतदाद्युदात्तं तदपि तस्याभिधानं भाष्ये तथोक्तेरित्यर्थः। उभयोः संज्ञात्वे यथोक्तां व्याकरणप्रसिद्धिमनुकूलयितुं हिशब्दः॥८२॥

प्रेतीभूतोऽसि नूनं त्वं प्रेतवद्भाषसे यतः॥
लीयतेऽहनि रात्रौ च व्यज्यतेऽहल्ँलिकस्ततः॥८३॥

अहल्ँलिकसंज्ञाया विषयमाह। प्रेतीभूतोऽसीति। कथमेषा संज्ञा प्रेतविषया येन तद्भाषणं दृष्ट्वा तस्येदं नाम स्यादित्याशङ्क्याऽऽह। लीयत इति॥८३॥

मत्तः शरीरात्क्वान्यत्र मथ्येघातः प्रतिष्ठितम्॥
अस्मदन्यत्र मन्वीथा यत्रेदं हृदयं कचित्॥८४॥

यत्रेत्यादेस्तात्पर्यमाह। मत्त इति। देहे हृदयं प्रतिष्ठितमित्यर्थः। वाक्यस्थाक्षराणि व्याचष्टे। अस्मदिति। तस्मिन्काले शरीरं मृतं स्यादिति शेषः॥८४॥

यद्येतद्देहतोऽन्यत्र हृदयं स्यादवस्थितम्॥
हृद्वियुक्तं तदा देहमद्युः श्वानो मृतं ध्रुवम्॥८५॥

यद्धीत्यादेरर्थमाह। यदीति॥८५॥

न त्वयं मृत इत्यस्मात्कारणादवसीयताम्॥
वनसिंहवदेवैतद्द्वयमन्योन्यसंश्रयम्॥८६॥

हृदयस्य देहस्थत्वे श्रौतं लिङ्गमाह। न त्विति। देहस्थत्वं हृदयस्येति शेषः। कुत्र प्रतिष्ठितो देहस्तत्राऽऽह। वनेति॥८६॥

नर्ते लिङ्गं शरीरस्य स्थितिः काचिदिहेष्यते॥
न शरीरं विना लिङ्गं कस्मैचित्कर्मणे क्षमम्॥८७॥

हृदयदेहयोरन्योन्याश्रयत्वं स्पष्टयति। नर्त इति। ननु स्थूलस्य सूक्ष्मदेहमुपेक्ष्य स्थित्यभावेऽपि स्थूलं विनैतद्यावन्मोक्षं स्थास्यति तन्नान्योन्याश्रयतेत्याशङ्क्याऽऽह। नेत्यादिना॥८७॥

न ह्यन्योन्यातिरेकेण संहतानां क्वचित्थितिः॥
संहतं च प्रतीचोऽन्यज्जगदेतच्चराचरम्॥८८॥

किंच हृदयदेहावन्योन्यप्रतिष्ठितौ संहतत्वात्संमतवदित्याह। न हीति। हेत्वसिद्धिं धुनीते। संहतं चेति॥८८॥

कार्यत्वाद्द्वयमप्येतद्यतो न स्वाश्रयं ततः॥
तत्प्रतिष्ठामथाप्राक्षीच्छाकल्यो निर्णयेच्छया॥८९॥

कस्मिन्नु त्वं चेत्यादिप्रश्नं सहेतुमुत्थापयति। कार्यत्वादिति॥८९॥

द्वावप्येतौ ममाऽऽत्मानौ प्राण एव प्रतिष्ठितौ॥
प्राणोऽपाने स च व्यान उदाने व्यान आश्रितः॥९०॥

समाने च तथोदानः सूत्रात्मनि समाश्रितः॥
एवमेष समानान्तः शाकल्यप्रश्ननिर्णयः॥९१॥

प्राण इत्यादेरर्थमाह। द्वावित्यादिना। सूत्रात्मनि सूत्रस्याऽऽत्मा मूलकारणं तस्मिन्नित्यर्थः। वाक्यार्थमुपसंहरति। एवमिति॥९०॥९१॥

देहहृद्वायवोऽन्योन्यप्रतिष्ठाः संहतत्वतः॥
प्रयुक्ताः कर्मणा पुंसां वर्तन्ते भोगसिद्धये॥९२॥

कस्मिन्हृदयमित्यादेः समानान्तग्रन्थस्य तात्पर्यं संक्षिपति। देहेति। तेषां प्रवर्तकं प्रवृत्तिफलं च दर्शयति। प्रयुक्ता इति॥९२॥

सकारणमिदं सर्वमाकाशान्तं यथोदितम्॥
ओतं प्रोतं च यत्रेदं तदक्षरमथोच्यते॥९३॥

स एष इत्यादेस्तात्पर्यमाह। सकारणमिति। यथोदितमेकत्वेनानेकत्वेनाष्टधापञ्चधोक्तमिति यावत्। द्वितीयमिदंपदमक्षरविषयम्॥९३॥

विहायाऽऽख्यायिकारूपं स्वेनैव वचसा श्रुतिः॥
पुरुषार्थं समापित्सुः स एष इति चावदत्॥९४॥

ननु शाकल्ययाज्ञवल्क्ययोः संवादात्मिकेयमाख्यायिका न चात्र शाकल्येनाक्षरं पृष्टं तत्कथं तत्कथनार्थं याज्ञवल्क्यस्य प्रवृत्तिरत आह। विहायेति। विज्ञानादिवाक्ये र्थसमाप्तेर्वक्ष्यमाणत्वात्कुतोऽत्र तादर्थ्येन निर्विशेषार्थोक्तिरित्याशङ्कायां श्रुतेरेषा शेषः॥ रीति वक्तुं चशब्दः॥९४॥

प्रशासन इदं तस्थौ यस्यान्तर्यामिरूपिणः॥
स एष नेति नेतीति मधुकाण्डेऽपि वर्णितः॥९५॥

पदयोरर्थमाह। प्रशासन इति। यस्य कूटस्थदृष्टिमात्रस्यान्तर्यामित्वकल्पनाधिष्ठानस्याज्ञानवशात्प्रशासने द्यावापृथिव्यादि स्थितं स परमात्मैष प्रत्यगात्मैवेत्यर्थः। निषेधद्वयं मूर्तामूर्तब्राह्मणे व्याख्यातमित्याह। नेतीति। तस्यैव कूर्चब्राह्मणे वक्ष्यमाणत्वमप्यर्थः॥९५॥

ननु ब्रह्माधिकारत्वात्कथमात्मेत्यनूद्यते॥
नैष दोषोऽतिरेकेण नाऽऽत्मनो ब्रह्मता यतः॥९६॥

आत्मशब्दमाक्षिपति। नन्विति। अक्षरमिति शेषः। परिहरति। नेत्यादिना॥९६॥

ग्राह्यत्वं शरणं सङ्गो भयं चाज्ञानकारणम्॥
तदत्ययाद्भयान्तानि न सन्ति प्रत्यगात्मनि॥९७॥

अगृह्य इत्यादीनि पदानि व्याचष्टे। ग्राह्यत्वमिति। शरणं शैथिल्यं भयं व्यथानाशौ॥९७॥

निरविद्योऽसितो भास्वदविलुप्तचिदात्मकः॥
यत एवमतो नास्य नाशान्ता विक्रियाऽऽत्मनः॥९८॥

तदत्ययादित्युक्तं प्रकटयति। निरविद्य इति। अविद्यातिक्रमफलमाह। यत इति॥९८॥

कार्यधर्मानतीत्यैतांस्तद्धेतोरप्यतिक्रमात्॥
अपूर्वानपराद्येकः पूर्णः स्वात्मन्यवस्थितः॥९९॥

कारणातिक्रमात्कार्यातिक्रमेऽपि कुतोऽनतिशयपुमर्थसिद्धिस्तत्राऽऽह। कार्येति॥९९॥

श्रुतिः स्वेनैव वचसा साक्षादित्यादिलक्षणम्॥
समापय्याऽऽत्मविज्ञानं भूयोऽप्याख्यानरूपकम्॥१००॥

गृहीत्वा परिपप्रच्छ शाकल्यमभिमानिनम्॥
याज्ञवल्क्यात्मिका भूत्वा ह्यतिनिर्बन्धकारिणम्॥१०१॥

एतानष्टावित्यादिवाक्यस्य पूर्वेणासंगतिमाशङ्क्यपरिहरति। श्रुतिरिति। विद्याभिमानित्वादतिनिर्बन्धकारित्वाच्च शाकल्यं प्रति प्रष्टुं युक्तमिति वक्तुं हिशब्दः॥१००॥१०१॥

धनं निसृष्टं राज्ञेह ब्रह्मिष्ठोद्देशतो यतः॥
प्रष्टुं नैवाधिकारोऽतोऽब्रह्मिष्ठस्येह विद्यते॥१०२॥

शाकल्योऽत्र प्रष्टा कथं तं प्रति प्रश्नोऽन्यस्येत्याशङ्क्यशाकल्यस्य प्रश्नाधिकारं निराचष्टे। धनमिति। इहेति बहुदक्षिणयज्ञोक्तिः। अब्रह्मिष्ठस्येति च्छेदः। द्वितीयस्त्विहशब्दो ब्रह्मवित्सभाविषयः॥१०२॥

अब्रह्मिष्ठत्वसिद्ध्यर्थमतोऽप्राक्षीद्रुषाऽन्वितः॥
स याज्ञवल्क्यः शाकल्यं सापराधत्वसिद्धये॥१०३॥

कथं शाकल्यस्याब्रह्मिष्ठत्वं तत्राऽऽह। अब्रह्मिष्ठत्वेति। अब्राह्मिष्ठस्य प्रश्नानधिकारोऽतःशब्दार्थः। प्रश्नानधिकारिणोऽपि शाकल्यस्य प्रश्ने प्रवृत्तेस्तस्मिन्नयुक्तकारिणि कोपान्वितश्चेन्मुनिस्तर्हि तत्र शापमदत्त्वा किमिति तस्याब्रह्मिष्ठत्वसिद्ध्यर्थमपृच्छदित्याशङ्क्यशापहेतुज्ञापनार्थमित्याह । सापराधत्वेति॥१०३॥

स एष नेति नेत्याद्यः प्रश्नो वाऽयं समीक्ष्यताम्॥
मध्ये वाक्यच्छिदोऽभावादितिशब्दस्य पूर्ववत्॥१०४॥

स एष इत्यादि श्रौतं वाक्यमेतानीत्यादिप्रश्नवाक्यमित्युक्तो विभागः। इदानीमेकवाक्यत्वमाश्रित्याऽऽह। स इति। एकवाक्यत्वे हेतुः। मध्य इति। कस्मिन्नु हृदयमित्यादौ सति वाक्यभेदे तद्धेतुरितिशब्दो मध्ये दृष्टो न च न रिष्यत्येतान्यष्टावित्यत्र मध्ये वाक्यच्छिदितिशब्दो दृश्यते तदेकमिदं प्रश्नवाक्यमित्यर्थः॥१०४॥

समासव्यासरूपेण शाकल्यो यदपृच्छत॥
ततः परस्ताच्छाकल्यं याज्ञवल्क्योऽप्यपृच्छत॥१०५॥

वाक्यैक्येऽपि शाकल्यप्रश्ने निर्दिधारयिषिते नान्यस्य प्रश्नोऽवकाशवानित्याशङ्क्याऽऽह। समासेति। ततः परस्ताच्छाकल्यप्रश्ननिर्णयादूर्ध्वमित्यर्थः॥१०५॥

ऐकात्म्ये सर्वमेवेदं कार्यकारणलक्षणम्॥
समापनीयं निःशेषं समासव्यासवर्जिते॥१०६॥

शाकल्यस्याब्रह्मिष्ठत्वं प्रकटीकृत्य सापराधत्वमापाद्य शापं ददतो मुनेरपि कोपावेशादब्रह्मिष्ठता स्यादित्याशङ्क्यप्रष्टुरभिप्रायमाह। ऐकात्म्य इति॥१०६॥

अपि शास्त्रार्थसंबन्ध उत्तरस्याः श्रुतेरयम्॥
तदनुक्तौ यतः पूर्वं सर्वं स्यात्तुषकण्डनम्॥१०७॥

उक्तमभिप्रायमुपपत्त्या साधयति। अपीति। पूर्वोत्तरश्रुतेरयमेव शास्त्रार्थसंबन्धो यदेकरसे प्रतीचि सर्वसमाप्तेस्तद्विशेषतेत्यर्थः। मा भूत्पूर्वोत्तरश्रुतेः शास्त्रार्थसंबन्धस्तत्राऽऽह। तदनुक्ताविति। पूर्वमुत्तरं चेति द्रष्टव्यं न हि शास्त्रार्थसंबन्धानुक्तौ पूर्वोत्तरश्रुत्योरर्थवत्त्वं तथाच तयोस्तत्त्वज्ञानशेषतया साफल्यार्थं प्रष्टुरभिप्रायो युक्तिमानित्यर्थः॥१०७॥

अष्टावायतनान्यत्र पृथिव्यादीनि निर्दिशेत्॥
अग्न्यादयस्तथा लोका अमृताद्याश्च देवताः॥१०८॥

प्रष्टुरभिप्रायमुक्त्वैतानीत्यादि व्याचष्टे। अष्टाविति। अत्रेत्यायतनादिनिर्धारणार्थासप्तमी। पृथिव्यादीनीत्यादिपदेन कामरूपाकाशतमोरूपोदकरेतांसि गृह्यन्ते। अष्टौ लोका इत्यस्यार्थमाह। अग्न्यादय इति। आदिपदेन हृदयचक्षुःश्रोत्रहृदयचक्षुर्हृदयहृदयानि गृहीतानि। अष्टौ देवा इत्यस्यार्थमाह। अमृताद्या इति। अत्राऽऽद्यशब्देन स्त्रियः सत्यं दिशो मृत्युरसुर्वरुणः प्रजापतिरित्येता देवता विवक्षिताः॥१०८॥

शारीरप्रमुखास्तद्वदष्टौ ज्ञेया यथोदिताः॥
पुरुषाः सर्व एवामी पुनर्दिक्षूपसंहृताः॥१०९॥

दिशश्चहृदये सर्वाः समाने हृदयादिकम्॥
एवं समाने संक्षेपो विकासोऽनन्तदेवताः॥११०॥

अष्टौ पुरुषा इत्यस्यार्थमाह। शारीरेति। शारीरः प्रमुखो येषामिति षष्ठ्या काममयादित्यपुरुषौ श्रौत्रः प्रातिश्रुत्कश्छायामयो दर्पणादिस्थप्रतिबिम्बो वापीकूपाद्यभिमानी पुत्रमयश्चेत्यवशिष्टाः सप्तोक्ताः। स यस्तानित्यादेस्तात्पर्यमाह। सर्व एवेति। आयतनादयोऽष्टधा निर्दिष्टाश्चतुष्टयेऽपीत्यर्थः। हृदयादिकमित्यादिपदेन देहो गृह्यते। कारणान्तमेव शाकल्यज्ञानं न तस्मादुपरिष्टादित्युपसंहरति। एवमिति॥१०९॥११०॥

प्रत्यग्याथात्म्यमोहस्य महिमैष त्वयोदितः॥
यतोऽविद्यैव प्रथते कार्यकारणरूपिणी॥१११॥

इदं च शाकल्यज्ञानमज्ञानजं मिथ्याज्ञानमिति सूचयति। प्रत्यगिति॥१११॥

स्वात्मविद्यानुरोध्येव समासव्यासतामगात्॥
आत्मा स्वतस्तु भास्वच्चिन्मात्रः पूर्णो निरञ्जनः॥११२॥

परस्यैव कार्यकारणरूपेण प्रथनादविद्यैवेत्यवधारणायोगमाशङ्क्याऽऽह। स्वात्मेति। अत्यक्रामदित्यस्य विवक्षितमाह। स्वतस्त्विति॥११२॥

यः स एतांस्त्वया पृष्टांश्चतुरोऽप्यष्टकानिह॥
निरुह्यकार्यतांनीत्वा प्रत्युह्याथाऽऽत्मकारणे॥११३॥

स यस्तानित्यादेस्तात्पर्यमुक्त्वाऽक्षरार्थमाह। यः स इति। श्रौतस्य पुरुषशब्दस्य देवतालोकायतनोपलक्षणत्वाच्चतुरोऽपीत्युक्तम्। इहेत्यविद्याभूमिग्रहः। निरुह्येत्यस्यार्थमाह। कार्यतामिति। अविद्याभूमौ स्थित्वा यथोक्तायतनादिभिर्लोकस्थितिमुपपाद्येत्यर्थः। स्वकारणेऽन्तर्यामिणि सर्वं जगदुपसंहृत्य यः स्थितस्तं पृच्छामीति संबन्धं मत्वा प्रत्युह्येतिपदमनूद्यार्थमाह। प्रत्युह्येति। अथेति संसारावस्थाद्योतनार्थम्॥११३॥

विभज्य कारणादुच्चैर्नीत्वा कार्यात्मतां मुहुः॥
वस्तुवृत्तेन निःशेषान्कार्यकारणलक्षणान्॥११४॥

योऽत्यक्रामदनानात्वो भेदसंसर्गवर्जितः॥
तं त्वौपनिषदं देवं साक्षादित्यादिलक्षणम्॥११५॥

पदद्वयार्थमुक्तमनुभाषते। विभज्येति। साभासाज्ञानादायतनादिविभागं कृत्वा तस्य लोकस्थितिहेतुतां प्रतिपाद्य पुनस्तत्सर्वं स्वात्मन्येव संहृत्य यः स्थितस्तं पृच्छामीत्यर्थः। अत्यक्रामदित्यस्यार्थं स्फुटयति। वस्त्विति। तं पृच्छामीत्युत्तरत्र संबन्धः। न मुख्यमतिक्रमणमिति वस्तुवृत्तत्वविशेषणाद्विज्ञातम्। तत्र हेतुः। अनानात्व इति। तं त्वेत्यादिवाक्यमादत्ते। तमिति। अत्रापि पृच्छामीति संबन्धः॥११४॥११५॥

आस्वेवोपनिषत्स्वेनं यतो व्याचक्षते बुधाः॥
कर्मकाण्डे विरोधित्वान्नैवैनं व्याचचक्षिरे॥११६॥

औपनिषदपदं व्याचष्टे। आस्वेवेति। अवधारणे हेतुमाह। कर्मेति। तस्मादौपनिषद इति शेषः॥११६॥

तं त्वौपनिषदं धीरा ब्रह्मात्मानं प्रचक्षते॥
तं त्वा पृच्छामि शाकल्य तं मह्यं ब्रूहि तत्त्वतः॥११७॥

अत्र विद्वत्प्रसिद्धिं प्रमाणयति। तं त्वेति। पदार्थमुक्त्वा वाक्यं योजयति। तं त्वेति॥११७॥

न चेद्वक्ष्यसि तं मे त्वं मूर्धा ते विपतिष्यति॥
न विजज्ञौ च शाकल्यस्तमात्मानं यथोदितम्॥११८॥

तं चेदित्यादेरर्थमाह। न चेदिति। तं हेत्यादि व्याचष्टे। नेति। खेदार्थो निपातः॥११८॥

ततः स याज्ञवल्क्योत्थशापवाक्याख्यवह्निना॥
दग्धः सद्यो ममारैव ब्रह्मविद्विड्ज्वरान्वितः॥११९॥

तस्य हेत्यादेरर्थमाह। तत इति॥११९॥

कर्मप्रकरणे नायं श्रुतः पूर्वं कदाचन॥
नित्यं ह्युपनिषत्स्वेव श्रूयते वैदिकीष्वयम्॥१२०॥

यदौपनिषदत्वं पुरुषस्योक्तंतदयुक्तं कर्मकाण्डेऽपि तत्प्रसिद्धेर्न चास्य कर्मविरोधित्वं कर्तृत्वेन तदानुगुण्यात्। यथाऽऽहुः— यस्यैतच्छरीरं सोऽपि तैर्यज्ञायुधैर्यज्ञायुधीति। तत्राऽऽह। कर्मेति॥१२०॥

कर्मकाण्डादपच्छिद्यतेनात्रैवैष भण्यते॥
अपि प्राप्तं कर्मकाण्डे तद्विरोधात्तु नाब्रवीत्॥१२१॥

कर्तृत्वेन तत्रापि श्रुतेर्नेति चेत्तत्राऽऽह। कर्मकाण्डादिति। यद्यपि कर्मकाण्डे कर्तृत्वेन प्राप्तं पुरुषरूपं तथाऽपि तदसंसारित्वादिलक्षणं तत्र नोपयुक्तं तस्य कर्मविरोधित्वाद्यथोक्तमनुपयोगादधिकारविरोधाच्चेति तेन कर्मकाण्डाद्यावर्त्योपनिषत्स्वेवायं निर्दिश्यत इति युक्तमस्यौपनिषदत्वमित्यर्थः। किंचौत्पत्तिकसूत्रे स एष यज्ञायुधी यजमानोऽञ्जसा स्वर्गं लोकं जयतीत्यत्र देहाद्यतिरिक्तात्मनि साधिते तत्सतत्त्वं वाच्यत्वेन प्राप्तमपि तज्ज्ञानस्य कर्मविरोधित्वादेव भाष्यकृन्नोचिवांस्तस्मादौपनिषदत्वं पुंसो मीमांसकैरपीष्टमित्याह। अपि प्राप्तमितिउक्तं हि— दृढत्वमेतद्विषयश्च बोधः प्रयाति वेदान्तनिषेवणेनेति॥१२१॥

प्रत्यग्ज्ञानस्य नैवातः कर्मणा स्यात्समुच्चयः॥
ऐकात्म्यवस्तुविज्ञानं कर्मभिर्हि विरुध्यते॥१२२॥

एतेन समुच्चयोऽपि प्रत्युक्त इत्याह। प्रत्यगिति। अतःशब्दितं हेतुं स्पष्टयति। ऐकात्म्येति॥१२२॥

अपरे पण्डितंमन्याः सम्यग्ज्ञातात्मतत्त्वकाः॥
कर्मव्यध्वेषु कुर्वन्ति यथावस्त्वात्मबोधनम्॥१२३॥

कुतः पुनः समुच्चयस्य प्रसङ्गो येन निरस्यते तत्राऽऽह। अपर इति। समुच्चयं वदन्तीति शेषः। कर्मचोदितकालादन्यत्र वस्त्वनुसृत्य ज्ञानमभ्यस्यन्ति चोदितकाले कर्म कुर्वन्तीति समुच्चयोपपत्तिमाह। सम्यगिति॥१२३॥

वस्तुतन्त्रं, न हि ज्ञानं कर्तृतन्त्रंक्रिया यथा॥
कर्मव्यध्वोपरोधेन ह्यन्यथात्वं प्रपद्यते॥१२४॥

तं निराकरोति। वस्त्विति। वस्तुतन्त्रं हि ज्ञानं न क्रियावत्कर्तृतन्त्रं यदि कर्मणो विहितकालात्कालान्तरे ज्ञानाभ्यासस्तदा तद्वस्तुतन्त्रत्वं जह्यात्तथाच योषिदग्निदृष्टिवज्ज्ञानत्वासिद्धिरित्यर्थः। अवस्तुतन्त्रत्वे ज्ञानस्य क्रियावज्ज्ञानत्वानुपपत्तिरतिव्यक्तेति हिशब्दाभ्यासः॥१२४॥

यत्कर्तुमन्यथा कर्तुमकर्तुंवाऽपि शक्यते॥
स्वातन्त्र्यात्तत्र भवता क्रियतां तद्यथेष्टकम्॥१२५॥

किंचाभ्यासस्य ज्ञानस्य वा कर्मणा समुच्चयस्तत्राऽऽयं प्रत्याह। यत्कर्तुमिति। अभ्यासस्य क्रियात्वात्कर्मसमुच्चयेऽपि न क्षतिरिति भावः॥१२५॥

वस्तुवृत्तानुरोध्येव यत्तु ज्ञानं भवेदिह॥
व्यभिचारं न तद्याति पुरुषेच्छावशात्कचित्॥१२६॥

द्वितीयं निराह। वस्तुवृत्तेति। इहेत्यधिकारिग्रहणं क्वचिदिति व्यभिचारप्रतियोग्यर्थकथनं तत्त्वज्ञानस्यापुंस्तन्त्रत्वान्नोक्तरीत्या समुच्चय इति भावः॥१२६॥

उपवादिनेह विदुषो न भाव्यं कस्यचित्क्वचित्॥
एवंविदपि सञ्शत्रुरुपवादादभूद्यतः॥१२७॥

प्रासङ्गिकं समाप्य तस्मान्नोपवादी स्यादितिभाष्योपात्तं वाक्यं व्याकरोति। उपवादिनेति। परिभवकर्त्रेति यावत्। इहेति जगति क्वचिद्देशे काले वेत्यर्थः। उत हीत्यादेरर्थमाह। एवंविदिति॥१२७॥

दग्धक्रोधनिदानः सन्याज्ञवल्क्योऽपि शत्रुताम्॥
शाकल्यस्यापि संयात उपवादैकदोषतः॥१२८॥

हेत्वर्थं प्रपञ्चयति। दग्धेति। ब्राह्मणस्यापीति द्वितीयस्यापेरर्थः॥१२८॥

तस्मान्नैवोपवादी स्याद्याज्ञवल्क्योऽपि शत्रुताम्॥
यस्मादगात्कष्टतरं नोपवादादतः परम्॥१२९॥

हेतुमनूद्य प्रतिज्ञातार्थं निगमयति। तस्मादिति। अतो वाक्कायाभ्यां परिभवात्कष्टतरं नास्तीति परिभवत्यागपरः स्यादिति शिष्यशिक्षार्थमाह। कष्टतरमिति॥१२९॥

परलोकविनाशोऽपि विद्वद्विद्वेषकारणात्॥
अग्निहोत्राग्निसंस्कारं यतो नावाप शापतः॥१३०॥

अपि हेत्यादेरभिप्रायमाह। परलोकेति। प्राप्तः शाकल्यस्येति शेषः। तत्र हेतुः। विद्वदिति। अग्निहोत्राग्निना पुत्रादिभिर्यथाविधिसंस्काराद्द्वेषकृतपापनिर्हरणात्तस्य परलोकसिद्धिरित्याशङ्क्याऽऽह। अग्निहोत्रेति। पुरेऽतिथ्ये मरिष्यसीत्यादिशापदर्शनादित्यर्थः। अतोऽस्य परलोकविनाश इति शेषः॥१३०॥

परिमोषिणो यतोऽस्थीनि धनशङ्काप्रचोदिताः॥
तान्यप्यस्यापजहरुस्ते ब्रह्मविद्वेषहेतुतः॥१३१॥

अपीत्यादिपदानि व्याचष्टे। परिमोषिण इति। अतो ब्रह्मविद्वेषो न कार्य इति शेषः॥१३१॥

अनात्मार्थनिषेधेन यो नेतीति पुरोदितः॥
विधिद्वारेण तस्यैव निर्देशार्थं परा श्रुतिः॥१३२॥

मूलं च जगतो वाच्यमत आख्यानतोऽपि च॥
जित्वा देया द्विजान्गाव इत्यर्थ चोत्तरा श्रुतिः॥१३३॥

शाकल्ययाज्ञवल्क्यसंवादाख्यायिकां समाप्याथ हेत्यादेः समाप्त्यन्तसंदर्भस्य तात्पर्यमाह। अनात्मेति। जगतो मूलं वाच्यमतश्च परा श्रुतिरिति संबन्धः। आख्यायिका किमर्थेत्यत आह। आख्यानतोऽपीति। ततो हि कथ्यमानं242 सुबोधमतश्च सा स्यादेवार्थवतीत्यर्थः। तस्याः स्थूलं तात्पर्यमाह। जित्वेति॥१३२॥१३३॥

साधर्म्ये सति वैधर्म्यं शक्यं प्रष्टुं यतस्ततः।
साधर्म्यमुच्यते श्रुत्या तद्वनस्पतिमर्त्ययोः॥१३४॥

यथेत्यादिमन्त्रस्य तात्पर्यमाह। साधर्म्य इति। अन्वयसापेक्षत्वाद्व्यतिरेकस्याऽऽदौसाधर्म्यवचनमुचितमित्यर्थः॥१३४॥

बीजाद्वनस्पतेर्जन्म मूलाच्चेहोपलभ्यते॥
मर्त्यस्य जन्ममूलं यत्तद्ब्रूत ब्राह्मणा मम॥१३५॥

यदित्यादेस्तात्पर्यमाह। बीजादिति॥१३५॥

रेतो मूलं न वो वाच्यं जीवतस्तद्धि जायते॥
न मृतस्येह रेतोऽपि विद्यते कस्यचित्क्वचित्॥१३६॥

रेतस इति मा वोचतेत्यस्यार्थमाह। रेत इति। उत्तरं हेतुत्वेनावतारयति। जीवत इति। तस्यार्थं व्यतिरेकद्वारा दर्शयति। नेति॥१३६॥

अपि धानारुहो वृक्षो बीजात्तज्जन्मदर्शनात्॥
मृतस्य बीजस्थानीयं न च किंचिदिहेक्ष्यते॥१३७॥

अस्तु तर्हि धानादेर्वृक्षजन्मवज्जीवत्पुरुषस्थरे243तोवशादितरस्य मृतस्य जन्मेत्याशङ्क्यधानारुह इत्यादेरर्थमाह। अपीति। काण्डरुहोऽपीत्यपेरर्थः। सर्वस्मिञ्जगति लीने पुनस्तज्जन्मकारणस्य पृष्टत्वाद्रेतसोऽपि कार्यमध्यपातिनोन तद्धेतुता कथं वा जायमानपुरुषासिद्धौ पुरुषान्तरासिद्धेस्तद्गतरेतसो जगद्धेतुतेति भावः॥१३७॥

धानारुहो यथा वृक्षः साक्षादव्यवधानतः॥
मर्त्यजन्म तथा साक्षाद्यतस्तदभिधीयताम्॥१३८॥244

अञ्जसेत्यादेस्तात्पर्यमाह। धानेति॥१३८॥

यथाऽनुभूतशक्तीह बीजं वृक्षस्य दृश्यते॥
न च तादृङ्मृतस्यास्ति यस्मात्तस्य पुनर्भवः॥१३९॥

अनुभवानुरोधी जगद्धेतुरेष्टव्यस्तन्निर्देशो वृथेत्याशङ्क्याऽऽह। यथेति॥१३९॥

दृष्टः काण्डरुहोऽपीह वृक्षस्तद्वच्चनेष्यते॥
हस्तपादादितश्छिन्नान्न मृतस्य पुनर्भवः॥१४०॥

बीजानुपलम्भेऽपि च्छिन्नस्य, वृक्षस्य पुनरुद्भवोऽनुभूयते तद्वन्मृतस्य विना बीजं जन्म किं न स्यादित्याशङ्क्याऽऽह। दृष्ट इति। दार्ष्टान्तिकं प्रपञ्चयति। हस्तेति॥१४०॥

मूलाद्बीजाच्च वृक्षस्य साक्षाद्यद्वत्समुद्भवः॥
तद्वन्मृतस्य वक्तव्यं न तु पुत्रप्रपौत्रवत्॥१४१॥

धानारुह इत्यादेरर्थमुपसंहरति। मूलादिति। पित्रादे रेतसः सकाशात्पुत्रादिवन्मृतस्य न रेतसो जन्म तद्धेतोरेव पृष्टत्वादिति व्यावर्त्यमाह। न त्विति॥१४१॥

समूलबीजं चेद्वृक्षमावृहेयुस्तदोभयम्॥
मर्त्यः स्विन्मृत्युना वृक्णः कस्मान्मूलात्प्ररोहति॥१४२॥

ननु वृक्षस्यापि नष्टस्य कदाचिदनुत्पादो दृष्टस्तथा जगतोऽपि मृतस्य पुनरुत्पत्तिर्मा भूत्तथाच कृतं तत्कारणचिन्तयेत्याशङ्क्ययत्समूलमित्यादेरर्थमाह। समूलबीजमिति। वृक्षाख्यं कार्यं सकारणमुत्पाटितं चेन्न वृक्षस्तत्कारणं वा स्यादेवं जगदपि यदि सकारणं सम्यग्बोधबाधितं न तर्हि भूयो भवति यदा त्वबाधितं तदा कारणमस्याऽऽवश्यकमित्यर्थः॥१४२॥

मतं न जायमानोऽस्ति जातत्वादेव कारणात्॥
पुमाञ्जनिष्यमाणो245 वा संसारस्य प्रवाहतः॥१४३॥

जात एवेत्यस्यार्थमाह। मतमिति। कथं तर्हि संसारधीस्तत्राऽऽह। संसारस्येति॥१४३॥

प्रवाहरूपी संसारो दीपार्चिर्वदवस्थितः॥
न जायते जनिष्यन्वा तस्मादस्तीह कश्चन॥१४४॥

तस्य प्रवाहरूपेण सदा सत्त्वं दृष्टान्तेन स्पष्टयति। प्रवाहेति। स्वभाववादं निगमयति। नेति॥१४४॥

जात एवेत्यतोऽसाधु यदुक्तं पूर्वपक्षिणा॥
जनित्वा म्रियते सर्वो मृत्वा भूयश्च जायते॥१४५॥

श्रुतिस्थनञर्थमाह। जात इति। जायत इति पदं हेतुत्वेन व्याकुर्वन्पूर्वार्धस्थातःशब्दार्थं स्फुटयति। जनित्वेति॥१४५॥

निर्बीजस्य च जन्मेह नाऽऽगमान्न च युक्तितः॥
ब्रूतातो जगतो मूलं यतो भूयोऽभिजायते॥१४६॥

तथाऽपि कारणं विना जन्मनाशौ स्यातामिति चेन्नेत्याह। निर्बीजस्येति। चकारो नाशसमुच्चयार्थः। सदेव सोम्येत्यादिश्रुतेर्विपरीतश्रुतैश्चानभिव्यक्तनामरूपकारणविषयत्वादकारणयोश्च जन्मनाशयोरव्यवस्थितेर्न स्वभाववादो युक्त इत्यर्थः। तदसंभवे फलितं वदन्को न्वेनमित्यादेस्तात्पर्यमाह। ब्रूतेति। अमृषा वनस्पतिपुरुषयोः साधर्म्यमवितथं व्यवहाराङ्गमङ्गीकृतमुत्पाटिका वृक्षसंलग्ना बाह्या त्वगुक्ता वृक्षस्योत्पटो नाम तदीयत्वचः सकाशादुद्गच्छन्निर्यासः शकराणि शकलानि किनाटं काष्ठान्तसंलग्नमतिसूक्ष्मं वल्कलरूपं चर्मेति श्रुतिपदानामर्थो विवेचनीयः॥१४६॥

तत्पृष्टं जगतो मूलं न विदुर्ब्राह्मणा यतः॥
अतो जिता हृता गावो याताः सर्वे यथायथम्॥१४७॥

तन्नेत्यादिभाष्यं विभजते। तदिति॥१४७॥

पृष्टं यद्याज्ञवल्क्येन न विदुर्ब्राह्मणाश्च यत्॥
श्रुत्या स्वतन्त्रया तन्नो ब्रह्माऽऽविष्क्रियते परम्॥१४८॥

विज्ञानमित्याद्यवतारयति। पृष्टमिति। आख्यानतो व्युत्थितिः स्वातन्त्र्यम्॥१४८॥

साक्षादित्यादिना प्रोक्तस्तथा सर्वान्तरश्च यः॥
अस्थूलोऽनणुरित्येवमक्षरात्माऽवधारितः॥१४९॥

नेति नेतीति यश्चोक्त इहौपनिषदः पुमान्॥
तस्य साक्षादयं श्रुत्या निर्देशः क्रियतेऽधुना॥१५०॥

तत्तात्पर्यं वृत्तमनूद्य स्फुटयति। साक्षादित्यादिनेति। यद्विधिमुखेन निषेधमुखेन चोक्तं प्रत्यग्ब्रह्म तस्य पुनरपि विधिद्वारा निर्णयार्थमिदं वाक्यमित्यर्थः॥१४९॥१५०॥

विज्ञानमिति चैतन्यं कूटस्थमभिधीयते॥
न कारकं न धात्वर्थोनापि यत्स्यात्क्रियाफलम्॥१५१॥

विज्ञानशब्दार्थमाह। विज्ञानमिति। कथं कूटस्थमित्युच्यते तत्राऽऽह। नेत्यादिना॥१५१॥

न चापि तदभावश्चनेत्यस्थूलादिशास्त्रतः॥
अभावस्यापि तत्साक्ष्यात्तदभावः कुतो मितेः॥१५२॥

कारकादिरूपत्वाभावे तदभावत्वं भावाभावयोरन्योन्यप्रतिस्पर्धित्वादित्याशङ्क्याऽऽह। न चेति। कारकादिभावं दृष्टान्तयितुमपिशब्दः। भावाभावयोरन्योन्यप्रत्यनीकत्वेन विधान्तरवैधुर्यं तु नास्माकं संमतमिति वक्तुं चशब्दः। भावाभावद्वैतनिषेधेन श्रुत्या ज्ञापितत्वाच्चितो युक्तं कौटस्थ्यमित्यर्थः। चैतन्यस्यैवाभावात्कथं कूटस्थत्वविशेषितविज्ञानार्थो न हि न प्रेत्य संज्ञाऽस्तीति श्रुतेश्चैतन्यं नामास्तीत्याशङ्क्याऽऽह। अभावस्येति। श्रुतिस्तु मैत्रेय्यां निर्णीतेति भावः॥१५२॥

एतावन्मात्रयाथात्म्यात्कार्यकारणवस्तुनः॥
अतस्तत्त्वमसीत्युक्त्या तादात्म्यं प्रतिपाद्यते॥१५३॥

इतश्च कूटस्थं चैतन्यमस्तीत्याह। एतावन्मात्रेति। न हि निरधिष्ठाना कल्पनेत्यसकृदुक्तमित्याशयः। यद्वा सत्यपि चैतन्ये तस्य कार्यकारणयोरन्यतरत्वान्न कौटस्थ्यमित्याशङ्क्यतयोस्तत्राऽऽरोपादुभयविलक्षणं तदित्याह। एतावन्मात्रेति। उक्तयुक्त्या

कूटस्थचैतन्यसत्त्वे तत्त्वमसिवाक्यं प्रमाणयति। अत इति। यद्वाऽस्तु कूटस्थचैतन्यं प्रतीचस्तु किमायातमत आह। अत इति॥१५३॥

निर्धूताशेषदुःखौघहेतुत्वात्सुखमेव तत्॥
अथैष एव परमो यो वै भूमेतिशास्त्रतः॥१५४॥

आनन्दशब्दार्थमाह। निर्धूतेति। आनन्दशब्दस्य वैषयिकसुखार्थत्वात्कथं प्रकृतं विज्ञानमेव सुखमित्याशङ्क्यतस्य परानन्दत्वे मानमाह। अथेति॥१५४॥

विषयेन्द्रियसंबन्धाद्यत्तुदुःखं सुखायते॥
आद्यन्तवत्त्वात्तद्दुःखं दुःखसंस्कारजं तथा॥१५५॥

यत्त्वानन्दो वैषयिकं सुखमिति तत्राऽऽह। विषयेति। वैषयिकं सुखं दुःखानुविद्धतया दुःखत्वादाभासो न मुख्यमित्युक्त्वा दुःखत्वे हेत्वन्तरमाह। आद्यन्तेति। तत्रैव हेत्वन्तरं समुच्चिनोति। दुःखेति। साधनानुष्ठानक्लेशो दुःखसंस्कारस्तदधीनं लौकिकं सुखं दुःखमेवेत्यर्थः॥१५५॥

अव्यावृत्ताननुगतभास्वद्विज्ञानमात्रतः॥
निरविद्याद्वयत्वात्तत्साक्षाद्ब्रह्मेति शब्द्यते॥१५६॥

उक्तविशेषणे हेतूकृत्य प्रत्यग्ब्रह्म विशेष्यं वक्तुं ब्रह्मपदमित्याह। अव्यावृत्तेति। निरविद्याद्वयत्वमविद्यातत्कार्यदुःखसंस्पर्शित्वाभावोपलक्षिताखण्डसुखैकतानत्वम्॥१५६॥

साविद्यः प्रत्यगात्मा यो वियद्योनिरुदाहृतः॥
अन्तर्याम्यादिरूपेण स एव प्रथते मृषा॥१५७॥

कथं तर्हि तस्य कारणादिभावस्तत्राऽऽह। साविद्य इति। यः प्रत्यगात्मा पूर्वोक्तलक्षणः सोऽविद्यावशाज्जगद्धेतुरुक्तो वेदान्तेष्वतः सोऽन्तर्यामी सर्वज्ञः सर्वशक्तिरित्यादिना मिथ्यैवा246ऽऽभातीत्यर्थः॥१५७॥

अदृष्टफलसंप्रेप्सोर्दृष्टकर्मफलत्यजः॥
रातेर्धनस्य दातुस्तद्ब्रह्मेदं स्यात्परायणम्॥१५८॥

रातिरित्यादेरर्थमाह। अदृष्टेति॥१५८॥

अस्मिन्प्रशस्तरि सति क्रियातत्फलसंगतेः॥
नियमो युक्तिमानेष कर्मिणामुपपद्यते॥१५९॥

कर्मणः स्वफलदातृत्वसंभवात्किमिति तत्फलदातृब्रह्मोच्यते तत्राऽऽह। अस्मिन्निति। अचेतनस्य कर्मणो नियामकत्वायोगात्सर्वज्ञे सर्वेश्वरे नियन्तरिकर्मिणां कर्मतत्फलयोगनियमो युक्तोऽतस्तत्फलदातृ ब्रह्मेत्यर्थः॥१५९॥

एवं संसरतस्तावत्परं ब्रह्म परायणम्॥
जगतश्चाप्युपादानं स्वात्माविद्यासमन्वयात्॥१६०॥

तिष्ठमानस्येत्यादि व्याकर्तुं वृत्तं कीर्तयति। एवमिति॥१६०॥

निविवृत्सोस्तु संसारान्मुनेस्त्यक्तैषणस्य च॥
तद्विदस्तिष्ठमानस्य समाप्तिः स्यात्परायणम्॥१६१॥

सोपस्कारं तदादत्ते। निविवृत्सोरिति। विरक्तस्य कृतसंन्यासस्य श्रवणाद्यभ्यस्यतस्तत्त्वं संविदानस्य तस्मिन्निष्ठावतो ब्रह्म परायणं परिसमाप्तिरित्यर्थः॥१६१॥

दग्धमोहान्धकारस्य प्रत्यग्बोधाग्निना मुनेः॥
ऐकात्म्ये वर्तमानस्य ब्रह्मात्माऽस्य परायणम्॥१६२॥

उक्तं प्रपञ्चयति। दग्धेति॥१६२॥

तद्विदो ब्रह्मणश्चेह भेदहेतोरसंभवात्॥
ब्रह्मैव ब्राह्मणः साक्षादुपचारात्परायणम्॥१६३॥

विदुषो ब्रह्मात्मता चेत्कथं परायणमभेदादित्याशङ्क्याऽऽह। तद्विद इति। इहेति मोक्षशास्त्रोक्तिः॥१६३॥

यत्र वा अन्यदित्येवं यत्र त्वस्येतिवाक्यतः॥
इत्युक्त्यर्थोपरोधेन व्याचक्षीत परायणम्॥१६४॥

कर्मिणां भेदेन परायणं ब्रह्म विदुषस्त्वभेदेनेत्ययुक्तमेकस्य परायणशब्दस्यार्थभेदायोगादित्याशङ्क्याऽऽह। यत्रेति। अविद्यादशायां भेदो विद्यादशायां तदभावश्चेति शेषः। वाक्यद्वयावगतभेदाभेदानुसारेणोभयविधं परायणत्वं वाच्यमिति फलितमाह। इत्युक्तीति॥१६४॥

तस्मात्तमस्विनो ब्रह्म भेदेनैव परायणम्॥
ध्वस्ताविद्यस्य चैकात्म्यात्कैवल्येन परायणम्॥१६५॥

द्विविधं परायणमुपसंहरति। तस्मादिति॥१६५॥

ब्रह्मण्यानन्दशब्दोऽयं प्रयुक्तः सुखवाचकः॥
संवेद्ये च सुखे लोक आनन्दाख्या प्रयुज्यते॥१६६॥

सच्चिदानन्दात्मकं ब्रह्मविद्याविद्याभ्यां बन्धमोक्षास्पदमित्युक्तमिदानीं ब्रह्मानन्दं विचारयितुकामः संमतमर्थमाह। ब्रह्मणीति। नन्वानन्दशब्दे ब्रह्मणि प्रयुक्ते ब्रह्मणो विवक्षितमानन्दत्वं सिध्यति मैवं तस्य वेद्यविषयत्वाद्ब्रह्मणश्चावेद्यत्वादित्याह। संवेद्ये चेति॥१६६॥

विशेषणतयाऽऽनन्दशब्दोऽन्यत्रापि दृश्यते॥
वेदान्तेष्वत आनन्दो विचार्योऽयं प्रयत्नतः॥१६७॥

न केवलमत्रैवाऽऽनन्दशब्दो ब्रह्मविशेषणार्पकत्वेन श्रुतः किंतु श्रुत्यन्तरेऽपीत्याह। विशेषणतयेति। अन्यत्र तैत्तिरीयादिष्विति यावत्। संप्रतिपत्तिमुक्त्वा विचारकार्यतामाह। अत इति। वेद्यानन्दस्यावेद्यब्रह्मविशेषणत्वश्रुतेरित्यर्थः॥१६७॥

आनन्दो ब्रह्मेति तथा तैत्तिरीयश्रुतौ श्रुतम्॥
अथैष एव इति च तथोदर्के प्रवक्ष्यते॥१६८॥

श्रुत्यन्तरेऽपि ब्रह्मविशेषणार्पकत्वेनाऽऽनन्दशब्दोऽस्तीत्युक्तं स्फुटयति। आनन्द इति। आनन्दं ब्रह्मणो विद्वानित्यादिवाक्यान्तरसमुच्चयार्थस्तथाशब्दः। एतच्छ्रुतिदृष्टान्तार्थो वा। वाक्यशेषेऽपि ब्रह्मविशेषणत्वेनाऽऽनन्दश्रुतिर्दृष्टेत्याह। अथेति। छान्दसं विसंधिकरणम्॥१६८॥

भूमा तत्सुखमित्येवं छान्दोग्योपनिषद्वचः॥
संवेद्योऽयं किमानन्दः किंवा नेति विचार्यते॥१६९॥

यो वै भूमेत्यादिवाक्यमादत्ते। भूमेति। आनन्दो विचार्यो ब्रह्मणीत्युक्तं तत्र विचारस्वरूपमाह। संवेद्योऽयमिति॥ १६९॥

ब्रह्मण्यानन्दः संवेद्यो लौकिकानन्दवद्यदि॥
युक्ताः शब्दास्तदैते स्युर्ब्रह्मण्यानन्दवाचकाः॥१७०॥

उभयत्र फलं दिदर्शयिषति। ब्रह्मणीति। अन्यथा लोकवेदयोः शब्दार्थभेदादविशिष्टवाक्यार्थन्यायविरोध इति भावः। असंवेद्यत्वे त्वद्वैतश्रुतिरविरुद्धेति द्रष्टव्यम्॥१७०॥

संवेद्यानन्दरूपं तद्वाक्याच्चेत्परिनिश्चित247म्॥
प्रमाणावगतेस्तत्र किं चिन्त्यमिति चेन्मतम्॥१७१॥

विचारमाक्षिपति। संवेद्येति। तदिति ब्रह्मोक्तिः। वाक्यमुदाहृतम्। तत्रेत्यानन्दो निर्दिश्यते॥१७१॥

नान्योन्यातिविरुद्धार्थवाक्यानां तत्र दर्शनात्॥
अतिप्रमाणविषयं ब्रह्म सर्वत्र विश्रुतम्॥१७२॥

न तावन्न कार्यो विचारस्तस्मिन्ब्रह्मणि मिथोऽत्यन्तविरुद्धार्थानां वाक्यानां दृष्टेस्तदर्थनिर्णयार्थं तस्य कार्यत्वादित्याह। नेत्यादिना। कथं ब्रह्मणि विरुद्धार्थवाक्यदृष्टिस्तत्राऽऽह। अतिप्रमाणेति। तद्विषयत्वमतीत्य248 वर्तमानं ब्रह्म सर्वश्रुतिषु श्रुतं वेद्यत्वं च तस्मिन्नानन्दशब्दाद्भातीत्यर्थः॥१७२॥

यत्र त्वस्येति वचनं न दृष्टेरिति चापरम्॥
विदिताविदिताभ्यां तदन्यदेवेति च श्रुतिः॥१७३॥

तदेव श्रवणं विविनक्ति। यत्रेति। अविषयत्वद्योतिनामानन्दस्य वेद्यत्वद्योतिनां च वचसां ब्रह्मणि प्रयोगादागमविप्रतिपत्तेर्विचारकार्यतेति भावः॥१७३॥

निरानन्दं तथा केचित्कैवल्यं प्रतिजानते॥
तेषामपि निषेधार्थंकर्तव्याऽतो विचारणा॥१७४॥

वादिविप्रतिपत्तिस्तत्कार्यतायां बीजान्तरमाह। निरानन्दमिति। अन्ये सानन्दमिति तथाशब्दार्थः। विप्रतिपत्तिफलमाह। तेषामिति। निरानन्दमुक्तिवादिनां निराकार्यत्वे श्रुतिविरोधं दृष्टान्तयितुमपिशब्दः। विप्रतिपत्तेः संशयादित्यतःशब्दार्थः॥१७४॥

विकल्पासंभवश्चात्र वस्तुवृत्तत्वकारणात्॥
क्रियायां स्याद्विकल्पोऽयं न तु वस्तुन्यसंभवात्॥१७५॥

विप्रतिपत्तिभ्यांकार्या विचारणेत्ययुक्तमुदितानुदितहोमवद्विकल्पोपपत्तेरित्याशङ्क्याऽऽह। विकल्पेति। अत्रेति मुक्त्यानन्दोक्तिः। वस्तुत्वेऽपि किमित्यानन्दे विकल्पो नेष्यते तत्राऽऽह। क्रियायामिति। असंभवो वस्तुनो व्यवस्थितत्वेन विकल्पायोग्यत्वम्॥१७५॥

वादिविप्रतिपत्तेश्च,केचिदिच्छन्ति वादिनः॥
असंवेद्यं सुखं मोक्षे, केचिन्नेति प्रचक्षते॥१७३॥

विप्रतिपत्तिभ्यां विचारकार्यतामापाद्य तत्रैव हेत्वन्तरमाह। वादीति॥१७६॥

कर्तव्योऽतो विचारोऽत्र युक्तिमार्गेण यत्नतः॥
सम्यङ्निश्चयसिद्ध्यर्थं पक्षयोरुभयोरपि॥१७७॥

पूर्वत्रापि तद्विप्रतिपत्तेरुक्तत्वात्पौनरुक्त्यमित्याशङ्क्यब्रह्मण्यानन्दोऽस्ति न वेति विप्रतिपत्तेर्गतत्वादानन्दस्तस्मिन्वेद्योऽवेद्यो वेत्यनतिवृत्तत्वात्तदनुसारेण संशये विचारकार्यतेति मत्वाऽऽह। कर्तव्य इति। ब्रह्मानन्दः सप्तम्यर्थः। परपक्षनिराकरणं यत्नः। पूर्वोत्तरावुभौ पक्षौ तत्र पूर्वपक्षे निश्चयस्यसम्यक्त्वमनादेयत्वमितरत्राऽऽदेयत्वमिति विभागः॥१७७॥

संवेद्यानन्दकं तावद्ब्रह्मेतीहावसीयताम्॥
जक्षत्क्रीडत्रममाण इत्यादिश्रुतिवाक्यतः॥१७८॥

सप्रयोजकफलं विचारं कार्यमुक्त्वा पूर्वपक्षयति। संवेद्येति। इहेति मुक्तिरुक्ता॥१७८॥

नन्वेकत्वे विभागोऽत्रनास्ति कारकसंश्रयः॥
भूरिकारकसाध्या च क्रिया लोकेऽपि दृश्यते॥१७९॥

सिद्धान्तीशङ्कते। नन्विति। ब्रह्मण्यद्वयत्वे सति कारकविभागाभावेऽपि वेद्यत्वस्य काऽनुपपत्तिस्तत्राऽऽह। भूरीति। अपिरभिव्याप्त्यर्थः। चकारोऽवधारणे॥१७९॥

विज्ञानस्य क्रियात्वाच्च न सिद्धिः कारकैर्विना॥
नातः संवेद्य आनन्दो ब्रह्मणीहोपपद्यते॥१८०॥

कारक भेदसाध्यत्वेऽपि क्रियाया ज्ञानस्य किमायातं तदाह249विज्ञानस्येति। चकारो विज्ञानस्यापीत्यर्थे। मुक्तौ ज्ञानासंभवे फलितमाह। नात इति॥१८०॥

नैष दोषोऽस्ति विज्ञानं स्यादेवाऽऽनन्दगोचरम्॥
विज्ञानमानन्दमितिशब्दप्रामाण्यकारणात्॥१८१॥

श्रुतिप्रमाणमाश्रित्य पूर्ववाद्याह। नेत्यादिना॥१८१॥

ननु सत्स्वपि वाक्येषु नैतदध्यवसीयते॥
प्रत्यर्थिनि श्रुतेर्वाक्ये सत्यैकात्म्यावबोधिनि॥१८२॥

अद्वये ब्रह्मणि श्रुतिप्रामाण्यादानन्दज्ञानमुक्तमक्षिपति। नन्विति। विज्ञानादिवाक्येषु सत्स्वपि नाऽऽनन्दविषयं ज्ञानं तेषामानन्दज्ञानैक्ये तात्पर्यादित्यर्थः। किंच ब्रह्मणो विषयत्वेऽस्थूलादिवाक्यविरोधः स्यादित्याह। प्रत्यर्थिनीति। किंच तत्त्वमादिवाक्ये प्रत्यगेकरसस्य बोधके कुतस्तस्मिन्विषयतेत्याह। सतीति॥१८२॥

मानान्तरविरोधेन न हि लोकेऽपि किंचन॥
मानं प्रवर्तते तस्मान्नैतदध्यवसीयते॥१८३॥

किंच ग्राह्यग्राहकयोर्भेदः प्रत्यक्षस्तदभेदमात्मनि वदतस्तद्विरोधोऽतो न स्वरूपानन्दविषयं ज्ञानमित्याह। मानान्तरेति। लोकेऽपीत्यपिरभिव्याप्तौ वेददृष्टान्तार्थो वा। ब्रह्मण्यानन्दस्य संवेद्यत्वमेतदित्युच्यते॥१८३॥

व्यञ्जकत्वाच्च मानानां सिद्धवस्तुप्रयोज्यता॥
कारकत्वेऽप्यकार्यत्वाद्दुःसंभाव्यं त्वयोदितम्॥१८४॥

किंच मानं बोधकं कारकं वा प्रथमं प्रत्याह। व्यञ्जकत्वाच्चेति। बोधकत्वे स्वोत्पत्तेः प्रागेव सिद्धमविषयं विषयं वा तथैव मानं भासयेत्तथाच प्रत्यग्ब्रह्माऽऽनन्दात्मकं विषयतया न शक्यं प्रकाशयितुमविषयत्वश्रुतेस्तन्न ब्रह्मानन्दो वेद्य इत्यर्थः। द्वितीयं दूषयति। कारकत्वेऽपीति। मानस्य कारकत्वे ब्रह्मतया सिद्धानन्दस्यासाध्यत्वान्न मानं ब्रह्मानन्दं कुर्यादतस्तद्वेद्यत्वं त्वदिष्टं न सिध्यतीत्यर्थः। मानस्य कारकत्वमेवायुक्तममानत्वप्रसङ्गादित्यपिशब्दार्थः॥१८४॥

ननु सुख्यहमस्मीति विज्ञानमनुभूयते॥
प्रतीच्यानन्दविषयं न प्रत्यक्षं250 विरोध्यतः॥१८५॥

पूर्ववाद्याह। नन्विति। आनन्दस्य वेद्यतायाः स्वानुभवसिद्धेस्तद्वेद्यत्वे नाध्यक्षादिविरोधः शङ्कनीयोन हि स्वानुभवविरोधे मानान्तरमुद्भवतीत्यर्थः॥१८५॥

नैतदेवं यतो मोक्षे विज्ञानं नोपपद्यते॥
देहाभावो हि मोक्षोऽयं करणानि न सन्त्यतः॥१८६॥

आनन्दो वेद्यो ब्रह्मणीति चोदिते सिद्धान्तयति। नैतदिति। आगन्तुकमनागन्तुकं वा ज्ञानं मुक्तावानन्दं गोचरयति नाऽऽद्य इत्याह। यत इति। तत्राऽऽगन्तुकज्ञानायोगे हेतुमाह। देहेति। अतो हेत्वभावात्तत्र कादाचित्कज्ञानासिद्धिरिति शेषः॥१८६॥

करणाद्यनपेक्षः251 सन्न च विज्ञानसंभवः॥
तथा सति शरीरादेरुपादानमनर्थकम्॥
तथैकत्वविरोधान्न संवेद्यानन्दकं परम्॥१८७॥

कार्यकरण252योरभावेऽपि मोक्षे ब्रह्मानन्दज्ञानं जनिष्यते संसारे हि हेत्वपेक्षेत्याशङ्क्यातिप्रसङ्गेन निरस्यति। करणादीति। द्वितीयं दूषयति। तथेति। यथा ब्रह्मानन्दस्याऽऽगन्तुकज्ञानाविषयत्वं तथैवानागन्तुकज्ञानाविषयत्वं न हि ब्रह्म स्वेनैव वेद्यानन्दरूपं विषयविषयिणोर्भेदादित्यर्थः॥१८७॥

यद्यानन्दात्मकं ब्रह्म नित्यमात्मानमात्मना॥
तद्विज्ञानस्य नित्यत्वाज्जानीयान्नित्यमेव तत्॥१८८॥

किंच ब्रह्म वा मुक्तो वा संसारी वा ब्रह्मानन्दं गोचरयेदाद्यमनुवदति। यदीति। तद्ब्रह्म सदाऽऽनन्दरूपमात्मानं स्वेनैव सर्वावस्थासु जानाति स्वज्ञानस्य सदा सत्त्वादित्यर्थः॥१८८॥

जले जलं यथा तस्मिन्संसार्यप्येकतां गतः॥
सर्व एकी भवन्तीति न पृथक्त्वेन संस्थितः॥१८९॥

तदानन्दात्मकब्रह्मविज्ञानाय मनागपि॥
न तदेकत्वतो वेत्ति ब्रह्माऽऽनन्दं स्वकं तथा॥१९०॥

मुक्तोऽपि न च संसारी, तयोरेकत्व हेतुतः॥
मुक्तो वेत्ति परानन्दमिति तस्माद्वचो मृषा॥१९१॥

द्वितीयेऽपि मुक्तो ब्रह्मणोऽभिन्नो भिन्नो वाऽभेदपक्षमनुवदति। जल इति। यथा जले जलं प्रक्षिप्तं न पृथगस्ति तथा पूर्वं संसार्यपि मोक्षे ब्रह्मण्येकतां गतो मुक्तो न तस्मात्पृथक्त्वेन तदानन्दं ज्ञातुं कथमपि स्थितः किंत्वभिन्नो ब्रह्मानन्दं वेत्ति परेऽव्यये सर्व एकी भवन्तीति श्रुतेरित्यर्थः। तत्र ब्रह्मणः स्वानन्दविषयीकारं दूषयति।

तदिति। तद्ब्रह्म स्वरूपानन्दं न वेत्ति तेनैक्यादेकत्र विषयविषयित्वानुपपत्तेरित्यर्थः। उक्तन्यायेन मुक्तस्य ब्रह्माभिन्नस्य तदानन्दविषयीकारं निरस्यति। तथेति। तृतीयं निराह। न चेति। मुक्तसंसारिणोरैक्यान्मुक्तवदितरस्यापि ब्रह्मत्वात्कर्मकर्तृविरोधान्न ब्रह्मानन्दवेत्तृतेत्यर्थः। पक्षत्रयायोगमुपसंहरति। मुक्त इति। तदुक्तिः संसारिब्रह्मणोरुपलक्षणम्॥१८९॥१९०॥१९१॥

ब्रह्मानन्दमथान्यः सन्वेद मुक्तो घटादिवत्॥
ब्रह्मत्वमन्यो वेदेति तदैकत्वं विरुध्यते॥१९२॥

मुक्तस्य ब्रह्मणो भेदपक्षमनुवदति। ब्रह्मेति। तत्त्वमादिश्रुतिविरोधेन प्रत्याह। ब्रह्मत्वमिति॥१९२॥

प्रेत्य संज्ञेह नास्तीति श्रुतिरेव निषेधति॥
मुक्तौ बिभागविज्ञानमेकत्वादेव कारणात्॥१९३॥

इतश्च मोक्षे ब्रह्मानन्दस्याऽऽगन्तुकज्ञानाविषयतेत्याह। प्रेत्येति॥१९३॥

स्त्रीपुंदृष्टान्तवचनं यद्वै तदिति चापरम्॥
ज्ञात्राद्यसंभवं वक्ति कूटस्थैकत्वकारणात्॥१९४॥

तत्रैव वाक्यान्तरमाह। स्त्रीति। तद्यथा प्रियया स्त्रिया संपरिष्वक्तो न बाह्यं किंचन वेद नाऽऽन्तरमित्यादि स्त्रीपुंदृष्टान्तवचनम्। यद्वै तन्न पश्यति पश्यन्वै तन्न पश्यतीत्यादि वाक्यान्तरम्। तयोरर्थं संक्षिपति। ज्ञात्रादीति॥१९४॥

नेति नेत्यादिभूयांसि विरुध्यन्ते वचांस्यपि॥
कारकाद्यभ्युपगतौ मुक्तौ ब्रह्मणि केवले॥१९५॥

ब्रह्मणि क्रियाकारकभेदाभावे हेत्वन्तरमाह। नेतीति॥१९५॥

विज्ञानानन्दयोश्चैक्यादसंयोगविभागतः॥
आनन्दज्ञानविषया कल्पनेयंवृथा श्रमः॥१९६॥

नन्वागन्तुकज्ञानेन मुक्तावानन्दाननुभवादुक्तश्रुत्यविरोधान्नित्यसिद्धज्ञानेनैव ब्रह्माऽऽत्मानन्दं वेत्तीत्युपगमे तद्वेद्यत्वलाभादन्यत्र कर्मकर्तृविरोधेऽपि सर्वज्ञे ब्रह्मणि तदभावान्नास्ति दौस्थ्यमत आह। विज्ञानेति। ज्ञानानन्दयोः सामानाधिकरण्यानुरोधेन ब्रह्माभेदान्मिथोऽपि तयोर्भेदायोगादानन्दं ब्रह्म जानातीत्यानन्दज्ञानयोर्विषयविषयित्वकल्पना न युक्तोन हि क्वचिद्विरोधोऽन्यत्राविरोधो भवति, न च सर्वज्ञमसन्तं253 सन्तं करोतीति भावः॥१९६॥

अज्ञानान्यार्थविज्ञानप्रसक्तावेव युज्यते॥
वेत्ति ब्रह्म सुखमिति न तु ज्ञानघनात्मनि॥१९७॥

ब्रह्मणा स्वानन्दस्यावेद्यत्वे हेत्वन्तरमाह। अज्ञानेति॥१९७॥

अज्ञानान्यार्थविज्ञानप्रसङ्गाङ्गीकृतावपि॥
जाड्यं जन्मादिबद्धत्वं ब्रह्मणः प्राप्नुयाद्ध्रुवम्॥१९८॥

ब्रह्मणो ज्ञानघनस्याप्यज्ञानान्यार्थज्ञाने स्तः स्वप्रकाशात्मनः सवितुरप्रकाशान्यप्रकाशयोर्दर्शनात्तद्ब्रह्म स्वानन्दं वेत्तीति नायुक्तमित्याशङ्क्याऽऽह। अज्ञानेति॥१९८॥

तस्माद्विज्ञानमित्यादि यथावस्थितवस्तुनः॥
वचोऽन्वाख्यायकं ग्राह्यं‚ न ज्ञानादिविधायकम्॥१९९॥

आनन्दज्ञाने ब्रह्मणि विषयविषयित्वायोगश्चेत्कथं विज्ञानादिवाक्यमित्याशङ्क्योपसंहरन्नाह। तस्मादिति। ज्ञानस्य विषयित्वमानन्दस्य विषयत्वं ब्रह्मणो गुणित्वमितरयोर्गुणत्वमित्यादेर्न बोधकमिति व्यावर्त्यमाह। नेति॥१९९॥

जक्षदित्यादि यच्चोक्तं तच्चापि न विरुध्यते॥
सर्वात्मकत्वाद्विदुषः सर्वतः पाणिपादवत्॥२००॥

जक्षत्क्रीडन्नित्यादिश्रुतेर्मोक्षे ब्रह्मानन्दो वेद्य इत्युक्तमनूद्य परिहरति। जक्षदित्यादीति। यथा सर्वतःपाणिपादं तत्सर्वतोक्षिशिरोमुखमिति सर्वात्मतोच्यते तथाऽत्रापि विदुषः सर्वात्मताया विवक्षितत्वादानन्दावेद्यत्वमविरुद्धमित्यर्थः॥२००॥

योगिदेवादिदेहेषु जक्षणाद्युपपत्स्यते254
सर्वात्मकत्वाद्विदुषः स्याद्विमुक्तिस्तुतीरणम्॥२०१॥

विदुषः सर्वात्मनोऽपि कथं जक्षणादि श्रुतं निर्वहेदत आह। योगीति। प्राप्तजक्षणाद्यनुवादफलमाह। स्यादिति॥२०१॥

मतं जक्षणवन्मुक्तौ सर्वात्मत्वात्परात्मनः॥
दुःखित्वमपि संप्राप्तं कुम्भीपाकादिदेहिषु॥२०२॥

विदुषः सर्वात्म्येन योग्यादिषु प्राप्तजक्षणाद्यनुवादे स्यादतिप्रसक्तिरिति शङ्कते। मतमिति॥२०२॥

नैवं नामादिसंभूतिपि255ण्डप्राणादिसंश्रय—
संपर्कजनितभ्रान्तिदुःखित्वाध्यस्तिहेतुतः॥२०३॥

आविद्यनामरूपरचितोपाधिद्वयसंबन्धनिबन्धनमिथ्याज्ञानाधीनदुःखिताध्यासवशादात्मनि बन्धप्रतीतेर्न तत्र वस्तुतो दुःखित्वं न चजक्षणाद्यपि वास्तवमाविद्यस्यैव मुक्तिस्तुतयेऽनुवादाद्दुःखित्वस्याऽऽविद्यस्यापि नानुवादो हीनत्वाप्तेरिति परिहरति। नैवमिति॥२०३॥

विषयप्रविभागश्च विरुद्धवचसां मिथः॥
प्रागेवास्माभिरुक्तोऽसौ यथावदुपपत्तिभिः॥२०४॥

यत्तु विरुद्धश्रुतिदृष्टेरागमार्थोऽनिर्णीत इति तत्राऽऽह। विषयेति। प्रागिति मधुब्राह्मणोक्तिः॥२०४॥

आनन्दब्रह्मविज्ञानपदार्थैकत्वहेतुतः॥
नीलोत्पलादिवन्नातः संसर्गो ब्रह्मणीष्यते॥२०५॥

विज्ञानादिवाक्यीयब्रह्मानन्दस्यावेद्यत्वमुक्तं, केचिद्वाक्यार्थः संसर्गो विशिष्टो वेतीच्छन्तो विज्ञानादिवाक्यं नाखण्डार्थं मृष्यन्ते तान्प्रत्याह। आनन्देति। एतानि हि पदान्येकस्मिन्नेव बुभुत्सिते ब्रह्मप्रातिपदिकार्थे प्रकृष्टादिपदवत्पर्यवस्यन्ति तथाच लक्षणया संसर्गासङ्गिसम्यग्धीहेतुत्वादखण्डार्थत्वमन्यथा त्वबुभुत्सितबोधिनो वाक्यस्याप्रामाण्यादिति भावः। अतःशब्दः पूर्वपञ्चम्या संबध्यते। संसर्गग्रहणं विशिष्टोपलक्षणार्थम्॥२०५॥

मर्त्याच्छतगुणेनात उत्तरोत्तरवृद्धितः॥
कार्यकारणरूपस्य निष्ठाऽऽनन्दः परो मतः॥२०६॥

ब्रह्मानन्दस्यावेद्यसंविदेकरसस्य परमत्वमाह। मर्त्यादिति। आनन्दस्तावत्कर्मफलत्वाज्जायते ततोऽपि रागादिद्वारेणाऽऽनन्दान्तरं न हि वैशेषिकवद्वैदिकानां सुखादिषु विजातीयारम्भनियमस्तथाच कार्यकारणरूपस्याऽऽनन्दस्य मानुषानन्दादारभ्योत्तरोत्तरभूमिषूत्कर्षादतिशयवतो ब्रह्मानन्दे सर्वभेदशून्ये पर्यवसानात्परमोऽसौ श्रुतिषु मत इत्यर्थः॥२०६॥

साधनादिव्यपेक्षैव सुखसंवित्तिरिष्यते॥
लौकिकी नश्वरी साऽपि दुःखसंस्कारजा तथा॥२०७॥

कैवल्ये न तु सापेक्षा सर्वसाधननिःस्पृहा॥
आत्मैवाऽऽनन्दयाथात्म्यं नातो ज्ञानादिसाधनम्॥२०८॥

उक्तानन्दस्यावेद्यत्वे तत्साक्षात्कारार्थं साधनानुष्ठानं न स्यादित्याशङ्क्य धीवृत्तिरूपा लौकिकसुखसंवित्तिरेव कारकापेक्षा नाशशीला रागादिजन्या चेष्यत ऐकात्म्ये तु न कारकेष्वपेक्षा तत्र सुखसंवित्तेरनाद्यनन्तायाः सर्वानपेक्षत्वादनुष्ठानस्य च प्रतिबन्धमात्रध्वंसित्वादित्याह। साधनादीत्यादिना। साधयित्रादिसंग्रहार्थमादिपदम्। दुःखसंस्कारो रागादिः। मोक्षे सुखसंवित्तिरनपेक्षेत्यत्र हेत्वन्तरमाह। आत्मैवेति। अतो ज्ञाने सुखे वा न साधनमपेक्षितव्यमित्युपसंहरति। नात इति॥२०७॥२०८॥

न जडं ज्ञानरूपत्वादानन्दत्वान्न निःसुखम्॥
नान्तवद्ब्रह्मरूपत्वादिति वाक्यप्रमाणतः॥२०९॥

विज्ञानादिवाक्यस्य यथोक्तार्थपरत्वे तस्यैकेनैव पदेन सिद्धेर्व्यर्थं पदान्तरमित्याशङ्क्य विज्ञानादिपदानां लक्ष्यार्थैक्येऽपि व्यावर्त्यभेदादर्थवत्त्वोपपत्तिरित्यभिप्रेत्याऽऽह। न जडमिति। सिद्धमखण्डं ब्रह्मेति शेषः॥२०९॥

आनन्दैकस्वभावोऽस्य सुषुप्तेऽध्यवसीयते॥
व्यावृत्ताशेषमात्रादेरनन्यानुभवात्मना॥२१०॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके तृतीयाध्यायस्य
नवमं ब्राह्मणम्॥९॥

त्रयोदशैव^(१) ज्ञेयानि पञ्चमेऽस्मिन्समासतः॥
शतानि वार्तिकग्रन्थे षष्ठे वक्ष्याम्यतः परम्॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीसुरेश्वराचार्यविरचिते
बृहदारण्यकोपनिषद्भाष्यवार्तिके तृतीयोऽध्यायः॥३॥

उपनिषत्क्रमेण पञ्चमोऽध्यायः॥५॥

ब्रह्मानन्दस्यावेद्यत्वे हेत्वन्तरं वदन्ब्राह्मणार्थमुपसंहरति। आनन्देति। उत्थितस्य परामर्शान्मात्रादिव्यावृत्तेरागन्तुकज्ञानाभावेऽपि स्वापे सुखानुभवादनतिशयानन्दं चिदेकतानं वस्तु सिद्धमित्यर्थः॥२१०॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिकटीकायां तृतीयाध्यायस्य
नवमं ब्राह्मणम्॥९॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यश्री-
मद्भगवदानन्दज्ञानविरचितायां सुरेश्वरवार्तिकटीकायांशास्त्र-
प्रकाशिकाख्यायां तृतीयोऽध्यायः॥३॥

<MISSING_FIG href="../books_images/U-IMG-1734147619Screenshot2024-12-13141014.png"/>

श्लोकानामादितः समष्ट्यङ्काः—६९१०

———————————————————————————————————————
** १.** क. स्वस्वाग्निभूमिताः श्लोकाः केनचिद्गणिताः पुरा। तेऽध्यायेऽस्मिन्न सन्त्यद्य सन्ति स्वाष्टद्विभू १२८० मिताः॥

अथ चतुर्थोऽध्यायः।
<MISSING_FIG href="../books_images/U-IMG-1734147814Screenshot2024-12-14091325.png"/>

आनन्दं ब्रह्म विज्ञानं साक्षादित्यादिलक्षणम्॥
पञ्चमान्ते विनिर्णीतं जल्पन्यायेन सांप्रतम्॥१॥

वागादिदेवताद्वारा भूयस्तस्यैव वित्तये॥
षष्ठ आरभ्यतेऽध्यायो वादन्यायेन यत्नतः॥२॥

अस्ति प्रत्यगुपाधिवर्गविधुरं शुद्धं परं भास्वरं
पूर्णानन्दमपास्तभेदविभवं ब्रह्मेति निर्ज्ञायते।
तस्मिन्नस्मि सदा निषण्णधिषणो धीशब्दयोनौ पदे
वेदान्तैरधिगम्यमानमहिमन्यात्मावबोधे मयि॥१॥

पूर्वाध्याये सच्चिदानन्दं प्रत्यग्ब्रह्म निर्धार्याध्यायान्तरमारभमाणो वृत्तमनुद्रवति। आनन्दमिति। पञ्चमान्तशब्दो बुद्धान्तादिशब्दवत्पञ्चमावसानविषयो वा। जल्पन्यायेन चतुरङ्गनिर्वर्त्यजयपराजयप्रधानन्यायेनेति यावत्। उत्तराध्यायतात्पर्यमाह। सांप्रतमिति। वागाद्यधिष्ठात्रीष्वग्न्यादिदेवतासु ब्रह्मदृष्टिद्वारेत्यर्थः। तस्यैव पाञ्चमिकस्य ब्रह्मणः साक्षादित्यादिलक्षणस्येत्यर्थः। वादन्यायेन शिष्याचार्यक्रमेण तत्त्वनिर्णयप्रधानन्यायेनेत्यर्थः। परमतनिरासेन स्वमतसाधनं यत्नः॥१॥२॥

योग्यकालावबोधार्थमासांचक्र इतीरणम्॥
कल्पं बुद्ध्वाऽथ तमृषिराजगाम महीपतिम्॥३॥

परपराजयमात्मविजयं च न्यायतो लब्धवतस्तत्त्वनिर्धारणे बुद्धिस्वास्थ्यं भवतीत्यध्याययोरुत्थाप्योत्थापकरूपं256 संबन्धमुक्त्वा ब्रह्मात्मज्ञा257नोपदेशेन258 तदुपायविशेषबुभुत्सायां तदुक्त्यर्थमेतदिति ब्राह्मणसंबन्धं भाष्योक्तमुपेत्य पदार्थान्व्याचिख्यासुरासांचक्र इत्यस्य विवक्षितमाह। योग्येति। राजानं द्रष्टुकामानां तद्दृष्टियोग्यावसरज्ञापनार्थमास्थायिकामर्थिभ्यो राजा दत्तवानिति वाक्ये जनको हेत्यादौ विवक्षितमित्यर्थः। अथेत्यादेरर्थमाह। कल्पमिति। दर्शनयोग्यं कालं ज्ञात्वेति यावत्। श्रुत्यनुकारार्थोऽथशब्दः॥३॥

पशूनिच्छन्किमागास्त्वं प्रश्नान्वा सूक्ष्मनिर्णयान्॥
वक्तुं किमागतोऽसीति नृपः पप्रच्छ तं मुनिम्॥४॥

तं हेत्यादि व्याचष्टे। पशूनिति। सूक्ष्मार्थनिर्णयफलान्प्रश्नान्मत्तः श्रुत्वा तेषामुत्तरं वक्तुं वा त्वदागमनमित्यण्वन्तानित्यस्यार्थ उक्तः॥४॥

धनार्थं ब्राह्मणा यान्ति राजानमिति युज्यते॥
न त्वनापदि विद्यार्थं तं यान्तीह द्विजोत्तमाः॥५॥

केचिद्याज्ञवल्क्यस्य योगक्षेमार्थं विद्यार्थं च राजगमनमिच्छन्तः सूक्ष्मार्थनिर्णयान्तान्प्रश्नान्कृत्वा मत्तो निर्धारयितुं वा त्वदागमनमित्येवमण्वन्तानित्यस्यार्थमाहुस्तान्प्रत्याह। धनार्थमिति। उपेयादीश्वरं चैव योगक्षेमार्थसिद्धय इति स्मृतेरित्यर्थः। ननु गार्ग्यप्रभृतयो ब्राह्मणा राजानमपि विद्यार्थं गच्छन्तो दृश्यन्ते नेत्याह। न त्विति। शास्त्रीयव्यवहारभूमिरिहेत्युक्ता॥५॥

नान्यत्र क्षत्त्रियाद्विद्या यत्र संभाव्यते क्वचित्॥
उपसीदन्ति तत्रैव ब्राह्मणाः क्षत्त्रियान्सदा॥६॥

अनापदीतिविशेषणतात्पर्यमाह। नान्यत्रेति। यत्र क्षत्त्रियादन्यत्र क्वचिदपि विद्या सदैव न संभाव्यते तत्र ब्राह्मणा विद्यार्थिनः सन्तो विदुषः क्षत्त्रियानुपसीदन्तीति योजना॥६॥

याज्ञवल्क्यस्य शिष्यत्वे ग्रन्थच्छायाऽपि नेष्यते॥
जनकस्यैव शिष्यत्वे ग्रन्थच्छायोपलक्ष्यते259॥७॥

अथात्र कस्मिंश्चिदंशे गुरुरपि मुनिर्जनकस्य शिष्यो भविष्यति। उक्तं चाऽऽचार्यत्वं हित्वेति, नेत्याह। याज्ञवल्क्यस्येति। न च तस्य शिष्यत्वे योग्यत्वं सर्वज्ञत्वादित्यपेरर्थः। तच्छृणवामेति श्रुतेस्तस्य शिष्यत्वं भातीत्याशङ्क्याऽऽह। जनकस्येति। एकवचनबहूक्तिभ्यां राज्ञो मुनेश्च शिष्याचार्यत्वे भासेते संभवति चाऽऽचार्यस्यापि शिष्यबुद्धिशोधनार्थं तं प्रति प्रश्नवाक्यमिति भावः॥७॥

अण्वन्तानिति शब्दोऽयं न स्यात्पशुविशेषणम्॥
उभयं त्वित्यतः शेषाद्द्वयं पृष्टमतो भवेत्॥८॥

पशूनण्वन्तानिति सामानाधिकरण्यादण्वन्तपदस्य पशुविशेषणार्थकत्वान्नात्र विकल्पधीरित्याशङ्क्याऽऽह। अण्वन्तानिति। तत्र वाक्यशेषं हेतुमाह। उभयमिति। राजवाक्ये विकल्पद्योतिवाशब्दाभावेऽपि शेषान्मुनिवचनादत्र विकल्पदृष्टिः संदिग्धस्योपक्रमे शेषान्निर्णयप्रसिद्धेरित्यर्थः। अण्वन्तशब्दस्य पशुविशेषणानर्पकत्वे फलितमाह। द्वयमिति॥८॥

तद्धेतुहेतुमत्त्वस्य प्रसिद्ध्यर्थमथावदत्॥
इच्छाम्युभयमप्येतदित्येवं ह्यन्यथा वदेत्॥९॥

उभयमेवेत्यादेस्तात्पर्यमाह। तद्धेत्विति। प्रश्नवचनं पशुग्रहणं च तच्छब्दार्थ260-

स्तयोर्यथाक्रमं हेतुत्वस्य हेतुमत्त्वस्य च प्रतिपत्त्यर्थमिच्छापद261व्युदासेनोभयमेवेति मुनिरुक्तवानित्यर्थः। प्रश्नालोचनया प्राप्तमपीच्छापदं फलविशेषविवक्षया त्यक्तमितिद्योतनार्थोऽथशब्दः। इच्छापदप्रयोगे हेतुहेतुमत्त्वं तयोः सिध्यति तन्न प्राप्तं क्रियापदं त्याज्यमित्याशङ्क्याऽऽह। इच्छामीति। यद्येतदुभयमपीच्छामीत्येवं वदेत्तदा द्वयोरपीच्छाकर्मत्वेन प्राधान्याद्धेतुहेतुमद्भावो न स्यान्न हि गुणप्रधानत्वादृते तत्सिद्धिरित्यर्थः॥९॥

वाग्देवताऽग्निरत्र स्यात्तथाऽऽयतनमिन्द्रियम्॥
ब्रह्माऽऽकाशः प्रतिष्ठा च नामोपनिषदुच्यते॥१०॥

वाग्वै ब्रह्मेत्यत्र वाक्पदार्थमाह। वागिति। वागेवाऽऽयतनमित्यत्र पूर्ववद्देवतां व्यावर्तयति। तथेति। आकाशः प्रतिष्ठेत्यस्यार्थमाह। ब्रह्मेति। प्रज्ञेत्येतदुपासीतेत्यस्यार्थमाह। नामेति॥१०॥

करणायतनान्देवान्स्वप्रतिष्ठान्व्रजेत्तु सः॥
प्रज्ञाद्युपनिषत्कान्यो ध्यानाद्देवो भवेदिह॥११॥

देवो भूत्वेत्यादेरर्थमाह। करणेति। इहेति जीवदवस्थोच्यते॥११॥

देवतायतने चैव प्रतिष्ठोपनिषत्तथा॥
षट्स्वप्येतेषु विज्ञेयमेतदेव चतुष्टयम्॥१२॥

प्रथमपर्यायवदुत्तरेष्वपि पञ्चसु पर्यायेषु देवतादिचतुष्टयमुपास्यत्वेन ज्ञेयमित्याह। देवतेति। पर्यायषट्केऽपि तुल्यं चतुष्टयमित्युपसंहरति। षट्स्विति॥१२॥

मातृमानिति हेतूक्तिः सम्यग्वक्तृत्वसिद्धये॥
सम्यक्त्वप्रतिपत्त्यर्थं तथैव स्यात्परं वचः॥१३॥

मातृमानित्यादेस्तात्पर्यमाह। मातृमानितीति। वागादिब्रह्मवादिनां शैलिनिप्रभृतीनां सम्यगेव वक्तृत्वमित्यस्य ज्ञापनार्थं मातृमानित्यादिवाक्यमित्यर्थः। अवदतो हीत्यादि तत्रैव हेत्वन्तरत्वेनाऽऽदत्ते। सम्यक्त्वेति। जित्वादीनां वक्तृत्वस्येति शेषः॥१३॥

यस्मादवदतो लोके पुरुषार्थो न कश्चन॥
दृष्टो वा यदि वाऽदृष्टो वाग्ब्रह्मातः प्रतीयताम्॥१४॥

तद्व्याचष्टे। यस्मादिति॥१४॥

न चेदायतनाद्युक्तमेकपाद्ब्रह्म तर्हि तत्॥
असमस्तमिदं ब्रह्म न युक्तं समुपासितुम्॥१५॥

एकपादित्यादेरर्थमाह। न चेदिति। तादृगपि ब्रह्मध्यानं फलमुत्पादयिष्यतीति चेन्नेत्याह। असमस्तमिति॥१५॥

स त्वं जानंश्चतुष्पान्मे ब्रह्म व्याख्यातुमर्हसि॥
वागेवाऽऽयतनमिति याज्ञवल्क्योऽप्युवाच तम्॥१६॥

स वै नो ब्रूहीत्यादेरर्थमाह। स त्वमिति। मुनेरनुग्रहशीलत्वं सर्वनाम्ना सूच्यते। वागेवेत्याद्यादत्ते। वागिति॥१६॥

वागेवाऽऽयतनं तस्य वागेव करणं भवेत्॥
ब्रह्माऽऽकाशः प्रतिष्ठा स्यात्प्रज्ञाऽस्योपनिषत्तथा॥१७॥

उक्तं तदर्थं स्मारयति। वागेवेति॥१७॥

प्रज्ञेयं किं ततो भिन्ना प्रतिष्ठायतने यथा॥
किंवाऽभिन्नेति मे ब्रूहि प्रशोपनिषदं स्फुटम्॥१८॥

का प्रज्ञतेति प्रश्नं विभजते। प्रज्ञेति॥१८॥

स्वयमेव तु वाक्प्रज्ञा ब्रह्मणो न तु भिद्यते॥
कुतः प्रज्ञात्वसंसिद्धिर्वाच इत्येतदुच्यते॥१९॥

वागेवेत्यादेरर्थमाह। स्वयमिति। वाचेत्यादेस्तात्पर्यमाह। कुत इति॥१९॥

यत एवमतो वाचं परं ब्रह्मेति चिन्तयेत्॥
विराड्गृहीतिरत्र स्यात्साधारकरणग्रहात्॥२०॥

तथा देवतया सूत्रं नियन्ताऽपि वियद्गिरा॥
कारणाद्यखिलं विश्वं देवतावधि भण्यते॥२१॥

यतो वागाद्युपास्त्यत्र262 तस्मात्सर्वं विवक्षितम्॥
एनं भूतानि सर्वाणीत्युपासनफलाभिधा॥२२॥

वाग्वै सम्राडित्यादि व्याचष्टे। यत इति। उक्तरीत्या वाचो वैशिष्ट्यं यस्माद्दृष्टं तस्मादित्यर्थः। षट्स्वपि पर्यायेष्ववान्तरविभागान्तरमाह। विराडिति। एतेषु पर्यायेषु वागेवाऽऽयतनमित्यादिना करणस्याऽऽधारेण देहेन सह ग्रहाद्विराडात्मा गृह्यते स हि स्थूलकार्यकरणात्मको263 वाग्वै264 ब्रह्मेत्यादिना सूत्रात्मोच्यते स हि सूक्ष्मोपाधिरग्न्यादित्यादिदेवतारूप आकाशः प्रतिष्ठेत्यन्तर्यामिग्रहः स च प्रागेव प्रतिपन्न इत्यर्थः। इत्थं विभागे फलितमाह। कारणादीति। कार्यकारणात्मकं सर्वं जगद्देवतामात्रत्वेन यस्मादुच्यते तस्मादग्न्यादिदेवतासु ब्रह्मदृष्ट्या सर्वं जगदुपास्यत्वेनास्मिन्प्रकरणे विवक्षितं न त्वेकदेशावच्छिन्नोपास्तिरित्यर्थः। सर्वाणीत्यादेरर्थमाह। एनमिति॥२०॥२१॥२२॥

देवो भूत्वेति देवान्हि प्रधानफलकीर्तनम्॥
विद्वान्य एवमित्युक्त्या साध्यसाधनसंगतिः॥२३॥

उपासनस्य द्विविधं फलं दृष्टमदृष्टं च दृष्टमुक्त्वाऽदृष्टं व्याचष्टे। देव इति। भावनोपचयस्य देवताभावसंपादनसामर्थ्यद्योतनार्थो हिशब्दः। य एवमित्यादेस्तात्पर्यमाह। विद्वानिति। ज्ञानफलयोरुच्यत इति शेषः॥२३॥

देवो भूत्वेति जीवन्सन्भावनोपचयान्नरः॥
वैलक्षण्यमुपास्तीनां भण्यते ब्रह्मबोधतः॥२४॥

देवो भूत्वेत्यादेस्तात्पर्यान्तरं वक्तुमक्षरार्थमनुवदति। देव इति। विवक्षितं तात्पर्यमाह। वैलक्षण्यमिति। ब्रह्मधीवदुपास्तिरनभ्यस्ता न फलवतीत्यर्थः॥२४॥

तथैव वचसोक्तिः स्याद्देवो भूत्वेति संभवात्॥
प्रतिवाक्यं बहूक्तिश्च षण्णामेकत्वसिद्धये॥२५॥

अत्र श्रुत्यक्षरानुगुण्यमाह। तथेति। उक्ततात्पर्यानुसारेण देवो भूत्वेति वचसा देवभावफलस्योक्तिर्युक्ता तस्य साध्यत्वसंभवादित्यर्थः। कथं प्रतिपर्यायं देवानिति बहूक्तिरग्न्यादेरेकैकस्यैवोपास्यत्वदृष्टोरित्याशङ्क्याऽऽह। प्रतिवाक्यमिति। पर्यायषट्कसंबद्धोपास्तेरैक्यद्योतनार्थं सर्वत्र बहुवचनं प्रतिपर्यायमुपास्तिभेदे देवमप्येतीति स्यादेकैकोपास्तेरनेकदेवताप्त्ययोगादतः सर्वत्र देवानिति श्रुतेरेकपर्यायस्थोपास्तिरन्यपर्यायस्थोपास्त्यभिन्नेत्यर्थः॥२५॥

प्रागपि ब्रह्मविज्ञानाद्ब्रह्मैवाभूद्यथा तथा॥
देवोपासनतः पूर्वं नाभूद्देव उपासकः॥२६॥

सर्वपर्यायेषूपास्त्यैक्येऽपि किमिति सा ब्रह्मधीवन्न फलदेत्याशङ्क्य तयोरधिकारिद्वारा वैलक्षण्यमाह। प्रागपीति। मुमुक्षुर्ज्ञानात्पूर्वमपि ब्रह्मैवाज्ञानं तु व्यवधानमुपासकस्तु प्रागुपास्तेर्देवो नाभूत्तद्भावस्य साध्यत्वादित्यर्थः॥२६॥

भावनोपचयाद्देवो भूत्वा विद्वानिहैव तु॥
देवानप्येति सोऽग्न्यादीञ्शरीरत्यागतः परम्॥२७॥

फलद्वाराऽपि वैषम्यमाह। भावनेति। जीवदवस्थायां देवभावस्तत्तादात्म्यसाक्षात्करणं मृतेरूर्ध्वं तदप्ययस्तदैक्यमिति विवेक्तव्यम्। व्यवहितफलोपास्तिराप्रायणादावृत्त्यपेक्षत्वाद्ब्रह्मधीर्नैवं ब्रह्म वेद ब्रह्मैव भवतीति ज्ञानफलयोर्नैरन्तर्यादिति भावः॥२७॥

उत्पत्त्याद्यात्मकं कार्यं साध्यं सर्वस्य कर्मणः॥
उपासनं च कर्मैव युक्तमुक्तमिदं ततः॥२८॥

इतश्च फलवैषम्यं तयोरित्याह। उत्पत्तीति। कर्मणो हि फलमुत्पत्त्याद्यन्यतमं साध्यं च, ज्ञानस्य तद्विलक्षणं नित्यसिद्धमित्यर्थः। स्वरूपतोऽपि वैषम्यमाह। उपासनं चेति। मानसी क्रियोपास्तिर्नैवं धीरपुंस्तन्त्रत्वादित्यर्थः। भिन्नार्थविषयोपास्तिरेकरसविषया धीस्तद्विषयद्वाराऽपि वैषम्यमिति मत्वोक्तं वैषम्यं निगमयति। युक्तमिति॥२८॥

ब्रह्म वा इदमित्येवं तथा ब्रह्मैव सन्निति॥
प्रागपि ब्रह्मविज्ञानात्सिद्धं तादात्म्यमुच्यते॥२९॥

ज्ञानात्प्रागपि मुमुक्षुर्ब्रह्मैव चेत्किं तादात्म्योक्त्येत्याशङ्क्याऽऽह। ब्रह्मेति। अतो ज्ञानादज्ञाननिवृत्तिः फलतीति शेषः॥२९॥

हस्त्यृषभमिति चोक्त्या भण्यते गुरुदक्षिणा॥
स च तां नाग्रहीद्दत्तां पिता म इति हेतुगीः॥३०॥

हस्तीत्यादि व्याचष्टे। हस्तीति। शिष्यं कृतार्थमकृत्वा ततो दक्षिणा न ग्राह्येति पितुर्मम चाभिप्रायो न च त्वमद्यापि कृतार्थः परधीविरहादतस्त्वत्तो दक्षिणा न ग्राह्येत्याह। पितेति॥३०॥

नन्वनुशिष्ट एवायं पूर्वोक्तैरनुशासनैः॥
पितृव्रतोपरोधोऽत्र नातः कश्चन विद्यते॥३१॥

राजदत्तगोधनादानेऽपि पितृव्रतभङ्गो नास्तीति शङ्कते। नन्विति॥३१॥

नाऽऽत्मविद्यातिरेकेण पितुर्वस्त्वन्तरे यतः॥
असमाप्तेः पुमर्थस्य मतं नास्यानुशासनम्॥३२॥

तत्त्वज्ञानादन्यत्र पुमर्थासमाप्तेस्तस्मादेव मुक्तिलाभात्तदनुशासनं पितुर्विवक्षितं तन्नोक्तानुशासनात्ते कृतार्थतेति परिहरति। नाऽऽत्मेति॥३२॥

यस्मिञ्ज्ञातेऽखिलं ज्ञातं कृतमाप्तं च कामितम्॥
तित्यक्षितं च संत्यक्तं पितुस्तदनुशासनम्॥३३॥

पितुरिष्टमनुशासनमेव स्पष्टयति। यस्मिन्निति॥३३॥

यतो वस्त्वन्तरं नान्यदात्मनो विद्यते परम्॥
सम्यक्तज्ज्ञानमेवातस्तदन्यत्र मृषा मतिः॥३४॥

न केवलं पितुरेवैतन्मतं किंतु ममापीत्याह। यत इति। आत्मनोऽन्यद्वस्तु स्वतन्त्रं परमपरं वा यतो नास्त्यतस्तद्धीरेव सम्यग्धीस्तदन्यत्र दृष्टिर्मिथ्या धीरिति ममापि मतमतस्तवाऽऽत्मज्ञानवैकल्यान्न कृतार्थतेत्यर्थः॥३४॥

आत्मज्ञानोदयायैव याज्ञवल्क्योऽप्यतोऽवदत्॥
उपासनान्यशेषाणि तथा कर्माण्यशेषतः॥३५॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके चतुर्थाध्यायस्य
प्रथमं षडाचार्यब्राह्मणम्॥१॥

श्लोकानामादितः समष्ट्यङ्काः—६९४५

तर्हि तदेवोपदेष्टव्यं किमित्युपासनानि मुनिरनुमोदते तत्राऽऽह। आत्मज्ञानेति। यथा सर्वाणि कर्माणि विविदिषाश्रुतेर्ज्ञानोदयार्थानि तथैवैतान्यप्युपासनान्यतस्तान्यनुमोदितवानित्यर्थः॥३५॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिकटीकायां चतुर्थाध्यायस्य
प्रथमं षडाचार्यब्राह्मणम्॥१॥
<MISSING_FIG href="../books_images/U-IMG-1734150707Screenshot2024-12-13141014.png"/>

अथ द्वितीयं ब्राह्मणम्।
————

अनुशिष्यापि स नृपं यदा नैच्छद्धनं नृपात्॥
अननुशिष्टहेतूक्त्या मती राज्ञस्तदाऽभवत्॥१॥

पूर्वब्राह्मणे कानिचिदुपासनानि ज्ञानसाधनान्युक्त्वा तैर्ज्ञेयस्य ब्रह्मणो जागरादिद्वारा ज्ञानार्थं ब्राह्मणान्तरमवतारयन्नाख्यायिकातात्पर्यमाह। अनुशिष्येति॥१॥

यथोक्ता नानुशिष्टिश्चेत्कीदृक्तदनुशासनम्॥
संभावितानुशिष्ट्यर्थं तं राजोपससाद ह॥२॥

मतिमेवानुवदति। यथोक्तेति। तथाविधबुद्धिजन्मानन्तरं राजा किं कृतवानत आह। संभावितेति। आसनविशेषादुत्थाय राजा संभावितोपदेशलाभार्थं मुनिमासाद्य तदीयपादयोर्निपतितवानतो जिज्ञासुना मदमानादि त्यक्त्वाऽऽचार्यसेवा कार्याऽऽचार्यवान्पुरुषो वेदेति श्रुतेरित्यर्थः। आचार्योपासनस्य ज्ञानार्थत्वमाचार्योपासनं शौचमित्यादिस्मृता265वपि प्रसिद्धमिति वक्तुं हेति निपातः॥२॥

उपासनानां सर्वेषामैकात्म्यज्ञाननिष्ठता॥
ब्रह्मविद्याधिकारत्वादित्येतदधुनोच्यते॥३॥

आख्यायिकातात्पर्यमुक्त्वा ब्राह्मणार्थं संक्षिपति। उपासनानामिति। ब्रह्मविद्याप्रकरणस्थोपास्तीनां तद्द्वारा मुक्तिफलत्वं वक्तुमिद ब्राह्मणमित्यर्थः॥३॥

कूर्चादुत्थाय विधिना तं राजोपससाद ह॥
भगवन्ननुशाधीति यथेहाभिमतं तव॥४॥

द्वयोस्तात्पर्यमुक्त्वा जनको हेत्यादेरक्ष266रार्थमाह। कूर्चादिति। आसनविशेषादिति यावत्। विधिना गुरूपसदनं श्रुतिस्मृतिप्रसिद्धमिति वक्तुं निपातः। इहेति परमपुरुषार्थोक्तिः॥४॥

यथा जिगमिषुः पान्थो रथं वा नावमेव वा॥
आददीताऽऽप्तिसिद्ध्यर्थं गन्तव्यस्य तथैव च॥५॥

यथोक्तोपनिषद्भिस्त्वं संस्कृतात्माऽसि भावितः॥
एवं वृन्दारकः पूज्य आढ्यो मानुषवित्तवान्॥६॥

तथैवाधीतवेदश्च युक्तः साधनसंपदा॥
गतिसाधनवत्त्वाच्च गन्तव्यमनुमीयते267॥७॥

द्वयं मुमुक्षवे वाच्यं ज्ञानं तद्धेतुश्च तत्र ज्ञानहेतुस्तवास्तीति न तदुक्तिरित्यभिप्रेत्य यथेत्यादिदृष्टान्तं व्याचष्टे। यथेति। जलस्थलयोः साधनविकल्पः। दार्ष्टान्तिकं व्याकरोति268। तथेति। प्रज्ञा प्रियमित्याद्युपनिषद्भिः सहोक्तरीत्या ब्रह्मोपास्तीः कुर्वन्नुपास्तिभिरत्यन्तं संस्कृतधीत्वाद्ब्रह्मविषये समाहितचेता राजेत्यर्थः। एवमित्यादेरर्थमाह। एवमिति। उक्तोपनिषत्क इत्यस्यार्थमाह। युक्त इति। आचार्यैरुक्तास्तुभ्यमुपनिषदोऽतो मुक्तिफलज्ञानसामग्र्या युक्तत्वान्न त्वं साधनमधिकृत्य प्रष्टव्योऽसीत्यर्थः। अस्तु तर्हि साध्यमधिकृत्य प्रश्नस्तत्रापि269 न तन्मात्रे सोऽस्तीत्याह। गतीति॥५॥६॥७॥

अध्यात्मादिव्यवच्छेदान्मुच्यमान270 उपासनैः॥
आविरिञ्चादि271तो भूप यास्यसि क्वेति भण्यताम्॥८॥

पारिशेष्येण272 साध्यविशेषे प्रश्नं वदन्नित इत्यादेरर्थमाह। अध्यात्मेति॥८॥

पप्रच्छ याज्ञवल्क्योऽत इतस्त्वं क्व गमिष्यसि॥
सर्वस्यैवाऽऽत्मभूतत्वाद्गन्तव्यं न स पश्यति॥९॥

स्वयं जानन्मुनी राजानमज्ञं किमिति पृच्छति तत्राऽऽह। पप्रच्छेति। गन्तव्यं राजा न जानाति चेत्तं प्रति तद्व्याख्यातव्यमि273त्यभिप्रायोऽतःशब्दार्थः। नाहमित्यादेस्तात्पर्यमाह। सर्वस्येति। उक्तोपास्तिफलस्याग्न्यादिभावस्य स्वरूपत्वादन्यस्य चाज्ञानादित्यर्थः॥९॥

ननूक्तोपनिषद्भिर्हि गन्तव्यं प्राक्प्रबोधितम्॥
देवो भूत्वेति वचसा तत्कस्मादिह पृच्छ्यते॥१०॥

गन्तव्यप्रश्नमाक्षिपति। नन्विति। गतिहेतूनां गन्तव्यमन्तरेणापर्यवसानद्योतनार्थो हिशब्दः॥१०॥

नाहं वेदेति च नृपो जानन्नप्यब्रवीत्कथम्॥
नैष दोषो यतोऽप्राक्षीद्याज्ञवल्क्यो नराधिपम्॥११॥

पूर्वभूमेर्मुच्यमान उत्तरां कां गमिष्यसि॥
देवतोपासनाद्येतज्ज्ञानोत्पत्त्यै विवक्षितम्॥१२॥

न जानामीति प्रत्युक्तिरपि न युक्तेत्याह। नाहमिति। प्रश्नप्रत्युक्त्योराक्षेपं परिहरति। नैष इति। आक्षेपाभावे वक्ष्यमाणं हेतुमाह। यत इति। तत्र प्रश्नाक्षेपं परिहर्तुं प्रश्नस्वरूपमनुवदति। अप्राक्षीदिति। उपास्तीनां देवभावः साक्षात्फलं तत्पूर्वमेवोक्तं ज्ञानं च न च तत्र प्रश्नप्रत्युक्ती ज्ञानद्वारा ब्रह्मभावोऽपि तासां फलं तदिदानीं पृच्छ्यते मुनिनेत्यर्थः। कथं तासां धीद्वारा मुक्तिफलत्वं तदाह। देवतेति। आदिपदेन शुद्धिद्वारा धीसाधनं कर्म गृह्यते॥११॥१२॥

उपासनानि सर्वाणि परविद्याधिकारतः॥
क्रममुक्तिफलानीति क्व गमिष्यसिगीरतः॥१३॥

प्रश्नोपपत्तिं निगमयति। उपासनानीति॥१३॥

राज्ञस्तु तदविज्ञानान्नाहं वेदेति युज्यते॥
अन्ये गतिविवक्षार्थं मुनेः प्रश्नं प्रचक्षते॥१४॥

प्रतिवचनोपपत्तिमाह। राज्ञस्त्विति। तदविज्ञानाद्ब्रह्मभावफलाज्ञानादित्यर्थः। इत इत्यादेरर्थं स्वपक्षे दर्शयित्वा भर्तृप्रपञ्चमतमाह। अन्य इति। जनकं प्रति ब्रह्मप्राप्तिमार्गं वक्तुमित्यर्थः॥१४॥

साक्षाद्ब्रह्मविदप्येष नाऽऽत्माप्तौ गतिविन्नृपः॥
परमात्मैव गन्तव्यः परमात्मविदा ननु॥
अथ कः संशयो येन स तेनैवं नियुज्यते॥१५॥

किमिति तं प्रति गतिर्वक्तव्या तस्य ब्रह्मवित्त्वात्तत्प्राप्तिमार्गावगतेरपि संभवादित्याशङ्क्याऽऽह। साक्षादिति। परोक्तं प्रश्नाक्षेपमुत्थापयति। परमात्मैवेति। अथेत्येवं सतीत्यर्थः। सशब्दो राजविषयः। तेनेति मुनिनेत्यर्थः॥१५॥

गतिर्न विदिता तस्य तां स5 तस्मै विवक्षति॥
एवमर्थमुपोद्घातमेवं स कृतवान्मुनिः॥१६॥

तदीयं परिहारमाह। गतिरिति। उक्तं हि यज्जनको वेद तत्त्वं274 न तत्प्रतिपत्तौ

मार्गं स तु तद्दर्शनेन परिशोध्य इति गतिर्विवक्षिता चेत्सैवोच्यतां किं प्रश्नेनेत्याशङ्क्याऽऽह। एवमिति। गतिकथनार्थं क्व गमिष्यसीत्येवं पृष्टवानित्यर्थः॥१६॥

श्रुतौ यद्यपि नैतस्यां श्रूयते गतिचोदना॥
तथाऽपि गतिरेवेयमुत्तरत्र स्फुटं हि तत्॥१७॥

मार्गं वक्तुमुपोद्घातः प्रश्न इत्ययुक्तमिन्धो हेत्यादिप्रतिवचने गत्यनिर्देशादित्याशङ्क्याऽऽह। श्रुताविति। सैव पृच्छ्यमानेत्यत्र हेतुमाह। उत्तरत्रेति। यैषा हृदयादूर्ध्वा नाड्युच्चरतीत्यत्र गतिवचनस्य स्पष्टत्वादित्यर्थः॥१७॥

गतिविज्ञानवैकल्यात्परमात्मविदप्यसौ॥
न जाने क्व गमिष्यामिकथं275 वेत्यब्रवीन्नृपः॥१८॥

नाहमित्यादिवाक्यस्य परोक्तमर्थमाह। गतीति। यथाऽऽहुर्जानन्नपि परमात्मानं दर्शनमार्गस्य परोक्षत्वादाहेति॥१८॥

इति व्याचक्षते केचिद्ग्रन्थमेतं महाधियः॥
श्रुत्यक्षरानुसारेण नायमर्थोऽत्र लभ्यते॥१९॥

परपक्षमुपसंहरति। इति व्याचक्षत इति। श्रुतेरनुपपत्तेर्वा गतिप्रश्नकल्पना नाऽऽद्य इत्याह। श्रुतीति। क्व गमिष्यसिवाक्यमत्रेति परामृश्यते॥१९॥

ब्रह्मवित्त्वे तु राज्ञोऽस्य मितिं276 नोपलभामहे॥
ग्रन्थे नानन्तरे यस्मादात्मज्ञानं समीरितम्॥२०॥

ब्रह्मविद्गन्तव्यं ब्रह्म राजा जानात्यतस्तत्प्रश्नानुपपत्तेर्गतिप्रश्न इति द्वितीयमाशङ्क्याऽऽह। ब्रह्मेति। पूर्वब्राह्मणमेवात्र प्रमाणमित्याशङ्क्याऽऽह। ग्रन्थ इति॥२०॥

गत्यर्थो नापि च प्रश्नः क्व गमिष्यसिलक्षणः॥
गन्तव्यं पृच्छ्यते यस्मान्न पिपृच्छिषिता गतिः॥२१॥

कथं श्रुत्यक्षरानुरोधेन गतिप्रश्नासिद्धिर्वाक्यशेषात्तदुपपत्तेरुक्तत्वादित्याशङ्क्याऽऽह। गत्यर्थ इति। अपिचशब्दाववधारणे। उक्तमर्थमक्षरानुसारेण स्फोरयति। गन्तव्यमिति॥२१॥

यत्साक्षादित्युपक्रम्य य आत्मेत्युपसंहृतेः॥
तदन्यस्य तदात्मत्वाद्ब्रह्मणि स्यात्कथं गतिः॥२२॥

ब्रह्मात्मनोरैक्यं श्रुतं तद्विरोधात्तद्विषयग277त्यनुपपत्तेश्च न गतिप्रश्नोपपत्तिरित्याह। यदिति॥२२॥

गतिगन्तव्यगन्त्रादेरोतप्रोतात्मवर्त्मना॥
ब्रह्मात्मनि समाप्तत्वाद्गतिः का परमात्मनि॥२३॥

ब्रह्मणोऽन्यच्चेदस्ति तस्य तर्हि तादात्म्यं विरुद्धं स्थितस्य नष्टस्य वाऽन्यस्यान्यत्वायोगात्तत्कथं ब्रह्मणि गत्यनुपपत्तिस्तत्राऽऽह। गतीति॥२३॥

अब्देशा पृथिवी कृत्स्ना तेजोदेशं तथा जलम्॥
वायुदेशं तथा तेजो वियद्देशोऽनिलोऽखिलः॥२४॥

ओतप्रोतरूपेण ब्रह्मणि सर्वस्य समाप्तिं यदिदं सर्वमप्स्वित्यादिनोक्तां स्मारयति। अब्देशेति॥२४॥

स्वार्थदेशः परार्थोऽर्थः स्वप्नदर्शनवद्यतः॥
आत्ममात्रैकयाथात्म्यान्न मुक्तौ स्याद्गतिस्ततः॥२५॥

भूतानामोतप्रोतभावेन नभसि पर्यवसानेऽपि कथं ब्रह्मणि गत्यभावस्तत्राऽऽह। स्वार्थेति। स्वप्नाख्ये दर्शने दृश्यस्य द्रष्टुरविद्योत्थस्य तदतिरेकेणाभाववद्यतोऽनात्मा प्रतीचि कल्पितोऽतोऽधिष्ठानात्ममात्रस्यैव तद्रूपत्वान्न नित्यमुक्ते परस्मिन्गतिर्युक्तेत्यर्थः॥२५॥

ब्रह्मैव सन्नवाप्नोति ब्रह्मेति वचनं स्फुटम्॥
गन्तृगन्तव्ययोर्भेदे विरुध्येत न संशयः॥२६॥

श्रुतिविरोधाच्च तस्मिन्न गतिरित्याह। ब्रह्मैवेति॥२६॥

क्रियाकारकभेदे हि गतिः सर्वत्र दृश्यते॥
गन्तव्य आत्मनि कुतः क्रियाकारकसंभवः॥२७॥

प्रत्यग्ब्रह्मणि गत्ययोगे हेत्वन्तरमाह। क्रियेति। दृष्टेरविगानद्योतनार्थो हिशब्दः॥२७॥

नैवात्र गतिरस्तीति स्पष्टमागमशासनम्॥
सर्वमात्मैव ब्रह्मैव तथाच श्रुतिशासनम्॥२८॥

न तस्येत्यादिना गतिनिषेधाच्च न तस्मिन्गतिरित्याह। नैवेति। इदं सर्वं यदयमात्मा ब्रह्मैवेदं सर्वमित्यादिश्रुतिविरोधाच्च न ब्रह्मात्मनि गतिरित्याह। सर्वमिति॥२८॥

तमोमात्रातिरेकेण व्यवधानान्तरं न च॥
यस्मादस्ति ततो मुक्तौ नाऽऽत्मनो गतिरिष्यते॥२९॥

किंच ब्रह्मात्मनोरज्ञानमेव व्यवधानं तच्च ज्ञानादपनीयते तत्कुतोऽत्र गतिरित्याह। तमोमात्रेति॥२९॥

अध्यात्मादिपरिच्छेदाद्यथोक्तोपासनाश्रयात्॥
विमुच्यमानः क्वेतस्त्वं गमिष्यसि वदाऽऽशु मे॥३०॥

भर्तृप्रपञ्चपक्षं निराकृत्य स्वपक्षमनुवर्तयन्नित इत्यादिवाक्यार्थमुक्तमनुवदति। अध्यात्मादीति। निःसंदिग्धमुत्तरं श्रोतुः सुखकरमिति दर्शयितुमाशुशब्दः॥३०॥

नाहं तद्भगवन्वेद यत्र यास्याम्यतः परम्॥
देवतावर्त्मना नाहं गन्तव्यं वेद्मि किंचन॥३१॥

प्रत्युक्तिमादत्ते। नाहमिति। तां व्याचष्टे। देवतेति। तदुपास्तिद्वारेत्यर्थः॥३१॥

देवतावाप्तिमात्रं हि त्वत्तः प्राक्श्रुतवानहम्॥
उक्तोपासाफलं नातो गन्तव्यं वेद्मि किंचन॥३२॥

तदुक्तमपि कस्मान्न बुध्यसे तत्राऽऽह। देवतावाप्तीति। भवता तावन्मात्रस्योक्तत्वादिति हिशब्दार्थः। तदतिरिक्तमपि परंपरयोपास्तिफलं ब्रह्मत्वाख्यं मया विवक्षितमित्याशङ्क्याऽऽह। नात इति। अभिप्रायमात्रेण विनोक्तिमतिगम्भीरं वस्तु दुर्ज्ञानमिति भावः॥३२॥

इत्युक्तवन्तं प्रत्याह तद्वक्ष्यामि तवाधुना॥
मुच्यमानोऽथ यत्र त्वं गमिष्यसि नराधिप॥३३॥

अथेत्याद्यादत्ते। इत्युक्तवन्तमिति। राज्ञो जिज्ञासानन्तर्यमथशब्दार्थः॥३३॥

अविद्यामात्रविध्वस्तौ यतोऽनाप्तवदाप्यते॥
गमिष्यसीत्यतो वक्ति स्वास्थ्यं यातो यथा तथा॥३४॥

गमिष्यसीत्युक्तिरयुक्ता परविषये गतेरपास्तत्वादित्याशङ्क्याऽऽह। अविद्येति। तत्र लौकिकदृष्टान्तमाह। स्वास्थ्यमिति। स्वतः सिद्धमेव स्वास्थ्यं ज्वरादिप्रतिबद्धमौषधादिना तद्विगमे तत्प्राप्तश्चैत्रो व्यपदिश्यते तथा ब्रह्म नित्याप्तमपि व्यवधानाविद्यानिरासात्प्राप्स्यसीति मुनिनोक्तो राजेत्यर्थः॥३४॥

अतोऽवगतिरेवात्र गतित्वेन विवक्ष्यते॥
प्राप्तोऽसीति यतो ज्ञानजन्ममात्रं प्रवक्ष्यति॥३५॥

अविद्याध्वंसाद्ब्रह्माप्तिश्चेत्कथं गतिशब्दप्रयोगस्तत्राऽऽह। अत इति। प्रसिद्धाया गतेरयोगादित्यर्थः। प्रकृतं वाक्यं सप्तस्यर्थः। गतिशब्देन ज्ञानोक्तौ वाक्यशेषमनुग्राहकमाह। प्राप्त इति॥३५॥

इन्धो नामैष पुरुषो दक्षिणेऽक्षणि278 यः स्थितः॥
आदित्यान्तर्गतो देवो व्याख्यातायतनादिकः॥३६॥

अथेत्यादिना गन्तव्योक्तिं प्रतिज्ञाय तां विना किमिति जागरिताद्युक्तिरित्याशङ्क्य तादर्थ्येनेति मत्वा जाग्रदभिमानिनं विश्वं दर्शयति। इन्धो नामेति। चक्षुरेवाऽऽयतनमित्यादिनेति शेषः। आदिपदात्प्रतिष्ठोपनिषदावुक्ते॥३६॥

इध्यतेऽहर्निशं यस्मादिन्धनामा ततः पुमान्॥
श्रुत्येह दृष्टोऽतिशयः कश्चित्स्याद्दक्षिणेऽक्षणि279॥३७॥

अङ्गं वा वीर्यवद्दृष्टं पुंसां प्रायेण दक्षिणम्॥
दक्षिणाक्षिग्रहस्तस्माद्भोक्तृत्वप्रतिपत्तये॥३८॥

विश्वे जागरिताभिमानिनि कथमिन्धशब्दस्तत्राऽऽह। इध्यत इति। स्थूलार्थभोक्तृत्वेन सदा जागरे स्फूर्तेरित्यर्थः। दक्षिणेऽक्षन्निति विशेषे निमित्तद्वयमाह। श्रुत्येति। विश्वस्य पुरस्वामिनो भोक्तृत्वं लौकिकवत्क्वचिद्व्यक्तस्य वक्तव्यं, दक्षिणे चक्षुषि तद्व्यक्तिः श्रुत्यनुभवसिद्धा तेन तद्भोक्तृत्वसिद्धये विशेषोक्तिरिति फलितमाह। भोक्तृत्वेति॥३७॥३८॥

दक्षिणेऽक्ष्णीन्धनामाऽयं पुमान्भोक्तेति यं विदुः॥
इन्धं सन्तं तमात्मानमिन्द्रनाम्ना प्रचक्षते॥३९॥

प्रत्यक्षनामग्रहणं परिहृत्य परोक्षतः॥
परोक्षनामग्रहणप्रिया देवा यतस्ततः॥४०॥

तमित्याद्यवतारयन्नेतमित्यस्यार्थमाह। दक्षिण इति। अथ वाक्यमादाय व्याकरोति। इन्धमिति। परोक्षप्रिया इत्यादेरर्थमाह। परोक्षेति। तस्मादिन्द्रनाम्ना प्रचक्षत इति संबन्धः॥३९॥४०॥

परोक्षनामग्रहणे प्रीयन्ते देवता यतः॥
तस्मादाचक्षते नाम पारोक्ष्येणैव280 मानवाः॥४१॥

अत्र लोकप्रसिद्धिं हिशब्दोपात्तामाह। परोक्षनामेति॥४१॥

मा ज्ञासिष्ट कथं नाम नामतत्त्वं बहिर्जनः॥
परोक्षनामग्रहणं तेन देवस्य रोचते॥४२॥

केनाभिप्रायेण परोक्षनामग्रहणं देवता रोचयन्ते तत्राऽऽह। मा ज्ञासिष्टेति॥४२॥

प्रत्यक्षनामग्रहणं प्रद्विषन्ति जगत्यपि॥
श्रेयांसोऽमुकमिश्रास्त इत्युक्तिं कामयन्ति च॥४३॥

प्रत्यक्षद्विष इत्यस्यार्थमाह। प्रत्यक्षेति। देवतावदित्यपेरर्थः। परोक्षनामग्रहणे च तेषामस्ति प्रीतिरित्याह। अमुकेति॥४३॥

तस्यैवान्नपतेर्जाया येयं सव्येऽक्षिण संस्थिता॥
भोग्यत्वात्सा विराडुक्ता तद्भोक्ता दक्षिणाक्षिगः॥४४॥

अथैतदित्यादेरर्थमाह। तस्येति। अन्नपतित्वं भोक्तृत्वमत एव तद्भोक्तेत्युक्तम्। पत्न्या विराट्पदवाच्यत्वे हेतुमाह। भोग्यत्वादिति॥४४॥

एकस्यैव हि देवस्य विभागः स्थानदेवतः॥
अग्नीषोमात्मना श्रुत्या ध्यानार्थमिह भण्यते॥४५॥

इन्द्रेन्द्राण्योस्तर्हि भोक्तृभोग्ययोर्भेदः स्वीकृतो नेत्याह। एकस्येति। स्थानं चक्षुर्द्वयमवस्थाद्वयं च स्थानभेदादौपाधिके भेदे प्रसिद्धिं वक्तुं हिशब्दः। विभागोक्तिफलमाह। अग्नीति॥४५॥

नानयोर्व्यतिरेकोऽस्ति भोक्तृभोग्यात्मनोः क्वचित्॥
प्रधानगुणभावेन सर्वत्रैते व्यवस्थिते॥४६॥

भेदो ध्यानार्थश्चेत्किमिति स स्वतो न स्यादित्याशङ्क्याऽऽह। नानयोरिति। वस्तुतो भेदाभावेऽपि तत्प्रतीतिरौपाधिकभेदवशादित्याशयेनाऽऽह। प्रधानेति। सर्वत्रेत्यवस्थाद्वयमुच्यते॥४६॥

तयोः समागमश्चास्मिन्हृद्यन्तस्थे सुषौ मिथः॥
संस्तुतोऽत्रेति संस्तावो हृद्याकाश इहोच्यते॥४७॥

तयोरित्यादि व्याचष्टे। तयोरिति। अतश्च हृदयाकाशः संस्ताव इति शेषः। कथं तस्य तत्त्वं तदाह। संस्तुत इति। मिथः संगतिं गच्छत इति यावत्॥४७॥

ऊर्ग्रसो लोहितस्यात्र पिण्डो यः सोऽन्नमेतयोः॥
अन्नं दामेति यत्पूर्वं व्याख्यातं शिशुबन्धनम्॥४८॥

अथैनयोरित्यादेरर्थमाह। ऊर्ग्रस इति। अत्रेति हृदयोक्तिः। इन्द्रेन्द्राण्योरग्नीषोमयोर्विश्वतैजसयोरन्नं शिशुब्राह्मणेऽप्युक्तमित्याह। अन्नमिति। तदेवात्रोक्तमन्नमिति संबन्धः॥४८॥

मिथो नाडीशतानद्धं तयोः प्रावरणं तथा॥
तज्जालकमिवाऽऽभाति बहुच्छिद्रत्वसाम्यतः॥४९॥

अथैनयोरित्यादि281 व्याचष्टे। मिथ इति। यथोक्तमन्नं यथा तयोः स्थितिकरं तथा बहुनाडीयुक्तं तदेव परिधानस्थानीयमपि शतं चैका चेत्यादिश्रुतेरित्यर्थः। लोहितपिण्डस्य गवाक्षवद्भाने हेतुमाह। बह्विति। प्रसिद्धं हृदयस्य बहुच्छिद्रत्वं तस्य ह वा एतस्य हृदयस्येत्यादिश्रुतेरित्यर्थः॥४९॥

तयोः संचरतोर्मार्गो यैषोर्ध्वा हृदयाद्गता॥
जाग्रद्देशाप्तये ज्ञेया नाडी स्वप्नाख्यभूमितः॥५०॥

अथैनयोरेषेत्यादि व्याकरोति। तयोरिति। संचरणफलाभावान्मार्गवैयर्थ्यमित्याशङ्क्याऽऽह। जाग्रदिति। अथैतदित्यादिना तैजसस्य व्याख्यानमितो मन्तव्यम् ॥५०॥

अन्नस्य प्रविवेकार्थं भोक्तुः सौक्ष्म्यार्थमेव च॥
नाडीनां परिणाहोऽथ सम्यक्श्रुत्येह वर्ण्यते282॥५१॥

यथेत्यादेस्तात्पर्यमाह। अन्नस्येति। विश्वतैजसयोरन्नविशेषो भोक्तुः सूक्ष्मतेत्येतदुक्त्यर्थं नाडीपरिमाणं दृष्टान्तेनाऽऽहोत्तरा श्रुतिरित्यर्थः। विश्वतैजसयोरुक्त्यानन्तर्यमथशब्दार्थः। इहेति प्रकृतवाक्यकथनम्॥५१॥

नाड्योऽतिसूक्ष्माः पुंसोऽस्य व्यवहारप्रसिद्धये॥
सहस्रभेदसंभिन्नकेशैकांशसमा हिताः॥५२॥

तदक्षराणि व्याचष्टे। नाड्य इति। व्यवहारः स्वप्नजाग्रद्गमनादिः। समासे हिता इति व्याख्यानम283समासे तासां सूक्ष्मत्वप्रसिद्ध्यर्थो हिशब्दः॥५२॥

नोपमेह यतस्तासां सौक्ष्म्ये जगति विद्यते॥
तस्मात्केशविभागोऽयं नाडीसौक्ष्म्यार्थमुच्यते॥५३॥

केशस्यातिसौक्ष्म्यात्कथं सहस्रधा भेदः कथंतरामेकस्य भेदस्य नाडीसौक्ष्म्ये दृष्टान्तता तत्राऽऽह। नोपमेति। उच्यते कल्प्यत इति यावत्॥५३॥

यथा संचरणी नाडी प्रोक्तेयं देवतात्मनोः॥
देवतानां तथाऽन्यासां नाड्यो ज्ञेयाः सहस्रशः॥५४॥

यैषेत्यादिना नाडीमेकामुपक्रम्य कथं भूयस्यस्ता दृष्टान्तेनोच्यन्ते तत्राऽऽह। यथेति। उक्तं हि—

“एकोनत्रिंशल्लक्षाणि तथा नव शतानि च।
षट्पञ्चाशद्विजानीयात्सिरा धमनिसंज्ञिताः” इति।

देवतात्मनोरिन्द्रेन्द्राण्योर्विश्वतैजसयोरित्येतत्। देवतानां चक्षुरादिकरणानामित्यर्थः॥५४॥

शब्दाद्यन्नवहाः सूक्ष्माः श्रोत्रादिकरणाश्रयाः॥
देवता देवतात्मानं तर्पयन्तीह ताः सदा॥५५॥

नाडीनामुपयोगप्रकारमाह। शब्दादीति। ताः सूक्ष्मा नाड्यः करणाश्रिता विषयान्भोक्तारं प्रापयन्त्यः स्वाश्रयकरणानि तद्द्वाराऽन्तःकरणं तदवच्छिन्नमात्मानं व्यवहारभूमौ प्रीणयन्तीत्यर्थः॥५५॥

अतिसूक्ष्माभिरेताभिर्जग्धमन्नं समास्रवत्॥
देवता आस्रवत्येतद्व्याप्नोत्येतद्यथोदितम्॥५६॥

एताभिरित्यादि व्याचष्टे। अतिसूक्ष्माभिरिति। एतद्धि जग्धमन्नं त्रेधा परिणमते

तत्र पूर्वोक्तं सूक्ष्ममेतदन्नमुक्ताभिर्नाडीभिर्देहं व्याप्नुवद्यथोक्ताः सर्वदेवता व्याप्नोतीत्यर्थः। आस्रवतीत्यस्य व्याख्या व्याप्नोतीति॥५६॥

सर्वास्वेव हितास्वासु सर्वा अध्यात्मदेवताः॥
चरन्त्यूर्ग्रसपूर्णासु भोगार्थं पुरुषस्य तु॥५७॥

उक्तान्नरसस्य देवताव्यापित्वे तासामेव भोक्तृत्वं स्यादित्याशङ्क्याऽऽह। सर्वास्विति। हितासु नाडीष्विति शेषः॥५७॥

स्वचिदाभाससंव्याप्तिः पुंभोगः सुखदुःखयोः॥
सोऽप्यस्य देवतातन्त्रो देवताश्चान्नसंश्रयाः॥५८॥

पुंसोऽविक्रियस्य कुतो भोगो यथाऽऽह— “मण्डलं तस्य मध्यस्थ आत्मा दीप इवाचलः” इति, तत्राऽऽह। स्वेति। किंकारणो भोगो दर्शितस्तत्राऽऽह। सोऽपीति। इन्द्रियाणां किं कारणं तत्राऽऽह। देवताश्चेति॥५८॥

अन्नं नाड्याश्रयं सूक्ष्मं तच्छ्रुत्येहोपवर्ण्यते॥
एताभिरित्यतो यावच्छारीरादिति चोदना॥५९॥

तदाश्रयान्नस्याऽऽश्रयमाह। अन्नमिति। उक्तान्नविषयत्वेन श्रुतिं पातयति284तदिति। तदन्नमिह तैजसे स्थितिकरमेताभिरित्यारभ्य यावच्छारीरादात्मन इत्यन्तं वाक्यं तावतोच्यत इत्यर्थः॥५९॥

प्रविविक्ततरोऽन्नांशस्तर्पयन्प्राणदेवताः॥
प्राप्नोति लिङ्गमाहारः स तस्येत्यभिधीयते॥६०॥

तस्मादित्यादेरर्थमाह। प्रविविक्तेति। यो यथोक्तान्नांशः स प्राणदेवताः करणान्यन्तःकरणं च लिङ्गाख्यं यस्मात्प्रीणयति तस्माद्यस्य प्रविविक्ततरो भवत्याहारः स लिङ्गात्मा तैजसस्तथेति बहुव्रीहिणा लिङ्गस्याऽऽहारः स इति गम्यत इत्यर्थः॥६०॥

चीयमानादितो देहाद्रसाद्यन्नेन भौतिकात्॥
प्रविविक्ततराहारो लिङ्गात्माऽयं पुरोदितात्॥६१॥

अस्मादित्यादेरर्थमाह। चीयमानादिति। रसाद्यन्नेन तद्धेतुना तेनेति यावत्॥६१॥

रसादिः प्रविविक्तः स्यात्पुरीषादिव्यपेक्षया॥
रसादेरपि सूक्ष्मोऽयमाहारो लिङ्गतृप्तिकृत्॥६२॥

कथमन्नस्य प्रविविक्तत्वं तदाह। रसादिरिति। तथाऽपि कथं प्रविविक्ततरत्वं तदाह। रसादेरिति॥६२॥

यत एवमतः प्राह तल्लिङ्गं स्थूलदेहतः॥
प्रविविक्ततराहारं श्रुतिः सूक्ष्मान्नसंस्थितेः॥६३॥

तस्य प्रविविक्ततरत्वे फलितमाह। यत इति। अतःशब्दार्थं स्फुटयति। सूक्ष्मेति॥६३॥

यतोऽतिसूक्ष्मो लिङ्गात्मा नातोऽयं स्थूलदेहवत्॥
देहाद्देहान्तरं गच्छन्केनचित्प्रतिहन्यते॥६४॥

लिङ्गस्यापि स्थूलवद्देहत्वान्न सूक्ष्मता तत्कुतोऽस्य प्रविविक्ताहारतरते285त्याशङ्क्य तत्सौक्ष्म्ये गमकमाह। यत इति॥६४॥

इवेत्यनर्थकं केचिदेवार्थेन विरोधतः॥
एवार्थस्योपमामन्य इवार्थे चावधारणम्॥६५॥

प्रकृतवाक्यस्थमिवशब्दं व्याख्यातुं पूर्वपक्षमाह। इवेत्यनर्थकमिति। तत्र भर्तृप्रपञ्चोक्तं सिद्धान्तमाह। एवार्थस्येति। लिङ्गात्मा प्रविविक्ताहारतर एवेत्यवधार्यते तस्योपमामिवशब्दार्थमाहुरिति योजना। उक्तं हि— यथा खलु बाह्यस्य पिण्डस्योपचयार्थमाहारस्तथा तस्या286पीत्येतस्मात्सामान्यात्प्रविविक्ताहारतर इवैवेति। इवैव भवतीत्यस्य स्वाभिप्रेतमर्थमाह। इवार्थे चेति। एवेत्यवधारणमिवेत्यस्मिन्नर्थे द्रष्टव्यम्। तथाच यथा प्रविविक्ताहारो विश्वस्तथाऽयमपि तैजसो न प्रविविक्ताहार एव किंतु प्रविविक्ताहारतर इव यथाच कारणात्मा प्रविविक्ताहारतर एव न तथा लिङ्गात्मा किंतु प्रविविक्ताहारतर इवेति द्वयोरिवैवशब्दयोरर्थः॥६५॥

लिङ्गाहारादप्यणीयान्यतः प्राज्ञात्मनस्ततः॥
उपमार्थमिवेत्येतत्पदमत्र प्रयुज्यते॥६६॥

किमिति कारणात्मवत्तैजसस्य न प्रविविक्ताहारतरत्वमेव तत्राऽऽह। लिङ्गेति। प्राज्ञात्मन आहार इति शेषः। ततो न लिङ्गस्य प्रविविक्ताहारतरत्वमेवेत्यर्थः। इवशब्दार्थवत्त्वं निगमयति। उपमार्थमिति॥६६॥

कदम्बपुष्पवत्सैषा देवता हृदयाश्रया॥
बहिर्गतासु नाडीषु विषक्ता हृदयादधि॥६७॥

उक्तसूत्रस्य सर्वजगद्व्याप्तिं भर्तृप्रपञ्चप्रक्रिययाऽऽचक्षाणः सैषा सूक्ष्मा देवताऽन्तर्हृदये कदम्बगोलकवद्धृदयान्नाडीषु समन्तान्निःसृतासु विषक्तेति तद्भाष्यं विभजते। कदम्बेति॥६७॥

यथेयं देवता सर्वास्तथाऽन्या अपि देवताः॥
साधारणत्वात्सर्वासां कार्यस्य करणस्य च॥६८॥

एवमेकैका देवतेतिभाष्यार्थमाह। यथेति। यथा हृदयादारभ्य बहिर्विप्रसृतासु नाडीषु सूत्राख्यदेवता287 विषक्तोक्ता तथा सर्वा अप्यन्या देवतास्तासु विषक्ता भवन्तीत्यर्थः।

सर्वेषां कार्यकरणस्य साधारणत्वादितिहेतुभाष्यार्थमाह। साधारणत्वादिति। करणशब्देन गोलकादिस्थानं देवताशब्देनेन्द्रियाण्युक्तानि॥६८॥

तत्रैकस्या यदा कार्यं दृष्ट्यादि स्यादुपस्थितम्॥
गुणभावं तदा यान्ति सर्वास्तां प्रति देवताः॥६९॥

सर्वेन्द्रियाणां सर्वदेहव्यापित्वे रूपादिज्ञानं संकीर्णं स्यादित्याशङ्क्य यस्या देवताया यदा यद्दर्शनादि कार्यं तदा सर्वासामितरासां तदङ्गत्वमिति भाष्यं व्याचष्टे। तत्रेति॥६९॥

नाड्यन्तरेष्वपि तथा सर्वासां संहतत्वतः॥
एष एव क्रमो ज्ञेयः प्राधान्यगुणभावयोः॥७०॥

नाड्यन्तरेऽपि या यदा देवताऽपेक्ष्यते सा तदा कृत्स्नदेवताविभवमङ्गीकृत्योपतिष्ठत इतिभाष्यार्थमाह। नाड्यन्तरेष्विति। अनुक्तेन्द्रियेष्विति यावत्॥७०॥

एवं च सति यावत्यो नाड्यो हृदयबन्धनाः॥
संवत्सराश्च तावन्तस्ते प्रजापतयोऽग्नयः॥७१॥

अध्यात्मनाडीद्वारा देवताव्याप्तिमुक्त्वा हृदयबन्धनतया नाडीप्रसङ्गेन प्रदेशान्तरस्थामुपास्तिं स्मारयति। एवं चेति। हृदयबन्धनत्वेन नाडीप्रसङ्गे288 तास्वहोरात्रात्मना दृष्टासु प्रजापतिरूपाग्निशब्दितेष्टकादृष्टिः कार्या यावन्तो नाडीभेदास्तावन्तः कृत्स्नाः संवत्सराः प्रजापतयोऽग्नय इत्युक्तेरित्यर्थः॥७१॥

प्रतिभागं समाप्तत्वात्पूर्वोक्तस्येह वस्तुनः॥
देवताऽतो यथाऽध्यात्ममधिभूतं तथैव सा॥७२॥

अधिदैवं च विभ्वीयं द्वैतैकत्वेन विष्ठि289ता॥
यथाऽस्य नाड्यः पुंसः स्युरध्यात्मं सर्वतो गताः॥७३॥

अधिभूतं तथाऽस्यैव वायुमय्यः समन्तगाः॥
एतस्मादेव निःसृत्य शरीरात्सर्वतो गताः॥७४॥

प्रासङ्गिकीमुपास्तिं ब्रह्मविद्यायै स्मारयित्वा पूर्वोक्तामध्यात्मदेवताव्याप्तिं दृष्टान्तीकृत्याधिभूताधिदैवयोरपि तद्व्याप्तिमाह। प्रतिभागमिति। वस्तुनः सूत्रस्येति शेषः। उक्तां देवताव्याप्तिं निगमयति। विभ्वीतियथाऽऽहुः— प्रत्यवयवं कृत्स्नस्य परिसमाप्तत्वात्सैषा यथाऽध्यात्ममेवमधिभूतमधिदैवं चेत्यादि। तदेवं देवतायाः सर्वव्याप्तिमुक्त्वा नाडीनामध्यात्ममुक्तव्याप्तिदृष्टान्तेनाधिभूतादावपि व्याप्तिमाह। यथेतिउक्तं हि— यथाऽध्यात्मं नाड्यः समन्ताच्छरीरवर्तिन्य एवमस्यैव पुरुषस्याऽऽध्यात्मिकस्याधिदैवात्मना290 वक्ष्यमाणस्य प्राणनाड्यो291 वायुमय्य इति। उत्तरार्धं प्रपञ्चयति। एतस्मादिति

उक्तं च— एतस्मादेव शरीरादभिनिःसृत्य सर्वं जगदापूर्यावस्थिता इति॥७२॥७३॥७४॥

अधिभूतात्मनैवायं नाडीलक्षणवर्त्मना॥
आपूर्येदं जगत्सर्वं स्थित आध्यात्मिकः पुमान्॥७५॥

नाडीनां देहाद्बहिर्व्याप्तिः किमर्थेत्याशङ्क्य तद्द्वारा क्षेत्रज्ञस्य व्याप्त्यर्थमित्याह292अधिभूतेति॥७५॥

नाड्य आध्यात्मिकस्येव ह्यधिदैवात्मनस्तथा॥
विराजो रश्मयो ज्ञेयाः प्रत्यंशावसितास्तथा॥७६॥

आध्यात्मिकस्य पुंसो नाडीवदाधिदैविकस्यापि नाडीस्थानीयरश्मीनां व्याप्तिमाह। नाड्य इति। युक्ता च विराजो रश्मीनां सर्वतो व्याप्तिस्तदंशादित्यरश्मीनां व्याप्तिदर्शनादिति हिशब्दार्थः। प्रत्येकं सर्वासु व्यष्टीषु वैराजरश्मीनां समाप्तिरपि ज्ञेयेत्याह। प्रत्यंशेति॥७६॥

आध्यात्मिकस्येव पुंसः कृत्स्नाऽध्यात्माधिभूतयोः॥
अनन्तभिन्नकार्येषु समाप्तिर्देवतात्मनः॥७७॥

आध्यात्मिकस्य पुंसो नाडीद्वारा सर्वव्याप्तिवदाधिदैविकस्यापि सा रश्मिद्वारेत्युपसंहरति। आध्यात्मिकस्येतियथाऽऽहुः— यथैवाऽऽध्यात्मिकस्य प्रत्यवयवं कार्त्स्न्येन समाप्तिरेवं वैराजस्याप्यात्मनः प्रत्यवयवमाध्यात्मिकाधिभूताधिदैविकेष्विति॥७७॥

आध्यात्मिकं परिच्छेदमुक्तदर्शनवर्त्मना॥
देवतासूपसंहृत्य विराज्यपि च देवताः॥७८॥

विराजं चोपसंहृत्य प्राणविज्ञानविग्रहे293
हिरण्यगर्भे तं चापि सर्वकारण आत्मनि॥७९॥

परप्रक्रियामादेयामुक्त्वा स्वमते विश्वाद्युक्तेर्ज्ञानहेतुताक्रमं दर्शयति। आध्यात्मिकमिति। उक्तव्याप्तिद्वारा शारीरं परिच्छेदमग्न्यादिदेवतासु ताश्च विराजि तं च सूत्रे तच्च कारणे तदप्यद्वये प्रतीच्युपसंहृत्य पूर्णात्मना तिष्ठेदित्यर्थः॥७८॥७९॥

अध्यात्मदेवताः सर्वा हृदि नीत्वाऽऽत्मनस्ततः॥
हृदयादुक्तनाडीभिः संदध्यात्सूर्यरश्मिभिः॥८०॥

रविहृन्मध्यगं यायात्ततो रश्मिभिरावृतः294
हिरण्यगर्भमात्मानं ततस्तत्कारणं बुधः॥८१॥

उक्तमेव प्रपञ्चयन्विश्वस्य295 वैश्वानरादिशब्दितस्य विराजस्तैजसे सूत्रात्मन्युपसंहार-

क्रममाह। अध्यात्मेति। चक्षुरादिसहितादित्यादिदेवता हृदये प्रजापतिरूपे संहृत्य ततो निर्गतनाडीभी रश्मिभिश्चान्योन्यात्मभूतैः करणै रविस्थं हृदयस्थं च लिङ्गमेकत्वेनानुसंदध्यात्ततस्तात्पर्यवानुक्तनाडीरश्मिद्वारा विवेकबुद्ध्या296 मण्डलहृदयस्थं सूत्रमात्मानं297 गच्छतीत्यर्थः। आत्मनो हृदयादिति संबन्धः। विश्वस्य तैजसमात्रत्वानुसंधानानन्तरं तत्कारणमव्याकृतादिशब्दं विवेकी गच्छतीति तैजसस्य प्राज्ञे लयमाह। तत इति॥८०॥८१॥

वैश्वानरात्तदात्मा298नं प्राप्तस्य हृदि तैजसम्॥
हिरण्यगर्भं तं चापि प्राणात्मन्युपसंहरेत्॥८२॥

उक्तं क्रमं बुद्धिसौकर्यार्थं संक्षिपति। वैश्वानरादिति। तच्छब्दो वैश्वानरवाची। प्राप्तस्याध्यात्मादिपरिच्छेदो निवर्तते मुमुक्षोरिति शेषः। स च सूत्रस्य कारणे संहृतो द्रष्टव्यः॥८२॥

प्राणशब्देन चाप्यत्र कारणात्माऽभिधीयते॥
बीजं कार्यस्य सर्वस्य प्राज्ञश्चेति निरुच्यते॥८३॥

प्राणात्मन्युपसंहारोऽत्र सूत्रस्योच्यते न कारणात्मनीत्याशङ्क्य प्राणशब्दार्थमाह। प्राणशब्देनेति। तैजसस्य प्राज्ञे लयाङ्गीकारात्कथं कारणे तल्लयस्तत्राऽऽह। बीजमिति॥८३॥

कार्याणां कारणं मुक्त्वा नान्यत्रास्त्यप्ययो यतः॥
तस्मात्कारणसंप्राप्त्या यायान्नेतीत्यकारणम्॥८४॥

तुरीयस्य सुवर्णघनवद्विज्ञानघनस्याऽऽप्तेरिष्टत्वात्तदेवोच्यतां कृतं स्थूलसूक्ष्मजगद्रूपविश्वतैजसयोः प्राज्ञे लयोक्त्येत्याशङ्क्याऽऽह। कार्याणामिति॥८४॥

साश्रयैः करणैर्हीनो ग्रस्ताध्यात्माधिदैवतः॥
प्राणात्मा एक एवाऽऽस्ते प्रज्ञानघनविग्रहः॥८५॥

अकार्यकारणं तुरीयं प्राप्तस्य विदुषः स्वरूपं प्रपञ्चयति। साश्रयैरिति। प्राणस्य कारणस्याऽऽत्मा सत्तास्फूर्तिद इति यावत्। छान्दसास्तु विसंधिमपि क्वचिदिच्छन्ति॥८५॥

निर्विभागात्मनस्तस्य प्राञ्चः प्राणाः पुराऽस्य ये॥
प्राची दिगेव संवृत्तास्तदवच्छेदहानतः॥८६॥

दक्षिणा दक्षिणे प्राणाः प्रत्यञ्चश्चापि पश्चिमाः॥
उदीची दिगुदञ्चश्च सर्वे सर्वा दिशस्तथा॥८७॥

विश्वतैजसप्राज्ञतुरीयाण्युक्तानि तत्राऽऽद्यावेव श्रुत्युक्तौ न प्राज्ञादीत्याशङ्क्य तस्य

प्राचीत्याद्यवतार्य व्याकरोति। निर्विभागेति। अध्यात्मादिपरिच्छिन्नाः प्राणाः सर्वासु दिक्षु स्थिताः प्राणशब्दाः। विदुषो हि कारणरूपस्य परिच्छेदनाशात्तत्प्राणरूपं तत्तद्दिङ्मात्रं संवृत्तं ताश्च चरमपर्यायोक्तप्राणे मूलकारणे प्राज्ञे लीयन्ते कारणं तुरीये प्रतीचीत्यर्थः॥८६॥८७॥

यत्साक्षिकी तमःसिद्धिस्तत्कार्यस्य च लक्ष्यते299
तद्भावाभावयोरात्मा न कार्यं नापि कारणम्॥८८॥

कारणस्य न प्रतीचि लयस्तस्यैव कारणत्वात्स्वस्मिन्नेव स्वलयायोगादित्याशङ्क्याऽऽह। यदिति॥८८॥

तेनैव ज्ञात्मनाऽशेषं तद्ध्वान्तं ध्वान्तजं तथा॥
जग्ध्वा नित्यात्मना विद्वान्पूर्णदृष्ट्याऽवशिष्यते॥८९॥

अज्ञानतज्जयोस्तद्भावाभावयोश्च यतः सिद्धिस्तस्य प्रतीचस्तद्वैलक्षण्ये सिद्धे फलितमाह। तेनैवेति। एतेन स एष नेति नेत्यादि व्याख्यातम्॥८९॥

एष मार्ग उपन्यस्त ऐकात्म्यज्ञानजन्मने॥
न त्वर्चिरादिवत्तस्य प्राप्तये गतिकल्पना॥९०॥

विश्वाद्युक्तिफलमुपसंहरति। एष इति। तद्द्वारा मोक्षायेत्यर्थः। मुख्यमार्गं व्यावर्तयति। न त्विति॥९०॥

आत्मत्वादाप्ततत्त्वोऽयं न देशाद्यन्तरायवान्॥
ज्ञानं मुक्त्वा ततः प्राप्तौ नान्यत्किंचिदपेक्षते300॥९१॥

परविदोऽपि गतिरर्चिराद्या वाच्येति केचित्तथाच301 तदनुगुणा नाडी श्रावितेत्याशङ्क्याऽऽह। आत्मत्वादिति। विद्वानत्र विशेष्यते। तर्हि ज्ञानमपि नापेक्षितव्यमित्याशङ्क्य व्यवधानभङ्गार्थं तदपेक्षेति विवक्षित्वाऽऽह। ज्ञानमिति॥९१॥

प्रत्याय्यैवं परात्मानं मुनिराह नराधिपम्॥
प्राप्तोऽस्यभयमित्येवं302 भयहेतुविनाशतः॥९२॥

जागरादिद्वारा निर्विशेषं ब्रह्म ज्ञापितमिदानीमभयमित्यादेरर्थमाह। प्रत्याय्येति॥९२॥

भयहेतुरविद्यैव सा च दुःस्थितसिद्धिका॥
प्रागप्यैकात्म्यविज्ञानादविचारितसिद्धिका॥९३॥

कोऽसै भयहेतुस्तत्राऽऽह। भयेति। विद्याभावं व्यावर्तयति। सा चेति। ज्ञानादूर्ध्वं दुःस्थितत्वेऽपि न प्राक्तथेति चेनेत्याह। प्रागपीति॥९३॥

यतोऽतः प्रत्यग्याथात्म्यभास्वद्विज्ञानभास्कर—
प्रसूतिमात्रादेवास्या ध्वस्तिरात्यन्तिकी भवेत्॥९४॥

अविद्यायाः सदा दौस्थ्ये फलितमाह। यत इति॥९४॥

प्राप्तोऽसीति च निर्देशाज्ज्ञानमेवाऽऽत्मनो गतिः॥
ज्ञानादन्या गतिश्चेत्स्यात्प्राप्स्यसीत्येव तं वदेत्॥९५॥

प्राप्तोऽसीति निर्देशस्य तात्पर्यमाह। प्राप्त इति। अर्चिरादिगतिपक्षेऽप्येवं निर्देशः स्यादिति चेत्तत्राऽऽह। ज्ञानादिति। तं राजानमित्येतत्॥९५॥

ज्ञानतुल्याममन्वानो दक्षिणां गुरवे नृपः॥
अभयं त्वामिति प्राह याज्ञवल्क्यं स पार्थिवः॥९६॥

स हेत्यादेरर्थमाह। ज्ञानेति॥९६॥

उचिता दक्षिणैषैव योक्तेहाभयलक्षणा॥
सम्यग्ज्ञानाख्यदानस्य तदन्या संसृतिर्यतः॥९७॥

दक्षिणान्तरेषु सत्सु कथं ज्ञानयोग्यदक्षिणाभावस्तत्राऽऽह। उचितेति। इहेत्याचार्यग्रहणम्। दक्षिणान्तरस्यानौचित्यमाह। तदन्येति। न हि सगुणायामपि विद्यायां योग्या दक्षिणाऽस्ति किमु वक्तव्यमितरस्यां यद्यप्यस्मा इमामद्भिः परिगृहीतां धनस्य पूर्णां दद्यादेतदेव ततो भूय इति श्रुतेरिति भावः॥९७॥

यच्चाभयं वेदयस इति प्रत्यूचिवान्नृपः॥
तत्तमोध्वस्तितः कार्यं नान्यदस्तीति लिङ्ग्यते॥९८॥

यो न इत्यादेस्तात्पर्यमाह। यच्चेति। ज्ञानस्याज्ञाननिवृत्त्यतिरेकिफलं देशान्तरप्राप्त्यायत्तं नास्ति303 तन्न गतिरिति वर्तमानापदेशात्सिद्धमित्यर्थः॥९८॥

अभयस्य प्रदातृत्वान्नन्ववाप्ताभयो गुरुः॥
अभयं त्वामिति कथं राज्ञाऽऽशीस्तं प्रतीर्यते॥९९॥

राज्ञा प्रयुक्तामाशिषमाक्षिपति। अभयस्येति॥९९॥

इत्यस्य परिहारोक्तिं केचिदाचक्षते बुधाः॥
शब्दादवाप्तमभयं न तु साक्षाच्चकार तत्॥१००॥

भर्तृप्रपञ्चोक्तं परिहारमाह। इत्यस्येति। तामेव व्यनक्ति। शब्दादिति॥१००॥

साक्षात्करणसिद्ध्यर्थमतो राजाऽब्रवीन्मुनिम्॥
अभयं त्वामिति वचस्तद्ध्यस्याप्राप्तमुच्यते॥१०१॥

परोक्षज्ञानित्वे गुरो राजाशीः सफलेति फलितमाह। साक्षादिति। तदपि ते प्राप्तमेवाऽऽचार्यत्वात् “उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः" इति स्मृतेरित्याशङ्क्याऽऽह। तद्धीति। नास्याभयं साक्षादाप्तमन्यथा मुक्तस्यानुशासनायोगात्304

उक्तं हि— प्राप्तममयं याज्ञवल्क्येन नाप्राप्तं न तु साक्षात्कृतमिति। अतो राजाशीरुचितेत्यर्थः॥१०१॥

यदि वा द्विविधो मोक्षो जीवत्येव शरीरके॥
एकः साक्षात्कृतब्रह्मा मृतेरूर्ध्वं च तल्लयः॥१०२॥

तैरेवोक्तं परिहारान्तरमाह। यदि वेतियथाऽऽहुर्द्विविधो मोक्षोऽस्मिन्नेव शरीरे साक्षात्कृतब्रह्मा मुक्त इत्युच्यते न ब्रह्मणि लीनस्तस्य शरीरपातोत्तरकालं ब्रह्मणि लयो द्वितीयो मोक्षः स त्वाशासितव्य इति॥१०२॥

एवं परिजिहीर्षन्ति न तु न्यायोक्तिरीदृशी॥
प्राप्तोऽसीति मुनेरुक्तेः परिहारो न युज्यते॥१०३॥

आत्यन्तिके मोक्षे साधनान्तरेणाऽऽशीर्वादादिना भाव्यमिति मत्वा परोक्तं परिहारमुपसंहरति। एवमिति। निराकरोति। न त्विति। कथं न्यायबाह्या द्विधापरिहारोक्तिस्तत्राऽऽह। प्राप्तोऽसीति॥१०३॥

तज्ज्ञानमात्रमेवोक्त्वा प्राप्तोऽसीति यतोऽवदत्॥
तत्साक्षात्करणान्नान्यस्तल्लयो305 वाऽत इष्यते॥१०४॥

तथाऽपि कथं परिहारयोरन्याय्यत्वं तत्राऽऽह। तज्ज्ञानेति। प्रतीचो ब्रह्मत्वस्य स्वतः सिद्धेस्तज्ज्ञानादज्ञानहानिव्यतिरेकेण ब्रह्मसाक्षात्कारस्तल्लयो वा न संभवत्यतो नाऽऽशीर्वादाद्युपायान्तरापेक्षा मोक्षस्यास्तीत्यर्थः॥१०४॥

शाब्दविज्ञानमात्रेण नाऽऽचार्यत्वे नियुज्यते॥
श्रोत्रियं ब्रह्मनिष्ठं च गुरुं यायादिति श्रुतेः॥१०५॥

यत्तु मुनिना शब्दात्प्राप्तमेव पारोक्ष्येणाभयं ब्रह्म न साक्षात्कृतमिति तत्राऽऽह। शाब्देति। परोक्षज्ञानमात्रेणाऽऽचार्यत्वाभावे श्रुतिं प्रमाणयति। श्रोत्रियमिति॥१०५॥

अभयं वेदयसीत्येतन्न चासाक्षात्कृते परे॥
शाब्दमात्रपरिज्ञाने राज्ञो युक्तं प्रभाषितुम्॥१०६॥

इतश्च मुनिः साक्षात्कृतब्रह्मैवेत्याह। अभयमिति। ब्रह्म वेदयसीत्युक्ते राज्ञस्तावत्तत्साक्षात्कारोऽवगम्यते वेदनस्यानुभवत्वात्तेनैव गुरोरपि सोऽनुमीयते भगवता तस्य तत्त्वदर्शित्वविशेषणादित्यर्थः॥१०६॥

असाधारणधर्मोत्थं विज्ञानं वस्तुनि प्रमा॥
शब्दमात्रप्रमोत्थं तु न मानं वस्त्वसंश्रयात्॥१०७॥

वेदयसीति शाब्दं परोक्षज्ञानमेव ब्रह्मविषयं किं नोच्यते तत्राऽऽह। असाधार-

णेति। एवमुत्सर्गेऽपि प्रस्तुते किं जातं तदाह। शब्देति। न हि परोक्षं ज्ञानं वस्त्वनुसरति तस्य साक्षादपरोक्षादित्यादिलक्षणत्वादित्यर्थः॥१०७॥

साक्षात्कृतैकतत्त्वस्याप्यैकात्म्यप्रलयं प्रति॥
किं समाशङ्क्यते येन तदाशीः संप्रयुज्यते॥१०८॥

यत्तु देहपातोत्तरकालं ब्रह्मणि लयो द्वितीयो मोक्षः स चाऽऽशंसितव्य इति तत्राऽऽह। साक्षादिति। तदाशीर्ब्रह्मणि लयं प्रत्याशीरिति यावत्॥१०८॥

ज्ञानानुरूपामेवातो दक्षिणां दित्सुरब्रवीत्॥
अभयं त्वामिति नृपो यथोक्तज्ञानलिङ्गनम्306॥१०९॥

परपक्षासंभवमुक्त्वा स्वपक्षमाह। ज्ञानेति। प्राप्ताभये मुनौ किमित्येवं राजोक्तवान्दक्षिणान्तरं तु देयं तदभावे मौनमुचितमित्याशङ्क्याऽऽह। यथोक्तेति। पूर्वोक्तं ब्रह्मात्मनि ममानुभवान्तं ज्ञानं जातमिति ज्ञापनायैवमुक्तवानित्यर्थः॥१०९॥

साक्षाज्ज्ञानातिरेकेण नालमन्यद्विमुक्तये॥
यथा तथाऽसकृत्पूर्वमवोचाम पदे पदे॥११०॥

यत्त्वात्यन्तिके मोक्षे साधनान्तरेणाऽऽशीर्वादादिना भाव्यमिति तद्दूषयति। साक्षादिति॥११०॥

भवानप्यहमेवेति यदा साक्षाद्विनिश्चयः॥
विदेहादि तदा विश्वं त्वत्तः कस्येति कथ्यताम्307॥१११॥

इमे विदेहा इत्यादेरर्थमाह। भवानपीति। त्वत्तोऽन्यस्येति शेषः॥१११॥

ममेव भवतोऽपीदं न च किंचिदसंगतम्॥
अभावाच्च त्वदन्यस्य सर्वमात्मेति शासनात्॥११२॥

व्यवहारदृष्ट्येदमुक्तं तत्त्वतस्तु नैवमिति राज्ञोऽभिप्रायमाह। ममेति। इदमा परामृष्टमर्थान्तरमङ्गीकृत्योक्तं तदेव नास्तीत्याह। अभावाच्चेति॥११२॥

अहं ममेत्यविद्याधीः सहेतुर्नाशिता यदा॥
पूर्णात्मनि तदा दृष्टे कः कस्मै किं प्रदित्सति॥११३॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके चतुर्थाध्यायस्य
द्वितीयं कूर्चब्राह्मणम्॥२॥

श्लोकानामादितः समष्ट्यङ्काः—७०५८

त्वं हि मह्यमिमे विदेहा इत्यादिना दक्षिणां दित्ससि कथमिदानीमन्यथोक्तिरित्याशङ्क्योक्तं प्रपञ्चयति। अहमिति। अतो व्यवहारदृष्टिमेवावष्टभ्येमे विदेहा इत्यादि राज्ञो वचनमिति शेषः॥११३॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिकटीकायां चतुर्थाध्यायस्य
द्वितीयं कूर्चब्राह्मणम्॥२॥

अथ तृतीयं ब्राह्मणम्।
————

नामरूपादिमत्कार्यं यः प्रविष्टः स्वमोहजम्॥
जलार्कवदकृत्स्नत्वमापेदेऽविद्यया परः॥१॥

जागराद्युक्तिद्वारा राजा याज्ञवल्क्येनाभयं प्रापितस्तत्र किमवशिष्यते यदर्थमुत्तरं ब्राह्मणमित्याशङ्क्य वृत्तं कीर्तयति। नामेति। योऽधिकृतः308 परः स्वाज्ञानजबुद्ध्याद्यनुप्रविष्टः स स्वाविद्यया परिच्छिन्नत्वमापन्न इत्युक्तं तन्न पश्यतीत्या309दावित्यर्थः॥१॥

तदविद्यापनुत्त्यर्थं गार्ग्यकाश्यादिच्छद्मना॥
अपूर्वादिस्वभावोऽयं प्रविष्टः प्रतिपादितः॥२॥

अनुप्रवेशे तद्द्वारेणाकार्त्स्न्ये च जलार्कवदित्युदाहरणं तार्तीयमनूद्य चातुर्थिकमनुवदति। तदविद्येति। काश्यादीत्यादिशब्देन याज्ञवल्क्यादिग्रहणम्॥२॥

आगमादेवमात्मानं प्रतिपाद्याथ तर्कतः॥
स एव पञ्चमेऽप्युक्तः साक्षाज्जल्पैकवर्त्मना॥३॥

मधुकाण्डार्थमुक्त्वा मुनिकाण्डप्रवृत्तिमुक्तां स्मारयति। आगमादिति। तर्कस्य मानानुग्राहकत्वात्तदानन्तर्यमुचितमितिसूचनार्थोऽथशब्दः। तं प्रतिपादयितुं मुनिकाण्डं प्रवृत्तमिति शेषः। पाञ्चमिकमर्थमनुद्रवति। स एवेति। साक्षादित्यात्मा विशेष्यते। साक्षादपरोक्षादित्यादिनोक्तलक्षण इत्यर्थः॥३॥

वादन्यायेन तस्यैव प्रतिपत्त्यर्थमञ्जसा॥
षष्ठे क्रमादुपन्यस्तं जाग्रदादिचतुष्टयम्॥४॥

षष्ठप्रवृत्तिमुक्तां स्मारयति। वादेति। षष्ठे प्रक्रान्ते सतीति शेषः। अतीतब्राह्मणयोरर्थमनुक्रामति। क्रमादिति। वागादिदेवतासु ब्रह्मदृष्टिद्वारा जागराद्युक्त्याऽवगन्तव्यं ब्रह्मोक्तमित्यर्थः॥४॥

इन्धतैजससौषुप्ततुरीयाण्येव सांप्रतम्॥
संश्रित्य पूर्व एवार्थ इह साक्षाद्विभाव्यते॥५॥

वृत्तमनूद्योत्तरब्राह्मणसंबन्धमाह। इन्धेति॥५॥

विसंवादनिरासेन सद्भावश्चाऽऽत्मनः पुनः॥
व्यतिरिक्तत्वशुद्धत्वस्वयंज्योतिष्ट्वनित्यता॥६॥

स्वतोनतिशयानन्दस्वाभाव्यैकात्म्यनित्यता॥
दृष्टिमात्राद्वयत्वं च तर्केण महताऽऽत्मनः॥७॥

विभाव्यते सुविस्पष्टं वादन्यायेन यत्नतः॥
विद्यायाः संप्रदानादिविध्यर्थाऽऽख्यायिकाऽत्र च॥८॥

पूर्वस्यैव पुनर्विभावनमनुपयोगि न च साक्षात्त्वं विशेषः पूर्वस्यानुपयोगप्रसङ्गादित्याशङ्क्याऽऽह। विसंवादेति। पूर्वमेवाऽऽत्मनः सद्भावादि साधितमपि तत्त्वनिर्णयफलन्यायमवलम्ब्याबाधितासंकुचिततर्केण वादिविवादव्युदासेन तात्पर्येण प्रकाश्यते तथाच यथोक्तात्मनि मुमुक्षूणामतिस्फुटा मतिरवतरेदित्यर्थः। नित्यता कूटस्थता। ऐकात्म्यनित्यता तस्य सदासत्ता। ब्राह्मणतात्पर्यमुक्त्वाऽऽख्यायिकातात्पर्यमाह। विद्याया इति। आदिपदेन प्रदातृप्रदानादि गृह्यते। विधिर्बोधनं विद्यास्तुतये चेति चार्थः। अत्रेति ब्राह्मणोक्तिः॥६॥७॥८॥

याज्ञवल्क्योऽथ जनकं योगक्षेमार्थमभ्यगात्॥
न वदिष्ये नृपेणाहमिति बद्ध्वा व्रतं किल॥९॥

द्वयोस्तात्पर्यमुक्त्वा जनकं हेत्याद्यक्षराणि व्याचष्टे। याज्ञवल्क्य इति। राजदर्शनयोग्यकालज्ञानानन्तर्यमथशब्दार्थः। स मेने न वदिष्य इत्यस्यार्थमाह। नेत्यादिना। उक्तार्थस्य परोक्षत्वद्योतनार्थं किलेत्युक्तम्। वदतेर्निरुपपदस्य परस्मैपदित्वात्किलेत्यसंतोषो वा॥९॥

संवदिष्ये नृपेणाहमिति वा तं जगाम सः॥
समित्यस्याभिसंबन्धादेनेनेत्ये310वमुच्यते॥१०॥

तस्यैवार्थान्तरमाह। संवदिष्य इति। विकल्पस्य व्रतं बद्ध्वेत्यनेन संबन्धः। द्वितीयव्याख्या न वाक्यानुसारिणीत्याशङ्क्याऽऽह। समित्यस्येति। अभिसंबन्धात्क्रियापदेनेति शेषः॥१०॥

अविवक्षुरपि प्राह यत्पृष्टं जनकेन सः॥
तत्र हेत्वभिधानार्थं वरदानं श्रुतिर्जगौ॥११॥

नन्वाद्ये व्याख्याने मुनी राज्ञा यद्यत्पृष्टं तत्तद्वक्तीत्ययुक्तं व्रतभङ्गप्रसङ्गादित्याशङ्क्याथ हेत्यादेस्तात्पर्यमाह। अविवक्षुरिति। न हि कामप्रश्नाख्यं वरं प्राप्य पृष्टवति राजनि मुनेर्दत्तवरस्य तूष्णींभावः संभवति मिथ्यावादित्वापत्तेरतो व्रतभङ्गमपि सत्यसंरक्षणार्थं न गणयति ऋ311तायन्नितिश्रुतेरिति भावः॥११॥

एनेन संवदिष्येऽहमिति व्याख्यायते यदा॥
तदाऽऽख्यायिकया हेतुस्तयोः संवाद इष्यते312॥१२॥

द्वितीयेऽपि व्याख्याने हेतुमाह। एनेनेति। अग्निहोत्रे जनकस्य श्वेतकेतुसोमशु-

ष्मभ्यामिव याज्ञवल्क्येन जनको ह वैदेहो ब्राह्मणैर्धावयद्भिः समाजगामेत्याद्याख्यायिकया संवादो वृत्तस्तत्र च मुनी राज्ञोऽग्निहोत्रविज्ञानातिशयं दृष्ट्वा तुष्टो वरं ददौ स च कामप्रश्नमेव वृतवानित्युक्तं तथाच संवदिष्ये राज्ञेति संकल्प्य तं गतवानिति व्याख्याने कामप्रश्नवरदानाख्यो हेतुरित्यर्थः॥१२॥

राजैव पूर्वं313 पप्रच्छेत्येतस्माद्गम्यते शुभा॥
लिङ्गाद्व्याख्योत्तरा पूर्वा न साध्वीत्यप्रमाणतः॥१३॥

कतरत्तर्हि व्याख्यानमादेयं तदाह। राजेति। तं हेत्यादिवाक्यात्कामप्रश्नवरलाभो राज्ञो विज्ञायते न हि तं विना तूष्णींभूतं मुनिमनभि314प्रायज्ञो राजा प्रष्टुमीष्टे तत्सामर्थ्याल्लिङ्गाद्द्वितीया व्याख्या साध्वी नाऽऽद्येति गम्यते तत्र मानाभावादित्यर्थः॥१३॥

न वदिष्येऽहमित्यत्र व्रते हेतुर्न वीक्ष्यते॥
यतोऽसंतोषतस्तस्मात्कृता व्याख्योत्तरा शुभा॥१४॥

तं साधयति। नेत्यादिना। न हि राज्ञि कामप्रश्नं दत्तवतो न संवदिष्ये तेनेति. संकल्पोऽवकल्पतेऽनाप्तत्वापत्तेस्तस्मादाद्यव्याख्याने मानाभावादनुपपत्तेश्च द्वितीयमेवाऽऽदरणीयं संवादावृत्तेरेनेनेतिच्छेदसिद्धेरित्यर्थः॥१४॥

नाप्राक्षीत्तत्र यद्राजा वरदानादनन्तरम्॥
प्रश्नानुक्तिर्विरुद्धत्वाद्विद्यायाः कर्मभिः सह॥१५॥

नन्वग्निहोत्रप्रकरणे कामप्रश्नो वरो दत्तश्चेत्किमिति तत्रैवाऽऽत्मयाथात्म्यप्रश्नप्रतिवचने नासूचिषातां तत्राऽऽह। नाप्राक्षीदिति। तत्राग्निहोत्रप्रकरणे वरदानानन्तरं राजा न पृष्टवानात्मयाथात्म्यं मुनिश्च न प्रत्युक्तवानिति यत्सा प्रश्नाद्यनुक्तिः कर्मभिर्विद्याया विरुद्धत्वादिति योजना॥१५॥

स्वोत्पत्तावेव विद्येयं हेत्वन्तरमपेक्षते॥
प्रत्यगात्मतमोध्वस्तौ नासावन्यदपेक्षते॥१६॥

ननु सर्वापेक्षाधिकरणन्यायेन विद्या कर्माण्यपेक्षते तत्कथं तैर्विरुध्येत? किं तस्याः स्वोत्पत्तौ तदपेक्षा स्वफले वेति विकल्प्याऽऽद्यमङ्गी करोति। स्वोत्पत्ताविति। अत एव चाग्नीन्धनाद्यनपेक्षेति न्यायेन द्वितीयं दूषयति। प्रत्यगात्मेति॥१६॥

स्वरूपलाभमात्रेण यतोऽविद्यां निहन्त्यतः॥
प्रयोगमपि विद्येयं नोपरुध्यति दात्रवत्॥१७॥

तत्र हेतुः। स्वरूपेति। कर्मविरोधं विद्याया निगमयति। अत इति। उत्पन्ना सा कमपि व्यवहारं नानुसरतीत्यत्र वैधर्म्यदृष्टान्तो दात्रवदिति। तद्धि जातमपि लवने प्रयोगमपेक्षते न तथा विद्येत्यर्थः॥१७॥

व्यवहर्तुमशक्तोऽयं देहो मृत्पिण्डवत्स्वयम्॥
परतन्त्रव्यवहृतिः स्वतोजाड्यस्वभावतः॥१८॥

कर्मप्रकरणे विद्याप्रश्नप्रत्युक्त्योरयोग्यतामुक्त्वा याज्ञवल्क्येत्यादिप्रश्नं वक्तुं भूमिकां करोति। व्यवहर्तुमिति। देहः स्वतो न व्यवहारक्षमोऽचेतनत्वान्मृत्पिण्डवदित्यर्थः। किंचायं पराधीनव्यवहारवाञ्जडत्वाद्रथादिवदित्याह। परतन्त्रेति॥१८॥

पृथिव्याद्यध्यवस्यायं स्वयंज्योतिरनुग्रहात्॥
कर्माऽऽसनादि कुरुते तस्माच्च फलसंगतिः॥१९॥

देहस्याचेतनत्वमसिद्धं पृथिव्यादिनिश्चयद्वारा व्यवहर्तृत्वदृष्टेरित्याशङ्क्याऽऽह। पृथिव्यादीति। सुखादिफलवत्त्वेन तच्चैतन्यमाशङ्क्याऽऽह। तस्माच्चेति। स्वयंज्योतिरनुग्रहादेवेत्यर्थः॥१९॥

यत एवमतोऽप्राक्षीद्याज्ञवल्क्यं नराधिपः॥
किंज्योतिरयमित्येवं प्रत्यग्ज्योतिर्बुभुत्सया॥२०॥

प्रत्यग्ज्योतिर्बलादेव देहस्य कर्म तत्फलं चेत्येवं संभाव्य राजा तज्जिज्ञासया पृष्टवानिति प्रश्नमुत्थापयति। यत इति॥२०॥

करणानि च देहश्च पुरुषोऽत्र विवक्षितः॥
आसनादिक्रियाकारी पीठक्षेत्रादि कर्म च॥२१॥

तत्र पुरुषशब्दार्थमाह। करणानीति। कार्यकरणसंघातस्य पुंसो ज्योतिरपेक्षामाह। आसनादीति। तत्तदर्थापेक्षयैव तत्तत्क्रियासिद्धौ कृतं ज्योतिषेत्याशङ्क्याऽऽह। पीठेति। आसनगमनादिक्रियायाः कर्म कारकं पीठक्षेत्रादि तच्च जाड्याज्ज्योतिरपेक्षमिति न तन्मात्रात्क्रियेत्यर्थः॥२१॥

किं स्वावयवसंघातभिन्नजात्यतिरेकिणा॥
ज्योतिषा व्यवहार्येषोऽसंहतेन पुमानिति॥२२॥

किंवा तद्विपरीतेन ज्योतिषेत्यभिधीयताम्॥
किंचातो यदि नामैवं शृण्वतो यत्प्रसिध्यति॥२३॥

प्रश्नवाक्यं विभजते। किमित्यादिना। कार्यकरणसंघातात्तदवयवेभ्यस्तेषां समुदायाच्च भिन्नं मनुष्यत्वादिजात्यसंस्पृष्टं यदसंहतं ज्योतिस्तेनेति यावत्। असंहतेन संहतेन वा ज्योतिषा पुरुषो व्यवहारभागिति विकल्पार्थः। यद्याद्यस्तदा किं नाम फलं यदि द्वितीयस्तदा किं छिन्नमिति पृच्छति। किंचेति। यदाद्यपक्षात्फलति यद्वेतरस्माद्धीयते तदुच्यमानमवहितेन श्रोतव्यमित्याह। शृण्वति॥२२॥२३॥

तयोः पूर्वोक्तरूपेण ज्योतिषाऽनुग्रहो यदि॥
अप्रत्यक्षेऽपि315 तस्मिंस्तत्पुंस्क्रियालिङ्गदर्शनात्॥२४॥

अनुमास्यामहे ज्योतिस्तादृगेव तदा316 वयम्॥
अथ तद्विपरीतेन संगतिर्ज्योतिषेक्ष्यते॥२५॥

तथाभूतं तदा ज्योतिरनुमास्यामहे वयम्॥
अथोभयात्मताऽदृष्टा तदाऽपि स्यादनिश्चितिः॥२६॥

तत्राऽऽद्यमनूद्य फलमाह। तयोरिति। प्रकृतज्योतिषोर्मध्ये व्यतिरिक्तेन ज्योतिषा पुंसोऽनुग्रहो व्याप्तिग्रहकाले निश्चितश्चेद्यत्र स्वप्नादौ ज्योतिरप्रत्यक्षं पुंस्प्रवृत्तिश्च दृष्टा तत्रापि व्यतिरिक्तमेव ज्योतिरनुमेयमतो राद्धान्तासिद्धिरित्यर्थः। कल्पान्तरमनूद्य हानिमाह। अथेत्यादिना। व्याप्तिग्रहकाले व्यवहर्तुरव्यतिरिक्तेनैव ज्योतिषाऽनुग्रहो गृह्यते चेत्तदा स्वप्नादावव्यतिरिक्तमेव व्यवहारलिङ्गेन तदनुमेयं ततः सिद्धान्तहानिर्देहादेरेवाऽऽत्मत्वप्राप्तेरित्यर्थः। अथानियम इत्यादिभाष्यार्थमाह। अथेति। अदृष्टेति च्छेदः। व्यतिरेकोऽव्यतिरेको वा ज्योतिषो व्याप्तिग्रहकाले सं317दिग्धश्चेदनुमातोऽपि तन्निश्चयासिद्धिरित्यर्थः॥२४॥२५॥२६॥

इत्येतदभिसंधाय पप्रच्छ जनको मुनिम्॥
स च पृष्टो यथाप्रश्नं प्रत्युत्तरमभाषत॥२७॥

प्रश्नार्थं निगमयति। इत्येतदिति। आदित्यज्योतिरित्याद्यवतारयति। स चेति। व्यतिरिक्तज्योति318र्बुभुत्सया प्रश्नमनतिक्रम्येति यावत्॥२७॥

नन्वेवं कौशले राज्ञः किमर्थं पृष्टवान्मुनिम्॥
स्वयमेवानुमायेदृग्ज्योतिः किं न प्रपद्यते॥२८॥

उक्तरीत्या गुणदोषज्ञाने राजा शक्तश्चेदनुमानेऽपि शक्तस्तेन319 स्वयमेवेष्टं ज्योतिर्ज्ञास्यति कुतो मुनिमनुसरति को हि स्वाधीनेऽर्थे धीपूर्वकारी परमनुसरेदिति प्रश्नमाक्षिपति। नन्विति॥२८॥

सत्यमेवं तथाऽप्येष नृपः पप्रच्छ तं मुनिम्॥
लिङ्गलिङ्ग्यभिसंबन्धदुर्ज्ञेयत्वात्सुसूक्ष्मतः॥२९॥

राज्ञो नैपुण्येऽपि भाव्यं मुनिनेति समाधत्ते। सत्यमिति। किमिति मुनिना भाव्यं तत्राऽऽह। लिङ्गेति। व्याप्यव्यापकयोस्तत्संबन्धस्य चातिसूक्ष्मत्वादेकेन दुर्ज्ञानत्वात्तज्ज्ञापको मुनिरिष्ट इत्यर्थः॥२९॥

बहूनामपि संमोहो लिङ्गादिषु समीक्ष्यते॥
किमुतैकस्य वक्तव्यं पर्यपृच्छदतो नृपः॥३०॥

कथमतिसौक्ष्म्यं व्याप्यादीनामित्याशङ्क्याऽऽह। बहूनामिति। दृश्यन्ते हि धूमाभासदर्शिनोऽपि धूमध्वजमनुमिन्वन्तस्तद्विवेकानिश्चयादित्यर्थः। लिङ्गादिज्ञानस्य प्रयत्नलभ्यत्वे फलितमाह। पर्यपृच्छदिति॥३०॥

सूक्ष्मधर्मविवेकार्थमत एवाब्रवीन्मनुः॥
दशावरा पर्षदति ह्यपेक्षन्ते च सद्धियः॥३१॥

तेषामतिसौक्ष्म्ये मनुवाक्यं प्रमाणयति। सूक्ष्मेति। कुशलस्यापि सूक्ष्मार्थनिर्णये. पुरुषान्तरापेक्षायाः सत्त्वमतःशब्दार्थः।

“धर्मेणाधिगतो यैस्तु वेदः सपरिबृंहणः।
ते शिष्टा ब्राह्मणा ज्ञेयाः श्रुतिप्रत्यक्षहेतवः॥

दशावरा वा परिषद्यं धर्मं परिचक्षते।
त्र्यवरा वाऽपि वृत्तस्थास्तं धर्मं न विचारयेत्॥

त्रैविद्यो हैतुकस्तर्की नैरुक्तो धर्मपाठकः।
त्रयश्चाऽऽश्रमिणः पूर्वे पर्षदेषा दशावरा॥

ऋग्वेदविद्यजुर्विच्च सामवेदविदेव च।
त्र्यवरा परिषज्ज्ञेया धर्मसंशयनिर्णये”॥

इत्येतल्लक्षयति। दशेति। धर्मशास्त्रकृतामन्येषामपि यथोक्तेऽर्थे संमतिरस्तीतिद्योतनार्थो हिशब्दः। किंचाधुनाऽपि सूक्ष्मार्थनिर्णये बहवः सूक्ष्मदृष्टयोऽपेक्षमाणा दृश्यन्ते लिङ्गादीनां दुर्बोधत्वादित्याह। अपेक्षन्ते चेति॥३१॥

याज्ञवल्क्यादिरूपेण श्रुतिरेवाथवा स्वयम्॥
अनुमावर्त्मना ज्योतिः साक्षान्नः प्रत्यपीपदत्॥३२॥

अनुमाकौशलेऽपि राज्ञः सूक्ष्मार्थनिर्णयार्थं मुनिं प्रति पृच्छा युक्तेत्युक्त्वा पक्षान्तरमाह। याज्ञवल्क्येति॥३२॥

नृपाभिप्रायवित्प्राह याज्ञवल्क्योऽपि तं नृपम्॥
यथोक्तज्योतिषः सिद्धावादित्यज्योतिरित्ययम्॥३३॥

प्रश्नोपपत्तौ प्रतिवचनोपपत्तिं मत्वा पूर्वोक्तमेव प्रतिवचनमनुभाषते। नृपेति। व्यतिरिक्तज्योतिरभिप्रायेण राजा पृच्छति मुनिरपि तत्सिद्धिं निमित्तीकृत्य प्रतिवक्तीत्यर्थः॥३३॥

देहावयवसंघातजातिसंस्थानतत्क्रिया—
देशाद्यत्यन्तसंभिन्नतद्विलक्षणभास्वर—
स्वप्रतिष्ठैकभान्वाख्यज्योतिषैव पुमानयम्॥
आस्ते पल्ययते कर्म कृत्वा भूयो निवर्तते॥३४॥३५॥

विवक्षितज्योतिर्दृष्टान्तत्वेनोत्थापितप्रत्युक्त्यक्षराणि व्याकरोति।देहेति। देहश्चतदवयवाश्च तेषां संघातश्च देहगता जातिश्च स्थानं च तस्यैव क्रिया च देशकालौ च तेभ्योऽत्यन्तभिन्नं तद्विसदृशं प्रभूतप्रकाशमपरतन्त्रं प्रकाशान्तरानपेक्षं यद्भानुलक्षणं ! ज्योतिस्तेनेति योजना॥३४॥३५॥

मध्ये जडस्वभावोऽयं ज्योतिषोर्वर्त320ते पुमान्॥
बुद्ध्यादिविषयान्तो हि प्रत्यक्चैतन्यबिम्बितः321॥३६॥

यथोक्तादित्यज्योतिर्वशादेव देहादिव्यवहारादलमात्मज्योतिषेत्याशङ्क्याऽऽह। मध्य इति। जडस्वभावं पुमांसं जडजडज्योतिर्द्वयमध्यस्थं विशिनष्टि। बुद्ध्यादीति। चैतन्याभासानुरञ्जनं विना बुद्ध्यादिसिद्ध्यनुपपत्तिद्योतको हिशब्दः॥३६॥

प्रत्यगेकस्वयंज्योतिःस्थिरासंहतनिष्क्रिय—
तद्विरुद्धरवीन्द्वादिज्योतिषोर्मोह322हेतुकः॥३७॥

मातृमानप्रमेयात्मा कर्तृसाधनकार्यवान्॥
अशनायादिसंसारधर्मापायागमात्मकः॥३८॥

के ते ज्योतिषी तत्राऽऽह। प्रत्यगिति। सर्वान्तरस्य सर्वभेदरहितस्य चिदेकतानस्यासङ्गोदासीनस्य प्रतीचः स्थिरत्वं कौटस्थ्यं तत्र हेतुर्निष्क्रियेति तद्विरुद्धं ततो यथोक्तज्योतिषो विपरीतं पराग्भूतमनेकं पराधीनप्रकाशं प्रकाश्यसंसृष्टं परिणामीत्यर्थः। मध्ये वर्तत इति पूर्वेण संबन्धः। पुरुषशब्दितबुद्ध्यादेरादित्यादिज्योतिरतिरिक्तज्योतिरपेक्षत्वे को हेतुरिहोक्त इत्यपेक्षायामुक्तं पुरुषं विशिनष्टि। मोहेति। आत्माज्ञानजो बुद्ध्यादिर्मातृमानमेयकर्तृकर्मकार्यभोक्तृभोग- भोग्यात्मा जन्मनाशवानजडज्योतिरपेक्षते स्वतोभानायोगादित्यर्थः॥३७॥३८॥

तद्विरुद्धात्मकेनैव ज्योतिषोद्दीपितेक्षणः॥
आदित्येन सदैवाऽऽस्ते यात्यायाति करोति च॥३९॥

अजडज्योतिषैव तर्हि बुद्ध्यादिव्यवहारसिद्धेरलमितरेणेत्याशङ्क्यदृष्टत्वा323न्मैवमित्याह। तद्विरुद्धेति। बुद्ध्यादिसंघाताद्व्यव324हर्तुर्विपरीतं यदादित्याख्यं ज्योतिस्तेनोत्पादितपरिणामविशेषो बुद्ध्यादिर्व्यवहरतीत्यर्थः॥३९॥

आदित्यात्परमेवेति नाऽऽदित्यस्यावधारणे॥
पिण्डप्राणादिधर्मेभ्यो वैधर्म्याविधृतौ यतः॥४०॥

आदित्येनैषायमित्यादित्यात्परस्तादेवकारश्रुतेरासनादिहेतुत्वं तस्यावधार्यते तन्नादित्यज्योतिरतिरिक्तानुग्राहकज्योतिः325सिद्धिरित्याशङ्क्याऽऽह। आदित्यादिति। तर्हि

किमेवकारेण क्रियते तदाह। पिण्डेति। अनुग्राह्यादनुग्राहकं ज्योतिरतिविलक्षणमिति निर्धारयितुमेवकारो नाऽऽदित्यमवधारयितुमित्यर्थः॥४०॥

आदित्त्यावधृतिश्चेत्स्यान्नेन्द्वादेः स्यादनुग्रहः॥
तस्मात्पिण्डादिवैधर्म्यमेवेतीहावधार्यते॥४१॥

विपक्षे दोषमाह। आदित्येति। विवक्षितमेवकारार्थंनिगमयति। तस्मादिति॥४१॥

नृपस्त्वेवेति संश्लेषादादित्यस्यावधारणम्॥
मत्वाऽस्तमित इत्येवं मुहुर्विप्रमचूचुदत्॥४२॥

न चेदादित्यमवधारयितुमेवकारस्तर्हि तस्मिन्नुपरतेऽपि ज्योतिरन्तरेणाऽऽसनादिसिद्धेरुत्तरप्रश्नानुपपत्तिरित्याशङ्क्याऽऽह। नृपस्त्विति। भ्रान्तिप्रयुक्ता समनन्तरप्रश्नप्रवृत्तिरिति भावः॥४२॥

आत्मैव ज्योतिरथवा रविसोमाग्न्युपाधिगम्॥
अवध्रियत एवेति तमेव इति च श्रुतेः॥४३॥

** एवकारस्य पर्यायचतुष्टयनिविष्टस्यार्थान्तरमाह। आत्मैवेति। आत्मज्योतिषः सर्वावभासकत्वात्तदेवाऽऽदित्यादिरूपेणापि भासकं नान्यदित्यत्र तमेव भान्तमनुभाति सर्वमितिश्रुतिं** संवादयति। तमिति॥४३॥

रवीन्द्वादिपदार्थेभ्यो ह्यनुमानैकवर्त्मना॥
स्वार्थंविज्ञापयिष्यामि विभज्यातः परा श्रुतिः॥४४॥

** **आदित्याद्यात्मनाऽऽत्मज्योतिरेव सर्वावभासकं चेत्पूर्वपर्यायैरेव प्रत्यग्ज्योतिःसिद्धेरात्मैवास्येत्यादिश्रुतिरनर्थिकेत्याशङ्क्याऽऽह। रवीति। आदित्यादिभ्यो विभज्य स्वतन्त्रमात्मज्योतिर्ज्ञापयिष्यामीति मुनिर्मन्यतेऽतः श्रुतिरात्मेत्याद्या परा प्रवृत्तेति योजना॥४४॥

ज्योतिषोऽत्यन्तवैधर्म्यप्रसिद्ध्यर्थं विशेषणम्॥
आस्त इत्यादि सुबहु श्रुत्योपन्यस्तमादरात्॥४५॥

आदित्येनैवेति श्रुतमेवकारं व्याख्यायाऽऽस्त इत्यादेस्तात्पर्यमाह। ज्योतिष इति। आसनादीनामेकैकव्यभिचारे देहस्यान्यथाभावेऽपि नानुग्राहकं ज्योतिरन्यथा भवत्यतस्तदनुग्राह्यादत्यन्तविलक्षणमित्येतदर्थमनेकविशेषणग्रहणमित्यर्थः॥४५॥

भूयसां चाप्युपन्यासो बाह्यानां ज्योतिषामिह॥
लिङ्गस्याव्यभिचारार्थं बुद्धिवाक्कायकर्मणः॥४६॥

आदित्याद्यनेकपर्यायोपादानं किमर्थमेकेनैव व्याप्तिग्रहसिद्धेरित्याशङ्क्याऽऽह। भूयसां

चेति। देहेन्द्रियमनोव्यापाररूपं कर्म लिङ्गं तस्य व्यतिरिक्तज्योतिरव्यभिचारसाधनार्थमनेकपर्यायोपन्यासो बहवो हि दृष्टान्ता व्याप्तिं द्रढयन्तीत्यर्थः॥४६॥

आदित्येनैव चेत्पुंसोऽनुग्रहो भवतोच्यते॥
तस्मिन्नस्तंगते पुंस आसनादिः कु326तो भवेत्॥४७॥

चतुर्णां पर्यायाणां तात्पर्यं वदता प्रथमपर्यायस्थाक्षराणि व्याख्यातान्यधुना द्वितीयं प्रश्नं व्याकरोति। आदित्येनेति॥४७॥

चन्द्रमा एव पुंसोऽस्य तदा ज्योतिरनुग्रहे॥
तस्याप्यस्तमयेऽग्निः स्यादासनादिप्रवृत्तये॥४८॥

तत्र प्रत्युक्तिमाह। चन्द्रमा इति। तृतीयपर्यायार्थमाह। तस्यापीति॥४८॥

आदित्यादित्रयं ज्ञेयं ज्योतिषामुपलक्षणम्॥
मण्यादीनां प्रवृत्तिर्हि पुंसां तैरपि दृश्यते॥४९॥

** **मण्यादिज्योतिषामपि प्रवर्तकानां सत्त्वे किमित्यादित्यादित्रयमेवोच्यते तत्राऽऽह। आदित्यादीति। तेषामुपलक्ष्यमाणत्वे हेतुमाह। प्रवृत्तिरिति॥४९॥

तेष्वप्यस्तमितेष्वस्य पुंसो वाग्ज्योतिरिष्यताम्॥
वाक्चशब्दोऽत्र विज्ञेयो ज्योतिष्कार्यसमन्वयात्॥५०॥

चतुर्थपर्यायार्थमाह। तेष्वपीति। इन्द्रियं व्यावर्तयति। वागिति। शब्देन श्रोत्रसंस्कारात्तदधिष्ठातृमनोविवेकेन बाह्या चेष्टा तद्युक्तमत्र वागिति शब्दग्रहणमित्यर्थः। तस्य कथं ज्योतिष्ट्वमत आह। ज्योतिरिति। तन्निमित्तकार्यसंबन्धश्च वाचस्तस्माद्वै सम्राडित्यादावुक्तः॥५०॥

स्पर्शादिविषयाणां वागिह स्यादुपलक्षणम्॥
यतः स्पर्शादिनाऽप्येषां प्रवृतिर्दृश्यते नृणाम्॥५१॥

विषयान्तरेष्वपि प्रवृत्तिहेतुषु सत्सु कुतः शब्दस्यैव ग्रहस्तत्राऽऽह। स्पर्शादीति। तेषामुपलक्ष्यत्वे हेतुर्यत इति॥५१॥

बाह्यादित्यादिज्योतिर्भिः पुमान्संदीपितेन्द्रियः॥
प्रत्यक्चैतन्यसंदीप्तः सर्वाश्रेष्ठाः प्रपद्यते॥५२॥

प्रश्नान्तरार्थं वृत्तं कीर्तयति। बाह्येति॥५२॥

सर्वेष्वेतेषु शान्तेषु ज्योतिःषूक्तेषु कर्मणे॥
पुमान्किंज्योतिरेवायं तमस्यन्धेऽभिधीयताम्॥५३॥

तदादत्ते। सर्वेष्विति॥५३॥

सर्वचेष्टानिरोधोऽस्य पुंसः प्राप्तस्तदाऽसति॥
यथोक्तज्योतिषि ततो न स्युश्चेष्टा यथोदिताः॥५४॥

** **प्रसिद्धज्योतिरुपरमे किमिति ज्योतिरन्तरं पृच्छयते चेष्टा तु पुंसः स्वतो भविष्यति नेत्याह। सर्वेति। जाग्रदवस्थायामसत्यसंहते ज्योतिष्यासनाद्यभावः पुंसः सिद्धस्ततः स्वप्नादावादित्यादिज्योतिरुपरतौ प्रत्यग्ज्योतिष्यसति यथोक्तासनादिचेष्टायोगात्तद्धेतुत्वेन प्रष्टव्यं प्रत्यग्ज्योतिरित्यर्थः॥५४॥

स्मृतिस्वप्नसमाधाने पुरुषस्य समीक्ष्यते॥
चेष्टाऽतः पूर्ववत्तस्य ज्योतिस्तत्रानुमीयते॥५५॥

** **प्रसिद्धज्योतिरभावे प्रवृत्तिरेव नास्ति नातस्तद्धेतुत्वेन ज्योतिरन्तरं प्रश्नमर्हतीत्याशङ्क्याऽऽह। स्मृतीति। चेष्टादृष्टिपरामर्शार्थोऽतःशब्दः। पूर्ववज्जागरादिवत्। स्वप्नादौ प्रसिद्धज्योतिरभावेऽपि पुरुषचेष्टाया दृष्टत्वात्तद्धेतुत्वेन ज्योतिरनुमाय पृच्छयत इत्याह। व॥५५॥

बोद्धुः कर्तुश्च पुंसोऽस्य प्रवृत्तिर्येह काचन॥
यथोक्तज्योतिर्विरहे नासौ दृष्टा कदाचन॥५६॥

** **अनुमातुमादौ व्याप्तिमाह। बोद्धुरिति। यो व्यवहारः सोऽसंहतज्योतिर्निमित्तो यथाऽऽदित्याद्यधीनश्चैत्रादिव्यवहार इत्यर्थः॥५६॥

भान्वाद्युद्दीपिताक्षः सन्प्रमात्रादिः प्रसिध्यति॥
ततः कर्त्रादिसंसिद्धिः प्रमाकर्मफलं ततः॥५७॥

** **व्याप्तिभूमिं प्रपञ्चयति। भान्वादीति। आदित्याद्यनुगृहीतेन्द्रियस्तदधिष्ठातृमनोवच्छिन्नः सन्प्रमाता ततश्च कारकाप्रयोज्यत्वे327 सति तत्प्रयोक्तृतया कर्ता प्रमातृसिद्धौ प्रमातत्फलयोः कर्तृसिद्धौ क्रियातत्फलयोश्च सिद्धिरतो मैत्रस्य ज्ञानगत्यादिव्यवहारोऽतिरिक्तज्योतिर्निमित्त इत्यर्थः। प्रमेत्यादिरादिशब्दयोरर्थः॥५७॥

कूटस्थानित्ययोर्भासोर्मध्यवर्ती पुमानयम्॥
वाङ्मनःकायकर्माणि सर्वदैव प्रप328द्यते॥५८॥

** **या प्रवृत्तिः सा बाह्यज्योतिर्निमित्ता यथा जाग्रत्प्रवृत्तिरिति विपरीतव्याप्तिमाशङ्क्य किं सा तन्निमित्तैव किंवा तन्निमित्ताऽपीति विकल्प्याऽऽद्ये साध्यवैकल्यमाह। कूटस्थेति। द्वितीये व्यभिचारः स्वप्नादिव्यवहारे तददृष्टेरिति329 द्रष्टव्यम्॥५८॥

ध्वान्तादिविषयान्तोऽर्थो जडत्वान्नाऽऽत्मसिद्धिकृत्॥
आत्मज्योतिरभावेऽतो नाभावमपि विन्दति॥५९॥

किंच भावाभावव्यवहारानुपपत्त्या प्रत्यग्ज्योतिःसिद्धेरर्थापत्तिविरोध इत्याद्ये दोषान्तरमाह। ध्वान्ताद्धीति। अतो जडत्वादिति संबन्धः। कैमुतिकन्यायार्थोऽपिशब्दः॥५९॥

आगमापायिज्यो330तिर्भिर्धर्माधर्मनिबन्धना॥
संगतिः पुरुषस्यास्य निर्हेतुः प्रत्यगात्मना॥६०॥

** **नन्वादित्यादिज्योतिषां पुरुषप्रवृत्तिहेतुत्वं युक्तं प्रवर्त्यसंबन्धान्नाऽऽत्मज्योतिषस्तदभावात्तत्राऽऽह। आगमेति॥६०॥

कुम्भस्य वियता यद्वन्निर्हेतुः संगतिः सदा॥
विनश्वरी सहेतुश्च जलक्षीरादिसंगतिः॥६१॥

** **बुद्ध्यादेरजडप्रकाशसंगतिः स्वाभाविकीत्यत्र दृष्टान्तमाह। कुम्भस्येति। तस्य जडप्रकाशसंबन्धः सहेतुरित्यत्र दृष्टान्तो विनश्वरीति॥६१॥

यथेहासंहतान्येव भान्वादीनि प्रकुर्वते॥
अनुग्राह्येण पुंसेह सर्वदाऽनुग्रहं मुहुः॥६२॥

** **विवक्षितज्योतिषः स्वाभाविके कार्यकार331णसंबन्धे तद्धर्मता स्यात्तद्गतरूपादिवदित्याशङ्क्याऽऽह। यथेति। इहेति व्यवहारभूमिरुक्ता। इह प्रवर्त्ये पुंसीत्यर्थः। असंहतानि प्रवर्त्यधर्मत्वरहितानीत्यर्थः। मुहुरिति क्रियापदेन सर्वदेत्यसंहतानीत्यनेन संबध्यते। तद्वदजडं ज्योतिरपीति शेषः। विमतो332 नानुग्राह्यधर्मश्चक्षुराद्यतिरिक्तत्वे सत्यनुग्राहकत्वादादित्यादिवन्न च स्वाभाविके तस्य संघातसंबन्धेऽसङ्गताहतिरविद्यया तदङ्गीकारादिति भावः॥६२॥

अकारकात्मकान्येव पुंसः कारकरूपिणः॥
नाकृत्वा तानि कुर्वन्ति प्रकाशं गतिवद्यतः॥६३॥

** **प्रत्यग्ज्योतिर्नानुग्राहकं सक्रियत्वापत्तेरिति विशेष्यासिद्धिमाशङ्क्याऽऽह। अकारकेति। व्यञ्जकान्येवाऽऽदित्यादीन्यकृत्वा क्रियामप्राप्य पुरुषस्य प्रकाशाख्यमनुग्रहं कुर्वन्ति न तु तिष्ठतो विकारद्वारा गतिवदेतान्यनुग्राहकाण्यतो विवक्षितज्योतिष्यनुग्राहकत्वेऽपि न सक्रियतेत्यर्थः॥६३॥

व्यञ्जकानां हि सर्वेषां न स्वरूपातिरेकतः॥
व्यङ्ग्येष्वतिशयो दृष्टस्तिष्ठतो नु गतिर्यथा॥६४॥

** **वैधर्म्यदृष्टान्तं स्पष्टयन्नुक्तं प्रपञ्चयति। व्यञ्जकानामिति। तिष्ठतो हि जन्तोः स्वरूपातिरेकेणातिशयमपेक्ष्य गतिर्दृष्टा नैवमभिव्यङ्ग्येष्वभिव्यक्तिरभिव्यञ्जकसंनिधानातिरिक्तं विकारमपेक्षते तत्संनिधिसत्तामात्रेण तदभिव्यक्तिदर्शनादित्यर्थः॥६४॥

आत्मज्योतिस्तथैवेदं सदानस्तमितोदितम्॥
भान्वादिष्वपि सर्वेषु तदेव प्राग्विवक्षितम्॥६५॥

** **दार्ष्टान्तिकं निगमयति। आत्मेति। किंचाऽऽदित्यादिवन्नाऽऽत्मज्योतिषः साक्रियत्वं तत्रापि तदसिद्धेरात्मैव ज्योतिरथवेत्यत्र तेष्वपि प्रत्यग्ज्योतिष एव भासकत्वेनावस्थानोक्तेरित्याह। भान्वादिष्विति॥६५॥

पुंस्प्रवृत्तिरियं लिङ्गं यथोक्तज्योतिषो भवेत्॥
सर्वत्राव्यभिचारित्वात्तथा स्वप्नादिभूमिषु॥६६॥

पुंव्यापारस्यातिरिक्तज्योतिषा व्याप्तिं विपरीतव्याप्तिनिरासेनोक्त्वा व्याप्तिफलमाह। पुंस्प्रवृत्तिरिति। सर्वत्र देशे काले पुंसि चेत्यर्थः। व्याप्तस्य लिङ्गस्य पक्षधर्मतामाह। तथेति। पुंस्प्रवृत्तिर्दृष्टेति शेषः॥६६॥

जाग्रत्काले नरस्यास्य भान्वादिज्योतिषा यदा॥
चक्षुराद्यनुगृह्येत स्फुटा व्यवहृतिस्तदा॥६७॥

उक्तां व्याप्तिं जाग्रद्विषये हीत्यादिभाष्यार्थतया स्फुटयति। जाग्रदिति॥६७॥

एवं जागरिते तावदादित्याद्युक्तलक्षणम्॥
वि333भिन्नासंहतज्योतिरनुग्रहपुरःसरः॥
पुंव्यापारः सदक्षोत्थप्रमाणप्रमितः स्फुटः॥६८॥

व्याप्तिमुपसंहरति। एवमिति। उक्तलक्षणत्वमेव स्फुटयति334विभिन्नेत्यादिना। सदक्षेति निर्दुष्टकरणजन्यतया यत्प्रमारूपं ज्ञानं तेन प्रमितत्वादतिस्फुटोऽयमुक्तरूपो व्यापार इत्यर्थः॥६८॥

लिङ्गलिङ्ग्यभिसंबन्धो यस्मादेवं मि335तस्ततः॥
सर्वज्योतिरभावेऽपि तादृगेवानुमीयते॥६९॥

ज्योतिर्जागरिते यद्वद्रवीन्द्वादि समीक्ष्यते॥
नरव्यापारलिङ्गेन धूमाग्निवदसंशयम्॥७०॥

इदानीमनुमानमाह। लिङ्गेति। तादृगसंहतमिति यावत्। विमतो व्यवहारोऽसंहतज्योतिर्निबन्धनो व्यवहारस्वात्संमतवदित्यर्थः॥६९॥७०॥

लिङ्गात्सामान्यतो ज्ञाते विशेषेणाप्यनीक्षिते॥
भान्वादिवदतो राजा भूयः पप्रच्छ तं गुरुम्॥७१॥

नन्वनेनासंहते ज्योतिषि सिद्धे प्रश्नो नावकल्पते न हि स्वाधीने परापेक्षा तत्राऽऽह। लिङ्गादिति। विशेषतोऽनिरीक्षणे वैधर्म्यदृष्टान्तो भान्वादिवदिति। अनुमानस्य विशिष्टविषयतया निष्कृष्टविशेषबुभुत्सया प्रश्नोपपत्तिरित्याह। अत इति॥७१॥

शान्तेषु सर्वज्योतिःषु पूर्वोक्तेष्वस्य दे336हिनः॥
किंज्योतिरिति मे ब्रूहि पुंव्यापारानुभूतितः॥७२॥

** **प्रश्नप्रकारमभिनयति। शान्तेष्विति। सर्वज्योतिरुपरमे प्रवृत्तेरभावात्किं प्रश्नेनेत्याशक्याऽऽह। पुंव्यापारेति॥७२॥

सर्वज्योतिरुपरतौ भूरिव्यापारकारणम्॥
स्वयंज्योतिष्कमपि तं राजा पप्रच्छ मोहतः॥७३॥

** **आत्मनः स्वप्रकाशत्वेन स्वतः स्फुरणान्न तस्मिन्प्रश्नो न हि स ज्ञाते युक्तस्तदविश्रान्तेरित्याशङ्क्याऽऽह। सर्वेति॥७३॥

यत्प्रसादादविद्यादि सिध्यतीव दिवानिशम्॥
तमप्यपह्नुतेऽविद्या नाज्ञानस्यास्ति दुष्करम्॥७४॥

अज्ञानादपि स्वप्रकाशे न प्रश्नस्तस्यैव स्वसाधके प्रतीच्यसिद्धेरित्याशङ्क्याऽऽह। यत्प्रसादादिति। कुर्यान्मेरावणुधियमित्यादौ चाज्ञानस्य निरङ्कुशत्वमादर्शितमिति भावः॥७४॥

स्वतो बुद्धं स्वतः शुद्धं स्वतो मुक्तं निरात्मिका॥
अविचारितसंसिद्धिरविद्या लिङ्गते कथम्॥७५॥

** **तस्य दुष्करं नास्ति चेत्प्रतीचि स्वसंबन्धमपि वास्तवं प्रापयेदित्याशङ्क्याऽऽह। स्वत इति॥७५॥

निःसङ्गस्य ससङ्गेन कूटस्थस्य विकारिणा॥
पूर्णस्यानात्मना योगो वास्तवो नोपपद्यते॥७६॥

** **अविद्यात्मनोर्वास्तवासंबन्धे पूर्वोक्तां युक्तिं स्मारयति। निःसङ्गस्येति॥७६॥

सर्वज्योतिरुपरमे किंज्योतिरिति चोदिते॥
आत्मैवास्येति जनकं याज्ञवल्क्योऽप्युवाच ह॥७७॥

** **आत्मज्योतिषि प्रश्नमुक्त्वा प्रत्युक्तिमादत्ते। 337र्वज्योतिरिति। आत्मज्योतिषः सर्वसाधकत्वं प्रसिद्धमिति निपातार्थः॥७७॥

आत्मप्रत्यय आत्मैको द्वितीयः पुनरात्मनः॥
अनात्मप्रत्ययोऽतोऽहं स्वत एवास्मि केवलः॥७८॥

** **आत्मशब्दार्थमाह। आत्मेति। स्वप्रकाशोऽद्वयोऽत्राऽऽत्मेत्यर्थः। स्वप्रकाशत्वं साधयति। द्वितीय इति। अनात्मत्वमस्वप्रकाशत्वमव्या338पकमितो व्यावर्तमानं स्वव्याप्यं तदपि व्यावर्तयतीति भावः। अद्वयत्वमुपपादयति। अतोऽहमिति। अनात्मनो जाड्येन कल्पितत्वादात्मा स्वतोऽद्वय इत्यर्थः॥७८॥

न सामान्यं विशेषं वा प्रत्यग्धीरवगाहते॥
तद्याथात्म्यात्प्रतीचोऽतः सम्यग्दृष्ट्या न वीक्ष्यते॥७९॥

** **आत्मप्रत्ययो नाद्व्यविषयः सामान्यविशेषविषयत्वात्खण्डो गौरितिज्ञानवदित्याशङ्क्य हेत्वसिद्धिमाह। नेत्यादिना। प्रत्यगात्मैव सामान्यादेर्वास्तवं रूपमतो रजतादिवत्तस्य पृथगभावान्न सम्यग्धीविषयत्वं, प्रत्यग्धीविषयत्वं तु दूरनिरस्तमित्याह। अत इति॥७९॥

नाविद्याघस्मरैकात्म्यसम्यग्दृष्ट्या समीक्ष्यते॥
आत्माविद्या तदुत्थो वा बाध्यत्वाद्रज्जुसर्पवत्॥८०॥

** **तयोः सम्यग्धीविषयत्वाभावं साधयति। नाविद्येति। ज्ञातमैकात्म्यमविद्याया नाशकं, तद्यथा सम्यग्धियाऽनुभूयते नैवं द्वैतं तन्निरस्यत्वात्तद्वेद्यत्वायोगात्। न हि रज्ज्वां सर्पो विद्यानिरस्यस्तद्वेद्यं इत्यर्थः॥८०॥

आध्यात्मिकस्य नेत्रादेर्बाह्यज्योतिरसंगतौ॥
तद्द्वारेण प्रकाशोऽयं न मनस्युपजायते॥८१॥

** **उक्तरूपश्चेदात्मा तर्हि तदतिरिक्तज्योतिरभावात्प्रश्नप्रत्युक्त्योर्निर्विषयत्वं न चाऽऽत्मैव विषयस्तस्याविषयत्वान्न च मोहाद्विषयो, राज्ञो मोहात्प्रश्नेऽपि मुनेस्तदभावात्प्रत्युक्त्ययोगान्न च केवलस्याऽऽत्मनो व्यवहारहेतुतेष्टेत्याशङ्कां परिहर्तुं भूमिकां करोति। आध्यात्मिकस्येति। सत्यपि यथोक्तात्मनि जागरे च339 चक्षुरादेरादित्याद्यनुग्रहाभावे तद्द्वारा मनसि विवेकानुपपत्ते340र्व्यवहाराभावो दृष्ट इत्यर्थः॥८१॥

भान्वाद्यनुग्रहाभावे तस्मादेष पुमानिह॥
प्राप्तोऽद्रष्टा तथाऽश्रोता स्मृतिस्वप्नादिभूमिषु॥८२॥

उक्तन्यायं स्वप्नादावपि योजयति। भान्वादीति। जागरिते कदाचिद्व्यवहाराभावदर्शनं तत्पदेन परामृश्यते॥८२॥

मनसैवेक्षते यस्मात्सर्वानिन्द्रियगोचरान्॥
तदभावे पुमानेष किंज्योतिरिति कथ्यताम्॥८३॥

जाग्रति स्वप्नादौ वा मनसि प्रकाशाभावे किमित्यद्रष्टृत्वादिप्राप्तिः स्वभावतस्तत्सिद्धेरित्याशङ्क्य प्रश्नविषयमाह। मनसेति। तदभावे पुमानित्यत्र तस्मादिति वक्तव्यं यस्मादित्युपक्रमात्तच्छब्दश्च मनोविषयः। यद्यपि स्वप्ने मनोऽस्ति तथाऽपि तस्य विषयत्वान्न प्रकाशकतेति वक्ष्यते॥८३॥

आत्मैवास्य तदा ज्योतिर्भवतीत्यभ्यधादृषिः॥
आत्मनैव तदा चेष्टां ज्योतिषा संप्रपद्यते॥८४॥

आत्मोक्तरूपस्तदन्यज्ज्योतिश्च नास्ति तथाऽप्यनिर्धारणात्प्रश्ननिर्धारणार्थं परिहारमाह। आत्मैवेति। तदा सर्वज्योतिरुपरमावस्थायामित्यर्थः। मुनेर्मोहाभावात्प्रत्युक्त्यविषयत्वेऽप्यात्मनो यथाप्रश्नं प्रत्युक्तिद्वारा स्वप्रकाशत्वेनाविषयत्वं स्थाप्यत इति भावः। परिहारोक्तिं व्याकरोति। आत्मनेति। स्वप्नादौ वासनारूपा धीरात्मज्योतिर्दीपिता स्वव्यापारं करोतीत्यर्थः॥८४॥

प्रत्यक्षाद्युपलब्धौ यो341 बुद्धौ संस्कार आहितः॥
कर्मणोद्भावितः सोऽयं स्मृतिरूपेण जायते॥८५॥

** **कोऽसौ व्यापारो बुद्धेरित्याशङ्क्यस्वप्नादिभाविन्यः स्मृतीच्छादिवृत्तयः सर्वा इत्याह। प्रत्यक्षादीति॥८५॥

आत्मा स्वाभाससचिवो धियमिच्छादिरूपिणीम्॥
अनुगृह्णाति कर्मोत्थां प्रत्यगज्ञानकारणात्॥८६॥

** **बुद्धेरिच्छादिव्यापारवत्त्वेऽपि कथमात्मा निर्व्यापारस्तदनुग्राहकस्तत्राऽऽह। आत्मेति। स्वाज्ञानवशादात्मा बुद्ध्यादावुद्भूतः स्वा342भाससहायो बुद्ध्यादि स्वसंनिधिमात्रेण प्रकाशयतीत्यर्थः॥८६॥

यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः॥
क्षेत्रं क्षेत्री तथा कृत्स्नं व्यनक्तीति तथा स्मृतिः॥८७॥

तत्र भगवद्वाक्यं प्रमाणयति। यथेति॥८७॥

नानासंस्कारसंसर्गिप्रत्यगज्ञानमेव तत्॥
बुद्ध्यादिस्मृतिरूपेण प्रथते कर्मणो वशात्॥८८॥

** **इच्छादिरूपिणीं धियमात्मा भासयतीति वदता बुद्धिकार्यत्वमिच्छादेरुक्तं तदयुक्तमज्ञानस्य सर्वकारणत्वोपगमादित्याशङ्क्याऽऽह। नानेति। तदज्ञानमेव नानाभावनादिसहितं बुद्ध्यादिरूपेण तत्परिणामात्मना च प्राणिकर्मवशाद्विवर्तते तन्नाभ्युपगमहानिरित्यर्थः॥८८॥

भान्वादिवदतो बुद्धिं स्वाभासैकसहायवान्॥
अनुगृह्णाति कूटस्थः स्वात्माविद्यानुरोधतः॥८९॥

अज्ञानस्य सर्वकारणत्वे बुद्ध्याद्यनुग्राहकत्वमात्मनस्तद्वशादित्युक्तं युक्तमिति फलितमाह। भान्वादिवदिति॥८९॥

अनुग्राह्याभिसंबन्ध एकजातिसमन्वयात्॥
आदित्यादेरिहावाप्ति343रात्मनोऽज्ञानवर्त्मना॥९०॥

रूपादेर्भान्वादेश्च भौतिकत्वैकजातियोगादनुग्राह्यानुग्राहकत्वं344 युक्तं बुद्ध्यादेरात्मनश्च जाड्याजाड्यवैषम्यान्नैवमित्याशङ्क्याऽऽह। अनुग्राह्येति। इह बुद्ध्यादावज्ञानद्वाराऽऽत्मनस्तादात्म्यसंगतिरतः साजात्याभावेऽपि साक्षित्वलक्षणमनुग्राहकत्वमित्यर्थः॥९०॥

चिदाभाविद्ययैवाऽऽत्मा कूटस्थोऽप्येति साक्षिताम्॥
आगमापायिरू345पेषु स्थितोऽनेकेषु चैकलः॥९१॥

** **कूटस्थस्य कथं साक्षित्वं तत्राऽऽह। चिदाभेति। व्यभिचारिष्वव्यभिचारितया चितः साक्षित्वं साधयति। आगमेति॥९१॥

दृश्यार्थवदभिन्नोऽयं द्रष्टृदर्शनसाक्ष्यपि॥
द्रष्टृदर्शनभेदेऽपि न भेदोऽस्य मनागपि॥९२॥

** **अनेकेष्वेकत्वमयुक्तं रूपादिविषयभेदादिन्द्रियभेदवत्साक्ष्यभेदात्साक्षिभेदप्राप्तेरित्याशङ्क्याऽऽह। दृश्येति। यथा प्रकाश्यभेदेऽपि प्रकाशकः सविता न भिद्यते यथा वा सितासितादिभेदेऽपि चक्षुरेकं तथा साक्षी साक्ष्यभेदेऽपि भेदं नार्हतीत्यर्थः। दार्ष्टान्तिकं प्रपञ्चयति। द्रष्ट्रिति॥९२॥

कारणान्वयवद्बुद्धेश्चिदाभासोऽपि सर्वदा॥
चिदाभासातिरेकेण बुद्धेः परिणतिर्वृथा॥९३॥

साक्षित्वस्य सदाभावात्तद्धेतुरविद्या सदा स्यात्तथाच कुतो मुक्तिरित्याशङ्क्य यदा चिदाभासस्तदैव साक्षितेति विवक्षन्बुद्ध्यादिष्वाभासानुवृत्तिं साधयति। कारणेति। बुद्ध्यादेः स्वसत्तायां चिदाभासाव्यभिचारे युक्तिमाह। चिदाभासेति। तस्या जडतया स्वतःसाधकत्वायोगादित्यर्थः॥९३॥

विषयः प्रत्यगात्मा च स्वाभासेन विशेद्धियम्॥
स्वाभासवत्स्वयं साक्षाद्वियत्कुम्भादिंगं यथा॥९४॥

तस्यास्तद्व्याप्तावपि नाऽऽत्मनः346 साक्षित्वं विषयासंबन्धादित्याशङ्क्याऽऽह। विषय इति। घटादिरात्मा च स्वाकारवद्वृत्तिद्वारा बुद्धिस्थावतस्तयोर्योगात्तत्साक्षितेत्यर्थः। घटादेर्बाह्यस्य347बुद्ध्यनुप्रवेश348गौणत्ववदात्मनोऽपि तस्य गौणत्वं मुख्यसंबन्धाभावात्कुतः साक्षितेत्याशङ्क्याऽऽह। स्वाभासेति। यथा घटादिकमाकाशः साक्षाद्व्याप्नोति यथा वा चिदाभासो बुद्धिमज्ञानस्य तद्धेतोरव्यवधायकत्वात्स्वाङ्गमव्यवधायकमिति न्यायादेवमात्मा साक्षादेव बुद्ध्यादिषु व्याप्तस्तत्प्रत्यक्त्वात्त349द्युक्ता तस्याविद्यादिसाक्षितेत्यर्थः॥९४॥

योऽप्यविद्यादिसंबन्धः सोऽप्यविद्याप्रकल्पितः॥
वास्तवस्त्वभिसंबन्धो नोपपत्त्याऽऽत्मनो यतः॥९५॥

** **आत्मनोऽविद्यादिसंबन्धस्याऽऽविद्यत्वेऽन350वस्थानाद्वास्तवत्वमाशङ्क्याऽऽह। योऽपीति। अनवस्था तु परकीयसमवायादाविव समाधेयेति भावः। अपिभ्यां संबन्धे समाहितत्वमस्या द्योत्यते। संबन्धस्य कल्पितत्वे हेतुमाह। वास्तवस्त्विति। असङ्गत्वाद्वितीयत्वादिरुपपत्तिः॥९५॥

यथा ज्ञानप्रकाशाभ्यां संप्लुवेव नान्यथा॥
कुम्भादेः कर्मयोग्यत्वं स्यादेवं धिषणादिषु॥९६॥

बुद्धेश्चिदाकारेण बाह्याकारेण च संबन्धोऽस्तीत्युक्तं दृष्टान्तेन साधयति। यथेति। बुद्धिवृत्तिरूपज्ञानेनाऽऽदित्यादिप्रकाशेन च संबन्धे सत्येव घटादेर्व्यापारयोग्यत्वं दृष्टमेवं बुद्ध्यादिष्वाकारद्वयसंबन्धे सत्येव तद्योग्यत्वं स्यादित्यर्थः॥९६॥

चिद्बाह्याकृतिसंबन्धे कर्मणेऽलं भवेन्मतिः॥
तयोर्भिन्नाश्रयत्वे तु दुःख्यस्मीति न सिध्यति॥९७॥

दार्ष्टान्तिकं विवृणोति। चिदिति। चिद्विषयाकारयोरेकधीनिष्ठत्वाभावे दोषमाह। तयोरिति॥९७॥

कौटस्थ्याद्विक्रियाभावान्निश्चित्कत्वाद्विकारिणः॥
आत्मनः स्यादिदं विश्वमन्धकारप्रनृत्तव351त्॥९८॥

तत्र हेतुः। कौटस्थ्यादिति। आत्मनः कौटस्थ्यादित्यर्थः। दुःखीत्यादिप्रत्ययाभावे सर्वव्यवहारहानिमाह। स्यादिति॥९८॥

घटाद्याभासवत्तस्मान्मोहादेरभ्युपेयताम्॥
चिदाभासोऽपि सर्वत्र न वेद्मीत्यनुभूतितः॥९९॥

बाह्याकारस्य वृत्तिद्वारा धीसंक्रान्तिवच्चिदाभासव्याप्तिः सर्वावस्थासु मोहादेरस्तीति फलितमाह। घटादीति। तस्माच्चिदाभासविषयाकारयोरेकाश्रयत्वध्रौव्यादिति यावत्। घटः स्फुरतीत्याद्यनुभवात्तस्य चिदाभासव्याप्तावपि कथमज्ञानस्य बुद्ध्यादेश्च तद्व्याप्तिस्तत्राऽऽह। सर्वत्रेति॥९९॥

एषोऽस्यानुग्रहः श्रुत्या प्रतीचोऽत्र विवक्षितः॥
भान्वनुग्रहवत्पुंस आसनादिप्रसिद्धये॥१००॥

बुद्धितद्वृत्तिषु चिदाभासव्याप्तावपि कथं तदनुग्राहकत्वमात्मज्योतिषः श्रौतं सिध्यति तत्राऽऽह। एषोऽस्येति। श्रुत्वाऽऽत्मनैवायमित्याद्ययेति यावत्। अत्र बुद्ध्यादावित्यर्थः। प्रत्यगनुग्रहे दृष्टान्तः। भान्विति॥१००॥

आत्मेति प्राणपिण्डादितदंशसमुदायतः॥
तज्जात्याकृतिसंबन्धगुणकर्मविलक्षणः॥१०१॥

आत्मज्योतिषोऽनुग्राहकत्वं पुंस्याभासोदयरूपं प्रतिपाद्याऽऽत्मपदार्थं प्रपञ्चयति। आत्मेतीति। प्राणात्पिण्डादिन्द्रियादेस्तदंशेभ्यस्तत्समुदायात्तस्य पिण्डादेर्जात्याकृतिभ्यां संबन्धात्तद्गतगुणकर्मभ्यां च विलक्षणो यश्चिद्धातुः सोऽत्राऽऽत्मेत्यर्थः॥१०१॥

तत्सतत्त्वं तदात्मत्वादज्ञानाद्यवभासयत्॥
ज्योतिरेकात्मकं नित्यमसाधारणमानगम्॥१०२॥

कथं कार्यकर352णतत्संघा353ततद्धर्मविलक्षणस्याऽऽत्मत्वं तत्राऽऽह। तत्सतत्त्वमिति। यथोक्तं तस्य पिण्डादेर्वास्तवं रूपं तत्प्रत्यक्त्वादिति यावत्। तस्य कथं तज्ज्योतिष्ट्वंतदाह। अज्ञानादीति। आदित्यादेर्विशेषमाह। एकेति॥१०२॥

तदन्यस्य जडत्त्वाच्च नान्यप्रत्यक्ष354मिष्यते॥
तथाऽनतिशयत्वात्स्यान्न पुमन्तरगोचरः॥१०३॥

असाधारणमानगम्यमित्ययुक्तं प्रत्यक्षादिविषयत्वादित्याशङ्क्याऽऽह। तदन्यस्येति। आत्मनोऽन्यस्य जाड्यादजडस्यान्यस्याभावाच्च नान्यदीयप्रत्यक्षादिगम्यमात्मज्योतिरित्यर्थः। अजडस्यान्यस्य सत्त्वेऽपि न तद्गम्यं दीपयोरिवाविशेषादित्याह। तथेति॥१०३॥

शब्दादिगुणहीनत्वात्प्रत्यक्त्वासंहतत्वतः॥
दृष्टिमात्रस्वभावाच्च नाऽऽत्मा दर्शनमर्हति॥१०४॥

तस्याध्यक्षाद्यगम्यत्वे युक्त्यन्तरमाह। शब्दादीति॥१०४॥

देशान्तराद्यसंबन्धान्मोहाद्यव्यवधानतः॥
न च मोहादिवत्प्रत्यक्तथा दर्शनमर्हति॥१०५॥

अनुमानागम्यत्वे हेत्वन्तरमाह। देशान्तरादीति। किंचाज्ञानसंशयविपर्ययास्पृ355ष्टत्वादात्मनो न तस्मिन्मानप्रवृत्तिस्तदौपनिषदत्वं तु लक्षणयेति मत्वाऽऽह। मोहादीति। तस्य तदव्यवधानेऽपि दृश्यत्ववदात्मनोऽपि स्यादित्याशङ्क्याऽऽह। न चेति। प्रतीचः सर्वसाक्षित्वान्नाज्ञानादिसादृश्यमित्याह। तथेति॥१०५॥

नाऽऽदित्यादिसजातीयमात्मज्योतिरितीष्यताम्॥
तन्मानानवगम्यत्वादादित्यादेश्च तद्रहात्॥१०६॥

** **अथेदं भौतिकमनुग्राहकत्वादादित्यवदित्यनुमानान्नास्य स्वप्रकाशता तत्राऽऽह। नाऽऽदित्यादीति। आत्मज्योतिरित्यनेन तच्छब्दः संबध्यते। विमतमभौतिकममेयत्वाद्यद्भौतिकं तन्मेयं यथाऽऽदित्यादीति व्यतिरेकादिति भावः॥१०६॥

अनुग्राह्यसजातीयं यच्च ज्योतिरिहेष्यते॥
तच्चक्षुरादिकरणग्राह्यं दृष्टं घटादिवत्॥१०७॥

विमतमनुग्राह्यसजातीयं ज्योतिष्ट्वादादित्यवदित्याशङ्क्य मेयत्वोपाधिना दूषयति। अनुग्राह्येति॥१०७॥

न चाप्रमेयमिति तच्छश्शृङ्गादिवन्मतम्॥
तदनन्यमिति व्याप्तेः प्रत्यक्त्वाद्दिनकृद्यथा॥१०८॥

आत्मज्योतिष्यपि तुल्यं मेयत्वमन्यथा शशशृङ्गवदसत्त्वापत्तेरित्युपाधेः साधनव्याप्तिमाशङ्क्याऽऽह। न चेति। नामेयत्वमसत्त्वे निमित्तं किंतु जाड्यमिति मत्वाऽऽह। तदनन्यमिति। तस्याऽऽत्मनः स्वाभिन्नप्रकाशव्याप्तेर्नासत्तेत्यर्थः। जडत्वस्यापि साधनव्याप्तिमाशङ्क्यानात्मत्वोपाधिना दूषयति। प्रत्यक्त्वादिति। प्रकाशरूपत्वे दृष्टान्तमाह। दिनकृदिति॥१०८॥

प्रत्यक्षमानगम्यत्वं विषाणस्यावधारितम्॥
स्वभावस्तमृते शृङ्गं स्वभावमतिवर्तते॥१०९॥

आत्मज्योतिषो मेयत्वादृते सत्त्वे, शशशृङ्गस्यापि किं न356 स्यात्तत्राऽऽह। प्रत्यक्षेति। मानयोग्यस्य तदविषयत्वे युक्तमसत्त्वमिति भावः॥१०९॥

मानपादोपजीवित्वं स्वभावोऽनात्मवस्तुनः॥
मात्रादिसिद्धिदस्यैष स्वतःसिद्धेर्न सर्वदा॥११०॥

आत्मनोऽपि मानयोग्यत्वं स्वभावो वस्तुत्वाद्विषाणवत्तदभावे त्वसत्त्वमित्याशङ्क्याऽऽह। मानेति। तत्राप्यनात्मत्वमुपाधिरिति भावः। नन्वात्मैवाज्ञातः सर्वप्रमाणयोग्यो नार्थान्तरमिति ते मतं तत्कथमन्यथोच्यते तत्राऽऽह। मात्रादीति। सर्वसाधकस्याऽऽत्मनो नैष स्वभावो यन्मानयोग्यत्वं निरपेक्षतया सदास्फूर्तेस्तत्रोपाधिं पुरोधाय प्रवर्तमानान्यपि मानानि न तं विषयी कुर्वन्त्यन्यदेव तद्विदितादित्यादिश्रुतेस्तस्यैवमानयोग्यत्वोक्तिरपितदन्यावस्तुत्वद्योतनार्था न तद्विषयत्वार्थेति भावः॥ ११०॥

अस्तं यातेषु सर्वेषु ज्योतिःषूक्तेषु वासनाः॥
ज्योतिः प्रत्यक्स्वयं दृष्टमासनाद्याः प्रकाशयेत्॥१११॥

आत्मज्योतिषः स्वप्रकाशत्वं ज्योतिःशब्दार्पितमुक्त्वाऽऽत्मनैवायमित्यादेरर्थमुपसंहरति। अस्तमिति। उक्तेषु ज्योतिःषु सर्वेष्वस्तं यातेषु स्वयं दृष्टं प्रत्यग्ज्योतिरासनाद्या वासनाः प्रकाशयेदिति योजना। स्वप्नादावासनादीनां वासनामात्रत्वेनाऽऽभासत्वमित्यभिप्रेत्य वासनापदम्॥१११॥

एष आत्मा स्वयंज्योती रविसोमाग्निवाक्षु यः॥
यातेष्वस्तं दृशैवाऽऽस्ते भासयंश्चित्तचेष्टितम्॥११२॥

** **आत्मज्योतिः स्वयं दृष्टमित्यश्लिष्टं भासकत्वाद्दीपवदन्यभास्यत्वप्रसक्तेरित्याशङ्क्याऽऽह। एष इति। सर्वेषु ज्योतिःष्वस्तं गतेषु स्वरूपदृशैव चित्तं तच्चेष्टितं च भासयन्यो वर्तत एष स्वयंज्योतिरात्मा न तस्य भासकान्तरापेक्षा जडवैलक्षण्यादित्यर्थः॥११२॥

आत्मप्रत्ययमामेयः सर्वेषामपि देहिनाम्॥
यतोऽतोऽनात्मयोगोऽस्य न मानादवसीयते॥११३॥

नन्वात्मनो देहादिव्यतिरिक्तत्वं स्वप्रकाशत्वं च ब्रह्माभेदार्थं न च तदभेदः कर्तृत्वादियोगादत आह। आत्मेति। स्वप्रकाशत्वादेवाऽऽत्मनो न कर्तृत्वाद्यनात्मयोगः; स्वप्रकाशे मानात्तदसिद्धेस्तस्य तदविषयत्वात्तस्यापि स्वतःसिद्धावनतिरेकादित्यर्थः॥११३॥

न चेदात्मेतिधीमानात्प्रतीचोन्योऽर्थ ईक्ष्यते॥
प्रमान्तराविरोधेन य आत्मेत्युपपद्यते॥११४॥

** **किंचाऽऽत्मनः कर्तृत्वाद्यसंबन्धे य आत्माऽपहतपाप्मेत्यादिवाक्यमनुग्राहकमित्याह। न चेदिति। आत्माकारप्रत्ययप्रयोगाभ्यामात्मनोऽन्यः कर्तृत्वादिर्न गृह्यते चेत्कर्ताऽहमित्यादिप्रतीतेर्भ्रमत्वात्तद्विरोधाभावाद्य आत्माऽपहतपाप्मेत्याद्युपपन्नं य आत्मा सर्वान्तर इति चैक्यपरं वाक्यं समञ्जसमित्यर्थः॥११४॥

आत्मा ब्रह्मेति वाक्येभ्यस्तथाचेदं प्रतीयते॥
प्रत्यक्षाद्यनवष्टब्धमैकात्म्यं बाधवर्जितम्॥११५॥

** **उक्तयुक्तिमानाभ्यामात्मनि कर्तृत्वाद्यसंबन्धे तत्त्वमादिवाक्यमपि युक्तमित्याह। आत्मेति। इदमैकात्म्यमिति संबन्धः। प्रतीतेरनुवादत्वं व्युदस्यति। प्रत्यक्षादीति। संशयविपर्ययबहिर्भावं दर्शयति। बाधेति॥११५॥

ननु देहाद्यभिन्नत्वादात्मनो मुक्तता कुतः॥
प्रत्यक्षेण विरुद्धत्वादैकात्म्यं चापि न श्रुतेः॥११६॥

** **आत्मैवास्य ज्योतिरित्यत्राऽऽत्मा देहाद्यतिरिक्तः स्वयंज्योतिरशेषकर्तृत्वादिशून्यो ब्रह्मैवेत्युक्ते देहात्मवादी चोदयति। नन्विति। आत्मनो वक्ष्यमाणप्रत्यक्षेण देहादिमात्रत्वात्तस्य च कर्तृत्वादिसंभवात्तद्रूपस्य न तन्निर्मोकसिद्धिरित्यर्थः। यत्त्वयमात्मा ब्रह्मेत्यादिश्रुतेस्तद्ब्रह्मत्वं तत्राह। प्रत्यक्षेणेति। कर्ताऽहमित्याद्यध्यक्षविरोधे त्वदिष्टश्रुतेः

स्वार्थे तात्पर्यासिद्धेर्नाऽऽत्मनस्ततो ब्रह्मत्वं न च श्रुतिर्नाम मानं प्रत्यक्षस्यैव तद्भावात्तथाच बन्धध्वस्तेर्ब्रह्मत्वस्य वा विवक्षितमोक्षस्यासिद्धिरिति भावः॥११६॥

तथा हि क्षितितोयाग्निमरुतां योगजं मतम्॥
प्रत्येकं शक्त्यभावेऽपि चैतन्यं मदशक्तिवत्॥११७॥

यस्य चैतन्यं तस्यैवाऽऽत्मत्वाद्देहादेस्तदभावात्कथमात्मत्वं तत्राऽऽह। तथा हीति। पृथिव्यप्तेजोवायवस्तत्त्वानीति स्थितेस्तेषामेकैकस्य चिच्छक्त्यभावेऽपि यो योगः संघातो देहस्ततो जातं चैतन्यं तद्धर्मो यथा किण्वादीनां प्रत्येकमसत्यपि मदशक्तिः संघाताद्भवति तद्युक्ता देहस्याऽऽत्मतेत्यर्थः॥११७॥

अहं मनुष्य इत्येवं सामानाधिकरण्यतः॥
प्रत्यक्षबुद्धिर्देहेऽस्मिञ्जायते कृष्णसर्पवत्॥११८॥

चैतन्यदेहयोर्धर्मधर्मित्वे प्रत्यक्षं प्रमाणयति। अहमिति। कृष्णः सर्प इति सामानाधिकरण्यात्कार्ष्ण्यसर्पयोर्धर्मधर्मित्ववन्मनुष्योऽहमिति सामानाधिकरण्यादहमश्चैतन्यस्य मनुष्यत्वजातिमति देहे धर्मत्वविषयप्रत्यक्षरूपा धीरुदेतीत्यर्थः॥११८॥

न चाहंबुद्धिगम्योऽर्थो दृष्टो देहातिरेकतः॥
सर्पादेरिव कार्ष्ण्यादिर्देहधर्मस्ततश्चितिः॥११९॥

** **चैतन्यविशिष्टदेहस्याऽऽत्मत्वे प्रत्यक्षमुक्त्वा परेष्टात्मनि मानाभावमाह। न चेति। देहस्यैवाऽऽत्मत्वे प्रमाणभावे तदतिरिक्तात्मनि तदभावे च फलितमाह। सर्पादेरिति॥११९॥

ननु युक्ता357 पराग्भूते प्रमातुर्व्यतिरेकतः॥
सर्पादौ धर्मसंबन्धप्रमा नाऽऽत्मन्यभेदतः॥१२०॥

** **कृष्णसर्पवच्चैतन्यदेहयोर्धर्मधर्मित्वमाक्षिपति। नन्विति। सर्पात्तद्धर्माच्चातिरेकतस्तयोर्धर्मधर्मित्वस्य ग्रहीतुर्मातुर्भावादनात्मनि सर्पादौ कार्यादिसंबन्धप्रमेति युक्तं, न त्वात्मनि चैतन्ये धर्मधर्मित्वप्रमा तदतिरिक्तमात्राभावादित्यर्थः॥१२०॥

जडस्वभावतश्चापि कार्ष्ण्यादेर्धर्मतेष्यते॥
स्वसंविदितमात्रत्वान्न त्वेवंरूपता चितेः॥१२१॥

** **चिद्देहयोर्धर्मधर्मित्वाभावे हेत्वन्तरमाह। जडेति। एवंरूपता धर्मता॥१२१॥

यथैकबुद्धिनिर्ग्राह्यं द्रव्येणेह विशेषणम्॥
नैवं चित्काययोः सिद्धिश्चिच्छक्त्यविषयत्वतः॥१२२॥

** **नन्वजडत्वेऽपि चितो धर्मता जडात्मनि देहे किं न स्यादित्याशङ्क्याऽऽह। यथेति। एकबुद्धिबोध्ययोर्धर्मधर्मित्वं यथा रूपिणैकधीग्राह्यं रूपं358 तद्धर्मत्वेन तद्विशेषणं नैवं

चिद्देहयोरेकस्यां संविदि भानं चितोऽविषयत्वादतो न तयोर्धर्मधर्मितेत्यर्थः॥१२२॥

नैवं येनैव मानेन सत्ता संविद ईक्ष्यते॥
तेनैव धर्मता तस्याः कार्ष्ण्यादेरिव मीयते॥१२३॥

** **देहात्मवादी दूषयति। नैवमिति। युक्त्या हि त्वया चैतन्यदेहयोर्धर्मधर्मिता निरस्यते सा चाध्यक्षविरोधादाभासश्चितः सत्ताऽनुभवादिष्टा तद्धर्मतामपि साधयतितत्पारतन्त्र्यप्रसिद्धेरित्यर्थः॥१२३॥

ननु देह इदंबुद्धिर्घटादाविव जायते॥
प्रत्यग्बुद्धिस्त्वहंभागे नानयोर्धर्मधर्मिता॥१२४॥

** **इदमनिदंधीग्राह्ययोर्देहचितोर्न धर्मधर्मिता विरोधादिति शङ्कते। नन्विति॥१२४॥

यथैव पारिहार्यादि हेमैकद्रव्यनिष्ठितम्॥
अलब्धात्मकमन्यत्र लब्धात्मकमिवेक्ष्यते॥१२५॥

तथैव वस्तुस्वाभाव्याच्चिच्छक्तिर्भूतनिष्ठिता॥
अहमित्यादिबुद्धीनां व्यवहाराय कल्पते॥१२६॥

पूर्ववादी दृष्टान्तेन परिहरति। यथैवेति। रुचकस्वस्तिकादि हेमविकारत्वात्तद्गतमन्यत्रालब्धसत्ताकमपि ततो भिन्नमिव प्रयोगप्रत्ययावल359म्बनं दृष्टं तथा चैतन्यं भूतसंघातकार्यत्वस्वभाववशाद्देहधर्मत्वादन्यत्रालब्धात्मकमप्यहमात्मेत्यादिशब्दबुद्धीनां स्वतन्त्रवदालम्बनंनैतावता तस्यादेहधर्मता पारिहार्यादेर्हेमधर्मत्ववत्तस्य धर्मत्वाविरोधादित्यर्थः॥१२५॥१२६॥

चैतन्यं देहधर्मश्चेन्मृतावविकलस्य तत्॥
कस्मान्न गम्यते साक्षाज्जीवद्देहगतं यथा॥१२७॥

** **तत्रापि देहः स्फुरतीति तदीयतया भात्येव चैतन्यमित्याशङ्क्याऽऽह। साक्षादिति॥१२७॥

नैष दोषश्चतुर्णांहि भूतानां संहतिस्तनुः॥
ततो वायावपक्रान्ते चैतन्यमपि नश्यति॥१२८॥

** **तस्य संयोगादिवद्या360वदाश्रयभाविनोऽपि धर्मत्वसिद्धेर्नैवमिति पूर्ववाद्याह। नेत्यादिना। पृथिव्यादिचतुष्टयसंघातो देहो मृतिकाले वायोरपायादविकलसंघाताभावात्तत्कार्यचैतन्यमपि नश्यति संयोगादिवत्तस्य देहधर्मताऽवि361रुद्धेत्यर्थः। समूहकार्यस्य समृहिनामन्यतमाभावेऽपि न सत्तेत्यधिगतं सभायामिति वक्तुं हिशब्दः॥१२८॥

स्वप्नदेहादिसंबन्धिप्रत्यभिज्ञाबलान्ननु॥
व्यतिरेकश्चितेः सिद्धो भूतेभ्यो जाग्रतोऽप्यतः॥१२९॥

प्रत्यभिज्ञामाश्रित्य शङ्कते। स्वप्नेति। जाग्रद्देहान्मनुष्यरूपाद्व्याघ्रादिरूपः स्वाप्नो देहो भिद्यते तथाऽपि यः सुप्तः सोऽहमित्युभयदेहस्थचैतन्यप्रत्यभिज्ञानाद्देहान्तरधर्मस्य चान्यदेहा362न्वितत्वेन प्रत्यभिज्ञानाभावाञ्चैतन्यस्य देहद्वयारम्भकभूतेभ्यस्तदारब्धदेहद्वयाच्च व्यतिरेकः सिद्धोऽतो देहो नाऽऽत्मेत्यर्थः॥१२९॥

देहान्तरविनिर्माणं जाग्रच्चैतन्यवद्ध्रुवम्॥
करोति भूतसंघातः स्वप्नेबालयुवादिवत्॥१३०॥

** **पूर्ववाद्याह। देहान्तरेति। यथा बालदेहविशिष्टचैतन्यान्वितमेव युवशरीरं तद्विशिष्टचैतन्यविशिष्टं स्थविरशरीरमारभते भूतसमुदायो, न त्ववस्थाभेदेऽपि तत्र चैतन्यभेदस्तथा जाग्रद्देहगतचैतन्यविशिष्टमेव स्वप्ने देहान्तरं स करोत्यतश्चैतन्यस्य देहधर्मत्वेऽप्युभयत्रैक्यात्प्रत्यभिज्ञानमविरुद्धमित्यर्थः॥१३०॥

न चात्र प्रत्यभिज्ञाऽस्ति मिथ्यापरिणतेस्तव॥
नैव बाल्यादिवद्यस्मात्स्वप्ने देहः प्रतीयते॥१३१॥

** **स्वप्नादिदेहस्थचैतन्यविषयप्र363त्यभिज्ञाप्रामाण्यमुपेत्य देहात्मवादेऽपि तत्संभवमुक्त्वा तत्प्रामाण्यमेव नास्तीत्याह। न चेति। अत्रेति स्वप्नदेहस्थचैतन्योक्तिः। तत्र हेतुमाह। मिथ्येति। मायावादे मायामात्रं तु कार्त्स्न्येनेत्यादिन्यायेन स्वप्नस्य मिथ्यात्वात्तद्गतचैतन्यस्यापि तथात्वात्प्रत्यभिज्ञा भ्रान्तिरित्यर्थः। स्वपक्षेऽपि स्वप्नमिथ्यात्वे हेतुमाह। नैवेति। तस्मान्मिथ्येति शेषः॥१३१॥

जातिस्मरणदृष्टान्तादात्मा नित्यो मतो यदि॥
व्रणं पूर्वकृतं दृष्ट्वा देहः किं नोच्यते ध्रुवः॥१३२॥

** **ननु कश्चित्पूर्वजातिं स्मरति पूर्वत्राहं शूद्रोऽभूवं संप्रति ब्राह्मणोऽस्मीति न च देहद्वयवर्तिनि स्मर्तर्येकस्मिन्नसत्येषा युक्ता, तद्देहद्वयातिरिक्तात्मसिद्धौ तद्दृष्टान्तेन सर्वत्राप्यात्मैवंलक्षणः स्यादिति शङ्कते। जातीति। परस्य मतेऽपि जातिस्मृतिर्युक्तेत्याह। व्रणमिति। पूर्वस्मिञ्जन्मनि कस्यचिद्यस्मिन्देहदेशे शस्त्रादिकृतं व्रणमासीत्तत्प्रदेशे तद्युक्तमेव शरीरं तस्येदानीमनुभूयते तथा च शरीरमेव नित्यमात्मा चेत्यस्मत्पक्षसिद्धिरित्यर्थः॥१३२॥

प्रत्यभिज्ञानतस्तत्र ध्रौव्यं चेदात्मनो मतम्॥
स्वप्नात्मप्रत्यभिज्ञेयं मृषार्था साऽपि पूर्ववत्॥१३३॥

सशल्यदेहशायीनि भूतान्येव तथाविधम्॥
देहान्तरं करिष्यन्ति प्रत्यभिज्ञा यदीष्यते॥१३४॥

किंच जातिस्मरणं स्मृतिर्वा प्रत्यभिज्ञा वा नाऽऽद्यस्ततस्तन्नित्यत्वासिद्धेः स्मृतेरप्रामा-

ण्यादित्यभिप्रेत्य द्वितीयं शङ्कते। प्रत्यभिज्ञानत इति। तत्र पूर्वोत्तरदेहयोरिति यावत्। यः सुप्तः सोऽहमितिप्रत्यभिज्ञावदेषाऽपि प्रत्यभिज्ञा भ्रान्तिरेव तन्न जातिस्मृतिर्देहातिरिक्तात्मसाधनमिति दूषयति। स्वप्नेति। कारणदोषबाधधियोरभावान्नेयं भ्रान्तिरित्याशङ्क्याऽऽह। पूर्ववदिति। यदि यथोक्तन्यायात्प्रत्यभिज्ञेष्यते तर्हि यथा पूर्वत्र स्वप्नजाग्रद्देहस्थचैतन्यविशिष्टं देहान्तरमारभन्ते भूतानीति प्रत्यभिज्ञा परस्यापि सुप्रतिपादा तथा सव्रणदेहारम्भकतया तद्गतानि भूतानि तदेव शरीरं सव्रणमारभन्तेऽतो न प्रत्यभिज्ञया देहादिव्यतिरिक्तात्मसिद्धिरित्यर्थः॥१३३॥१३४॥

तान्येवैतानि भूतानीत्येवं यद्वत्प्रजायते॥
प्रत्यभिज्ञा स एवाहमिति यद्भवेन्न किम्॥१३५॥

** **पूर्वदेहः सव्रणो भस्मीभूतो नेदानींतनप्रत्यभिज्ञाविषयो भवेदित्याशङ्क्याऽऽह। तान्येवेति। सव्रणदेहारम्भकभूतेषु तव प्रत्यभिज्ञावन्ममापि तदारब्धे देहे तत्सिद्धिः। न हि पूर्वमसन्नेव देहः संप्रति भवत्यतिप्रसङ्गात्तस्माच्चैतन्यविशिष्टं शरीरमेवाऽऽत्मेन्यर्थः॥१३५॥

यच्चैतदात्मज्योतिष्ट्वंव्यतिरिक्ततयोदितम्॥
आदित्यादिलयेनेह भौतिकं त्वेव त364द्भवेत्॥१३६॥

** **आदित्यादिनिमित्तव्यवहारवद्व्यवहारत्वलिङ्गेन स्वप्नादिव्यवहारस्यातिरिक्तज्योतिर्निमित्तत्वानुमानात्कुतो देहात्मेत्याशङ्क्याऽऽह।365 365च्चेति। आत्मज्योतिष्ट्वं तद्रूपज्योतिषः सत्त्वमिति यावत्। व्यतिरिक्ततया संघाताद्व्यवहर्तुरिति शेषः। आदित्यादिलयेन प्रसिद्धसर्वज्योतिरस्तमयेऽपि दृश्यमानस्वप्नादिव्यवहारलिङ्गेनेत्यर्थः। आत्मज्योतिषो देहाद्यतिरेकेऽपि तद्भौतिकत्वमेव ज्योतिष्ट्वादादित्यवदित्याह। भौतिकमिति366॥१३६॥

उपकारि सजातीयमुपकार्यस्य वस्तुनः॥
जगत्यस्मिन्यतो दृष्टमादित्यश्चक्षुषोर्यथा॥१३७॥

तत्रानुमानान्तरं वक्तुं व्याप्तिमाह। उपकारीति। यतःशब्दस्योत्तरवार्तिकस्थातःशब्देन संबन्धः॥१३७॥

शब्दादिभिर्हि घ्राणा367देर्नोपकारः समीक्ष्यते॥
विजातीयैरतो ज्योतिर्भूतजातीयमिष्यताम्॥१३८॥

** **यदुपकारकं तदुपकार्यसजातीयमित्यन्वयमुक्त्वा व्यतिरेकमाह। शब्दादिभिरिति। अन्वयव्यतिरेकयोरुभयसंप्रतिपत्त्यर्थो हिशब्दः। विमतं देहादिजातीयमुपकारकत्वादादित्यवदिति फलितमाह। अत इति॥१३८॥

भौतिकस्यैव कुम्भादेर्भौतिकैरेव वीक्ष्यते॥
उपकारो जगत्यस्मिन्नादित्याद्यैर्यथा तथा॥१३९॥

आत्मज्योतिषो देहादिसाजात्येऽपि कथं भौतिकत्वमत आह। भौतिकस्येति। तथा भौतिकेनैवाऽऽत्मज्योतिषा भौतिकस्य देहादेरुपकारो वाच्य इति शेषः॥१३९॥

देहादेर्यदि नामेदं ज्योतिरर्थान्तरं मतम्॥
तथाऽपि नासजातीयं व्यञ्जकत्वात्प्रदीपवत्॥१४०॥

** **विमतं देहादिसजातीयं व्यञ्जकत्वाद्दीपवदित्यनुमानान्तरमाह। देहादेरिति॥१४०॥

ननु देहासजातीयमन्तस्थातीन्द्रियत्वतः॥
यद्यद्देहसजातीयं ज्योतिर्दृष्टं तदिन्द्रियैः॥१४१॥

** **विमतं देहादिविलक्षणमन्तस्थत्वादतीन्द्रियत्वाच्च व्यतिरेकेणाऽऽदित्यवदिति शङ्कते। नन्विति। विपक्षे हेत्वनुपपत्तिमाह। यद्यदिति। अनन्तस्थं चेति शेषः। तस्मादात्मज्योतिरपि देहादिसजातीयं चेदैन्द्रियकमनन्तस्थं च स्यादित्यर्थः॥१४१॥

मैवं नैकान्तिको हेतुश्चक्षुरादीन्द्रियैः स्फुटम्॥
अन्तस्थानि यतोऽक्षाणि प्रत्यक्षाणि न चाऽऽत्मवत्॥१४२॥

** **विरुद्धतया हेतुद्वयं निरस्यति। मैवमिति। विरुद्धत्वं स्फोरयति। अन्तस्थानीति। यथा तवाऽऽत्मा देहादेर्भिन्नोऽन्तस्थोऽतीन्द्रियश्च तथेन्द्रियाण्यपि गोलकवैलक्षण्योपगमाद्देहान्तस्थान्यतीन्द्रियाणि च त्वयेष्टानि तथाऽपि देहसजातीयानीति स्फुटा विरुद्धतेत्यर्थः॥१४२॥

आदित्यादिसजातीयमात्मज्योतिरतीन्द्रियम्॥
अन्तस्थातीन्द्रियत्वाभ्यां368 चक्षुरादीन्द्रियं यथा॥१४३॥

** **किंच विमतं देहसजातीयमन्तस्थत्वादतीन्द्रियत्वाच्च चक्षुरादिवदिति प्रत्यनुमानमाह। आदित्यादीति। आदित्यादिसजातीयदेहस्य तत्सजातीयं विमतमिति प्रतिज्ञार्थः॥१४३॥

विशेषेऽनुगमाभावः सामान्ये सिद्धसाध्यता॥
इत्यादिदोषदुष्टत्वान्न च नोऽनुमितिः प्रमा॥१४४॥

** **किंचानुमानप्रामाण्यमुपेत्योक्तं वस्तुतस्तु न तन्मानमित्याह। विशेष इति। पर्वतनितम्बवर्तिनि वह्निविशेषे साध्ये महानसे तदभावाद्दृष्टान्तस्य साध्यविकलता वह्निमात्रे साध्ये तस्य क्वापि सिद्धतया सिद्धसाध्यत्वादाश्रयासिद्धिर्धूमविशेषे च हेतौ साधनवैकल्यमसिद्धिर्वेति दोषदुष्टत्वान्नानुमानं मानमित्यर्थः। व्यक्त्योर्वा व्याप्तिर्जात्योर्वा तदाक्रान्तविशेषयोर्वा धूमवत्त्ववह्निमत्त्वयोर्वा? नाऽऽद्यः सर्वोपसंहारासिद्धेर्न द्वितीयस्तयोः

स्वरूपभेदाद्धर्मिभेदाच्च, न तृतीय उक्तदोषान्न चतुर्थ औपाधिकधर्मस्य स्वरूपातिरिक्तस्यानिरूपणादित्यादिशब्दार्थः॥१४४॥

अनुमानबलेनैव देहादिव्यतिरेकतः॥
प्रत्यगात्मा369 स्वयंज्योतिः साध्यते तच्च नानुमा॥१४५॥

** **देहाद्यतिरिक्तमात्मानं साधयतो नानिष्टमनुमानाप्रामाण्यं मानान्तरात्तत्सिद्धेरित्याशङ्क्याऽऽह।अनुमानेति। तच्चानुमानं नानुमानमिति यावत्॥१४५॥

प्रत्यक्षैकप्रमाणेन देहे चिद्धर्मकेऽञ्जसा॥
गृह्यमाणेऽनुमानेन न तच्छक्यं प्रबाधितुम्॥१४६॥

यत्तु देहो नाऽऽत्मा भौतिकत्वात्कुम्भवदिति तत्राऽऽह। प्रत्यक्षेति। अनुष्णतानुमानवदध्यक्षविरोधाद्देहानात्मत्वानुमानानुत्थानमिति भावः॥१४६॥

दर्शनादिक्रियां कुर्वन्सर्वदाऽव्यभिचारतः॥
प्रत्यक्षेणैव दृष्टोऽयं देहो नातस्ततोऽप370रः॥१४७॥

** **देहः स्वव्यतिरिक्तद्रष्टृको दृश्यत्वाद्घटवदित्याशङ्क्य प्रागुक्तदोषसाम्यान्मैवमित्याह। दर्शनादीति॥१४७॥

दर्शनादिक्रियाकारी देहश्चेदभ्युपेयते॥
कस्मादविकलस्यैव दृष्ट्यादिर्न तथेक्ष्यते॥१४८॥

** **देहो नाऽऽत्मा चैतन्यव्यभिचारित्वाद्घटवदिति शङ्कते। दर्शनादिक्रियेति। तथा स्वापमूर्छाद्यवस्थास्वपि पूर्ववदित्यर्थः॥१४८॥

नैष दोषो भवेदत्र प्रत्यक्षप्रमितत्वतः॥
न हि दृष्टं समुल्लङ्घ्य ततोऽन्यद्बलवन्मतम्॥१४९॥

** **स्वभाववाद्याह। नेत्यादिना। अत्रेति देहोक्तिः। कादाचित्कदर्शनादर्शनयोरिति शेषः। दृष्टमपि न्यायविरोधे त्याज्यमित्याशङ्क्याऽऽह। न हीति॥१४९॥

भास्वराभास्वरत्वं च प्रत्यक्षेणैव वीक्ष्यते॥
स्वद्योतस्यानुमानेन न हेत्वन्तरकल्पनम्॥१५०॥

** **कथं कादाचित्कस्य दर्शनादेः स्वभावत्वं वस्त्वस्ति स्वभावश्चापगच्छतीत्ययोगात्तत्राऽऽह। भास्वरेति। ननु स्वद्योतस्यापि भास्वरत्वादि हेत्वन्तरकृतं कादाचित्कत्वाद्घटवदित्याशङ्क्याऽऽह। अनुमानेनेति। प्रत्यक्षविरोधादिति भावः॥१५०॥

हेत्वन्तरेऽनुमेये च किंचित्सामान्यगन्धतः॥
सर्वं सर्वस्य लिङ्गं स्यात्तच्चानिष्टं प्रसज्यते॥१५१॥

कादाचित्कत्वेन स्वभावातिरिक्ते हेतावनुमेये वह्निरनुष्णो वस्तुत्वाज्जलवदित्यपि

स्यात्प्रत्यक्षविरोधस्य तुल्यत्वादित्यतिप्रसङ्गं दोषान्तरमाह। हेत्वन्तर इति। न च वह्नेरनुष्णत्वं युक्तं प्रमितपदार्थव्यवस्थादौस्थ्यप्रसङ्गादित्याह। तच्चेति॥१५१॥

न च नास्ति पदार्थानां लोकेऽसाधारणः क्वचित्॥
स्वभावोऽग्न्यादिकानां हि नोष्णत्वाद्यन्वहेतुतः॥१५२॥

** **पदार्थानां स्वभावो नाम नास्ति तत्कथं कादाचित्कदर्शनादेः स्वभावतेत्याशङ्क्याऽऽह। न चेति। असाधारण इति च्छेदः। तथाविधस्वभावसत्त्वमनुभवानुसारेणोदाहरति। अग्न्यादिकानामिति॥१५२॥

प्राणिधर्माद्यपेक्षं चेदुष्णत्वादि हविर्भुजः॥
नैवं तत्रापि दोषस्य प्र371सक्तेरनिवृत्तितः॥१५३॥

** **उष्णत्वाद्यपि न स्वभावो धर्मादिकृतत्वादिति शङ्कते। प्राणीति। धर्मादेरौष्ण्यादिहेतुत्वं स्वभावो न वा; स्वभावश्चेदग्नेरेव सोऽस्तु लाघवादस्वभावश्चेत्तत्राऽऽह। नैवमिति। धर्मादावपि धर्माद्यन्तरसापेक्षत्वप्रसक्तेर्दुर्वारत्वादयुक्तोऽस्वभाववाद इत्यर्थः॥१५३॥

तदप्यस्त्विति चेन्मैवं धर्मादेरप्रसिद्धितः॥
धर्माभ्युपगमे दोषो ह्यनवस्था प्रसज्यते॥१५४॥

** **धर्मादेरग्न्यादिष्वौष्ण्यादिसंपादनद्वारा फलदातृत्वे धर्माद्यन्तरापेक्षत्वेऽपि न क्षतिरिति शङ्कते। तदपीति। न हि धर्मादि प्रत्यक्षं त्वयाऽनभ्युपगमान्नापि प्रमाणान्तरगम्यमस्मन्मते तदभावादतस्तस्यैवाभावे धर्माद्यन्तरापेक्षत्वं दूरनिरस्तमिति परिहरति। मैवमिति। धर्मादेर्धर्माद्यन्तरसापेक्षत्वे दोषान्तरमाह। धर्मेति। धर्मान्तरेऽपि प्रथमधर्मादाविव सापेक्षत्वसाम्यादिति हिशब्दार्थः॥१५४॥

न चानवस्थया सिद्धिरभिप्रेतस्य वस्तुनः॥
तदलं क्षितितोयाग्निमरुतां परिणामजे।
चेतोवत्यक्षसंवेद्ये कष्टकल्पनयाऽनया॥१५५॥

अनवस्थाया मूलक्षयाभावाददोषत्वमाशङ्क्याऽऽह। न चेति। अभिप्रेतस्याग्न्यौष्ण्यादिद्वारा सुखादेर्धर्मादिकृतत्वस्येति यावत्। पूर्वपक्षमुपसंहरति। तदलमिति। चैतन्यविशिष्टे भूतचतुष्टयसंघातात्मना परिणते देहे प्रत्यक्षे सत्यतिरिक्तात्मकल्पना नमानफलवतीत्यर्थः॥१५५॥

सर्वतीर्थदृशां सिद्धिः स्वाभिप्रेतस्य वस्तुनः॥
यदभ्युपगमादेव तत्सिद्धिर्वार्यते कुतः॥१५६॥

किंचिन्मानमिच्छद्भिः सर्वैर्वादिभिर्देहाद्यतिरिक्तस्वप्रकाशो निर्विकारोऽभ्युपगन्तव्य-

श्चिद्धातुरिति सिद्धान्तयति। सर्वतीर्थेति। सर्वेषां शास्त्रकृतामभिमताऽज्ञातत्वादिधीर्नित्यानुभवबलादिति कृत्वा तादृगद्वितीयानुभवोऽभ्युपेयस्तैरित्यर्थः॥१५६॥

प्रत्यक्षेण विरुद्धत्वं न तावदुपपद्यते॥
विषयाभावतस्तस्य प्रामाण्यं दुर्लभं यतः372॥१५७॥

** **यत्तु प्रत्यक्षविरोधादैकात्म्यं न सिध्यतीति तत्राऽऽह। प्रत्यक्षेणेति। अद्वयानुभवातिरिक्तविषयाभावात्प्रत्यक्षस्य प्रामाण्यायोगान्न तद्विरोधः श्रुतेरित्यर्थः॥१५७॥

सर्वतीर्थदृशां तावत्सामान्यं मानलक्षणम्॥
अज्ञातार्थाधिगमनं त्वदुक्ते तन्न युज्यते॥१५८॥

** **कथं तस्यातिरिक्तविषयासत्त्वं स्तम्भादीनां तद्विषयत्वादित्याशङ्क्य तस्यातिरिक्तार्थासत्त्वं वक्तुं साधारणं मानलक्षणमाह। सर्वेति। त्वदिष्टेऽध्यक्षे न तल्लक्षणमज्ञातत्वसाधकाभावादज्ञातविषयासिद्धेरित्याह। त्वदुक्त इति॥१५८॥

प्राक्प्रमाणसमुत्पत्तेर्देहादेर्विषयस्य ते॥
प्रमाणहेतोः केन स्यादज्ञातत्वमितीर्यताम्॥१५९॥

कथं तत्साधकाभावो मानस्यैव साधकत्वादित्याशङ्क्याऽऽह। प्रागिति। नित्यानुभवविद्विषस्ते देहादिविषयस्य मानं प्रति कर्मतया हेतोर्मानोत्पत्तेः पुरा नाज्ञातत्वधीस्तद्विषयाभावान्न प्रमाणप्रवृत्तिरित्यर्थः॥१५९॥

स्वतः सिद्धोऽथवाऽसिद्धो देहादिस्ते भवन्भवेत्॥
प्रमाणानां प्रमाणत्वं नोभयत्रापि लभ्यते॥१६०॥

** **अज्ञातार्थाभावात्प्रत्यक्षाप्रामाण्यमुक्त्वा प्रकारान्तरेण तत्प्रामाण्यं प्रत्याख्यातुं विकल्पयति। स्वत इति। देहादेर्भवनमेव सतोऽसतो वा न युक्तमित्यरुचिं सूचयति। भवन्निति। पक्षयोर्दोषसत्त्वं प्रतिजानीते। प्रमाणानामिति॥१६०॥

प्रमाणान्यन्तरेणापि देहादिश्चेत्प्रसिध्यति॥
वद प्रमाणैः को न्वर्थो न हि सिद्धस्य साधनम्॥१६१॥

** **तद्विशदयन्नाद्यमनुद्रवति। प्रमाणानीति। तत्र प्रमाणवैयर्थ्यं दोषमाह। वदेति। देहादिप्रकाशनं तत्कृत्यमित्याशङ्क्याऽऽह। न हीति। साधनापर्यवसानादित्यर्थः॥१६१॥

स्वतोऽसिद्धेऽप्रमेये च नासतो व्यञ्जिका प्रमा॥
नाभिव्यनक्ति सविताखर373शृङ्गं स्फुरन्नपि॥१६२॥

** **द्वितीये स्वतोऽसिद्धस्य शशशृङ्गवदसत्त्वान्न तत्र प्रमाणानां प्रामाण्यमित्याह।

स्वत इति। अप्रमेये चेति च्छेदः। प्रमाणं प्रकाशकत्वादसतोऽपि व्यञ्जकमित्याशङ्क्याऽऽह। नेत्यादिना॥१६२॥

प्रमाणव्यतिरेकेण नाप्यसत्त्वं प्रसिध्यति॥
सत्त्ववन्नापि चाभेदे मानमेयौ प्रसिध्यतः॥१६३॥

प्रमाणं चेदसतो न व्यञ्जकं, तत्तर्हि स्वप्रकाशमिति चेन्नेत्याह। प्रमाणेति। तर्हि सत्त्ववदसत्त्वस्यापि प्रमाणादेव सिद्धिस्तत्खल्वसत्त्वमपि तद्रूपेण प्रकाशयति तत्कथमसतो न व्यञ्जकं मानं? तत्र किं मानमेययोरभेदो, भेदो वाऽऽद्यं दूषयति। नापीति॥१६३॥

यदि मानातिरिक्तार्थोऽमितः संभाव्यते तदा॥
तं बोधयद्भवे374न्मानं न तु तत्कुर्वदिष्यते॥१६४॥

द्वितीयमादत्ते। यदीति। प्राक्प्रमाणोत्पत्तेरज्ञातो, मानाद्भिन्नो मेयः संभाव्यते यदीत्यनुवादार्थः। अमित इति च्छेदः। तत्रापि मानं मेयबोधकं वा कारकं वा प्रथमं प्रत्याह। तदेति। किंतु त्वन्मते न बोधकत्वमज्ञातार्थाभावादिति शेषः। द्वितीयं दूषयति। न त्विति॥१६४॥

अबुद्धबोधनं मुक्त्वा नान्यत्कार्यं क्वचिद्यतः॥
सत्त्वं वा यदि वाऽसत्त्वं नातो मेये प्रमाणतः॥१६५॥

तत्र हेतुः। अबुद्धेति। मानस्य कारकत्वायोगं निगमयति। सत्त्वं वेति। अज्ञातज्ञापनस्वाभाव्यादित्यतःशब्दार्थः॥१६५॥

मानव्यापारतः पूर्वं सिद्धामेवावबोधयत्॥
शुक्तिकां मानतां याति, नासिद्धं रजतादिकम्॥१६६॥

** **कथं तेऽपि तस्य मानत्वं तत्राऽऽह। मानेति। प्रागेव मानोत्पत्तेरज्ञातत्वेन नित्यानुभवसिद्धशुक्त्यादिबोधकमस्मन्मते मानं, नाविद्यमानशुक्तिरजतादिबोधकमसति तस्मिन्नज्ञातत्वाद्यभावादित्यर्थः॥१६६॥

शुक्तौ रजतविज्ञानाच्छुक्तिवन्नामितं यतः॥
रजतं विद्यते किंचिद्विज्ञातं चाऽऽत्मवस्तुवत्॥१६७॥

** **शुक्तिरजताद्यपि स्वज्ञानात्प्रागज्ञातमस्तीति तत्रापि प्रमाणप्रवृत्तिः सुकरेत्याशङ्क्याऽऽह। शुक्ताविति। यथा शुक्तिरज्ञाता पूर्वं मानप्रवृत्तेरस्ति, नैवं रजतमज्ञातं शुक्तौ तज्ज्ञानात्प्रागवतिष्ठते; तत्र रजतज्ञानस्यातस्मिंस्तद्बुद्धितया भ्रमत्वेनाज्ञातासाधकत्वान्न चाऽऽत्मवज्ज्ञातं तदस्ति बाध्यत्वादतस्तज्ज्ञातमज्ञातं वा नास्तीत्यर्थः॥१६७॥

नातिरेकान्वयाभ्यां यद्वस्तु संभाव्यते कथम्॥
तत्प्रति स्यात्प्रमाणत्वं शुक्तिकारजते यथा॥१६८॥

** **मा भूदुभयथा रजतं, शुक्तिस्तु ज्ञानात्प्रागज्ञाता पश्चाज्ज्ञातेत्युक्तेर्जडे प्रमाणमिच्छतस्ते सिद्धान्तहानिरित्याशङ्क्याऽऽह। नातिरेकेति। न हि शुक्तावारोपिते रजते मानस्य मानत्वं तस्याज्ञातत्वज्ञातत्वयोरयोगात्तथा जडस्य कल्पितत्वान्मानायोग्यत्वात्तद्विषयत्वेनानुभवोऽभ्युपेय इत्यर्थः॥१६८॥

किं मानसंगतेरर्थे जातेयमवबुद्धता॥
किंवा प्रागपि संबन्धाद्बुद्धोऽर्थोऽभून्न मानतः॥१६९॥

** **तस्योपेयत्वे हेत्वन्तरं विमर्शपूर्वकमाह। किमिति। आद्ये मानसंबन्धादर्थे ज्ञातेऽज्ञाततासाधकोऽनुभवोऽभ्युपेयः साधकान्तराभावाद्द्वितीये मानवैयर्थ्यमित्यर्थः। संबन्धान्मानप्रतियोगिकादिति शेषः॥१६९॥

बोधात्मकत्वं च मितेः किमासीन्मेयसंगतेः॥
प्राग्वा मेयाभिसंबन्धान्मितेर्बोधात्मता भवेत्॥१७०॥

** **इतश्चानुभवोऽभ्युपगन्तव्य इत्याह। बोधेति। आद्ये मेयसंबन्धाधीनमानगतबोधकत्वसाधकत्वेनानुभवो मन्तव्यो न हि तदीयमवबोधकत्वं मेयादिना सिध्यति तस्य जडत्वेनासाधकत्वाद्द्वितीये मेयसंबन्धवैयर्थ्यमित्यर्थः॥१७०॥

नार्थानधिगतत्वं च प्रमाणेभ्यः प्रसिध्यति॥
रूपानधिगतत्वं नो न श्रोत्रादेः प्रमाणतः॥१७१॥

** **घटादिज्ञातत्वस्य तन्मानबोधकत्वस्य च साधकत्वेनानुभवस्योपेयत्वमुक्त्वा तदज्ञातत्वसाधकत्वेनापि तस्योपेयत्वमाह। नार्थेति। विषयस्थाज्ञातत्वस्यामेयत्वे दृष्टान्तमाह। रूपेति। न च रूपगतमज्ञातत्वं चक्षुषा ज्ञायते तस्य तज्ज्ञातत्वहेतुत्वान्न च स्वप्रवृत्तेः पूर्वं तदज्ञातत्वं ज्ञापयति तस्य वर्तमानमात्रग्राहित्वादिति भावः॥१७१॥

मानव्यापारतश्चेत्स्यान्मेयानधिगतिस्तदा॥
तद्व्यापारात्पुरा मेयः स्यात्स्वतोधिगतात्मकः॥१७२॥

** **मानं विषयस्थमज्ञातत्वं न ज्ञापयति किंतूत्पादयतीति शङ्कामनुभाष्य दूषयति। मानेति॥१७२॥

यत एवमतोऽवश्यं प्रमाणव्यापृतेः पुरा॥
मेयोऽधिगतः सिद्धो ह्यभ्युपेयोऽवबुद्धवत्॥१७३॥

** **मानस्याज्ञातत्वज्ञापकत्वोत्पादकत्वाभावे फलितमाह। यत इति। अवबुद्धवन्मानादूर्ध्वमिति शेषः। मानात्पूर्वोत्तरकालयोरज्ञातत्वज्ञातत्वसाधकत्वमनुभवस्यैवेतिद्योतनार्थो हिशब्दः॥१७३॥

न चानाहितसन्मानस्वतश्चिन्मात्रविग्रहात्॥
प्रत्वगैकात्म्यतोऽन्यत्र यथोक्तां धुरमुद्वहेत्॥१७४॥

** **भवतु मानात्प्रागज्ञातत्वं पश्चाच्चार्थस्य ज्ञातत्वं तथाऽपि कथं तदुभयसाधकत्वेनानुभवसिद्धिस्तत्राऽऽह। न चेति। अनाहितं विषयीकर्तुं न प्रवर्तितं निर्दुष्टं मानं यत्र स्वतश्चिन्मात्ररूपे तत्प्रत्यग्भूतमैकात्म्यं तदातिरेकेण प्रमाणबलान्नाज्ञातत्वादि सिध्यतीत्यर्थः। यद्वा यदनाहितमनाद्यनन्तं सदेकतानं सर्वसाधकं स्वतश्चिन्मात्रशरीरं प्रत्यग्भूतमैकात्म्यं तदतिरेकेण न प्रमाणतोऽज्ञातत्वादि सिध्यतीत्यर्थः॥१७४॥

न ह्यज्ञाते यथा ज्ञाते विशेषणविशेष्यता॥
ततश्च नैतत्संसिध्येदज्ञानादि प्रमाणतः॥१७५॥

** **तन्न प्रमेयमित्यत्र युक्त्यन्तरमाह। न हीति। अज्ञाते घटे घटो ज्ञात इति न विशेषणविशेष्यताधीर्विशेषणग्रहं विना विशिष्टाग्रहादेवं घटे ज्ञातेऽपि नाज्ञातो घट इति युक्तं, तस्मिन्मानप्रवृत्तावज्ञातत्वनिवृत्तेस्तस्मादज्ञातत्वं न मेयं, नापि ज्ञातत्वमनवस्थितेरित्युभयमप्रामाणिकमनुभवगम्यमात्रमित्यर्थः॥१७५॥

प्रमाणाच्चानधिगतौ तन्निवृत्तिः कुतो भवेत्॥
न दाहज्वरनुत्त्यर्थमग्निना स्याद्भिषक्क्रिया॥१७६॥

** **अज्ञातत्वस्य प्रामाणिकत्वे दोषान्तरमाह। प्रमाणाच्चेति। अज्ञातत्वसाधकमेव मानं तन्निवर्तकमपि स्यादिति नेत्याह। न दाहेति। तद्धेतोस्तन्निवर्तकत्वमदृष्टत्वादनिष्टमित्यर्थः॥१७६॥

साक्ष्यमातृप्रमारूपं मानभूमौ यथेक्ष्यते॥
नाज्ञातेऽनुभवादेषां कश्चिदन्यस्तथेक्ष्यते॥१७७॥

** **मा तर्हि मानादज्ञातत्वादि विज्ञायि तथाऽपि कथं तस्यानुभवसिद्धतेत्याशङ्क्याऽऽह। साक्ष्येति। यथा मानभूमौ साक्ष्यादीनां रूपमनुभवादनुभूयतेऽन्यथाऽनवस्थानात्तथैषां मात्रादीनामज्ञानभूमावज्ञातरूपेऽपि नानुभवादन्यः साधकोऽस्त्युक्तदोषसाम्यात्तस्मादुभयमनुभवायत्तमित्यर्थः॥१७७॥

प्रमाणव्यापृतेरूर्ध्वं ज्ञाताज्ञातद्वयं मिथः॥
संधत्तेऽनुभवेनैव न तदन्येन केनचित्॥१७८॥

** **इतश्चोभयं तदायत्तमित्याह। प्रमाणेति। एतावन्तं कालं योऽज्ञातोऽर्थस्तमिदानीं जानामीति मानव्यापारोत्तरकालमनुभवेनैव ज्ञाताज्ञाताख्यद्वयं परस्परमेकमनुसंधत्ते तेन तदुभयमनुभवसिद्धमेवेत्यर्थः॥१७८॥

यदि नाम न मानानि व्याप्रियन्ते विनिश्चितेः॥
प्राक्तथाऽप्यपलापोऽस्या नानुभूतेर्घटा375दिवत्॥१७९॥

ननु योऽनुभवो ज्ञातत्वादिसाधकस्तत्र मानं व्याप्रियते न वाऽऽद्येऽनुभाव्यतापातो द्वितीये त्वसत्तापत्तिस्तत्राऽऽह। यदीति। प्रमाणगोचरीभावविरहिणां घटादीनामपलापवदनुभूतेश्च निश्चयात्प्राक्तादर्थ्येन प्रमाणव्यापाराभावेऽपि नापलापो युक्तः स्वतः सिद्धेरित्यर्थः॥१७९॥

एवं सिद्धेऽप्यनुभवे स्वमहिम्ना पुरा मितेः॥
प्रमाणोत्पत्तिरन्वेष्या प्रत्यग्ध्वान्तापनुत्तये॥१८०॥

** **मानं विनाऽनुभवः सिद्धश्चेत्तत्र मानवैकल्यमित्याशङ्क्याऽऽह। एवमिति। अज्ञातत्वादिसाधकत्वप्रकारेणेत्यर्थः। अन्वेष्योत्पाद्यमानफलमाह। प्रत्यगिति। यद्यपि नप्रमाणमनुभवसाधकं तथाऽपि तद्गताज्ञाननिवर्तकत्वेन भवति तदर्थवदित्यर्थः॥१८०॥

अवबुद्धस्वभावोऽपि सहतेऽनवबुद्धताम्॥
वस्तुत्वान्न तमो हन्ति तथाऽपि प्रमितिं विना॥१८१॥

** **अनुभवात्मनि नाज्ञानं विरोधात्तत्कथं तद्ध्वंसार्थं मानमन्विष्यते तत्राऽऽह। अवबुद्धेति। वस्तुत्वात्तर्हि स्वयमेवाज्ञानमवस्तुरूपमनुभवो नाशयतु किं मानेनेत्याशङ्क्याऽऽह। नेति॥१८१॥

प्रमाणफलकारूढं स्वतमो हन्ति नान्यथा॥
वस्तु मेयाभिसंबद्धं मानं तद्वत्तमोपनुत्॥१८२॥

** **तर्हि मितिरेवाज्ञानं निवर्तयतु किं वस्तुनेत्याशङ्क्याऽऽह। प्रमाणेति। वस्तुनो मानस्य वा न स्वतोऽज्ञाननिवर्तकत्वं नित्यनिवृत्तिप्रसङ्गाज्जडत्वाच्चातो बुद्धीद्धो बोधो बोधेद्धा वा बुद्धिरज्ञानध्वंसिनीत्युभयमर्थवदित्यर्थः॥१८२॥

प्रत्यक्षमानसिद्ध्यर्थं तस्मात्प्रत्यक्षवादिना॥
प्राङ्मानादभ्युपेयोऽर्थो योऽज्ञातत्वादिसिद्धिकृत्॥१८३॥

** **अज्ञातेऽर्थे प्रत्यक्षप्रामाण्यमज्ञातत्वं च नित्यानुभवायत्तमिति तत्प्रामाण्यमिच्छता कूटस्थोऽनुभवोऽभ्युपेय इत्युपसंहरति। प्रत्यक्षेति॥१८३॥

वागादिव्यापृतेः कर्ता शब्दादिगुणलाञ्छितः॥
प्रत्यक्षो गम्यते मात्रा प्रतीचोऽत्यन्तभेदतः॥१८४॥

** **अनुभवस्याज्ञातत्वादिसाधकत्वेनोपगमेऽपि ततोऽन्यस्यैवाऽऽत्मतेत्याशङ्क्य स किं स्थूलो देहः सूक्ष्मो वेति विकल्प्याऽऽद्यं दूषयति। वागादीति। स्थूलो देहो वचनादानादि कुर्वाणः शब्दादिविशिष्टो ममेति प्रतीचो भेदेन प्रमात्रा प्रत्यक्षी क्रियते तन्न तस्याऽऽत्मत्वं प्रत्यक्षविरोधान्मनुष्योऽहमिति धीरयो दहतीतिवन्नेयेति भावः॥१८४॥

श्रोत्रादिव्यापृतो माता दुःखादिगुणवान्पराङ्॥376
377र्तेवानुभवेनैव प्रतीचा378 गम्यतेऽञ्जसा॥१८५॥

द्वितीयं प्रत्याह। श्रोत्रादीति। श्रोत्रनेत्रादिना शब्दरूपादौ श्रुतिदृष्ट्यादि कुर्वन्दुःखरागादिविशिष्टो माता प्रतीचाऽनुभवेन स्वस्माद्बाह्यो गृह्यते यथा कर्ता देहान्तो बुद्ध्यन्तेन मात्रा प्रतीचो बहिर्गृहीतस्तथा सोऽपि ततः स्वतो बहिर्गम्यते तन्न तस्याऽऽत्मतेत्यर्थः॥१८५॥

अनन्यानुभवः प्रत्यङ्न प्रमात्रादिगोचरः॥
यतोऽपहतपाप्मादि युक्तं स्यात्तद्विशेषणम्॥१८६॥

** **अनुभवोऽपि नाऽऽत्मा मात्रादिविषयत्वाद्देहवदित्याशङ्क्याऽऽह। अनन्येति। आदिपदेन साक्षी गृह्यते। ऐकात्म्यश्रुतेर्न प्रत्यक्षविरुद्धतेत्युपक्रान्तमुपसंहरति। यत इति। पापादिरशेषो विशेषो यतो देहद्वयधर्मो यतश्चाऽऽत्मा तद्व्यतिरिक्तोऽतोऽपहतपाप्मेत्याद्यात्मनो विशेषणं युक्तमिति ब्रह्मत्वेन तद्बोधयद्वाक्यं नाध्यक्षविरुद्धं तादृशेऽर्थे तदप्रवृत्तेरित्यर्थः॥१८६॥

लोकायतस्य बौद्धस्य कणभोज्याक्षपादयोः॥
प्रत्यक्षेणैव मानेन विमुखीकरणं कृतम्॥१८७॥

ननु लोकायतिकवैनाशिकौ नित्यानुभवं नाङ्गी कुर्वाते, वैशेषिकनैयायिको पुनस्तमङ्गीकुर्वन्तावपि तस्येश्वरगुणत्वेनानात्मत्वमाचक्षते, तत्कथं तस्यानुभवस्याऽऽत्मत्वं तत्राऽऽह। लोकायतस्येति॥१८७॥

प्रमाणफलयोर्भेदस्तथा मानप्रमेययोः॥
स्वतःकूटस्थचित्सिद्धिरैकात्म्यं चानुभूतितः॥१८८॥

कथं प्रत्यक्षेण तेषां विमुखीकरणमित्याशङ्क्याऽऽद्यौ प्रत्याह। प्रमाणेति। मानादिभेदभानमन्यथाऽनुपपत्त्या नित्यानुभवं साधयच्चार्वाकादिवैमुख्ये हेतुः। न हि तद्भानं प्रामाणिकमनवस्थितेरित्यर्थः। द्वितीयौ प्रत्याह। ऐकात्म्यं चेति। विद्वदनुभवादागमाद्यनुगृहीतादात्मनो नित्यानुभवमात्रत्वसिद्धेर्वैशेषिकादिवैमुख्यमित्यर्थः। तादृगात्मत्वसिद्धौ मीमांसकादेरपि विमुखतेति चार्थः॥१८८॥

प्रत्यक्षं मानमेवेदमिति यस्मात्प्रसिध्यति॥
प्रत्यक्षदृक्स्वयंज्योतिस्तदात्मेत्यभ्युपेयताम्॥१८९॥

तद्वैमुख्ये हेत्वन्तरमाह। प्रत्यक्षमिति। प्रमाणमेव प्रत्यक्षमिति सर्वाविवादं न च तत्स्ववे379द्यमनिष्टत्वादयुक्तत्वाच्चातस्तत्साधकमात्मज्योतिर्नित्यमेष्टव्यमित्यर्थः॥१८९॥

मेयादींस्तदभावं च संशयानृतनिश्चयान्॥
विविच्य योऽनुगृह्णाति शब्दादींश्च जडान्पृथक्॥१९०॥

देहेन्द्रियमनोबुद्धीः सुखादींश्च घटादिवत्॥
तमेकमन्तरात्मानमप्रत्यक्षं प्रपश्य भोः॥१९१॥

** **प्रत्यक्षदृगिति विशेषणादात्मज्योतिषः सर्वदृक्त्वोपगमहानिरित्याशङ्क्याऽऽह। मेयादीनिति। तस्यैतेषु सर्वेषु प्रकाशकत्वे तेषां जाड्येन प्रकाशान्तरापेक्षत्वं हेतुरित्याह। जडानिति। यत्तु देहादन्यो नाऽऽत्मा दृष्ट इति तत्राऽऽह। तमिति॥१९०॥१९१॥

द्रष्टृदर्शनदृश्यांश्च यः स्वप्नेप्रसमीक्षते॥
तदभावं सुषुप्ते च स आत्मेत्यभ्युपेयताम्॥१९२॥

** **प्रपश्येत्युक्या दर्शनविषयत्वप्रतीतेरप्रत्यक्षविशेषणायोगमाशङ्क्याऽऽह। द्रष्ट्रिति। स्वप्नशब्देन जागरितमपि गृहीतं तत्रापि श्रुतौ स्वप्नशब्ददर्शनाद्दर्शनादिभावाभावसाधकं स्वयंज्योतिरात्मा न दर्शनादिविषयः स्वानुभवसिद्धेरित्यर्थः॥१९२॥

चक्षुरादीन्द्रियाणां च न च स्वप्नेऽस्ति संभवः॥
सुषुप्ते चानुभूतिस्तु तयोरव्यभिचारिणी॥१९३॥

** **स्वप्नादौमात्रादिवशादेव दृश्यादिभावाभावानुभवसंभवान्नेष्टात्मसिद्धिरित्याशङ्क्याऽऽह। चक्षुरादीति। स्वप्नस्वापयोर्वासनां हित्वा मात्रादेरभावाद्वासनायाश्च स्वापे कारणातिरेकिण्याः सत्त्वानङ्गीकारान्नित्यानुभवाख्यात्मवशादेव तत्र भावाभावभानमन्यथाऽवस्थाभेदानुपपत्तिरित्यर्थः। तत्रानुभवोऽपि चक्षुरादिवन्नास्तीत्याशङ्क्याऽऽह। अनुभूतिस्त्विति। अन्यथा तदसिद्धेः परामर्शासिद्धिरिति भावः॥१९३॥

प्रमाणं मेयविषयं तत्फलं मातृसंश्रयम्॥
यत्साक्षिकं द्वयं सिध्येत्स आत्मेत्यभ्युपेयताम्॥१९४॥

** **इतश्चाऽऽत्मा नित्यानुभवात्मकोऽभ्युपेय इत्याह। प्रमाणमिति॥१९४॥

मानस्य हि फलं यत्र न तन्मानस्य गोचरः॥
तस्य मेयैकनिष्ठत्वात्फलं तु स्यात्प्रमातरि॥१९५॥

** **मानवशाद्द्वयं सेत्स्यति किं त्वदिष्टानुभवेनेत्याशङ्क्याऽऽह। मानस्येति। फलस्याऽऽश्रयसापेक्षत्वद्योतको हिशब्दः। तस्य मेयमात्रविषयत्वेऽपि फलस्य मेयाश्रितत्वाद्युक्ता तदाश्रयस्य मानविषयतेत्याशङ्क्याऽऽह। फलं त्विति॥१९५॥

प्रत्यक्षं वर्तते यत्र तत्फलं तत्र नेक्ष्यते॥
तत्फलं वर्तते यत्र मानं तत्र न वर्तते॥१९६॥

** **अस्तु तर्हि मातुरपि मानविषयत्वं किं मेयविषयत्वनियमेनेति तत्राऽऽह। प्रत्यक्षमिति। न हि विषयनिष्ठं संवेदनंतस्य चेतनत्वप्रसङ्गान्न च माता मानगोचरोऽनवस्थानादित्यर्थः॥१९६॥

एवं सति प्रमामातृफ380लमेयात्मनां तव॥
कुतः प्रत्यक्षतासिद्धिर्यदि नाऽऽत्माऽभ्युपेयते॥१९७॥

** **मात्रादेर्मानाविषयत्वे तत्साधकत्वेन नित्यानुभवाख्यात्मज्योतिरेष्टव्यमिति फलितमाह। एवं सतीति॥१९७॥

व्यभिचारिषु सर्वेषु प्रत्यगात्मैकसाक्षिषु॥
प्रत्यक्प्रत्यय एवैकः सर्वत्राव्यभिचारवान्॥१९८॥

** **विमतो न नित्योऽनुभवत्वाद्घटानुभववदित्यनुमानादिष्टसिद्ध्यभावमाशङ्क्याऽऽह। व्यभिचारिष्विति। व्यभिचारिसिद्ध्यनुपपत्तिरव्यभिचारिणमनुभवं साधयन्ती त्वदनुमानस्य बाधिकेति भावः॥१९८॥

एवं प्रत्यक्षतस्तावद्देहादिव्यतिरेकतः॥
तथाऽनुभवतः साक्षादात्माऽयं प्रतिपादितः॥१९९॥

** **उक्तं संक्षिप्योपसंहरति। एवमिति। नित्यानुभवाख्यात्मवशादज्ञातत्वसिद्धेरज्ञाते चार्थे प्रत्यक्षप्रामाण्यात्तद्बलाद्विद्वदनुभवाच्चायमात्मा देहाद्यतिरिक्तः सर्वतीर्थदृशामित्याद्युक्तनीत्या साक्षात्तावत्प्रतिपादित इत्यर्थः॥१९९॥

यच्चैतत्कृष्णसर्पादिदृष्टान्ताद्भवतोदितम्॥
अहं मनुष्य इत्यादि तत्र प्रतिविधीयते॥२००॥

** **लोकायतव्याजेन कूटस्थोऽनुभवोऽद्वयः स्वप्रकाशः सर्वानेव वादिनः प्रत्युक्त, इदानीमहं मनुष्य इत्येवमित्यादिना परेणोक्तमनुभाष्य तत्र दोषसत्त्वं प्रतिजानीते। यच्चेति॥२००॥

चैतन्यं कायधर्मश्चेन्मनुष्योऽसाविति प्रमा॥
असाधारणतो न स्यादहं वेद्मीतिवत्तदा॥२०१॥

** **दोषमेव दर्शयति। चैतन्यमिति। यद्यहंरूपं चैतन्यं देहधर्मस्तदा घटमहं वेद्मीति स्वदेहेऽहंधर्मवत्यहंबुद्धिवत्परदेहेऽपि सा स्यात्सर्वदेहेष्वहमश्चैतन्यस्य साधारणधर्मत्वादतो मनुष्योऽसाविति प्रमा स्वदेहवद्देहान्तरेऽपि न स्याद्यथा शुक्लेषु पटेषु सर्वत्र शुक्लबुद्धिरेवं चैतन्यधर्मकेषु सर्वदेहेष्वहंबुद्धिरेव युक्ता। चैतन्यस्याहमोऽन्यत्वेऽपि देहधर्मत्वे स्वदेहवदितरत्रापि तद्धीः स्यान्न चैवमस्त्यतो न देहधर्मश्चैतन्यमित्यर्थः॥२०१॥

समवेतं हि यत्र चैतन्यं स्वाच्छरीरके॥
तस्यैव तद्भवेत्साक्षान्नान्यदेहाश्रितस्य तत्॥२०२॥

** **स्वदेहे स्वस्याहंधीवत्परदेहेऽपि परस्य तद्भावादविरुद्धा सर्वदेहेषु तद्धीरित्याश-

ङ्क्याऽऽह। समवेतं हीति। यत्र देहे यच्चैतन्यं समवेतं तस्यैव देहस्य चैतन्यविशिष्टस्य तद्विशेषणमहमिति साक्षाद्भवेद्देहान्तराश्रितस्य तु चैतन्यस्य नान्याश्रितं तत्साक्षाद्भवत्यतो बहवो देहाश्चैतन्यविशिष्टा न प्रत्यक्षतः शक्या द्रष्टुमिति प्रत्यक्षैकप्रमाणवादिनश्चैतन्याद्वैतसिद्धेर्न तत्र तत्राहंबुद्धिव्यवस्था स्यादित्यर्थः॥२०२॥

करणव्यापृतिं चर्ते मनुष्योऽस्मीति धीर्भवेत्॥
पूर्ववन्न तु तत्तादृग्देहाद्भिन्ना ततश्चितिः॥२०३॥

** **यद्यन्याश्रितस्यापि चैतन्यस्य देहान्तराश्रितं तत्साक्षाद्भवति तत्राऽऽह। करणेति। यथा पूर्वमात्मत्वेन गृहीते स्वदेहे मनुष्योऽहमिति करणव्यापारादृते धीरुदेति तथा परदेहेष्वपि तस्यैवैकस्य विना करणव्यापारं चैत्रोऽहं मैत्रोऽहमिति धीः स्यान्न तु तत्रान्यदेहेषु तादृक्प्रत्ययोऽस्यास्ति तन्न देहधर्मश्चैतन्यमित्यर्थः॥२०३॥

न चाहंबुद्धिनिर्ग्राह्यमिदंधीग्राह्यगोचरः॥
विरोधान्न हि शीतत्वमुष्णस्याग्नेर्विशेषणम्॥२०४॥

** **तत्र हेत्वन्तरमाह। न चेति। अहंधीग्राह्यं चैतन्यमिदंधीग्राह्यस्य देहस्य धर्मत्वेन न विशेषणमहमिदंधीग्राह्ययोर्मिथोविरोधाद्धर्मधर्मित्वायोगादित्यर्थः। तत्र दृष्टान्तमाह। न हीति॥२०४॥

कायस्यापि न चैतन्यमेवमेव विशेषणम्॥
विरोधिना जडत्वेन व्याप्तेः किमु परस्य तत्॥२०५॥

दार्ष्टान्तिकमाह। कायस्येति। तत्रोक्तमेव हेतुं स्मारयति। विरोधिनेति। चैतन्यविरोधिजाड्येन देहस्य व्याप्तेर्न तत्तद्विशेषणं स्यादित्यर्थः। देहेऽहंबुद्ध्युत्पत्तेश्चैतन्यस्य तद्धर्मत्वं शङ्क्यते शब्दादिषु तदभावान्न तच्छङ्काऽपीत्याह। किम्विति॥२०५॥

विशेष्यमपि नाऽऽप्नोति धर्मान्तरविशेषितम्॥
विशेष्यमात्रनिष्ठत्वादन्यत्र स्यात्कथं नु तत्॥२०६॥

तदेव प्रकटयति। विशेष्यमिति। मनुष्योऽहमितिधीदृष्टेश्चैतन्यस्य विशेष्यत्वेन प्राप्तमपि देहं न तद्विशेषणत्वेन व्याप्नोति स्वविरोधिना जाड्येन तस्य विशेषितत्वात्तच्छब्दादिष्वहंधीहीनेषु न कथंचित्स्यादतो विशेष्यं स्वप्रधानं चिद्रूपं तस्मिन्स्वम381हिम्नि स्थितत्वान्न तस्य क्वापि धर्मतेत्यर्थः॥२०६॥

विशेषणविशेष्यत्वे सं382गतिश्चेद्भवेत्तयोः॥
एकप्रत्ययगम्यत्वं स्यात्तदा कृष्णसर्पवत्॥२०७॥

चैतन्यदेहयोरधर्मधर्मित्वे युक्त्यन्तरमाह। विशेषणेति। न चैकधीवेद्यत्वं चैतन्यस्यावेद्यत्वादिति शेषः॥२०७॥

आविद्वदङ्गनाबालं देहादौ घटवन्मतिः॥
पृथक्त्वेन भवन्तीयं कथं स्याच्चिद्विशेषिता॥२०८॥

** **किंच देहस्यानात्मत्वप्रसिद्धेर्न तद्धर्मश्चैतन्यमित्याह। आविद्वदिति। न हि मम शरीरमिति विद्वदविद्वत्प्रसिद्धं शरीरमात्मा भवितुमलं; घटादावपि प्रसङ्गात्तत्राहंबुद्धिस्तु प्रागेव प्रतिनीतेति भावः॥२०८॥

मातारमपि नाऽऽप्नोति यत्प्रमेयैकनिष्ठितम्॥
प्रत्यक्षं तस्य का शक्तिः स्वार्थायां चिति वर्तितुम्॥२०९॥

** **किंच रूपादेर्वेद्यस्यैव देहधर्मत्वं दृष्टं, चैतन्यस्य तदभावान्न तद्धर्मतेत्याह। मातारमिति। प्रत्यक्षस्य प्रमात्रविषयत्वे हेतुमाह। प्रमेयेति॥२०९॥

असाधारणरूपोत्थज्ञानेनैव प्रमीयते॥
यथा घटस्तथैवाऽऽत्मा नानात्मप्रत्ययप्रमः॥२१०॥

स्वार्था निरपेक्षत्वेन स्फुरन्ती चितिरित्येवमर्थं वैधर्म्यदृष्टान्तेन साधयति। असाधारणेति॥२१०॥

स्वार्थं सन्न परार्थस्य स्वातन्त्र्यात्स्याद्विशेषणम्॥
न च चैतन्यमित्किंचिच्चैतन्याल्लभ्यते पृथक्॥२११॥

** **किंच चैतन्यस्य स्वार्थत्वान्न परार्थविशेषणत्वं, स्वतन्त्रस्य परतन्त्रं प्रति विशेषणत्वायोगादित्याह। स्वार्थमिति। कथं चैतन्यं स्वतन्त्रं ग्राहकतन्त्रत्वादित्याशङ्क्याऽऽह। न चेति॥२११॥

ग्रहीत्रेव हि चैतन्यमात्मनोऽनात्मनस्तथा॥
ग्रहीतुर्ग्राह्यता लोके न न्यायेनोपपद्यते॥२१२॥

तस्य ग्राहकत्वान्न तत्तन्त्रमित्युक्तेऽर्थे हेतुमाह। ग्रहीत्रिति। अत एव न ग्राह्यताऽन्यथाऽनवस्थानादित्याह। ग्रहीतुरिति॥२१२॥

प्रत्यक्तया विभिन्नस्य चैतन्यस्य विशेषणम्॥
पराक्त्वान्नापि कायः स्याच्छीततेव विभावसोः॥२१३॥

** **चैतन्यस्य स्वातन्त्र्याद्देहाविशेषणत्वेऽपि तस्य पारतन्त्र्यात्तद्विशेषणत्वं स्यादित्याशङ्क्याऽऽह। प्रत्यक्तयेति। देहस्य चिद्विशेषणत्वाभावे दृष्टान्तमाह। शीतेति॥२१३॥

पारिहार्यादिगं हे383म्नि प्रमाणं मेयनिष्ठितम्॥
कथमात्मचितौ तत्स्यात्तद्विरुद्धार्थसिद्धये॥२१४॥

** **चिद्देहयोर्मिथो विरोधान्न धर्मधर्मितेत्युक्तमिदानीं यथैव पारिहार्यादीत्यादिनोक्तं विध-

टयति। पारिहार्यादीति। हेम्नि कारणे स्थितं स्वस्तिकादिकार्यं तद्विषयं प्रमाणमतस्तत्र पृथगेव प्रयोगप्रत्ययौ युक्तावात्मनि चिद्रूपे स्वरूपभेदप्रतिपत्त्यर्थं न प्रमाणं भवति तद्धि मेयमात्रमधिकरोतीति न पारिहार्यादिसाम्यं चैतन्यस्येत्यर्थः॥२१४॥

भूतेभ्यश्च चिदुत्पत्तिर्न प्रत्यक्षप्रमाणिका॥
भूतान्वयस्य चासत्त्वान्नापि लिङ्गात्प्रसिध्यति॥२१५॥

तथा हि क्षितितोयेत्यादिनोक्तं प्रत्याह। भूतेभ्यश्चेति। प्रत्यक्षा चिदुत्पत्तिरनुमेया वा नाऽऽद्यस्तादृगध्यक्षाभावान्न द्वितीयोऽनङ्गीकारान्न च तदुत्पत्तिसाधकं लिङ्गं गम्यते किंच भूतानामन्वयस्य संघाताख्यस्यासंभवः। न हि स भूतेभ्यो भेदाभेदाभ्यां शक्यो वक्तुमित्यर्थः॥२१५॥

मृतोऽस्मीत्यपि संवित्तिश्चैतन्यापगमे कुतः॥
जाड्यात्स्यान्नापि कायस्य चिदभावश्चितेः कुतः॥२१६॥

** **भावत्वे सति नाशित्वाच्चैतन्यं जायते घटवदित्याशङ्क्याऽऽह। मृत इति। यश्चैतन्यस्येष्टो नाशानुभवः स चैतन्यस्य देहस्य वा? नाऽऽद्यस्तस्य नाशाश्रयणान्न हि स्वयं स्वनाशं वेत्ति, न द्वितीयस्तस्य जाड्यादित्यर्थः। द्वितीयपादार्थं स्फुटयति। चिदिति॥२१६॥

नापि स्वप्नानुभूतेश्च मिथ्यात्वं स्वप्नवन्मतम्॥
बोधानुभववत्तस्या बाधको नेक्ष्यते यतः॥२१७॥

संहतेभ्यो भूतेभ्यश्चैतन्यमुद्भवति तत्रैव लीयते चेत्येतन्निरस्य न चात्र प्रत्यभिज्ञाऽस्तीत्यादिनोक्तं निरस्यति। नापीति। स्वप्नवत्तदनुभूतेरपि मिथ्यात्वं नैवेष्टमित्यत्र हेतुमाह। बोधेति। जाग्रद्धीः स्वप्नबाधिकेति तन्मिथ्यात्वं, नैवं स्वप्नानुभूतेर्बाधकोऽस्ति मानाभावात्तथाच तद्देहस्य मृषात्वात्तद्गतं चैतन्यमपि तथेति तत्प्रत्यभिज्ञाया भ्रमत्वमित्ययुक्तमित्यर्थः॥२१७॥

वायोरपि स384मुत्क्रान्तिः प्रत्यक्षान्नावसीयते॥
चितेस्तद्भावभावित्वाद्वायुरेवास्तु चेतनः॥२१८॥

यत्तु वायावपक्रान्ते चैतन्यं नश्यतीति तत्राऽऽह। वायोरिति। तस्याप्रत्यक्षत्वात्तदुत्क्रान्तेरपि तद्भावासंभवान्न च मानान्तरात्तदधिगतिरनभ्युपगमादित्यर्थः। यथाकथंचित्तदपक्रान्तिनिश्चयेऽपि भूतचतुष्टयसंहतिरूपदेहात्मत्वासिद्धिरित्याह। चितेरिति॥२१८॥

चैतन्यं भूतकार्य चेत्कायवतिष्ठतां चितिः॥
चितिवन्नश्यतां यद्वा कायोऽयं हेतुनाशतः॥२१९॥

किंच चैतन्यदेहयोर्भूतकार्यत्वाविशेषाद्वाय्वपगमे स्थितिगती तुल्ये स्यातामित्याह। चैतन्यमिति॥२१९॥

जाग्रच्छरीरवच्चेत्स्यात्स्वप्नकायोऽपि भूततः॥
सत्यभूतैकहेतुत्वान्मिथ्यात्वं तस्य किंकृतम्॥२२०॥

नापि स्वप्नानुभूतेश्चेत्यत्र देहस्य मिथ्यात्वमुपेत्य तदनुभूतेरमिथ्यात्वमुक्तमिदानीं परमते तस्यापि न मिथ्यात्वमित्याह। जाग्रदिति॥२२०॥

सत्यो वा यदि वा मिथ्या स्वप्नदेहोऽभ्युपे385यते॥
चितेरव्यभिचारित्वात्तथाऽपीष्टं प्रसिध्यति॥२२१॥

किंच स्वप्नदेहो यथा तथाऽस्तु तथाऽपि मदिष्टात्मसिद्धिर्जाग्रत्स्वप्नदेहयोर्मिथोव्यभिचारेऽपि चैतन्यस्याव्यभिचारित्वेनातिरिक्तात्मत्वोपपत्तेरित्याह। सत्यो वेति॥२२१॥

तस्मान्नृहस्तिदेहादौ जाग्रत्स्वप्नादिभूमिषु॥
भिन्नः शरीरतः सिद्धः प्रमाता प्रत्यभिज्ञया॥२२२॥

** **यः सुप्तः सोऽहं जागर्मीति प्रत्यभिज्ञाया भ्रान्तित्वायोगे फलितमाह। तस्मादिति। स्वप्नादीत्यादिशब्देन स्मृतिसमाधानसंग्रहः॥२२२॥

देशकालवयोजातिरूपशक्त्यादिभेदतः॥
देहे न प्रत्यभिज्ञा स्याज्जाते स्मर्तरि युज्यते॥२२३॥

** **यत्तु सशल्यदेहशालिनीत्यादिना परस्यापि जातिस्मरणप्रत्यभिज्ञासंभवान्न ततोऽतिरिक्तात्मसिद्धिरिति तत्राऽऽह। देशेति। देशादिभेदेन जाते देहे न प्रत्यभिज्ञा व्यक्तिभेदादुभयगतजातेश्चानुसंधातुरेकस्याभावादित्यर्थः। स्वपक्षे तदुपपत्तिमाह। स्मर्तरीति। देहातिरिक्तात्मन्यतीतजातिस्मर्तरीष्टे प्रत्यभिज्ञा युक्तेति यावत्॥२२३॥

अनुग्राह्यसजातीयं न च प्रत्यक्षमानिनः॥
ज्योतिः साधयितुं युक्तमनुमानद्विषः सतः॥२२४॥

** **यत्तूपकारि सजातीयमित्यादिना ग्राह्यजातीयमात्मज्योतिरिति तत्राऽऽह। अनुग्राह्येति। प्रत्यक्षमेव मानमस्येति प्रत्यक्षमानी लोकायतिकस्तस्यानुमानं विद्विषतो मते ज्योतिरात्मरूपमनुग्राह्यजातीयं नानुमातुं शक्यमनुमानानुत्थानादित्यर्थः॥२२४॥

सजातीयगिरा चात्र भवता किं विवक्षितम्॥
सामान्यमथवा व्यक्तिर्यदि सामान्यमुच्यते॥२२५॥

सजाति नास्ति सामान्यमनवस्था तथा सति॥
निःसामान्यानि तेनाऽऽहुः सामान्यानीति वादिनः॥२२६॥

पूर्वोक्तानुमानस्यामुत्थानमुक्त्वा साध्यं विकल्पयति। सजातीयेति। अत्रेति परोक्तानुमानोक्तिः। आद्यमनूद्य दूषयति। यदीति। सजातीयं नाम तुल्यजात्याक्रान्तं तद्यदि सामान्यं तदा सामान्यं सामान्यवदिति न युज्यते जातिमतः सामान्यस्य क्वाप्यभावादित्यर्थः। जातिमत्सामान्यस्वीकारे सति जात्यविश्रान्तिदोषमाह। अनवस्थेति। सामान्यस्य जातिमत्त्वं वदतो वादिप्रसिद्धिविरोधश्चेत्याह। निःसामान्यानीति। तेनानवस्थाप्रसङ्गेनेति यावत्। **उक्तं हि—**सामान्यविशेषेषु सामान्यविशेषाभावात्तत एव ज्ञानमिति॥२२५॥२२६॥

भौतिकत्वेन चेज्ज्योतिर्देहानुग्राहकं मतम्॥
देहेऽपि तस्य सद्भावान्नापेक्षा स्यात्तदा र386वौ॥२२७॥

** **द्वितीयमादत्ते। भौतिकत्वेनेति। भौतिकदेहस्य व्यक्तेस्तथात्वेन स्थिता ज्योतिर्व्यक्तिरनुग्राहिका तथाच तुल्यजात्याक्रान्ता व्यक्तिः सजातीयशब्दार्थश्चेदित्यर्थः। तदा तस्या ज्योतिर्व्यक्तेश्चक्षुरादिकाया देहेऽपि भावाद्व्यतिरिक्ते ज्योतिष्यादित्यादौ दृश्यमानापेक्षा न स्यादित्यनुभवविरोधेन दूषयति। देहेऽपीति॥२२७॥

विशेषश्चेदपेक्ष्यः स्याद्यो देहेऽस्मिन्न विद्यते॥
नानुग्राह्यसजातित्वं तस्यानुग्राहकत्वतः॥२२८॥

** **अनुग्राह्यदेहान्तस्थचक्षुरादिरूपानुग्राहकज्योतिर्व्यक्तिसंभवेऽपि व्यतिरिक्तादित्यादिज्योतिर्व्यक्तिरनुग्राहिका प्रत्यक्षतोऽपेक्ष्येतेति शङ्कते। विशेषश्चेदिति। तथाऽपि साजात्यासिद्धिरित्याह। नानुग्राह्येति। न खल्वादित्यादिज्योतिरपेक्ष्यमाणं देहसजातीयं तस्यानुग्राहकत्वादितरस्यानुग्राह्यत्वादुभयत्रोभयरूपाभावाद्वैलक्षण्यस्य स्फुटत्वाद्भौतिकत्वेन साजात्ये तुच्छव्यावृत्तत्वेन तत्प्रकृतेऽपि तुल्यमित्यर्थः॥२२८॥

देहात्स्याद्भिन्नजातीयं वस्तु देहावभासि यत्॥
विवादगोचरापन्नं भास्वरत्वाद्रवीन्दुवत्॥२२९॥

** **आदित्यादेरनुग्राहकस्यानुग्राह्यदेहादेर्वैलक्षण्योक्त्या दृष्टान्तस्य साध्यविकलतामुक्त्वा प्रत्यनुमानमाह। देहादिति। न च साध्यविकलताऽऽदित्यादेर्भौतिकत्वेन तुल्यजातीयत्वेऽप्यनुग्राहकत्वेनानुग्राह्याद्वैलक्षण्यस्य दर्शितत्वादिति भावः॥२२९॥

नानुग्राह्यसजातीयं नाप्यनुग्राहकं तथा॥
घटो घटं रविर्वेन्दुं नानुगृह्णाति कुत्रचित्॥२३०॥

** **किंचानुग्राह्यानुग्राहकत्वस्य साजात्यस्य च समा विषमा वा व्याप्तिरिति विकल्प्याऽऽद्यं दूषयति। नेत्यादिना। न हि यत्रानुग्राह्यानुग्राहकत्वं तत्र साजात्यं यत्र च साजात्यं तत्रानुग्राह्यानुग्राहकत्वमिति नियमो घटादौ व्यभिचारादित्यर्थः॥२३०॥

सजातीयासजातीयैर्देहोपकृतिरिष्यते॥
क्ष्माबग्निवायुभिः साक्षान्नातो नियम इष्यते॥२३१॥

द्वितीयं निराकरोति। सजातीयेति। भूतसंघातो देहस्तस्य कदाचिद्दृश्यते पृथिव्योपकारो जलादिना कदाचित्तत्र पृथिवी देहस्थपार्थिवांशस्य सजातीया विजातीयांऽशान्तरस्य जलाद्यपि दैहिकस्य स्वभागस्य सजातीयं विजातीयं च भागान्तरस्यातः सजातीयासजातीयैर्देहस्योपकाराद्यत्रोपकार्योपकारकत्वं तत्र साजात्यं यत्रासाजात्यं तत्रेतरासत्त्वमिति न व्याप्तिरित्यर्थः॥२३१॥

विजातीयोपकारश्चेद्भवता नाभ्युपेयते॥
चतुर्भूतात्मको देह इत्येतत्कथमुच्यते॥२३२॥

** **पृथिवी देहस्थं स्वांशं प्रत्येवोपकरोति तथा जलाद्यपीति नियमादुक्तव्याप्तिसिद्धिरित्याशङ्क्याऽऽह। विजातीयेति। पृथिव्यादिर्देहस्यैवोपकरोति तत्र तत्तत्कृतोपकारोपलब्धेर्न च समुदायस्य समुदायिभिः साजात्यं समस्तव्यस्तभावेन वैषम्याधिगतेरित्यर्थः॥२३२॥

अभावोऽप्युपकुरुते लोकेऽस्मिन्भाववद्यतः॥
नातोऽनुग्राहकत्वादिनियमोऽयं समञ्जसः॥२३३॥

** **इतश्च व्याप्त्यसिद्धिरित्याह। अभावोऽपीति। अमित्वा कण्टकाभावं चरणं न्यस्यते कथमिति न्यायादालोकादिवद्गमनादौ कण्टकाद्यभावस्योपकारित्वाद्यत्रानुग्राहकत्वादि तत्र साजात्यमिति न व्याप्तिरित्यर्थः॥२३३॥

पार्थिवैः पार्थिवस्याग्नेरुपकारो यथेन्धनैः॥
वैद्युतस्य तथैवाद्भिरुपकारः समीक्ष्यते॥२३४॥

** **परेष्टव्याप्त्यभावे हेत्वन्तरमाह। पार्थिवैरिति॥२३४॥

अद्भिः काष्ठैश्चोपकारः पावकस्यैव वीक्ष्यते॥
अग्न्यम्बुभिश्च शमनं तथाऽग्नेरेव दृश्यते॥२३५॥

** **यद्यपि काष्ठैर्भौमस्य तेजसो दिव्यस्य चाद्भिरुपकारो दृष्टस्तथाऽपि कथं तावता न साजात्यमनुग्राह्यानुग्राहकयोरिति तत्राऽऽह। अद्भिरिति। उपकार्योपकारकयोः साजात्यनियमं निरस्यापकार्यापकारकयोरपि वैजात्यनियमं निरस्यति। अग्नीति। वैद्युतोऽग्निर्भौमाग्निसंपर्कादुपशाम्यतीति प्रसिद्धम्। भौमश्चाग्निरद्भिरुपशान्तिमुपगच्छन्नुपलभ्यते॥२३५॥

सजातीयासजातीयनियमोऽतो न युज्यते॥
उपकारापकारत्वे पूर्वोक्तेनैव वर्त्मना॥२३६॥

** **उक्तं व्याप्तिभङ्गमुपसंहरति। सजातीयेति। उपकारसत्त्वे न साजात्यनियमो न

चापकारसत्त्वे वैजात्यनियम इत्यत्रातःशब्दोक्तं हेतुमेवाऽऽह। पूर्वेति। नियमभङ्गप्रदर्शनेनेत्यर्थः॥२३६॥

यच्चाप्यक्षैरनैकान्त्यं हेतोरभिहितं पुरा॥
तच्चाप्यसत्त्वयाऽभाणि धर्मित्वेन परिग्रहात्॥२३७॥

सेन्द्रियस्यास्य देहस्य पुरुषोक्त्या परिग्रहात्॥
न ह्येकदेशः साध्यस्य दृष्टान्तत्वाय कल्पते॥२३८॥

आत्मज्योतिरनुग्राह्यसजातीयमिति निरस्तमिदानीमतीन्द्रियत्वादन्तस्थत्वमुक्त्वाऽभौतिकत्वे हेतुद्वयमन्तस्थत्वातीन्द्रियत्वाख्यमात्मज्योतिषो विवक्षितं चक्षुरादिभिरनैकान्तमित्युक्तमनुवदति। यच्चेति। न तावदन्तस्थत्वे साध्ये चक्षुरादिभिरतीन्द्रियत्वमनैकान्तं किंज्योतिरयं पुरुष इत्यत्र पुरुषशब्देन कार्यकरणसंघातं गृहीत्वाऽऽत्मज्योतिषस्तदन्तस्थत्वोक्तौ सेन्द्रियस्य देहस्य धर्मित्वेन तदन्तस्थत्वरूपविशिष्टसाध्यकोटिनिविष्टत्वेनेष्टत्वादित्याह। तच्चेति। साध्यकोटिनिवेशेऽपि साध्यवत्त्वं विना हेतुसत्त्वे कथं न विरुद्धतेत्याशङ्क्याऽऽह। न हीति। साध्यैकदेशो न व्यभिचारोदाहरणं तस्य पक्षनिक्षिप्तस्य विपक्षत्वानुपपत्तेर्न चातीन्द्रिये परमाण्वादावनन्तस्थे विरुद्धतातादवस्थ्यं ज्योतिष्ट्वेन हेतोर्विशेषणादित्यर्थः। यद्वाऽऽत्मज्योतिषोऽन्तस्थत्वातीन्द्रियत्वहेतुभ्यामभौतिकत्वे साध्ये चक्षुरादिष्वनैकान्त्यमिति तत्रापि नान्तस्थत्वमनैकान्तमित्याह। तच्चेति। अनुग्राह्यान्तस्थत्वं हि हेतुस्तथाच चक्षुरादेरनुग्राह्यत्वधर्मित्वेन स्वीकारात्ततोऽन्तस्थत्वाभावान्न तत्र व्यभिचार इत्याह। धर्मित्वेनेति। कथमनुग्राह्यत्वधर्मित्वेन चक्षुरादेर्ग्रहणं पुरुषस्यैव तथात्वश्रुतेरित्याशङ्क्याऽऽह। सेन्द्रियस्येति। विशिष्टातीन्द्रियत्वहेतोर्व्यभिचारं परिहरति। न हीति। कार्यकरणसंघाताद्वैलक्षण्ये साध्ये तदेकदेशश्चक्षुरादिर्न व्यभिचारोदाहरणं न हि पक्षस्य विपक्षतेत्युक्तं न च संघातैकदेशस्य तदन्तस्थत्वमास्थातुं शक्यमतीन्द्रियत्वेन चाग्राह्यत्वस्य विवक्षितत्वान्न विरुद्धतेति भावः। यद्वा नान्तस्थत्वे साध्येऽतीन्द्रियत्वमक्षेष्वनैकान्तं तेषां ग्राह्यत्वधर्मित्वेनेष्टत्वादग्राह्यत्वस्य चातीन्द्रियत्वादित्याह। धर्मित्वेनेति। कुतस्तेषां ग्राह्यत्वमत आह। सेन्द्रियस्येति। पुरुषो हि प्रकाश्यत्वेन प्रकृतस्तदन्तर्भूतान्यक्षादीन्यपि तथा तन्न तेषु विरुद्धतेत्यर्थः। एतेनाभौतिकत्वे साध्येऽप्यतीन्द्रियत्वस्य विरुद्धतोद्धृता। यत्तु तस्मिन्साध्येऽन्तस्थत्वं विरुद्धमिति तत्राऽऽह। न हीति। प्रत्यग्ज्योतिरभौतिकमिति पक्षः साध्यशब्दार्थः। तस्यान्तस्थत्वमेकदेशस्तद्धि कार्यकरणसाक्षित्वेन तत्प्रत्यक्त्वं न च तादृशो हेतुरक्षेषु व्यभिचारोदाहरणत्वाय योग्यस्तेषां तत्साक्षित्वाभावादित्यर्थः॥२३७॥२३८॥

लिङ्गस्य मात्वसंसिद्धौ दूषणं दूषणं भवेत्॥
विशेषेऽनुगमाभाव इत्यादि यदुदीरितम्॥२३९॥

अनुमानं मानमेव नेत्युक्तमनूद्य निरस्यति। लिङ्गस्येति। व्याप्त्यभावः सिद्धसाध्यतेत्यादि यद्दूषणं तदनुमानस्य मानत्वसिद्धौ दूषणं स्याद्व्याप्तिभङ्गादिहेतुबलादनुमानामानत्वं साध्यते हेतुश्चानुमानतया मानमन्यथा साधकत्वायोगात्प्रत्यक्षानन्तर्भावाच्चेत्यर्थः॥२३९॥

सामान्येतररूपत्वात्साध्यस्याग्न्यादिरूपिणः॥
अपि दोषद्वयं न स्यादेकरूपे हि शङ्क्यते॥२४०॥

तर्हि कथमननुगमादिसमाधिस्तत्राऽऽह। सामान्येति। यदि हि साध्यमेकरूपमिष्टं तदा दोषद्वयमाशङ्कामर्हति न च तदेकरूपमिष्टं तस्योभयात्मत्वाङ्गीकारात्तथाच साध्यस्य सामान्यरूपत्वान्नाननुगतिर्विशेषरूपत्वाच्च न च सिद्धसाध्यतेत्यर्थः॥२४०॥

न चेन्द्रियाणि ते सन्ति प्रत्यक्षैकप्रमाणिनः॥
अनुमानादृते तेषां संसिद्धिर्नेष्यते387 यतः॥२४१॥

एकस्य द्वैरूप्यायोगाद्व्याप्तेश्च निरस्तत्वात्कथमनुमानप्रामाण्यमित्याशङ्क्य तात्त्विकाप्रामाण्येऽपि व्यावहारिकं तत्प्रामाण्यमित्यभिप्रेत्याऽऽह। न चेतिअस्यार्थः— अनुमानप्रामाण्यमनिच्छतो नाध्यक्षमपि सिध्येदिन्द्रियाणामनुमानं विनाऽसिद्धेर्न च तानि गोलकात्मकानि नानुमामपेक्षन्ते सत्स्वपि तेष्वर्थानुपलब्धेस्तद्धीकरणत्वेनेन्द्रियान्तरकल्पना तदध्यक्षवादिना तदुपयोगित्वेनानुमानप्रामाण्यमेष्टव्यमिति॥२४१॥

ग्राहकग्रहणग्राह्यभावाभावविभागवित्॥
स्वार्थमन्यानपेक्षं सच्चैतन्यं नाक्षमानगम्॥२४२॥

** **इतश्चाध्यक्षेतरन्मानमस्तीत्याह। ग्राहकेति। न हि प्रत्यक्षं प्रकृतं यथोक्तं चैतन्यं गोचरयितुमर्हति तेन तदवगाहित्वेनाऽऽगमवचनमनुसंधेयमित्यर्थः॥२४२॥

न च तद्भावभावित्वं व्यतिरेकाप्रसिद्धितः॥
देहाभावे ह्यभावोऽस्याश्चितेः स्यात्किंप्रमाणकः॥२४३॥

** **किंच देहभावे भावात्तदभावे चाभावात्तद्धर्मश्चैतन्यमिति वदता बलादनुमानप्रामाण्यमुपेयमित्याह। न चेति। तच्छब्दो देहविषयः। तदभावे सत्यभावित्वमपि चै388तन्यस्योपलक्ष्यते। व्यतिरेकासिद्धिं साधयति। देहेति। न हि तदभावे तदभावस्य प्रत्यक्षं प्रमाणं तस्य सदर्थावगाहित्वान्न च तस्मिन्प्रमाणान्तरमनभ्युपगमादित्यर्थः॥२४३॥

अनुमानाप्रमाणत्वं न प्रत्यक्षेण साध्यते॥
लिङ्गेनापि च तत्सिद्धौ त्वदुक्त्यैव विरुद्धता॥२४४॥

** **किंचानुमानामानत्वेऽध्यक्षमनुमानं वा मानं नाऽऽद्य इत्याह। अनुमानेति। रूपा-

दिमद्विषयत्वात्तस्येत्यर्थः। न द्वितीय इत्याह। लिङ्गेनेति। तथा सति लिङ्गप्रामाण्यस्याऽऽवश्यकत्वादित्यर्थः॥२४४॥

त्वदशेषप्रवृत्तीनां निरोधश्च प्रसज्यते॥
लिङ्गस्येहाप्रमाणत्वे निश्चेष्टं स्याज्जगत्तथा॥२४५॥

** **अनुमानप्रामाण्ये हेत्वन्तरमाह। त्वदिति। **उक्तं हि—**सामान्यतो दृष्टस्यानुमानस्याप्रामाण्ये पानभोजनादिसर्वव्यवहारलोपप्रसङ्ग इति। इहेति व्यवहारावस्थोक्ता। न केवलमनुमानाप्रामाण्ये त्वत्प्रवृत्तीनामेव निरोधः किंतु विश्वमेवाप्रवृत्तिनिवृत्ति स्यादित्याह। निश्चेष्टमिति। इष्टानिष्टोपायतानुमानाधीनत्वात्प्रवृत्तिनिवृत्त्योरित्यर्थः॥२४५॥

वागभिव्याहृतिश्चेयमपि ते न प्रसिध्यति॥
नैवाऽऽत्मप्रतिपत्त्यर्थंभारत्युच्चार्यते त्वया॥२४६॥

** **किंच परैः संव्यवहारार्थं भवतो वाक्योच्चारणदर्शनादनुमानप्रामाण्यमेष्टव्यमित्याह। वागिति। तदप्रामाण्ये परस्याप्यभिव्याहृतिरयुक्तेत्यपिशब्दार्थः। परप्रयुक्तशब्दश्रवणानन्तरमात्मनो ज्ञानमुपलभ्य स्वदृष्टान्तादितरस्यापि स्वकीयश्रोतुः स्वप्रयुक्तशब्दश्रवणादर्थज्ञानमनुमाय स्वयं शब्दं प्रयुङ्क्ते तदनुमानं प्रमाणमन्यथा वाक्यप्रयोगानर्थक्यान्न हि स्वप्रतिपत्त्यर्थं तदुच्चार्यते। एतेन वाक्यस्यापि प्रामाण्यं प्रत्येतव्यमिति भावः॥२४६॥

विवादगोचरापन्ना प्रमाणमनुमेष्यताम्॥
अनुमानत्वतो लिङ्गाद्दूषणानुमितिर्यथा॥२४७॥

तन्मानत्वे मानमाह। विवादेति। भागे389 सिद्धसाध्यत्वमुद्धर्तुमाद्यं विशेषणम्। नाऽऽत्मा देहातिरिक्तस्तदतिरेकेणानुपलब्धत्वात्खरविषाणवदित्यनुमितिवदित्याह। दूषणेति। न च साध्यवैकल्यं परपक्षस्यादुष्टत्वे स्वपक्षासिद्धेर्वस्तुनि विकल्पायोगादिति भावः॥२४७॥

खद्योतादिप्रकाशस्य यच्चानित्यत्वमुच्यते॥
पक्षादिव्यवधानत्वात्तच्चास्माकं न तान्प्रति॥२४८॥

** **अनुमानप्रामाण्यं प्रसाध्य तद्बलादात्मज्योतिषो देहाद्व्यतिरेक उक्त इदानीं कादाचित्कमपि दर्शनादि स्वभावो देहस्येत्यत्र भास्वरत्वाभास्वरत्वं चेत्यादिनोक्तं दृष्टान्तं विघटयति। खद्योतादीति। तत्प्रकाशानित्यत्वं खद्योतादीन्प्रति न भवति किंत्वस्माकमेव तद्भाति तत्प्रकाशस्यास्मान्प्रति पक्षाद्यवयवव्यवहितत्वादतः सति धर्मिणि कादाचित्कस्य स्वभावत्वे दृष्टान्तो नास्तीत्यर्थः॥२४८॥

भावाभावग्रहो नापि सिध्येत्प्रत्यक्षमानतः॥
विद्यमानार्थसंबन्धात्प्रत्यक्षस्येह सर्वतः॥२४९॥

किंचाभास्वरत्वमदर्शनमित्यादिरभावो न परस्य सिध्यत्मतो दृष्टान्ते दार्ष्टान्तिके वा न कादाचित्कस्य स्वभावतेति वक्तुमभावे प्रत्यक्षं मानमन्यद्वेति विकल्प्याऽऽद्यं दूषयति। भावेति। अपिना मानान्तरमभावे निरस्यते तस्य390 तेनानङ्गीकारात्। प्रत्यक्षेणाभावाग्रहे हेतुमाह। विद्यमानेतिउक्तं च सतश्चैतन्यादुपलम्भनं नासत इति। भावांशेनैव संबन्धो391 योग्यत्वादिन्द्रियस्य हीति च॥२४९॥

अथाभा392वोऽपि तद्ग्राह्य393इति चेदभिधीयते॥
प्रत्यक्षाभावसंसिद्धौ किं प्रमाणमितीर्यताम्॥२५०॥

** **निर्घटं भूतलमित्यादिप्रत्यक्षेण शङ्कते। अथेति। अर्थाभावस्य प्रत्यक्षत्वमुपेत्य परिहरति। प्रत्यक्षेति। न हि प्रत्यक्षं स्वाभावं साधयत्यतुल्यकालत्वान्नापि मानान्तरं तदवगाहि संभवत्यनभ्युपगमादित्यर्थः॥२५०॥

प्रमातृमानाभावोऽपि भवता प्रतिपाद्यते॥
यद्भावेऽपि न यन्मानं तदभावेऽपि त394त्कथम्॥२५१॥

** **किंच मात्राद्यभावस्याध्यक्षत्वासिद्धेस्तद्ग्राहकं मानान्तरमेष्टव्यमित्याह। प्रमात्रिति। तत्राध्यक्षस्यामानत्वं कैमुतिकन्यायेनाऽऽह। यद्भावेऽपीति। न हि मातरि माने वाऽध्यक्षं मानं तस्य स्वाश्रये स्वात्मनि वा प्रवृत्तौ स्वप्रवृ395त्तिप्रसङ्गान्नापि तदग्रहे तदभावग्रहस्तयोस्त्वन्मते तुल्यधीग्राह्यत्वादन्यथा मानान्तरापातादिति भावः॥२५१॥

व्यावर्तते स्वभावश्चेदित्येतदतिदु396र्घटम्॥
स्वभावो वस्तुनस्तत्त्वं तत्त्वात्तत्त्वं न हीयते॥२५२॥

** **अदर्शनादेः स्वभाववादेऽसिद्धेर्न तस्य कादाचित्कस्य स्वभावतेत्युक्त्वा स्वभावस्याकादाचित्कत्वे हेत्वन्तरमाह। व्यावर्तत इति। स्वभावश्चेत्सति वस्तुनि व्यावर्तत इत्ययुक्तं स्वभावो हि वस्तुनः स्वरूपं न च तत्सत्येव वस्तुनि नश्यति व्याघातादित्यर्थः॥२५२॥

धर्मादेः फलदातृत्वं स्वभावोऽवश्यमेव तत्॥
अभ्युपेयस्त्वयाऽपीह यथा तदपि मे शृणु॥२५३॥

** **स्वभाववादसाधनार्थं धर्मादेः फलदातृत्वं स्वभावः सिद्धान्तेऽपीत्युक्तमनुवदति। धर्मादेरिति। तत्फलदातृत्वमिति संबन्धः। ननु मया धर्मादौ फलदातृत्वाख्यः स्वभावो। नेष्यते पूर्वपूर्वधर्मादिवशादुत्तरोत्तरधर्मादेस्तद्धेतुत्वसिद्धेस्तत्राऽऽह। अभ्युपेय इति। प्रकारवाचि वाक्यं तदर्थः। इहेति धर्माद्युक्तिः॥२५३॥

क्रियातः397 स्तुतिनिन्दादेः सुखदुःखादिलक्षणम्॥
धर्माधर्मफलं साक्षात्प्रत्यक्षेणानुभूयते॥२५४॥

श्रोतव्यमेव दर्शयति। क्रियात398 इति। आदिशब्देन पुरस्कारतिरस्कारसंग्रहः। द्वितीयेनाऽऽदिपदेन तत्तत्प्रभेदो गृह्यते। न हि प्रत्यक्षसिद्धे विवादो न च स्तुत्यादिक्रियावशादेव सुखादिसिद्धिरन्यथाऽपि दर्शनादतस्तदपेक्षया धर्मादेरेव तद्धेतुत्वं न च तस्य धर्मापेक्षया फलदातृत्वमनवस्थानात्तथाच यथा तस्य फलदातृत्वं ते स्वभावस्तथा चैतन्यमपि मे देहस्येति भावः॥२५४॥

आगमैकप्रमाणत्वात्कथं धर्माद्युदाहृतिः॥
अथाभ्युपगमाद्युक्तं वेदाभ्युपगतिस्तथा॥२५५॥

** **आगममनिच्छतस्ते नेदमुदाहरणमिति परिहरति। आगमेति। **उक्तं हि—**चोदनालक्षणोऽर्थो धर्म इति। त्वदिष्टं धर्माद्युपेत्य मयोदाहृतमिति शङ्कते। अथेति। तर्हि वेदप्रामाण्यमपि मदुपगत्यनुसारेण स्वीकार्यं न हि प्रत्यक्षं धर्मादि गोचरयत्यनिमित्तं विद्यमानोपलम्भनत्वादितिन्यायविरोधात्प्रत्यक्षपूर्वकत्वाच्चानुमानोपमानार्थापत्तीनामनिमित्तत्वमिति हि वृद्धाः। औत्पत्तिकसूत्रे च तस्य ज्ञानमुपदेश इत्युक्तेरित्याह। वेदेति॥२५५॥

मानान्तराभ्युपगमाद्भवतश्च तथा सति॥
स्वसिद्धान्तविरोधोऽयं बलादायात्यनीप्सितः॥२५६॥

** **धर्मादेस्तत्प्रमाणस्य चोपगमे का हानिस्तत्राऽऽह। मानान्तरेति॥२५६॥

दग्धृत्वादिस्वभावोऽग्नेः शक्तिश्चेद्भवतोच्यते॥
प्रत्यक्षात्तदसंसिद्धेर्विरोधस्तेऽनुमाश्रितेः॥२५७

न च नास्ति पदार्थानामित्यादिना दग्धृत्वादिस्वभावोऽग्नेरित्युक्तं तत्र तत्कार्यं तच्छक्तिर्वा स्वभावो नाऽऽद्यः कार्यस्य सत्यप्यग्नौ विनाशित्वात्स्वभावत्वायोगादिति मत्वा द्वितीयमनूद्य दूषयति। दग्धृत्वादीति। न हि प्रत्यक्षगम्या शक्तिस्तस्याः कार्योन्नेयत्वात्तथाचानुमानाङ्गीकारादपसिद्धान्तः स्यादित्यर्थः॥२५७॥

मदभ्युपगमो यद्वद्भवतोऽपि तथा यदि॥
सर्वमानाभ्युपगमान्न किंचिन्नोऽस्ति दुःस्थितम्॥२५८॥

** **त्वयेव मयाऽपि प्रामाण्यमनुमितेराश्रितमतो न विरोधोऽस्तीति गत्यन्तरमपश्यतः शङ्कामनूद्य निरस्यति। मदिति। मदीयं पन्थानमनुसरता सर्वस्यैव मानस्य व्यवहाराङ्गस्याङ्गीकारादात्मनो देहातिरेकादिसिद्धिरित्यर्थः॥२५८॥

त्वदभ्युपगमार्थाय यत्नोऽयं क्रियते मया॥
अभ्युपेतो मदुक्तश्चेत्सिद्धं नः स्यात्प्रयोजनम्॥२५९॥

** **उक्तमेव व्यनक्ति। त्वदिति। अनुमानाद्यपि त्वया मानत्वेनोपेयमिति साधयितुं मया यत्यते यदि त्वयैवानुमानाद्युपेतं तर्हि देहाद्यतिरिक्तमात्मज्योतिरित्यनुमानवशादस्मदिष्टं सिध्यतीत्यर्थः॥२५९॥

अनवस्थेति योऽप्युक्तः सोऽपि दोषो निराकृतः॥
सर्वमानाभ्युपगमान्नानवस्था ततो बलात्॥२६०॥

** **धर्मादेर्धर्माद्यन्तरवशात्फलदातृत्वापगमेऽनवस्थेत्युक्तं दूषयति। अनवस्थेतीति। वेदादिप्रामाण्योपगमे सत्यनादित्वादिना399 परिहर्तुं शक्यत्वादित्यर्थः॥२६०॥

देहादिव्यतिरिक्तोऽत आत्मा सिद्धो यथोदितः॥
आदित्याद्यसजातीयः पूर्वोक्तादनुमानतः॥२६१॥

** **शरीरं नाऽऽत्मा शरीरादन्यदात्मेति शरीरप्रतिषेधेनैवाऽऽत्मोपदिश्यत इति शाबरभाष्यमाश्रित्योपसंहरति। देहादीति। अनुमानमानत्वस्य सिद्धत्वमतः शब्दार्थः। पूर्वोक्तादतीन्द्रियत्वादिहेतोरिति यावत्॥२६१॥

दर्शनादिक्रियावांश्चेद्देह एवाभ्युपेयते॥
दृष्टस्यैव स्मृतौ न स्यात्स्वप्नेचार्थस्य दर्शनम्॥२६२॥

** **अनुमानतोऽतिरिक्तमात्मानमुक्त्वा तत्रैव हेत्वन्तरमाह। दर्शनादीति। देहो द्रष्टा चेद्दृष्टस्यैवार्थस्य स्मृत्रौ दर्शनं न स्याच्चक्षुष्मता हि घटो दृष्टः स पुनर्विचक्षुषा स्मर्यते न च द्रष्टृस्मर्त्रोर्भेदोऽन्यदृष्टेऽन्यस्मृत्यदृष्टेर्यथाऽऽह नान्यदृष्टमन्यः स्मरतीति। अतो दृष्टस्यैव स्मृतौ दृष्ट्यनुपपत्त्या देहातिरिक्तस्यैव द्रष्टृत्वादि तदात्मगुणसद्भावादप्रतिषेध इत्यक्षपादसूत्रादित्यर्थः। देहस्यैव द्रष्टृत्वाद्यङ्गीकारे दृष्टस्यैव स्वप्ने दृष्ट्यनुपपत्तिश्चातिरिक्तस्य द्र400ष्टृत्वादि कल्पयतीत्याह। स्वप्ने चेति॥२६२॥

बाह्यादित्यादिविरहे करणव्यापृतिं विना॥
जाग्रद्वद्वीक्षते स्वप्ने दृष्टपूर्वं यतोनरः॥२६३॥

तत्र दृष्टस्यैव दृष्टिरसिद्धेति कुतस्तदनुपपत्त्या यथोक्तात्मसिद्धिरित्याशङ्क्याऽऽह। बाह्येति। अतो देहस्य न द्रष्टृतेति शेषः॥२६३॥

सामग्र्या स यया पूर्वमद्राक्षीच्छिखरं गिरेः॥
तया विनैव स्वप्ने तदात्मा पूर्ववदीक्षते॥२६४॥

** **कथमादित्याद्यभावे दृष्टस्य स्वप्ने दृष्टिर्न हि सामग्रीं विना कार्यं युक्तं तत्राऽऽह

सामग्र्येति। ननु मनः स्वप्ने पूर्वदृष्टाकारपरिणतं साक्षिप्रत्यक्षं चेत्तर्हितत्पूर्वादृष्टाकारपरिणतमपि कुतो न साक्षिविषयस्तत्राऽऽह। पूर्ववदिति। अतो दृष्टस्य तत्सजातीयस्य वा स्वप्ने दृष्टिनियमाज्जाग्रत्स्वप्नयोरनुयायी देहातिरिक्तो द्रष्टा न स्वल्वन्यो जागर्त्यन्यः स्वपितीति शेषः॥२६४॥

उत्खातनयनश्चायमनुत्स्वाताक्षवद्धटम्॥
स्वप्ने समीक्षते नात आत्मनोऽन्यः प्रपश्यति॥२६५॥

** **अतिरिक्तस्यैव द्रष्टृत्वमित्यत्र हेत्वन्तरमाह। उत्खातेति॥२६५॥

ततश्चैतद्भवेत्सिद्धं यः स्वप्ने कुम्भमीक्षते॥
विचक्षुः प्रागपि घटं स एवैक्षिष्ट चक्षुषा॥२६६॥

** **आत्मनः स्वप्नद्रष्टृत्वेऽपि जाग्रत्यन्यो द्रष्टेति द्रष्टृभेदमाशङ्क्याऽऽह। ततश्चेति। जाग्रत्स्वप्नयोरेकाधिकरणत्वं ततः शब्दार्थः। न हि तत्र द्रष्टृभेदः प्रत्यभिज्ञाविरोधादित्यर्थः॥२६६॥

मृतौ चाविकलस्यैव दर्शनादेरसंभवात्॥
न स्याद्देहस्य तच्चापि देहो द्रष्टा भवेद्यदि॥२६७॥

** **देहस्याद्रष्टृत्वे हेत्वन्तरमाह। मृतौ चेति। यदि देहो द्रष्टा तर्हि सत्यामपि मृतावविकलस्यैव तस्य दर्शनादिक्रिया स्यात्तदभावात्तस्य द्रष्टृत्वमपि न स्यादिति योजना॥२६७॥

नेक्षितृत्वेऽक्षबुद्ध्यादेः प्रत्यभिज्ञोपपद्यते॥
न भिन्नद्रष्टृकं यस्मात्प्रतिसंधानमर्हति॥२६८॥

** **मा भूद्देहस्याऽऽत्मत्वमिन्द्रियाणां तु स्यात्तेष्वहंधीदर्शनादित्याशङ्क्य सव्यदृष्टस्येतरेण प्रत्यभिज्ञानादित्यक्षपादसूत्रमनुसृत्याऽऽह। नेत्यादिना॥२६८॥

यमद्राक्षं पुरा कुम्भं तमेवाद्य स्पृशाम्यहम्॥
इत्येतत्प्रतिसंधानं न भिन्नद्रष्टृकं भवेत्॥२६९॥

** सव्येन खलु चक्षुषा दृष्टमर्थमितरेणापि चक्षुषा दृष्ट्वा प्रत्यभिजानाति यमद्राक्षं तमेवैतर्हि पश्यामीतीन्द्रियचैतन्ये च नान्यदृष्टमन्यः प्रत्यभिजानातीति प्रत्यभिज्ञानुपपत्तिरितिन्यायभाष्य**माश्रित्योक्तेऽर्थे यदहमद्राक्षमित्यादिभाष्यार्थं योजयति। यमद्राक्षमिति॥२६९॥

प्रतिसंधानकृत्तर्हि मनः संस्कारसंश्रयात्॥
नैवं तस्यापि मनसो विषयत्वेन दर्शनात्॥२७०॥

** **नाऽऽत्मप्रतिपत्तिहेतूनां मनसि संभवादित्यक्षपादसूत्रानुसारेण शङ्कते। प्रतिसंधानेति। तस्य प्रतिसंधातृत्वे हेतुमाह। संस्कारेति। एकत्वान्मनसः पूर्वानुभवोत्थसं-

स्कारात्प्रत्यभिज्ञोपपत्तेर्दर्शनस्पर्शनाभ्यामेकार्थग्रहादीनां च तत्र संभवादात्मतेत्यर्थः। ज्ञातुर्ज्ञानसाधनतोपपत्तेः संज्ञाभेदमात्रमिति न्यायसूत्रेण परिहरति। नैवमिति। मनसोऽपीत्यादिभाष्योक्तं परिहारमाह। तस्यापीति॥२७०॥

शब्दादिखचितं साक्षात्स्मृतिस्वप्नगतं मनः॥
कुम्भवद्वीक्ष्यते यस्मान्नात आत्मा मनोऽपि नः॥२७१॥

कथं तस्य विषयत्वादनात्मत्वं तत्राऽऽह। शब्दादीति॥२७१॥

भावाभावौ प्रमात्रादेस्तद्विलक्षणरूपभृत्॥
प्रत्यक्समीक्षते नित्यं नातो द्रष्टृ भवेन्मनः॥२७२॥

** **मनो दृश्यत्वाद्घटवदनात्मेत्ययुक्तं द्रष्ट्रभा401वादित्याशङ्क्याऽऽह। भावेति॥२७२॥

भोग्यत्वं चास्य देहस्य प्रत्यक्षैकप्रमाणकम्॥402
प्र403त्यक्षाप्रमितं कस्माद्भोक्तृत्वं तस्य कल्प्यते॥२७३॥

** **देहद्वयस्यानात्मत्वे हेत्वन्तरमाह। भोग्यत्वमिति। विमतमनात्मा भोग्यत्वात्कुम्भवदित्यर्थः। केचिद्देहद्वयस्य भोक्तृत्वमिच्छन्तो भोग्यत्वाध्यक्षं मानं न मन्यन्ते तान्प्रत्याह। प्रत्यक्षेति।न च भुञ्जेऽहमिति प्रत्यक्षस्य तत्र प्रमाणत्वात्तदप्रमितिरसिद्धेति वाच्यं तस्यातिरिक्तात्मविषयत्वान्न च मानान्तरं तद्भोक्तृत्वं गृह्णदिष्टमित्यर्थः॥२७३॥

अयंरूपेण भोग्योऽर्थो ह्यहंरूपेण भोजकः॥
विरुद्धरूपौ प्रत्यक्षाद्गम्येते भोज्यभोजकौ॥२७४॥

** **किंच देहात्मानौ मिथो भिन्नौ विरुद्धधर्मत्वात्संप्रतिपन्नवदित्याह। अयमिति॥२७४॥

इत्यलं शुष्कतर्कोत्थवाङ्मात्राक्षेपदूषणैः॥
पुंसां पुमर्थसिद्ध्यर्थं प्रक्रान्तमभिधीयते॥२७५॥

** **परमतदूषणमुपसंहरति। इत्यलमिति। देह एवाऽऽत्मा नान्योऽस्तीत्येवंप्रकारा देहेऽहंबुद्ध्युत्पत्तेरन्यस्य चानुपलब्धेरित्यादिनिर्मूलतर्कोत्पन्ना वाङ्मात्ररूपाक्षे404पास्तेषां दूषणैः सर्वतीर्थदृशामित्यारम्योक्तैरलमिति योजना। **अयं भावः—**अन्नस्याशितस्य विकारो देहः स चेदात्मा तस्यैव स्थूलो भागः किमित्यात्मा नोच्यतेऽहंबुद्ध्यभावादिति चेत्तुल्यो विवेकिनामितरस्मिन्नपि तदभावो दृश्यत्वजडत्वादिभ्यश्च सोऽनात्मा तस्मिन्नहंधीश्चाविवेकिनां स्थूलोऽहमितिवन्नेया। देहात्प्रागूर्ध्वं चाऽऽत्मस्थितेर्नासावात्मा। उक्तं च405 पूर्वाभ्यस्तस्मृत्यनुबन्धाज्जातस्य हर्षभयशोकसंप्रतिपत्तेरिति। एवं देहात्मवादे बहूनि दूषणानीत्यात्मा संघातादर्थान्तरमिति। उत्तरसंदर्भमवतारयति। पुंसामिति। मुमुक्षूणां सम्यग्ज्ञानार्थं श्रुतिव्याख्यानमेवानुवर्त्यत इति यावत्॥२७५॥

आत्मैवास्येत्युपश्रुत्य पूर्वोत्तरविरुद्धताम्॥
आशङ्क्य जनकोऽप्राक्षीदात्माऽयं कतमो न्विति॥२७६॥

** **प्रकृतं दर्शयन्प्रश्नमुत्थापयति। आत्मेति॥२७६॥

देहादिसंहतावस्यामात्मेति ह्यभिधाधियौ॥
सुप्रसिद्धे जगत्यस्मिन्नायोषिद्बालपण्डितम्॥२७७॥

कथं पूर्वोत्तरविरुद्धत्वाशङ्का यन्मूला प्रश्नप्रवृत्तिरित्याशङ्क्य तदर्थं प्रथमं प्रसिद्धिं दर्शयति। देहादीति। उक्तप्रसिद्धेरविगीतत्वार्थो हिशब्दः॥२७७॥

पुंव्यापारस्य संबन्धो देहादिव्यतिरेकिणा॥
ज्योतिषाऽनात्मना पूर्वं लिङ्गेन प्रतिपादितः॥२७८॥

** **तथाऽपि कथं पूर्वोत्तरविरुद्धतेत्याशङ्क्य पूर्वोक्तमनुद्रवति। पुंव्यापारस्येति॥२७८॥

आत्मैवास्येति वचनात्पूर्वोत्तरविरोधतः॥
संजातसंशयो राजा याज्ञवल्क्यमपृच्छत॥२७९॥

** **अथ विरोधमुद्भावयन्प्रश्नोपपत्तिमाह। आत्मेति। आत्मत्वेन प्रसिद्धं देहं हित्वाऽनात्मना ज्योतिरन्तरेण पुंव्यापारः स्यादित्यादित्यज्योतिः सम्राडित्यादौ संबन्ध उक्तः। संप्रत्यात्मैवास्य ज्योतिरित्याद्युक्त्याऽऽत्मना तस्य संबन्ध उच्यते ततः पूर्वोत्तरवाक्ययोर्विरोधादात्मन्युत्पन्नसंशयो राजा तन्निर्दिधारयिषया पृच्छतीत्यर्थः॥२७९॥

अर्थान्तरं चेद्देहादेरात्मज्योतिर्विवक्षितम्॥
पूर्वोत्तरविरोधोऽयं तदा नैवेह ढौकते॥२८०॥

** **विरोधशङ्कया संशयात्प्रश्नमुक्तमाक्षिपति। अर्थान्तरमिति। आत्मैवास्येत्यादावात्मशब्देन देहग्रहे पूर्वोत्तरविरोधः शङ्कनीयो देहातिरिक्तज्योतिषा पूर्वं पुंव्यापारस्याधुना च देहेन संबन्धोक्तेरात्मशब्देनार्थान्तरग्रहे त्वविरोधस्तस्माद्विरोधशङ्काधीनसंशयमूलप्रश्नासिद्धिरित्यर्थः॥२८०॥

आत्मशब्दश्च लोकेऽस्मिन्प्रसिद्धोऽनेकवस्तुषु॥
साक्षिबुद्धिशरीरान्तेष्वात्मबुद्धिसमन्वयात्॥२८१॥

** **समाधत्ते। आत्मशब्दश्चेति। प्रश्नानुत्थानशङ्काध्वंसार्थश्चकारः। प्रसिद्धिं स्फुटयति। साक्षीति॥२८१॥

डतमच्प्रत्ययस्तस्माद्बह्वर्थस्यात्र संभवात्॥
कतमो भवताऽऽत्मेति ज्योतिष्ट्वेन विवक्षितः॥२८२॥

** **यस्मादात्मशब्देऽनेकार्थसंभवस्तस्माद्बहूनामेकस्य निर्धारणेऽपेक्षिते कतम इति डतमच्प्रयोग इत्युक्तेऽर्थे लिङ्गमाह। डतमजिति। आत्मशब्दस्यानेकेषु प्रयोगं दृष्ट्वा

संशयानः पृच्छतीति फलितमाह। कतम इति। यो भवता ज्योतिष्ट्वेना406ऽऽत्मा विवक्षितः स कतम इति योजना॥२८२॥

इति पृष्टोऽनुमानेनाविरुद्धं प्रत्यपीपदत्॥
आत्मज्योतिः सुविस्पष्टं राजानं योऽयमित्यतः॥२८३॥

** **उत्तरमाह। इति पृष्ट इति। पूर्वोक्तानुमानाविरुद्धमात्मज्योतिर्योऽयमित्यादिना मुनी राजानं प्रति स्पष्टमुक्तवानिति योजना॥२८३॥

भान्वादिज्योतिषा तावद्व्यवहर्तुरनुग्रहः॥
कृष्णसारादिदेशेषु स्वान्तस्यानुग्रहस्ततः॥२८४॥

** **उत्तरमवतार्यातिरिक्तात्मज्योतिःसमर्थनार्थं जडाजडज्योतिषोरनुग्रहप्रकारं स्मारयञ्जडज्योतिरनुग्रहप्रकारमनुवदति। भान्वादीति। कृष्णसारादिदेशेषु चक्षुर्गोलकादिप्रदेशविशेषेष्विति यावत्। बाह्येन्द्रियद्वारा मनसो भान्वाद्यनुग्रहाद्विवेकशालितेत्याह। स्वान्तस्येति॥२८४॥

मनःप्रधानः संघात आत्मचैतन्यबिम्बितः॥
अभिव्यक्तस्मृतिः सोऽथ बाह्यां चेष्टां प्रपद्यते॥२८५॥

** **जडज्योतिरनुग्रहमुक्त्वेतरज्योतिरनुग्रहमनुकीर्तयति। मन इति। तस्याऽऽत्मचैतन्याभासव्याप्तत्वे शब्दादिविषयानुसंधानशक्तिर्भवतीत्याह। अभिव्यक्तेति। उत्पन्नार्थानुसंधानमर्थप्रवृत्तिहेतुरित्याह। अथेतियथाऽऽहुः स्मृत्याश्रयाश्च प्राणभृतां सर्वे व्यवहारा इति॥२८५॥

पिण्डस्तावदिहाऽऽत्मैको द्वितीयो लिङ्गसंज्ञितः॥
चिद्बिम्बितावधिश्चान्यश्चतुर्थो नेति नेति यः॥२८६॥

** **ज्योतिर्द्वयवादोऽद्वयवादेऽयुक्त इत्याशङ्क्य कल्पनयोपपत्तिरित्याशयेनाऽऽत्मनि कल्पितं भेदमादायाऽऽत्मशब्दश्च लोकेऽस्मिन्नित्येतत्प्रपञ्चयति। पिण्ड407 इति। चिह्बिम्बितावधिरित्यन्तर्यामी साक्षी चोच्यते॥२८६॥

बाह्यान्तर्ज्योतिषोर्मध्ये देहो बुद्ध्यादिसंहतः॥
वर्तते वाङ्मनःकायक्रियाकारी सुखादिमान्॥२८७॥

** **काल्पनिकभेदेन ज्योतिर्द्वये सिद्धे संघातस्य क्रियातत्फलभाजस्तन्मध्ये वर्तनमुक्तं युक्तमित्याह। बाह्येति॥२८७॥

भान्वादिज्योतिषा सोऽयं सम्यक्संदीपितेक्षणः॥
तद्द्वारेद्धमनाः स्मृत्वा बाह्यां चेष्टां प्रपद्यते॥२८८॥

कथं तयोः संघातानुग्राहकत्वं तत्र बाह्यज्योतिराश्रित्याऽऽह। भान्वादीति। सोऽयमिति व्यवहर्ता संघातो गृह्यते। अन्तर्ज्योतिरधिकृत्याऽऽह। तद्द्वारेति। आदित्याद्यनुगृहीतेन्द्रियद्वारा जातसमुल्लासमानसश्चैतन्याभासव्याप्तो विषयाननुसंधाय पुरुषस्तेषु योग्यां चेष्टां करोतीत्यर्थः॥२८८॥

धर्माधर्मसमुत्थोऽस्य बाह्यज्योतिरनुग्रहः॥
हेत्वन्तरानपेक्षस्तु प्रत्यग्ज्योतिरनुग्रहः॥२८९॥

ज्योतिर्द्वयानुगृहीतः प्रवर्तते पुमानित्युक्तं स्मारयित्वा बाह्यज्योतिःसंबन्धो धर्मादिकृतोऽन्यः स्वाभाविक इत्युक्तमधिकविवक्षयाऽनुभाषते। धर्मेति॥२८९॥

देहैकदेश एवास्य देवतानुग्रहस्ततः॥
कृत्स्नाध्यात्माधिदैवादावात्मज्योतिरनुग्रहः॥२९०॥

** **विवक्षितमधिकमाह। देहेति। आदित्याद्यनुग्रहोऽस्य पुंसो गोलकादिस्थानेष्वेवाऽऽत्मज्योतिरनुग्रहस्तु सर्वत्रेत्युक्तविभागात्फलतीत्यर्थः॥२९०॥

न तत्र सूर्यो भातीति तथाचाऽऽथर्वणे वचः॥
यथा प्रकाशयत्येक इति चाप्यैश्वरी स्मृतिः॥२९१॥

** **आत्मज्योतिषः सर्वानुग्राहकत्वं सर्वावभासकत्वमिति मन्वानस्तत्र श्रुतिस्मृती प्रमाणयति। न तत्रेति। सप्तम्यनुकृत्यधिकरणे विषये व्याख्याता॥२९१॥

अस्थास्नुत्वाच्च धर्मादेः प्रयोज्यं साधिदैवतम्॥
अध्यात्ममधिभूतं च तेनास्थास्न्वात्मसाक्षिकम्॥२९२॥

** **अनुग्राहकात्मज्योतिर्वदनुग्राह्यमपि देहादि नित्यमेव तयोर्मिथः संबन्धादित्याशङ्क्याऽऽह। अस्थास्नुत्वादिति। प्रयोजकधर्मादेरनित्यत्वात्प्रयोज्यदेहादेश्चकार्यत्वादनित्यमेव तत्सर्वमित्यर्थः। तर्हि तद्वदात्मज्योतिरप्यनित्यमित्याशङ्क्याऽऽह। तेनेति। यस्मादनित्यं सर्वमात्मसाक्षिकं तस्मात्तत्साधकतया सदातनमात्मज्योतिरिति यावत्॥२९२॥

बाह्यज्योतिरभावेऽतो वाङ्मनःकायहेतुके॥
स्वप्नादिव्यवहारेऽस्मिञ्ज्योतिरात्मैव नापरम्॥२९३॥

** **पुंसो ज्योतिर्द्वयानुगृहीतस्य प्रवृत्तिश्चेत्कथं स्वप्नादौ तत्प्रवृत्तिरनुग्राहकबाह्यज्योतिरभावादित्याशङ्क्याऽऽह। बाह्येति। ज्योतिर्द्वयानुग्रहो जाग्रत्येवेत्यतःशब्दार्थः॥२९३॥

देहेन्द्रियमनोबुद्धिव्य408तिरेकप्रसिद्धये॥
योऽयमित्युच्यते प्रत्यग्ज्योतिषो भानुवद्वचः॥२९४॥

लोकायतविचारव्यवहितं सर्वंसोपस्कारं स्मारयित्वा योऽयमित्यादेरवतारितस्य तात्पर्यमाह। देहेति। भानोरनुग्राह्यातिरेकवदात्मज्योतिषोऽपि देहाद्यतिरेकार्थं योऽयमित्यादि वचः श्रुत्योच्यत इति योजना॥२९४॥

स्वयंप्रमाणकस्तावत्साक्ष्यन्तोऽर्थो व्यवस्थितः॥
भावाभावौ प्रमात्रादेस्तत्प्रसादात्प्रसिध्यतः॥२९५॥

** **आत्मज्योतिषोऽतिरेकार्थं सत्त्वं तावदाह। स्वयमिति। साक्षी खल्वाभासान्तः स्वप्रकाशस्तस्य सर्वसाधकत्वाद्यद्वा साक्षिपर्यन्तः प्रमात्रादिः स्वयंप्रमाणकः स्वयमात्मा प्रमाणमस्येति व्युत्पत्तेस्तदस्य नासत्त्वाशङ्केत्यर्थः। कथं सर्वसाधकत्वं तत्राऽऽह। भावेति॥२९५॥

तदाभासानुविद्धेन प्रमात्राऽहंवपुर्भृता॥
प्रमाणादेः प्रसिद्धिः स्यान्मेयस्यापि प्रमाणतः॥२९६॥

चित्प्रसादान्मात्रादिसिद्धिक्रममाह। तदाभासेति। आदिपदेनाज्ञानाद्युक्तिः॥२९६॥

प्रमाणव्यापृतिफलप्रसिद्धिश्चप्रमातरि॥
अवगत्यवसाना स्यात्प्रमातुः प्रत्यगात्मनि॥२९७॥

** **मानफलसिद्धिप्रकारमाह। प्रमाणेति। मातरि मानाख्यव्यापारात्फलसिद्धिर्मातुर्यः प्रत्यगात्मा तस्मिन्नात्मभूता याऽवगतिस्तदवसानैव सा प्रतिबिम्बस्य बिम्बावसानत्वादेवं माता तन्मानादि च सर्वमनुभवादेव सिध्यतीत्यर्थः॥२९७॥

यतोऽवगतिरेवात्र प्रमात्रादिविशेषणा॥
साक्षात्प्रमाफलं न्याय्यं प्रत्यगात्मैकसाक्षिकम्॥२९८॥

** **मानफलं स्वप्रकाशं नानुभववेद्यमित्याशङ्क्याऽऽह। यत इति। लोके स्वरूपावगतिरेव मात्रादिसंसृष्टा सती फलत्वेन व्यवह्रियते तेनोपहितं मानफलमनुभवगम्यं युक्तमित्यर्थः। साक्षादवगतिरिति संबन्धः॥२९८॥

प्रत्यक्चिदाकृतिर्बुद्धौ मेयार्थाकृतिवत्स्थिता॥
बुद्धिः कारणसंस्थैव कृत्स्नव्यवहृतिक्षमा॥२९९॥

** **मानफलस्योपहितत्वं साधयति। प्रत्यगिति। प्रथमं चिदाभासो बुद्धिस्थो भवति तस्याः स्वच्छत्वेन चित्प्रतिबिम्बसंभवात्ततो घटाद्याकारपरिणततद्वृत्तिगतः सम्यगवगम्यतेऽन्यथा तदसिद्धेस्तन्मानफलमित्युच्यते तेनोपहितं तदित्यर्थः। यद्वा मेयोऽर्थो घटादिस्तदाकारो यथा चक्षुरादिद्वारा बुद्धिस्थो भवति तथा चिदाभासोऽपीति द्रष्टव्यं तद्रूपं फलमुपहितमित्यर्थः। यस्यां बुद्धौचैतन्याभासः सा स्वतन्त्रेत्याशङ्क्याऽऽह। बुद्धिरिति। न हि कार्यं स्वतन्त्रं व्यवहाराय पर्याप्तं कार्यत्वव्याघातादित्यर्थः॥२९९॥

यः पृष्टः स पराग्वृत्तिप्रमामेयातिलङ्घितः॥
प्रत्यक्षेणैव मानेन त्वयमित्यभिधीयते॥३००॥

** **आत्मज्योतिषः सर्वसाधकस्य देहादिव्यतिरेकं साधयितुं योऽयमित्यादीति तात्पर्यमुक्त्वा पदयोरर्थमाह। यः पृष्ट इति। पराचि विषये वृत्तिर्यस्याः प्रमायास्तस्या मेयत्वमतिलङ्घ्य स्थितः स्वरूपसाक्षात्कारेणैव सिद्धोऽयमित्युच्यते यस्त्वया कतम इति पृष्टः स तावदेष इत्यर्थः॥३००॥

पराञ्चीति च मन्त्रोक्तिः साक्षादात्मेति च श्रुतिः॥
पराङ्मानाप्रमेयत्वमात्मनः प्रत्यबूबुधत्॥३०१॥

** **प्रत्यक्षाद्यविषयत्वं प्रतीचो यदुक्तं तत्र मानमाह। पराञ्चीति। स्वरूपचैतन्येन प्रत्यक्षत्वे पूर्वोक्तं प्रमाणमाह। साक्षादिति। मन्त्रोक्तेस्तात्पर्यमाह। पराङिति॥३०१॥

कुम्भाकारेण कुम्भार्थो यथा प्रत्यक्ष ईक्ष्यते॥
विज्ञानेन तथा प्रत्यङ्ङात्माकारेण गृह्यते॥३०२॥

** **आत्मनः स्वरूपचैतन्यप्रत्यक्षत्वेऽपि कथमयमितिशब्दभाक्त्वमित्याशङ्क्य तदर्थमुक्तमर्थं दृष्टान्तेन साधयति। कुम्भेति। आत्माकारेण विज्ञानेनेति संबन्धः॥३०२॥

घटासामान्यरूपोत्थप्रत्यक्षैकप्रमाणकः॥
घटार्थोऽव्यभिचारित्वात्तयोर्मानप्रमेययोः॥३०३॥

** **दृष्टान्तं विवृणोति। घटेति। घटस्योक्तप्रत्यक्षगम्यत्वे हेतुमाह। अव्यभिचारित्वादिति॥३०३॥

आत्मासाधारणात्मोत्थभास्वच्चैतन्यरूपिणा॥
प्रत्यक्षेणेक्ष्यते नित्यमात्मनाऽऽत्मा त्वकारकः॥३०४॥

दार्ष्टान्तिकं प्रपञ्चयति। आत्मेति। प्रत्यक्षेणाऽऽत्मनेति संबन्धः। स्वेनाऽऽत्मा सदेक्ष्यते चेत्तस्मिन्कर्तृकर्मकरणत्वप्रसक्तिरित्याशङ्क्याऽऽह। अकारक इति॥३०४॥

अनात्माकारमानेषु ह्यन्योन्यव्यभिचारिषु॥
प्रत्यक्प्रत्यय एवैकः सर्वत्राव्यभिचारवान्॥३०५॥

** **आत्मनः स्वरूपचैतन्यसिद्धतया न स्वप्रकाशत्वं व्यभिचारित्वाद्रज्जुसर्पवदस्तीह स्वापादौ तद्व्यभिचारितेत्याशङ्क्याऽऽह। अनात्मेति। स्वापादिष्वपि साधकत्वेन स्वरूपचैतन्यस्य409 स्थितेर्न व्यभिचारितेत्यर्थः। न हि द्रष्टुरित्यादौ तत्र चैतन्यस्थितिर्वक्ष्यमाणेतिद्योतनार्थो हिशब्दः॥३०५॥

यत एवमतः प्रत्यक्प्रत्ययेनोपदिश्यते॥
तदन्यधीगृहीतौ स्याद्यतोऽनात्मत्वमात्मनः॥३०६॥

** **आत्मनः स्वरूपचैतन्यसिद्धत्वमनूद्य फलितमाह। यत इति। प्रत्यक्प्रत्ययः स्वरूपचैतन्यं तेन सिद्धत्वादात्माऽयमित्युच्यते तद्योग्यत्वादित्यर्थः। केचित्त्वात्मनः स्वरूपचैतन्यसिद्धत्वममृष्यन्तो वेद्यत्वमाहुस्तान्प्रत्याह। तदन्येति। अतो न वेद्यतेति शेषः॥३०६॥

अपास्तान्यव्यपेक्षं चेदात्मदृष्ट्या समीक्षितम्॥
जगदात्मैव कृत्स्नं स्यान्न ह्यज्ञातोऽवशिष्यते॥३०७॥

** **आत्मनोऽतिरिक्तधीग्राह्यत्वं निषेधता धीतद्विषयावात्मातिरिक्ताविष्टावित्याशङ्क्याऽऽह। अपास्तेति। सत्तास्फूर्त्योरन्यानपेक्षं यथा स्यात्तथा सर्वं जगत्कृस्नात्मदृष्टिरूपेण दृष्टं चेत्तदा बुद्धिर्बोध्यं चाऽऽत्ममात्रं स्यादात्मनि ज्ञाते सत्यज्ञातानवशेषात्तस्मादज्ञानदशायां बुद्ध्यादिभावेऽपि न ज्ञानादूर्ध्वं तदस्तीत्यर्थः॥३०७॥

अयमित्यभिधायोग्यबहोरर्थस्य संनिधिः410
विज्ञानमय इत्युक्तिस्तदवच्छित्तये यतः411॥३०८॥

पदान्तरमवतारयति। अयमितीति। अयमित्युक्तेस्तद्वाच्यत्वेन प्रत्यक्षस्य घटाद्यनेकार्थप्रसङ्गात्तस्मादयंशब्दार्थव्यावृत्त्यर्थं विज्ञानमयविशेषणं ततो न घटादिरत्रायंशब्दाभिधेय इत्यक्षरार्थः॥३०८॥

विज्ञानमय इत्यस्माद्व्यपदेशान्निवर्तते412
ज्योतिरात्मा जडाद्देहात्तस्याचैतन्यरूपतः॥३०९॥

** **आत्मज्योतिरधिकाराद्घटादिव्यवच्छेदस्य तल्लभ्यत्वात्किं विशेषणेनेत्याशङ्क्य तत्तात्पर्यमाह। विज्ञानेति। देहस्य जाड्यं भौतिकत्वात्कुम्भवदित्याह। तस्येति॥३०९॥

विज्ञानमित्यनेनात्र बुद्धिरेवाभिधीयते॥
बुद्ध्युपाध्यविविक्तश्च विज्ञानमय उच्यते॥३१०॥

** **अनेनेति मयटो वक्ष्यमाणं प्रायार्थत्वं सिद्धवत्कृत्य समुदायार्थमाह। बुद्धीति॥३१०॥

बुद्धिविज्ञानसंपृक्तो यस्मादेष प्रमीयते॥
राहुवच्चन्द्रसंपृक्तः प्रत्यग्ज्ञानमयस्ततः॥३११॥

** **असङ्गोदासीनस्य प्रतीचो बुद्ध्यसंबन्धान्न विज्ञानमयतेत्याशङ्क्याऽऽह। बुद्धिविज्ञानेति। न हि राहुःस्वरूपेण प्रत्यक्षो मीयते चन्द्रादित्ययोस्तु प्रत्यक्षगोचरस्तथाऽयमात्मा बुद्ध्यादिसंबन्धादेव यतो मीयते ततो विज्ञानमयोऽसाविति योजना। वस्तुतस्तदसंबन्धेऽपि सविकल्पकप्रतीतिस्तत्संपर्कादेवेति तन्मयतेत्यर्थः॥३११॥

द्रष्टृत्वाद्यभिसंबन्धोऽकारकस्यापि सर्वदा॥
बुद्धियोगकृतोऽतोऽयं विज्ञानमय उच्यते॥३१२॥

** **तस्य तन्मयत्वे हेत्वन्तरमाह। द्रष्टृत्वादीति॥३१२॥

आत्मानात्मावबोधाय यतो धीरेव कारणम्॥
सर्वार्थकर413णं साऽतो दीपो ध्वान्ते यथा तथा॥३१३॥

** **नन्वात्मा बुद्धिवच्चक्षुरादिनाऽपि संपृक्तो द्रष्टृत्वादि लभते तथाच चक्षुरादि हित्वा किमित्यसौ विज्ञानेनैव विशेष्यते तत्राऽऽह। आत्मेति। यथा दीपः सति ध्वान्ते विषयावरके तन्निवारणद्वारेण विषयग्रहणकारणं तथा बुद्धेः सर्वार्थग्राहित्वेन प्राधान्यात्तथैवाऽऽत्मा व्यपदेशमर्हतीत्यर्थः॥३१३॥

विज्ञानालोकसंपृक्तं मेयं वस्त्वखिलं यतः॥
विजानाति मयट्तस्मात्प्रायार्थोऽत्रावसीयते॥३१४॥

** **तथाऽपि कथं मयट्प्रयोगो नित्यसिद्धस्याऽऽत्मनो बुद्धिविकारत्वासिद्धेस्तत्राऽऽह। विज्ञानेति। विजानात्यात्मेति शेषः। प्रायार्थो बुद्धिसदृशस्तदाकारोऽयमात्मेत्येवमर्थोऽस्मिन्पदे मयडित्यर्थः॥३१४॥

यावाल्ल्युँडर्थस्तेनायं तदविद्यैकहेतुतः॥
अविशिष्टो मतो यस्मात्तदाभासैकवर्त्मना॥३१५॥

विज्ञानमय इत्येवं तस्मादात्माऽभिधीयते॥
सर्वधीवृत्तिसा414क्षित्वात्तादात्म्याच्चाप्यनात्मनः॥३१६॥415

** **आत्मनोऽजडस्य जडबुद्धिसादृश्यासिद्धेर्नैवमित्याशङ्क्याऽऽह। यावानिति। ल्युटोऽर्थो विज्ञानं तेन सहायमात्मा स्वाविद्यावशाद्विज्ञानस्थः स्वाभासद्वारेण समानो यतो मतोऽतो वस्तुतोऽसदृशोऽपि विज्ञानमयशब्दित इत्यर्थः। तस्य तन्मयत्वे हेत्वन्तरमाह। सर्वेति। न केवलं बुद्धिमयत्वमेवात्रेष्टं किंतु सर्वमयत्वमित्याह। तादात्म्याच्चेति॥३१५॥३१६॥

सर्वार्थग्रहणं तस्मा416त्पुरोवस्थितदीपवत्॥
प्रधानं करणं बुद्धिर्द्वारमात्रं ततोऽपरम्॥३१७॥

** **आत्मनो विज्ञानमयत्वं प्रतिपाद्याऽऽत्मानात्मावबोधायेत्यादिनोक्तमुपसंहरति। सर्वार्थेति। तर्हि करणान्तरवैयर्थ्यमित्याशङ्क्य बुद्धिप्रवृत्तिद्वारत्वान्मैवमित्याह। प्रधानमिति। अतः श्रोत्रादि हित्वा बुद्ध्यैवाऽऽत्मा विशेष्यत इति शेषः॥३१७॥

व्याचख्युर्मयटं ये तु विकारार्थे म417हाधियः॥
स्वव्याख्यानविरोधः स्यात्तेषां चानर्थसंगतिः॥३१८॥

विज्ञानं परं ब्रह्म तत्प्रकृतिको जीवो विज्ञानमय इति भर्तृप्रपञ्चैरुक्तं तथाच विकारार्थो मयडित्याशङ्क्याऽऽह। व्याचख्युरिति। विज्ञानमयो मनोमय इत्यादौ मयटो न विकारार्थतेति तैरेवोच्यते तत्र मनसः418 समभिव्याहाराद्विज्ञानं बुद्धिर्न चाऽऽत्मनस्तद्विकारत्वमतोऽस्मिन्प्रयोगे मयटो विकारार्थत्वं वदतां स्वोक्तिविरोधः स्यादित्याह। स्वव्याख्यानेति। किंच परस्य जीवो विकारश्चेत्तद्गतः संसारस्तस्मिन्प्रसरेत्तयोस्तादात्म्यादित्याह। अनर्थेति। चकारो दोषान्तरसमुच्चयार्थः॥३१८॥

आत्मनश्चापि निःशेषविकारप्रतिषेधतः॥
न जायत इति स्पष्टं श्रुतिमन्त्रोक्तिसंश्रयात्॥३१९॥

** त्वन्मतेऽपि तादात्म्याविशेषात्किमिति जीवगतो बन्धो न परस्मिन्प्रसरतीत्याशङ्क्य निर्विकारे चिन्मात्रे वस्तुतोऽसंसारादस्मन्मते न किंचिदवद्यमित्याह। आत्मनश्चेति। चकारापिकारौ जायते म्रियते वेत्यादिस्मृति**समुच्चयार्थौ॥३१९॥

अनिर्मोक्षप्रसक्तिश्च विकारश्चेत्परात्मनः॥
मयण्नातो विकारे स्यात्प्रायार्थस्त्वत्र युज्यते॥३२०॥

** **जीवस्य परविकारत्वे श्रुत्यादिविरोधमुक्त्वा दोषान्तरमाह। अनिर्मोक्षेति। परस्य जीवो विकारश्चेत्तस्य कारणापत्तिर्मोक्षस्तदापन्नस्य च सर्गादौ पुनरुत्पत्त्युपपत्तेरनिर्मोक्षापत्तिरित्यर्थः। परपक्षायोगमुपसंहृत्य स्वपक्षमाह। मयडिति॥३२०॥

यदि वाऽज्ञानतस्तस्य विकारो जगदिष्यते॥
रज्ज्वाः सर्पादिको यद्वन्न तथा दोष इष्यते॥३२१॥

** **किंच जीवस्य परविकारत्वमाविद्यमादाय विकारार्थो मयडुच्यते किंवा वास्तवमिति विकल्प्याऽऽद्यमनूद्य प्रौढ्याऽङ्गी करोति। यदीति। उक्तविकल्पद्योती वाशब्दः। जगच्छब्दश्चेतनप्रपञ्चविषयः॥३२१॥

विज्ञानमय इत्यत्र वाक्ये प्रायार्थतेष्यते॥
पृथिव्यादिमयोऽप्यात्मा यस्मादूर्ध्वं प्रवक्ष्यते॥३२२॥

** **द्वितीयं प्रकरणविरोधेन निरस्यति। विज्ञानेति। न च पृथिव्यादिविकारत्वमात्मनो युक्तं तद्भौतिकत्वस्य निरस्तत्वादिति भावः॥३२२॥

संदिह्यमानः सर्वत्र पदार्थोऽन्यत्र निश्चितात्॥
प्रयोगात्सुविनिश्चेयो न्यायाद्वाऽत्यन्तनिश्चितात्॥३२३॥

** **कथं विज्ञानमयपदार्थनिर्णयार्थं प्रयोगान्तरमनुश्रीयते तत्राऽऽह। संदिह्यमान इति। यथा पुरोडाशं चतुर्धा कृत्वा बर्हिपदं करोतीति पुरोडाशमात्रचतुर्धाकरणवाक्यमेका-

र्थसंबन्धिना शाखान्तरीयेणाऽऽग्नेयं चतुर्धाकरोतीति विशेषविषयतया निश्चितार्थेनाऽऽग्नेय एव पुरोडाशे व्यवस्थाप्यते यथा चाक्ताः शर्करा उपदधातीत्यत्र केनाक्तत्वमिति संदेहे तेजो वै घृतमिति शेषान्निर्णयस्तथेहापीत्यर्थः। आत्मनो विकारत्वे मोक्षानुपपत्त्याद्यबाधितन्यायाद्वा विज्ञानमयपदार्थनिश्चयः। तदुक्तं **प्रमाणलक्षणे—**अर्थाद्वा कल्पनैकदेशत्वादिति। स्रुवेणावद्यति स्वधितिनाऽवद्यति हस्तेनावद्यतीत्यत्रस्रुवादीनां सर्वावदानेषु विनियोगादनियमो वा सामर्थ्यालोचनया स्रुवस्वधितिहस्तानां यथाक्रमं द्रवमांससंहतद्रव्यादानेषु नियमो वेति संदेहे विनियोगाविशेषादनियमे प्राप्ते विनियोगस्यानुष्ठानार्थत्वात्तस्य सामर्थ्याधीनत्वात्तदनुरोधेन व्यवस्थायाः शास्त्रप्रामाण्यमिति स्थितम्। वाशब्दोऽनियमव्यासेधार्थः। अर्थात्सामर्थ्याद्योग्यतावशादेकैकस्य स्रुवादेरेकैकस्मिन्द्रवादौदेशे संबन्धार्हत्वान्नियम इत्यक्षरार्थः। तथेहाप्यनात्मनो ब्रह्मविकारत्वमात्मनस्तु तन्मात्रत्वं शास्त्रप्रामाण्यादिति व्यवस्थेत्यभिप्रेत्याऽऽह। न्यायाद्वेति॥३२३॥

देहादिवेन्द्रियेभ्योऽपि व्युत्थापनचिकीर्षया॥
प्राणेष्विति श्रुतिर्वक्ति प्राणाः पञ्चदशोदिताः॥३२४॥

** **विज्ञानमयपदं व्याख्याय प्राणेष्वित्यस्य विवक्षितमाह। देहादिति। तत्र प्रकृतिभागस्यार्थमाह। प्राणा इति॥३२४॥

तेभ्यो निर्धारणार्थाय सप्तमीयं प्रयुज्यते॥
प्राणेषु योऽर्थोऽनुगतः स आत्मेत्यवधार्यताम्॥३२५॥

** **मनसो हृदीति वक्ष्यमाणत्वाद्धीकर्मेन्द्रियाणि दश वायवश्च पञ्चेति पञ्चदशत्वं प्रत्ययार्थमाह। तेभ्य इति। निर्धारणमात्मनो निष्कर्षो विभाजनम्। प्रकृतिप्रत्ययात्मकपदस्यापेक्षितं पूरयन्नर्थमाह। प्राणेष्विति॥३२५॥

प्राणेष्वात्मीयरूपेषु प्रत्यक्त्वेनावभाति यः॥
स एवाऽऽत्मेति विज्ञेयस्तेषु सर्वेष्वनात्मसु॥३२६॥

** **तेषामात्मत्वे संभाविते किमिति साक्षित्वेन तेष्वनुगतस्याऽऽत्मत्वं तत्राऽऽह। प्राणेष्वित्यादिना। न हि करणेषु दीपवदात्मत्वसंभावनेत्यर्थः॥३२६॥

मतं प्राणसजातीया धीरेवाऽऽत्मेति चेन्न तत्॥
यतो धीव्यतिरेकार्थं हृदीति श्रुतिरभ्यधात्॥३२७॥

हृदीतिपदं शङ्कोत्तरत्वेनाऽऽदत्ते। मतमिति॥३२७॥

हृच्छब्देन च धीरेव तात्स्थ्यादत्राभिधीयते॥
स्वार्थस्तस्यां य आभाति स आत्मा बुद्धिवृत्तिदृक्॥३२८॥

** **हृदीत्युक्तेस्ततोऽर्थान्तरत्वे भात्यपि कथमात्मनो धीव्यतिरेकित्वमित्याशङ्क्याऽऽह। हृच्छब्देनेति। पद्मकोशप्रतीकाशं हृदयमिति श्रुतेर्मांसखण्डविशेषे प्रसिद्धस्य तस्य

कथं धीविषयत्वमित्याशङ्क्योपचारादित्याह। तात्स्थ्यादिति। सप्तम्यर्थमपेक्षितं पूरयन्नाह। स्वार्थ इति॥३२८॥

हृदीत्याधारनिर्देशाद्धीस्था आत्मेति शङ्क्यते॥
वृत्तयोऽतो निवृत्त्यर्थमन्तरित्युपदिश्यते॥३२९

विशेषणान्तरस्य तात्पर्यमाह। हृदीति॥३२९॥

देवताविषयप्राणबुद्धितद्वृत्तितः परः॥
प्रत्यक्तया यः प्रथते ज्योतिरात्मा स ईक्ष्यताम्॥३३०

आत्मशब्दस्य बहुषु प्रयोगं दृष्ट्वा संशयात्पृष्टवन्तं प्रति दर्शितरीत्या कीदृशो निर्णय उक्तस्तत्राऽऽह। देवतेति। विराड्घटादिश्चदेवताविषयशब्दौ यः कतम आत्मेति पृष्टः स बुद्ध्यादिभ्योऽतिरिक्तः स्वप्रकाशो ज्ञेयस्तस्यापि प्रत्यक्तया दृष्टेरित्यर्थः॥३३०॥

ग्राहकग्रहणग्राह्यरूपोऽनात्मा प्रवाहवान्॥
बुद्ध्यादिर्विषयान्तोऽर्थो यत्साक्षिक इवेक्ष्यते॥३३१॥

** **बुद्ध्यादेरात्माऽतिरिक्तश्चेत्तर्हि प्रतियोग्येष्टव्योऽन्यथाऽतिरेकासिद्धेरित्याशङ्क्य कल्पितं तं गृहीत्वाऽऽह। ग्राहकेति। सोऽनात्मत्वाज्जाड्याच्च साक्ष्यपेक्षो यस्मिन्कल्पितः सिध्यति स ततोऽन्य इत्यर्थः। जन्मादिमत्त्वेनानात्मनः सादित्वमाशङ्क्याऽऽह। प्रवाहवानिति। न हि ग्राहकादिव्यक्तीनामन्यतमव्यक्तिरहिता पूर्वकालकोटिरस्ति तेन प्रवाहात्मना तदनादीत्यर्थः॥३३१॥

भूत्वाऽभवंस्तथाऽभूत्वा भवंश्चेहातथात्मना॥
अज्ञातोऽ419लुप्तदृष्टिर्यः स आत्मा ज्योतिरुच्यते॥३३२॥

** **आत्मन्यपि जन्मादिदृष्टौ कथं बुद्ध्यादिसाक्षितेत्याशङ्क्य नाऽऽत्माऽश्रुतेरित्यादिन्यायमाश्रित्याऽऽह। भूत्वेति। इहाविद्यादशायामतथात्मना कल्पितरूपणैव जन्मनाशवत्त्वादनुदितानस्तमितज्ञप्तिस्वभावो यश्चिदात्मा स स्वप्रकाशो बुद्ध्यादिसाधको विद्वद्भिरिष्ट इत्यर्थः॥३३२॥

आगमापायितासिद्धिर्बुद्ध्यादेर्यत्समाश्रयात्॥
साक्षादात्मेति तं पश्य प्रत्यग्दृष्ट्यैकमात्मनि॥३३३॥

** **निर्णयमुपसंहरति। आगमेति। इत्थंभावे तृतीया तया च पश्येत्युक्तिप्राप्तदृष्टिकर्तृत्वादि निरस्यते॥३३३॥

परागर्थानुसारिण्यो यतो धीवृत्तयस्ततः॥
विशेषणादन्तरिति व्यावर्त्यन्ते420 पराक्त्वतः॥३३४॥

प्रश्ननिर्णयार्थं वाक्यार्थं संक्षिप्योपसंहृत्य ज्योतिरित्यादि व्याचिख्यासुरन्तर्विशेषणाद्वृत्तीनां व्यावृत्तिरित्युक्तेऽर्थे हेतुमाह। परागिति। कथमेतावता तासां प्रतीचो व्यावृत्तिरत आह। पराक्त्वत इति। प्रतीच इति शेषः॥३३४॥

कारणं तर्हि बुद्ध्यादेरात्मेत्यत्र प्रसज्यते॥
कार्यस्यान्तर्यतो दृष्टं सर्वत्रैव च कारणम्॥३३५॥

** **ज्योतिर्विशेषणव्यावर्त्यमाह। कारणमिति। अत्र सर्वत्रेति संबन्धः॥३३५॥

जाड्यं चाऽऽत्मन इच्छन्ति कणभुङ्मतजीविनः॥
तेषां विप्रतिषेधार्थं ज्योतिरित्यभिधीयते॥३३६॥

** **बुद्ध्यादेर्जाड्याज्जडमेव किंचित्कारणं युक्तं कथमात्मा तथेत्याशङ्क्याऽऽह421जाड्यं चेति। विशेषणमवतारयति। तेषामिति॥३३६॥

योऽयमित्यादिना यद्वा यथोक्तस्याऽऽत्मवस्तुनः॥
प्रकृतज्योतिःसंवन्धो ज्योतिरित्यभिधीयते॥३३७॥

** **ननु प्रागेव निर्णयं व्याकुर्वता जाड्यस्याऽऽत्मनो व्यावर्तितत्वात्कथमित्थमर्थवज्ज्योतिर्विशेषणमित्याशङ्क्य तस्य तात्पर्यान्तरमाह। योऽयमित्यादिनेति। प्रस्तुतवाक्योक्तात्मवस्तुनः प्रकृतेनाऽऽत्मनैवायं ज्योतिषेत्यादावुक्तेन ज्योतिषा संबन्धो वाच्यस्तेन विशेषणामेत्यर्थः॥३३७॥

उपादानं हि बुद्ध्यादेरात्माविद्येति भण्यते॥
सकृद्विभातं चिन्मात्रं ज्योतिरित्युपदिश्यते॥३३८॥

** **यत्तु बुद्ध्यादिकारणं जडमात्मवस्त्वित्येतन्निषेधार्थं विशेषणमिति तद्व्यञ्जयन्बुद्ध्यादिकारणस्वरूपमाह। उपादानमिति। बुद्ध्यादेरविद्यायाश्च जडत्वेन सारूप्यादुचितमुपादानोपादेयत्वमितिसूचनार्थो हिशब्दः। तत्र विद्वत्प्रसिद्धिं प्रमाणयति। इति भण्यत इति। आत्मनि प्रयुक्तज्योतिःशब्दस्यैतद्व्यावर्तनसामर्थ्यमाह। सकृदिति॥३३८॥

वस्तुवृत्तेन प्रध्वस्तनिःशेषाज्ञानमात्मनः॥
ज्योती रूपमिदं भास्वत्प्रत्यङ्मात्रसतत्त्वकम्॥३३९॥

** **अज्ञोऽहमिति ज्ञायमानस्य प्रतीचो यथोपदिष्टज्योतिष्ट्वमश्लिष्टिमिति चेत्तत्राऽऽह। वस्तुवृत्तेनेति। आत्मनो रूपमित्युक्ते भेद422माशङ्क्याऽऽह। भास्वदिति॥३३९॥

ज्योतिः संविच्चितिः प्रत्यङ्ङात्मेति व्यपदिश्यते॥
स्वार्थं यत्प्रथते नित्यं जाग्रत्स्वप्नसुषुप्तिषु॥३४०॥

बुद्ध्यादिषु परार्थेषु ह्यागमापायिवस्तुषु॥
स्वयं रूपेण यो भाति स्थास्नुः स्वार्थः स भण्यते॥३४१॥

ज्योतिरित्यस्य बुद्ध्यादेरागमापायसिद्धिदः॥
स्वयंमातृक एवायमात्मत्वादेव कारणात्॥३४२॥

ज्योतिःशब्दस्यान्यत्र रूढेर्नाऽऽत्मविषयतेत्याशङ्क्य ज्योतिर्दर्शनादिति न्यायेनाऽऽह। ज्योतिरिति। पुरुषशब्दाद्यनुगृहीतप्रकरणात्प्रकृ423तज्योतिषोऽपकृष्याऽऽत्मन्येवायं शब्दो नियम्यत इति भावः। आत्मनो ज्योतिष्ट्वे युक्त्यन्तरमाह। स्वार्थमिति। अवस्थात्रयेऽपि सर्वत्र जडे जन्मनाशयति यदनपेक्षं सदा भाति तज्ज्योतिरित्यर्थः। आत्मत्वादेवाऽऽत्मज्योतिषः स्वार्थत्वमनात्मनश्चानात्मत्वादेव परार्थत्वमिति वक्तुं हिशब्दः। कथं पुत्राद्यर्थत्वदृष्टेरात्मनः स्वार्थत्वं तत्राऽऽह। स्वयमिति। स्वयं ज्योतिरिति कृत्वा यः स्वरूपेण भाति स स्थास्नुः स्वार्थश्चेति योजना। विशिष्टस्य पारार्थ्यं नान्यस्येति भावः। उक्तं स्वप्रकाशत्वं साधयति। अस्येति॥३४०॥॥३४१॥३४२॥

अनेनैव यथोक्तेन ज्योतिषा सकलं जगत्॥
षड्भावविक्रियामेति निर्विकारेण भास्वता॥३४३॥

** **आद्यं पक्षमुपपाद्य द्वितीयं समर्थयते। अनेनेति॥३४३॥

अचेतनोऽपि बुद्ध्यादिश्चेतनावानिवेक्ष्यते॥
देहेन्द्रियमनोबुद्धिसंघातो वायुभिः सह॥३४४॥

आत्मज्योतिर्भास्यं सर्वमित्यत्र गमकमाह। अचेतनोऽपीति। बुद्ध्यादिशब्दार्थं विशदयति। देहेति। अनेनैव ज्योतिषेक्ष्यत इति पूर्वेण संबन्धः॥३४४॥

यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः॥
क्षेत्रं क्षेत्री तथा कृत्स्नं व्यनक्तीति स्मृतेर्वचः॥३४५॥

** **आत्मज्योतिषः सर्वावभासकत्वे भगवद्वाक्यं प्रमाणयति। यथेति॥३४५॥

आत्मच्छायं पयोऽशेषं यथा मारकतो मणिः॥
परीक्षणाय प्रक्षिप्तः कुर्यादात्मा तथैव च॥३४६॥

बुद्ध्यादिदेहपर्यन्तं प्रत्यगज्ञानहेतुकम्॥
जडस्वभावकं नित्यमवभासयति स्वयम्॥३४७॥

** **तस्य सर्वावभासकत्वं दृष्टान्तेन स्पष्टयति।आत्मच्छायमिति। बुद्ध्यादेर्भासकापेक्षत्वे हेतुमाह। जडेति॥३४६॥३४७॥

बुद्ध्यादिष्वपि सूक्ष्मेषु यत्सूक्ष्मतममुच्यते॥
बुद्ध्यादिकारणं नित्यमात्माविद्येति भण्यते॥३४८॥

जडत्वार्थं प्रत्यगज्ञानहेतुकमित्युक्तं किं तत्प्रत्यगज्ञानामित्युक्ते तस्य विक्षेपकं रूपमाह। बुद्ध्यादिष्विति। आत्मज्योतिर्व्यावृत्त्यर्थं विशिनष्टि। बुद्ध्यादीति। कारणत्वसिद्ध्यर्थं तन्नित्यमित्यनादित्वमुक्तम्॥३४८॥

अपि कूटस्थवपुषः प्रतीचः सङ्गकारकम्424
तत्त्वमस्यादिवाक्योत्थज्ञानबाध्यं च यद्विदुः॥३४९॥

** **तस्यैवाऽऽच्छादकं रूपमाह। अपीति। उभयरूपे तस्मिन्वाक्यीयज्ञानस्यार्थवत्त्वानुपपत्तिं प्रमाणयति। तत्त्वमिति॥३४९॥

यन्निमित्तं च साक्षित्वं कारणत्वं तथाऽऽत्मनः॥
सर्वकार्यविनाशेऽपि यद्बीजमवशिष्यते॥३५०॥

** **आत्मनः साक्षित्वाद्यनुपपत्तिरपि तदा425क्षेपिकेत्याह। यन्निमित्तमिति। प्रलयादौ लीनस्य कार्यस्य पुनरुत्पत्त्यनुपपत्तिरपि तत्कल्पिकेत्याह। सर्वेति। यद्बीजमुत्पत्तिस्थितिभङ्गानामिति संबन्धः॥३५०॥

तदात्मज्योतिषेद्धं सन्नित्यमेवावतिष्ठते॥
उत्पत्तिस्थितिभङ्गानां न वेद्मीति च साक्षितः॥३५१॥

** **तस्य स्वातन्त्र्यं व्यावर्तयति। तदात्मेति। अनुभवसिद्धत्वान्न साधकान्तरापेक्षेत्याह। नेति। साक्षितः स्वानुभवाद्भातीति शेषः॥३५१॥

कूटस्थ एव साक्ष्यत्र स्वमोहाभासहेतुतः॥
अविचारितसंसिद्धि तमोऽनुभवसंश्रयात्॥३५२॥

** **साक्षित्वस्य वस्तुत्वाद्यन्निमित्तं च साक्षित्वमिति कथमुक्तं तत्राऽऽह। कूटस्थ इति। यद्वा परिणामिनः साक्षित्वान्न तत्राज्ञानापेक्षेत्याशङ्क्याऽऽह। कूटस्थ इति। अत्र परिणामिबुद्ध्यादाविति यावत्। तस्य साक्षित्वे हेतुमाह। स्वमोहेति। मोहस्य वस्तुत्वान्न तत्कृ426तमपि तथेत्याशङ्क्याऽऽह। अविचारितेति। प्रामाणिकस्य कुतोऽविचारितत्वं तत्राऽऽह। अनुभवेति॥३५२॥

निःसाक्षिके न वेद्मीति न कथंचित्प्रसिध्यति॥
तथा कूटस्थसंवित्के नितरां नैतदिष्यते॥३५३॥

** **अनुभवादेव तमःसिद्धिं साधयति। निःसाक्षिक इति। तमसि साक्ष्यनपेक्षे न वेद्मीति न तद्भानं न हि मानादेवं भानं तस्य स्वनिवर्त्यासाधकत्वादित्यर्थः। आत्मा वेदज्ञानसाक्षी तर्हियथा स्वरूपेण स तत्साक्षी तथाऽन्यत्रापि स्यादित्याशङ्क्याऽऽह।

तथेति। यथा साक्षिणोऽभावे तमसोऽसिद्धिस्तथा निर्विकारचिद्रूपे तमोनिपेक्षे साक्षिणि सुतरामेतत्तमो न सिध्यति।

‘स्वयं सेद्धुमसामर्थ्यात्साधकान्तरहानतः।
बाधकस्य च सद्भावात्तमसा साक्षिता चितेः’॥

** **स्वपरनिर्वाहकत्वं च तस्योक्तमिति भावः॥३५३॥

ऐश्वर्यं कारणत्वं च साक्षित्वमपि चाऽऽत्मनः॥
सदेशितव्यकार्यार्थसाक्ष्यार्थेनास्य संगतेः॥३५४॥

** **साक्षित्वादेराविद्यत्वमुपसंहरति। ऐश्वर्यमिति। न हि सापेक्षं स्वरूपंस्वाभाविकमस्वाभाविकं चाऽऽविद्यं रजतवदित्यर्थः। ये तु केचिदैश्वर्यमनारोपितमाश्रयन्ते ते पुनरैश्वर्यं कारणत्वं चेत्यादिवार्तिकार्थं नाऽऽलोचयन्ते॥३५४॥

आत्माज्ञानमतः प्रत्यक्चैतन्याभासवत्सदा॥
आत्मनः कारणत्वादेः प्रयोजकमिष्यते॥३५५॥

** **स्वाज्ञानं साक्षित्वादिनिर्वाहकमनुवदति। आत्मेति। आत्मनोऽसङ्गत्वादिरतःशब्दार्थः। इहेति कार्याद्युक्तिः॥३५५॥

चैतन्याभासवत्प्रत्यङ्मोहान्तात्प्रत्यगात्मनः॥
बुद्ध्यादेर्विषयान्तस्य सिद्धिः स्यात्साक्षिणस्ततः॥३५६॥

** **साक्षित्वमाविद्यमुक्त्वा ततः सर्वबुद्ध्यादिसिद्धिरित्युक्तं निगमयति। चैतन्येति। यश्चैतन्याभासवान्प्रत्यङ्मोहस्तदन्तः साक्षी तस्माच्च प्रती427चो बुद्ध्यादेः सिद्धिरिति यावत्॥३५६॥

स्वकारणाभिसंबन्धाच्चैतन्याभासता धियः॥
जायतेऽतोऽभिमानोऽस्यां जायते महतामपि॥३५७॥

** **आत्मज्योतिरधीनं सर्वं सिध्यति चेत्तत्संबन्धाविशेषात्किमित्यादौ सर्वेषां बुद्धावेवाऽऽत्मधीरित्याशङ्क्याऽऽह। स्वकारणेति। धीहेतावज्ञाने चैतन्याभाससंबन्धादनन्तरमव्यवधानेन तस्यां चैतन्याभासता जायते तदस्यामादावात्मधीः। उक्तं हि— अहमिति तावत्प्रथमोऽध्यास इति। तत्र विद्वद्भ्रान्तिरपि साधनमित्यर्थः॥३५७॥

कारणानन्तरत्वाच्च तथा स्वच्छस्वभावतः॥
चैतन्याभासवत्येषा धीः पूर्वमभिजा428यते॥३५८॥

** **उक्तेऽर्थे बुद्धिस्तावदित्यादिभाष्यं व्याचष्टे। कारणेति॥३५८॥

तस्मादात्माभिमानो हि बुद्धौ जनिमतां सदा॥
जायते सर्वभूतानामपि सर्वविदामिह॥३५९॥

तस्याश्चिदाभासत्वे भ्रान्तिं प्रमाणयति। तस्मादिति। तादृगभिमाने सर्वाविसंवाद-

द्योतनार्थो हिशब्दः। अविदुषामीदृगभिमानो न विदुषामित्याशङ्क्याऽऽह। अपीति॥३५९॥

चिदाभासोऽथ मनसि बुद्ध्यानन्तर्यकारणात्॥
मनःसंबन्धतश्चैवमिन्द्रियेष्वभिजायते॥३६०॥

** **मनस्यात्मबुद्धिस्तर्हि कथमित्याशङ्कायामाह। चिदिति। तत्र हेतुः। बुद्धीति। इन्द्रियेषु कथं तद्धीरिति तत्राऽऽह। मन इति। एवं चैतन्याभासद्वारेणाहंधीरित्यर्थः॥३६०॥

मनःकरणसंबन्धाद्देहेऽप्यस्योपजायते॥
एवमाभासयत्यात्मा कृत्स्नं कार्यं सकारणम्॥३६१॥

** **देहे तद्धियमुपपादयति। मनःकरणेति। मनसा करणैश्च संबन्धादस्याऽऽत्मनः स्थूले देहे चिदाभासात्तद्धीरित्यर्थः। उक्तं निगमयति। एवमिति॥३६१॥

सौक्ष्म्यस्य तारतम्येन स्थितस्य विषयावधि॥429
430त्माभिमानधीः पुंसां जायते नियता ततः॥३६२॥

** **तत्र हेतुः। सौक्ष्म्यस्येति। बुद्ध्यादेर्विषयान्ततया स्थितस्य यत्सौक्ष्म्यं तस्य तरतमत्वहेतुनेति यावत्। ततो बुद्ध्यादिषु पूर्वोक्तात्क्रमादित्येतत्॥३६२॥

नित्योऽनित्यानामिति च येन सूर्यस्तथा परः॥
न तत्र सूर्यो भातीतिमन्त्राम्नायो ह्यनेकशः॥३६३॥

** **आत्मज्योतिषः सर्वावभासकत्वे कठश्रुतिं प्रमाणयति। नित्य इति। नाशिनामयमनाशी चेतनाश्चेतयितारो ब्रह्मादयस्तेषामयमेव चेतनो यथोदकादीनामनग्नीनामग्निनिमित्तं दाहकत्वं तथा चैतन्यनिमित्तमेव चेतयितृत्वमन्येषामित्यर्थः। तत्रैव येन सूर्यस्तपति तेजसेद्ध इत्यादिमन्त्रं पठति। येनेतिनावेदविन्मनुते तं बृहन्तमित्युत्तरत्रसंबन्धः। तत्रैव श्रुत्यन्तरमाह। न तत्रेति। तत्रेति विषयसप्तमी प्रकृतं ज्योतिषां ज्योतिर्ब्रह्माधिकरोति। आत्मज्योतिषः सर्वावभासकत्वे यथा प्रकाशयतीत्याद्या स्मृतिरधस्तादेव दर्शितेति हिशब्दार्थः॥३६३॥

आत्मन्येवं प्रबुद्धेऽस्मिञ्ज्योतिषि ध्वान्तनाशतः॥
सर्वस्यैवाऽऽत्मयाथात्म्यादात्मा पुरुष उच्यते॥३६४॥

** **ज्योतिःशब्दं व्याख्याय पुरुषशब्दार्थमाह। आत्मनीति। एवमुक्तश्रुतिस्मृतिन्यायैरिति यावत्॥३६४॥

आत्माज्ञानसमुच्छित्तौ तज्जस्य न हि वस्तुनः॥
प्रत्यग्रूपात्पृथग्रूपं संभाव्यं केनचित्क्वचित्॥३६५॥

ज्ञानादज्ञानध्वंसेऽपि जगतोऽध्वस्तेर्न पूर्णत्वेन पुरुषतेत्याशङ्क्याऽऽह। आत्मेति॥३६५॥

स्रगज्ञानसमुच्छित्तौ न तज्जस्यान्यतः स्रजः॥
रूपं संभाव्यतेऽह्यादेरेवमात्मस्वरूपतः॥३६६॥

न कार्ये करणे वाऽपि तदभावेऽथवाऽन्यतः॥
प्रत्यङ्मात्रैकयाथात्म्याद्रूपं संभाव्यतेऽण्वपि॥३६७॥

** **तद्दृष्टान्तेन स्पष्टयति। स्रगिति। आत्मस्वरूपतोऽन्यत इति संबन्धः। ततोऽन्यत्राणुमात्रस्यापि कार्यादिरूपस्यासंभवे हेतुमाह। प्रत्यगिति॥३६६॥३६७॥

अव्यावृत्ताननुगतप्रत्यङ्मात्रावशेषतः॥
पूर्णत्वात्पुरुषो ज्योतिरात्मैवैकोऽभिधीयते॥३६८॥

** **पुरुषशब्दार्थमुपसंहरति। अव्यावृत्तेति। तथाविधज्योतिरिति संबन्धः। तस्य पुरुषत्वे हेतुः। प्रत्यङ्मात्रेति। ज्योतिषो यथोक्तरूपत्वेऽपि किमात्मनः स्यात्तदाह। आत्मेति॥३६८॥

सद्भावेऽपि च भान्वादेः पारार्थ्याद्देहवन्न तत्॥
स्वार्थस्य ज्योतिषोऽभावे भावत्वायापि च क्षमम्॥३६९॥

योऽयमित्यादि व्याख्याय स समानः सन्नित्याद्यवतारयितुमुक्तमात्मज्योतिरनुग्रहमनुभाषते। सद्भावेऽपीति। जागरे भान्वादेः सत्त्वेऽपि जाड्यादजडज्योतिरभावे सत्त्वायापि तन्नालंदूरे प्रकाशयितुं न हि जडः स्थूलो देहः स्वातिरिक्तज्योतिरभावे सत्तास्फूर्ती लभतेतथा भान्वाद्यपि431 स्वसाधकात्मज्योतिरभावे; तथा च तस्य तत्प्रदमजडं ज्योतिरेष्टव्यमित्यर्थः॥३६९॥

देहादेर्व्यापृतिश्चेत्स्याज्जडादित्यादिहेतुतः॥
भवेन्निःसाक्षिकैवेयमन्धकारप्रनृत्तवत्॥३७०॥

** **तत्र432 हेत्वन्तरमाह। देहादेरिति। अजडज्योतिरभावे देहादिव्यापारस्याऽऽदित्यादिप्रयुक्तस्य साधकाभावादसिद्धिप्रसङ्गादजडज्योतिरनुसर्तव्यमित्यर्थः॥३७०॥

स्वार्थात्मज्योतिषैवातो भावाभावात्मतां जगत्॥
लभते तमृते यस्मान्नेयात्संभावनामपि॥३७१॥

** **फलितमाह। स्वार्थेति। अतःशब्दार्थं स्फुटयति। तमिति। स्वार्थं ज्योतिरात्मानमित्यर्थः॥३७१॥

यदेतद्धृदयमिति तथाचाऽऽगमशासनम्॥
प्राणिव्यवहृतिः सर्वा प्रत्यगात्माभिमानतः॥३७२॥

यथोक्तज्योतिषोऽशेषभासकत्वे श्रुत्यन्तरमाह। यदिति। हृदयं मनश्चैतदुभयं संविदवभासितत्वात्संविन्मात्रमित्यैतरेयकवाक्यमात्मज्योतिषः सर्वभासकत्वानुसारीति यावत्। किंचाचेतनानां कार्यकरणानां चेतनत्वप्रसिद्ध्यनुपपत्त्या सदा चिदात्मव्याप्तिरेष्टव्येत्याह। प्राणीतिउक्तं हि— स्वाभिमानो हि सर्वप्राणिनां संव्यवहार इति॥३७२॥

सर्वाभिमानहेतुं च चिदाभासं पुराऽब्रवम्॥
सम्यङ्मारकतदृष्टान्तदर्शनेनाऽऽत्मवस्तुनः॥३७३॥

** **कथं प्रतीचः सर्वत्र बुद्ध्यादावहंमानोऽसङ्गत्वादित्याशङ्क्याऽऽह। सर्वेति। आत्मवस्तुनश्चिदाभासं सर्वत्राभिमानहेतुं विशिष्टदृष्टान्तप्रदर्शनेन पुरा सम्यगब्रवमिति संबन्धः॥३७३॥

यद्यप्येवमिदं वस्तु यथोक्तमहिमं433 परम्॥
तथाऽपि तज्जागरिते शक्यं दर्शयितुं न तु॥३७४॥

** **वृत्तमनुभाष्यानन्तरवाक्यमवतारयति। यद्यपीति। परं हीदं वस्तु सर्वावभासकत्वाद्व्याख्यातमहिमोपेतं यद्यपि श्रुतिस्मृतिप्रमितं तथाऽपि न तज्जागरे दर्शयितुं शक्यमिति श्रुतिः स्वप्नं प्रस्तौतीत्यर्थः॥३७४॥

आत्मबुद्धिमनश्चक्षुर्विषयालोकसंकरात्॥
जाग्रद्भूमौ न तच्छक्यं ज्योतिर्दर्शयितुं ततः॥३७५॥

स्वप्ने बुद्ध्याद्युपरतौ वासनामात्रशेषतः॥
ज्योतिर्दर्शयितुं शक्यं स समान इतीर्यते॥३७६॥

किमिति जाग्रति तद्दर्शयितुमशक्यं तदधीनो हि सर्वो व्यवहारस्तत्रोक्तस्तत्राऽऽह। आत्मेति। स्वप्नेऽपि तद्दर्शयितुमशक्यं न्यायसाम्यादित्याशङ्क्याऽऽह। तत इति। तस्य चतुर्थपादेन संबन्धः। स्वप्ने मुञ्जेषीकावद्बुद्ध्यादेर्निष्कृष्याऽऽत्मज्योतिर्वक्तुमुत्तरं वाक्यमित्यर्थः॥३७५॥३७६॥

कथं चैवंस्वभावस्य तदज्ञानजभूमिषु॥
व्यवहारः प्रतीचोऽस्य स समानाद्यतो वचः॥३७७॥

ससमानवाक्यस्य संबन्धान्तरमाह। कथं चेति। आत्मनो नित्यमुक्तस्य संसारित्वमविद्ययेति वक्तुमुत्तरो ग्रन्थ इत्यर्थः॥३७७॥

ज्योतिर्भ्योदेहतो लिङ्गाद्बुद्ध्यन्ताच्चातिरेकतः॥
योऽञ्जसा दर्शितस्तस्य विशुद्ध्यै वोत्तरं वचः॥३७८॥

तस्यैव संबन्धान्तरमाह। ज्योतिर्भ्य इति। लिङ्गं सूक्ष्मो देहः। देहाद्यतिरिक्तस्याऽऽत्मनः शुद्धिप्रतिपादनायोत्तरग्रन्थ इत्यर्थः॥३७८॥

स्वयंज्योतिः शरीरादेर्बुद्ध्यन्तादनुमानतः॥
निष्कृष्याभिहितो योऽत्र स समानः स्वमोहतः॥३७९॥

** **सशब्दार्थोक्तिपूर्वकं समानपदमादत्ते। स्वयमिति। अनुमानतो व्यवहारलिङ्गादिति यावत्। अत्रेत्यनन्तरपूर्वग्रन्थः संसारावस्था वोच्यते। समानत्वे हेतुमाह। स्वमोहत इति॥३७९॥

समान एकः सन्नात्मा स्वात्माविद्यातदुद्भवैः॥
अज्ञानमिथ्याविज्ञातप्रत्यक्त्वादात्मवस्तुनः॥३८०॥

** **समानशब्दार्थमपेक्षितं पूरयित्वा दर्शयति। समान इति। एकः सन्ननुसंचरतीति संबन्धः। आत्मनः स्वाज्ञानतत्कार्यैरैक्ये हेतुमाह। अज्ञानेति॥३८०॥

केनैक इत्यपेक्षायां हृदयेनेति भण्यते॥
सधीरिति श्रुतेरत्र हृदीति प्रकृतत्वतः॥३८१॥

** **समानपदस्य सापेक्षत्वात्तस्यानुक्तत्वात्कथमेतद्व्याख्येयमित्याशङ्क्याऽऽह। केनेति। भण्यते भाष्यकृतेति शेषः। आत्मनो बुद्ध्यैक्ये माध्यंदिनश्रुतिं प्रमाणयति। सधीरिति। तत्रैव संनिधिमाह। अत्रेति॥३८१॥

अविचारितसंसिद्धि यत्तु बुद्ध्यादिकारणम्॥
कूटस्थात्मैकचैतन्यबिम्बितं सत्स्व434दोषतः॥३८२॥

स्वात्माविद्यावधिः435 सोऽयं परः कारणमुच्यते॥
साक्षी चेता जगद्बीजमन्तर्यामीति च श्रुतौ॥३८३॥

श्रुतिभाष्ययोरात्मनो बुद्ध्यैक्ये कथ्यमाने किमिति स्वाविद्यया तदैक्यमुच्यते तत्राऽऽह। अविचारितेति। यद्बुद्ध्यादिकारणमनिर्वाच्यमज्ञानं तत्सत्त्वगुणप्रधानं स्वगतस्वाच्छ्याच्चिदाभासाक्रान्तं तदुपाधिः सोऽयं परः पुरुषः कारणत्वादिरूपेण श्रुतावुच्यतेऽतस्तदैक्यं तस्याऽऽविद्यं कारणत्वादिसिद्ध्यर्थमुक्तमित्यर्थः। स्वदोषतो यथोक्तस्वाच्छ्यादिति यावत्। ईक्षणकर्तृत्वं निराकर्तुं विशिनष्टि। चेतेति। कारणमिति परस्य निमित्तत्वमुक्त्वोपादानत्वमाह। जगदिति॥३८२॥३८३॥

बुद्ध्यादिकार्यसंस्थस्य कूटरथासङ्गरूपिणः॥
सर्वं स्यात्कारणत्वादि तदाभासैकवर्त्मना॥३८४॥

** **अज्ञानात्तस्य कारणत्वादि चेन्नापरमपेक्ष्यमित्याशङ्क्याऽऽह। बुद्ध्यादीति

तत्कार्यंयस्याज्ञानस्य तस्मिन्नैक्याध्यासेन स्थितस्येति यावत्। तत्राऽऽभासापेक्षां प्रतिजानीते। तदाभासेति॥३८४॥

चैतन्याभासवपुषा कूटस्थैकत्वमिष्यते॥
कारणस्य स्वकार्यैश्च तदबोधसमन्वयात्॥३८५॥

** **कथमित्याशङ्क्य कारणत्वस्य तदपेक्षां साधयति। चैतन्येति। अज्ञानस्याऽऽभासद्वारा कूटस्थैक्ये तस्य कारणत्वमिष्टं स्वतस्तदयोगादित्यर्थः। अज्ञानसंबन्धवच्चिदात्मनस्तत्कार्यबुद्ध्यादिसंबन्धेऽप्याभासापेक्षामज्ञानद्वारा दर्शयति। स्वकार्यैश्चेति। परस्याज्ञस्या436ज्ञानप्रबुद्ध्यादिभिः संबन्धस्तेषामबोधे तेषु वा तस्य संबन्धादिति यावत्॥३८५॥

प्रतीचोऽनवशेषेण कार्यकारणसंगतिः॥
तयोस्तु सावशेषेण प्रतीचा संगतिस्त्वियम्॥३८६॥

** **कार्यकारणात्मनां मिथः संगतिरुक्ता तत्र तस्य ताभ्यां कीदृशी संगतिरित्युक्ते यथा कार्यं कारणं च पृथङ्न तिष्ठति तथा तस्य ताभ्यां संगतिरित्याह। प्रतीच इति। तेन तयोः संगतिरपि तादृशीति नेत्याह। तयोस्त्वति। यथाऽऽत्मा पृथक्तिष्ठति तथा ते नेतरे संबध्येते इत्यर्थः। प्रथमस्तुशब्दो विशेषणार्थोद्वितीयोऽवधारणार्थः सावशेषेणेत्यत्र संबध्यते॥३८६॥

नाऽऽत्मत्वाद्व्यतिरेकोऽस्य कार्यकारणभूमितः॥
न सामान्यं विशेषो वा कार्त्स्न्यादात्मा ततो भवेत्॥३८७॥

** **तर्हि ताभ्यामात्मनो भेदस्तत्राऽऽह। नाऽऽत्मत्वादिति। कारणाद्भेदाभावादात्मनः सामान्यत्वमनुवृत्तं कारणमिति स्थितेः कार्याद्भेदाभावाद्विशेषत्वं व्यावृत्तस्य तद्भावादित्याशङ्क्याऽऽह। नेत्यादिना। ततःशब्दस्य कार्त्स्न्यादित्यनेन संबन्धः॥३८७॥

अनात्मनस्तु या सिद्धिः सा सर्वाऽव्यतिरेकतः॥
जाड्यात्सापेक्षतः साऽतो मृषासिद्धिरुदाहृता॥३८८॥

** **अद्वयस्याऽऽत्मनो द्विरूपत्वाभावेऽपि सद्वयस्याऽऽत्मनः स्यादित्याशङ्क्याऽऽह। अनात्मनस्त्विति। अव्यतिरेकत इति च्छेदः। चितः437 सकाशादिति शेषः। तस्य स्वतःसिद्धिसंभवे किमित्यात्माव्यतिरेकस्तत्राऽऽह। जाड्यादिति। कथं तर्हि पृथक्प्रथेत्याशङ्क्याऽऽह। साऽत इति। जाड्यात्पृथक्प्रथायोगोऽतःशब्दार्थः॥३८८॥

किं पुनः स्यात्समानत्वमात्मबुद्ध्यादिवस्तुनोः॥
विवेकतोऽननुभवो वराहोरगवत्तयोः॥३८९॥

कार्यकारणाभ्यामैक्यमात्मनः समानतेत्ययुक्तं तयोस्तस्य च जाड्याजाड्याभ्यां विरोधादिति मत्वाऽऽह। किमिति। अश्वमहिषवदित्यादिभाष्येणोत्तरमाह। विवेकत इति॥३८९॥

यत्तत्तयोः समानत्वं रज्जुसर्पादिवन्मतम्॥
आत्माविद्यैव संबन्धस्तस्मादात्मन इष्यते॥३९०॥

** **उक्तसमानत्वस्य मिथ्यात्वमाह। यत्तदिति। मिथ्यात्वे फलितमाह। आत्मेति। अनात्मनेति शेषः॥३९०॥

अकारकस्वभावस्य परमार्थात्मवस्तुनः॥
अविद्याकल्पितैव स्यात्संगतिः खेऽसितादिवत्॥३९१॥

कल्पिता तयोः संगतिरित्येतद्दृष्टान्तेन साधयति। अकारकेति॥३९१॥

कूटस्थात्मचिदाभेऽस्य प्रत्यग्ध्वान्ते हि तद्भवैः॥
विषयान्तैर्भवेद्भ्रान्तिः सामानाधिकरण्यतः॥३९२॥

** **तस्यास्तथात्वेऽपि प्रतीचो बुद्ध्यादिसमानत्वं कथं कल्पितं तत्राऽऽह। कूटस्थेति। स्वाज्ञाने साभासे निमित्ते प्रतीचस्तत्कार्यैर्मनुष्योऽहमित्यादिसामानाधिकरण्यात्तादात्म्यभ्रान्तिस्तद्युक्ता समानत्वस्य मिथ्यातेत्यर्थः॥३९२॥

विकारिणः प्रकाशस्य नीलरक्तादिसंगतेः॥
नीलादिविक्रिया युक्ता परिणामस्य न त्वसौ॥३९३॥

** **आदित्याद्यालोकस्य नीलादियोगे तत्तदाकारविकारवदात्मज्योतिषोऽपि बुद्ध्यादियोगे विकारित्वं ज्योतिष्ट्वाविशेषादित्याशङ्क्याऽऽह। विकारिण इति॥३९३॥

परिणामो हि मोहादेश्चिदाभासः सदेष्यते॥
परिणामान्तरप्राप्तिस्तस्यापीति न युज्यते॥३९४॥

** **कथमपरिणामत्वमात्मनो बुद्ध्याद्यभिन्नस्योच्यते तत्राऽऽह। परिणामो हीति। अविद्याया बुद्ध्यादेश्चपरिणामस्य सदा चिदात्मप्रकाश्यत्वात्तस्य परिणामविशेषप्राप्तिरयुक्ता साक्षिणः साक्ष्यत्वानुपपत्तेस्तदसौ कूटस्थ एवेत्यर्थः॥३९४॥

सुखिदुःखित्वसाक्षित्वं दुःस्थितं स्यात्तथा सति॥
सुखाद्यनुगमात्तस्य व्यतिरेकः सुदुर्लभः॥३९५॥

** **रूपप्रकाशकस्यापि सवितू रूपित्ववत्परिणामसाक्षिणोऽपि परिणामित्वमित्याशङ्क्याऽऽह। सुखीति। दौस्थ्ये हेतुः। तथेति। दुःखित्वादौ सति तत्सांकर्यादात्मनः साक्ष्याद्दुः438खादेर्भेदो दुर्ज्ञानो न चैकत्वे तद्भावो विरोधाद्दृष्टान्तस्तु प्रत्यक्षत्वादविरुद्धो न चात्र विक्रियावत्त्वे मानं तद्युक्तमविक्रियत्वमित्यर्थः॥३९५॥

नर्ते स्याद्विक्रियां दुःखी साक्षिता का विकारिणः॥
धीविक्रियासहस्राणां साक्ष्यतोऽहमविक्रियः॥३९६॥

** **अविक्रियत्वेऽपि कुतो न दुःखादिमत्त्वं तत्राऽऽह। नेति। विक्रियावत्त्वे दोषमाह। साक्षितेति। साक्षी चेतेत्यादिश्रुतिमाश्रित्य फलितमाह। धीविक्रियेति॥३९६॥

परिणाम्यात्मनोऽप्येवं कूटस्थावगतेरिव॥
न युक्तः परिणामोऽयं लौकिकस्यापि नेष्यते॥३९७॥

** **मातृवदात्मनः सक्रियत्वमाशङ्क्याऽऽह। परिणामीति। द्रव्यत्वात्पयोवन्माता परिणामीत्यनुमानात्कुतः साध्यवैकल्यं तत्राऽऽह। लौकिकस्येति। न हि तथाभूतस्य परिणामस्तथाभावविरोधान्नान्यथाभूतस्यानवस्थितेस्तथा च क्षीरादिपरिणामोऽपि प्रामाणिको न भवतीति भावः॥३९७॥

धीस्वान्तेन्द्रियसंघाते चि439दाभासैकवर्त्मना॥
सर्वात्मकत्वं संयात आत्माऽविद्यावशादतः॥३९८॥

** **समानत्वं निगमयति। धीस्वान्तेति। वस्तुतःसमानत्वायोगोऽतःशब्दार्थः॥३९८॥

समानः कारणात्मा वा यत्र सर्वोपसंहृतिः॥
कारणात्मा हि संवर्त्य का440र्यात्मत्वं प्रपद्यते॥३९९॥

** **समानशब्दस्यार्थं भाष्योक्तमुक्त्वाऽर्थान्तरमाह। समान इति। अवान्तर कारणव्यावृत्त्यर्थं पाञ्चमिकं कारणात्मानं विशिनष्टि। यत्रेति। उभौ लोकावित्यादिशे441षस्य कथमत्रोपपत्तिर्न हि मूलकारणं व्यापकं संचरितुमर्हत्यत आह। कारणात्मेति। कार्यकारणयोस्तादात्म्यं प्रसिद्धमिति हिशब्दार्थः॥३९९॥

अपेक्षाज्ञानमात्रैकहेतूत्थानत्वकारणात्॥
न कार्ये कारणे वाऽतो वस्तुतत्त्वं समीक्ष्यते॥४००॥

** **उभयात्मत्वे प्रतीचोऽशुद्धिमाशङ्क्याऽऽह। अपेक्षेति। कार्यमपेक्ष्य कारणज्ञानं तदपेक्ष्येतरज्ञानं तन्मात्रस्यैकं स्वरूपमज्ञानं तेन हेतुनोत्पन्नत्वात्कार्यादौ न वस्तुत्वं प्रामाणिकमतस्तत्कल्पनाधारस्याऽऽत्मनः शुद्धिरविरुद्धेत्यर्थः॥४००॥

अन्वयव्यतिरेकाभ्यां नातो वाक्यार्थबोधनम्॥
वस्तुतत्त्वावसायोऽतो वाक्यादेव प्रमाणतः॥४०१॥

** **शुद्धमप्यात्मतत्त्वमन्वयव्यतिरेकाभ्यामेव ज्ञायते न वाक्यादिति व्यर्था तच्चिन्तेति चेन्नेत्याह। अन्वयेति। कार्यादेरवस्तुत्वेनाऽऽत्मनोऽद्वयत्वादन्वयाद्ययोगोऽतःशब्दार्थः। तर्हि वाक्यस्यापि तथैवाप्रवृत्तेर्न ततो वाक्यार्थधीस्तत्राऽऽह। वस्त्विति। कल्पितवा-

क्यस्य वस्तुबोधित्वसंभवोऽतःशब्दार्थः। कल्पितमन्वयाद्येव तद्बोधि किं न स्यात्तत्राऽऽह। प्रमाणत इति। कल्पितत्वाविशेषेऽपि प्रमाणतया वाक्यस्य वस्तुबोधित्वमितरस्य तदभावात्तदबोधितेति भावः॥४०१॥

अतः सर्वविकल्पानामविद्यामात्रहेतुतः॥
विषयत्वं समापेदेऽविकल्पोऽपि स्वतः परः॥४०२॥

** **स समानः सन्नित्यस्यार्थमुपसंहरति। अत इति। कारणत्वादिविकल्पविषयत्वस्य स्वतोयोगोऽतःशब्दार्थः। अविकल्पोऽपीति च्छेदः॥४०२॥

समान एव सल्ँ लोकौप्राप्तप्राप्तव्यलक्षणौ॥
अनुक्रमेणाविद्यावान्सदा संचरतीश्वरः॥४०३॥

** **उभावित्यादेरर्थमाह। समान इति। संचरतो जीवस्य वस्तुतो न परस्मादन्यतेत्याह। ईश्वर इति॥४०३॥

देहेन्द्रियाद्युपादानत्यागसंतानलक्षणः॥
प्रबन्धशतसंपातैः संचरत्येष न स्वतः॥४०४॥

** **संचारं442 प्रपञ्चयति। देहेति॥४०४॥

कार्यैकनीडमेवास्य चिदाभासैकहेतुतः॥
संसारित्वं यतो नातः स्वतः संसारिताऽऽत्मनः॥४०५॥

** **स्वतो नेत्युक्तं समर्थयते। कार्येति। बुद्ध्यादिगतमेव संसारित्वं प्रतीचः स्वाभासद्वारा कल्पितमतस्तस्य स्वतोऽसंसारितेत्यर्थः॥४०५॥

अकार्यकरणोऽप्यात्मा बुद्धिप्राणादिहेतुगः॥
अविद्यया चिदाभासः संसारीवावभासते॥४०६॥

** **कार्यस्थं तत्कारणे कल्प्यमात्मा त्वद्वयस्तत्कथं बुद्ध्यादिस्थं संसारित्वमाभासद्वारा तत्राऽऽरोप्यते तत्राऽऽह। अकार्येति। आत्मा वस्तुतोऽद्वयोऽपि स्वाविद्यया बुद्ध्यादौ संसारहेतौ स्थितः स्वाभासद्वारा संसारित्वाभासमनुभवतीत्यर्थः॥४०६॥

असंभवः स्वतो यस्मात्तदबोधाच्च संभवः॥
क्रियाकारकरूपस्य तस्माच्छ्रुत्याऽभिधीयते॥४०७॥

क्रियाकारकरूपस्य मिथ्यात्वं प्रत्यगात्मनि॥
ध्यायतीत्यादिवाक्येन प्रत्यक्कौटस्थ्यवित्तये॥४०८॥

** **ध्यायतीवेत्यादिवाक्यमादत्ते। असंभव इति। तन्मिथ्यात्वोक्तेरुपयोगमाह। प्रत्यगिति॥४०७॥४०८॥

ध्यायतीव स कौटस्थ्यात्तथा लेलायतीव च॥
ध्यानादिकारिसाक्षित्वान्नाऽऽत्मा ध्यानादिकार्यवान्॥४०९

अवतारितवाक्यस्थाक्षराणि व्याचष्टे। ध्यायतीवेति। साक्षादेवास्य ध्यानादिमत्त्वं किं न स्यात्तत्राऽऽह। कौटस्थ्यादिति। तत्रैव हेत्वन्तरमाह। ध्यानादीति॥४०९॥

निःशेषबुद्धिवृत्तीनां ध्यानं स्यादुपलक्षणम्॥
लेलायनं क्रियाणां च सर्वासामुपलक्षणम्॥४१०

अस्तु ध्यानमात्मन्यौपाधिकं तथाऽपि दर्शनादि स्वाभाविकं पञ्चमे दृष्ट्यादिस्वाभाव्यस्यो443पदिष्टत्वादत आह। निःशेषेति। चैतन्यमात्रस्यैव स्वाभाव्यं तत्रोक्तमिति भावः। चलनस्योपाधिकत्वेऽपि वचनादीनामनौपाधिकत्वं वदन्वागित्यादिश्रुतेरित्याशङ्क्याऽऽह।लेलायनमिति। न हि तत्र तत्तत्क्रियास्वाभाव्यमभिमतं तत्तत्साक्षित्वेन वागादित्वोपचारादिति भावः॥४१०॥

ध्याता ध्यानं तथा ध्येयं त्रयं स्वात्मैकसाक्षिकम्॥
करणं कर्म कर्ता च नातो ध्यात्रादिसाक्षिणि॥४११॥

** **तथाऽपि ध्यातृत्वादि वस्तुतोऽस्तीत्याशङ्क्याऽऽह। ध्यातेति। चकारेण स्वात्मैकसाक्षिकमित्यनुकृष्यते। तत्साक्षित्वेन ताटस्थ्यमतःशब्दार्थः॥४११॥

बोद्धुःकर्तुश्चसंबन्धो ज्ञानेन क्रियया यथा॥
कूटस्थसाक्षिसंबन्धो बोद्धृकर्त्रोस्तथैव च॥४१२॥

** **ध्यात्रादेर्न साक्षिवेद्यत्वं तदसंबन्धात्तद्वत्स्वतःसिद्धत्वसिद्धेरित्याशङ्क्याऽऽह। बोद्धुरिति। जडयोस्तयोः साक्षिणा कल्पितसंबन्धात्तद्वेद्यतेत्यर्थः॥४१२॥

सर्वस्य प्रत्यगात्मत्वात्कूटस्थैकचिदात्मनः॥
अतोऽस्यानभिसंबन्धः सर्वप्रत्यक्त्वहेतुतः॥४१३॥

ध्यात्रादेः साक्षिणा संबन्धे तस्यापि स तेन स्यान्न च तस्य कल्पितत्वे हेतुरित्याशङ्क्याऽऽह। सर्वस्येति। यद्यपि कूटस्थोऽद्वयश्चिदात्मा सर्वप्र444त्यगात्मा तथाऽपि किमित्यस्य न संबन्धस्तत्राऽऽह। सर्वेति। संबन्धस्य द्विष्ठत्वादेकत्रायोगादिति भावः॥४१३॥445

एकनीडत्वहेतूत्था साक्षिणः साक्ष्यसंगतिः॥
न तु मोहोत्थचिद्बिम्बहेतुवृत्तव्यपेक्षया॥४१४

वास्तवसंबन्धाभावे कथं साक्षित्वं तत्राऽऽह। एकेति। एकस्मिन्कूटस्थचैतन्ये स्थितत्वमज्ञानादिसाक्ष्यस्याऽऽभासस्य चास्ति तदन्तश्च साक्षी तस्मादेकाश्रयत्वात्संगतेर्युक्ता

साक्षितेत्यर्थः। विधान्तरेण संबन्धं धुनीते। न त्विति। अज्ञानकृतश्चिदाभासस्तस्य हेतुश्चैतन्यं तत्स्वरूपापेक्षया न साक्षित्वं किंत्वविद्यातज्जयोश्चैतन्याभासानुवृत्त्येत्यर्थः॥४१४॥

कूटस्थात्मैकहेतुत्थचिद्बिम्बो मोहगस्तु यः॥
स्वोपादानानुरोधित्वात्केनचिन्नास्य संगतिः॥४१५॥

** **किंचाऽऽभासस्यापि वस्तुतो न केनचिद्योगः किमु चैतन्यस्यातोऽविद्योत्थसंगतेरेव साक्षितेत्याह। कूटस्थेति। स्वोपादानं कूटस्थमसङ्गमात्मवस्तु तदनुरोधित्वादिति यावत्॥४१५॥

चिदाभासाश्रयाज्ञानात्कार्यसंगतिहेतुतः॥
स्वाभासान्तः परोऽप्यात्मा ध्यायतीवेति वीक्ष्यते॥४१६॥

** **ध्यातृत्वादेः साक्षिणि वस्तुतोऽसत्त्वमुक्त्वा ध्यायतिवाक्यार्थमनुवदति। चिदाभासेति। तदाश्रयादज्ञानात्कार्यप्रपञ्चेन साक्ष्येण संबन्धात्परोऽप्यात्मा स्वाभासविशिष्टो ध्यायतीव लेलायतीवेति प्रतीतो भवतीत्यर्थः॥४१६॥

प्रत्यङ्मोहैकमात्रोत्थं ध्यानलेलायनादिकम्॥
तन्मिथ्याप्रतिपत्त्यर्थमिवेति व्यपदिश्यते॥४१७॥

** **इवशब्दार्थमाह। प्रत्यङ्ङिति॥४१७॥

अभ्रयानं यथाऽज्ञानाच्छश446भृत्यध्यवस्यति॥
क्रियाकारकवद्बुद्धिं तथा तत्साक्षिणीक्षते॥४१८॥

** **इवशब्दद्योतितं तन्मिथ्यात्वं दृष्टान्तेन स्पष्टयति। अभ्रेति। अज्ञानादिति447 च्छेदः॥४१८॥

धर्मधर्म्यभिसंबन्धान्यथा448 मोहैकसंश्रयात्॥
अस्पृशन्नपि नीलं खमिति संभावयेत्तथा॥४१९॥

आत्मप्रत्ययगम्येऽर्थे निष्क्रियेऽकारकेऽफले॥
क्रियाकारकवद्वस्तु संभावयति तज्जडः॥४२०॥

** **चन्द्रमसः स्वतोऽपि गतिः संभवति प्रतीचो नैवमिति मन्वानो दृष्टान्तान्तरमाह। धर्मेति। दार्ष्टान्तिकमाह। तथेति॥४१९॥४२०॥

तस्मात्संभावनामात्रः संसारः प्रत्यगात्मनि॥
उक्तेऽर्थे संशयश्चेत्स्यात्प्रत्यग्दृष्ट्या समीक्ष्यताम्॥४२१॥

** **इवशब्दार्थमुपसंहरति। तस्मादिति। वस्तुतःसंसारसंस्पर्शासंभवस्तच्छब्दार्थः। तत्र विद्वदनुभवं प्रमाणयति। उक्त इति॥४२१॥

आत्ममात्रावसायित्वान्नानात्मार्थस्पृगीक्ष्यते॥
आत्मधीरात्मसंबन्धो नातोऽनात्मन इक्ष्यते॥४२२॥

** **ननु प्रत्यग्दृष्टिरपि संसारं प्रतीचि गोचरयति सुख्यहं दुःख्यहमिति प्रतीतेस्तत्कुतोऽसंसारित्वं तत्राऽऽह। आत्मेति। ननु साऽऽत्ममात्रमवगाहमानाऽपि तन्निष्ठं सुखादि नान्तरीयकत्वेनावगाहते घटदृष्टिरिव तन्निविष्टं रूपं तत्राऽऽह। आत्मसंबन्ध इति। न हि केवलमात्मानं स्पृशन्ती धीरर्थान्तरं स्प्रष्टुमीष्टे तद्धीत्वव्याघातान्न चाऽऽत्मनि दुःखादियोगे कैवल्ये घटदृष्टिस्तु विशिष्टमेव विषयीकरोतीति वैषम्यमिति भावः॥४२२॥

ससमानोक्तिसंबन्धमन्यथाऽन्ये प्रकुर्वते॥
धीमनश्चक्षुरादीनि भिन्नरूपाणि सर्वथा॥४२३॥

नानाज्योतींषि सिद्धानि संहतानि मिथस्तथा॥
विलक्षणानामपि सतां सामान्यं संहतात्मनाम्॥४२४॥

** **स समानः सन्नित्यादिवाक्यस्य भाष्योक्तां व्याख्यामुक्त्वा भर्तृप्रपञ्चव्याख्यामादेयत्वेन वदन्नादौ प्रसङ्गमाह। ससमानेति। कथमन्यथात्वं संबन्धस्येत्युक्ते तद्वक्तुं तदीयं पूर्वपक्षमाह। धीमन इति। एकादशेन्द्रियाण्यादित्यादिज्योतिरनुगृहीतानि विलक्षणानि प्रसिद्धानि तथाऽपि मिथःसंहत्यकारीणीष्टानीत्यर्थः। कथं विलक्षणानां संहत्यकारित्वं तत्राऽऽह। विलक्षणानामिति। उक्तरीत्या मिथो विलक्षणानामपि चक्षुरादीनामेकदेहस्थत्वेनसालक्षण्यमप्यस्त्यतः संहतात्मनामर्थक्रियाकारितेत्यर्थः॥४२३॥४२४॥

सालक्षण्येऽपि च सति बुद्धेरेव विलक्षणः॥
भोक्तृत्वं नाम धर्मः स्याच्चक्षुषो दर्शनं यथा॥४२५॥

तेषामेवं सालक्षण्येन संहतात्मनामर्थक्रियाकारित्वे फलभाक्त्वव्यवस्था कथमित्याशङ्क्याऽऽह। सालक्षण्येऽपीतिउक्तं हि सालक्षण्येऽपि सत्येव बुद्धेरेव धर्मो विलक्षणोऽस्य भोक्तृत्वमिति॥४२५॥

बुद्ध्यादिव्यतिरेकोऽयं नैवं सत्युपपद्यते॥
प्रतीच उपपन्नस्तु स समान इतीर्यते॥४२६॥

** **तत्र कथं व्यतिरिक्ततोपपद्यत इतिफलोक्तिभाष्यार्थमाह। बुद्ध्यादीति। तदीयसिद्धान्तमाह। उपपन्नस्त्विति। आत्मनो बुद्ध्याद्यव्यतिरेकाशङ्कां निरसितुं वाक्यमित्यर्थः॥४२६॥

समानः सन्नुभौ लोकौ स्वप्नबुद्धान्तसंज्ञितौ॥
जन्मेदं च परं चैव संसरत्येष न स्वतः॥४२७॥

** **तदक्षराणि व्याचष्टे। समानः सन्निति। सन्नित्यस्मादधस्तादेवकारः संबध्यते॥४२७॥

बुद्ध्यादिव्यतिरिक्तोऽयं न चेदात्मा भवेत्तदा॥
भूतमात्राविशेषत्वादुभयोरपि लोकयोः॥४२८॥

उभयत्रापि युगपद्भोगः स्यान्न तु दृश्यते॥
तद्भावभावतस्तस्मादन्यज्ज्योतिरितीक्ष्यताम्॥४२९॥

** **कथमात्मनो बुद्ध्यादिव्यतिरेकः साधितस्तत्राऽऽह। बुद्ध्यादीतिउक्तं च स एष यदि व्यतिरिक्तो न स्यादुभयोरपि लोकयोर्भूतसमुदायाविशेषादुभयत्रापि भोग उत्पद्येत न तु भवतीति। अतोऽवगम्यतेऽस्ति किंचिद्व्यतिरिक्तं यद्भावाद्भवति यदभावान्न भवतीतिभाष्येण फलितमाह। तद्भावेति। व्यतिरिक्तात्मज्योतिषो भावे भोगस्य भावादन्यथा चाभावाद्व्यतिरिक्तमात्मज्योतिरित्यर्थः। यस्माद्बुद्ध्यादिसमानस्तावुभौ लोकौ संचरति पर्यायेण तस्माद्व्यतिरिक्त इत्युक्तम्॥४२८॥४२९॥

पर्यायेण समानः सल्ँ लोकौ यस्माद्व्रजत्ययम्॥
आत्मा बुद्ध्यादितस्तस्माद्व्यतिरिक्तोऽवसीयताम्॥४३०॥

** **व्यतिरेके हेत्वन्तरमाह। पर्यायेणेति॥४३०॥

देवताभोगशङ्का च विद्यते नेह काचन॥
उत्क्रान्तिस्वप्नकालेषु ताः प्रयान्ति यथागतम्॥४३१॥

** **बुद्ध्यादेर्भोक्तृत्वं निराकृत्य करणानुग्राहकदेवतानामस्मिन्देहे भोक्तृत्वमाशङ्क्य प्रस्तुतवाक्येनैव निरस्यति। देवतेति। तद्भोगपक्षे स्वप्नादौ भोक्त्रभावः स्यात्तदा तासामाध्यात्मिकपरिच्छेदं हित्वाऽऽधिदैविकात्मनाऽवस्थानादतस्तदन्यो भोक्तेत्यर्थः॥४३१॥

ईश्वराणां न च न्याय्यो भोगः प्रत्यवरस्तथा॥
देवताभ्योऽन्यदेवातो ज्योतिरात्मेति गम्यताम्॥४३२॥

** **तत्रैव हेत्वन्तरमाह। ईश्वराणामिति॥४३२॥

विभुत्वाद्देवतानां च भोगः स्यादैककालिकः॥
न चासावस्ति तेनान्यदात्मज्योतिः प्रतीयताम्॥४३३॥

युक्त्यन्तरमाह। विभुत्वादिति। आत्मनो विभुत्वेऽपि सहायवशाद्भोगव्यवस्था नैवं देवतानां स्वातन्त्र्यात्कर्मपारवश्ये तत्त्वव्याघातान्न चेश्वरो भोक्ता भोक्त्रीणां देवतानामुदाहरणं न च भोक्तृत्वे कर्मपारवश्यमावश्यकं तथाऽप्यनेकभोक्तृप्रसक्त्या नास्मिन्देहे तद्भोक्तृत्वमिति भावः॥४३३॥

स्वार्थचिन्मात्रभोक्तुश्च प्रात्यक्ष्यात्तद्विरोधिनः॥
न भोक्तृत्वं विना मानादाशङ्का निष्प्रमाणिका॥४३४॥

** **करणसमुदायस्य देवतासमुदायस्य वाऽत्र भोक्तृत्वमति449रिक्ते तस्मिन्मानाभावादित्या-

शङ्क्याऽऽह। स्वार्थेति। तद्विरोधिनश्चिन्मात्रविरोधिनो देवतासमुदायस्य करणसमुदायस्य वेत्यर्थः। तथाऽपि शङ्क्यते व्यतिरिक्तस्य भोक्तृत्वं नेत्याह। विनेति। निष्प्रमाणिका परिमितिहीनाऽतिप्रसङ्गिनीति यावत्॥४३४॥

अभिव्यञ्जकधर्मा वा परिस्पन्दात्मकास्तथा॥
नाऽऽत्मनोऽस्य स्वतः सन्ति तत्साक्षित्वात्तु ते मृषा॥४३५॥

** **ससमानवाक्यस्य परोक्तां व्याख्यामुक्त्वा ध्यायतिवाक्यस्य तदिष्टं तात्पर्यमाह। अभिव्यञ्जकेति। ध्यानचलनोपलक्षिता दर्शनवचनादयो नाऽऽत्मनः स्वतो विद्यन्ते तत्साक्षित्वेनात्यन्तवैलक्षण्यात्तस्मात्तस्मिन्भासमानो ध्यानादिसंसारो मिथ्यैवेत्यर्थः॥४३५॥

बुद्धिस्थश्चलतीवाऽऽत्मा ध्यायतीव च कल्प्यते॥
नौगतस्य यथा वृक्षास्तद्वत्संसारविभ्रमः॥४३६॥

** **ध्यायतिवाक्याक्षराणि व्याचष्टे। बुद्धिस्थ इति। इवशब्दार्थं दृष्टान्तमाह। नौगतस्येति। यथा नौस्थस्य तीरस्था वृक्षा नावि चलन्त्यां चलन्तो दृश्यन्ते तथा बुद्धिस्थस्य तच्चलनादिकं मत्वाऽऽत्मनि तद्भ्रान्तिर्वस्तुतो न चलनाद्यस्तीत्यर्थः॥४३६॥

तटस्थनरवन्नावो नौस्थो नैवेक्षते गतिम्॥
नौगत्येकप्रयुक्तत्वान्नाव्येकाग्रेक्षणोऽपि सन्॥४३७॥

** **ननु नौस्थस्तीरजेषु450 तरुषु गतिं पश्यन्नपि नाऽऽत्मनि पश्यति तत्कथं धीसाक्षिणः स्वात्मनस्तद्ग451तसंसारोपलब्धिस्तत्राऽऽह। तटस्थेति। यथा तीरस्थो नरो नावो गतिमीक्षते नैवं नौगतो नावि समाहितचक्षुरपि तद्गतामेव गतिमवगच्छति किंतु तद्गतिप्रयुक्त्या स्वात्मन्यपि तामारोप्याहं गच्छामीति निश्चिनोतीत्यर्थः॥४३७॥

यथैवं धिषणैकत्वे ध्यानलेलायने धियः॥
साक्षी स्वात्मातिरेकेण न पश्येन्नौस्थवत्पृथक्॥४३८॥

** **दृष्टान्तमनूद्य दार्ष्टान्तिकमाह। यथेति। बुद्धिसाक्षी तदैक्याभ्यासे सति तद्गतमेव ध्यानाद्यात्मातिरेकेण केवलबुद्धिस्थतया न पश्यति किंत्वात्मस्थतयेत्यर्थः। तत्रोक्तदृष्टान्तं स्मारयति। नौस्थवदिति। यथा नौस्थो नरः स्वस्मात्पृथङ्नौस्थामेव गतिं न पश्यति तद्वदिति यावत्॥४३८॥

तटस्थनरवद्यस्माद्ध्यानकम्पादिधर्मिकाम्॥
धि452यं साक्षीक्षते तस्मात्प्रत्यग्ध्यानादिवर्जितः॥४३९॥

** **तर्हि तद्वदात्मनः स्वगतमपि ध्यानादि स्यादित्याशङ्क्याऽऽह। तटस्थेति। यथा तटस्थो नरो नद्यां गत्यादिधर्मकं नावादि पश्यन्न तद्धर्मा तथा ध्यानादिधर्मवतीं बुद्धिमीक्षमाणः साक्षी वस्तुतो न तद्धर्मीत्यर्थः॥४३९॥

नौप्रयुक्ताति453रेकेण न नौस्थस्य गतिस्थिती॥
यतोऽतस्ते न जानाति नावो नौस्थस्तटस्थवत्॥४४०॥

** **तटस्थनरवदित्युक्तं व्यनक्ति। नौप्रयुक्तेति। नौगतिस्थित्यतिरेकेण नौस्थस्य ते यतो न स्तो न हि तस्यामवस्थायां तस्य गत्यादौ स्वातन्त्र्यमतस्तटस्थवन्नौस्थो न नौगते स्थितिगती प्रत्येति किंत्वात्म454न्यप्यारोप्य ते भ्राम्यतीति योजना॥४४०॥

नौसतत्त्वापरिज्ञानाद्विपरीतप्रकल्पना॥455
नौः456 स्थिता तीरजा वृक्षा द्रुतं यान्तीति निश्चितिः॥४४१॥

** **दृष्टान्तमुपसंहरति। नाविति। तदेवोदाहरति। नौरिति॥४४१॥

चैतन्याभासपर्यन्तं सा457क्षिणः परमात्मनः॥
बुद्ध्याद्यव्यतिरेके हि न स्याद्धीवृत्तिसाक्षिता॥४४२॥

** **दार्ष्टान्तिकमाह। चैतन्येति। बुद्ध्याद्यभेदे न साक्षितेत्यत्र बुद्ध्यादिदृष्टान्तावद्योती हिशब्दः। परमात्मैव स्वाभासान्तः साक्षी, तस्य बुद्ध्याद्यनतिरेके न तत्साक्षित्वमतिरेकेऽपि तदज्ञानाद्ध्यानादिकल्पनेत्यर्थः॥४४२॥

निःशेषधीविकाराणां यस्मात्साक्षित्वमात्मनः॥
वैलक्षण्यमतः सिद्धं विकारिभ्योऽस्य साक्षिणः॥४४३॥

** **परपक्षमादेयमुपसंहरति। निःशेषेति॥४४३॥

साक्षितत्त्वापरिज्ञानात्तद्विरुद्धार्थकल्पनम्॥
साक्षिसाक्ष्यादिमिथ्याधीस्तत्त्वज्ञानान्निवर्तते॥४४४॥

** **आत्मनि संसारस्य कल्पितत्वमनुवदति। साक्षीति। तत्कल्पनाफलमाह। साक्षिसाक्ष्यादीति। भोक्तृभोग्यादिसंग्रहार्थमादिपदम्॥४४४॥

कुतः पुनरिदं ज्ञानं458 धीसमानाश्रयत्वतः॥
लोकसंचरणाद्यस्य तत्साक्षित्वान्न तु स्वतः॥४४५॥

** **स हीत्याद्यवतारयितुं चोदयति। कुत इति। संचरणादीत्यादिशब्देन ध्यानदर्शनादि वदनादि च गृह्यते॥४४५॥

स हीतिहेतुनिर्देश उक्तसिद्ध्यर्थमिष्यते॥
स आत्मा यः स्वयंज्योतिरनुमानेन दर्शितः॥४४६॥

** **बुद्ध्या सहैक्याध्यासादस्याऽऽत्मनो लोकद्वयसंचारादि न स्वतस्तत्साक्षित्वादित्येतज्ज्ञानं कुतो जातमितिचोद्योत्तरत्वेन वाक्यमादत्ते। स हीतीति। तत्र हीत्ययं

हेतोर्निर्देश इति यावत्। उक्तसिद्ध्यर्थं बुद्ध्यविवेकादात्मनः संचरणादिनिश्चयार्थमित्यर्थः। हिशब्दार्थं प्रतिज्ञाय सशब्दार्थमाह। स इति॥४४६॥

प्रत्यङ्ङविद्यया यां यामवस्थामभिमन्यते॥
तत्तन्नामाप्युपादत्ते स्वप्नो भूत्वेत्यतो वचः॥४४७॥

** **कथं तत्र स्वप्नशब्दो रूढियोगयोरभावादत आह। प्रत्यङ्ङिति॥४४७॥

बुद्धिजागरणे यद्वज्जागर्मीत्यभिमन्यते॥
बुद्धिस्वापेऽपि तत्साक्ष्यात्स्व459प्नो भूत्वेति मोहधीः॥४४८॥

** **उक्तमर्थं दृष्टान्तेनाऽऽह। बुद्धीति। तज्जाग्रत्स्वापयोरात्मनि तदभिमाने हेतुमाह। तत्साक्ष्यादि460ति। मोहादात्मनि स्वप्नधीरिति फलितमाह। स्वप्न इति॥४४८॥

इमं लोकमिदं जन्म स्वप्नोभूत्वाऽतिवर्तते॥
स्वाप्नान्भोगांस्ततो भुङ्क्तेजाग्रद्भावनयाऽञ्जितः॥४४९॥

** **इमं लोकमित्यादि व्याकरोति। इममिति। इदं जन्म जागरितावच्छिन्नमित्यर्थः। जागरितमतिक्रान्तस्य सुषुप्तवद्भोगाभावमाशङ्क्याऽऽह। स्वाप्नानिति। जागरात्तर्हि स्वापे न वैषम्यं नेत्याह। जाग्रदिति॥४४९॥

धर्मादिकारणोद्भूतवासनाराशिसाक्षिता॥461
आत्मनो462ऽकारकस्यैव भो463ग इत्यभिधीयते॥४५०॥

** **कथं भोक्तृत्वे शुद्धतेत्याशङ्क्य भोगस्वरूपमाह। धर्मादीति॥४५०॥

जाग्रल्लोकं यतो हित्वा स्वप्नलोकं प्रपद्यते॥
तस्मादसङ्गोऽकर्ता च स्वयंज्योतिरितीक्ष्यताम्॥४५१॥

** **प्रकृतवाक्यस्थहिशब्दद्योतितं हेतुं स्फुटयति। जाग्रदिति। स्वतः संसारित्वे जागरं नातिक्रामेत्स्वभावत्यागायोगात्तत्स्वतोऽसंसारितेति भावः॥४५१॥

आत्माविद्यैव मृत्युः स्यान्नित्यस्यापि मृतेस्ततः॥
मृत्युर्वै तम इत्याह श्रुतिरप्यात्मनिह्नवात्॥४५२॥464

** **मृत्यो रूपाणीत्यत्र मृत्युशब्दार्थमाह। आत्मेति। तत्र हेतुमाह। नित्यस्येति। मृतेस्तदभिमानादिति यावत्। अविद्याया मृत्युशब्दत्वे श्रुतिमाह। मृत्युरिति। श्रौतेऽर्थे युक्तिमुक्तां स्मारयति। आत्मेति। तमःशब्दिताऽविद्या नित्यसिद्धमप्यात्मानं निह्नुते प्रमाणं वस्त्वनादृत्य परमात्मेव तिष्ठतीतिन्यायादतोऽसौ मृत्युरित्यर्थः॥४५२॥

स्वतोमृतस्य मरणं नाविद्यातो यतोऽन्यतः॥
अविद्यामात्मनो मृत्युं तस्मादाहुर्विपश्चितः॥४५३॥

** **आत्मनो मृतिहेतौ मृत्युशब्देऽपि तमःशब्दो गुणविशेषवाचीत्याशङ्क्याऽऽह। स्वत इति। तत्रैव विद्वत्प्रसिद्धिमाह। अविद्यामिति॥४५३॥

प्राणोत्क्रान्तिनिषेधोक्तिर्यत आत्मावबोधतः॥
सम्यग्ज्ञानस्य बाध्योऽर्थस्तस्मान्मृत्युरितीर्यते॥४५४॥

आत्माविद्यैव मृत्युरित्यत्र हेत्वन्तरमाह। प्राणेति। न तस्य प्राणा उत्क्रामन्तीति विदुषो मरणं निषिध्यते न च सम्यग्ज्ञानमज्ञानादन्यन्निवर्तयत्यतस्तन्निवर्त्यो मृत्युरज्ञानमेवेत्यर्थः॥४५४॥

रूप्यते यैरसौ मृत्युः कार्याणि करणानि च॥
तानि रूपाणि भण्यन्ते मृत्योस्तस्य परात्मनः॥४५५॥

** **रूपशब्दार्थमाह। रूप्यत इति। परात्मनस्तदुपाधेः साभासस्याज्ञानस्येति यावत्॥४५५॥

विषमस्थं यतः सर्वंप्राणव्यापत्तिकारणम्॥
तुषाग्रमात्रमपि हि मृत्युः सर्वमिदं ततः॥४५६॥

** **आत्माविद्या मृत्युस्तस्य रूपाणि कार्यकरणानीत्युक्त्वा सर्वमनात्मजातं मृत्युरिति प्रकारान्तरमाह। विषमस्थमिति। कण्ठादिनिष्ठस्योर्ध्वमधश्च निर्गन्तुमसमर्थस्याल्पीयसोऽप्यन्नपानादेर्मृतिहेतुत्वमनुभवसिद्धमिति हिशब्दार्थः॥४५६॥

मौढ्यं जाड्यमविद्या स्यान्नित्यबुद्धात्मवस्तुनः॥
अनात्मनि च तद्दृष्टं तेन मृत्युरिदं जगत्॥४५७॥

** **तत्र हेत्वन्तरमाह। मौढ्यमिति। अज्ञानं हि मौढ्यापरपर्यायं मृत्युरित्युक्तं मौढ्यं चानात्मन्यपि स्वरूपतया दृश्यते तेन सोऽपि मृत्युरित्यर्थः॥४५७॥

न हि प्रमाणतो मृत्युः शक्यो दर्शयितुं ततः॥
रूपाणि मृत्योस्तेन स्युः कार्याणि करणानि च॥४५८॥

** **किमित्येवंरूपस्य मृत्यो रूपाणि कार्यकरणान्युच्यन्ते तत्राऽऽह। न हीति। प्रमाणनिरस्यत्वं ततःशब्दार्थः। मृत्योर्मानगम्यत्वायोगे तद्गमकत्वेन रूपोपन्यास इति फलितमाह। रूपाणीति॥४९८॥

अतिक्रामति तान्यात्मा जाग्रत्स्थानाश्रयाण्यतः॥
क्रियाफलाश्रयाण्येष तस्माच्छुद्धो ध्रुवश्चसः॥४५९॥

** **प्रकृतं वा465क्यार्थमुपसंहरति। अतिक्रामतीति। अतःशब्दो यस्मादर्थः। जागरात्स्वप्नावेशे यस्मात्तान्यतिक्रामति तस्मात्कूटस्थो निर्मलश्च प्रत्यग्धातुरित्यर्थः॥४५९॥

अस्ति शुद्धो ध्रुवश्चाऽऽत्मा स चैक इति यत्स्थितम्॥
अस्यैवार्थस्य दार्ढ्यार्थंं पूर्वपक्ष उदीर्यते॥४६०॥

** **आत्मा कूटस्थत्वादिरूपः सिद्धश्चेत्किमुत्तरग्रन्थेनेत्याशङ्क्याऽऽह। अस्तीति। पूर्वपक्षं कृत्वा तन्निरासे यथोक्तोऽर्थो दृढो भवति पूर्वपक्षवि466शुद्धा हीति न्यायात्तदुत्तरग्रन्थोऽर्थवानित्यर्थः॥४६०॥

ननु धीव्यतिरेकेण धीसाक्षी नाधिगम्यते॥
धिया समान इत्येवं यः प्रागात्मोपपादितः॥४६१॥

** **पूर्वपक्षं विवृणोति। नन्विति॥४६१॥

तत्सद्भावे न नो मानं प्रत्यक्षानुमयोर्यतः॥
किंचिदप्यस्ति तत्सिद्धिरतः स्यान्निष्प्रमाणिका॥४६२॥

** **तत्र हेतुमाह। तत्सद्भाव इति। प्रत्यक्षमनुमानं चेति द्वयमेव मानं सर्वज्ञवचनार्थाविसंवादिज्ञानं प्रमाणमित्युक्त्वा तद्द्विविधं प्रत्यक्षमनुमानं चेत्युक्तेर्न च ताभ्यामन्यतरेण परेष्टात्मदृष्टिरतस्तदसत्त्वमित्यर्थः॥४६२॥

पूर्वधीव्यतिरेकेण तत्कालीना परा यथा॥
न धीः प्रत्यक्षगम्यैवं नाऽऽत्मा प्रत्यक्षगोचरः॥४६३॥

तत्राध्यक्षाभावं स्पष्टयति। पूर्वेति। यथैकस्मिन्संताने पूर्वज्ञानातिरेकेण ज्ञानान्तरं तत्तुल्यकालं न प्रत्यक्षं तथाऽऽत्माऽपि धीव्यतिरिक्तो न प्रत्यक्ष इत्यर्थः॥४६३॥

न चानुमानतस्तस्य सद्भावोऽप्यवधार्यते॥
सति धर्मिणि धर्माणां चिन्तेयमुपपद्यते॥४६४॥

** **यद्दृश्यं तत्स्वातिरिक्तदृश्यं यथा घटो दृश्या चेयं धीरित्यनुमानात्तत्सिद्धिरित्याशङ्क्य साध्यवैकल्यमभिप्रेत्याऽऽह। न चेति। प्रत्यक्षतो यथेत्यपेरर्थः। प्रमाणादतिरिक्तात्मासिद्धौ तस्य शुद्धत्वादि दूरोत्सारितमित्याह। सतीति॥४६४॥

व्यङ्ग्यव्यञ्जकयोर्यत्तु सादृश्यभ्र467मकारणात्॥
तद्विवेकापरिज्ञानाद्युक्तं तच्चाभ्युपेयते॥४६५॥

** **यौ भास्यभासकौतौ मिथो भिन्नौ यथा घटालोकौभास्यभासकौ च बुद्ध्यात्मानावित्यनुमानात्तयोर्भेद इत्याशङ्क्याऽऽह। व्यङ्ग्येति। घटालोकयोः संश्लिष्टयोः सादृश्यात्तादात्म्यभ्रान्तिहेतोर्विवेकाग्रहादभेदधीर्वस्तुतस्तु भेदस्तथा बुद्ध्यात्मनोरपीति यदुक्तं ससमानवाक्ये तत्रोदाहरणमुपेतमित्यर्थः॥४६५॥

व्यङ्ग्यव्यञ्जकयोर्भेदस्तत्संबन्धात्पुरा यतः॥
प्रमान्तरोपलब्धोऽतः काममस्तु तयोर्भिदा॥४६६॥

तत्र हेतुः। व्यङ्ग्येति। तत्संबन्धात्तयोर्मिथः संश्लेषादिति यावत्। प्रमान्तरं तादात्म्यधीविरोधिप्रत्यक्षम्॥४६६॥

सादृश्यतस्त्वभिन्नोऽयमिति भ्रान्तिरियं मता॥
तद्भेदस्योपलब्धत्वात्तद्योगात्प्राक्प्रमाणतः॥४६७॥

** **संश्लिष्टयोर्घटालोकयोस्तर्हि कथमभेददृष्टिस्तत्राऽऽह। सादृश्यतस्त्विति। तद्भ्रान्तित्वे पूर्वोक्तमेव हेतुमाह। तद्भेदस्येति। तद्योगाद्घटालोकयोर्मिथःसंश्लेषादिति यावत्। तद्भेदस्याध्यक्षत्वात्तदभेदो भ्रान्तस्ते बुद्ध्यात्मभेदेऽनुमानाभावात्स एव भ्रान्तोऽभेदस्तु परमार्थ इत्यर्थः॥४६७॥

धीरेव चित्स्वरूपेयं प्रथते ग्राहकात्मना॥
तथा विषयरूपेण सैवैका प्रथते द्विधा॥४६८॥

** **कथं सत्युक्तेऽनुमाने भेदस्य भ्रान्तत्वमित्याशङ्क्याध्यक्षविरोधं मत्वाऽऽह।468धीरिति॥४६८॥

नातो धीव्यतिरेकेण प्रत्यगात्मोपलभ्यते॥
प्रत्यक्षोऽनुमानाद्वा यो धीसाक्षीति भण्यते॥४६९॥

** **बुद्धेरेव द्विधाभाने फ469लितमाह। नात इति॥४६९॥

यश्चपूर्वमुपन्यस्तो दृष्टान्तो भेदसिद्धये॥
व्यङ्ग्यव्यञ्जकवद्भेदः साक्षिसाक्ष्यार्थयोरिति॥४७०॥

** **व्यङ्ग्यव्यञ्जकयोर्भेदमुपेत्य बुद्ध्यात्मनोः स नेत्युक्तमिदानीं तयोरपि स नास्तीति साध्यवैकल्यं वक्तुमुक्तमनुवदति। यश्चेति। यथा घटालोकयोर्भेदस्तथा बुद्ध्यात्मनोरपीति तद्भेदसिद्ध्यर्थं यो दृष्टान्तः पूर्वमुपन्यस्त इति योजना॥४७०॥

त्वदभ्युपगमादेव तदभ्युपगतं मया॥
परमार्थेन तत्रापि470 नैव भेदोऽस्ति कश्चन॥४७१॥

** **तद्दृष्टान्तेऽभ्युपगमवादं दर्शयति। त्वदिति। उदाहरणं तदर्थः। दृष्टान्ते भेदस्याध्यक्षत्वान्नाभ्युपगममात्रमित्याशङ्क्याऽऽह। परमार्थेनेति। दार्ष्टान्तिकं दृष्टान्तयितुमपिशब्दः॥४७१॥

अवभासात्मकः कुम्भः क्षणमात्रस्थितिर्यतः॥
अन्योऽन्यश्च प्रबन्धेन यतस्तत्रापि जायते॥४७२॥

** **घटालोकयोस्तु वस्तुतो भेदाभावे फलितमाह। अवभासेति। कथं घटस्याऽऽलोकसंसृष्टस्यापि तदात्मत्वं तत्राऽऽह। क्षणेति। यतः सालोको घटः क्षणमात्रमेव ति471ष्ठ-

त्यतस्तयोर्भेदस्य दुर्ग्रहत्वादभेद एवेत्यर्थः। सालोको घटः क्षणमात्रवृत्तिश्चेत्तत्र कथं स्थायित्वधीस्तत्राऽऽह। अन्योऽन्यश्चेति। तत्रेति दृष्टान्तोक्तिः। अतः साध्यविकलतेति शेषः॥४७२॥

विज्ञानमात्रमथवा वस्तु स्यात्पारमार्थिकम्॥
क्षणभङ्गि घटाभासं क्लृप्तानेकविशेषणम्॥४७३॥

** **बाह्यार्थवादेनानुमानं दूषयित्वा विज्ञानवादमादत्ते। विज्ञानेति। सिद्धान्ताद्विशेषमाह। क्षणेति। व्यवहारार्थं विशिनष्टि। घटेति। कथं तर्हि पटादिव्यवहारस्तत्राऽऽह क्लृप्तेति॥४७३॥

एवं च सति दृष्टान्तो भवतो नोपपद्यते॥
सर्वस्य ज्ञानमात्रत्वात्तदन्यासंभवत्वतः॥४७४॥

किमस्मिन्पक्षे यथोक्तानुमानदूषणं तदाह। एवं चेति। विज्ञानमात्रे तत्त्वे सतीति यावत्। आश्रयहीनत्वादिति भावः। अनुपपत्तिं स्फुटयति। सर्वस्येति। यद्बाह्यं तद्वाहकधीमात्रं यथा धीग्राह्यं च घटादीत्युक्तं समर्थयते। तदन्येति॥४७४॥

तस्यैव ज्ञानमात्रस्य ग्राह्यग्राहकलक्षणम्॥
मलं प्रकल्प्य तत्स्वास्थ्यं शुद्धिं व्याचक्षतेऽपरे॥४७५॥

** **ग्राह्यग्राहकभेदस्याध्यक्षत्वादुक्तानुमानस्य तद्विरोधमाशङ्क्याऽऽह। तस्येति तत्स्वास्थ्यं तस्य स्वरसभङ्गुरस्य विज्ञानमात्रत्वमिति यावत्। अपर इति विज्ञानवादिनामे वोक्तिः॥४७५॥

अभिन्नोऽपि हि बुद्ध्यात्मा विपर्यासितबुद्धिभिः॥
ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते॥४७६॥

** **ग्राह्यग्राहकभावस्य कल्पितत्वं न बौद्धराद्धान्तस्ते खल्वेकत्र विज्ञा472ने तद्भावं वास्तवमिच्छन्तीत्याशङ्क्य तत्कल्पितत्वे कीर्तिवाक्यमुदाहरति। अभिन्नोऽपीति। तस्मान्न वस्तुतो ग्राह्यग्राहकभेदोऽस्तीति शेषः॥४७६॥

तस्यापि शुद्धरूपस्य शान्तिमन्ये प्रचक्षते॥
मलवत्संवृतं रूपं यस्मात्तस्यापि कल्पितम्॥४७७॥

** **विज्ञानवादमुक्त्वा शून्यवादं दर्शयति। तस्यापीति। तत्र हेतुः। **मलवदिति अस्यार्थः—**अर्थाभावे कथं ज्ञानं ज्ञायतेऽर्थोऽनेनेति व्युत्पत्तेः।

“पररूपं स्वरूपेण यया संव्रियते धिया।
एकार्थप्रतिभासिन्या भावानाश्रित्य भेदिनः॥
तया संवृतनानात्वाः संवृत्या भेदिनः स्वयम्॥

अभेदिन इवाऽऽभान्ति” इति न्यायाद्रागादिमलवत्संवृतिकल्पितार्थवशाज्ज्ञानाविरोधश्चेत्तर्हि तत्कल्पितमेव ज्ञानमस्तु लाघवात्सर्वस्यापि शब्दार्थस्य वैकल्पिकत्वात्। यथाऽऽह—

“अनादिवासनोद्भूतविकल्पपरिनिर्मितः।
शब्दार्थस्त्रिविधो ज्ञेयो भावाभावोभयाश्रयः" इति॥४७७॥

आत्माद्यर्थे च संवादाभावाद्वाक्यस्य नेष्यते॥
प्रत्यक्षवत्प्रमाणत्वं नापि प्रत्यक्षतो गतिः॥४७८॥

** **पक्षत्रयेऽपि नातिरिक्तोऽस्त्यात्मा मानाभावादित्युक्तम्। इदानीमागमादिष्टात्मसिद्धिमाशङ्क्याऽऽह। आत्मादीति। आदिपदेन धर्माद्युक्तिः। प्रत्यक्षमात्मादौ न ते मानं नाप्यनुमानमनङ्गीकारान्निरस्तत्वाच्चातस्तन्मानत्वेनाभिमतागमस्य संवादाभावात्स्वतःप्रामाण्यस्य चाप्रमाणकत्वान्न तन्मानतेत्यर्थः। तत्र संमतं दृष्टान्तमाह। प्रत्यक्षवदिति। न हि तदात्मादौ ते मानं तस्याऽऽगमैकगम्यत्वाङ्गीकारात्तथा सोऽपि न तन्मानं संवादाधीनत्वान्मानत्वस्य तस्य चासत्त्वादित्यर्थः। अहमित्यध्यक्षादिष्टात्मदृष्टेरलं मानान्तरेणेत्येके तान्प्रत्याह। नापीति। अहंधीः स्वालम्बनमात्रं काङ्क्षति न तस्य बुद्ध्याद्यतिरेकं स्थायित्वं चेति भावः॥४७८॥

अनुमानविरोधाच्च न नित्यात्मादिसंभवः॥
प्रमान्तरविरोधेन न प्रमेहास्ति काचन॥४७९॥

** **वक्ष्यमाणक्षणिकत्वानुमानविरोधाच्च नेष्टात्मसिद्धिरित्याह। अनुमानेति। आत्मनोऽनात्मनो वा प्रत्यभिज्ञया नित्यत्वसिद्धेर्न क्षणिकत्वं ने473त्याह। प्रमान्तरेति। प्रत्यभिज्ञा केशादाविव भ्रान्तत्वादनुमानविरोधे न प्रमा। यथाऽऽह—

“स्मृतिः पूर्वानुभूतेऽर्थे दर्शनं वार्तमानिके।
तयोरत्यन्तभेदे च कस्याभेदः प्रतीयताम्॥

शब्दौ भिन्नौ स्वरूपेण वाच्योऽर्थोऽप्यतिभेदवान्।
स इत्येष परोक्षार्थे प्रत्यक्षे वायमित्यपि॥

तस्मान्मिथ्याविकल्पोऽयं भिन्नेष्वेकार्थताग्रहः" इति।

न च तद्भ्रान्तत्वपक्षेऽनुमानाप्रामाण्यं त्वन्मते स्वतोमानत्वादस्मन्मते च ज्वालादौ क्षणिकत्वप्रत्यक्षसंवादात्तत्प्रामाण्यादतस्तद्विरोधान्न प्रत्यभिज्ञा मानमित्यर्थः॥४७९॥

प्रत्यक्षस्यार्थसंवादादनुमित्यविरोधतः॥
सौगतं दर्शनं पथ्यं दोषवत्त्वन्यदर्शनम्॥४८०॥

सिद्धान्ते मानाभावस्तद्विरोधश्चोक्तः संप्रति स्वमते तदुभयं नास्तीत्याह। प्रत्यक्षस्येति। **अस्यार्थः—**अस्ति प्रत्यक्षस्य क्षणिकादावर्थे सर्वज्ञोक्तिसंवादः। **यथाऽऽह—**सर्वज्ञवचनार्थेषु क्षणिकनैरात्म्यादिषु यत्संशयविपर्यासरहिततयोपदर्शितार्थप्रापकं ज्ञानं तत्सर्वज्ञवचनार्थाविसंवादीत्युच्यत इति। तद्धिवर्तमानं गृह्णदवर्तमानन्यावृत्तमेव गृह्णाति। **उक्तं हि—**तस्य विषयः स्वलक्षणमिति। वक्ष्यमाणक्ष474णभङ्गानुमानेन च तस्य संवादस्तस्मात्क्षणवादः श्रेयान्वादान्तरं त्याज्यमिति॥४८०॥

कल्पनेतरतः सर्वं सम्यङ्मिथ्येति मानतः॥
सर्वशून्यस्य मोक्षत्वादनावृत्तिश्च सेत्स्यति॥४८१॥

कथं सर्वस्य क्षणिकत्वे स्थायित्वव्यवहारस्तत्राऽऽह। कल्पनेति। सम्यङ्मिथ्यापदाभ्यां स्थायित्वास्थायित्वे कथ्येतेतत्र कल्पनया सर्वं सम्यगिति व्यवहारः स्थायित्वे मानाभावात्। न हि प्रत्यक्षमनुमानं वा तत्र मानंग्राह्यप्राप्यभेदेन क्षणिकादेरेव तद्विषयत्वोपगमात्। **यथाऽऽह—**चतुर्विधस्य प्रत्यक्षस्य स्वभावयोगितया स्वलक्षणाख्यश्चतुरर्थः सत्यस्वभावो ग्राह्यो विषयस्तदन्यग्रहणे प्रयोजनाभावात्प्राप्यं तु सत्येषु नैरात्म्यादीति। अनुमानस्य तु यथोक्तनैरात्म्यादिसा475मान्यलक्षणमेव विषयः, प्राप्यं च तदेवेति च। सर्वं मिथ्येत्यकल्पनया व्यवहारः, सर्वस्य क्षणिकत्वे मानस्य सत्त्वादित्यर्थः। कथं तर्हि मोक्षसिद्धिर्बन्धमोक्षान्वयिनोऽभावादित्याशङ्क्याऽऽह। सर्वेति। सर्वेषां संसारिक्षणानां निरन्वयतो नाशादसंसारिक्षणानां चोत्पत्तेरनावृत्तिशब्दिता मुक्तिर्युज्यते तत्सर्वस्य क्षणिकत्वाद्ग्राह्यग्राहकभेदस्य मृषात्वादध्यक्षविरुद्धता प्रागुक्तानुमानेऽसिद्धेत्यर्थः॥४८१॥

ग्राह्यग्राहकयोर्भेदो ननु भेदानुभूतितः॥
भेदस्यैवं च476 मिथ्यात्वं प्रत्यक्षेण विरुध्यते॥४८२॥

** **घटमहं जानामीति ग्राह्यग्राहकभेदस्य प्रत्यक्षत्वात्तदसत्त्वं तद्विरुद्धमिति प्रत्यक्षविरुद्धतातादवस्थ्यमाशङ्कते। ग्राह्येति॥४८२॥

ग्राह्यादिभेदवद्रूपं प्रत्यक्षं लिङ्गसंमतम्॥
एकस्योभयरूपत्वं पण्डितैः सुनिराकृतम्॥४८३॥

** **प्रत्यक्षं भेदे न प्रमाणं संवादकाभावादित्याशङ्क्यानुमानं संवादकमाह। ग्राह्यादीति। यो ग्राह्यः सोऽन्यग्राह्यो यथा घटो; ग्राह्या चेयं धीरित्यनुमानेनापि सम्यगवगतं प्रत्यक्षवेद्यं भिन्नं रूपमित्यर्थः। भेदस्य मानद्वयवेद्यत्वेन न सत्त्वं‚ ज्ञानस्यैव ग्राह्यग्राहकत्वेनभा477नस्य धीरेव चित्स्वरूपेत्यादावुक्तेर्दृष्टान्तस्य साध्यवैकल्यात्प्रत्यक्षस्य च संवादाभावादित्याशङ्क्याऽऽह। एकस्येति। पण्डितैः शबरस्वामिप्रमुखैरिति यावत्।

**यथाऽऽहुः—**यदि विज्ञानादन्यो नास्ति कथं तर्हि जानातीत्युच्यते, जानातीति ज्ञानस्य कर्तुरभिधानं शब्देनोपलभ्यते, तत्रैव शब्दोऽर्थवान्कल्पयितव्य इति॥४८३॥

ज्ञानाभेदात्तु तत्सिद्धिस्तदध्यासात्तथा परम्॥
प्रथते भेदवज्ज्ञानं न क्वचिद्वस्तुसंश्रयात्॥४८४॥

** **ज्ञानव्यतिरिक्तमात्मानं कल्पयाम इति पूर्ववादी दूषयति। ज्ञानेति। **अस्यार्थः—**चतुर्विधं प्रत्यक्षमिद्रियप्रत्यक्षं, मानसं, स्वसंवेदनं, योगिप्रत्यक्षं च तत्र प्राग्जातस्थितचक्षुरादिपञ्चकमाश्रित्य प्राग्जातस्थितरूपादिपञ्चकमालम्ब्य तत्साक्षात्कार्युत्पन्नं ज्ञानपञ्चकमिन्द्रियप्रत्यक्षं, मानसप्रत्यक्षंक478र्मफलोपस्थितत्रैकालिकातीन्द्रियषडालम्बनसाक्षात्कारिमनोद्वारकजनितविपाकविज्ञानं, सर्वचित्तचैत्यानामात्मसंवेदनं स्वसंवेदनं समाधिप्रज्ञाभावनाप्रकर्षपर्यन्तजंभूतार्थसाक्षात्कारिज्ञानं योगिप्रत्यक्षम्। तच्च सर्वं द्विविधं निर्विकल्पकं सविकल्पकं च। तत्राऽऽद्ये ग्राहकज्ञानाभेदेन नीलपीतादेर्ग्राह्यस्य सिद्धिस्तस्मिन्नेव ज्ञानेऽध्यासाद्ग्राह्यग्राहकभेदाख्यमपरमध्यवसेयं रूपं सविकल्पकं भा479ति, न च क्वचिदपि सविकल्पकं वस्त्वालम्ब्य जायते, तथाच तस्मिन्प्रमाणाभासे भेदभानात्प्रमाणे चेतरस्मिन्नभेदस्फूर्तेर्भेदस्यासत्त्वमिति॥४८४॥

ग्राह्यग्राहकमित्येवं नैव तत्प्रथते यतः॥
नीलपीतादिविज्ञानं नीलमित्येव तद्यतः॥४८५॥

** **कथं निर्विकल्पके ज्ञानाभेदेन नीलादेर्ग्रहस्तत्राऽऽह। ग्राह्येति। तद्धि निर्विकल्पकं नीलादिविज्ञानं ग्राह्यस्य नीलादेर्ग्राहकमित्येवं नैव प्रथते किंतु नीलमित्येव यतस्तद्भात्यतो ज्ञानाभेदेनैव निर्विकल्पके ग्राह्यसिद्धिरित्यर्थः। अत इत्यर्थे द्वितीयो यतःशब्दः॥४८५॥

अतस्मिंस्तद्ग्रहात्सर्वं मिथ्या स्यात्सविकल्पकम्॥
असंपृक्तस्य सम्यक्त्वं स्वरूपेणावभासते॥४८६॥

** **ज्ञानेऽध्यासाद्ग्राह्यग्राहकभेदः सविकल्पके चकास्ति तन्न वस्तुस्पर्शीति कथमुक्तं तस्यापीतरवन्मानत्वात्तद्विषयभेदस्य वस्तुत्वसिद्धेरित्याशङ्क्याऽऽह। अतस्मिन्निति। सर्वेषां चित्तानां चैत्यानां चाऽऽत्मा वेद्यते येन स्वरूपेण तत्स्वसंवेदनं प्रत्यक्षं कल्पनापोढमभ्रान्तं चेति स्थितेः प्रकाशैकरसे क्षणभङ्गुरे ज्ञाने सर्वभेदवर्जितेऽपि भेदस्य सविकल्पकेन ग्रहान्मिथ्याज्ञानलक्षणाक्रान्तं तद्भ्रान्तिरेवेति न तद्विषयस्य वस्तुतेत्यर्थः। तर्हि प्रत्यक्षत्वाविशेषान्निर्विकल्पकमपि भ्रान्तिः स्यान्नेत्याह। असंपृक्तस्येति। ग्राह्यग्राहकभेदास्पर्शिनो ज्ञानस्य स्वरसभङ्गुराख्यं सम्यग्रूपं स्वेनैवाऽऽकारेण निर्विक-

ल्पके भाति न च स्वसंवेदनत्वे विषयविषयित्वेनाऽऽत्मसंवित्तेर्ग्राह्यग्राहकभेदस्य स्वस्मिन्नेव सत्त्वेन स्वात्मनि विक्रियाविरोधोऽनादिस्वोपादानबललब्धजडवैलक्षण्येन रूपाद्यर्थप्रकाशकस्व480भावस्य जायमानज्ञानस्य स्वासंपृक्तस्यैव स्वसंवेदनत्वव्यवस्थापनात्। यथाऽऽह—

“विज्ञानं जडरूपेभ्यो व्यावृत्तमुपजायते॥
इयमेवाऽऽत्मसंवित्तिरस्य या जडरूपता" इति।

तथाचाविषयत्वात्तस्य न भ्रान्तिता तद्विज्ञानवादिमतं श्रद्धेयमित्यर्थः॥४८६॥

ननु निज्ञानमात्रेऽस्मिन्सम्यङ्मिथ्यात्वधीगतिः॥
निर्विकल्पे कथं ते स्याद्वद भेदोऽत्र किंकृतः॥४८७॥

** **तन्मते सत्यमिथ्याविभागमाक्षिपति। नन्विति। निर्विकल्पके सविकल्पके च ज्ञानमात्रे स्वीकृते निर्विकल्पके सम्यक्त्वमन्यत्र मिथ्यात्वमिति धियोर्व्यवस्था न युक्ता ज्ञानमात्रे तद्धेत्वभावादित्यर्थः॥४८७॥

ज्ञानरूपं यथा शुद्धं क्षणं481 चैवावभासते॥
विकल्पकं तथैव स्याद्विभागस्तेन दुष्करः॥४८८॥

** **हेतुं साधयति। ज्ञानेति। यथा ज्ञानरूपं विषयोपप्लवविकलं स्वरसभङ्गुरं पारमार्थिकं निर्विकल्पकेऽनुभूयते तथा ज्ञानव्यतिरिक्तं ग्राह्यं घटादि सविकल्पके भासमानं पारमार्थिकमेव युक्तमुपलब्धेरबाधाच्चातः सविकल्पकनिर्विकल्पकयोरुक्तविभागासिद्धिरित्यर्थः॥४८८॥

इदं मिथ्येति चैतस्मान्मिथ्यात्वस्य कथं ग्रहः॥
विकल्पश्चेन्न मिथ्यात्वान्न चान्या गतिरस्ति वः॥४८९॥

** **किंच घटादि मिथ्येति ज्ञानं विज्ञानवादिनो न युक्तमत्र हि सम्यक्त्वं मिथ्यात्वंवाऽऽद्ये सविकल्पकमात्रस्य न मिथ्यात्वमस्य सम्यक्त्वाद्द्वितीये त्वेतन्मिथ्यात्वस्य ग्राहकाभावादग्रहो न च स्वेनैव ग्रहो वृत्तिविरोधान्न च ग्राहकान्तरमनवस्थितेरित्यभिप्रेत्याऽऽह। इदमिति। उक्तज्ञानस्य विकल्पमात्रत्वात्तस्य सम्यक्त्वं मिथ्यात्वं चेति विकल्प्य482 दोषावनवकाशाविति शङ्कते। विकल्पश्चेदिति। दूषयति। नेति। शब्दज्ञानानुपाती वस्तुशून्यो विकल्प इति स्थितेरिदं मिथ्येति ज्ञानस्य विकल्पत्वे घटादि मिथ्येत्यस्यासत्त्वापत्तेरिति हेतुमाह। मिथ्यात्वादिति। यथा ते ग्राह्यं नात्यन्तमसद्भासमानत्वान्नापि सदेव बाधात्तथा ममापीति चेन्नेत्याह। न चेति। न हि ते ग्राह्यस्य सत्त्वासत्त्वाभ्यामन्या गतिरनिर्वाच्यत्वानिष्टेरिति भावः॥४८९॥

मिथ्यामिथ्याविकल्पो हि स्थायित्वे483 वस्तुनो भवेत्॥
क्षणवादे विनष्टानां कस्य किं केन गृह्यते॥४९०॥

** **किंच सर्वत्र क्षणभङ्गे सम्यङ्मिथ्याधीविभागासिद्धिर्ग्राह्यग्राहकाद्ययोगादित्याह। मिथ्येति। उक्तहेतुद्योती हिशब्दः। विनष्टानामिति निर्धारणे षष्ठी॥४९०॥

मैवं बाधात्तु मिथ्यात्वसिद्धिः स्यान्मृगतोयवत्॥
बाह्यस्याप्यग्रहो बाधान्न तु स्थिरतया मतः॥४९१॥

** **पूर्ववाद्याह। मैवमिति। बाधो मिथ्यात्वे प्रयोजको, न स्थिरत्वं मृगतृष्णिकादौ तथोपलब्धेर्बाह्यश्चार्थः स्तम्भादिः स्वावयवेभ्यो भेदाभेदाभ्यांदुर्भणत्वाद्बाध्यते तेन मिथ्येत्यर्थः। दृष्टान्ते बाधस्य मिथ्यात्वप्रयोजकत्वं परस्यापीष्टमित्याह। बाह्यस्येति। ज्ञानान्यत्वेनेष्टतोयाद्यर्थस्य बाधादनुपादानं बाह्यार्थवादिनोऽपि मतं न ग्राहकादेः स्थिरत्वेन तन्मिथ्यात्वमतस्तम्भादावपि क्षणिकज्ञानातिरिक्ततया दुर्निरूपे बाधान्मिथ्यातेत्यर्थः॥४९१॥

ननु ध्वस्तस्य मिथ्यात्वसिद्धिः कथमिहेष्यते॥
नैवं दृष्टत्वतः सिद्धेर्दृष्टे नानुपपन्नता॥४९२॥

** **क्षणवादे विनष्टानामित्यत्रोक्तं चोद्यमादत्ते। नन्विति। भ्रान्तार्थग्राहको484 बाधधीकालेऽपि नष्टोऽनष्टो वा? नाऽऽद्योऽसतस्तन्मि485थ्यात्वबुद्ध्यसिद्धेर्न चान्यस्य तद्धीरदृष्टे रजतादावन्यस्यौदासीन्यान्न द्वितीयः क्षणभङ्गभङ्गादित्यर्थः। बाधान्मिथ्यात्वं तोयादौ दृष्टत्वादेष्टव्यं न हि दृष्टेऽनुपपन्नं नाम दृष्ट्यैवानुपपत्तेरपहस्तितत्वादिति समाधत्ते। नैवमिति॥४९२॥

बाह्यवादेऽपि मिथ्यात्वं ज्ञानबाधेन जायते॥
स्थिरस्यैव हि मि486थ्यात्वं न चेदं राजशासनम्॥४९३॥

** **बाधान्मिथ्यात्वस्य तेऽपि संमतत्वाच्च नानुपपत्तिरुद्भाव्येत्याह। बाह्येति। बाधान्मिथ्यात्वं स्थिरस्येति विशेषमाशङ्क्याऽऽह। स्थिरस्येति। एकसंततिपतितज्ञानानां कल्पितैकत्वाङ्गीकाराद्भ्रान्ततोयादेर्बाधकाले कल्पितैकत्वभङ्गिज्ञा487नेनमि488थ्यात्वं सिध्यति न च तादृशज्ञानत्वे सति स्थिरत्वाभावकृतो मिथ्यात्वबुद्ध्यभावस्तस्मात्क्षणिकत्वेऽपि ग्राहकादेर्घटादिमिथ्यात्वमविरुद्धमिति भावः॥४९३॥

इत्यादिकल्पनाः प्रत्यगैकात्म्याज्ञानहेतुजाः॥
विभीषिका इमाः सर्वा वेदवर्त्मानुगामिनाम्॥४९४॥

** **पूर्वपक्षमुपसंहरति। इत्यादीति। इतिशब्दो यथोक्तकल्पनापरामर्शार्थः। सर्वं हि

स्कन्धपञ्चकात्मकं संस्कृतं क्षणिकं च। रूपविज्ञानवेदनासंज्ञासंस्काराः स्कन्धाः। न च स्थायी कश्चिद्भावोऽध्यक्षानुमानाभ्यां तत्क्षणिकत्वसिद्धेः। अध्यक्षं तावद्वर्तमानग्राहिपूर्वोत्तरव्यवच्छेदकम्। यथाऽऽह—

“वस्तुतां हि परिच्छिन्ददवच्छिन्ददवस्तुताम्।
तद्बाह्यासंभवं शंसद्वस्तुज्ञानं प्रवर्तते” इति॥

** **अनुमानमपि तन्निश्चायकम्। उक्तं हि—

“यत्सत्तत्क्षणिकं सर्वमिति व्याप्तिः प्रतीयते।
सत्त्वमक्षणिके बाधात्क्षणिकं नियतं यतः" इति॥

आत्मानात्मप्रकाशनशक्तिः प्रमाणमस्यार्थप्रमितिः फलं तयोर्न वस्तुतो भेदो न च क्रिया करणादतिरिच्यते। यथाऽऽह—

“क्षणिकाः सर्वसंस्कारा अस्थिराणां कुतः क्रियाः।
भूतिर्येषां क्रिया सैव कारकं सैव चोच्यते" इति॥

** **अनुमानं द्विविधं स्वार्थं परार्थं च। त्रिरूपलिङ्गादनुमेयज्ञानं स्वार्थं त्रिरूपलिङ्गाख्यानं परार्थम्। अन्वयव्यतिरेकपक्षधर्मताख्यत्रिरूपवन्ति चत्वारि लिङ्गानि कार्यकारणस्वभावानुपलब्ध्याख्यानीत्येवंप्रकाराः कल्पना आदिशब्देनोच्यन्ते। तासां मूलमाह। प्रत्यगिति। किंच वेदा न प्रमाणं मिथोविरुद्धार्थत्वान्न च शब्दार्थसंबन्धः संकेतादन्योऽस्ति। यथाऽऽह—

“शब्दाः संकेतितं प्राहुर्व्यवहाराय स स्मृतः” इति।

न चाऽऽकृतिः शब्दार्थस्तदभावान्न व्यक्तेर्भेदाभेदाभ्यां सा संभवत्यपोहस्तु तदर्थः। उक्तं हि—

“धियं वस्तुपृथग्भावमात्रबीजमनर्थिकाम्।
जनयत्यथ तत्कारिपरिहाराङ्गभावतः॥
वस्तुभेदाश्रयाच्चार्थे न विसंवादिका मता।
ततोऽन्यापोहविषया तत्कर्त्राश्रितभावतः” इति॥

** **न च तन्नित्यत्वमपौरुषेयत्वं च वाक्यत्वेन वैपरीत्यादिकल्पनाभेदानभिप्रेत्य पूर्वपक्षे दोषं संभावयति। विभीषिका इति॥४९४॥

विभीषिकानिषेधार्थमत्र प्रतिविधीयते॥
बाह्यार्थवादिदोषोक्तिस्तत्र तावदिहोच्यते॥४९५॥

** **संभावितदोषप्रकटनं प्रतिजानीते। विभीषिकेति। तत्र सौत्रान्तिकवैभाषिकयोगाचारमाध्यमिकानां मध्ये यौ बाह्यार्थवादिनावाद्यौ तौ प्रति दोषोक्तिस्तावत्क्रियते न स्वात्मानवभासकत्वाद्घटादेरित्यादिभाष्येणाऽऽह। बाह्येति॥४९५॥

स्वात्मावभास्यः कुम्भादिर्दीपादिश्चापि नान्यतः॥
इत्यादेर्न्यायबाह्यत्वं यथा तदभिधीयते॥४९६॥

** **यत्तु मानाभावाद्बुद्ध्यतिरिक्तो नाऽऽत्माऽस्तीति तन्निरसितुं बाह्यार्थवादस्यायुक्तत्वं प्रतिजानीते। स्वात्मेति। ज्ञानावभास्योऽपि दीपादित्यादिः स्वात्मनाऽवभास्यतेकुम्भादिश्चसालोकस्तद्भास्योऽपि स्वेनावभास्यो नाऽऽलोकान्तरमपेक्षते तथा बुद्धिरपि स्वभास्यैवेत्यतिरिक्तात्मासिद्धिः, प्रत्यक्षमनुमानं च प्रमाणे न शब्दादीत्यस्य पक्षस्य न्यायशून्यत्वमादौ प्रदर्श्यत इत्यर्थः। आदिपदं दार्ष्टान्तिकार्थम्॥४९६॥

स्वात्मावभास्यो बाह्योऽर्थ इत्येतदसमञ्जसम्॥
नानन्यव्यञ्जकत्वं स्याद्यस्मात्कुम्भादिवस्तुनः॥४९७॥

** **कथमयं पक्षो न्यायहीन इत्याशङ्क्य भाष्यस्थनञर्थमाह। स्वात्मावभास्य इति। बाह्यार्थ आलोकव्याप्त इति शेषः। तत्र हेतुमाह। नेति॥४९७॥

तमस्यवस्थितः कुम्भः स्वात्मना नावभासते489
तदन्यदीपयोगे तु नियमेनावभासते490॥४९८॥

** **यदवभास्यं तत्स्वातिरिक्तावभास्यमिति व्याप्तिं घटे प्रकटयति। तमसीति। तस्यानवभास्यत्वं स्वरूपमिति चेन्नेत्याह। तदन्येति॥४९८॥

संश्लिष्टयोरपि तयोरन्यत्वमिति निश्वयः॥
संयोगे च वियोगे491 च विशेषस्य समीक्षणात्॥४९९॥

** **सालोको घट इति संश्लेषदर्शनान्नातिरिक्तावभास्यत्वं तस्येत्याशङ्क्याऽऽह। संश्लिष्टयोरिति। तयोरन्यत्वनिश्चये हेतुमाह। संयोगे चेति॥४९९॥

अन्यत्वमेव विज्ञेयमालोकघटयोस्ततः॥
रज्जुकुम्भादिवन्नैक्यं विशेषस्य समीक्षणात्॥५००॥

** **व्याप्तिं निगमयति। अन्यत्वमिति। ततो विशेषस्य समीक्षणादिति संबन्धः। कुम्भस्याऽऽलोकसंयोगवियोगौ ततःशब्दार्थौ। यद्भास्यं तत्स्वातिरिक्तभास्यं यथा घटो, भास्या चेयं धीरित्यनुमानं विवक्षति। रज्ज्वति। नैक्यं बुद्धितदवभासकयोरिति शेषः। विशेषस्यावभासकसंबन्धे तदसंबन्धे च बुद्धिनिष्ठस्येत्यर्थः॥५००॥

ननु दीपः स्वमात्मानं स्वात्मनैवावभासयन्॥
दृष्टो दीपप्रकाशार्थं न हि दीपान्तराहृतिः॥५०१॥

** **व्यभिचारं शङ्कते। नन्विति। स्वात्मावभासकत्वं विशदयति। दीपेति॥५०१॥

नावभास्यत्वतुल्यत्वाद्दीपस्यापि घटादिभिः॥
घटवन्नाऽऽत्मनाऽऽत्मानं प्रकाशयति दीपकः॥५०२॥

व्यभिचारं वारयति। नेत्यादिना॥५०२॥

घटप्रदीपयोस्तावद्व्यङ्ग्यव्यञ्जकसंगतिः॥
तदन्यात्मैकनिर्ग्राह्या प्रत्यक्षेणानुभूयते॥५०३॥

** **यो भास्यः स स्वेतरभास्यो यथा घटो भास्यश्चायमित्युक्ते दृष्टान्ते विप्रतिपत्तिमाशङ्क्योक्तं स्मारयति। घटेति॥५०३॥

व्यतिरिक्तात्मविज्ञानव्यङ्ग्यत्वं घटवन्न सः॥
दीपो व्यभिचरत्यत्र तच्चाप्यनुभवाश्रयात्॥५०४॥

** **प्रत्यक्षतो दृष्टान्तं संसाध्य दार्ष्टान्तिकमाह। व्यतिरिक्तेति। अत्रेति व्यवहारदशोक्तिः। यथा घटादेः स्वेतरालोकभास्यत्वं प्रत्यक्षं तथा तस्यापि स्वान्यज्ञानभास्यत्वं ततो निश्चितमित्याह। तच्चेति॥५०४॥

एवं च सति दीपादेर्भिन्नजातीयचेतन—
व्यङ्ग्यत्वं घटवत्तावदवश्यंभावि गम्यताम्॥५०५॥

** **व्याप्तिसिद्धावुक्तमनुमानं युक्तमिति फलितमाह। एवं चेति॥५०५॥

ननु कुम्भादिवैधर्म्यं प्रदीपस्य समीक्ष्यते॥
नाऽऽत्माभिव्यक्तये दीपो ह्यन्यमापेक्षते स्वतः॥५०६॥

** **दीपस्य स्वेतरावभास्यत्वेऽपि तेनैव भास्यतेत्यनियमाद्व्यभिचारतादवस्थ्यमिति शङ्कते। नन्विति। वैधर्म्यं विभजते। नाऽऽत्मेति। स्वतोऽन्यमिति संबन्धः। न हि प्रकाशस्य प्रकाशान्तरसापेक्षत्वं समत्वादिति हिशब्दार्थः॥५०६॥

व्यनक्ति नाऽऽत्मनाऽऽत्मानं प्रदीपो घटवत्सदा॥
स्वतो वा परतो वाऽस्य विशेषाभावहेतुतः॥
विशेषेऽसत्यसाध्वेतद्भवतोदाहृतं वचः॥५०७॥

** **न स्वत इत्यादिभाष्येणोत्तरमाह। व्यनक्तीति। दीपस्य स्वावभासनात्पूर्वमसन्विशेषो यद्युत्तरकाले स्यात्तदा स स्वात्मानं भासयतीति युक्तं न च दीपे स्वस्मादन्यस्माद्वा स्वावभास्यत्वोपयोगी विशेषो दृष्टोऽसति च तस्मिन्दीपः स्वात्मानं भासयतीति वचो मृषेत्यर्थः॥५०७॥

दीपस्य घटवद्यस्माद्भिन्नविज्ञानगम्यता॥
घटाद्यर्थाविशिष्टैव यत्त्वेतदभिधीयते॥५०८॥

दीपोऽयमात्मनाऽऽत्मानं व्यनक्तीति न तच्छुभम्॥
प्रागूर्ध्वं तदभिव्यक्तेर्विशेषस्यासमीक्षणात्॥५०९॥

** **दीपस्य स्वेनाभास्यत्वे हेत्वन्तरमाह। दीपस्येति। तस्मान्न स्वप्रकाश्यतेति शेषः।

दीपस्य स्वभास्यत्वाभावे परोक्तेरसाधुत्वं युक्तमिति निगमयति। यत्त्विति। तत्रोक्तमेव हेतुमाह। प्रागिति॥५०८॥५०९॥

प्रदीपासंनिधौ यद्वत्कुम्भस्य प्रसमीक्ष्यते॥
संनिधौ च विशेषो न प्रदीपे तद्वदीक्ष्यते॥५१०॥

** **विशेषादृष्टिं वैधर्म्यदृष्टान्तेन स्पष्टयति। प्रदीपेति। दीपासंनिधावसन्कुम्भस्य तत्संनिधौ च सन्विशेषस्तमोध्वंसो न तथा दीपे विशेषो मानाभावादित्यर्थः॥५१०॥

आत्मत्वान्न हि दीपस्य कुम्भादेरिव संनिधिः॥
असंनिधिर्वा न्याय्योऽयं भेदेऽसौ द्रव्ययोर्यतः॥५११॥

** **दीपस्य स्वात्मसंनिध्यसंनिधी विशेषान्तराभावेऽपि विशेषावित्याशङ्क्याऽऽह। आत्मत्वादिति। कुत्र तर्हि संनिधिरसंनिधिर्वा स्यादिति तत्राऽऽह। भेद इति। द्रव्ययोर्दीपघटयोरित्यर्थः। अतो नैकत्रैव ताविति शेषः॥५११॥

एकाग्निव्यक्तेर्न यथा दाह्यदग्धृत्वसंगतिः॥
द्वयोरपि समानत्वाद्व्यङ्ग्यव्यञ्जकता तथा॥५१२॥

** **दीपस्य दीपान्तरभास्यत्ववद्बुद्धेरपि सजातीयभास्यत्वोपपत्तेर्नेष्टात्मसिद्धिरित्याशङ्क्याऽऽह। एकाग्नीति। अपिशब्दो नञाकर्षणार्थः॥५१२॥

यत एवमतोऽसाधु भवतैतदुदाहृतम्॥
अभिव्यनक्ति दीपोऽयमात्मनाऽऽत्मानमस्ववत्॥५१३॥

** **दीपस्य स्वेनान्येन वा स्वस्मिन्विशेषाभावे फलितमुपसंहरति। यत इति। अस्ववत्स्वेतरघटादिवदित्यर्थः॥५१३॥

विज्ञानमपि तद्भिन्नजातिचिद्ग्राह्यमिष्यताम्॥
व्यञ्जकत्वाविशेषत्वाद्रविचन्द्रप्रदीपवत्॥५१४॥

** **व्यभिचारं निरस्य भास्यत्वानुमानं संसाध्यानुमानान्तरमाह। विज्ञानमिति। यद्व्यञ्जकं तत्स्वविजातीयव्यङ्ग्यं यथा सूर्यादि व्यञ्जकं चेदमित्यर्थः॥५१४॥

संचेत्यते यथा दीपो विज्ञानमपि तत्तथा॥
संशयो निश्चयश्चायमित्येतच्चानुभूतितः॥५१५॥

** **यद्ग्राह्यं तद्ग्राहकान्तरग्राह्यं यथा दीपो ग्राह्यं चेदमित्यनुमानान्तरमाह। संचेत्यत इति। न च भास्यत्वेन पुनरुक्तिर्ज्ञानप्रकाश्यत्वस्यात्र हेतुत्वात्प्रकाश्यत्वमात्रं तु भास्यतेति भावः। तस्य संचेत्यमानत्वं साधयति। संशय इति॥५१५॥

चिद्व्यङ्ग्यत्वे च बोधस्य साक्षादवधृते सति॥
किं ग्राह्यज्ञानगम्यत्वं किंवा ग्राहकगम्यता॥५१६॥

ग्राह्यत्वेऽपि तस्य कथं त्वदिष्टग्राहकसि492द्धिरित्याशङ्क्य विमृशति। चिदिति। प्रकृतं ज्ञानं बोधशब्दार्थः॥५१६॥

तत्र संदिह्यमानेऽर्थे यथालोकं विनिश्चितिः॥
लोके सिद्धा च दीपादेर्भिन्नग्राहकगम्यता॥५१७॥

** **कथं तर्हि निर्णयस्तत्राऽऽह। तत्रेति। अस्तु लोकानुसारी निश्चयो लोकस्तु कथमित्याशङ्क्याऽऽह। लोक इति॥५१७॥

ग्राहकग्रहणग्राह्यभावाभावविभागवित्॥
ग्रहणादेश्चयो भिन्नः स आत्मेत्यवगम्यताम्॥५१८॥

** **विज्ञानस्यान्यचैतन्यग्राह्यत्वेऽपि कथमिष्टसिद्धिस्तत्राऽऽह। ग्राहकेति॥५१८॥

ननु ज्ञानादिगम्यत्वे ज्ञानाद्यन्तरसंश्रयात्॥
अनवस्थेति दुर्वारा नैष दोषः कुतो यतः॥५१९॥

** **अनवस्थाचतुष्टयमाशङ्कते। नन्विति। दूषयति। नेति। तत्र हेतुं पृच्छति। कुत इति। यतो वक्ष्यते हेतुरतो न सेत्याह। यत इति॥५१९॥

स्वतो हि ग्राहकादीनां ग्राहकत्वादिसिद्धितः॥
ग्राहकाद्यन्तरापेक्षा नैव स्यादविशेषतः॥५२०॥

** **हेतुं स्पष्टयति। स्वत इति। स्वस्मात्कूटस्थबोधात्प्रतीचो मात्रादीनां स्वरूपस्फूर्तिर्न मात्रादेरेव तत्सिद्धिरालोकवदतिशयाभावान्नानवस्था साक्षिणः स्वप्रकाशस्य साधकान्तरानपेक्षत्वादित्यर्थः॥५२०॥

स्वमहिम्नैव चेन्न स्याद्ग्राहकादि ततोऽन्यतः॥
न स्यादतिशयाभावाद्ग्राहकाद्यन्तरादपि॥५२१॥

** **कूटस्थचैतन्यवशादेव मात्रादिसिद्धिर्न मात्राद्यन्तरादविशेषादित्युक्तं प्रकटयति। स्वमहिम्नेति। स्वस्य प्रतीचो महिमा तदाभासस्तेन चेद्ग्राहकादि न सिध्येन्न ग्राहकाद्यन्तरादपि समानत्वेनातिशयाभावादित्यर्थः॥५२१॥

ननु ज्ञानस्य तद्भिन्नग्राहकग्रहणे सति॥
करणान्तरव्यपेक्षायामनवस्था प्रसज्यते॥५२२॥

** **ग्राहकग्रहणद्वारकमनवस्थाद्वयं परिहृत्य करणद्वारिकामनवस्थामुद्भावयति। नन्विति। चक्षुरादिकरणकं ज्ञानमस्यज्ञेयं चेत्तस्य करणान्तरं वाच्यं तस्यापि ज्ञानस्यान्यज्ञेयत्वेऽन्यत्करणंच व493क्तव्यं ग्राह्यग्राहकाभ्यामर्थान्तरस्य करणस्याऽऽवश्यकत्वान्न च चिदाभासस्तदनपेक्षस्तस्यास्वरूपत्वे तदपेक्षाध्रौव्यादित्यनवस्थेत्यर्थः॥५२२॥

नियमाभावतो नासावनवस्था प्रसज्यते॥
ग्राह्यग्राहकसंबन्धे नियमो न हि वीक्ष्यते॥५२३॥

** **परिहरति। नियमेति। नियमाभावे मानाभावं हेतुमाह। ग्राह्येति। नियमोऽतिरिक्तकरणस्येति शेषः॥५२३॥

ग्राह्यग्राहकसंभिन्नं दी494पवत्करणान्तरम्॥
यथा सर्वत्र नैवं स्याद्ग्राह्यग्राहकसंगतौ॥५२४॥

** **उक्तं वैधर्म्यदृष्टान्तेन स्पष्टयति। ग्राह्यग्राहकेति। घटाच्चक्षुषश्च विलक्षणं दीपाख्यं करणं घटचक्षुःसंबन्धे यथोपलक्ष्यते नैवं सर्वत्र ग्राह्यग्राहकयोः संबन्धे करणान्तरं नियन्तुं शक्यं पदार्थवैचित्र्यादित्यर्थः। वतिः स्वरूपविषयः॥५२४॥

घटस्य दर्शनं तावत्प्रदीपादिपुरःसरम्॥
प्रदीपवीक्षणे नैव प्रदीपान्तरमार्गणम्॥५२५॥

** **कथं पदार्थवैचित्र्यान्नियमभञ्जनमित्याशङ्क्याऽऽह। घटस्येति॥५२५॥

तस्मान्नैवानवस्थेह कथंचिदपि शङ्क्यते॥
करणद्वारिका नापि ग्राहकद्वारिका तथा॥५२६॥

** **अनवस्थाभावमुपसंहरति। तस्मादिति। इहेति बुद्ध्यादेः साक्षिवेद्यत्वोक्तिः। कथंचिदपीत्युक्तं व्यनक्ति। करणेति। कार्यद्वारिकामनवस्थां समुच्चेतुमपिशब्दः। फलद्वारिकां तां समुच्चेतुं तथेत्युक्तम्॥५२६॥

ग्राहकाद्यतिरेकेण तद्विरुद्धात्मवस्तुनः॥
सद्भावं प्रागवोचाम प्रत्यक्षैकप्रमाणतः॥५२७॥

** **ज्ञात्रादिचतुष्टयातिरिक्तस्तत्साक्षी मानाभावान्नास्तीत्याशङ्क्याऽऽह। ग्राहकादीति। प्रागिति संबन्धग्रन्थाद्युक्तिः। प्रत्यक्षं स्वानुभवः॥५२७॥

प्रत्यक्षादनुमानाच्च तथा चैवाऽऽगमादपि॥
ग्राहकाद्यतिरिक्तश्चित्सिद्धस्तत्साक्ष्यतः परः॥५२८॥

** **तत्र विवदमानं प्रत्याह। प्रत्यक्षादिति। विद्वदनुभवाद्ब्राह्मणादावुक्तानुमानात्तत्र तत्र व्याख्यायमानागमाच्च ज्ञात्राद्यतिरिक्तस्तत्साक्षी परश्चित्स्वभावः सिद्धोऽतो न तस्मिन्विवदितव्यमित्यर्थः॥५२८॥

लोकायतविचारेऽपि प्रत्यक्षैकप्रमाणतः॥
स्वतोऽलुप्तदृशोऽस्तित्वं प्राक्साक्षात्प्रतिपादितम्॥५२९॥

** **अनुमानादावपि विप्रतिपन्नं प्रत्याह। लोकायतेति। प्रत्यक्षस्यैकस्येष्टमानस्य मान-

त्वसिद्ध्यर्थं तदर्थाज्ञातत्वसाधको नित्यानुभवोऽभ्युपेय इति साधितं सर्वतीर्थदृशामित्यादावित्यर्थः। अनुमानादिविवादश्च निरस्तस्तत्रैवेति वक्तुं द्वितीयोऽपिशब्दः॥५२९॥

अन्तरेणापि मानानि प्रमातृत्वादिसाक्षितः॥
कूटस्थदृष्टेरस्तित्वं प्रागपि प्रतिपादितम्॥५३०॥

** **मानगम्यत्वे घटादिवन्न साक्षितेत्याशङ्क्याऽऽह। अन्तरेणेति। मानमन्तरेणापि कूटस्थदृष्टेरस्तित्वं मात्रादिसाक्षितया स्वतः सिद्धेरित्यव्याकृतविचारादावुक्तं वक्ष्यते चेत्यर्थः॥५३०॥

बाह्यार्थवादिनि ध्वस्ते तद्वद्विज्ञानवाद्यथ॥
ननु नास्त्येव बाह्योऽर्थ इति प्रत्यवतिष्ठते॥५३१॥

** **बाह्यार्थवादिनि495रासेनाऽऽत्मा बुद्ध्यतिरिक्तः साधितोऽधुना विज्ञानवादमवतारयति। बाह्येति। सौत्रान्तिकादिप्रत्यवस्थानस्य निरस्यत्ववद्योगाचारस्य प्रत्यवस्थानस्यापि तुल्यं नि496रस्यत्वमिति द्योतयितुं तद्वदित्युक्तम्। शारीरकेऽपि बाह्यार्थवादे निरस्ते विज्ञानवादनिरासात्प्रत्यवस्थानक्रमसिद्धिरितिक्रमप्रतिपत्त्यर्थोऽथशब्दः॥५३१॥

ननु नास्त्येव बाह्योऽर्थो घटदीपादिलक्षणः॥
विज्ञानव्यतिरेकेण तस्य मानासमीक्षणात्॥५३२॥

** **प्रत्यवस्थानं प्रकटयति। नन्विति। तत्र हेतुः। तस्येति॥५३२॥

यद्धियद्व्यतिरेकेण वस्तु नेहोपलभ्यते॥
तावदेवास्तु तद्वस्तु स्वप्नभूमिगवस्तुवत्॥५३३॥

** **व्यतिरेके मानाभाववदव्यतिरेकेऽपि तदभावमाशङ्क्याऽऽह। यद्धीति। इहेति जाग्रद्व्यवहारोक्तिः। यद्यद्व्यतिरेकेणानुपलब्धं तत्ततस्तत्त्वतो न भिन्नं यथा स्वाप्नोऽर्थो ज्ञानातिरेकेणानुपलब्धश्च बाह्योऽर्थ इत्यर्थः॥५३३॥

स्वप्नविज्ञाननिर्ग्राह्यं स्वप्नज्ञानातिरेकतः॥
नास्ति वस्तु यथा तद्वज्जाग्रद्बाह्यार्थवस्त्वपि॥५३४॥

** **साध्यवैकल्यमाशङ्क्याऽऽह। स्वप्नेति। अनुमानं निगमयति। तद्वदिति। जाग्रज्ज्ञानातिरेकेणानुपलब्धत्वात्ततोऽन्यन्नास्तीति शेषः॥५३४॥

जाग्रत्कुम्भादिकं वस्तु जाग्रज्ज्ञानातिरेकतः॥
न सत्यं ग्राह्यतः स्वप्नज्ञानग्राह्यघटादिवत्॥५३५॥

** **ग्राह्यत्वहेतुकमनुमानान्तरमाह। जाग्रदिति। यद्ग्राह्यं तन्न वस्तुतो ज्ञानातिरिक्तं यथा स्वप्नग्राह्यं ग्राह्यं चेदमित्यनुमानान्न जाग्रज्ज्ञानातिरिक्तं कुम्भादि वस्त्वस्तीत्यर्थः॥५३५॥

एवं च सति विज्ञानव्यतिरेकेण कुम्भवत्॥
अपि प्रतीचोऽसत्त्वंस्याज्ज्योतिषः स्थास्नुरूपिणः॥५३६॥

घटाद्यर्थो ज्ञानातिरिक्तो मा भूदात्मा त्वतिरिक्तो भविष्यतीत्याशङ्क्याऽऽह। एवं चेति। ज्ञानमात्रं सर्वमिति स्थिते सति घटादिवत्क्षणिकज्ञानातिरेकेणाऽऽत्माऽपि स्थायी नास्तीत्यर्थः॥५३६॥

बाह्यार्थेऽपहृते चैवं प्रदीपादेरसंभवात्॥
दृष्टान्तो भवतः कः स्यात्कामितार्थप्रसिद्धये॥५३७॥

** **ननु धीः स्वातिरिक्तभास्या भास्यत्वाद्दीपवदित्युक्तानुमाने जाग्रति कथमात्माऽतिरिक्तोऽपह्नूयते तत्राऽऽह। बाह्येति। कामितार्थो बुद्ध्यतिरिक्तः प्रत्यगात्मा तद्दृष्ट्यर्थमिति यावत्॥५३७॥

वस्त्वन्तराभ्युपगमाज्ज्ञानतो ज्ञानवत्त्वया॥
दृष्टान्तोऽस्त्येव नो भूयान्न चेन्न भवतोऽप्यसौ॥५३८॥

** **सिद्धान्तयति। वस्त्वन्तरेति। यथा त्वया बाह्यार्थातिरिक्तं ज्ञानमिष्टं तथा ज्ञानातिरिक्तस्य घटदीपादेरप्यभ्युपगमादस्माकमतिरिक्तात्मसाधने दृष्टान्तः सुलभोऽस्त्येव ज्ञानादन्योऽर्थस्त्वया नेष्यते चेज्ज्ञानमात्रं सर्वं स्वप्नवदिति भवतोऽपि न सिध्यति दृष्टान्ताभावादित्यर्थः॥५३८॥

धीमानाज्ज्ञानमेवेदमभ्युपेत्य ततोऽपरम्॥
जाग्रत्स्वप्नादिकं वस्तु तन्मिथ्येति निषिध्यते॥५३९॥

** **कथं विज्ञानवादिना वस्त्वन्तरमिष्टं तत्राऽऽह। धीमानादिति। ततो ज्ञानादन्यद्भासमानं जागरादिकं वस्तु यथाभानमुपेत्य धीरूपान्मानाज्ज्ञानमेवेदं497 वस्त्विति प्रसाध्य बहिर्भासमानं मिथ्येति भवता बाह्यं वस्तु निषिध्यते। उक्तं हि—

**“तस्यां यद्रूपमाभाति बाह्यमेकमिवान्यतः।
व्यावृत्तमिव निस्तत्त्वं परीक्षानङ्गभावतः” इति। **

न हि ज्ञानस्यैव तन्मात्रत्वं मिथ्यात्वं वा498साध्यते सिद्धसाध्यत्वाद्बाधाच्च तद्यस्य मिथ्यात्वं तदस्त्यतिरिक्तमित्यर्थः॥५३९॥

भावो वा यदि वाऽभावो ज्ञानवन्माननिश्चितः॥
नास्तीति ब्रुवतो लज्जा धार्ष्ट्यादेव न जायते॥५४०॥

** **बाह्यार्थस्य मिथ्यात्वमसत्त्वमतो न तदस्तितेत्याशङ्क्याऽऽह। भावो वेति। ज्ञानवज्ज्ञानविषयतया तद्भासमानो घटदीपादिर्भावोऽभावो वाऽस्तु स प्रत्यक्षो नास्तीति ब्रुवन्नात्मनो निर्लज्जत्वं प्रकटयति ज्ञानस्यापि नास्तित्वप्रसङ्गात्। यथाऽऽह—

“धर्मधर्मिव्यवस्थानं भेदोऽभेदश्च यादृशः।
असमीक्षिततत्त्वार्थो यथा लोके प्रतीयते” इति।

तन्न बाह्यार्थापलाप इत्यर्थः॥५४०॥

अपि ज्ञानातिरेकेण बाह्योऽर्थोऽभ्युपगम्यते॥
दीपकुम्भादिको बुद्धैर्व्यवहारप्रसिद्धये॥५४१॥

** **इतश्च न तदपलाप इत्याह। अपीति। बुद्धैरपीति संबन्धः॥५४१॥

सर्वस्य ज्ञानमात्रत्वान्ननु नाभ्युपगम्यते॥
मया ज्ञानातिरेकेण तन्मानासंभवादिह॥५४२॥

अभ्युपगममाक्षिपति। सर्वस्येति। इहेति मानभूमिरुक्ता। उक्तं हि—

“ज्ञानादव्यतिरिक्तं च क499थमर्थान्तरं व्रजेत्।
तस्मान्मिथ्याविकल्पोऽयमर्थेष्वेकात्मताग्रहः” इति॥५४२॥

ज्ञानं घटो दीप इति शब्दार्थज्ञानभित्तये॥**
अवश्यमभ्युपेयोऽत्र भेदो मानप्रमेययोः॥५४३॥**

दूषयति। ज्ञानमिति। अत्रेति व्यवहारदशोक्तिः। अन्यथा शब्दार्थभेदाभावान्मिथोव्यवहारसंकरप्रसक्तौ दहनादिपदोदाहरणे देहदाहादि स्यादिति भावः॥५४३॥

प्रमाणं भवता वाच्यं भेदाभेदत्वसिद्धये॥
नाऽऽवयोर्निष्प्रमाणोक्तं यतः संगच्छते सुधीः॥५४४॥

इतश्च भेदस्तयोरिति वक्तुं भूमिकामाह। प्रमाणमिति। ज्ञानार्थयोर्भेदं वदता सिद्धान्तिना तत्र मानं वाच्यं भवताऽपि तदभेदवादिना तत्र तथैवेत्यर्थः। तत्र हेतुः। नाऽऽवयोरिति॥५४४॥

मामेयसंगतिफलभित्त्यभ्युपगमस्त्वया॥
कार्य ऐक्ये यतोऽमीषां व्यवहारो न सिध्यति॥५४५॥

** **अभेदे मानाभावं मन्वानो भेदे तदाह। मामेयेति। मानमेययोस्तद्विषयविषयित्वकृतफलस्य मातुश्च मिथो भेदस्त्वयैष्टव्यस्तेषामैक्ये सत्यसंकीर्णव्यवहारासिद्धेरतस्तदनुपपत्तिस्तद्भेदे मानम्। यथाऽऽह—

“तत्तथैव समाश्रित्य साध्यसाधनसंस्थितिः।
परमार्थावताराय विद्वद्भिरवकल्प्यते" इति।

तदुपेयो भेदस्तेषामित्यर्थः॥५४५॥

उपादित्सन्ति मानानि ह्यज्ञातार्थोपलब्धये॥
अतोऽभ्युपेयोऽज्ञातोऽर्थः प्रमाणत्वमसिद्धये॥५४६॥

तत्र हेत्वन्तरं वक्तुं संमतमर्थमाह। उपादित्सन्तीति। तदेतद्बहुशो दर्शितमिति हिशब्दार्थः। संमतमुक्त्वा विमतं हठादुपगमयति। अत इति। अज्ञातेऽर्थे मानप्रवृत्तिरतःशब्दार्थः। अज्ञात इति च्छेदः॥५४६॥

न च प्रमाणतः सिद्धिरज्ञातत्वस्य शक्यते500
अन्योन्याश्रयतादोषः सत्येवं प्रसजेद्यतः॥५४७॥

** **तस्य मेयत्वमाशङ्क्याऽऽह। न चेति। अज्ञातत्वस्य मेयत्वे सति मानप्रवृत्त्यर्थमज्ञातत्वमादौ ज्ञातव्यं तज्ज्ञानं च मानादिति दुरुत्तरमितरेतराश्रयत्वमित्याह। अन्योन्येति॥५४७॥

प्रमाणाच्च न तत्सिद्धिस्तस्य मानविरोधतः॥
मानैश्चेदविरोधः स्यात्कुतोऽज्ञातत्वनिह्नुतिः॥५४८॥

** **तस्यामेयत्वे हेत्वन्तरमाह। प्रमाणादिति। मानविरोधं व्यतिरेकद्वारा साधयति। मानैरिति॥५४८॥

न स्वरूपेऽथवा स्वांशे मानमेयत्वसंभवः॥
सर्वदाऽतिशयाभावाद्बोधाच्चाव्यतिरेकतः॥५४९॥

** **मानमेयभेदं साधयता कूटस्थोऽनुभवोऽज्ञातत्वादिसाधकोऽभ्युपेय इत्युक्तं तत्र न मानमेयभेद एकस्मिन्नेव ज्ञाने तदंशे वा मानमेयत्वयोगादिति बाह्यार्थापलापवादी मन्यते तं प्रत्याह। नेत्यादिना। आद्यप्रतिज्ञायां हेतुमाह। सर्वदेति। द्वितीयस्यां युक्तिमाह। बोधाच्चेति। अंशयोर्ज्ञानादभेदो भेदो वा नाऽऽद्यो मानमेयव्यवस्थासिद्धेर्न द्वितीयस्तद्भेदापत्तेरित्यर्थः॥५४९॥

प्रमाणं यदि विज्ञानं मेया नीलादिरूपता॥
मिथस्तयोरपेक्षा का यत उक्तं प्रसिध्यति॥५५०॥

** **मानमेयव्यवस्थामाशङ्कते। प्रमाणमिति। तर्हि तयोरन्योन्यमभेदाकाङ्क्षाभावाद्भेदाकाङ्क्षायाश्च सत्त्वात्त्वदुक्तमैक्यं न सिध्यतीत्याह। मिथ इति॥५५०॥

आकारद्वतोर्भेदो यदि नामाभ्युपेयते॥
अस्तु कामं प्रमामेयसंगतिर्गम्यते कुतः॥५५१॥

** **व्यवहारावस्थायां नीलाद्याकारस्याऽऽकारिज्ञानस्य च भेदोपगतिमाशङ्कते। आकारेति। वयमपि तत्र तद्भेदमिच्छामो नप501रमार्थावस्थायां तदा तयोरभावादतोऽस्तूपगतिरित्यनुजानाति। अस्त्विति। व्यावहारिके भेदे स्वीकृते कथमिष्टात्मसिद्धिस्तत्राऽऽह। प्रमेति। नीलतद्धियोर्मानमेयत्वसंगतिरस्ति न सा स्ववेद्या ज्ञानमात्रत्वाभावान्नापि

स्वांशज्ञानसिद्धा तस्य स्वमात्रविषयत्वान्नाषि ज्ञानान्तरात्सिद्धा ज्ञान502स्यापि विशेषणत्वेन तद्विषयत्वे स्वसंवे503दनत्वहानात्सर्वचित्तचैत्यानामात्मना सं504वेदनं स्वसंवेदनमित्युपगमात्तस्मात्तत्साधककूटस्थबोधोपगतिरिति भावः॥५५१॥

कार्यांशाद्यभिसंबन्धान्मानमेयत्वसंगतिः॥
अन्यैव तु विभिन्नात्मा वस्तुनोर्मानमेययोः॥५५२॥

** **नीलतद्धियोराकाराकारित्वं कार्यकारणत्वमंशांशित्वं वा मानमेयत्वसं505गतिर्नाम सा च ज्ञानाभेदेन सेत्स्यति कृतं तत्साधकेन साक्षिणेत्याशङ्क्याऽऽह। कार्येति। मृद्घटयोस्तन्तुपटयोर्दीपतदर्थयोश्च मानमेयत्वादृष्टस्तत्संगतेरर्थान्तरत्वात्तत्साधकसाक्षिणा भाव्यमित्यर्थः। किंच मानमेयत्वसंगतेस्तदन्यतमत्वेऽपि तत्साधकेन भाव्यं न हि ज्ञानाभेदेन तत्सिद्धिस्तस्यास्तन्मात्रत्वाभावादित्याह। विभिन्नेति। संगतिरन्यैवेति संबन्धः॥५५२॥

मानांशो यस्य मेयः स्यान्मेयांशो वा भवेत्प्रमा॥
संबन्धाभावतस्तस्य मानमेयौ न506 सिध्यतः॥५५३॥

** **मानमेयसंगतिसाधकं साक्षिणं साधयता ज्ञानातिरिक्तो ग्राहको ग्राह्यश्चेत्युक्तम्।इदानीं मानमेयभेदे हेत्वन्तरमाह। मानेति। तयोरभेदे मानांश एव मेयो मेयांश एव मानमित्युक्तं स्यात्तदा मानमेयत्वासिद्धिरेकत्रासंबन्धादंशांशिनोरैक्यात्तस्माद्भेदस्तयोरित्यर्थः॥५५३॥

मानमेयत्वयो रूपं यस्मान्नैवेह गम्यते॥
मानमेयत्वसंसिद्धिर्नातस्तत्रोपपद्यते॥५५४॥

** **यस्य तदभेदस्तस्य कथं भेद एकत्र तद्भावाभावानुपपत्तेरित्याशङ्क्योक्तं स्पष्टयति। मानमेयत्वयोरिति। सप्तमीभ्यां ज्ञानं गृह्यते॥५५४॥

एकस्मिन्नपि चेन्मानमेयत्वादिप्रकल्पना॥
साध्यानां साधनैकत्वादसाध्यासाधनात्मता॥५५५॥

** **ज्ञानार्थभेदे हेत्वन्तरमाह। एकस्मिन्निति। आदिशब्देन कार्यकारणत्वांशांशित्वक507ल्पना गृह्यते। साध्यसाधनयोरैक्ये साध्यस्य साध्यत्वं साधनस्य च साधनत्वं न सिध्यत्यन्योन्याभेदादित्यर्थः॥५५५॥

फलानां साधनानां च भेदाभावे प्रसज्यते॥
शास्त्रोपदेशानर्थक्यं तत्कर्तुश्चापि मूढता॥५५६॥

** **साध्यसाधनाभेदे दोषान्तरमाह। फलानामिति। इदमस्य साधनमेतत्फलमिति भेदोपदेशस्तदभेदे निर्विषयस्तथाच योगिप्रत्यक्षं प्रक्रम्यैतच्च सर्वं भवति निवृत्तिमूलं

सर्वभवविरुद्धधर्मसाक्षात्कारित्वादिति प्रमत्तगीतमसदर्थोपदेशकर्ता चानाप्तः स्यादतः सर्वज्ञवचनार्थाविसंवादिज्ञानं प्रमाणमिति प्रलापमात्रमित्यर्थः॥५५६॥

विज्ञानव्यतिरेकेण प्रतिवाद्यादिवस्तुनः॥
त्वदभ्युपगतेर्भेदः स्यात्प्रमाणप्रमेययोः॥५५७॥

** **मानमेयभेदं प्रसाध्य बाह्यार्थापलापायोगे हेत्वन्तरमाह। विज्ञानेति॥५५७॥

न ज्ञानमात्रमेवेदं भवताऽप्यभ्युपेयते॥
प्रतिवाद्यादिकं वस्तु तस्य दूष्यत्वकारणात्॥५५८॥

** **तस्य तदतिरेकेण मदुपगतिरसिद्धेत्याशङ्क्याऽऽह। नेति। भवताऽपीति स्वदृष्टान्तार्थोऽपिशब्दः॥५५८॥

प्रतिवाद्यादिदूष्यस्य न स्वांशांशित्वसंगतौ॥
निराकर्तुमभिप्रायः सुमूढस्यापि जायते॥५५९॥

** **दूष्यत्वेऽपि ज्ञानाभिन्नत्वमाशङ्क्याऽऽह। प्रतिवाद्यादीति। स्वशब्देनाऽऽत्मोच्यते। अंशत्वं स्वकीयत्वम्। अंशित्वं स्वरूपत्वम्। सुमूढस्यापीति कैमुतिकन्यायद्योतनम्॥५५९॥

भिन्नग्राहकसंवेद्यं घटदीपादि सद्ध्रुवम्॥
जाग्रद्भूमिष्वतस्तस्य जाग्रत्स्थप्रतिवादिवत्॥५६०॥

** **स्वरूपत्वेन स्वीयत्वेन वा संबन्धे दूष्यत्वानुपपत्तिमुक्त्वा फलितमनुमानमाह। भिन्नेति। स्वातिरिक्तग्राहकग्राह्यत्वसत्त्वेऽपि स्थायित्वं चेति प्रतिज्ञा द्रष्टव्या॥५६०॥

संतत्यन्तरवद्यद्वा विज्ञानान्तरवत्तथा॥
इत्येवमादि सौलभ्यं दृष्टान्तानामिष्यते॥५६१॥

** **किंच चैत्रसंतानेन मैत्रसंतानो व्यवहारादनुमीयते सर्वज्ञज्ञानेन चासर्वज्ञज्ञानानि ज्ञायन्ते तत्र भेदस्य तेऽपि सिद्धेस्तद्दृष्टान्तान्नीलादेरतद्धियश्च भेदः शक्योऽनुमातुमित्याह। संततीति। इतिनाऽनन्तरोक्तदृष्टान्तद्वयं परामृष्टम्। एवमादिशब्देन पूर्वोक्तप्रतिपाद्यादिदृष्टान्तप्रकारोक्तिः। अतो दृष्टान्तानां ज्ञानार्थभेदे साध्ये यथोक्तनीत्या सौलभ्यमिति योजना॥५६१॥

विज्ञानव्यतिरेकेण नातो विज्ञानवादिना॥
कूटस्थदृष्टिरात्मैको निषेद्धुं शक्यते परः॥५६२॥

** **अनुमानफलमाह। विज्ञानेति। ज्ञानार्थभेदस्य प्रामाणिकत्वादस्मदिष्टात्मा बुद्ध्यतिरिक्तो निषेद्धुं शक्यो न भवतीत्यर्थः॥५६२॥

ननु स्वप्ने न वस्त्वस्ति विज्ञानव्यतिरेकतः॥
न जाग्रद्वस्तुवत्तत्स्याज्ज्ञानमात्रस्वरूपतः॥५६३॥

ज्ञानार्थभेदोक्त्या प्रत्यगात्माऽपि ज्ञानातिरिक्त उक्तः संप्रति विमतं ज्ञानाभिन्नं ग्राह्यत्वात्स्वप्नग्राह्यवदित्युक्तमनुवदति। नन्विति। दृष्टान्तासंमतिमाशङ्क्याऽऽह। नेति। न हि स्थायिवादिनोऽपि जाग्रद्वस्तुवत्स्वप्नवस्त्वस्ति तथाच तत्र तस्य ज्ञानमात्रत्वात्तद्दृष्टान्तादन्यदपि नातिरेक्यस्ति ग्राह्यत्वादित्यर्थः॥५६३॥

विभागं लभते ज्ञानाज्ज्ञानवत्स्वप्नवस्तु चेत्॥
स्वमहिम्नैव तत्सिद्धेः कथं नास्तीति भण्यते॥५६४॥

** **स्वप्नवस्तु ज्ञानाद्भेदेन दृश्यते न वेति विकल्प्याऽऽद्यमादाय दूषयति। विभागमिति। ज्ञेयाज्ज्ञानभेदवज्ज्ञानाज्ज्ञेयभेदः स्वप्नेदृश्यते चेत्स्वदृ508ष्ट्यैव स्वाप्नस्य ज्ञानातिरेकिणः सिद्धेस्तदपलापायोगाद्दृष्टान्तस्यसाध्यविकलतेत्यर्थः॥५६४॥

ज्ञानस्यैवार्थरूपं तद्बोधवच्चेत्प्रकल्प्यते॥
परमार्थसतोऽसत्त्वं किंमानमिति भण्यताम्॥५६५॥

** **द्वितीयमनूद्य दूषयति509ज्ञानस्येति। स्वाप्नं वस्तु ज्ञानाद्भेदेन न दृश्यते किंतु तन्मात्रमेवेत्यत्र न तदपलापस्तस्य ज्ञानाभिन्नत्वाज्ज्ञानवदतो जाग्रद्वस्तुनोऽपि स्वरूपापह्नवो नास्तीत्यर्थः॥५६५॥

विज्ञानव्यतिरेकेण नीलादिविषयो यदि॥
भावो वा स्यादभावो वा सोऽस्त्येवेति विनिश्चितिः॥५६६॥

** **न स्वप्नजाग्रद्वस्तुनोः स्वरूपमेवापलपामस्तयोस्तु ज्ञानातिरेकं तस्मादसदुपालम्भोऽयमित्याशङ्क्याऽऽह। विज्ञानेति। अवस्थाद्वयेऽपि यथाप्रतीति बाह्यार्थो ग्राह्योऽन्यथा प्रथाप्रकोपादित्यर्थः॥५६६॥

स्वप्नादौ भवतैवायं जाग्रद्वदनुभूयते॥
घटादिज्ञानविषयः स कथं नेष्यते त्वया॥५६७॥

** **जागरे ज्ञानार्थभेदेऽपि न स्वप्ने तद्भेदस्तद्ग्राहकचक्षुराद्यभावादित्याशङ्क्याऽऽह। स्वप्नादाविति। आदिपदेन स्मृतिसमाधानाद्युक्तिः। तत्र चक्षुराद्यभावेऽपि मनोऽस्ति तच्च समनन्तरप्रत्ययोऽन्यद्वेति चिन्तान्तरमिति भावः॥५६७॥

यद्वस्त्वनुभवप्राप्तं तच्चेन्नास्तीति भण्यते॥
ज्ञानेऽपि स्यादनाश्वासस्तस्यानुभवसिद्धितः॥५६८॥

** **द्वयोरवस्थयोरनुभवाद्बाह्यार्थसत्त्वमुक्त्वा विपक्षे दोषमाह। यद्वस्त्विति॥५६८॥

ज्ञानादतिशयो यद्वन्नास्तीतीह तथैव सन्॥
घटोऽन्यो ह्यनुभूतेः सन्नास्ती510ति कथमुच्यते॥५६९॥

ज्ञानार्थभेदे युक्त्यन्तरमाह। ज्ञानादिति। यथा व्यवहारदशायां ज्ञानादन्यो नास्त्यर्थस्तथैवास्त्यर्थोऽनुभूयमानत्वादतोऽस्त्यर्थोऽन्यो नास्तीति दुर्वचनमि511त्यर्थः। अतिशयशब्दोऽन्यविषयः॥५६९॥

तदन्यकालासंदृष्टेरिति चेदसदुच्यते॥
क्षणान्तरे क्षणादृष्टेरसत्त्वं वः प्रसज्यते॥५७०॥

** **अस्त्यर्थस्य घटादेर्ज्ञान512काल एवोपलम्भात्कालान्तरे चानुपलम्भादन्यत्वासिद्धिरिति शङ्कते। तदन्येति। अतिप्रसङ्गेन दूषयति। क्षणान्तर इति। अतिरिक्तास्त्यर्थासत्त्वं कालान्तरे स्वकाले वा नाऽऽद्योऽभ्युपगमान्नेतरः स्वक्षणे सत्त्वेन दृष्टस्य कालान्तरेऽनुपलम्भात्स्वक्षणेऽप्यसत्त्वे तेऽपि क्षणशब्दितैकज्ञानस्य ज्ञानान्तरक्षणेऽदृष्टेः स्वक्षणेऽप्यसत्त्वापत्तेः सर्वशून्यता स्यादित्यर्थः॥५७०॥

हेमन्तेऽनुपलब्धत्वाद्ग्रीष्मधर्मापनिह्नुतिः॥
प्रतिज्ञातुमशक्या स्यात्तथा शून्यत्वमापतेत्॥५७१॥

स्वकाले सतोऽन्यदाऽनुपलम्भात्तत्राप्यसत्त्वमिति प्रतिज्ञा न निर्वहतीत्यत्र हेत्वन्तरमाह। हेमन्त इति। ग्रीष्मे सत्त्वेन दृष्टानामौष्ण्यादीनां हेमन्तेऽदृष्टेर्ग्रीष्मेऽप्यपह्नुतिस्ते स्यात्सा च प्रतिज्ञातुमशक्या दृष्टिविरोधात्तथा सति स्वकाले सर्वस्य यथाप्रतीति सत्त्वमेवेत्यर्थः। अशून्यत्वमिति च्छेदः। अथवा दृष्टिमनादृत्यासत्त्वप्रतिज्ञायां सर्वशून्यता स्यादिति विपक्षे दोषमाह। तथेति॥५७१॥

देशकालादिगावस्थाभेदेनैवाखिलं यतः॥
वस्तु सिद्धं जगत्यस्मिंस्तदपह्नूयते कथम्॥५७२॥

** **इतश्च बाह्यार्थशून्यतेत्याह। देशेति। विपक्षे विभागधीर्विरुध्येतेत्यर्थः॥५७२॥

विज्ञानव्यतिरेकेण घटो नास्तीति जल्पतः॥
नास्त्यर्थोऽपि कथं जीवेदस्त्यर्थविरहादिह॥५७३॥

** **बाह्यार्थापलापिनो व्याघातापत्तेश्च तदपलापासिद्धिरित्याह। विज्ञानेति। भावाभावव्यवहारभूमिरिहेत्युक्ता॥५७३॥

अस्त्यर्थवत्स्वमात्रेण नाभावोऽस्ति विना सता॥
यथाऽस्ति तव विज्ञानमेवं कुम्भाद्यपीष्यताम्॥५७४॥

** **कुतो व्याहतिर्यथाऽस्त्यर्थो नास्त्यर्थानपेक्षस्ते सिध्यति तथा सोऽप्यस्त्यर्थानपेक्षः सेत्स्यतीत्याशङ्क्याऽऽह। अस्त्यर्थवदिति। व्याघातफलमाह। यथेति। अस्त्यर्थानङ्गीकारे निष्प्रतियोगिको नास्त्यर्थो न सिध्येत्तदङ्गीकारे सर्वबाह्यार्थापलापासिद्धिस्तज्ज्ञानवज्ज्ञेयस्यापि सत्त्वमित्यर्थः॥५७४॥

अस्त्यर्थव्यतिरेके हि न किंचिदपि सिध्यति॥५७५॥

अस्त्यर्थव्यतिरेकेण विज्ञानादि यदीष्यते॥
अब्राह्मणादिवत्तत्स्यादसदेवेति निश्चितिः॥५७६॥

** **अस्त्यर्थं नास्त्यर्थं वा नेच्छामो विज्ञानमेव तु स्वरसभङ्गुरमविरलोदयमाद्रियामहे तन्न किंचिदनुपपन्नमित्याशङ्क्याऽऽह। अस्त्यर्थेति। कथं तदभावे सर्वासिद्धिर्ज्ञानवत्क्षणिकादे513रस्त्यर्थादन्यत्वेन सिद्धेरित्याशङ्क्याऽऽह। अस्त्यर्थव्यतिरेकेणेति। न हि ब्राह्मणादेरन्यस्य ब्राह्मणादिभावस्तथा सतोऽन्यस्य न सत्तेत्यर्थः॥५७५॥५७६॥

प्रतिक्षणविनाशीनि द्रव्याणीत्यवगम्यताम्॥
तेषामन्ते विनाशित्वात्प्रदीपादिविनाशिव514त्॥५७७॥

बाह्योऽर्थो विज्ञानवदास्थेयः स च स्थायीत्युक्तम्। इदानीं क्षणभङ्गवादी तदीयस्थायिताममृष्यमाणश्चोदयति। प्रतिक्षणेति। द्रव्याणि ज्ञानज्ञेयवस्तूनि यदन्ते विनाशि तत्प्रतिक्षणविनाशि यथा दीपोऽन्ते विनाशि च सर्वमित्यनुमानार्थः। दृष्टान्तस्य साध्यसाधनवत्त्वद्योतनार्थं तत्र विनाशिप515दम्॥५७७॥

वैधर्म्येण च दृष्टान्तः प्रतिज्ञातार्थसिद्धये॥
प्रतिसंख्यानिरोधोऽत्र सर्वं सुस्थं भवेत्ततः॥५७८॥

दीपादौ स्वरसभङ्गुरत्वलक्षणक्षणिकत्वस्यासंप्रतिपत्तेः साधर्म्यदृष्टान्तायोगमाशङ्क्याऽऽह। वैधर्म्येणेति। यो नप्रतिक्षणविनाशी स नान्ते विनाशी यथा प्रतिसंख्यानिरोधो न चान्ते न विनाशी घटादिरित्यर्थः। अत्र घटादौ प्रतिज्ञातार्थस्य प्रतिक्षणविनाशित्वस्य सिद्धये वैधर्म्यदृष्टान्तः प्रतिसंख्यानिरोधः स च बुद्धिपूर्वको भावनाशोऽतः सर्वं क्षणिकमित्यस्मन्मतं सुस्थमिति योजना॥५७८॥

अनुमानप्रयोगेऽस्मिन्प्रतिज्ञार्थः516 सुदुर्लभः॥
आवृत्तिवीप्सासद्भावात्क्षणिकोक्तेः प्रमाणतः॥५७९॥

निराकरोति। अनुमानेति। विमतं प्रतिक्षणविनाशीतिप्रतिज्ञातार्थासिद्धौ हेतुमाह। आवृत्तीति। प्रतिशब्दात्प्रतीतयोरावृत्तिवीप्सयोस्त्वन्मते मानेनासद्भावात्सर्वस्य क्षणिकत्वोक्तेरित्यर्थः॥५७९॥

अनेकव्यापृतिमती ह्यावृत्तिर्जगतीक्ष्यते॥
एकस्मिन्देवदत्तादौ सा च बौद्धस्य नेष्यते॥५८०॥

** **कथं क्षणिकेषु तयोरनुपपत्तिरित्याशङ्क्याऽऽवृत्त्यसंभवार्थं तत्स्वरूपमाह। अनेकेति। एकजातीयैककर्तृकानेकव्यापारस्था तावदावृत्तिर्लोके प्रसिद्धा यथैकस्मिन्मैत्रादा-

वेकजातीयानेकभोजनव्यापारगता प्रतिक्षणं भुङ्क्त इत्यावृत्तिर्गम्यत इत्यर्थः। नैवं बौद्धराद्धान्ते नाशक्रियाया आवृत्तिरेष्टुं शक्यैकस्यानेकनाशक्रियावतोऽनुपगमादित्याह। सा चेति॥५८०॥

निर्व्यापाराः सर्वभावाः क्षणिकाश्चेति निश्चितेः॥
गतः प्रत्यागतश्चेति साऽऽवृत्तिः स्यात्सुदुर्लभा॥५८१॥

** **तदुपपादयति। निर्व्यापारा इति। **यथाऽऽह—**क्षणिकाः सर्वसंस्कारा अस्थिराणां कुतः क्रिया इति॥५८१॥

नानार्थवाचिनां लोक आश्रयाश्रयिणामिह॥
व्याप्तिः क्रियागुणाभ्यां या सा वीप्सेत्यभिधीयते॥५८२॥

युगपत्साऽपि बौद्धस्य न कथंचन युज्यते॥
कर्तृक्रियादिसादृश्यात्साऽन्य517त्वेऽपीति चेन्मतम्॥५८३॥

** **परमते क्रियाधर्मस्याऽऽवृत्तेरयोगमुक्त्वा वीप्सायाः शब्दधर्मस्यायोगं वक्तुं तत्स्वरूपमाह। नानेति। नानाभूतान्धर्मधर्मिणोऽर्थान्वक्तुं शीलवतां शब्दानां वाच्या ये वृक्षग्रामतद्देशादयोऽर्थास्तेषामाश्रयाश्रयित्वेन स्थितानां क्रियया गुणेन वा व्याप्तिरत्र वीप्सा प्रसिद्धा यथा पर्जन्यो वृक्षं वृक्षं परिषिञ्चतीति सर्ववृक्षाणां तत्तद्देशस्य च सेचनक्रियया युगपद्व्याप्तिर्यथा च ग्रामो ग्रामो रमणीय इति सर्वग्रामाणां तद्देशस्य च युगपद्रमणीयत्वगुणेन व्याप्तिरेवमन्यत्रापि वीप्सा द्रष्टव्येत्यर्थः। अस्त्वेवं प्रस्तुते किमिति चेत्तत्राऽऽह। साऽपीति। उक्तरूपा वीप्सा परमते न सिध्यति नाशक्रिययाऽनेकद्रव्याणां युगपद्व्याप्त्यनुपगमात्तद्यौगपद्यादृष्टेर्धर्मधर्मिव्यवस्थानमित्यादिना च धर्मधर्मित्वस्यानिष्टेरित्यर्थः। क्षणभङ्गपक्षेऽपि कर्तृक्रियागुणगुणिसादृश्यादावृत्तिवीप्सयोः सिद्धिरिति शङ्कते। कर्त्रिति॥५८२॥५८३॥

भूयोऽपि भुञ्जते गेहे ब्राह्मणा इति दर्शनात्॥
एतच्चानुपपन्नं स्यादुपचारपरिग्रहात्॥५८४॥

** **यथा भोक्तृभेदेऽपि भूयो भूयो भुञ्जते ब्राह्मणा इति प्रयोगो न हि तत्र पूर्वकाले भुक्त्वोत्थिता एवोत्तरकाले भोक्त्तारस्तथा पदार्थानां प्रतिक्षणं भेदेऽपि वीप्सादेरुपपत्तिरित्याह। भूयोऽपीति। दृष्टान्ते तस्यौपचारिकत्वान्मैवमित्याह। एतच्चेति॥५८४॥

मुख्यस्यासं518भवे यस्मादुपचारो न युज्यते॥
अभ्युपेतार्थहानं च तदभ्युपगमे सति॥५८५॥

दार्ष्टान्तिकेऽपि वीप्सादेरौपचारिकत्वाद्दृष्टान्तानुगुणतेत्याशङ्क्याऽऽह। मुख्यस्येति।

यथोपचारिताग्निर्माणवको मुख्याग्निव्यतिरेकेण न घटते तथा वीप्सादेरुपचारो मुख्यवीप्साद्यभावे यस्मान्न युक्तस्तस्मान्मुख्यं तदेष्टव्यमित्यर्थः। इष्यतां तर्हि मुख्यं तदिति चेत्तत्राऽऽह। अभ्युपेतेति॥५८५॥

क्षणिकाः सर्वसंस्कारा इत्याद्यभ्युपगम्यते॥
क्षणिकाः सर्वसंस्कारा इत्यादिवचनैरियम्॥
वीप्सा व्याहन्यतेऽतश्च क्षणिकोक्तिर्न युज्यते॥५८६॥

** **अभ्युपेतमर्थं दर्शयति। क्षणिका इति। आदिपदेनास्थिराणां कुतः क्रिया, भूतिर्येषां क्रिया सैव कारकं सैव चोच्यत इत्येतद्गृह्यते। अन्यच्च स्कन्धपञ्चकात्मकं संस्कृतं क्षणिकं सर्वं समेत्य संभूय हेतुप्रत्ययैः कृतं संस्कृतं सकलमेव वस्तुजातं क्षणिकमुत्पत्तिक्षण एव केवले सत्त्वादिति गृहीतम्। उक्तस्याभ्युपगमस्यात्यागे वीप्सादेर्मुख्यत्वायोगादुपचारोऽपि न सिध्यतीति मत्वाऽऽह। क्षणिका इति। संस्कारा वासनापरपर्याया ज्ञानात्मानो भावा इति यावत्। आदिपदमुक्तार्थम्।

“यावद्यावच्च भावोऽयं प्रत्यक्षेण प्रतीयते।
तावत्स वर्तमानस्थोनान्यकालविशेषणः॥
एकक्षणश्च कालोऽयं वर्तमानो व्यवस्थितः।
तस्मात्प्रत्यक्षं तत्सर्वं क्ष519णिकत्वं मतं मम”॥

इत्येवंविधा परोक्तिर्बहुवचनार्थः। वीप्सेत्यावृत्तेरुपलक्षणम्। तयोर्मुख्ययोरुपचरितयोर्वा क्षणिकेष्वसंभवे प्रतिज्ञातार्थदौर्लभ्यमुपसंहरति। अतश्चेति। क्षणिकोक्तिस्तत्साधिका प्रतिक्षणविनाशीनि द्रव्याणीति प्रतिज्ञेति यावत्॥५८६॥

अथापि520 क्षणिकानीति मत्वर्थोऽत्र विवक्ष्यते॥
सिद्धसाध्यत्वमेवं स्यादिष्टैव क्षणसंगतिः॥५८७॥

** **उक्तरीत्याऽऽवृत्तिवीप्सयोरसंभवेऽपि विमतानि क्षणिकानीति प्रतिज्ञायां न दूषणमित्याह।521 अथा521पीति। किं क्षणिकत्वं क्षणसंबन्धित्वं किंवा क्षणे तिरोभावो यद्वा नाशित्वमथवा स्वोत्पत्त्यव्यवहितोत्तरक्षणवर्तिध्वंसप्रतियोगित्वं तत्राऽऽद्यमनूद्य दूषयति। मत्वर्थोऽत्रेति॥५८७॥

स्थिरस्य वस्तुनोऽवश्यं निमेषक्षणलक्षणैः॥
कालभागैर्भवेद्योग इति नः सिद्धसाध्यता॥५८८॥

** **सिद्धसाध्यत्वं साधयति। स्थिरस्येति॥५८८॥

क्षणिकार्थस्तिरोभाव इति चेदभिधीयते॥
अभ्युपेतार्थहानिः स्यात्तथाऽपीष्टं न सिध्यति॥५८९॥

द्वितीयमनुद्रवति। क्षणिकेति। तत्र सत्ताक्षणे क्षणान्तरे वा तिरोभावो नाऽऽद्यस्तत्र ज्ञानात्मनां भावानां प्रकाशोपगतिविरोधाज्जगदान्ध्यप्रसङ्गाच्चेत्याह। अभ्युपेतेति। न द्वितीय इत्याह। तथाऽपीति। क्षणान्तरतिरोहितभावेऽपीत्यर्थः॥५८९॥

व्यक्तधर्मनिवृत्तिर्या कारणात्मतयेष्यते॥
स्थिरस्य धर्मिणः सेह तिरोभावगिरोच्यते॥५९०॥

** **इष्टासिद्धिं स्पष्टयितुं तिरोभावं व्याकरोति। व्यक्तेति। धर्मशब्देन कार्यं लक्ष्यते। यथोक्ते तिरोभावे साध्ये स्वापेक्षितक्षणिकताक्षतिरिति भावः॥५९०॥

यद्युत्पन्नानि नश्यन्ति स्यात्तदा सिद्धसाध्यता॥
यस्मादादिमतां नाशः सर्वैरेवाभ्युपेयते॥५९१॥

तृतीये किमुत्पन्नस्य नाशित्वं किंवाऽनुत्पन्नस्याथवोत्पद्यमानस्येति विकल्प्याऽऽद्यमादत्ते। यदीति। तत्रापि किमुत्पन्नस्य यदाकदाचिन्नाशः किंवोत्पत्तिक्षणे द्वितीयक्षणे वाऽन्त्यक्षणे वा प्रथमे दोषमाह। स्यादिति॥५९१॥

यतो जनिमताऽवश्यं विनंष्टव्यं तदन्ततः॥
तथाऽभ्युपगतार्थस्य हानिः स्याद्वो न संशयः॥५९२॥

आदिमतां सर्वैरेव नाशाश्रयणे युक्तिमाह। यत इति। तदन्ततो भावस्याऽऽदिमतोऽन्ततोऽवसाननियमादित्यर्थः। ईदृशे क्षणिकत्वे साध्ये त्वयाऽपि तत्स्वीकारे मत्पक्षसिद्धिरित्याशङ्क्याऽऽह। तथेति। अभ्युपगतार्थस्य क्षणभङ्गुरत्वस्येत्यर्थः॥५९२॥

अथोत्पत्तिक्षणे नाशो भवताऽभ्युपगम्यते॥
सर्गनाशौ तदैकस्मिन्काले प्रसजतो ध्रुवम्॥५९३॥

** **कल्पान्तरमाह। अथेति। अतिप्रसङ्गेन दूषयति। सर्गेति॥५९३॥

ततश्च कार्यानुत्पत्तिर्यदि वा सर्वदाऽस्तिता॥
तद्विरोधाविरोधाभ्यां ध्रुवं प्राप्नोत्यनीप्सितम्॥५९४॥

** **प्रसङ्गस्य दोषपर्यवसायितामाह। ततश्चेति। भावाभावयोस्ते विरोधोऽविरोधो वाऽऽद्ये न कदाचित्तदुत्पत्तिस्तस्य वा स्थायिता युगपदुपगतयोर्भावाभावयोर्विरोधे सत्यभावाद्भावस्य ततो वेतरस्यानुपपत्तेर्द्वितीयेऽप्यथमेव दोषस्तयोरविरुद्धयोः सह522 संभवादित्यर्थः॥५९४॥

विरुद्धयोश्च क्रिययोरिष्टत्वादेककर्तरि॥
एककाले विरुद्धत्वात्सर्वलोको विरुध्यते॥५९५॥

** **विरोधे दोषान्तरमाह। विरुद्धयोरिति। एकस्मिन्वस्तुन्येकदैवोत्पत्तिनाशयोर्विरुद्धयोरिष्टत्वात्सर्वलोकव्यवहारो व्यवस्थितो न सिध्येत्क्वचिदपि विरुद्धशब्दार्थाभावादित्यर्थः॥५९५॥

अथाज्ञातानि नश्यन्ति जायमानानि वेति चेत्॥
तथाऽप्यसन्प्रतिज्ञार्थो न ह्यभावस्य नाशिता॥५९६॥

** **उत्पन्ननाशो यदाकदाचिद्वा जन्मक्षणे वेति द्वयं निरस्य द्वितीयतृतीयावनुवदति। अथेति। तत्राजातस्य नाशं दूषयति। तथाऽपीति। अजातानि नश्यन्तीति प्रतिज्ञातार्थो न युक्तोऽजातस्यासत्त्वादसतश्च संतानस्येवानाशादित्यर्थः॥५९६॥

काऽतिशीतिरजातस्य विनाशागमने सति॥
प्रतिज्ञापदयोश्चात्र विरोधः स्यात्परस्परम्॥५९७॥

** **तस्यानाशे हेत्वन्तरमाह। केति। नाशो नामार्थासत्त्वहेतुर्विकारोऽजातस्तु तेऽसन्नेवातोऽनाशादनतिशयान्न स तस्येत्यर्थः। जायमाननाशस्तु जन्मक्षणे तन्निरासेनैव निरस्तो भेदाभावादिति मत्वा दोषान्तरमाह। प्रतिज्ञेति। चकारो वक्ष्यमाणविरोधसमुच्चयार्थः॥५९७॥

नश्यत्युत्पद्यमानोऽर्थ इत्येतन्मुग्धभाषितम्॥
सर्वलोकविरुद्धत्वान्मानैश्चापि विरुध्यते॥५९८॥

** **विरोधं प्रकटयति। नश्यतीति। उत्पद्यमानत्वं हि523 सत्तया524 संबध्यमानत्वं नश्यमानत्वं च तद्राहित्यमिति प्रतिज्ञापदयोः स्पष्टो विरोध इत्यर्थः। विरोधान्तरमाह। सर्वेति। लोकविरुद्धमपि ब्रह्माद्वितीयत्वादि त्वयेष्यते तथैतन्मयाऽपी525ति चेत्तत्राऽऽह। मानैश्चेति॥५९८॥

अथोत्पन्नस्य नाशोऽयं द्वितीये स्यात्क्षणे यदि॥
प्रत्यभिज्ञामृते नायं प्रतिज्ञार्थः प्रसिध्यति॥५९९॥

** **उत्पन्ननाशित्वपक्षे तृतीयमादत्ते। अथेति। तत्र दोषं वक्तुं भूमिकां करोति। प्रत्यभिज्ञामिति॥५९९॥

य एव जायते कर्ता स एवायं विनश्यति॥
क्षणद्वये यथा स्थायी तद्वदस्तु क्षणान्तरे॥६००॥

तत्स्वरूपमाह। य एवेति। उक्तप्रत्यभिज्ञायाः क्षणद्वयवर्तित्वे का हानिस्तत्राऽऽह। क्षणेति। स्थायी जन्मनाशकर्तेति शेषः॥६००॥

मतमुत्पद्यते नासौ नापि साक्षाद्विनश्यति॥
आदिमध्यान्तहेतूत्थविकल्परहितोऽपि वा॥६०१॥

** **उत्पत्तिनाशक्षणद्वयसंबन्धासिद्धेर्न क्षणान्तरसत्त्वापत्तिरिति शङ्कते। मतमिति। आद्यन्तमध्यतत्प्रयुक्तसर्वविकल्पहीनश्च बोधो निर्विकल्पकः सर्वविकल्पविकलतया तस्याधिगतेरित्याह। आदीति। उक्तं हि

संसृज्यन्ते न भिद्यन्ते स्वतोऽर्थाः पारमार्थिकाः।
रूपमेकमनेकं च तेषु बुद्धेरुपप्लव इति॥

वाशब्दो यथोक्तार्थस्य पूर्वोक्तार्थे हे526तुत्वद्योतनार्थः॥६०१॥

हेतुप्रतिज्ञयोः स्पष्टो विरोधः स्यात्तथा सति॥६०२॥

मतमन्ते विनाशश्चेत्कोऽयमन्तस्त्वयोच्यते॥
क्षणस्यान्तर्बहिर्वेति न तथाऽप्युपपद्यते॥६०३॥

** **तर्हि पूर्वोक्तानुमानानुत्थानमिति दूषयति। हेत्विति। सर्वविकल्पशून्ये बोधे सत्यन्ते विनाशित्वादिति हेतोः क्षणिकत्वप्रतिज्ञायाश्च त्वदुक्त्या विरोधादनुमानानुदयस्तस्य सर्वविकल्पराहित्ये चास्मन्मतानुमतिरित्यर्थः। चतुर्थमुत्थापयति। मतमिति। आदिमतामन्ते नाशित्वस्य सिद्धतया सिद्धसाध्यता साध्याविशिष्टता चेति मन्वानो दोषान्तरं वक्तुमन्तं विकल्पयति। कोऽयमिति। पक्षद्वयेऽप्यनुपपत्तिं प्रतिजानीते। नेति॥६०२॥६०३॥

क्षणान्तश्चेद्भवेन्नाशः क्षणिकत्वं विहन्यते॥
क्षणान्तरेऽपि नाशोऽयं पूर्वाभावान्न युज्यते॥६०४॥

कथमनुपपत्तिरित्यपेक्षायामन्तशब्दस्य क्षणमध्यवाचित्वे तामाह। क्षणेति। एकस्मिन्पूर्णे क्ष527णे क्षणिकस्य स्थितिरिष्टा सा च क्षणमध्ये नाशे न सिध्यतीत्यर्थः। द्वितीयं प्रत्याह। क्षणान्तर इति। क्षणस्य बहिर्नाम क्षणान्तरं तत्र नाशो न क्षणस्य युक्तः पूर्वक्षणवर्तिनो ज्ञानस्योत्तरक्षणसंबन्धानुपगमात्सर्वमेव वस्तुजातं क्षणिकमुत्पत्तिक्षण एव केवले सत्त्वादिति स्थितेरित्यर्थः॥६०४॥

उत्तरक्षणविध्वस्तौ न हि पूर्वो नियुज्यते॥
तस्योत्तरत्रासद्भावाद्ध्रौव्यं च स्यात्तथा सति॥६०५॥

** **हेतुं साधयति। उत्तरेति। तत्क्षणवर्तिध्वंसक्रियायां पूर्वो भावो न कर्तृत्वेन नियुज्यते पूर्वस्योत्तरक्षणे सत्त्वाभावादसतश्च कर्तृत्वायोगात्। यथाऽऽह

**“असतो भासनायोगादुत्पादस्यव हानितः।
कार्यकारणयोरित्थं वस्तुत्वं केन वार्यते" इति। **

तस्माद्धेतुसिद्धिरित्यर्थः। पूर्वस्योत्तरक्षणसत्त्वे दोषमाह। धौव्यं चेति॥६०५॥

आदिमध्यान्तभागत्वे निरंशत्वं च दुर्घटम्॥
क्षणस्य संततौ चापि सिद्धसाध्यत्वमुच्यते॥६०६॥

किंचान्ते नाशश्चेदन्तस्याऽऽदिमध्यापेक्षत्वादंशत्रयवत्त्वे ज्ञानस्य क्षणिकत्वक्षतिर्न च

निरंशतेत्याह। आदीति। क्षणस्य ज्ञानस्येति यावत्। तत्प्रवाहे परमादि528मध्यान्तभागोन सर्वविकल्पहीने तस्मिन्नित्याशङ्कामनूद्य ज्ञानादन्यत्र विकल्पानां सत्त्वेऽपि ज्ञाने तदभावाज्ज्ञानमनाद्यनन्तमित्यस्मन्मतस्थितिरिति दूषयति। संततौ चेति। यदि विकल्पाःसंततिमनुपतन्तो न ज्ञानमनुपतन्ति तदा विज्ञानं सर्वविकल्पविकलमिति सिद्धमेव त्वयासाध्यते ज्ञानादन्यत्र विकल्पानामस्माभिरपि कथ्यमानत्वादिति योजना॥६०६॥

असतश्च समुत्पत्तावन्ते च क्षयसंगतेः॥
द्विर्विनाशप्रसक्तिः स्यात्क्षणिकत्वं च हीयते॥६०७॥

चतुर्थेऽपि किमुत्पत्तिः सतोऽसतो वा नाऽऽद्य उत्पत्तिर्हि सत्तासंबन्धो न च सतस्तत्संबन्धः529कारणाधीनात्मलाभश्चेत्सोऽपि न सतः प्रागेव लब्धरूपत्वादिति मत्वाद्वितीयं प्रत्याह। असतश्चेति। यदा त्वसज्ज्ञानोत्पत्तिस्तदा तदसत्त्वं नश्यति न वानाऽऽद्यो ज्ञानस्यापि नाशप्रसङ्गादसत्त्वाभेदाद्भेदे तद्धर्मित्वेन प्रागपि स्थित्यापत्तेर्द्वितीयेतदुत्पत्तिर्व्यर्थातदसत्त्वतादवस्थ्यात्तस्मादुत्पत्तिकालेऽसत्त्वनाशे तदभिन्नं ज्ञानमपिनश्यति किंचासतो ज्ञानस्य सद्रूपेणोत्पत्तावृत्तरकाले नाशस्त्वयेष्टस्तथाचैकस्य ज्ञानस्यद्वयोर्नाशयोरापत्तेरक्षणिकत्वं च ध्वस्तस्य530 च ध्वंसे तदवस्थानप्रसङ्गादित्यर्थः॥६०७॥

न चेदुत्पत्तिरसतो न विनाशः सतस्तथा॥
कूटस्थवादसक्तिः स्यान्मिथ्यासं531गतितस्तयोः॥६०८॥

असतोऽनुत्पत्तेः सतश्चानाशादुत्पत्तिनाशसदसत्त्वविकल्पानास्पदमेकरसं ज्ञानमितिगत्यन्तरमपश्यन्नाशङ्कते। न चेदिति। तर्हि मदीयं पन्थानमागतोऽसीत्याह। कूटस्थेति। तयोः सत्त्वासत्त्वयोरुत्पत्तिनाशयोश्च ज्ञाने कल्पितसंबन्धेऽपि वस्तुतस्तदभावादित्याह। मिथ्येति। मिथोऽसंगति532स्तयोरिति पाठे तयोरिति ज्ञानविकल्पयोरुक्तिः॥६०८॥

अन्त्यो नाशो महांश्चेत्स्यान्नाशः सातिशयो यतः॥
विशेषाभावतो नैवं तस्यानतिशयत्वतः॥६०९॥

क्षणिकत्वस्य दुर्निरूपतया साध्यासंभव उक्तः संप्रति घटस्य क्षणिकत्वे मुसलाभिघातादूर्ध्वमिव प्रागपि नष्टः स इति दृष्टिः स्यात्सदा तस्य नाशाविशेषादिति वदन्तंसिद्धान्तिनं प्रति परो विशेषमाह। अन्त्य इति। मुसलाभिघातात्पूर्वं स्वतो नष्टेऽपिघटे तत्प्रवाहोऽनष्टः परस्तात्तु घटस्तत्प्रवाहश्वोभयमपि नश्यति तथाच पराचीनो नाशोमहान्प्राचीनोऽल्पीयानिति न पूर्वत्र नष्टव्यवहारः परत्र तद्व्यवहार एवं नाशो यतःसातिशयोऽतो न क्षणभङ्गे कश्चिद्भङ्गोऽस्तीत्यर्थः। दूषयति। विशेषेति। उक्तरीत्या

घटे व्यवहारव्यवस्था न निर्वोढुं शक्या मुसलाभिघातात्प्रागूर्ध्वं च तस्मिन्नाशाविशेषादित्यर्थः। प्रवाहनाशानाशाम्यां घटनाशे महत्त्वाल्पत्वाख्यो विशेषो दर्शित इत्याशङ्क्याऽऽह। तस्येति। यद्यपि प्राक्प्रवाहो न नष्टः पश्चान्नङ्क्ष्यति तथाऽपि घटनाशेविशेषाभावादुभयत्र नष्टव्यवहारः स्यादिति पक्षे बाधकपराहातिरित्यर्थः॥६०९॥

मत्वर्थानुपपत्तेश्च क्षणिकत्वाद्यसंभवः॥
द्रव्यतन्नाशयोर्यस्मान्नैवेहास्त्येककालता॥६१०॥

इतश्च प्रतिज्ञा न निर्वहतीत्याह। मत्वर्थेति। आदिशब्देन नाशित्वादि गृह्यते। क्षणोऽस्यास्तीत्यादिलक्षणस्य मत्वर्थस्य परपक्षेऽनुपपत्तिरित्यत्र हेतुमाह। द्रव्येति। द्रव्यस्यतन्नाशादेश्चैककालत्वे मतुबर्थसिद्धिर्न चैककालत्वं क्षणभङ्गात्क्षणस्य च कालविशेषस्य नद्रव्येणैककालत्वमनभ्युपगमात्कालस्य कालान्तराभावाच्च तन्न क्षणिकत्वप्रतिज्ञेत्यर्थः॥६१०॥

न च नाशस्य कालोऽस्ति क्षणमध्ये तथा बहिः॥
क्षणान्तरं बहिर्यस्मात्क्षणमध्ये ध्रुवत्वतः॥६११॥

नाशस्य कालसंबन्धमुपेत्य द्रव्येणैककालत्वं निरस्तमिदानीं परमते तस्य कालसंबन्धएव नास्तीत्याह। न चेति। न तावद्द्रव्यस्य स्वक्षणमध्ये नाशस्तस्य पूर्णे स्वक्षणे भावान्नापि ततो बहिस्तन्नाशः क्षणान्तरे द्रव्यस्याप्राप्तेरतो न तन्नाशस्य कालसंगतिरित्यर्थः॥६११॥

धन्यासीदिति दृष्टश्चेन्न लक्षणविरोधतः॥
लक्षणे वर्तमानस्य कालस्य श्रवणं यतः॥६१२॥

मत्वर्थानुपपत्तिमुक्तामाक्षिपति। धनीति। धनादेर्देवदत्तस्य चैकंकालत्वाभावेऽपिमतुप्प्रयोगो धनी गोमानिति दृश्यते तथा द्रव्यस्य नाशादेश्चानेककालत्वेऽपि स भविष्यतीत्यर्थः। दूषयति। नेत्यादिना। लक्षणविरोधं साधयति। लक्षण इति। तदस्यास्त्यस्मिन्निति मतुबिति लक्षणे वर्तमानकालस्यास्तीति श्रवणाद्भूते भाविनि वा नतत्प्रयोग इत्यर्थः॥६१२॥

त्रिकाललक्षणार्थं चेदस्तीति यदि भण्यते॥
तादर्थ्ये कारणाभावान्नैतदप्युपपद्यते॥६१३॥

लक्षणे यदस्तीति श्रवणं तत्कालत्रयोपलक्षणमिति शङ्कते। त्रिकालेति। चेच्छब्दोनिश्चयार्थः। अस्तित्वस्योपलक्षणत्वे हेत्वभावान्नैत533दिति दूषयति। तादर्थ्य इति।धन्यासीदित्यादिप्रयोगस्तु भूते काले धनादेर्मैत्रस्य चैककालत्वमुपेत्य सिध्यतीति भावः।न कदाचिदपि नाशनाशिनोरेककालतेत्यपेरर्थः॥६१३॥

प्रत्यक्षेण विरोधाच्च न क्षणस्य534 विनाशिता॥
प्रत्यक्षानुमयोर्नापि विरुद्धाव्यभिचारिता॥६१४॥

सिद्धसाध्यत्वमथवा नङ्क्ष्यतीति मतं यदि॥
क्षणिकत्वस्य हानिः स्यात्किं नश्छिन्नं तथा सति॥६१५॥

प्रतिज्ञाया दुर्घटत्वादनुमानानुत्थानमुक्त्वा प्रत्यभिज्ञाविरोधाच्च तदनुत्थानमित्याह। प्रत्यक्षेणेति। यत्तु मिथ्या विकल्पोऽयं भिन्नेष्वेकार्थताग्रह इति किं तेन प्रत्यभिज्ञायाव्यवहाराङ्गत्वं व्यासेध्यते किंवा तत्त्वावेदकत्वं नाऽऽद्यो व्यवहारविरोधान्नेतरोऽभ्युपगमविरोधादिति चार्थः। प्रत्यक्षं द्रव्यस्य स्थायित्वं साधयत्यनुमानं क्षणिकत्वं तथाचैकस्मिन्धर्मिणि विरुद्धार्थाव्यभिचारात्प्रामाण्यमप्रामाण्यं वा तयोस्तुल्यमित्याशङ्क्याऽऽह।प्रत्यक्षेति। प्रत्यक्षस्यानुमानोपजीव्यतया बलीयस्त्वात्तेन बाधितमनुमानममानं यद्यपिप्रकृतमनुमानं न प्रत्यभिज्ञामुपजीव्योत्तिष्ठति तथाऽपि तज्जातीयोपजीवित्वादुपजीव्यजातीया प्रत्यभिज्ञा प्रबलेति भावः। कुम्भादिनाशग्राहिप्रत्यक्षानुगृहीतं क्षणिकत्वानुमानंप्रत्यभिज्ञातो बलवदित्याशङ्क्यविकल्पयति। अथवेति। किं तत्प्रत्यक्षं जातस्य कुम्भादेर्यदाकदाचिन्नाशं गोचरयत्यथवा स्वसत्तायामिति विकल्पार्थः। आद्यमनुवदति। नङ्क्ष्यतीति। जातं कुम्भादि यदाकदाचिन्नष्टं भविष्यतीत्येवमर्थं प्रत्यक्षं यदीष्टमित्यर्थः। तथा सिद्धसाध्यत्वं स्थायिनोऽपि जातस्य यदाकदाचिन्नाशादित्याह।सिद्धेति। स्वसत्तायां नाशं गृह्णाति प्रत्यक्षं कुम्भादेरिति पक्षं प्रत्याह। क्षणिकत्वस्येति। तथा सति शून्यतापत्तिरित्यर्थः। प्रत्यक्षस्य वर्तमानक्षणे सत्ताग्राहित्वादवर्तमानकालेऽप्रवृत्तेर्न क्वचिन्नाश-ग्राहितेत्याशङ्क्याऽऽह। किमिति॥६१४॥६१५॥

अर्थक्रियादिलिङ्गेन विरोधित्वाच्च नेष्यते॥
क्षणिकाः सर्वभावाः स्युरिति यत्प्राक्समीरितम्॥६१६॥

प्रत्यक्षविरोधेन क्षणिकत्वानुमानं निरस्यार्थापत्तिविरोधेनापि निरस्यति। अर्थेति।आदिशब्देन जन्मादि गृह्यते लिङ्गशब्देनानुपपत्तिः॥६१६॥

शाल्याद्युद्वहनादि535 स्यादुत्पित्मोर्वा जनिस्तथा।
अर्थक्रिया536न मानं वस्तेन चैव विरोधतः॥६१७॥

किं तदर्थक्रियादिलिङ्गं कथं वा तेन विरोधस्तदाह537शालीति। शालियवादेरानयनं तादर्थ्येन गमनादि जन्मोन्मुखस्य जन्म जातस्य नाशादि चार्थक्रियादिरूपं लिङ्गंतेनान्यथाऽनुपपद्यमानेन त्वदिष्टक्षणिकत्वानुमानस्य विरोधादमानतेत्यर्थः॥६१७॥

क्षणिकत्वं न भावानां कथंचिदपि युज्यते॥
नष्टेन नश्यता वाऽपि न शाल्याद्याहृतिक्रिया॥६१८॥

तदमानत्वे फलितमाह। क्षणिकत्वमिति। कथंचिदपीति स्वरसभङ्गुरत्वेन द्वित्रक्ष538णावस्थायित्वेन वेत्यर्थः। क्षणिकस्यापि शाल्याद्यानयनकर्तृत्वसंभवादर्थक्रियोपपत्तेर्नोक्तदूषणमित्याशङ्क्य नष्टेन वा नश्यता वा संतत्या जायमानेन वा सा कार्येति विकल्प्याऽऽद्यौनिराचष्टे। नष्टेनेति। तयोरसत्त्वादिति शेषः॥६१८॥

संतत्योत्पद्यमानैश्चेत्फलहेत्वात्मभिर्भवेत्॥
भावैरर्थक्रिया सर्वा यथा दीपादिभिस्तथा॥६१९॥

तृतीयमुत्थापयति। संतत्येति। यथा दीपविद्युदादिभिः स्वरसनाशिभिर्नैरन्तर्येणजायमानैरर्थप्रकाशादि क्रियते तथा संतत्या जायमानैः कार्यकारणात्मकैः क्षणिकैर्भावैरर्थक्रिया सर्वा शाल्याहरणादिरूपा निर्वर्त्यते तन्नार्थापत्तिविरोधोऽनुमानस्येत्यर्थः॥६१९॥

उत्पित्स्वजातं सज्जातमनष्टं वाऽभ्युपेयते॥
निनङ्क्षु नश्यन्नष्टं च प्रत्यभिज्ञामृते कथम्॥६२०॥

उत्पित्साद्यनुपपत्तिरूपार्थापत्त्या विरोधमनुमानस्य साधयति। उत्पित्स्विति।अष्टक्षणत्वं हि भावानामावश्यकं प्रत्यभिज्ञया क्षणेष्वष्टस्वेकस्यैवानुसंधानादुक्तं चैतद्घटविचारे तस्मादुत्पित्साद्यन्यथानुपपत्तिस्तदनुमानस्य प्रत्यभिज्ञावद्बाधिकेत्यर्थः॥६२०॥

प्रबन्धेनार्चिषो धर्मा धर्मिण्यग्नौ व्यवस्थिते॥
अर्थक्रियां वर्तमानाः कुर्युर्ग्रामाद्यवाप्तिवत्॥६२१॥

अर्थक्रियानुपपत्तिविरोधसिद्ध्यर्थं परोक्तं दृष्टान्तं विघटयति। प्रबन्धेनेति। यथागमनादयः सति मैत्रे संतत्या वर्तमाना ग्रामाप्त्यादि कुर्वन्ति तथाऽर्चिषो दीपस्यज्वालाख्या धर्माः क्षणिकत्वेनेष्टाः सन्तोऽपि स्थायिन्यग्नौ स्थिते तदाश्रिताः प्रवाहरूपेण वर्तमाना दाहाद्यर्थक्रियां कुर्युरिति युक्तमित्यर्थः॥६२१॥

दीपादिवदसंभाव्या भवतोऽर्थक्रिया यतः॥
क्षणिकत्वे न सा युक्ता तद्धेतुविरहात्सदा॥६२२॥

दार्ष्टान्तिके वैषम्यमाह। दीपादिवदिति। उक्तनीत्या539 दीपादेरर्थक्रिया यथासंभवति न तथा क्षणभङ्गपक्षे शाल्याहरणाद्यर्थक्रिया यतः संभाव्या तदाश्रयानवस्थानात्संततेश्चावस्तुत्वादर्थक्रियायाश्चास्वातन्त्र्यादर्थाद्दृश्यमानार्थ-क्रियाविरोधान्नयथोक्तमनुमानं मानमित्यर्थः। कथमसंभवस्तत्राऽऽह। क्षणिकत्व इति। मैत्रादेस्तु स्वतो भङ्गुरत्वे न कदाचिदपि शाल्याहरणाद्यर्थक्रिया युक्ता तत्कर्तुरभावादित्यर्थः॥६२२॥

नानुत्पन्नस्य हेतुत्वमुदकाद्याहृतौ भवेत्॥
उत्पित्सूत्पद्यमानाभ्यामसत्त्वात्तद्वदेव न॥६२३॥

कथं तद्धेतुविरहस्तत्र किमनुत्पन्नस्य तद्धेतुत्वमुत्पित्सोर्वोत्पद्यमानस्य वा नष्टस्य वानश्यतो वा स्वक्षणे स्थितस्य वेति विकल्प्याऽऽद्यं दूषयति। नेति। द्वितीयतृतीयौप्रत्याह। उत्पित्स्विति। नोदकाद्याहृतिरिति संबन्धः। असत्त्वादिति पूर्वत्रापि तुल्योहेतुस्तद्वदेवेत्यनुत्पन्नं दृष्टान्तयति॥६२३॥

कूर्मलोमादिवत्तद्वन्नापि तत्स्याद्विनश्यता॥
म्रियमाणो न शक्नोति पुत्रं जनयितुं क्वचित्॥६२४॥

चतुर्थं निरस्यति। कूर्मेति। यथाऽनुत्पन्नादीनामलब्धात्मत्वान्नार्थक्रिया तथा कूर्मक्षीरादिवदत्यन्तासत्त्वान्नष्टस्यापि न सेत्यर्थः। पञ्चमं पराकरोति। नापीति। तत्रदृष्टान्तः। म्रियमाण इति॥६२४॥

हेतुत्वं लभते नापि तथैवावस्थितः क्वचित्॥
आ कार्यावसितेः स्थाने सिद्धान्तस्ते विनश्यति॥६२५॥

षष्ठं दूषयति। हेतुत्वमिति। उत्पन्नं द्रव्यं स्वक्षणे स्थितमर्थक्रियां तत्रैव वा कुर्यात्क्षणान्तरे वा नाऽऽद्योऽनुत्पन्नादिवत्तस्यापि स्वक्षणे कार्यकरत्वानिष्टेरन्यथा शृङ्गयोरिवहेतुफलभावासिद्धेर्न द्वितीयस्तद्धि यावत्कार्यं तिष्ठति न वा न चेदसत्त्वान्न हेतुत्वं तिष्ठतिचेत्स्वरूपेण संतत्याऽऽत्मना वाऽऽद्ये क्षणिकताक्षतिरित्यर्थः॥६२५॥

विनाशक्रियया व्याप्तमुत्पन्नं चेद्विनश्यति॥
फलहेतुप्रबन्धेनेत्येवं सुस्थमिदं भवेत्॥६२६॥

कल्पान्तरमादत्ते। विनाशेति। हेतुफलप्रवाहेण जातं पुनर्नाशक्रियया व्याप्तं नश्यतीत्येवं संतत्या कार्यपर्यन्त-द्रव्यस्थित्युपगमे क्षणिकत्वमक्षतमेव द्रव्यव्यक्तेस्तदभावादित्यर्थः॥६२६॥

संतानानुपपत्तेश्च नैवमप्युपपद्यते॥
संतनोतीति संतानः कर्ता चेदभिधीयते॥६२७॥

तस्य चैकत्वनाशित्वात्संतानो नोपपद्यते॥
नाप्यपादानतः सिध्येन्न540वाऽधिकरणाश्रयात्॥६२८॥

संततिं निराकुर्वन्नुत्तरमाह। संतानेति। संतानिनां क्षणिकत्वेन पूर्वोत्तरासंबन्धात्संतानस्य चावस्तुत्वान्न हेतुफलतेत्यर्थः। कथं तदनुपपत्तिः स हि स्थूलात्मनां संतानिनांनैरन्तर्यप्रतिभास इति वदन्ति तत्र किं संतानशब्दः कारकं भावं वा ब्रूते। आद्येऽपिकर्तारं वाऽपादानं वाऽधिकरणं वा कर्म वा करणं वा संप्रदानं वेति विकल्प्याऽऽद्यमनूद्यानुपपत्तिमाह। संतनोतीति। द्वितीयतृतीयौ दूषयति। नापीति। संतनोत्यस्मादस्मिन्निति वा संतान इति पक्षावयुक्ताविति यावत्॥६२७॥६२८॥

न चान्यस्मिन्विभक्त्यर्थे यथोक्तेनैव हेतुना॥
संतानो यदि धात्वर्थो भावश्चेदभिधीयते॥६२९॥

अवशिष्टं पक्षत्रयं निराचष्टे। न चेति। संतन्यत इति वा संतन्यतेऽनेनेति वा संतन्यतेऽस्मा इति वा कर्मकरणसंप्रदानरूपे विभक्त्यर्थे कर्त्रादेरन्यस्मिन्नपि संतानशब्दोन संभवतीत्यर्थः। पक्षपञ्चकासंभवे हेतुमाह। यथोक्तेनेति। एकत्वनाशित्वेनेतियावत्। कल्पान्तरमाह। संतान इति। चेच्छब्दो निश्चये॥६२९॥

भवितारमपेक्ष्यैव भावः सिध्येन्न सोऽन्यथा॥
न चासौ लभ्यते तादृग्भविता हि विनश्वरः॥६३०॥

संततिः संतान इति पक्षे भविताऽस्ति न वेति विकल्प्य नास्तिपक्षं प्रत्याह। भवितारमिति। क्रियायाः स्वातन्त्र्यानभ्युपगमादित्यर्थः। अस्तिपक्षे स स्थायी क्षणिकोवाऽऽद्यं दूषयति। न चेति। तादृगिति स्थायी निर्दिश्यते। तत्र हेतुः। भविता हीति।अन्यथा क्षणिकाः सर्वसंस्कारा इतिप्रतिज्ञाहानिरिति भावः॥६३०॥

नित्यं भवितृतन्त्रत्वात्संतानस्याप्यनित्यता॥
धातूपसर्गयोरर्थस्त्वत्पक्षे न च लभ्यते॥६३१॥

द्वितीयं निराह। नित्यमिति। क्षणिकस्य भवितृत्वे भावस्य नियमेन भवित्रधीनत्वात्तत्स्यापि क्षणिकता स्यात्ततश्च स्थूलात्मनां संतानिनां नैरन्तर्यप्रतिभास एव संतानप्रतिभास इति प्रलापमात्रमित्यर्थः।अखण्डं संतानशब्दमाश्रित्यानुपपत्तिमुक्त्वा तंविभज्य दूषयति। धात्विति॥६३१॥

नैकीभावो न विस्तारः क्षणिकत्वेऽस्ति युक्तिमान्॥
अतीतानागतानां च मिथः कालासमागमात्॥६३२॥

वर्तमानस्य चैकत्वात्संतानो नोपपद्यते॥
संतानिभ्यश्चसंतानोऽभिन्नो भिन्नोऽथवा द्विधा॥६३३॥

तनुधातोः समित्युपसर्गस्य च क्षणभङ्गे नार्थसिद्धिरित्येतत्प्रकटयति। नेत्यादिना।सर्वस्य क्षणिकत्वे धात्वर्थो विस्तारो नोपपद्यत एकस्यानेकव्याप्तेर्विस्तारस्य त्वत्पक्षेऽनुपपत्तेः समुपसर्गार्थश्च धात्वर्थस्य सम्यक्त्वपर्यायो नैरन्तर्यात्मैकीभावः सर्वस्य क्षणिकत्वे नसिध्यतीत्यर्थः। ननु पूर्वापरीभूतानां क्षणानां पाक्षादुपादानोपादेयभावेनोत्पादः संतानोनामेति स्थितेर्नोक्ताऽनुपपत्तिरत आह। अतीतेति। स हि न स्वतन्त्रः संतानिनिष्ठत्वेनैवोपलम्भान्न च ते संतानिनामेकदेश-कालस्थितिः स्वरसभङ्गुरत्वादतो न तदाश्रयसंतानसिद्धिरित्यर्थः। विधान्तरेण संतानं दूषयितुं त्रेधा विकल्पयति। संतानिभ्यश्चेति॥६३२॥६३३॥

अभेदेऽनित्यतासक्तिः स्थास्नुर्भेदे प्रसज्यते॥
कार्यकारणभावश्च न च वः स्यादभीप्सितः॥६३४॥

अपक्षे दोषमाह। अभेद इति। क्षणिकसंतान्यभेदे संतानस्यापि क्षणिकतास्थायिसंतानाभेदे संतानिनामपि स्थायिता स्यादित्यर्थः। द्वितीयं प्रत्याह। स्थास्नुरिति। संतानिवत्संतानोऽपि स्वतन्त्रः परमार्थश्च स्यात्संसारिसंतानश्च क्षणिकसंतानिभ्यो भिन्नतया स्थितिशीलः स्यादित्यमुक्तिरित्यर्थः। पक्षद्वये साधारणं दोषान्तरमाह।कार्येति। एकसंतानारूढानां संतानिनां मिथोहेतुफलभावो भवद्भिरिष्टः। यथाऽऽह—संतानश्च पूर्वापरीभूतानां क्षणानां साक्षादुपादानोपादेयभावेनोत्पाद एवोच्यत इति। सच न सिध्येद्भेदे संतानिनां संतानान्तरेष्विवैक-संतानारोहासिद्धेरभेदेऽपि संतानस्य संतानिनां चाभावादेव तदसिद्धेरित्यर्थः॥६३४॥

भिन्नाभिन्नत्वपक्षोऽपि विरोधान्न च युज्यते॥
स्वसिद्धान्तस्य च ध्वस्तिर्न च संगच्छते जनः541॥६३५॥

तृतीयं प्रत्याह। भिन्नेति। भेदाभेदयोरेकत्र विरोधासिद्धिमाशङ्क्य दोषान्तरंचकारसूचितमाह। स्वसिद्धान्तस्येति। किंच यस्य यस्माद्भेदस्तस्य तस्मादभेदेप्रयोजकाकारैक्ये भेदाभेदयोरैक्यापत्तिस्तद्भेदे तत्रापि भेदाभेदाम्यामनवस्थेत्याह।न चेति॥६३५॥

संतानिनां स्वसंतानाद्भिन्ना542भिन्नत्वकल्पने॥
वाच्या दोषा यथायोगं संतानार्थानुरोधतः॥६३६॥

संतानस्य संतानिभ्यो भेदादि निरस्य संतानिनां ततो भेदादि विकल्प्य निरस्यति। संतानिनामिति। संतानशब्दार्थस्य संतानिभ्यो भेदादिपक्षोक्तदोषानुरोधेन संतानिनांसंतानाद्भेदादिपक्षेष्वपि यथासंभवं दोषा वाच्या भेदे संतानस्वातन्त्र्याद्यापत्तिरभेदेक्षणिकतादि543हानिर्भेदाभेदे सिद्धान्तविरोध इत्यर्थः॥६३६॥

अवाच्यमिति पक्षश्चेन्मैवं तस्याप्यसंभवात्॥
अन्यानन्योभयात्मत्वकल्पने ह्यसदेव तत्॥६३७॥

संतानस्वरूपमवाच्यमिति स्थितेरुक्तदोषाप्राप्तिरिति शङ्कते। अवाच्यमिति।अवाच्यत्वं संतानस्य धर्मः स्वरूपं वाऽऽद्येऽपि वक्तुमयोग्यत्वं वाच्यत्वाभावो वेतिविकल्प्य प्रथमं प्रत्याह। मैवमिति।न हि संतानस्यानिर्वाच्यत्वं त्वयेष्टं भिन्नाभिन्नत्ववत्तस्यापि त्वत्पक्षेऽनुपपत्तेरित्यर्थः। द्वितीयं विकल्प्य दूषयति। अन्येति। संतानस्य संतानिभ्योऽन्यत्वेनानन्यत्वेनान्यानन्यत्वेन वा वाच्यत्वाभावकल्पने त्रयमपि नयुक्तमिति यावत्॥६३७॥

अवाच्यं यद्यनन्यत्वे ह्यन्यत्वे वाच्यमेव तत्॥
अथावाच्यं तदन्यत्व इतरत्रास्तु वाच्यता॥६३८॥

हिशब्दसूचितं प्रकटयन्ननन्यत्वपक्षमनूद्यायुक्तत्वं व्यनक्ति। अवाच्यमिति। संतानस्य संतानिभ्योऽनन्यत्वे सति तेनाऽऽकारेणावाच्यं चेत्तद्रूपं तदा तस्य तेभ्योऽन्यत्वेविषये वाच्यमेव रूपं स्यात्परस्परविरोधे हि न प्रकारान्तरस्थितिरिति स्थितेरित्यर्थः।अन्यत्वपक्षं प्रत्याह। अथेति। तच्चेत्संतानरूपं संतानिभ्योऽन्यत्वे सति तेनाऽऽकारेणावाच्यं तर्हि तस्येतरत्र संतान्यभिन्नत्वे विषये वाच्यताऽस्तु प्रागुक्तन्यायात्तस्मात्पक्षद्वये वाच्यत्वाभावो न धर्मस्तस्येत्यर्थः॥६३८॥

अन्यानन्यत्वयोश्चात्र वाच्यावाच्यत्वयोस्तथा॥
परस्परविरोधित्वान्न स्यादेकत्र संगतिः॥६३९॥

कल्पान्तरं निरस्यति। अन्यानन्यत्वयोरिति। अत्र संताने संतानिभ्योऽन्यानन्यत्वे सति तेनाऽऽकारेणावाच्यत्वं चेदेकैकेनाऽऽकारेण वाच्यत्वस्यापि प्राप्तेरेकत्रैवसंताने वाच्यत्वावाच्यत्वे स्यातां न चैकदैकत्रान्यानन्यत्वयोर्वाच्यावाच्यत्वयोश्च संभवोविरोधादन्यथा जगति तदुच्छेदादित्यर्थः॥६३९॥

वाच्यं वा यदि वाऽवाच्यं कस्मादित्यभिधीयता544म्॥
परबुद्धौ समारोप्यमवश्यं वस्तु चेद्भवेत्॥६४०॥

किंच संतानस्वरूपं वाच्यमवाच्यं वा किमर्थं कल्प्यत इति पृष्ठे तद्वाच्यमित्याह।वाच्यं वेति। तस्य वाच्यत्वे हेतुमाह। परेति। न हि प्रश्नानन्तरं तूष्णींभावो युक्तःशिष्यस्य प्रतिवादिनो वा प्रष्टुर्बुद्धौ पृष्टस्यार्थस्यावश्यं व्युत्पाद्यत्वात्कथमपि परबुद्धौ,संतानो व्युत्पाद्यते चेत्संतानिवद्वस्तु स्यादवस्तुनो बुद्ध्यनारोहादित्यर्थः॥६४०॥

न चावाच्यं भवत्पक्षे किंचिद्वस्त्वभ्युपेयते॥
वक्त्यभावं भवान्यत्र तत्र वस्तुनि का कथा॥६४१॥

वस्तुत्वेऽपि वाच्यत्वाभावः संतानस्य धर्मः स्यादिति चेत्तत्राऽऽह। न चेति।तत्र कैमुतिकन्यायमाह। वक्तीति। आकाशप्रतिसंख्यानिरोधश्चेत्यभावमपि भवान्यदा वदति तदा संताने वस्तुनि वाच्यत्वाभावकथाऽपि न ते युक्तेत्यर्थः॥६४१॥

तद्रूपं चेदवाच्यत्वं भवताऽभ्युपगम्यते॥
नैवं साधारणत्वात्स्यात्पुद्गलादेरपीष्यते॥६४२॥

धर्मपक्षं निरस्य पक्षान्तरमाह। तद्रूपमिति। तन्निरस्यति। नैवमिति। तस्यसाधारण्ये हेतुमाह। पुद्गलादेरिति। परमाण्वादेर्वाह्यार्थस्यावाच्यतायास्त्वयेष्टत्वादित्यर्थः॥६४२॥

अतोऽसाधारणं वाच्यं रूपं संतानवस्तुनः॥
अथावाच्यत्वमेवास्य रूपमित्यभिधीयते॥६४३॥

साधारणमप्यवाच्यत्वं संतानस्य स्वरूपं किं न स्यात्तत्राऽऽह। अत इति।अवाच्यत्वस्य साधारणत्वादसाधारणं किंचिदस्य रूपं वाच्यमसाधारणरूपवतो घटादेर्द्रव्यत्वादिसाधारणरूपदृष्टेरित्यर्थः। अवाच्यत्वस्य साधारण्यमसिद्धमिति शङ्कते।अथेति। अस्यैवावाच्यत्वं रूपं नान्यस्येत्येतदसाधारणं संतानस्य भवति न ह्येतदीयमवाच्यत्वमन्यस्येत्यर्थः॥६४३॥

उक्तं तर्हि त्वया रूपं संततेर्घटरूपवत्॥
यदसाधारणं यस्य रूपं तत्तस्य भण्यते॥६४४॥

तत्र दोषं वक्तुं पातनिकामाह। उक्तमिति। अवाच्यत्वस्य संतानरूपत्वं साधयति।यदिति॥३४४॥

ततश्चावाच्यमिति ते प्राप्ता स्वोक्तिविरुद्धता॥
तथा संतानविच्छिन्नकल्पनाऽपि न युज्यते॥६४५॥

अस्तु संतानस्यावाच्यत्वमसाधारणं रूपं किं तावतेति तत्राऽऽह545ततश्चेति। किंचसंतानोऽनित्यो नित्यो वा तत्रानित्यत्वपक्षं प्रत्याह। तथेति। भिन्नत्वादिकल्पनावदितियावत्। न तावदनित्यः संतानो युज्यते विज्ञानवत्प्रतिक्षण-ध्वंसितया स्वपक्षहानादितिभावः॥६४५॥

संतानस्याव्यवच्छित्तौ सर्वदैव प्रसज्यते546
सभागसंततिः सा हि नाविच्छेदमृते यतः॥६४६॥

नित्यत्वपक्षं दूषयति। संतानस्येति। अस्यार्थः। यदि संतानस्य नित्यता तदासदैव सजातीयक्षणानामहमित्येवंविधानां घटादिरूपाणां च संततिः स्यात्सा हि संतानस्याविच्छित्तिरुक्तक्ष547णानामविच्छेदमृते यतो न संगच्छते स्थूलात्मनां संतानिनां नैरन्तर्यप्रतिभास एव संतानप्रतिभास इति स्थितेस्तथाचानुष्ठितमोक्षोपायस्यापि संसारो ननश्येन्न च मुसलाभिघाताद्धटसंततिर्ध्वस्येतेति॥६४६॥

अनित्यत्वप्रसङ्गाच्च न सती संततिर्भवेत्॥
इत्युक्तेन प्रकारेण संतानासंभवो ध्रुवः॥६४७॥

किंच संतानः सन्नसन्वेति विकल्प्याऽऽद्ये दोषमाह। अनित्यत्वेति। चकारोऽनङ्गीकारसमुच्चयार्थः। संतानदूषणमुप-संहरन्नसत्त्वपक्षं प्रत्याह। इत्युक्तेनेति॥६४७॥

फलहेतुनिषेधाच्च न युक्तं सर्वथा वचः॥
संतत्याजायमानैस्तैरिति यद्व्याहृतं पुरा॥६४८॥

किंच पूर्वापरीभूतानां क्षणानामुपादानोपादेयभावेनोत्पादस्यैव संतानंत्वस्वीकारादुत्तरोत्पादे च पूर्वनिरोधादिति न्यायेन क्षणानां तद्भावस्य निषिद्धत्वात्कुतः संतानसिद्धिरित्याह। फलेति। संताननिराकरणस्य प्रकृतोपयोगमाह। नेति। कार्यकारणप्रबन्धेनदीपादिवदुत्पाद्यमानैर्भावैः शाल्याद्याहृतिरिति त्वदीयं वचो न कथंचिदुचितमिति संततिनिरासादेव स्थितमित्यर्थः॥६४८॥

यच्च दीपप्रकाशादिक्रियावदिति चोदितम्॥
साध्यार्थेन समानत्वात्तदप्युक्तमशोभनम्॥६४९॥

प्रबन्धेनार्चिषो धर्मा धर्मिणीत्यत्र क्षणिकत्वमङ्गीकृत्य दीपादिदृष्टान्ते वैषम्यमुक्तमिदानीमङ्गीकारं त्यक्त्वा दृष्टान्तं विघटयति। यच्चेति। क्षणिकस्यापि दीपस्य संतत्याजायमानस्य प्रकाशदाहाद्यर्थक्रियावत्क्षणिकस्यैव प्रबन्धेन जायमानस्य शाल्याहरणादिक्रियेति यच्चोदितं तदयुक्तं दृष्टान्तस्यापि पक्षतुल्यतया क्षणिकत्वासंमतेरित्यर्थः॥६४९॥

अर्थक्रिया यथा नास्ति रथादेरुक्तहेतुतः॥
दीपादेरपि नैवासावस्ति तेनैव हेतुना॥६५०॥

पक्षतुल्यत्वमुपपादयति। अर्थक्रियेति। उक्तहेतुतः क्षणिकत्वादिति यावत्।उक्तो हेतुस्तेनेति परामृश्यते॥६९०॥

क्षणिकत्वं यथा नास्ति रथादेर्येन548 हेतुना॥
दीपादेरपि तेनैव क्षणिकत्वाद्यसंभवः॥६५१॥

रथादेरर्थक्रिया दृश्यमाना दुरपह्नवेत्याशङ्कयाऽऽह। क्षणिकत्वमिति549। येनार्थक्रियाकारित्वेनेति यावत्। न हि संतानस्यार्थक्रिया निरस्तत्वान्न च संवृते550 तत्र सा संवृतेः551सत्त्वे संतानिवदविद्यात्वव्याघातादसत्त्वे संतानवत्तदयोगान्न च विधान्तरमिष्टं न च संतानिष्वर्थक्रियेत्युक्तमतोऽर्थक्रियाकारित्वे रथादेर्न क्षणिकतेति भावः। क्षणिकत्वादीत्यादिपदेन संतत्या जन्मोच्यते॥६५१॥

एककालौ मतौ यच्च नाशोत्पादौ तुलान्तवत्॥
अहेतुफलतासक्तेर्न चैतदुपपद्यते॥६५२॥

दीपादिदृष्टान्तेन क्षणिकस्यैव रथादेरर्थक्रियेत्ययोगात्तदनुपपत्तिविरुद्धं क्षणिकत्वानुमानमित्युक्तमिदानीं नानुपमृद्य प्रादुर्भावादिति क्षणिकत्वानुमाने परोक्तमनुकूलं तर्कमनुवदति। एकेति। उपमृदितबीजादेरङ्कुराद्युदय-दर्शनात्पूर्वक्षणनाशोऽनन्तरक्षणोत्पादश्चैककालगतौ दृष्टावतो हेतुफलयोः क्षणिकत्वं न हि बीजे स्थितेऽङ्कुरो जायते नष्टादेवतस्मात्तद्दृष्टेरिति यन्मतमित्यर्थः। तद्दूषयति। तुलान्तवदिति। यथा तुलाकोट्योरे-

ककालयोः शृङ्गयोरिव न हेतुफलता तथा विनश्यदविनश्यतोर्विनाशोत्पादयोर्वा सत्येकक्षणवर्तित्वे न कार्यकारणत्वमतश्च पूर्वोक्तमयुक्तमित्यर्थः॥६५२॥

जनकव्यापृतेः पश्चाज्जन्यो निष्पद्यतेऽङ्कुरः॥
कार्यकारणताभेदस्तयोः स्याद्भिन्नकालतः॥६५३॥

भिन्नकालवर्तिनोरेव कार्यकारणत्वस्य दृष्टत्वाच्च न तन्मतमित्याह। जनकेति। बीजाङ्कुरयोर्हेतुफलभावे दृष्टेऽपि किं तयोस्तद्भावे प्रयोजकमित्याशङ्क्य नियतपूर्वोत्तरक्षणवर्तित्वमिति मत्वाऽऽह। कार्येति॥६५३॥

न चेत्कारकभेदोऽत्र कालभेदोऽथवेक्ष्यते॥
कुतो हेतुफलत्वं स्यात्सव्येतरविषाणवत्॥६५४॥

बीजाङ्कुरयोः स्वरूपभेदो वा552 कालभेदो वा नास्ति मानाभावाद्दृष्टेश्चासंमतेरितिशङ्कते। न चेदिति। अत्राङ्कुरादिजन्मनीति यावत्। किमेवं हेतुफलत्वं निराक्रियतेकिंवैककालयोस्तदापाद्यते नाऽऽद्योऽभ्युपगमभङ्गाद्दृष्टिविरोधाच्च न द्वितीय इत्याह।कुत इति॥६५४॥

553च हेतुफलत्वं स्यादेककालीनयोस्तयोः॥
वैनाशिकेन सत्त्वेन त्वयाऽभ्युपगमात्तयोः॥६५५॥

किंचैककालीनयोर्हेतुफलत्वाभावो नास्माभिः साध्यस्तवापि संमतेरित्याह। न चेति। तयोर्बीजाङ्कुरयोरेक-कालयोर्नैव हेतुफलत्वं स्याद्वैनाशिकेन त्वया तयोरेकस्मिन्क्षणे सत्त्वेनाभ्युपगमाद्विषाणवत्कार्य-कारणत्वाभावस्येष्टत्वादिति योजना॥६५५॥

न विकारो न554चाऽऽरभ्यं बौद्ध कार्यमसंभवात्॥
विकारे सांख्यसिद्धान्त आरम्भेऽत्यन्तभिन्नता॥६५६॥

किंच ते कार्यमारभ्यं परिणामो वेति विकल्प्योभयत्रायोगं प्रतिजानीते। नेत्यादिना। बौद्धेति परः संबोध्यते। यदि वा बौद्धस्याभिमतं कार्यम्। असंभवं साधयति।विकार इति॥६५६॥

सत्त्वाद्विनिष्ठि555तार्थश्च सत्स्रो556तोन्तरनिष्ठितः॥
घटस्तम्भादिवन्नापि मृद्वत्परिणमेत्स्वयम्॥६५७॥

अत्यन्तभिन्नत्वं कार्यकारणयोरिष्टमेवेति चेत्तत्राऽऽह। सत्त्वादिति। घटो हिसत्त्वशब्दिताद्धटसंतानाद्विनिष्क्रम्य निश्चयेन स्थितस्तत्संतानवर्तिस्वकारणत्वाभिमतपूर्वघटादत्यन्तभिन्नत्वात्पटादिवत्सच्छब्दवाच्येसंतत्यन्तरे तिष्ठेदत557श्चकार्यकारणयोरत्यन्त-

भेदे तद्भावस्यैवायुक्तिरित्यर्थः। अस्तु तर्हि परिणामवादस्तत्राऽऽह। नापीति। युज्यतेहि कथंचिन्मृदः सावयवत्वात्परिणामो नैवं विज्ञानं निरवयवं परिणाममर्हति क्षणिकत्वाच्च558ब्रह्मणो वैषम्यादित्यर्थः॥६५७॥

नापि चाऽऽरभते कार्यं पुरतः कुम्भकारवत्॥
असत्त्वान्न द्वयं तेऽस्ति सांख्यकाणादपक्षवत्॥६५८॥

आरम्भवादस्तर्हि भविष्यति न च तत्रात्यन्तभेदात्कार्यकारणत्वायोगः कुलालघटयोरिव तत्सिद्धेरित्यत आह। नापीति। यथा कुलालो मृदादिसामग्रीवशाद्धटाद्यारभते स्थायित्वात्तथा क्षणिको न सहकारिवशादपि कार्यमारभते तत्संबन्धायोगात्कार्यक्षणेस्वयमसत्त्वाच्च कार्यस्यापि तथात्वोपगमादारम्यत्वासिद्धिरिति भावः। पक्षद्वयेऽपि साधारणमपसिद्धान्तमाह। न द्वयमिति॥६५८॥

इत्यादिदूषणान्यत्र वक्तव्यानि सहस्रशः॥
न च प्रमाणसद्भावः सर्वस्य ज्ञानमात्रतः॥६५९॥

क्षणभङ्गवादे दोषजातमुक्तमुपसंहरन्दोषान्तरसद्भावं सूचयति। इत्यादीति। यदुच्यते यत्सत्तत्क्षणिकमिति तदसत्सत्त्वस्य सामान्यस्यानुपगमाद्भिन्नेष्वेकार्थताग्रहस्य भ्रमत्वस्वीकारात्स्वरूपस्य च व्यावृत्तत्वे व्याप्तेरननुगमादनुवृत्तस्य च पूर्ववदनिष्टत्वान्न चार्थक्रियाकारित्वं सत्त्वमर्थक्रियायास्तदभावेऽपि सत्त्वादसत्त्वे च तथाविधसत्त्वासिद्धिर्न च कार्यकार559णभावादृतेऽर्थक्रियाकारित्वलाभस्तद्भावश्च निरस्तः सत्त्वस्य च क्षणिकाद्भेदे स्थायित्व560मभेदे न व्याप्यव्यापकभावः क्षणिकत्वस्य561 च भावस्वरूपत्वे क्षणिकोभाव इति पर्यायता धर्मत्वे भेदेऽभेदे च तद्भावासिद्धिरित्येवंविधानि दूषणान्यादिपदोतानि। यत्तु वेदा न प्रमाणं नाप्यपौरुषेया नित्या वा संकेतश्च संबन्ध इति तन्नप्रमाणलक्षणे प्रतिविहितत्वादित्यभिप्रेत्याऽऽह। दूषणानीति। किंच क्षणिको भावःस्वक्षणे स्वकार्यं कर्तुं शक्तोऽशक्तो वाऽऽद्ये क्षेपायोगात्तदैव कार्यपरंपरा स्यात्।द्वितीये कदाचिदपि कार्यं न स्याद्द्वितीयक्षणे स्वयमसत्त्वान्न च स्थिर562स्येव सहकारिसमवधानसमये कार्यमारभते क्षणिको भावस्तासमवधानपर्यन्तमनवस्थानात्किंच सहकारिणस्तत्रोपकुर्वन्ति न वाऽऽद्ये तत्कृतोपकारस्ततो भिन्नश्चेत्तत्संबन्धे क्षणिकत्वहानिस्तदसंबन्धे सहकारिवैयर्थ्यम्। एतेनानुपकारकत्वं प्रत्युक्तम्। अभेदे तस्यैव तत्कृतत्वापत्तौसहकारित्वानुपपत्तिरित्येवंविधानि दूषणान्यत्र भूयांसि वक्तुं योग्यानि तथाऽपि नोद्भाव्यन्ते ग्रन्थभूयस्त्वभयादित्यभिप्रेत्याऽऽह। वक्तव्यानीति। विज्ञानवादिनं प्रति दोषान्तरमाह। न चेति। योगाचारमते सर्वस्य ज्ञानमात्रत्वादतिरिक्तप्रमाणाभावो न चैकस्मिन्नेवमानमेयत्वं विरोधादतस्तन्मतमयुक्तमित्यर्थः॥६५९॥

शून्यत्वमपि नैव स्यादेतस्मादेव कारणात्॥
अहंप्रत्ययगम्यत्व563मेक564त्वादात्मनो न च॥६६०॥

उक्तं न्यायं माध्यमिकमतेऽप्यतिदिशति। शून्यत्वमिति। सर्वस्येति शेषः। एतस्मात्प्रमाणाभावादिति यावत्565। मीमांसकं प्रत्याह। अहमिति। एतस्मा566देकस्यग्राह्यग्राहकताया निरस्तत्वादित्यर्थः। एकत्वादिति पाठेऽप्ययमेवार्थः॥६६०॥

अंशांशित्वेऽपि नैव स्यात्पूर्वोक्तादेव कारणात्॥
क्षणभङ्गे च भावानां प्रत्यभिज्ञाद्यसंभवः॥६६१॥

भाट्टा हि द्रव्यबोधरूपमात्मानमिच्छन्तो द्रव्यांशस्य ग्राह्यत्वं बोधांशस्य ग्राहकत्वमिति व्यवस्थापयन्ति तदेकस्मिन्नात्मनि ग्राह्यग्राहकत्वोपपत्तिरित्याशङ्क्याऽऽह।अंशेति। न तावदात्मन्यंशांशित्वं निरंशत्वश्रुतेस्तद्भावेऽपि नैकत्र ग्राह्यग्राहकत्वंतस्य द्वयोर्व्यवस्थितत्वात्तयोरात्माभेदादेकस्मिन्नेव तद्भावे पूर्वोक्तो विरोधः स्यादतो नमीमांसकमतसिद्धिरित्यर्थः। सिंहावलोकनन्यायेन बौद्धं प्रति दोषान्तरमाह। क्षणेति। आदिशब्देन स्मरणशेषकर्मानुष्ठानादि गृह्यते॥६६१॥

पूर्वदृष्टेपुनः सोऽयमिति बुद्धिर्न युज्यते॥६६२॥
भेदः स एवायमिति कालरूपादिभेदतः॥
यदि नाम तथाऽप्यैक्यं तयोरनुभवाश्रयात्॥६६३॥

ननु संततौसंस्काराधानपूर्वकं पूर्वेण चित्तक्षणेन विशिष्टतरतमोत्तरोत्त567रचित्तक्षणजननं तज्ज्ञानं प्रत्यभिज्ञानं तच्चानादिकार्यकारणसमर्थचित्तक्षणान्तरोत्पादाव्यतिरिक्तं तेनच संतानैक्यधीरिति क्षणभङ्गपक्षेऽपि प्रत्यभिज्ञा-सिद्धिस्तत्राऽऽह। पूर्वेति। दृष्टस्यद्रष्टुश्चैकस्याभावात्संततेश्च निरस्तत्वान्न परस्य प्रत्यभिज्ञा प्रकल्पते568 न च पूर्वोत्तरचित्त-क्षणेन त569त्र ज्ञानोत्पत्तिरेव सा तथा लोके प्रसिद्ध्यभावादेकस्योभयकालसंबन्धग्राहिज्ञानेतत्प्रसिद्धेरित्यर्थः। सिद्धान्तेऽपि न सा वस्त्वैक्यं साधयति देशकालावस्थाभेदेन चैत्रादिभेददृष्टेरित्याशङ्क्याऽऽह। भेद इति। कालादिभेदाच्चैत्रादिभेदो यदि गम्यते मम्यतांनाम तथाऽपि पूर्वोत्तरकालोपलक्षि570तयोरैक्यं स एवायमित्यनुभूयमानं दुर्वारमितियोजना॥६६२॥६६३॥

सादृश्यात्प्रत्यभिज्ञानं कृत्तकेशनस्वादिवत्॥
इति चेन्नैतदेवं स्यात्सादृश्यासंभवात्तव॥६६४॥

स्वपक्षे प्रत्यभिज्ञोपपत्तिं विधान्तरेण शाक्यः शङ्कते। सादृश्यादिति। प्रकृता

प्रत्यभिज्ञा सादृश्यनिमित्ता भ्रान्तिरित्येतन्निमित्तनिराकरणेन निराकरोति। नैतदिति॥६६४॥

सादृश्यासंभवश्चापि सर्वस्य क्षणिकत्वतः॥
नाप्यनेकार्थदर्श्यस्ति सादृश्यं स्याद्यतस्तव॥६६५॥

तन्मते सादृश्यासंभवं साधयति। सादृश्येति। भूयोवयवसामान्ययोगो हि सादृश्यंन च सर्वक्षणिकत्वे तत्सिद्धिः क्षणिकानां क्षणानामत्यन्तविलक्षणत्वादित्यर्थः। तदसंभवमुक्त्वा तत्प्रतीत्यसंभवमाह। नापीति। सादृश्यं दृश्यं स्यादिति शेषः॥६६५॥

सादृश्यान्न च केशादौ स एवायमितीक्षणम्॥
केशादिजातेरेकत्वाद्धीरियं तन्निबन्धना॥६६६॥

दृष्टान्तं विघटयति। सादृश्यादिति। कथं तर्हि प्रत्यभिज्ञा तत्राऽऽह। केशादीति॥६६६॥

न हि लूनोत्थितेष्वेषु विना जातिसमाश्रयम्॥
त एवामी इति मतिः कस्यचिद्व्यक्तिहेतुजा॥६६७॥

किमिति जातिनिमित्तैपा धीर्व्यक्तिनिमित्तैषा किं न स्यादत आह। न हीति। केशादिव्यक्तीनामनेकत्वस्य प्रामाणिकत्वात्तद्विरोधान्न व्यक्तिकृता प्रत्यभिज्ञेत्यर्थः॥६६७॥

अभ्रान्तस्य हि केशादौ यदा सदृशधीस्तदा॥
पूर्ववालैरिमे वालाः सदृशा इति जायते॥६६८॥

किंच भ्रान्तस्य सादृश्यात्प्रत्यभिज्ञानमभ्रान्तस्य वा नाऽऽद्योऽङ्गीकारान्न द्वितीयइत्याह। अभ्रान्तस्येति। उक्तेऽर्थे सर्वाविसंवादार्थो हिशब्दः॥६६८॥

त एवामी इति मतिर्जायते न तु कस्यचित्॥
एकजातिनिमित्ताऽतः प्रत्यभिज्ञेयमिष्यते॥६६९॥

अथ सादृश्यादभ्रान्तस्यापि कदाचिद्भवत्यैक्यधीर्नेत्याह। त एवेति। केशादिष्वभ्रान्तस्यैव प्रत्यभिज्ञा दृश्यमाना कथमपह्नूयते तत्राऽऽह। एकेति। व्यक्तिनिमित्तत्वासंभवोऽतःशब्दार्थः॥६६९॥

प्रत्यक्षं च तदेवेदमित्येतद्वस्तुकर्मकम्॥
उल्लिखज्जायते साक्षादतीतेऽहन्यधर्मकम्॥६७०॥

दार्ष्टान्तिके वैषम्यमाह। प्रत्यक्षं चेति। तदेवेदमित्येतत्प्रत्यक्षं परोक्षत्वापरोक्षत्वधर्मोपलक्षितं घटादिकर्मभूतं साक्षाद्विषयीकुर्वदुत्पद्यते तद्वैषम्यमित्यर्थः॥६७०॥

इदमेव तदेवेदमित्येषोऽनुभवो दृढः॥
प्रत्यक्षो बाध्यते नायमनुमानेन केनचित्॥६७१॥

क्षणिकत्वानुमानवाधितत्वाद्भ्रान्तं प्रत्यक्षमित्याशङ्क्याऽऽह। इदमेवेति। अग्न्यनुष्णतानुमानवत्प्रत्यक्षविरोधे क्षणिकत्वानुमानं नोदेतीति भावः। विपरीतं बाध्यबाधकत्वंप्रत्याह। प्रत्यक्ष इति॥६७१॥

प्रत्यक्षेण विरोधे हि लिङ्गमाभासतां व्रजेत्॥
यतोऽतो नानुमानेन प्रत्यक्षस्यास्ति बाधनम्॥६७२॥

न हि दहने शैत्यानुमानादौष्ण्यानुभवो बाध्यते तथा प्रकृतेऽपीत्यत्र हेतुमाह।प्रत्यक्षेणेति। अत्राधित-विषयत्वस्याप्यनुमित्यङ्गत्वादिति भावः। उक्तमुपजीव्य फलितमाह। यत इति॥६७२॥

विज्ञातपूर्वकुम्भस्य पुनः कुम्भान्तरेक्षणे॥
सादृश्यप्रत्ययो युक्तो न त्वसौ क्षणिकात्मसु॥६७३॥

सादृश्यप्रत्ययानुपपत्तेश्चेत्यादिभाष्यं व्याकुर्वाणो नाप्यनेकार्थदर्शीत्यत्रोक्तमधिकविवक्षयाऽनुवदति। विज्ञातेति॥६७३॥

पूर्वं दृष्ट्वाऽपि चेत्तिष्ठेद्यावदागामिदर्शनम्॥
सादृश्यधीप्रसिद्ध्यर्थमित्यभ्युपगमेऽपि च॥६७४॥

सिद्धा सादृश्यधीरेवं क्षणिकत्वं तु नश्यति॥
स्वरूपमात्रसंबोधि नाऽऽत्मनोऽपि क्षयोदयौ॥६७५॥

ज्ञानं प्रत्यभिजानाति ध्वंसित्वान्नापि चापरम्॥
सादृश्यक्षणिकत्वे द्वे त्वदिष्टे न प्रसिध्यतः॥६७६॥

विवक्षितमधिकं दर्शयति। पूर्वमिति। पराभिप्रायमनूद्य क्षणवादहानिदोषमाह। इत्यभ्युपगमेऽपीति। एवं पूर्वार्थदर्शिनो भविष्यदर्थदर्शनपर्यन्तमवस्थाने सतीत्यर्थः। तेनेत्येवोपक्षीणं स्मार्तज्ञानमिदमित्येवोपक्षीणं च वार्तमानिकमतस्तेनेदं सादृश्यमित्येकंज्ञानं नास्तीति चेत्तदा सादृश्यक्षणिकत्वयोरसिद्धिरित्याह। स्वरूपेति। ज्ञानस्य571 स्वप्रभत्वान्न स्वस्यापि जन्मनाशौ साधयति नापि सादृश्यमन्यवि572षयत्वान्नाशग्रस्तत्वाच्चातस्तदीय-सादृश्याद्यसिद्धिरित्यर्थः॥६७४॥६७५॥६७६॥

न च स्मृतिस्तदेवेदमित्येवमनुभूतितः॥
वस्तूल्लेखी ह्यनुभवो नीलरक्तोत्पलादिवत्॥६७७॥

परमते सादृश्याद्यसिद्धेस्तदेवेदमित्यध्यक्षस्य सादृश्यनिमित्तभ्रान्तित्वायोगात्तद्बलाद्वस्तु स्थायीति स्थितमथ तदेवेदमिति ज्ञानं न प्रमा किंतु स्मृतिरनुभूतविषयत्वादतो नततः स्थायित्वमत आह। न चेति। तत्र हेतुः। अनुभूतित इति। हेतुं साधयति।

वस्त्विति। यद्वाऽनुभूतित इत्यपरोक्षत्वं हेतूकृतं संप्रति तस्यापरोक्ष573त्वानुभवत्वेस्थायित्वसाधकत्वं फलितमाह। वस्त्विति। तस्यानुभवत्वं स्फोरयति। नीलेति। यथानीलमुत्पलमित्याद्यभिज्ञानमनुभवस्तथा तदेवेदमिति प्रत्यभिज्ञानं विशेषाभावादनुभवत्वेनवस्तुसाधको भवत्येवेत्यर्थः॥६७७॥

नीलोत्पलानुभववत्तदेवेदमितीक्षणम्॥
अपूर्वार्थपरिच्छेदात्स्मृतिर्नातो भवेदियम्॥६७८॥

विमतमनुभवोऽज्ञातार्थत्वात्संमतवन्न हि तत्तेदंतोपलक्षितमैक्यं574 तत्तायां ज्ञातायामपिज्ञातमतस्तदेवेदमिति ज्ञानमिष्ट-साधकमित्युक्तमर्थमनुमानेन द्रढयति। नीलोत्पलेति।उक्तप्रतीतेरनुभवत्वेन साधकत्वे सिद्धे फलितमाह। स्मृतिरिति॥६७८॥

मिथोविभिन्नरूपत्वात्सादृश्यं चेह दुर्घटम्॥
तदेवेदमिति मतौ वियन्नकुलयोरिव॥६७९॥

यत्तु सादृश्याधीनत्वेन मिथ्याधीत्वादिदमसाधकमिति तत्राऽऽह। मिथ इति। क्षणिकत्वेनात्यन्तवैलक्षण्यादिति यावत्। इह मतौ सादृश्यं निमित्तमिति दुर्घटमितिसंवन्धः। न हि वियतो नकुलस्य वा किंचिदस्ति सादृश्यं तथा तदेवेदमित्यस्यां बुद्धौनैव निमित्तभूतं सादृश्यं घटयितुं शक्यं तत्तेदंतयोल्लेखिनोरर्थयोः स्वरसभङ्गुरत्वेन विलक्षणत्वादित्यर्थः॥६७९॥

असाधारणरूपेण विभिन्नानां परस्परम्॥
क्षणानां क्षणिकानां वः सादृश्यं केन हेतुना॥६८०॥

क्षणिकानां भावानां सादृश्यासंभवं प्रपञ्चयति। असाधारणेति॥६८०॥

तेनेदं सदृशं वस्तु त्विति चापि न युक्तिमान्॥
व्यपदेशः पदार्थानां क्षणिकत्वात्स्वभावतः॥६८१॥

परपक्षे दोषान्तरमाह। तेनेति। तत्र हेतुः। पदार्थानामिति। स्वरसतो वस्तूनांक्षणिकत्वेन विलक्षणतया सादृश्याश्रयत्वायोगादित्यर्थः॥६८१॥

इदं दृष्टमदोऽद्राक्षमिति नैवोपपद्यते॥
व्यपदेशः स्वभावेन व्यपदेष्टुर्विनष्टतः॥६८२॥

तत्रैव व्यपदेशान्तरानुपपत्तिमाह। इदमिति॥६८२॥

व्यपदेशक्षणाभावात्पूर्वदृष्ट्यैव संक्षयात्॥
उत्तरानभिसंबन्धाद्व्यपदेष्टुः कुतो भवेत्॥६८३॥

व्यपदेशो विना योगमतीतानागतार्थयोः॥
तत्स्थास्नुत्वाभ्युपगतौ क्षणिकत्वं विनश्यति॥६८४॥

दृष्टवत इत्यादिभाष्यमाश्रित्योक्तं व्यनक्ति। व्यपदेशेति। तत्र हेतुः। पूर्वेति।पूर्वक्षणद्वारा तत्रस्थो द्रष्टा व्यपदेशक्षणेऽपि संबध्यतामिति चेन्नेत्याह। उत्तरेति।पूर्वक्षणस्येति शेषः। व्यपदेष्टुर्व्यपदेशक्षणासंबन्धेऽपि किं स्यादिति तत्राऽऽह। व्यपदेष्टुरिति। अस्तु तर्हि व्यपदेष्टा स्थायी नेत्याह। तदिति॥६८३॥६८४॥

जात्यन्धवन्न चादृष्ट्वा कश्चिद्व्यपदिशेदिह॥
सादृश्यधिषणां चेह575 न कश्चित्कर्तुमर्हति॥६८५॥

एकसंततिपतितं विज्ञानं स्वेनादृष्टमपि व्यपदेष्टुमीष्टे तथाच द्रष्टुरेव व्यपदेष्टृतेत्यनियमाद्व्यपदेशस्यानवद्यत्वमित्याशङ्क्याऽऽह। जातीति। अद्रष्टुरपि सादृश्यप्रत्ययवद्यपदेशोऽपि स्यादिति चेन्नेत्याह। सादृश्येति। इहेत्युभयत्रापि व्यवहारदशोच्यते। कश्चिदित्युभयोरपि प्राचीनदर्शनशून्यो विवक्ष्यते॥६८५॥

प्रमाणविरहात्सिद्धा सेयमन्धपरंपरा॥
रक्ताम्बराणां सिद्धान्तस्तथाऽभ्युपगमात्स्वयम्॥६८६॥

फलितमुपसंहरति। प्रमाणेति। किंच स्वयमपि बुद्धस्य संमतं स्वसिद्धान्तस्याप्रामाणिकत्वेन हेयत्वमित्याह। तथेति। अस्यार्थः। बुद्धो हि विरुद्धार्थप्रतिपत्त्या वेदविमुखं लोकं व्याकुलीकृत्याधो निपातयितुमिमं मार्गं निर्मितवान्बाह्यार्थोपगमः शुद्धस्वरसभङ्गुरज्ञानमात्रविधिः सर्वशून्यतावादश्चेत्यन्योन्यविरुद्धार्थसमर्थनात्तथाच स्वयमेव तेनस्वसिद्धान्तस्याप्रामाणिकत्वेन हेयव्यामोहार्थत्वेष्टेरन्धपरंपरात्वमस्याप्रत्यूहम्। यथाऽऽह—

“रिक्तस्य जन्तोर्जातस्य गुणदोषमपश्यतः।
विलब्धा बत केनामी सिद्धान्तविषमग्रहाः” इति॥६८६॥

निरोधकाले चित्तस्य वासकत्वं न युज्यते॥
क्षणिकत्वादसंबन्धात्संतानान्तरबुद्धिवत्॥६८७॥

क्षणभङ्गपक्षे प्रत्यभिज्ञासंभवादिरुक्तोऽधुना विनश्यद्विज्ञानं स्वगतरूपादिवासनयोप्तरविज्ञानं संस्कृत्य नश्यतीति परोक्तिंनिरस्यति। निरोधेति। वासकत्वमुत्तरबुद्धाविति शेषः। पूर्वबुद्धेरुत्तरबुद्ध्या संबन्धाभावे दृष्टान्तः। संतानान्तरेति। भिन्नसंतानवर्तिन्योर्बुद्ध्योर्मिथःसंबन्धाभाववदित्यर्थः॥६८७॥

अकृताभ्यागमो दोषः कृतनाशश्च ते576 भवेत्॥
तस्माद्यः कर्मणां कर्ता स भुङ्क्ते कर्मणः फलम्॥६८८॥

यदेतत्पूर्वं ज्ञानं नश्यदुत्तरं ज्ञानं संस्कृत्य नश्यतीतीष्यते तच्चायुक्तमित्येवमर्थतया नचेत्यादिभाष्यं व्याख्यायाकृताभ्यागमेत्यादिभाष्यार्थमाह। अकृतेति। क्षणभङ्गवा-

दिनां कर्तुरेव भोक्तृत्वस्य वक्तुमयुक्तत्वादित्यर्थः। दोषद्वयनिरासायास्मदिष्टस्थाय्यास्माऽऽस्थेय इति फलितमाह। तस्मादिति। कर्मकर्तरि तत्फलभोक्तरि च स्थायिन्यात्मन्यास्थिते नाकृताम्यागमादिर्न व्यपदेशानुपपत्तिर्न प्रत्यभिज्ञाद्यसंयोग इति सर्व निर्मलमित्यर्थः॥६८८॥

यस्मिन्नेव तु विज्ञान आहिता कर्मवासना॥
फलं तत्रैव संताने कार्पासे रक्तता यथा॥६८९॥

स्थाय्यात्माभावेऽपि नाकृताभ्यागमादिरिति शङ्कते। यस्मिन्निति। यथा कार्पासबीजेऽलक्तकादिरसावसिक्ते ततो जायमानाङ्कुरादावत्यन्तभिन्नेऽपि रक्तताऽनुवर्तते तथायत्रैव विज्ञानसंताने चैत्यवन्दनाद्यनुष्ठानकृतवासनाऽऽहिता तत्रैव तत्फलमिति नियमेकुतोऽकृताभ्यागमादिरित्यर्थः॥६८९॥

इत्यस्मिन्नपि सिद्धान्ते प्रसङ्गो न निवर्तते॥
संतानिव्यतिरेकेण यस्मान्नैव स विद्यते॥६९०॥

दूषयति। इत्यस्मिन्निति। अकृताभ्यागमादेरिति शेषः। कथमिति चेत्तत्रसंताने कर्तृत्वभोक्तृत्वे वदन्प्रष्टव्यः स सत्यो मिथ्या वेत्याद्येऽपि स स्वसंतानिव्यतिरिक्तोऽव्यतिरिक्तो वेति विकल्प्याऽऽद्यंं दूषयति। संतानीति। व्यतिरेके स्वातन्त्र्यादिदोषस्योक्तत्वादित्यर्थः। तस्मान्न व्यतिरेकपक्षोपपत्तिरिति शेषः॥६९०॥

संतानिनस्तु संस्कारा विद्यन्ते परमार्थतः॥
मिथश्चासंगतेस्तेषामतो दोषान्न मुच्यते॥६९१॥

द्वितीयं प्रत्याह। संतानिनस्त्विति। यद्यपि वस्तुतः संतानिनः सन्ति तथाऽपिते वासनामात्ररूपाः स्वरसभङ्गुराः स्वीक्रियन्ते तथाच तेषां मिथोऽयोगात्तदभेदाञ्चसंतानस्यैकत्र कर्तृत्वाद्यसिद्धेरकृताभ्यागमाद्यनिवृत्तिरित्यर्थः॥६९१॥

मानाभावान्न चेदिष्टा संततिर्येह कल्पिता॥
दोषोक्तिमात्रतस्तर्हि न पक्षः सिद्धिमश्नुते॥६९२॥

द्वितीयमालम्बते। मानेति। इह संतानिषु भेदेनाभेदेन वा वास्तवी संततिर्नेष्टातत्सत्त्वे मानाभावात्कल्पिता तु सेष्यते तदवष्टम्भेन क्षणिकसंतानिषु कर्तृत्वभोक्तृत्वसिद्धिरित्यर्थः। दूषयति। दोषेति। संततिश्चेत्कल्पिता न तर्हि सा कर्त्री भोक्त्रीवा नच संतानिनां तत्संभवः क्षणिकत्वान्न च संततिद्वारा तेषु तत्सिद्धिः कल्पितसंततेरवस्तुत्वादतः स्वपक्षे स्वयमेव बुद्धेन दोषोक्त्तेर्गुणानुक्तेश्च स्वपक्षासिद्धिरित्यर्थः॥६९२॥

कार्पासबीजसंस्थैव577 योक्ता रक्तादिवासना॥
स्वाकारकार्यकृत्सै578व न कार्यं कार्यकृन्मतम्॥६९३॥

यत्तु कार्पासे रक्तता यथेति तत्राऽऽह। कार्पासेति। या रक्तादिवासना कार्पासबीजस्था दृष्टान्तत्वेनोक्ता सा स्थायिन्येव स्वाकारमङ्कुरादिकार्यं करोति न क्षणिकंकार्यकरं दृष्टं तत्कारणताया निरस्तत्वादतो नासौ क्षणिकेषु संतानिषु हेतुफलत्वे दृष्टान्त इत्यर्थः॥६९३॥

मिथः क्षणानां संबन्धः शृङ्खलाकटकादिवत्॥
सादृश्यव्यपदेशादि सर्वं सुस्थं भवेत्ततः॥६९४॥

इत्येवं चेन्न तद्युक्तं क्षणिकत्वस्य हानितः॥
क्षणत्रयस्य संव्याप्तेः शृङ्खलाकटकादिवत्॥६९५॥

अकृताभ्यागमादौ साधिते सादृश्याद्यनुपपत्तिमुक्तां परिहर्तुं शङ्कते। मिथ इति।यथा शृङ्खलास्थकटकशब्दित-वलयानां पटादिमध्यगततन्त्वादीनां च मिथो भिन्नानामपिसंबन्धो दृष्टस्तथा क्षणिकत्वेऽपि भावानां पूर्वापरी-भूतानामन्योन्यं संबन्धो हेतुहेतुमद्भावश्च संभवत्यतो व्यपदेशसादृश्यप्रत्यभिज्ञादेः सिद्धिरकृताभ्यागमादिदोषद्वयं चेत्थं579 सुपरिहरमित्यर्थः। अपसिद्धान्तेन दूषयति। न तदिति। क्षणिकत्वहानिं साधयति।क्षणेति। शृङ्खलास्थ-कटकादेर्मध्यवर्तिनः पूर्वापरकटकादिसंबन्धवन्मध्यस्थक्षणस्य पूर्वोत्तरक्षणसंबन्धे सत्येकस्य क्षणत्रयस्य व्याप्त्या क्षणिकत्वक्षतिरित्यर्थः॥६९४॥६९५॥

मम तवेत्यवच्छेदव्यवहारश्च त्रुट्यति॥
संबन्धाभावतस्तेषां क्षणानामपरस्परम्॥६९६॥

तर्हि तेषां मिथः संबन्धो मा भूदित्याशङ्क्याऽऽह। ममेति। पूर्वोक्तसादृश्यादिव्यवहारश्चशब्देन समुच्चितः॥६९६॥

ज्ञानस्य च विशद्धस्य स्वसंविन्मात्ररूपिणः॥
अन्यस्य तादृशोऽभावात्कुतो दुःखादिसंप्लुतिः॥६९७॥

यत्तु विज्ञानस्य सुखदुःखादिधर्मित्वं तत्प्रत्याह। ज्ञानस्येति। शुद्धत्वात्तत्संसर्गद्रष्ट्रभावाच्च न ज्ञानस्य दुःखादिसंप्लवः स्वसंवेद्यत्वाङ्गीकाराच्चस्वस्य तदसाधकत्वादित्यर्थः॥६९७॥

न चानेकस्वभावांशवत्त्वं ज्ञानस्य संमतम्॥
स्वच्छैकरूपतस्तस्य दाडिमादिफलं यथा॥६९८॥

ननु ज्ञानस्य शुद्धैकस्वाभाव्यमसिद्धं दाडिमाद्रिवन्नानाविधदुःखाद्यंशवत्त्वाश्रयणादित्याशङ्क्याऽऽह। न चेति। यथा दाडिमादिफलमनेकरसमनुभूयते तथा ज्ञानस्यानेकस्वभावदुःखाद्यंशवत्त्वं न ते संमतं स्वच्छैकस्वाभाव्याभ्युप-गमाद्वस्तुतो दुःखाद्यंशवत्त्वासंभवादित्यर्थः॥६९८॥

प्रमेयत्वानुभूतेश्च न विज्ञानांशता तथा॥
अनित्यदुःखशून्यादेः पृथुबुध्नादिरूपवत्॥६९९॥

तत्रैव हेत्वन्तरमाह। प्रमेयत्वेति। यन्मेयं न तज्ज्ञानांशो यथा घटादि मेयंच दुःखादि न च ज्ञानस्य मेयत्वेऽपि तदंशत्वान्न तद्वदेव दुःखादेस्तन्मात्रत्वं तथासति ज्ञानं दुःखादिसंप्लवायोग्यं नापि साध्यवैकल्यं ज्ञानांशत्वे तत्प्रकाशत्वानुपपत्तेरित्यर्थः॥६९९॥

ज्ञानमात्रमिदं सर्वं न ज्ञेयं विद्यते पृथक्॥
स्वप्नादिज्ञानदृष्टान्तात्प्रत्ययत्वादिहेतुतः॥७००॥

दृष्टान्तमाक्षिपति। ज्ञानमात्रमिति। यज्ज्ञानं तत्स्वातिरिक्तार्थशून्यं यथा स्वप्नज्ञानं ज्ञानं चेदं यद्वा यद्ग्राह्यं तज्ज्ञानाभिन्नं यथा स्वप्नग्राह्यं ग्राह्यं चेदमित्यनुमानाद्बाह्यार्थाभावात्पृथुबुघ्नादिरूपवदित्ययुक्तमित्यर्थः॥७००॥

प्रतिज्ञाहेतुदृष्टान्तभेदस्तावत्परस्परम्॥
ज्ञानमात्रस्वभावत्वाद्भवता नाभ्युपेयते॥७०१॥

सर्वस्य ज्ञानमात्रत्वे प्रतिज्ञादिभेदाभावादनुमानानुत्थानमिति प्रागुक्तं स्मारयन्दूषयति॥ प्रतिज्ञेति॥७०१॥

पक्षश्चायं प्रमाणेन प्रत्यक्षेण विरुध्यते॥
शरीराद्देशभेदेन भासन्तेऽर्था घटादयः॥७०२॥

दोषान्तरमाह। पक्षश्चेति। विरोधं स्फोरयति। शरीरादिति॥७०२॥

अभ्रान्तं चेन्द्रियज्ञानं तेषु चैवोपजायते॥
भिन्नाभिन्नविकल्पार्हं त्वत्प्रत्यक्षं च नेष्यते॥७०३॥

प्रत्यक्षस्य भ्रान्तत्वान्नानुमानविरोधितेति चेन्नेत्याह। अभ्रान्तं चेति। ऐन्द्रियकंज्ञानं कारणदोषवाधवैधुर्यादभ्रान्तं तच्च ज्ञानातिरिक्तेष्वेवार्थेषु जायते तेन विरुद्धमनुमानममानमित्यर्थः। ननु निर्विकल्पकं प्रत्यक्षं ज्ञानार्थाभेदं गृह्णदुक्तानु-मानानुग्राहकं सविकल्पकं तु तद्भेदं गृह्णदप्यप्रमाणत्वान्नानुप्रानं बाधते तन्नाध्यक्षविरोधोऽनुमानस्येतिनेत्याह। भिन्नेति। अस्यार्थः। न तावत्ते विवक्षितं निर्विकल्पकमस्त्यागोपालाविपालपण्डितंज्ञानमात्रस्य किंचिच्छब्दरूषित580स्यैवोत्पत्तेस्तदङ्गीकारेऽपि न तदर्थस्य भेदमभेदंवा क581लयति निर्विकल्पकत्वभङ्गान्न च त्वया तद्विकल्पकमिष्टमतस्तद्बलार्थराशेर्ज्ञानमात्रत्वासिद्धेर्न तदनुमानानुग्राहकमिति॥७०३॥

दूरे स्थितं प्रपश्यामि यन्न582 दृष्टमिदं तथा।
एवं प्रकारं प्रत्यक्षं स्वसंवेद्यं न बाध्यते॥७०४॥

यत्तु सविकल्पकं भेदं गृह्णदप्यमानत्वान्नानुमानबाधकमिति तत्राऽऽह। दूर इति।न हि सविकल्पकस्याप्रामाण्यं तत्प्रामाण्ये बाधकाभावात्स्वयमपि प्रत्यक्षस्य चातुर्विध्यंब्रुवाणस्तत्प्रामाण्यमनुमन्यते तेन तद्विरोधादनुमानानुत्थानं स्थितमित्यर्थः॥७०४॥

दुःखाद्यात्मकमेवेदं विज्ञानं चेत्त्वयोच्यते॥
तद्वियोगाद्विशुद्धं तदिति वः कल्पना कथम्॥७०५॥

दृष्टान्तं प्रसाध्य पक्षमनूद्य दोषमाह। दुःखादीति॥७०५॥

यतः संयोगिनिर्मुक्तौ वस्तु शुद्धमिहेष्यते॥
स्वरूपस्य तु निर्मुक्तौ किमन्यदवशिष्यते॥७०६॥

स्वभाववियोगादपि शुद्धिसिद्धेः साध्वी कल्पनेत्याशङ्क्याऽऽह। यत इति। अतोन स्वभाववियोग इति शेषः। विपक्षे दोषमाह। स्वरूपस्येति। स्वभावभङ्गे वस्त्वेवनास्तीति कुतः शुद्धिसिद्धिरित्यर्थः॥७०६॥

स्वाभाविकगुणध्वस्तौ रागाद्यागन्तुकात्मता॥
दृष्टा583 पुष्पेष्विति वचो यच्चापि समुदाहृतम्॥७०७॥

पुष्पस्य स्वाभाविकोऽपि शौक्ल्यादिर्द्रव्यान्तरेण पुष्पकारणे संस्क्रियमाणेऽपगच्छति रागादिश्चोत्पद्यते तथा ज्ञानस्यापि चतुर्विधभावनाप्रभावाद्दुःखादि स्वाभाविकमेववियुज्यते शुद्धिश्वोत्पद्यत इति पक्षमनुभाषते। स्वाभाविकेति। समुदाहृतं कार्पासादेःसरक्तता यथेत्यत्र सूचितमित्यर्थः॥७०७॥

सम्यङ्निरस्तं तत्पूर्वं वियोगाच्चापि लिङ्गतः॥
संयोगपूर्वता तस्य लिङ्ग्यते मेषयोरिव॥७०८॥

आत्मा कर्त्रादिरूपश्चेदित्यादौ स्वरूपे स्थिते स्वभाववियोगस्य निरस्तत्वान्मैवमित्याह। सम्यगिति। कुतो दृष्टेरनुपपत्तिरित्याशङ्क्य दृष्टान्तं निराचष्टे। वियोगादिति। यथा मेषयोर्वियोगः संयोगपूर्वकस्तथा पुष्पगुणयोरपि वियोगस्य संबन्धपूर्वतावियोगादेव गम्यते। न हि पुष्पस्य गुणः स्वभावः सत्यपि पुष्पे वियुज्यमानत्वान्मलवदतः स्वभाववियोगे नासौ दृष्टान्त इत्यर्थः॥७०८॥

द्रव्यान्तराच्छादनाद्वा सहजस्याप्यनीक्षणम्॥
तद्द्रव्यसंक्षये यस्मात्पूर्ववत्सहजेक्षणम्॥७०९॥

अस्तु वा पुष्पस्य स्वाभाविकः शौक्ल्यगुणस्तथाऽपि नासौ स्वभाववियोगे दृष्टान्तइत्याह। द्रव्यान्तरेति। पुष्पशौक्ल्यस्य स्वाभाविकस्यापि द्रव्यान्तरेण च्छन्नत्वाददृष्टिर्नासत्त्वादित्यत्र हेतुमाह। तद्द्रव्येति। दृश्यते हि वस्त्रादौ हरिद्रादिरागापगमे यथापूर्वं शौक्ल्यमिति भावः॥७०९॥

ग्राह्यग्राहकरूपेण यच्चापि मलकल्पनम्॥
अन्यसंसर्ग्यभा584वात्तत्तुषकण्डनवद्वृथा॥७१०॥

दुःखादेर्ज्ञानयोगित्वकल्पनां निरस्य कल्पनान्तरमनूद्य निरस्यति। ग्राह्येति। अन्यसंपर्कादागतस्य मलत्वप्रसिद्धेस्त्वत्पक्षे च ज्ञानादन्यस्यानिष्ठेस्तत्प्रयुक्ततया तत्र तदयोगात्तस्य स्वभावो ग्राह्यग्राहकत्वमित्यर्थः॥७१०॥

फलाश्रयस्य चाभावान्निर्वाणादि स्वलक्षणम्॥
फलं च घटते नेह युक्तिभिः शाक्यपुङ्गवे॥७११॥

बन्धकल्पनां निराकृत्याभ्युदयनिःश्रेयसकल्पनां निराकरोति। फलेति। द्वितीयश्चकारोऽवधारणार्थो नञा संबध्यते। आदिपदेनाभ्युदयोक्तिः॥७११॥

शल्यविद्धस्य तच्छल्यनिष्कर्षोत्थं सुखं फलम्॥
शल्यविद्धमृतौ कस्य फलं स्यादिति कथ्यताम्॥७१२॥

फल्यभावेऽपि फलत्वं स्वर्गादेः स्यादित्याशङ्क्याऽऽह। शल्येति॥७१२॥

न संयोगो वियोगो वा यस्य केनचिदिष्यते॥
विनाशतः585 स्वतस्तस्य कीदृशी फलसंगतिः॥७१३॥

दार्ष्टान्तिकमाह। नेत्यादिना॥७१३॥

भवत्पक्षेऽपि तुल्यं चेन्नाविद्यामात्रहेतुतः॥
कारकादिविभागस्य वस्तु पूर्णं स्वतो यतः॥७१४॥

दोषसाम्यं शङ्कते। भवदिति। वस्तुनो586ऽद्वयत्वात्तस्यासङ्गस्य केनचिदपि संयोगवियोगात्फलित्वासंभवे मोक्षासंभवादि चोद्यं तुल्यमित्यर्थः। यद्यपि पूर्णंवस्तु वस्तुतोऽसङ्गमङ्गी क्रियते तथाऽपि क्रियाकारकफलभेदस्याप्यविद्यामात्र-कृतत्वादस्मन्मते सर्वोव्यवहारो यतो घटतेऽतो न साम्यमित्याह। नाविद्येति॥७१४॥

पुरुषार्थात्मकं वस्तु कूटस्थं तत्स्वतो587 यतः॥
अविद्यया तथाभूतं तद्ध्व588स्तौ किमपेक्षते॥७१५॥

कारकादिविभागोऽभ्युपगतश्चेद्वास्तवोऽस्तु किमित्याविद्यः स्वीकृतस्तत्राऽऽह।पुरुषार्थेति। अतोऽविद्ययेत्यतःशब्दो द्रष्टव्यः। तथापि न पूर्णत्वमविद्याध्वस्तावुपायापेक्षत्वादित्याशङ्क्याऽऽहं। तद्ध्व589स्ताविति। वास्तवोपायापेक्ष590त्वाभावान्न पूर्णताहतिरित्यर्थः॥७१५॥

अनुमानेन तादृ591क्षं वस्तु प्राक्प्रतिपादितम्॥
न चानुमाने592 दोषोऽपि तत्र कश्चिद्विभाव्यते॥७१६॥

कूटस्थासङ्गाद्वयं वस्त्वेव मानाभावादसिद्धं न चाऽऽगमात्तत्सिद्धिस्तत्प्रामाण्ये विवादादित्याशङ्क्याऽऽह। अनुमानेनेति। विमतो व्यवहारोऽसंहतज्योतिर्निमित्तो व्यवहारत्वादादित्यादिकृतव्यवहारवदित्यनुमानाद्ब्राह्मणादौ यथोक्तं वस्तु साधितमित्यर्थः।कथमुक्तानुमानस्योक्तवस्तुसाधकतेत्याशङ्कय निर्दोषत्वादित्याह। न चेति। असिद्ध्यादिरनुमानदोषो593ऽननुगमादिस्तु शङ्कितुमप्यशक्यो लोकायतविचारे निरस्तत्वादित्यपेरर्थः। तत्रेति प्रकृतानुमानोक्तिः॥७१६॥

सहोपलम्भसंस्कारात्पुनर्धीर्यैकदर्शनात्॥
साऽनुमा संभवस्तत्र व्यभिचारस्य चेन्न हि॥७१७॥

कथमस्यानुमानस्य निर्दोषत्वमविभाव्यमानत्वं तु सत्त्वेऽपि दोषस्य संभवतीत्याशङ्क्यानुमान-लक्षणाक्रान्तत्वान्निर्दोषतेति वक्तुं तल्लक्षणमाह। सहेति। व्याप्यव्यापकयोःसंयोगोपलम्भाद्भवति संस्कारस्ततश्च कालान्तरे तयोरेकस्य व्याप्यस्य दर्शनादुद्बुद्धसंस्कारस्यापरस्मिन्नज्ञाते व्यापके या धीर्जायते साऽनुमा सा च व्यापके व्याप्यस्यव्यभिचाराभावे सति प्रमाणम्। उक्तं हि—

“संबन्धो व्याप्तिरिष्टाऽत्र लिङ्गधर्मस्य लिङ्गिना।
व्याप्यस्य गमकत्वं च व्यापकं गम्यमिष्यते॥
यो यस्य देशकालाभ्यां समो न्यूनोऽपि वा भवेत्।
स व्याप्यो व्यापकस्तस्य समो वाऽभ्यधिकोऽपि वा॥
तेन व्याप्ये गृहीतेऽर्थे व्यापकस्त्वस्य गृह्यते”इति।

अस्ति चोक्तानुमानेऽपि व्याप्यव्यापकयोः सहोपलम्भकृतसंस्कारसमुद्बोधवतः समयान्तरे व्याप्यदर्शनादसंनिकृष्ट-व्यापकधीत्वं न च व्यभिचारादिप्रतिबन्धकसत्त्वमित्यदोपतया तस्य मानतेत्यर्थः॥७१७॥

ननु चाव्यभिचार्येव संबन्धो गमको भवेत्॥
सहोपलम्भमात्रेण न यतः पितृसूनुवत्॥७१८॥

संभवस्तत्र व्यभिचारस्य चेन्न हीति वदता गमकत्वमव्यभिचारस्योक्तं तदमृष्यमाणःशाक्यः स्वभावादेर्गमकत्वं विवक्षुश्चोदयति। नन्विति। तत्राऽऽदौ सिद्धान्तिनोऽभिप्रायमनुवदति। अव्यभिचारीति। व्याप्यस्य धूमादेर्व्यापकेनाग्न्यादिना सहाव्यभिचारी संबन्धो गमको न व्यभिचारी। उक्तं हि व्याप्तेश्चदृश्यमानायाः कश्चिद्धर्मःप्रयोजक इति। स चाव्यभिचारः सकृत्सहोपलम्भमात्रान्न सिध्यति यथा पितापुत्रौ

शिष्याचार्यौ वा सह सकृद्दृष्टवतोऽन्यतरदर्शनेऽन्यतरबुद्धिर्नोत्पद्यते व्यभिचारस्यापिसंभवात्तथाऽन्यत्रापि यतो न सहोपलब्धिमात्रेणाव्यभिचारसिद्धिरतो व्यतिरेकोऽप्यग्न्यभावे धूमाभावोऽन्वयवज्ज्ञातव्य इत्यर्थः॥७१८॥

अस्त्वेवं शक्यते नो चेद्व्यभिचारः स्वगोचरे॥
प्रार्थ्यते व्यभिचारो हि जाताशङ्के न गोचरे॥७१९॥

विमतं कस्यचित्प्रत्यक्षं मेयत्वात्कुम्भवदित्यत्रान्वयस्यैव गमकत्वाङ्गीकारात्कृतंव्यतिरेकेणेत्याशङ्कयाऽऽह। अस्त्विति। अनुमानविषये व्यापके व्याध्यस्य व्यभिचारो न शङ्कयते चेत्तर्हि त्वदभिप्रायेण केवलान्वयिन्यन्वयमात्रस्य स्यादेव गमकत्वंतथाऽप्यनुमानान्तरे नान्वयमात्रस्य तथात्वं व्यापके व्याप्यस्योत्पन्नव्यभिचारशङ्कावतां पुंसां तन्निरासार्थं व्यतिरेकस्यापि प्रार्थनीयत्वाद्द्वावपि चान्वयव्यतिरेकावर्थनीयावनुमेयसत्त्वमेव निश्चेतुं सपक्ष एव सत्त्वमपक्षे चासत्त्वमेव निश्चितमिति बौद्धैरुक्तत्वादित्यर्थः। उक्तेऽर्थे परोक्तं वाक्यं हिशब्देन द्योत्यते॥७१९॥

सहोपलम्भमात्रेण सा तु594 सर्वत्र जायते॥
धियो595 नो विषये शङ्का व्यभिचारानुसारिणी॥७२०॥

अन्वयदर्शनसंस्कारवतो व्यभिचारशङ्कैव नोदेति तन्न व्यतिरेकप्रार्थनाऽर्थवतीत्याशङ्क्याऽऽह। सहेति। शिष्याचार्यादावन्वयोपलम्भेऽपि व्यभिचारदर्शनादित्यर्थः।मात्रपदेन व्यतिरेकदृष्टिव्यावृत्तिः। सर्वत्र व्याप्यव्यापकेष्विति यावत्। अस्तु व्यभिचारशङ्का का हानिरत आह। धिय इति। अस्यार्थः। अनुमानविषये व्यापकेव्याप्यस्य व्यभिचारानुसारिणी या शङ्काऽस्माकमुत्पद्यते सा गमकत्वविरोधिनी ।

“यावच्चाव्यतिरेकित्वं शतांशेनापि शङ्क्यते।
विपक्षस्य कुतस्तावद्धेतोर्गमनिकाबलम्”इति न्यायादिति॥७२०॥

तदाशङ्कानिवृत्त्यर्थमतः कार्यं प्रयत्नतः॥
साध्याभावेन तद्धेतोरभावपरिमार्गणम्॥७२१॥

व्यभिचारशङ्काया दोषत्वे तन्निवृत्त्यर्थं व्यापकाभावेन व्याप्याभावो ज्ञातव्य इतिफलितमाह। तदाशङ्केति। क्वचिद्व्यतिरेकावधारणेऽपि सर्वासु व्यक्तिषु तत्सामान्योपाधौ तन्निर्धारणार्थमुत्साहवता भवितव्यमिति वक्तुं प्रयत्नत इत्युक्तम्॥७२१॥

साध्याभावे कथं हेतोरभाव इति कथ्यताम्॥
ज्ञानलक्षणसंप्राप्तावथवाऽप्यविशेषतः॥७२२॥

अन्वयव्यतिरेकयोर्गमकत्वं सैद्धान्तिकमनुभाष्यव्यतिरेकं दूषयितुं विकल्पयति।साध्येति। कथमितिसूचितं कल्पद्वयं विशदयति। ज्ञानेति। व्यापकज्ञाने लक्षणानि

कारणानि तेषां साकल्येनोदये सत्यनुपलब्ध्या व्यापकाग्न्यभावं ज्ञात्वा तेन व्याप्यधूमाभावो ज्ञातव्योऽथवा विशेषं विना व्यापकाग्न्यनुपलब्धिमात्रेण तदभावं प्रतीत्य तेन धूमाभावोऽधिगन्तव्य इति विकल्पार्थः॥७२२॥

यदि मालक्षणाप्तस्य साध्याभावादि भण्यते॥
तदा भ्राष्ट्राद्यदूरस्थे596 साध्याभावादि सज्जते॥७२३॥

आद्यमनुवदति। यदीति। मानकारणेषु सत्सु प्रतिपत्तुं प्राप्तस्यैव व्यापकस्याग्नेरनुपलब्ध्या तदभावं बुद्ध्वा तेन धूमाभावज्ञानमुच्यते यदीत्यनुवादार्थः। तत्र दूषणमाह। तदेति। भ्राष्ट्रो लोष्टविशेषः। **यथाऽऽह—**क्लीबेऽम्बरीषं भ्राष्ट्रो ना कन्दुर्वास्वेदनी स्त्रियामिति। तत्र संनिकृष्टे लोष्टादौ योग्यानुपलब्धेः साध्याग्न्यभावं बुद्ध्वातेन धूमाभावधीस्त्वन्मते स्यान्न चेष्यते लोष्टादावग्न्यभाववद्भूमाभावस्यापि सुज्ञानत्वादतोयोग्यानुपलब्धिसिद्धाग्न्यभावस्य न धूमाभाव-लिङ्गतेत्यर्थः॥७२३॥

प्रत्यक्षगोचरे साध्याभावश्चेत्प्रतिपाद्यते॥
प्रत्यक्षेणैव सिद्धत्वादनुमैवं वृथा भवेत्॥७२४॥

न संनिकृष्टे लोष्टादौ व्यापकाग्न्यभावो योग्यानुपलब्ध्या गम्यते किंतु प्रत्यक्षेणेतिप्रत्यक्षाभाववादिमतं शङ्कते। प्रत्यक्षेति। तदा साध्याभाववद्धूमाभावस्यापि प्रत्यक्षत्वात्साध्याभावलिङ्गेन धूमाभावानुमानमनर्थकमिति दूषयति। सिद्धत्वादिति॥७२४॥

अधित्यकादौ देशे तु ह्युपलब्धेरसंभवात्॥
मा भूदग्न्याद्यभावेऽपि कदाचिद्धूमसंभवः॥७२५॥

कल्पान्तरं निरस्यति। अधित्यकादाविति। यद्यनुपलब्धिमात्रेणाग्न्यभावं ज्ञात्वातेन धूमाभावधीस्तदा परोक्षे पर्वतदेशे व्यापकाग्न्युपलम्भासंभवात्तदनुपलब्धिमात्रात्तदभावनिश्चयः स्यान्न च तेन तस्मिन्धूमाभावः शक्योऽनुमातुमुपरि देशे धूमस्य प्रत्यक्षत्वादतो व्यापकाग्न्याद्यभावेऽपि व्याप्यधूमादेः कदाचित्संभवः स मा भूदित्यनुपलब्धिमात्रान्न व्यापकाभावज्ञानमित्यर्थः। उपत्यकाऽद्रेरासन्ना भूमिरूर्ध्वमधित्यकेत्युक्तत्वात्पर्वतस्योपरिभूमिरधित्यकेति द्रष्टव्यम्। आदिपदेनोपत्यका गृह्यते। न खल्वनुपलब्धिमात्रादभावधीरविशेषेण तत्प्रसङ्गादिति हिशब्दार्थः ॥ ७२५॥

यद्येवमन्वयोऽप्यत्रनैव प्राप्नोति तत्कथम्॥
अन्यत्र यदि नाम स्याद्धूमभावेऽग्निभावता॥७२६॥

व्यतिरेकं निराकृत्यास्वयं निराकर्तुमारभते। यदीति। दर्शितरीत्या व्याप्यव्यापकयोर्व्यतिरेको नास्तीत्यङ्गीकृतं चेत्तर्हि तयोरन्वयोऽपि न सिध्यतीति यावत्। यत्र धूम-

स्तत्राग्निरिति महानसे दृष्टत्वादन्वयोऽशक्योऽपह्नोतुमिति शङ्कते। तत्कथमिति। महानसे धूमाग्न्योरन्वयसत्त्वमङ्गी-करोति। अन्यत्रेति। सपक्षः सप्तम्यर्थः॥७२६॥

दर्शनादस्तु सा कामं दर्शनाधीनसिद्धितः॥
अधित्यकादौ देशे तु यावत्साक्षान्न दर्शनम्॥७२७॥

तावन्नावसितुं597 शक्यं भवितव्यमिहाग्निना॥
इति धूमोपलम्भत्वाद्भ्राष्ट्रधूमोपलम्भवत्॥७२८॥

अङ्गीकारमेव स्फोरयति। दर्शनादिति। सेति धूमवत्त्वेऽग्नेः सत्तोक्ता। दृष्टस्याङ्गीकारे हेतुमाह। दर्शनेति। सर्वस्येति शेषः। अन्वयनिरासस्तर्हि कथमितितत्राऽऽह। अधित्यकादाविति। असंनिकृष्टे देशे धूमाग्न्योर्यावन्नाध्यक्षेणान्वयदृष्टिस्तावत्तत्राग्निना भाव्यमिति न निश्चेतुं शक्यमन्वयस्यागृहीतत्वादित्यर्थः। अथोपरि देशेधूमं दृष्ट्वा तेनात्राग्निरस्तीति निश्चयः सिध्यति तत्राऽऽह। धूमेति। अयं हि धूमोपलम्भोऽग्निं व्यभिचरति विशिष्टधूमोपलम्भत्वाल्लोष्टादिनिविष्टधूमदृष्टिवत्तस्मान्नोपलभ्यमानेनधूमेनाग्निसत्त्वमनुमातुं शक्यमन्वय-व्यतिरेकयोर्दुर्ज्ञानत्वादित्यर्थः॥७२७॥७२८॥

इदं तावद्वदत्वत्र लिङ्गलक्षणतत्त्ववित्॥
धूमादिलिङ्गेनेहार्थो भवता कोऽनुमीयते॥७२९॥

अन्वयव्यतिरेकाख्यं गमकं निराकृत्य गम्यं निराकर्तुं विकल्पयति। इदं तावदिति। अत्रेत्यनुमानभूमिरुक्ता। इहेति धर्मी पर्वतादिः। किमग्निरनुमेयः किंवा पर्वतादिर्देश598विशेषोऽथवा तयोः संबन्धो यद्वा तन्मात्रमिति विकल्पार्थः॥७२९॥

नाग्निस्तस्य प्रसिद्धत्वान्नापि देशः प्रसिद्धितः॥
न च संबन्धमात्रं स्याद्यथोक्तादेव कारणात्॥७३०॥

नाऽऽद्यइत्याह। नाग्निरिति। न द्वितीय इत्याह। नापीति। न तृतीयःसंबन्धस्य संबधिभ्यां भेदाभेदाभ्यां दुर्भणत्वादित्यभिप्रेत्य चतुर्थं प्रत्याह। न चेति।स्यादनुमेय इति शेषः। यथोक्तं कारणं प्रसिद्धत्वेन सिद्धसाध्यत्वम्॥७३०॥

तस्मान्नैवानुमा नाम मानं युक्तिमदिष्यते॥
मेयाभावादिति प्राप्तावत्र प्रतिविधीयते॥७३१॥

गम्यगमकयोर्दुर्निरूपकत्वे फलितमुपसंहरति। तस्मादिति। मेयाभावो गमकाभावस्योपलक्षणम्। सिद्धान्त्यभिप्रेत-गम्यगमकाभा599वेनानुमानप्रामाण्यायोगादनुपलब्धिस्वभावकार्याणां त्रिरूपहेतुद्वारा गमकत्वं गम्यत्वं च स्वरसभङ्गुरस्य वाऽन्यापोहस्य वा तद्वतोवेति पूर्वपक्षमुपसंहरति। इति प्राप्ताविति। सिद्धान्तमवतारयति। अत्रेति॥७३१॥

सहोपलब्धिसंस्कारवशाद्धूमादिदर्शनात्॥
अग्न्यादौ विप्रकृष्टेऽर्थे निश्चिता जायते मतिः॥७३२॥

यत्तावदनुमानप्रामाण्यं दुष्प्रतिपादमिति तत्र संदिग्धत्वाद्वा विपर्यस्तत्वाद्वाऽनुत्पन्नत्वाद्वा योग्यसामग्रीराहित्याद्वा वैफल्याद्वा तदप्रामाण्यांनाऽऽद्यः कोटिद्वयास्पर्शित्वात्तस्येतिमत्वाऽऽह। सहेति। व्याप्यव्यापकयोः सहोपलम्भाद्भवति संस्कारस्तस्माच्च कालान्तरेव्याप्यदर्शनवशादुद्बुद्धादज्ञाते व्यापके धीरसंदिग्धा जायते तथाच संदिग्धतया न तदप्रामाण्यमित्यर्थः॥७३२॥

लिङ्गात्तावदिदं ज्ञानं जातं बाधकवर्जितम्॥
उत्पन्नत्वात्तदुत्पन्नं नानुत्पन्नं कथंचन॥७३३॥

द्वितीयं प्रत्याह। लिङ्गादिति। तृतीयं निराह। उत्पन्नत्वादिति। लिङ्गाल्लिङ्गिज्ञानस्योत्पन्नत्वप्रतीतेरिति हेत्वर्थः॥७३३॥

जातं किमविनाभावसंबन्धेनेदमीदृशम्॥
किंवा नेति परीक्षेयं जातत्वात्स्यादपार्थिका॥७३४॥

चतुर्थं शिथिलयति। जातमिति। इदं व्यापकज्ञानमीदृशं व्याप्यधीसमुत्थं किंतयोरव्यभिचरितसंबन्धेन जातं किंवा व्यभिचरितसंबन्धादिति निरूपणा विफलैव व्यापकधियो जातत्वाद्दृष्टतदीयजन्मवशाद्योग्यसामग्र्यस्य कल्प्यत्वात्तस्य विशेषतो दुर्निरूपत्वस्येष्टत्वात्प्रसिद्ध्या व्यवहारो न तस्या मूलमस्तीति स्थितेरित्यर्थः॥७३४॥

सर्वथा फलवज्ज्ञानं जातत्वान्न तदन्यथा॥
तस्मात्प्रत्यक्षवत्किंचिद्व्यभिचारकृदञ्जसा॥७३५॥

यावन्नेक्षामहे तावन्नाप्रमाणमितीर्यते600
तदपह्नवमानस्य तवात्यन्तमसंभवात्॥७३६॥

पञ्चमं प्रत्याह। सर्वथेति। संबन्धमात्रादव्यभिचारिसंबन्धाद्वा यथाकथंचिद्व्यापकज्ञानं जातं चेत्तर्हि तदसंदिग्धाविपर्यस्ततया जातत्वाद्विषयाभिव्याप्तिफलवदेव न तद्विफलमित्यर्थः। किंचानुमानस्य तात्त्विकं प्रामाण्यमपह्नूयते व्यावहारिकं वा नाऽऽद्योऽभ्युपगमादिति मन्वानो द्वितीयं निराह। तस्मादिति। अनुमानस्य व्यवहाराङ्गत्वोपलम्भस्तच्छब्दार्थः। तस्य व्यावहारिकप्रामाण्ये प्रत्यक्षवदित्युदाहरणम्। किंचिदित्युपाध्यादिकथनम्। व्यभिचारकृद्व्याप्यस्य व्यापकेनेति शेषः। यावत्तावदिति प्रामाण्यस्वतस्त्वंसूच्यते।

“अन्ये परप्रयुक्तानां व्यातीनामुपजीवकाः।
दृष्टैरपि न तैरिष्टा व्यापकांशावधारणा”॥

इति न्यायादनौपाधिकव्याप्तिनिश्चयादेवानुमाप्रवृत्तिरिति चेन्नोपाधेर्दुरधिगमत्वात्साxxxxनाव्यापकः साध्यव्यापकः स इति चेन्न व्याप्त्युपाधिधियोरन्योन्याश्रयत्वादुपाधेः साध्येन व्यभिचारानुपलम्भमात्रेण न त्वनौपाधिकी व्याप्तिरिति चेत्तर्हिहेतोरपि तन्माxxxण गमकता स्यान्न चैवं हेतुतदाभासाव्यवस्था तत्तल्लक्षणाक्रान्तत्वेन प्रतीत्या तद्व्यवस्थासिद्धेरिति भावः। यत्तु साध्यस्य दुर्निरूपत्वादनुमानाप्रामाण्यमिति तत्राऽऽह।xxxxदिति। तस्यानुमानप्रामाण्यस्यापह्नवे मानोऽभिमानो यस्य तस्य601 तवानुमाप्रामाण्यमत्यतमेवापह्नुवानस्य भोजनादौ प्रवृत्तेरसंभवाज्जीवनदौर्लभ्यं न च साध्यं दुर्वचं संदिग्धस्यxxxxमित्सितस्य तद्भावात्तस्माद्धर्मविशिष्टस्य धर्मिणः स्यात्प्रमेयतेत्युक्तेरित्यर्थः॥७३५॥७३६॥

अत्राऽऽहयदि विज्ञानजन्ममात्रात्प्रसिध्यति॥
प्रतिज्ञामात्रतः सिद्धेर्वृथा स्याद्धेतुकीर्तनम्॥७३७॥

प्रत्यक्षवदनुमानस्य प्रामाण्ये दोषं शङ्कते। अत्राऽऽहेति। तमेव वक्तुं सिद्धान्तमxxxxवदति। यदीति। प्रामाण्यमिति शेषः। विवक्षितं दोषमाह। प्रतिज्ञेति। सिद्धेर्व्यापकज्ञानस्येति शेषः॥७३७॥

बाढमेवं भवेदेतदाशङ्काकारणं न चेत्॥
किंचित्तत्रोपलभ्येत ह्यनवद्यं भवेद्वचः॥७३८॥

सहोपलम्भसंस्कारोद्बोधवतो व्याप्यदर्शनादज्ञाते व्यापके बुद्धिरनुमानमिति स्थितेरेवंधानुमानस्य प्रतिज्ञामात्रादसिद्धेरुपयुक्तं परार्थानुमाने हेतुकीर्तनं स्वार्थानुमाने तु तद्दनं परार्थानुमानं त्रिरूपलिङ्गाख्यानं स्वार्थं तु त्रिरूपाल्लिङ्गादनुमेये ज्ञानमित्युपगमाxxxxति मत्वा प्रकारान्तरेण परिहरति। बाढमिति। एतद्व्यापकज्ञानमेवं प्रतिज्ञामात्राद्भxxxxन्नात्र विगानमित्यङ्गीकारार्थः। तमेव व्याकरोति। आशङ्केति। प्रतिज्ञावाक्यार्थेxxxxपके प्रतिपन्ने विशेषादर्शनादि संशयकारणं न दृश्यते चेत्प्रतिज्ञावाक्यं निर्दोषं हेत्वपेक्षमेव व्यापकं निश्चाययतीत्यर्थः। वचसो निर्दोषस्य निश्चायकत्वं निर्दोषत्वादेषितव्यxxxxति हिशब्दार्थः॥७३८॥

पुरुषादिनिमित्तस्तु जायते यत्र संशयः॥
अन्वयव्यतिरेकाभ्यां हेतोः स्यात्तत्र निश्चयः॥७३९॥

कुत्र तर्हि हेतुरुपयुज्यते तत्राऽऽह। पुरुषादीति। वक्तृश्रोतृकरणविषयादिप्रयुक्तो यत्र प्रतिज्ञार्थे संशयस्तत्र हेतोरन्वयादिवशान्निश्चयो न चान्वयादिरयुक्तो यत्रधूमस्तत्राग्निरित्यन्वयस्य महानसे व्यक्तत्वाल्लोष्टादौ विशिष्टधूमाभावान्न व्यभिचारो यत्रनाग्निर्न तत्र धूमोऽपीति व्यतिरेकस्य शीतह्रदे सिद्धत्वादधित्यकादौ योग्यानुपलम्भा-

भावान्नाग्न्यभावनिश्चितिरिति नासौ व्यतिरेकभूमिर्न च पक्षस्यैव व्यतिरेकस्थलत्वमतोहेतोरन्वयादिना व्यापकनिश्चयोऽन्वयव्यतिरेकपक्षधर्माख्यत्रिरूपवन्ति चत्वारि लिङ्गानिकार्यकारणस्वभावानुपलब्ध्याख्यानीति परैरिष्टत्वादिति भावः॥७३९॥

उत्पन्न एव ज्ञानेऽतस्तत्संदेहनिवृत्तये॥
अन्वयव्यतिरेकौ स्तो न ताभ्यामनुमेयधीः॥७४०॥

प्रतिज्ञावाक्यार्थनिश्चयोऽन्वयादिमद्धेत्वपेक्षश्चेत्प्रतिज्ञावाक्यस्यान्वयाद्यपेक्षया स्वार्थनिश्चायकत्वात्परतः प्रामाण्यापत्तेः स्वतः सर्वप्रमाणानां प्रामाण्यमिति गृह्यतामित्यादिन्यायविरोधः स्यादित्याशङ्क्याऽऽह। उत्पन्न इति। प्रतिज्ञावाक्याद्व्यापकज्ञाने जातेसत्येव पुरुषापराधादिहेतूत्थतत्संशयध्वंसार्थावन्वयव्यतिरेकौ न साक्षाद्व्यापकधीहेतू तदनुमेयज्ञानस्य प्रतिज्ञावाक्यादेव सिद्धेः संशयनिरासद्वारा चान्वयादेस्तत्रोपयोगान्न किंचिदवद्यमिति भावः॥७४०॥

संदेहनिर्णयादन्यत्स्वभावादि यदुच्यते॥
तस्यानुमित्यनङ्गत्वात्प्राप्तं तत्तुषकण्डनम्॥७४१॥

अन्वयव्यतिरेकवतो हेतोः संशयध्वंसद्वारा गमकत्वं सामान्येतररूपत्वादित्यादिन्यायेनाग्न्यादेर्गम्यत्वमिति सिद्धान्तमुक्त्वा परेष्टं गमकमनुवदति। संदेहेति। प्रतिज्ञावाक्याज्जाते व्यापकज्ञाने पुरुषादिनिमित्तो यः संशयस्तद्ध्वंसिनिर्णयकृदन्वयादिमद्धेतोरतिरिक्तस्वभावकार्यानुपलब्धिरूपं त्रितयं गमकमिति यद्बुद्धेनोच्यते तत्रैवाविनाभावातद्वतश्च गमकत्वादित्यर्थः। तत्र दूषणहे602तुमाह। तस्येति। प्रतिज्ञातो व्यापकज्ञानादन्वयादिमता च हेतुना संशयादिध्वंसात्त्वदिष्टस्वभावादेः साक्षात्परंपरया वाऽनुमानाङ्गत्वाभावान्न तदर्थवदित्यर्थः॥७४१॥

अविनाभावसिद्ध्यर्थं नन्विदं वर्ण्यते त्रयम्॥
त्रिष्वेव त्वविनाभावाद्भद्रं तैरपि कीर्तितम्॥७४२॥

तदवैयर्थ्यं शङ्कते। अविनाभावेति। अविनाभूतं हि गमकं स्वभावादि चाविनाभावसिद्ध्यर्थमिष्टं तन्न व्यर्थमित्यर्थः। स्वभावादेरविनाभावसाधकत्वं बौद्धैरपि व्याख्यातमित्याह। त्रिष्वेवेति। यत्र स्वभावाद्यस्ति तत्राविनाभावो यथा शिंशपावृक्षादिष्वतःस्वभावाद्यविनाभावद्वाराऽनुमित्यङ्गत्वादर्थवदिति तैरुक्तम्। यथाऽऽह कीर्तिः—

“पक्षधर्मस्तदंशेन व्याप्तो हेतुस्त्रिधैव सः।
अविनाभावनियमाद्धेत्वाभासस्ततोऽपरः” इति।

तदादेयं स्वभावादीत्यर्थः॥७४२॥

स्वभावादविनाभावे स्यादौष्ण्यस्याग्निलिङ्गता॥
स्वभावो603ऽथाविनाभावात्कार्ये प्राप्ता स्वभावता॥७४३॥

कथं स्वभावस्याविनाभावार्थत्वं किं स्वभावस्याविनाभूतत्वं किंवाऽविनाभूतस्य स्वभावत्वं तत्राऽऽद्ये दोषमाह। स्वभावादिति। वृक्षोऽयं शिंशपात्वादितिवदग्निरयमौष्ण्यादित्यपि स्यान्न च तस्याग्निगमकत्वं व्याप्यव्यापकभावाभावे गम्यगमकत्वाभावाद्व्याप्यस्य गमकत्वं च व्यापकं गम्यमिष्यत इति न्यायादित्यर्थः। द्वितीयमनूद्य दूषयति। स्वभाव इति। अविनाभूतस्य स्वभावत्वं चेदग्निरत्र धूमादित्यत्रापि स्वभावत्वमविनाभूतत्वाद्भवेत्तत्र द्वौ वस्तुसाधनावेकः प्रतिषेधहेतुरितिस्थितिहतिरित्यर्थः॥७४३॥

औष्ण्यस्वभावो दृष्टोऽग्निस्तस्यान्यत्राऽपि दर्शनात्॥
क्षितितोयाग्निमरुतां दृष्टा स्पर्शस्वभावता॥७४४॥

यदाद्येऽग्निलिङ्गत्वमौष्ण्यस्योक्तं तदिष्टमेव न चैकत्र गम्यगमकत्वायोगः सर्व एवायमनुमानानुमेयव्यवहारो बुद्ध्यारूढेन धर्मधर्मिभेदेनेत्युक्तत्वादित्याशङ्क्याऽऽह।औष्ण्येति। यद्यप्यग्निरौष्ण्यस्वभावो दृष्टस्तथाऽपि न तस्य तेनाविनाभूतत्वमादित्यादावपि दृष्टत्वादतः स्वभावस्य नाविनाभूतत्वं न च बुद्ध्यारूढेन धर्मधर्मिभेदेनानु-मानानुमेयव्यवहारो गम्यगमकत्वयोः साध्यसाधननिष्ठयोरबाध्यत्वान्न च व्यवस्थया बुद्धावारोहादयमदोषो व्यवस्थापक-दोषस्यापि बुद्ध्यारूढस्य तदनति604रिक्तस्य तथैव व्यवस्थापकत्वायोगादित्यर्थः। इतश्च न स्वभावस्याविनाभूततेत्याह। क्षितीति। वायुस्वभावस्यापिस्पर्शस्यान्यत्र दृष्टेर्न तस्याविनाभूततेत्यर्थः॥७४४॥

मतं चेदस्वभावोऽसौ यो नैकार्थप्रवृत्तिमान्॥
धवादावपि तद्वृत्तेर्वृक्षात्मा शिंशपा न हि॥७४५॥

औष्ण्यादिर्न स्वभावोऽनेकवृत्तित्वात्संयोगवदिति शङ्कते। मतामिति। वृक्षत्वं शिशपायाः स्वभावस्त्वयोच्यते वृक्षोऽयं शिंशपात्वादिति स्वभावहेतोरुदाहरणात्तच्च वृक्षत्वं धवखदिरादिष्वपि वर्तते तथाच शिंशपाया वृक्षत्वं स्वभावो न स्यादिति दूषयति।धवादाविति॥७४५॥

शिंशपा वृक्ष एवेति ह्यविनाभावकारणात्॥
क्षणिकत्वं न भावानां स्वभावः स्यात्तथा सति॥७४६॥

अनेकवृत्तित्वं नास्वभावत्वे हेतुर्वृक्षत्वे व्यभिचारादित्ययुक्तं605 तत्र साध्यस्यापि हेतुवद्भावादित्याशङ्क्याऽऽह। शिंशपेति। वृक्षस्वभाव एव शिंशपेति त्वयेप्यते यत्र शिंशपात्वं तत्र वृक्षत्वमित्यविनाभावकारणत्वेन स्वभावस्येष्टत्वादतः शिंशपाया न स्वभावोवृक्षतेति वदतः स्वमतहानिरित्यर्थः। शिंशपायाः स्वभावो वृक्षतेत्यत्र परपरिग्रहपरि-

द्योती हिशब्दः। अनेकवृत्तित्वहेतोर्व्यभिचारान्तरमाह। क्षणिकत्वमिति। तथा सत्यनेकवृत्तेरनेकस्वभावत्वे सतीति यावत्॥७४१॥

तस्यानेकार्थशायित्वादहेतुत्वं प्रसज्यते॥७४७॥

क्षणिकत्वं यदैकस्य तदाऽसाधारणात्मता॥
हेतोः साधारणात्मत्वं यदाऽनेकस्य तन्मतम्॥७४८॥

तस्यास्वभावत्वापत्तौ हेतुमाह। तस्येति। न च तस्यास्वभावत्वमेव भावानां स्थायित्वस्वाभाव्यापत्त्या राद्धान्तविरोधादित्यवधेयम्। क्षणिकत्वस्य स्वभावत्वेनेष्टस्यानेकवृत्तित्वमसिद्धमिति कुतो व्यभिचारस्तत्राऽऽह। अहेतुत्वमिति। अनेकवृत्तित्वाभावेतस्याहेतुत्वप्रसङ्गं प्रकटयति। क्षणिकत्वमिति। विमतं न सुखं क्षणिकत्वाद्दुःखवदित्यत्र क्षणिकत्वमेकस्यैवानेकस्य वा नाऽऽद्यः सति सपक्षे तदप्रवेशादसाधारणत्वापत्तेर्द्वितीये प्रकृतहेतोरनैकान्तिकतेत्यर्थः॥७४७॥७४८॥

अग्नेर्धूमाच्च धूमस्य कार्यत्वस्य समीक्षणात्॥
अनैकान्तिकता हेतोः कार्यत्वस्येह सज्जते606॥७४९॥

स्वभावस्य गमकत्वं निरस्य कार्यस्य तन्निरस्यति। अग्नेरिति। धूमस्य कार्यत्वमग्निकृतं पूर्वधूमक्षणकृतं च दृष्टं पूर्वोत्तरक्षणानां हेतुफलभावोपगमादतो धूमादत्राग्निरितिन शक्यमनुमातुं कार्यत्वस्य धूमाग्न्यविनाभावहेतोर्व्यभिचारित्वान्न हि धूमाम्न्योरन्वयव्यतिरेकौ धूमादपि परस्य तत्सिद्धेरित्यर्थः। धूमलिङ्गकानुमानमिहेत्युक्तम्॥७४९॥

यदि नाम सदा स्पर्शो वाय्वादावपि वर्तते॥७५०॥

नैतावता भवेल्लोके गौरस्पर्शस्वभाविका॥
भुवो हि स्पर्शवत्त्वस्य लोकेऽस्मिन्सुप्रसिद्धितः॥७५१॥

द्वयोर्गमकत्वं निराकृत्य स्वभावपक्षे दोषान्तरं वक्तुमुक्तमनुवदति। यदीति। न हिस्वभावस्याविनाभूतत्वं नियतं क्षितिस्वभावस्यापि स्पर्शस्य पवनपाथस्तेजःसु दृष्टेरित्यर्थः। गौः पृथिवी तस्याः स्वाभाविकः स्पर्श इत्यत्र हेतुमाह। भुवो हीति॥७५०॥७५१॥

किंचाप्यव्यभिचारेण स्वभावत्वं विवक्षतः607
स्वभावान्नैव संसिध्येद्वस्तुनोऽव्यभिचारिता॥७५२॥

स्वभावस्याविनाभूतत्वे दोषमुक्तमनुभाष्याविनाभूतस्य स्वभावत्वे कार्यस्यापि स्वभावस्वापत्तिरित्येतदेव न दूषणं किंत्वन्यदप्यस्तीत्याह। किंचेति। दूषणान्तरं स्फुटयति। स्वभावादिति। अविनाभूतत्वात्स्वभावत्वं चेत्स्वभावादप्यविनाभूतत्वं वस्तुनो न सिध्यतीति यावत्॥७५२॥

त्रिष्वेव त्वविनाभावादिति यद्धर्मकीर्तिना॥
प्रत्यज्ञायि प्रतिज्ञेयं हीयेतासौ न संशयः॥७५३॥

मा भूदविनाभावः स्वभावाधीनः का हानिस्तत्राऽऽह। त्रिष्वेवेति। तदधीनाविनाभावानुपगमे त्रिष्वेव त्वविनाभावात्त्रिविधो हेतुरिति च प्रतिज्ञाहानिरित्यर्थः॥७१३॥

तथैवाव्यभिचारेण स्वभावत्वं विवक्षतः॥
पुरैवाव्यभिचारस्य संसिद्धेः किं ततोऽपरम्॥
स्वभावहेतुना साध्यं वद यत्ते विवक्षितम्॥७५४॥

अविनाभूतत्वाधीनं स्वभावत्वमित्यत्र दोषान्तरमाह। तथेति। स्वभावादविनाभावासिद्धौ प्रतिज्ञाहानिवदिति यावत्। स्वभावहेतुना तावदव्यभिचारः साध्यते तेनैव स्वभावत्वं साधयतस्तत्सिद्धेः पूर्वमेवाव्यभिचारस्य सिद्धत्वान्न स्वभावहेतुना साध्यं किंचिदस्ति तन्नाविनाभूतत्वाधीना स्वभावतेत्यर्थः॥७५४॥

अग्नेश्चाव्यभिचारित्वात्कार्यस्यापि स्वभावता॥
धूमस्याऽऽप्नोति भेदो वा द्वयोर्हेत्वोर्निवर्तते॥७५५॥

अविनाभूतत्वात्स्वभावतेत्यत्रैवोक्तदोषानुवादपूर्वकं फलितं दोषान्तरमाह। अग्नेश्चेति। यद्यव्यभिचारेण स्वभावः साध्यते वृक्षोऽयं शिशपात्वादिति तदा धूमस्याग्निकार्यस्यापितत्स्वभावता स्यादव्यभिचारस्य सत्त्वात्। यथाऽऽह— कार्यस्यापि स्वभावप्रतिबन्धेतत्स्वभावस्य तदुत्पत्तेरिति। ततश्च स्वभावकार्यहेत्वोर्भेदध्वस्तेस्त्रिष्वितिप्रतिज्ञायोगात्तएते कार्यस्वभावानुपलब्धिलक्षणास्त्रयो हेतव इति कथा वृथेत्यर्थः। वाशब्दश्चार्थः॥७५५॥

कार्यत्वेऽपि च धूमादेर्नर्सोऽशोऽनुमितौ मतः608
व्यभिचाराच्छराच्छृङ्गाच्छरस्योत्पत्तिरीक्ष्यते॥७५६॥

स्वभावस्यागमकत्वं विशेषतो दर्शयित्वा कार्यस्यागमकत्वे हेत्वन्तरमाह। कार्यत्वेऽपीति। धूमादेरग्न्यादिकार्यत्वेऽपि कार्यत्वाकारो नाग्न्याद्यनुमितावुपयुज्यते तस्यनियतेन कारणाकारेण व्याप्त्यभावादित्यर्थः। तं दृष्टान्ते निवेशयति। शरादिति।पूर्वापरीभूतशरक्षणानां मिथोहेतुफलभावाभ्युपगमाद्गवादिशृङ्गाच्चविपिनविपतितात्पृथिवीपाथस्तेजः-श्वसनादिसहकृतात्तदुत्पत्तेर्दृष्टत्वादेवेष्टत्वान्न कार्याकारस्य कारणाकारेणनियमस्तथाच न तस्य गमकतेत्यर्थः॥७५६॥

कार्यत्वान्नैव धूमादिरेति निश्वयहेतुताम्॥
व्यभिचारहेत्वसद्भावादग्नेर्हेतुत्वमेत्यसौ॥७५७॥

कार्यस्यागमकत्वे कथं धूमादिनाऽग्न्याद्यनुमानं तत्राऽऽह। कार्यत्वादिति

अग्न्यादेरिति शेषः। कथं तर्हि धूमोऽग्निं गमयति तत्राऽऽह। व्यभिचारेति।अव्यभिचारसंबन्धादेव धूमोऽग्नेर्गमको न कार्यत्वादित्यर्थः॥७५७॥

अनेककारणं कार्यं यस्मादृष्टं शरादिकम्॥
तस्मादव्यभिचारेण कार्यमप्येति हेतुताम्॥७५८॥

धूमे कार्यत्वमव्यभिचारश्चास्ति तत्र कथं प्रयोजकनिश्चयस्तत्राऽऽह। अनेकेति।कार्यस्य कारणमात्रगमकत्वेन609 तद्विशेषागमकत्वं तद्विशेषात्तद्विशेषधीस्तु न कार्यत्वकृताकिंत्वव्यभिचाराधीना तन्मात्रात्तन्मात्रधीरपि तथैवेति भावः॥७५८॥

अपेक्षाऽप्यत्र लिङ्गोक्तेः कार्यादौ नैव जायते॥
अकार्यश्चास्वभावश्च नालिङ्गं कृत्तिकोदयः॥७५९॥

स्वभावकार्ययोरगमकत्वे हेत्वन्तरमाह। अपेक्षेति। अयं कृत्तिकोदयो रोहिण्युदयप्रत्यासन्नः कृत्तिकोदयत्वात्पूर्वानु-भूतकृत्तिकोदयवदित्यत्र स्वभावाद्यपेक्षा नास्तीत्यत्रहेतुमाह। अकार्यश्चेति। रोहिण्युदयप्रत्यासत्तेरिति शेषः। कार्यत्वाद्यभावेऽपि तस्यगमकत्वदृष्टेरित्यर्थः॥७५९॥

कृत्तिकात्वादिति ह्युक्तेर्नैव कार्यस्वभावयोः॥
अपेक्षा जायते किंतु ह्यन्वयेतरमात्रतः॥७६०॥

यथोक्तहेतोः स्वभावाद्यपेक्षाभावे कुत्रापेक्षा तत्राऽऽह। कृत्तिकात्वादितीति। तसिःसप्तम्यर्थे। द्वाभ्यां हिशब्दाभ्यामुक्तेऽर्थे लौकिकपरीक्षकसंप्रतिपत्तिर्द्योत्यते॥७६०॥

अकार्यत्वास्वभावत्वादविनाभावमात्रतः॥
उदयः कार्तिको लिङ्गं प्रत्यासत्तेर्भवेद्ध्रुवम्॥७६१॥

रौहिणस्योदयस्यातो न स्वभावाद्यपेक्षते॥
यतोऽतो न स्वभावादेर्हेतुत्वमुपपद्यते॥७६२॥

स्वभावादावपेक्षाभावे हेतुः। अकार्यत्वेति। रोहिण्युदयं प्रति कृत्तिकोदयस्यस्वभावत्वाद्यभावे कुतो गमकत्वं तत्राऽऽह। अविनाभावेति। कृत्तिकोदय610स्याव्यभिचारादेव रोहिण्युदयप्रत्यासत्तिलिङ्गत्वे फलितमाह। अत इति। कृत्तिकोदयेन रोहिण्युदय प्रत्यासत्त्यनुमाने स्वभावादेर्मा भूद्गमकत्वं शिंशपात्वादिना वृक्षत्वाद्यनुमाने तुभविष्यत्यत आह। यत इति। स्वभावादेर्गमकत्वं क्वचिद्व्यभिचारि चेन्नान्यत्र तत्कल्पनाहेतुस्तत्राप्यव्यभिचारादेव साध्यसिद्धेरिति भावः॥७६१॥ ७६२॥

नाऽऽत्मनि स्यात्स्वशब्दोऽत्र विरुद्धा स्वात्मनि क्रिया॥
कार्यस्यापि स्वभावत्वं भवेदात्मीयवाचके॥७६३॥

किंच स्वभावस्य गमकत्वे स्वशब्दस्याऽऽत्मवाचित्वमात्मीयवाचित्यं वेति विकल्प्याऽऽद्येदोषमाह। नाऽऽत्मनीति। स्वभावो गमक इत्यत्र स्वशब्दस्तावदात्मनि गम्यस्वरूपे न युक्तः स्वात्मनि क्रियाविरोधात्। उक्तं हि—

“स एव चोभयात्माऽयं गम्यो गमक एव च।
असिद्धेनैकदेशेन गम्यः सिद्धेन बोधकः” इति॥

न चैकस्मिन्नेव ज्ञानादौ निरंशे सिद्धत्वं साध्यत्वं च विरुद्धं सिध्यति तस्मादाद्यानुपपत्तिरित्यर्थः। द्वितीयमनूद्य दूषयति। कार्यस्येति। आत्मीयवाचके स्वशब्दे धूमस्यापि स्वभावत्वं स्याद्व्यापकाग्निसंबन्धित्वात्। यथाऽऽहुः—

“न ह्यन्यथा भवत्येषा व्याप्यव्यापकता तयोः” इति।

तथाच सैव प्रतिज्ञाहानिरित्यर्थः॥७६३॥

किमात्मैव स्वशब्देन किं वेहाऽऽत्मीय उच्यते॥
स्वभाव आत्मनो भाव इति चेद्भवतो मतम्॥७६४॥

स्वभावे दोषान्तरं वक्तुमुक्तं कल्पद्वयमनुभाषते। किमात्मेति। स्वभावो गमकइति वाक्यमिहशब्दार्थः। द्वितीयं स्फुटयति। स्वभाव इति। आत्मनो व्यापकस्यस्वकीयो व्याप्यो भावः स्वभाव इति ते मतं चेदिति यावत्॥७६४॥

स्व एवाऽऽत्मा स्वभावश्चेत्तदाऽन्यस्य ह्यसंभवात्॥
व्यतिरिक्तस्य मेयस्य स्यादात्मैवाऽऽत्मनोऽनुमा॥
तथाच पक्षहेत्वादेरनन्यत्वं प्रसज्यते॥७६५॥

आद्यं स्पष्टयति। स्व एवेति। गम्यस्वरूपमेव गमकमित्यत्रोक्तं दोषमनुद्रवति611तदेति। तस्य प्रागुक्तत्वप्रकटीकरणार्थो हिशब्दः। तत्रैव दोषान्तरमाह। तथाचेति। गमकस्य गम्यमात्रत्वे पक्षादेरपि गमकान्तर्भूतस्य गम्याभिन्नत्वादनुमानाप्रवृत्तिस्ततश्च पक्षधर्मस्तदंशेन व्याप्तो हेतुरिति व्यर्थं स्यादित्यर्थः॥७६५॥

अथ स्वस्य स्वभावश्चेदात्मीयोऽर्थो विवक्षितः612
आत्मीयः शिखिनो धूमस्तस्यापि स्यात्स्वभावता॥७६६॥

कल्पान्तरमनुवदति। अथेति। स्वस्य भावः स्वभाव इति व्युत्पत्त्या स्वशब्देनगम्यसंबन्धी गमकोऽर्थो विवक्षितश्चेदिति यावत्। तत्रोक्तमेव दोषमाह। आत्मीयइति। तथाच स्वभावकार्ययोर्भेदासिद्धौ गमकत्रैविध्यासिद्धिरिति शेषः॥७६६॥

संवित्तिभावयोर्भेदो यथैवं तदभावयोः॥
न भेदोऽनुपलब्धिर्वो नातो लिङ्गं कथंचन॥७६७॥

स्वभावकार्ययोर्गमकत्वं निरस्यानुपलब्धेस्तन्निरस्यति। संवित्तीति। यथा त्वन्मते

संवित्संवेद्ययोर्न भेदो गम्यते सत्त्वमुपलब्धिरेव वस्तुयोग्यतालक्षणेति स्थितेस्तथा तदभावयोरपि न भेदः सिध्यति प्रतियोगिभेदं विनाऽभावभेदाभावादतो युष्मत्पक्षे संविदभावोन संवेद्याभावे लिङ्गमेकस्मिन्नेव लिङ्गलिङ्गित्वायोगात्तथाच प्रदेशविशेषे क्वचिन्न घटउपलब्धिलक्षणप्राप्तस्यानुपलब्धेरिति प्रमत्तगीतमिति भावः॥७६७॥

एवं लौकिकतादात्म्यतदुत्पत्ती प्रतीरितम्॥
अथ स्वप्रक्रियाक्लृप्तं स्वभावादि परीक्ष्यते॥७६८॥

गमकत्रयमप्रामाणिकमिति प्रतिपाद्य वृत्तवर्तिष्यमाणयोरपुनरुक्ततायै वृत्तं कीर्तयति। एवमिति। लोकसिद्धे तादात्म्यतदुत्पत्ती स्वभावकार्यते। **यथाऽऽह—**स्वभावप्रतिबन्धेहि सत्यर्थोऽर्थं न व्यभिचरति स च तदात्मत्वादिति। कार्यस्यापि स्वभावः प्रतिबन्धस्तत्स्वभावस्य तदुत्पत्तेरिति च। ते प्रत्युक्तरीत्या तावदुक्तं तयोरनुपलब्धिसहितयोर्गमकत्वं नास्तीति साधितमिति यावत्। उत्तरसंदर्भस्य तात्पर्यमाह। अथेति। स्वभावस्तादात्म्यं शिंशपावृक्षत्वं कार्यमग्निक्षणादुत्पद्यमानो धूमक्षणोऽनुपलब्धिरुपलब्धिलक्षणप्राप्तस्यासत्त्वं सा चाष्टधा त्रिधेति वोच्यते613। एवं बौद्धप्रक्रियासिद्धस्वभावाद्यप्यगमकमिति निरूप्यतेऽनन्तरसंदर्भेणेत्यर्थः। द्वेधाहि तस्य प्रक्रियाऽन्यापोहस्य गम्यत्वं गमकत्वं चेत्येका। यथाऽऽह—

“तस्मादपोहविषयमिति लिङ्गं प्रकीर्तितम्।
अन्यथा धर्मिणः सिद्धावसिद्धं किमतः परम्” इति॥

तद्विशिष्टस्य तथात्वमित्यन्या। उक्तं हि

“तद्व्यवच्छेदविषयं सिद्धं तद्वत्ततोऽपरम्” इति॥
“तत्रापि चान्या व्यावृत्तिरन्यो व्यावृत्त इत्यपि।
शब्दाश्च निश्चयाश्चैव614 संकेतमनुरुन्धते” इति च॥७६८॥

अन्यापोहनपक्षेऽपि शब्दव्यावृत्तिभेदतः॥
न हेतोः स्यात्स्वभावत्वं क्रियात्वं च न विद्यते॥७६९॥

तत्राऽऽद्यां संक्षेपतोऽनुवदति। अन्येति। अशिंशपाव्यावृत्तिः शिंशपाशब्दार्थभूता व्याप्याऽवृक्षव्यावृत्तिर्वृक्षशब्दवाच्या व्यापिकेति ते मतमित्यर्थः। तत्रापि स्वभावादेर्न गमकत्वमित्याह। शब्देति। शिंशपाशब्दार्थाशिंशपाव्यावृत्तेर्वृक्ष-शब्दार्थावृक्षव्यावृत्तेश्च मिथो भेदादशिंशपाख्यापोहस्य हेतुत्वेनेष्टस्य हेतुमत्त्वेनेष्टावृक्षापोहस्य च न स्वभावत्वं नापि कार्यत्वं न हि मिथो भिन्नयोर्घटपटयोः स्वभावत्वं कार्यत्वंवाऽस्ति तेनात्यन्तभिन्नयोरुक्तापोहयोः स्वभावत्वाद्यभावेऽपि गम्यगमकत्वोपगमादनुपलब्धेश्चतत्रानिष्टेः स्वभावादेर्गमकत्वे615 व्यभिचार इत्यर्थः॥७६९॥

वृक्षोऽयं शिंशपेत्यत्र त्ववृक्षार्थविविक्तकम्॥
वृक्षव्यक्तिषु सर्वत्र रूपमस्ति किलेदृशम्॥
अशिंशपाविविक्तं च तद्वदेवाभिधीयते॥७७०॥

अन्यापोहनपक्षेऽपीति संक्षिप्तं पक्षं प्रपञ्चयितुमादावविगीतमर्थमाह। वृक्षोऽयमिति।वृक्षो धवो वृक्षः खदिरो वृक्षः शिंशपेत्येवं प्रयोगे वृक्षव्यक्तित्वेनेष्टधवादिषु सर्वेष्ववृक्षार्थाद्घटादेर्व्यावृत्त्यात्मकं रूपमन्यापोह-लक्षणमस्तीत्यविवादमावयोरित्यर्थः। कः स्वार्थे। भावे निष्ठा। किलशब्दः संप्रतिपत्तिद्योतनार्थः। संप्रतिपन्नमर्थान्तरमाह। अशिंशपेति।वृक्षः शिंशपेत्यस्मिन्प्रयोगे शिंशपाव्यक्तिष्वशिंशपापोहात्मकं रूपं शिंशपाशब्देनोच्यतेवृक्षशब्देन वृक्षव्यक्तिष्ववृक्षापोहोक्तिवदित्येतदपि संमतमित्यर्थः। निष्ठा पूर्ववत्॥७७०॥

तत्रावृक्षविविक्तेऽर्थे संकेतो वृक्षसंज्ञया॥
अशिंशपाविविक्ते च संकेतः शिंशपेति च॥७७१॥

अविगीतमुक्त्वा फलितमाह। तत्रेति। अवृक्षव्यावृत्तिरशिंशपाव्यावृत्तिश्चेत्यनयोर्मध्ये या तावदवृक्षव्यावृत्तिस्तत्र वृक्षसंज्ञया संकेतो गृह्यते। अशिंशपाव्यावृत्तौचशिंशपेति संज्ञया तद्ग्रहः शब्दप्रवृत्तिभेदस्तु संकेतादित्युक्तेरित्यर्थः। एकश्चकारः समुच्चये द्वितीयोऽवधारणे॥७७१॥

वृक्षोऽयं शिंशपेयं च भवेद्व्यवहृतिस्ततः॥
शब्दार्थारोपणेनैव सविकल्पधियो जनिः॥७७२॥

संकेतग्रहफलमाह। वृक्षोऽयमिति। ततः संकेतग्रहादिति यावत्। **यथाऽऽह—**ते यथा व्यतिरिक्तेऽव्यतिरिक्ते वा प्रयोक्तुमिष्यन्ते तथा नियुक्तास्तमर्थमप्रतिबन्धेनप्रकाशयन्तीति। सविकल्पकप्रत्यक्षादेवायं व्यवहारो विना संबन्धग्रहादिति चेत्तत्राऽऽह। शब्देति। शब्दार्थयोरारोपणं संबन्धज्ञानं तेनैव सर्वत्र सविकल्पकोत्पत्तिर्नह्यगृहीतसंबन्धस्य वृक्षोऽयमित्यादिसविकल्पकधीरतः संबन्धज्ञानमर्थवदित्यर्थः॥७७२॥

शब्दार्थापोहयोर्लिङ्गे ज्ञेया गमकगम्यता॥
स्वभावकार्ये लिङ्गे स्तः स्वाभाव्यादि च लिङ्ग्यते॥७७३॥

तथाऽपि कथं प्रकृतयोरपोहयोर्गम्यगमकत्वं तत्राऽऽह। शब्दार्थेति। शिंशपावृक्षशब्दार्थयोरपोहयोर्मध्ये शिंशपाशब्दार्थेनाशिंशपापोहेन वृक्षशब्दार्थस्यावृक्षापोहस्यलिङ्गशब्दितेऽनुमाने विवक्षिते सत्यशिंशपापोहस्य गमकत्वमवृक्षापोहस्य च गम्यत्वंज्ञेयमित्यर्थः। तथाऽपि कथं स्वभावादेर्गमकत्वं तत्राऽऽह। स्वभावेति। न हि शिंशपाव्यक्ताववृक्षव्यावृत्तेरशिंशपाव्यावृत्तिरतिरिच्यतेऽधूमव्यावृत्तिश्चानग्निव्यावृत्तेर्जायतेतेनस्वभावकार्ये लिङ्गे युज्येते स्वाभाव्यं कारणं च गम्यमित्यस्मन्मतस्थितिरित्यर्थः॥७७३॥

न तत्र तावद्विज्ञानं तद्ग्राह्येऽस्तीह वस्तुनि॥
स्वभावो वाऽथवा कार्यं विकल्पोऽयं मतो यतः॥७७४॥

शब्दव्यावृत्तिभेदत इत्यादिसिद्धान्तं प्रपञ्चयितुं प्रक्रमते। न तत्रेति। तत्र वस्तुनिस्वाभाव्यादौ ताभ्यां स्वभावकार्याभ्यां ग्राह्यत्वेनेष्टे ततो ज्ञानं नोत्पद्यते तस्मादिहस्वभावादेर्गमकत्वं व्यभिचरतीत्यर्थः। क616थं तत्र स्वभावादेर्ज्ञानं न भवति तत्राऽऽह।स्वभावो वेति। तयोरपोहत्वे विकल्पमात्रत्वेनावस्तुत्वान्न गमकतेत्यर्थः॥७७४॥

न वस्तुस्पृग्विकल्पत्वाच्छब्दालम्बनमात्रतः॥
शब्दाः सन्तः कथं तेऽर्था ह्यर्हन्ति भवितुं क्वचित्॥७७५॥

अशिंशपापोहादेर्विकल्पत्वेऽपि वस्तुस्पर्शितया गमकत्वमिति नेत्याह। न वस्त्विति।न तावदशिंशपापोहः स्वयं वस्तु नापि वस्तु स्पृशति विकल्पत्वेन शब्दमात्रालम्बनत्वादतः शिंशपादिशब्दार्थाशिंशपादिव्यावृत्तेरसत्त्वादशिंशपाद्यपोहाः शिंशपादिशब्दमात्रतया स्थिताः सन्तो न तदर्था भवितुमर्हन्ति तत्कुतस्तेषु गम्यगमकत्वाशेत्यर्थः। शब्दज्ञानानु-पातीत्यादियोगसूत्रेऽपि विकल्पस्य वस्तुसंस्पर्शित्वं नास्तीति प्रसिद्धमितिहिशब्दार्थः॥ ७७५॥

स्वभावकार्यतासिद्धिरनुमानसमाश्रयात्॥
ताभ्यां चाप्यनुमासिद्धिरेवमन्योन्यसंश्रयः617॥७७६॥

किंचाशिंशपाद्यपोहस्ते प्रत्यक्षोऽनुमेयो वा नाऽऽद्योऽवृक्षाद्यपोहस्यापि तत्सिद्धेरनुभा618वैयर्थ्यान्न द्वितीय इत्याह। स्वभावेति। अशिंशपाद्यपोहात्मिकायाः स्वभावतायाःकार्यतायाश्च सिद्धिरनुमानाच्चेदितरेतराश्रयताऽनुमानात्स्वभावादिसिद्धिस्ततश्चानुमानसिद्धिरितितन्नाशिंशपाद्यपोहानुमेयतेत्यर्थः॥७७६॥

अशिंशपानिवृत्तिर्हि न स्वभावो भवेद्यतः॥
अवृक्षापोहरूपस्य तयोरत्यन्तभेदतः॥७७७॥

स्वभावादेरगमकत्वे हेत्वन्तरमाह। अशिंशपेति। स्वभावपदं कार्योपलक्षणार्थम्।अतो न स्वभावादेर्गमकता तदभावेऽपि गम्यगमकत्वोपगतेरिति शेषः। उक्तापोहयोकार्यत्वास्वभावत्वे हिशब्दोपात्तं हेतुमाह। तयोरिति॥७७७॥

अप्यधूमनिवृत्तिश्चानग्निव्यावृत्तिरूपिणः॥
न कार्यं स्यात्स्वभावो वा तयोरत्यन्तभेदतः॥
तद्व्यक्तेरग्निकार्यत्वान्न सा कार्यं भवेदतः619॥७७८॥

इतश्च स्वभावादेर्न गमकतेत्याह। अपीति। चकारोऽवधारणार्थो न युज्यते।तत्र प्रागुक्तमेव हेतुं स्मारयति। तयोरिति। अधूमव्यावृत्तेरनग्निव्यावृत्तिकार्यत्वाभावे

हेत्वन्तरमाह। तद्व्यक्तेरिति। धूमव्यक्तेरग्निव्यक्तिकार्यत्वादधूमव्यावृत्तिरनग्निव्यावृत्तिकार्यं न भवति न हि तयोरेवातद्व्यावृत्तित्वंकल्पनागौरवादतद्व्यावृत्तिपदवैयर्थ्यापत्तेस्ततोऽधूमापोहस्यानग्न्यपोहस्य चाकार्यकारणत्वे गम्यगमकत्वाङ्गीकारात्कार्यस्य गमकत्वव्यभिचार इत्यर्थः॥७७८॥

अथान्यापोहवद्वस्तु गम्यं गमकमेव च॥
वक्तव्यं तत्र किं मानमदृष्टौ न त्रिरूपता॥७७९॥

अन्यापोहस्य गम्यत्वं गमकत्वं चेति प्रक्रियां प्रतिषिध्य तद्वतस्तथात्वमिति प्रक्रियान्तरमाह। अथेति। तत्प्रत्याचष्टे। वक्तव्यमिति। अपोहवद्वस्तुनो गमकत्वेतस्मिन्किं मानमिति पृष्टे त्वया वाच्यं मानेन गमकस्यादृष्टौ तस्य पक्षधर्मत्वं सपक्षेसत्त्वं विपक्षाद्व्यावृत्तिरितित्रिरूपतासिद्धिरनुमानं हि त्रिरूपाल्लिङ्गतोऽर्थज्ञानार्थमितिस्थितं न हि धर्मिण्यप्रमिते धर्मप्रमितिः। तथाच—

“हेतोस्त्रिष्वपि रूपेषु निश्चयस्तेन वर्णितः।
असिद्धविपरीतार्थव्यभिचारिविपक्षतः”॥

इत्युपेक्षितमिति भावः॥७७९॥

अशिंशपानिवृत्त्यात्मरूपं वस्त्वेव चेन्मतम्॥
अवृक्षापोहरूपं च तयोर्गमकगम्यता॥७८०॥

अन्यापोहवदिति पक्षं प्रपञ्चयन्गम्यगमकस्वभावं तावदाह। अशिंशपेति। अशिंशपानिवृत्तिरूपविशिष्टं रूपं शिंशपावस्त्वेव गमकमिष्टमवृक्षापोहरूपविशिष्टं रूपं वृक्षवस्त्वेव गम्यं च तयोरेवमपोहवतोः शिंशपावृक्षयोर्यथाक्रमं गमकता गम्यता चेति मतंचेदित्यर्थः॥७८०॥

अशिंशपानिवृत्यात्म स्वभावाद्गमकं भवेत्॥
अवृक्षात्मनिवृत्त्यात्म गम्यं च स्यात्तदेव तु॥७८१॥

कथमनयोः स्वभावादि विना गमकत्वादिस्वीकारोऽन्यथेष्टप्रयोजकव्यभिचारस्तत्राऽऽह। अशिंशपानिवृत्तीति। अशिंशपातो निवृत्तिविशिष्टशिंशपात्मनो वृक्षस्वभावत्वादपोहविशिष्टं शिंशपावस्तु वृक्षस्य गमकमवृक्षरूपतो व्यावृत्तिविशिष्टवृक्षात्मनातदेव शिशपात्मकं वस्तु गम्यं च तत्स्वभावादपोहवतोर्वृक्षशिंशपावस्तुनोर्गम्यगमकत्वान्न प्रयोजकव्यभिचार इत्यर्थः॥७८१॥

स्वपक्षसिद्धयेऽप्येवं क्लिश्यतोऽपि न सिध्यति॥
पक्षोऽयं बुद्धभक्तस्य यथा तदभिधीयते॥७८२॥

वक्तव्यं तत्रेत्यादिनोक्तं सिद्धान्तं प्रकटयति। स्वपक्षेति। अशिंशपाव्यावृत्तिमतःशिंशपाशब्दार्थस्य गमकत्वमवृक्ष-व्यावृत्तिमतो वृक्षशब्दार्थस्य गम्यतेतिबौद्धसिद्धान्त-

सिद्ध्यर्थमुक्तरीत्या यतमानस्यापि बुद्धस्निग्धस्य तवायं पक्षो यथा न सिध्यति तथातत्सर्वमस्माभिरुच्यत इति योजना॥७८२॥

अशिंशपानिवृत्तिर्वः कुतोऽज्ञायि प्रमाणतः॥७८३॥

प्रत्यक्षेण न तावत्सा तस्य सद्वस्तुमानतः॥
लिङ्गान्तरस्य चाभावान्नापि लिङ्गात्प्रसिध्यति॥७८४॥

प्रतिज्ञातं प्रकटयितुं विकल्पयति। अशिंशपेति। सा खल्वपोहवादे गमककोटिनिविष्टा द्रष्टव्या सा कुतो मानतो ज्ञाता किं प्रत्यक्षादुत लिङ्गादाहो शब्दादथानुपलव्धेरिति विकल्पार्थः। आद्यं दूषयति। प्रत्यक्षेणेति। सा प्रकृताऽशिंशपा-निवृत्तिर्ज्ञातेति शेषः। प्रत्यक्षस्य विद्यमानोपलम्भनत्वं प्रत्यक्षसूत्रे स्थितमिति मत्वाऽऽह।तस्येति। द्वितीयं दूषयति। लिङ्गान्तरस्येति। अशिंशपानिवृत्तिविशिष्टशिंशपावस्तुनस्त्वया गमकत्वाङ्गीकारादशिंशपानिवृत्तेरपि गमककोटि-निवेशात्तल्लिङ्गत्वेनेष्टं यल्लिङ्गान्तरं तस्याशिंशपाव्यावृत्तिव्याप्तस्याभावादनुमानायोगान्न ततोऽपि सा सिध्यतीत्यर्थः॥७८३॥७८४॥

उपलप्स्यामहे शब्दादेवैनामिति चेन्मतम्॥
अनादिमह्व्यवहृतेः संबन्धस्य च सिद्धितः॥७८५॥

किंमानपूर्वकोऽस्यार्थ620संबन्ध इति नोच्यते॥
सिध्यत्येवं भवत्पक्षो दोषोऽपि स्यादनीप्सितः॥७८६॥

तृतीयमनुवदति। उपलप्स्यामह इति। शब्दाच्छिंशपाशब्दादिति यावत्। एनामशिंशपाव्यावृत्तिमित्यर्थः। शिंशपा-शब्दादशिंशपाव्यावृत्तिर्ज्ञायते चेत्तस्यार्थेन संबन्धोग्राह्योऽगृहीतसंबन्धस्य शब्दस्याबोधकत्वान्न चाज्ञाते संबन्धिनि संबन्धधीरतस्तन्मूलंमानं वाच्यं तदभावान्न शब्दादप्यशिंशपाव्यावृत्तिधीरित्याशङ्क्याऽऽह। अनादिमदिति। वृद्धव्यवहारमूलतया शब्दार्थसंबन्धाधिगमान्न तन्निमित्तं मानमन्वेष्यं वृद्धव्यवहारो हि मूलं बालानां व्युत्पत्तेरिति तेऽपि स्थितेरित्यर्थः। शिंशपाशब्दादशिंशपाव्यावृत्तिसिद्धिं वदतोऽपोहवतो गमकत्वेऽपि स्वसिद्धान्तविरोधः स्यादिति दूषयति। सिध्यतीति॥७८५॥ ७८६॥

एवं यतोऽभ्युपगतौ लिङ्गं स्याच्छब्द एव तु॥
न स्वभावोऽथवा कार्यं प्रतिज्ञा च मृषा भवेत्॥७८७॥

कथमपसिद्धान्तप्रसक्तिस्तत्राऽऽह। एवमिति। शिंशपाशब्दादशिंशपाव्यावृत्ति621धीरित्युपगमे शिंशपाशब्द एवाशिंशपाव्यावृत्तौ यतो लिङ्गं स्यादतो न त्वदिष्टं स्वभावादि लिङ्गं भवेदित्यर्थः। तस्यालि622ङ्गत्वे दोषमाह। प्रतिज्ञेति॥७८७॥

त्रिष्वेव त्वविनाभावादिति योक्ता प्रयत्नतः॥
प्रतिज्ञार्थस्य संत्यागो न युक्तः शाक्यभिक्षुभिः॥७८८॥

तत्स्वरूपमाह। त्रिष्वेवेति। त्रिष्वेवाविनाभावो नान्यत्रेति प्रसाधनं प्रयत्नः। तन्मृषात्वमिष्टमेवेत्याशङ्क्याति-प्रसङ्गमभिप्रेत्याऽऽह। प्रतिज्ञार्थस्येति॥७८८॥

ननु चाशिंशपाद्यर्थविविक्तोऽर्थः प्रतीयते॥
शब्दादेव तु तज्ज्ञानादवृक्षार्थमतिर्भवेत्॥७८९॥

सिद्धान्तविरोधसमाधिं शङ्कते। नन्विति। अशिंशपादेरर्थाद्घटादेर्व्यावृत्तोऽर्थःशिंशपारूपस्तच्छब्दादेव प्रतीयते ततो ज्ञानादशिंशपाव्यावृत्तिविशिष्टादवृक्षव्यावृत्तिविशिष्ठे वृक्षार्थे ज्ञानमुत्पद्यते। तेन शब्दादशिंशपाव्यावृत्तिप्रतिपत्तावपि नास्मत्पक्षक्षतिरित्यर्थः॥७८९॥

अशिंशपानिवृत्तिर्या काऽसाविह भवन्मता॥
नाभावोऽसौ यतोऽभावो मतो वोऽनुपलब्धितः॥७९०॥

दूषयितुं विकल्पयति। अशिंशपेति। इहेति बौद्धपक्षोक्तिः। अशिंशपानिवृत्तिर्भावोऽभावो वेति विकल्पार्थः। न तावद्भावस्तथा सति शिंशपाशब्दस्य भावार्थत्वेनान्यापोहार्थत्वाभावप्रसङ्गात्कल्पनागौरवादित्यभिप्रेत्य द्वितीयं प्रत्याह। नाभाव इति। तत्रहेतुमाह। यत इति। भवत्पक्षे खल्वभावोऽनुपलब्धिबोध्यः। **यथाऽऽह—**एकः प्रतिषेधहेतुरिति। अशिंशपाव्यावृत्तिस्तु शाब्दीष्टा तथाच तस्या नान्या623भावतेत्यन्यापोहवतोऽपि गमकत्वाद्ययुक्तमित्यर्थः॥७९०॥

शिंशपानुपलब्धिश्चेदन्यव्यावृत्तिरूपतः॥
ततोऽभावात्तथा सिद्धोऽवृक्षाभावोऽपि सर्वदा॥७९१॥

चतुर्थमुत्थापयति। शिंशपेति। शिंशपायामशिंशपानुपलब्धिरस्ति शिंशपायाः सर्वस्मादशिंशपार्थाद्व्यावृत्तत्त्वादेवेत्याशिंशपाव्यावृत्तिरूपे शिंशपार्थे भवत्युक्तानुपलब्धिर्मानंततः शिंशपायामशिंशपानुपलब्धिरूपादभावादशिंशपापोहःशिंशपाशब्दार्थो ज्ञातस्तस्माच्चान्यापोहवतोऽवृक्षाभावविशिष्टो वृक्षार्थोऽपि सदा सिध्यति तथा सत्यस्मन्मते नावद्यमित्यर्थः॥७९१॥

उपलब्ध्यभावतो नैवं यथा तदभिधीयते॥
कोऽभावानुपलब्ध्योर्वो भेदः स्यादिति कथ्यताम्॥७९२॥

ज्ञानाभावाज्ज्ञेयाभाव इत्येवं यथा दुर्ज्ञानं तथा तत्सर्वमस्माभिरुच्यत इति प्रतिजानीते। उपलब्धीति। प्रतिज्ञातं स्फुटयितुं संवित्तिभावयोर्भे624दो यथेत्यत्रोक्तं स्मारयति।

क इति । ज्ञेयाभावस्य ज्ञानाभावस्य च भेदायोगाद्गम्यगमकभावो नेत्युक्तमित्यर्थः॥७९२॥

ननूपलब्ध्यभावो योऽनुपलब्धिः स उच्यते॥
भावाभावस्त्वभावोऽपि प्रसिद्धं जगति द्वयम्॥७९३॥

तदयोगममृष्यन्प्रसिद्धिमाश्रित्य शङ्कते। नन्विति॥७९३॥

सत्यमेवं तथाऽप्यत्र प्रष्टव्यमवशिष्यते॥
किंचोपलब्ध्यभावेन सा सिद्धा किं ततोऽन्यतः॥७९४॥

तयोर्भेदो लोकप्रसिद्ध इत्येतदङ्गी करोति। सत्यमिति। कथं तर्हि तयोर्गम्यगमकत्वे625 निषेधस्तत्राऽऽह। तथाऽपीति। अत्रेत्यनुपलब्धिरुक्ता। प्रश्नमवोभिनयति।किंचेति। सा खल्वनुपलब्धिरसिद्धा सिद्धा वा ज्ञेयाभावं ज्ञापयेन्नाऽऽद्य इन्द्रियातिरिक्तानां ज्ञातकर626णत्वाङ्गीकारादनुपलब्धेः सत्तामात्रेण गमकत्वे चातिप्रसङ्गाद्वितीयेऽपिसा किमुपलब्ध्यभावेन सिद्धा किंवोपलब्ध्येति प्रश्नार्थः॥७९४॥

घटाभावं घटो यद्वद्घटाभावत्वकारणात्॥
मिनोति नाऽऽत्मनोऽभावमुपलब्धिस्तथैव च॥७९५॥

द्वितीयं प्रत्याह। घटेति। किं627 सैवोपलब्धिः स्वाभावं प्रमिणोत्युपलब्ध्यन्तरं वान तावदुपलब्ध्यन्तरमुपलब्धि-भेदासिद्धेर्नापि स्वयमेव सा हि विद्यमानाऽविद्यमाना वास्वाभावमवगच्छेदाद्येऽपि स्वसत्ताकाले कालान्तरे वा नाऽऽद्यस्तदा स्वाभावाभावान्नेतरःस्वाभावकाले स्वयमभावादेतेनाविद्यमानोपलब्धिः स्वाभावं प्रमिणोतीति प्रत्युक्तं न हिस्वक्षणे सतोऽपि दीपस्य क्षणान्तरे स्वाभावगमकतेति भावः॥७९५॥

माभावस्याप्यभावेऽस्मिन्सं सिद्धेरनुभूतितः॥
सैवातोऽनुपलब्धयुक्त्या भवद्भिरु628पवर्ण्यते॥७९६॥

अनुपलब्धिरुपलब्ध्यभावेन सिद्धा ज्ञेयाभावं ज्ञापयतीत्यत्र सा किमनुपलब्ध्यन्तरेण सिध्यति स्वरूपेण वा नाऽऽद्योऽनवस्थानादिति मन्वानो द्वितीयं प्रत्याह।माभावस्येति। अस्मिन्मेयाभावे मानत्वेनेष्टमानाभाव-रूपानुपलब्धेरपि स्वरूपेणैवास्मदिष्टोपलब्धेरिव सिद्धेरुपगतिश्चेदेकलक्षणत्वादनुपलब्धेरनुभूतिमात्रत्वापत्तेरनुप-लब्धिरुपलम्याभावेमान-मित्युक्त्या सैवानुभूतिरुच्यते तथाच त्वत्पक्षासिद्धिरित्यर्थः। एतेनैतदपोढ़ं यदाह कीर्तिः— “यदा पुनरेवंविधानुपलब्धिरेवासतामसत्ता तदाऽसिद्धेऽपिविषये मोहाद्विषयिणो629ऽसज्ज्ञानशब्दव्यवहारात्प्रतिपद्य630मानो विषयप्रदर्शनेन समये प्रवर्त्यते631”इति॥७९६॥

भावाभावोऽपि किंचातः शृण्वतो यद्भविष्यति॥७९७॥

उपलब्ध्या विनाऽभावाद्यद्यभावः प्रसिध्यति॥
तदोपलब्ध्यभावोऽसौ यो भावो भवतोच्यते॥७९८॥

उक्तनीत्या632 विषयसिद्धेरयोगान्मायया तत्सिद्धावस्मन्मतप्रवेशादुपलभ्याभावस्य पृथग्भावात्त्वदिष्टाद्वयानु-भूत्यसिद्धेस्त्वत्पक्षोऽपि न सिध्यतीत्याशङ्कयाऽऽह। भावेति।उपलब्ध्यभाववदुपलभ्याभावोऽपि पृथङ्नास्त्यभावत्वाविशेषात्तस्मादुपलब्धिरेवोपलभ्याभावोक्त्याऽपि त्वयोच्यते विधान्तरेण तदसिद्धेरित्यर्थः। भवत्वनुपलब्धेरुपलभ्याभावस्य चोपलब्धिमात्रत्वं किं तावता तवेति पृच्छति। किंचेति। फलसत्त्वं प्रतिजानीते।शृण्वति। तदेव स्फुटयति। उपलब्ध्येति। मानमेयप्रतियोगिकादभावाद्विना यद्युपलब्धिरूपेण मेयाभावो मानाभावश्च सिध्यति तदा यस्तावदुपलब्ध्यभावो यश्चोपलम्याभावः सर्वैर्व्यवह्रियते स सर्वोऽप्यसावुपलब्धिरेवेत्यद्वयोपलब्धिः फलत्युपलभ्यस्यत्वयैव पृथगनुपगमाज्जन्मादीनां च तत्र स्वतः परतश्चासिद्धेरित्यर्थः। यद्वा यद्युपलब्धि विना मानाभावान्मेयाभावः सिध्यति तदा मानाभावो मानं मेयाभावो मेयइत्येतद्युज्येत त्वया तयोरुपगमान्न तु विनोपलब्ध्या किंचिदपि सिध्यत्यन्यस्यजाड्यादजडोपलब्ध्यपेक्षत्वान्न चोपलम्यमुपलब्धेरर्थान्तरमिष्टं तदद्वयोपलब्धिः सिद्धेत्यर्थः॥७९७॥७९८॥

यदि तद्व्यतिरेकेण तदा वक्तव्यमेव ते॥
किंभूतं ते तदा चित्तमभावप्रसमीक्षणे॥७९९॥

उपलब्ध्यभावं मुक्त्वेह नान्यादृक्चित्तमीक्ष्यते॥
किंचोपलब्धितः सर्वसिद्धिमाप्नोति नान्यथा॥८००॥

विपक्षे दोषमाह। यदीति। कूटस्थाद्वयानुभूत्यतिरेकेण मानमेययोरभावसिद्धिश्चेत्तदा तवेदं दूषणं वक्तव्यमेवेत्यर्थः। किं तदिति तदाह। किंभूतमिति। यदाऽनुभूतिर्नेष्टा तदा ते मानमेयाभावोपलम्भे चित्तं स्वानुभवरूपं कथंभूतमिति पृच्छामोन हि मानाद्यभावोपलम्भकाले तदाकारं चित्तं हित्वाऽन्यादृशं तत्साधकं गम्यते तदनुभवाहते मानाद्यभावसिद्धिं वदतः स्वानुभवविरोधः स्यादित्यर्थः। इतश्चानुभवादेवाभावसिद्धिरित्याह। किंचेति। सर्वमपि जगदुपलब्धिबलादेव सिध्यति न स्वतोऽन्यतो वा तदभावस्य तदधीनैव सिद्धिरित्यर्थः॥७९९॥८००॥

न तादात्म्यतदुत्पत्ती मिथोऽयोगादपोहयोः॥
न स्वलक्षणयोस्तद्वन्नाप्यपोहबतोस्तयोः॥८०१॥

अनुपलब्धेरभावधीहेतुत्वं निराकृत्य द्वयोर्गमकत्वाभावमुपसंहरति। नेत्यादिना

अपोहयोरन्योन्यमस्पृष्टत्वान्न स्वभावस्वभाविभावः कार्यकारणभावो वाऽपोहरहितकेवलार्थस्वरूपयोरपि स्वरस-भङ्गुरयोर्न स्वभावादिर्युक्तो मिथोभेदोपगमात्तयोरेवापोहविशिष्टयोरपि न स्वभावादिसंभवो भेदाभ्युपगमात्तथाऽपि वृक्षत्वाशिंशपात्वयोर्गम्यगमकत्वोक्तेर्न स्वभावादेर्गमकतेत्यर्थः॥८०१॥

नासत्सद्व्यतिरेकेण नासता च सदन्वितम्॥
सति नासदभावोऽपि ह्युक्तं तादात्म्यमागमात्॥८०२॥

स्वमतमुपसंहरति। नासदिति। असच्छब्देन परमार्थसद्विलक्षणं जगदुक्तं न हिसतो भेदेनैतदस्त्यन्यस्य तुच्छत्वाद्व्यवहारधीविरोधान्न च तेन तदभिन्नं मिथो विरुद्धयोरैक्यायोगान्न च सति तस्यात्यन्ताभावो व्यवहादिविरोधस्योक्तत्वादतः सन्मात्रं सर्वं जगदेष्टव्यं सदेव633 सोम्येदमित्यादेरागमाच्चैतत्सिद्धमित्यर्थः। सन्मात्रं सर्वं जगदित्येतत्तत्रतत्रोपपादितमिति वक्तुं हिशब्दः॥८०२॥

यथाऽसत्सति संवित्तौ सदप्येवं प्रतीयताम्॥
तदेतदिति634 च स्पष्टं श्रुतिरैकात्म्यमब्रवीत्॥८०३॥

कूटस्थाद्वयोपलब्धिरित्युक्त्वा सदद्वयमिति वदतो न कथं पूर्वापरविरोधः स्यादित्याशङ्क्याऽऽह। यथेति। अन्वयव्यतिरेकाभावपरिहारेणासच्छब्दितं तद्यथा सतिपर्यवसितं तथा सदप्यनुभवमात्रे प्रतिष्ठितं तदेतद्ब्रह्मेत्युपक्रम्यायमात्मा ब्रह्म सर्वानुभूरित्यनुभवैकरूपं यतः श्रुतिरुक्तवती तत्त्वमित्यर्थः॥८०३॥

न च भेदमनाश्रित्य स्वभावादि प्रसिध्यति॥
योगस्य भेदनिष्ठत्वान्न च भेदः पुरोक्तितः॥८०४॥

स्वभावादिनिरासे हेत्वन्तरमाह। न चेति। संबन्धस्य भेदापेक्षत्वात्तमनाश्रित्यस्वभावादिः संबन्धत्वेनेष्टो न सिध्यति न च भेदः परस्पराश्रयादिना निरस्तत्वादतोऽपिन स्वभावादेर्गमकतेत्यर्थः॥८०४॥

स्रजि सर्पादिकः क्ऌप्तो नाभिन्नो भिन्न एव वा॥
यथोक्तन्यायमार्गेण स्वभावादि ततः कुतः॥८०५॥

उक्तं भेदासंभवं दृष्टान्तेन स्मारयन्फलितमाह। स्रजीति। यथा स्रजि कल्पितःसर्पादिस्ततो भिन्नत्वादिना दुर्निरूपस्तथा पूर्वोक्तान्योन्याश्रयादिना भिन्नत्वादिभिरवाच्यो द्वैतप्रपञ्चश्चिदात्मनि कल्पितो न वस्तुतोऽस्त्यतस्त्वदिष्टः स्वभावादिर्न वास्तवःसिध्यतीत्यर्थः॥८०५॥

एवमागमतः सिद्ध ऐकात्म्येऽनुभवाश्रयात्॥
नान्यसिद्धान्तसंसिद्धिर्लभ्यते सर्वतार्किकैः॥८०६॥

ननु यद्यपि संबन्धग्रन्थे मीमांसकसमयो निरस्तो यद्यपि चात्र लोकायतसुगतमते निरस्तेअत्रापि मीमांसकानिरासः संक्षेपतः स्मारितस्तथाऽपि सिद्धान्तान्तरेषु सत्सु भवत्सिद्धान्तासिद्धिः। तथा हि स्यादस्ति स्यान्नास्तीत्यादिन्यायेन स्याद्वादिनो जीवाजीवादिसप्तपदार्थान्परमार्थानाहुः। काणादास्तु द्रव्यादयः पदार्थाः परमार्थाः षडेवेति मानयुक्तिभ्यामुपयन्ति। प्रमाणादयो निग्रहस्थानान्ताः षोडशैव पदार्था वस्तूनीति नैयायिकाः। मूलप्रकृतिप्रभृतीनि पञ्चविंशतिस्तत्त्वानीति सांख्याः। शैवा वैष्णवाश्च स्वीयं स्वीयमागममाश्रित्य द्वैतं बहु मन्यन्ते तत्कुतस्त्वन्मतावतारस्तत्राऽऽह। एवमिति। श्रुत्यनुभवविरोधे तर्कागमयोराभासत्वान्न दिगम्बरादिसिद्धान्त-सिद्धिस्तत्प्रवृत्तिश्च भ्रान्तिमूलेति स्थितंतर्कपादे तदद्वैतसिद्धान्तो वज्रलेपायत इति भावः॥८०६॥

स्वोक्त्यैवापह्नुतेः कृत्स्त्रवस्तुनोऽतो न यत्यते॥
निराचिकीर्षया शून्यवादिनोऽविषयत्वतः॥८०७॥

ननु बाह्यार्थवादो विज्ञानवादश्च निराकृतौ शून्यवादो निराकर्तव्योऽपि कस्मान्ननिराक्रियते तत्राऽऽह। स्वोक्त्येति। समस्तस्य वस्तुनः सत्त्वेन भानान्मानानां चसर्वेषां सद्विषयत्वाच्छून्यस्य चाविषयतया प्राप्त्यभावेन निराकरणानर्हत्वात्तद्विषयत्वे चशून्यवादिनैव विषयनिराकरणोक्त्या शून्यस्यापह्नवांत्तस्य च स्फुरणास्फुरणयोः सर्वशून्यत्वायोगात्तद्वादिनश्च सत्त्वासत्त्वयोस्तदनुपपत्तेः संवृतेश्चाऽऽश्रयाभावादसंभवात्तदाश्रयत्वे च शून्यस्य स्वरूपहानान्निराश्रयत्वे चासंवृतित्वान्नास्माभिस्तद्वादनिरासायाऽऽदरः क्रियते तत्सिद्धं बुद्ध्याद्यतिरिक्तं नित्यसिद्धमत्यन्तशुद्धं कूटस्थमद्वयमात्मज्योतिरिति भावः॥८०७॥

न मृत्यवः स्वभावोऽस्य कार्याणि करणानि च॥
कुतस्तदिति चेदाह स वा इति परा श्रुतिः॥८०८॥

प्रसङ्गागतं बौद्धराद्धान्तं प्रत्याख्याय श्रुतिव्याख्यामेवानुवर्तयन्नादौ वृत्तं कीर्तयति।नेत्यादिना। देहेन्द्रियादि मृत्युरूपमात्मनः स्वरूपं धर्मो वा नेत्युक्तमित्यर्थः। तत्रहेतुं पृच्छति। कुत इति। तेषामस्वभावत्वं तदा परामृश्यते। उत्तरं वाक्यमुत्थापयति635आहेति॥८०८॥

स्वप्नोभूत्वा यथाऽत्येति मृत्यो रूपाण्यसङ्गतः॥
आत्मैकस्मिन्नपि तनौ म्रियमाणस्तथैव सः॥८०९॥

श्रुतेस्तात्पर्यमाह। स्वप्न इति। यदोपाधिभूता धीः स्वप्नाकारा भवति तदा स्वयमप्यात्मा स्वप्नो भूत्वा कार्यकरणान्यभिमानतो गृहीतान्यासङ्गाभावादेकस्मिन्नेव देहेस्थिते यथाऽत्येति तथा देहभेदेऽपि म्रियमाणो वर्तमानं जन्म त्यजञ्जन्मान्तरं चोपाद-

दानः कार्यकरणान्यतिक्रामत्यतः स्वप्नजागरितसंचाराद्देहाद्यतिरेकवदिहलोकपरलोकसं चारोक्त्याऽपि तदतिरेकस्तस्योच्यतेऽनन्तरवाक्येनेत्यर्थः॥८०९॥

शरीरमिति वाक्येन जायमानविशेषणम्॥
क्रियते न स्वतस्तस्य जन्माद्यैः संगतिर्यतः॥८१०॥

जायमानः शरीरमभिसंपद्यमान इत्यत्र पौनरुक्त्यमाशङ्क्याऽऽह। शरीरमितिजायमान इत्युक्ते घटादिवदात्मनो जन्मादिशङ्कायां तन्निरासार्थं शरीरमित्यादिना जायमान इत्यस्य यतो विशेषणमतो नाऽऽत्मनः स्वतो जन्मादिसंगतिरित्यर्थः॥८१०॥

मोहाल्लिङ्गात्मनोत्क्रान्तः श्रुतकर्मानुरूपतः॥
मिथ्याभिमानतो देहं यदाऽऽत्मेत्यभिमन्यते॥८११॥

देहं संपद्यमानोऽजस्तदाऽऽत्मा जायते खवत्॥
घटादिजन्मना तद्वत्तन्नाशे म्रियतेऽमरः॥८१२॥

देहसंपत्त्या किमित्यात्मनो जन्मोच्यते स्वाभाविकं किं न स्यादित्याशङ्क्याऽऽहमोहादिति। स्वाज्ञानात्प्राणाख्योपाधिना पूर्वस्थूलदेहादुत्क्रान्तः सन्कर्मादिवशादपूर्वं देहमात्मत्वेन मिथ्याभिमानादेव यदाऽभिमन्यते तदोक्तरीत्या देहं प्राप्नुवन्वस्तुतोऽत्रएव जात इत्युच्यते। यथा घटाद्युपाधिजन्मानुसारेण तत्रस्थमाकाशमजमपि जायमानमभिलप्यते तथाऽजोऽप्यात्मा देहादिजन्मना जायमानोऽभिधीयते न वस्तुतः श्रुत्यादिविरोधादित्यर्थः। उपाधिजन्मना जन्मवदुपाध्युत्क्रमणे म्रियमाणत्वमस्योच्यते न वस्तुतस्तु दयोग्यत्वादन्यथोक्तश्रुतिस्मृतिविरोधादित्याह। तद्वदिति॥८११॥८१२॥

संपद्यमान एवाऽऽत्मा जायते म्रियते यतः॥
न तत्पूर्वं तदूर्ध्वं वा तेन वा अवधारणम्॥८१३॥

वैशब्दार्थमाह। संपद्यमान इति। शरीरमिति शेषः। म्रियते तत्परित्यजन्नेवेतियोज्यम्। तदेव व्यतिरेकमुखेनाऽऽह। नेति। न हि देहसंबन्धात्पूर्वं जन्म तत्संबन्धादूर्ध्वं वा तन्नाशोऽतोऽन्यतोऽसौ व्यवह्रियते॥८१३॥

पाप्मेति देहसंवन्धहेतुमात्रमिहोच्यते॥
आ विरिञ्चात्तथाऽऽ स्थाणोः सर्वं कर्मात उच्यते॥८१४॥

पाप्मप्रातिपदिकार्थमाह। पाप्मेतीति। आ विरिञ्चादा च स्थाणोर्देहसंबन्धे हेतुर्धर्मादिस्तन्मात्रमत्र वाक्ये पाप्मप्राति-पदिकार्थः। तल्लक्षणया कर्ममात्रं पाप्मशब्दितमित्यर्थः॥८१४॥

ब्रह्मादीनां शरीराणि श्वसूकरशरीरवत्॥
यतो जिहासितान्येव तस्माद्धर्मेऽपि पाप्मगीः॥८१५॥

उत्कर्षहेतोर्धर्मस्य पाप्मशब्देन न ग्रहो धर्मकार्याणां ब्रह्मादिदेहानां सर्वस्पृहणीयत्वादित्याशङ्क्याऽऽह। ब्रह्मादीनामिति॥८१५॥

दुःखाभावः सदेहस्य नैवास्तीति श्रुतेर्वचः॥
तस्माद्दैवोऽप्यनर्थः स्याद्देहो नाशाच्च सर्वदा॥८१६॥

धर्मफलस्यापि देहस्यजिहासितत्वे हेतुमाह। दुःखेति। न ह वै सशरीरस्येत्यादिश्रुतेर्ब्रह्मादिदेहस्यापि दुःखायतनत्वेन दृष्टेर्जिहासितत्वमित्यर्थः। तत्रैव हेत्वन्तरमाह। नाशाच्चेति। सर्वदेत्यनर्थपदेन संबध्यते॥८१६॥

कर्म नाऽऽरभते यावद्दुःखादिफलमात्मनः॥
असत्समं भवेत्तावसदपूर्वात्मना स्थितम्॥८१७॥

पाप्मशब्दस्य कर्ममात्रविषयत्वेऽपि कथं देहसंबन्धहेतुविषयत्वं कर्मणस्तद्धेतुत्वासिद्धेर्भोग-वासनायास्तथात्वादित्याशङ्क्याऽऽह। कर्मेति। कर्तृभोगार्थं कर्म तदनारम्भेमानाभावादतिसूक्ष्मस्य तस्यासत्त्वप्रसङ्गान्न च देहं विना भोगस्तस्माददेहस्य देहसंबन्धहेतुराविद्यं सवासनं कर्मेत्यर्थः॥८१७॥

शरीरं पाप्मनां कार्यं धर्माधर्मात्मनामिदम्॥
तस्मिन्नात्माभिमानो यः सा संपत्तिरविद्यया॥८१८॥

पाप्मभिरित्यत्र प्रातिपदिकार्थमुक्त्वा विभक्त्यर्थं संघातकर्तृत्वाख्यं कथयति। शरीरमिति। संसर्गशब्दार्थमाह। तस्मिन्निति॥८१८॥

देहकर्मक्षये देहपातश्चास्य यदा तदा॥
पाप्मनः कर्मकार्याणि विजहात्यमृतोऽव्ययः॥८१९॥

स उत्क्रामन्नित्यादेरर्थमाह। देहेति। यदा देहारम्भकं कर्म भोगेन क्षीयते वर्तमानदेहपातश्च तदा पाप्मशब्देन लक्षितलक्षणया गृहीतानि कार्यकरणानि सर्वविक्रियाशून्यः सन्नात्मा त्यजतीत्यर्थः॥८१९॥

जहाति मृत्यो रूपाणि मृतिस्व636प्नादिभूमिषु॥
न तु मृत्युमृते ज्ञानाज्जहात्यात्मा निजं तमः॥८२०॥

ननु मृत्युकार्यं देहादि ज्ञानं विना त्यजति चेन्मृत्युमपि तथा त्यक्ष्यति तथाच ज्ञानवैयर्थ्याच्छास्त्रारम्भो वृथा स्यादित्याशङ्क्याऽऽह। जहातीति। नैसर्गिकमज्ञानं मृत्युस्तस्य ज्ञानं विना न त्यागो विरोध्यन्तराभावादित्यर्थः॥८२०॥

पाप्मादिप्रकृ637तादानत्यागाभ्यामनिशं यथा॥
धिया समानः सन्नात्मासंसरत्या विमोक्षतः॥८२१॥

स वा इत्यादिवाक्यस्थाक्षरार्थमुक्त्वा तत्तात्पर्यमुपसंहरन्दृष्टान्तं निगमयति। पाप्यादीति। पाप्मादिप्रकृतिकस्य देहादेः स्वीकारत्यागाभ्यामिति यावत्॥८२१॥

परलोकेहलोकौ च तथैवायमविद्यया॥
मृतिजन्मप्रबन्धेन संसरत्या विमोक्षतः॥८२२॥

स्वप्नादिसंचारदृष्टान्तस्य दार्ष्टन्तिकमाह। परलोकेति॥८२२॥

यत एवमतः सिद्धा देहादिभ्योऽन्यताऽऽत्मनः॥
तत्संयोगवियोगाभ्यां स्रग्वस्त्राभरणादिवत्॥८२३॥

क्रमेण लोकद्वयसंचारफलमाह। यत इति। देहादिर्नाऽऽत्मस्वभावस्तद्धर्मो वातत्संयोगित्वाद्वियोगित्वाच्च स्रगादिवदित्यर्थः॥८२३॥

न हि च्छिन्नेन कर्णेन तद्वानस्मीति मन्यते॥
यथैवमवशिष्टेन तद्विशेषणहेतुतः॥८२४॥

स्थूलस्य देहादेरात्मत्वाद्यभावेऽपि सूक्ष्मस्याव्यभिचारित्वात्तत्स्यादित्याशङ्कयाऽऽह।न हीति। चैत्रो हि च्छित्त्वा त्यक्तेन हस्तादिना तद्वानस्मीत्यात्मानं नाभिमन्यते तथाचावशिष्टेनापि नाऽऽत्मनः संबन्धस्त्यक्तवदत्यक्तस्यापि देहस्य विशेषणत्वाविशेषादतःसूक्ष्मोऽपि देहो नाऽऽत्मा तदीयो वा, तदुपाधित्वात्स्थूलवदित्यर्थः॥८२४॥

आभिमानिक एवास्य येन येन विशेष्यते॥
आत्माऽविशेषणोऽतः स्यात्स्रगाभरणवस्त्रवत्॥८२५॥

कथं तर्हि देहादिष्वात्मनः संबन्धमानं तत्राऽऽह। आभिमानिक इति। येनयेन देहादिनाऽऽत्मा विशेष्यते तेन तेनास्य संबन्धो मिथ्याभिमानरूपो न वास्तवोऽस्तीत्यर्थः। आत्मनो वस्तुतो देहासंबन्धे फलितमुपसंहरति। आत्मेति। देहद्वयस्याऽऽत्मत्वतद्धर्मत्वायोगोऽतः शब्दार्थः। स्रगादेरात्मात्मीयत्वाभाववदेहादेरपि तदभावादात्मानिर्विशेषणश्चिदेकतानः सिद्ध इत्यर्थः॥८२५॥

ननु न स्तोऽस्य लोकौ द्वौ यावात्मा संचरत्ययम्॥
मृत्युज638न्मप्रबन्धेन जाग्रत्स्वप्नाख्यलोकवत्॥८२६॥

तस्येत्यादिवाक्यव्यावर्त्या शङ्कामाह। नन्विति॥८२६॥

स्वप्नजागरितौ लोकौ यथा प्रत्यक्षमानतः॥
परलोकेहलोकौतु न तथा मानगोचरौ॥८२७॥

स्वप्नादिवदिहलोकादेरपि किं नाङ्गीकारः स्यादित्याशङ्क्याह। स्वप्नेति॥८२७॥

प्रात्यक्ष्यादस्य लोकस्य नास्त्याशङ्काऽस्ति तां प्रति॥
परलोकेऽपि नाऽऽशङ्का तत्सिद्धेरागमात्सदा॥८२८॥

भाष्योक्तामाशङ्कामनुयाऽऽक्षिपति। प्रात्यक्ष्यादिति। इहलोकस्य प्रत्यक्षत्वादस्तिता निश्चिता परलोकस्य स्वर्गकामादिवाक्यसिद्धत्वान्न तत्रापि नास्तित्वाशङ्का तेनतन्निरासार्थं नोत्तरग्रन्थारम्भ इत्यर्थः॥८२८॥

प्रत्यक्संवित्प्रमाणत्वं परलोकेहलोकयोः॥
स्वप्नवन्नान्यमानत्वमित्यस्तित्वं विवक्षितम्॥८२९॥

इत्याशङ्क्योत्तरो ग्रन्थस्तस्य वा इति भण्यते॥
इत्येष तावत्संबन्धस्तथाऽन्योऽप्यभिधीयते॥८३०॥

शङ्कासमर्थनपूर्वकं समाधत्ते। प्रत्यगिति। प्रतीचः संवित्स्वानुभवाख्यं प्रत्यक्षंतत्प्रमाणकत्वं यथा स्वप्नजागरितयोस्तथेहलोकपरलोकयोरपि प्रत्यक्षप्रमाणकमस्तित्वंवाच्यं नाऽऽगमादिमानान्तरगम्यं तदस्तित्वमिति विवक्षितं न च परलोकास्तित्वं प्रत्यक्षंतस्मात्परलोको नास्तीत्याशङ्क्य प्रत्यक्षेणैव तत्समर्थनार्थमुत्तरो ग्रन्थ इत्यर्थः। भाष्योक्तंसंबन्धं निगमयति। इत्येष इति। भर्तृप्रपञ्चोक्तं संबन्धमुत्थापयति। तथेति॥८२९॥८३०॥

आत्मा ज्योतिरिति ह्येकः समान इति चापरः॥
पाप्मनो विजहातीति पदार्थाः सूत्रितास्त्रयः॥८३१॥

तं वक्तुं वृत्तं कीर्तयति। आत्मेति। यथाऽऽहुस्तान्येतानि त्रीणि वस्तून्युपन्यस्तानीति639। तथोदाहृततदीयभाष्यावद्योती हिशब्दः॥८३१॥

स्वप्नेन निर्णयो वाच्य एतेषामित्यतोऽधुना॥
तस्येति वर्ण्यतेऽथेदं विधिना येन तच्छृणु॥८३२॥

तस्येत्यादेरिष्टं संबन्धमाह। स्वप्नेनेति। आत्मज्योतिरादीनां त्रयाणां स्वप्नदृष्टान्तेन निर्णयो वाच्य इत्यतो हेतोस्तस्येति वाक्यं प्रवृत्तमित्यर्थः। कथमत्र त्रयाणांनिर्णयस्तत्राऽऽह। वर्ण्यत इति। उक्तचोद्यावद्योतनार्थोऽथशब्दः। इदं त्रयं येनविधिना तस्येतिवाक्ये वर्ण्यते तद्विधानमुच्यमानं शृण्विति योजना। वाक्यव्याख्यानेत्रयाणां निर्णयो व्यक्तो भवतीति भावः॥८३२॥

अयं चाप्यभिसंबन्धस्तथा चान्योऽपि वर्ण्यते॥
स्वयंज्योतिर्य आत्मोक्तस्तस्याविद्याक्रियोद्भवाः॥८३३॥

कर्मोपभोगसिद्ध्यर्थं वर्ण्यन्ते भूमयोऽधुना॥
इदं जन्म परं चैव स्वप्नस्तन्मध्यगस्तथा॥८३४॥

उक्तं संबन्धमनुजानाति। अयं चेति। भाष्योक्तं संबन्धं दृष्टान्तयितुमपिशब्दः।स्वाभीष्टं संबन्धान्तरमाह। तथाचेति। तदेव स्फुटयति। स्वयमिति। इदं चेत्यादिवाक्यमादाय भोगभूमीरेव दर्शयति। इदमिति। चकारसूचितमर्थमाह। स्वप्न इति॥८३३॥८३४॥

भावि यज्जन्म यच्चेदं प्रत्यक्षमनुभूयते॥
एते एव विभोः स्थाने द्वे एवेत्यवधारणात्॥८३५॥

उक्तमनूद्य तस्येत्यादेरर्थमाह। भावीत्यादिना॥८३५॥

ननु स्वप्नोऽपि लोकोऽस्य कथं स्यादवधारणम्॥
द्वे एवेति न, संध्यत्वात्स्वप्नस्य स्थानयोर्द्वयोः॥८३६॥

संध्यमित्यादेर्व्यावर्त्यां शङ्कामादर्शयन्नवधारणमाक्षिपति। नन्विति। देहद्वयातिरिक्तः स्वप्नदेहोऽपि पुंसोऽस्तीत्यवधारणानुपपत्तिरिति चोद्यं निरस्यति। नेत्यादिना।ऐहिकामुष्मिकदेहयोः संधौ भवः स्वप्नस्तदपेक्षया न तृतीयो न हि ग्रामयोः संधिस्तावेवापेक्ष्य तृतीयो भवत्यतोऽवधारणासिद्धिरित्यर्थः॥८३६॥

संध्यं तृतीयमित्युक्तिः पूरणप्रत्ययश्रुतेः॥
न स्थानान्तरनिद्द्नुत्यै यत्तूक्तमवधारणम्॥८३७॥

तदयोगव्यवच्छित्त्यै नान्ययोगव्यपेक्षया॥
तस्मिन्संध्य इतीदं च तथा सति समञ्जसम्॥८३८॥

भाष्योक्तमर्थमुक्त्वाऽर्थान्तरमाह। संध्यमिति। संध्यं तृतीयमित्यत्र संध्यमित्युक्तिरैहिकामुष्मिकदेहाभ्यां न स्थानान्तरनिरासार्थं त्रयाणां पूरणं तृतीयमितिपूरणप्रत्ययश्रवणादित्यर्थः। एवकारविरोधात्पूरणप्रत्ययश्रुतिरेव हेयेत्याशङ्क्याऽऽह। यत्त्विति।एवकारेणाऽऽत्मनः स्थानद्वयासंबन्धो व्युदस्यते न स्थानान्तरसंबन्धस्तस्मादन्यथा-सिद्धावधारणश्रुतेरनन्यथासिद्धपूरणप्रत्ययश्रुतिर्बलवतीत्यर्थः।स्वप्नस्यस्थानान्तरत्वे वाक्यशेषोऽप्यनुगृहीतः स्यादित्याह। तस्मिन्निति॥८३७॥८३८॥

स्वप्नेहलोकयोस्तावत्सत्त्वं प्रत्यक्षगोचरम्॥
परलोकस्य सद्भावे किं प्रमाणमितीर्यताम्॥८३९॥

उत्तरं वाक्यमवतारयितुं पूर्वोक्तं चोद्यमनुद्रवति। स्वप्नेति॥८३९॥

अस्मिन्नेव तु स स्वप्ने स्थाने तिष्ठन्प्रपश्यति॥
इमं लोकं परं चाऽऽत्मा कर्मज्ञानादिसंस्कृतः॥८४०॥

स्वप्नप्रत्यक्षं परलोकसद्भावे मानमिति वक्तुं वाक्यमवतार्य व्याचष्टे। अस्मिन्निति। आदिपदं वासनार्थम्॥८४०॥

भूतजन्मनि यद्भुक्तं कर्म तद्भावनाञ्जितः॥
पौर्वदैहिकमेवातो वयस्याद्येऽभिवीक्षते640॥८४१॥

कथं स्वप्नप्रत्यक्षं परलोकं गोचरयतीत्याशङ्क्य बाल्ययौवनवार्धकभेदेन संघातस्यतिस्रोऽवस्थास्तत्र बाल्यावस्थायां परलोकविषयः स्वप्नः संभवतीत्याह। भूतेति। न हितस्यामवस्थायामैहिकपुत्रादिविषयस्वप्नस्तस्याद्याप्यनिर्वृत्तेर्न च तस्य स्वप्नो नास्त्येवतस्य निद्राणस्य क्रन्दनादिदृष्टलिङ्गानुमितस्वप्नस्याप्रत्याख्येयत्वात्तस्मादस्ति पारलौकिकस्वप्नो बालस्येति भावः॥८४१॥

मध्ये वयसि कार्कश्यात्कारणानामिहाऽऽर्जिताः॥
प्रायेण वीक्षते स्वप्ने वासनाः कर्मणो वशात्॥८४२॥

तर्हि यूनोऽपि परलोकविषयः स्वप्नोऽस्तु नेत्याह। मध्य इति। कार्कश्यं स्थूलार्थग्रहणसामर्थ्यम्। इहेति वर्तमानजन्मोक्तिः। कर्मणो वशादार्जिता वासना इति संबन्धः।इहासंभावितमपि स्वप्ने कदाचिददृष्टवशात्पश्यतीति प्रायेणेत्युक्तम्॥८४२॥

यियासुः परलोकं तु कर्माविद्यादिसंवृतः॥
भाविनो जन्मनो रूपं स्वप्ने प्रायेण पश्यति॥८४३॥

अन्तिमे वयसि स्वप्नदर्शनस्य परलोकविषयत्वमाह। यियासुरिति। दृष्टेरनियमार्थं प्रायेणेत्युक्तम्। अस्मिञ्जन्मन्यसंभावितार्थस्य स्वप्ने दर्शनं परलोकसत्त्वे मानमितिसमुदायार्थः॥८४३॥

भुक्तत्वादविवक्षेह व्यतिक्रान्तस्य जन्मनः॥
परलोकेहलोकौतु गृह्येते संध्यसिद्धये॥८४४॥

अस्तु स्वप्नप्रत्यक्षं तत्र मानं, तथाऽपि कथं स्वप्नस्य संध्यत्वं प्रत्यक्षेण वर्तमानदेहग्रहेऽपि द्वितीयापेक्षायां भूतो भावी वा को देहो ग्राह्यस्तस्य संध्यत्वार्थमित्याकाङ्क्षायामाह। भुक्तत्वादिति। इहेति स्वप्नस्य संध्यत्वसिद्धावित्यर्थः॥८४४॥

सुखेन दर्शनं तावदैहिकस्येह जन्मनः॥
यथा तु641 परलोकस्य तथाऽथेत्यभिधीयते॥८४५॥

लोकद्वयस्यग्राह्यत्वाविशेषे कस्मादिहलोकं त्यक्त्वा परलोको व्युत्पाद्यत इत्याशङ्क्याथेत्यादेस्तात्पर्यमाह। सुखेनेति॥८४५॥

स्वप्नस्थानं समाश्रित्य परलोकं प्रपश्यति॥
विधिना केन किंचाऽऽत्मा समाश्रित्य प्रपश्यति॥८४६॥

अथैतदुच्यते स्पष्टं तद्यथावत्प्रतीयताम्॥
येनाऽऽक्रामत्यमुं लोकं सोऽस्याऽऽक्रम इहोच्यते॥८४७॥

अथशब्दार्थमाह। स्वप्नेति। एतच्चोद्यमथेत्युच्यत इति यावत्। यथाक्रमोऽयमित्याद्यवतारयति। एतदिति। प्रतीतेर्यथावत्त्वं पुनः प्रश्नानपेक्षत्वम्। आक्रमशब्दार्थमाह। येनेति। श्रुतिः सप्तम्यर्थः॥८४६॥८४७॥

यादृक्साधनमस्येह परलोकाप्तये चितम्॥
आक्रमः स यथा यस्य सोऽयमात्मा यथाक्रमः॥८४८॥

समासं दर्शयन्यथाक्रमशब्दार्थमाह। यादृगिति। इह जन्मन्यस्य पुरुषस्य परलोकार्थंयादृग्ज्ञानादि साधनमार्जितं स तादृगाक्रमो यस्य स यथाक्रम इति योजना।यथा यस्येत्यत्र यथाशब्देस्तादृगर्थोयादृगित्युपक्रमाद्विद्या कर्म पूर्वप्रज्ञा चाऽऽक्रमस्तद्वान्यथाक्रम इत्यर्थः॥८४८॥

यथाक्रमो यथोपायो विद्याकर्मादिलक्षणः॥
परलोकोन्मुखीभूतं तमाश्रित्याक्रमं स्वकम्॥८४९॥

स्थानं निर्माय संध्याख्यं विपाकानुभयानयम्॥
अधर्मधर्मयोरात्मा दुःखानन्दान्प्रपश्यति॥८५०॥

तमाक्रममित्यादि व्याख्यातुं वृत्तं कीर्तयति। यथेति। यथाक्रम इत्यस्यैवार्थमाह।यथोपाय इति। उमायं विशिनष्टि। विद्येति। तमित्यादि व्याचष्टे। परलोकेति।अधर्मधर्मयोर्विपाकानिति संबन्धः। तानेव स्फोरयति। दुःखानन्दानिति॥८४९॥८५०॥

पाप्मनोऽधर्मकार्याणि तथाऽऽनन्दांश्च धर्मजान्॥
आगमादन्यतः साक्षान्न तु पापादिदर्शनम्॥८५१॥

उक्तमेव व्यक्तीकरोति। पाप्मन इति। प्रपश्यतीति पूर्वेण संबन्धः। किमितिपाप्मशब्देन प्रसिद्धार्थं हित्वा तत्कार्यं गृह्यते तत्राऽऽह। आगमादिति। साक्षादितिप्रत्यक्षेणेत्यर्थः॥८५१॥

धर्माधर्मप्रयुक्तो वा देवतानुग्रहात्तथा॥
आनन्दान्पाप्मनश्चित्रान्स्वप्नआत्मा प्रपश्यति॥८५२॥

धर्माधर्मफलयोः सुखदुःखयोः स्वप्ने दर्शनं किंकृतं तत्राऽऽह। धर्मेति। वाशब्दश्चार्थः॥८५२॥

इह जन्मन्यसंभाव्यं स्वप्ने यस्मात्प्रपश्यति॥
परलोकाश्रयं तादृक्तस्मात्स्वप्नसमीक्षणम्॥८५३॥

स्वप्नेतद्दर्शनेऽपि कथं परलोकस्य प्रत्यक्षतेत्याशङ्क्य प्रागुक्तं स्मारयति।इहेति॥८५३॥

संध्यस्वप्नविधिस्तावदेव समुपवर्णितः॥
परलोकप्रसिद्ध्यर्थं तस्य वा इति वाक्यतः॥८५४॥

तस्येत्यादिनोक्तमुपसंहरति। संध्येति। तदुपवर्णनफलमाह। परलोकेति। स्वाप्नप्रत्यक्षेण परलोकप्रमित्यर्थं तस्येत्यादिना स्वप्नप्रकारोक्तिरित्यर्थः॥८५४॥

यदुक्तं विरहेऽशेषसूर्यादिज्योतिषामयम्॥
पुमान्व्यवहरत्यात्मज्योतिषैवेति लिङ्गतः॥८५५॥

स यत्रेत्याद्यवतारयितुं व्यवहितं वृत्तं कीर्तयति। यदुक्तमिति। लिङ्गत इत्यादित्यादिज्योतिरभावेऽपि दृष्टस्वप्नादिगतवासनादिव्यवहारवशादित्यर्थः। तत्र चोद्यमुल्लसतीति शेषः॥८५५॥

भान्वादिसर्वज्योतिर्भ्योविविक्तोऽयं पुमानिति॥
क सिद्ध इति वक्तव्यं यथोक्तार्थसिद्धये॥८५६॥

अनन्तरवाक्यार्थमाकाङ्क्षापूर्वकं संक्षिप्याऽऽह। भान्वादीति। आदित्यादिज्योतिरपृष्टश्चिदात्मा कुत्र सिद्ध इति पृष्टे जिज्ञासितं स्थानं यस्माद्वाच्यं तस्माद्बाह्यज्योतीरहितस्य स्थानस्य यथोक्तार्थस्य प्रदर्शनार्थं स यत्रेत्यादिवाक्यमिति योजना॥८५६॥

स्वयंज्योतिः प्रसिद्धिर्वा पूर्वमुक्ताऽनुमानतः॥
साक्षादव्यवधानेन तत्प्रसिद्धिरथोच्यते॥८५७॥

संबन्धान्तरमाह। स्वयमिति। आत्मैवास्येत्यादौ व्यवहारलिङ्गानुमानतः स्वप्रकाशश्चिदात्मोक्तः। अथापरोक्षानुभवात्प्रत्यग्भावेन तत्सिद्धिर्वाच्येत्युत्तरं वाक्यमित्यर्थः॥८५७॥

स स्वयंज्योतिरात्मैव बाह्यज्योतिर्विवर्जितः॥
यथा भवति साक्षाच्च तथेदमभिधीयते॥८५८॥

उक्तं संबन्धद्वयमेकीकृत्य सुखप्रतिपत्त्यर्थं संगृह्णाति। स इति। स खल्वात्माबाह्यैर्ज्योतिर्भिरस्पृष्टः स्वयमेव यथा ज्योतिर्भवति तथेदं स्वयंज्योतिष्ट्वंसाक्षादनुभवयोग्यंस्वप्नदृष्टान्तेनोच्यते। उक्तं हि—स्वयंज्योतिरित्युप-न्यस्तमात्मज्योतिरित्यनेनाभिधानान्तरेण तन्निर्णयार्थं स्वप्नदृष्टान्त उपादीयत इति। सर्वथाऽपि स्वप्रकाशात्म-निर्णयार्थमुत्तरं वाक्यमित्यर्थः॥८५८॥

यत्र यस्यामवस्थायां स्वपितीत्यभिधीयते॥
पुरुषोऽजं स्वमात्मानं तदाऽपीतो भवत्ययम्॥८५९॥

स यत्र प्रस्वपितीत्यस्याक्षरार्थमाह। यत्रेति॥९५९॥

जाग्रत्कर्मक्षयादात्मा बाह्यदेहाभिमानतः॥
व्युत्थाय स्वप्रधानः सन्स्वप्नमायां समीक्षते॥८६०॥

स्वपितिशब्दस्य सुषुप्तिविषयत्वमङ्गीकृत्य स्वमात्मानमजमपीतो भवतीत्युक्तं संप्रतिप्रकृतानुसारेण तस्यस्वप्नाख्यमर्थ642माह। जाग्रदिति। स्थूलो देहो जाग्रदवस्थो बाह्योदेहः स्वप्रधानत्वं तदभिमानशून्यतया तत्पारतन्त्र्यराहित्यम्॥८६०॥

प्रवृत्तं फलदानाय यदिदं जन्म वर्तते॥
अस्येति लोकशब्देन तदेतदभिधीयते॥८६१॥

अस्य लोकस्येत्यत्र लोकं व्याचष्टे। प्रवृत्तमिति॥८६१॥

जुहोत्यादिक्रियाद्वारा यस्मात्सर्वमवत्ययम्॥
सर्वावानिति तेनायमात्मा देहान्त उच्यते॥८६२॥

सर्वावत इत्यस्यार्थमाह।जुहोत्यादीति। अयं हि बुद्ध्यादिर्देहान्तः कर्ता संघातःपुरुषो यागादिद्वारा सर्वं देवादि यतो रक्षति तेनायं लोक्यमानः सर्वावानित्युच्यतइत्यर्थः॥८६२॥

कृत्स्नं जगदुपादाय क्रियैकैकस्य सिध्यति॥
जुहोत्यादिर्जगद्धेतुः सर्वावानुच्यते ततः॥८६३॥

कथं जुहोत्यादिद्वाराऽस्य सर्वावत्त्वमित्याशङ्क्याऽऽह। कृत्स्नमिति। एकैकस्यसंघातस्य व्यापारः सर्वजगदुपादानं विना नेत्युक्तं मधुब्राह्मणे न च सर्वोपादानंतत्फलं विनेत्यतो जुहोत्यादिः सर्वस्य जगतो हेतुरिति क्रियाश्रयो लोकः सर्वावानित्युच्यत इत्यर्थः॥८६३॥

अध्यात्मादिविभागेन सर्वा वाऽस्याऽऽत्मनो यतः॥
भूतभौतिकमात्राः स्युः सर्वावानुच्यते ततः॥८६४॥

सर्वावत इत्यस्यार्थान्तरमाह। अध्यात्मादीति॥८६४॥

सर्वावतोऽस्य देहस्य स्वप्नभोगप्रसिद्धये॥
आदाय वासनामात्रां स्वप्नमायां तनोत्ययम्॥८६५॥

मात्रामित्यादि व्याचष्टे। सर्वावत इति। अस्य देहस्य सर्वावत्त्वेनोत्तस्य वासनारूपां मात्रामादाय स्वप्नाख्यां मायां तद्भोगार्थमयं पुरुषस्तनोतीति संबन्धः॥८६५॥

अध्यात्मादिविभागेन मात्रा जागरिते यथा॥
भोगेनेहापचीयन्ते प्रचीयन्ते च कर्मभिः॥८६६॥

वासनानां स्वप्नभोगेन क्षयादन्तवत्त्वोपपत्तेः सुप्तस्य मुक्तिः स्यादित्याशङ्क्य दृष्टान्तमाह। अध्यात्मादीति॥८६६॥

स्वप्नभूमावपि तथा कर्मणोत्थापिता इमाः॥
क्षयवृद्धिप्रबन्धेन मात्राः स्युर्वासनात्मिकाः॥८६७॥

दार्ष्टान्तिकमाह। स्वप्नेति॥८६७॥

धिया धियेति च तथा प्रागेतदुपपादितम्॥
ह्रासवृद्धिप्रबन्धेन यथेदं वर्तते जगत्॥८६८॥

उक्तार्थोपोद्बलकत्वेन सप्तान्नब्राह्मणोक्तं स्मारयति। धियेति॥८६८॥

स्वयमेव विहत्येति देवताप्रतिषेधकृत्॥
विशेषणं स्वयमिति देहपातेऽस्य भण्यते॥८६९॥

स्वयं विहत्येत्यत्र स्वयमितिविशेषणफलमाह। स्वयमेवेति। अस्याऽऽत्मनोदेहपाते देवतानां कर्तृत्वशङ्कानिषेधकमत्र स्वयमितिविशेषणमित्यर्थः॥८६९॥

स्वात्मापसर्पणाद्देहं निःसंबोधं करोति यः॥
सुषुप्सुः कर्मणां ध्वस्तौ विहत्येत्युच्यते ततः॥८७०॥

विहत्येत्यस्यार्थमाह। स्वात्मेति। यः सुषुप्सुर्जाद्धेतुकर्मध्वस्तौ स्वस्याऽऽत्मीयाद्देहादपसर्पणाद्धेतोः सुनिश्चेष्टं करोति स ततो देहनिःसंबोध643ताहेतुत्वाद्विहत्येति कर्तृत्वेनोच्यत इत्यर्थः॥८७०॥

भान्वाद्यनुग्रहाद्बोध आत्मनश्चक्षुरादिषु॥
देहस्य व्यवहारार्थं देहव्यवहृतिस्तथा॥८७१॥

कर्मक्षये देहादपसर्पणेऽपि कथमात्मनो देहविहतिकतृतेत्याशङ्क्याऽऽह। भान्वादीति। आत्मनो हि करणेषु देवतानुग्रहाद्देहचेष्टायै रूपादिबोधो जागरिते जायतेतथा सति देहचेष्टा दृष्टेत्यर्थः॥८७१॥

आत्मकर्मप्रयुक्तैव धर्मादिफलभुक्तये॥
कर्मणः फलभोगान्ते देहो यस्मात्पतत्ययम्॥८७२॥

देहव्यवहारोऽपि केन प्रयुज्यते किमर्थो वेत्याशङ्क्याऽऽह। आत्मेति। तथाऽपिकथमात्मनस्तद्विहति-कर्तृतेत्याशङ्कयाऽऽह। कर्मण इति। तस्मात्परं परया देहपातेहेतुरात्मेति शेषः॥८७२॥

निर्मायेति स्वयं तद्वदात्मकर्मव्यपेक्षया॥
स्वप्नप्रपञ्चनिष्पत्तिर्यस्मात्तस्माद्विशेषणम्॥८७३॥

स्वयं निर्मायेत्यस्यार्थमाह। निर्मायेतीति। यथा स्वयं विहत्येत्यत्र स्वयमितिविशेषणं तथा स्वयं निर्मायेत्यत्रापि तद्देवताशङ्कानिवृत्त्यर्थं यस्मादात्मकर्मापेक्षयास्वप्नोत्पत्तिस्तस्मादात्मनो निर्माणकर्तृत्वमप्यविरुद्धमित्यर्थः॥८७३॥

अपास्ताशेषकरणदैवतस्यापि चाऽऽत्मनः॥
क्रियाकारकसिद्ध्यर्थं भावनैवास्य कारणम्॥८७४॥

आत्मकर्माधीनां स्वप्नोत्पत्तिमुक्त्वा वासनामयमितिभाष्यपदाभिप्रायमाह। अपास्तेति। एवकारो भावनाप्राधान्यार्थः॥८७४॥

निर्मातव्योऽथ भोक्तव्यो यो लोकोऽभूदिहाऽऽत्मनः॥
तेन तेन स्वरूपेण भावना व्यवतिष्ठते॥८७५॥

तर्हि क्रियाकारकमात्रसिद्ध्यर्था भावनाऽस्तु न सा सर्वस्वप्ननिर्माणेहेतुर्नेत्याह।निर्मातव्य इति।अथशब्दस्तथाशब्द-पर्यायः। इहेति जागरोक्तिः॥८७५॥

अपेतकारकत्वोऽपि कर्मोत्थापितभावनः।
भावनाकारकेक्षित्वादात्मैकः कारकायते॥८७६॥

विहत्य निर्मायेति च कर्तृत्वमात्मनो न युक्तं न हि कूटस्थाद्वयस्य कर्तृतेत्याशङ्क्याऽऽह।अपेतेति। एकविशेषणादुपरिष्टादप्यपिर्द्रष्टव्यः॥८७६॥

जाग्रतो यदुपात्तं प्राग्भावनालक्षणं स्वयम्॥
भास्वद्धीसंश्रयं ज्ञानं भाःशब्देन तदुच्यते॥८७७॥

स्वेन भासा स्वेन ज्योतिषेत्यत्र भाज्योतिपोरैक्यात्पौनरुक्त्यमाशङ्क्य भाःशब्दार्थमाह। जाग्रत इति। जाग्रदवस्थस्य पुंसो यत्तस्यामेवावस्थायामार्जितं भावनाख्यंस्वयंज्ञानं तत्प्रकाशात्मकान्तःकरणवृत्तिरूपं भाःशब्दितमित्यर्थः॥८७७॥

बुद्ध्यादिकर644णोत्थाया व्यावृत्त्यर्थं विशेषणम्॥
स्वेनेति भासः प्रत्यक्विदभिव्यक्तिकृतोऽभिधा॥८७८॥

किमर्थं स्वेनेति विशेषणं तत्राऽऽह। बुद्ध्यादीति। स्वेनेत्यभिधारूपं विशेषणंप्रत्यक्चैतन्याभिव्यक्तिहेतोर्भासः स्वप्नावस्थागताया बुद्ध्यादिद्वारा प्रवृत्ता645याः कूटस्थबोधाज्ज्योतिष्ट्वेन प्रस्तुताद्व्यावृत्त्यर्थं भवति हि भावनामयी भाःस्वप्नस्था प्रत्यगभिव्यक्तिकरी तत्साक्षित्वेन तत्स्वयंज्योतिष्ट्वसाधनादित्यर्थः॥८७८॥

स्वशब्दाविह विज्ञेयावात्मीयात्मार्थवाचिनौ॥
भाज्योतिरनुरोधेन सामर्थ्यादेव कारणात्॥८७९॥

कथं स्वशब्देन कूटस्थज्योतिषोभासो व्यावृत्तिः स्वेन ज्योतिषेति ज्योतिषोऽपिविशेषणादित्याशङ्क्य स्वशब्दयोर्विशेष्यवशादर्थभेदाद्भाविशेषणेनाऽऽत्मज्योतिषस्तद्व्यावर्तनं युक्तमित्याह।स्वशब्दाविति। इहेति प्रकृतवाक्योक्तिः। कथं तदनुरोधेऽपिस्वशब्दयोरित्थमर्थव्यवस्थेत्याशङ्क्याऽऽह। सामर्थ्यादिति॥८७९॥

परार्था भावना यस्मात्स्वार्थं646 ज्योतिश्चिदात्मनः॥
उक्तार्थवाचिनौ तस्मात्स्वशब्दौ समुदाहृतौ॥८८०॥

कथं तयोः सामर्थ्यं तत्राऽऽह। परार्थेति॥८८०॥

स्वयंज्योतिरिति प्रोक्तो निष्क्रियोऽकारकोऽफलः॥
यः स एव स्वयंज्योतिर्ज्योतिःशब्देन भण्यते॥८८१॥

स्वेन ज्योतिषेत्यत्र ज्योतिःशब्दार्थमाह। स्वयमिति॥८८१॥

निःशेषलोकधीवृत्तिसा647क्षिणैवाविकारिणः648
प्रतीच ईदृशी वृत्तिः स्वपितीत्यभिधीयते॥८८२॥

प्रस्वपितीत्यस्यार्थमाह। निःशेषेति॥८८२॥

पीताध्यात्मादिकज्यो649तिर्जाग्रच्छब्दादिवर्जितः॥
वासनोपाधिरात्मैकः स्वयंज्योतिरितीर्यते650॥८८३॥

स्वापस्य सुषुप्तेः सकाशाद्विशेषार्थं स्वेन ज्योतिषेत्यस्यार्थ प्रपञ्चयति। पीतेति। आदित्यादिज्योतिरभावे कुतः शब्दादिधीरित्याशङ्क्याऽऽह। जाग्रदिति। स्थूलार्भाभावेऽपि तद्धीरस्तीत्याशङ्कय विशिनष्टि। वासनेति॥८८३॥

मातृमानप्रमेयादिसामग्री वासनात्मिका॥
स्वप्ने भाःशब्दवाच्याऽस्य स्वयंज्योतिष आत्मनः॥८८४॥

आत्मनि मानादिसामग्रीप्रवृत्तेर्न स्वयंज्योतिष्ट्वमित्याशङ्क्य स्वेन भासेत्यस्यार्थं प्रपञ्चयति। मात्रिति। स्वप्ने मात्रादिसामय्या वासनात्मिकाया मासः प्रत्यग्विषयत्वान्नतदीयस्वप्रकाशत्वहानिरित्यर्थः॥८८४॥

प्रमातृत्वादिका सर्वा प्रथते विषयात्मना॥
भावना स्वार्थरूपस्य प्रतीचोऽलुप्तचक्षुषः॥८८५॥

कथं सा स्वप्ने प्रतीचो विषयस्तत्राऽऽह। प्रमातृत्वादिकेति। स्वार्थरूपत्वे हेतुमाह। अलुप्तेति॥८८५॥

मातारं मेयसंबद्धं651 जाग्रद्भूमौ यथेक्षते॥
निष्क्रियो वासनाराशिंस्वप्नभूमौ तथेक्षते॥८८६॥

स्वाप्नी भावना प्रत्यग्विषयत्वेन भातीत्येतद्दृष्टान्तेनाऽऽह। मातारमिति॥८८६॥

स्वयंज्योतिरयं प्रत्यङ्सर्व652साधननिस्पृहः॥
कूटस्थो वासनाः स्वप्नेचिदाभासाः करोत्ययम्॥८८७॥

ईक्षते चेत्करणापेक्षत्वं तद्विरहिणोऽकर्तृत्वादित्याशङ्क्याऽऽह। स्वयमिति। कथंतर्हि स्वप्ने रथादि653प्रथेत्यत्राऽऽह। कूटस्थ इति॥८८७॥

तत्संनिधौ चिदाभत्वं कार्यकारणवस्तुनः॥
यत्तदस्याऽऽत्मनो मोहाद्द्रष्टृत्वमुप654चर्यते॥८८८॥

करोति चेन्न कौटस्थ्यमित्याशङ्क्याऽऽह। तत्संनिधाविति। द्रष्टृत्वं तत्तदर्थविषयदृष्टिकर्तृत्वमिति यावत्॥८८८॥

ज्योतिषाऽकारकेणाऽऽत्मा वर्ततेऽसंस्पृशन्परम्॥
चिदाभा वासनाश्चैवं संगतिर्न तयोर्मिथः॥८८९॥

मोहकृतं द्रष्टृत्वमुपपादयति। ज्योतिषेति। अकारकेणासंस्पृशन्निति च्छेदः।कूटस्थबोधेन वर्तमानोऽसङ्गः सन्नात्मा स्वप्ने वासनाभिरपि न संसृज्यते तत्कुतोऽस्यमुख्यं द्रष्टृत्वमित्यर्थः। तर्हि वासनानां स्वातन्त्र्यान्नामुख्यमपि तद्द्रष्टृत्वं नेत्याह।चिदाभा इति। वासना हि जायमानाश्चिदाभासव्याप्ता जायन्त आत्मा तु स्वतन्त्रोन केनचिदपि संबध्यतेऽतस्तयोरात्मवासनयोरन्योन्यसंगत्यभावाद्वासनानामात्मनिधीद्वाराऽऽरोपितत्वाच्चाऽऽरोपितमात्मनस्तद्द्रष्टृ-त्वमित्यर्थः॥८८९॥

यथा जात्यमणेः शुद्धा ज्वलन्ती निश्चला शिखा॥
संनिध्यसंनिधानेषु घटादीनामविक्रिया॥८९०॥

आत्मनो विक्रियाभावाच्चाऽऽरोपितैव द्रष्टृतेति वक्तुमक्रियत्वे दृष्टान्तमाह। यथेति।जात्यो जातौ भवः शुद्धो मणिस्तस्येति यावत्॥८९०॥

निःशेषबुद्धिसाक्ष्येवं परमात्मप्रदीपकः॥
संनिध्यसंनिधानेषु धीवृत्तीनामविक्रियः॥८९१॥

दार्ष्टान्तिकमाह। निःशेषेति॥८९१॥

न प्रकाशक्रिया काचिदस्य स्वात्मनि विद्यते॥
उपचारात्क्रिया साऽस्य यः प्रकाश्यस्य संनिधिः॥८९२॥

साक्षिणोऽपि प्रकाशार्था विक्रियाऽस्तीति चेत्सा किं स्वप्रकाशार्था किंवाऽर्थप्रकाशार्थेति विकल्प्याऽऽद्यं दूषयति। नेति। स्वयमेव655 प्रकाशत्वादित्यर्थः। द्वितीयंनिराह। उपचारादिति॥८९२॥

यदेवं वर्तनं श्रुत्या स्वपितीति तदुच्यते॥
इत्थंभूते तृतीयाऽतः स्वेन भासेति गृह्यते॥८९३॥

कूटस्थप्रकाशैकरसस्य कथमात्मनः स्वपितीति व्यपदेशस्तत्राऽऽह। यदिति।बुद्धिस्थवासनासाक्षित्वेनाऽऽत्मतो यदवस्थानं तदेव प्रस्वपितीति श्रुत्या स्वापत्वेनोच्यते

न ज्ञानविपरिलोप इत्यर्थः। तृतीयाचतुष्टयार्थमाह। इत्थमिति। वासनासाक्षितया वर्तनमात्मनो यतः स्वापोऽतः स्वेन भासा स्वेन ज्योतिषेति तृतीया सर्वा कूटस्थप्रत्यग्ज्योतिरात्मना स्वकीयवासनाराशिसाक्षित्वेन तिष्ठतीत्थंभूतेऽर्थे ज्ञेयेत्यर्थः॥८९३॥

सामग्र्यभावान्नैवेह कर्तृत्वादि विवक्ष्यते॥
आत्मनोऽकारकत्वं च प्राधान्येन विवक्षितम्॥८९४॥

रामेण शरेणेतिवत्कर्तरि करणे वा सा किं न स्यात्तत्राऽऽह। सामग्रीति। कार्य656कारणादिलक्षणा सामग्री न हि वासनातिरिक्ता साऽस्ति। इहेति स्वप्नोक्तिः। इतश्चात्रकर्तृत्वाद्यविवक्षितमित्याह। आत्मन इति॥८९४॥

भान्वादिवाह्यज्योतिर्भिः संकीर्णः प्रागभूदयम्॥
अन्यस्य ज्योतिषोऽभावात्स्वयंज्योतिः पुमानयम्॥८९५॥

अत्रेत्यादेरर्थमाह। भान्वादीति। प्राग्जाग्रति संप्रति स्वप्नावस्थायामिति शेषः॥८९५॥

नान्यत्र कारणाद्वृत्तिः कार्याणां जागरेऽपि हि॥
कारणं च तमस्व्यात्मा नातः स्वप्ने मनस्थितिः॥८९६॥

ज्योतिरन्तराभावः स्वप्ने नास्ति मनसो ज्योतिषस्तत्र सत्त्वादन्यथा सुषुप्तादविशेषप्रसङ्गादतो न तत्र स्वयंज्योतिष्ट्वमित्याशङ्क्य संमतमर्थमाह। नान्यत्रेति। अवस्थान्तरेऽपीत्यपेरर्थः। कार्याणां स्वातन्त्र्येण दुर्निरूपित657त्वादितिहेत्वर्थो हिंशब्दः। अस्त्वेवंप्रस्तुते किं जातं तदाह। कारणं चेति। अज्ञातो हि प्रत्यगात्मा जगद्धेतुस्तथाचकार्यस्य मनसः स्वकारणार्धनित्वान्न स्वप्ने स्वतन्त्रतया स्थितिः, स चाऽऽत्मा तत्साधको,नाऽऽत्मसाधकं तद्युक्तं पराधीनत्वेन सर्पवज्जडत्वादित्यर्थः॥८९६॥

ननु जाग्रच्छरीरादेर्मात्रोपादानमीरितम्॥
तस्मिन्सति स्वयंज्योतिः कथमात्माऽभिधीयते॥८९७॥

अत्रेत्यादिनोक्तमाक्षिपति। नन्विति। जाग्रद्वासनावशादेवाऽऽत्मसिद्ध्युपपत्तेर्न तस्यस्वयंज्योतिष्ट्वसिद्धिरित्यर्थः॥८९७॥

सत्यमेवं तथाऽपीदं मात्रादानं परात्मनः॥
सर्वदा विषयीभूतं गन्धर्वनगरादिवत्॥८९८॥

स्वप्ने मात्रोपादानमङ्गी करोति। सत्यमिति। तर्हि स्वीकृतवासनानुसारादात्मसिद्धेर्न स्वयंज्योतिष्ट्वमत आह। तथाऽपीति। न हि वासनाजातमात्मनः स्वप्रकाशत्वबाधकमात्मविषयत्वेनैव स्फूर्तेरित्यर्थः॥८९८॥

एतस्मिन्ननृतोपाधौ शक्यो दर्शयितुं परः॥
वासनालक्षणे साक्षात्स्वयंज्योतिःस्वभावकः॥८९९॥

वासनाराशेः स्वयंज्योतिष्ट्वाबाधकत्वमुक्त्वा तत्साधकत्वमेवेत्याह। एतस्मिन्निति।तत्साधकत्वेनापरोक्षत्वसंभवादिति हेतुः साक्षादित्युच्यते॥८९९॥

सर्वोपाधिविनिर्मुक्तौ नैव शक्यः स ईक्षितुम्॥
सुषुप्त इव तेनासन्मात्रादानमिदं कृतम्॥९००॥

वासनाख्यमिथ्योपाध्यतिरेकेणापि स्वयंज्योतिरात्मा शक्यो दर्शयितुमित्याशङ्क्याऽऽह। सर्वेति। न हि स्थूलोपाधिसत्त्वे जागरितवदशेषोपाध्यसत्त्वे च सुषुप्तवदात्मा स्वयंज्योतिः शक्यो दर्शयितुं तथाच स्वप्ने कृतं मिथ्याभूतवासनादानमात्मस्वयंज्योतिष्ट्वसाधनोपयुक्तमित्यर्थः। असच्छब्दो मिथ्यार्थः॥९००॥

ननु जाग्रद्वदीक्ष्यन्ते ग्रहीतृग्रहणादयः॥
स्वयंज्योतिः कथं तेषु सत्सु स्वप्नेऽभिधीयते॥९०१॥

आत्मनः स्वप्ने स्वयंज्योतिष्ट्वंविधान्तरेणाऽऽक्षिपति। नन्विति॥९०१॥

नैतदेवं कुतो जाग्रद्वैलक्षण्यात्मकत्वतः॥
स्वप्नस्य देहबुद्ध्यादेः स्वप्नवृत्तावसंभवात्॥९०२॥

जाग्रत्स्वप्नयोरैकरूप्यमसिद्धमित्याह। नैतदिति। त्वयाऽपि स्वीकृतं तदैकरूप्यमिति मत्वा हेतुं पृच्छति। कुत इति। व्यावहारिकं वैलक्षण्यमुपेत्योत्तरमाह। जाग्रदिति। तदेव साधयति। देहेति॥९०२॥

आत्मबुद्धिमनश्चक्षुरालोकार्थादिलक्षणम्॥
जाग्रदेव न तु स्वप्नो भावनामात्रशेषतः॥९०३॥

उक्तमर्थं जागरिते हीत्यादिभाप्येण प्रपञ्चयति। आत्मेति। आदिशब्देन करणभेदो विषयभेदश्च गृह्यते॥९०३॥

आविश्चिकीर्षुः साक्षादिममर्थं च श्रुतिः परा॥
न तत्रेति प्रवृत्तैषा प्रत्यगात्मविशुद्धये॥९०४॥

तत्रानन्तरवाक्यं पातयति। आविरिति। प्रत्यगर्थविशुद्ध्यर्थं स्वप्नस्य जाग्रतो बैलक्षण्यलक्षणमर्थं साक्षादाविष्कर्तुमिच्छन्ती न तत्रेत्याद्या श्रुतिः प्रवृत्तेति योजना॥९०४॥

कर्मकृद्धिषणान्तो यः कामाविद्यासमन्वितः॥
स्वापबोधाविमौ तस्य न तु तत्साक्षिणो दृशेः॥९०५॥

तद्विशुद्धिरसिद्धा बुद्ध्यादिवदवस्थावत्त्वादित्याशङ्क्याऽऽह। कर्मेति। विशिष्टस्यलक्षितस्य वाऽशुद्धिर्नाऽऽद्यः सिद्धत्वादिष्यते हि बुद्धिविशिष्टस्याविद्यास्मितादिदोषवतो

धर्माधर्मकर्तुरवस्थावत्त्वेनाशुद्धत्वं नेतरो हेत्वसिद्धेरित्यर्थः। साक्षिणो दृष्टिकर्तृत्वमाशङ्क्याऽऽह। दृशेरिति॥९०५॥

कूटस्थज्योतिषैवाऽऽस्ते स्वप्नस्थानेऽक्रियोऽद्वयः॥
चिदाभया वासनया तत्साक्षित्वं प्रकल्पते658॥९०६॥

तस्यावस्थावत्त्वाभावे हेतुमाह। कूटस्थेति। स्वप्नादौ सर्वक्रियारहितो द्वैताभावोपलक्षितो निर्विकारचैतन्य-मात्रत्वेनाऽऽत्माऽवतिष्ठते तत्कुतोऽस्यावस्थावत्त्वमित्यर्थः। कूटस्थाद्वयस्य कुतः साक्षित्वं सक्रियस्य सद्वयस्यैव च लोके तद्दृष्टेरित्याशङ्क्याह।चिदाभयेति। कूटस्थाद्वयस्यैव चैतन्याभासव्याप्तजाग्रद्वासनानुसारेण स्वप्ने प्रतीचःसाक्षित्वं तथाऽवस्थान्तरेऽपि काल्पनिकं स्वयंज्योतिषस्तदविरुद्धमित्यर्थः॥९०६॥

तत्प्रयोक्तृक्रियाभावाद्वुद्ध्यादिज्योतिषामिह॥
न व्यापृतिरतः प्रत्यङ्ज्योतिषा स्वेन वर्तते॥९०७॥

अवस्थासाक्षितयाऽऽत्मनः शुद्धत्वमुक्त्वा प्रकृतश्रुतेस्तात्पर्यं निगमयति। तदिति।बुद्ध्यादीनां तत्प्रेरककर्मणां च स्वप्ने वासनानतिरेकात्तन्मयानां तेषामात्मप्रकाश्यत्वात्तस्मिन्प्रकाशकत्वेन न प्रवृत्तिरतः स्वय659मेव ज्योतिस्तत्राऽऽत्मेत्यर्थः॥९०७॥

जाग्रद्वस्तूनि सर्वाणि भावनामात्ररूपताम्॥
जाग्रत्कर्मक्षये यान्ति स्वप्नकर्मोद्भवे सति॥९०८॥

स्वप्ने बुद्ध्यादीनां वासनातिरेकेणाभावमुक्तं व्यनक्ति। जाग्रदिति॥९०८॥

ता भावना उपादाय प्रत्यङ् स्वप्ने660 रिरंसया॥
करोत्येष रथाद्यर्थं स्वप्नभोगप्रसिद्धये॥९०९॥

करणं कर्म कर्ता च कर्मैतत्कारकात्मकम्॥
प्रत्यङ्मोहैकनिष्ठं सच्चिदा661भत्वात्तदात्मनि॥९१०॥

अथ रथानित्यादेस्तात्पर्यमाह। ता इति। आत्मा स्वप्ने रथादि करोति चेद्वुद्ध्याद्यपि करिष्यति तथाच स्वकृतबुद्ध्यादिप्रकाशयतया न स्वयंज्योतिष्ट्वमित्याशङ्क्याऽऽह।स्वप्नेति। करणादिकारकरूपं वासनात्मकं सर्वं प्रतीचः स्वप्नभोगार्थं कर्मत्वेन प्रथतेतेन न तत्प्रत्यक्प्रकाशकमित्यर्थः। कथं तहिं बुद्ध्यादेरात्मविषयत्व-प्रतीतिस्तत्राऽऽह।प्रत्यगिति। तद्धि बुद्ध्यादि साभासाज्ञाने कल्पितं चिदाभासवत्त्वादज्ञानेन सहाऽऽत्मनिकल्प्यते662 तेन तद्विषयत्वधीरित्यर्थः॥९०९॥९१०॥

कार्यकारणरूपेण कर्मैतत्प्रथते जगत्॥
आत्मन्येतत्समध्यस्तमात्माविद्यैकहेतुतः॥९११॥

करणं कर्मेत्यत्रोक्तमनूद्य प्रत्यङ्मोहेत्यादिनोक्तमर्थं साधयति। कार्येति। कर्मविषयभूतमिति यावत्॥९११॥

सर्वस्य कर्मणोऽत्यन्तमात्माऽकर्ता विलक्षणः॥
तत्संहतः स्वयं त्वात्माऽसंहतो निर्गुणः शुचिः॥९१२॥

अविद्ययाऽऽत्मन्यध्यस्तं जगदित्यत्र फलितमाह। सर्वस्येति। कर्मणो जगतोविषयस्येति यावत्। अत्यन्तं विलक्षण इति संबन्धः। अकर्तेति च्छेदः। अविद्यातज्जसंबन्धादात्मनश्च सगुणत्वाद्व्याप्तिमाशङ्क्याऽऽह। तदिति॥९९२॥

अविद्यया स्वमात्मानमशुद्धं मन्यते यदा॥
जाग्रत्स्वप्नसुषुप्तानि तदैतानि प्रपद्यते॥९१३॥

आत्मा शुद्धश्चेत्कथं तस्यावस्थावत्त्वप्रथेत्यत आह। अविद्ययेति॥९१३॥

रथा दार्वाद्यसद्भावान्न सन्ति स्वप्नदर्शने॥
न सन्त्यश्वादयस्तद्वद्रथयोगाः सवर्त्मकाः॥९१४॥

रथादीन्सृजतेऽथात्र जाग्रत्कर्मादिहेतुकान्॥
अविद्याकामकर्माणि सृष्टिबीजमिदं दृशेः॥९१५॥

न तत्रेत्यादेः स हि कर्तेत्यन्तस्य तात्पर्यमुक्त्वा नेत्यादेरक्षरार्थमाह। रथा इति।अत्रेति स्वप्नोक्तिः। दार्वादिहेत्वभावे कथं रथादिसृष्टिरित्याह। अथेति। तत्रोत्तरम्।जाग्रदिति। कर्मदे रथादिसृष्टिहेतुत्वे कथमात्मा स्रष्टोच्यते तत्राऽऽह। अविद्येति॥९१४॥९१५॥

कर्मणो गमनस्येह साधनाभावहेतुना॥
स्वप्ने मृषात्वमाहैवं गमनादेः श्रुतिः स्वयम्॥९१६॥

रथादि सृज्यते चेत्कथं स्वप्ने तदभावोक्तिरित्याशङ्क्याऽऽह। कर्मण इति। गमनाख्यकर्महेतुरथादिनिरासेन स्वप्ने गमनादेर्मिथ्यात्वं स्वयमेव श्रुतिर्दर्शयत्येवं सर्वस्यापिस्वप्नस्य मिथ्यात्वमत्र विवक्षितं मायामात्रं त्विति न्यायादित्यर्थः॥९१६॥

न कर्मफलमप्यत्र स्वप्ने तद्धेत्वसंभवात्॥
नाऽऽनन्दा अपि तत्रेति ह्यतः श्रुतिरभाषत॥९१७॥

न तत्राऽऽनन्दा इत्यादेस्तात्पर्यमाह। न कर्मेति। स्वप्ने कर्माभावात्तत्फलाभावइत्यत्र श्रुतिमवतारयति। नेति। हेत्वभावे फलाभावं हिशब्दोपात्तमतःशब्देनानुवदति॥९१७॥

आह्लदाः स्युरिहाऽऽनन्दा हर्षाश्चात्र मुदस्तथा॥
प्रकर्षगुणसंबन्धाः प्रमुदो मुद एव तु॥९१८॥

पल्वलास्त्विह वेशान्ताः प्रसिद्धार्थं तथोत्तरम्॥
इत्येवमसतामेव स्रष्टाऽऽत्मा स्वात्ममायया॥९१९॥

आनन्दादिपदानामपुनरुक्तमर्थमाह। आह्लादाः स्युरिति। इहेत्यत्रेति च प्रकृतवाक्योक्तिः। आनन्दाः सुखसामान्यानि। मुदः पुत्रादिनिमित्ता हर्षाः। प्रमुदस्तु हर्षाएव प्रकर्षविशिष्टा इति भेदः। पल्वलाः क्षुद्राणि सरांसि। उत्तरं स हीत्यस्मात्प्राक्तनंवाक्यम्। न तत्रेत्यादिवाक्यार्थमुपसंहरति। इत्येवमिति॥९१८॥९१९॥

चिदाभकारकोद्भूतवासनाकर्महेतुकः663
स्वयं निर्माय सृजत इत्यकर्मापि भण्यते॥९२०॥

आत्मनो मायया स्रष्टृत्वे युक्तिमाह। चिदाभेति। चैतन्याभासव्याप्तबुद्ध्यादिकारकाकारेणाभिव्यक्तवा664सना-प्रयोजकस्वप्नभोगहेतुकर्मस्वविद्ययाहेतुत्वाद्वस्तुतो निर्व्यापारोऽप्यात्मा तत्र कर्तोच्यते। तत्र कूटस्थस्य मायिकमेव स्रष्टृत्वमित्यर्थः॥९२०॥

अविचारितसंसिद्धं क्रियाकारकलक्षणम्॥
जाग्रद्भूमावपि मतं किमु स्वप्नैकनीडगम्॥९२१॥

स्वप्नसृष्टेर्मायामयत्वे कैमुतिकन्यायमाह। अविचारितेति॥९२१॥

रथादिवासनानीडचित्तवृत्तिसमुद्भव—
कर्महेतुत्वतः कर्ताऽकर्ताऽप्यात्माऽभिधीयते॥९२२॥

स हि कर्तेत्यस्यार्थमाह। रथादीति। जाग्रद्दृष्टरथाद्याकारवासनाश्रयचित्तस्थप्रकाशरूपपरिणामव्यञ्जककर्म-हेतुत्वाद्वस्तुतोऽकर्ताऽप्यात्मा कर्तेत्युच्यते न तस्य स्रष्टृत्वादिरित्यर्थः॥९२२॥

अकर्तुरपि कर्तृत्वं स्वात्माज्ञानैकहेतुतः॥
तदन्यस्येह कार्यत्वात्कर्ताऽऽत्मैव तमोवधिः॥९२३॥

अकर्ता चेदात्मा न कर्महेतुर्विरोधादित्याशङ्क्याऽऽह। अकर्तुरिति। आत्मनःकर्तृत्वमज्ञानकृतं चेदन्यो वस्तुतोऽस्तु कर्तेत्याशङ्क्याऽऽह। तदन्यस्येति। शास्त्रीयोव्यवहारः सप्तम्यर्थः॥९२३॥

स्वप्नवृत्तावुपादानं साधनं वा न विद्यते॥
रथादेरसतस्तस्माद्द्रष्टैवाऽऽत्मा न कारकः॥९२४॥

आत्मनो665ऽपि कथमाविद्यं रथादिकर्तृत्वं स्वप्ने तदुपादानस्य दार्वादेस्तदुपकरणस्यपरश्वादेश्च सत्त्वादित्याशङ्क्याऽऽह। स्वप्नेति॥९२४॥

अस्ति यत्राप्युपादानं साधनं वाऽस्य जागरे॥
तत्राप्यात्मचिदाभासमनोबुद्ध्यादिकारकैः॥९२५॥

रथादिवासनांनीडधीवृत्त्युद्भवकारणम्॥
कर्म निर्वर्त्यते तेन स हि कर्तेति भण्यते॥९२६॥

स्वप्ने रथादेरात्मा साक्षी चेत्कथं कर्तेत्युक्तिरित्याशङ्क्याज्ञानतः स्वप्नहेतुकर्मनिर्वर्तकत्त्वादित्याह। अस्तीति। अस्येति रथादिनिर्देशः॥९२५॥९२६॥

भान्वादेरिव कर्तृत्वं कर्त्राद्यर्थावभासनात्॥
बुद्ध्यादिकर्तृसाक्षित्वात्कर्तृत्वाद्यात्मनो भवेत्॥९२७॥

एवमात्मा कर्ता चेद्द्रष्टैव न कारक इति कथमुक्तं तत्राऽऽह। भान्वादेरिति। कर्त्राद्यर्थाव-भासात्मत्वादादित्यादेरवभासकर्तृत्वं यथोपचर्यते तथाऽऽत्मनोऽपि बुद्ध्यादिकारकसाक्षित्वात्कर्तृत्वाद्युप-चरितमित्यर्थः॥९२७॥

क्रियाकर्तृत्वमेवास्य हेतुर्बुद्ध्यादिसंगतौ॥
यथावस्त्वपरिज्ञानाद्धीति हेतावतः पदम्॥९२८॥

स हीत्यत्र हिशब्दार्थमाह। क्रियेति। प्रत्यगज्ञानाद्बुद्ध्यादिसंबन्धाधीनं यदात्मनो धर्मादिकर्तृत्वं जाग्रति जातं तदेवास्य स्वप्ने रथादिनिर्माणे हेतुरिति हेतौ हीतिपदं तस्माद्युक्तमात्मनो मायिकं स्वप्ने स्रष्टृत्वमित्यर्थः॥९२८॥

स्वयंज्योतिष्ट्वमस्योक्त्वा बुद्ध्यादेश्चातिरेकताम्॥
मन्त्राञ्जगादाथात्रार्थे ब्राह्मणोक्तेरनन्तरम्॥९२९॥

तदेत इत्यादेरर्थमाह। स्वयमिति। अथशब्दस्यैवार्थो ब्राह्मणोक्तेरित्यादि॥९२९॥

स्वप्नवृत्त्या विहत्येमं जाग्रद्देहं क्रियाक्षयात्॥
असुप्तो भावनारूपान्सुप्तान्प्राणान्प्रपश्यति॥९३०॥

स्वप्नेनेत्यादेरर्थमाह। स्वप्नवृत्त्येति। विहत्य निश्चेष्टमापाद्येति यावत्। तत्र हेतुः।क्रियेति। जाग्रद्धेतुकर्मक्षयात्स्वप्नहेतु-कर्मोद्भूतेश्चेत्यर्थः। असृप्तः सुप्तानित्यादेरर्थमाह। असुप्त इति॥९३०॥

असुप्तोऽकर्महेतुत्वात्सुप्तान्प्राणान्क्रियोत्थितेः॥
कूटस्थदृष्टिस्वाभाव्यात्स्वप्न आत्मा प्रपश्यति॥९३१॥

कथमात्मनोऽसुप्तत्वं तत्राऽऽह। असुप्त इति। स्वात्मबोधस्य कर्महेतुत्वाभावाद्बोधहेतुकर्म-क्षयेऽप्यात्मनोऽसुप्ततेत्यर्थः। कथं प्राणानां सुप्तत्वं तत्राऽऽह। सुप्तानिति। कर्मनिमित्तत्वात्प्राणप्रवृत्तेः क्षीणे कर्मण्युपसंहृतानेतान्पश्यतीति यावत्। पश्यतीत्युक्त्यादृष्टिकर्तृत्वप्राप्तावुक्तम्। कूटस्थेति॥९३१॥

प्राणादिशुक्रमादाय कृत्वा तद्भावनामयम्॥
लोकमात्माऽक्रियः स्वस्थश्चाकशीत्यभिपश्यति॥९३२॥

शुक्रमादायेत्यस्याभिचाकशीत्यनेन संबन्धं दर्शयन्नर्थमाह। प्राणादीति। प्राणो

घ्राणमिन्द्रियाणां प्रकृतत्वात्तदेव शुक्रं दीप्तिमत्त्वात्तस्य वा शुकंज्योतिष्म666दर्थग्रहणसामर्थ्यम्। आदातृत्वे द्रष्टृत्वे सक्रियत्वोक्तिमाशङ्क्योक्तम्। अक्रिय इति। तथाऽपितत्प्रयुक्तं दुःखं शङ्कित्वा साक्षित्वेन प्रत्याचष्टे। स्वस्थ इति॥९३२॥

क्षीणस्वप्नोत्थसंभोगो जाग्रद्भोगाश्रयं पुनः॥
याति बुद्ध्यादिकं स्थानं पुमान्हंसाभिधो ध्रुवः॥९३३॥

पुनरित्यादि व्याचष्टे। क्षीणेति॥९३३॥

पर्यायेण यतोश्चोभौ लोकौ हन्त्येकलः स्वतः॥
एकहंस इति प्रोक्तः पुराणज्ञैस्ततः प्रभुः॥९३४॥

कथं पुंसो हंसाभिधत्वमित्याशङ्क्यैकहंस इत्यस्यार्थमाह। पर्यायेणेति। हन्तिरत्रगत्यर्थो हन हिंसागत्योरिति स्मृतेः। पुराणज्ञैरनाद्यनन्ततत्त्ववेदिभिरिति यावत्। प्रसिद्धार्थो वा पुराणशब्दः। उक्तं हि—

“एकं पादं नोत्क्षिपति सलिलाद्धंस उच्चरन्।
स चेदुदखिदत्पादं न मृत्युर्नामृतं भवेत्॥
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्” इति।
“मरीचिर्दमनो हंसः” “एको नैकः सवः”इति च॥
“अनन्तमचलं मेरुं हंसं नारायणं प्रभुम्।
धातारमजरं नित्यं तमाहुः परमव्ययम्” इति च॥९३४॥

हिरण्यं ज्योतिर्विज्ञानं तावन्मात्रसतत्त्वकः॥
हिरण्मयस्ततो देवः स्वार्थेऽत्र मयडिष्यते॥९३५॥

हिरण्मयपदं व्याचष्टे। हिरण्यमिति। मयटो विकारार्थत्वं व्यावर्तयति। स्वार्थइति॥९३५॥

परस्य पुरुषस्यायं तदबोधप्रकल्पनात्॥
साक्षिमात्रादिकस्तस्मात्पौरुषोऽयमितीर्यते॥९३६॥

हिरण्मयः पौरुष एकहंस इति माध्यंदिनास्तत्र पौरुषशब्दार्थमाह। परस्येति। आदिपदेन मेयं कर्ता कर्मेत्यादिर्विभागो गृहीतः॥९३६॥

पूरणान्निखिलस्यास्य कार्यकारणवस्तुनः॥
पुरुषोऽयं भवेदात्मा पूर्णत्वाद्वाऽद्वयात्मनः॥९३७॥

हिरण्मयः पुरुष इति काण्वास्तत्र पुरुषशब्दार्थमाह। पूरणादिति। सर्वपूरकत्वेहेतुः। आत्मेति। पूर्णत्वे हेतुः। अद्वयेति॥९३७॥

हानेनाङ्गविकल्पानां नवानां संचयेन च॥
हंसत्वमृषयः प्राद्दुरात्मनः पारदर्शिनः॥९३८॥

एक एव गच्छतीत्येकहंस इति व्याख्यातम्। इदानीमर्थान्तरमाह। हानेनेति।अङ्गविकल्पानां देहविशेषाणामिति यावत्। उक्तं च—

“हानेन गतकालानां नवानां संचयेन च।
शरीराणामजस्याऽऽहुर्हंसत्वं पारदर्शिनः”इति॥९३८॥

प्राणेन ह्यवरं रक्षन्मरणाद्देहकं परः॥
बहिर्देहं चरित्वाऽथ पुनरैति यथागतम्॥९३९॥

प्राणेनेत्यादेरर्थमाह। प्राणेनेति। देहस्य रक्षणं प्राणप्रयुक्तमितिप्रसिद्ध्यर्थोहिशब्दः। अवरत्वस्फुटीकरणार्थो देहे कप्रत्ययः। यदि परः स्वप्ने प्राणेन देहं नरक्षेत्तदा मृतभ्रान्तिः स्यादित्यर्थः। बहिरित्यादेरर्थमाह। बहिरिति। यद्यपि देहस्थःस्वप्नं पश्यति तथाऽपि मिथ्याभिमानाभावाद्बहिरित्युक्तम्। अपेक्षितं पूरयति। अथेति। जाग्रत्कर्मोद्भवानन्तरमित्यर्थः। पुनःशब्देन स्वप्नहेतुकर्मक्षयानन्तर्यमुच्यते॥९३९॥

नाडीस्त्यक्त्वा यतः स्वप्नेजाग्रद्भोगप्रदाः पुमान्॥
स्वप्नभोगप्रदा याति वहिनींडादतस्तदा॥९४०॥

द्रष्टा स्वप्ने देहाद्बहिरित्येतत्प्रतिपादयति। नाडीरिति॥९४०॥

कर्मणोद्भाविता यत्र वासना कामरूपिणी॥
तामादायैति देहं स्वं हंस आत्माऽमृतोऽव्ययः॥९४१॥

स ईयत इत्यादेरर्थमाह। कर्मणेति। स्वप्नहेतुकर्मव्यक्तार्थविशेषस्थवासनां कामात्मिकामाश्रित्य तन्मयं स्वकर्मोचितं देहमात्मा स्वप्ने गच्छतीत्यर्थः। हंसश्चेदात्मा तर्हिगमनवत्त्वान्नाशापक्षयभागी स्यादित्याशङ्क्याव्यय इत्युक्तं स्मारयति। अमृत इति॥९४१॥

कर्मज्ञानानुरूपेण रूपमुच्चावचं मुहुः॥
स्वप्नमायाप्रपञ्चस्थ आत्माऽऽप्नोतीव निष्क्रियः॥९४२॥

स्वप्नान्त इत्यादेरर्थमाह। कर्मेति। इवशब्दप्रयोगे हेतुमाह। निष्क्रिय इति॥९४२॥

नर्मार्थोजक्षतिर्ज्ञेयो हर्षार्थो मोदतिस्तथा॥
अविद्यया भयं चेह स्वप्ने तद्धेत्वसंभवात्॥९४३॥

उतेव स्त्रीभिरित्यादेरर्थमाह। नर्मार्थ इति। परिहासो नर्मशब्दार्थः। स्वप्नेव्याघ्रादिकृतं भयं कथमाविद्यमिति तत्राह। तद्धेत्विति। अविद्येतरव्याघ्राद्यभावात्तत्कृतमेव तत्र भयमित्यर्थः॥९४३॥

आराममेव मायोत्थं स्वप्ननिर्माणलक्षणम्॥
मायिनस्तस्य पश्यन्ति न तं पश्यति कश्चन॥९४४॥

आराममित्यादेरर्थमाह। आराममिति॥९४४॥

बुद्ध्यादेर्व्यतिरिक्तत्वं स्वयंज्योतिष्ट्वमागमात्॥
आत्मनः प्रतिपाद्याथ लोकतोऽपि विभाव्यते॥९४५॥

तं नाऽऽयतमित्यादि वृत्तानुवादद्वाराऽऽदत्ते। बुद्ध्यादेरिति। लोकागमयोरेकार्थत्वमत्र हेतूकर्तुमथशब्दः॥९४५॥

सुुप्तं बोधयेद्गाढमिति वादो हि लौकिकः॥
किमर्थमिति चेत्तत्र लोकः कारणमीक्षते॥९४६॥

तद्व्याचष्टे। सुप्तमिति। तत्र सर्वलोकसंप्रतिपत्त्यर्थो हिशब्दः। भृशं सुप्तं सहसान बोधयेदित्यत्र प्रश्नपूर्वकं हेतुमाह। किमर्थमिति॥९४६॥

प्रबोधनाडीस्त्यक्त्वाऽऽत्मा स्वप्ननाडीरयं गतः॥
इति लोकप्रसिद्धत्वात्तस्मिल्लोँकोऽनुशास्ति तत्॥९४७॥

तदेव कारणं स्पष्टयति। प्रबोधेति। तस्मिन्सुप्ते पुंसीति यावत्। तस्मादिति पाठेव्यक्तार्थता। तदित्यनुशासनवचनम्॥९४७॥

नाडीव्यत्यासगमनशङ्क्यैवानुशासति॥
सुप्तं न बोधयेद्गाढमिति तद्दोषदर्शिनः॥९४८॥

नाड्यन्तरे प्रवेशप्रसिद्धावपि गाढं सुप्तं झटिति न बोधयेदिति कस्मादनुशास्तिलोकस्तत्राऽऽह। नाडीति॥९४८॥

यथायोगमयं नाडीर्गाढं सुप्तः प्रबोधितः॥
न प्रपद्येत तेनायं स्यात्सुदुःखभिषक्क्रियः॥९४९॥

व्यत्यासगतौ दोषं दर्शयन्दुर्भिषज्यमित्यादि व्याकरोति। यथेति। तेनाऽऽन्ध्यबाधिर्यादिप्रसङ्गेनेति यावत्॥९४९॥

देहप्रवेशनिर्याणहेतोर्देहाद्गृहादिवत्॥
बुद्ध्यादिव्यतिरिक्तत्वमात्मनोऽस्यावसीयताम्॥९५०॥

लोकप्रसिद्धिमन्त्रब्राह्मणवादेभ्यः सिद्धमर्थमुपसंहरति। देहेति। यथा गृहे प्रविशन्निर्गच्छंश्च चैत्रस्ततो भिद्यते तथा देहे प्रवेशान्निर्गमाच्चाऽऽत्मा ततो भिन्नस्तस्मात्तस्यबुद्ध्याद्यतिरिक्तत्वं स्वप्रकाशत्वं च लोकप्रसिद्ध्यादिना निश्चितमित्यर्थः॥ ९५०॥

अध्यात्मादिपदार्थेभ्यो विविक्तं स्वात्मनि स्थितम्॥
तं न पश्यत्यहोकष्टं दौर्भाग्यं दुष्टचेतसाम्॥९५१॥

मन्त्रब्राह्मणादिनाऽतिरिक्तं स्वप्रकाशमात्मानं वदता न तं पश्यति कश्चनेतिमन्त्रभा–

गोऽवतारितोऽपि न व्याख्यातस्तस्याधुना तात्पर्यमाह। अध्यात्मादीति। व्यवहितत्वाददर्शनमिति शङ्कां वारयति। स्वात्मनीति॥९५१॥

प्रत्यक्षगोचरं देवं लोकं चातिप्रमादिनम्॥
दृष्ट्वा श्रुतिः शिरस्ताडमनुक्रोशति दुःखिता॥९५२॥

तस्य दृष्ट्ययोग्यत्वेनादृष्टिसंभवान्न दुष्टचेतस्तया लोकानां दौर्भाग्यमित्याशङ्क्याऽऽह। प्रत्यक्षेति। अतिप्रमादित्वं नामाऽऽत्मानमतीत्यानात्मप्रवणत्वम्॥९५२॥

प्रत्यक्षतममप्येनं वितमस्कं स्वयं667स्थितम्॥
अहो कष्टं न पश्यन्ति कं याम668 शरणं वयम्॥९५३॥

स्वप्रकाशस्य स्वमहिमप्रतिष्ठस्य प्रत्यक्षयोग्यस्यापि प्रतिबन्धाददर्शनमाशङ्क्यानुक्रोशं विवृणोति। प्रत्यक्षतममिति। व्यवहितत्वप्रयुक्तमदर्शनमाशङ्क्याऽऽह। स्वयमिति॥९५३॥

स्वयंज्योतिष्ट्वमारभ्य यच्छ्रुत्योक्तमिहाऽऽत्मनि॥
उच्यते पूर्वपक्षोऽयं तस्य सिद्धान्तरूपिणः॥९५४॥

अथो खल्वित्यादिवाक्यस्य पूर्वेणासंगतिमाशङ्क्याऽऽह। स्वयंज्योतिष्ट्वमिति। सयत्र प्रस्वपितीत्याद्या श्रुतिः॥९५४॥

स यत्रेति ह्यतः पूर्वं पूर्वपक्षत्वहेतुतः॥
अथो खल्वाहुरित्यादिग्रन्थं पश्येत्तथा क्रमात्॥९५५॥

उक्तं स्वयंज्योतिष्ट्वंप्रत्यस्य पूर्वपक्षत्वे कथमत्र प्राप्तिरित्याशङ्क्याऽऽह। सयत्रेति। पूर्वपक्षत्वेऽपि कथमयं क्रमस्तत्र हिशब्दसूचितमर्थमाह। तथेति। पूर्वपक्षानन्तरभावी सिद्धान्त इति क्रमस्योचितत्वादर्थक्रमेण पाठक्रमस्याग्निहोत्रयवागूपाकवद्भङ्गादित्यर्थः॥९५५॥

स्वप्नस्य जाग्रत्स्थानत्वमथो खल्वितिवाक्यतः॥
यानि ह्येवेति हेतूक्तिः प्रतिज्ञातार्थसिद्धये॥९५६॥

क्रमं दर्शयित्वा पूर्वपक्षं विभजते। स्वप्नस्येति। वाक्यतः प्रतिज्ञायत इतिशेषः॥९५६॥

जाग्रत्समीक्षणं यासु पुंसो नाडीषु तास्विदम्॥
स्वप्नेक्षणं विजानीयान्नान्यत्रेति विनिश्चयः॥९५७॥

हेतूक्तिं व्याचष्टे। जाग्रदिति॥९५७॥

स्वप्नेतमेव चाऽऽत्मानं सुप्तोऽयमभिमन्यते।
यमनस्तप्रबोधस्थं669 न ततोऽन्यं कदाचन॥९५८॥

जाग्रत्स्वप्नयोरेकस्थानत्वमुक्त्वा द्रष्ट्रैक्ये हेतुमाह। स्वप्न इति॥९५८॥

जाग्रद्वन्धुपुरामपग्रश्वारामादिलक्षणान्॥
स्वप्ने प्रत्यभिजानाति तानेव न ततोऽपरान्॥९५९॥

तयोर्विषयैक्यमाह। जाग्रदिति॥९५९॥

अपूर्वमेव सं पश्येत्स्वप्नदृग्जाग्रतो यदि॥
उक्तस्वप्नो भवेदन्यो यथा पूर्व670गतस्तथा॥९६०॥

अधिकरणद्रष्टृविषयैक्यात्तयोरैक्यमुक्तं व्यतिरेकद्वारा व्यनक्ति। अपूर्वमिति।यथा देशा671द्देशान्तरं गतोऽपूर्वं करभादि पश्यति तथा यदि स्वप्नदृग्जागरितादपूर्वं पश्येतदा स्वप्नस्ततोऽन्यो युज्येत न चैवं पश्यत्यतो जाग्रदेव स्वप्न इत्यर्थः। समुपसर्गोभवेदित्यनेन संबध्यते॥९६०॥

इत्येवमाहुः केचित्तु न तु तद्युक्तिमद्वचः॥
अयुक्तिमद्यथा चैतत्तत्पूर्वंप्रतिपादितम्॥९६१॥

पूर्वपक्षमुपसंहरति। इत्येवमिति। यदा जाग्रदेव स्वप्नस्तदा तत्र स्वयंज्योतिष्ट्वंदुर्वचं चेत्तुल्यं स्वप्नेऽपि दुर्वचत्वमिति तेषामाशयः। तदसदिति प्रतिजानीते। न त्विति।तदेव प्रकटयति। अयुक्तिमदिति। न तत्र रथा इत्यादावित्यर्थः॥९६१॥

अत्रायमित्यनेनात्र पूर्वपक्षनिराक्रिया॥
न्यायेनोक्तेन पूर्वेण वक्ष्यमाणेन च ध्रुवम्॥९६२॥

श्रुतेर्बहिरेव परिहृत्यात्रेत्यादिवाक्यमवतार्य तात्पर्यमाह। अत्रेति। समनन्तरश्रुतौप्राप्तस्य पूर्वपक्षस्यानेन वाक्येनोक्त-वक्ष्यमाणन्यायानुसारिणा ध्रुवं निराक्रियेति योजना॥९६२॥

न जाग्रद्देशगः स्वप्नो जाग्रत्सामग्र्यभावतः॥
अध्यात्माद्यर्थविरहे यतः स्वप्नान्प्रपश्यति॥९६३॥

उक्तवक्ष्यमाणन्यायं संक्षिप्य स्मारयति। नेत्यादिना। तत्र हेतुं साधयति।अध्यात्मादीति॥९६३॥

स्वयंज्योतिष्ट्वमस्योक्तं स्वप्ने चाकारकात्मता॥
मृत्युरूपात्ययश्चै672वं प्रतीचः पूर्ववाक्यतः॥९६४॥

अत ऊर्ध्वमित्याद्यवतारयितुं वृत्तं कीर्तयति। स्वयमिति। अत्रायं पुरुषः स्वयंज्योतिर्न तत्र रथा अतिक्रामति मृत्यो रूपाणीत्यादिवाक्यादित्यर्थः॥९६४॥

कामादयः स्वभावोऽस्य मृत्यवोऽथ न वा भवेत्॥
इत्याशङ्क्यनृपो दोषं याज्ञवल्क्यमपृच्छत॥९६५॥

उत्तरवाक्यमादत्ते। कामादय इति। मृत्यो रूपाण्यतिक्रामतीत्युक्तत्वात्कामकर्मादिमृत्युरात्मनः स्वभावो न वेत्याशङ्क्याऽऽद्ये मोक्षायोगं मन्वानो राजाऽद्वितीयनिश्चयार्थमत इत्यादिना मुनिमपृच्छदित्यर्थः॥९६५॥

पृष्टं वस्तु सुनिर्णीतं मयेतिप्रकृतोक्तितः॥
निविवृत्सुं नृपो विप्रंभूयोऽपृच्छद्विमुक्तये॥९६६॥

कतम आत्मेति प्रष्टारं राजानं प्रति निर्णेतुं प्रवृत्तो मुनिर्न तं विना निवर्तते तत्कथंराज्ञा सभामध्ये नियुज्यते तत्राऽऽह। पृष्टमिति। यद्धि राज्ञा पृष्टमात्मवस्तु तद्यथावदेव योऽयमित्यादिवचनवशान्निर्धारितमिति बुद्ध्या प्रत्युक्तितो निवृत्त्युन्मुखं मुनिमुपलभ्यपुनरपि मोक्षार्थं राजा पृष्टवानित्यर्थः॥९६६॥

स्वयंज्योतिष्ट्वमुदितं मुक्तेरङ्गममन्यत॥९६७॥

न चाङ्गनिर्णयोक्त्यैव निर्णयं मन्यतेऽङ्गिनः॥
यतोऽतो मोक्षमुद्दिश्य याज्ञवल्क्यमपृच्छत॥९६८॥

बुद्ध्याद्यतिरिक्तस्याऽऽत्मनः स्वयंज्योतिष्ट्वोक्तेरेव मुक्तिसिद्धेस्तदर्थे न प्रश्नो युक्तिमानित्याशङ्क्याऽऽह। स्वयमिति। तर्हि मोक्षाङ्गस्वयंज्योतिष्ट्वनिर्णयादेवाङ्गिमोक्षनिर्णयसिद्धेरलं तदर्थप्रश्नेनेत्याशङ्क्याऽऽह। न चेति। अङ्गिनि हि दर्शादौ673 निर्णीतेग्राहकग्रहणसामर्थ्यादैदमर्थ्येनाङ्गानि निर्णीयन्ते श्रुत्यादीनि तु द्वारार्पकाणि न त्वङ्गनिर्णयादेवाङ्गिनिर्णयो न्यायाभावादिति भावः॥९६७॥९६८॥

आसङ्गप्रविवेकार्थं स वा इत्यादि भण्यते॥
कामादिप्रविवेके हि मोक्षयोग्यत्वमात्मनः॥९६९॥

प्रश्नतात्पर्यमुक्त्वा प्रत्युक्तितात्पर्यमाह। आसङ्गेति। किमिति तत्प्रविवेको मोक्षएवापेक्षितो व्याख्यायतामित्याशङ्क्याऽऽह। कामादीति। अतस्तत्प्रविवेको युक्तइति शेषः॥९६९॥

कामाद्यात्मगुणश्चेत्स्यादनिर्मोक्षः प्रसज्यते॥
न हि गुण्यविनाशेन तद्गुणस्य निराकृतिः॥९७०॥

उक्तमर्थं व्यतिरेकद्वारा स्फुटयति। कामेति। कथमेतावता मोक्षासिद्धिरात्मगुणस्यापि तस्य निरासेन तत्सिद्धेरित्याशङ्क्याऽऽह। न हीति। सत्यात्मनि तदीयवास्तवगुणस्य सर्वात्मना ध्वंसानुपपत्तेः सहाऽऽत्मना ध्वंसे च फल्यभावादमुक्तिरित्यर्थः॥९७०॥

रूपाण्येवायमात्माऽत्र मृत्योः स्वप्नेऽतिवर्तते॥
न तु मृत्युं यतः स्वप्नेमोदत्रासादि दृश्यते॥९७१॥

कामादेरात्मस्वभावत्वाभावेऽपि तत्प्रविवेकार्थं नोत्तरं वाक्यमतिक्रामति मृत्यो रूपाणीत्यत्रैव सिद्धत्वादित्याशङ्क्याऽऽह। रूपाणीति॥९७१॥

मोदत्रासादिको मृत्युः स्वभावो न यथाऽऽत्मनः॥
तथाऽत ऊर्ध्वं प्रब्रूहि भगवन्मे विमुक्तये॥९७२॥

प्रश्नप्रतिवचनयोस्तात्पर्यमुक्त्वा प्रश्नं योजयति। मोदेति। अतः स्वयंज्योतिष्ट्वनिर्णयादिति यावत्॥९७२॥

सहस्रदानं तूक्तस्य स्वयंज्योतिष्ट्ववस्तुनः॥
निर्णयाघाटविज्ञप्त्यै नाशेषप्रश्ननिर्णयात्॥९७३॥

प्रश्नशेषोऽवशिष्टश्चेत्कथं सहस्रदानं तत्राऽऽह। सहस्त्रेति। निर्णयाघाटो निर्दिष्टेऽर्थे स्वीयनिर्णयस्य दृढता तज्ज्ञापनायेति यावत्। प्रश्नशेषाभावादेव सहस्रदानं किंन स्यादित्याशङ्क्य पुनःप्रश्नदर्शनान्नैवमित्याह। नाशेषेति॥९७३॥

स्वयंज्योतिः स वा एष यः पुरा प्रतिपादितः॥
स्वप्नभूमावसङ्गोऽसौ संप्रसादे प्रसीदति॥९७४॥

प्रश्नाक्षराणि व्याख्याय प्रतिवचनं व्याचिकीर्षुः स एष एतस्मिन्संप्रसाद इतिपदानामपेक्षितं पूरयन्नर्थमाह। स्वयंज्योतिरिति। योऽसौ पुरा स्वयंज्योतिरात्मा प्रतिपादितः स एवैष स्वप्नावस्थायामसङ्गो भूत्वा संप्रसादावस्थायां प्रसन्नो भवतीति योजना। संप्रसादपदेन सुषुप्तिरुक्ता॥९७४॥

अपांकतकसंपर्काद्यथाऽत्यन्तप्रसन्नता॥
अपास्ताशेषसंसारभावनस्यैवमात्मनः॥९७५॥

स्वास्थ्यं प्रसन्नतैतस्मिन्सुषुप्ते भवतीत्यतः॥
संप्रसादमिमं प्राहुः सुषुप्तं तद्विदो जनाः॥९७६॥

तत्र निमित्तं दृष्टान्तेनाऽऽह। अपामितिउक्तं हि संप्रसाद इति सुषुप्तस्थानमुच्यते सम्यक्प्रसीदत्यस्मिन्निति निर्वचनादिति॥९७५॥९७६॥

मात्रादानं यदकरोदात्मा स्वप्नरिरंसया॥
तत्क्षये स निरासङ्गः स्वात्मन्येव प्रसीदति॥९७७॥

इतश्च संप्रसादपदस्य सुषुप्तिविषयतेत्याह । मात्रेति। जाग्रद्वासना मात्रास्तासामादानं यदात्मा स्वप्नभोगार्थं कृतवांस्तस्य स्वप्नहेतुमात्रादानस्य निवृत्तौ स पुनरात्मा कामादिरहिते स्वात्मन्येव प्रसन्नो भवतीति योजनीयम्॥९७७॥

जाग्रद्व्यपेक्षया स्वप्ने किंचिच्छेषः प्रसीदति॥
तस्याप्यस्तमयात्प्राज्ञे समिति स्याद्विशेषणम्॥९७८॥

प्रसादपदेनैव सुषुप्तिलाभे किमिति समितिविशेषणमित्याशङ्क्याऽऽह। जाग्रदिति।शेषः संस्कारस्तस्यापि लये सुषुप्तौ सर्वात्मना प्रसीदति तेनोपसर्गोऽर्थवानित्यर्थः॥९७८॥

केवलज्ञानमात्राधिरिह प्रत्यङ् व्यवस्थितः॥
कारणात्मा यतस्तस्माज्जाग्रत्स्वप्नाख्यकार्यकृत्॥९७९॥

संप्रसादशब्दार्थमुक्त्वा तदभिमानिनं प्राज्ञं दर्शयति। केवलेति। स्थूलकार्यासाहित्यं कैवल्यम्। वासनाराहित्यं मात्रार्थः। इहेति संप्रसादोक्तिः। कारणात्मत्वं साधयति। तस्मादिति। स्वोपाधिभूतादज्ञानादिति यावत्। उक्तं च—
‘सुषुप्ताख्यं तमोऽज्ञानं बीजं स्वप्नप्रबोधयोः’इति॥९७९॥

कथं केन क्रमेणात्र प्रत्यगात्मा प्रसीदति॥
इत्येतदधुनाऽऽचष्टे रत्वेत्यादिगिरा श्रुतिः॥९८०॥

स वा इत्यादि व्याख्यायानन्तरं674 वाक्यमाकाङ्क्षापूर्वकमादत्ते। कथमिति। कथंसंप्रसन्न इतिभाष्यस्थं पदमनूद्य तदर्थोक्तिः केनेति। अत्रेति सुषुप्तिरुक्ता॥९८०॥

स्वप्नभूमावयं रत्वा क्रीडां कृत्वाऽऽत्ममायया॥
चरित्वा च विहृत्याऽऽत्मा वासनामात्रसाधनः॥९८१॥

जाग्रत्स्वप्नक्रमेण स्वापे प्रसन्नत्वमात्मनो वक्तुमुत्तरं वाक्यमिति तात्पर्यमुक्त्वा पदार्थान्व्याचष्टे। स्वप्नेति। वासनामात्रसाघनः सन्नात्मा675 मायया स्वप्नभूमौ रत्वा चरित्वाप्राज्ञे प्रसीदतीत्युत्तरेण संबन्धः। स्वप्नस्य स्मृतित्वं परिहरति। आत्ममाययेति। क्रीडास्त्रीपुत्रादिसापेक्षा मनोवाक्कायचेष्टा विहरणमितस्ततो गमनमिति भेदः॥९८१॥

दृष्ट्वैवेत्येवशब्देन कारकत्वं निवार्यते॥
पुण्यपापफलं चेह पुण्यपापगिरोच्यते॥९८२॥

दृष्ट्वेत्यादेरर्थमाह। दृष्ट्वेति॥९८२॥

अस्य जाग्रदवस्थायामिन्द्रियार्थादिसंभवात्॥
क्रिया निर्वर्त्यते सा च सुखादिफल676दाऽऽत्मनः॥९८३॥

कथं कारकत्वनिवारणं स्वप्नेऽपि जाग्रद्वत्क्रियानिर्वृत्तेरित्याशङ्क्य दृष्टान्तं विघटयति।**अस्येति॥**९८३॥

स्वप्ने तु कारकाभावान्न क्रियासिद्धिरात्मनः॥
चिदाभं वासनामात्रं677 प्रथतेऽतोऽविकारिणः॥९८४॥

दार्ष्टान्तिके वैषम्यमाह। स्वप्ने त्विति। कथं तर्हि तत्र क्रियाप्रतीतिस्तत्राऽऽह।चिदाभमिति। कारकाभावोऽतः शब्दार्थः। अविकारिण इति च्छेदः॥९८४॥

यतोऽत्र न क्रिया तस्मादवदध्रेश्रुतिः स्वयम्॥
दृष्ट्वैवाऽऽत्मा न कृत्वेति प्रत्यङ् तस्मान्न कारकः॥९८५॥

एवकारार्थमुपसंहरति। यत इति। स्वप्नः सप्तम्यर्थः। दृष्ट्वैवाऽऽद्रवतीति संबन्धः।करणाभावफलं कौटस्थ्यमाह। प्रत्यङ्ङिति॥९८५॥

पुण्यपापफलं चेह पुण्यपापाभिधं मतम्॥
कार्यं कारणवत्तस्मादुपचारात्समीरितम्॥९८६॥

पुण्यपापफलं चेत्यत्रोक्तमनूद्योपपत्तिमाह। पुण्येति। सर्वमपि कार्यं कारणव्याप्तंयस्माद्दृष्टं तस्मात्कारणवाचि-पुण्यपापशब्दाभ्यां तत्फलमुपचारादुक्तं गोभिः श्रीणीतेतिवदित्यर्थः॥९८६॥

स्वप्नकर्मव्युपरमे ततः प्राज्ञे स्वयंप्रभः॥
प्रसीदति परो देवः प्रतीच्येव परे पदे॥९८७॥

रत्वेत्यादिवाक्यार्थमुपसंहरति। स्वप्नेति। परो देव इति विशेषणं विज्ञानात्मा परस्मादन्यो नेति ज्ञापनार्थं सुषुप्त्यवस्थायां परेणाऽऽत्मनाऽऽत्मनोऽवस्थानमस्तीति वक्तुंप्रतीच्येवेत्यादिपदम्॥९८७॥

पुराऽप्यसकृदात्माऽयं स्थानात्स्थानान्तरं गतः॥
यतोऽतःपुनरित्येवं संप्रसादाप्तितोऽभिधा॥९८८॥

पुनःशब्दार्थमाह। पुराऽपीति।यतः संप्रसादाप्तितः स्थानादयमात्मा स्वप्नाख्यंस्थानान्तरमनेकवारं पुरा गतवानतः पुनरित्येवमभिधा प्रयुक्तेति योजना॥९८८॥

आनुलोम्यं सुषुप्ताप्तिरेवमुक्तेन वर्त्मना॥
तद्व्युत्थानं प्रातिलोम्यं स्वप्नादिस्थानसंचरः॥९८९॥

प्रतिशब्दार्थं वक्तुं भूमिकां करोति। आनुलोम्यमिति। एवमित्यस्यैव व्याख्योक्तेनेति। जाग्रतः स्वप्नं गच्छति ततः सुषुप्तमित्युक्तक्रमेणेत्यर्थः। प्रतिशब्दार्थमाह।तदिति। तस्मात्प्रकृताद्वैपरीत्येनोत्थानं प्रातिलोम्यं तदौत्सर्गिकं प्रतिशब्दवाच्यमित्यर्थः। न्यायशब्दार्थमाह। स्वप्नादीति॥९८९॥

प्रातिलोम्यार्थ एवातः प्रतिशब्दोऽयमिष्यते॥
विपरीताऽऽऽगतिः स्वप्ने प्रतिस्थानं तथैत्यजः॥९९०॥

प्रतिरूपो बभूवेतिवत्प्रतिशब्दस्याऽऽनुलोम्यार्थत्वमाशङ्क्याऽऽह। प्रातिलोम्येति।अतः शब्देनोक्तं हेतुमाह। विपरीतेति। स्वापाद्विपरीता हि स्वप्नजागरितयोरागतिरतोऽत्र प्रतिशब्दो नाऽऽनुलोम्यार्थ इत्यर्थः। प्रतियोन्याद्रवतीत्यस्यार्थं संक्षिपति। प्रतिस्थानमिति। यथा संप्रसादं गच्छति तथा स्वप्नादिभोगस्थानं प्रत्येव भोगार्थमायाति परः पुमानिति यावत्॥९९०॥

यथार्थे प्रतिशब्दोऽयं निश्चयार्थे निरित्ययम्॥
अयनं गमनं च स्यादायो धातोरिणो घञि॥९९१॥

प्रतिन्यायमित्यस्यावयवशोऽर्थमाह। यथार्थ इति। यथाऽऽनुलोम्येन सुप्ताप्तिस्तथा प्रातिलोम्येनाऽऽगमने विवक्षिते सतीति यावत्। आयशब्दं व्याकरोति। अयनमिति। तन्निष्पत्तिं सूचयति। धातोरिति। इणो धातोर्गत्यर्थात्परतो भावेऽर्थे घञिविहिते घकारञकारयोरित्संज्ञायां लोपे सत्यकारे चावशिष्टे पूर्ववृद्धावायशब्दनिष्पत्तिरित्यर्थः॥९९१॥

श्रोत्रादिकरणान्यत्र मात्रादानस्य कारणम्॥
योनिशब्दाभिलप्यं स्याज्जाग्रद्देहसमाश्रयम्॥९९२॥

स वा एष एतस्मिन्स्वप्नान्ते रत्वेत्युपक्रम्य प्रतियोन्याद्रवति बुद्धान्तायैवेति माध्यंदिनास्तदनुसारेण योनिशब्दार्थमाह। श्रोत्रादीति। जाग्रद्देहस्थं करणजातं रूपाद्यर्थधीवासनास्वीकारकारणभूतं योनिशब्दितमित्यर्थः। अत्रेति जाग्रतो वाक्यस्य वा ग्रहः॥९९२॥

मात्रादानस्य या यस्य योनिरासीत्पुराऽऽत्मनः॥
तामेवायं पुनर्योनिं स्वप्न आत्मा प्रपद्यते॥९९३॥

योनिशब्दार्थमनूद्य प्रतिशब्दस्याऽऽद्रवतिशब्दस्य चार्थमाह। मात्रेति। यस्याऽऽत्मनो रूपादिभोगवासनास्वीकारस्य या योनिश्चक्षुरादिलक्षणा जाग्रदवस्थायां स्थितातामेव स्वाश्रयां योनिं स्वप्नस्थः सोऽयं पुरुषस्तत्कर्मक्षये जाग्रद्धेतूद्भवे च पुनःप्रतिपद्यत इत्यर्थः। स्वप्नस्तद्गतः पुमान्॥९९३॥

यथाऽऽदानं कृतं पूर्वं मात्राणां स्वप्नसर्जने॥
स्वप्न आदाय ता मात्राःस्वाप्नीं योनिं प्रपद्यते॥९९४॥

प्रतियोन्याद्रवति स्वप्नायैवेति काण्वपाठस्यार्थमाह। यथेति। पूर्वं जागरे स्वप्नसर्गेप्रस्तुते मात्राणां वासनानां यथोपादानं कृतं तथैव ता मात्राः स्वीकृत्य स्वप्नस्थस्तत्कर्मक्षये ततः सुप्तिं गतः स्वप्नकर्मोद्भवे कारणात्मना स्थितवासनाभिव्यक्तेस्तन्निर्मितदेहंतन्मयकरणायतनं स्वाप्नयोनिशब्दितं भजतीत्यर्थः॥९९४॥

प्रतिन्यायगिरा चास्य यथावर्त्माभिधीयते॥
प्रतियोनिरवेणैव यथास्थानमिहोच्यते॥९९५॥

पाठद्वयानुसारेण प्रतिन्यायशब्दार्थमाह। प्रतीति। तस्यास्य सुप्तेः स्वप्नं गच्छतःस्वप्नाद्वा जागरितमित्यर्थः। पाठद्वयानुसारिणं प्रतियोनिशब्दार्थ678मनु679द्रवति। प्रतियोनीति।यथा पूर्वं स्वप्ने वासनामयं स्थानमस्याऽऽसीत्तथा सुप्तेः स्वप्नं गच्छन्नपि तादृशमेव स्थानं

गच्छति। यथा पूर्वं जागरे मात्रादानकर680णं करणायतनं शरीरमस्याभूत्तथा स्वप्नाज्जागरं गच्छन्नपि तथाविधं देहं गच्छतीत्यर्थः। इहेति प्रकृतवाक्योक्तिः॥९९५॥

यस्माद्यस्मादुपादाय मात्राः स्वप्नं चकार सः॥
तत्र तत्रैव ता धत्ते मात्राः स्वात्मांशुभिः सह॥९९६॥

माध्यंदिनं पाठमनुसृत्य वाक्यार्थमुपसंहरति। यस्मादिति। जागरे यतो यतश्चक्षुरादिनिमित्ता681 रूपादिवासनाः स्वीकृत्याऽऽत्मा स्वप्नं कृतवांस्तत्र तत्रैव जाग्रद्देहस्थेचक्षुरादौ ता रूपादिवासनाशक्तीश्चैतन्याभासैः सह स्वप्नाज्जागरं गच्छन्दधातोत्यर्थः॥९९६॥

येनैव वर्त्मना यातः पुनस्तेनैव वर्त्मना॥
याति मात्राः समादाय कर्मवायुसमीरितः॥९९७॥

काण्वपाठे वाक्यार्थमुपसंहरति। येनेति। येनैव कामकर्मादिना मार्गेण जागरात्स्वप्नंतत्कर्मक्षये च स्वापं गतस्तेनैव स्वप्नकर्मोद्भवे तत्प्रेरितः सन्कारणस्था वासनाः स्वीकृत्यस्वापात्स्वप्नं यातीत्यर्थः। स्वप्नगतिवर्त्म कर्मादीत्येतत्प्रकटयितुं गन्तारं विशिनष्टि। कर्मेति॥९९७॥

स आत्मा पुण्यपापोत्थं फलं नानाप्रभेदकम्॥
तत्र स्वप्नविधौ तिष्ठन्पश्यतीह समीक्षते682॥९९८॥

स्वप्नायैवेत्येतदन्तं वाक्यं व्याख्याय स यत्तत्रेत्यादेरर्थमाह। स आत्मेति। तत्रेत्यस्य व्याख्यानं स्वप्नविधाविति। तेनैवेहशब्दोऽपि संबध्यते॥९९८॥

नैनं स्थानान्तरं प्राप्तं ग्रामाद्ग्रामान्तरं यथा॥
शुभाशुभं यदद्राक्षीचत्साक्षादनुगच्छति॥९९९॥

अनन्वागतस्तेनेत्यादि व्याचष्टे। नैनमिति। यथैकस्मिनग्रामे कृतं शुभादि ग्रामान्तरस्थमपि कर्तारमनुगच्छति तथा स्वप्ने यत्कर्म दृष्टवान्न तज्जागरस्थमनुगन्तुमुत्सहतेन हि स्वाप्नगुणदोषाम्यां जाग्रद्द्रष्टा साक्षादेव स्पृश्यत इत्यर्थः॥९९९॥

शुभाशुभक्रियैवेह पश्यतीत्यभिधीयते॥
न तु यद्वास्तवं वृत्तं पश्यतीत्यक्रियात्मनः॥१०००॥

पश्यतीति ज्ञानकर्तृत्वोक्तेर्देवतादर्शनकृतसुकृतवदन्त्य जातिदृष्टिनिमित्तदुष्कृतवच्चस्वप्नेऽपि दृश्यमानशुभादिना द्रष्टुरन्वयः स्यादित्याशङ्क्याऽऽह। शुभेति। या शुभादिक्रिया तत्फलं वा तत्साक्षित्वादेवास्मिन्वाक्ये पश्यतीत्यात्मोच्यते तन्न साक्ष्यस्थगुणदोषौ साक्षिणि भवत इत्यर्थः। एवकारव्यावर्त्यमाह। न त्विति। यदात्मनो वास्तवं

रूपं तत्पश्यतीति दृष्टिकर्तृत्वेन नोच्यते तस्य कूटस्थस्वभावस्य तदयोगादित्यर्थः॥१०००॥

तेनानन्वागत इतिप्रतिज्ञातार्थसिद्धये॥
असङ्गो हीति हेतूक्तिः प्रतिज्ञार्थोऽथवा भवेत्॥१००१॥

अनन्वागतवाक्यं प्रतिज्ञा तस्य हेतुरसङ्गवाक्यमिति विभागमाह। तेनेति। असङ्गवाक्यंप्रतिज्ञेति प्रकारान्तरमाह। प्रतिज्ञार्थ इति॥१००१॥

यदैवं पूर्वमेव स्यात्तदा हेतुवचः स्फुटम्॥
तेनानन्वागत इति प्राक्कृतेनैव कर्मणा॥१००२॥

तस्मिन्पक्षेऽनन्वागतवाक्यस्य हेतुत्वमाह। यदेति। प्रागिति जाग्रदपेक्षया पूर्वकालीनः स्वप्नो गृह्यते। तेन कर्मणाऽनन्वागत इति पूर्वमेव वाक्यं हेतुवच इति संबन्धः॥१००२॥

सासङ्गत्वं समाशङ्क्यप्रवृत्तैषा यतः श्रुतिः॥
अनन्वागत इत्यस्य हेतुत्वं हिगिरोच्यते॥१००३॥

अस्य पक्षस्य गमकमाह। सासङ्गत्वमिति। कामादिसङ्गत्वमात्मनः शङ्कित्वा सवा एष एतस्मिन्संप्रसाद इत्याद्या श्रुतिर्यस्मात्प्रवृत्ता तस्मादसङ्ग इति प्रतिज्ञा युक्तेत्यर्थः। असङ्गवाक्यस्य हिशब्दाद्धेतुत्वे गम्यमाने कथं प्रतिज्ञात्वं तत्राऽऽह। अनन्वागत इति। यतः स्वाप्नेन शुभादिना जागरादिगतो न स्पृश्यतेऽतोऽसङ्गोऽवस्था-त्रयेऽपीत्यनन्वागतत्वस्यासङ्गत्वे हेतुत्वं हिशब्देन द्योत्यत इत्यर्थः॥१००३॥

न कर्म कुरुते स्वप्ने कारकाणामसंभवात्॥
फलमात्रमयं तत्र भुङ्क्ते स्वाभासवर्त्मना॥१००४॥

वाक्ययोर्विभागमुक्त्वाऽनन्वागतवाक्यार्थं प्रपञ्चयति। न कर्मेति। किं तर्हि तत्रद्रष्टा करोति तत्राऽऽह। फलेति। भोगे चिदाभासस्य बुद्धिगतस्य द्वारत्वं दर्शयति।स्वाभासेति॥१००४॥

न हि निष्पद्यते स्वप्ने क्रिया जागरिते यथा॥
कर्त्रादिकारकस्थाने नातोऽन्वेत्यक्रियात्मनः॥१००५॥

स्वप्ने क्रियाभावं वैधर्म्यदृष्टान्तेनानुवदति। न हीति। तत्र तदभावे हेतुमाह।कर्त्रादीति। कर्त्रादीनां कारकाणां स्थानं जागरितं तत्रस्थमात्मानं स्वाप्नी क्रियानान्वेत्यतस्तस्य कूटस्थस्य नास्ति तत्र क्रियेत्यर्थः॥१००५॥

यदि स्थानान्तरं प्राप्तमन्वियात्स्वप्नजा क्रिया॥
शास्त्रारम्भो वृथैव स्यात्स्वप्ने को नापराध्यति॥१००६॥

विपक्षमनुभाष्य दूषयति। यदीति। तद्वैयर्थ्येहेतुमाह। स्वप्न इति। सर्वापराधवि–

धुरो हि शास्त्रेऽधिक्रियते स्वप्ने च ब्रह्मवधादिबहुविधापराधसंभवात्तस्य जागरानुगामित्वेशास्त्राधिकार्यभावात्तदनारम्भ इति भावः॥१००६॥

अपेतसाधनस्यापि पश्यतः स्वप्नविभ्रमम्॥
विभर्ति वासनैवास्य क्रियाकारकरूपताम्॥१००७॥

स्वप्ने चेदात्मा न करोति कथं तस्य कर्तृत्वादिधीस्तत्राऽऽह। अपेतेति॥१००७॥

फलसंभोगमात्रं च यस्मात्स्वप्ने समीक्ष्यते683
फलान्तरारम्भविधिर्नातः स्यादक्रियात्मनः॥१००८॥

कर्तृत्वादिदृष्टेस्तत्र वासनामात्रत्वे फलितमाह। फलेति। प्रतीत्यतिरिक्तं स्वप्नेसुखादि निष्क्रियस्याऽऽत्मनो न सिध्यतीत्यर्थः॥१००८॥

न करोति यतः स्वप्ने क्रियामिव समीक्षते684
प्रक्रियाफलसंयोगो नातो बोधेऽस्य वीक्ष्यते॥१००९॥

क्रियाकारकदृष्टिवत्फलदृष्टिरतिस्पष्टेत्याशङ्क्याऽऽह। न करोतीति। स्वप्ने वस्तुतःक्रियाऽस्ति चेज्जागरेऽपि तत्फलयोगो दृश्येत न च दृश्यते तत्रास्ति वस्तुतस्तत्र क्रियेत्यर्थः॥१००९॥

तृप्तः स्वप्नेऽथ संबुद्धः क्षुत्परीतः प्रबुध्यते॥१०१०॥

यस्मादनृतमेवेदं यत्किंचिदिह वीक्ष्यते॥
प्रत्यङ्ङकारकस्तस्माल्लिप्यते न क्रियाफलैः॥१०११॥

स्वाप्नं क्रियादि मिथ्येत्यत्रोपपत्त्यन्तरमाह। तृप्त इति। सुप्तस्य प्रबोधकार्यकारणसंपत्तिरथशब्दार्थः। प्रकृतः स्वप्नः सप्तम्यर्थः। तन्मिथ्यात्वे फलितमुपसंहरति। प्रत्यङ्ङिति॥१०१०॥१०११॥

स्वप्नस्कन्ननिमित्तं तु प्रायश्चित्तं यदुच्यते॥
सत्येन्द्रियविकारत्वात्तच्चापि न निराश्रयम्॥१०१२॥

ननु प्रत्यङ्ङात्मा स्वाप्नक्रियाद्यस्पृष्टश्चेत्कथं स्वप्ने रेतस्खलननिमित्तं प्रायश्चित्तमुच्यंते—

“स्वप्ने चेन्द्रियदौर्बल्यात्स्त्रियं दृष्ट्वाक्षरेद्यदि।
प्रायश्चित्तं तु तस्योक्तं प्राणायामास्तु षोडश”॥

इति तत्राऽऽह। स्वप्नेति। सत्येन्द्रियगधाराद्रेतसो निर्गतत्वात्तन्निमित्तं प्रायश्चित्तविधानं न निरालम्बनमित्यर्थः॥१०१२॥

स्वप्नस्कन्नं यथा स्वप्ने तथा बोधेऽपि वीक्ष्यते॥
आत्मचैतन्यवत्तस्मात्प्रायश्चित्तं तदुद्भवम्॥१०१३॥

इतश्च तद्विधानं युक्तमित्याह। स्वप्नस्कन्नमिति। तदुद्भवं स्वप्नकालीनं रेतः स्कनंजागरितेऽपि प्रतिपन्नं निमित्तीकृत्य प्रायश्चित्तमित्यर्थः॥१०१३॥

एका तावदियं व्याख्या यथोक्तैषोपवर्णिता॥
व्याचक्षतेऽन्यथा चेदं वाक्यमेतद्यथोदितम्॥१०१४॥

अनन्वागतादिवाक्यस्य स्वव्याख्यामुपसंहरति। एकेति। इयं तावदनन्वागतवाक्यस्यैका व्याख्या यथाचैषा भाष्ये संक्षिप्योक्ता तथाऽस्माभिर्विपञ्चितेत्यर्थः। भर्तृप्रपञ्चव्याख्यामवतारयति। व्याचक्षत इति। आदेयत्वं तस्याः सूचयति। एतदिति।अस्मदुक्तं व्याख्यानमनुसृत्यैतद्व्याख्यानं तेनाऽऽदेयमित्यर्थः॥१०१४॥

अनन्वागतवाक्येन विवेकः कर्मणः कृतः॥
असङ्गवचसा त्वस्य कामनिर्मोक उच्यते॥१०१५॥

तत्रानन्वागतवाक्यस्य तदिष्टं तात्पर्यमाह। अनन्वागतेति। असङ्गवाक्यतात्पर्यमाह। असङ्गेति॥१०१५॥

ननु नैव क्रिया साक्षाद्धानवृद्धी प्रतीष्यते685
अपि जागरितस्थाने कामो हेतुर्यतस्तयोः॥१०१६॥

कामस्य कर्मणां च विवेकार्थं वाक्यद्वयमित्युक्त्वाऽसङ्गवाक्यनिरस्यां शङ्कामाह।नन्विति। जागरितेऽपि कर्मणो भाविफलहेतोरवयवोपचयापचयौ प्रति नाव्यवधानेनक्रियाहेतुः कामस्य तद्धेतुत्वादतः स्वप्नेऽपि कामस्य प्रवृत्तिहेतुत्वादात्मा नासङ्गो भवितुमलमित्यर्थः। **यथाऽऽहुः—**जागरितदेशेऽप्युपचयापचये न क्रियैव हेतुः किं तर्हिकामो हेतुरिति॥१०१६॥

अकामस्य क्रिया यस्मान्निष्फलैव समीक्ष्यते॥
स यथाकाम इत्यादि तथा चोर्ध्वं प्रवक्ष्यते॥
इत्यस्य परिहारार्थमसङ्गोहीति भण्यते॥१०१७॥

अकामस्यापि प्रवृत्तिदृष्टेस्तस्य तन्मूलत्वमनियतमित्याशङ्क्याऽऽह अकामस्येति। तस्मात्फलवती क्रिया कामनिमित्तेति शेषः। कर्मोपचये कामो मूलं न क्रियामात्रमित्यत्र वाक्यशेषं प्रमाणयति। स यथेति। स चास्योपचयमूलमनुच्छिन्नः कामः स्वप्नेतस्माद्भवितव्यमुपचयेन स्वप्नेऽपीत्युक्तेरात्मनः कामसंबन्धो वास्तव इति पूर्वपक्षे परिहारत्वेनासङ्गवाक्यमादत्ते। इत्यस्येति॥१०१७॥

यमासङ्गमिह स्वप्ने कामं त्वमनुपश्यसि॥
स्वपतो686 न भवेत्काम इत्येतदभिधीयते॥१०१८॥

असङ्गो हीति वाक्येन तद्वतोऽसंभवादिह॥
ग्रस्तमत्र मनः कामिवासनामात्रशेषतः॥१०१९॥

कथमसङ्गत्वमित्युक्ते वाक्यतात्पर्यमाह। यमिति। उक्तं हि यं काममासङ्गमुपचयमूलं वृत्तिरूपं पश्यसि तेन विमुक्तश्चायमस्मिन्काल इति। स्वप्ने कामाभावे हेतुमाह। तद्वत इति। कामाधारस्य मनसः स्वप्ने सत्त्वाभावान्न तत्र कामसत्तेत्यर्थः। स्वप्ने बाह्येन्द्रियपरमेऽपि मनसोऽनुपरमात्कथं कामाधिकरणं मनस्तत्र नास्तितत्राऽऽह। ग्रस्तमिति। कारणेनेति शेषः। मनसोऽभावे सुषुतवत्कथं स्वप्नधीस्तत्राऽऽह। वासनेति॥१०१८॥१०१९॥

यतोऽतोऽसङ्ग एवायं पुरुषः स्वप्नभूमिगः॥
बहिः कुलायादित्युक्तं पाप्मनो विजहाति च॥१०२०॥

तत्र मनोसत्त्वे फलितमाह। यत इति। कामस्य वासनात्मनः स्वप्नेऽपि संभवात्कथमसङ्गत्वं तत्राऽऽह। बहिरिति॥१०२०॥

देहाश्रयादृते कामाः सन्ति नान्यत्र कुत्रचित्॥
स्वप्नप्रपञ्चः सर्वोऽपि वासनामात्रमेव तु॥१०२१॥

स्वप्नावस्थस्याऽऽत्मनो देहकर्मभ्यामसंबन्धेऽपि कथं कामासंबन्धस्तत्राऽऽह।देहेति। यथाऽऽहुःशरीरसंबन्धिनश्च कामा मृत्यो रूपाणि, प्रविभक्तश्चायं शरीरेणभवतीति। इतश्च स्वप्ने कामो नेति वक्तुं तन्मिथ्यात्वं प्रतिजानीते। स्वप्नेति॥१०२१॥

व्याचक्षाणो यतः स्वप्नं ज्ञानमात्रं प्रभाषते॥१०२२॥

जाने पुत्रायुतं जातं जाने पितरमागतम्॥
तथाचेवगिरा युक्तान्स्वमान्व्याचक्षते जनाः॥१०२३॥

वासनामात्रत्वे हेतुमाह। व्याचक्षाण इति। तत्प्रकारमभिनयति। जान इति।स्वप्नस्य प्रतिभासमात्रत्वाद्योग्यविषयाद्यभावान्मिथ्यात्वमुक्त्वा तत्रैव प्रसिद्धिं प्रमाणयति। तथाचेति। हस्तिनोऽद्य घटीकृता धावन्तीव दृष्टा मयेत्येवमिवशब्दसंयुक्तान्पार्श्वस्थेभ्यः स्वप्नानुत्थिता व्याकुर्वन्ति तत्सिद्धं तन्मिथ्यात्वमित्यर्थः॥१०२२॥१०२३॥

रथादेरसतो यद्वत्स्वप्ने निर्माणमीक्ष्यते॥
शरीरेन्द्रियकामादेरसतस्तद्वदेव तु॥१०२४॥

विमतं मिथ्या स्वप्ननिर्माणत्वात्तद्गतरथादिनिर्माणवदिति स्वप्नदेहादिनिर्माणस्य मिथ्यात्वमनुमिनोति। रथादेरिति। यथाऽऽहुः— यथैव रथादीनामसतां निर्माण बाह्यानांतथा शरीरेन्द्रियाणां चाऽऽन्तराणामिति॥१०२४॥

रथेन्द्रियादिवत्तस्मात्कामोऽप्यत्र समीक्ष्यताम्॥
स्वप्नेऽतोऽयं निरासङ्गः पुमानभ्युपगम्यताम्॥१०२५॥

तथाऽपि कथं स्वप्ने कामप्रविवेकस्तत्राऽऽह। रथेति। तस्मात्स्वप्ननिर्माणत्वाविशेषादिति यावत्। समीक्ष्यतामवस्तु सन्निति शेषः। उक्तं हि यथैव सर्वस्यासतो विनिर्माणमसतो दर्शनमेवमासङ्गस्यापि शरीरेन्द्रियपक्षभूतस्यासतो दर्शनमिति। कामस्यासत्त्वे फलितं निगमयति। अतोऽयमिति॥१०२५॥

कौटस्थ्यं यदि वा पुंसोऽसङ्गशब्देन भण्यते॥
क्रिया687श्लेषमृते यस्मान्नाध्यक्षफलसंगतिः॥१०२६॥

असङ्गपदस्यार्थान्तरमाह। कौटस्थ्यमिति। उक्तं च शुद्धोऽयं पुरुष इति। असङ्गपदस्य कौटस्थ्ये व्युत्पत्त्यभावात्कथमित्थमित्याशङ्क्याऽऽह। क्रियेति। क्रियायोगंविना तत्साक्षिणो न तत्फलयोगस्तस्मात्कौटस्थ्यासङ्गत्वयोरव्यभिचाराद्युक्तमसङ्गशब्देनकौटस्थ्यं वक्तुमित्यर्थः॥१०२६॥

ननु कर्ता पुमानेष स हि कर्तेतिवाक्यतः॥
नैवं स्वप्ने यतः पुंसः कर्तृत्वं भावनाकृतम्॥१०२७॥

कौटस्थ्यमाक्षिपति। नन्विति। स्वप्ने कर्तृत्वस्य वासनोत्थत्वेनावस्तुत्वान्न कौटस्थ्यदौस्थ्यमित्याह। नैवमिति॥१०२७॥

कर्तृकार्यावभासित्वाज्जाग्रत्कालेऽपि चाऽऽत्मनः॥
कर्तृत्वं न स्वतः स्वप्ने किमु वक्तव्यमिष्यते॥१०२८॥

स्वप्ने कर्तृत्वं मिथ्येत्येतत्कैमुतिकन्यायेनाऽऽह। कर्त्रिति॥१०२८॥

अविद्यास्रोतसैवास्य क्रियाकारकताऽऽत्मनः॥
तत्स्थचैतन्यविम्बेन भुङ्क्तेऽसौ कर्मणः फलम्॥१०२९॥

अविद्यान्वयव्यतिरेकत्वा688च्च तन्मिथ्येत्याह। अविद्येति। भोक्तृत्ववत्तत्सत्यत्वमाशङ्क्याऽऽह। तत्स्थेति। तच्छब्देनाविद्या गृह्यते। न हि तदस्य क्रियाफलसाक्षित्वातिरिक्तं क्रियापेक्षमस्तीत्यर्थः॥१०२९॥

कर्त्रादिसाक्षिणोऽस्याभूत्कर्तुत्वं यत्पुराऽऽत्मनः॥
स हि कर्तेति तस्यैव वचनं स्यात्पुनःश्रुतिः॥१०३०॥

कर्तृत्वभोक्तृत्वयोर्वस्तुतोऽभावःश्चेत्कथं स हि कर्तेत्युक्तं तत्राऽऽह। कर्त्रादीति।पुरेति जागरोक्तिः। पुनःश्रुतिरनुवाद-मात्रं न स्वप्ने कर्तृत्वबोधकमित्यर्थः॥१०३०॥

नन्वस्यैव तु तत्कर्म भावनापेक्षयाऽखिलम्॥
प्रवर्तते कथं तस्य कर्तृत्वं विनिवार्यते॥१०३१॥

वाक्यादात्मनो न वास्तवं कर्तृत्वं किंत्वर्थापत्तेरिति शङ्कते। नन्विति। सर्वमपिकर्म कामापेक्षयाऽऽत्मनः सुखादि दातुं प्रवर्तते न च फलमकर्तृस्थं मुक्तिं विना सिध्यतिशास्त्रफलं प्रयोक्तरि तल्लक्षणत्वादितिन्यायात्तस्मादात्मनः फलदानार्थं कर्मप्रवृत्त्यनुपपत्तिर्वास्तवं कर्तृत्वं कल्पयतीत्यर्थः॥१०३१॥

कामं प्रवर्ततां कर्म न च दोषोऽत्र कश्चन॥
भावनेयं यतः कर्मगुण एव सती सदा॥
स्वसाक्षिणं भावयन्ती न त्वसावात्मनो गुणः॥१०३२॥

कल्पितकर्तृत्वेन कर्मप्रवृत्तिसिद्धेरर्थापत्तेरन्यथोपपत्तिरिति मत्वा सिद्धान्तयति।काममिति। फलदानाय कर्मप्रवृत्तावप्यात्मनि कर्तृत्वदोषाभावे हेतुमाह। भावनेति।एषा कर्मसहकारिणी यतस्तत्रैव सती सदा स्वसाक्षिणमात्मानं स्वेन संस्करोत्यतस्तत्रकल्पनया कर्तृत्वधीरित्यर्थः। एवकारव्यावर्त्यमाह। न त्विति। यथाऽऽहुः— भावनाहि कर्मगुण एव सती पुरुषं भावयतीति॥१०३२॥

पुष्पगन्धः पुटस्थोऽपि पुष्पस्यैव यथा तथा॥
बुद्ध्यादिकारकस्थस्य भावना कर्मणो गुणः॥
आत्मनस्तूपचारात्स्यान्न तु साक्षाद्गुणो भवेत्॥१०३३॥

भावना चेदात्मानं भावयेत्कथं न तद्गुणस्तत्राऽऽह। पुष्पेतिउक्तं हि यथा पुष्पगन्धः पुटं भावयति स पुष्पगुण एव न पुटगुण एवं भावना कर्मगुण एव नाऽऽत्मगुणइति। कथं तर्हि प्रतीचि तद्भानं तत्राऽऽह। आत्मन इति। यथाऽऽहुर्भावनानुरञ्जितेविज्ञानात्मविज्ञाने कर्तृत्वोपचार इति॥१०३३॥

उत्पत्तौ भोगकाले च कर्माऽऽदायैव भावनाम्॥
स्वात्मानं लभते यस्मात्तां विना तदनर्थकम्॥१०३४॥

मा भूदात्मनो भावना गुणस्तथाऽपि न मा कर्मगुणस्तस्यागुणत्वादित्याशङ्क्याऽऽह। उत्पत्ताविति। उक्तं च तामेवानुरञ्जनां कर्तृत्वेनाङ्गी कुरुते कर्मोत्पत्तिभोगकालयोरिति। कर्मणः स्वोत्पत्तौ फलदाने चोपकरणत्वाद्भावनायास्तत्तन्त्रतोक्तिर्न रूपादिवदाश्रयत्वात्तदाश्रयस्त्वन्तःकरणमेवेति भावः॥१०३४॥

कर्मणोऽपि तथाऽत्यन्तं प्रयोगैकसमाश्रयात्॥१०३५॥

बुद्ध्याद्यर्थाभिसंबन्धपक्षतैवावसीयते॥
न त्वात्मगुणता तस्य कर्मणः स्यात्कदाचन॥१०३६॥

भवतु भावना कर्मगुणस्तत्त्वात्मगुणो भविष्यति नेत्याह। कर्मणोऽपीति। भावनाबत्पुण्यपापादृष्टस्यापि नियमेन क्रियापेक्षत्वाद्वुद्ध्यादिकारकस्थतैव नाऽऽत्मस्थतेत्यर्थः।

तदुक्तं कर्मणोऽप्यत्यन्तं प्रयोगाश्रितत्वाद्बुद्ध्यादिसंनिकर्षपक्षतैव न कदाचनाऽऽत्मगुणतेति॥१०३५॥१०३६॥

प्रयोगापेक्षमेवाऽऽस्ते कर्म बुद्ध्यादिसंक्षये॥१०३७॥

स्वात्मनः प्रतिलाभाय न त्वात्मानमपेक्षते॥
सभावनमतः कर्म प्रतीचः प्रविविच्यते॥१०३८॥

मरणकाले689 बुद्धयादिलयात्कर्मणस्तात्स्थ्यानुपपत्तेरक्षीणं पारलौकिकं कर्माऽऽत्मस्थमेवेत्याशङ्कयाऽऽह। प्रयोगेति। बुद्ध्यादिकारकजातमतिसूक्ष्मं प्रयोगशब्दार्थः। उक्तंहि बुद्ध्यादिक्षयेऽपि कर्म प्रयोगापेक्षमेवाऽऽस्ते स्वात्मलाभाय नाऽऽत्मानमपेक्षत इति। बुद्ध्यादेः स्थूलरूपक्षयेऽपि मरणाद्यवस्थायां सूक्ष्मरूपाश्रितमेव कर्म नाऽऽत्माश्रितमित्यर्थः। भावनाकर्मणोरात्मगुणत्वाभावे फलितमाह। सभावनमिति॥१०३७॥१०३८॥

तस्मात्कर्मगुणस्यैव कर्मस्थस्यैव सर्वदा॥
साक्ष्यात्मा भावनारूपकामस्य स्वप्नसद्मनि॥१०३९॥

कामादिप्रविवेकफलमुपसंहरति। तस्मादिति। कर्मगुणस्य कर्मोपकरणभूतस्येतियावत्। कर्मस्थस्यान्तः-करणाश्रितस्येत्यर्थः। तदाहुस्तस्मादयमेतस्मिन्स्वप्ने कर्मगुणस्यैवाऽऽसङ्गस्य कर्मस्थस्य द्रष्टा प्रविविक्त आत्मा निरासङ्ग इति॥१०३९॥

आसङ्ग आत्मनश्चेत्स्यात्साक्षाच्चैतन्यवद्गुणः॥
न पश्येदात्मवत्कामं कर्मस्थं स्वप्नबोधयोः॥१०४०॥

किंच कामो नाऽऽत्मगुणस्तद्दृश्यत्वाद्रूपवदित्याह। आसङ्ग इति॥१०४०॥

एवं चावस्थिते पक्षे श्रुत्याऽकारि समञ्जसम्॥
प्रसिद्धवदुपादानमसङ्गो हीति सादरम्॥१०४१॥

आत्मनः सर्वकामनिर्मोके सिद्धवद्धेतूपादानमपि गमकमित्याह। एवं चेति। अभ्यासं तात्पर्यलिङ्गं द्योतयति। सादरमिति॥१०४१॥

न कर्मोपचयोऽतोऽत्र स्वप्ने जाग्रद्वदिष्यते॥
सर्वासङ्गविनिर्मोकाद्वासनामात्रशेषतः॥१०४२॥

स्वप्ने कामाभावेऽपिकथं कर्माभावस्तत्राह। न कर्मेति। अतःशब्दार्थमेवाऽऽह। सर्वेति। उक्तं च यस्माच्चाऽसङ्गोऽतो न कर्मोपचयः स्वप्न इति। सुषुप्ताद्विशेषं दर्शयति। वासनेति॥१०४२॥

नायं कर्ममयो यस्मान्न च काममयः स्वतः॥
प्रत्यगज्ञानतस्तस्मात्तन्मयत्वमिवेक्ष्यते॥१०४३॥

आत्मनिस्वप्ने कामकर्माभावमुक्त्वा तद्दृष्टेर्गतिमाह। नायमिति। तन्मयत्वं प्राप्तइवेति शेषः॥१०४३॥

नानासाधनसंबन्धात्कर्तृत्वं जगतीक्ष्यते690
अयं त्वसङ्गोयेनातो न करोति न लिप्यते॥१०४४॥

आत्मनो वस्तुतः कर्तृत्वाद्ययोगमिवशब्दसूचितमुक्त्वाऽसङ्गत्वहेतुना द्रढयति।नानेति॥१०४४॥

मूर्तामूर्ताद्यपह्नुत्या ह्यात्मनस्तत्त्वमब्रवीत्॥
नातोऽनात्माभिसंबन्धः कूटस्थैकात्म्यहेतुतः॥१०४५॥

असङ्गत्वे हेत्वन्तरमाह। मूर्तेति। अब्रवीन्नेति नेत्यस्थूलमित्याद्या श्रुतिरिति शेषः।हिशब्दापेक्षितं पूरयति। नात इति। आत्मनोऽनात्माभिसंबन्धो नेत्यत्र हेतुद्वयमाह। कूटस्थेति॥१०४५॥

सुषुप्ते नन्वसंबोधाद्रत्वादि कथमुच्यते॥
न त्वित्यपि तथा वाक्यं न बाह्यं चेति वक्ष्यति॥१०४६॥

परमतमुपपाद्योपसंहृत्य संप्रसादे रत्वेत्यादि यथाश्रुतमाश्रित्य शङ्कते। सुषुप्त इति।असंबोधात्पुत्रादि-द्वितीयवस्त्वदृष्टेरिति यावत्। कथं तत्र द्वितीयादृष्टिस्तत्राऽऽह। नेति।न तु तद्द्वितीयमस्ति न बाह्यं किंचन वेदेति वाक्याम्यां तत्र691 द्वितीयादृष्टिः सिद्धेत्यर्थः॥१०४६॥

स्वप्ने रत्वाद्यथ मतं नैवमप्युपपद्यते॥
अनन्वागतगीः कुप्येत्स्वप्नेऽन्वेत्येव तत्कृतम्॥१०४७॥

स्वप्नात्सुषुप्तं प्रविविक्षुः स्वप्नावस्थ एव रत्याद्यनुभूय संप्रसादे प्रसीदतीत्युपगमान्नानुपपत्तिरिति शङ्कते। स्वप्न इति। पूर्ववाद्याह। नैवमिति। स्वप्ने रत्यादि692 दृष्टं चेत्स यत्तत्रेत्यादि विरुध्येत तत्र कृतस्य तद्द्रष्टृगामित्वादित्यर्थः॥९०४७॥

यथा जाग्रत्कृतं कर्म कर्तारमनुगच्छति॥
जाग्रत्स्थं स्वप्नकर्मैवं स्वप्ने समधिगच्छति॥१०४८॥

यथा स्वप्नकृतमवस्थान्तरस्थं नानुगच्छत्येवं स्वप्नस्थमपि द्रष्टारं नानुगच्छेदित्याशङ्क्याऽऽह।यथेति॥१०४८॥

इत्येवं चोदिते केचित्परिहारं प्रचक्षते॥
पदच्छेदेन कुशला अरत्वेत्येवमादिना॥१०४९॥

उक्तं चोद्यमनूद्य स्वयुध्यसमाधिमुत्थापयति। इत्येवमिति। संप्रसादेऽरत्वाऽचरित्वाऽदृष्ट्वेति नञन्वयपदच्छेदेन वाक्ये व्याख्यायमाने नावद्यमित्यर्थः॥१०४९॥

स यत्तत्रेत्यसङ्गोक्ते693र्नेदमप्युत्तरं भवेत्॥
दृष्टिंतत्रापि चाध्यस्य परिहारं प्रचक्षते॥१०५०॥

वाक्यशेषानुपपत्त्या दूषयति। स यदिति। न च स्वप्नायैवेतिप्रस्तुतस्वप्नस्यतत्रेति परामर्शादविरोधः शेषस्येति वाच्यं तच्छब्दस्य प्रकृतविप्रकृष्टपरामर्शित्वादन्यथोत्तरत्र स्वप्नोपन्यासवैयर्थ्यान्न च जाग्रत्यसङ्गत्वप्रतिपादनार्थस्तदुपन्यासस्तथा सतिबुद्धान्तोपन्यासानर्थक्यान्न च तच्छब्देन संप्रसादपरामर्शस्तत्र पश्यतेरयोगा694त्सत्परिशेषाद्वाक्यशेषविरोध इति भावः। अन्येऽपि स्वप्नवत्सुप्तेऽपि दृष्ट्याद्यारोप्य नञन्वयंविनैव पदं छिन्दन्तः स यत्तत्रेति सुप्तिपरामर्शाद्वाक्यशेषं चोपपन्नं मन्वानाः परिहरन्तीत्याह। दृष्टिमिति॥१०५०॥

अस्ति भोगः सुषुप्तेऽपि तथाचाऽऽनन्दभुक्ततः॥
ऐश्वरो वाऽत्र भोगोऽस्ति सर्वस्थानाभिमानतः॥१०५१॥

स्वापे रत्याद्यारोपे तत्फलोपलब्धिर्निमित्तमित्याह। अस्तीति। तत्र भोगास्तित्वे मानमाह। तथाचेति। आंनन्दभुक्तथा प्राज्ञ इति वृद्धैरिष्टत्वादस्ति सुप्तौ सुखभोगइत्यर्थः। तत्र रत्याद्यारोपे निमित्तान्तरमाह। ऐश्वरो वेति। अस्ति हि तत्र कारणरूपेश्वरात्मना स्थितस्य जीवस्य तदीयो भोग एतस्यैवाऽऽनन्दस्येत्यादिश्रुतेरतो रत्याद्यारोप इत्यर्थः। उक्तमुपपादयति। सर्वेति। सर्वकारणत्वादीश्वरोऽवस्थात्रयमात्मीयंमन्यते तेन स्वापे तदात्मना स्थितो जीवस्तद्भोगभागीत्यर्थः॥१०५१॥

कार्यभूमिगतो ह्यात्मा सुषुप्तं प्रसमीक्ष्यते695
कार्यस्य कारणव्याप्तेर्न सुषुप्तपरोक्षता॥१०५२॥

तत्र दृष्ट्याद्यारोपे तस्यावस्थान्तरादविशेषप्रसक्तिरित्याशङ्क्य परिहारान्तरमाह।कार्येति। सुषुप्तात्कारणादुत्थितः स्वप्ने जागरे वा कार्यभूमौ स्थितः पुमान्कार्यस्यकारणेन व्याप्तेस्तत्र च स्वप्नादौ रत्यादिदृष्टेस्तल्लिङ्गेन कारणं सुषुप्तं तद्युक्तमेवानुमीयतेतेन तत्र रत्वादिवाचोयुक्तिरित्यर्थः। अनुमानात्सुषुप्तिसिद्धौ परोक्षत्वेन तत्सिद्धेः सयत्तत्र किंचित्पश्यतीतिशेषानुपपत्तिरित्याशङ्क्याऽऽह। नेति। सुषुप्तं नामाऽऽत्माज्ञानंबुद्धेः कारणात्मनाऽवस्थानं तदिति स्थितेस्तच्च न किंचिदवेदिषमिति व्युत्थितस्य परामर्शादपरोक्षं तन्न शेषानुपपत्तिरित्यर्थः॥१०५२॥

यदि वा स्वप्न एवास्तु रत्वादि यदुदीरितम्॥
स्वप्नयोरभितः प्राज्ञादनन्वागतताऽप्यतः॥१०५३॥

सुषुप्ते रत्यादिविशिष्टेऽनुमानादिष्टेऽपि तस्यावस्थान्तरादविशेषापत्तिस्तदवस्थेत्याशङ्क्य सिद्धान्तमाह। यदि वेति। स्वप्ने रत्याद्युच्यते चेत्तत्र कृतशुभादीनां तत्स्थस्या-

नुगतेरनन्वागतवाक्यविरोधः स्यादित्युक्तं तत्राऽऽह। स्वप्नयोरिति। प्राज्ञः सुषुप्तिस्थानंतस्मात्पूर्वमूर्ध्वं च यौ स्वप्नौ तयोरनन्वागतता सिध्यति स्वप्नात्सुषुप्तं गतस्ततः स्वप्नं गच्छतिन च सुषुप्तात्प्राग्भाविस्वप्नस्थकर्मणा पश्चाद्भाविस्वप्नं गतोऽनुगम्यते न च पाश्चात्यस्वप्नस्थकर्मणा प्राचीनस्वप्नस्थो लिप्यते तथा स्वप्नस्थेन शुभादिना सुषुप्तजागरयोरनन्वागतत्वमतोऽविद्ययाऽनुगमावगमेऽपि वस्तुनोऽवस्थात्रयेऽपि तदभावादनन्वागत-वाक्यमविरुद्धमित्यर्थः॥१०५३॥

त्रिधा त्रिधा वा क्लृप्तेः स्यादेकैकस्येत्यदोषता॥
जाग्रत्स्वप्नसुषुप्तानां जाग्रत्स्वप्नसुषुप्ततः॥१०५४॥

संप्रसादे रत्वादि कथमित्यत्र समाध्यन्तरमाह। त्रिधेति। जाग्रदादीनां मध्येप्रत्येकं जाग्रदादिभेदेन त्रैविध्यकल्पनात्सुषुप्तस्थजाग्रत्स्वप्नावपेक्ष्य सुप्तावेव रत्वादेरदोषतेति स्यादित्यर्थः॥१०५४॥

कार्याकार्यादि यत्साक्षात्प्रमाणात्प्रसमीक्षते696
जाग्रज्जागरितं तादृक्तत्स्वप्नो यन्मृषेक्षणम्॥१०५५॥

कामादि697विषयासक्तेर्न किंचिद्विविनक्ति यत्॥
जाग्रत्सुषुप्तं तादृक्स्यान्निर्विवेकस्वभावतः॥१०५६॥

कथं प्रत्येकं त्रैविध्यं तत्र जागरस्य तद्दर्शयति। कार्येति। आदिशब्देन ज्ञेयाज्ञेयभक्ष्याभक्ष्यादि गृह्यते। तच्छब्देन जाग्रदुच्यते। तस्य सुषुप्तत्वे प्रसिद्धसुषुप्तिसाधर्म्यंहेतुमाह। निर्विवेकेति॥१०५५॥१०५६॥

सुप्तोऽपि कर्म कुरुते नरः स्वप्ने प्रबोधवत्॥
स्वप्नजाग्रत्तथारूपं स्वप्नः स्वप्नात्मकोऽत्र यः॥१०५७॥

दृष्ट्वाऽपि यत्समाख्यातुं प्रबुद्धो नैव शक्नुयात्॥
तादृक्स्वप्नसुषुप्तं स्यात्सुषुप्तं च त्रिधोच्यते॥१०५८॥

सुषुप्तजाग्रन्मूढः स्याच्छान्तोऽसौ स्वप्न उच्यते॥
ऐकात्म्यतत्त्वासंबोधः सुषुप्तः प्राज्ञ उच्यते॥१०५९॥

स्वप्नं त्रेधा विभजते। सुप्तोऽपीति। अत्र स्वप्ने यः स्वप्नात्मकोऽनुभवः सस्वप्नस्थः स्वप्न इत्यर्थः। सुषुप्तं त्रैविध्येन योजयति। सुषुप्तं चेति॥१०५७॥१०५८॥१०५९॥

त्रिविधत्वात्सुषुप्तस्य सर्वंरत्वादि युज्यते॥
दृष्टान्तः संप्रसादो वा स्वप्नजाग्रदवस्थयोः॥१०६०॥

तत्त्रैविध्यस्य प्रकृतोपयोगमाह। त्रिविधत्वादिति। सुषुप्तस्योक्तरीत्या त्रैविध्या–

तद्रतस्वप्नाद्यपेक्षया तत्र रत्वाद्युपपत्तिरित्यर्थः। कार्य698करणनिर्मुक्तस्वप्रकाशात्मनःकर्मादिविवेकार्थं सुप्तिरुक्ता संप्रति तदुक्तेस्तात्पर्यान्तरमाह। दृष्टान्त इति॥१०६०॥

यथा रत्वा699द्यसंभाव्यं संप्रसादे तथैव च700
इतरत्रापि विज्ञेयं तत्र वस्त्वसमीक्षणात्॥१०६१॥

दृष्टान्तदार्ष्टान्तिकत्वं स्पष्टयति । यथेति। कथं तर्हि स्वप्नादौ रत्वादिदृष्टिस्तत्राऽऽह। तत्रेति। तत्त्वपाठे तु तदेव वस्तु तस्यासमीक्षणादवस्थाद्वये रत्वादीतियोज्यम्॥१०६१॥

यत एवमतः कर्मकामदोषविवर्जितः॥
पुरुषोऽयं स्वतः सिद्धो यथोक्तेनैव वर्त्मना॥१०६२॥

प्रकरणार्थमुपसंहरति। यत इति। एवंशब्दार्थं दर्शयति। यथोक्तेनेति। कामःकर्मगुणस्तच्च प्रयोगद्वारा कारकाश्रितमित्याद्युक्तमार्गेणेति यावत्। यतोऽयं सर्वदोषरहितोऽतः स्वतोऽकर्ता सिद्ध इति योजना॥१०६२॥

असङ्गत्वादकर्तेति नन्वसिद्धोऽयमुच्यते॥
स्वप्नेकामस्य दृष्टत्वाद्यत्र काममिति श्रुतेः॥१०६३॥

असङ्गो हीत्यसङ्गत्वमनन्वागतत्वे कारणमुक्तं तदसिद्धिं चोदयति। असङ्गत्वादिति। अयमिति हेतुनिर्देशः। तत्र हेतुः। स्वप्न इति। स ईयते मृतो यत्र काममिति श्रुतेः स्वप्ने कामस्य दृष्टत्वात्कामासङ्गयोश्च पर्यायत्वान्नासङ्गतेत्यर्थः॥१०६३॥

इत्यस्य परिहारार्थं स वा इत्यादिकं वचः॥
पुनः स्वप्नसमारम्भो गतत्वात्किमितीर्यते॥
बुद्धान्तादेर्यथा तद्वन्नातः स्यात्पुनरुक्तता॥१०६४॥

स वा एष एतस्मिन्स्वप्ने रत्वेत्याद्युत्तरत्वेनाऽऽदत्ते। इत्यस्येति। स हि स्वप्नो भूत्वेत्यादिनाऽस्य स्वप्नोपन्यासस्य पौनरुक्त्यं शङ्कते। पुनरिति। अर्थभेदं वदन्परिहरति। बुद्धान्तादेरिति। यथा जाग्रत्सुषुप्त्यारर्थभेदात्पुनः पुनरुक्तिस्तथा स्वप्नस्याप्यसकृदुक्तिरविरुद्धा स हि स्वप्नो भूत्वेत्यत्र कार्य701करणातिरेकार्थमात्मनः स्वप्न उक्तः सयत्तत्र प्रस्वपितीत्यत्र स्वयंज्योतिष्ट्वार्थं संप्रसादे रत्वेत्यत्र कर्मविवेकार्थमत्र कामविवेकायेत्यर्थभेदान्न पौनरुक्त्यमित्यर्थः॥१०६४॥

निशायां संप्रवृत्तायां संहृताक्षस्य निद्रया॥
अवस्थां तैजसींभुक्त्वा स्वापो भवति देहिनः॥१०६५॥

स्वप्नात्सुषुप्तिप्राप्तिमुक्तामधिकोक्त्यर्थमनुद्रवति702निशायामिति। तैजसीमवस्थां

स्वप्नाख्यामिति यावत्। अक्षाणि सर्वाणीन्द्रियाणि। भुक्त्वा स्थितस्येति शेषः। स्वापःसुषुप्तिरित्येतत्॥१०६५॥

स आनन्दः परो ज्ञेयः सुखदुःखविवर्जितः॥
सततं सर्वभूतानां तिष्ठत्येष पुरीतति॥१०६६॥

सा च परानन्द इत्यधिकमभिधित्सितमाह। स इति। तस्य परत्वं स्फोरयति।सुखेति। तस्यावस्थाविशेष-योगादागन्तुकत्वमाशङ्क्य विशिनष्टि। सततमिति। तस्यसर्वप्राणिसंबन्धितया व्यापित्वमाह। सर्वेति। प्रत्यक्त्वेनात्यन्तसंनिहितत्वमाह। एषइति। पुरीतद्वारा ब्रह्मरूपेण स्थितिमाह। पुरीततीति॥१०६६॥

तत्र रत्वा यथाकामं कंचित्कालं यदृच्छया॥
तामवस्थां तिरश्चक्र आयियासुस्ततोऽपराम्॥१०६७॥

यथोक्तं स्वापमारूढस्तर्हि मुक्तवन्नावस्थान्तरं गच्छेदित्याशङ्क्याऽऽह। तत्रेति।रत्वा पूर्वोक्तं परमानन्दं निर्विकल्पेनानुभूयेति यावत्। कंचित्कालमवस्थान्तरहेतुकर्मानभिव्यक्त्यवस्थायामित्यर्थः। यद्यपि यदृच्छाशब्दो विना नियामकं यदाकदाचित्कार्योदयार्थस्तथाऽप्यत्र स्वप्नहेतुभूतमुद्भूतं कर्म यदृच्छेति द्रष्टव्यम्। तामवस्थामिति सुषुप्तिरुक्ता। अपरामिति स्वप्नोक्तिः॥१०६७॥

भावनाविग्रहो भूत्वा तत्र स्वप्नरिरंसया॥
उच्चावचानि वस्तूनि भावनातः करोति सः॥१०६८॥

स्वप्नंगत्वा किं करोत्यात्मेत्यपेक्षायामाह। भावनेति। स्वप्नेजाग्रद्वासनानिर्मितं देहं गृहीत्वा तत्र रतीच्छया हस्त्यादिपदार्थान्भावनावशान्निर्वर्तयत्यतः स मिथ्यत्यर्थः॥१०६८॥

गतौ प्राणवियोगः स्याद्यथाकालस्य चेक्षणम्॥
तदसंभाव्यदेशादौ दर्शनात्तन्मृषात्मता॥१०६९॥

तन्मिथ्यात्वे युक्त्यन्तरमाह। गताविति। स्वप्ने हि द्रष्टा विप्रकृष्टं पश्यति यदिचेतो देहाद्गत्वाऽवगच्छेत्तदाऽत्र प्राणवियोगान्मृतिः स्यात्तमुत्क्रामन्तं प्राणोऽनूत्क्रामतीति श्रुतेर्न चात्रापि सत्त्वाददोषो विशिष्टस्यातथात्वात्तस्मादन्तरेण गतिमतिविप्रकृष्टदृष्टेः स्वप्नो मिथ्येत्यर्थः। तत्रैव हेत्वन्तरमाह । यथेति। योग्यकालवतोऽर्थस्य स्वप्नेदृष्टिरस्ति न च तत्र703 संयोगो विद्यते न हि क्षणमात्रेण सुप्तोत्थितस्यानेकाहोरात्रनिर्वर्त्यर्थाप्तिदृष्टौ योग्यकालसंभावनाऽस्त्यतः स्वप्नो मिथ्येत्यर्थः। आर्द्रमरीचादिर्यत्र देशे कालेवा न संभाव्यते तत्र तस्य स्वप्ने दृष्टेश्चतन्मिथ्यात्वमित्याह। तदसंभाव्येति॥१०६९॥

यावत्स्वप्नेऽस्ति वक्तव्यं प्राक्तदुक्तमशेषतः॥
तस्मान्नाऽऽसङ्गगन्धोऽपि स्वप्नेपुंसोऽस्य विद्यते॥१०७०॥

किंच तन्मिथ्यात्वं स्वप्नप्रपञ्चः सर्वोऽपि वासनामात्रमेव त्वित्यादावुक्तमित्याह।यावदिति। स्वप्नमिथ्यात्वे फलितमाह। तस्मादिति। वासनात्मकोऽपि कामो नस्वप्नेऽस्तीति वक्तुं गन्धपदम्॥१०७०॥

असङ्गत्वादसंबन्धो यथेह स्वप्नकर्मभिः॥
जाग्रत्यपि न कर्ताऽयमेतस्मादेव कारणात्॥१०७१॥

स वा एष एतस्मिन्स्वप्ने रत्वेत्यादेस्तात्पर्यमुक्त्वा स वा एष एतस्मिन्बुद्धान्ते रत्वेत्यादेस्तात्पर्यमाह। असङ्गत्वादिति। स्वप्नः सप्तम्यर्थः। एतस्मादेवासङ्गत्वादितियावत्॥१०७१॥

असज्जाग्रदवस्थेयं जाग्रद्रूपत्वकारणात्॥
स्वप्ने जाग्रदवस्थावत्तथाचाऽऽद्यन्तवत्त्वतः॥१०७२॥

तयोर्बाधाबाधाभ्यां वैषम्याज्जागरे कर्तृत्वादि वास्तवमिति चेन्नेत्याह। असदिति।असच्छब्देन सद्विलक्षणवाचिना मिथ्यात्वं कथ्यते। अनुमानान्तरमाह। तथा चेति।विमतं मिथ्याऽऽद्यन्तवत्त्वात्संमतवदित्यर्थः॥१०७२॥

अज्ञानोत्थमिदं जाग्रज्जडरूपसमन्वयात्॥
तथाऽपेक्षात्मकत्वाच्च मृगतृष्णोदकादिवत्॥१०७३॥

विमतं मिथ्या जडत्वाद्रज्जुसर्पवदित्याह। अज्ञानेति। विमतमाविद्यं सापेक्षत्वात्संमतवदित्याह। तथेति। जागरितस्याज्ञानोत्थत्वं तथेत्यनुकृप्यते। जाड्येन हेतुरुन्नेयः॥१०७३॥

निरासङ्गः पुमानेष स्वप्नबुद्धान्तयोरपि॥
संप्रसादे किमङ्गायं यत्र किंचिन्न वीक्ष्यते॥१०७४॥

स्वप्नादावसङ्गत्वमुक्त्वा सुषुप्ते तदभावात्कर्मराहित्यासिद्धिमाशङ्क्याऽऽह। निरासङ्ग इति। आसङ्गहेतुसंभवेऽपीत्यपेरर्थः। स्वापे पुरुषस्य निरासङ्गत्वं किमु वक्तव्यमित्यत्र हेतुमाह। यत्रेति॥१०७४॥

ननु जाग्रदवस्थायां दृष्ट्वैवेत्युच्यते कथम्॥
प्रत्यक्षकर्तृता तत्र यत आत्मन ईक्ष्यते॥१०७५॥

आत्मनोऽवस्थात्रयेऽप्यसङ्गत्वादकर्तृत्वमुक्तं तत्र जाग्रदवस्थमकर्तृत्वमाक्षिपति।नन्विति॥१०७५॥

नैवं कर्त्रादिसाक्षित्वात्तच्चिदाभासतस्तथा704
कर्तृत्वमात्मनो बोध उपचाराद्यतस्ततः॥१०७६॥

तत्रापि तन्न वस्तुतोऽस्तीति परिहरति । नैवमिति । कर्त्रादीनां चिदाभासव्याप्तेश्चिदात्मनि705 कारकत्वधीरित्याह । तदिति। यदा जागरे काल्पनिकं कर्तृत्वं ततोऽवधारणाधीनमकर्तृत्वं युक्तमिति फलितमाह। कर्तृत्वमिति॥१०७६॥

आत्मनैवायमिति च ध्यायतीवेति च श्रुतेः॥
नाऽऽत्मनः कारकत्वं स्यात्सर्वावस्थातिल706ङ्घिनः॥१०७७॥

औपाधिकं कर्तृत्वं स्वतोऽकर्तृत्वमित्यत्र प्रमाणमाह। आत्मनैवेति। इतश्चाऽऽत्मनो न कारकत्वमवस्थावतस्तद्भावादित्याह। सर्वेति॥१०७७॥

वेदात्माऽपि तथाचाऽऽहप्रपन्नाय किरीटिने॥
संसारहेतुनिविडध्वान्तोच्चिच्छित्सयाऽऽदरात्॥१०७८॥

तत्र स्मृतिं प्रमाणयितुं पातनिकामाह। वेदेति। आत्मनि कारकत्वमादरादा707त्मनश्चावस्थावत्त्वाभावान्निरस्यतो भगवतोऽभिप्रायमाह। संसारेति॥१०७८॥

अनादित्वान्निर्गुणत्वात्परमात्माऽयमव्ययः॥
शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते॥१०७९॥

किं तद्भगवानाहेति तदाह। अनादित्वादिति। स्वरूपतो धर्मतो वा परस्याऽऽत्मनो व्ययाभावेऽपि शरीरस्थतया कर्तृत्वभोक्तृत्वे स्यातामित्याशङ्क्य स्वतः708 सतस्तयोरसत्त्वं मत्वाऽऽह। शरीरेति॥१०७९॥

स्वप्नबृद्धान्तवाक्याभ्यां मृत्योरासङ्गलक्षणात्॥
विविक्ततैवं यत्नेन निर्णीता प्रत्यगात्मनः॥१०८०॥

महामत्स्यवाक्यस्य संगतिं वक्तुं वृत्तं कीर्तयति। स्वप्नेति। प्रतिज्ञाहेतुविभागविवेचनं यत्नः॥१०८०॥

अन्योन्यपरिहारेण स्वप्नजाग्रदवस्थयोः॥
कामकर्मात्मकासङ्गविविक्तत्वमिहोदितम्॥१०८१॥

आसङ्गलक्षणादिति विशेषणात्कामविवेको विवक्षितो न कर्मविवेक इत्याशङ्कयाऽऽह।अन्योन्येति। अवस्थाद्वयस्य मिथो व्यभिचारादेकत्र कृतस्यान्यत्रानन्वयात्कामकर्मात्मकादासङ्गान्मृत्योर्विविक्तत्वमात्मनि पूर्वत्र दर्शितमित्यर्थः॥१०८१॥

यथोदितार्थ एतस्मिन्दृष्टान्तोऽप्यधुनोच्यते॥
निरासङ्गत्वसिद्ध्यर्थं प्रत्यगात्माख्यवस्तुनः॥१०८२॥

महामत्स्यवाक्यमवतारयति। यथेति। कामकर्मात्मकासङ्गनिर्मुक्ते प्रत्यगात्मनीतियावत्। दृष्टान्तोक्तिफलमाह। निरासङ्गत्वेति॥१०८२॥

स्वातत्र्यप्रतिपत्त्यर्थं महानिति विशेषणम्॥
नादेयस्रोतसाऽहार्यो मत्स्यो दृष्टान्त उच्यते॥१०८३॥

महांश्चासौ मत्स्यश्चेत्यत्र विशेषणकृत्यमाह। स्वातन्त्र्येति। सति तस्मिन्सिद्धमर्थमाह। नादेयेति। यो मत्स्योऽसङ्गेप्रतीचि दृष्टान्तः स स्वतन्त्रो नदीप्रवाहेणाकम्प्यः सिध्यतीत्यर्थः॥१०८३॥

यथा सिन्धोर्महामत्स्य उभे कूले मिथः पृथक्॥
अनुक्रमेण सं709चरन्मत्स्योऽन्यः कूलतो मतः॥१०८४॥

विशेषणार्थमुक्त्वा दृष्टान्तं व्याचष्टे। यथेति। महामत्स्यो नद्या द्वे कूले परस्मादपरमपरस्माच्च परमित्यनुक्रमेण संचरन्द्वाभ्यां कूलाम्यां यथा पृथग्भवतीत्यर्थः। तदेवस्पष्टयति। अनुक्रमेणेति॥१०८४॥

कूलाभ्यां क्रमसंबन्धाद्व्यतिरेकाच्च कूलतः॥
स्रोतोमध्ये द्वयाप्राप्तेरसङ्गोऽयं तिमिर्यथा॥१०८५॥

जाग्रत्स्वप्नकुलायाभ्यां क्रमसंबन्धतस्तथा॥
व्यतिरेको द्वयाप्राप्तेरसङ्गोऽयं पुमानपि॥१०८६॥

मत्स्यस्य ससङ्गित्वात्कथमसङ्गे प्रतीचि दृष्टान्तस्तत्राऽऽह। कूलाभ्यामिति। द्वयाप्राप्तेर्द्वयोरपि कूलयोः स्रोतोमध्ये प्राप्त्यभावान्मध्यस्थो मत्स्योऽसङ्गो भवतीतियावत्। उक्तदृष्टान्तमन्य दार्ष्टान्तिकंव्याचष्टे। यथेत्यादिना। द्वयाप्राप्तेर्द्वयोःस्थूलसूक्ष्मदेहयोः सुषुप्ते प्राप्त्यभावादित्यर्थः॥१०८५॥१०८६॥

युगपत्स्याद्द्वयोर्भोगो जाग्रत्स्वप्नकुलाययोः॥
भूतमात्राविशेषत्वात्ताभ्यामात्मा न चेत्पृथक्॥१०८७॥

देहात्मवादी तु जाग्रत्स्वप्नदेहातिरिक्तमात्मानमनङ्गीकुर्वन्नसङ्गत्वं तस्य नाङ्गीकुरुतेतं प्रत्याह । युगपदिति। ननु जाग्रद्देहकाले न स्वप्नदेहोऽस्त्यारम्भकाभावात्तत्कुतो भोगयौगपद्यत आह । भूतेति। यद्यात्मा देहद्वयान्न पृथगिष्टस्तदा तदारम्भकाविशेषाद्धोगयौगपद्यमापद्येतेति योजनीयम्। न710 च जाग्रद्देहारम्भकाणामेव भूतानां स्वप्नदेहारम्भकत्वात्तद्रूपावरुद्धानां तदैवान्यदेहारम्भकत्वासंभवस्तथा सति पार्श्वस्थैःसुप्तस्य पूर्वदेहानुपलब्धिप्रसङ्गात्तदारम्भकाणां ततोऽपसृत्य देहान्तरात्मनाऽसंहतेरिति भावः॥१०८७॥

संबन्धं कुर्वते केचिदन्यथैव महाधियः॥
महामत्स्यादिवाक्यस्य स यथोक्तस्तथोच्यते॥१०८८॥

महामत्स्यवाक्यं भाष्यानुसारेण व्याख्यातमधुना तद्वाक्यादिसंदर्भस्य भर्तृप्रपञ्चोक्तंसंबन्धमाह। संबन्धमिति। महामत्स्यवाक्यमादिर्यस्य स्त्रीवाक्यान्तवाक्यस्येति तद्गुणसंविज्ञानो बहुव्रीहिः। कथं तस्य भाष्योक्तसंबन्धाद्विधान्तरेण संबन्धस्तैरुक्तस्तत्राऽऽह। स इति॥१०८८॥

बाह्यं कर्मास्य बुद्ध्यादिप्रयोगाश्रितमेव हि॥
पुंसः किल ततोऽभ्येत्य भावनाऽऽप्नोति देहिनम्॥१०८९॥

तस्या विवेको व्याख्यातो यथोक्तवचसाऽऽत्मनः॥
अविद्या त्वात्मविज्ञानसंश्रितैव न साऽन्यतः॥१०९०॥

अन्यथासंबन्धोक्तिं प्रकटयन्नादौ तदीयवृत्तानुवादं दर्शयति। बाह्यमिति। अस्यपुंसो बाह्यमसंसर्गि शुभादिकर्मेत्यत्र हेतुमाह। बुद्ध्यादीति। बुद्ध्यादिलक्षणः सूक्ष्मोपाधिरेव प्रयोगहेतुत्वात्प्रयोगस्तदाश्रितत्वात्कर्मणो नाऽऽत्मस्थतेत्यर्थः। **यथाऽऽहुः—**अस्य हि पुरुषस्य बाह्यं कर्म बुद्ध्यादिप्रयोगाश्रितमिति। कर्मविवेके कामविवेकस्यापिसिद्धत्वात्किमित्यसङ्गवाक्यमित्याशङ्क्याऽऽह। पुंस इति। कर्मकृता भावना तदाश्रयेबुद्ध्यादावध्यासे711 सा तस्मादात्माभिमुख्येनाऽऽगत्य तं किलाऽऽश्रयत्यतस्तस्याः कर्मसहितायाः पुंसः सकाशाद्विवेकोऽसङ्गो हीत्यादिनोक्त इत्यर्थः। तदुक्तं ततः कर्मणो भावनासमेत्यैनमास्कन्दति तयोर्विवेको व्याख्यात इति। कामकर्मविवेकं कृतमनूद्य वक्ष्यमाणसंबन्धोपयोगित्वेनाविद्यावृत्तमाह। अविद्येति। आत्मनो विज्ञानं चैतन्यं तदाश्रितैवाविद्यान त्वन्याश्रिताऽऽश्रयान्तराभावान्नापि स्वतन्त्रा स्वरूपविरोधादविद्या पुनः स्वविज्ञानाश्रयैवेति चोक्तमित्यर्थः॥१०८९॥१०९०॥

यत्तद्विज्ञानमात्मीयं तद्विकृत्यावतिष्ठते॥
मिथ्याज्ञानग्रहायासावविद्या प्रत्यगात्मनः॥१०९१॥

आत्माश्रिताविद्यायाः कार्यद्वयमाह। यत्तदिति। उक्तं च तदेव विज्ञानं विकृत्यविपरीतग्रहाय प्रकल्पयतीति॥१०९१॥

अविद्याविषसं712दष्टं तज्ज्ञानं परमात्मनः॥
पारंपर्येण बुद्ध्यादौ स्थूलीभावं निगच्छति॥१०९२॥

अविद्याकृतचैतन्यविकारस्वरूपं निरूपयति। अविद्येति। तत्खल्वात्मचैतन्यमविद्याग्रस्तं बुद्ध्यादिद्वारा शब्दादिप्रवणं भवतीत्यर्थः॥१०९२॥

स्थूलीभूता बहिः सेयं प्रकाशत्वाय कल्पते।
एवं बहिरविद्येयं निष्क्रामत्यात्मनः पृथक्॥१०९३॥

संप्रत्यविद्योत्थमिथ्याज्ञानस्वरूपमाह। स्थूलीभूतेति। सेयमविद्या बुद्ध्यादिद्वारा

शब्दादिभावमापन्ना चैतन्यस्य विषयप्रकाशनहेतुः स चार्थप्रकाशो मिथ्याधीरित्यर्थः।उक्तं हि स विज्ञानाविशेषो बुद्ध्यादिपरंपरया स्थूलीभूतो बाह्यः प्रकाशो व्यवहारायकल्पत इति। उक्तमविद्यावृत्तं निगमयति। एवमिति। उक्तरीत्या चैतन्यमविद्याचोभयं मिथोद्धमात्मनो बहिर्नानामुखं निर्गच्छतीत्यर्थः॥१०९३॥

स्वप्ने विवेको व्याख्यातः कर्मणोऽस्याऽऽत्मनोऽधुना॥
अविद्याप्रविवेकोऽयं वक्ष्यतेऽस्यात उत्तरम्॥१०९४॥

महामत्स्यादिग्रन्थस्य संबन्धं वक्तुं पातनिकां कृत्वा तमाह। स्वप्नइति। कर्मग्रहणं कामोपलक्षणम्। संबन्धस्यैवं सत्त्वादुपपन्नमुत्तरं ग्रन्थजातानित्याह। अत इतियदाहुः—य आसङ्गकृतः संसर्गस्तेन विवेको व्याख्यातो यस्त्वविद्याकृतः संसर्गस्तेनविवेको व्याख्यातव्य इति॥१०९४॥

कर्मणा निर्मितं लोकमात्मा पश्यत्यविद्यया॥
तयोर्विवेकादुभयोः स्वाभाव्यं प्रतिपद्यते॥१०९५॥

कर्मविवेके सति कृतमविद्याविवेकेनेत्याशङ्कयाऽऽह। कर्मणेति। द्वयोर्विवेकादात्मनो मुक्तिर्न कर्ममात्रविवेकादविद्याविवेकाभावे ततोऽनर्थोदयादित्यर्थः॥१०९५॥

रूपादिविषयासङ्गः करणैश्चक्षुरादिभिः॥
अनुप्रविश्य भोक्तारं रञ्जयित्वाऽवतिष्ठते॥१०९६॥

तर्हि तयोरेव विवेकोऽस्तु किं कामविवेकेनेत्याशङ्क्य तस्यापि कार्यार्थं कामस्यानर्थहेतुत्वमाह। रूपादीति॥१०९६॥

विज्ञानं पौरुषं शुद्धं तेनाऽऽसङ्गेन दूषितम्॥
तमेवा713ऽऽसृत्य निर्गम्य बाह्यतो व्यवतिष्ठते॥१०९७॥

करणद्वारकस्य कामस्य भोक्तरि रञ्जितत्वेऽपि कथमनर्थहेतुत्वं तत्राऽऽह। विज्ञानमिति। यथा714ऽऽहुः— आसङ्गस्तु विषयेन्द्रियद्वारेण बहिष्ठः समागम्याऽऽत्मानमनुप्रविशतीति। चैतन्यस्य कामकलुषितत्वे प्राप्तां दशामाह। तमेवेति। विषयप्रवणमासङ्गमनुसृत्य चैतन्यमात्मनो निर्गम्य विषयाधीनं सुखदुःखाद्यनर्थभाग्भवतीत्यर्थः॥१०९७॥

आसङ्गाविद्ययोरेवमन्योन्याश्रयतोदिता॥
अभावादनयोरात्मा स्वात्मस्थः संप्रसीदति॥१०९८॥

अविद्ययाऽऽत्मनो विषयप्रावण्यमुक्तं त्यक्त्वा कर्थं कामवशात्तदुच्यते तत्राऽऽह।आसङ्गेति। अविद्याद्वारा तस्याऽऽत्मसंबन्धस्तत्रानर्थाधायकत्वं चेत्येवमनयोर्गुणप्रधानत्वेन मिथोयोगान्न पूर्वापरविरोध इत्यर्थः। कामाविद्ययोरनर्थहेतुत्वे तदभावादात्मनोमुक्तिरिति तद्विवेकः कार्य इत्याह। अभावादिति॥१०९८॥

प्रसिद्धमेतल्लोकेऽपि यदि रोगादिसंगतिः॥
न भवत्यथ जल्पन्ति स्वस्थोऽयमिति लौकिकाः॥१०९९॥

अनर्थहेतुयोगाभावे स्वास्थ्यमित्यत्र लोकप्रसिद्धिमाह। प्रसिद्धमिति॥१०९९॥

निरासङ्गस्य विदुषस्तस्मान्मुक्तिंप्रतीमहे॥
स्यादन्यतरवैकल्ये न वेत्येतदनिश्चितम्॥११००॥

कामाविद्ययोर्विवेकस्य कार्यत्वमुपसंहरति। निरासङ्गस्येति। अध्ययनार्थस्य धातोरिङोऽध्युपसर्गस्याधिकार्थ-शून्यस्योपलक्षणत्वमुपेत्य प्रतीत्युपसर्गः। तथाच प्रतीमहेविशिष्टस्याधिकारिणो जानीमोऽध्ययनवशान्मुक्तिरित्यर्थः। तस्मादासङ्गादिराहित्यादिति यावत्। अविद्याविवेकादेव मुक्तिसिद्धौ कृतं कामकर्मविवेकेनेत्याशङ्क्याऽऽह। स्यादिति। कामकर्मविवेकयोरन्यतरस्याप्यसत्त्वेनाविद्याविवेको मुक्तिर्वा न निर्धार्यतेकिमु द्वयोरविवेके तस्मादविद्याविवेकार्थमेव तयोर्विवेकः कार्य इत्यर्थः॥११००॥

तद्यथा श्येन इत्यस्माद्यावत्स्त्रीब्राह्मणादिति॥
अविद्याप्रविवेकार्थमेवमेतावदुच्यते॥११०१॥

अविद्याविवेकस्य मोक्षार्थतया फलवत्त्वेऽपि तदर्थमुत्तरं ग्रन्थजातमित्ययुक्तमुत्तरत्राविद्याविवेकस्य काप्यदृष्टेरित्याशङ्क्याऽऽह। तद्यथेति। आ श्येनवाक्यादा च स्त्रीवाक्याद्यावत्परिमाण-परिमितमेतद्वाक्यमेतावत्सर्वमविद्यायाः सकाशात्प्रतीचो विवेकार्थमित्येवमुच्यते विद्वद्भिरित्यर्थः॥११०१॥

स्वप्नजाग्रत्प्रचारेऽस्मिन्नात्मा श्येनः पतन्निव॥
परिश्रान्तः सुषुप्ताख्यं नीडं धावत्यथाऽऽत्मनः॥११०२॥

श्येनवाक्ये कथमविद्याविवेकस्य मोक्षार्थतया धीरित्याशङ्क्यतदर्थं तद्व्याचष्टे।स्वप्नेति। यथा यत्र तत्र पतन्नाकाशे श्येनः श्रान्तो भूत्वा तत्परिहारार्थं स्वकीयं नीडमुपसर्पति तथाऽयमात्माऽवस्थाद्वयसंचारे सति तत्प्रयुक्तं श्रममनुभूय सुषुप्ताख्यमज्ञातंब्रह्म स्वस्याऽऽयतनमासाद्य निर्वृणोतीत्यर्थः। सुषुप्त्यवस्थायां ब्रह्मप्राप्त्या श्रमनिवृत्तिरनुभवसिद्धेति द्योतयितुमथशब्दः॥११०२॥

कर्माविद्याविनिर्मुक्त एतस्मिन्नेव लक्ष्यते॥
सर्वशोकातिगः स्वस्थः स्तिमितः स्वात्मनि स्थितः॥११०३॥

स्वप्नजागरिते हित्वाऽऽत्मा श्रमनिरासार्थं सुषुप्तं गच्छतीत्येतावदत्र प्रतीयते नाविद्यादिविवेक इत्याशङ्क्याऽऽह। कर्मेति। शोकशब्देन कामो गृह्यते। स्वापे मूलाविद्यासत्त्वेऽपि तन्निर्मोकस्तन्निमित्तविक्षेपाभावादिति द्रष्टव्यम्। सुषुप्ते715 श्येनवाक्येनोक्तलक्षणः प्रत्यगात्मा ज्ञायत इत्यर्थः॥११०३॥

इति व्याचक्षते केचिन्महामत्स्यादिकां श्रुतिम्॥
तन्न्याय्यमथवाऽन्याय्यं यत्नान्न्यायैः716 परीक्ष्यताम्॥११०४॥

परपक्षमुपसंहरति। इति व्याचक्षत इति। महामत्स्यादिकायाः स्त्रीवाक्यान्तायाःश्रुतेरविद्यावि717वेकार्थतेत्येवं संबन्धमाहुरित्यर्थः। तत्र दोषं संभावयति। तन्न्याय्यमिति।परकीयसंबन्धवचनं तदा परामृष्टम्। परीक्षायां न्यायाभास-निरासो यत्नः॥११०४॥

आत्मवस्त्वतिरेकेण नास्ति वस्त्वन्तरं यदि॥
बाह्यान्तःप्रविभागोऽयं किमाश्रित्य प्रकल्प्यते718॥११०५॥

यत्तावद्वाह्यं कर्मास्येत्यादि तत्राऽऽत्मातिरिक्तं वस्तु नास्त्यस्ति वेति विकल्प्याऽऽद्यमनूद्य दूषयति। आत्मेति॥११०५॥

विषयेन्द्रियादि यद्वस्तु नाविद्याव्यतिरेकि तत्॥
वस्त्वन्तरस्य सद्भाव ऐकात्म्यं बाध्यते यतः॥११०६॥

द्वितीयेऽपि तद्वास्तवमवास्तवं वा प्रथमं प्रत्याह। विषयेति। तस्याविद्याव्यतिरेकेहेतुमाह। वस्त्वन्तरस्येति। न च तद्वाध्यमेव नानाविधश्रुतिस्मृतिन्यायविरोधादतोनाऽऽत्मातिरिक्तं वस्तु वास्तवमस्ति द्वितीये पूर्वोक्तकामकर्म-विभागकल्पना न प्रमाणवत्यविद्याद्वारा तज्जस्य सर्वस्याऽऽत्मगामित्वादिति भावः॥११०६॥

आसङ्गस्याऽऽगतिरतो विषयेन्द्रियवर्त्मना॥
न्यायाभावादयुक्तैव719 नाप्यविद्या तमानयेत्॥११०७॥

यत्तु ततोऽभ्येत्येत्यादि तत्राऽऽत्मनि कामाप्तिर्विषयादिद्वारा स्यादविद्याद्वारा वानाऽऽद्य इत्याह। आसङ्गस्येति। वस्तुतो विषयाद्यभावोऽतःशब्दार्थः। कल्पितविषयादिवशादात्मन्यासङ्गागतिमाशङ्कयाऽऽह। न्यायेति। अविद्यया विषयादेःकल्पितत्वं चेदात्मन्येव तत्कल्पनात्तन्निमित्तासङ्गस्यापि तत्रैव कल्पनान्न बहि720ष्ठकामागतिकल्पना युक्तेत्यर्थः। कल्पनान्तरं निराह। नापीति। तमासङ्गमितियावत्॥११०७॥

मिथ्याज्ञानमृते नान्यत्कार्यं किंचिदपीष्यते॥
अविद्याया यतो नात आसङ्गाद्याहृतिः स्वतः॥११०८॥

तत्र हेतुः। मिथ्येति। न हि वास्तवं कामाद्याहरणमात्मन्याविद्यं युक्तं भ्रमस्यैवतत्कार्यत्वात्तस्य चावस्तुत्वाङ्गी-कारे721ऽवहिष्ठो नाऽऽत्मनि तदाहृतिस्तत्रैव कल्पनस्योक्तत्वादित्यर्थः॥११०८॥

आत्माविद्यामसिद्ध्यैव ह्यविद्याऽप्यात्मनो यतः॥
न स्वतः परतो वाऽतो वस्तुतः प्रत्यगात्मनि॥११०९॥

यत्त्वविद्या त्वात्मविज्ञानसंश्रितेति तत्राऽऽह। आत्मेति। तस्याविद्यायोगः प्रातीतिकः प्रामाणिको वाऽऽद्येभ्युपगमो न द्वितीयः प्रामाणिकाविद्यासंबन्धे प्रमाणासिद्धेरिति भावः। आत्मनि प्रातिभासिकाविद्यासंबन्धाङ्गीकारद्योतको हिशब्दः। तस्मिन्नागमादिप्रसिद्ध्या चैतन्याङ्गीकारवदित्यपेरर्थः। स्वतो वा हेतुतो वा तत्र वस्तुतोऽविद्यासंबन्धे मानाभावो यत इति सूचितोऽतःशब्देन परामृश्यते॥११०९॥

निःशेषविक्रियावर्गप्रतिषेधश्रुतेस्तथा॥
आत्मज्ञानं विकृत्याऽऽस्तेऽविद्येत्येतच्च दुर्भणम्॥१११०॥

यत्तु यत्तद्विज्ञानमात्मीयमित्यादि तत्राऽऽह। निःशेषेति। तथेत्यात्माविद्यायोगस्यप्रामाणिकताया दुर्वचत्ववदित्यर्थः॥१११०॥

प्रत्यक्विदाभाविद्याऽतो ह्यविचारितसिद्धिका॥
सिद्धायते प्रतीचीयं प्राक्सम्यग्ज्ञानजन्मनः॥११११॥

तर्हि त्वत्पक्षेऽपि कथं प्रतीच्यविद्योच्यते तत्राऽऽह। प्रत्यगिति। आत्मनो निर्विकारत्वमतःशब्दार्थः। अनिर्वाच्यत्वमविद्यायाश्चिदाभासव्याप्तत्वं तत्त्वज्ञानात्प्रागेवप्रतीचि मिथ्याभासत्वमपरोक्षत्वं चानुभवयुक्ति-समधिगतमिति हिशब्दार्थः॥११११॥

जाग्रत्स्वप्नविवेकोऽतो वाक्यार्थप्रतिपत्तये॥
वाक्यार्थप्रतिपत्त्यैव प्रत्यगज्ञाननिहनुतिः॥१११२॥

यत्त्वविद्याविवेकार्थमुत्तरमिति तत्राऽऽह। जाग्रदिति। स्थानत्रये क्रमा722क्रमसंचाराज्जागरादौ कामकर्मनिर्मोकात्परि-शुद्धस्त्वमर्थो वाक्यार्थस्य ब्रह्मात्मत्वस्य प्रतिपत्त्यर्थमिष्टःपदार्थज्ञानं विनावाक्यार्थज्ञानायोगात्तज्ज्ञानाच्चाज्ञान-ध्वस्तिरतस्त्वमर्थशुद्ध्यधीनवाक्यार्थज्ञानादज्ञानध्वस्तेर्न पृथगविद्याविवेकोऽपेक्ष्यते यद्यप्यविद्यातज्जविविक्तपदार्थ-धीर्वाक्यार्थदृष्टावुपयुक्ता तथाऽपि नाविद्याविवेकः श्येनवाक्ये क्रियतेऽज्ञातब्रह्मलक्षणकारणरूपसुप्तिप्राप्तेस्तत्र प्रतीतेरिति भावः॥१११२॥

जाग्रत्स्वप्नसुषुप्तेषु संचारोऽयं प्रमान्तरात्॥
सिद्धो यस्मादतस्तस्मिन्वाक्यं स्यादनुवादकम्॥१११३॥

अवस्थात्रये प्रवृत्तसंदर्भो नान्यशेषः स्वार्थावसानादित्याशङ्क्याऽऽह। जाग्रदिति।अवस्थात्रयसंचारविषयं प्रमान्तरं प्रतिसंधानरूपमुन्नेयम्॥१११३॥

क्रमसंचारिणस्तस्य जाग्रत्स्वप्नसुषुप्तिषु॥
ब्रह्मत्वं नान्यतोऽज्ञायि वाक्यं तत्प्रतिपत्तिकृत्॥१११४॥

महावाक्यमपि जागरादिवाक्यवन्न स्वार्थपरं तदर्थस्यापि सिद्धत्वेन मानान्तरयोग्यत्वादित्याशङ्क्याऽऽह। क्रमेति॥१११४॥

आत्मनो ब्रह्मता साक्षाद्ब्रह्मणोऽप्यात्मता स्वतः॥
तत्त्वमस्यादिवाक्यस्व विषयोऽयमिहोदितः॥१११५॥

ब्रह्मात्मत्वस्य मानान्तरासिद्धत्वं साधयति। आत्मन इति। सप्तम्या शास्त्रं परामृश्यते। प्रत्यक्षादेर्निर्विशेषे ब्रह्मात्मैक्येऽप्रवृत्तेर्वाक्यैकगम्यं तदित्यर्थः॥१११५॥

महामत्स्याख्यदृष्टान्तः स्वप्नजाग्रदवस्थयोः॥
व्याख्यातोऽप्यन्यथा त्वन्ये दृष्टान्तं व्याचचक्षिरे॥१११६॥

महामत्स्यवाक्यादेः स्त्रीवाक्यान्तस्य संदर्भस्य परोक्तं संबन्धं दूषयित्वा महामत्स्यवाक्यव्याख्यानं तदीयमुद्भावयति। महामत्स्येति। आत्मनः स्वप्नादौ कामादिविवेकेदृष्टान्तो भाष्ये महामत्स्याख्यो व्याख्यातो भर्तृप्रपञ्चास्तु तमेव विधान्तरेण व्याचख्युरित्यर्थः॥१११६॥

विज्ञानं प्रस्तुतं तस्मिन्संदेहो नः प्रजायते॥
किमेतद्भौतिकं ज्ञानं भूतेभ्योऽन्यस्य चाऽऽत्मनः॥१११७॥

विधान्तरं दर्शयितुं विचारं करोति। विज्ञानमिति॥१११७॥

विज्ञानं भौतिकं तावद्भूतसंसर्गजन्मनः723
यथैव बाह्यनयनप्रकाशार्थाभिसंगतेः॥१११८॥

विषयज्ञानजन्मैवमात्मनो भूतसंगतेः॥
बुद्धीन्द्रियादिसंसर्गादभिव्यक्तिः समीक्ष्यते॥१११९॥

संविज्ज्ञानविशेषस्य तथा सति न किंचन॥
व्यतिरिक्तस्य विज्ञातुर्विज्ञानेऽस्ति प्रयोजनम्॥११२०॥

पूर्वपक्षयति। विज्ञानं भौतिकमिति। उक्तं हेतुं दृष्टान्तेन स्पष्टयति। यथेति। बुद्धीन्द्रियादीत्यादिपदमर्थसंग्रहार्थम्। संविदेव ज्ञानविशेषो विषायेपलम्भस्तस्येति यावत्।उक्तं हि यथैव बाह्यचक्षुषः प्रकाशार्थयोः संसर्गाद्विशेषप्रकाशनाभिव्यक्तिरेवं बुद्धीन्द्रियसंसर्गादुपलब्धिविज्ञानाभिव्यक्तिरिति। तस्य भौतिकत्वे फलितमाह। तथेति॥१११८॥१११९॥११२०॥

इत्येवं चोदिते कैश्चिदत्र प्रतिविधीयते॥
व्यतिरिक्तो न चेज्ज्ञाता भूतेभ्योऽभ्युपगम्यते॥११२१॥

देहात्मवादमनूद्य परिहरति। इत्येवमिति। प्रतिविधानं प्रकटयन्विज्ञानस्य भौतिकत्वमनुद्रवति। व्यतिरिक्त इति॥११२१॥

तुल्यत्वाद्भूतमात्राणां स्वप्नजाग्रदवस्थयोः॥
विज्ञानजन्म युगपत्तदा प्राप्नोति ते ध्रुवम्॥११२२॥

तत्र दोषमाह। तुल्यत्वादिति। **यथाऽऽहुः—**यदि व्यतिरिक्तो विज्ञाता नस्यात्तेन स्वप्नकाले भौतिकस्यैव ज्योतिषोऽविशेषारम्भे सति स्वप्नबुद्धान्तयोर्भूतमात्राणामविशेषेण विद्यमानत्वाद्यौगपद्येनोभयत्रोपलब्धिः स्यादिति॥११२२॥

क्रमवृत्तेस्तु बोधस्य न बोधो भौतिकस्ततः॥
अन्यस्यैव हि संवित्स्यात्स्वप्नबुद्धान्तनीडतः॥११२३॥

इत्यस्यार्थस्य विज्ञप्त्यै दृष्टान्तोऽत्राभिधीयते॥
क्रमेण संचरन्नद्यां महामत्स्यो यथा बली॥११२४॥

प्रसङ्गस्येष्टत्वमाशङ्क्याऽऽह। क्रमवृत्तेरिति। प्रसङ्गफलमाह। नेति। तदुक्तं724 नतु भवतीति। विज्ञानस्याभौतिकत्वे फलितमाह। अन्यस्येति। तच्चोक्तमुभयोरप्यनयोःकुलाययोः स्वप्नबुद्धान्तयोरन्यो व्यतिरिक्तः परिद्रष्टेति। यथोक्तभर्तृप्रपञ्चभाष्यद्योतीहिशब्दः। तत्र वाक्यमवतारयति। अस्येति। दृष्टान्तभागस्यार्थमाह। **क्रमेणेति।**संचरन्वर्तत इति शेषः। नादेयस्रोतसा कम्प्यताराहित्यं बलीयस्त्वम्॥११२३॥११२४॥

मत्स्याभिसंगतिर्यद्वत्पर्यायेणेह कूलयोः॥
क्रमेण ज्ञातृसंबन्धस्तद्वत्स्वप्नप्रबोधयोः॥११२५॥

दृष्टान्ते विवक्षितमनूद्य दार्ष्टान्तिकमाह। मत्स्येति। नदी सप्तम्यर्थः॥११२५॥

व्यापित्वादात्मनोऽप्येवं युगपज्ज्ञातृतेति चेत्॥
भूतमात्रावदित्येवं समानं चोद्यमावयोः॥११२६॥

स्वप्नजागरयोर्ज्ञानयौ725गपद्याद्देहातिरिक्तो द्रष्टेत्युक्तमिदानीं देहात्मवादे दर्शितप्रसङ्गस्यातिरिक्तात्मवादेऽपि साम्यं शङ्कते। व्यापित्वादिति। देहस्याऽऽत्मत्वे स्वप्नजाग्रद्देहद्वये युगपद्भोगाप्तिरिति यदुच्यते तद्देहातिरिक्तत्वेऽपि तुल्यमात्मनो देहद्वयव्यापित्वेन युगपज्ज्ञातृत्वसंभवादित्यर्थः। आत्मनोऽपि व्यापित्वे स्वप्नबुद्धान्तयोःसांनिध्याद्यौग-पद्येनोपलब्धिविज्ञानेन भवितव्यमिति हि वदन्ति। यथा देहात्मवादे देहद्वयारम्भकभूतमात्राणामविशेषादवस्थाद्वये भोगयौगपद्यं स्यादित्यापाद्यते तथा त्वन्मतेऽपि प्रागुक्तनीत्या स्यादिति चोद्यसाम्यं निगमयति। भूतेति॥११२६॥

कस्तर्हि क्रमहेतुः स्याद्देवताहेतुकोऽस्तु सः॥
क्रमेण वृत्तिस्तासां स्यादधिष्ठातृत्वकारणात्॥११२७॥

देहकृतं वा तदतिरिक्तात्मकृतं वा स्थानद्वये ज्ञानायौ726गपद्यं नेष्यते चेत्तर्हि ज्ञानक्रमे

को हेतुरिति पृच्छति। कस्तर्हीति। देवतात्मवाद्याह। देवतेति। आदित्यादिप्रयुक्तोज्ञानक्रमस्तत्र कथं प्रतिज्ञायते तत्राऽऽह। क्रमेणेति। तदाहुस्तासां चाधिष्ठात्रीणांपर्यायेण वृत्तिरुपपद्यत इति॥११२७॥

अत्रापि युगपज्ज्ञानमुक्तयोः पक्षयोर्यथा॥
व्यापित्वाद्देवतानां स्यात्स्वजाग्रदवस्थयोः॥११२८॥

देवतापक्षेऽपि ज्ञानयौगपद्यं दुर्वारमिति दूषयति। अत्रापीति॥११२८॥

असंभवात्प्रयत्नस्य युगपद्देवतात्मनः॥
नातः स्याद्युगपज्ज्ञानमिति चेन्न तथाऽपि तत्॥११२९॥

धर्मादिप्रयत्नापेक्षया देवताया ज्ञानहेतुत्वं स च युगपन्न संभवत्यतो व्यापित्वेऽपितस्यास्तत्प्रयुक्तं ज्ञानमवस्थाद्वयेऽपि क्रमभावीति देवतावाद्याह। असंभवादिति727। कर्मादिप्रयत्नकृतेऽपि ज्ञानक्रमे देवतायास्तत्र न प्रयोजकतेति दूषयति। नेति॥११२९॥

प्राहाऽऽत्मपक्षवाद्यत्र सिद्धं नो यत्समीहितम्॥
कुतस्तदिति चेन्मत्तः शृणु सर्वंयथोच्यते॥११३०॥

तदेवोपपादयति। प्राहेति। धर्मादेर्ज्ञानायौगपद्यहे728तुत्वे कथं त्वदिष्टसिद्धिरित्याह। कुत इति। परिहरति। मत्त इति॥११३०॥

सर्वत्र यौगपद्यं स्याद्विभुत्वाद्देवतात्मनः॥
ऐश्वर्याच्च प्रयत्नोत्थकार्येष्वस्याऽऽत्मनो न तु॥११३१॥

स्वपक्षसिद्धिं दर्शयितुं देवतापक्षेऽनुपपत्तिमाह। सर्वत्रेति। यौगपद्यं देवताकृतस्यज्ञानस्येति शेषः। यद्यपि विभ्वी देवता तथाऽपि धर्माद्यपेक्षया क्रमकारिणीत्युक्तंतत्राऽऽह। ऐश्वर्यादिति। धर्मादौ तत्कृतकार्येषु च स्वातन्त्र्याद्देवताया न धर्मादितन्त्रेतेत्यर्थः। आत्मनि विशेषमाह। अस्येति। आत्मनो धर्मादौ तत्कार्येषु चानैश्वर्यात्तत्तन्त्रतया क्रमज्ञातृत्वसिद्धिरित्यर्थः। उक्तं हि देवताया विभुत्वात्प्रयत्नकार्येषु यौगपद्यं न तु विज्ञानात्मन इति॥११३१॥

अधिष्ठेन्द्रियाणां हि स्वप्नभूमावसंभवात्॥
व्यापारो नास्त्यतः स्वप्ने देवतानां मनागपि॥११३२॥

इतश्च स्वप्नादौ देवताया न ज्ञानक्रमहेतुतेत्याह। अधिष्ठेयेति। स्वप्नभूमाविन्द्रियाणामसंभवप्र729सिद्धिद्योतको हिशब्दः। अधिष्ठेयमन्तरेणाधिष्ठातृत्वायोगोऽतःशब्दार्थः॥११३२॥

अतो भोक्ता स्वयंसिद्धो यथोक्तेनैव हेतुना॥
प्रयत्नायौगपद्येन स्वप्नजाग्रद्वयाद्धिरुक्॥११३३॥

तस्या ज्ञानक्रमहेतुत्वायोगे फलितं निगमयति। अत इति। देहदेवतापक्षयोर्ज्ञानक्रमायोगात्क्रमभाविधर्माद्यपेक्षया चाऽऽत्मनस्तत्संभवादात्मा स्वप्नजाग्रद्देहद्वयव्यतिरिक्तोभोक्ता सिद्ध इत्यर्थः। यथाऽऽहुरनेन भोक्तृत्वप्रयक्तत्वेन हेतुना प्रयत्नायौगपद्येनव्यतिरिक्तद्रष्टृग्रहणसिद्धिरिति॥११३३॥

आत्मनो भोक्तृतासिद्धिर्ज्ञातृत्वं व प्रसिध्यति॥
व्यापित्वेऽप्यस्य यत्नो य आत्मनः कर्तृतां प्रति॥११३४॥

न संभवत्यसौयत्नो यौगपद्येन नीडयोः॥
दृष्टत्वात्परिपाट्यास्यात्तस्माद्वृत्तिरिति स्थितम्॥११३५॥

आत्मनो व्यापित्वाद्देहद्वये प्रयत्नयौगपद्यसंभवात्तदयौगपद्यहेतुरसिद्ध इत्याशङ्क्याऽऽह। आत्मन इति। व्यापित्वेऽप्यात्मनो भोक्तृत्वादि क्रमेण सिध्यति भोगज्ञानकर्तृतां प्रति तस्य हेतुभूतधर्मादिप्रयत्नस्य यौगपद्यायोगात्स्वप्नजाग्रद्देहयोर्ज्ञानादिक्रमहेतोर्धर्मादेः क्रमेणैव कार्यानुपपत्तिसिद्धत्वात्तस्मादात्मनो देहद्वये क्रमेणैव ज्ञातृत्वादिस्थि730तिरिति सिद्धं भवतीत्यर्थः। यथोक्तं तस्य हि स्वप्नान्तबुद्धान्तयोर्व्यापित्वेऽपियोऽसौ द्रष्टृत्वेन कर्तृत्वं प्रति यत्नो न स यौगपद्येन संभवति तस्मात्तस्य पर्यायेणद्रष्टृत्वे प्रवृत्तिरित्यवस्थितं भवतीति॥११३४॥११३५॥

अयौगपद्यदर्शित्वमात्मास्तित्वेऽनुमेष्यते॥
तथा तद्व्यतिरिक्तत्वे जाग्रत्स्वप्नकुलायतः॥११३६॥

देहात्मवादिना सहाऽऽत्मवादिनश्वोद्यसाम्यं समाधायातिरिक्तात्मास्तित्वे किमत्रमानं विवक्षितमित्यपेक्षायामाह। अयौगपद्येति। विमतो देहादेरतिरिच्यते क्रमद्रष्टृत्वाद्गन्धरसादिद्रष्टृदेवदत्तवद्विपक्षे दृष्टिक्रमानुपपत्तिरित्यर्थः। **तदुक्तम्—**उपलब्ध्ययौगपद्यमात्मास्तित्वे लिङ्गमिति॥११३६॥

न च स्वप्नविनिर्माणे देवताव्यापृतिर्भवेत्॥
यथास्वं स्थानमायान्ति ता मृतिस्वापयोर्यतः॥११३७॥

व्यतिरिक्तात्मपक्षे ज्ञानक्रममापाद्य देवतायास्तद्धेतुत्वाभावे स्वप्ने तस्या व्यापाराभावमधिष्ठेयेन्द्रियाणां हीत्यत्रोक्तमनु-वदति। न चेति। तत्र हेत्वन्तरमाह। यथास्वप्निति। **यथाऽऽहुः—**न हि देवतानां स्वप्नकाले स्वव्यापारस्ता उच्चिक्रमिषोर्लोकान्तरं प्रतिविशेषकार्याण्याध्यात्मिकानि हित्वा स्वानि स्थानानि प्रतिपद्यन्तेऽग्निं वागप्येतीत्यादि-श्रुतेस्तथा स्वप्नकार्यं प्रतिपित्सोर्देवता अपक्रान्ता भवन्तीति॥११३७॥

मतं यथा मृतौ देवास्त्यक्त्वा स्वं स्वमनुग्रहम्॥
देहारम्भे पुनर्देवा यथास्वं कुर्वते क्रियाम्॥११३८॥

तद्वत्सुषुप्सोरुत्क्रम्य देवताः स्वाधिकारतः॥
स्वप्नसर्गे पुनस्ताः स्वमधिकारं प्रकुर्वते॥११३९॥

देवताभिरनधिष्ठितस्य स्वप्नकार्यसिद्धेर्न तत्प्रयुक्तं ज्ञानमित्युक्ते दृष्टान्तेन शङ्कते।मतमिति॥११३८॥११३९॥

इत्येवं चोदितेऽथात्र परिहारोऽभिधीयते॥
लिङ्गकार्यानभिव्यक्तेर्नालं कार्याय देवताः॥११४०॥

परिहारमवतारयति। इत्येवमिति। चोद्यस्य परिहारोत्थापकत्वमथशब्दार्थः। तमेवविशदयति। लिङ्गेति। स्वप्नेऽपि देवताः समागच्छन्त्योऽपि न जागरवदागन्तुं पारयन्तेकिंतु हैरण्यगर्भेण प्राणात्मना लिङ्गभावभाजो भवन्ति न च देवतारूपस्य लिङ्गस्य स्वप्नेकार्योन्मुखत्वेनाभिव्यक्तिजीगरादविशेषप्रसङ्गात्तन्न स्वप्ने देवताः कार्याय पर्यानुवन्तीत्यर्थः। यथोक्तं न हि देवता कदाचिल्लिङ्गं जहाति सा731त्वनभिव्यक्ते लिङ्गेनालं विशेषकार्यायेति॥११४०॥

कारणान्यसमर्थानि यथा देहमृते मृतौ॥
स्वकार्यस्याभिनिष्पत्तौ तथा स्वप्नेऽपि देवताः॥११४१॥

करणान्यनपाश्रित्य नालं स्वाधिकृतिं प्रति।
स्वप्ने च करणाभावः श्रुत्यैव प्रति732पादितः॥११४२॥

उक्तमर्थ दृष्टान्तेन स्पष्टयति। करणानीति। अस्तु तान्याश्रित्यैव देवतानां स्वप्नेस्वाधिकारनिर्वाहकत्वं तत्राऽऽह। स्वप्ने चेति। श्रुत्या प्राणं तर्हि वागप्येतीत्याद्ययेतियावत् ॥११४१॥११४२॥

यत एवमतः स्वप्ने नाऽऽशङ्का देवताः प्रति॥
अधिकारो यतस्तासामात्मनो देहसंगतौ॥११४३॥

देवतायाः स्वप्ने व्यापाराभावे सिद्धे तस्या ज्ञानक्रमहेतुत्वशङ्काऽपि नास्तीत्याह।यत इति। तर्हि देहे देवतानां वैयर्थ्यमित्याशङ्कयाऽऽह। अधिकार इति। अतो नतासामिह वैयर्थ्यमिति शेषः॥११४३॥

मुक्त्वैव देहसंबन्धं स्वप्नोऽयं प्रत्यगात्मनः॥
बहिष्कुलायवचनादेतच्चाध्यवसीयते॥११४४॥

अस्तु तर्हि स्वप्नेऽप्यात्मनो देहसंबन्धे सति देवतानां व्यापारो नेत्याह। मुक्त्वेति।आत्मनः स्थूलदेहसंबन्धं विना स्वप्न इत्यत्र मानमाह। बहिरिति॥११४४॥

नातो भौतिकमेतत्स्यान्नापि स्याद्देवताकृतम्॥
चैतन्यं स्वप्नगं स्वार्थं शरीरद्वयवर्जनात्॥११४५॥

परपक्षं निराकृत्य स्वपक्षमुपसंहरति। नात इति। चैतन्यस्य स्वार्थत्वे हेतुमाह।शरीरेति। सूक्ष्मदेहस्य स्वप्ने सत्त्वेऽपि कार्यकरत्वाभावादितरवद्विलीनतेष्टेति भावः॥११४५॥

निरनुग्रहं निष्करणं वासनोपाधिमात्रकम् ॥
स्वप्नदर्शनमेतत्स्यात्मत्यग्धीवस्तुसंश्रयम्॥११४६॥

देवतानामपि तत्र लिङ्गातिरेकेण लीनत्वमाह। निरनुग्रहमिति। करणानामपि तत्रसंहृतत्वमाह। निष्करणमिति। सुषुप्ताद्विशेषार्थं विशिनष्टि। वासनेति। तस्यसाक्षिवेद्यत्वमाह। प्रत्यगिति। तद्रूपा धीरेव वस्तु तत्रस्थं तद्बलादेव स्वप्नदर्शनंसिध्यतीत्यर्थः। **उक्तं हि—**उभयोः कालयोर्व्यतिरेकाद्यतिरिक्तो द्रष्टा न भौतिकंदर्शनं नापि देवताकृतमिति॥११४६॥

पृथक्त्वे वाऽपृथक्त्वे वा भूतेभ्यो देवतात्मनः॥
किमर्थं देवताशङ्का क्रियते हिरुगात्मनः॥११४७॥

महामत्स्यवाक्यस्य भर्तृप्रपञ्चव्याख्योक्ता तत्र देहात्मवाद्य733पोहार्थं तत्प्रवृत्तिमङ्गीकृत्य देवताया ज्ञानक्रम-हेतुत्वमाशङ्क्य निराकरणमयुक्तमित्याह। पृथक्त्वे वेति।अस्यार्थः। देवताया भूतेम्यो भेदोऽभेदो वाऽऽद्ये तस्या आत्मनः सकाशात्पृथग्ज्ञानक्रमहेतुत्वमाशङ्क्य न शक्यते निराकर्तुमात्माव्यतिरिक्ततया तस्यास्तद्धेतुत्वस्येष्टत्वाद्द्वितीये तस्या देहाव्यतिरेकाद्देहवादनिराकरणेनैव निराकरणान्न पृथगाशङ्का निराकरणंवा तेन देवताया ज्ञानक्रमहेतुत्वशङ्कानिरासौ परस्यायुक्ताविति॥११४७॥

मत्स्यदृष्टान्तवचस एतावत्फलमिष्यते॥
मृत्युरूपमिदं सर्वं कार्यंच करणानि च॥११४८॥

परेषां मत्स्यवाक्यव्याख्यानमनुभाष्य तत्र युक्तमुपेत्यायुक्तं निरस्तं संप्रति श्येनवाक्यस्य भाष्योक्तं संबन्धं वक्तुं वृत्तं कीर्तयति। मत्स्येति। किं तत्फलं तदाह। मृत्युरूपमिति। कामकर्मसहितः संघातो मृत्युरूपो नाऽऽत्मधर्म इत्यर्थः॥११४८॥

ताभ्यां विलक्षणत्वात्मा स्वप्नेयोऽयं प्रपञ्चितः॥
स्थूलसूक्ष्मशरीराभ्यां केवलश्चेतनोऽक्रियः॥११४९॥

तस्मिन्नात्मत्वप्रसिद्धेरात्मनस्तदन्तर्भावमाशङ्क्याऽऽह। ताभ्यामिति। देहद्वयविलक्षणं रूपं ज्ञेयत्वार्थं विशिनष्टि। केवल इति॥११४९॥

तथैव कामकर्मभ्यामत्यन्तं स्याद्विलक्षणः॥
प्रयोजकाभ्यां देहस्य तथैव करणस्य च॥११५०॥

देहद्वयविलक्षणस्यापि तत्प्रयोजकयोगे पुनः कार्यकरणादानमाशङ्कयाऽऽह। तथैवेति। प्रयोज्याभ्यां देहाभ्यामिवेति यावत्॥११५०॥

अविद्याकृतमेवातः संसारित्वं न तु स्वतः॥
अतोऽविद्यासमुच्छित्तौ मुक्तिः स्यात्परमात्मनः॥११५१॥

देहद्वयेन सप्रयोजन वस्तु734नोऽसंबन्धे फलितमाह। अविद्येति। संसारित्वस्याऽऽविद्यत्वेनावस्तुत्वे किं स्यात्तदाह। अत इति॥११५१॥

इत्युक्तः पूर्ववाक्येन समुदायार्थ ईदृशः॥
पौर्वापर्यं समीक्ष्याऽऽत्मा निष्क्रियः केवलोऽद्वयः॥११५२॥

वृत्तानुवादं निगमयति। इत्युक्त इति। पूर्ववाक्येन स वा अयं पुरुषो जायमानइत्यारभ्य मत्स्यवाक्यान्तवाक्येनेति यावत्। ईदृशः कार्यकरणाभ्यां सप्रयोजकाभ्यामन्यः स्वयंज्योतिः स्वतोऽसंसारी प्रत्यगात्मेत्यर्थः। समुदायार्थमेव सौकर्यार्थं संक्षिपति।पौर्वापर्यमिति। पूर्वत्र व्याख्यातवाक्यानां पूर्वापरीभावमालोक्य कर्मणा कामेन देहद्वयेन च विविक्तः प्रत्यग्धातुर्नित्यशुद्धत्वादिरूपोऽधिगत इत्यर्थः॥११५२॥

अपास्तकार्यकरणकर्मासङ्गो न तु क्वचित्॥
आत्मोपपादितः साक्षाद्वचस्येकत्र यत्नतः॥११५३॥

वृत्तमनूद्योत्तरग्रन्थमवतितारयिषुर्भूमिकामाह। अपास्तेति। कामादीनामन्यतमविमोके सत्यर्थादितरविनिर्मोकः सिध्यतीत्यभिप्रेत्योक्तं साक्षादिति। निःशेषविशेषशून्येप्रतीचि दृष्टान्तोपन्यासो यत्नः॥११५३॥

सासङ्गश्चसमृत्युश्च सकार्यकरणस्तथा॥
अविद्यया यतो बोध आत्माऽयमुपलक्ष्यते॥११५४॥

एतदेवोपपादयति। सासङ्गश्चेति। अतो जागरितविषये वाक्ये पूर्वोक्तः प्रत्यगात्मान प्रतिपादित इति शेषः॥११५४॥

स्वप्ने तु वासनाकामसंयुक्तो मृत्युवर्जितः॥
संप्रसादे प्रसन्नश्च तथाऽसङ्गोऽपि वीक्ष्यते॥११५५॥

स्वप्नवाक्ये तर्हि तत्सिद्धिरित्याशङ्क्याऽऽह। स्वप्ने त्विति। तर्हि सुषुप्तिवाक्येतत्सिद्धिर्नेत्याह। संप्रसाद इति। न च मा तर्हि भूदात्मा यथोक्तरूप इति वाच्यमेकवाक्यतया पूर्ववाक्येभ्यस्तत्सिद्धेर्न च तैरेवोक्तात्मसिद्धेरलमुत्तरेणेति युक्तं न हि पूर्वत्र

कार्यकरणकामैकर्मादिनिर्मुक्तमात्मरूपमेकस्मिन्वाक्ये पुञ्जीकृतं न चैकत्र तत्पुञ्जीकरणमनुपयोगि सुखप्रति-पत्त्यर्थत्वादिति भावः॥११५५॥

सदा अस्यैतदित्यत्र यथोक्तं रूपमात्मनः॥
वक्ष्यमाणमतस्तस्य दृष्टान्तोऽयमिहोच्यते॥११५६॥

पातनिकां कृत्वा श्येनवाक्यमादत्ते। तद्वा इति। तद्वा अस्यैतदतिच्छन्दा अपहतपाप्मेत्यादावेकत्र पुञ्जीकृत्य वक्ष्यमाणात्मरूपस्य दृष्टान्तार्थं श्येनवाक्यमित्यर्थः। तदेववाक्यमिहेत्युच्यते॥११५६॥

स्वतो बुद्धं च शुद्धं च मुक्तं रूपमिहाऽऽत्मनः॥
एकवाक्योपसंहारे न पुञ्जीकृत्य दर्शितम्॥११५७॥

उक्तां संगतिं व्यक्तीकर्तुं भूमिकामनुभाषते। स्वत इति। एकवाक्यतयोपसंगृह्यमाणपदसमुदाये नित्यशुद्धत्वादिकमात्मरूपं नाधस्तात्पिण्डीकृत्योक्तमिति यावत्॥११५७॥

तद्यथा श्येन इत्युक्त्या735 तद्दृष्टान्तप्रदर्शनात्॥
शुद्धबुद्धादिकं रूपमात्मनः संप्रदर्श्यते॥११५८॥

अथोक्तं संबन्धमनुवदति। तद्यथेति। तदात्मनो यथोक्तं रूपं तद्वा अस्येत्याद्ययोक्त्या यतः सम्यक्प्रदर्श्यतेऽतस्तस्यार्थस्य दृष्टान्तप्रदर्शनं निमित्तीकृत्य तद्यथेत्यादिश्येनवाक्यं प्रवृत्तमित्यर्थः॥११५८॥

स्वप्नबुद्धान्तयोर्वेह दृष्टान्तः संप्रदर्शितः॥
संप्रसादस्य दृष्टान्तः श्येनेनाथाधुनोच्यते॥११५९॥

भाष्योक्तं संबन्धमनूद्य संबन्धातरमाह। स्वप्नेति। दृष्टान्तो महामत्स्याख्य इतिशेषः। महामत्स्यवाक्योक्तमनूद्य श्येनवाक्यमादत्ते। संप्रसादस्येति॥११५९॥

श्येनः शशादो विज्ञेयो बृहत्कायश्च रोहितः॥
क्षिप्रः श्येनः सुपर्णस्तु बलवानल्पविग्रहः॥११६०॥

श्येनसुपर्ण736पदयोरर्थभेदोक्त्या पुनरुक्तिं परिहरति। श्येन इति॥११६०॥

श्येनः श्रान्तो यथाऽऽकाशे भक्ष्यहेतोः परिभ्रमन्॥
पक्षौ वितत्य नीडं स्वप्नेति हि श्रमहानये॥११६१॥

दृष्टान्तभागं योजयति। श्येनः श्रान्त इति। वितत्य विस्तृत्य श्रान्तिमनुभूयास्तौ संगमय्य स्वनीडागमनाभिमुख्यं तयोरापाद्येत्यर्थः। श्रान्तस्य पक्षिणः श्रमनिरासार्थस्वनीडागमनं लोकप्रसिद्धमिति हिशब्दार्थः॥११६१॥

यथा तथाऽयमप्यात्मा जाग्रत्स्वप्नौ परिभ्रमन्॥
श्रान्तस्तच्छ्रमहानार्थं ब्रह्मनीडं प्रपद्यते॥११६२॥

दृष्टान्तमनूद्य दार्ष्टान्तिकमाह। यथेति। अन्ताय धावतीत्यस्यार्थमाह। ब्रह्मेति॥११६२॥

अन्ताय धावतीत्युक्तं तस्यान्तस्य विशेषणम्॥
यत्र सुप्तो न कमिति जाग्रत्स्वप्ननिषेधकृत्॥११६३॥

कथमन्तशब्देन ब्रह्मग्रहणमित्याशङ्क्योक्तानुवादपूर्वकं विशेषणद्वयमादत्ते। अन्तायेति। तस्य कृत्यं दर्शयति। जायदिति॥११६३॥

सुप्तस्तिसृष्ववस्थासु सामान्येन यतस्ततः॥
विशिष्ट्यात्मनः स्वापं यत्र सुप्तगिरा स्फुटम्॥११६४॥

सुप्तविशेषणेनैव जाग्रन्निवृत्तेर्न कंचन काममित्याद्यनर्थकमित्याशङ्क्याऽऽह। सुप्तइति। प्रत्येकमवस्थानां त्रैविध्योक्तेः सामान्येनाऽऽत्माऽवस्थात्रयेऽपि सुप्तो वर्ततेतस्माद्यत्र सुप्त इत्युक्तमात्मनः स्वापं न कंचनेत्यादिगिरा स्पष्टीकृत्य विशिनष्टिीतियोजना॥११६४॥

न कंचनेति कामो यः स्वप्नजाग्रदवस्थयोः॥
निषिध्यते सुषुप्तेऽसौ तथा स्वप्नोऽपि यस्तयोः॥११६५॥

अस्त्वात्मस्वापस्येदं विशेषणं तथाऽपि तेन कामस्यैव निषेधाज्जाग्रत्स्वप्ननिषेधकृदित्ययुक्तमत आह। नेत्यादिना। अवस्थाद्वयस्थकाममात्रस्य स्वापे निषेधादवस्थाद्वयमपि तत्र निषिध्यते चेद्विशेषणान्तरानर्थक्यमित्याशङ्कयाऽऽह । तथेति। स्वप्नजागरयोःस्वप्नः सुषुप्ते द्वितीयेन विशेषणेन निषिध्यते तेन तदप्याद्यविशेषणवदर्थवदेव पूर्वत्रकामप्राधान्येनावस्थाद्वय निषेध उत्तरत्र स्वप्नप्राधान्येनेति भावः॥११६५॥

स्वप्ने वा कामविरहाद्यथोक्तेनैव वर्त्मना॥
जाग्रत्कामनिषेधोऽतस्तत्र कामादिसंभवात्॥११६६॥

आद्यविशेषणस्यार्थान्तरमाह। स्वप्ने वेति। यथोक्तेनासङ्गो हीत्युक्तमार्गेणेतियावत्। असङ्गत्वन्यायेन जाग्रत्यपि रागादिराहित्यं तुल्यमित्याशङ्क्याऽऽह। तत्रेति।सति मातरि बाधविधुरो जाग्रति कामादिः स्वप्ने तु नैवमित्यर्थः॥११६६॥

एकैकस्यामवस्थायां जाग्रत्स्वप्नसुषुप्तिभिः॥
यदि वा विद्यते भेदः कंचनेति च लिङ्गतः॥११६७॥

द्वितीयविशेषणस्यार्थान्तरमाह। एकैकस्यामिति737। तत्र हेतुमाह। कंचने–

तीति। न केचन स्वप्नं पश्यतीत्यत्र कंचनेतिभेदद्योतिविशेषणादुक्तभेदसिद्धिरित्यर्थः॥११६७॥

त्रय आवसथा इति तथा च श्रुतिशासनम्॥
जाग्रत्स्वप्नसुषुप्तानां त्रैविध्यप्रतिपादकम्॥११६८॥

अवस्थानां प्रत्येकं त्रैविध्यसाधकं वाक्यान्तरं चास्तीत्याह। त्रय इति॥११६८॥

तत्र त्रयाणां स्थानानां जाग्रत्स्वप्ननिषेधनम्॥
न कंचनेति वाक्येन तयोरेव ग्रहः श्रुतेः॥११६९॥

सिद्धे त्रैविध्ये किं प्रकृते सिध्यति तदाह। तत्रेति। स्थानानां त्रयाणां प्रत्येकंत्रैविध्ये सिद्धे त्रिविधस्य जागरस्याऽऽद्येन त्रिविधस्य च स्वप्नस्य द्वितीयेन विशेषणेननिषेधः सिध्यतीत्यर्थः। तत्र हेतुः। तयोरिति। कामस्वप्नशब्दाभ्यां तयोरेव जाग्रत्स्वप्नयोः श्रुत्या ग्रहात्तयोः सर्वप्रकारयोर्निषेधोऽत्र विवक्षित इत्यर्थः॥११६९॥

स्वप्नं न कंचनेत्युक्त्या सर्वस्वप्ननिषेधनम्॥
इति प्रबोधस्वप्नाभ्यां विविक्तं स्थानमुच्यते॥११७०॥

विशेषणद्वयार्थमनुवदति। स्वप्नमिति। कामंन कंचनेत्युक्त्या सर्वजाग्रन्निषेधनमित्यपि द्रष्टव्यम्। तथाऽपि प्रकृते किं सिध्यति तदाह। इति प्रवोधेति॥११७०॥

जाग्रत्स्वप्नात्मकौपक्षौ वितत्याऽऽत्माऽऽत्ममोहवान्॥
भुक्त्वा भोगानथ श्रान्तः पक्षौ संहृत्य चाऽऽत्मनि॥११७१॥

विशेषणार्थमुक्त्वाऽन्ताय धावतीत्यस्यार्थमुपसंहरति। जाग्रदिति। अन्तशब्दवाच्यब्रह्मनीडार्थं गच्छतीति शेषः। श्रान्तस्याऽऽश्रयगमनापेक्षाद्योतनार्थोऽथशब्दः॥११७१॥

अविद्यायामवस्थानं तदुद्भूतस्य वस्तुनः॥
संहत्यपक्षोपमया श्रुत्येह प्रतिपाद्यते॥११७२॥

संहत्यपक्षदृष्टान्तेन दार्ष्टान्तिके विवक्षितमंशमाह। अविद्यायामिति। पक्षौ संहत्यस्वात्मन्येव संकुचितावयवावापाद्य स्वाश्रये श्रमध्वंसार्थं श्येनस्तिष्ठतीति दृष्टान्तश्रुत्यासाभासायामविद्यायां जगतोऽवस्थानं विवक्षितमित्यर्थः। इहाविद्यायामिति संबन्धः॥११७२॥

संलयायेति यच्छुद्धं रूपं स्यात्प्रत्यगात्मनः॥
प्रत्यक्विदाभआगत्य ध्रियते प्रत्यगात्मने॥११७३॥

संलयदृष्टान्तेन दार्ष्टान्तिके विवक्षितमाह। समिति। श्येनो हि सम्यङ्निलयनार्थंस्वनीडायाऽऽत्मानं धारयतीति दृष्टान्तश्रुत्या शुद्धबुद्धादि यत्प्रतीचो रूपं तद्विवक्षितंस्यात्तस्मै प्रत्यगात्मने प्रत्यक्चिदिव भासमानः संसारी प्रत्यगज्ञाने साभासे स्वोपाधि-

बुद्ध्याद्युपसंहारे सत्युपहितो हिरुगवस्थातुमशक्नुवन्बिम्बस्थानीयायाऽऽगत्याऽऽत्मानंबिभर्तीत्यर्थः॥११७३॥

बुद्ध्यादिकार्यसंहारे प्रत्यक्चैतन्यरूपिणः॥
चिद्विम्बस्यापि संहारो जलार्कप्रविलापवत्॥११७४॥

उक्तमर्थं दृष्टान्तेन स्पष्टयति। बुद्ध्यादीति। चिद्विम्बस्य चित्प्रतिबिम्बस्येतियावत्। जीवस्योपसंहारे भावस्वे सति नाशित्वाज्जन्मापि स्यात्तथाच नाऽऽत्माऽश्रुतेरित्यधिकरणविरोध इत्याशङ्क्याऽऽह। जलेति। उपाधिलये सत्युपहितस्यानुपहितमात्रत्वेनावस्थानाल्लयोक्तिर्न वस्तुत इत्यर्थः॥११७४॥

अविद्यावान्पुरा योऽभूदविद्याकार्यगश्चितिः॥
अविद्यया विभागोऽस्य चिद्विम्बस्योप738जायते॥११७५॥

सुषुप्तावात्मनो ब्रह्मण्यवस्थानेऽप्यबस्थान्तरे ततो भेदमाशङ्क्याऽऽह। अविद्यावानिति। पुरेत्यवस्थाद्वयोक्तिः॥११७५॥

प्रत्याख्यातैव साऽविद्या सकार्या सर्वदाऽऽत्मना॥
प्रत्याचष्टे तु नाविद्या निरात्मत्वाच्चिदात्मनः॥११७६॥

तथाऽपि विभागहेत्वविद्याध्वस्तावेव तस्य ब्रह्मत्वं न सदेति चेन्नेत्याह। प्रत्याख्यातेति। किमित्यविद्यामात्मा निराकरोति वैपरीत्यं किं न स्यात्तत्राऽऽह। प्रत्याचष्टे त्विति। न हि साऽऽत्मानं निरस्यति स्वातन्त्र्येण स्वरूपाभावादात्मा तु तां वारयति सदा चिदात्मत्वेन विरोधित्वादित्यर्थः। यद्वा चिदात्मनोऽन्यत्राविद्याया नैरात्म्यान्नसा739तं निरसितुमर्हतीत्यर्थः॥११७६॥

अविद्यातज्जकार्याभ्यामात्माऽन्यानवशेषतः॥
संबध्यते स्वतोऽसङ्ग आत्मत्वादेव कारणात्॥११७७॥

आत्माऽपि नाविद्यां सकार्या निरस्येदसङ्गतया तदसंबन्धादित्याशङ्क्याऽऽह।अविद्येति। अन्यानवशेषतः संबन्धे हेतुमाह। आत्मत्वादिति॥११७७॥

अविद्या यच्च तत्कार्यमात्मानं स्वात्मसिद्धये॥
संबिभत्सत्यनात्मत्वादात्मा तन्नानुमन्यते॥११७८॥

असङ्गः संबध्यते चेति विरुद्धमित्याशङ्क्याऽऽह। अविद्येति। अविद्यादि स्वरूपलाभार्थमात्मानं संबद्धुमिच्छति स्वातन्त्र्येण तल्लाभायोगादात्मा स्वसङ्गश्चिदेकरसो नसकार्यामविद्यां मृष्यते तेन तस्याविद्याकृतसंबन्धेऽपि न वास्तवासङ्गताहतिरित्यर्थः॥११७८॥

निःसङ्गस्य ससङ्गेन कूटस्थस्य निरात्मना॥
आत्मनोऽनात्मना योगो वास्तवो नोपपद्यते॥११७९॥

संबन्धस्याऽऽविद्यत्वं पूर्वत्रापि बहुशः साधितमिति स्मारयति। निःसङ्गस्येति। निरात्मना निश्चलस्वभावरहितेनेति यावत्॥११७९॥

प्रत्याख्याताऽऽत्मनैवेयं प्रत्यगात्मानमेकलम्॥
अविद्याऽऽलिङ्गते वह्निंघृतपिण्ड इवोल्बणम्॥११८०॥

आत्मना सकार्याऽविद्या प्रत्याख्याता चेत्कथं तयोरवास्तवोऽपि संबन्धस्तत्राऽऽह। प्रत्याख्यातेति। सकार्याऽविद्या निराकृतरू740पेणैवाऽऽत्मानमालिङ्गते तस्यासङ्गकूटस्थचिदेकरसत्वेन संबन्धासहिष्णुदित्यर्थः। अनात्मनो निवर्त्यत्वेनाऽऽत्मना संबन्धेदृष्टान्तः। वह्निमिति॥११८०॥

अविचारितसंसिद्धा संगतिः परमात्मनः॥
अविद्यातज्जकार्याभ्यामेवमेवेति ग741म्यताम्॥११८१॥

दार्ष्टान्तिकमाह। अविचारितेति॥११८१॥

एवं सत्यस्य बाधः स्यात्परमार्थात्मसंश्रयात्॥
संसारानर्थसंबन्धहेतोरात्मप्रमाणतः॥११८२॥

अविद्यादेरात्मनश्च यथोक्तसंबन्धे सति तत्त्वमस्यादेरात्मप्रमाणादवाध्यात्माकारबुद्धिवृत्त्यवष्टम्भादस्य संसारहेतारज्ञानस्य बाधान्मुक्तिरिति फलितमाह। एवमिति॥११८२॥

प्रत्यग्धीमात्रतः प्रत्यङ्ङद्वयत्वविशेषणः॥
निःसंबन्धात्मसंबन्धादनात्मा त्वात्मवन्न सन्॥११८३॥

परिशिष्टं परमार्थरूपं विशदयति। प्रत्यगिति। तत्परिशेषे तदभिन्नत्वादनात्माऽपितिष्ठेदित्याशङ्क्याऽऽह। निःसंबन्धेति॥११८३॥

समस्तव्यस्ततामेवं सति व्याचक्षतेऽत्र ये॥
कर्षन्ति नासिकाग्रेण कर्णमूलं सुखेन ते॥११८४॥

अनात्मा बाध्योऽबाध्यश्चाऽऽत्मेति स्थिते742 भर्तृप्रपञ्चमतमपि निरस्तमित्याह। समस्तेति। अत्रेत्यात्मोक्तिः। असंभावितार्थवादिनां भ्रान्तत्वं दृष्टान्तेनाऽऽह। कर्षन्तीति॥११८४॥

आत्मवस्त्यतिरेकेण नान्यद्वस्त्वस्ति मानतः॥
तन्मानमिति चेन्मैवं यतस्तत्प्राक्प्रबोधतः॥११८५॥

समस्तव्यस्ततापक्षस्यासंभावितत्वे हेतुमेवं सतीति सूचितं स्फुटयति। आत्मेति।अनात्मवस्तु मानतो नास्तीत्ययुक्तं यतस्तस्मिन्प्रसिद्धमध्यक्षादि मानमिति शङ्कते। तदिति। दूषयति। मैवमिति। किं तज्ज्ञानात्पूर्वमेवानात्म-प्रमापकंकिंवोर्ध्वमप्याथेतत्प्रत्यगज्ञानविजृम्भितं तज्ज्ञानात्तदज्ञानध्वस्तौ ध्वंसेतेति कुतः समस्तव्यस्तता न द्वितीयोज्ञानादूर्ध्वमपि मानमेयादिसत्त्वे तद्वैफल्यादिति मत्वाऽऽह। यत इति॥११८५॥

अस्तु वस्त्वन्तरं चान्यत्तस्याप्यात्माभिसंगतौ॥
को हेतुरिति वक्तव्यं नाविद्याऽकारकत्वतः॥११८६॥

अनुभवसिद्धमनात्मवस्त्वङ्गी करोति। अस्त्विति। तर्हि समस्तव्यस्तताऽपि स्वीकर्तव्येति तत्र किमात्मनाऽनात्मवस्त्वसंबद्धं संबद्धं वा नाऽऽद्य आत्मनः समस्तत्वा743द्यसिद्धेरिति मन्वानो द्वितीयं प्रत्याह। तस्यापीति। न तावदात्मनः स्वतोऽनात्मयोगोऽसङ्गत्वान्नापि परतोऽविद्यातिरिक्तसंबन्धघटकाभावादित्यर्थः। अविद्यैव तं घटयतीति चेन्मैवंतस्या वास्तवकार्यकरत्वाभावादवास्तवे चाऽऽत्मानात्मसंबन्धे न वास्तवी समस्तव्यस्ततेत्यभिप्रेत्याऽऽह। नाविद्येति। अकारकत्वत इति च्छेदः॥११८६॥

समस्तव्यस्तताव्याख्या तस्मादन्धपरंपरा॥
वैश्वानरवरादेव न तु न्यायानुसारतः॥११८७॥

कथं तर्हि द्वैताद्वैतविषयत्वात्तस्येति समस्तव्यस्ततामात्मनो भर्तृप्रपञ्चा व्याचख्युस्तत्राऽऽह। समस्तेति। अनात्मार्थस्याऽऽत्मनि कृतो विघटना744भावस्तुशब्दार्थः॥११८७॥

अस्य हि द्वैतविषये विज्ञानं भानुरश्मिवत्॥
विकीर्णं बोधदेशीयं समन्तात्प्रथते दृशेः॥११८८॥

श्येनवाक्यं भाष्यानुसारेण व्याख्यातमधुना भर्तृप्रपञ्चोक्तं तव्याख्यानं वक्तुं भूमिकामाह। अस्येति। आत्मनश्चैतन्यं जाग्रद्देशस्थमिथ्याज्ञानं भूत्वाऽऽदित्यरश्मिवद्द्वैतविषये प्रसृतं सर्वतो भातीत्यर्थः। तदुक्तमस्य हि द्वैतविषये विशेषविज्ञानमादित्यरश्मिवद्विकीर्णं जागरितदेशवत्समन्तादवभासत इति। यथोक्तभाष्यद्योतको हिशब्दः॥११८८॥

तत्र कर्मप्रसूतोऽयं कामः सर्वप्रवृत्तिकृत्॥
जाता कर्मण एवेयं745 भावनाऽस्यान्तरात्मनः॥११८९॥

आत्मचैतन्यस्याऽऽपन्नमिथ्याज्ञानत्वस्य द्वैतविषयत्वे सति किं सिध्यति तदाह।तत्रेति। आत्मज्ञाने द्वैतविषये सति कर्मोपचीयते तस्मात्कामभावने कामश्च सर्वप्रवृत्तिहेतुरित्यर्थः। उक्तं हि तत्र कामः कर्मणः फलं कर्मण एव तु वासनेति॥११८९॥

यथालक्षणया कर्म कृतं भावनयाऽऽत्मना॥
फलं तादृग्विधं दातुमेकी भवति साऽऽत्मनः॥११९०॥

सर्वप्रवृत्तिहेतुतया कर्मणः सकाशात्कामो जायतां भावना तु तज्जा किमर्थेत्याशङ्क्याह। यथेतियथोक्तं यथालक्षणयैव भावनया तत्कर्म कृतं तथालक्षणमेव फलंतस्य विज्ञानात्मनः सा भावना तदेव स्वप्रयुक्तं फलं प्रत्येकीभूता भवतीति॥११९०॥

तयाऽनुरञ्जित इव ह्यात्मा कामान्परीप्सति॥
वासनालक्षणः कामः स्वप्नसर्गाय जायते॥११९१॥

भावनायाः स्वानुरूपफलाप्तिद्वारत्वे सत्यात्मनो भोक्तृत्वं फलतीत्याह। तयेतितदाहुः—तदनुरञ्जितो विज्ञानात्मा कामं कामयत इत्येतद्भवतीति। उक्तभाष्यार्थोहिशब्दः। जाग्रदवस्थामुक्त्वा स्वप्नावस्थामाह। वासनेति॥११९१॥

सुखादिफलभोगाय स्वप्नः746 क्षुद्रस्य कर्मणः॥
परिच्छेदेन निर्मातृज्ञानं च प्रत्यगात्मनः॥११९२॥

किमर्था स्वप्नदृष्टिस्तत्राऽऽह। सुखादीतियथाऽऽहुस्तत्र काम747तः स्वप्ननिर्माणंसुखदुःखं दर्शयतीति। कथं तर्हि स्वप्नधीरत आह। परिच्छेदेनेति। प्रतीचो ज्ञानमर्थस्य वासनोत्थस्य निश्चायकमित्यर्थः॥११९२॥

विज्ञानानुविधायी हि विकारः कर्मणो यतः॥
विज्ञानं विपरीतार्थदर्शनं चेह भण्यते॥११९३॥

तस्यायुक्तं परिच्छेदकत्वं कर्मणोऽपि कर्तृत्वोपगमादित्याशङ्क्याऽऽह। विज्ञानेति।उक्तं हि विज्ञानं पुनर्भावनापरिच्छेदविनिर्मातृ विज्ञानानुविधायिनी हि कर्मणो विक्रियेति। भाष्यानुकारो हिशब्दार्थः। अर्थोपलब्धिं विना कर्मफलभोगायोगात्तद्विक्रियाभवति ज्ञानानुविधायिनी ततो युक्तं ज्ञानस्य परिच्छेदकत्वमित्यर्थः। विज्ञानमप्येतद्विपरीतदर्शनमविद्येति भाष्येण तत्स्वरूपमाह। विज्ञानमिति। इहशब्दः स्वप्नविषयः॥११९३॥

साऽविद्या सति बाह्येऽर्थे द्रष्टव्येऽलं न चासति॥
कामः स एव बोधेऽस्य748 विज्ञानात्मन इष्यते॥११९४॥

मिथ्याज्ञानं विज्ञानं चेत्तस्य यथार्थत्वे मिथ्याज्ञानत्वायोगादयथार्थत्वे बाह्यार्थपलापः स्यादित्याशङ्क्याऽऽह। सेति। सत्येव बाह्ये द्रष्टव्येऽर्थे तत्परिच्छित्तिरूपकार्यनिर्माणसमर्थं मिथ्याज्ञानाख्यं विज्ञानमतो न सोऽर्थोऽपलापमर्हतीत्यर्थः। यथोक्तंसाऽपि सति द्रष्टव्ये विपरीतं ग्राहयेदिति। प्रकृतानामविद्यादीनामात्मत्वं तद्धर्मत्वं वा

न शङ्कनीयमित्याह। काम इति। जाग्रत्स्वप्नयोर्जीवस्य यः कामोऽविद्यादिसहितःस ततो बहिरेवेष्यतेऽसङ्गो हीति श्रुतेरित्यर्थः। तदाहुः स एष बाह्यो विज्ञानात्मनइत्युक्तमिति॥११९४॥

प्रयोक्त्री भावना तत्र कर्म त्वस्य749 विकारकृत्॥
विपरीतग्रहाय750 स्याद751न्यथेति विनिश्चितिः॥११९५॥

आत्मबाह्यानां कामादीनां मिथोऽसंकरार्थं कार्यभेदमाह। प्रयोक्त्रीति। तत्रेतिनिर्धारणार्थ सप्तमी। कामो भावना पुरुषं विषयेषु प्रवर्तयति कर्म तस्य सुखादिविकारकारि। अन्यथा विनिश्चितिर्मिथ्याज्ञानं तद्विपरीतग्रहहेतुर्न यथार्थं परिच्छेत्तुमलमित्येषां कार्यभेद इत्यर्थः। तदुक्तं तत्र प्रयोक्त्री भावना कर्म विकर्त्रिति॥११९५॥

कामेहाभावनाज्ञानपदार्थानां यथाक्रमम्॥
परस्परव्यपेक्षत्वादेवं स्यादेकवाक्यता॥११९६॥

तर्हि कामादीनां मिथोऽनपेक्षत्वेनायःशलाकाकल्पत्वमत आह। कामेति। एवमित्यस्यार्थो यथाक्रममिति। **उक्तं हि—**एवं कामकर्मभावनाविज्ञानानां परस्परापेक्षत्वादेकार्थतेति॥११९६॥

तत्र भावनयैवाऽऽत्मा कामान्कामयते तथा॥
विद्यया752 वीक्षते चार्थानविद्योत्थापितानिह॥११९७॥

कथं तर्हि तेषां कार्यभेदस्तत्राऽऽह। तत्रेति। यथाऽऽहुस्तत्र भावनया कामयतेविद्यया753 पश्यति द्वैतविषयमिति। सप्तमी निर्धारणे। तथाशब्दो भावनादृष्टान्तार्थः। इहेति द्वैतावस्थोक्ता॥११९७॥

संप्रसादे तु बाह्यस्य वस्तुनोऽसंभवादिदम्॥
कर्म निस्पन्दमेवाऽऽस्ते भावनाऽपि च शाम्यति॥११९८॥

जाग्रत्स्वप्नावुक्त्वा सुषुप्तिमवतारयति। संप्रसादे त्विति। यथोक्तमद्वैतविषये पुनःसुषुप्तस्थाने बाह्यस्य प्रयोज्यस्याभावात्कर्म निस्पन्दमास्ते विज्ञानात्मगताऽपि भावनाकार्याभावाच्छाम्यतीति॥११९८॥

प्रयोज्यविरहात्कर्मकार्यस्यासंभवात्तथा॥११९९॥

विद्याऽपि विपरीतस्य प्रविभक्तस्य वस्तुनः॥
अभावादविशेषात्मज्ञानोऽयं व्यवतिष्ठते॥१२००॥

सुषुप्ते कामकर्मणोरभावेऽपि विद्याप्रयुक्तं कार्यं स्यादित्याशङ्कयाऽऽह। प्रयोज्येति।विद्याऽपि शाम्यतीति संबन्धः। प्रयोज्यविरहमेव स्फोरयति। विपरीतस्येति। स्वापे

विद्योपशमे दृष्ट्यविपरिलोपश्रुतिविरोधः स्यादित्याशङ्क्याऽऽह। अविशेषेतितदाहुर्विद्याऽपि विपरीतस्य प्रविभक्तस्य ग्राहयितव्यस्याभावान्न विज्ञेषविज्ञानाय कल्पतइति॥११९९॥१२००॥

दाह्याभावाद्यथा वह्निः स्वात्मन्येवोपशाम्यति॥
कर्मण्यस्तमिते तद्वत्प्रत्यङ्ङास्ते स्वभावतः॥१२०१॥

उक्तं सौषुप्तमात्मरूपं दृष्टान्तेनाऽऽह। दाह्येति॥१२०१॥

एवं कृत्वेदमत्राऽऽह श्रुतिः कामं न कंचन॥
कामकर्मादिनिर्मुक्तं सुषुप्ते रूपमात्मनः॥१२०२॥

तत्र श्रुतिमवतारयति। एवमिति। उक्तरीत्या सुषुप्ते कामादिध्वस्तिरस्तीति कृत्वान कंचनेत्याद्या श्रुतिरत्र सुप्ते प्रतीचो रूपमिदं कामादिरहितं शान्तमाहेत्यर्थः॥१२०२॥

इत्येवं श्येनदृष्टान्तः कैश्चिद्व्याख्यायि सादरैः॥
तत्र युक्तमयुक्तं वा श्रुतिवाक्यानुसारतः॥१२०३॥

न्यायैर्जगति संसिद्धैः स्वयमेव विचार्यताम्॥
अपक्षपातपतितैर्विद्वद्भिर्वस्तुसिद्धये॥१२०४॥

श्येनवाक्यस्य परोक्तं तात्पर्यमुपसंहरति। इत्येवमिति। तत्र दोषं सूचयति।तत्रेति। न्यायानामलौकिकत्वं वारयति। जगतीति। चित्तैकाग्र्यप्रसिद्ध्यर्थं स्वयमेवेत्युक्तम्। भर्तृप्रपञ्चव्याख्याने युक्तिमत्त्वं तच्छिष्यैर्न्यायतो निश्चितं तत्किं विचार्यमित्याशङ्क्याऽऽह। अपक्षेति। यस्य यत्र रुचिः स तद्व्याख्यानं ग्रहीष्यति किं विचारेणेत्याशङ्क्य पुरुषाभिरुचिवैचित्र्यात्तदनुरोधेन व्याख्यानसंग्रहे वस्तुनि विकल्पप्रसङ्गाद्व्यवस्थितं वस्तु न सिध्येदित्याह। वस्त्विति। जाग्रत्स्वप्नयोर्द्वैतविषयत्वं सुषुप्तस्याद्वैतविषयत्वमिति विभागोऽयुक्तोऽवस्थात्रयस्य वस्तुत्वेऽवस्तुत्वे च तदयोगादाद्ये द्वैतस्यैवभावाद्द्वितीयेऽद्वैतस्यैव सत्त्वात्समस्तव्यस्तताया निरस्तत्वादिति भावः॥१२०३॥१२०४॥

एतदस्य स्वतो रूपं यदत्रोपप्रदर्शितम्॥
अविद्याकामकर्मादिविविक्तं यत्सुषुप्तगम्॥१२०५॥

श्येनवाक्येनाऽऽत्मनः सौषुप्तं रूपमुक्तमिदानीं नाडीखण्डस्य संबन्धार्थं वृत्तं कीर्तयति। एतदिति। किं तदात्मनः स्वतो विद्यमानं रूपं तदाह। यदिति। किं पुनःश्येनवाक्ये प्रत्यक्त्वेनोक्तं रूपं तदाह। अविद्येति। आदिपदं तत्कार्यसंग्रहार्थम्।एतदेवाऽऽत्मनः स्वाभाविकं रूपं यदप्रपञ्चं सच्चिदानन्दैकतानमित्यर्थः॥१२०५॥

इतोऽन्यथा तु यद्रूपं जाग्रत्स्वप्नस्वलक्षणम्॥
तदस्य परतो ज्ञेयमात्माज्ञानैकहेतुकम्॥१२०६॥

रूपान्तरमपि स्वप्नादिगतं कर्तृत्वादिलक्षणमस्य भाति तत्कथमवधारणमित्याशङ्क्याऽऽह। इतोऽन्यथेति। तृतीयपादार्थं स्फुटयति। आत्मेति॥१२०६॥

यद्धेतुकमिदं रूपं सोऽविद्याऽनर्थकारिणी॥
सा स्वतः परतो वाऽस्येत्येतदत्राधुनोच्यते॥१२०७॥

उत्तरवाक्यमवतारयन्विचारविषयमाह। यद्धेतुकमिति। कर्तृत्वादि यद्रूपं तस्यानर्थ754हेतुरविद्या प्रस्तुतेत्यर्थः। विचार-स्वरूपमाह। सेति। अविद्या खल्वात्मनः स्वभावश्चैतन्यवदस्वभावो वा कर्मादिवदिति विचार्यास्वभावत्वमनन्तरग्रन्थे755न कथ्यत इत्याह। एतदिति॥१२०७॥

न त्वागन्तुरविद्येयमनिर्मोक्षप्रसङ्गतः॥
आत्मस्वभावोऽविद्येयं न वेत्येतद्विचार्यते॥१२०८॥

अविद्याऽऽत्मनः स्वभावोऽस्वभावोऽवेति नात्र चिन्त्यते किंतु सा सादिरनादिर्वेत्येतन्निरूप्यते कामकर्मादिवदागन्तुकत्वमिति भाष्ये कोट्यन्तरोक्तेरित्याशङ्कयाऽऽह। न त्विति। अविद्या चेदागन्तुकी तदा तस्या हेत्वभावे मोक्षेऽपि पुनरुन्मज्जनसंभवादनिर्मोक्षः सहेतुत्वेऽप्यात्मातिरिक्तहेत्वभावात्तद्धेतुत्वेन ततो मोक्षेऽप्यविद्योदय-संभवात्स एव दोषस्तस्मादागन्तुकत्वाद्ययोगादविद्यायाः सादिरनादिर्वेति विचारो न विवक्षित इत्यर्थः। नन्वविद्यायास्वभावत्वेऽपि तन्निवृत्त्याऽऽत्मनो मुक्तेरसंभवस्य तुल्यत्वान्न त्वदभिमतोऽपिः विचारो युज्येतेत्याशङ्क्याऽऽत्मनोऽजडत्वमिच्छतां मुक्तेरविद्यानिवृत्तेरतिरिक्तत्वान्नैवमित्यभिप्रेत्य विवक्षितं विचारं निगमयति। आत्मेति। भाष्येऽप्येवंविधो विचारोऽभिप्रेतः स्वाभाविकत्वपक्षमादाय तत्प्रतिपक्षत्वेनाऽऽगन्तुकत्वं वदता तच्छब्देनास्वभावत्वस्येष्टत्वादन्यथा तत्र मोक्षप्रतिपादनमुक्तन्यायेनानवकाशमिति भावः॥१२०८॥

अविद्याकामकर्मादिप्रविविक्तमिहाऽऽत्मनः॥
रूपं पूर्वमुपन्यस्तं तस्य साक्षाच्चिकीर्षया॥१२०९॥

नन्वविद्यायाः सादित्वपक्षेऽपि मोक्षस्याविद्याक्षयादर्थान्तरत्वात्तदा तदुद्भवेऽपिनानिर्मोक्षप्रसक्तिरित्यस्मदिष्ट-विचारसिद्धिरित्याशङ्कयाविद्यायाः सादित्वे तद्धेतोरन्वेष्यत्वात्कूटस्थस्याऽऽत्मनोविनाऽविद्यामतद्धेतुत्वात्पूर्वा-विद्यायाश्चोत्तराविद्यानुपादानत्वादनाद्यविद्यात्मनस्तदुपादानत्वात्तदुक्तविचारायोगात्प्राचीनविचारसिद्धिरिति मत्वा विचारप्रयोजकमाह। अविद्येति। आत्मनो रूपमविद्यादिहीनं सुषुप्ते पूर्वत्रोक्तं तस्य प्रत्यक्षेणप्रतिपादनेच्छया विचारद्वाराऽनन्तरग्रन्थारम्भ इत्यर्थः॥१२०९॥

अविद्यायाश्च यत्कार्यंतच्च वाच्यमशेषतः॥
इत्याविष्कृतिसिद्ध्यर्थं परो ग्रन्थोऽवतार्यते॥१२१०॥

नाडीवाक्यस्याभिप्रायान्तरमाह। अविद्यायाश्चेति। यदविद्याकार्यं तदप्यशेषतोवाच्यमेव विवेकोपयोगादिति कृत्वा तदाविष्करणार्थमुत्तरो ग्रन्थ इत्यर्थः॥१२१०॥

ना756ड्यायत्ता यतोऽविद्याकार्यदृष्टिरतः परम्॥
नाडीनां स्यादुपन्यासस्ता वा अस्येतिवाक्यतः॥१२११॥

अविद्याकार्यंचेद्दिदर्शयिषितं तदेवोच्यतां कृतं नाड्युपन्यासेनेत्याशङ्क्याऽऽह।नाडीति। अविद्योत्थकर्तृत्वादि-धीर्नाडीकृता तदभावे स्वापादाविव तदनुपपत्तेरतस्तद्दृष्ट्युपयोगिनाड्युपन्यासस्तद्दृष्टिश्च व्यवहारार्थेत्यर्थः॥१२११॥

यद्वा मृषात्वसिद्ध्यर्थं नाड्युपन्यास इष्यते॥
अत्यन्ततनुतो ह्यन्तर्विन्ध्यादेरीक्षणं कुतः॥१२१२॥

तदुपन्यासस्य फलान्तरमाह। यद्वेति। कुतोऽवस्थाद्वयस्य मिथ्यात्वार्थं नाड्युपन्यासस्तत्राऽऽह । अत्यन्तेति। नाडीनामतिसौक्ष्म्यात्तासु महापरिमाणस्य विन्ध्यादेरीक्षणं स्वाप्नं मिथ्यैवोचितदेशाभावात्तद्दृष्टान्ताज्जाग्रतोऽपि मिथ्यातेत्यर्थः॥१२१२॥

अविद्याकार्यमेतच्चेदविद्यावन्मृषेष्यते॥
अतो मृषात्वसिद्ध्यर्थं तनुनाडीपरिग्रहः॥१२१३॥

पृष्टं मत्वा शङ्कते। अविद्येति। अघटमानं घटयत्यविद्येति न्यायादतः सूक्ष्मनाडीध्वतिमहतो विन्ध्यादेर्दृष्टिरविद्योत्थेति शङ्कार्थः। तर्हि मत्पक्षसिद्धिरित्याह। अविद्यावदिति। अवस्थयोर्मिथ्यात्वार्थं नाड्युक्तिरिति निगमयति। अत इति। कारणस्य मिथ्यात्वे कार्येऽपि तद्भावनियमादिति यावत्॥१२१३॥

ता वा अस्य हिता नाम नाड्यः सूक्ष्मा हृदि स्थिताः॥
अपकर्षेतरौ याभिः कार्यस्याऽऽत्मा समीक्षते॥१२१४॥

नाडीखण्डस्य संबन्धमुक्त्वा तदक्षराणि व्याचष्टे। ता वा इति। चतुर्थे प्रकृताःषष्ठादौ च संनिहिताः संघातसंबन्धिन्यो हिता इत्येवंनामवत्यो हृदयाद्विप्रसृतत्वात्तत्रप्रतिष्ठिताः परमसूक्ष्मा भूयस्यो नाड्यः प्रसिद्धा इत्यर्थः। अस्य नाड्य इति पुंसोनाडीनां च कथं संगतिरित्याशङ्कयाऽऽह। अपकर्षेति। कर्मज्ञानफलस्योत्कर्षापकर्षवेष कर्ता याभिरनुभवति तास्तदीयत्वादस्येति षष्ठीमर्हन्तीत्यर्थः॥१२१४॥

सहस्रतमभागेन केशस्य परिणाहतः॥
नाड्योऽणिम्ना समानास्ता नानान्नरससंभृताः॥१२१५॥

यथेत्यादेरर्थमाह। सहस्रेति। परिणाहतो विस्तारतः परिमाणेनेति यावत्। शुक्लस्येत्यादेरर्थं संक्षिपति। नानेति॥१२१९॥

तास्वन्नरसपूर्णासु स आत्माऽविद्ययाऽऽत्मनः॥
रक्तपीतादिरूपत्वं मन्यते स्वप्नमध्यगः॥१२१६॥

नाडीनां शुक्लनीलादिरूपान्नरसपूर्णत्वेऽपि किमात्मनो जातं तदाह। तास्विति।स स्वप्नमध्ये द्रष्टृत्वेन स्थितो नाडीष्वन्नरसपूर्णास्वात्मा तदुपाधिः स्वस्यापि रक्तादिरूपतामविद्यया कल्पयतीत्यर्थः॥१२१६॥

रसवर्णानुरोधेन रक्तपीतादिरूपताम्॥
प्रतीचो भोगसिद्ध्यर्थं देवतैति मृषात्मिकाम्॥१२१७॥

अथाऽऽत्मनो रसगतरक्तादिरूपभजनं केन द्वारेण संपद्यते किमर्थं चेति तत्राऽऽह। रसेति। भुक्तस्यान्नस्य रसो नाडीषु प्रसृतो धातुसंबन्धान्नानावर्णो भवति तदनुसारेणनाडीस्था देवता लिङ्गादिशब्दा मिथ्याभूतां रक्तादिरूपतां गच्छति तदुपाधिरात्माऽपिस्वभोगार्थमुक्तरूपभाग्भवतीत्यर्थः॥१२१७॥

बौद्ध757विज्ञानविक्षेपसंहारकथनाय तु॥
चतुर्थे नाड्युपन्यासो विज्ञानात्मविशुद्धये॥१२१८॥

ननु नेयं व्यवस्था चतुर्थे षष्ठादौ च नाडीनामुक्तत्वादत्र पुनरुक्त्या तदुक्तेरेवायोगादित्याशङ्क्यचातुर्थिक-नाड्युपन्यासफलमाह। बौद्धेति। ज्ञानस्य धीपरिणामस्यजागरादौ विकासः सुषुप्ते संकोचस्तयोरुक्त्यर्थं चतुर्थे नाड्युपन्यासो धीवृत्तिरूपज्ञानसंकोचविकासौ हि द्वारभूता नाडीराकाङ्क्षते न च तद्विकासादिवचनमकिंचित्करं त्वमर्थशुद्ध्यर्थत्वात्तत्कथनेन हि तत्साक्षितयाऽऽत्मा शुद्धः स्यादित्यर्थः॥१२१८॥

देवतान्नरसाणुत्वज्ञानाय च पुनर्ग्रहः॥
षष्ठादौ सूक्ष्मनाडीनां तद्द्वाराऽऽत्मावबुद्धये॥१२१९॥

कूर्चब्राह्मणेन नाड्युक्तिफलमाह। देवतेति। षष्ठादौ सूक्ष्मनाडीग्रहो देवतायालिङ्गस्य स्थितिकरान्नरसस्याति-सूक्ष्मत्वज्ञापनार्थं न च तदफलं प्रविविक्ताहारतरतैजसशब्दितदेवताद्वारा त्वमर्थे दृष्ट्यार्थत्वान्न हि विश्वादिज्ञानादृते त्वमर्थो वाक्यान्वयी शक्योज्ञातुं न च विना नाडीस्तैजसस्य सूक्ष्मान्नरससंबन्धस्य सिद्धिस्तद्युक्तमादौ नाडीवचनमित्यर्थः॥१२१९॥

भोक्तुः स्वरूपविज्ञप्त्या इह नाडीपरिग्रहः॥
क्रियते कामकर्मादिविवेकस्य विवक्षया॥१२२०॥

अत्र नाड्युपन्यासस्य कृत्यमाह। भोक्तुरिति। त्वमर्थज्ञापनार्थं कामादिविवेक-

विवक्षयाऽत्र नाडीग्रहस्तद्गतो लिङ्गात्मा कामादिशाली संस्तदुपाधावात्मन्यारोप्यतेऽतस्तत्र758 तत्र द्वारभेदेन नाड्युपन्यासस्त्वमर्थशुद्ध्यर्थ इत्यर्थभेद इत्यर्थः॥१२२०॥

न विज्ञानात्मनो रूपं चैतन्यादन्यदिष्यते॥
स्वात्मविद्यैकहेत्वेव तस्य रूपान्तरं यतः॥१२२१॥

न कामादेरात्मविवेकस्तद्रूपत्वाच्चैतन्यवदित्याशङ्क्यासङ्गो हीत्यादिनोक्तां हेत्वसिद्धिंस्मारयति। नेत्यादिना। आत्मनि कामादि स्वाभाविकमबाधितानुभवात्तद्दृष्टिपराहतश्रुतिरन्यार्थेत्या759शङ्क्याऽऽह। स्वात्मेति। कामाद्यात्मनोऽविद्याकृतं तदन्वयव्यतिरेकवत्त्वादतस्तद्वत्तया तद्दृष्टेर्भ्रमत्वान्न तद्वशेन श्रुतिरन्यथयितव्येत्यर्थः॥१२२१॥

विज्ञानपुरुषाणां हि सर्वेषामेकरूपता॥
चैतन्यात्मतया ज्ञेया तदबोधातु भिन्नता॥१२२२॥

आत्मनो भेदवदविद्यां विना कामाद्यपि रूपं स्यादिति चेन्नेत्याह। विज्ञानेति। बुद्ध्युपाधिकाः पुरुषा जीवास्तेषां चिदात्मत्वेनैकरूपतैव तदज्ञानकृतान्तःकरण760बलाद्भिन्नता भात्यतो दृष्टान्तस्य साध्यविकलतेत्यर्थः॥१२२२॥

अध्यात्मादिविभागोऽयं न स्वतः प्रत्यगात्मनः॥
तदवोधैकहेतुत्वादप्राप्तैकात्म्यवस्तुकः॥१२२३॥

तदबोधात्तु भिन्नतेत्यस्यासिद्धिमाशङ्क्याऽऽह। अध्यात्मादीति। न हि प्रत्यगात्माकूटस्थासङ्गाद्वयः स्वाज्ञानं विना विभज्यते761 तद्विभागोऽज्ञानोत्पन्नत्वान्न वस्तु स्पृशतीत्यर्थः॥१२२३॥

लिङ्गमेव ततो रूपमात्माविद्यैकहेतुकम्॥
कर्मोत्था भावना याश्च रूपं ता अपि लिङ्गवत्॥१२२४॥

भेदरूपं तर्हि क्वावतिष्ठतां762 तत्राऽऽह। लिङ्गमिति। स्वाज्ञानोत्थं भेदाख्यं रूपंतज्जबुद्ध्याश्रितमेव ततो नाऽऽत्मनि भेदावसरोऽस्तीत्यर्थः। कर्तृत्वादिवत्कामादेः स्वाभाविकत्वमाशङ्क्याऽऽह। कर्मेति। या हि कर्मोत्थकर्तृत्वादि-वासनास्ता लिङ्गस्यैव धर्मतयारूपं तद्गतभेदरूपवदतश्च कामादेः स्वाभाविकत्वे न कर्तृत्वाद्युदाहरणमित्यर्थः॥१२२४॥

लिङ्गं चाप्यतिसूक्ष्मं तन्नाडीमध्यगतिक्षमम्॥
स्वामिकर्मवशात्तच्च रूपं गृह्णाति दैवतम्॥१२२५॥

कर्तृत्वादि लिङ्गनिष्ठं चेत्किमिति तथाविधं लिङ्गं स्थूलदेहवन्नोपलभ्यते तत्राऽऽह।लिङ्गं चेति। तस्यातिसौक्ष्म्यादध्यक्षायोग्यत्वमुक्त्वा हेतुं साधयति। नाडीति। ननुतच्चेतनमचेतनं वाऽऽद्ये नामान्तरेणाऽऽत्मैवोक्तः स्याद्द्वितीये तस्य विषयरूपभजनमस्ति

न वा नास्ति चेत्प्रतीचो भोगासिद्धिरस्ति चेदचेतनस्य स्वतस्तदयोगात्तन्निमित्तं वाच्यंतत्राऽऽह। स्वामीति। तच्च देवतात्मकं लिङ्गं जीवस्यादृष्टवशाच्छब्दादिरूपं भजतीत्यर्थः॥१२२५॥

भोगमात्रमसिद्ध्यर्थं चैतन्याभासमात्रतः॥
नानात्मरूपमात्माऽयं किंचिदन्यदपेक्षते॥१२२६॥

लिङ्गस्य तद्भजने निमित्तमुक्त्वा फलमाह। भोगेति। आत्मनो भोगादृते लिङ्गस्यार्थाकारभजनस्य नान्यत्फलमित्यर्थः। आत्मनो भोगे सक्रियत्वं चैत्रवदित्याशङ्क्याऽऽह। चैतन्येति। भोगस्याऽऽभासमात्रस्थत्वान्नाऽऽत्मनि शुद्धे विक्रियेत्यर्थः।विना लिङ्गमात्मैव भोगार्थमर्थाकारं ग्रहीष्यति लाघवादित्याशङ्क्याऽऽह। नेति।अन्यदात्मनोऽन्यत्वेन व्यवह्रियमाणमिति यावत्। अत्रासङ्गत्वं हेतुः॥१२२६॥

विज्ञानपुरुषः सोऽयमधिदैवादिवासनः॥
लिङ्गदेहानुरोधी सल्लिँङ्गे कर्त्रादिविक्रियाम्॥
अविद्योपहतात्मा सन्नात्मत्वेनाभिमन्यते॥१२२७॥

कथं तर्हि भोगस्तत्राऽऽह। विज्ञानेति। सोऽयमविद्याच्छादितस्वभावो बुद्ध्युपाधिरात्मा सूक्ष्मदेहानुसारी नानासंस्कारसंस्कृतः स्वोपाधि763स्थकर्तृत्वादिविकारमात्मीयत्वेनाभिमन्यते तदाऽविद्योपाधिद्वाराऽऽत्मनोऽर्थाकार-भजनादाभासद्वारको भोग इत्यर्थः॥१२२७॥

लिङ्गस्य विक्रिया याऽपि सा रसानुविधायिनी॥१२२८॥
अधिदैवादिदेहस्य रसहेतुः स्थितिर्यतः॥
एताभिर्वा इति तथा तेनैता इति च श्रुतिः॥१२२९॥

लिङ्गद्वाराऽऽत्मनो विक्रियावत्त्वे लिङ्गस्य सा स्वतः स्यादित्याशङ्क्याऽऽह। लिङ्गस्येति। अन्नरसानुसारिणि तद्विकियेत्यत्र हेतुमाह। अधिदैवादीति। नानाविशेषात्मकस्य लिङ्गस्यान्नरसो यतः स्थितिहेतुरतस्तदनुसारिणी तद्विक्रिया युक्तेत्यर्थः। तस्यान्नरसः स्थितिहेतुरित्यत्र मानमाह। एताभिरिति॥१२२८॥१२२९॥

रसोऽपि चायं जग्धान्नपरिणाममपेक्षते॥
यतो तो वातपित्तादीन्धातून्सोऽप्यनुरुध्यते॥१२३०॥

रसाद्देहस्थितिश्चेत्कथं तत्प्रवृत्तिर्न स्वतो भुजिवैयर्थ्यादित्याशङ्क्याऽऽह। रसोऽपीति। भुक्तभक्तविकारस्य कथं प्रादुर्भावस्तत्राऽऽह। यत इति। यस्मादन्नपरिणामोरसहेतुत्वेनापेक्ष्यते तस्मात्ततो जातः सोऽपि धातूननुसरतीत्यर्थः॥१२३०॥

धातुरूपानुरोधी सन्रसो रक्तादिमेत्यथ॥
तं वर्णं देवतादेहो यथोक्तमनुरुध्यते॥१२३१॥

तत्र हेतुः। धातुरूपेति। अन्नपाकजो रसो रक्तादिरूपं भजते तद्धात्वनुसारीनान्यथा तद्रूपाप्तिरित्यर्थः। तयोर्हेतुफलभावोऽथशब्दार्थः। रसस्थरक्तादिरूपमनुसरतिलिङ्गं नाडीस्थतया तेन तुल्याश्रयत्वादित्याह। **तमिति॥**१२३१॥

आत्मनोऽविक्रियस्यैव लिङ्गे स्वाभासवर्त्मना॥
दर्शनं शुक्लपीतादेर्जायते कर्मणो वशात्॥१२३२॥

तथाऽपि किं प्रतीचो जातं तदाह। आत्मन इति। वस्तुतोऽक्रियस्यैवाऽऽत्मनःस्वोपाधौ सूक्ष्मेदेहे स्वाभासद्वारा पीतादिधीरदृष्टवशाज्जायते ततो भोगसिद्धिरित्यर्थः॥१२३२॥

आत्मन्येष यतः सर्वस्तदविद्यैकहेतुकः॥
अध्यात्मादिप्रपञ्चो हि शुक्तिकारजतादिवत्॥१२३३॥

कर्मणा दृष्टिश्चेद्वृश्यस्य वस्तुत्वं स्यात्तत्राऽऽह। आत्मनीति। अतः स मिथ्येतिशेषः। प्रसिद्धं च तन्मिथ्यात्वं श्रुत्यादाविति हिशब्दार्थः॥१२३३॥

सत्यानृतविभागोऽयं तथाऽप्यनृतवस्तुनि॥
जाग्रद्भूमौ प्रसि764द्धोऽस्य लोके स्वप्नेयथा तथा॥१२३४॥

सर्वस्य मिथ्यात्वे घटादि सत्यं शुक्तिरूप्याद्यसत्यमितिविभागायोगमाशङ्क्याऽऽह।सत्येति। सर्वस्यानृतत्वेऽपि स्वप्ने सत्यानृतविभागवज्जाग्रत्यपि मिथ्यावस्तुन्येवायं विभागोऽतो लोकप्रसिद्धेः स विभागो न विरुध्यत इत्यर्थः॥१२३४॥

चित्स्वभावातिरेकेण नाविद्यादेः प्रसिध्यति॥
सत्यत्वमिव मानेन मिथ्यात्वमपि वस्तुनः॥१२३५॥

जगतो मिथ्यात्वेऽपि तदात्मनो भिन्नमभिन्नं वा नाऽऽद्योऽद्वैतविरोधान्नेतरस्तस्यापिमृषात्वप्रसङ्गादित्याशङ्क्याद्वैत-विरोधं प्रत्यात्। चित्स्वभावेति॥१२३५॥

चिन्मात्रतैव तेनास्य कार्यकारणवस्तुनः॥
श्रुत्येहोच्चैः प्रत्यपादि तत्त्वमस्यादिरूपया॥१२३६॥

आत्मनो मृषात्वप्रसङ्गं प्रत्याह। चिन्मात्रेति। अविद्यादिवस्तुनश्चितोऽतिरेकेणसत्यत्वासत्यत्वयोर्मानतोऽसिद्धत्वेनेत्येतत्तेनेति परामृश्यते। इहेति मोक्षशास्त्रोक्तिः।तेनाभेदे चिन्मात्रावशेषेण तन्मिथ्यात्वाप्रसक्तिरित्यर्थः॥१२३६॥

मिथ्याभावनमात्रा765धेर्निरस्तविकृतेरिह॥
प्रतीचो दर्शनं स्वप्नेश्रुत्या मिथ्येति वर्ण्यते॥१२३७॥

जाग्रन्मिथ्यात्वमित्थमुक्त्वाऽथ यत्रैनमित्यादिश्रुत्यवष्टम्भेन स्वप्नस्यापि तत्प्रतिजानीते।मिथ्येति। अनुभवानुसारिस्वप्ने सिद्धमिथ्यात्वे न विप्रतिपत्तिरित्यर्थः॥१२३७॥

शुक्लं स्यात्कफभूयस्त्वे वातपित्तसमागमात्॥
नीलं कृष्णं च वातस्य परिणामं प्रचक्षते॥१२३८॥

ता वा अस्येत्यादेस्तात्पर्यार्थो विवृतः संप्रति शुक्लस्येत्यादेस्तात्पर्यं धातुरूपानुरोधीत्यत्र संगृहीतं प्रपञ्चयति। शुक्लमिति। श्लेष्मबाहुल्ये वातपित्तयोर्गुणत्वेन संसर्गाद्भुक्तमन्नं नाडीस्थं श्वेतं स्यादित्यर्थः। वातभूयस्त्वे सतीतरयोर्गुणत्वाद्भुक्तान्नपरिणामं नाडीस्थंनीलं वदन्तीत्याह। नीलमिति। तद्व्याख्या कृष्णमिति॥१२३८॥

पिङ्गलं पित्तबाहुल्याद्धरितो मन्दपित्तकः॥
इति वैषम्यतो वर्णो766 धातुसाम्येऽतिलोहितः॥१२३९॥

पित्तबाहुल्यादितरयोरुपसर्जनत्वे जग्धान्नपरिणामं नाडीस्थं पिङ्गलमाहुरित्याह।पिङ्गलमिति। वातश्लेष्माधिक्ये मन्दपित्तकृतो नाडीस्थान्नरसो हरितो भवतीत्याह।हरित इति। धातूनां गुणप्रधानत्ववैषम्यप्रयुक्ततयोक्तमन्नरस-वर्णमुपसंहरति। इतिवैषम्यत इति। तेषां समप्राधान्येऽन्नरसो नाडीस्थोऽत्यन्तलोहितो जायत इत्याह।धात्विति॥१२३९॥

इत्येवमादि बहुधा परिणामं प्रचक्षते॥
चिकित्साशास्त्रतत्त्वज्ञा जग्धस्यान्नस्य नाडिगम्॥१२४०॥

तत्र वैद्यशास्त्रं प्रमाणयति। इत्येवमादीति। आदिपदेन वातादिमान्द्ये नीलादिरूपमान्द्यमन्नरसे विवक्ष्यते सर्वश्चानुको नाडीतद्गतान्नरसरूपभेदः। उक्तं हि तासांयथास्वं तुरीयांशविभागेन पञ्चसप्तत्यधिकशतमनिल767रक्तं भवति768। एष एव विभागःपित्तश्लेष्मशुद्धरक्तेष्वपि। यथास्थिता ह्येव देहमनुगृह्णन्ति दोषा व्यत्ययेन तु पीडयन्ति। तत्र श्यामारुणाः प्रतिस्पन्दिन्यः सूक्ष्माः क्षणेन पूर्णारिक्तवातरक्तं वहन्तिनीलपीतासिताः स्पर्शोष्णाः क्षिप्रस्त्राविण्यः पित्तरक्तं गौर्यः स्निग्धाः स्थिराः शीताःकण्डुमत्यः कफरक्तं लक्षणसंसर्गे संनिपातरक्तं समाग्रन्थाः स्थिरा रोहिण्यः शुद्धरक्तमिति। सुश्रुतोऽप्याह—

“अरुणाः शिरा वातवहा नीलाः पित्तवहाः शिराः।
असृग्वहास्तु रोहिण्यो गौर्यः श्लेष्मवहाः शिराः” इति॥

याज्ञवल्क्यश्चाऽऽह—

“अनन्ता रश्मयस्तस्य दीपवद्व्यवस्थिता हृदि।
सितासिताः कण्डुनीलाः कपिलाः पीतलोहिताः”इति॥१२४०॥

अथैतस्मिन्नन्नरसपरिणामे यथोदिते॥
प्रत्यङ्मोहस्य यत्कार्यमधुना तत्प्रपञ्चते॥१२४१॥

अथेत्यादिवाक्यतात्पर्यमाह। अथेति। निमित्ते सप्तमी॥१२४१॥

जगदात्मनि निर्माय साधिभूताधिदैवतम्॥
शुक्लाग्याकृतिनाडीस्थमात्मा पश्यत्यविद्यया॥१२४२॥

स्वप्ने नाविद्याकार्यमस्ति न तत्र रथा इत्यादिश्रुतेस्तत्कथं तत्प्रपञ्चयितुं वाक्यमित्याशङ्क्याऽऽह। जगदिति। अविद्यया नानाविधं वासनामयं जगन्निर्मायाऽऽत्मा पूर्वोक्तनाडीगतत्वादेव पश्यतीति संबन्धः॥१२४२॥

अविद्यायाः पराकाष्ठाऽथेदानीमुच्यते स्फुटम्॥
तत्कार्यतारतम्येन साऽविद्या भिद्यते यतः॥१२४३॥

अथ योऽन्यामित्यारभ्याविद्याकार्यं प्रपञ्चितं तत्किमुत्तरवाक्येनेति तत्राऽऽह।अविद्याया इति। जाग्रद्धेत्वविद्या769-विभूतिस्तत्रोक्ताऽत्र स्वप्नहेतोस्तस्या वर्ण्यते कार्यमिति770 विशेषः। एकैवाविद्ये771त्युपगच्छता कथं तद्भेदोऽप्युप772गम्यते तत्राऽऽह। तत्कार्येति। अतस्तद्भेदोपगतिरविरुद्धेति शेषः॥१२४३॥

लिङ्गादिकार्यभेदेन साऽविद्या भिद्यते सदा॥
स्वतस्त्वविद्याभेदोऽत्र मनागपि न विद्यते॥१२४४॥

स्वयूथ्यास्तु स्वाभाविकमविद्याभेदमाहुस्तान्प्रत्याह। लिङ्गादीति। अत्रेत्यात्मोच्यते। न हि स्वतोऽविद्याभेदो मानाभावान्न च प्रत्यात्मं तद्भेदोऽनुभूयते तद्भेदस्यैवासिद्धेर्न च मायाभिरिति बहूक्त्या तत्सिद्धिः कार्यभेदलब्ध-तद्भेदानुवादित्वादन्यथा मायांतु प्रकृतिमित्येकवचनविरोधान्न च व्यक्त्यैक्ये संभवति जात्यैक्यं तदर्थः773। एतेनयावन्ति ज्ञानानीत्यादि व्याख्यातमिति भावः॥१२४४॥

तल्लिङ्गं वासनानीडं सूक्ष्मं स्वच्छस्वभावकम्॥
नाडीगतरसोपाधिसंसर्गात्स्फटिकादिवत्॥१२४५॥

अविद्योत्थलिङ्गस्य जगद्रूपेणावस्थितिं वदन्नादौ नानाकार्योपलम्भोपयोगित्वेनतस्य भूयो भावनाश्रयत्वमाह। तदिति। तस्य घटादिवदग्रहे हेतुमाह। सूक्ष्ममिति।वासनाधारत्वे निमित्तमाह। स्वच्छति। ननु नाडीनामेव नानारसपूर्णानां तत्र नीलपीतादिवासनाधारत्वमुचितं न तु लिङ्गस्येत्याशङ्क्याऽऽह। नाडीगतेति। स्वाच्छ्ये दृष्टान्तः स्फटिकादिवदिति। तस्यानेकवर्णभाक्त्वे वा हेतुमाह। नाडीति॥१२४५॥

धर्मादिप्रेरकोद्भूतरथस्त्रीहस्तिलक्ष774ण—

नानाकृतिरसाद्या775त्म ह्यात्मनोऽलुप्तचक्षुषः॥
प्रथते पुरतोऽविद्यामात्रतत्वं विनश्वरम्॥१२४६॥

उक्तरूपं लिङ्गमनूद्य तत्र साक्षिप्रत्यक्षं प्रमाणयति। धर्मादीति। जाग्रद्धो776गदावृष्टादिजन्यरथादि-नानाकारोपेतमशितादिपाकोत्थरससहकृतं कामाद्यात्मकं लिङ्गमात्मनोविषयत्वेन भातीत्यर्थः। तस्य जडत्वादस्ति साक्ष्यपेक्षेति वक्तुं हिशब्दः। तस्य प्रकाशान्तरापेक्षां वारयति। अलुप्तेति। लिङ्गस्य वस्तुत्वं परिहरति। अविद्येति। तत्रहेतुः। विनश्वरमिति॥१२४६॥

एवं तावदविद्यै777कनीडानामुदितो विधिः॥
भावनानां विनिष्पत्तौ बोधे स्वप्नेऽथ भण्यते॥१२४७॥

अथेत्यादेस्तात्पर्यार्थं प्रतिज्ञाय लिङ्गस्य जाग्रद्रूपेणावस्थानमविद्याकार्यमुक्त्वा तदनूद्यस्वप्ने तत्प्रपञ्चयितुं वाक्यमित्युक्तं तात्पर्यं निगमयति। एवमिति॥१२४७॥

अथ यत्राऽऽस्ममोहोत्थं घ्नन्तीवैनमितीक्षणम्॥
जिनन्तीवैनमिति च मृषैवमभिमन्यते॥१२४८॥

अथ यत्रैनमित्याद्यक्षराणि व्याकरोति। अथेति। जाग्रदनन्तरं स्वप्न उच्यत इतियावत्। यस्मिन्काले केचिदागत्यैनमान्घ्नन्तीति ज्ञानमिव जायते स स्वप्न इत्येतत्।इवशब्दार्थं778 ज्ञानस्याऽऽभासत्वं स्फोरयति। आत्ममोहोत्थमिति। केचिदुपेत्य मामेवंवशी कुर्वन्तीति च धीरिव यत्र भवति स स्वप्न इत्याह। जिनन्तीति। तत्रापीवशब्दार्थमाह। मृषेति॥१२४८॥

नास्त्यत्र हन्ता जेता वा किंत्वज्ञानोत्थमेव तत्॥
वासनाविष्टविज्ञानो हननाद्यभिमन्यते॥१२४९॥

स्वप्नेऽपि जागरावस्थायामिव हन्त्रादि भाति कुतो हननादिधीर्मृषेत्याशङ्क्याऽऽह।नास्तीति। कथं तर्हि तत्सत्यत्वधीस्तत्राऽऽह। किं त्विति। हननाद्यभिमानस्यातिदृढत्वान्मैवमित्याशङ्क्याऽऽह। वासनेति। विज्ञानं मनः॥१२४९॥

अधर्मादिप्रकर्षोत्थं गर्तादिपतनादिकम्॥१२५०॥
प्रतीचो दर्शनं स्वप्नेमूढस्येहोपजायते॥
मिथ्यात्वकारणं प्राह यदेवेति श्रुतिः स्वयम्॥१२५१॥

हस्तीवेत्यादेरर्थमाह। अधर्मादीति। आदिपदेनाविद्याप्रकर्षो गर्तादीत्यादिशब्देनाग्निप्रवेशादिः पतनादिकमिति च धावनादि गृह्यते। सर्वं चेदमर्थाकाराभासं779 दर्शना-

भासमित्याह। प्रतीच इति। यदेवेत्यादिवाक्यतात्पर्यमाह। मिथ्यात्वेति। स्वप्नमिथ्यात्वे बुभुत्सितं हेतुं श्रुतिः स्वयमेव वक्त्यतो नास्माभिस्तन्मिथ्यात्वं साध्यमित्यर्थः॥१२५०॥१२५१॥

जाग्रद्विषय एवायं यदैक्षिष्ट पुराऽप्यसत्॥
तदत्र स्वप्नेऽसंभाव्यं मन्यतेऽविद्ययैव सः॥
नाविद्या नापि तत्कार्यं यस्मादात्मसमीक्षणे॥१२५२॥

तात्पर्यमुक्त्वा पदानि व्याचष्टे। जाग्रदिति। यद्रथादि जाग्रदवस्थायां पुरुषोदृष्टवांस्तत्तत्रापि मिथ्यैव वस्तुनोऽद्वयत्वात्तदेव वासनामयं स्वप्नेऽसंभावितमपि स्वाविद्यया संभावितं मन्यते तदाविद्यत्वात्स्वप्नो मिथ्येत्यर्थः। जागरे स्वप्ने च हस्त्यादेरविद्यांविनाऽसंभावितत्वमुक्तं संभावयति। नाविद्येति। आत्मनः सम्यगीक्षणे वाक्यीये सकार्याज्ञानस्यात्यन्तध्वस्तेस्तदसंभावनेत्यर्थः॥१२५२॥

भयं त्वेकान्ततोऽविद्याकार्यमाहुर्विपश्चितः॥
यतो विज्ञाततत्त्वानां भीतिर्नास्ति कुतश्चन॥१२५३॥

अवस्थयोराविद्यं भयमित्युक्तेऽर्थे विद्वत्प्रसिद्धिमाह। भयं त्विति। तत्रैवान्वयव्यतिरेकावाह। यत इति। आत्मानमजानतामेव भीतिर्न तु जानतां हेत्वभावादतोऽसावविद्याकृतेत्यर्थः॥१२५३॥

एतदुक्तं भवत्यत्र पूर्वोपात्तस्य कर्मणः॥
फलं प्रबोधे यद्भुक्तं तच्छेषो भावनोच्यते॥१२५४॥

यदेव जाग्रद्भयमिति विशेषणाद्भयस्याऽऽविद्यत्वेऽपि स्वप्ने कर्तृत्वादेर्न तथात्वभित्याशङ्क्य वाक्यस्य विवक्षितमाह। एतदिति। जाग्रद्भोगदं यदार्जितं कर्म तस्ययत्फलं तत्र भुक्तं तस्य लेशो वासना सा च स्वप्ने व्यज्यत इत्याह। पूर्वेति॥१२५४॥

यदि नामावसितार्था फलं दत्त्वेह भावना॥
पुंभोगसमये कर्म प्रयुङ्क्तेे सा पुनर्नवम्॥१२५५॥

जाग्रद्भोगदस्य कर्मणस्तदा भुक्तत्वात्तद्वासनानां च स्वप्नभोगेनावसन्नत्वादुत्थानमुत्थितस्यानुष्ठानं च न स्याद्धेत्वभावादित्याशङ्क्याऽऽह। यदीति। यद्यपि स्वप्ने पुंसोभोगकालेजाग्रद्वासना व्यक्ता फलं दत्त्वा समाप्तस्वभावा तथाऽपि पुनर्जागरेऽपरावासना नूतनं कर्म कारयति न हि सत्यामविद्यायामुत्थानानुपपत्तिर्वासनानां चकासांचित्स्वाप्नभोगदत्वमन्यासां जाग्रत्कर्महे780तुतेत्युत्थानमुत्थितस्यानुष्ठानसिद्धिरित्यर्थः॥ १२५५॥

उत्पत्तिभोगयोरेवं भावना कर्मणः सदा॥
प्रयोक्त्री भावनैवाऽऽत्मकर्तृभोक्तृत्वयोर्मृषा॥१२५६॥

जागरे स्वप्ने च कर्मोत्पत्तौ तत्फलभोगे च नानावासना प्रयोजिकेत्युक्तं निगमयति। उत्पत्तीति। आत्मस्थकर्तृत्वादेरपि कर्मादिद्वारा सैव प्रयोजिकेत्याह। भावनेति।प्रयोक्त्रीति संबन्धः। सा चेत्तत्र प्रयोक्त्री प्रयोजिकाऽविद्याभ्युप-गमभङ्गस्तत्राऽऽह। मृषेति॥१२९६॥

एवं सति प्रबोधे यद्भुक्तं प्राक्कर्मणः फलम्॥
तस्यानुवासना धीस्था भावनेत्यभिधीयते॥१२५७॥

आत्मैव भावनाधिकरणमिति मतमपाकर्तुमाह। एवमिति। अविद्याद्वारा भावनयाकर्मप्रवृत्तौ कर्तृत्वादिसिद्धिरिति सिद्धे यत्कर्मफलं जागरे भुक्तं तस्य फलभोगानन्तरभाविनी या वासना भावनाख्या साऽन्तःकरणस्थेत्युच्यते नाऽऽत्मस्थेत्यर्थः॥१२५७॥

आत्मचैतन्यबिम्बेन बिम्बिता धीर्यथा तथा॥
कर्मोत्थफलबिम्बेन बिम्बितेयं मतिः सदा॥१२५८॥

वासना धीस्थेत्युक्तं दृष्टान्तेन साधयति। आत्मेति। न हि धीः स्वसत्तायां चैतन्याभासं व्यभिचरति तस्याः साक्षिसापेक्षत्वात्तथैव सा सर्वदा फलवासनावासितेत्यर्थः॥१२५८॥

अविद्याग्रथितः सोऽयं परमात्माऽशरीरतः॥
कर्ता भोक्तेव चाऽऽभाति स्वप्नजाग्रदवस्थयोः॥१२५९॥

धीस्थाऽपि सा कर्तृत्वादेर्न प्रयोक्त्री तस्याऽऽत्मनि स्वाभाविकत्वादित्याशङ्क्याऽऽह। अविद्येति। अशरीरत्वादात्मा स्वतो न कर्ता भोक्ता च781किंत्ववस्थाद्वयेऽप्यविद्याशबलस्तथाऽऽभातीत्यर्थः॥१२५९॥

न चाविद्यातिरेकेण कौटस्थ्यात्प्रत्यगात्मनः॥
हेतुमन्यं प्रपश्यामः कर्तृत्वादिप्रसिद्धये॥१२६०॥

अशरीरस्यापि स्वाभाविककर्तृत्वाभ्युपगमे का हानिस्तत्राऽऽह। न चेति॥१२६०॥

रजोधूमतुषाराभ्रनीहाराद्यन्वितं वियत्॥
संभाव्यते यथा मूढैरात्मैवं कर्तृतादिभिः॥१२६१॥

आत्मन्याविद्यं कर्तृत्वादीत्ये782तद्दृष्टान्तेन स्पष्टयति। रज इति। तुषारपदेन हिमस्योक्तत्वान्नीहारशब्देन तमो गृह्यते॥१२६१॥

धर्मधर्म्यभिसंबन्धा नेक्ष्यन्ते मानतो यथा॥
वियत्येवं न वीक्ष्यन्ते प्रत्यग्दृष्ट्या यथोदिताः॥१२६२॥

दृष्टान्ते विप्रतिपत्तिमाशङ्क्योक्तं प्रपञ्चयति। धर्मेति। उक्तं हि—

“आकाशमेकं हि यथा घटादिषु पृथग्भवेत्।
तथाऽऽत्मैकोऽप्यनेकश्च जलाधारेष्विवांशुमान्” इति।

न चाऽऽकाशस्यैव शब्दसंयोगादिषड्गुणत्वं तद्दृष्ट्या तस्य धर्मित्वे दृष्टान्ताभावात्तस्यासङ्गोदासीनत्वात्कालादेश्च तत्तुल्यत्वात्तत्प्रमाणस्य च स्थूलाकाशविषयत्वादेवमात्मनोऽपि तद्दृष्ट्या कर्तृत्वादयो न प्रमीयन्ते न हि तस्मिन्नसङ्गोदासीने तत्प्रमितिरस्तीतिद्रष्टव्यम्॥१२६२॥

चैतन्याभाससंमोहं भावनेयं समाश्रिता॥
सत्य आत्मनि कूटस्थ आश्रिता इति भण्यते॥१२६३॥

आत्मनि कर्तृत्वाद्यज्ञानोत्थं चेत्कथं तत्प्रयोक्त्री भावनेत्युक्तं तत्राऽऽह। चैतन्येति। चिदाभासव्याप्तमात्मनो मोहमाश्रिता सती भावना सत्ये प्रत्यगात्मनि सर्वक्रि783याहीने समाश्रितेति कथ्यते मोहस्याऽऽत्मस्थत्वाद्भावनायाश्च तन्निष्ठत्वात्ततो मोहमयीसा प्रतीचि कर्तृत्वादिप्रयोक्त्रीत्यभ्युपगमात्कर्तृत्वादेरुभय कृतत्वमविरुद्धमित्यर्थः। भावनेयमित्यारभ्याऽऽश्रिता इति बहूक्तिर्जातिव्यक्तिभ्यां तद्भेदाभेदौ गृहीत्वेति द्रष्टव्यम्॥१२६३॥

स्वामिन्येव यतः सर्वं समवैति क्रियाफलम्॥
ममाहमितिहेतूत्थं स्वामित्वं चाप्यबोधजम्॥१२६४॥

कर्तृत्वादेराविद्यत्वे हेत्वन्तरं वदन्सामान्यन्यायमाह। स्वामिनीति। तत्र हेतुः।ममेति। अहमित्यादौ परिच्छेदाभिमानस्ततो ममेदमिति धीस्ताभ्यामिदं सर्व कर्मयस्मादुत्तिष्ठत्यतस्तत्फलं ममेति स्थिते स्वामिन्येव युक्तं स्वामित्वकर्तृत्वभोक्तृत्वानामेकाश्रयत्वादित्यर्थः। क्रियातत्फलयोः स्वामिगामित्वेऽपि कथं कर्तृत्वादेराविद्यत्वं तत्राऽऽह। स्वामित्वं चेति॥१२६४॥

देशकालादिहीनस्य ह्यनवच्छिन्नवस्तुनः॥
अहं ममेत्यवच्छेदो नाऽऽत्माविद्यामृते784 यतः॥१२६५॥

अहंममेत्यभिमानो785त्यस्वामित्वं कथमज्ञानजं प्रतिज्ञायते तत्राऽऽह। देशेति। तद्धीनत्वमन्यत्र धर्मादित्यादौ प्रसिद्धमिति वक्तुं हिशब्दः। अतोऽवच्छेदद्वयस्याऽऽविद्यत्वात्तकृतं कर्तृत्वाद्यपि तथैवेति शेषः॥१२६९॥

वासनैकाधिकरण786श्चिदाभासोऽभिधीयते॥
भावनारञ्जितज्ञानो भवतीति न निर्द्वयः॥१२६६॥

इतश्चाऽऽत्ममो वस्तुतो न कर्तृत्वादित्याह। वासनेति। विविधया भावनया रञ्जितं

ज्ञानमन्तःकरणं तद्यस्यास्ति स चिदाभासो वासनया कर्तृत्वादिरूपया सहैकस्मिन्नधिकरणे तिष्ठत्यतः संसारी भवतीत्युच्यतेऽद्वयस्त्वात्मा न तथेत्यर्थः॥१२६६॥

भावनारञ्जितमतिसाक्षित्वादात्मवस्तुनः॥
भावनाश्र787यवद्भाति प्रत्य788ङ्जडधियामतः॥१२६७॥

नन्वात्मनि वासनाधारे संसारिणि भाति किं कष्टकल्पनयेत्यत आह। भावनेति।अतःशब्दस्य प्राच्या पञ्चम्या संबन्धः॥१२६७॥

बहुनाऽत्र किमुक्तेन यदेवायं समीक्षते॥१२६८॥
बोधे हस्त्यादिकं स्वप्नेतदेवाविद्ययाऽऽत्मनि॥
संभावयति मिथ्यैव नभो नीलं यथा तथा॥१२६९॥

यदेवेत्यादेरर्थमुपसंहरति। बहुनेति। स्वतोऽविद्यमानस्याविद्यया संभावनां दृष्टान्तेनदर्शयति। नभ इति॥१२६८॥१२६९॥

कार्यमेतदविद्यायाः प्रोद्भूतायाः प्रदर्शितम्॥
अथापकृष्यमाणायाः कार्यतः कार्यमुच्यते॥१२७०॥

अथ यत्र देव इवेत्यादेर्वृत्तानुवादेन तात्पर्यमाह। कार्यमिति । कार्यतोऽपकृष्यमाणाया इति संबन्धः॥१२७०॥

देवादिविषयोद्भूतवासनाऽस्य यदा तदा॥
जाग्रद्भूमावथ स्वप्नजायते सैव भावना॥
देवो राजेव चास्मीति स्वप्नकर्मवशाद्विभोः॥१२७१॥

तात्पर्योक्त्याऽथशब्दार्थमुक्त्वा यत्रेत्यादेरर्थमाह। देवादीति। यदा जागरे देवादिविषया विद्याऽस्य द्रष्टुर्जाता तदा तदनुसारिणी वासना जायते ततः स्वप्नभोगहेतुकर्मवशादस्य सैव पूर्वोत्पन्ना वासना देवोऽस्मीत्यादि789दृष्टिरूपा स्वप्ने संपद्यते सा चेवशब्दान्मिथ्येत्यर्थः। जाग्रद्धेतुकर्मक्षयानन्तर्यमथशब्दार्थः। विभुत्वं करणस्वामित्वेनभोक्तृत्वम्॥१२७१॥

ध्वस्तात्ममोहतत्कार्यः स्यात्मबोधे यदा तदा॥
सर्वमस्म्यहमेवेदमिति स्वप्नेऽभिमन्यते॥१२७२॥

अहमेवेदमित्यादेरर्थमाह। ध्वस्तेति॥१२७२॥

अहमेवेति चिन्मात्रमात्मनोऽत्रावधार्यते॥
इदंशब्देन चाविद्याकार्यमत्र विवक्षितम्॥१२७३॥

संगृहीतं विवरितुं पदत्रयार्थमाह। अहमिति। सप्तम्या प्रकृतवाक्योक्तिः॥१२७३॥

अविद्यायाः समुच्छित्तावलमेवमिदं वचः॥
सर्वः कृत्स्नोऽहमस्मीति त790दैतदुपपद्यते॥१२७४॥

वाक्यार्थं फलोक्तिपूर्वकमाह। अविद्याया इति। उक्तरीत्या पदानामर्थे गृहीतेसमानाधिकृतपदत्रयात्मकं वाक्यं चिन्मात्रं बोधयदविद्यां सकार्यामुच्छेत्तुं शक्तं स्यादित्यर्थः। तत्र वाक्यशेषानुग्रहमाह। सर्व इति। उक्तवाक्यार्थोपगमे सर्वोऽस्मीति पूर्णत्वमुच्यमानमात्मनो युज्यते परिच्छेदकाभावादित्यर्थः॥१२७४॥

एषोऽस्य परमः पूर्णः कृत्स्नो लोकस्तु विद्यया॥
इतोऽपरे तु ये लोकास्तेऽस्याविद्यामकल्पिताः॥१२७५॥

सोऽस्येत्यादेरर्थमाह। एषोऽस्येति। परमशब्दार्थमाह। पूर्ण इति। तस्य सापेक्षत्वं व्यावर्तयति। कृत्स्न इति। विद्यया लभ्यत इति शेषः। स्वर्गादिलोकानां सत्त्वेकुतोऽस्य पूर्णतेत्याशङ्क्याऽऽह। इत इति॥१२७५॥

देवो राजेव791यत्स्वप्नेदर्शनं प्रत्यगात्मनः॥
विद्याफलं न तन्न्याय्यमिवशब्देन संगतेः॥१२७६॥

देवत्वादिज्ञानस्य पुमर्थतया विद्याफलत्वान्न तस्य पूर्णतेति चेत्तत्राऽऽह। देवइति॥१२७६॥

घ्नन्तीवाविद्यया यद्वन्मन्यते स्वप्नभूमिगः॥
देवो राजेव चास्मीति मोहादेवं क्रियाफलम्॥१२७७॥

सर्वस्य चिन्मात्रत्वं पूर्णमेव विद्याफलमिति स्थिते स्वप्ने दृश्यामानदेवत्वादेर्गतिमाह। घ्नन्तीवेति। यथा स्वप्नद्रष्टा हननादिकर्मफलमविद्ययाऽनुभवत्येवं देवत्वाद्यपि तत्फलंमोहादेव पश्यत्यतो न तस्य विद्याफलतेत्यर्थः॥१२७७॥

अहमेवेति न स्वप्नःसाक्षाद792त्राऽऽत्मवस्तुनः॥
वोधेऽविद्यासहायत्वमिह त्वात्मैव निर्द्वयः॥१२७८॥

तर्हि सर्वस्य चिन्मात्रत्वमपि न तत्फलं स्वप्नदृष्टत्वात्तद्दृष्टहननादिवदित्याशङ्क्याऽऽह। अहमिति। यत्सर्वस्य चिन्मात्रत्वमत्र स्वप्ने भाति न तदितरस्वप्नवन्मिय्येवशब्दं विना साक्षादेव सर्वभावश्रवणात्तस्य चाऽऽत्मत्वेन वस्तुत्वादित्यर्थः। जाग्रतिदृष्टदेहात्मत्ववदत्रापि दृष्टं सर्वात्मत्वं मिथ्येति चेन्नेत्याह। बोध इति। जागरे हेतुभूताविद्या-साहित्यं देहात्मत्वस्यास्ति स्वप्ने केवलमात्मैव विद्याफलभूतो वर्तते वासनारूपाविद्याभानेऽपि स्थूलाविद्याया जाग्रद्वदभानादतो नात्र मिथ्याशङ्केत्यर्थः। यद्वा जाग्रतिबाधकबोधसाहित्यं देहात्मत्वादेरस्ति स्वप्ने त्वात्मैव केवलो बाधकविधुरस्तिष्ठत्यतःस्वाप्नः सर्वभावो न मिथ्येत्यर्थः॥१२७८॥

यावत्किंचिदविद्योत्थमिदमा तदनूद्यते॥
यथाव्याख्यातमैकात्म्यमहमित्यभिधीयते॥१२७९॥

सोऽस्येत्यादि व्याख्यायाहमेवेत्यादिवाक्यार्थं सोपस्कार793मधिकविवक्षयाऽनुवदन्नादौपदद्वयार्थमनुवदति। यावदिति। यथाव्याख्यातं पूर्णत्वेनोक्तमित्यर्थः॥१२७९॥

शरीरान्तमिन्दं रूपं साधिभूताधिदैवतम्॥
प्रतीच्यविद्ययाऽध्यस्तमहमैतद्विशेष्य794ते॥१२८०॥

कथमिह विशेषणविशेष्यतेत्याशङ्क्याहमो विशेषणत्वमिदमश्च विशेष्यतेत्याह।**शरीरान्तमिति॥**१२८०॥

अन्वयव्यतिरेकाभ्यां यथोक्ताभ्यां पदार्थयोः॥
विज्ञातयोरिदं वाक्यमहमेवेदमित्यतः॥१२८१॥

किमर्थं विशेषणविशेष्यार्थज्ञानं तत्राऽऽह। अन्वयेति। चातुर्थिकान्वयादिना पदार्थज्ञाने वाक्यप्रवृत्तेस्तदर्थज्ञानोपयोग तदिष्टमित्यर्थः॥१२८१॥

बाध्यबाधकयोरेवं ज्ञातयोरुक्तवर्त्मना॥
प्रतीचि जायते ज्ञानं वाक्यादज्ञानहानिकृत्॥१२८२॥

पदार्थज्ञानमनूद्य तत्फलं वाक्यार्थज्ञानमनुभाषमाणस्तत्फलमाह। बाध्येति। इदमोबाध्यत्वमहमश्च बाधकत्वमिति विवेकः। एवंशब्दार्थमाह। उक्तेति॥१२८२॥

ज्ञानाद्ध्वस्ते हि तमसि ध्वस्ते द्वैते सहेतुके॥
सर्वः कृत्स्नो भवेदात्मा मनोवाचामगोचरः॥१२८३॥

कारणध्वंसस्य कार्यध्वंसे कारणत्वद्योतको हिशब्दः। हेतुशब्दो निमित्तविषयः॥१२८३॥

स एष पर उत्कर्षो विद्यायाः संप्रदर्शितः॥
संप्रसाद इदं सर्वमात्मनैवावशिष्यते॥१२८४॥

अहमेवेत्यादेरर्थमनुभाप्य सोऽस्येत्यादेरप्यनुभाषते। स इति। अधिकविवक्षयोक्तमनूद्याधिकमाह। संप्रसाद इति। अविद्याकार्यमिदमोच्यते॥१२८४॥

एक आत्मेति तद्वद्धीः स्वप्नजाग्रदवस्थयोः॥१२८५॥
अविचारितसंसिद्धिस्तथैवानात्मधीरपि॥
व्यभिचारस्वभावोक्ता प्रत्यगात्मैकसाक्षिका॥१२८६॥

आत्ममात्रत्वेन सर्वावशेषात्तदा सोऽद्वयश्चेत्पूर्वावस्थयोः सद्वयः स्यादित्याशङ्क्याऽऽह। एक इति। तद्वत्सुषुप्ते यथाऽऽत्माऽद्वयस्तथेत्यर्थः। श्रुत्यादेरुदेतीति शेषः।अनात्मनोऽपि तत्र भानात्तन्नाऽऽत्माद्वयमिति चेत्तत्राऽऽह। अविचारितेति। श्रुत्या

द्युत्थाद्वयात्मधीवदनात्मधीरप्यध्यक्षादिभ्यो जाता व्यभिचारस्वभावा795 स्वानुभवसिद्धा न हिजाग्रदनात्मधीःस्वप्नादावनु-गच्छति नापि स्वाप्नी सा जागरादौ तस्मादुक्ताऽनात्मधीः.संवेद्याऽनिर्वाच्याऽविद्यैवेत्यात्माद्वैतसिद्धिरित्यर्थः॥१२८५॥१२८६॥

व्यभिचारिमतिष्वेवं बुद्धिरव्यभिचारिणी॥
व्यभिचारित्वसंसिद्धिहेतुरैकात्म्यनिष्ठिता॥१२८७॥

व्यभिचारित्वेनानात्मनो मृषात्वादात्मनोऽद्वयत्वं चेत्तस्यापि चिदात्मनः स्वापादौव्यभिचारित्वान्मृषात्वे शून्यमेवाद्वयमित्याशङ्क्याऽऽह। व्यभिचारीति। एवमित्यनुभवानुसारोक्तिः। व्यभिचारिणीनां धियां व्यभिचारित्वसाधकान्तराभावादव्यभिचारिणी संविदद्वयात्ममात्रतया स्थिताऽऽस्थेयेत्यर्थः॥१२८७॥

सत्यामपि त्वविद्यायां प्रमाणा796नुगमात्पुरा॥
वास्तवं वृत्तमीदृ797ङ्नः सिद्धं ह्यनुभवाश्रयम्॥१२८८॥

यथोक्तसंवित्सिद्धौ फलितमाह। सत्यामिति। पुरेति सुषुप्तिकालोक्तिः। अनुभवाश्रयमनुभवगम्यमिति यावत्। ईदृगित्यव्यभिचारित्वाद्वयत्वाद्युक्तिः। तथाविधं तु सर्वोपनिपत्प्रसिद्धमिति वक्तुं हिशब्दः। अवस्थात्रयेऽप्यद्वयमात्मवस्तु स्वीकर्तव्यं द्वैतमिथ्यातायाःसाधितत्वादसत्यामविद्यायामद्वयं वस्तु किमु798 वक्तव्यमिति भावः॥१२८८॥

अविद्याविद्ययो रूपं कार्यं चापि समासतः॥
व्याख्यातमेवं मानानां प्रा799क्सूतेरनुभूतितः॥१२८९॥

अहमेवेदमित्यादिवाक्यार्थं प्रसङ्गप्राप्तं समाप्य वाक्यव्याख्यानमनुवर्तयन्नतिच्छन्दावाक्यस्य संबन्धं वक्तुं वृत्तं कीर्तयति। अविद्येति। प्रागिति स्वप्नसुषुप्त्योरुक्तिः। अनुभूतिः श्रुतेरुपलक्षणम्॥१२८९॥

अनात्मवस्तुमानानां प्रागनात्माभिसंगतेः॥
स्वतःसिद्धात्ममेयोत्थरूपतैव प्रतीयते॥१२९०॥

प्राक्प्रमाणानां प्रसूतेरविद्यादिदर्शनमिति वदता स्वीकृतमनात्मवस्तु तन्मानं चेत्याशङ्क्याऽऽह। अनात्मेति। तत्र मानत्वेनेष्टाध्यक्षादीनां तत्संबन्धात्पूर्वमेव स्वसाधकस्वतन्त्र800भूतप्रतीचा संबन्धात्तेन मेयेनाभिव्यक्ताकारता801 प्रतीयते तस्मादात्मन्येव तेषां मानतेत्यर्थः॥१२९०॥

चिद्रूपैरेव तैः सद्भिरनात्मार्थोऽपि शक्यते॥
प्रमातुं तदृतेऽनात्मा ह्यन्धकारप्रनृत्तवत्॥१२९१॥

प्रत्यक्षादिभिरनात्मवदात्मनोऽपरिच्छेदात्कथं तेषां तत्र मानतेत्याशङ्क्याऽऽह।

चिद्रूपैरिति। तेषां स्वार्थवज्जाड्यात्स्वतोऽसाधकत्वाच्चिद्व्याप्तैरेव तैः स्वार्थोऽनात्माप्रमातुं शक्यते तद्रूपाहते जडैर्मानैरन्धकार802स्थनृत्तवदर्थस्य दुर्ज्ञानत्वात्तस्मात्तेषां चिदात्म803ापेक्ष804त्वमस्तीत्यर्थः। चिद्व्याप्तिमन्तरेण जडस्य घटवदसाधकत्वं दीपस्यापि तद्व्याप्तस्यैवसाधकत्वोपगमादिति हिशब्दार्थः॥१२९१॥

अनात्माऽपि विनाऽऽत्मानं नैवानात्मायते यतः॥
अवस्तुत्वान्निरात्मत्त्वाद्वन्ध्यासूनुनृशृङ्गवत्॥१२९२॥

चिद्रूपैरध्यक्षादिभिरनात्मदृष्टावपि तद्दृष्टेरद्वैतहानिरित्याशङ्क्याऽऽह। अनात्माऽपीति। अनात्ममानवत्तदर्थोऽनात्माऽप्यात्मानमनपेक्ष्य न स्वातन्त्र्येण सिध्यत्यतो नाद्वैतहानिरित्यर्थः। स्वातन्त्र्येणानात्मासिद्धौ हेतुमाह। अवस्तुत्वादिति। एकस्माद्वस्तुनोऽन्यत्वेनावस्तु805नोऽपि स्यादित्याशङ्क्याऽऽह। निरात्मत्वादिति॥१२९२॥

जाग्रत्स्वप्नसुषुप्तेषु त्वात्माविद्या मृषा सती॥
व्यवहारपथं प्राप्ता स्वतःसिद्धात्मसाक्षिका॥१२९३॥

द्वैतस्य तर्हि शून्यत्वोपगतेरविद्यापक्षक्षतिस्तत्राऽऽह। जाग्रदिति। आत्माविद्यामानमेयाद्यात्मना विवर्तमानेति शेषः॥१२९३॥

सर्वोऽस्मीति हि विद्येयमविद्याऽतोऽन्यदर्शनम्॥
उभयं संविदायत्तं दर्शनं प्राक्प्रमागमात्॥१२९४॥

प्रसङ्गप्राप्तमद्वैतभङ्गचोद्यमुपमृद्य वृत्तानुद्रवणं पूर्ववृत्तं स्मारयति। सर्व इति। सर्वभावदर्शनं विद्येति ब्रह्मकण्डिकायां प्रस्तुतमिति हिशब्दार्थः। उभयं विद्याविद्याद्वयंतत्कार्य चेत्यर्थः॥१२९४॥

एषोऽस्य परमो लोको यः सर्वोऽस्मीति दर्शितः॥
अतः परं परावस्था निरविद्या प्रदर्श्यते॥१२९५॥

विद्याकार्यस्य सर्वात्मभावस्य स्वप्ने दर्शितत्वात्तद्गतहननादिवन्मिथ्यात्वमाशङ्क्योक्तंपरिहारं स्मारयति। एषोऽस्येति। स्वप्नदृष्टस्यापि सर्वात्मत्वस्य सत्यत्वे हेतुमाह।अत इति। स्वप्नोक्त्यनन्तरमिति यावत्। निरविद्या व्यक्ताविद्याहीनेत्यर्थः। यः स्वप्नेसर्वभाव उक्तः स सुषुप्तेऽप्यतिच्छन्दवाक्येनोच्यतेऽतः सर्वभावस्याबाध्यतया प्रतिपाद्यस्य सत्यतेति भावः॥१२९५॥

अनाप्तका806ममस्योक्तमात्माविद्यैकहेतुकम्॥
रूपं पूर्वमिह807 त्वस्य ध्वस्ताविद्यमथोच्यते॥१२९६॥

पूर्वमपि सर्वभावो दर्शितश्चेत्किमतिच्छन्दवाक्येनेत्याशङ्क्य वृत्तमनूद्योक्तमेव व्यनक्ति।

अनाप्तेति808। पूर्वमहमेवेदमित्यस्मात्प्राक्तनश्रुताविति यावत्। व्यक्ताविद्यातज्जहीनंस्वप्ने संक्षिप्तमपि सर्वात्मत्वमतिच्छन्दवाक्येन सुषुप्ते स्पष्टी क्रियत इत्याह। इह809त्विति। अस्येति षष्ठीभ्यामात्मा निर्दिश्यते॥१२९६॥

छन्दः कामोऽधिकारात्स्यात्साहचर्याच्च पाप्मना॥
अतिक्रान्तं यतश्छन्दमतिच्छन्दमिदं ततः॥१२९७॥

अतिच्छन्दवाक्यतात्पर्यमुक्त्वा तत्पदानि व्याकुर्वश्छन्दशब्दार्थमाह। छन्द इति।यद्यपि सान्तश्छन्दःशब्दो गायत्र्यादिच्छन्दोवाची तथाऽप्ययमकारान्तश्छन्दशब्दःकामवचनो न कंचन काममिति कामस्य प्रकृतत्वात्तत्प्रयोज्य-कर्मवाचिपाप्मपदेन सहपाठाच्चेत्यर्थः। अतिशब्दार्थं वदन्नतिच्छन्दपदं व्युत्पादयति। अतिक्रान्तमिति॥१२९७॥

विवृतिश्छान्दसी ज्ञेया लक्षणासंभवादिह॥१२९८॥
पाप्मशब्देन चात्र स्याद्धर्माधर्मपरिग्रहः॥
पाप्मनो विजहातीति तथाचैव810 पुरोदितम्॥१२९९॥

तर्हि दैर्घ्यं किमिति प्रयुज्यते तत्राऽऽह। विवृतिरिति। इहेति प्रकृतप्रयोगोक्तिः।किमित्यत्र च्छान्दसं दैर्ध्यमिष्टं मुख्यमेव किं न स्यादित्याशङ्क्य रूपपरत्वादतिच्छन्दवचनस्य दैर्घ्यप्रापकाभावादित्याह। लक्षणेति। अपहतपाप्मेत्यत्र पाप्मशब्दार्थमाह।पाप्मेति। अधर्मे निरूढोऽयं कथं धर्ममपि ब्रूयादित्याशङ्क्याऽऽह। पाप्मन इति॥१२९८॥१२९९॥

अपेतकारकत्वादिहेतोरज्ञानतो हतेः॥
धर्माधर्मादिपाप्मानो रूपमात्मन उच्यते॥१३००॥

सदाऽपहतपाप्मेति भयहेतोश्चलङ्घनात्॥
आत्मनोऽस्याभयं रूपं सदाऽनस्तमितोदितम्॥१३०१॥

तथाऽपि पापोऽहं पापकर्माऽहं पापात्मा पापसंभव इति प्रसिद्धेरात्मा कथमपहतपाप्मेत्याशङ्क्याऽऽह। अपेतेति। क्रियाकारकफलभेदहेतुरबोधो यस्मात्प्रतीचो वस्तुतोऽपगतस्तस्य प्रतीचः प्रातीतिकानाद्यज्ञानाच्छन्नत्वात्कामादिरात्म-स्वरूपमुच्यते तद्धर्मादियोगस्याज्ञानजत्वात्तद्रूपं सदा तद्धीनमेवान्यत्र धर्मादित्यादिश्रुतेरित्यर्थः। अभयं रूपमित्यस्यार्थमाह। भयेति। सुषुप्ते विक्षेपकाज्ञानाभावादात्मरूपं कूटस्थमभयं स्थितमित्यर्थः॥१३००॥१३०१॥

वास्तवेनैव वृत्तेन ज्ञेयका811र्यसमाप्तितः॥
अतः सर्वं कृतं ज्ञानं नातोऽन्यदवशिष्यते॥१३०२॥

अतिच्छन्दवाक्यार्थज्ञानफलमाह। वास्तवेनेतिपुरुषान्न परं किंचिदित्यादिश्रुतेस्तज्ज्ञाने ज्ञातव्यान्तरादेरसत्त्वात्कृत-कृत्यतेत्यर्थः॥१३०२॥

यत एवमतो यावत्किंचित्कार्यान्तरायकम्॥
मोहव्यवहितं वा यत्प्राप्तं तद्ब्रह्मबोधतः॥१३०३॥

आत्मातिरिक्तमपि कार्यं ज्ञेयं च भाति तत्कथं तदभावः कथं वा पुरुषार्थत्वंविनाऽऽत्मनो ज्ञेयत्वं तत्राऽऽह। यत इति। आत्मातिरिक्तं सर्व वाचारम्भणमात्रमात्माचानतिशय सुखत्वात्पुरुषार्थ इत्येवं यतः स्थितमतो यावत्किंचित्कार्यान्तरं ज्ञेयान्तरं वातद्ब्रह्मणः प्रत्यक्त्वेन बोधात्प्राप्तमेवेत्यतिच्छन्दवाक्यार्थवित्कृतार्थ इत्यर्थः॥१३०३॥

कामकर्ममहामोहरहितं रूपमात्मनः॥
श्रुत्या प्रदर्शितं साक्षात्करविन्यस्तबिल्ववत्॥१३०४॥

स्त्रीवाक्यसंगतिं वक्तुं वृत्तं कीर्तयति। कामेति। मोहस्य महत्त्वमितरापेक्षयसंसारं प्रति प्रधानत्वम्॥१३०४॥

स्वयंज्योतिष्ट्वमुक्तं यदात्मनः प्राक्प्रयत्नतः॥
तदप्यात्मन आगामि शङ्क्यते कामकर्मवत्॥१३०५॥

संबन्धं वक्तुकामश्चोदयति। स्वयमिति। वेद्यत्वशङ्कानिरसनं प्रयत्नः॥१३०५॥

यस्मात्सुषुप्त आत्माऽयं नाऽऽत्मानं नाप्यनात्मनः॥
जाग्रद्वद्वेत्ति तेनास्य चैतन्यं कामकर्मवत्॥१३०६॥

निर्बीजाशङ्काऽतिप्रसङ्गिनीत्याशङ्क्याऽऽह। यस्मादिति॥१३०६॥

नैतदेवं यतो भेदज्ञानं मोहोत्थकारक—
संश्रयादेव न पुनर्मोहाभावे तदिष्यते॥१३०७॥

परिहरति। नैतदिति। चैतन्यस्याऽऽगन्तुकत्वं वदता सुप्तावसत्त्वमिष्टं तत्र हि किंस्वरूपज्ञानं निषिध्यते किंवा विशेषज्ञानं नाऽऽद्यो यः सुप्तः सोऽहमित्युत्थितस्य प्रतिसंधानविरोधात्पश्यन्वै तन्न पश्यतीति च श्रुतेर्नेतरस्तस्यान्वय-व्यतिरेकाभ्यां मोहोत्थकारकजन्यत्वात्सुषुप्ते चाज्ञोऽहमितिव्यक्ताज्ञानाभावात्कारकग्रामस्य च दूरोत्सारितत्वात्तत्रतन्निषेधस्येष्टत्वादित्यर्थः॥१३०७॥

यत्र वा अन्यदित्येवं भेदज्ञानमभाषत॥
सत्येव प्रत्यगज्ञाने तस्याज्ञानसम812न्वयात्॥१३०८॥

यत्राज्ञानं तत्र विशेषज्ञानमित्यन्वये मानमाह। यत्रेति। तत्र तस्य भेदज्ञानस्येति यावत्॥१३०८॥

यत्र त्वस्येति विध्वस्त आत्माज्ञाने प्रबोधतः॥
तत्केन कमिति श्रुत्या भेददृष्टिर्निषिध्यते॥१३०९॥

यत्र नाज्ञानं तत्र न विशेषज्ञानमिति व्यतिरेके मानमाह। यत्र त्विति। यत्रत्वस्येत्युपक्रम्य तत्केन कमिति श्रुत्येति संबन्धः॥१३०९॥

एकत्वमेव तेनात्र भेदादर्शनकारणम्॥
स्त्रीपुंदृष्टान्तवचसा तदेतत्प्रतिपाद्यते॥१३१०॥

सुषुप्ते विशेषज्ञानाभावे हेत्वन्तरमाह। एकत्वमिति। तेन परेण जीवस्यैकत्वं सुप्तौविशेषज्ञानाभावे हेतुरिति यावत्813। तत्र स्त्रीवाक्यमवतारयति। स्त्रीति। तदेतदेकत्वंविशेषादर्शने कारणमित्यर्थः॥१३१०॥

चेतो814नुरागसिद्ध्यर्थं प्रिययेति विशेषणम्॥
द्विष्टायां सत्यपि स्त्रीत्वे चेतो नैवानुरज्यते815॥१३११॥

दृष्टान्तं व्याकुर्वन्विशेषणकृत्यमाह। चेत इति। सति स्त्रीत्वे तद्दृष्ट्या चेतोनुरागयोगात्कृतं विशेषणेनेत्याशङ्क्याऽऽह। द्विष्टायामिति॥१३११॥

अतीव कामवशगः स्त्रीगुणोपेतया स्त्रिया॥
प्रियया कामयन्त्या च परिष्वक्तः पुमानिह॥१३१२॥

तर्हितस्यां प्रीतिसत्तामात्रेण चेतोनुरागसिद्धेः स्त्रीगुणानां सुभूरित्यादीनां व्यर्थतेत्याशङ्क्य वाक्यं योजयति। अतीवेति। न चोक्तस्त्रीपिण्डे स्वप्रीतिमात्रेण चेतोनुरागःफलवानिति विशिनष्टि। कामयन्त्येति। इहेति परिष्वङ्ग-फलमवाच्यं कर्मोच्यते।पुमान्न वेतीति संबन्धः॥१३१२॥

परिष्वक्तगिरा चात्र व्यामिश्रीभाव उच्यते॥
पृक्तावयवयोः प्रीत्या स्त्रीपुंसोरपरस्परम्॥१३१३॥

उत्पन्नसंभोगफलः पुमान्मैथुनकर्मणि॥
स न वेत्ति यथा बाह्यं सुखाविष्टो न चाऽऽन्तरम्॥१३१४॥

परिष्वक्तशब्दस्य विवक्षितमाह। परिष्वक्तेति। अत्रेति वाक्योपादानम्।व्यामिश्रीभावः स्त्रीलक्षणे पुरुष-लक्षणस्यान्तरनुप्रवेशः। अथैवं कुर्वतोरनयोर्मध्ये किमितिपुमान्बाह्यमान्तरं वा न वेत्ति तत्राऽऽह। पृक्तेति। द्वयोरुक्ते कर्मणि तत्फले तदधीनाज्ञानसाम्येऽपि प्राधान्यात्पुंसो निर्देशः॥१३१३॥१३१४॥

परिष्वाङ्गाद्यथा पूर्वं वेद बाह्यान्तरं स्फुटम्॥
परिष्वक्तस्तु नैवं स वेद बाह्यं न चाऽऽन्तरम्॥१३१५॥

संबन्धाधीनसुखावेशादज्ञानमिति कुतो नियम्यते स्वाभाविकमेव तत्किं न स्यादतआह। परिष्वङ्गादिति॥१३१५॥

तमव्यवहितैकात्म्यस्तथाऽविद्योत्थकार्यगः॥
वेद बाह्यं जगत्सर्वं स्वं चाऽऽत्मानं तमस्विनम्॥१३१६॥

अपरिष्वक्तस्य बाह्यान्तरार्थधीवदनिवृत्ताज्ञानतज्जस्य विशेषधीरिति दार्ष्टान्तिकमाह।तम इति॥१३१६॥

कार्यकारणरूपः संस्तद्विरुद्धैकरूपिणा॥
परिष्वक्तः पुमान्प्राज्ञे प्राज्ञेनाऽऽत्माऽयमात्मना॥१३१७॥

परिष्वक्तस्य विशेषाज्ञानवद816व्यक्ताज्ञानतज्जस्य न विशेषज्ञानमिति वदन्नेवमेवेत्यादियोजयति। कार्येति। सोपाधिकः पुरुषः सुषुप्ते निरुपाधिकब्रह्मात्मनैक्यं गतोऽव्यक्ताज्ञानतज्जो न विशेषं पश्यतीत्यर्थः॥१३१७॥

तमस्विनि निवृत्तेऽस्मिन्देहान्ते प्रत्यगात्मनि॥
वितमस्कात्मना योगे स्वप्नजाग्रत्क्रियाक्षये॥१३१८॥

कथं निरुपाधिकेन ब्रह्मणैक्यं स्वापे सिध्यति तत्राऽऽह। तमस्विनीति। जाग्रत्स्वप्नभोगप्रदकर्मक्षये यः प्रत्यगात्मा तमस्वी तस्मिन्बुद्ध्यादौ देहान्ते विषयेऽभिमानध्वस्तौ वितमस्कब्रह्मरूपेणैक्यात्मसंयोगो भवति तस्मिन्सति न किंचिज्जानाति सतिसंपद्य न विदुरित्यादिश्रुतेरित्यर्थः॥१३१८॥

अविद्याऽन्वेति कार्यं स्वं न त्वात्मानमकार्यतः॥
कार्यं स्वकारणस्थं च न त्वात्मस्थमकारणात्॥१३१९॥

प्राज्ञस्य वितमस्कत्वं प्राज्ञः कारणबद्धस्त्विति श्रुतेरसिद्धमिति चेन्नेत्याह। अविद्येति। आत्मानं नाविद्याऽनुगच्छतीत्यत्र हेतुमाह। अकार्यत इति। सा कार्यमनुगच्छन्ती तद्वाराऽऽत्मानमप्यनुगच्छति तत्कार्यवुद्ध्यादेरात्मस्थत्वादित्याशङ्क्याऽऽह।कार्यमिति। बुद्ध्यादि नाऽऽत्मानमन्वतीत्यत्र हेतुमाह। अकारणादिति। अज्ञानतज्जयोरन्योन्यमेव योगो नाऽऽत्मनेति समुदायार्थः॥१३१९॥

आत्माभासोऽपि योऽज्ञाने तत्कार्ये चावभासते॥
कार्यकारणतारूपस्तमप्येषोऽतिवर्तते॥१३२०॥

अविद्यातत्कार्यस्याऽऽभासेन संबन्धादात्मनस्तद्द्वाराऽविद्यादिनाऽपि स स्यादित्याशङ्क्याऽऽह। आत्मेति॥१३२०॥

कूटस्थात्मानुरोधित्वात्तावन्मात्रात्मकत्वतः॥
न कार्यं कारणं चातः कटाक्षेणापि वीक्षते॥१३२१॥

आत्मनः सौषुप्तस्य कारणस्थाभासेन कारणतारूपेण कार्यस्थाभासेन च कार्यतारूपेणासंबन्धे हेतुमाह। कूटस्थेति। तदनुरोधिनस्ततो भेदो दर्पणानुरोधिमुखवदित्याशयाऽऽह। तावन्मात्रेति। तदेव तदनुरोधित्वं यत्तन्मात्रत्वं ; मुखस्य दर्पणानुरोधित्वं817चौपचारिकमतस्तस्यान्यासंबन्धात्तदात्मा सुषुप्तोऽपि न तत्संबन्धीत्यर्थः। अन्यासंबन्धेलब्धमर्थमाह। नेति॥१३२१॥

विज्ञानात्मा परिष्वक्तः प्राज्ञेनैव परात्मना॥
भेदकरणविध्वस्तौ भेदधीर्विनिवर्तते॥१३२२॥

सुषुप्ते पुंसोऽतमस्कब्रह्मैक्यमुक्तमुपसंहरति। विज्ञानात्मेति। एकत्वहेतोः साध्यंनिगमयति। भेदेति। तत्कारणं व्यक्ताज्ञानं तस्य स्वापे ध्वंसात्तत्र विशेषधीध्वस्तिरित्यर्थः॥१३२२॥

यस्मादेवमतः प्राह न बाह्यमिति नः श्रुतिः॥
ऐकात्म्यमात्रावसितेर्न वेदान्तर्बहिस्तथा॥१३२३॥

उक्तेऽर्थे वाक्यं पातयति। यस्मादिति। यस्मादेवमित्यस्यैवार्थं स्फुटयति। ऐकात्म्येति। श्रुतेरर्थमाह। नेति॥१३२३॥

क्रियाकारकसंभेदहेतौ सत्यसतीदृशम्॥
सर्वदैवाऽऽत्मनो रूपं निरस्ताशेषभेदकम्॥१३२४॥

सुप्तो न वेदेति विशेषणादवस्थान्तरे विशेषधीरिति सविशेषत्वमाशङ्क्याऽऽह।क्रियेति। तद्धेतुरभिव्यक्तमज्ञानम्। ईदृशमित्यस्य व्याख्या निरस्तेति॥१३२४॥

नाऽऽत्मवृत्तमपेक्ष्येदं नापि बाह्यस्य वस्तुनः॥
क्रियाकारकवद्वस्तु किंचिदीक्षामहेऽमितेः॥१३२५॥

क्रियादिसंभेदो जागरादौ भाति न वा भाति चेत्सुप्तौ तदभावात्सविशेषता न चेदनुभवविरोध इत्याशङ्क्याऽऽह। नाऽऽत्मेति। असङ्गमद्वितीयं कूटस्थं चिदेकतानमात्मवृत्तं,न तदपेक्ष्य द्वैतं भाति, नाप्यनात्मनो वृत्तं जडत्वमवस्तुत्वमपेक्ष्य ततो द्वैतप्रमित्यभावे न तत्प्रतीतिरिष्टेति भावः॥१३२५॥

सर्वमन्यानपेक्षं सत्स्वात्ममात्रतयेक्षितम्॥
ऐकात्म्यतो हिरुग्रूपं न वस्तूत्प्रे818क्ष्यतेऽण्वपि॥१३२६॥

आत्मवृत्तमपेक्ष्य द्वैतं न प्रामाणिक मित्येतत्प्रतिपादयति। सर्वमिति। यथा सर्वमन्यानपेक्षं स्यात्तथाऽऽत्ममात्रतया यदा दृष्टं तदैकस्मादात्मनः सकाशाद्भिन्नं सत्किंचिदपि नोपलभ्येत तस्मादात्मवृत्तानुसारान्न प्रामाणिकी द्वैतधीरित्यर्थः॥१३२६॥

आपेक्षिकं तु यद्रूपं तन्मिथ्येत्युपपादितम्॥
स्वतो यद्वस्तुतो नास्ति तत्कुतोऽन्यव्यपेक्षया॥१३२७॥

अनात्मवृत्तापेक्षयाऽपि तद्धीरप्रामाणिकीति साधयति। आपेक्षिकं त्विति। उक्तंप्रकारं स्मारयति। स्वत इति। आगन्तुकस्य रजतादिवन्मिथ्यात्वमावश्यकमित्यर्थः॥१३२७॥

अतः सर्वानपेक्षं यत्स्थमहिम्नैव सिध्यति॥
तदेव परमार्थं स्याद्वस्त्वैकात्म्यस्वलक्षणम्॥१३२८॥

द्वैतमिथ्यात्वेऽवशिष्टमाचष्टे। अत इति। सर्वानपेक्षत्वे हेतुः819स्वमहिम्नेति।शून्यव्यावृत्त्यर्थं वस्तुविशेषणम्। ताटस्थ्यं व्युदस्यति। ऐकात्म्येति॥१३२८॥

यस्मादेवमतः प्राह तद्वा अस्येति नः श्रुतिः॥
उक्तात्मवस्तुनो रूपं कामाविद्यादिवर्जितम्॥१३२९॥

सुषुप्ते विशेषज्ञानाभावे स्त्रीवाक्यात्सिद्धे सत्यतिच्छन्दवाक्योक्तं युक्तमित्युपसंहरति। यस्मादिति॥१३२९॥

कामकर्मादिवन्नेदं मृत्योर्धर्मो भवेदतः॥
चैतन्यं प्रत्यगात्मैव यस्मादुक्तेन हेतुना॥१३३०॥

सुषुप्ते विशेषज्ञानाभावश्चेज्ज्ञानत्वाविशेषाच्चैतन्यमपि न स्यादित्याशङ्क्याऽऽह।कामेति। उक्तस्वयं-ज्योतिष्ट्वहेतोश्चैतन्यं यस्मादात्मैव तस्मात्कामादिवदज्ञानधर्मतयानाऽऽगन्तुकं तत्कुतः स्वापे न स्यादित्यर्थः॥१३३०॥

आत्मत्वान्न विभागोऽत्र ज्ञातृज्ञानादिलक्षणः॥
अनपास्ततमस्कोऽपि भेदं नाऽऽत्मनि पश्यति॥१३३१॥

चैतन्यस्य स्वात्मत्वे तस्य घटादिज्ञानवत्कारकभेदापेक्षायामद्वैतहानिरित्याशङ्क्याऽऽह। आत्मत्वादिति। कादाचित्कत्वमुपाधिरिति भावः। आत्मनि चैतन्ये ज्ञात्रादिभेदाभावे कैमुतिकन्यायमाह। अनपास्तेति। कर्मकर्तृविरोधो हेतुः कर्तव्यः। ध्वस्ताज्ञानश्च स्वस्मिन्न तं पश्यतीति किं वक्तव्यमिति शेषः॥१३३१॥

अविद्यावर्त्मदृष्ट्यैव ह्यविद्याकार्यवस्तुगम्॥
द्वैतमाभासते व्योम्नि नीलदिङ्मण्डलत्ववत्॥१३३२॥

ज्ञातृत्वादिभेदधियो गतिमाह। अविद्येति। यत्र हीत्यादिश्रुतिमिहानुकूलयितुंहिशब्दः। तत्कार्यं वस्तु बुद्ध्यादि तन्निष्ठमिति यावत्। ज्ञातृत्वादि द्वैतम्॥१३३२॥

निर820विद्यं तु यद्रूपमनन्यापेक्षसिद्धिकम्॥
तद्वा अस्यैतदिति तच्छ्रुत्या निर्वर्ण्यतेऽधुना॥१३३३॥

अतिच्छन्दवाक्योक्तं रूपमागन्तुकं चैतन्यमिति शङ्कां स्त्रीवाक्येन निरस्यातिच्छन्दवाक्यार्थमेवोपस्कर्तुमाप्तकामादि-वाक्यमादत्ते । निरविद्यंत्विति॥१३३३॥

सर्वैकात्म्यमिदं यस्मादात्मनो रूपमीदृशम्॥
तदाविष्क्रियते तस्मात्करविन्यस्तबिल्ववत्॥१३३४॥

अतिच्छन्दवाक्यार्थस्य किमित्याप्तकामवाक्येन स्पष्टीकरणमित्याशङ्क्याऽऽह ।सर्वेति। यस्मादिदमात्मरूपं सर्वस्य कार्यकारणद्वैतस्य कल्पितस्यानुपचरितं स्वरूपं परमानन्दतया परमपुरुषार्थात्मकं च तस्मादाप्तका821मश्रुत्या प्रत्यक्षयोग्यतया तत्प्रतिपादितमित्यर्थः। ईदृशमिति पुरुषा822र्थोक्तिः॥१३३४॥

आत्मनो यदविद्योत्थं रूपं संसारभूमिगम्॥
अनाप्तकामं तत्सर्वमपेक्ष्येदमिहोच्यते॥१३३५॥

आप्तकामादिकं सर्वे वस्तुहृत्तव्यपेक्षया॥
आप्ताप्तव्यादिहीनत्वादानन्दैकात्म्यवस्तुनः॥१३३६॥

आप्तका823मवाक्यस्य विशेषणान्यवतारयति। आत्मन इति। रूपं कार्यकार824णात्मकमव्याकृतसूत्रादिलक्षणमित्यर्थः। श्रुतिः सप्तम्यर्थः। तेषां तात्पर्यमाह। वस्त्विति। आनन्दैकरू825पस्य वस्तुनो वास्तवस्वरूपापेक्षया सर्वभेदहीनत्वाद्युक्तमाप्तकामत्वादीत्यर्थः॥१३३५॥१३३६॥

पुमर्थः कामशब्दार्थो नान्योऽर्थः काम्यते यतः॥
आप्ताशेषपुमर्थोऽयं सर्वसाधननिस्पृहः॥१३३७॥

कामशब्दार्थं सहेतुमाह। पुमर्थ इति। कामशब्दस्योक्तार्थत्वे सोऽनेनाऽऽप्तइतिव्युत्पत्त्याऽन्यस्यैव तथात्वं स्यादित्याशङ्क्याऽऽह। आप्तेति। आत्मत्वेन नित्याप्तेरात्मा पुमर्थतयाऽकाम्यत्वाच्च सर्वानपेक्षः सन्नाप्तश्च कामश्चेत्याप्तकाम इत्यर्थः॥१३३७॥

सत्यकामादिशब्देन यदप्यन्यत्र भाषितम्॥
एतद्वाक्यानुरोधेन व्याख्येयं तदपि स्फुटम्॥१३३८॥

सत्यकामः सत्यसंकल्प इत्यादौ छान्दोग्ये काम826शब्दस्याऽऽत्मसंबन्धिताश्रुतेर्नतच्छब्दस्योक्तार्थतेत्याशङ्कयाऽऽह। सत्येति। इह तावत्स्वरूपसुखं निर्मृष्टनिखिलदुःखं कामशब्दार्थ आत्मकामादिविशेषणात्तथाचैतदनु-साराच्छान्दोग्योक्तमपि नेतव्यंपरविषयत्वेन वाक्ययोरेकत्वात्तस्माद्युक्ताऽत्र कामशब्दस्योक्तार्थतेत्यर्थः। एतद्वाक्यानुसारेण तद्वाक्यव्याख्यानमुचितमेकविषयत्वेनैकवाक्यस्य स्फुटत्वादिति हेतुमाह। स्फुटमिति॥१३३८॥

आत्ममात्रं समुत्सृज्य सत्यत्वं नान्यतो यतः॥
तत्रैव निरधार्येतद्यत्र नान्यदिति श्रुतेः॥१३३९॥

सत्यकामवाक्ये कामशब्दो यथोक्तसुखवाचीत्यत्र हेत्वन्तरमाह। आत्ममात्रमिति। अतो निरतिशय-सुखमात्मतत्त्वंसत्यकामपदवेदनीयमिति शेषः। तदेव कुतःसिद्धमित्याशङ्कय भूमवाक्यादित्याह। तत्रैवेति। छान्दोग्य-श्रुतावेव यत्र नान्यत्पश्यतीत्यादिश्रुत्या दर्शनादिनिषेधे भूमलक्षणमाचक्षाणया प्रत्यगात्मनो भूम्नः सत्यत्वं मुखत्वं चेत्येतन्निर्धारितमित्यर्थः॥१३३९॥

सुखसंविद्धि काम्योऽर्थो बाह्यसाधनसाधनः॥
संविदेव सुखं यस्मादाप्तकाममिदं ततः॥१३४०॥

श्रुत्यन्तरविरोधशङ्कामुन्मूल्याऽऽप्तकामत्वमुपसंहरन्नादौ लोकप्रसिद्धिमाह । सुखेति।बाह्यानि स्रगादीनि साधनानि यस्योत्पादकानि स काम्योऽर्थः सुखसाक्षात्कारः प्रसिद्धइत्यर्थः। तथाऽप्यात्मनि किमायातं तदाह। संविदेवेतिविज्ञानमानन्दमिति श्रुतेरात्मातिरिक्तसुखतत्संविदोरभावादात्मरूपं कर्मधारयादाप्तकाममित्यर्थः॥१३४०॥

कामकामिप्रभेदेन प्रतीचोऽस्याऽऽप्तकामता॥
हिरण्यगर्भवत्किंवा निर्भेदस्येह भण्यते॥१३४१॥

आत्मकामपदमाकाङ्क्षापूर्वकमादाय व्याकरोति। कामेति। इहेति श्रुतिरुक्ता॥१३४१॥

आत्मैव कामा निःशेषा नाऽऽत्मरूपप्रभेदतः॥
आत्मैवेदं सर्वमिति प्रत्यङ्मात्रावशेषतः॥१३४२॥

आत्मनो भेदेन कामा न सन्तीत्यत्र हेतुमाह। आत्मेति। नाऽऽत्मनो हिरण्यगर्भवदाप्तकामत्वमन्वयादिपरिहाण्या सर्वस्याऽऽत्ममात्रताश्रुतेस्तस्मात्तस्य निर्भेदस्यैवाऽऽसकामतेत्यर्थः॥१३४२॥

समस्तव्यस्तताशङ्कामुच्छेत्तुं चोत्तरं वचः॥
अकाममित्यतो ध्वस्तसमस्तव्यस्तरूपकम्॥१३४३॥

अकाममित्यस्यार्थमाह। समस्तेति। वक्ष्यमाणपक्षेण समुच्चयार्थश्चकारः। विशेषणफलमाह। अत इति। कामादिसर्वभेदरहितमात्मरूपं तस्मिन्सत्यपि स्वापादौ तदभावान्न च व्यस्ताभावे तदपेक्षसमस्त-संभवोऽतोऽकामत्वात्तदेकरसमिति भावः॥१३४३॥

आप्तकामात्मकामत्ववचसैव निराकृताः॥
कामाः सर्वेऽकाममिति तथाऽपि पुनरुच्यते॥१३४४॥

पुनरुक्तिं शङ्कते। आप्तेति। तदनर्थकं पौनरुक्त्यादिति शेषः। न च समस्तव्यस्तत्वशङ्कां समुच्छेत्तुमिति वाच्यमाप्तकामादिवचसैव तत्सिद्धेरिति भावः॥१३४४॥

आत्माश्रयत्वं कामानां केचिद्व्याचक्षतेऽबुधाः॥
अतस्तत्प्रतिषेधार्थं भूयोऽकाममितीरणम्॥१३४५॥

पुनरुक्तिमङ्गीकृत्य तस्याः सार्थत्वमाह। आत्मेति। कामकामिविभागे प्रत्युक्ते कथंकामाश्रयत्वमात्मनः शक्यशङ्कमित्याशङ्क्याऽऽह। अबुधा इति। मन्दमतीनां मतनेरासार्थं विशेषणमर्थवदिति फलितमाह। अत इति॥१३४५॥

कामादिहेतुकः शोकः कामाद्यज्ञानहेतुकम्॥
तदभावादथैकात्म्यं शोकान्तरमितीर्यते॥१३४६॥

शोकान्तरमित्यस्यार्थमाह। कामादीति। तदभावात्सुषुप्तौ व्यक्ताज्ञानाभावादित्येतत्॥१३४६॥

यदि वा शोकवद्वस्तु शोकशब्देन भण्यते॥
गुणत्वाच्छोकशब्दस्य मतुपो लुप्तता भवेत्॥१३४७॥

कुतोऽशोकत्वं तदाश्रयसंबन्धादित्याशङ्कामथशब्देनानूद्यार्थान्तरं ब्रुवाणः शोकशब्दार्थमाह। यदि वेति। अन्तःकरणं शोकशब्दितमित्यत्र हेतुमाह। गुणत्वादिति।तद्वाचित्वादिति यावत्। किमिति तर्हि शोकवदिति नोच्यते तत्राऽऽह। मतुप इति। लुप्तता छान्दसीति शेषः॥१३४७॥

शोकार्हवत्पदार्थेभ्यो जात्यन्तरमिदं यतः॥
अहेतुफलरूपत्वाच्छोकान्तरमतो मतम्॥१३४८॥

तथाऽपि किं शोकान्तरं तदाह। शोकार्हेति। आत्मरूपं हेतुफलविलक्षणतयाशोकयोग्य-बुद्ध्यादिभ्योऽर्थान्तरत्वात्प्रामाणिकैः शोकान्तरमधिगतमित्यर्थः॥१३४८॥

शोकस्य प्रत्यगात्मा वा शोकान्तरगिरोच्यते॥
शोकहेतोरपि प्रत्यात्मा स्याच्छोकवान्कथम्॥१३४९॥

द्वैतप्रसक्तिमाशङ्क्यार्थान्तरमाह। शोकस्येति। कथं तर्हि तस्य शोकराहित्यं न हितदात्मा तद्रहितस्तत्राऽऽह। शोकेति। अपिः शोकसमुच्चयार्थः। न हि सर्पस्य रज्जुंविना सत्त्वाभावे तस्यास्तद्वत्त्वं वस्तुतोऽस्तीति भावः॥१३४९॥

अशोकान्तरमिति वा श्रुत्यन्तरसमाश्रयात्॥
अशोकादपरोऽशोकोऽशोकान्तरमितीर्यते॥१३५०॥

अशोकान्तरमितिमाध्यंदिनपाठमुत्थापयति। अशोकेति। तं व्युत्पादयति।अशोकादिति॥१३५०॥

शोकायोग्यः शुचा हीनोऽशोकशब्देन भण्यते॥
यद्वाऽन्तरयते शोकमानन्दैकस्वभावतः॥
शैत्यं हुताशवत्तस्माच्छोकान्तरमिदं भवेत्॥१३५१॥

अशोकशब्दार्थमाह। शोकेति। ईश्वरो मायाविशिष्टः सर्वनियन्ता शोकायोग्यत्वादशोकः केवलश्चिद्धातुरविद्यातज्ज-रूपया शुचा हीनत्वाद्विशिष्टादर्थान्तरत्वेनाशोकान्तरमित्यर्थः। यत्तु काण्वपाठे शोकस्य प्रत्यक्तया शोकान्तरमिति तत्र प्रतीचस्तद्वत्त्वाभावेऽपि तत्त्वापत्तेरित्याशङ्क्यार्थान्तरमाह। यद्वेति। आत्मरूपं शोकं तिरयतीत्यत्रहेतुः। आनन्देति। तस्य तत्तिरस्कर्तृत्वे दृष्टान्तः। शैत्यमिति। दार्ष्टान्तिकं निगमयति। तस्मादिति॥१३५१॥

शोकादेर्जनकं यद्वा तच्छोकान्तं भवेत्तमः॥
तस्यारं छिद्रमेतत्स्याच्छान्दसी वर्णनिह्नुतिः॥१३५२॥

आत्मनः शोकहेतुयोगे सुखत्वेऽपि न सर्वथा तत्तिरस्कर्तृतेत्याशङ्क्यार्थान्तरमाह।शोकादेरिति। तर्हि शोकान्तारमिति स्यान्नेत्याह। छान्दसीति॥१३१२॥

अविद्याकामकर्माणि निःसङ्गत्वस्वभावतः॥
अतिवर्तत आत्माऽयं वस्तुवृत्तानुरोधतः॥१३५३॥

कथमात्मनः शोकहेतुराहित्यमविद्यादिमत्त्वप्रतीतेरित्याशङ्क्याऽऽह। अविद्येति।प्रतीतिविरोधं परिहर्तुं द्वितीय-पादार्थं स्फुटयति। वस्त्विति॥१३१३॥

स्वतो बुद्धं यतो वस्तु स्वतः शुद्धमतोऽद्वयम्॥
स्वतो मुक्तमतः सिद्धमविद्यातज्जहानतः॥१३५४॥

वस्तुवृत्तमेव दर्शयन्नाप्तकामवाक्यार्थमुपसंहरति। स्वत इति॥१३५४॥

यत एवमिदं वस्तु अतिच्छन्दादिलक्षणम्॥
निःशेषध्वान्तसंबन्धव्यतिक्रान्तमिदं ततः॥१३५५॥

अत्रेत्यादेस्तात्पर्यमाह। यत इति॥१३५५॥

जन्यकारणसंबन्धात्कार्यकारणसंगतेः॥
जन्यहेत्वतिवृत्तत्वात्पिताऽप्यत्रापिता ततः॥१३५६॥

प्रतिपदं व्याकुर्वन्नत्र पिताऽपितेत्यस्यार्थमाह। जन्येति। पुत्रस्य कारणं धर्मादितेन संबन्धात्पितापुत्रयोः कार्यकारणत्वोपगमात्सुप्तौ च तत्संबन्धाभावात्तन्निबन्धनकार्यकारणत्वव्यावृत्तेर्जागरादौ पिताऽपि सुषुप्ते भवत्यपिता पुत्रेऽपि तुल्यमेतदित्यर्थः॥१३५६॥

अविद्यैव यतो हेतुः कर्तृत्वस्य न वस्तुतः॥
कर्तृत्वे सति कर्माणि नान्यथाऽकर्तुरात्मनः॥१३५७॥

आत्मनः सुषुप्ते धर्मादिसंबन्धाभावार्थं कर्तृत्वाद्यभावमाह। अविद्येति। व्यक्ताविद्याकर्तृत्वस्य हेतुर्न स्वतस्तदस्ति मोक्षाभावप्रसङ्गान्न च सुप्तौ तादृ827गविद्या तद्भङ्गात्तन्न तदा

कर्तृतेत्यर्थः। तदभावेऽपि कर्मसंबन्धः स्यादिति चेन्नेत्याह। कर्तृत्व इति। अकर्तुरिति च्छेदः। विपक्षे त्वनिर्मुक्तिरिति भावः॥१३५७॥

अविद्यायामतोऽसत्यां नाऽऽत्मनः कर्तृकर्मणी॥
पितृपुत्रादिसंबन्धो नातोऽस्तीह सुषुप्तगे॥१३५८॥

सुषुप्तौ व्यक्ताविद्याभावे फलितमाह। अविद्यायामिति। कर्तृत्वस्यावास्तवत्वमकर्तुःकर्माभावश्चातःशब्दार्थः। कर्मासंबन्धे फलितमाह। पित्रिति॥१३५८॥

असङ्गोऽयं स्वतो यस्मान्नातः केनचिदात्मनः॥
सर्वावस्थासु संबन्धः संबन्धोऽतोऽस्य मोहतः॥१३५९॥

सुषुप्तगविशेषणात्पितापुत्राद्यसंबन्धस्तत्रैव न सदेत्याशङ्क्याऽऽह। असङ्गोऽयमिति। संबन्धबुद्धेर्गतिमाह। संबन्ध इति। वास्तवसंबन्धायोगोऽतःशब्दार्थः॥१३५९॥

शुभकर्माभिसंबन्धः केवलो नास्य वार्यते॥
निषिध्यते यतो योगः कुत्सितेनापि कर्मणा॥१३६०॥

अत्र स्तेन इत्यादेस्तात्पर्यमाह। शुभेति। अस्येति सौषुप्तात्मोक्तिः॥१३६०॥

विप्रहाटकहार्यत्र स्तेनशब्देन भण्यते॥
भ्रूणघ्नसहचारित्वाच्चाण्डालो ब्राह्मणीसुतः॥१३६१॥

शूद्रेण जातो विज्ञेयः प्रातिलोम्योपलक्षणः॥
वरिष्ठब्रह्महा चेह भ्रूणहेत्यभिधीयते॥१३६२॥

स्तेनादिपदानि व्याचष्टे। विप्रेत्यादिना। स्तेनशब्दश्चोरमात्रे भाति कथं विशेषणमित्याशङ्क्याऽऽह। भ्रूणघ्नेति। अनुक्तप्रतिलोमोपलक्षणत्वं चण्डालस्याऽऽह। प्रातिलोम्येति। यथाऽऽह—

“आयोगवश्च क्षत्ता च चाण्डालश्चाधमो नृणाम्।
प्रातिलोम्येन जायन्ते शूद्रादपसदास्त्रयः”इति॥

अन्योऽप्याह—

“ब्राह्मण्यां क्षत्रियात्सूतो वैश्याद्वैदेहकस्तथा।
शूद्राज्जातस्तु चाण्डालः सर्वधर्मबहिष्कृतः”इति॥

ननु भ्रूणघ्ना सह पठितोऽपि स्तेनो ब्राह्मणसुवर्णहर्तेति कुतो नियम्यते तत्राऽऽह। वरिष्ठेति॥१३६१॥१३६२॥

उत्पन्नः क्षत्त्रियायां यः शूद्रेणैव स उच्यते॥
पौल्कसः पुल्कसो ज्ञेयः स्वार्थ एव च तद्धितः॥१३६३॥

पौल्कसं व्याकरोति। उत्पन्न इति। न च

“जातो निषादाच्छूद्रायां जात्या भवति पुल्कसः”।

इति विरोधः। शूद्र्यां ब्राह्मणाज्जातो हि निषादः। यथाऽऽह—

“विप्रान्मूर्धावसिक्तो हि क्षत्रियायां विशः स्त्रियाम्।
अम्बष्ठः शूद्र्यां निषादो जातः पारशवोऽपि च”इति।

तथाच शूद्रायां ब्राह्मणाज्जातो यो निषादो जात्या शूद्रस्तस्मात्क्षत्रियायां जातःपुल्कस इति वचनपर्यवसानादिति भावः। पुल्कससंबन्धी पौल्कसो न पुल्कस एवेत्याशङ्क्याऽऽह। स्वार्थ इति॥१३६३॥

निकृष्टदेहसंबन्धमापकैरपि कर्मभिः॥
असंबद्धः सुषुप्तस्थः कर्महेत्वनभिप्लुतेः828॥१३६४॥

स्तेनादिवाक्यतात्पर्यमुपसंहरति। निकृष्टेति। कर्महेतुरभिव्यक्ताविद्यादि॥१३६४॥

तथैवानभिसंबन्ध आश्रमाख्यैश्च कर्मभिः॥
परिव्राट्श्रमणो ज्ञेयस्तापसाश्रमसंनिधेः॥१३६५॥

श्रमणादिवाक्यतात्पर्यमाह। तथेति। शुभाशुभदेहसंबन्धहेतुकर्मभिरिति यावत्।श्रमणशब्दस्य क्षपणके रूढिमाशङ्क्याऽऽह। परिव्राडिति॥१३६५॥

वर्णाश्रमादिहेतूनां सर्वेषामपि कर्मणाम्॥
उपलक्षणकृज्ज्ञेयः परिव्राट्तापसग्रहः॥१३६६॥

द्वयोरेव ग्रहात्तत्कर्मायोगेऽपि सौषुप्तस्य वर्णाश्रमान्तरकर्मयोगं शङ्कित्वाऽऽह।वर्णेति। आदिशब्देन वयोवस्थादि गृह्यते॥१३६६॥

इत्येवमादयोऽनन्ताः संबन्धा मोहहेतवः॥
नरेण परिसंख्या829तुं न शक्याः कल्पकोटिभिः॥१६६७॥

सौषुप्ते श्रौतसंबन्धाभावेऽपि संबन्धान्तराणि भविष्यन्ति तद्भेदानामानन्त्यादित्याशङ्क्याऽऽह। इत्येवमिति। सर्वेऽपि ते सौषुप्ते पुरुषे निवर्तन्ते तद्धेतुव्यक्ताविद्याभावादिति भावः। आनन्त्यं स्फोरयति। नरेणेति॥१३६७॥

पुण्यापुण्ये हि निखिलसंबन्धस्येह कारणम्॥
प्राज्ञोऽनन्वागतस्ताभ्यां कर्महेत्वसमन्वयात्॥१३६८॥

अनन्वागतमित्यादेरर्थमाह। पुण्येति। इहेत्यात्मोक्तिः। पञ्चमेऽप्युक्तमेतदितिहिशब्दार्थः। स्वापे पुण्यपापाभ्यां पुंसोऽस्पृष्टत्वे हेतुमाह। कर्मेति। अज्ञानोत्थं कारकं तद्धेतुस्तस्य स्वापेऽनन्वयादिति यावत्॥१३६८॥

परं रूपं समापन्नः कर्माविद्यानिमित्तकम्॥
पितृमात्रादिसंबन्धं सुषुप्ते सोऽतिवर्तते॥१३६९॥

तत्र हेतुमाह। परमिति। कर्माद्यनिबन्धनं ब्रह्म यतः स्वापे प्रतिपद्यते सता सोम्यतदा संपन्न इति श्रुतेरतस्तद्गतः पित्रादिसंबन्धहीनः पुरुषो भवतीत्याह। पित्रिति॥१३६९॥

जीवत्येव शरीरेऽस्मिंस्तत्स्थ एव कथं पुनः॥
सर्वसङ्गव्यतीतोऽयं भवतीत्यभिधीयते॥१३७०॥

व्याख्यातमनन्वागतवाक्यं शङ्कोत्तरत्वेन व्याख्यातुं शङ्क्यति। जीवत्येवेति। एतदुत्तरत्वेन वाक्यमवतारयति। अभिधीयत इति॥१३७०॥

यतोऽनन्वागतं रूपं सुषुप्तेऽस्याऽऽत्मनः स्वतः॥
उभाभ्यां पुण्यपापाभ्यां कुतस्तदपि चेन्मतम्॥१३७१॥

व्याचष्टे। यत इति। अतः सर्वसङ्गव्यतीत इति शेषः। कर्मासंब830द्धत्वमप्यसिद्धमिति शङ्कते। कुत इति॥१३७१॥

हृदयातिक्रमाद्यस्मात्तद्धर्मानतिवर्तते॥
कर्मप्रयोजकान्कामांस्तस्मात्सुस्थं यथोदितम्॥१३७२॥

तीर्णो हीत्याद्युत्तरत्वेनाऽऽदत्ते। हृदयेति। यथोदि831तं सुप्तौ कर्मासंबन्धादशेषसंबन्धराहित्यमिति यावत्॥१३७२॥

हृदयस्यैव धर्मास्ते शोककामादयो यतः॥
तीर्णबुद्धिर्हि तद्धर्मांस्तस्मादेषोऽतिवर्तते॥१३७३॥

हृदयस्य शोकानतिक्रामतीत्ययुक्तं शोक832शब्दितकामादीनामात्मधर्मत्वादिति केचितान्प्रत्याह। हृदयस्येति। शोकान्हृदयस्येति संबन्धस्य हृदि श्रिता इति हृदयाश्रितत्वस्यैतत्सर्वं मन इति तादात्म्यस्य च श्रवणान्न तेषामात्मधर्मता किंतु मनोधर्मत्वमतःसुप्तस्तदतिक्रमात्तद्धर्मान्कामादीनतिक्रामतीत्यर्थः। धर्मिसंबन्धाभावे तद्धर्मसंबन्धाभावः सुतरामिति हिशब्दार्थः॥१३७३॥

पुण्यपापाभिसंबन्धः स्वप्नेहृदयसंगतेः॥
वासनामात्रया त्वत्र साऽपि प्राज्ञे निवर्तते॥१३७४॥

स्वप्नवत्सुप्तौ कामाद्ययोगेऽपि कर्मयोगः किं न स्यात्तत्राऽऽह। पुण्येति॥१३७४॥

करणत्वं विहायेह केवलज्ञानमात्रकम्॥
स्वप्न आस्ते मनोरूपं वासनामयविग्रहम्॥१३७५॥

स्वप्ने मनसः सत्त्वात्कथं वासनामात्रया कर्मयोगस्तत्राऽऽह। करणत्वमिति॥१३७५॥

वासनामय एवातो भुङ्क्ते स्वप्ने क्रियाफलम्॥
न हि स्वप्नदृशो योगः स्वप्नेऽन्येनास्ति केनचित्॥१३७६॥

स्वप्ने स्वरूपेण मनो न तिष्ठति चेत्कथं भोगस्तत्राऽऽह। वासनेति। वासनामयत्वंतत्प्रधानत्वं वासनाविग्रहस्य मनसोऽवशेषादित्यतःशब्दार्थः। जागरवत्स्वप्नेऽपि स्थूलोभोगः किं न स्यात्तत्राऽऽह। न हीति॥१३७६॥

स्वाभासवर्त्मनैवाऽऽस्ते जाग्रत्स्वप्नसुषुप्तिषु॥
अविद्याकामकर्मादि बिभर्तीव न तु स्वतः॥१३७७॥

स्वप्नसुप्त्योर्वस्तुतोऽन्येनायोगेऽपि जागरे सोऽस्तीत्याशङ्क्याऽऽह। स्वाभासेति। बुद्ध्यादिस्थचित्प्रतिबिम्ब-द्वारैवाऽऽत्मा सदाऽविद्यादिना युज्यते न स्वतोऽसङ्गत्वश्रुतेरित्यर्थः। आदिशब्देन वासना गृह्यते॥१३७७॥

चैतन्यमपि नैव स्यादात्मनः कामकर्मवत्॥
धर्मानन्वयतः प्राज्ञ इत्येवमभिचोदिते॥१३७८॥

स्त्रीपुंदृष्टान्तवाक्येन परिहारश्च दर्शितः॥
विभागहेत्वसद्भावाज्जाग्रद्वन्नोपलभ्यते॥१३७९॥

यद्वै तन्न पश्यतीत्यादेः संबन्धार्थं वृत्तं कीर्तयति। चैतन्यमिति। धर्मः कामादिस्तद्वच्चैतन्यस्यापि सुप्तौ हेत्वभावेन सत्त्वायोगादिति हेत्वर्थः। उक्तमेव परिहारमनुद्रवति । विभागेति। बाह्यो घटादिरान्तरश्च सुखादिर्विभागस्तस्य हेतुर्व्यक्तमज्ञानं तदभावादिति यावत्। चैतन्यमिति शेषः॥१३७८॥१३७९॥

अविभागात्मतां यातं न पुनः कामकर्मवत्॥
साधितं च प्रयत्नेन स्वयंज्योतिष्ट्वमात्मनः॥१३८०॥

हेत्वन्तरमाह। अविभागेति। अद्वयब्रह्मणैकीभूतमिति यावत्। नासत्त्वमनुपलब्धिहेतुरित्याह। न पुनरिति। तदेव तत्रादृष्टिकारणं किं न स्यात्तत्राऽऽह। साधितंचेति। आत्मनः स्वयंज्योतिष्ट्वंवागादिवदौपचारिकमित्याशङ्क्य तस्यान्यानवभास्यत्वेनतस्य सर्वावभासकत्वान्मैवमित्याह। प्रयत्नेनेति॥१३८०॥

यद्यात्माऽयं स्वयंज्योतिः कामकर्मादिवत्कथम्॥
सुषुप्तेऽस्य स्वभावत्वाज्जह्याच्चैतन्यमित्यतः॥१३८१॥

नास्य धर्मो भवेदेतत्सुषुप्ते तददर्शनात्॥
नाऽऽत्मधर्मो विनष्टत्वात्तस्माच्चैतन्यमत्र तत्॥१३८२॥

तत्र चोदयति। यदीति। आत्मा चिद्रूपश्चेत्कामादिवच्चैतन्यं न त्यजेत्स्वभावस्यत्यागायोगादतश्चैतन्यं नास्य स्वाभाविको धर्मः सत्येवाऽऽत्मनि स्वापे तदभावात्संयोगादिवदागन्तुकत्वेऽपि नासावात्मनः स्वतो धर्मस्तद्धर्मत्वेऽपि तथैव सुप्तौ तन्नाशस्तस्मादात्मा जड एवेत्यर्थः॥१३८१॥१३८२॥

अपि विप्रतिषिद्धं च यत्स्वयंज्योतिरात्मकम्॥
प्रत्यग्वस्तु न वेत्तीति भवतेहाभिधीयते॥१३८३॥

किंचाऽऽदित्योऽप्रकाश इतिवत्स्वयंज्योतिर्न पश्यतीति व्याहतमित्याह। अपीति।इहेति स्वापोक्तिः॥१३८३॥

ऐक्यादनुपलब्धिश्चेदनैकान्तिकता तथा॥
यतोऽभावेऽप्यसंवित्तिश्चैतन्यस्येह दृश्यते॥१३८४॥

स्त्रीवाक्योक्तं समाधिं शङ्कते। ऐक्यादिति। ब्रह्मणैक्यं विद्यमानस्यैव चैतन्यस्यानुपलब्ध्या न नियतमिति दूषयति। अनैकान्तिकतेति। तथेत्यैक्यादनुपलम्भस्वीकारे सतीत्यर्थः। अनैकान्तिकत्वे हेतुमाह। यत इति। लोके पाषाणादौ चैतन्यस्याभावेऽप्यनुपलब्धेरैक्यस्य तत्प्रयोजकत्वं व्यभिचारीत्यर्थः॥१३८४॥

इत्यस्य परिहारार्थं परो ग्रन्थोऽवतार्यते॥
यद्वै तदित्युपक्रम्य प्रत्यग्वस्तुविशुद्धये॥१३८५॥

उत्तरमादत्ते। इत्यस्येति। स्वप्रकाशं तन्न जडमिति तद्विशुद्धिस्तदर्थं चोद्यं समाधेयं तदर्थेन यद्वै तदित्यादि-प्रवृत्तिरित्यर्थः॥१३८५॥

तथा परोऽपि संबन्धः कैश्चिदत्राभिधीयते॥
अशोकान्तरमित्युक्तं याथात्म्यं प्रत्यगात्मनः॥१३८६॥

भाष्योक्तं संबन्धमुक्त्वा भर्तृप्रपञ्चोक्तमुत्थापयति। तथेति। अत्रेति प्रकृतग्रन्थोक्तिः।तच्छेषत्वेन तदीयं वृत्तानुवादं दर्शयति। अशोकेति॥१३८६॥

ज्योतिर्मात्रतयैवाऽऽत्मा सुषुप्ते व्यवतिष्ठते॥
कुतः पुनरिदं सिद्धं विशेषज्ञानसंक्षये॥१३८७॥

ज्योतीरूपमिदं तत्त्वं सुषुप्ते व्यवतिष्ठते॥
उक्तं प्राग्व्यतिरेकेण स्वयंज्योतिष्ट्वमात्मनः॥१३८८॥

याथात्म्यमेव कथयति। ज्योतिरिति। यथाऽऽहुरशोकान्तरमित्युक्तं तदेवास्मिन्काले स्वेनाऽऽत्मना ज्योतिर्मात्रेण भवतीति। उक्तानुवादं चोदयति। कुत इति। उक्तं हि व्यतिरेकेण स्वयंज्योतिष्ट्वमिति। तद्भाष्योक्तं परिहारमाह। उक्तमिति।व्यतिरेकेण विनाऽऽदित्यादिना व्यवहारस्य दृष्टत्वादिति यावत्॥१३८७॥१३८८॥

ननूक्तं प्रागिदं सर्वं विशेषज्ञानमात्मनः॥१३८९॥

अविद्यापक्षपात्येव न तत्स्याच्चित्तिवत्स्वतः॥
नैतदेवं यतोऽदर्शि पूर्वमेत833त्स्फुटं मया॥१३९०॥

पुनश्चोदयति। ननूक्तमिति। सर्वमपि विशेषज्ञानमाविद्यमिति त्वयोक्तं834 न तु तच्चैतन्यवत्स्वतोऽस्त्यहमेवेदं सर्वोऽस्मीत्येतदपि ज्ञानं विशेषज्ञानमेवैतदेव चाऽऽत्मनः स्वयंज्योतिष्ट्वंविशेषज्ञानानां चाभावः सुषुप्तावुच्यतेऽतः स्वयंज्योतिरात्मा तत्रेतिसिद्धवदनुवादासिद्धिरित्यर्थः। उक्तं हि तद्विशेषज्ञानमविद्यापक्षस्यैवेति। परिहरति। नैतदिति॥१३८९॥१३९०॥

सर्वमेवाहमस्मीति यद्यपीदं विशेषवत्॥
विज्ञानं न तथाऽपीदमविद्यापक्षभागिति॥१३९१॥

दर्शितमेव स्फोरयति। सर्वमिति। सर्वोऽस्मीति ज्ञानं विशेषज्ञानमपि नाविद्याक्षपाति तादृग्ज्ञानं स्वापे निवर्तते न तन्मात्रमतः स्वयंज्योतिष्ट्वमात्मनस्तत्राविरुद्धं भवत्ये835तद्विशेषविज्ञानं न त्वविद्येति स्थितेरित्यर्थः॥१३९१॥

नानात्वदर्शनं यस्माद्भयादज्ञानजं मतम्॥
प्रतिपक्षमविद्याया अहमेवेदमित्यतः॥१३९२॥

किं तदविद्यापक्षपातिज्ञानं तदाह। नानात्वेति। तस्मात्तत्स्वापे निवर्तत इति शेषः।यथोक्तं नानात्वदर्शनकार्यरूपं हि भयमविद्येत्युक्तमिति। अहमेवेदमिति ज्ञानस्यापितुल्यमविद्यापक्षपातित्वमित्याशङ्क्याऽऽह। प्रतिपक्षमिति। अहमेवेति ज्ञानमविद्यायाःप्रतिपक्षतया वर्ततेऽहमेवेदं सर्वमस्मीति प्रतिपक्षभूता विद्येत्युक्तत्वादतस्तस्याविद्याजत्वाभावात्स्वापेऽपि तत्स्वरूपभूतमस्तीत्यर्थः॥१३९२॥

तदेतन्मथ्यमानं सदैक्यदर्शनलक्षणम्॥
भवत्यतीव संशुद्धं प्रसन्नं व्यवतिष्ठते॥१३९३॥

अथेदं ज्ञानं विशेषज्ञानत्वाद्घटादिज्ञानवदविद्योत्थमतो न तत्स्वा836पे स्यादित्याशङ्क्याऽऽह। तदेतदिति। मथ्यमानं भेददर्शनाद्विविच्यमानमिति यावत्। तदेतदेकत्वदर्शनं मथ्यमानं सदा शुद्धं प्रसन्नं भवतीति भाष्ये भवतिपदस्यार्थमाह। व्यवतिष्ठतइति। विशेषज्ञानमप्येतद्वस्तुनिष्ठत्वान्नाविद्यापक्षपातीत्यस्योक्तत्वात्स्वापे स्वरूपतया तत्स्थितिरित्यर्थः॥१३९३॥

विशेषदर्शनासूतेरसंबोधस्तदाऽऽत्मनः॥
देदीप्यमाना विज्ञप्तिर्विशेषात्माऽवतिष्ठते॥१३९४॥

स्वप्रकाशचिदात्मत्वेनाऽऽत्मा सुप्तौ स्थितश्चेन्न किंचिदवेदिषमिति कथमुत्थितस्यासंबोधधीरित्याशङ्क्याऽऽह। विशेषेति। तद्वदेव स्वरूपज्ञानमपि तदा न स्यादित्याश-

ङ्क्याऽऽह। देदीप्यमानेतिउक्तं हि स्वेन विशेषविज्ञानात्मना देदीप्यमानो भवतीति। आत्मनः स्वापे कर्तृत्वादि-विशेषज्ञानानुत्पत्तिरेवासंबोधो “विशेषज्ञानानुत्पत्तिरसंबोध”इत्युक्तत्वात्स्वयं त्वहमेवेदमित्येवंरूपज्ञानेनास्तीति समुदायार्थः॥१३९४॥

सुषुप्तस्थानगं रूपं तदेतत्प्राक्प्रदर्शितम्॥१३९५॥

तत्रैतच्छङ्क्यते ज्ञानेऽसंबोधः कथमात्मनः॥
सति स्याच्चेदनाशङ्का स्त्रीपुंदृष्टान्तनिर्णयात्837॥१३९६॥

वृत्तानुवादे प्रासङ्गिकं चोद्यं निरस्यानुवादमुपसंहरति। सुषुप्तेति। ऐक्यदर्शनरूपस्वयंज्योतिष्ट्वेनाऽऽत्मा सुप्तौ तिष्ठतीत्युक्तमित्यर्थः। आत्मनः स्वयंज्योतिष्ट्वे स्थिते चोदयति।तत्रेति। सति स्वरूपज्ञाने नाज्ञानमतः सुषुप्ते स्वरूपज्ञान838राहित्यमयुक्तमित्यर्थः। स्त्रीवाक्येन चिद्रूपस्यापि सुप्तावज्ञानं युक्तमिति निर्णीतत्वान्नाऽऽशङ्केत्याह। स्यादिति।कथं सति विज्ञानेऽसंबोध इति चोद्यं शङ्कितमनाशङ्कैषा परिष्वक्तदृष्टान्तेन प्रत्युक्तत्वादिति तेन युक्तं सुप्तावज्ञानमित्यर्थः॥१३९५॥१३९६॥

नैतदेवं यतस्तत्र सत्स्वेव ज्ञानहेतुषु॥
अविभक्तो विशेषेषु भवतीति प्रदर्शितम्॥१३९७॥

उत्तरमाह। नैतदिति। तत्र स्त्रीपुंसोर्मिथो योगे धीहेतुषु चक्षुरादिषु सत्स्वेव बाह्यान्तर्विशेषेषु पुरुषो भवत्यविभक्तको विभागधीहीनोऽन्यमनस्कत्वादिति यतः स्त्रीवाक्ये दर्शितमतो नैतच्चोद्यं तत्र हि विद्यमानेषु विशेषज्ञानकार्येष्वप्रविभक्तो भवत्येवमसंबोधस्तत्रेत्युक्तेरित्यर्थः॥१३९७॥

इह पुनर्न शक्यन्ते विशेषाः प्रसमीक्षितुम्॥
यतोऽत्राविभक्तेन स्वेन बोधेन तिष्ठति॥१३९८॥

तर्हि स्वापेऽपि सत्स्वेव धीहेतुषु विशेषादृ839ष्टिरन्यमनस्कत्वादित्याशङ्क्याऽऽह।इहेति। न हि तत्र विशेषा ज्ञातुं योग्यास्तद्धेतूनामसत्त्वादन्यथा सुप्त्ययोगादतस्तत्राखण्डस्वरूपज्ञप्तिमात्रत्वेनाऽऽत्मस्थितिरित्यर्थः॥१३९८॥

असंबोधः सति ज्ञाने कथं स्यादिति शङ्क्यते॥
तम एवेति चेन्नैवं स्वयंज्योतिष्ट्वमात्मनः॥१३९९॥

महतेह प्रयत्नेन यतः प्राक्प्रतिपादितम्॥
सिद्धान्तस्य स्थितत्वाच्च यथावदुपपत्तिभिः॥१४००॥

उक्तशङ्कातादवस्थ्यं फलमाह। असंबोध इति। निर्विकल्पकज्ञप्त्यात्मना सुप्तावात्मस्थित्युप-गमादसंबोधायोगोऽन्यथा ज्ञप्तिस्वरूपत्वासिद्धेरात्मनो जडतेति पूर्वपक्षमुपसंहरति। तम इति। तदाहुस्तम एवैतद्रूपं स्यान्न ज्योतिरिति। सिद्धान्तमाह। नैव-

मिति। उक्तं च ज्योतीरूपत्वस्य महता प्रयत्नेन विभावितत्वादिति। इहेति श्रुत्युक्तिः।प्रागिति ब्राह्मणारम्भाभिधानम्। इतश्चाऽऽत्मनो न जडतेत्याह। सिद्धान्तस्येति।आत्मनः स्वयंज्योतिष्ट्वमत्रायमित्यादिवेदसिद्धान्तस्तस्याबाधितोप-पत्तिभिर्जाड्येघटवदनात्मतेत्याद्याभिः स्थितत्वान्नाऽऽत्मा जड इत्यर्थः। तदुक्तं स्थितत्वाच्च सिद्धान्तस्येति॥१३९९॥१४००॥

प्रदीपवद्विष्टोऽयमिति चेदभिधीयते॥
प्रत्यभिज्ञानतो नैवं पूर्वदृष्टस्य वस्तुनः॥१४०१॥

आत्मा ज्योतीरूपश्चेत्तर्हि स्वापेस्फुरणादृष्टस्तदा तस्य दीपवन्नाशः स्याज्ज्योतिषः स्वसत्तायां प्रकाशाव्यभिचारात्ततश्च क्षणवादापत्तिरिति शङ्कते। प्रदीपवदिति।उत्थितस्य पूर्वबोधे दृष्टमधिकृत्य प्रत्यभिज्ञादृष्टेः स्वापे पूर्वद्रष्टुर्नाशे द्रष्ट्रन्तरस्य चोत्थानेतदयोगान्न क्षणवादशङ्केति परिहरति। प्रत्यभिज्ञानत इति॥१४०१॥

यतः प्रत्यभिजानाति सुषुप्तादुत्थितस्ततः॥
सर्वावस्थास्वयं नित्य आत्मा नैव विनश्यति॥१४०२॥

आत्मनः सुप्तावनाशे प्रत्यभिज्ञान्तरमाह। यत इति। उत्थितस्य यः सुप्तः सजागर्मीति प्रत्यभिज्ञानादात्मनोऽवस्था-त्रयेऽपि स्थायित्वान्नासौ स्वापे नश्यतीत्यर्थः॥१४०२॥

समस्तैरिन्द्रियैर्हीनः संप्रसन्नो निराकुलः॥
सुप्तः स्वप्नान्न जानाति यः स आत्मेति भण्यते॥१४०३॥

स तर्हि तदा कीदृशो विवक्ष्यते तत्राऽऽह। समस्तैरिति। यदा सुप्तः संहृतसर्वेन्द्रियः स्वप्नानन्यथाग्रहभेदाञ्जाग्रत्स्वप्न-रूपान्न प्रतिपद्यते तदा स्थूलसूक्ष्माकुलताविकलोनाडीपुरीतद्वारा ब्रह्मण्यवतिष्ठते यः सुप्तः स परमात्मेत्युक्तं तदभावो नाडीषु तच्छ्रुतेरित्यादावित्यर्थः॥१४०३॥

नाद्राक्षं स्वप्नमद्येति प्रतिबुद्धोऽभिभाषते॥
जाग्रत्स्व840प्नसुषुप्ते च तस्मादात्मा स एव सः॥१४०४॥

प्रत्यभिज्ञाया भ्रान्तत्वात्कथं तयाऽऽत्मनः स्थायितेत्याशङ्क्याबाधात्प्रमैव सेतिमत्वाऽऽह। नेत्यादिना। यस्मादुत्थितः सन्नेवं वदति तस्मादेकैकस्यामवस्थायांयोऽसावात्मा स एवावस्थात्रयेऽपि प्रत्यभिज्ञायते प्रत्यभिज्ञा चाबाधाद-भ्रान्तिरितियोजना॥१४०४॥

स्वप्नमेति सुषुप्ताच्च स्वप्नाद्बुद्धान्तमेव च॥
इति श्रुत्या पुराऽप्युक्तं तस्मान्नाऽऽत्मा विनश्यति॥१४०५॥

तत्रैव श्रुतिसंवादं दर्शयति। स्वप्नमिति। श्रुत्याऽपीति संबन्धः॥१४०५॥

स्वयंज्योतिःस्वभावस्थस्तस्मादात्मा सुषुप्तगः॥
प्रत्यगज्ञानतत्कार्यैरसंस्पृष्टः स्वभावतः॥१४०६॥

आत्मनः सुप्तावनाशे फलितमुपसंहरति। स्वयमिति। सुषुप्तगविशेषणादवस्थान्तरेनास्ति स्वयंज्योतिष्ट्वमित्याशङ्क्याऽऽह। प्रत्यगितिउक्तं हि स्वात्मनैव ज्योतिषाऽवस्थानमिति॥१४०६॥

यत्तु तच्छङ्क्यते कस्मादात्मा प्राज्ञे न पश्यति॥
चैतन्यात्मस्वभावोऽपि तच्चापि शृणु सांप्रतम्॥१४०७॥

उक्तस्वभावश्चेदात्मा किमिति स्वापे स्वात्मानमन्यं च न वेत्तीति चोद्यमनूद्य यदित्यादिवाक्यं परिहारत्वेनाऽऽदत्ते। यत्विति॥१४०७॥

स्वभावो नाऽऽत्मनः कामकर्माविद्यादि बोधवत्॥
असङ्गानन्व841योक्तिभ्यां कामादेश्चमृषात्वतः॥१४०८॥

परेष्टसंबन्ध उक्तस्तत्रानिष्टमंशमग्रेनिरसिष्यति संप्रति स्वोक्तसंबन्धानुसारेणाक्षराणि व्याख्यातुमुक्तमनुभाषते। स्वभाव इति। कार्यसहितमज्ञानं नाऽऽत्मरूपं चैतन्यमेव तथेति श्रुतियुक्तिभ्यां स्थितमित्यर्थः॥१४०८॥

चैतन्यमात्मनस्तत्त्वं कूटस्थं, न तु कामवत्॥
अनाद्यविद्यायोगोऽस्य तत्कार्यैरादिमान्मतः॥१४०९॥

बोधवदिति व्यतिरेकदृष्टान्तं स्फोरयति। चैतन्यमिति। तदपि नाऽऽत्मरूपंजन्मादिमत्त्वात्कामादिवदित्याशङ्क्याऽऽह। कूटस्थमिति। कामादिवदविद्याऽप्यात्मनोऽस्वभावश्चेत्तत्संबन्धवदविद्यासंबन्धोऽपि सादिः स्यात्ततश्च तस्याः सादित्वं स्वतन्त्रता842वेत्याशङ्कयाऽऽह। अनादीति। अनादिरविद्या तद्धेत्वसिद्धेर्न तावत्सैव तद्धेतुरेकत्रहेतुहेतुमद्भावाभावान्न चाविद्यान्तरं मानाभावान्न चाऽऽत्मा तस्य निरविद्यस्याहेतुत्वादविद्यावतो हेतुत्वे चानाद्यविद्यासिद्धिस्तद्भेदस्यामानत्वेन व्युदस्तत्वात्तस्मादनादित्वादविद्यायास्तत्संबन्धोऽप्यनादिः कामादिस्तु तत्संबन्धश्च नैवमित्यर्थः॥१४०९॥

अज्ञानमिथ्याविज्ञानसंस्थस्यास्याऽऽत्मनः क्वनु॥
उपदेशा843दिसंबन्ध इत्येतदिह भण्यते॥१४१०॥

उक्तानुवादद्वारा कूटस्थदृष्टिनित्यमुक्तः प्रत्यगात्मेति प्रतिपादयितुं यदित्यादिवाक्यमित्युक्तमिदानीं तात्पर्यान्तरमाह। अज्ञानेति। अज्ञोऽहमित्यज्ञानाधीनतया स्थितस्यकर्तृत्वाद्यभिमा844नं मिथ्याज्ञानमात्मनि मन्यमानस्येश्वरार्पणबुद्ध्या नित्याद्यनुष्ठितवतो निरस्तकल्मषस्य मुमुक्षोर्विरक्तस्य कस्मिन्विषये तद्धेतुज्ञानार्थमुपदेशसंबन्धः स्यादित्यपेक्षायां

सुषुप्ते संसारनिर्मुक्तमात्मतत्त्वं सिद्धं तज्ज्ञानं मोक्षायेति वक्तुं यदित्यादिवाक्यमित्यर्थः॥१४१०॥

न पश्यत्येष आत्माऽत्रस्वयंज्योतिश्चस845स्वतः॥
इति विप्रतिषिद्धं यत्तदैकात्म्या846न्न दुष्यति॥१४११॥

पदानि व्याचिख्यासुर्विप्रति847षेधमनूद्य दूषयति। नेत्यादिना। पश्यन्न पश्यतीत्युक्तिभ्यां कूटस्थबोधरूपेण प्रत्यङ्मात्रस्यैव सुप्ताववस्थानोक्तेर्भावाभावानुपगमान्न विप्रतिषेध इत्यर्थः॥१४११॥

चोदितार्थानुवादोऽयं परिहारविवक्षया॥
यद्वै तदिति यत्नेन श्रु848त्येह क्रियतेऽञ्जसा॥१४१२॥

स्वयंज्योतिर्न पश्यतीति विरोधं परिहृत्य यदित्यादेरर्थमाह। चोदितेति। अनुवादस्योपोद्धातत्वं य849च्छब्देन विवक्ष्यते। अत एव परिहाराविवक्षयेत्युक्तम्। यच्छब्दो850पबन्धादनुवादस्य स्पष्टत्वमञ्जसेत्युच्यते। इहेति वाक्योक्तिः॥१४१२॥

न पश्यतीति मन्वीथाः सुषुप्ते यन्न तत्तथा॥
पश्यन्नेवाविलुप्ताक्ष आत्माऽयं वर्तते यतः॥१४१३॥

विवक्षितं परिहारमाह। नेत्यादिना। अयमात्मा सुप्ते न पश्यतीति यन्मन्यसेतथा न मन्तव्यमित्यत्र हेतुमाह। पश्यन्निति। कर्तृत्वं वारयति। अविलुप्तेति॥१४१३॥

न पश्यत्येव नन्वत्र चक्षुरादेरसंभवात्॥
करणान्यन्तरेणेह जात्यन्धादिर्न वीक्षते851॥१४१४॥

पश्यन्नेवेत्युक्तमाक्षिपति। नेति। चक्षुराद्यभावेऽपि स्वापे दर्शनं किं न स्यात्तत्राऽऽह। करणानीति। तथा सुषुप्तोऽपीत्य852र्थः॥१४१४॥

नैतदेवं यतो द्रष्टुः कारकस्य समीक्षणे॥
करणानि व्यपेक्ष्यन्ते853 न त्वकारकवीक्षणे॥१४१५॥

द्रष्टुरागन्तुकज्ञानस्य करणापेक्षा साक्षिणस्तु नैवं नित्यज्ञानत्वादित्याह। नैतदिति॥१४१५॥

स्वप्नेऽपि चक्षुरादीनामपीतिः श्रूयते श्रुतौ॥
कुतः सुषुप्तौ तानि स्युर्यत्र तद्वासनाऽपि न॥१४१६॥

किंच प्रमातुरपि न चक्षुराद्यपेक्षानियमः स्वप्ने दृष्ट्यादिव्यापारेऽपि करणोपसंहारश्रु-

तेरित्याह। स्वप्नेऽपीति। असु854प्तः सुप्तानित्याद्या श्रुतिः। सौषुप्तस्य साक्षिणश्चक्षुराद्यपेक्षायोगेऽपिना सूचितं कैमुतिकन्यायमाह। कुत इति। तच्छब्दश्चक्षुरादिविषयः॥१४१६॥

न पश्यतीति वचनं कारकादेरसंभवात्॥
वास्तवं वृत्तमापेक्ष्य पश्यन्वै तदितीर्यते॥१४१७॥

अविरोधमुपसंहरति। नेत्यादिना॥१४१७॥

पश्यन्नेवायमत्राऽऽस्त इत्येतच्चेत्कुतो भवेत्॥
इत्यस्य हेतुसिद्ध्यर्थं न हि द्रष्टुरितीरणम्॥१४१८॥

न हीत्यादिवाक्यमाकाङ्क्षापूर्वकमादत्ते। पश्यन्निति। पश्यन्नेवाऽऽस्ते सुप्तावात्मेत्यस्यापेक्षितो हेतुः स्वरूप-ज्ञानाविनाशस्ततस्तत्प्रतिपत्त्यर्थं न हीत्यादिवाक्यमित्यर्थः॥१४१८॥

मेयमानप्रमातॄणां व्यभिचारेऽपि चाऽऽत्मनः॥
अनन्यानुभवादेव सिद्धिस्तद्ध्वंससाक्षितः॥१४१९॥

कुतो मानाद्यतिरेकेण स्वरूपज्ञानादेवाऽऽत्मनः सिद्धिस्तत्राऽऽह। मेयेति। मात्राद्यभावसाक्षित्वादात्मा तदभावेऽपि स्वरूपज्ञानादेव सिध्यतीत्यर्थः॥१४१९॥

प्रमात्राद्यनभिव्याप्तं वस्तु पूर्वं समीक्ष्य हि॥
नाद्राक्षमिति संधत्तेदृष्टवत्स्वचिदात्मना॥१४२०॥

तत्रैव हेत्वन्तरमाह। प्रमात्रादीति। पूर्वं प्रमाणादिप्रवृत्तेः प्रागवस्थायामित्यर्थः। प्राचीनानुभवपुरःसरमनुसंधानमित्यत्र प्रसिद्धिद्योतको हिशब्दः। प्रमाणतो दृष्टस्य पुनरनुसंधानवत्तेनादृष्टस्यापि स्वरूपचिता प्रतिपन्नस्यानुसंधान-दर्शनात्तदविनाशितेत्यर्थः॥१४२०॥

यस्माद्द्रष्टुर्हियादृष्टिर्यया द्रष्टा855 प्रसिध्यति॥
तस्या विपरिलोपोऽयं हेत्वभावान्न युज्यते॥१४२१॥

तात्पर्यमुक्त्वा न हीत्याद्यक्षराणि व्याचष्टे। यस्मादिति। दृष्टिं विशिनष्टि। ययेति। मनोवृत्तिव्युदासो विशेषणार्थः। तस्मादात्मा पश्यन्नेव सुप्तौ तिष्ठतीति शेषः। श्रौतोहिशब्दो हिशब्देनानुकृतः। तृतीयेत्थंभावे। आत्मा चायं दृष्टिरूपः स्फुरति सा तस्यस्वरूपत्वान्नाशकाभावाद्यतो न लुप्यतेऽतः सुप्तावात्मा पश्यन्नेवेति योजना॥१४२१॥

नाशोत्पत्त्यादयो धर्मा हेतुमद्वस्तुनो यतः॥
निर्हेतुसाक्षिणो न स्युरागमापायिसाक्षितः856॥१४२२॥

हेत्वभावं प्रपञ्चयन्नविनाशित्वादित्य857स्यार्थमाह। नाशेति। अतो हेतुहीनसाक्षिणोनाशादयो नेत्यत्र हेत्वन्तरमाह। आगमेति॥१४२२॥

नाशादि न स्वयं सिध्येद्विना नाशादिसाक्षिणा॥
नातो विपरिलोपः स्याद्द्रष्टुर्दृष्टेः कदाचन॥१४२३॥

तस्य साक्षिगम्यत्वासिद्धिमाशङ्क्याऽऽह। नाशादीति। अन्यथा जडताहानिरितिभावः। आत्मनस्तत्साधकत्वे फलितमाह। नात इति॥१४२३॥

द्रष्टुरात्मैव या दृष्टिः प्रत्यग्दृष्ट्या समीक्ष्यते॥
तस्या चिपरिलोपोऽत्र न कथंचन युज्यते॥१४२४॥

प्रमात्रा तत्सिद्धेरलं साक्षिणेत्याशङ्क्य तद्भावाभावयोस्तदसिद्धे858र्मैवमिति मत्वाऽऽह।द्रष्टुरिति। तत्रानुभवं प्रमाणयति। प्रत्यगिति। आत्मदृष्टेः सर्वसाधकत्वे किमायातंतदाह। तस्या इति। स्वापः सप्तम्यर्थः। कथंचन स्वतो वा परतो वेत्यर्थः॥१४२४॥

आत्मैवाऽऽत्मीयभूतस्य या दृष्टिरविनश्वरी॥
द्रष्टुर्विनाशिनस्तस्या नोच्छित्तिरुपपद्यते॥१४२५॥

साऽपि दृष्टित्वान्मातृदृष्टिवदुच्छिद्येतेत्याशङ्क्याऽऽह। आत्मेति। नाशयोग्यत्वमुपाधिरिति भावः॥१४२५॥

आगमापायिनो द्रष्टुर्दृष्टिस्तत्साक्षिणी तु या॥
द्रष्ट्रादिलोपसाक्षित्वात्तस्या लोपो न युज्यते॥१४२६॥

साधनव्याप्तिमाशङ्क्याऽऽह। आगमेति॥१४२६॥

सत्येव साक्षिणि यतो भावाभावौ प्रसिध्यतः॥
जगतोऽतो न नाशः स्यादात्मदृष्टेः कुतश्चन॥१४२७॥

आत्मदृष्टेर्नित्यत्वे हेत्वन्तरमाह। सत्येवेति। जगतो भावाभावयोर्जडत्वेनाऽऽत्मसाक्षिकत्वादात्मस्वभावभूता साक्षिदृष्टिरविनाशिनीत्यर्थः। इहेति हेतुवाक्योक्तिः॥१४२७॥

ननु विप्रतिषिद्धोक्तिर्भवतेहाभिधीयते॥
859 विनश्यति सा दृष्टिर्द्रष्टुश्चेत्यतिसाहसम्॥१४२८॥

विधान्तरेण विरोधं चोदयति। नन्विति। तदुक्तिमेव व्यनक्ति। नेति॥१४२८॥

कर्तृकार्याभिसंबन्धो द्रष्टुर्दृष्टेरितीर्यते॥
ततश्चापरिलोपोऽस्याः कार्यत्वान्नोपपद्यते॥१४२९॥

कथमेतदतिसाहसं तदाह। कर्त्रिति॥१४२९॥

ननु न लुप्यत इति वचनान्न विलोप्स्यति॥
नै860वं यतो मितिप्राप्तं वचो नाशं न वारयेत्॥१४३०॥

कार्यस्याप्यनाशो वचनादिति शङ्कते। नन्विति। यत्कृतकं तदनित्यमितिव्याप्त्यनुगृहीतानुमानविरोधाद्वचो न कार्यनित्यत्वबोधीत्याह861नैवमिति॥१४३०॥

सिद्धस्य व्यञ्जकं मानं न तु तत्कारकं यतः॥
उक्तेर्नातोऽविनाशित्वं द्रष्टुर्दृष्टेरिहेष्यते॥१४३१॥

यद्यपि मानान्तरविरुद्धमर्थं वचो न बोधयति तथाऽपि करोतीत्याशङ्क्याऽऽह। सिद्धस्येति। इहशब्दः पूर्वार्धगामी मानभूमिविषयः॥१४३१॥

नैष दोषो यतो द्रष्टुः श्रुतिराह विशेषणम्॥
द्रष्टुर्दृष्टेरिति ततो द्रष्टा नैवेह कारकम्862॥१४३२॥

कूटस्थदृष्टिरेवात्र द्रष्टृशब्देनोच्यते न दृष्टिकर्ता तन्न विप्रतिषेधोऽस्तीत्याह। नेति।न हि द्रष्टुरिति श्रुतिर्दृष्टेरिति विशेषणं द्रष्टुराचष्टे षष्ठ्योः सामानाधिकरण्यादतो द्रष्टासाक्षी न कर्तेत्यविरोध इत्यर्थः॥१४३२॥

देहान्तो दृष्टिकारी यो द्रष्टा धर्मादिहेतुमान्॥
दृष्टेर्द्रष्टुश्चलोपोऽत्र प्रत्यग्दृष्ट्येक863साक्षिकः॥१४३३॥

षष्ठयोः सामानाधिकरण्यमुपेत्य कूटस्थदृष्टिरात्मेत्यादिष्टमथ तयोर्वैयधिकरण्येऽपितथेत्याह। देहान्त इति। यो धर्मादिमान्बुद्ध्यादिर्देहान्तो दृष्टिकारी द्रष्टा तस्य तद्गतायाश्च दृष्टेर्नाशः स्वापादौ प्रत्यग्दृष्टिमात्रात्प्रसिध्यत्यतो द्रष्टुर्या साक्षिभूता दृष्टिस्तस्याःप्रतिच्या न नाश इत्यर्थः॥१४३३॥

प्राक्प्रमात्रादिसंभूतेर्या तु दृष्टिरकर्तृका॥
द्रष्ट्रादिनाशसाक्षित्वात्सा दृष्टिरविनश्वरी॥१४३४॥

आत्मा कूटस्थदृष्टिरित्युक्तमुपपादयति। प्रागिति। स्वापादौ तादृशी दृष्टिरसिद्धेत्याशङ्क्याऽऽह। द्रष्ट्रादीति॥१४३४॥

दृष्टिरेव तु सा द्रष्टा न तु कारकलक्षणः॥
द्रष्टुर्विशेषणत्वेन दृष्टेरिति परिग्रहात्॥१४३५॥

वैयधिकरण्यपक्षं हित्वा पक्षान्तरमाश्रित्याऽऽह। दृष्टिरिति। सा दृष्टिरेव द्रष्टा न तत्कर्तेत्यत्रोक्तं हेतुं स्मारयति। द्रष्टुरिति॥१४३५॥

परिलोपो हि कार्याणां लोके सिद्धः स्वकारणे॥
नातः कारणरूपस्य नाप्यकारकवस्तुनः॥१४३६॥

आत्मदृष्टेरनाशे हेत्वन्तरं वक्तुं सामान्यन्यायमाह। परिलोपो हीति। आत्मदृ-

ष्टेस्तु कार्यवैरूप्यान्नोक्तनाशसिद्धिरित्याह। नात इति। परिलोपोऽस्तीति शेषः। अज्ञानवदात्यन्तिकनाशमाशङ्क्य कारणवैलक्षण्यान्मैवमित्याह। नापीति॥१४३६॥

अभावस्य च भावत्वाद्भावसिद्धेश्चदृष्टितः॥
दृष्टौ नाभावशङ्काऽतः सर्वसिद्धेस्तदन्वयात्॥१४३७॥

तदपरिलोपे युक्त्यन्तरमाह। अभावस्येति। न हि स भावाद्भिद्यते भेदस्य भावत्वे तन्निष्ठत्वायोगादभावत्वेऽपि स एव दोषस्तथाच तस्य भावातिरेकिणोऽभावात्तत्सिद्धेश्चदृष्ट्यधीनत्वात्तस्मान्न नाशशङ्केत्यर्थः। भावादभावस्यान्यत्वेऽपि सर्वदृष्टेर्दृष्ट्यधीनत्वादात्मा कूटस्थदृष्टिरेवेत्याह। अत इति॥१४३७॥

न सुषुप्तप्रसिद्धिः स्याद्दृष्टेर्लोपो भवेद्यदि॥
जन्मनाशादिहीनेयमतो दृष्टिः परात्मनः॥१४३८॥

इतश्चाऽऽत्मदृष्टिरनाशिनीत्याह। नेत्यादिना। न चानुमानादेव तत्सिद्धेरलं कूटस्थदृष्ट्येति युक्तं तद्व्याप्तलिङ्गाभावे तदनुत्थानान्न चाहं स्वप्नजागरान्तराले दुःखाद्यनुभवशू- न्यस्तत्कालीनतदीयस्मरणविरहित्वा864त्पाषाणवदिति वाच्यं तदीयस्मृत्यभावस्योपेक्षणीय- तृणादावनुभवाभावासाधकत्वेन व्यभिचारित्वादतो दृष्टिरेव कूटस्था तत्साधिकेति भावः। कूटस्थदृष्टिरात्मेत्युक्तमुपसंहरति। जन्मेति॥१४३८॥

शतृतृजन्तश्रवणाद्दृष्टिश्चेत्स्यात्सकर्तृका॥
पश्यन्द्रष्टुरिति ह्येवं865 नैवं866 कर्त्राद्यसंभवात्॥१४३९॥

पश्यन्निति शत्रन्तस्य द्रष्टुरिति तृजन्तस्य च श्रवणाद्धात्वर्थरूपा सकर्तृका दृष्टिर्न कूटस्थेति शङ्कते। शत्रिति। प्रयोगद्वयस्य क्रियापेक्षक867त्वं प्रसिद्धमिति हिशब्दार्थः। धातुप्रत्ययार्थयोः सुप्तावयोगाद्दृष्टिकौटस्थ्यमित्याह। नैवमिति868॥१४३९॥

नेह बुद्ध्यादिसद्भावस्तदाऽपीतिश्रुतेर्भवेत्॥
सुषुप्तेऽतो न धात्वर्थः प्रत्ययार्थश्च नेष्यते॥१४४०॥

हेतुं साधयति। नेतिप्राणं तर्हि वागप्येतीत्याद्या श्रुतिः। कारकाभावे फलितमाह। सुषुप्त इति॥ १४४०॥

कर्त्रादिकारकं नो चेत्सुषुप्ते विद्यते कथम्॥
पश्यन्द्रष्टुरिति वचः कूटस्थ उपपद्यते॥१४४१॥

कादाचित्की दृष्टिस्तत्कर्ता च स्वापे नास्ति कारकाभावादित्यत्र शङ्कते। कर्त्रादीति॥९४४१॥

यथाऽवकाशदात्रिति भण्यते निष्क्रियं वियत्॥
शतृतृजन्तवचसा तथाऽऽत्मा भण्यते ध्रुवः॥१४४२॥

सदृष्टान्तं समाधत्ते। यथेति॥१४४२॥

स्वभावः कारकाणां च यदकृत्वेह कुर्वते॥
अकुर्वत्कारकं तस्मात्कुर्वतोऽतिशयः कुतः॥१४४३॥

कार्यकारणभावस्य दुर्वचत्वाच्च कूटस्था दृष्टिरिति वक्तुं कुर्वदकुर्वद्वा कारकं869 कारणमिति विकल्प्याऽऽद्यं प्रत्याह। स्वभाव इति। क्रियाकारकव्यवहारभूमिरिहेत्युक्ता। कारकस्वभावविरोधान्न कुर्वत्कारणमित्यर्थः। तत्रैव दोषान्तरमाह। कुर्वत इति। न हि कुर्वतः कार्यात्माऽतिशयोऽनवस्थितेरित्यर्थः॥१४४३॥

प्राक्क्रियाया विनिष्पत्तेः कुर्वद्रूपं न लभ्यते॥
यतोऽतोऽकुर्वदेवेह स्यात्सर्वत्रैव कारकम्॥१४४४॥

इतश्च कुर्वत्पक्षोऽयुक्त इत्याह। प्रागिति। इहेति क्रियोक्तिः। तथाऽन्यत्रापि तादृगेव कारणमैक्यरूपलाभादित्याह। सर्वत्रेति॥१४४४॥

शक्तिमत्कारकं चेत्स्यात्स्यात्कार्य शक्तिवत्स870दा॥
शक्यानामपि सद्भावः शक्तिवत्सर्वदा यतः॥१४४५॥

अकुर्वत्पक्षमनुभाप्य दूषयति। शक्तिमदिति। शक्तेः सदात871नत्वे तद्वदेव कार्यस्यापि सदातनत्वमित्यत्र हेतुमाह। शक्यानामिति॥१४४५॥

न मिथो व्यतिरेकेण शक्तिशक्यौ प्र872सिध्यतः॥
परस्परव्यपेक्षत्वा873च्छक्तिशक्यस्वरूपयोः॥१४४६॥

हेतुं साधयति। नेति। तदेव कथं तत्राऽऽह। परस्परेति॥१४४६॥

शक्तीनां नियमः शक्याच्छक्यानां चापि शक्तितः॥
परस्पराश्रयत्वं च प्राप्नुयाच्छक्तिवादिनः॥१४४७॥

शक्तिपक्षे दोषान्तरमाह। शक्तीनामिति। दुग्धादावेव दध्यादिशक्तिरिति प्रतिनियमस्तस्मादेव दध्यादि-दर्शनादास्थेयः। तस्मादेव दध्यादीति शक्यः प्रतिनियमश्च तत्रैव तज्जननशक्तिरिति नियमादेष्टव्यः। तथाचान्योन्याश्रयतेत्यर्थः॥१४४७॥

कियायाश्चाप्यकार्यत्वे कारकं न प्रसिध्यति॥
कार्यत्वे चानवस्था स्यात्कुर्वच्चापि सुदुर्लभम्॥१४४८॥

किंच क्रियाऽकार्या कार्या वा तत्राकार्यपक्षं निराह। क्रियायाश्चेति। क्रियां कुर्वत्कारणं कारकमिति स्थितेरित्यर्थः। द्वितीयं प्रत्याह। कार्यत्वे चेति। तस्या मूलक्षयकरत्वेन दोषपर्यन्तत्वमाह। कुर्वच्चेति॥१४४८॥

क्रियातत्फलयोश्चापि पौर्वापर्याप्रसिद्धितः॥
किं साध्यं साधनं चेह निश्चयो नोपपद्यते॥१४४९॥

किंच क्रियायाश्चेदकार्यत्वं तदा तदनादित्ववत्तत्फलस्याप्यनादित्वात्पौर्वापर्ये मानाभावान्न कार्यकारणतेत्याह। क्रियेति। कार्यकारणव्यवहारः सप्तम्यर्थः॥१४४९॥

अविद्यामात्रहेतौ तु सर्वमेतत्समञ्जसम्॥
तत्कार्यत्वाच्च सर्वस्य न किंचिदसमञ्जसम्॥१४५०॥

कार्यकारणभावस्य त्वयाऽपीष्टेर्दोषसाम्यमित्याशङ्क्याऽऽह। अविद्येति। आविद्ये कार्यकारणभावे यथोक्तविकल्पदोषाभावात्कार्यं कारणं च यथादृष्टिश्लिष्टमित्यर्थः। यत्तु क्रियातत्फलयोश्चेत्यादि तदपि नास्मत्पक्षेऽस्तीत्याह। तदिति। क्रियादेराविद्यत्वापौ874र्वापर्यमपि तादृगनुभवायातमविरुद्धमित्यर्थः॥१४५०॥

यत्राऽऽत्मनोऽस्य संबन्धोऽनात्मनेह विवक्ष्यते॥
अविद्याहेतुकर्त्रादिसंगतिस्तत्र मोहजा॥१४५१॥

आत्मनोऽनात्मसंबन्धोऽस्ति न वाऽऽद्ये तत्कर्तृत्ववदन्यत्रापि वास्तवं तदस्तु कृतमविद्यया द्वितीये सर्वगतत्वासिद्धिरित्याशङ्क्याऽऽह। यत्रेति। अविद्यावस्थायामिति यावत्। अविद्याहेतुना कर्त्रादीनां संगतिरित्युक्तस्यैव संबन्धस्यानुवादो मोहजेति संगतिरिति संबन्धः॥१४५१॥

यत्र त्वात्मेति धीरस्य जायतेऽनात्मधीरिव॥
यथावस्त्वेव धीस्तत्र नात्राविद्याद्यपेक्षते॥१४५२॥

सर्वमात्मेति ज्ञाने कर्तृत्वं वास्तवमिष्टमिति चेन्नेत्याह। यत्र त्विति। अविद्यावस्था- यामनात्मधीवद्यस्यां विद्यावस्थायां सर्वमात्मेति पुंसो धीस्तस्यां सा निष्प्रपञ्चार्थानुसारित्वान्न स्वात्मन्यज्ञानतज्जकर्तृत्वाद्यपेक्षते तद्बलोत्थत्वेऽपि तद्ध्वंसित्वादित्यर्थः॥१४५२॥

जाग्रत्स्वप्नप्रहाणेऽपि प्रत्यङ्मात्रं न हीयते॥
तद्धानेरात्मसाक्षित्वात्प्रत्यङ्जन्मादिवर्जितः॥१४५३॥

निष्प्रपञ्चात्मवस्त्वेव नास्ति स्वापे द्वैतवदात्मनो नाशस्येष्टत्वादित्याशङ्क्याऽऽह। जाग्रदिति। प्रतीचो हीयमानत्वाभावे हेतुः। तद्धानेरिति। प्रतीचः कूटस्थदृष्टित्वमुपसंहरति। प्रत्यङ्ङिति॥ १४५३॥

रज्ज्वज्ञानमनादाय न सर्पादीक्षणं यथा॥
आत्माज्ञानमनादाय न तथाऽनात्मवीक्षणम्॥१४५४॥

किंच द्वैतस्य सर्पवदज्ञानाधीनभानत्वान्मिथ्यात्वमतोऽप्रपञ्चं कूटस्थमेव तत्त्वमित्याह। रज्ज्वति॥१४९४॥

कल्पनाबीजविरहात्कल्पना न हि लभ्यते॥
प्रतीचि कल्पितोऽनात्मा प्रतीचि व्यभिचारितः875॥१४५५॥

प्रतीचोऽप्यनात्मवत्कल्पितत्वमाशङ्क्याऽऽह। कल्पनेति। न हि तस्मिन्कल्पना हेत्वभावादन्यथा निरधिष्ठानो भ्रमो निरवधिश्चबाधः स्यादित्यर्थः। आत्मवदनात्माऽप्यकल्पितः स्यादित्याशङ्क्याऽऽह। कल्पित इति॥१४५५॥

आत्मनोऽव्यभिचारित्वं सर्वत्राऽऽत्मै876कसाक्षिकम्॥
यतोऽतस्तत्परिज्ञाने नाऽऽत्माऽज्ञानमपेक्षते॥१४५६॥

प्रतीचोऽपि व्यभिचारित्वेन कल्पितत्वमाशङ्क्याऽऽह। आत्मन इति। सर्ववस्थास्वव्यभिचारित्वेनाऽऽत्मनः स्वतःसिद्धत्वमुक्तं परामृशति। यत इति। तस्मादात्मा स्वज्ञाने नाज्ञानं वा तत्कार्यं वा काङ्क्षतीत्यनपेक्षसत्तास्फूर्तित्वादकल्पित इत्याह। अत इति॥१४९६॥

प्रकाश्यार्थाभिसंबन्धे कर्तृत्वं सवितुर्यथा॥
अप्रकाशप्रकाशित्वान्न तथाऽऽत्मप्रकाशने॥१४५७॥

तर्हि स्वयमेवाऽऽत्मा स्वात्मानमन्यं च प्रकाशयन्कथं कूटस्थः स्यादित्याशङ्क्यदृष्टान्तमाह। प्रकाश्येति॥१४५७॥

बाह्यार्थभासनेऽप्यस्य सूर्यादेरिवकर्तृता॥
सर्वदेवैकरूपत्वाद्भानोर्नापूर्वकारिता॥१४५८॥

स्वप्रकाशने निर्विकारस्यापि सवितुरन्यप्रकाशने कर्तृत्वान्निर्विकारस्याऽऽत्मनः स्वपरप्रकाशने नेदमुदाहरणमित्याशङ्क्याऽऽह। बाह्येति। सवितुरपि रूपादौ प्रकाशकर्तृत्वमस्तीति चेन्नेत्याह। सर्वदेति। भानोः स्वेतरप्रकाशने विकाराभाववदात्मनोऽपि सदा निर्विकारता प्रकाश्यार्थाभिसंबन्ध इत्यत्र त्वादित्यस्यान्यप्रकाशने कर्तृत्वमङ्गीकारमात्रं बाह्यार्थभासनेऽपीत्यत्र तस्य निरस्तत्वादिति द्रष्टव्यम्॥१४९८॥

यथा जात्यमणेः शुभ्रा ज्वलन्ती निश्चला शिखा॥
संनिध्यसंनिधानेषु प्रकाश्यानामविक्रिया॥१४५९॥

भानोर्भासकत्वे मेघादिविगमसापेक्षतात्कथं तन्निष्क्रियतेत्याशङ्क्य दृष्टान्तान्तरमाह। यथेति॥ १४५९॥

न प्रकाशक्रिया काचिदस्य स्वात्मनि विद्यते॥
उपचारात्क्रिया साऽस्य यः प्रकाश्यस्य संनिधिः॥१४६०॥

दार्ष्टान्तिकमाह। नेति। प्रतीचः877स्वात्मनि प्रकाशार्थक्रियाभावेऽपि परत्र सा स्यादिति चेन्नेत्याह। उपचारादिति॥१४६०॥

न चेदं दर्शनं गौणमग्निर्माणवको यथा॥
इतो878ऽन्यथाऽवबोधस्य प्रतीचोऽनुपलब्धितः॥१४६१॥

विना विकारं प्रकाशकत्वं गौणं न मुख्यमित्याशङ्क्याऽऽह। न चेति। प्रतीचोऽक्रियबोधस्य संनिधिमात्रेण सर्वजगत्प्रतीतिरेव तद्भासकत्वं नाम न तु तद्विकारद्वारा तथाविधभासकत्वे मानाभावात्तदिदमेव मुख्यमित्यर्थः॥१४६१॥

ननु भङ्गुरधात्वर्थे तृच्प्रयोगो जगत्यपि॥
द्रष्टृशब्दाभिलप्यस्य नित्या879 दृष्टिः कथं भवेत्॥१४६२॥

कूटस्थदृष्टित्वे प्रतीचः साधिते शतृतृजन्तश्रवणादित्याशङ्क्याऽऽदावुक्तमविद्वानाशङ्कते। नन्विति। अपिरभि-व्याप्त्यर्थः। छेत्ता भेत्तेत्यादौ कादाचित्कक्रियाकर्तृत्वविषये तृच्प्रयोगेऽपि प्रकृते किमायातं तत्राऽऽह। द्रष्ट्रिति॥१४६२॥

नोक्तत्वात्परिहारस्य सूर्यादावपि दर्शनात्॥
प्रकाश880यिता सविता व्याप्तृ वाऽपि881 वियत्तथा882॥१४६३॥

उत्तरमाह। नेति। न हि कादाचित्कक्रियाकर्तरि तृचो नियमः सविता प्रकाशयिता व्याप्तृ वियदित्यागन्तुक-क्रियाभावेऽपि तद्दृष्टेस्तथाऽऽत्मा दृष्टेर्द्रष्टेत्यविरुद्धमित्यर्थः॥१४६३॥

अस्तु प्रकाशकेष्वेवं883 न प्रतीचीति चेन्मतम्॥
नैवं प्रकाशकत्वात्स्यात्प्रत्यगात्माख्यवस्तुनः॥१४६४॥

वैषम्यं शङ्कते। अस्त्विति। प्रकाशकग्रहणं व्यापकोपलक्षणार्थम्। एवं विकारं विना प्रकाशकता व्यापकता चेति यावत्। तेषां प्रकाशकादिस्वभावत्वादिति भावः। आत्मनि प्रकाशादिरूपत्वासिद्धेर्विकारेण भाव्यमित्याह। नेति। प्रतीचश्चित्प्रकाशत्वस्यानवच्छिन्नत्वस्य च श्रुत्यादिसिद्धत्वात्कर्तृत्वं विना प्रकाशकत्वाद्यविशिष्टमित्याह। नैवमिति॥१४६४॥

प्रत्यक्षमात्मना लो884के द्रष्टाद्य885र्थावभासनम्॥
स्वयंज्योतिष्ट्वशास्त्राच्च प्रत्यगात्मा प्रकाशकः॥१४६५॥

कथं प्रतीचश्चित्प्रकाशत्वं प्रत्यक्षादिसिद्धं तत्राऽऽह। प्रत्यक्षमिति। स्वानुभवसिद्धमित्यर्थः। चकारो द्रष्ट्रादेर्जाड्यान्न स्वतो मानमितियुक्तिसमुच्चयार्थः॥१४६९॥

अप्यात्मैवेह सर्वत्र स्वयंज्योतिः प्रतीयते॥
ज्योतिषामपि तज्ज्योतिस्तमेवेति च शास्त्रतः॥१४६६॥

तस्य सर्वभासकत्वे वाक्यान्तरं प्रतिज्ञापूर्वकमाह। अप्यात्मेति। सप्तमीम्यां भास्योऽर्थो गृहीतः। न केवलमव-भासकोऽपि तु तत्तदात्मना भास्योऽपीत्यपेरर्थः॥१४६६॥

साक्षात्पश्याम्यहं कुम्भं न पश्यामीति लोकतः॥
अनुभूतेः प्र886सिद्धत्वा887न्नैवं स्यादिति चेन्मतम्॥१४६७॥

कूटस्थदृष्टिरात्मेत्युक्ते प्रत्यक्षविरोधं शङ्कते। साक्षादिति॥१४६७॥

मैवं पश्याम्यहं कुम्भं न पश्यामीति दर्शनात्॥
सदाऽनश्वरदृष्टित्वं प्रतीचो गम्यते स्फुटम्॥१४६८॥

परिहरति। मैवमिति। द्विविधोऽनुभवस्तस्य कूटस्थदृष्टित्वमनुगृह्णातीत्यर्थः॥१४६८॥

पश्यामीत्यस्य साक्षित्वं प्रतीचो गम्यते यथा॥
न पश्यामीति चाप्यस्य तथैवेहाऽऽत्मसाक्षिकम्॥१४६९॥

पश्यामीत्याद्यनुभवे यथोक्तमात्मानं साधयत्यपि कथं न पश्यामीति धीस्तं साधयतीत्याशङ्क्यस्फुटमित्युक्तं प्रकटयति।888 888श्यामीत्यस्येति। ज्ञानवत्तदभावस्यापि नित्यानुभवादेव सिद्धेरात्मा कूटस्थदृष्टिरित्यर्थः। तथैव न पश्यामीत्यस्यापि साक्षित्वं प्रतीचो गम्यत इति संबन्धः। इहेति व्यवहारभूमिरुक्ता। आत्मसाक्षिकं ज्ञानमज्ञानं चेति शेषः॥१४६९॥

उत्खातचक्षुषां चापि दृष्टिः स्वप्नेऽनुभूयते॥
द्रष्टृदृष्ट्यतिरेकेण नित्या दृष्टिरतो मम॥१४७०॥

आत्मदृष्टेर्नित्यत्वे हेत्वन्तरमाह। उत्खातेति। दृष्टेरागन्तुकत्वनियमे स्वप्नावस्थायामन्धस्य रूपादिदृष्टि-विरोधाद्वासनायाश्च जात्यन्धेऽसंभवाज्जन्मान्तराङ्गीकारे च तत्साधककूटस्थदृष्टिध्रौव्यान्नित्या दृष्टिरेष्टव्येत्यर्थः॥१४७०॥

ज्योतिषामपि तज्ज्योतिरस्मद्धीपरिमोषणात्॥
तमोरूपमिवाऽऽभाति भानुर्नक्तंदृशामिव॥१४७१॥

नित्या चेदात्मदृष्टिस्तर्हि सर्वैः सर्वदा किमिति नानुभूयते तत्राऽऽह। ज्योतिषामिति॥१४७१॥

यत एवमतो दृष्टिर्नित्यैवाऽऽत्मन इष्यताम्॥
अनित्यत्वस्य सर्वस्य प्रत्यग्दृष्ट्येक889साक्षितः॥१४७२॥

आत्मदृष्टेर्नित्यत्वे बाधकाभावं साधकं चो890क्त्वा तन्निगमयति। यत इति। अतःशब्दार्थं स्पष्टयति। अनित्यत्वस्येति। आगमापायिनः सर्वस्येत्यर्थः॥१४७२॥

तयाऽसाधनया दृष्ट्याऽपरिणामस्वभावया॥
पश्यन्नेवायमात्माऽऽस्ते तद्दृष्टेश्चोद्यहेतुतः॥१४७३॥

दृष्टेर्नित्यत्वोक्तिफलमाह। तयेति। असाधनयेति च्छेदः। तदेव व्याकरोति। अपरिणामेति। तन्नित्यत्वे हेत्वन्तरमाह। तद्दृष्टेरिति891। स्व891प्रकाशश्चेदात्मा कुतः सुप्ते स्वात्मानमन्यं च न वेत्तीतिचोद्यप्रमुखस्य द्वैतस्याऽऽत्मदृष्टेः सिद्धेर्न तस्या लोपोऽस्तीत्यर्थः॥१४७३॥

पश्यामीति यथाऽद्राक्षीरात्मदृष्ट्यैव जागरे॥
न पश्यामीत्यपि तथा नित्यदृष्ट्यैव वीक्षसे॥१४७४॥

तस्याः सुप्तावनाशं दृष्टान्तेन साधयति। पश्यामीतीति। वीक्षसे सुषुप्ताविति शेषः। अन्यथोत्थितस्य नावेदिषमिति-परामर्शासिद्धिरिति भावः॥१४७४॥

पश्यन्कुम्भादिकं वस्तु देहान्तो ग्राहको यथा॥
दृष्ट्या संबध्यते द्रष्टा द्रष्टृत्वस्य तदाश्रयात्॥१४७५॥

अकारकस्वभावत्वान्नैवं वृत्तं ममाऽऽत्मनः॥
आत्मदृष्टिरतो ग्राह्या प्रत्यङ्मात्रानुरोधिनी॥१४७६॥

आत्मा जाग्रति पश्यति चेत्तस्य कारकत्वेन दृष्टिसंबन्धः स्यादित्याशङ्क्याऽऽह। पश्यन्निति। यो बुद्ध्यादिर्देहान्तो ग्राहकः स कुम्भादि पश्यन्द्रष्टेत्युच्यमानो यथा दृष्ट्या संबध्यते प्रमातृस्थद्रष्टृत्वस्य दृष्टिक्रियासंबन्धाधीनत्वान्न तथाऽऽत्मस्वरूपं तत्संबन्धमपेक्ष्य द्रष्टृ भवति कूटस्थदृष्टित्वादतो मातुर्द्रष्टृत्वे दृष्टिसंबन्धनिमित्तेऽपि स्वरूपाधीनं चितो द्रष्टृत्वमित्यर्थः। न हि द्रष्टुरित्यादेरर्थमुपसंहरति। आत्मदृष्टिरिति। उक्तनीत्या892 नाशायोगोऽतः शब्दार्थः। तदनुरोधित्वं तन्नित्य893त्वम्॥१४७९॥ १४७६॥

यथोक्तार्थप्रसिद्धत्वाद्वैशब्दोऽत्र प्रयुज्यते॥
तन्न पश्यतिशब्देन कारकत्वं निषिध्यते॥१४७७॥

प्रतिज्ञाहेतुवाक्ययोरर्थं संक्षिप्य प्रतिज्ञार्थं प्रपञ्चयन्वैशब्दार्थमाह। यथोक्तेति। कूटस्थदृष्टित्वस्याऽऽत्मनः सर्वोपनिषत्प्रसिद्धेस्तस्यैव स्मरणार्थमस्मिन्वाक्ये वैशब्दप्रयोग इति यावत्। तन्न पश्यतीत्यस्यार्थमाह। तन्नेति॥१४७७॥

दृश्यार्थासंभवाद्य*द्वत्पश्यन्नपि न पश्यति॥
न पश्यामीतिफलतः कारकस्य यथा तथा॥१४७८॥

अकारकात्मनोऽदृष्टिर्द्रष्टव्यार्थामयुक्तितः॥
वस्तूक्तं दृष्टिशब्देन न क्रिया नापि कारकम्॥१४७९॥

तस्य यथाश्रुतार्थत्वमाशङ्क्य दृष्टान्तेन परिहरति। दृश्यार्थेति। यथाऽहमित्यात्मानं पश्यन्नपि माता घटाद्यर्थाभावान्न पश्यतीत्यच्यते तस्य प्रमां प्रति कर्तृरूपस्य

_____________________________________________________________

* एतच्छ्लोके यथेत्यस्य विद्यमानत्वाद्यद्वदित्यस्याऽऽनर्थक्यम्।

कुम्भाद्यभावे न पश्यामीतिफलोपलम्भात्तथा कूटस्थदृष्टिस्वभावस्याऽऽत्मनः स्वापे द्रष्टव्याभावाद्दृष्ट्यभावो न स्वरूप-दृष्टेरेवाभावः प्रत्यभिज्ञया तन्नित्यत्वनिश्चयादित्यर्थः। यद्वै तदित्यादि व्याख्याय पश्यन्नित्यस्यार्थमाह। वस्त्विति। दृष्टिशब्देन पश्यन्नितिशब्देनेत्यर्थः॥ १४७८॥ १४७९॥

ग्राहकग्रहणग्राह्यहीनं रूपं यदात्मनः॥
तद्दृष्टिरिति वचसा साक्षान्नःप्रतिपाद्यते॥१४८०॥

अक्रियाकारकं वस्तु पश्यन्नित्यनेनोक्तमित्यस्मिन्नर्थे वाक्यशेषं हेतूकरोति। ग्राहकेति॥१४८०॥

प्रतीच्येव समाप्तं यदक्रि894याकारकात्मकम्॥
न पश्यतिगिरा रूपमात्मनस्तदिहोच्यते॥१४८१॥

वैशब्दस्यावधारणार्थत्वं मन्वानस्तन्न पश्यतीत्यस्यार्थमाह। प्रतीचीति। स्वापो वा प्रकृतं वाक्यं वा सप्तम्या गृह्यते। तन्न पश्यतिशब्देन कारकत्वं निषिध्यत इत्यनेन न पुनरुक्तिस्तस्य पश्यन्नित्यनेन विरोधे शङ्किते तन्निरासार्थमेतदुपादानादिति द्रष्टव्यम्॥१४८१॥

ननु चोद्यानुवादोऽयं न पश्यतिगिरोच्यते॥
कुतोऽकारकवस्त्वत्र प्रमाणादभिधीयते॥१४८२॥

चोदितार्थानुवादोऽयमित्युक्तेर्न पश्यतीत्येतदनुवादकं तत्कथं कौटस्थ्यसाधकमिति चोदयति। नन्विति। प्रमाणान्तरात्तर्हि विवक्षितार्थसिद्धिरिति नेत्याह। कुत इति। अत्रेत्यवस्थाविशेषोक्तिः॥१४८२॥

ऐकात्म्यमेव नो ज्ञातं सर्वत्रैव पुरा मितेः॥
अज्ञातमेव च ज्ञातं नातश्चोद्यस्य संभवः॥१४८३॥

अकारकात्मनि मानाभावं दूषयति। ऐकात्म्यमिति। लोकशास्त्रयोः सर्वत्र देशे काले च पूर्वं प्रमाणप्रवृत्तेरज्ञातमेवोर्ध्वं ज्ञातं भवतीत्यविवादः। एवमैकात्म्यमेवाज्ञातमिति च साधितमतस्तत्रैव सर्वस्य मानत्वादकारकं वस्तु कुतो मानात्सिध्येदितिचोद्यासंभावनेत्यर्थः॥१४८३॥

स्वतःसिद्धानुभूतिश्चनाज्ञानाद्व्यतिरिच्यते॥
सांख्यराद्धान्तवन्नातश्चोद्यं मत्तोऽन्यतः कृतम्॥१४८४॥

ऐकात्म्यमज्ञातं चेत्तत्किमज्ञानाद्भिद्यते न वाऽऽद्ये सांख्यीयप्रकृतिवदज्ञानस्य स्वातत्र्यं द्वितीये त्वैकात्म्यमपि जडं स्यादित्याशङ्क्याऽऽह। स्वतःसिद्धेति। कथं तर्हि जडतासमाधिरज्ञानादतिरेकाभावे स्वतःसिद्धत्वस्य व्याघातात्तत्राऽऽह।नात इति

अज्ञानस्य तत्त्वान्यत्वाभ्यामनिर्वाच्यत्वान्न तदभेदादात्मनो जडतेत्यर्थः। ये त्वात्मानमद्वयं न मृष्यन्ते तान्प्रत्याह। मत्त इति। आत्मनो जडत्वे चोद्यं त्वया कृतं तदद्वैतवादिनोऽन्यत्र स्यात्परिच्छिन्नस्य जाड्याव्यभिचारान्न तस्य घटादिवदात्मतेति भावः॥१४८४॥

ऐकात्म्यवादिनाऽवश्यमेको मेयोऽर्थ इष्यते॥
मेयान्तराभ्युपगमे न ह्यैकात्म्यं प्रसिध्यति॥१४८५॥

कथमैकात्म्यमेवाज्ञातं मेयं घटादेरपि तथात्वादित्याशङ्क्याऽऽह। ऐकात्म्येति। आवश्यकत्वे हेतुमाह। मेयान्तरेति। न च तदप्रसिद्धिरस्तु सर्वोपनिषद्व्याकोपादिति भावः॥१४८५॥

साधनानामसामग्र्यात्सामग्र्याच्चेह कर्तरि॥
न पश्यतीक्षत इति विरुद्धार्थो यथोच्यते॥१४८६॥

पश्यन्न पश्यतीत्यत्र न तथाऽऽत्मनि युज्यते॥
दृङ्मात्राविक्रियात्मत्व एकत्वाकारकत्वतः॥१४८७॥

न पश्यतीतिचोद्यानुवादेन कौटस्थ्यमात्मनः साध्य895ते सर्वाणि मानानि तादृगात्मसा- धकानीत्युक्तमिदानीं मातरि दर्शनादर्शनोक्तिवदात्मन्यपि तदर्थं पश्यन्न पश्यतीति वाक्यं नकौट896स्थ्यार्थमित्याशङ्क्याऽऽह। साधनानामिति। पश्यन्नित्यादावात्मनि दर्शनादर्शनोक्तिरयुक्तेत्यत्र हेतुमाह। दृङ्मात्रेति। तन्मात्रत्वे क्रियात्व897मात्मनः स्यादृ- शस्तथात्वादित्याशङ्क्याऽऽह। अविक्रियेति। तर्हि गुणत्वं तस्यागुणत्वान्नेत्याह। आत्मत्वेति। नीतिश्च यथोक्ते हेतुः। एकत्वादकारकत्वाच्चाऽऽत्मनि दर्शनादर्शनोक्तिरयुक्तेत्याह। एकत्वेति ॥१४८६॥ १४८७॥

यत एवमतः पश्यन्नित्यस्यैवोत्तरं वचः॥
न पश्यतीति व्याख्यानं कारकादिनिषेधनम्॥१४८८॥

आत्मोक्तलक्षणश्चेत्पश्यन्नित्येवास्तु किमिति न पश्यतीत्युच्यते तत्राऽऽह। यत इति। उक्तनीत्या यस्मादात्मा कूटस्थदृष्टिस्तस्मात्पश्यन्नित्युक्ते यत्कर्तृत्वं तन्निराकर्तुं न पश्यतीति वाक्यमित्यर्थः। व्याख्यानफलमाह। कारकादीति॥१४८८॥

पश्यन्न पश्यतीत्यत्र तस्मादेकोऽर्थ उच्यते898
अकारकात्मकं ज्योतिरद्वयं प्रत्यगात्मकम्॥१४८९॥

व्याख्यानव्याख्येयभावे लब्धमाह। पश्यन्निति। तमेवैकमर्थं व्यनक्ति। अकारकेति॥१४८९॥

ग्रहीतृग्रहणग्राह्यं वस्तु द्रष्टव्यमुच्यते॥
प्रमाणदृष्टियोग्यत्वात्प्रमात्राद्यात्मवस्तुनः॥१४९०॥

पश्यन्नित्यादिकाण्वपाठं व्याख्याय पश्यन्वै तद्द्रष्टव्यमित्यादिमाध्यंदिनपाठे द्रष्टव्यशब्दार्थमाह। ग्रहीत्रिति। घटादि-ग्राह्यमेव द्रष्टव्यशब्दार्थो न मात्रादीत्याशङ्क्याऽऽह। प्रमाणेति। द्रष्टव्यशब्दार्थतेति शेषः॥१४९०॥

प्रात्यक्ष्यं च यथैतेषां तथा पूर्वमवादिषम्॥
द्रष्ट्रादेरात्मनश्चोक्तं वैलक्षण्यं तथा पुरा॥१४९१॥

मेयवन्मातृमानयोरप्यन्याधीना धीश्चेत्स्यादनवस्थेत्याशङ्क्य स्वप्रकाशदृष्ट्यवष्टम्भात्तत्सिद्धेर्मैवमित्याह। प्रात्यक्ष्यं चेति। संबन्धग्रन्थादारभ्यतत्र तत्र मात्रादेः साक्षिवेद्यत्ववचनान्नानवस्थेत्यर्थः। दृष्टियोग्यत्वान्मात्रादेर्द्रष्टव्यशब्दार्हत्वे तद्योग्यत्वाविशेषा- दात्मनोऽपि तदर्हत्वापत्तिरित्याशङ्क्याऽऽह। द्रष्ट्रादेरिति। पुरेत्यव्याकृतादाविति यावत्। तथा सति स्वप्रकाशस्याऽऽत्मनोऽनन्याधीनत्वान्न द्रष्टव्यतेत्याह। तथेति॥१४९१॥

दर्शनादर्शनोक्तिभ्यामविभागात्मको दृशिः॥
इहाभिधीयते ज्योतिरन्यत्र तु विभागवत्॥१४९२॥

द्रष्टव्यशब्दार्थमुक्त्वा पश्यन्नित्यादिपाठद्वयेऽपि तुल्यार्थमित्याह। दर्शनेति। इहेति स्वापपरामर्शस्य कृत्यमाह। अन्यत्रेति। जागराद्यवस्थाद्वये विभक्तमात्मज्योतिर्व्यवह्रियत इति यावत्॥१४९२॥

चितेरकारकत्वाच्च सर्वान्तरतमत्वतः॥
कार्त्स्न्यात्तदन्ययाथात्म्यात्पश्यन्नपि न पश्यति॥१४९३॥

न पश्यति यथा प्राज्ञ उक्तहेत्वविशेषतः॥
तथैवैतद्ग्रहीतव्यं स्वप्नजाग्रदवस्थयोः॥१४९४॥

तर्हि स्वीकृतमात्मज्योतिषोऽवस्थाविशेषे कारकत्वं नेत्याह। चितेरिति। कल्पनया कारकत्वेऽपि वस्तुतस्तदभावान्न सिद्धान्तहानिरित्यर्थः। जागरादावपि वस्तुतोऽकारकत्वं तुल्यमित्याह। सर्वेति। तथाऽपि विभागवदित्युक्तत्वात्परि-च्छिन्नत्वे कथं कौटस्थ्यमत आह। कार्त्स्न्यादिति। जागरादावपि दर्शनादर्शनोक्तिभ्यां कूटस्थमद्वयमात्म-ज्योतिरिष्टमित्याह। पश्यन्नपीति। ननु तत्र पश्यन्नित्येव युक्तं न तु न पश्यतीत्यन्यथा सुषुप्तेरविशेषप्रसङ्गात्तत्राऽऽह। तथेति। सुप्तिवदन्यत्राप्यात्मा निर्विशेषो दृङ्मात्राविक्रियात्मत्वादिहेतूनां तुल्यत्वान्न हि कदाचिद्विशेषदर्शनमात्मेति संभवति कूटस्थदृष्टिस्वाभाव्यादित्यर्थः॥१४९३॥ १४९४॥

चितेर्यथाऽविनाशश्च स्वप्नजाग्रदवस्थयोः॥
तथैव संप्रसादेऽस्मिन्नुक्तहेतुसमन्वयात्॥१४९५॥

जागरादौ दर्शनादर्शनोक्तावपि स्वापे न पश्यतीत्येव युक्तं कथं पश्यतीत्युच्यते तत्राऽऽह। चितेरिति। अविनाश इति च्छेदः। उक्तेति चितेरेकारकत्वाच्चेत्यत्रोक्तहेतूनामात्मनि सदा सत्त्वादिति यावत्। आविद्यस्थूलसूक्ष्मविशेष-दृष्ट्यदृष्टिभ्यामवस्थासु विशेषसिद्धिरिति भावः॥ १४९५॥

न हीतिहेतुवचनं प्रतिज्ञातार्थसिद्धिकृत्॥
द्विप्रकारो विनाशश्च द्विर्हेतूक्त्या निषिध्यते॥१४९६॥

प्रतिज्ञावाक्यं पाठद्वयेऽपि व्याख्याय हेतुवाक्यमनूद्य तस्यार्थमाह। न हीतीति। आत्मा कूटस्थदृष्टिरिति प्रतिज्ञातोऽर्थस्तत्साधकत्वेन न हीत्यादिवाक्यमित्यर्थः। एकेनैव हेतुना प्रतिज्ञार्थसिद्धेर्व्यर्थं हेत्वन्तरमित्याशङ्क्याऽऽह। द्विप्रकार इति॥१४९६॥

निरन्वयो विनाशोऽस्य न हीत्युक्त्या निषिध्यते॥
अविनाशीति चाप्यत्र विकारापह्नुतेर्वचः॥१४९७॥

कौ तौ नाशस्य द्वौ प्रकारौ तयोर्वा कस्य केन निषेध इत्याशङ्क्योक्तं विभजते। निरन्वय इति। विपरीत्युपसर्ग-द्वयवशादित्यर्थः। अविनाशित्वादित्यस्य तात्पर्यमाह। अविनाशीति चेति। विकारस्यापहनुतिः कारणसंसर्गः सावशेषो नाशस्तत्संबन्ध्यविनाशित्वादिति वचोऽस्मिन्वाक्ये प्रयुक्तमतो निरवशेषनाशवत्सावशेषनाशस्याप्ययोगात्कूटस्थ-दृष्टिरात्मेत्यर्थः॥१४९७॥

अविनाशीति मैत्रेय्यां द्विधानाशनिषेधकृत्॥
वचनं प्रागुपन्यस्तं तदेवात्रापि हेतवे॥१४९८॥

चतुर्थे च नाशद्वयं निरस्तमित्याह। अविनाशीति। अविनाशी वा अरेऽयमात्माऽनुच्छित्तिधर्मेत्यत्र नाशद्वयं निषिद्धं चेत्किमितीह निषिध्यते तत्राऽऽह। तदेवेति। आत्मा कूटस्थदृष्टिरिति प्रतिज्ञातेऽर्थे नाशद्वयाभावरूपहेतुसिद्ध्यर्थं चातुर्थिकमेव वाक्यमत्राऽऽकृष्टमित्यर्थः॥१४९८॥

सर्वोच्छित्त्यात्मसाक्षित्वादुच्छित्तेश्चाप्यसंभवात्॥
तथा सर्वविकाराणां प्रत्यङ्मात्रैकसाक्षिता899॥१४९९॥

आत्मनो निरन्वयनाशाभावे हेतुमाह। सर्वेति। सर्वात्मनोच्छित्तिर्निरन्वयो नाशस्तत्राऽऽत्मनः साक्षित्वान्न तद्वत्तेत्यर्थः। आत्मनः सावशेषनाशाभावे हेतुमाह। उच्छित्तेश्चेति। उच्छित्तिः सावशेषो नाशो हेतुसंसर्गो नाऽऽत्मनो युज्यते हेत्वभावात्तत्रापि साक्षित्वाच्च तदसौ नित्यदृष्टिरेवेत्यर्थः। सावशेषनाशाभावे हेत्वन्तरमाह। तथेति। सर्वेषु विकारेषु प्रत्यङ्मात्रस्य साक्षित्वात्तस्याविकारित्वान्न कारणसंसर्गो नाश इत्यर्थः॥१४९९॥

पश्यन्नेवायमत्राऽऽस्ते सान्वयानन्वयौध्रुवः॥
नाशौ यस्मादतः सिद्ध आत्मा कूटस्थदर्शनः॥१५००॥

आत्मनो द्विधानाशाभावे फलितमाह। पश्यन्निति॥१५००॥

पश्यन्न पश्यतीत्येतत्स्वतन्त्रं चाऽऽगमं900 वचः॥
न हीति तु प्रतिज्ञोक्तिरनुमोक्त्यनुसारिणी॥१५०१॥

हेतूक्तिरविनाशित्वादित्युक्तार्थप्रसिद्धये॥
विनाशशक्त्यभावोक्तेर्न प्रतिज्ञैकदेशता॥१५०२॥

विधान्तरेण वाक्यं विभजते। पश्यन्नित्यादिना। आगमरूपं हि वचो न हेतुमाकाङ्क्षते निरपेक्षप्रमाणत्वादित्यर्थः। न हीत्यादाविष्टं विभागमाह। नेति। यथा वह्निमानिति प्रतिज्ञाय तत्सिद्धये धूमवत्त्वादिति हेतुरुच्यते तथैव दृष्टेर्नित्यत्वं प्रतिज्ञाय तस्यैव प्रतिज्ञातस्य सिद्ध्यर्थमनुमानानुसारिणी हेतूक्तिरविनाशित्वादिति प्रयुज्यते तथाचानुमानवत्साधकतेत्यर्थः। आत्मदृष्टेर्नाशाभावं प्रतिज्ञायाविनाशित्वादिति हेतुं वदतः साध्याविशिष्टतेत्याशङ्क्याऽऽह।विनाशेति। न विनश्यतीति प्रतिज्ञा विनंष्टुमयोग्यत्वं हेतुस्तन्नानयोरेकार्थतेत्यर्थः॥१५०१॥१५०२॥

प्रतिज्ञावचसी द्वे वा पश्यन्नित्यादिनोदिते॥
न हीति हेतुवचसी द्वे स्यातामुत्तरे तयोः॥१५०३॥

प्रकारान्तरेण विभागमाह। प्रतिज्ञेति॥१५०३॥

पश्यन्नेवाऽऽस्त इत्यस्याः प्रतिज्ञोक्तेः प्रसिद्धये॥
हेतुर्न हीतिवचनमुत्तरस्यापि चोत्तरम्॥१५०४॥

तमेव विभागं प्रकटयति। पश्यन्नेवेति। उत्तरस्य न पश्यतीत्यस्येति यावत्। उत्तरमविनाशित्वादिति वाक्यमित्यर्थः॥१०४॥

निरन्वयविनाशस्य निषेधोऽत्र विवक्ष्यते॥
प्रथमे हेतुवचसि परिणामस्तथोत्तरे॥१५०५॥

हेत्वोरैकार्थ्यमाशङ्क्याऽऽह। निरन्वयेति। परिणामो निषिध्यत इति शेषः॥१५०५॥

द्वौ वा हेतू यथोक्तार्थौद्वयोरपि प्रतिज्ञयोः॥
आभ्यां संभूय सिद्धोऽर्थ एवं सति भवेद्यतः॥१५०६॥

प्रतिज्ञाद्वये हेतुद्वयं योज्यमिति विधान्तरमाह। द्वौ वेति। यथोक्तार्थौसावशेषो निरवशेषश्चेत्युक्तावित्यर्थः। द्वयोरिति पश्यन्न पश्यतीत्यनयोरित्यर्थः। अस्मिन्पक्षे लाभमाह। आभ्यामिति। आभ्यां हेतुभ्यां संभूय स्थिताभ्यामात्मनो दृष्टित्वमनाशश्च विव-

क्षितोऽर्थो यतः सिध्यत्यतो हेतुद्वयं प्रतिज्ञाद्वयेऽपि योज्यमेवं वाक्यद्वये स्थिते कूटस्थदृष्टित्वमात्मनः स्थितमित्यर्थः॥१५०६॥

पश्यन्नेवायमत्राऽऽस्त इति चेत्कथमुच्यते॥
न पश्यतीति वचनं शृणु तच्च यथा तथा॥१५०७॥

न त्वित्याद्याकाङ्क्षापूर्वकमादत्ते। पश्यन्निति। अत्रेति सुप्तिरुक्ता। तच्छब्देन न पश्यतीतिवाक्योक्तिः॥१५०७॥

पुरा यदभवन्मोहात्स्वप्नजाग्रदवस्थयोः॥
प्रतीचो न तदत्रास्ति रूपं यत्का901रकात्मकम्॥१५०८॥

अवतारितवाक्यपदानि व्याचष्टे। पुरेति। कारकात्मकं प्रमातृलक्षणमिति यावत्। सप्तमी पूर्ववत्॥१५०८॥

आत्मनोऽद्वयतत्त्वस्य द्वितीयं यदविद्यया॥
सुषुप्ते न तदस्तीह प्रयुक्तं यत्स्वगोचरैः॥१५०९॥

प्रतीचस्तद्रूपं वास्तवमेव किं न स्यात्तत्राऽऽह। आत्मन इति। स्वापेऽपि किमित्याविद्यं प्रमातृत्वं न भवतीत्याशङ्क्याऽऽह। प्रयुक्तमिति। श्रोत्रादिकरणोपेतं साभासमन्तःकरणं प्रमातृशब्दितं स्वविषयशब्दादिप्रेरितं प्रवर्तते न च प्रेरकाः शब्दादयः स्वापे सन्त्यतो मातृरूपमाविद्यभपि न तत्रास्तीत्यर्थः॥१५०९॥

सजातीयप्रयुक्तं यद्बुद्ध्यन्तं रूपमात्मनः॥
धर्मादिहेतुकं प्राज्ञे तद्ध्वस्तं कर्मणः क्षयात्॥१५१०॥

तत्रैव हेत्वन्तरमाह। सजातीयेति। श्रोत्रादिप्रयुक्तं धर्मादिकारणकमात्मनो यन्मातृत्वं तत्तत्र निवर्तते करणस्य कर्मणश्च तदा निवृत्तेरित्यर्थः॥१५१०॥

तमोन्तात्कारणात्तद्धि द्वितीयं कार्यरूपतः॥
ततोऽन्यद्ग्रहणं नास्ति, विभक्तं ग्राह्यमेव च॥१५११॥

स्वापे प्रमातृरूपाभावे हेत्वन्तरमाह। तमोन्तादिति। तन्मातृरूपं द्वितीयशब्दितं कार्यत्वात्कारणमपेक्षते तथाच पारिशेष्यात्तमसः साभासात्तदुत्पद्यते न च स्वापे तमो व्यक्तमस्त्यतस्तत्र नाभिव्यक्तियोग्यं मातृत्वमित्यर्थः। ततोऽन्यदित्यस्य न त्वित्यनेन संयोज्यार्थमाह। तत इति। आत्मातिरिक्तं शब्दादिज्ञानं स्वापे नास्तीति यावत्। विभक्तपदार्थमाह। विभक्तमिति। शब्दादिविषयजातं902 विभक्तं तदपि तत्र नास्तीति चशब्दार्थः। अतो मातृमानमेयाभावान्न पश्यतीति वचस्तत्र प्रयुक्तमित्यर्थः॥१५११॥

स्वप्नेऽप्येतन्त्रयं नाभूद्वासनामात्रशेषतः॥
किमु विध्वस्तनिःशेषद्वैतहेतौ सु903षुप्तगे॥१५१२॥

प्रमात्रादित्रयं सुप्तौ नेत्यत्र कैमुतिकन्यायमाह। स्वप्नेऽपीति॥१५१२॥

सुषुप्ते योऽवशिष्टोऽत्र कौटस्थ्यान्नान्यदर्श्यसौ॥
योऽप्यन्यदर्शी सोऽप्यत्र नास्ति तद्धेत्वसंभवात्॥१५१३॥

तादृगात्मनि मात्रादित्रयाभावेऽपि तदभावदर्शित्वादसौ कर्तेति चेन्नेत्याह। सुषुप्त इति। अन्यशब्दो मात्राद्यभावविषयः। कौटस्थ्यादात्मनोऽकर्तृत्वेऽपि स्वापेऽन्योऽस्ति कर्तेत्याशङ्क्याऽऽह। योऽपीति। अन्यस्थानात्मनो दर्शनकर्ता प्रमातेति यावत्। तद्धे- त्वसंभवात्प्रमातुर्हेतुरभिव्यक्तमज्ञानं तस्य सुषुप्तावसत्त्वादित्यर्थः॥१५१३॥

द्वितीयदर्शनायालं रूपमासीद्यदात्मनः॥
तन्नास्ति तद्वितीयं च विभक्तं नात ईक्षते॥१५१४॥

न त्वित्यादेरर्थमुपसंहरति। द्वितीयेति। यदात्मनो जागरादावनात्मदर्शनशक्तं मातृरूपं तन्न स्वापेऽस्ति तस्मान्मातृरूपं द्वितीयं शब्दार्थजातं तज्ज्ञानं च तदा न वर्ततेऽतो न पश्यत्यात्मेत्यर्थः॥१५१४॥

अविद्यावद्द्वितीयं वा नित्यदृष्टेर्विवक्ष्यते॥
सदाहीनाननुदितभास्वदेकदृगात्मनः॥१५१५॥

द्वितीयशब्दस्यार्थान्तरमाह। अविद्यावदिति। कूटस्थदृष्टेरात्मनः साभासमज्ञानं द्वितीयं विवक्षितमित्यत्र हेतुमाह। सदेति। कूटस्थस्वप्रकाशचिदेकरसत्वादात्मनस्तदुद्रिक्तं साभासमज्ञानमिति द्वितीयमित्यर्थः॥१५१५॥

तादात्म्यव्यतिरेकाभ्यां तमस्तज्जं च904नाऽऽत्मनः॥
विरोधादेश905तोऽकार्यकारणत्वात्परात्मनः॥१५१६॥

किंच द्वितीयशब्देनाज्ञानं तत्कार्यं वा गृह्यतामात्मनस्तु न कदाचित्तत्संबन्ध इत्याह। तादात्म्येति। न भेदाभेदाभ्यामात्मनो द्वितीयं शक्यनिरूपणमित्यत्र हेतुमाह। विरोधेति। जडाजडयोर्विरोधात्परस्य च निर्विशेषत्वस्यास्मदिष्टत्वात्तस्य कार्यकारणविनिर्मुक्तत्वान्न द्वितीयसंगतिरित्यर्थः॥१५१६॥

विभक्तं यत्तमोऽस्तीव नाविभक्तं मनागपि॥
तमोऽन्वितत्वाद्बुद्ध्यन्ते न प्राज्ञेऽनन्वयात्तमः॥१५१७॥

सामासमज्ञानं द्वितीयं चेन्नत्वित्यादि कथं निषेधो न हि सुषुप्तावज्ञानं नास्ति पुनरु- त्थानविरोधादित्याशङ्क्याऽऽह। विभक्तमिति। यदज्ञानमज्ञोऽहमिति विभागेन भाति। तत्परमार्थतोऽसदपि प्रतीतितोऽस्तीत्यवस्थाद्वये व्यवह्रियते सुषुप्ते च न तद्विभागेन ज्ञायतेऽतो न तत्तदाऽस्तीत्युच्यत इत्यर्थः। किंच मातृपक्षतयाऽविद्या भासते न परपक्षतया

न च स्वापे माताऽस्त्यतो युक्तं तदा तदभाववचनमिति स्थूलदृष्टिमाश्रित्याऽऽह। तम इति॥ १५१७॥

कूटस्थदृष्टावेकस्मिन्नविभक्ते सहस्रधा॥
नामरूपादिभेदेन विभक्तं यत्तमो दृशेः॥१५१८॥

तत्तु द्वितीयं नेहास्ति तमोऽनर्थस्य कारणम्॥
द्रष्ट्रादिरूपसंभेदाद्यत्पश्येज्जागरे यथा॥१५१९॥

द्वितीयशब्दस्य कारणवाचित्वमपेक्ष्य वा906क्यार्थमाह। कूटस्थेति। इहेति सुषुप्तिरुक्ता। यथा जागरे द्वितीयं द्रष्ट्रादिभेदावष्टम्भादुपलभते तथैव स्वापे तदवष्टम्भाद्यद्द्वितीयं पश्येत्तदत्र नास्तीति योजना॥१५१८॥१५१९॥

अविद्यादेरभावोक्त्या कूटस्थात्मैव भण्यते॥
कारणात्मा यतोऽभावः कार्याख्यस्येह वस्तुनः॥१५२०॥

अविद्यातज्जयोस्तत्राभावे तेनाऽऽत्मा सद्वयः स्यादित्याशङ्क्याऽऽह। अविद्यादेरिति। तत्र हेतुः। कारणेति। अज्ञानप्रतिभासस्य कादाचित्कत्वाज्ज्ञानात्तद्बाधाच्चतत्का907र्याख्यं वस्तु तस्य कारणात्मा कूटस्थदृष्टिरेवाभावो न हि कारणस्य सत्तास्फूर्तिदं कूटस्थदृष्टेरन्यदस्त्यतो नाद्वैतहानिरित्यर्थः। इहेति स्वसिद्धान्तोक्तिः॥१५२०॥

अज्ञानान्नान्यदस्तित्वं सर्वस्यानात्मनो यथा॥
निवृत्तिस्तद्वत्तद्धेतोर्नावगत्यात्मनोऽपरा॥१५२१॥

अज्ञानाद्यभावस्याऽऽत्माभेदे कथं तस्य भावत्वं तत्राऽऽह। अज्ञानादिति। तद्धे- तोर्द्वितीयकारणस्याज्ञानस्येत्यर्थः॥१५२१॥

तत्तु नैवेह वस्त्वस्ति द्वितीयं मोहहेतुजम्॥
साक्षिणो विषयभूतं विभक्तं कार्यरूपतः॥१५२२॥

किंच सुषुप्ते द्वितीयं वस्त्ववस्तु वा नाऽऽद्य इत्याह। तत्त्विति। तत्र हेतुः। मोहेति। मोहाद्धेतोर्द्वितीयस्य जातत्वान्न वस्तुता इन्द्रो मायाभिरिति श्रुतेरित्यर्थः। मोहजत्वं साधयति। साक्षिण इति। दृश्यत्वाद्विभक्तत्वात्कार्यत्वाश्च मात्रादि रज्जुसर्पवन्मोहोत्थमित्यर्थः॥१५२२॥

संविदैव समाप्तत्वात्तमोजस्य पुरोत्थितेः॥
लभते न द्वितीयत्वमन्यत्वासंभवात्तमः॥१५२३॥

स्वापे द्वितीयवस्त्वभावे हेत्वन्तरमाह। संविदेति। तमसस्तज्जस्य च संविन्मात्रत्वेन समाप्तेः स्वापे न द्वितीयतेत्यर्थः। द्वितीयेऽपि तदज्ञानं तज्जं वेति विकल्प्याऽऽद्यं दूष-

यति। लभत इति। न हि तमसोऽनिर्वाच्यस्यान्यत्वं न च तदभावे द्वितीयतेत्यर्थः॥१५२३॥

कार्यस्यापि च बुद्ध्यादेस्तद्धेतोरविभागतः॥
न तदस्ति द्वितीयत्वं संविदैव समाप्तितः॥१५२४॥

कल्पान्तरं निराह। कार्यस्येति। किंचावस्तुनोऽवस्तुत्वादेव न द्वितीयत्वं न च वस्तुनो वस्तुत्वादेवातोऽवस्तुनोऽप्यज्ञानस्य तज्जस्य वा न द्वितीयत्वं किंत्वन्यस्येति वाच्यं तच्च न तदभावादित्याह। संविदेति॥१५२४॥

यत एवमतः प्राह नेह तद्वस्तु विद्यते॥
यत्पश्येद्गोचरापन्नं सुखशब्दादिलक्षणम्॥१५२५॥

यत्पश्येदिति कर्त्रुक्तिर्द्रष्टाऽत्राऽऽशङ्क्यते यतः॥
तन्नास्ति विषयोल्लेखिदर्शनस्येह कारणम्॥१५२६॥

उक्तेऽर्थे वाक्यतात्पर्यमाह। यत इति। उक्तरीत्या सुप्तौ कूटस्थाद्वयसंविन्मा908त्रमेव यतोऽवशिष्यतेऽतो न त्वित्यादिका श्रुतिर्यद्वाह्यमाभ्य909न्तरं वा विषयभूतं पश्येत्तन्न द्रष्टव्यरूपमत्रास्ती910त्याहेत्यर्थः। यत्पश्येदित्यनेन मातृनिर्देशे हेतुमाह। द्रष्टेति। तस्य न त्वित्यनेन संबन्धं दर्शयति। तन्नेति। उभयत्र सप्तम्योः सुप्तिरेवार्थः॥१५२९॥॥१५२६॥

श्रोत्रादिकरणोपेतं यतोऽन्तःकरणं दृशेः॥
बाह्यार्थदर्शने हेतुः कौटस्थ्यान्न तदक्षरम्॥१५२७॥

द्रष्टा स्वापे निषिध्य911ते चेदात्मैव निषेध्यः912 स्यान्नान्योऽतोऽस्ति द्रष्टेति श्रुतेरित्याशङ्क्याऽऽह।श्रोत्रादीति। साभासान्तः913करणं श्रोत्रादिकरणोपकरणं दृगात्मनः शब्दादिदर्शने परिणामितया यतो हेतुरतस्तदक्षरं न914 द्रष्टृ स्वीक्रियते कूटस्थदृष्टित्वेन तस्य दृष्ट्यकर्तृत्वाच्छ्रुतिस्तु चक्षुरादिद्वारा रूपाद्याकारमनोविकारे दृष्ट्यादिशब्दिते साक्षिताऽस्यैवेत्येवंपरेत्यर्थः॥१५२७॥

तमोन्तः कारणं बुद्धेर्द्रष्टाऽन्तःकरणावधिः॥
सुखी दुःखी च देहान्तः प्रत्यगज्ञानहेतुतः॥१५२८॥

तर्हि मात्रादिभेदाभ्युपगमादपसिद्धान्तो नेत्याह। तमोन्त इति। प्रत्यगात्मा खल्वविद्यान्तो बुद्ध्यादिनिदानं बुद्ध्यन्तो द्रष्टा देहान्तः कर्ता भूत्वा सुखादिना संबध्यते तदनाद्यविद्ययाऽऽत्मैव कारणाद्यात्मना तिष्ठतीत्यातिष्ठमानस्य नापराद्धान्तशङ्केत्यर्थः॥१५२८॥

बुद्ध्यादेश्चसमुत्पत्तौ धर्माद्येवात्र कारणम्॥
यतोऽतः कारणध्वस्तौ बुद्ध्याद्येत्यात्मकारणम्॥१५२९॥

स्वापे मात्राद्यभावे हेत्वन्तरमाह। बुद्ध्यादेश्चेति। अत्रेत्यात्मोक्तिः। अज्ञानोत्थं धर्माद्यात्मनि बुद्ध्याद्युत्पत्तौ निमित्तमिति यावत्। कथं तावता स्वापे मात्राद्यभावस्तत्राऽऽह। यत इति। यस्मादज्ञानजं धर्मादि बुद्ध्यादिनिमित्तं तस्मादभिव्यक्तनिमित्तस्य तत्र ध्वस्तौ पृथग्बुद्ध्यादि स्थातुमशक्तमज्ञातमात्मानं गच्छतीत्यर्थः॥१५२९॥

तमोन्वयस्तमःकार्ये बुद्ध्यादावेव युज्यते॥
न त्वकारणकार्येऽस्मिन्नित्यबुद्धे परात्मनि॥१५३०॥

बुद्ध्यादेरज्ञातात्मान्वये केवलात्मन्यज्ञानान्वयः स्यादित्याशङ्क्याऽऽह। तमोन्वय इति। एवकारार्थमाह। न त्विति। तत्र तमोनन्वये हेतुमाह। नित्येति॥१५२०॥

वृत्तिं च लभते कार्यंन स्वकारणतोऽन्यतः॥
न कार्यं कारणं वाऽस्ति915 प्रत्यग्वृत्तव्यपेक्षया॥१५३१॥

परस्मिन्ननन्वयेऽपि तमसो बुद्ध्यादेस्तदन्वयात्तद्द्वारा तदपि तत्रान्वियादित्याशङ्क्याऽऽह। वृत्तिं चेति। न तावदज्ञातात्मन्यज्ञानं स्वाश्रयप्रसङ्गान्न च कारणादन्यत्र कार्यमिति बुद्ध्यादेरपि न तदन्वयस्तथाच केवलेऽप्यात्मन्यज्ञानाद्यनङ्गीकारश्चेत्कथं तत्पारतन्त्र्यमित्याशङ्क्याऽऽह। नेति। प्रतीचो वृत्तमनुसृत्य तत्राज्ञानाद्ययोगेऽपि स्वातत्र्यासंभवादाश्रयान्तरादृष्टेश्चाग्निमिव घृतपिण्डोऽज्ञानाद्यात्मानमाश्रयेतेत्यर्थः॥१५३१॥

बुद्ध्यन्तस्यास्य मूढस्य सुखशब्दादिदर्शिनः॥
स्वकारणक्षयाद्ध्वस्तौ नाऽऽत्मा पश्यन्नपीक्षते॥१५३२॥

स्वापे मात्राद्यभावेऽपि प्रकृते किमायातं तदाह। बुद्ध्यन्तस्येति। मात्रादिहेतुव्यक्ताज्ञानस्य स्वापे नाशात्तस्यापि तदा ध्वस्तावात्मा चिद्रूपतया स्वप्रकाशोऽपि न पश्यतीत्युच्यत इत्यर्थः॥१५३२॥

द्रष्टृत्वादिविभागेन विभक्तो यस्त्वविद्यया॥
स कूटस्थात्मनाऽपीतो रज्ज्वा सर्पो यथा तथा॥१५३३॥

ननु तदा मात्रादिध्वंसः सावशेषो निरवशेषो वाऽऽद्ये स्वकारणक्षयादित्ययुक्तं द्वितीये पुनरुत्थानानुपपत्तिस्तत्राऽऽह। द्रष्टृत्वादीति। स्वापे हेत्वभावोक्तिर्व्यक्ताज्ञानाभावाभिप्राया तेन मात्रादिविभागस्याज्ञातेनाऽऽत्मना तत्रोपसंहाराद्ध्वंसः सावशेष इत्यर्थः। कूटस्थं ब्रह्माऽऽत्मा यस्य कारणस्य तेन स्वात्मन्येव मात्रादेरुपसंहारं दृष्टान्तेनाऽऽह। रज्ज्वेति॥१५३३॥

द्रष्टृदर्शनदृश्यानां संबन्धोऽतो न वीक्ष्यते॥
तमस्विनः प्रलीनत्वान्नाविद्याकार्यमीक्षते॥१५३४॥

आत्मनः स्वापे मात्रादिसंबन्धात्कुतः संबन्धी निषिध्यते तत्राऽऽह। द्रष्ट्रिति। अतःशब्दोक्तं हेतुमाह। तमस्विन इति। कारणातिरिक्तमात्राद्यभावात्तस्य च तदाऽनभिव्यक्तेरित्यर्थः। मात्रादेस्तत्संबन्धस्य च सुप्तावसत्त्वे फलितमाह। नाविद्येति। अविद्यातत्कार्यं तदा न पश्यतीति यावत्॥१५३४॥

द्रष्टृदर्शनदृश्यादिभेदोऽविद्याप्रकल्पितः॥
यतोऽतो मोहविध्वस्तौ द्रष्ट्राद्यात्मनि नेक्ष्यते॥१५३५॥

यद्वै तन्न पश्यतीत्यादिवाक्यव्याख्यामुपसंहरति। द्रष्ट्रिति। दृश्यादीत्यादिशब्देन घ्राता घ्रातव्यमित्यादि गृह्यते॥१५३५॥

उत्तरेष्वपि वाक्येषु यथोक्तमुपपादयेत्॥
व्याख्यानमेतदेवेति नातोऽन्यदवशिष्यते॥१५३६॥

यद्वै तन्न जिघ्रतीत्यादावुक्तमतिदिशति। उत्तरेष्विति। अतिदेशे हेतुमाह। व्याख्यानमिति॥१५३६॥

अन्ये पुनरिमं ग्रन्थमन्यथैव यथोदितात्॥
व्याचक्षते हि व्याख्यानात्तच्चापीह विभाव्यते॥१५३७॥

यद्वै तदित्यादेः स्वव्याख्यानमुक्त्वा भर्तृप्रपञ्चव्याख्यानमुत्थापयति। अन्ये पुनरिति। कथं प्रसिद्धमन्यथा व्याख्यानं तदाह। तच्चेति॥१५३७॥

निरस्य पूर्वपक्षोक्तीः परिहारोक्तिभिः क्रमात्॥
ज्योतिर्मात्रतया स्थानं दृशेः प्राज्ञेजगौ सुधीः॥१५३८॥

विभावनमभिनेतुं वृत्तं कीर्तयति। निरस्येति। जडत्वादिपूर्वपक्षोक्तीः स्वयंज्योति- ष्ट्वादिपरिहारोक्तिभिः क्रमान्निरस्य ज्योतिर्मात्रत्वेन दृगात्मनः सुप्ताववस्थानं मुनिरुक्तवानित्यर्थः॥१५३८॥

साधयित्वा स्वयंज्योतिः सुषुप्ते युक्तिभिः स्फुटम्॥
अथैवंज्ञस्वभावोऽपि कस्मात्प्राज्ञे न पश्यति॥ १५३९॥

इत्याशङ्कापनुत्त्यर्थं परो ग्रन्थोऽवतारितः॥
तद्व्याख्यानं यथावच्च ह्यक्षराणां विभाव्यते॥१५४०॥

कथं ज्योतिर्मात्रतया स्थितिस्तत्राऽऽह। साधयित्वेति। स्वप्ने स्वयंज्योतिरात्मेति पूर्वोक्ताभिर्युक्तिभिः स्फुटं साधयित्वा सुषुप्ते तस्य ज्योतिर्मात्रत्वेन स्थितिं जगौ मुनिरिति योजना। वृत्तमनूद्याऽऽकाङ्क्षापूर्वकं यद्वै तदित्यादेवतारितत्व-प्रकारमाह। अथेति। परोक्तं संबन्धं पूर्वत्रानूदितमेवात्र स्मारयित्वा वाक्याक्षरव्याख्यां प्रतिजानीते। तद्व्या-

ख्यानमिति। चकारोऽवधारणे। तद्व्याख्यानं तच्छिष्याणां प्रसिद्धमिति हिशब्दार्थः॥१५३९॥११४०॥

यद्वै न पश्यतीत्येवमात्मानमतिशङ्कसे॥
तन्मा शङ्कीर्यतः प्राज्ञे पश्यन्नात्माऽत्र वर्तते॥१५४१॥

तदेव प्रकटयति। यद्वै नेति। आत्मा स्वापे न पश्यतीति चेन्न ज्योतिःस्वभावो जडस्तु स्यादित्यात्मानं यदतिशङ्कसे सा शङ्का न कार्या यस्मात्पश्यन्नेवायं तत्र तिष्ठतीत्यर्थः। उक्तं हि पश्यन्नेवायं तस्मिन्काले भवतीति॥१५४१॥

इत्थंसतत्त्वकस्तावद्द्रष्टव्यः श्रुतियुक्तिभिः॥
न पश्यतीति न पुनर्द्रष्टव्यो हेत्वसंभवात्॥१५४२॥

अस्तु स्वापे पश्यन्नपश्यंश्चाऽऽत्मोभयथा श्रुतेर्नेत्यात्याह। इत्थमिति। ज्योतिर्मात्रस्वभाव इति यावत्। पश्यन्निति श्रुतिः। जडस्यानात्मताप्रसक्तिरित्याद्या युक्तिः। व्यावर्त्यमाह। नेति॥१५४२॥

विशेषवन्न चाप्यस्य विज्ञानमिह जायते॥
पश्यन्न पश्यतीत्येवं पदार्थद्वयमीरितम्॥१५४३॥

तदाविष्करणे ग्रन्थः क्रमेणाऽऽरभ्यते परः॥
न हि द्रष्टुरितीत्थं च सौकर्येणावगम्यते॥१५४४॥

न पश्यतीति श्रुतिरेव हेतुरिति चेत्तत्राऽऽह। विशेषवदिति। अतो न पश्यतीति श्रुतिरिति शेषः। **यथाऽऽहुः—**न चास्य विशेषज्ञानं प्रादुरस्तीति। वृत्तमनूद्योत्तरवाक्यमादत्ते। पश्यन्निति। पश्यन्नित्युक्तपदार्थप्रकटीकरणार्थं न हीत्यादि। न पश्यतीत्युक्तार्थस्पाष्ट्यार्थं न त्वित्यादीरितमित्यर्थः। पश्यन्नित्यस्य व्याख्या न हीत्यादिरिति पक्षे वाक्याक्षराणामार्जवेनार्थो भातीत्याह। न हीति। न पश्यतीत्यस्य व्याख्या न त्वित्यादिरित्यत्रापि तदक्षराणामाञ्जस्यं तुल्यमिति चार्थः॥१५४३॥१५४४॥

द्रष्टा दृष्टिक्रियाकारी विज्ञानात्मा पुमानिह॥
बुद्ध्युपात्तस्य रूपादेर्विज्ञानं च ततः परम्॥१५४५॥

द्रष्टृपदार्थमाह। द्रष्टेति। बुद्धिविषयरूपादेर्दृष्टिरूपक्रियाकर्ता जीवो लोके द्रष्टोच्यते द्रष्टाऽयं पुरुषो दृष्टिक्रियायाः कर्ता दृष्टिक्रियाभिव्यक्तस्य रूपस्य बुद्ध्योपहृतस्य विज्ञातेत्युक्तेरित्यर्थः। यदाऽस्य दृष्टिकर्तृत्वं कारणपौष्कल्यात्तदाऽनन्तरक्षणे लब्धाश्रयं विज्ञानं चक्षुरादिद्वारा रूपादिविषयं प्रादुर्भवतीत्याह। विज्ञानं चेति॥१५४१॥

तत्रापि च धियो वृत्तेर्ग्राह्यग्राहकरूपतः॥
घटादिमेयविषयात्पूर्वोत्पन्नक्रियात्मनः॥१५४६॥

क्रियान्तरस्य निर्वृत्तौ द्रष्टा तत्रापि पूरुषः॥
दृक्शक्तिः पुरुषे तत्र या रूपाद्यनुरोधिनी॥१५४७॥

न केवलं ज्ञानस्यैवाऽऽत्मा कर्ता किंतु तत्फलस्य संवेदनस्यापीत्याह। तत्रापीति। आत्मनो दृष्टिकर्तृत्वे विषयज्ञाने चोत्पन्ने सति धीवृत्तेरात्मकर्तृकज्ञानस्य ग्राह्यं शब्दाद्यधिकृत्य ग्राहकरूपत्वात्प्रथमप्रवृत्तात्क्रियारूप-ज्ञानाद्धटाद्यर्थात्क्रियान्तरस्य संवेदनाख्यफलस्योत्पत्तौ तस्मिन्नपि कर्ता जीवोऽवगम्यते। उक्तं हि तत्रापि बुद्धिप्रत्ययस्य घटादेश्चग्राह्यग्राहकभावेन संबन्धात्क्रियान्तरनिर्वृत्तौ द्रष्टैवेति। तज्ज्ञानसंवेदनयोरात्मा कर्तेत्यर्थः। बुद्धेरेव दृष्टिसामर्थ्यात्कथमात्मनो द्रष्टृत्वं तत्राऽऽह। दृक्शक्तिरिति। शब्दादिज्ञानसंवेदनकर्तृत्वसामर्थ्यमात्माश्रितं जडस्य तदयोगादित्यर्थः। तदुक्तं तत्र यस्मिन्पुरुषे हक्शक्ती रूपग्रहणादिसंबन्धिनीति॥१५४६॥१५४७॥

क्रियाभावोऽवगन्तृस्थो विज्ञानात्मैककर्तृकः॥
तस्या दृष्टेः क्रियाया हि द्रष्टृधर्मत्वतः सदा॥१५४८॥

द्रष्टुर्विपरिलोपोऽत्र मनागपि न विद्यते॥
गुणिस्थित्यनुरोधित्वाद्गुणानामग्निदाहवत्॥१५४९॥

आत्मनो द्रष्टृत्वे फलितमाह। क्रियेति। ज्ञानसंवेदनाख्यक्रियारूपो भावो जीवकर्तृकस्तदाश्रित इत्यर्थः। तदाहुर्विज्ञानात्माधीनो यो दृशिक्रियाभावः कर्तृगत इति। द्रष्टुर्दृष्टेरिति पदद्वयं व्याख्यायावशिष्टं व्याचष्टे। तस्या इति। वक्ष्यमाणन्यायावद्योती हिशब्दः। द्रष्टृधर्मत्वे दृष्टेर्द्रष्टुश्चाविनाशेऽपि किमिति नाशो दृष्टेर्न स्यात्तत्राऽऽह। गुणीति। यथाऽग्नेर्दाहो यावदग्निभावी तथा गुणानां गुणिस्थित्यनुसारित्वाद्यावद्गुणिभावित्वमित्यर्थः। उक्तं च यावद्गुणिभाविनो हि गुणा यावदग्निस्तावदौष्ण्यमिति॥१५४८॥१५४९॥

यत एवमतो यावदात्मा द्रष्टा न नश्यति॥
न तावत्स्यात्समुच्छेदां द्रटुर्दृष्टस्तदाश्रयात्॥१५५०॥

सामान्यन्यायं प्रकृते योजयति। यत इति। यथोक्तं यावद्द्रष्टा तावद्दृष्टिरित्यपरेिलोप इति॥ १५५०॥

मतं गुणविनाशेन तद्गुणोऽपि विनङ्क्ष्यति॥
अग्न्याद्यौष्ण्यादिवच्चेन्न द्रष्टुरस्याविनाशतः916॥१५५१॥

आत्मना सह तर्हि दृष्टिर्नश्यतीति शङ्कते। मतमिति। यथाऽग्न्यादिगुणिनाशेनौष्ण्यादिस्तद्गुणो नश्यति तद्वदात्मनाशेन तद्गुणो दृष्टिर्नश्यतीत्यर्थः। नित्यो हि द्रष्टेति भाष्येण दूषयति। न द्रष्टुरिति॥१५९१॥

अत आहाविनाशित्वाद्रष्टुर्दृष्टिकृतः सदा॥
विनंष्टुं नाऽऽत्मनः शीलं घटादेरिव युज्यते॥१५५२॥

द्रष्टुरविनाशे हेतुत्वेन श्रुतिमवतारयति। अत इति। यतो द्रष्टुरविनाशोऽभीष्टोऽतोऽविनाशित्वादिति हेतुमाह श्रुतिः। यतश्च द्रष्टुरनाशोऽतो दृष्टिरात्मनः सदाऽस्ति द्रष्ट्रा सह तन्नाशस्य शङ्कितुमशक्यत्वादित्यर्थः। आत्मनोऽनाशे कथमविनाशित्वं हेतुः साध्यावैशिष्ट्यादित्याशङ्कयाऽऽह। विनंष्टुमिति। **यथाऽऽहुः—**न ह्यस्य विनंष्टुं शीलंविद्यत इति॥१५५२॥

न विनश्यत्यसौ कस्मादिति हेतुरिहोच्यताम्॥
917र्वात्मत्वात्तथैकत्वाद्रष्टुर्नाशो न विद्यते॥१५५३॥

कुत इतिप्रश्नार्थमाह। नेति। सर्वात्मभावाद्वैतत्वादिति भाष्येणोत्तरमाह। सर्वात्मत्वादिति॥१५१३॥

येनास्याऽऽशङ्क्यते नाशस्तेनास्याप्रविभागतः॥
संभाव्यते न नाशोऽस्य नंषुर्नाशाविभागतः॥१५५४॥

किंचाऽऽत्मनः स्वातिरिक्तेन वा नाशः स्वेनैव वा नाऽऽद्य इत्याह। येनेति। नंष्टृत्वेनेष्टात्मनो नाशकत्वेनेष्टाद्भेदाभावादित्युक्तमेव हेतुं स्पष्टयति202नंष्टुरिति। नाशशब्दो नाशकविषयः। **यथाऽऽहुः—**येन ह्यस्यान्येन द्वितीयेन नाश आशङ्क्येत918 न तदस्ति तेनाविभक्तत्वात्तस्येति॥ १५५४॥

न च तेनैव तस्यैव विनाश उपपद्यते॥
ऐकात्म्याद्वैतविषये यथाऽग्नीन्धनयोस्तथा॥१५५५॥

न द्वितीय इत्याह। न चेति। अनुपपत्तिं वैधर्म्यदृष्टान्तेन स्पष्टयति। द्वैतेति। सति भेदे वह्नीन्धनयोर्नाश्यनाशकता यथेक्ष्यते न तथैकात्म्यविषये सा संभवति विषयविषयिभावस्य भेदापेक्षत्वादित्यर्थः। तदुक्तं न च तेनैव तस्य विनाशोऽस्तीति॥१५५५॥

द्रष्टुस्ततोऽविनाशित्वान्नित्या नित्यस्य धर्मिणः॥
आदित्यरश्मिवद्ग्राह्या दृष्टिरप्यविनाशिनी॥१५५६॥

आत्मनः स्वतः परतश्चानाशे फलितमाह। द्रष्टुरिति। <MISSING_FIG href=”../books_images/U-IMG-1734623906Capture2.PNG"/>तथा द्रष्टुर्नित्यत्वे सतीत्यर्थः। यथोक्तमविनाशित्वान्नित्यस्तस्य नित्यस्य द्रष्टुर्नित्यो गुणो दृष्टिरवस्थितैवाऽऽस्त इति॥१५५६॥

नित्योऽतो नित्यया दृष्ट्या पश्यन्नेवाविलुप्तया॥
द्रष्टाऽऽस्ते प्रज्वलन्त्याऽत्र सुषुप्ते यो विवक्षितः॥१५५७॥

___________________________________________________________________________

<MISSING_FIG href="../books_images/U-IMG-1734623906Capture2.PNG"/> एतट्टीकानुरोधेन मूले ततोऽविनाशित्वादित्यत्र तथाऽविनाशित्वादिति स्यादिन्यनुमीयते।

दृष्टेर्नित्यत्वे किमायातं तत्राऽऽह919नित्य इतितदुक्तं स तया दृष्ट्याऽविपरिलुप्तया पश्यन्नेवाऽऽस्त इति॥१५५७॥

एवं तावत्स्थितं पूर्वं पश्यन्निति यदीरितम्॥
न पश्यतीति यत्तूक्तंतदिदानीं प्रपञ्चयते॥१५५८॥

इति स्थितमित्यस्यार्थमाह। एवमिति। द्वितीयं पदार्थं निर्णेतुमुपादत्त इति भाष्यार्थमाह। नेत्यादिना॥१५५८॥

न पश्यतीदं द्रष्टव्यमिति यत्सूत्रितं पुरा॥
पश्यन्नेव यदि ह्यास्ते कथं तदुपपद्यते॥१५५९॥

नेत्यादिप्रतिज्ञाया दौर्बल्याभावात्किं तत्प्रपञ्चेनेत्याशङ्क्य यदि पश्यन्नेवाऽऽस्ते कथं न पश्यतीतिभाष्यार्थमाह। न पश्यतीति॥१५५९॥

यथोपपद्यते सर्वं शृणु तच्चापि भण्यते॥
पश्यन्नेवायमत्राऽऽस्ते पूर्वहेतुसमाश्रयात्॥१५६०॥

शृणु यथा पश्यति न पश्यति चेत्यस्यार्थं वदन्नत्वित्यादिवाक्यमादत्ते। यथेति। पश्यन्न पश्यतीति यथोपपद्यते तथा तत्सर्वमपि भण्यते तत्त्वं शृण्विति योजना। पूर्वचैवं स्थितमनुवदन्पश्यति तावदयमित्यस्यार्थमाह। पश्यन्निति। नित्यदृष्टित्वं पूर्वहेतुः॥१५६०॥

तत्तु द्वितीयं नेहास्ति द्रष्टव्यं यत्समाश्रयात्॥
विशेषबुद्ध्यभिव्यक्तिर्जाद्भूमाविवेष्यते॥१५६१॥

कथं तर्हि न पश्यतीत्याशङ्क्य तत्तुद्वितीयं नास्ति यत्संबन्धाद्विशेषविज्ञानं प्रादुःप्यादितिभाष्यार्थमाह। तत्त्विति। इहेति सुप्तिरुक्ता॥१५६१॥

ननु द्रष्टव्यमस्त्येव द्वैताद्वैतात्मकत्वतः॥
ब्रह्मणोऽस्य कथं नास्ति द्रष्टव्यमिति भण्यता920म्॥
द्रष्टव्यं स्याद्विभक्तं तन्नाविभक्तं यथोदितम्॥१५६२॥

ननु च द्वैताद्वैतविषयत्वे स्यादेव विभक्तं द्रष्टव्यमिति चोद्यं व्याकुर्वन्द्रष्टव्यासंभवान्न पश्यतीत्युक्तमाक्षिपति। नन्विति। स्याद्विभक्तं न त्वन्यत्वत इति भाष्येणोत्तरमाह। द्रष्टव्यमिति। द्रष्टुर्व्यतिरिक्तं जगद्द्रष्टव्यं भवितुमीष्टे न तन्मात्रं स्वापे तु यथोक्तं भिन्नाभिन्नात्मकं ब्रह्मैव जगदिति द्रष्टव्यासत्त्वमेतेन ततोऽन्यदित्यादि व्याख्यातमित्यर्थः॥१५६२॥

यदि ह्यन्यत्ततो द्रष्टुर्दृश्यं तत्स्याद्विभागवत्॥
ततः पश्येद्विभक्तं सन्न त्वेवमिह विद्यते॥१५६३॥

यदि हि ततोऽन्यद्विभक्तं स्यात्पश्येन्न तु तद्वितीयमस्तीति भाष्यं व्याकुर्वन्नुक्तं प्रपञ्चयति। यदीति। इहेति स्वसिद्धान्तस्य सुषुप्तेर्वा ग्रहणम्॥१९६३॥

पश्यन्नेवायमत्राऽऽस्ते द्रष्टव्यासंभवात्सदा॥
न पश्यतीति द्रष्टोक्तो न तु दृष्टिविनाशतः॥१५६४॥

तस्माद्दृक्शक्तेर्विद्यमानत्वात्पश्यन्नेवाऽऽस्ते न तु द्रष्टव्यं प्राप्नोति यतोऽतो नोपलभत इतिभाष्यार्थं वदन्प्रतिज्ञा-द्वयमुपसंहरति। पश्यन्निति॥१९६४॥

ज्वलन्नपि यथा वह्निर्नानभ्याहितमिन्धनम्॥
दहतीह तथा द्रष्टा नाप्राप्तं दृश्यमीक्षते॥१५६५॥

तद्यथाऽग्निर्ज्वलन्नपि नानभ्याहितं दहति तद्वदिति भाष्यमाश्रित्योक्तमेव दृष्टान्तेन साधयति। **ज्वलन्निति।**व्यवहार-भूमिः सप्तम्यर्थः॥१९६१॥

व्याख्यानमेतत्सूधियां श्रद्दधाना उपासते॥
युक्त्यक्षरबहिष्ठत्वान्न विद्वांस उपासते॥१५६६॥

भर्तृप्रपञ्चव्याख्यानमुपन्यस्य स्थूलधीभिरादरणीयत्वं दर्शयन्दुष्टत्वं सूचयति। व्याख्यानमिति। विद्वद्भिरुपेक्षणीयत्वाच्च तस्य921 दुष्टतेत्याह। युक्तीति॥११६६॥

यथा चेदमसंबद्धं न युक्त्यक्षरसंश्रयम्॥
तथाऽसकृत्पुराऽप्युक्तमधुनाऽप्यभिधीयते॥१५६७॥

कथमिदं युक्त्यक्षरबाह्यतयोपेक्ष्यमिति तत्राऽऽह। यथेति। आत्मा कूटस्थदृष्टिरिति वदद्भिारेदं दुष्टमित्युपदिष्टमुप-पादयिष्यते चेत्यर्थः। तर्हि किमर्थमिदमिदानीमनूदितं तत्राऽऽह। अधुनाऽपीति। तद्व्याख्याने दुष्टतोक्तिः सम्यक्त्वभ्रान्तिनिरासार्थमित्यर्थः॥१५६७॥

पश्यनेवायमत्राऽऽत्मा सुषुप्ते व्यवतिष्ठते॥
एवं सतत्व एवायमिति हेतुरिहोदितः॥१५६८॥

किं तर्हि तदुच्यमानं दूषणमिति तद्वक्तुं922 परपक्षमनुभाषते। पश्यन्निति। आत्मा हि स्वापे पश्यन्नेव तिष्ठत्येवमवि-नष्टदृष्टिर सावित्यत्र न हीत्यादिना दृष्टिकर्तुर्नाशाभावात्तद्गुणस्य दृष्टेरपि न नाश इत्युक्तो हेतुरित्यर्थः॥१९६८॥

न च प्रादुर्भवत्यस्य ज्ञानमन्यद्विशेषवत्॥
न पश्यतीति वाक्यस्य व्याख्यानमिदमीरितम्॥१५६९॥

प्रतिज्ञान्तरव्याख्यामनुवदति। न चेति॥१९६९॥

पश्यन्नेवेति चेदेतद्वस्तुयाथात्म्यमुच्यते॥
इत्थंसतन्त्र इत्युक्त्या कथं द्रष्टुक्रि923योच्यते॥१५७०॥

यत्तावत्पश्यन्नित्यस्य व्याख्यानं तत्र किं पश्यन्नित्यात्मनो दृष्टिरूपतोक्ता किंवा तत्कर्तृताऽऽद्यं प्रत्याह। पश्यमिति। यदि प्रतीचः स्वरूपं पश्यन्नित्यनेन दृष्टिलक्षणमुक्तं तदा प्रत्यगात्मेत्थंसतत्त्वो दृष्टिस्वभावो न तत्कर्तेत्यतो न हीत्यादौ दृष्टेरित्युक्त्या दृष्टिकर्तुरात्मनो दृष्टिरूपा क्रिया नैवोच्येतेत्यर्थः॥१९७०॥

द्रष्ट्रधीना क्रियादृष्टिरिति चेद्भवतोच्यते॥
कथं विपरिलोपोऽस्याः क्रियात्वे सति वार्यते॥१५७१॥

द्वितीयमनूद्य प्रत्याह। द्रष्ट्रिति। क्रिया हि परिलुप्यते क्रियात्वाद्गतिवत्तथाच न हीत्यादिनिषेधविरोधः स्यादिति भावः॥१९७१॥

अभूतदृष्टिकर्तृत्वे द्रष्टृत्वं द्रष्टुरिष्यते॥
प्रादुर्भावे तथाऽसत्याः क्रियायाश्च क्रियात्मता॥१५७२॥

किंचाऽऽत्मा सतीं दृष्टिं करोत्यसतीं वा तत्राऽऽद्यं निराह। अभूतेति। असतीमभूतां दृष्टिं प्रति कर्तृत्वे द्रष्टुर्द्रष्टृत्वमेष्टुं शक्यते न त्वसौ सतीं कर्तुमीष्टे सत्या दृष्टेः सत्त्वादेव चिकीर्षाविषयत्वाभावात्तन्नाऽऽद्यकल्पसिद्धिरित्यर्थः। तत्रैव हेत्वन्तरमाह। प्रादुर्भाव इति। यथा द्रष्टुर्द्रष्टृत्वमसतीं क्रियां प्रति कर्तृत्वेन भवति तथा क्रियायाश्चासत्या जन्मनि क्रियात्वं सिध्यत्यतो न सतीं दृष्टिं द्रष्टा करोतीत्यर्थः। न द्वितीयोऽसत्या दृष्टेः शशशृङ्गवत्करणासिद्धेरिति चार्थः॥ ११७२॥

द्रष्ट्रा च क्रियते दृष्टिर्न चासौ परिलुप्यते॥
इति स्ववचसैवैतद्विरुद्धमभिधीयते॥१५७३॥

आत्मा दृष्टिकर्ता तस्य क्रिया दृष्टिरिति निरस्तम्। यत्तु दृष्टिकर्तुरविनाशात्तद्गुणो दृष्टिर्न नश्यतीति तत्राऽऽह। द्रष्ट्रा चेति॥१९७३॥

कार्यस्यापि च नित्यत्वं वचनाच्चेत्प्रसिध्यति॥
वचनस्याप्रमाणत्वं कारकत्वात्प्रसज्यते॥१५७४॥

न हि द्रष्टुरित्यादिवाक्याव्याघातसमाधिं शङ्कते। कार्यस्येति। वाक्यं कृतकस्य नित्यतां कुर्याद्बोधयेद्वेति विकल्प्याऽऽये दोषमाह। वचनस्येति॥११७४॥

प्रमाणं बोधकं सर्वंतच्च सिद्धस्य वस्तुनः॥
पूर्वं प्रमाणसंबन्धाद्व्यङ्ग्यव्यञ्जकसंगतेः॥१५७५॥

कारकत्वेऽपि प्रमाणं किं न स्यात्तत्राऽऽह। प्रमाणमिति। बोधकत्वेऽपि कारकत्वं किं न स्यादत आह। तच्चेति। मानसंबन्धात्प्रागेव सिद्धस्य बोधकं मानमित्यत्र हेतुमाह। व्यङ्ग्येति। विद्यमानविषयापेक्षत्वाद्धटदीपादौ तथादृष्टत्वादिति शेषः॥१९७५॥

अनुमानविरोधस्य वचसोऽस्य प्रसज्यते॥
अविनाभाविता यस्मादनित्यकृतकत्वयोः॥१५७६॥

द्वितीयं प्रत्याह। अनुमानेति। चकारस्तद्यथेह कर्मजित924 इत्यादिश्रुतिविरोधसमुच्चयार्थः। अनुमानविरोधे हेतुमाह। अविनाभावितेति॥११७६॥

द्वौ पदार्थावुपन्यस्तावित्येतदतिदु925र्घटम्॥
यतो न पश्यतीत्येतदनुद्यान्यद्विभाव्यते॥१५७७॥

आत्मना क्रियमाणाऽपिदृष्टिर्न नश्यतीति प्रत्युक्तम्। यत्तु पश्यन्न पश्यतीत्येवं पदार्थद्वयमुक्तमिति तन्निरस्यति। द्वाविति। दौर्घट्ये हेतुः। यत इति॥११७७॥

न पश्यतीति प्राप्तत्वान्नापूर्वोऽर्थोऽवबोध्यते॥
न पश्यतीत्यतोऽनुपश्यन्निति विधीयते॥१५७८॥

कथं यथोक्तोऽनूद्यविधेयभावस्तत्राऽऽह। नेत्यादिना। स्वापे दृष्ट्यभावस्य प्राप्तत्वान्न पश्यतीत्यज्ञातोऽर्थो न बोध्यते किंतु न पश्यतीत्यदृष्टिमनूद्य पश्यतीत्यप्राप्ता दृष्टिर्विधीयते तन्न पदार्थद्वयसंभावनेत्यर्थः॥१५७८॥

पश्यन्नित्यस्य वा व्याख्या कारकत्वनिवृत्तये॥
न पश्यतीति वचनं न त्वर्थान्तरमुच्यते॥१५७९॥

इतश्चपदार्थद्वयं नास्तीत्याह। पश्यन्नित्यस्येति। अनूद्यविधेयभावेन व्याख्यानव्याख्येयभावस्य विकल्पार्थो वाशब्दः। पश्यन्नित्युक्ते ज्ञानकर्तृत्वं प्राप्तं निराकर्तुं न पश्यतीत्युच्यते न स्वतन्त्रं पदार्थान्तरं तन्न पदार्थद्वयमित्यर्थः॥११७९॥

किमयं दृष्टिकारित्वात्पुमान्द्रष्टेति भण्यते॥
दृष्ट्यात्मकं वा किं वस्तु द्रष्टेत्यत्र विवक्ष्यते॥१५८०॥

यत्तु द्रष्टा दृष्टिक्रियाकारीति तद्दूषयितुं विमृशति। किमिति॥१५८०॥

न तावद्दृष्टिकर्तृत्वं कौटस्थ्यादात्मवस्तुनः॥
कौटस्थ्यसिद्धौ हेतूंश्च प्रागवोचमनेकशः॥१५८१॥

आद्ये दोषमाह। न तावदिति। हेत्वसिद्धिमाशङ्क्याऽऽह। कौटस्थ्येति। हेतुरसङ्गत्वादिः॥१९८१॥

क्रियाकारकरूपस्य प्रत्यङ्मात्रसतत्त्वतः॥
नातोऽस्य कारकत्वं स्यात्साक्षित्वाच्च क्रियावताम्॥१५८२॥

आत्मातिरिक्तवस्त्वभावाच्च नास्य दृष्टिकर्तृतेत्याह। क्रियेति। पञ्चम्यौ समानाधिकरणे। तत्रैव हेत्वन्तरमाह। साक्षित्वाच्चेति। न हि कारकसाक्षी कारकतां गन्तुमलमित्यर्थः॥१९८२॥

बुद्ध्युपात्तस्य रूपादेर्विज्ञातृत्वं न चाऽऽत्मनः॥
भोक्तृत्वमपि तस्येह चैतन्याभासवर्त्मना॥१५८३॥

दृष्ट्यात्मकं वस्तु द्रष्टृशब्देनेष्टं चेद्बुद्ध्युपात्तस्य रूपादेरात्मा दृष्टिक्रियाकारीतीष्टं न स्यादिति द्वितीयं निराचष्टे। बुद्धीति। चकारोऽवधारणार्थे निषेधानन्तरभावी। आत्मनो धीकर्तृत्वं प्रत्यूढम्। यत्तु क्रियान्तरस्य निर्वृत्तौ द्रष्टा तत्राऽपि पूरुष इति तत्राऽऽह। भोक्तृत्वमिति। बुद्धिवृत्तिव्याप्तशब्दाद्यर्थस्य चिदाभासाक्रान्तत्वाकारेणाऽऽत्मनो भोज्ये भोक्तृत्वमिष्टं तथाचास्य धीकर्तृत्ववन्न तत्फलकर्तृत्वमपीत्यर्थः॥१५८३॥

मणेरेव विकारोऽयं याऽलक्तादिसरूपता॥
नालक्तकादेर्विकृतिर्निष्क्रियत्वादिहेष्यते॥१५८४॥

शब्दाद्यर्थस्य च चिदाकारत्वे चिदात्मा कथं न विक्रियते तत्राऽऽह। मणेरिति। मणेस्तदाकारधारित्वे तस्य क्रियानपेक्षत्वं निषेधे हेतुः॥१९८४॥

रक्तत्वादिप्रसिद्ध्यर्थं विक्रियां न प्रपद्यते॥
अलक्तकादिः सर्वत्र यथैवं ह्यात्मवस्त्वपि॥१५८५॥

दृष्टान्तमनूद्यदार्ष्टान्तिकमाह। रक्तत्वादीति। सर्वत्र मण्यादे रक्तत्वादिसिद्ध्यर्थमलक्तकादिर्यथा विक्रियां न प्रपद्यते तथाऽऽत्मवस्त्वपि धीवृत्तिव्याप्तशब्दादेश्चिदाकारत्वे न विकारवदित्यर्थः॥ १५८५॥

गुणिस्थित्यनुरोधित्वं न च सर्वत्र वीक्ष्यते॥
गुणानां केशकृष्णत्वं व्येति केशेषु सत्स्वपि॥१५८६॥

ज्ञानतत्फलकर्तृत्वमात्मनो निरस्य गुणिस्थित्यनुरोधित्वं गुणानामित्युक्तं निरस्यति। गुणीति॥ १९८६॥

अनेरात्यन्तिको नाशो भवताऽपि न मृष्यते॥
न चोष्णत्वं सतोऽप्यग्नेः काष्ठादावुपलभ्यते॥१५८७॥

यत्वग्निदाहवदिति तत्राऽऽह। अग्नेरिति। अरणिमणिप्रभृतिषु तस्य सत्त्वादन्यथोत्पत्त्यनुपपत्तेरित्यर्थः। तथाऽपि प्रकृते किं जातं तदाह। न चेति। अतो गुणानां गुणिस्थित्यनुसारित्वे नेदमुदाहरणमिति शेषः॥१९८७॥

गुणिस्थित्यनुरोधित्वमस्तु नाम गुणात्मनः॥
द्रष्टुर्दृष्टेः किमायातं क्रिया दृष्टिर्गुणो न तु॥१५८८॥

तत्राग्नेरदृष्टेरेव दाहाद्यदृष्टिस्तद्दृष्टौ तु तद्दृष्टिः स्यात्तथाच गुणिस्थित्यनुरोधित्वं गुणानां नियतमित्याशङ्क्याऽऽह। गुणीति। तस्या यावद्द्रष्टृभावित्वमायास्यतीति चेन्नेत्याह। क्रियेति॥ १५८८॥

कारकाणां स्वभावोऽयं यदकृत्वा प्रवर्तनम्॥
यथाऽभूत्वा तथा भावः क्रियायास्तत्त्वमुच्यते॥१५८९॥

क्रियाऽपि सा यावद्द्रष्टृभाविनीति चेन्नेत्याह। कारकाणामिति। कारकस्वभावालोचनया क्रियानित्यत्वाभावमुक्त्वा क्रियास्वरूपनिरूपणयाऽपि तन्नित्यत्वाभावमाह। यथेति। अभूत्वा यथा भवनं तथा भूत्वावाऽभ926वनं क्रियायाः स्वरूपं तत्कुतो नित्यतेत्यर्थः॥१९८९॥

यावद्द्रव्यानुरोधित्वं नावश्यं गुणकर्मणोः॥
द्रव्ये सत्यपि लोकेऽस्मिन्व्यभिचारस्य दर्शनात्॥१५९०॥

दृष्टेर्गुणत्वे क्रियात्वे वाऽयावद्द्रष्टृभावित्वमुपसंहरति। यावदिति। अतो दृष्टेरपि गुणत्वे क्रियात्वे च न यावद्द्रष्टृभावितेति शेषः॥१९९०॥

जातिक्रियागुणादीनां निषेधादात्मवस्तुनः॥
अस्थूलं नेति नेतीति प्रतीचोऽन्यन्निषिध्यते॥१५९१॥

यत्तु द्रष्टुरविनाशित्वं तद्धर्मस्य दृष्टेरविनाशित्वे हेतुरिति तत्र द्रष्टा निर्विशेषः सविशेषो वाऽऽद्ये निर्धर्मकत्वात्तद्धर्मस्य दृष्टेरविनाशितेत्ययुक्तमित्याह। जातीति। तन्निषेधे मानमाह। अस्थूलमिति॥१५९१॥

द्रष्टुश्चापि न नित्यत्वं क्रियोद्भूतिनिमित्ततः॥
क्रियाकारकयो रूपमितरेतरहेतुकम्॥१५९२॥

द्वितीयं प्रत्याह। द्रष्टुश्चेति। दृष्टिवदित्यपेरर्थः। सविशेषस्य द्रष्टुर्नित्यत्वाभावे हेतुमाह। क्रियेति। कारकरूपस्यापि द्रष्टुर्नित्यत्वं किं न स्यात्तत्राऽऽह। क्रियाकारकयोरिति। तथाच क्रियाभावे कर्तुरप्यभाव इति शेषः॥१५९२॥

स्वमात्रेण न यत्सिद्धं तत्सिद्धं परतः कथम्॥
स्वमात्रेण च यत्सिद्धं तस्यापेक्षाऽन्यतः कुतः॥१५९३॥

न हीत्यादिवाक्ये द्रष्टृदृष्टिशब्दाभ्यां क्रियाकारकग्रहो निरस्त इदानीं तयोः सापेक्षत्वेन कल्पितत्वाच्च नेह ग्रह इत्याह। स्वमात्रेणेति। विमतं कल्पितं सापेक्षत्वात्संमतवदित्यर्थः। आत्मनि व्यभिचारमाशङ्क्याऽऽह। स्वमात्रेण चेति॥१९९३॥

न सिद्धयोमिथोऽपेक्षा न स्वतोऽसिद्धयोस्तथा॥
इत्यादेःपूर्वमुक्तत्वान्नेह भूयोऽपि यत्यते॥१५९४॥

किंच सापेक्षस्य कल्पितत्वमव्याकृतविचारादावुक्तत्वान्नात्र वाच्यमित्याह। नेति। आदिपदेन सिद्धासिद्धयोरपि नापेक्षा तेन सापेक्षं सर्वं कल्पितमित्येतदुच्यते॥१५९४॥

नासतो विद्यतेऽपेक्षा नापि कूटस्थवस्तुनः॥
शक्त्यवस्थं यतो वस्तुहेत्वपेक्ष्यैति विक्रियाम्॥१५९५॥

अव्याकृतादावुक्तं बुद्धिसौकर्यार्थं संक्षिपति। नासत इति। सतोऽसतश्चापेक्षाभावे कस्यापेक्षेति तत्राऽऽह। शक्तीति। आत्माविद्या शक्तिस्तदात्मना स्थितं जगदकल्पितं वस्त्वपेक्ष्य जन्मादि प्राप्नोत्यतो मायामयस्य सापेक्षतेत्यर्थः। वस्तु कूटस्थं हेतुर्यस्य तज्जगत्तथेति विग्रहः॥१५९५॥

नित्यं न भवनं यस्य यस्य वा नित्यभूतता॥
न तस्य क्रियमाणत्वं खपुष्पाकाशयोरिव॥१५९६॥

कार्यप्रपञ्चस्य कल्पितत्वे हेत्वन्तरमाह। नित्यमिति। विमतं कल्पितमाद्यन्तवत्त्वात्संगतवदित्यर्थः॥१५९६॥

उत्पत्त्यादौ तु927 यच्छक्तं शक्तिमात्रात्मना स्थितम्॥
तदेव हेत्वपेक्षं सदुत्पत्त्यादि प्रपद्यते॥१५९७॥

कार्यस्य कारणातिरेकाभावाच्च कल्पितत्वमित्याह। उत्पत्त्यादाविति। उत्पत्त्यादिमत्त्वात्कल्पितत्वं चैतन्येऽपि स्यादिति चेन्नेत्याह। तदेवेति॥१५९७॥

उत्पत्त्यादावशक्तत्वात्कौटस्थ्यादात्मवस्तुनः॥
अद्वितीयत्वतश्चास्य नोत्पत्त्यादि प्रसिध्यति॥१५९८॥

चैतन्यमपि तद्योग्यत्वेनोत्पत्त्यादि प्रपत्स्यते तथाच कल्पितत्वमित्याशङ्क्याऽऽह। उत्पत्तीति। तत्र हेतुः। कौटस्थ्यादिति। तस्य जन्माद्यभावे हेत्वन्तरमाह। अद्वितीयत्वतश्चेति॥१५९८॥

शक्त्यवस्थानि वस्तूनि योग्यहेतोरसंभवात्॥
नाऽऽर्तवानि प्रसूयन्ते योग्यहेतौ च तज्जनिः॥१५९९॥

तस्य जन्मादि मा भूज्जगतस्तु सदा स्यात्कारणात्मना सदा स्थितेस्तत्कथं कार्यत्वेन कल्पिततेत्याशङ्क्याऽऽह। शक्तीति। कारणात्मना स्थितमपि जगन्न सदा जन्माद्यापद्यते सहकारिसापेक्षत्वादित्यर्थः। आर्तवानि पुष्पफलादीनि तेषामप्रसूतिस्तदयोग्यत्वादित्याशङ्क्याऽऽह। योग्येति। कालादिर्योग्यो हेतुः॥१५९९॥

कार्यं नाक्रियमाणं सन्नाकुर्वत्कारणं तथा॥
मिथो न व्यतिरेकेण सिध्येते कार्यकारणे॥१६००॥

अव्याकृतादावुक्तं संक्षिप्तमुपसंहरति। कार्यमिति। न तावत्क्रियाव्याप्यं कार्यं क्रियायास्तदभावेऽपि कार्यत्वादन्यथाऽनवस्थानान्नापि तद्व्याप्यत्वरहितं दृश्यपि प्रसङ्गान्न च सत्कार्यं कारकव्यापारवैयर्थ्यान्नाप्यसन्नभोनलिनादेरपि प्रसङ्गान्न चाकुर्वत्कारणं

कारणत्व928व्याघातान्न च कुर्वत्तथा कुर्वत्त्वस्य नित्यत्वे नित्यं कार्यप्रसङ्गादनित्यत्वेऽनवस्थानान्न च कार्यकारणे मिथो भेदेनाभेदेन वा सिध्यतस्तद्भावभङ्गाद्भेदाभेदयोश्च विरुद्धत्वात्तस्मादारोपितं कारणादीत्यर्थः॥१६००॥

वस्त्वेव दृष्टिरत्रातो न क्रिया नापि कारकम्॥
तस्मादेवाविनाशित्वादिति हेतुरिहोदितः॥१६०१॥

तस्याऽऽरोपितत्वेऽपि प्रस्तुते किं जातं तदाह। वस्त्वेवेति। क्रियाकारकादेरारोपितत्वमतःशब्दार्थः। न हीत्यादिवाक्यमत्रेत्युच्यते। दृष्टिग्रहणं द्रष्टुरुपलक्षणम्। दृष्टिर्न क्रिया द्रष्टा न कारकमिति भेदः। इतश्चात्र द्रष्टृदृष्टिशब्दाभ्यां न क्रियाकारकग्रहणमित्याह। तस्मादिति। क्रियाकारकयोरिहाग्रहादिति यावत्। इहेति दृष्टेरपरिलोपोक्तिः। क्रियादिग्रहे त्वविनाशित्वहेतोरनुपपत्तिरुक्तेति भावः॥१६०१॥

निर्णीतं प्रथमं वस्तु पश्यन्निति यदीरितम्॥
न पश्यतीति यत्तूक्तं तस्य व्याख्याऽधुनोच्यते॥१६०२॥

पश्यन्नित्यस्य नहीत्यादि व्याख्यानमित्येतन्निरस्तमिदानीं न पश्यतीत्यस्य व्याख्यानं न त्वित्यादीत्युक्तमनुवदति। निर्णीतमिति। न हीत्यादिवाक्यार्थमनूद्य न त्वित्याद्यवतारयति। नेत्यादिना॥१६०२॥

दृष्टेरपरिलोपश्चेदथ कस्मान्न पश्यति॥
प्रबोधवत्सुषुप्तेऽस्मिन्निति प्रतिविधीयते॥१६०३॥

तदेव शङ्कोत्तरत्वेनोत्थापयति। दृष्टेरिति। दृष्ट्यपरिलोपस्य स्वदर्शनाविनाभूतत्वमथशब्दार्थः॥ १६०३॥

पश्यन्नेवायमात्मेति यथोक्तन्यायसंश्रयात्॥
न तु द्वितीयं जाग्रद्वत्पश्यत्यात्मा सुषुप्तगः॥१६०४॥

वाक्यं व्याख्यातुं स्थितमनुद्रवति। पश्यन्नेवेति। इतिपदादूर्ध्वं सिद्धमित्यध्याहारः। अविनाशित्वादित्यत्रोक्तं न्यायं सिद्धमनुभाष्य न त्वित्यादिवाक्यार्थमाह। न त्विति॥१६०४॥

द्वितीयं नेक्षते929 कस्मादित्यत्रैवाभिधीयते॥
हेतुर्न तु तदस्तीति पश्येद्यद्वस्तु बोधवत्॥१६०५॥

तत्र हेतुमाकाङ्क्षापूर्वकमाह। द्वितीयमिति॥१६०५॥

विशेषदृष्ट्यभिव्यक्तिर्यदाश्रित्य प्रसिध्यति॥
न तदस्ति यतस्तस्मात्पश्यन्नपि न पश्यति॥१६०६॥

वाक्यार्थमुपसंहरति। विशेषेति। यदिति द्रष्टव्यमादिश्यते॥१६०६॥

इति व्याख्या न साध्वीयं द्रष्टव्यासंभवे यतः॥
न प्रात्यक्ष्यं930 द्रष्टृदृष्ट्योः स्यात्सुषुप्तप्रसिद्धिवत्॥१६०७॥

निर्णीतं प्रथममित्यादिना न पश्यतीत्यन्तेन न च प्रादुर्भवत्यस्य ज्ञानमित्यनुवादवार्तिकं प्रपञ्चितं संप्रत्येतन्निरस्यति। इति व्याख्येति। शब्दादेर्द्रष्टव्यस्याभावात्पश्यन्नपिद्रष्टा स्वापे न पश्यतीत्येषा व्याख्या न युक्ता द्रष्टव्याभावे द्रष्टृदृष्ट्योरपि तदपेक्षयोरनुपपत्तेस्तदभावेऽपि तयोर्भावे द्रष्टृदृष्ट्योःसुप्तौ प्रत्यक्षता स्यान्न च यथा सुप्तेर्न तत्काले प्रत्यक्षता तथा द्रष्ट्रादेरपीति वाच्यमप्रकाशरूपायास्तस्यास्तथात्वेऽपि प्रकाशरूपस्य द्रष्ट्रादेः सतोऽप्रत्यक्षत्वायोगात्तस्माद्द्रष्टव्याभावे दृष्ट्यादेर्भावोक्तिरयुक्तेत्यर्थः॥१६०७॥

तमस्यवस्थितोऽप931श्यञ्ज्ञातृज्ञानतमांसि हि॥
प्रपद्यते विवेकेन यथा कुम्भादिवीक्षणे॥१६०८॥

न प्राज्ञेतु ततोऽयुक्तं दृश्यमात्रनिषेधनम्॥
ग्राहकग्रहणग्राह्यभावाभावाद्यपह्नुतेः॥१६०९॥

सुप्तेरप्रत्यक्षत्वमङ्गीकृत्योक्तं तदपि नास्तीत्याह। तमसीति। यथा कुम्भाद्युपलम्भे प्रस्तुते प्रभूते तमसि स्थितो द्रष्टा तदनुपलभमानोऽपि ज्ञातारं ज्ञानं तमश्च विवेकेन गत्येति तथाऽऽत्माऽपि सुप्तः शब्दाद्यनुपलम्भेऽपि सुप्तिंदृष्टिं द्रष्टारं च तस्यामेवावस्थायां विविच्य विद्यान्न च विवेकधीरस्तीत्यर्थः। दृष्टान्ते ज्ञात्रादिविवेकधीरनुभवानुसारिणीति हिशब्दार्थः। विवेकदृष्ट्यभावे फलितमाह। तत इति। अयुक्तमिति च्छेदः। ततःशब्दार्थं विशदयति। ग्राहकेति। अदृष्टिर्हिद्रष्टव्यनिषेधे हेतुः सा च द्रष्ट्रादावपि तुल्या तद्ग्राह्यवद्ग्राहकादेरपि स्वापेऽपह्नवप्रसङ्गान्न दृश्यमात्रस्य तत्रापह्नुतिरित्यर्थः। भावाभावौ जन्मनाशौ। आदिशब्देन परिणामादिग्रहः॥१६०८॥१६०९॥

ननु चास्त्येव तद्दृश्यं समस्तव्यस्तरूपतः॥
यथोक्तवस्तुनो मैवं तस्यानत्य932न्तभेदतः॥१६१०॥

पश्यन्नेव स्वापे द्रष्टव्याभावान्न पश्यतोति परोक्तं निरस्य द्रष्टव्याभावान्न पश्यतीत्यत्र परकीयौ चोद्यपरिहारावनुवदति। ननु चेत्यादिना॥१६१०॥

बाढमस्त्येव तद्दृश्यं न त्वत्यन्तवि933भागवत्॥
स्याद्विभक्तं तदन्यच्चेत्पश्येदेव प्रबोधवत्॥१६११॥

परिहारभागं विभजते। बाढमिति। कथं तर्हि द्रष्टव्याभावोक्तिस्तत्राऽऽह। न त्विति। तथाऽपि तद्दृष्टिप्रसक्तेर्न पश्यतीत्ययुक्तमत आह। स्यादिति। द्रष्टव्यं द्रष्टुरत्यन्तं विभक्तं चेत्स्वस्मादन्यत्तद्दृष्टा जाग्रतीव पश्येदेव न तु सदपि तदत्यन्तविभागाभावात्सुप्तौ पश्यत्यतश्चैतन्यवत्तस्य न सत्तेत्यर्थः॥१६११॥

नात्यन्तमेव सर्वत्र विभागोऽयं समीक्ष्यते॥
विशेषणमतोऽन्याय्यमत्यन्तमिति भण्यते॥१६१२॥

पराकरोति। नात्यन्तमिति। भेदाभेदवादे जागरादावपि नात्यन्तं भेदस्तन्मानामावात्तथाच स्वापगतमत्यन्त-विशेषणमयुक्तमतो विशेषविज्ञानभावाभावाववस्थात्रयेऽपितुल्यौ स्यातामित्यर्थः॥१६१२॥

विभक्तमविभक्तं वा वस्तु वस्त्वन्तराश्रयात्॥
सर्वैकत्वे विभागो वाऽविभागो वा न युज्यते॥१६१३॥

भेदाभेदवादमङ्गीकृत्य विशेषणं दूषयित्वा तद्वादस्यैवानुत्थानं कथयति। विभक्तमिति। इदं सर्वं यदयमात्मेत्यादि-श्रुतेः सर्वस्याद्वयात्ममात्रत्वे द्वितीयवस्त्वभावात्कुतो भेदाभेदावतार इत्यर्थः॥ १६१३॥

यद्धि यस्माद्विभक्तं स्यात्तदेव स्यात्ततः कथम्॥
अविभक्तं विरुद्धत्वात्तस्मादुक्तमशोभनम्॥१६१४॥

एकमेव भिन्नाभिन्नमित्युपगमात्किं द्वितीयसत्त्वेनेत्याशङ्क्याऽऽह। यद्धीति। विरुद्धत्वादिति हिशब्दावद्योतितहेतु-स्फुटीकरणम्। <MISSING_FIG href="../books_images/U-IMG-1734668243Capture2.PNG"/>तस्मादिति। उक्तमेकमेव भिन्नाभिन्नमिति त्वया कथितमिति यावत्॥१६१४॥

अपह्नुतिर्विभागस्य ह्यविभक्तगिरोच्यते॥
विभागान्नापरं वस्तु ह्यविभक्तगिरा ततः॥१६१५॥

अथाविभागो विभागादर्थान्तरं तथाच रूपरसयोरिव भेदाभेदयोरेकत्राविरोधस्तत्राऽऽह।अपह्नुतिरिति। नञश्चैष स्वभावो यत्स्वसंबन्धिनोऽभावं बोधयतीति भाष्यमत्र प्रमाणयितुमाद्यो हिशब्दो द्वितीयस्तु तदन्यतद्विरुद्धयोस्तदभावाविनाभूतयोस्तद्द्वारा नञो गौणत्वाद्गौणमुख्ययोर्मुख्ये संप्रत्यय इतिन्यायद्योतनार्थः। अभावो हि नञो मुख्योऽर्थस्तस्मिन्संभवति नार्थान्तरं युक्तं तथाचाविभक्तगिरा विभागादन्योऽर्थो नोच्यत इत्यर्थः ॥१६१९॥

अन्यद्विभक्तमिति च तथा द्रष्टव्यमित्यपि॥
सामर्थ्यादेक एवार्थो भूयो भूयोऽभिधीयते॥१६१६॥

किंचद्वितीयमन्यद्विभक्तमिति पदार्थ934भेदस्य दुर्वचत्वात्पौनरुक्त्यमिति परमते दोषान्तरमाह। अन्यदिति। द्रष्टव्यमिति द्वितीयोक्तिः। भेदाभेदाङ्गीकारादभेदमादाय पर्यायता यद्यपि भेदादपर्यायत्वं तथाऽप्यभेदात्पर्यायता दुर्वारा ततश्च सहप्रयोगासिद्धिरित्यर्थः। यद्वा पदशक्तेरर्थैक्यदृष्टेर्दुर्वारं पौनरुक्त्यमित्यर्थः॥१६१६॥

___________________________________________________________________________

**<MISSING_FIG href="../books_images/U-IMG-1734668243Capture2.PNG"/>**अस्यावतरणिका त्रुटितेत्यनुमीयते।

अस्मत्पक्षे तु दोषोऽत्र मनागपि न विद्यते॥
द्रष्टव्यो दृष्टियोग्योऽर्थोह्यन्योऽनन्यश्च युज्यते॥१६१७॥

त्वत्पक्षेऽपि तत्तुल्यमित्याशङ्क्याऽऽह। अस्मदिति। अत्रेति पदत्रयोक्तिः। पुनरुक्त्यभावं वक्तुं द्वितीयपदार्थमाह। द्रष्टव्य इति। दृष्टियोग्यो द्रष्टव्योऽर्थः स्वाविद्यातत्कार्याख्यो द्वितीयशब्दार्थ इत्यर्थः। प्रसिद्धं दृश्यस्य द्रष्ट्रपेक्षया द्वितीयत्वमिति वक्तुं हिशब्दः। तस्यान्यशब्देनापौनरुक्त्यमाह। अन्य इति। आत्मनोऽन्योऽनन्यश्चासावर्थोदृष्टियोग्यत्वस्योभयत्र प्रयोगादित्यर्थः॥१६१७॥

परमार्थात्मनस्तद्वत्कल्पिताज्ञानलक्षणः॥
अविभक्तोऽपि चान्यः स्याद्वैलक्षण्यात्परस्परम्॥१६१८॥

अन्यशब्दार्थमाह। परमार्थेति। कल्पिताज्ञानतत्कार्यरूपोऽर्थोऽकल्पितात्मनो यद्यपि न विभक्तः कल्पितस्याकल्पितातिरेकेणासत्त्वात्तथाऽपि तस्मादन्यः स्यादविद्यादेरात्मनश्च मिथः स्वभाववैषम्यादतो यथा दृष्टियोग्यत्वं निमित्तीकृत्याविद्यादौ द्वितीयशब्दस्तथा स्वभाववैषम्यान्निमित्तात्तत्रैवान्यशब्द इति भावः॥१६१८॥

धर्मादीनां विभक्तत्वमविभक्तेऽपि धर्मिणि॥
एवं न पुनरुक्तत्वं द्रष्टव्यादेः प्रसज्यते॥१६१९॥

विभक्तशब्दार्थमाह। धर्मादीनामिति। धर्मिण्यात्मनि कल्पनाधिष्ठाने वस्तुतो विभागहीनेऽपि महदहंकारादीनामाविद्यानां मिथो विभक्तत्वनिमित्ताद्विभक्तशब्द इत्यर्थः। प्रत्यङ्मोहो महदादीनां धारणाद्धर्मः। आदिशब्देन महदहंकारादिग्रहः। पदानामपौनरुक्त्यं निगमयति। एवमिति॥१६१९॥

साक्ष्यार्थो दृष्टियोग्यः स्यादन्यो मात्रादिरात्मनः॥
द्रष्टृदर्शनदृश्यार्था विभक्ताः स्युः परस्परम्॥१६२०॥

बुद्धिसौकर्यार्थमुक्तं संक्षिपति। साक्ष्येति। मात्रादिः कार्यकरणरूपः साक्षिविषयो दृष्टियोग्यः स द्रष्टव्यशब्दितो द्वितीयशब्दार्थः स चाकल्पितादात्मनः कल्पितत्वेन वैलक्षण्यात्तदेव निमित्तीकृत्यान्यो विवक्ष्यते द्रष्ट्रादीनां मिथो भेदात्ते विभक्तशब्देनोच्यन्ते तन्न पौनरुक्त्यमित्यर्थः॥१६२०॥

द्वैताद्वैतात्मकत्वं च प्रमाणान्नोपपद्यते॥
यथेह वस्तुनः साक्षात्तथा पूर्वमवादिषम्॥१६२१॥

परस्यापि यथोक्तनिमित्तवशादपौनरुक्त्यमित्याशङ्क्य संबन्धादावुक्तं स्मारयति। द्वैतेति। इहेति शास्त्रोक्तिः। साक्षात्कल्पनामन्तरेणेत्यर्थः॥१६२१॥

पूर्ववाक्ये यथा व्याख्या कृता कृत्स्ना तथैव सा॥
उत्तरेष्वपि वाक्येषु कर्तव्या पण्डितैरतः॥१६२२॥

यद्वै तन्न पश्यतीत्यादिवाक्यस्य भर्तृप्रपञ्चव्याख्यामनूद्यस्वव्याख्यामेवानुसंधानं यद्वै तन्न जिघ्रतीत्यादिषु प्रथमवाक्योक्तमतिदिष्टमेवानुवदति। पूर्वेति। अतो व्याख्या प्रकारसाम्यादर्थविशेषो वाच्यो नास्तीत्यर्थः॥१६२२॥

दर्शनादिक्रियाणां यदस्तित्वं तत्र वास्तवम्॥
सदसत्त्वादिसंभेदशून्यत्वादात्यवस्तुनः॥१६२३॥

सर्वेषु पर्यायेषु चिदेकरसं वस्तु विवक्षितं चेत्कथं तर्हि दृष्टिश्रुत्यादिक्रिया भेदधीस्तत्राऽऽह। दर्शनादीति। तत्र भेदधीर्भ्रान्तेत्यत्र हेतुमाह। सदिति॥१६२३॥

विदितादन्यदेवैतत्तथैवाविदितादधि॥
ब्रह्मात्मवस्त्विति ज्ञेयमिति श्रौतं वचः स्फुटम्॥१६२४॥

उक्तविधमात्मतत्त्वमित्यत्र मानत्वेन तलवकारश्रुतिमर्थतो निबध्नाति। विदितादिति॥१६२४॥

द्रष्टुरिति तृजन्तेन कर्तृत्वमभिधीयते॥
द्रष्टा कस्येत्यपेक्षायां दृष्टेरित्यभिधीयते॥१६२५॥

प्रतिपर्यायं दर्शनादिक्रियाभेदधीर्मृषेति स्वमतमुक्त्वा भर्तृप्रपञ्चमतमाह। द्रष्टुरितीतिउक्तं हि तृजन्तेन कर्तृत्वमेवाऽऽचष्ट इति। कस्य935 द्रष्टा दृष्टेरितिभाष्यार्थमाह। द्रष्टेति॥१६२५॥

दृष्टिरित्यपि भावः स्यात्समाप्तिर्या क्रियात्मनः॥
फलाश्रितोऽसौ भावोऽत्र दृष्टिशब्देन भण्यते॥१६२६॥

दृष्टशब्दार्थमाह। दृष्टिरित्यपीति। भावमेव व्याकरोति। समाप्तिरिति। भावस्य फलशिरस्कत्वमाह। फलेति। अत्रेति प्रकृतवाक्योक्तिः। यथोक्तं दृष्टिरिति भावः क्रियासमाप्त्यर्थः फलाश्रितो निर्दिश्यत इति॥१६२६॥

फलं प्रकाशनं ज्ञानं तत्कर्तृत्वं च वस्तुनः॥
प्रत्येकमुच्यतेऽत्रैतद्वाक्येष्वेतेषु वस्तुनः॥१६२७॥

किं पुनः फलं प्र936काशनमितिभाष्यार्थमाह। फलमिति। पूर्वोक्तदृष्टिकर्तृत्वेनाऽऽत्मनस्तत्फलकर्तृत्व-समुच्चयार्थश्चकारः। उक्तमनूद्य पर्यायान्तरेष्वपि दर्शयति। प्रत्येकमिति। ज्ञानादौ वस्तुन एतत्कर्तृत्व937मिति संबन्धः। तदाहुस्तदेतत्प्रकाशनं च ज्ञानकर्तृत्वं चेति धर्मद्वयं प्रत्येकमुपदिश्यत इति॥१६२७॥

इह यद्दूषणं वाच्यं तदुक्तमिति नोच्यते॥
कारकादेरसद्भावात्सुषुप्ते परमार्थतः॥१६२८॥

एषा व्याख्या पञ्चमे निरस्तेत्याह। इहेति। किंच सुप्तात्मविषयमिदं वाक्यं न च तत्र देहादिसत्त्वं तत्कथं तस्य दृष्ट्यादिकर्तृतेत्याह। कारकादेरिति॥१६२८॥

कारकादिविधर्माऽपि प्रत्यगज्ञानहेतुजैः॥
ग्राहकग्रहणग्राह्यरूपैरात्मेक्ष्यते तथा॥१६२९॥

तथाऽपि जागरादौ तद्भावादात्मनो दृष्ट्यादिभेदभाक्त्वमन्यथा कथं तत्रापि कर्तृत्वादिधीरित्याशङ्क्याऽऽह। कारकादीति॥१६२९॥

कर्तृकार्यावभासित्वात्कर्तृकार्यादिसाक्ष्ययम्॥
कर्तृकार्यादिवद्भाति कूटस्थोऽप्यात्ममोहतः॥१६३०॥

तथेक्ष्यत इत्युक्तं स्फोरयति। कर्त्रिति। अतथेति वा छेदः। वस्तुतोऽसद्भिरविद्यमानैरित्यर्थः। कथं कूटस्थस्य कर्त्रादि-साक्षिणस्तद्वद्भानं तत्राऽऽह। कर्त्रिति॥१६३०॥

एकैवेयमतो दृष्टिर्जन्महानादिवर्जिता।
बहुत्वजन्मनाशादि यात्यविद्योत्थसंगतेः॥१६३१॥

मोहमाहात्म्यादात्मनि कर्तृत्वादिधीरिति स्थिते फलितमाह। एकेति। अतःशब्दार्थमेव दर्शयति। अविद्येति। अविद्यातज्जसंबद्धा दृष्टि938र्नानात्वं विक्रियां च यतो लभतेऽतः स्वतः सा प्रत्यग्भूता कूटस्थैकरसेत्यर्थः॥१६३१॥

यन्न रसयतीत्यत्र विजानन्वा इतीर्यते॥
विरूपं प्रस्तुताद्रूपादन्याय्यं भण्यते कुतः॥१६३२॥

लोकसिद्धदृष्ट्यादिभेदानुवादेनाद्वयकूटस्थदृष्टिप्रतिपादनं सर्वपर्यायेषु विवक्षितमित्युक्तम्। अधुना यद्वै तन्न रसयतीत्यत्र रसयन्नित्यादि हित्वा विजानन्वै तन्न रसयतीति माध्यंदिनपाठस्तमाक्षिपति। यन्नेति॥१६३२॥

नैष दोषोऽत्र विज्ञप्तिमात्ररूपे परात्मनि॥
दृष्ट्यादिशक्तिभेदोऽयं मा प्रसाङ्क्षीदितीर्यते॥१६३३॥

तद्वाक्याभिप्रायमाह। नैष इति। विज्ञानैकरसे प्रतीचि दृष्ट्यादिशक्तिभेदनिरासार्थं माध्यंदिनश्रुत्या रसयन्नित्यत्र विजानन्निति प्रयुक्तमित्यर्थः॥१६३३॥

यत एवमतो ज्ञप्तिमात्रमेवाभिधीयते॥
दृष्ट्यादिशब्दैस्तस्माच्च सलिलादिवचोऽर्थवत्॥१६३४॥

उक्तश्रुत्यनुसारेण काण्वश्रुतेरपि कूटस्थैकरसदृष्टिविषयत्वमेष्टव्यमित्याह। यत इति। वाक्यशेषाच्चोक्ता दृष्टिरेव सर्वपर्यायेषु विवक्षितेत्याह। तस्माच्चेति॥१६३४॥

बाह्यदृष्ट्याद्युपाधिस्था प्रत्यगात्मैकलक्षणा॥
दृष्टिर्दृष्ट्यादिवाच्येह विनाशादिनिषेधतः॥१६३५॥

इतश्च सैवात्र दृष्ट्यादिशब्दितेत्याह। बाह्येति। बुद्धिपरिणामरूपदृष्ट्याद्युपाधौ साक्षित्वेन स्थिता प्रत्यग्दृष्टिरेतेषु पर्यायेषु दृष्ट्यादिशब्दैरुक्ता न दृष्ट्यादिक्रियाऽविनाशित्वादित्या939दिना विरोधादित्यर्थः॥१६३५॥

अन्तर्भावेऽपि दृष्ट्यादौ मतिविज्ञानयोरिह।
स्वातन्त्र्येणापि तद्वृत्तेः सिद्धेर्भूयः पृथग्ग्रहः॥१६३६॥

यथोक्तदृष्टेः सर्वपर्ययेषूक्तावपि मनोबुद्ध्योश्चक्षुरादिसाधारणत्वात्तज्जन्यवृत्त्यतिरिक्त- वृत्त्यभावाद्यद्वै तन्न मनुते यद्वै तन्न विजानातीति पृथङ्निर्देशस्तयोर्न युक्तिमानित्याशङ्क्य मननविज्ञानयोरित्यादिभाष्यार्थमाह। अन्तर्भावेऽपीति। अतीतादिज्ञानं रागादिवृत्तिश्च स्वातन्त्र्येणास्तीति पृथग्ग्रहणमित्यर्थः॥१६३६॥

दहनौष्ण्यादिवद्वह्नेर्विभिन्नाः स्युः परस्परम्॥
द्रष्टुर्दृष्ट्यादयो धर्मा भिन्नाभिन्नात्मना स्थिताः॥१६३७॥

उतैकस्यैव धर्मस्य तदबोधोत्थभेदतः॥
भेदोऽयं लक्ष्यते मोहाद्रवेः स्वोत्थैर्जलैरिव॥१६३८॥

यद्वै तन्न पश्यतीत्यादौ परकीयं व्याख्यानमपनुद्य940 स्वपक्षमुक्त्वा तं निर्धारयितुं विचा- रमवतारयति। दहनेति। यथा दाहप्रकाशौष्ण्यादयो धर्मा वह्नेर्भिन्नाभिन्ना मिथश्च भिन्नास्तथा941 दृष्टिश्रुत्यादयो धर्मा धर्मिणः प्रतीचो मिथश्च भिन्नाभिन्ना भिन्नाश्च942 किमिष्यन्ते किंवा यथाऽऽदित्याज्जायते वृष्टिरिति स्मृतेस्तस्य स्वोत्थैर्नानाभाजनस्थैर्जलैर्भेदो मोहाद्दृष्टस्तथा स्वतोऽद्वितीयात्मनः स्वाविद्याविकल्पितोपाधिभेदादनेकधा भेदो भातीति विमर्शार्थः। आत्मनः सर्वाधिष्ठानत्वात्तस्मिन्धर्मशब्दः॥१६३७॥१६३८॥

इह व्याचक्षते केचिन्नानात्वैकत्वरूपता॥
स्वत एवाऽऽत्मनो ग्राह्या चैतन्यमिव सर्वदा॥१६३९॥

पूर्वपक्षयति। इहेति। भेदाभेदात्मकं रूपं स्वाभाविकमित्यत्र दृष्टान्तः। चैतन्यमिति॥१६३९॥

भेदाभेदात्मकं सर्वं वस्तु दृष्टं यतस्ततः॥
परपक्षे न दृष्टान्तः कश्चिदप्युपलभ्यते॥१६४०॥

आत्मनो भिन्नाभिन्नत्वे किं मानं तदाह238भेदेति। ततो वस्तुत्वादात्माऽपि तथानुमीयत इत्यर्थः। एकरसत्वमात्मत्वादात्मनः शक्यमनुमातुमिति प्रत्यनुमानमाशङ्क्याऽऽह।परेति॥१६४०॥

एकैव गोता गोपिण्डे सास्नाद्यर्थानुसारिणी॥
सास्नादयो मिथो भिन्ना न चान्योन्यविरोधिनः॥१६४१॥

आत्मा भिन्नाभिन्नो वस्तुत्वादित्यत्रापि दृष्टान्ताभावस्तुल्यो न हि किंचिद्भिन्नाभि- न्नमस्माकमिष्टमित्याशङ्क्याऽऽह। एकेति। सास्नादिशब्देन तद्वन्तो943 विशेषा गृह्यन्ते। खण्डमुण्डादावेकमेव गोत्वं, तच्च सास्नादिमद्भिरर्थैः स्वविशेषैः सह भिन्नाभिन्नं, ते च मिथो भिन्ना गोत्वेन चाभिन्ना। न चैकत्र सामान्यविशेषभावस्य भिन्नाभिन्नत्वस्य वा विरोधो, न खल्वेते मिथो विरोधभाज इत्यर्थः॥१६४१॥

न च सामान्यबुद्ध्येह भेदबुद्धिर्निवर्तते॥
नापि सामान्यधीबाधो विशेषोत्थधियेष्यते॥१६४२॥

अविरोधं साधयति। न चेति। सामान्यविशेषबुद्ध्योर्भेदाभेदबुद्ध्योश्चान्योन्यं बाध्यबाधकत्वाभावान्न तद्विषयेषु मिथो विरोधो, न हि प्रामाणिकेऽर्थे विरोधस्तद्विपर्यये तदुपगमादित्यर्थः॥१६४२॥

स्थूलेषु यद्वत्सामान्यविशेषात्मकता तथा॥
संभावनीया निःशेषसूक्ष्मवस्तुष्वपीदृशी॥१६४३॥

स्थूलार्थानां गवादीनां भिन्नाभिन्नत्वेऽपि कथमतिसूक्ष्मात्माकाशादिषु तत्सिद्धिरित्याशङ्क्याऽऽह।स्थूलेष्विति। ईदृशी सामान्यविशेषात्मता भिन्नाभिन्नता चेत्यर्थः॥ १६४३॥

नानात्वैकत्ववत्स्थूलं दृष्टं वस्तु यथा तथा॥
आत्माद्यतीन्द्रियं वस्तु वस्तुत्वादिति गम्यताम्॥१६४४॥

उक्तेऽर्थे यथेत्यादिभाष्यं व्याचष्टे। नानात्वेति॥१६४४॥

इत्येवं पण्डितंमन्या अनुमानबलादिह॥
भिन्नाभिन्नात्मकं वस्तु स्थापयन्त्यविशेषतः॥१६४५॥

पूर्वपक्षमुपसंहरति। इत्येवमिति। इहेति परमार्थावस्थोक्तिः। अविशेषत इति। आत्मानात्म विशेषं विनेति यावत्॥१६४९॥

इत्युक्तपरिफल्गुत्वप्रबोधायाभिधीयते॥
न्यायः श्रेयोर्थिनांमा भूद्धान्तिर्वेदान्तवस्तुनि॥१६४६॥

सिद्धान्तमारभते। इत्युक्तेति। उक्तपक्षस्य न्यायतोऽतितुच्छत्वबोधनफलमाह। श्रेय इति। वेदार्थे वस्तुनि भ्रान्तिर्नानारसत्वधीरित्यर्थः॥१६४६॥

**भेदग्राहि न नो मानं कृत्स्नेऽपि जगतीक्ष्यते॥
वस्तुस्वरूपमुज्झित्वा मेयं नास्त्यपरं मितेः॥१६४७॥ **

कोऽसौ न्यायो येन भेदाभेदवादफल्गुतेत्याशङ्क्य परस्यानुमानं दूषयितुं भेदो धर्मः स्वरूपं वेति विकल्प्याऽऽद्यं दूषयति। भेदेति। न हि स्वरूपादन्यत्र प्रमाणं प्रभवति ततोऽन्यस्य निःस्वरूपत्वेन प्रमाणायोग्यत्वादित्यर्थः॥१६४७॥

न च स्वरूपे भेदोऽस्ति कस्यचिद्वस्तुनः क्वचित्॥
स्वरूपाच्चान्यतो भेदः प्रमाणाभासगोचरः॥१६४८॥

कल्पान्तरं निराह। न चेति। स्वरूपत्वे भेदस्य, स्वस्मादेव स्वस्य स भवत्यन्यस्माद्वानाऽऽद्यो वस्त्वभावप्रसङ्गादित्युक्त्वा द्वितीयं प्रत्याह। स्वरूपाच्चेति। अन्यस्य प्रतियोगित्वे तस्य निःस्वरूपत्वात्ततो भेदो न प्रामाणिकः स्यादित्यर्थः॥१६४८॥

असाधारणरूपेण व्यावर्तन्ते परस्परम्॥
यथा विशेषाः सामान्यं तथा व्यावर्तते ततः॥१६४९॥

भेदस्याप्रामाणिकतया भेदाभेदवादं दूषयित्वा त944द्वादिना सामान्यविशेषौ मिथो भिन्ना- विष्टावभिन्नौ वेति विकल्प्याऽऽद्यं दूषयति। असाधारणेति। ततो विशेषेभ्य इति यावत्। तथाच भेदवादस्यैवाऽऽपत्तिरिति शेषः॥१६४९॥

तेऽपि सामान्यमात्रं चेद्विशेषा भवतो मताः॥
विशेषविरहात्तर्हि सामान्यमपि दुःस्थितम्॥१६५०॥

कल्पान्तरमादत्ते। तेऽपीति। सामान्यं वि945शेषमात्रमित्यपेरर्थः। तावन्योन्याभिन्नौ चेत्सामान्यातिरिक्त-विशेषाभावात्तदपेक्षं तदपि न स्याद्विशेषातिरिक्तसामान्याभावात्तदपेक्षास्ते च न स्युस्तत्कुतो भेदाभेदावित्याह। विशेषेति॥१६५०॥

भिन्नं वा स्यान्न वा भिन्नं सामान्यं चेद्विशेषतः॥
भेदे विशेष एव स्यात्सामान्यं खण्डमुण्डवत्॥१६५१॥

सामान्यविशेषौ विकल्प्य दूषयित्वा सामान्यमेवाऽऽश्रित्य विकल्पयति। भिन्नं वेति। आद्यमनूद्य दूषयति। भेद इति। अभेदश्चेत्तदाऽपि स एव दोषः सामान्यस्य विशेषाभिन्नस्य तद्भावासंभवादिति चेच्छब्दाद्द्रष्टव्यम्॥१६५१॥

भेदभेदवतोर्भित्तावनवस्था प्रसज्यते946
धर्मधर्म्यमसिद्धिश्च तदभेदेऽपि सज्यते॥१६५२॥

किंचभेदो वस्तुनो भिन्नोऽभिन्नो वा तत्राऽऽद्यं प्रत्याह। भेदेति। तेनैव भेदेन भेदे स्वाश्रयत्वं द्वितीयेन तृतीयेन वा भेदे परस्पराश्रयत्वं चक्रकं चानन्तभे947दाभ्युपगमे त्वनवस्थेत्यर्थः। द्वितीये दोषमाह। धर्मेति। सर्वत्र च भिन्नाभिन्नत्वे भेदांशमभेदांशं वाऽऽश्रित्य प्रागुक्तं दूषणं प्रत्येतव्यम्॥१६५२॥°

आत्मैव चेद्विशेषाः स्युर्धर्मिणो धर्मलक्षणाः॥
व्यतिरेको न संसिध्येदात्मत्वं948 स्यात्तदाऽऽत्म949नः॥१६५३॥

यत्तु दृष्ट्यादयो द्रष्टुर्भिन्नाभिन्ना मिथश्च भिन्ना दहनदाहादिवदिति तत्राभेदांशमनुभाष्य दूषयति। आत्मेति। आत्मनो धर्मिणो धर्मरूपा विशेषास्ते चेदात्मैव तदा तेषां दृष्ट्यादीनामात्मनः सकाशादभेदे ततो मिथश्च भेदो न सिध्येदात्मभावस्य कुतश्चिदपि भेदाभावादित्यर्थः॥१६५३॥

स्वयंरूपत्वतो नाऽऽत्मा ह्यात्मनो व्यतिरिच्यते॥
अनात्माभिजना ह्येषा व्यावृत्तिर्याऽऽत्मनो भवेत्॥१६५४॥

आत्मस्वरूपस्य कुतो न कुतश्चिद्भेदोऽनात्मनो भेदादित्याशङ्क्याऽऽह। स्वयमिति। आत्मा हि सर्वस्य स्वरूपत्वात्प्रतियोग्यभावान्न स्वस्मादेव भिद्यते स्वरूपाभा- वप्रसङ्गस्योक्तत्वान्नानात्माऽपि ततोऽन्योऽस्ति तदन्यस्यास्वरूपताध्रौव्यादित्यर्थः। कथं तर्हि तस्मिन्भेदधीस्तत्राऽऽह।अनात्मेति। आत्मनो व्यावृत्तिरविद्यातज्जोपाधि-प्रयुक्ता भ्रान्तेत्यर्थः। भेदस्य भ्रान्तत्वं सर्पधारादिभेदे प्रसिद्धमिति वक्तुं हिशब्दः॥१६५४॥

न च धर्म्यन्तरासत्त्वे प्रत्यगात्मातिरेकिणः॥
धर्मा लभन्त आत्मानं पारतन्त्र्यात्मकत्वतः॥१६५५॥

दृष्ट्यादयो भिन्नाभिन्ना द्रष्टुरित्यत्राभेदभागं दूषयित्वा भेदांशं शिथिलयति। न चेति। दृष्ट्यादयो भिन्ना द्रष्टुर्यदेष्टास्तदा ते स्वतन्त्रा परतन्त्रा वा नाऽऽद्योधर्मत्वविरोधाद्वितीये धर्म्यन्तरस्यासत्त्वं सत्त्वं वाऽऽद्ये न ते स्वरूपं लभेरन्नात्मनो भिन्नानां धर्म्यन्तराभावे पारतन्त्र्यायोगादित्यर्थः॥१६५५॥

धर्म्यन्तरस्य चास्तित्वे प्रतिज्ञार्थो न सिध्यति॥
समस्तव्यस्ततारूप आत्मैवैक इतीरितः950॥१६५६॥

कल्पान्तरं निराह। धर्म्यन्तरस्येति। प्रतिज्ञार्थमेव दर्शयति। समस्तेति॥१६५६॥

व्यस्ता अपि तदात्मानो धर्माः स्युश्चेत्समस्तवत्॥
विशेष उच्यतां कोऽत्र समस्तव्यस्तरूपयोः॥१६५७॥

किंच समस्तव्यस्तयोरात्मनः सकाशाद्भेदोऽभेदो वा नाऽऽद्यः स्वपक्षासिद्धेरिति मत्वा द्वितीयं प्रत्याह। व्यस्ता इति। समस्तव्यस्तयोरात्माभेदे समस्तमिदमदो व्यस्त- मितिविशेषासिद्धिरित्यर्थः। अत्रेत्यभेदपक्षोक्तिः॥१६५७॥

धर्म्यन्तराश्रितैर्धर्मैर्नान्यो धर्मी विशेष्यते॥
धर्मिधर्मत्वरूपस्य संबन्धस्यासमन्वयात्॥१६५८॥

किंच समस्तत्वस्य समस्तधर्मत्वाद्व्यस्तत्वस्य च व्यस्तधर्मत्वान्नाऽऽत्मनो द्विरूपतेत्याह। धर्म्यन्तरेति। न हि पृथुत्वादयो घटधर्माः शकटं व्यावर्तयन्तीत्यर्थः। तत्र हेतुमाह। धर्मीति। न हि घटधर्माणां शकटस्य च तद्धर्मधर्मित्व-संगतिरित्यर्थः॥१६५८॥

नेति नेत्यादिवाक्यानां नैरर्थक्यं च सज्यते951
समस्तव्यस्तरूपत्वं यदि स्याद्ब्रह्मणः श्रुतेः॥१६५९॥

ब्रह्मैव952 समस्तं व्यस्तं चेत्युपगमात्तस्य यथोक्तविशेषणसिद्धिरित्याशङ्कdयाऽऽह।नेत्यादिना। श्रुतेर्वाक्यानामिति संबन्धः॥१६५९॥

व्युत्थाप्य ब्रह्मणो द्वैतं तदनूद्य श्रुतिः पुनः॥
आत्मैवेत्यब्रवीत्साक्षात्कुतो भेदस्य संभवः॥१६६०॥

आत्मैवेदं सर्वं ब्रह्मैवेदमित्यादिश्रुतिविरोधाच्च न समस्तव्यस्ततेत्याह। व्युत्थाप्येति। ब्रह्मणः सकाशान्मायाद्वारा द्वैतस्य तत्तेजोऽसृजतेत्यादिना व्यक्तिमुक्त्वा पुनस्तदिदमित्यत्र ह्यात्मैवेति श्रुतिर्यतः साक्षादभेदमभाषत ततो भेदासंभवान्न भेदाभेदसंभावनेति योजना॥१६६०॥

व्यावर्ततेऽस्वरूपं चेत्स्वरूपाद्वस्तु मानतः॥
अनवाप्तस्वरूपं सद्वस्तु स्याच्छशशृङ्गवत्॥१६६१॥

किंचतन्मते वस्तुनः स्वरूपाद्भेदोऽस्वरूपाद्वेति विकल्प्याऽऽद्यमनुवदति। व्यावर्तत इति। स्वरूपात्प्रतियोगिनो मानवशाद्वस्तु भिद्यते चेदस्वरूपं स्यान्न हि घटाद्व्यावृत्तस्य पटस्य घटतेत्यर्थः। अस्वरूपमिति च्छेदः। स्वरूपाद्व्यावृत्तस्य निःस्वरूपत्वं साधयति। अनवाप्तेति। एतेन द्वितीयो व्याख्यातो निःस्वरूपस्य प्रतियोगित्वायोगान्न च स्वरूपे मेदोऽस्ति कस्यचिदित्यस्यायं प्रपञ्च इत्यपौनरुक्त्यम्॥१६६१॥

मानं विधिमुखं मुक्त्वा न व्यावृत्त्येकवर्त्मना॥
लभते मेयसंबन्धं तत्सद्वस्तूपलम्भतः॥१६६२॥

ननु मानसिद्धो भेदो न युक्त्याऽपह्नवमर्हति। तत्र किं सोऽन्योन्याभावः, किंवा पृथक्त्वमाद्येकिं मानं भेदमेव गृह्णाति, किंवा वस्त्वपि? नाऽऽद्यइत्याह। मानमिति। तन्मानमिति संबन्धः। तत्र हेतुमाह। सदिति॥१६६२॥

अघटादिव्युदासेन न घटाद्यर्थसंगतिः॥
मितेरनेवंधर्मत्वान्नाभावे व्यापृतिर्मितेः॥१६६३॥

द्वितीयेऽपि भेदग्रहपूर्वको वस्तुग्रहस्तत्पूर्वको वा भेदग्रहो, युगपदुभयग्रहो वाऽऽद्ये

दोषमाह। अघटादीति। तत्र हेतुः। अनेवमिति। न हि मानस्यान्यनिषेधे व्यापारस्तस्य वस्तुबोधित्वं विना निषेधबोधित्वाभावादित्यर्थः॥१६६३॥

अप्रसिद्धघटाद्यर्थोऽघटाद्यर्थापनोदनम्॥
मानेनेह कथं कुर्यादन्योन्याश्रयकारणात्॥१६६४॥

कुतो मानस्यानेवंधर्मत्वं तत्राऽऽह। अप्रसिद्धेति। अघटाद्यर्थापनोदनमिति च्छेदः। इहेति व्यवहारमार्गोक्तिः। प्रतियोगिज्ञानं विना नाभावधीरिति भावः। अस्तु तर्हि वस्तुग्रहपूर्वको भेदग्रहस्तत्राऽऽह। अन्योन्येति। धर्म्यादिज्ञाने सति भेदज्ञानं ततस्तज्ज्ञानमित्यन्योन्याश्रयान्न वस्तुधीपूर्विका भेदधीरित्यर्थः॥१६६४॥

घटोधप्रयुक्तेयमघटस्य ह्यपाक्रिया॥
अघटार्थव्युदासाच्च घटार्थस्यावबोधनम्॥१६६५॥

निषेधपूर्वकविधिपक्षेऽपि तुल्यमन्योन्याश्रयत्वमित्याह। घटेति॥१६६५॥

घटवच्चाघटस्यापि तदन्यापाक्रियां विना॥
नैवाधिगतिरित्येवमनवस्था प्रसज्यते॥१६६६॥

निषेधपूर्वको विधिरित्यत्रैव दोषान्तरमाह। घटवदिति॥१६६६॥

मातृमानाप्रसिद्धिश्च तदन्यापोहनादृते॥
ताभ्यां विना प्रमेयोऽर्थो नितरां न प्रसिध्यति॥१६६७॥

अघटनिवृत्त्या घटसिद्धौ दोषान्तरमाह। मात्रिति। तयोरसिद्धौ किं स्यात्तत्राऽऽह953ताभ्यामिति। यत्र स्फुरत्यपि मात्रादौ सर्वसाधकं साक्षिणं विना मेयोऽर्थो न सिध्यति तत्र मात्रादेरेवास्फुरणे स न सिध्यतीति किं वाच्यमित्याह। नितरामिति। एतेन युगपदुभयग्रहो निरस्तो न हि धर्म्यादिज्ञानकार्यं भेदज्ञानं तेन सह भवति कार्यकारणयोः पौर्वापर्यनियमात्॥ १६६७॥

पृथक्त्वं चापृथक्त्वं च गुणो येषां च वादिनाम्॥
तत्प्रक्रियानुसारेणाप्यत्र नैवास्ति भेदधीः॥१६६८॥

अन्योन्याभावभेदपक्षे तत्प्रामाणिकत्वं निरस्य पृथक्त्वपक्षेऽपि न तत्प्रामाणिकतेत्याह। पृथक्त्वं चेति॥१६६८॥

पृथग्गुणस्ततोऽन्येभ्यः पृथक्त्वे वा पृथग्गुणात्॥
अपृथग्वा मिथस्ते स्युर्न तथाऽपि भिदेक्ष्यते954॥१६६९॥

न हि जगति वैशेषिकादिप्रक्रिययाऽपि भेदप्रमेत्येतदुपपादयितुं विकल्पयति। पृथगिति। तस्माद्धर्मिणः सकाशादन्य-पदार्थेभ्यः स्वस्माच्च पृथगुणकाद्धर्मिणः पृथक्त्वे सति तस्मिन्वा धर्मिणि पृथक्त्वगुणो भेदाख्योऽवतिष्ठते। इतरपदार्थेभ्यः पृथक्त्वगुणका-

च्च तद्धर्मि955णोऽपृथक्त्वे तस्मिन्वा धर्मिणि पृथक्त्वगुणो भेदाख्योऽवतिष्ठत इत्यर्थः। अथक्त्वाख्योऽप्यभेदगुणो धर्मिणः सकाशादितरपदार्थेभ्योऽपृथक्त्वगुणकाच्च धर्मिणोपृथक्त्वे सति तस्मिन्वा धर्मिणि वर्तेताथवेतरपदार्थेभ्योऽपृथक्त्व-धर्मिणश्च पृथक्त्वे तस्मिन्धर्मिणीत्यपृथक्त्वमधिकृत्य विकल्पयति। अपृथग्वेति। यदि पृथक्त्वं पृथक्त्वे सति धर्मिणि वर्तेत तदा पृथक्त्वप्रभेदा मिथोऽपि पृथगपृथग्वा स्युरपृथक्त्वं च यद्यपृथक्तंसति धर्मिणि तिष्ठेत्ततोऽपृथक्त्वभेदा मिथोऽपृथक्पृथग्वे956ति विकल्पयति। मिथ इति सर्वत्र भेदस्य प्रामाणिकत्वासिद्धिरिति दूषयति। न तथेति। यदि पृथक्त्वं सति पृथक्त्वे धर्मिणि तिष्ठति पृथक्त्वभेदाश्च मिथो भिद्यन्ते तदा न भेदप्रमा स्यादनवस्था नाद्यदि पृथक्त्वभेदा मिथोऽपृथगिष्यन्ते तदा तदैक्यात्पृथक्त्वे सति धर्मिणि पृथक्त्वमिति वदतः स्वाश्रयान्न चापृथक्त्वे सति धर्मिणि पृथक्त्वं प्रमातुं शक्यमेकत्र तयोर्विरोधादपृथक्त्व वाऽपृथक्त्वे सति धर्मिणि वर्तते तद्भेदानां च मिथः पृथक्त्वेऽनवस्थितेर्नाभेद-प्रमितिः। अपृथक्त्वे तदैक्यादपृथक्त्वे सति धर्मिण्यपृथक्त्वमित्यत्राऽऽत्माश्रयतैव957 पृथक्त्वे सति धर्मिण्यपृथक्त्वस्थितिस्तु विरुद्धा तन्न भेदोऽभेदो वा प्रमाणवानित्यर्थः॥१६६९॥

अपृथक्त्वगुण958द्रव्यं पृथक्त्वं संश्रयेत्कथम्॥
परस्परविरोधित्वाच्छैत्यं यद्वद्विभावसुम्॥१६७०॥

अपृ959थक्त्वे वापृ960थक्त्वे वा961962ति धर्मिणि पृथक्त्वमपृथक्त्वं च963 तिष्ठति तद्भेदानां च प्रत्येकं मिथो भिन्नाभिन्नत्वमतो नोक्तदोषापत्तिस्तत्राऽऽह। अपृथक्त्वेति॥१६७०॥

पारतन्त्र्यस्वभावाच्च न चाप्राप्तसमाश्रयः॥
गुणत्वं लभते लोके गुणः कश्चिद्गुणी यथा॥१६७१॥

यदि भिन्नोऽभिन्नो भिन्नाभिन्नो वा नाऽऽश्रयस्तर्हि स्वातन्त्र्यमेव पृथक्त्वापृथक्त्वयोरित्याशङ्क्याऽऽह। पारतन्त्र्येति। न हि लोके कदाचिदपि गुणी गुणत्वमापद्यते तथाऽप्राप्ताश्रयो गुणोऽपि न गुणत्वं तस्य पारतन्त्र्यस्वभावादि964त्यर्थः॥१६७१॥

असंभित्तिः पृथक्त्वस्य ततोऽन्येभ्यः प्रसज्यते॥
पृथक्त्वस्य न चेदन्यत्पृथक्त्वान्तरमिष्यते॥१६७२॥

किंच पृथक्त्वस्य पृथक्त्वान्तरमस्ति न वाऽऽद्ये सैवानवस्थेति मन्वानो द्वितीयमनुभाष्य दूषयति। असंभित्तिरिति॥१६७२॥

अन्यापेक्षं पृथक्त्वं च स्वयमेवापृथग्घटः॥
बलीयानन्तरङ्गत्वाद्बहिरङ्ग प्रबाधते॥१६७३॥

पृथक्त्वस्य दुर्निरूपत्वेन कल्पितत्वमुक्त्वा तत्रैव हेत्वन्तरमाह। अन्यापेक्षमिति। सापेक्षत्वात्पृथक्त्वं सर्पवत्कल्पितमित्यर्थः। पृथक्त्ववदपृथक्त्वस्यापि कल्पितत्वान्न किंचिदकल्पितं स्यादित्याशङ्क्याऽऽह। स्वयमिति। निरपेक्षत्वादेकरसं वस्त्वकल्पितमित्यर्थः। किंचाष्टपृथक्त्वस्य स्वरूपत्वेनान्तरङ्गतया बलवत्त्वाद्धर्मत्वेन बहिरङ्गं दुर्बलं पृथक्त्वं प्रति बाधकत्वात्तत्कल्पिततेत्याह। बलीयानिति॥१६७३॥

पृथग्गुणाच्च व्युत्थाप्य द्रव्यादेः किं स्वलक्षणम्॥
स्वतोऽपृथक्त्वात्सर्वस्य पृथक्त्वमपि दुर्लभम्॥१६७४॥

कथं घटः स्वयमेवापृथगित्युक्तं पृथक्त्वादपृथक्त्वाच्च तद्वयुत्थानाङ्गीकारादित्याशङ्क्याऽऽह। पृथगिति। चकारादपृथग्गुणोऽनुकृप्यते। उभयतो व्यावर्त्य पृथगुपगतस्य द्रव्यसामान्यादेः स्वाभाविकं रूपं किमित्यपेक्षायां सर्वस्य तस्य स्वरूपेणैकरस्यान्न पृथक्त्वं न हि पृथक्त्वाद्व्यावृत्तमपृथक्त्वादपि व्यावर्तते निःस्वरूपत्वप्रसङ्गात्तस्मादेकरसं वस्त्वकल्पितं कल्पितमितरदित्यर्थः॥१६७४॥

अथानुभवतोऽस्तीति पृथक्त्वं भवतो मतम्॥
मैवं मिथ्यानुभूतित्वाच्छुक्तिकारजतादिवत्॥१६७५॥

पृथक्त्वस्य दौर्लम्यमसहमानःशङ्कते। अथेति। किमनुभवमात्रं घटस्य पृथक्त्वं साधयत्यबाधितानुभवो वा नाऽऽद्य इत्याह। मैवमिति। अनुभवमात्रस्य भ्रान्तित्वेनापि संभवान्न वस्तुसाधकतेत्यर्थः॥१६७९॥

नैकानुभूतिवलतो वस्तुनो लभ्यते भिदा॥
भिन्नानुभूतितो नापि मिथस्तासामसंगतेः॥१६७६॥

द्वितीयेऽपि घटानुभवो वा तत्पृथक्त्वं साधयेदनुभवान्तरं वा द्वितीये पटानुभूत्याऽपि घटपृथक्त्वप्रथाप्रसङ्गः। घटानुभवोऽपि केवलो वा तत्पृथक्त्वं साधयत्यनुभवान्तरसहितो वा नाऽऽद्य इत्याह। नैकेति। तस्य वस्तुमात्रपर्यवसायित्वादित्यर्थः। न चानुभवान्तरसहितो घटानुभवो घटस्य पृथक्त्वं साधयति भिन्नानुभूतीनां संभूयैकार्थसाधकत्वादित्याह। भिन्नेति॥ १६७६॥

एकस्यामनुभूतौ चेद्भेदो नाऽऽत्मन इष्यते965
मृषा तत्रैव स मिथो व्यभिचाराद्ध्रुवं भवेत्॥१६७७॥

तासामसंगतेरित्युक्तेरनुभूतिभेदोपगमादपसिद्धान्तः स्यादिति चेन्नेत्याह। एकस्यामिति। अस्यार्थः। किमनुभवे स्वापेक्षया भेदः किंवाऽन्यापेक्षया नाऽऽद्यो निःस्वरूपत्वप्रसङ्गान्नेतरोऽन्योन्याश्रयत्वापत्तेरेवं निरूप्यमाणेऽनुभवे भेदायोगश्चेत्तस्मिन्भास-

मानः स मृषैव स्यात्तद्भेदे तेषां सर्पधारादिवन्मिथो व्यभिचाराच्च मिथ्यात्वापातादद्वयोऽसावित्यवश्यमापतेदिति॥१६७७॥

नानुभूतिः प्रतीचीयमभेदाद्भेदमीक्षते॥
स्वरूपाव्यतिरेकाच्च नापि चानात्मनीक्षते॥१६७८॥

किंचानुभूतिः स्वयमेव स्वभेदं गोचरयेदनुभूत्यन्तरं वाऽऽद्येऽपि स्वापेक्षयैव स्वभेदमनुभ- वेदन्यापेक्षया वा नाऽऽद्य इत्या। नेति। अनुभवान्तरमनुभवभेदग्राहीति पक्षं प्रत्याह। स्वरूपेति। न खल्वनुभवान्तरं, भेदस्याद्याप्यसिद्धेरतो न तदीक्षते तद्भेदमित्यर्थः। अन्यापेक्षया स्वभेदमनुभवो गृह्णातीति पक्षं दूषयति। नापीति। न खल्वनात्मानं प्रतियोगीकृत्यानुभवः स्वभेदमुद्भासयेदन्योन्याश्रयादित्यर्थः॥१६७८॥

न चैकबुद्धिबाधेन द्व्यादिधीरुपजायते॥
तत्कारणत्वात्तद्बुद्धेर्मृत्स्नेव घटजन्मनः॥१६७९॥

नन्वेकमिति तावद्वस्तुनि ज्ञानमुत्पद्यतेऽतस्तद्बा966धेन द्वे त्रीणीति वा धीरुदेति पूर्वाबाधेन नोत्पत्तिरुत्तरस्य हि सिध्यतीति न्यायादतो द्व्यादिबुद्ध्या बाध्यत्वादेकत्वधियो भ्रमत्वात्तद्विषयाभेदस्यैव मृषात्वमबाधितद्व्यादिधीविषयो भेदस्त्वमृषेति तत्राऽऽह। न चेति। एकमिति बुद्धेर्द्व्यादिबुद्धिं प्रति कारणत्वेनोपजीव्यत्वे दृष्टान्तमाह। मृत्स्नेति॥१६७९॥

द्वित्र्यादिबुद्धिरेकस्मिन्मिथ्याऽतद्रूपवस्तुनः॥
समूहस्योभयत्वेऽपि स्मृतेरप्यप्रमाणतः॥१६८०॥

तर्हि मृद्घटयोरिवैकबुद्धेर्द्व्यादिबुद्धेश्च मिथोऽबाध्यत्वादुभयबुद्ध्यनुरोधादेकानेकत्वं घटादेः स्यात्तत्र किं द्व्यादिबुद्धेर्घटादिर्विषयस्तत्समूहो वाऽऽद्यं प्रत्याह। द्वित्र्यादीति। एकबुद्धेरेकत्वेन सिद्धे घटे द्व्यादिधीर्जायमाना मिथ्येत्युपेयं, स्वतो द्व्यादिरूपरहितस्य वस्तुनः स्वीकारान्न हि प्रतियोग्यपेक्षां विना वस्तुनि तद्रूपधीरतो वस्तु नैकानेकात्मकमित्यर्थः। द्वितीये दोषमाह। समूहस्येति। तस्य समूह्यपेक्षया भिन्नाभिन्नत्वेऽपि नासौ द्व्यादिबुद्धेर्विषयस्तस्याप्रमाणकत्वान्न च सैव तत्र मानं तन्मानत्वस्याद्याप्यसिद्धेरित्यर्थः। एकैकघटानुभवघटितभावना-प्रभावप्रसूता स्मृतिर्घटसमूहमवगाहते तत्कथं तस्याप्रमाणकत्वमित्याशङ्क्याऽऽह। स्मृतेरिति॥१६८०॥

न चेत्समूहो वस्त्वस्तिएकै967कत्वात्समूहिनाम्॥
सत्यत्वेऽपि तथैकत्वान्नानेकत्वं तथाऽपि च॥१६८१॥

किंच समूहो वस्त्ववस्तु वेति विकल्प्यान्त्यं निराह। न चेदिति। समूहो नाम वस्तु नास्ति चेत्तदा समूहिनां प्रत्येकमैक्यान्नानेकरसमेकं स्यादित्यर्थः। संघेरनादरेण

वा समूहस्य समूहिभ्योभेदाभेदाभ्यां दुर्निरूपत्वमित्येवमर्थं हिशब्दमध्याहृत्य वा योजनीयम्। वस्तुत्वपक्षमनुभाष्य दूषयति। सत्यत्वेऽपीति। तस्य समूहिनां चैकत्वात्पूर्ववद्वस्तुनो नानेकरसतेत्यर्थः। किंच समूहस्य वस्तुत्वेऽपि समूहिव्यतिरेकादृष्टेस्तेषां च प्रत्येक मैक्यस्योक्तत्वान्नानेकरसत्वमेकस्यास्तीत्याह। नेति। तथाऽपि समूहस्य वस्तुत्वेऽपीति यावत्॥ १६८१॥

अद्वैतविषयैवेयं द्वौ त्रयश्चेति या968 मतिः॥
एकत्वात्समुदायस्य न प्रमाऽतो भिदां प्रति॥१६८२॥

भेदस्याप्रामाणिकत्वादेकस्य वस्तुनो न भिन्नाभिन्नतेति प्रकृतमुपसंहरति। अद्वैतेति। या तावद्भेदाभेदवादिनां द्वौ त्रयश्चत्वारो वेति धीः सा समूहे समूहिषु वा प्रवर्तमाना तस्य तेषां च प्रत्येकमेकत्वादभिन्नमेव वस्तु गोचरयत्यतो योग्यविषयाभावाद्भेदं प्रति न सा प्रमा न च प्रमान्तरमिति कुतो भिन्नाभिन्नतेत्यर्थः॥१६८२॥

यदि प्रत्यक्षम्योऽर्थो व्यावृत्तेस्तत्पृथक्त्वतः॥
न प्रत्यक्षाभिसं969बन्धः कुम्भप्रत्यक्षतो भवेत्॥१६८३॥

अनुभूतेरनुभाव्यस्य वा भेदेन प्रमेति प्रतिपाद्यानुभाव्यभेदस्याप्रामाणिकत्वे हेत्वन्तरमाह। यदीति। कुम्भाद्यर्थस्य प्रत्यक्षत्वेऽपि न भेदस्य तथात्वं कुम्भादेरेव तद्विषयत्वानुभवाद्भेदस्य ततोऽन्यत्वादित्यर्थः॥१६८३॥

प्रत्यक्षगम्यधर्मश्चेद्व्यावृत्तिर्भवतोच्यते॥
धर्मिप्रतीतिरेव स्यात्साऽपि चेहैककर्मिका॥१६८४॥

घटादिप्रत्यक्षं तद्गतरूपादिवत्तद्धर्मत्वात्तद्भेदमपि प्रत्यक्षयेदिति शङ्कते। प्रत्यक्षेति। धर्मत्वेनेष्टा व्यावृत्तिस्तद्धर्मिणोऽभिन्ना भिन्ना वाऽऽद्ये धर्मधर्मिभावानुपपत्तिं मत्वा दोषान्तरमाह। धर्मीति। धर्मस्य धर्मिमात्रत्वे धर्मिधीरेव धर्मधीः स्यात्सा च व्यवहारभूमावेकमेव धर्मिणं कर्मत्वेनाऽऽदाय प्रवृत्ता तद्भेदस्य धर्मिमात्रत्वे वस्त्वेकरसं स्यादित्यर्थः॥१६८४॥

धर्मिबुद्धेर्न धर्मेषु बुद्धिभेदः प्रजायते॥
देशकालाद्यभिन्नत्वादेकात्मत्वाच्च संविदः॥१६८५॥

धर्मधर्मिणोरेकत्वे तद्धियोरप्येकत्वमित्येतत्प्रतिपादयति। धर्मीति। किंचाभेदपक्षे धर्मधर्मिणोर्देशतः कालतो वस्तुतश्च भेदाभावाद्धर्मिज्ञानाज्ज्ञानान्तरं धर्मेषु न संभवतीत्याह। देशेति। किंच संविदो ज्ञानफलस्य धर्मो धर्मी वा न पृथगस्ति तद्ग्राहिसंविदन्तराभावादतस्तदैकरस्याद्भेदो विकल्पमात्रमित्याह। एकात्मत्वादिति॥१६८५॥

सत्तत्त्वंसर्वभावानां तत्र तावन्न भेदधीः॥
भेदधीविषयो यश्च तस्मात्सद्धीर्निवर्तते॥१६८६॥

भेदस्य विकल्पमात्रत्वे हेत्वन्तरमाह। सदिति। अस्तुसर्वेषां भावानां सदेकतत्त्वं कथं तावता भेदो भ्रमस्तत्राऽऽह। तत्रेति। सर्वस्य सन्मात्रत्वात्तस्य चैक्याद्भेदो मिथ्येत्यत्र युक्त्यन्तरमाह। भेदेति॥१६८६॥

सतैव सर्ववस्तूनि बिभ्रत्यात्मानमात्मना॥
कल्पितत्वादनेकत्वाद्रज्जुसर्पद्विचन्द्रवत्॥१६८७॥

कथं भेदधीविषयान्निवृत्तिः सद्धियोन हि तद्विषया घटादयः सन्तो न भवन्ति तत्राऽऽह। सतेति। सर्वाण्यपि वस्तून्यात्मानं सत्त्वेनैवाऽऽत्मना धारयन्तीत्यत्र हेतुमाह। कल्पितत्वादिति। रज्जोरिदमंशे कल्पितसर्पादेरधिष्ठानाति-रिक्तसत्त्वाभाववज्जगतः सन्मात्रे कल्पितस्य न सदतिरेकेण स्वरूपमस्तीत्यर्थः। कल्पितत्वं साधयति। अनेकत्वादिति। विमतं कल्पितं परिच्छिन्नत्वात्संमतवदित्यर्थः॥१६८७॥

प्रकृत्यर्थातिरेकेण प्रत्ययार्थो न गम्यते॥
सत्तेत्यत्र ततः स्वार्थस्तद्धितोऽत्र भवन्भवेत्॥१६८८॥

सतो भावः सत्तेति निर्वचनात्प्रकृतिप्रत्ययार्थभेदेन तत्रापि परिच्छिन्नत्वस्य सत्त्वा- दनैकान्तिकत्वमित्याशङ्क्याऽऽह। प्रकृत्यर्थेति। का तर्हि तद्धितस्य गतिस्तत्राऽऽह। तत इति॥१६८८॥

सति व्यभिचरत्येव तदन्यद्वस्तु मोहजम्॥
सर्पादिवस्तुवत्तस्मात्सत्सत्यमितरन्मृषा॥१६८९॥

परिच्छिन्नत्वेन जगतः सति कल्पितत्वमुक्त्वा तत्रैव हेत्वन्तरमाह। सतीति। सत्यधिष्ठाने ततोऽन्यत्सर्वं मोहात्प्रतिपन्नं कल्पितमिति प्रतिज्ञार्थः। व्यभिचारित्वं हेतुमाह। व्यभिचरतीति। तत्र दृष्टान्तः। सर्पादीति। विमतं कल्पितं व्यभिचारित्वात्सर्पादिवदित्यनुमानफलमाह। तस्मादिति॥१६८९॥

व्युत्थिता हि सतो भेदाः प्रत्यक्षागमलिङ्गतः॥
अभावात्मकतां प्राप्ता गम्यन्ते नेश्वरैरपि॥१६९०॥

ननूक्तहेतुभ्यां कुम्भादीनामेकस्मादनुगताद्व्यावृत्तिरेव सतः सिध्यति न कल्पितत्वमत आह। व्युत्थिता हीति। सतो व्यावृत्ता घटादयस्तद्व्यावृत्तेरेव तुच्छतां गता न हि सदेव सतो व्यावर्तते धर्मिप्रतियोगिभावस्य भेदापेक्षत्वादतोऽध्यक्षाद्यगम्यत्वात्कुम्भादीनां कल्पिततेत्यर्थः॥१६९०॥

सदेकत्वमशेषेषु वस्तुष्वव्यभिचारि हि॥
व्यभिचारि ततोऽन्यद्यद्वस्त्वतोऽद्वैतमेव सत्॥१६९१॥

व्यभिचारिणामनेकेषां च तेषां कल्पितत्वे हेतुद्वयं सति व्यभिचरतीति चेन्नेत्याह। सदिति। अतो न सति व्यभिचारशङ्केति शेषः। तर्हि सदभेदात्कुम्भादिष्वपि तदुभ- यमसिद्धमित्याशङ्क्याऽऽह। व्यभिचारीति। सतोऽव्यभिचारैकत्वस्य कुम्भादेर्व्यभिचारानेकत्वस्य च स्वानुभवसिद्धत्वे फलितमाह। अत इति॥१६९१॥

व्युत्थाय न सतो यस्माद्वस्तु संभावनामपि॥
अभावमपि नाऽऽप्नोति काऽऽस्था भूत्यै विनाऽऽत्मना॥१६९२॥

द्वैतस्य कल्पितत्वे कैमुतिकन्यायमाह। व्युत्थायेति। सतो व्युत्थाय स्थितं वस्तु संभावनामभावं च यस्मान्न प्रतिपद्यते तस्मादात्मना सता विना भूत्यै वस्तुतः सद्भावार्थं मनोरथोऽपि न संभवतीत्यर्थः॥१६९२॥

सत्सिद्धिमेव संभाव्य सिद्धाः स्मेत्यभिमन्वते॥
सर्वे भावाः स्रजा यद्वद्भोगी सिद्धायतेऽन्यतः॥१६९३॥

कथं तर्हि सतो व्यावृत्तानां कुम्भादीनां सत्त्वसिद्धिस्तत्राऽऽह। सत्सिद्धिमिति। अधिष्ठानस्य स्वतः स्वरूपभूतां सत्तां स्फूर्ति चापेक्ष्य कुम्भादयः सर्वे भावा वयं सन्तः स्फुरन्तश्चेत्यभिमानवन्त इव वर्तन्ते चेत्ततो भेदभानायोगात्तेषां तद्व्या970वृत्तत्वासिद्धिरित्याशङ्क्याऽऽह। स्रजेति। यथा स्रगधिष्ठानसत्तया सिद्धोऽपि सर्पस्ततोऽन्यत्वेन सिद्धवद्भाति तथा सर्वे भावाः सदात्मानोऽपि ततो व्युत्थिता इव भान्तीत्यर्थः॥१६९३॥

प्रत्यक्षेणापि नाभावः क्वचिज्जगति मीयते॥
तस्य सद्वस्तुमेयत्वादभावस्याप्यसंभवात्॥१६९४॥

सतो व्युत्थितमभावमपि नाऽऽप्नोतीत्ययुक्तमभावप्रमाणात्तत्सिद्धेरित्याशङ्क्याऽऽह। प्रत्यक्षेणेति। अपिर्मानान्तर-संग्रहार्थः। सर्वस्यैव मानस्य सद्विषयत्वात्तनिरपेक्षाभावाभावाच्चेति हेत्वर्थः॥१६९४॥

कामं घटाद्यभावोऽयं प्रत्यक्षादवसीयताम्॥
प्रत्यक्षाभावसंसिद्धौ किं प्रमाणमितीर्यताम्॥१६९५॥

मेयाभावस्य मानगम्यत्वमुपेत्यापि मानाभावस्य तन्निरस्यति। काममिति॥१६९५॥

कार्यरूपाभिधाभेदादतीतानागतेष्विव॥
ऐकात्म्यं सर्वभावानां भिन्ननामा971दिमत्स्वतः972॥१६९६॥

भावाभावयोः सति कल्पितत्वेनैव सिद्धेः सन्मात्रमकल्पितमित्युक्तम्। इदानीं घटादिनामभेदादुदकाहरणादिरूप-कार्यभेदात्पृथुत्वादिरूपभेदाच्च सत्त्वस्य973 भिन्नत्वात्कथं तदद्वयमकल्पितमित्याशङ्क्याऽऽह। कार्येति। यथा चैत्रादिष्वतीतादिकालसंबन्धिषु बालः

स्थविरो युवा पिता भ्रातेत्यादिनामरूपकार्यभेदेऽपि न ते भिद्यन्ते न हि कदाचिदपि चैत्रोऽचैत्रो भवति तथा कुम्भादिषु भिन्ननामादिमत्स्वपि सत्सु न भेदः किंतु तेषां सन्मात्रतेति तदद्वयमकल्पितमित्यर्थः॥१६९६॥

अथ ब्रवीषि भेदोऽत्रस्याद्द्वयोर्धर्मधर्मिणोः॥
व्यावृत्तेर्धर्मधर्मित्वं न तयोरुष्णशीतवत्॥१६९७॥

व्यावृत्तेर्धर्मस्य धर्मिणोऽभेदे तद्धीरेव धर्मधीरित्यादिदूषणमधस्तादुक्तमिदानीं भेदप- क्षमनुभाष्य दूषयति। अथेत्यादिना॥१६९७॥

न भावयोरसंभित्तेर्धर्मधर्मित्वमिष्यते॥
नितरामभावयोर्न स्यान्न विरुद्धाविरुद्धयोः॥१६९८॥

किंच भावयोरभावयोर्वा भावाभावयोर्वा धर्मधर्मित्वमिति विकल्प्य क्रमेण दूषयति। नेत्यादिना। अभावयोः स्वयमसत्त्वाद्धर्मधर्मित्वं दूरोत्सारितमित्यतिशयमाह। नितरामिति। विरुद्धाविरुद्धयोर्भावाभावयोरिति यावत्। तयोर्मिथो विरुद्धत्वादित्यर्थः॥१६९८॥

निर्भेदकस्य कुम्भस्य भेदः केनेति भण्यताम्॥
वस्त्वात्मनैव चेत्तर्हि मत्पक्षः साध्यते त्वया॥१६९९॥

किंचैकोऽयमित्येकस्तावत्कुम्भो भाति तस्य भेदो वस्तुरूपेणावस्तुरूपेण वेति विकल्पयति। निर्भेदकस्येति। तत्राऽऽद्यमनूद्य दूषयति। वस्त्विति। वस्तुरूपेण भेदे प्रतियोगिनो वस्तुत्वादद्वयं धर्मिमात्रं वस्तु स्यान्न च धर्माभावे तस्मिन्धर्मित्वमित्यर्थः॥१६९९॥

वस्तुस्वरूपमुज्झित्वा नान्यत्र व्यापृतिर्मितेः॥
अस्ति यस्मादतोऽद्वैतं वस्तु वस्तुनि सर्वदा॥१७००॥

कल्पान्तरं निरस्यति। वस्तुस्वरूपमिति। अवस्तुरूपेण प्रतियोगिनो धर्मिणो भेदे तन्मात्रं वस्तु प्रामाणिकं स्यादवस्तुरूपे धर्मिणि मानप्रवृत्त्ययोगादतो भेदस्याप्रामाणिकत्वादद्वैतं सदा वस्तु तत्रैव च सर्वप्रमाणानां प्रमाणत्वमित्यर्थः॥१७००॥

व्यावृत्तिरनुवृत्तिर्वा सर्वस्यैवास्य व974स्तुनः॥
अद्वैतपक्षो भवता मदीयोऽयं प्रसाध्यते॥१७०१॥

किंच व्यावृत्त्यनुवृत्ती वस्तुनः स्यातामवस्तुनो वा द्वितीये वस्तुनस्तदस्पर्शादैकरस्यं स्याद्यद्याद्यस्तत्राऽऽह। व्यावृत्तिरिति। ते वस्तुनश्चेदिष्टेतदा षष्ठ्या तयोस्ततो निष्कर्षादवस्तुत्वमुक्तं स्यात्ततश्च वस्त्वद्वैतमित्यर्थः॥ १७०१॥

व्यावृत्तोऽयमिति ज्ञानं किं कुम्भे किं ततोऽन्यतः॥
अव्यावृत्तस्वरूपत्वात्कुम्भे तावन्न धीरियम्॥१७०२॥

किंच व्यावृत्तज्ञानं निर्विषयं सविषयं वा नाऽऽद्यः सुगतमतप्रसङ्गाद्द्वितीये कुम्भोऽर्थान्तरं वा विषयस्तस्येति पृच्छति। व्यावृत्त इति। कुम्भविषयत्वं दूषयति। अव्यावृत्तेति। कुम्भस्य स्वरूपेणैकत्वानुभवान्न तस्मिन्व्यावृत्तधीर्विरोधादित्यर्थः॥१७०२॥

नाप्यकुम्भष्युदासेन कुम्भस्य स्याद्विशेषणम्॥
न ह्यम्भस्थेन शैत्येन शिखिनः स्याद्विशेषणम्॥१७०३॥

केवलादर्थान्तरपटा975दिव्यावृत्तं कुम्भं व्या976वृत्तधीविषयमिच्छन्तं प्रत्याह। नापीति। अकुम्भः स्तम्भादिस्तत्प्रतियोगिक-व्यावृत्त्या विशेषणं न कुम्भस्य संभवति व्यावृत्तिविशेषणतया स्तम्भादेरपि विशेषणत्वप्रसङ्गादतो व्यावृत्ते स977र्वस्य प्रवेशाद्व्यावृत्तधीगम्यमद्वयं भवेदिति भावः। स्तम्भादिविशेषिता व्यावृत्तिर्न कुम्भवि978शेषणमित्यत्र दृष्टान्तः।979 979 हीति॥१७०३॥

**अस्यायमिति षष्ठ्यर्थः प्रत्यक्षादवगम्यते॥
घटाभावः पटे किं न कुतो वाऽस्य घटेऽस्तिता॥१७०४॥ **

शैत्यस्याम्भोनिष्ठस्याग्निनिष्ठत्वाभावात्तद्विशेषणत्वाभावेऽपि स्तम्भादिव्यावृत्तेर्घटनिष्ठत्वात्तद्विशेषणत्व-सिद्धिरित्याशङ्क्याऽऽह।अस्येति। स्तम्भस्याभाव इति षष्ठ्या तयोः संबन्धः प्रत्यक्षी क्रियते तथाच स्तम्भाभावः स्तम्भे न कुम्भेऽस्तीत्यर्थः। ननु घटः पटो नेति प्रतीतेर्घटाभावः पटे पटाभावश्च घटे किमिति नेष्यते तथाच घटाभावो घटे पटाभावो वा पटे कुतो नियम्यते प्रतीतेरविशेषादिति शङ्कते। घटेति॥१७०४॥

भावाभावौ सतो न स्तः सत्त्वादेवासतः कुतः॥
नानयोर्धर्मधर्मित्वं विरोधादितरेतरम्॥१७०५॥

नाभावस्य धर्मिनिष्ठत्वं प्रतियोगिनिष्ठत्वं वा प्रत्यक्षयितुं शक्यं तस्य युक्तिविरुद्धत्वेनाऽऽभासत्वादिति परिहरति। भावाभावाविति। न तावज्जन्मनाशौ सतो धर्मौतस्य सदा सत्त्वात्ताभ्यामस्पर्शान्नाप्यसतस्तौ निःस्वरूपस्य धर्मित्वायोगादतस्तौ कल्पितावित्यर्थः। मा भूदभावस्य घटादेश्चधर्मधर्मित्वं तथाऽपि सतो धर्मत्वेनासदेष्टव्यं तस्यास्वतन्त्रत्वादित्याशङ्क्याऽऽह। नानयोरिति॥१७०९॥

सर्वे भावाः स्वयं सन्तो व्यावृत्तिः किंसमाश्रया॥
निराकृता स्वयं980 सद्भिर्यथा वियति कृष्णिमा॥१७०६॥

भेदाभावादिविकल्पस्य विकल्पितत्वादकल्पितं सन्मात्रमित्युक्त्वा तत्रैव युक्त्यन्तरमाह। सर्व इति। कुम्भादयः सर्वे भावाः स्वभावतः सन्तोऽनुभूयन्ते तथाच सर्वस्य सन्मात्रत्वे भेदाभावाख्या व्यावृत्तिराश्रयाभावान्न सेत्स्यतीत्यर्थः। सन्तो भावा व्यावृत्तेराश्रया भविष्यन्तीत्याशङ्कयाऽऽह। निराकृतेति। यथा नभसि नीरूपे स्वभावेनैव नीलिमा निराकृतस्तथा स्वभावतः सन्मात्रैर्भावैर्व्यावृत्तिर्निरस्ता तस्याः सन्मात्रे दुर्घटत्वादित्यर्थः॥१७०६॥

नभोवत्सदिदं सर्वं तत्र यत्तत्सदात्मना॥
साध्यत्वं नान्यथा दृष्टमसतो यदि वा सतः॥१७०७॥

सर्वस्य सन्मात्रत्वं दृष्टान्तेन साधयति। नभोवदिति। यथा कूपकुम्भाकाशादि सर्वं नभोमात्रंतथा जगदखिलं सन्मात्रं भातीत्यर्थः। कथं तर्हि जन्मादिव्यवहारो न हि सति सोऽस्ति तत्राऽऽह। तत्रेति। सर्वस्य सन्मात्रत्वे सतीति यावत्। घटादि दृश्यं तत्सद्रूपात्यागेन तदविद्यया कारकव्यापाराधीनं न सद्रूपत्यागेन साध्यत्वमेति तस्यासत्त्वादेव कारकव्यापारविषयत्वानुपपत्तेरतः सतोऽसतो नोत्पत्त्यादीत्याविद्यं तदित्यर्थः॥१७०७॥

वस्त्वन्तराच्चैद्व्यावृत्तिरिष्यते ह्यन्यवस्तुनः॥
वस्तुत्वात्साऽस्त्वभावस्य वस्तु नो चेत्कुतो भिदा॥१७०८॥

किंच किमभावो वस्तु किंवाऽवस्तु तत्राऽऽद्ये दोषमाह। वस्त्वन्तरादिति। एकस्य वस्तुनोऽन्यस्माद्वस्तुनः सकाशाद्व्यावृत्तिरिष्यते चेत्तदा चतुर्विधाभावस्यापि वस्तुत्वाद्घ टादेर्व्यावृत्तिरस्तु निवारकाभावात्तथाच घटादि चतुर्विधाभावास्पृष्टत्वादद्वयं स्यात्तत्संस्पर्शेऽपि तस्य न क्षतिर्न हि घटस्पृष्टं नभो नश्यति। विरोधिसंसर्गे नाशः स्यादिति चेन्न, भावाभावयोर्वस्तुत्वाविशेषे विरोधासिद्धेराखुनकुलवदिति चेन्न, तत्रापि भावत्वाकारेणाविरोधात्प्रतीतिविरोधः स्यादिति चेन्न, भावाभावपुरस्कारेण तदविरोधादित्यर्थः। अभावस्यावस्तुत्वपक्षं प्रत्याह। वस्त्विति। अभावस्यासत्त्वे तदपेक्षभेदस्याप्यसत्त्वादद्वयमेव वस्तु स्यादित्यर्थः॥१७०८॥

घटो भावात्मनाऽऽप्नोति त्वत्साध्यं चेदशेषतः॥
घटीभूतमिदं सर्वं द्वैतं ते किंप्रभंमतम्॥१७०९॥

किंचभेदाभेदवादिना भावरूपेणाभावरूपेण वा घटस्य पटादेरभेदोऽप्युप772गम्यते तत्राऽऽद्यमनूद्य दूषयति। घट इति। भिन्नाभिन्नत्वेन त्वया कृतं साध्यं सर्वं भावरूपेण घटो व्याप्नोति चेत्तर्हि घटमात्रं तदापन्नं तन्न भेदो मानाभावादित्यर्थः॥१७०९॥

बोधकं यत्प्रमेयस्य तत्प्रमाणमिष्यते॥
न च प्रमाणनास्तित्वमीदृक्तस्मान्न युज्यते॥१७१०॥

द्वितीये नाभेदो न च मानं विना घटस्याभावः सिध्येन्न च मानपञ्चकानुदयो घटाभावे मानमित्याह। बोधकमिति। अभावप्रमाणस्यापि तथात्वं शङ्कित्वाऽऽह। न चेति। मानाभावस्य बोधकत्वाभावान्मेयाभावे मानत्वं न युक्तमित्याह। तस्मादिति॥१७१०॥

मेयाभावः प्रमाणानां यद्यभावेन गम्यते॥
प्रमाणानामभावस्य गमकः को भविष्यति॥१७११॥

मानाभावस्य मेयाभावबोधित्वमङ्गीकृत्यापि दोषमाह। मेयेति। न च मेयाभावो मानाभावं गमयति परस्पराश्रयान्न च मानाभावादेव तद्धीरात्माश्रयान्न च भावमानादेवतद्धीरभावमानोच्छेदादिति भावः॥१७११॥

एकप्रत्ययनिर्ग्राह्यमेकं वस्त्विति भण्यते॥
प्रत्यभिज्ञाबलाद्वाऽपि नाभावेऽस्त्युभयं हि तत्॥१७१२॥

मेयाभावो मानाभावश्चेति न मिथोभेदोऽभावस्य तद्धर्मत्वासिद्धेरतो मेयाभावे मानमस्ति चेन्मानाभावेऽप्यस्त्येवेत्याशङ्क्याऽऽह। एकेति। एकमित्येकधीग्राह्यमेकं वस्तूच्यते सोऽयमिति प्रत्यभिज्ञातो वा तदैक्यं गृह्यते न चाभावस्योभयमस्ति तस्मान्नैक्यं तस्य भावत्वेनाभावानाधारत्वादित्यर्थः॥१७१२॥

दर्शनस्पर्शनाभ्यां स्याद्यथैकार्थग्रहस्तथा॥
प्रत्यक्षाभावमानाभ्यां नानुभूतिरिहास्ति नः॥१७१३॥

प्रत्यक्षसिद्धमानाभावेन मेयाभावे सिद्धे द्वाभ्यामभावैक्यसिद्धिरित्याशङ्कयाऽऽह। दर्शनेति। इहेत्यभावोक्तिः। अनुभूतिस्तदैक्यगोचरा नहि संभूयमानाभ्यामभावैक्यं बोध्यते मिथो वार्तानभिज्ञत्वादित्यर्थः॥१७१३॥

न प्रमाणं प्रमेयं वा तदभावविशेषणम्॥
तदा द्वयोरसंसिद्धेर्विरोधाच्चाप्यसंगतिः॥१७१४॥

यथा तेऽनुभूतेरैक्येऽपि नीलपीताद्युपाधिभेदाद्भेदधीरिष्टा तथा स्वाररस्येनाभावाभेदेऽपि मानाभावो मेयाभाव इति प्रतियोगिभेदात्तत्र भेदोऽस्तीत्याशङ्क्याऽऽह। नेति। तत्र हेतुः। तदेति। एकस्मिन्क्षणे भावाभावयोरभावाद्विरुद्धत्वाच्च न तयोर्विशेषणविशेष्यता तत्कथं प्रतियोगिभेदादभावभेदोक्तिरित्यर्थः॥१७१४॥

यद्यसन्नपि धर्मः स्यान्नैपुण्याद्भवतः क्वचित्॥
नभो मूर्तं घटोऽमूर्तोविश्रब्धैःकिं न साध्यते॥१७१५॥

भावाभावयोरेककालत्वाभावेऽपि विशेषणविशेष्यत्वं किं न स्यात्तत्राऽऽह। यदीति। असमकालयोरपि विशेषणविशेष्यत्वे सर्वमपि सुसाध्यं स्यादित्यर्थः॥१७१५॥

न भावयोरभिन्नत्वाद्धर्मधर्मित्वमिष्यते॥
नितरामभावयोर्न स्याद्दूरतो भावाभावयोः॥१७१६॥

यस्मिन्धर्मिणि प्रतियोगी संबध्यते तत्रैव संबद्धोऽभावः प्रतियोगिनो विशेष्यः स्यादिति चेन्न धर्मधर्मिभावस्य दुर्वचत्वादित्याह। नेति॥१७१६॥

नाऽऽत्मना वस्तुनो भेदो भेदस्यान्यव्यपाश्रयात्॥
अन्यदीयोऽपि नान्यस्य भेदः स्यात्कल्पनां विना॥१७१७॥

भावाभावयोर्विशेषणविशेष्यत्वं धर्मधर्मित्वं च निराकृत्य भेदा981भेदनिराकरणमनुवर्तयन्पूर्वोक्तं स्मारयति। नाऽऽत्मनेति। न तावद्वस्तुनः स्वापेक्षया भेदस्तस्यान्यापेक्षत्वान्नाप्यन्यस्मादसौ कल्पनां विना युक्तोऽन्योन्याश्रयादतो भेदभावादेकं वस्तु स्यादित्यर्थः॥१७१७॥

स्वतोऽभिन्नस्वभावत्वान्न भेदोऽन्योन्यसंश्रयः॥
उभयोरप्यसंभेदः कथं भिन्द्याद्विरोधिनम्॥१७१८॥

किंच सर्वस्य स्वरूपेणाभिन्नत्वान्न स्वरूपभेदः प्रतियोग्यपेक्षया तु न स लभ्यतेऽन्योन्याश्रयान्न च धर्मिप्रतियोगिनोर्भेदो विद्यमानः प्रतियोग्यपेक्षया विरोधिनं धर्मिणं भेत्तुमर्हत्यतो न भेदो वास्तवोऽस्तीत्याह। स्वत इति॥१७१८॥

विशेषणप्रभेदेऽपि विशेष्योऽर्थो न भिद्यते॥
शुक्लकृष्णादिभेदेऽपि गोपिण्डो न हि भिद्यते॥१७१९॥

भेदाभावनिरासेनैकरसं वस्तूक्त्वा कुम्भादिभेदोपगमेऽपि सदद्वयमेष्टव्यमित्याह। विशेषणेति॥१७१९॥

विशेषणं विशेष्याच्चेद्विशेष्यान्तरवत्पृथक्॥
भिन्नत्वात्संगतिर्न स्याद्विशेषणविशेष्ययोः॥१७२०॥

तर्हिविशेषणविशेष्यत्वोपगमात्तस्य982भेदगर्भत्वादद्वैतवादिनः सिद्धान्तहानिरित्याशङ्क्योपेतं विशेषणविशेष्यत्वं दूषयति। विशेषणमिति। तद्विशेष्याद्भिन्नमभिन्नं वा नाऽऽद्योहिमवद्विन्ध्ययोरिवात्यन्तभिन्नत्वात्तद्भावेन संबन्धासिद्धेर्नेतरस्तत्त्वानुपपत्तेस्तुल्यत्वादित्यर्थः॥१७२०॥

नैकधीगम्यता च स्याज्ज्ञानस्यायुगपज्जनेः॥
युगपन्न हि विज्ञानं जायते घटमेषयोः॥१७२१॥

किंच तयोरेकधीगम्यत्वं भिन्नधीगम्यत्वं वा नाऽऽद्य इत्याह। नैकेति। न हि मलयहिमालययोरत्यन्तभिन्नयोर्मिथःसंसृष्टतयैकदृष्टिविषयता दृष्टेत्यर्थः। द्वितीयेऽपि युगपदुत्पन्नानेकज्ञानगम्यत्वं क्रमभाव्यनेकज्ञानगम्यत्वं वा नाऽऽद्य इत्याह। ज्ञानस्येति। अनेकज्ञानस्य युगपज्जन्माभावे दृष्टान्तमाह। युगपदिति॥१७२१॥

प्रागेवानात्मसंबन्धादुत्पत्तावेव लब्धतः॥
प्रत्यग्वस्तुप्रमेयस्य तावतैव कृतार्थतः॥१७२२॥

प्रमाणस्य ततोऽन्यस्मिन्न तन्मानत्वमर्हति॥
विरोधिव्यभिचारित्वात्तदन्यस्य च वस्तुनः॥१७२३॥

क्रमभाव्यनेकज्ञानगम्यत्वे च घटपटादिवदयःशलाकाकल्पतया न विशेषणविशेष्यतेति मत्वा क्रमाक्रमकल्पयोः साधारणं दोषमाह। प्रागिति। एकस्यानेकस्य वा ज्ञानस्य युगपदयुगपद्वा प्रवृत्तस्यानात्मना विषयेण संबन्धात्पूर्वमेव प्रतीचो वस्तुनः स्वाकारार्पकतया विषयस्य लाभान्मानस्य मेयलाभमात्रेणानपेक्षत्वान्नाऽऽत्मनोऽन्यस्मिन्नर्थे तन्मानत्वं तस्माद्विशेषणाद्यनात्मभूतमप्रामाणिकं कल्पितमित्यर्थः। किंचाऽऽत्मनोऽन्यस्य जाड्यादजडप्रमाणफलविरोधितया तत्संबन्धाभावात्प्रमेयत्वासिद्धेर्व्यभिचारित्वाच्च तत्कल्पितं मिथोव्यभिचारिसर्पधारादिवदित्याह। विरोधीति॥१७२२॥ १७२३॥

सर्वं मिथोऽनपेक्षं सत्स्वात्ममात्रविवक्षया॥
प्रत्यग्रूपात्परं रूपं न वस्तूत्प्रेक्ष्यतेमितेः॥१७२४॥

कल्पितत्वेऽनात्मनो हेत्वन्तरमाह। सर्वमिति। स्वरूपमात्रानुसारेण सर्वमन्योन्यानपेक्षं सदेव तथाच तस्याऽऽत्ममात्रत्वादन्यत्कल्पितमित्यर्थः। कथं सर्वस्याऽऽत्ममात्रत्वं तत्राऽऽह। प्रत्यगिति॥१७२४॥

यद्वस्तु स्वात्मनैवास्ति तत्परार्थं न बोधवत्॥
पारार्थ्येनैव सद्यच्च तत्परस्माद्धिरुङ्न सत्॥१७२५॥

आत्ममात्रमपि जगत्कल्पितं चेत्सोऽपि तथा स्यादित्याशङ्क्याजाड्यान्नेत्याह। यदिति। तर्हि जगदप्यकल्पितमात्माभिन्नत्वादित्याशङ्क्य जाड्यान्मैवमित्याह। पारार्थ्येनेति॥१७२५॥

असाधारणरूपत्वात्प्रत्यक्विन्मात्रवस्तुनः॥
तत्तत्त्वानुविधाय्येव प्रमात्रादिर्भवन्भवेत्॥१७२६॥

तर्हि विरुद्धत्वाज्जगदात्मनोर्भिन्नतेत्याशङ्क्याऽऽह। असाधारणेति। प्रतीचश्चिदेकरसस्यासामान्यविशेषत्वादकल्पितत्वं मात्रादिस्त्वनात्मा सामान्यविशेषात्मको भवन्मिथोपेक्षत्वात्कल्पितोऽतोऽधिष्ठानात्मतत्त्वानुसार्येव कल्पितस्यातिरिक्तरूपाभावादित्यात्म-मात्रता जगतो युक्तेत्यर्थः॥१७२६॥

द्रष्टव्याद्यनुसारिण्या प्रत्यङ्मोहप्रसूतितः॥
दृष्ट्या विरुद्धदिक्स्थस्य प्रतीचो दर्शनं कुतः॥१७२७॥

सच्चिन्मात्रमद्वयं तत्त्वमिति वदता भेदाभेदवादो दूषितः संप्रति तत्पक्षे विषयधीग्राह्यत्वमात्मनः स्यात्तच्चायुक्तमित्याह। द्रष्टव्येति। स्प्रष्टव्यश्रोतव्यादिसंग्रहार्थमादिपदम्। आत्मा भिन्नाभिन्नश्चेद्रूपादिना सहाभिन्नत्वात्तदाकारदृष्ट्या दृष्टः स्यान्न च प्रतीचो बाह्यरूपाद्यपेक्षयाऽन्तरवस्थितस्य तद्दृष्ट्या दृष्टिः श्लिष्टा प्रत्यगज्ञानजभ्रान्तित्वाच्च न साऽऽत्मानं गोचरयेदित्यर्थः॥१७२७॥

श्रुतिमानार्पितं चैतन्नावज्ञेयं विपश्चिता॥
पराञ्चीति तथा शास्त्रं न दृष्टेरिति च स्फुटम्॥१७२८॥

विदिताविदिताभ्यां नो व्युत्थाप्य ब्रह्म चाब्रवीत्॥
नातो वस्त्वन्तरं ज्ञेयं तदन्यस्य निषेधतः॥१७२९॥

आत्मनो विषयज्ञानाविषयत्वे मानमाह। श्रुतीति। अन्यदेव तद्विदितादिति श्रुतेः। जगतस्तर्हि मेयत्वमन्यथा विदितादित्यनुवादायोगादित्याशङ्क्याऽऽह। नात इति। ब्रह्मणः सकाशाद्वस्त्वन्तरं न मानग्राह्यमित्यत्र हेतुः। तदन्यस्येति। अस्थूलादिवाक्यैरनात्मनो निषेधाद्भ्रान्तिदृष्टत्वमात्रं विदितश्रुतेरित्यर्थः983॥१७२८॥१७२९॥

मनुते मनसा यन्न येनाऽऽहुस्तन्मनो मतम्॥
ब्रह्म विद्धि तदेव त्वं न त्विदं यदुपासते॥१७३०॥

यतो वाचो निवर्तन्ते नेति नेतीति चापरम्॥
इति स्पष्टं वचो मानं कुतो हेतोरुपेक्ष्यते॥१७३१॥

प्रतीचो विषयज्ञानाग्राह्यत्वे वाक्यान्तरमाह।मनुत इत्यादिना। यथोक्तं वाक्यं यजमानप्र984स्तरादिवाक्यवदनादरणीयमित्याशङ्क्याऽऽह। इति स्पष्टमिति। न हि प्रकृते प्रमाणविरोधस्तदयोग्यत्वादुक्तश्रुत्यर्थस्येति भावः॥१७३०॥१७३१॥

द्रष्टुः प्रतीचि यत्साक्षात्प्रत्यग्दृष्ट्याऽवसीयते॥
दृष्ट्यादिजन्मनाशादिसाक्ष्यभेदात्मकं स्वतः॥१७३२॥

तर्हि निषेधश्रुतेर्जगतोऽभावनिष्ठत्वान्माध्यमिकमतापातो, नेत्याह। द्रष्टुरिति। मातुरपि प्रत्यक्त्वेन स्थिते चिदात्मन्यधिष्ठाने यद्दृष्टिश्रुत्यादि तज्जन्मनाशादिवत्साक्ष्यतया यत्स्थितं विशेषजातं साक्षादृश्यते तत्सर्वं निषेधश्रुत्या निषिध्यमानं स्वतः प्रत्यग्भूतकूटस्थदृष्टिमात्रत्वेनावसीयते तन्न जगतोऽभावनिष्ठतेत्यर्थः॥१७३२॥

तदेतदिति मानेन तत्त्वमस्यादिना तथा॥
ब्रह्मेति बोध्यते साक्षात्तत्तमोध्वस्तिवर्त्मना॥१७३३॥

प्रतीचो वेद्यत्वनिषेधे तत्त्वमादिवाक्यविषयत्वस्याप्यमावादौपनिषदत्वव्याहतिरित्या-शङ्क्याऽऽह। तदेतदिति। ऐक्यमितिना परामृश्यते। तदीयः साक्षात्कारः साक्षादित्युच्यते। तेन प्रतीचः स्वाज्ञानतज्जनिरासद्वारा ब्रह्मैक्ये पर्यवस्यद्वाक्यजातं तद्विषयीकारमन्तरेण मानमित्यर्थः॥१७३३॥

ब्रह्मात्माऽऽत्मानमेवावेदहं ब्रह्मेति च श्रुतेः॥
प्रत्यग्दृष्ट्यैव तद्ब्रह्म दृश्यते न पराग्धिया॥१७३४॥

अथ तत्रविषयतयैव किमिति वाक्यानि ज्ञानं न जनयन्ति तत्राऽऽह। ब्रह्मेति। तस्यास्तात्पर्यमाह। प्रत्यगिति। तद्धि वाक्योत्थया दृष्ट्या प्रत्यक्त्वेनाविषयतयैव स्फुरति नतु तया पराग्भावेन दृश्यत इति योजना॥१७३४॥

घटोऽत्रास्तीति वाक्येऽस्मिन्को न्वर्थः संप्रतीयते॥
मेयोऽनधिगतस्तावत्स्वानुभूत्यैकसिद्धिकः॥१७३५॥

प्रत्यक्चिदेकतानं ब्रह्म वाक्यीयधिया स्फुरतीत्ययुक्तं तथाविधे वस्तुन्यसंप्रतिपत्तेरित्याशङ्क्य विमृशति। घट इति। विमर्शफलमाह। मेय इति। न तावद्धटोऽस्तीत्यादिवाक्ये ज्ञातो विषयो वाक्यवैयर्थ्यादतोऽज्ञातोऽनुभवमात्रसिद्धः स985वाच्यस्तथाच प्रत्यगात्मा चिदेकतानो ज्ञाताज्ञातसाक्षी न शक्योऽपह्नोतुमित्यर्थः॥१७३५॥

मात्रादिजन्मनः प्राक्वनानुभूत्यतिरेकतः॥
द्रष्टृदर्शनदृश्यादिवस्त्वन्यदवसीयते॥१७३६॥

तत्रैव हेत्वन्तरमाह। मात्रादीति॥१७३६॥

मातृमानप्रमेयादेरन्योन्यव्यभिचारतः986
अनन्यानुभवात्प्रत्यक्संविदव्यभिचारिणी॥१७३७॥

प्रागनुभूतिव्यतिरेकेण द्रष्ट्रादेर्न दृष्टिरिति विशेषणान्मात्राद्युत्पत्तेरूर्ध्वमनुभूतेरर्थान्तरत्वेनापि द्रष्ट्रादि द्रष्टुं शक्यमित्याशङ्क्याऽऽह। मात्रिति॥१७३७॥

संविदो व्यतिरेकेण वस्तु यद्यत्प्रसाध्यते॥
रज्जुसर्पादिवत्तत्तन्नैति संभावनामपि॥१७३८॥

व्यभिचाराव्यभिचारव्यवस्थायां फलितमाह। संविद इति॥१७३८॥

संविदेशादिभेदेन वस्तु चेत्साध्यतेऽन्यतः॥
घटो नास्तीति चान्यद्वा संगतिर्नानयोर्मितेः॥१७३९॥

मात्राद्यधिष्ठानसंविदतिरेकेण रज्जुसर्पवन्नास्तीत्युक्तं समर्थयते। संविदिति। संविदो देशकालादिभेदेन मात्रादि भिन्नत्वेन साध्यते चेत्तस्य सत्त्वमसत्त्वं वा न स्वतो जाड्या-

न्नापि संविदा प्रामाणिकसंबन्धाभावादतो रज्ज्वां सर्पवत्कल्पितं संविदि तत्तन्मा987त्रमित्यर्थः॥ १७३९॥

उपलब्धोऽस्ति सन्कुम्भो लम्बोष्ठो देशकालवान्॥
पूर्वपूर्वातिरेकेण नोत्तरोऽर्थोऽनुभूयते॥१७४०॥

मात्रादेः संविन्मात्रत्वे प्रत्यक्षं प्रमाणयति। उपलब्धोऽस्तीति॥१७४०॥

कर्त्रादिव्यापृतेः पूर्वं संवित्संवित्तिमात्रतः॥
अविभागादनाख्येयं988 तदुद्भूत्या फलायते॥१७४१॥

संविदो मानफलत्वेन कार्यत्वात्कथं तत्कल्पनाधिष्ठानतेत्याशङ्क्याऽऽह। कर्त्रादीति। मात्रादिव्यापारात्प्रागवस्थायां मानमेयादिविभागाभावादेषा संवित्फलाद्याख्याविकला तद्व्यापारोत्पत्त्या फलादिवदाचरत्यतस्तत्सद्भावस्य सदाऽविशेषादकार्यभूता सा भवत्येव सर्वाधिष्ठानमित्यर्थः॥१७४१॥

अक्रियेऽपि यथा व्योम्नि ह्युद्भूतिस्थितिहानिभिः॥
जगन्नर्नर्ति मय्येवं कार्यकारणवस्त्विदम्॥१७४२॥

रज्ज्वादौ सक्रिये सर्पादिसमारोपदर्शनादक्रिये संविदात्मनि कथं जगदध्यासस्तत्राऽऽह।अक्रियेऽपीति। अवकाशाभावे जगतो न काऽपि विक्रियेतिप्रसिद्ध्यर्थो हिशब्दः॥१७४२॥

नञ्घटावपह्नुत्य संवित्सद्रूपमात्रया॥
अवगत्यात्मना सत्त्वमवाक्यार्थत्वमश्नुते॥१७४३॥

आकाशवत्तर्हि कल्पनाधिष्ठानत्वाज्जाड्यं प्रतीचः स्यादित्याशङ्क्याऽऽह। नञिति। संविद्धि भावाभावौ सन्मात्रत्वेन तदप्यवगतिमात्रतयोपसंहृत्याखण्डैकरसानुभूतिमात्रत्वेन तिष्ठतीत्यर्थः॥ १७४३॥

दिग्विभागोऽविभागेऽपि व्योम्नि यद्वत्प्रकल्पितः॥
प्रध्वस्ताशेषभेदेऽपि मयि भिन्नधियस्तथा॥१७४४॥

तथाऽप्यधिष्ठानत्वे रज्ज्वादिवत्परिच्छिन्नतेत्याशङ्क्याऽऽह। दिगिति॥१७४४॥

स्वप्नेभबुद्धिर्नष्टेऽपि स्वप्नआभाति जागरे॥
यथैवं मोहजं द्वैतं नष्टे मोहेऽपि सांप्रतम्॥१७४५॥

संविदि सर्वस्याविद्याध्यासे ध्वस्ताविद्यस्य विदुषो द्वैतभानासिद्धिरित्याशङ्क्याऽऽह। स्वप्नेति। विदुषो द्वैतदृष्टिरविद्यालेशादित्यसकृदुक्तमिति भावः॥१७४५॥

**आगमादन्यतो मानाद्भिन्नाभिन्नत्वमात्मनः॥
यथोक्तेन प्रकारेण न मनागपि गम्यते॥१७४६॥ **

भेदाभेदानुमानस्यानुत्थानमुपपादितमुपसंहरति। आगमादिति॥१७४६॥

मानान्तराच्च यत्प्राप्तं मानत्वं तत्र च श्रुतेः॥
न कथंचन संभाव्यमनुवादत्वकारणात्॥१७४७॥

आगमात्तर्हि भिन्नाभिन्नत्वमात्मनो गम्यतामित्याशङ्क्य तत्किं मानान्तरस्यापि विषयः किंवाऽऽगमस्यैवेति विकल्प्याऽऽयं प्रत्याह। मानान्तरादिति। आगमाद्यथेत्याद्यचकारार्थः। मानान्तरस्येवेति द्वितीयार्थः॥१७४७॥

प्रमान्तरानधिगते मानानां मानतेष्यते॥
अग्निर्हिमस्य989 भेषजमि989ति चातोऽन्यथा भवेत्॥१७४८॥

अज्ञातार्थगन्तृ मानमितिलक्षणविरोधाच्च न प्रतीतेऽर्थे श्रुतेर्मानतेत्याह। प्रमान्तरेति। विपक्षे दोषमाह। अग्निरिति॥१७४८॥

प्रमान्तरविरुद्धं च मातुं नोत्सहते श्रुतिः॥
स्वगोचरेश्वरं मानं न मानान्तरगोचरे॥१७४९॥

द्वितीयेऽपि सृष्ट्यादिश्रुतिर्वा यद्वै तदित्यादिश्रु990तिर्वा यथोक्तं बोधयतीति विकल्प्याऽऽद्यं दूषयति। प्रमान्तरेति। अस्थूलादिवाक्यविरुद्धमात्मनो भिन्नाभिन्नत्वं प्रमातुं सृष्ट्यादिश्रुतिर्न शक्नोति न हि प्रधानविरुद्धार्थमवान्तरवाक्यं साधयतीत्यर्थः। मानान्तरविरुद्धं न साधयतीत्यत्र हेतुमाह। स्वगोचरेति॥१७४९॥

श्रोत्रादिकरणानीव नातो गोचरसंकरः॥
भिन्नाभिन्नप्रसिद्ध्यर्थं न चेयं श्रुतिरिष्यते॥
यद्वै तदिति वचस इतोऽन्यार्थपरत्वतः॥१७५०॥

मानानां स्वार्थशूरत्वे दृष्टान्तमाह। श्रोत्रादीति। स्वार्थेषु मानानामैश्वर्यात्तेषां व्यवस्थितार्थत्वान्न मानान्तरविरुद्धं श्रुतिर्गोचरयतीति फलितमाह। नात इति। कल्पान्तरं शङ्कित्वा प्रत्याह। भिन्नाभिन्नेति॥ १७५०॥

दृष्ट्यादिभेदसिद्ध्यर्थं नेदं वचनमिष्यते॥
भेदस्यातोऽन्यतः प्राप्तेर्न श्रुत्या तत्र यत्यते॥१७५१॥

भिन्नाभिन्नार्थादर्थान्तरत्वेऽपि तद्दृष्ट्यादिभेदरूपं स्वयं पदार्थान्तरमित्याशङ्क्याऽऽह। दृष्ट्यादीति॥१७५१॥

किंतु चैतन्यमप्यस्य कामकर्मादिवद्भवेत्॥
न स्वतोऽदर्शनात्प्राज्ञ इत्याशङ्क्यैतदीरितम्॥१७५२॥

भेदाभेदस्य भेदस्य वा न चेद्वाक्यं प्रतिपादकं तर्हि किं प्रतिपादयतीत्यत आह।

किंत्विति। वाक्यप्रतिपाद्यमाह। चैतन्यमिति। लोकप्रसिद्धदृष्ट्यादिभेदानुवादेन स्वापे दृष्टेरविनाशप्रतिपादकं वाक्यमित्यर्थः॥१७५२॥

स्वप्नप्रबोधयोर्यद्वदृष्टिरस्याऽऽत्मनः स्वतः।
मात्रादिविक्रियाग्रामसाक्षिणी साऽविनश्वरी॥१७५३॥

तत्र दृष्टेरनाशे दृष्टान्तमाह। स्वप्नेति। अविनश्वरीति च्छेदः॥१७५३॥

प्नाज्ञेऽपीयं तथैवाऽऽस्ते कूटस्थैकात्म्यल991क्षणा॥
भावाभावौ त्वविद्यादेर्विशेषः केवलस्त्विह॥१७५४॥

दार्ष्टान्तिकमाह। प्राज्ञेऽपीति। तत्रापि दृष्टिरिष्टा चेज्जागरादेस्तस्य को विशेष इत्याशङ्क्याऽऽह। भावेति। तुशब्दोऽवधारणे। द्वितीयो विशेषान्तरव्यासेधार्थः। अवधारणार्थप्रकटीकरणार्थं केवलपदम्। इहेत्यवस्थात्रयोक्तिः॥१७५४॥

कामाद्यशेषोपाधीनां निवृत्तौ न निवर्तते॥
तन्निवृत्त्येकसाक्षित्वात्कामाद्यस्तित्वसाक्षिवत्॥१७५५॥

स्वापे चैतन्यमपि कामादिवन्नश्यतीति शङ्का कथं समाहितेति तत्राऽऽह। कामादीति। सर्वत्र यथासंभवं तद्भावाभावसाक्षित्वेनाविनाशिन्यात्मदृष्टिरेष्टव्येत्यर्थः॥१७५५॥

भावाभावार्थसाक्षित्वाद्भावाभावात्मिकैव992 सा॥
गृह्यतेऽविद्यया मूढैर्मणिः शुद्धो यथाऽऽश्रयैः॥१७५६॥

कथं तर्हि तत्र जन्मादिदृष्टिरित्याशङ्क्याऽऽह। भावेति। औपाधिकी जन्मादिदृष्टिरित्यत्र दृष्टान्तमाह। मणिरिति॥१७५६॥

सत्यं ज्ञानमनन्तं च विज्ञानघनमित्यपि॥
प्रज्ञानं ब्रह्म चेत्येवं ज्ञानमात्रात्मताऽऽत्मनः॥१७५७॥

दृष्टेरविनाशित्वे श्रुत्यन्तरसंवादमाह। सत्यमिति॥१७५७॥

दृष्टान्तश्च न नो नास्ति मण्यादेरिह संभवात्॥
मणेर्नीलादिवद्भेदो दृष्ट्यादिप्रत्यगात्मनः॥१७५८॥

सर्वस्य वस्तुनो भिन्नाभिन्नत्वादात्माऽपि वस्तुत्वात्तथेत्येतन्निरस्तं निरस्तं च तस्य श्रौतत्वम्। यत्तु परपक्षे न दृष्टान्त इति तत्र किमेकस्यानेकरूपमानं भ्रान्तमित्यत्र दृष्टान्ताभावः किंवा वस्त्वेकरूपमित्यत्रेति विकल्प्याऽऽद्यं दूषयति। दृष्टान्तश्चेति। इहेत्येकस्यानेकत्वदृष्टावित्यर्थः। द्वितीयपादार्थं प्रपञ्चयति। मणेरिति॥१७५८॥

प्रतिज्ञाहेतुदृष्टान्ता भिन्नाभिन्नत्ववादिनः॥
मिथो भिन्ना न सन्तीह भिन्नाभिन्नत्वमात्रतः॥१७५९॥

साध्यासंभवादिना वस्तुत्वानुमानानुत्थानं प्रागुक्तं संप्रति प्रकारान्तरेण तदनुत्थानमाह। प्रतिज्ञेति। परपक्षः सप्तम्यर्थः। अतस्तवैव दृष्टान्ताभावः॥१७५९॥

दृष्टान्तमात्रनास्तित्वं दोषोऽस्मास्विह चोद्यते॥
दृष्टान्तोऽस्त्येव नः स्पष्टस्त्वन्मुखेनैव तद्ग्रहात्॥१७६०॥

द्वितीयं प्रत्याह। दृष्टान्तेति। इहेत्येकरूपवस्तूक्तिः। त्वत्पक्षे प्रतिज्ञादेरपि नास्तितेत्यतिशयो मात्रचा सूचितः। दृष्टान्तनास्तित्वमपि दूषणमिति चेत्तत्राऽऽह। दृष्टान्तोऽस्तीति। कथं तर्हि तदवगतिस्तत्राऽऽह। त्वन्मुखेनेति॥१७६०॥

भिन्नाभिन्नत्ववादेऽस्मिन्यो भिन्नो भवतोच्यते॥
स एव नोऽस्तु दृष्टान्तो नातोऽन्यः प्रार्थ्यते मया॥१७६१॥

को हि भेदाभेदवादिवाक्यवशादेव दृष्टो दृष्टान्तस्तत्राऽऽह। भिन्नेति॥१७६१॥

अवश्यमेव भिन्नार्थौ भिन्नाभिन्नरवाविमौ॥
भवतैवाभ्युपेतव्यौ भिन्नाभिन्नत्वसिद्धये॥१७६२॥

सर्वं भिन्नाभिन्नमिति वदता भेदाभेदयोरपि संकरस्वीकारादसंकीर्णाभेदाभावात्कथं दृष्टान्तसिद्धिस्तत्राऽऽह। अवश्यमिति॥१७६२॥

ऐकार्थ्यमेव चेदिष्टं भिन्नाभिन्नाभिधानयोः॥
तवैव न स्याद्दृष्टान्तः सर्वस्यैकस्वरूपतः॥१७६३॥

विपक्षे दोषमाह। ऐकार्थ्यमिति॥१७६३॥

भिन्नाभिन्नत्ववचसा न चैकार्थोऽपि भण्यते॥
भिन्नार्थप्रतिषेधत्वादभिन्नवचसस्तव॥१७६४॥

किंच भिन्नाभिन्नशब्दयोरभिन्नार्थत्वशङ्कैवानवकाशेत्याह। भिन्नेति। तवेत्युपलक्षणं ममेत्यपि द्रष्टव्यम्॥१७६४॥

गोभिधानाभिधेयार्थाद्यथेहाश्वगिरोच्यते॥
भिन्नोऽर्थो भेदशब्दार्थान्न तथाऽभेदशब्दतः॥१७६५॥

तयोर्भिन्नार्थत्वेऽपि भेदनिषेधो नाभेदः किंतु भेदादर्थान्तरं तथाच तयोरेकत्रोपपत्तिरित्याशङ्क्याऽऽह। गोभिधानेति। इहेति वृद्धव्यवहारोक्तिः। नञोऽभावे मुख्यत्वादित्यर्थः॥ १७६५॥

सर्वात्मकत्वसंप्राप्तावसाधारणवस्तुनः॥
सर्वात्मत्वनिषेधार्थं प्रमाभावस्त्वयाऽऽश्रितः॥१७६६॥

भेदाभेदशब्दयोर्भावाभावार्थत्वादेकविषयत्वाभावं वदता स्वपक्षे दृष्टान्त उक्तः। इदानीं भिन्नाभिन्नं सर्वमित्यत्र दोषान्तरमाह। सर्वेति। असाधारणस्य घटादिवस्तुनः सर्वेण पटादिना भिन्नाभिन्नत्वोपगमात्तस्य सर्वात्मत्वप्राप्ताविष्टमभावप्रमाणं नष्टं स्यादि-

त्यर्थः। कथमेतावता तन्नश्यति भेदमाश्रित्य तस्य सावकाशत्वादित्याशङ्क्याऽऽह। सर्वात्मत्वेति॥१७६६॥

भिन्नाभिन्नत्ववाचेहतत्कृतं खातपूरितम्॥
सर्वैः सर्वस्य चाभेदाद्व्यवहारोऽपि नश्यति॥१७६७॥

न हि भेदाभेदवादे सर्वस्य सर्वात्मत्वं शक्यं निषेद्भुमन्यथा भिन्नाभिन्नत्वोक्त्ययोगादतस्त्वयैव प्रमाभावरूपमभावमानं गर्ते निपात्य पिहितमित्याह। भिन्नेति। परमते दोषान्तरमाह। सर्वैरिति॥१७६७॥

एकैकं भेदतो वस्तु निःसंसर्गं परस्परम्॥
एकमेव त्वभेदे स्यादसामान्यविशेषवत्॥१७६८॥

कथं सर्वव्यवहारानुपपत्तिस्तत्राभेदकृतव्यवहाराभावमाह। एकैकमिति। भेदकृतस्तर्हिस निर्वहति नेत्याह। एकमेवेति। तथाचाप्रवृत्तिनिवृत्ति विश्वं स्यादिति भावः॥१७६८॥

दृष्ट्यादिवचसां लोके प्रवृत्तेर्ज्ञान एव च॥
दर्शनाज्ज्ञप्तिमात्रं स्यादर्थस्तेषां प्रसिद्धितः॥१७६९॥

दृष्ट्यादीनां भिन्नाभिन्नत्वे भिन्नत्वे वा यद्वै तदित्यादेर्न तात्पर्यमिति ब्रुवता स्वपक्षे दृष्टान्तः परपक्षे तदभावश्चोक्तः। इदानीं तेषां भिन्नत्वाभावे हेत्वन्तरमाह। दृष्ट्यादीति। उक्तं हेतुं संक्षिप्याऽऽह। प्रसिद्धित इति॥१७६९॥

पञ्च श्रोत्रादिभिः साक्षाज्जानामीति समीक्ष्यते॥
शब्दादीनिह लोकेऽतोदृष्ट्यादेर्ज्ञानवाच्यता॥१७७०॥

दृष्ट्यादिशब्दानां ज्ञानमात्रवाचित्वं प्रसिद्धमित्येतत्प्रकटयति। पञ्चेति। दृष्ट्यादेस्तत्पदस्येति यावत्। ज्ञानमेव वाच्यं यस्य तस्य भावस्तत्तेति विग्रहः॥१७७०॥

येन रूपं रसं गन्धं शब्दान्स्पर्शांश्च मैथुनान्॥
एतेनैव विजानातीत्यपि च श्रुतिशासनम्॥१७७१॥

दृष्ट्यादीनां ज्ञानमात्रत्वे काठकश्रुतिं प्रमाणयति। येनेति। येनैतेन साक्षिचैतन्येन लोको रूपादीञ्जानाति तस्मिञ्ज्ञाते नावशिष्यते तज्ज्ञेयमिति वदद्वाक्यं दृष्ट्यादीनां ज्ञानमात्रत्वं श्रावयति जानातेः सर्वत्र प्रयोगादित्यर्थः॥१७७१॥

लावकः पाचको993 वेति कारकस्य सतो994 यतः॥
संभेदोऽयं क्रियाभिः स्यान्ना995तोऽकारकतान्वितः॥१७७२॥

चक्षुरादिकरणाधीनो दर्शनादिक्रियाभेदोऽपि लोकसिद्धत्वान्न निरासमर्हतीत्या-

शङ्क्य दृष्ट्यादिवाच्यार्थस्य सामासबुद्धिनिष्ठस्य भेदेऽपि लक्ष्यार्थस्याऽऽत्ममात्रतया न भेदोऽस्तीत्यभिप्रेत्याऽऽह। लावक इति॥१७७२॥

गच्छतः पठतो भोक्तॄन्नानाकर्मकृतो रविः॥
यथा प्रकाशयत्येकरूप एव तथा धियः॥१७७३॥

दृष्ट्यादेरीक्षितृत्वादात्मनोऽकारकत्वमसिद्धमित्याशङ्क्याऽऽह। गच्छत इति। धियो वीक्षत इति संबन्धः॥१७७३॥

दृष्ट्यादिभिन्नचेष्टास्ता भिन्नदेशादिलक्षणाः॥
एकरूपं परं ज्योतिरेकं सद्वीक्षते धियः॥१७७४॥

दार्ष्टान्तिकं प्रपञ्चयति। दृष्ट्यादीति। देशशब्देन चक्षुरायुक्तिः। आदिशब्दस्तु कालविषयः। लक्षणशब्दो निमित्तपरः॥१७७४॥

किंज्योतिरित्युपक्रम्य यत्नेन महताऽऽदरात्॥
अर्थोऽयमेव निर्णीतस्तद्विरुद्धं किमुच्यते॥१७७५॥

किंच कूटस्थमेकरसं ज्योतिरात्मेति प्रतिपाद्य तस्य दृष्ट्यादिक्रियावत्त्वोक्तौ पूर्वापरविरोधः स्यादित्याह। किमिति। परपक्षनिरासद्वारा स्वपक्षसाधनं यत्नस्तस्य महत्त्वं साधनदूषणयोर्विवृतत्वमादरो दृष्टान्तोक्तिः॥१७७५॥

मोहोत्थोपाधिसंबन्धादभिन्नोऽपि स्वतोदृशिः॥
द्रष्टा श्रोतेति नानात्वं याति यद्वदलक्तकम्॥१७७६॥

आत्मा कूटस्थदृष्टिश्चेत्कथं तस्य द्रष्टा श्रोतेत्यादिनानात्वदृष्टिरित्याशङ्क्याऽऽह। मोहेति। यथा स्वच्छस्वभावः स्फटिकमणिरलक्तकमुपाध्यन्तरं वा संनिहितमपेक्ष्य लोहिताद्यनेकरूपतामेति तथेत्याह। यद्वदिति॥१७७६॥

रक्तादिभेदतो भेदः प्रकाशस्य प्रकाश्यतः।
यथैवमात्मनो भेदो ज्योतिष्ट्वाद्भास्यभेदतः॥१७७७॥

स्फटिकादेरप्रकाशस्योपाधितोऽन्यथा प्रथनेऽपि कथं प्रकाशात्मनोऽन्याधीनतयाऽन्यथा प्रथेत्याशङ्क्याऽऽह। रक्तादीति। यथा प्रदीपादिप्रकाशस्य प्रकाश्यरक्तादिभेदवशात्तद्भेदो भाति तथाऽऽत्मनो ज्योतिष्ट्वाविशेषाद्भास्यद्रष्टव्यादिभेदवशाद्द्रष्टेत्यादिनानात्वं सिद्धमित्यर्थः॥ १७७७॥

निरंशेषु न चाप्येवं सभागेष्विव वस्तुषु॥
भिन्नाभिन्नात्मता शक्या कर्तुं साक्षादपीश्वरैः॥१७७८॥

दृष्ट्यादीनां द्रष्टुर्भिन्नाभिन्नत्वं मिथश्च भिन्नतेत्येतन्निरस्तमधुना स्थूलेषु यद्वदित्यादिनोक्तं निरस्यति। निरंशेष्विति॥१७७८॥

न चापीह निरंशेषु भिन्नाभिन्नत्वकल्पने॥
दृष्टान्तः कश्चिदप्यस्ति जगत्यस्मिंश्चराचरे॥१७७९॥

तत्र दृष्टान्ताभावं हेतुमाह। न चेति। गोत्वादेः साध्यतुल्यत्वमप्यर्थः॥१७७९॥

दृगादिशक्तिभेदानां चक्षूरूपादिभेदतः॥
विकारकल्पनैतेन न्यायेनाऽऽत्मन्यपाकृता॥१७८०॥

आत्मनि दृष्ट्यादीनां भिन्नाभिन्नत्वनिरासिन्यायेनैव दृगादिशक्तिश्चक्षुरादिना रूपादिना च परिणमत इति कल्पनाऽपि निरस्तेत्याह। दृगादीति॥१७८०॥

कार्यलिङ्गाद्धि शक्तीनामस्तित्वं कारणत्वतः॥
यतोऽवगम्यतेनातोऽकारके शक्तिरात्मनि॥१७८१॥

किंचाऽऽत्मनि शक्तिरेव नास्ति मानाभावादित्याह। कार्येति। कार्यमेव लिङ्गं तद्गम्यं996 तासामस्तित्वमित्यत्र हेतुमाह। कारणत्वत इति। शक्तिमत्कारणं तच्च कार्यलिङ्गं तथाच विशेषणत्वेन शक्तिमत्त्वमपि तल्लिङ्गमित्यर्थः॥१७८१॥

शक्तिशक्तिमतोरैक्यं तयोर्भेदान्न युक्तितः॥
प्रतिपत्तुं क्वचिच्छक्यं प्रकृतिप्रत्ययार्थयोः॥१७८२॥

आत्मन्यकारकत्वादेव शक्तिर्नास्ति चेत्प्रधानादावेव जगज्जन्मादिशक्तिरस्तु तत्कारकत्वादित्याशङ्क्य प्रकृतिप्रत्ययार्थयोः शक्तिशक्तिमतोरभेदो भेदो वेति विकल्प्याऽऽद्ये दोषमाह। शक्तीति। न च तयोर्भेदप्रतीतौ स एवास्तु हिमवद्विन्ध्ययोरिव शक्तितद्वद्भावायोगादिति द्रष्टव्यम्॥१७८२॥

प्रकृत्यर्थेऽथवाऽयं स्यान्मतुव्यद्वा ततोऽन्यतः॥
पक्षासिद्धिर्हि पूर्वस्मिन्भेदान्नैक्यं तथोत्तरे॥१७८३॥

उक्तमर्थं स्फोरयितुं शक्तिमानित्यत्र मतुबर्थं विकल्पयति। प्रकृतीति। प्रकृत्यर्थः शक्तिरेव मत्वर्थश्चेच्छक्तिमत्कारणमितिपक्षासिद्धिरित्याद्यं दूषयति। पक्षेति। शक्तेरेव कारणत्वप्रसङ्गात्तस्याश्चाऽऽश्रयविषयव्यतिरेकेणायोगादिति हिशब्दार्थः। प्रकृत्यर्थाच्छक्तेरर्थान्तरे मतुबर्थे शक्तितद्वतोर्भेदात्तयोरैक्यं विवक्षितं न सिध्येन्न च तयोर्भिन्नतैव शक्तितद्वद्भावायोगादिति कल्पान्तरं निरस्यति। भेदादिति॥१७८३॥

आत्माविद्यैव नः शक्तिः सर्वशक्यस्य सर्जने॥
नातोऽन्यथा शक्तिवादः प्रमाणेनावसीयते॥१७८४॥

ननु भेदाभेदविकल्पाभ्यां शक्तिवादो नापवादमर्हति त्वयाऽपि शक्तेराश्रितत्वादित्याशङ्क्याऽऽह। आत्मेति॥१७८४॥

अशक्तं शक्तिमच्छक्त्या शक्तिः शक्तिमता तथा॥
अशक्तैति कथं योगमन्योन्यं हेत्वसंभवात्॥१७८५॥

आत्माविद्यातिरिक्तशक्तिवादो न प्रमाणवानित्येतत्कथमिति तत्र किं शक्तिशक्तिमतोर्मिथः संबन्धे प्रत्येकं शक्तिरस्ति न वा द्वितीयं दूषयति। अशक्तमिति॥१७८५॥

शक्तयः सन्ति भूयस्यस्तयोरपि मतं यदि।
तत्रापि तुल्यचोद्यत्वादनवस्था प्रसज्यते॥१७८६॥

आद्यमनूद्य प्रत्याह। शक्तय इति। तत्रापि तत्तच्छक्तितद्वतोरपीत्यर्थः। तुल्यस्य चोद्यस्य सत्त्वं नाम तत्र तत्र शक्तिमत्त्वस्याऽऽवश्यकत्वम्॥१७८६॥

तस्मादज्ञात आत्मैव शक्तिरित्यभिधीयते॥
आकाशादेस्ततो जन्म यस्माच्छ्रुत्याऽभिधीयते॥१७८७॥

परपक्षं निराकृत्य स्वपक्षमुपसंहरति। तस्मादिति। तत्र मानमाह। आकाशादेरिति। कारणं हि शक्तिमदिष्टमन्यथाऽतिप्रसङ्गादज्ञातश्चाऽऽत्मा विश्वस्य कारणं श्रूयते तस्मादात्माज्ञानमेव शक्तिरित्यर्थः॥१७८७॥

नन्वेवं चेत्स्वभावोऽस्य निर्विभागैकदृष्टिता॥
अथ स्वभावसंत्यागे को हेतुरिति भण्यताम्॥१७८८॥

यद्वै तन्न पश्यतीत्यादिवाक्यं कूटस्थनिर्विशेषप्रत्यगात्मपरं व्याख्यातमधुना यत्र वा अन्यदित्याद्यवतारयितुं चोदयति। नन्विति। किमात्मनो निर्विशेषदृष्टिः स्वभावः किंवा विशेषज्ञानमिति विकल्प्याऽऽद्यमनूद्य जागरादौ विशेषज्ञानायोगं दोषमाह। एवं चेदिति॥१७८८॥

विशेषज्ञानमेवास्य स्वभावो वाऽभ्युपेयते॥
सुषुप्ते तत्परित्यागः कस्मादित्यभिधीयते॥१७८९॥

द्वितीयमनुभाष्य सुषुप्तेऽपि विशेषज्ञानप्राप्तिदोषमाह। विशेषेति। एतदुत्तरत्वेनोत्तरवाक्यमवतारयति। अभिधीयत इति॥१७८९॥

जाग्रत्स्वप्नप्रपञ्चेऽस्मिन्नात्माविद्यैकहेतुके॥
अनन्योऽपि स्वतो यत्र मोहादन्य इवेक्ष्यते॥१७९०॥

तत्रान्यः कारको द्रष्टा तथाऽन्येनैव चक्षुषा॥
दृश्यमन्यदविद्योत्थं पश्येत्स्वप्ने यथा तथा॥१७९१॥

तस्यार्थमाह। जाग्रदिति। यस्यामविद्यादशायां तत्कृते जागरितादौ सति स्वतोऽद्वितीयोऽध्यात्मा मोहतः सद्वितीयवदुपलभ्यते तत्र कर्त्रादिविभागी997 स भवतीत्यर्थः।

स्वतोऽद्वयस्याप्यविद्यया सद्वयवद्दृष्टिं दृष्टान्तेन स्पष्टयति। स्वप्नइति॥१७९०॥१७९१॥

विशेषदर्शने यस्मादविद्यैवास्य कारणम्॥
अतस्तस्यां निवृत्तायां कृत्स्नो भेदो निवर्तते॥१७९२॥

आविद्यं द्वैतदर्शनमित्यङ्गीकारफलमाह। विशेषेति॥१७९२॥

छान्दोग्योपनिषद्वाक्यं तथा च सति युक्तिमत्॥
यत्र नान्यदिति तथाचाऽऽत्मैवेत्युपसंहृतेः॥१७९३॥

द्वैतदर्शनमाविद्यमित्यत्रैव श्रुत्यन्तरं संवादयति। छान्दोग्येतिषष्ठादौ सदेवेत्युपक्रम्य सप्तमसमाप्तावात्मैवेत्युपसंहारादात्माद्वयत्वमुपक्रमोपसंहारैकरूप्यात्प्रतीतमतश्चद्वैतदृष्टिरविद्याकृतेत्याह। तथाचेति॥१७९३॥

मैत्रेयीब्राह्मणे चैतद्व्याख्यातं वाक्यमादरात्॥
यतो998 भूयो न तद्व्याख्या क्रियतेऽत्र ततोऽधुना॥१७९४॥

यत्रेत्यादिवाक्यस्य व्याख्यासंक्षेपे हेतूक्तिपूर्वकं तद्व्याख्यामुपसंहरति। मैत्रेयीति॥१७९४॥

यद्वै तदित्युपक्रम्य व्याख्यातं वस्तु विस्तरात्॥
सलिलादिगिरा तस्य क्रियतेऽत्रोपसंहृतिः॥१७९५॥

सलिलादिवाक्यं तात्पर्योक्तिपूर्वकमादत्ते। यदिति॥१७९५॥

अविद्यैव यतो हेतुः कार्यकारणतां प्रति॥
सम्यग्ज्ञानादतस्तस्यां ध्वस्तायामात्ममात्रता॥१७९६॥

सलिलपदार्थोक्त्यर्थं पातनिकां करोति। अविद्येति॥१७९६॥

नाविद्यामनुपादाय प्रतीचोऽनात्मसंगतिः॥
यतो विध्वंसने तस्या नाऽऽत्मनोऽन्योऽवशिष्यते॥१७९७॥

सर्वस्याऽऽत्ममात्रत्वं प्रपञ्चयति। नेत्यादिना॥१७९७॥

स्वतोऽवबोधमात्रत्वात्कुतोऽविद्यादिसंप्लुतिः॥
तस्मात्सलिलवच्छुद्धः कार्यकारणहानतः॥१७९८॥

आत्मनः स्वाविद्यां विनाऽनात्मासंबन्धे हेतुमाह। स्वत इति। सर्वस्याऽऽविद्यस्य विद्यया ध्वस्तावात्ममात्रत्वपरिशेषे फलितं सलिलपदार्थमाह। तस्मादिति॥१७९८॥

अन्तरेणापि संबन्धं कार्यकारणवस्तुनः999
स्वतोऽनेकात्मकं तत्स्यादित्याशङ्क्यैक उच्यते॥१७९९॥

एकशब्दमाशङ्कोत्तरत्वेनोत्थापयति। अन्तरेणेति॥१७९९॥

नकपित्थादिवत्तत्त्वं स्वतोऽनेकस्वभावकम्॥
उक्त्वा सलिलबत्तस्मादेक इत्यब्रवीच्छ्रुति॥१८००॥

तस्यार्थमाह। नेत्यादिना। सलिलपदादात्मानं शुद्धमुक्त्वा पुनरेकपदं प्रयुञ्जाना श्रुतिरैकरस्यं तस्य विवक्षत्यन्यथा विशेषणवैयर्थ्यादित्यर्थः॥१८००॥

सजातीयनिषेधो वा ह्येकशब्देन भण्यते॥
सलिलोक्त्या विजातीयसंबन्धो हि निवारितः॥१८०१॥

एकशब्दस्यार्थान्तरमाह। सजातीयेति। तत्रापि तच्छब्दस्य सामर्थ्यमस्तीतिद्योतनार्थो हिशब्दः। एकपदे सर्वभेदनिबारके संभवति किं सजातीयाविशेषणेनेत्याशङ्क्य सलिलशब्दस्यार्थान्तरमाश्रित्याऽऽह। सलिलेति। सर्वं सलिलाद्यात्ममात्रमिति निर्देशादनात्मभेदस्य निषिद्धत्वादेकपदमात्मभेदनिरासार्थमित्यर्थः॥१८०१॥

एकशब्दो न संख्यार्थः संख्येयासंभवादिह॥
अद्वितीयार्थतैवातो द्वितीयार्थनिषेधतः॥१८०२॥

एकशब्दस्य संख्यावाचिनो गुणगुणिसंबन्धपरत्वान्न विवक्षितार्थतेत्याशङ्क्याऽऽह।एकेति। इहेत्यात्मोक्तिः। न हि तस्मिन्नेकत्वं गुणो निर्गुणत्वश्रुतेरित्यर्थः। संख्यावाचित्वासंभवे सिद्धमाह। अद्वितीयेति॥१८०२॥

सदेवेत्यादिना चास्य तथा सत्यविरुद्धता॥१८०३॥

प्रत्यङ्मात्रावसायित्वं प्रत्यग्दृष्टेर्यतस्ततः॥
अकारकस्वभावत्वादद्रष्टेत्यभिधीयते॥१८०४॥

एकशब्दस्य वृद्धव्यवहारे संख्यावाचित्वप्रसिद्धेर्नाद्वितीयार्थतेत्याशङ्क्य श्रुत्यन्तरविरोधान्मैवमित्याह। सदिति। तथा सत्येकपदस्याद्वयार्थत्वे सतीति यावत्। अकारकत्वे हेतूक्तिपूर्वकमद्रष्टेत्यस्यार्थमाह। प्रत्यगिति॥१८०३॥१८०४॥

यत्र हि द्वैतमित्युक्तेर्यत्र त्वस्येति चेरणात्॥
स्वतः पूर्णात्मकं ज्योतिरद्रष्टेत्यभिधीयते॥१८०५॥

द्रष्टेति पदच्छेदमाशङ्क्य दूषयति। यत्रेति॥१८०५॥

यस्मादेवमतोऽद्वैतोऽविद्यातत्कार्यलङ्घनात्॥
न ह्यविद्यादिविरहे द्वैतधीरुपपद्यते॥१८०६॥

सजातीयविजातीयभेदविरही कूटस्थो यस्मादात्मा तस्मादसौ स्वगतभेदशून्य इत्यद्वैतपदार्थमाह। यस्मादिति। अविद्यातज्जाभावेऽपि स्वगतभेदभानं किं न स्यादित्याशङ्क्याऽऽह। न हीति। हेत्वभावे फलाभावस्य प्रसिद्धत्वादिति भावः॥१८०६॥

द्विधेतं द्वीतमित्याहुस्तद्भावो द्वैतमुच्यते॥
तन्निषेधेन चाद्वैतं प्रत्यग्वस्त्वभिधीयते॥१८०७॥

ननु नञर्थे त्रैविध्यादन्यतमनिर्धारणादृते कथमद्वैतं निर्धार्येतेत्याशङ्क्याद्वैतशब्दस्यावयवशोऽर्थमाह। द्विधेति। अभावावसानत्वमद्वैतस्य व्यावर्तयति। प्रत्यगिति॥१८०७॥

द्विधा त्रिधा वा1000बहुधा कारणं1001 सद्भवेदिह॥
तस्याऽऽत्मनि निषिद्धत्वादात्माऽद्वैतो भवेत्ततः॥१८०८॥

कथं द्वैतनिषेधवत्त्वसिद्धिस्तत्राऽऽह। द्विधेत्यादिना। इह चेदात्मनि द्वैतकारणमनिषिद्धं तदा तस्मिन्बहुप्रकारद्वैतं स्यात्तस्य च कारणस्यात्यन्ताद्वैतपदेन निषिद्धत्वादात्यन्तिकद्वैत निषेधसंभवादद्वैतो भवेदात्मेति योजना॥१८०८॥

भेदसंसर्गहानार्थमेवंयत्नामपि श्रुतिम्॥
अनादृत्यान्यथा प्राहुरहो विद्या महीयसी॥१८०९॥

सलिलादिवाक्यादैकरस्यमात्मनो निर्धार्य भिन्नाभिन्नत्ववादिनां तद्वाक्यविरोधमाह। भेदेति॥१८०९॥

मिथो विभागसंसिद्धिर्धर्माणां नाऽऽत्मसंश्रयात्॥
धर्मधर्म्यभिसंबन्धो दृश्यत्वाद्रष्ट्रपेक्षया॥१८१०॥

श्रुतिमवधीयोऽऽत्मनो भिन्नाभिन्नत्ववादिनां विद्या महतीत्युपहसता तेषामज्ञत्वं प्रतिज्ञातमिदानीं तत्साधकन्यायमाह। मिथ इति। दृष्ट्यादिधर्माणामात्माश्रयत्वे ततो भेदस्य दुर्वचत्वान्मिथोऽपि तेषां भेदासिद्धिस्तन्नाऽऽत्मधर्मतेत्यर्थः। दृष्ट्यादीनामात्मनो न भिन्नत्वं नाप्यभिन्नत्वं धर्मधर्मित्वायोगात्किंतु भिन्नाभिन्नत्वं तत्सिद्धेरित्याशङ्क्याऽऽह। धर्मेति। द्रष्ट्रपेक्षया दृश्यत्वादेव रूपघटादिषु धर्मधर्मिसंबन्धो दृष्टो न चाऽऽत्मधर्माणां तद्दृश्यत्वमात्मनोऽपि तत्प्रसङ्गान्न च स्वेनैव स्वस्य दृश्यत्वं न च द्रष्ट्रन्तरमतो दृष्ट्यादीनां नाऽऽत्मधर्मतेति भावः॥१८१०॥

द्रष्टा सलिलवच्छुद्धो निःसङ्गैकाद्वयस्तथा॥
श्रुत्युक्तोऽतो विरुद्धोऽर्थो निर्ह्रीकैरिह वर्ण्यते॥१८११॥

सलिलादिवाक्यार्थमनुवदन्भेदाभेदवादिनां तद्विरोधमुपसंहरति। द्रष्टेति। अर्थशब्दो भिन्नाभिन्नत्वविषयः। इहेत्यात्मोच्यते॥१८११॥

तमोंशत्वं यथा भानोः सतश्चाप्यसदंशता॥
वियतो मूर्ततैवं स्याद्भिन्नाभिन्नत्वमात्मनः॥१८१२॥

आत्मनो भिन्नाभिन्नत्वस्य श्रुतिन्यायविरोधमुक्त्वा तदसंभवं दृष्टान्तैर्निगमयति। तम इति॥१८१२॥

अत ऊर्ध्वं विमोक्षायेत्युक्तं प्राग्यत्पुनः पुनः॥
तद्विमुक्तेः समाप्तत्वादेष इत्यभ्यधान्मुनिः॥१८१३॥

एष ब्रह्मलोक इत्यादिवाक्यस्थमेषशब्दमादत्ते। अत इति। उक्तं पृष्टमिति यावत्। आत्मा संनिहितत्वादेषशब्दवाच्यः॥१८१३॥

प्रत्यग्दृष्ट्यव्यवहितेः प्रात्यक्ष्यादात्मवस्तुनः॥
एष इत्यात्मनिर्देशो यत्साक्षादिति च श्रुतिः1002॥१८१४॥

न च तस्यानिदमाकारस्य शास्त्रैकगम्यस्यैतच्छब्दार्हतेत्याशङ्क्याऽऽह। प्रत्यगिति। तदव्यवहितत्वं तदात्मत्वं ततश्च प्रत्यक्षत्वादेषशब्दार्हत्वमात्मनोऽस्तीत्यर्थः। आत्मनः प्रत्यक्षत्वे मानमाह। यदिति॥१८१४॥

अव्यावृत्ताननुगतं निःसामान्यविशेषतः॥
ब्रह्मेति मुख्यवृत्त्येह वस्तु श्रुत्याऽभिधीयते॥१८१५॥

ब्रह्मशब्दार्थमाह। अव्यावृत्तेति। तत्र हेतुः। निःसामान्येति। अस्ति कमलासनादिविशेषवदपि ब्रह्मेति चेत्तत्राऽऽह। मुख्येति। इहेति ब्रह्मलोकशब्दनिर्देशः। अव्यावृत्ताननुगतं वस्तु ब्रह्मेति श्रुत्याऽभिधीयत इति संबन्धः॥१८१५॥

तथा लोकयतेर्धातोर्दर्शनार्थत्वहेतुतः॥
प्रकृतत्वात्तथा दृष्टेर्लोकनं लोक उच्यते॥१८१६॥

लोकशब्दस्य भोगभूमिविषयत्वं प्रकरणादिना व्यावर्तयन्विवक्षितमाह। तथेति॥१८१६॥

कर्मधारय एवातः समासोऽत्रोपपद्यते॥
न तु षष्ठीसमासोऽत्र विभागस्याप्रसिद्धितः॥१८१७॥

अवयवार्थमुक्त्वा ब्रह्मलोकशब्दस्य समासमाह। कर्मेति। ब्रह्मशब्देन तत्पदार्थस्य लोकशब्देन त्वंपदार्थस्य चोक्तरीत्याऽभिधानमतःशब्दार्थः। ननु निषादस्थपत्यधिकरणपूर्वपक्षन्यायेन समासान्तरे संभाविते कथं कर्मधारयो नियम्यते तत्राऽऽह। न त्विति। तत्र हि भेदमादाय समासान्तरं शङ्कितं न चात्र तत्त्वमर्थयोर्भेदे मानमस्ति तथाच तदीयसिद्धान्तन्यायेन कर्मधारय इत्यर्थः॥१८१७॥

श्रुतं चैकविभक्तित्वं युक्तं नाश्रुतकल्पना॥
कल्पनाहेत्वसद्भावे निराकाङ्क्षे तथा श्रुते॥१८१८॥

तत्रैव युक्त्यन्तरमाह। श्रुतं चेति। अस्यार्थः। लोकशब्दस्य तावत्प्रथमान्तत्वं श्रुतं तेन समभिव्याहृतो ब्रह्मशब्दःसमासान्तर्वर्ती लुप्तविभक्तिको विभक्तिमपेक्षते तथाच संनिहितलोकशब्दवशादस्यापि प्रथमान्तत्वं युक्तं कल्पकसद्भावाल्लाघवाच्च न त्वस्य षष्ठ्यन्तता कल्प्या तद्धेत्वभावाद्गौरवादश्रुतषष्ठीकल्पनायां प्रकरणविरोधाच्च

त्तत्र हेतोरसत्त्वेब्रह्मलोकशब्दे च श्रुते प्रथमथैव निराकाङ्क्षे सति न सा कल्प्येति षष्ठीकल्पनावच्चतुर्थ्यादिकल्पनाऽपि न युक्तेति॥१८१८॥

षष्ट्यादिकल्पनाऽसाध्वी तस्मादत्रेति भण्यते॥
सामानाधिकरण्यं च विशेषणविशेष्यता॥१८१९॥

लक्ष्यलक्षणसंबन्धो ब्रह्मलोकाभिधानयोः॥
ब्रह्मेति चाऽऽत्मयाथात्म्यं लक्ष्यते नाभिधीयते॥१८२०॥

तथा लोकगिरा ब्रह्मतत्त्वमात्मोपलक्ष्यते॥
मुख्यमैकार्थ्यमेवं स्याद्ब्रह्मलोकपदार्थयोः॥१८२१॥

समासान्तरत्यागेन कर्मधारयस्यैव स्वीकार्यत्वमुपसंहरति। षष्ठ्यादीति। अत्र ब्रह्मलोकपदे षष्ठीचतुर्थ्यादिकल्पना न साध्वीति कृत्वा कर्मधारयो भण्यत इति योजना। समासं व्यवस्थाप्य वाक्यवृत्तिं व्याचष्टे। सामानाधिकरण्यं चेति। ब्रह्मलोकपदयोः सामानाधिकरण्यं तदर्थयोर्वाच्ययोर्विशेषणविशेष्यत्वं तयोरेव लक्ष्यवाच्ययोर्लक्ष्यलक्षणसंबन्धस्तत्त्वमसीतिवदित्यर्थः। ब्रह्मशब्देनानात्मनो लोकशब्देन चाब्रह्मणो लक्ष्यत्वान्नाखण्डार्थत्वमन्यथा पदान्तरवैयर्थ्यादित्याशङ्क्याऽऽह। ब्रह्मेतीति। न च पदान्तरवैयर्थं व्यावर्त्यभेदादिति भावः। पदाभ्यां ब्रह्मात्मनोर्वाच्यत्वमेव किं न स्यादित्याशङ्क्याऽऽह।नाभिधीयत इति। शब्दप्रवृत्तिनिमित्तस्य षष्ठ्यादेरभावादित्यर्थः। उक्तनीत्या लक्ष्यलक्षणभावोपगमे फलितमाह। मुख्यमिति॥१८१९॥१८२०॥१८२१॥

न हि लोकातिरेकेण ब्रह्मत्वमुपपद्यते॥
ब्रह्मणो व्यतिरेकेण प्रत्यक्ता नान्यतस्तथा॥१८२२॥

मुख्यैक्ये युक्तिमाह। न हीति॥१८२२॥

अनयोरैक्यसंमोहात्पारोक्ष्यद्वयकल्पने॥
संसारोऽयमतो मोहसमुच्छित्तौ विमुक्तता॥१८२३॥

ब्रह्मात्मनोरैक्यमस्ति चेत्कथं संसारप्रतीतिस्तत्प्रतीतौ वा कथं ब्रह्मणो नित्यमुक्ततेति तत्राऽऽह। अनयोरिति॥१८२३॥

अतोऽशेषमहानर्थहेतोर्मोहस्य हानये॥
एष इत्यादिवाक्योक्तिः सम्यग्दर्शनजन्मने॥१८२४॥

वाक्यतात्पर्यमुपसंहरति। अत इति। मोहध्वस्तौ मुक्तिरतः शब्दार्थः॥१८९४॥

इतिशब्दो यथोक्तार्थपरामर्शमकर्मणे।
ऐतिह्यार्यस्तथा हेति सम्राडित्यभिमन्त्रणम्॥१८२५॥

सम्राडित्यादेरवयवार्थमाह। इतिशब्द इति॥१८२५॥

इत्युक्तेन प्रकारेण मुमुक्षुं जनकं मुनिः॥
अन्वशात्सकलानर्थहेत्वविद्यापनुत्तये॥१८२६॥

एनमित्यादेरितिशब्दार्थानुवादपूर्वकमर्थमाह। इत्युक्तेनेति॥१८२६॥

व्युत्थायाऽऽख्यायिकातो नः श्रुतिरेवेदमब्रवीत्॥
अन्वशात्स कथं धीमान्राजानमिति चेच्छृणु॥१८२७॥

आख्यायिकायामिदं वाक्यमसंगतमिवेति शङ्कायामेष इत्यादिवाक्यं न मुने राज्ञो या किंतु श्रुतेरित्याह। व्युत्थायेति। एषाऽस्येत्याद्याकाङ्क्षापूर्वकमवतारयति। अन्वशादिति॥१८२७॥

विज्ञानपुरुषस्यास्य या यथोक्ता पुरोक्तिभिः॥
नैष्ठिकी गतिरेषाऽस्य गत्यन्तरसमाप्तितः॥१८२८॥

एषाऽस्य परमा गतिरित्यस्यार्थमाह। विज्ञानेति। बुद्ध्युपाधिकस्य जीवस्य या गतिरतिच्छन्दादिवाक्यादुक्तैषैवास्य नैष्ठिकी गतिर्गत्यन्तराणां तत्रैव समाप्तेरिति योजना॥१८२८॥

इतोऽन्या गतयः सर्वाः क्षयिसाधनसंश्रयात्॥
क्षयिण्योऽतोहि परमा गतिरेषैव नापरा1003॥१८२९॥

परमत्वं साधयति। इत इति। साम्यमाशङ्क्य ज्ञानस्य विषयतोऽक्षयत्वात्तदधीनं फलमक्षयमिति विवक्षन्नाह। अतो हीति। यत इत्यर्थे हिशब्दः॥१८२९॥

अविद्यामात्रहेतुत्वात्कामकर्मादिसाधनाः॥
गतयोऽपरमाः सर्वा माया स्वप्नगतिर्यथा॥१८३०॥

गत्यन्तराणामपरमत्वं दृष्टान्तेनाऽऽह। अविद्येति॥१८३०॥

संपच्चपरमैषैव मोहोत्थास्त्वन्यसंपदः॥
उत्कर्षातिशयःसंपद्विभूतिश्चेति भण्यते॥१८३१॥

किंज्योतिरित्युपक्रम्य पूर्ववाक्यैर्यदस्य कैवल्यमुक्तं तदेव परमा मतिर्न कर्मफलमित्युक्तं संप्रत्येषाऽस्य परमा संपदित्यस्यार्थमाह। संपच्चेति। अवधारणे हेतुमाह। मोहेति। का पुनः संपन्नाम न हि परमगतेरर्थान्तरं तथाच पूर्वेण गतार्थता तत्राऽऽह। उत्कर्ष इति। उत्कृष्टोऽवष्टम्भस्तु परमगतिस्तन्न पौनरुक्त्यमिति चार्थः॥१८३१॥

एषोऽस्यपरमो लोको लोकास्त्वन्ये क्षयिष्णवः॥
क्षयिष्णुसाधनोत्पत्तेर्न त्वेषोऽसाधनाश्रयात्॥१८३२॥

एषोऽस्य परमो लोक इत्यस्यार्थमाह। एष इति। मोक्षस्यापि तुल्यं क्षयिष्णुसाधनसाध्यत्वेन क्षयिष्णुत्वमित्याशङ्क्याऽऽह। न त्विति॥१८३२॥

ब्रह्मैव सन्स्वतोयस्माद्ब्रह्माप्येत्यवबोधतः॥
तदविद्यानिरासेन मुक्तिर्नातोऽन्यसाधनात्॥१८३३॥

कथं मोक्षस्य साधनानपेक्षत्वं कर्मज्ञानापेक्षत्वादित्याशङ्क्याऽऽह। ब्रह्मेति। प्रति बन्धध्वस्तौ ज्ञानस्योपयोगेऽपि कर्म साक्षान्मोक्षे नोपकरोतीत्यर्थः॥१८३३॥

लोकशब्दस्य मुख्योऽर्थ आत्मैवेह यतस्ततः॥
कर्मादिहेतुसाध्येषु गौणी लोकार्थता भवेत्॥१८३४॥

मोक्षस्य ब्रह्मलोकशब्दितस्य लोकत्वात्कथं न कर्मफलत्वं स्वर्गवदित्याशङ्क्याऽऽह। लोकेति। रूढिव्युत्पत्तिभ्यामात्मैव लोकशब्दार्थश्चेत्कर्मफलेषु स्वर्गादिषु कथं तच्छब्द इत्याशङ्क्यान्यायश्चाने1004कार्थत्वमिति न्यायेनाऽऽह। कर्मादीति॥१८३४॥

न कर्मणा कनीयस्ता वृद्धिर्वा नान्तरात्मनः॥
इति बाहुमिवोद्धृत्य वेदान्तैर्घोषणा कृता॥१८३५॥

ननु लोकस्य कर्मसाध्यत्वप्रसिद्धेरात्मैव लोकश्चेत्कर्मसाध्यः सोऽपि भविष्यति नेत्याह। नेति॥१८३५॥

आनन्दः परमोऽस्यैष सुखोत्कर्षसमाप्तितः॥
सर्वानन्दातिशायित्वात्तथाचैवं प्रवक्ष्यते॥१८३६॥

एषोऽस्य परम आनन्द इत्यस्यार्थमाह। आनन्द इति। आत्मानन्दस्य परमत्वे हेतुः। सुखेति। आनन्दातिशयस्याऽऽत्मनि कथं समाप्तिस्तत्राऽऽह। सर्वेति। तदेव कथं तदाह। तथाचेति। यथाऽऽनन्दोत्कर्षस्याऽऽत्मनि समाप्तिस्तथा सर्वानन्दातिशायित्वमात्मनि स यो मनुष्याणामित्यादिप्रकारेण वक्ष्यत इति यावत्॥१८३६॥

विषयस्पर्शजानन्दाः साधनानुविधानतः॥
आद्यन्तवत्त्वस्वाभाव्याद्दुःखहेतव एव ते॥१८३७॥

विषयानन्दानामपि हिरण्यगर्भादीनां परमत्वात्कथं तेनाऽऽत्मानन्दो विशेष्यते तत्राऽऽह। विषयेति॥१८३७॥

कूटस्थात्मस्वभावत्वात्सर्वसाधननिस्पृहः॥
सर्वानन्दातिवर्तित्वादानन्दः परमो मतः॥१८३८॥

तर्हि तद्वदात्मसुखस्यापि सुखत्वाविशेषान्न परमतेत्याशङ्क्याऽऽह। कूटस्थेति॥१८३८॥

आनन्दः परमोऽस्यैष इत्युक्तार्थमसिद्धये॥
एतस्यैवेति वचसा समर्थो हेतुरुच्यते॥१८३९॥

आत्मसुखमेवोत्कृष्टं सुखमितरन्निकृष्टमित्यत्राबाधितहेतूक्त्यर्थमुत्तरं वाक्यमित्याह। आनन्द इति॥१८३९॥

एतस्यैव यथोक्तस्य सर्वानन्दातिवर्तिनः॥
उपजीवन्ति भूतानि ब्रह्मानन्दस्य विप्लुषम्1005॥१८४०॥

वाक्यं योजयति। एतस्यैवेति। यथोक्तस्येत्यस्य व्याख्यानम्। सर्वानन्देत्यादि॥१८४०॥

एष एवंविधो यस्मादानन्दः परमस्ततः॥
आनन्दानतिशेतेऽन्यान्सर्वानस्यैव कृत्स्नतः॥१८४१॥

हेत्वर्थमनूद्य साध्यार्थं निगमयति। एष इति। परमत्वं व्याकरोति। आनन्दानतीति। तत्र हेतुः। अस्येति॥१८४१॥

कृत्स्नोऽपि चैष आनन्दस्तदविद्यैकहेतुजः॥
बुद्ध्याद्युपाध्यवच्छेदान्मात्रेति व्यपदिश्यते॥१८४२॥

आत्मानन्दस्य कृत्स्नत्वे कथं मात्रेति व्यपदेशस्तत्राऽऽह। कृत्स्नोऽपीति। पूर्णस्याऽऽनन्दस्याविद्योत्थबुद्ध्यादिसंबन्धान्मात्रेतिव्यपदेशार्हतेत्यर्थः॥१८४२॥

तन्मात्रावर्त्मनैवैनं बुबोधयिषुरादरात्॥
लवणाब्धिंयथा तद्वल्लवणावयवैरिह॥१८४३॥

स यो मनुष्याणामित्यादिवाक्यतात्पर्यमाह। तन्मात्रेति। यथा लोके लवणावयवैस्तदब्धिंलोको बोधयति तथा ब्रह्मानन्दमात्राद्वारा मात्रिणं तं बोधयितुमिच्छन्ती प्रवृत्ता परा श्रुतिरित्यर्थः। आदरस्तु प्रबोधोपायत्वेन परंपरोपादानम्॥१८४३॥

उत्तरोत्तरवृद्ध्याऽत आनन्दान्मानुषादधि॥
परानन्दावबोधार्थं प्रवृत्तैषा परा श्रुतिः॥१८४४॥

नन्वत्राऽऽनन्दभेदः सातिशयो व्यपदिश्यते तत्कथमनतिशयब्रह्मानन्दबुबोधयिषयाऽनन्तरश्रुतिप्रवृत्तिस्तत्राऽऽह। उत्तरेति। मानुषानन्दादारभ्य ब्रह्मपर्यन्तमुत्तरोत्तरं शतगुणवृद्धिद्वारेण ब्रह्मानन्दमनतिशयमादर्शयितुमुत्तरा श्रुतिरित्यर्थः॥१८४४॥

मनुष्याणां स यः कश्चित्संसिद्धोऽवयवैर्दृढैः॥
समग्राशेषचार्वङ्गो राद्धो भोगक्षमः पुमान्॥१८४५॥

तात्पर्यमुक्त्वाऽक्षराणि व्याचष्टे। मनुष्याणामिति। दृढैरवयवैः संसिद्धत्वं स्फुटयति। समग्रेति। कीदृगङ्गानां सौन्दर्यं तदाह। भोगेति॥१८४५॥

कृत्स्नसाधनसंपन्नः समृद्धोऽत्राभिधीयते॥
बाह्यैराध्यात्मिकैरेवं साधनैरन्वितः पुमान्॥१८४६॥

राद्धशब्देन समृद्धशब्दस्य पुनरुक्तिं परिहरति। कृत्स्नेति। पदद्वयार्थं पिण्डी कृत्य निगमयति। बाह्यैरिति॥१८४६॥

तथाऽधिपतिरन्येषां नृणामेवेह यो भवेत्॥
स्वतन्त्रोऽधिपतिर्ज्ञेयो मनुष्यैर्न विहन्यते॥१८४७॥

अन्येषामित्यादि व्याकरोति। तथेति। एषपरमो मनुष्याणामानन्द इत्युत्तरत्र संबन्धः। किं तदाधिपत्यं तदाह। स्वतन्त्र इति। स्वातन्त्र्यमेव व्याचष्टे। मनुष्यैरिति॥१८४७॥

मानुष्यकेण भोगेन संपन्नानां नृणामिह॥
संपन्नोऽतिशयेनातः संपन्नतम उच्यते॥१८४८॥

सर्वैरित्यादेरर्थमाह। मानुष्यकेणेति॥१८४८॥

सर्वैर्मानुष्यकैर्भोगैः संपन्नो न तु दैविकैः॥
आनन्द एष परमो मनुष्याणामिहोच्यते॥१८४९॥

मानुष्यकैरितिविशेषणतात्पर्यमाह। सर्वैरिति। स मनुष्याणामित्यादेरर्थमाह। आनन्द इति। न खल्वाध्यात्मिकसाधनसंपद्बाह्यसाधनसंपदभावे भोगवैधुर्ये फलवती न चाऽऽधिपत्यमन्तरेण तयोस्ते वा विना तस्यार्थवत्त्वमतोऽनतिशयमनुष्यभोगभोगी युधिष्ठिरादिर्मनुष्याणां परम आनन्द आनन्दानन्दिभेदाभावादिति भावः॥१८४९॥

शतकृत्वो मनुष्याणामानन्दो गुणितस्तु यः॥
पितॄणामेक आनन्दस्तेन तुल्यप्रमाणतः॥१८५०॥

अथेत्यादेरर्थमाह। शतेति। प्रमाणं परिमाणम्॥१८५०॥

यत्सुखं साधनाधीनं दुःखमेव तदुच्यते॥
अनन्यसाधनं तस्मात्स्वात्मस्थं परमं सुखम्॥१८५१॥

परंपरयोच्यमानो ब्रह्मानन्दो न परमो हिरण्यगर्भाद्यानन्दस्यानुभूतसजातीयस्य परमत्वसंभवादित्याशङ्क्याऽऽह। यदिति॥१८५१॥

तस्मादात्मपरिज्ञानात्कार्यज्ञेयसमाप्तितः॥
निरस्तातिशयानन्दो भवतीत्यस्य निर्णयः॥१८५२॥

वैषयिकसुखस्य विषसंबद्ध1006दुग्धवद्दुःखात्मत्वादात्मसुखस्यैव परमत्वात्तन्निर्धारणार्थं परंपरेति फलितमाह। तस्मादिति॥१८५२॥

तारतम्यादुपायानां शुद्धिस्तरतमा धियः॥
शुद्धेस्तरतमत्वाच्च सुखं तरतमं भवेत्॥१८५३॥

ननु सर्वंसुखमात्मेष्यते तत्कथं तारतम्यवत्स्यादात्मनोऽनतिशयत्वात्तत्राऽऽह। तारतम्यादिति। व्यञ्जकबुद्धिशुद्धिवैषम्यात्तस्मिन्वैषम्यधीरित्यर्थः॥१८५३॥

यावद्यावन्मलो व्येति बुद्धेर्धर्मादिसंचयात्॥
तावत्तावद्धियः स्वास्थ्यं तावत्तावत्सुखोन्नतिः॥१८५४॥

कथं1007 तेषामुपायता1008रतम्याच्छुद्धितारतम्यं तत्राऽऽह। यावदिति। बुद्धिशुद्धितारतम्यादानन्दे तारतम्यधीरित्येतन्निगमयति। तावदिति॥१८५४॥

यावद्यावद्धनीभावो बुद्धेः पापादिसंगतेः॥
तावत्तावद्धियोऽस्वास्थ्यं दुःखोद्भूतिस्तथा तथा॥१८५५॥

उपायतारतम्याधीनशुद्धितारतम्यकृतं सुखतारतम्यमित्येतद्व्यतिरेकमुखेनाऽऽह। यावदिति॥१८५५॥

पितृलोको जितो यैः स्यात्पितृयज्ञादिकर्मभिः॥
जितलोकास्त उच्यन्ते पितरो दिव्यभोगिनः॥१८५६॥

मनुष्यानन्दादारम्य हिरण्यगर्भानन्दान्तानामानन्दानां तारतम्ये हेतुं वदता स एकः पितृणामित्यन्तं व्याख्यातम्। इदानीं जितलोकानामित्यस्यार्थमाह। पितृलोक इति॥१८५६॥

य एष1009 दक्षिणः पन्थाः पितृलोकः स उच्यते॥
मनुष्यानन्दतः सोऽयं गुणितः स्याच्छताधिकः॥१८५७॥

कोऽयं पितृलोकस्तत्राऽऽह। य इति। गतेर्गन्तव्यैक्यमौपचारिकम्। तस्य स एक आनन्द इत्यनेन संगतिमाह। मनुष्येति॥१८५७॥

उत्तरेष्वपि वाक्येषु यथोक्तमुपपादयेत्॥
शताधिकोऽयमानन्दः पूर्वस्मादुत्तरः क्रमात्॥१८५८॥

अथ ये शतमित्यादिवाक्येषूक्तन्यायमतिदिशति। उत्तरेष्विति। सर्वपर्यायेषु सिद्धमर्थं संकलयति। शताधिक इति॥१८५८॥

नक्षत्रलोकशब्देन ये पूर्वं प्रतिपादिताः॥
देवलोकगिरा तेऽत्र भण्यन्ते सूक्ष्ममूर्तयः॥१८५९॥

काण्वपाठेन सर्वपर्यायतात्पर्यमुक्त्वाऽथ ये शतं गन्धर्वलोक आनन्दाः स एको देवलोक आनन्द इति माध्यंदिनपाठे देवलोकशब्दार्थमाह। नक्षत्रेति। पूर्वमिति गार्गिब्राह्मणोक्तिः॥१८५९॥

सर्गस्य जननादादौ देवत्वं ये प्रपेदिरे॥
आजानदेवास्तेऽत्र स्युः पूर्वेभ्यः सूक्ष्ममूर्तयः॥१८६०॥

स एक आजानदेवानामित्यत्राऽऽजानदेवशब्दार्थमाह। सर्गस्येति। मनुष्यादिसर्गस्याऽऽदिनिष्पत्तिं मर्यादात्वेनोपेत्य तस्मात्प्रागेवेति यावत्। पूर्वेभ्यः कर्मदेवेभ्य इत्यर्थः॥१८६०॥

व्यापीनि तेषां सूक्ष्माणि शरीराणि महात्मनाम्॥
पूर्वानन्देभ्य एतेषामानन्दोऽतो महान्मतः॥१८६१॥

आजानदेवानामानन्दाधिक्ये हेतुमाह। व्यापीनीति। शरीरस्योक्तरूपत्वे साधनसंपत्ति हेतुमाह। महात्मनामिति। उक्तदेहानां सूक्ष्मत्वं व्यापित्वं चातःशब्दार्थः॥१८६१॥

नानाद्वंद्वोपघातार्थहेतूनां बहुलत्वतः॥
आजानदेवानन्दोऽतः पूर्वेभ्यः स्याच्छताधिकः॥१८६२॥

कर्मदेवेष्वपि तुल्यं देहानां व्यापित्वं सूक्ष्मत्वं चेति चेत्तथाऽपि तेषामाजानदेवाद्यपेक्षया1010न्यू1010नं सुखमित्यत्र हेतुमाह। नानेति। नानाविधा द्वंद्वशब्दिता ये केचिदुपघातस्य दुःखलक्षणार्थस्य हेतवस्तेषामिति यावत्। आजानदेवेष्वपि तुल्यमुपघातबाहुल्यं संसारित्वाविशेषादित्याशङ्क्याऽऽह। आजानेति। तेषां पूर्वापेक्षयोपघाताल्पत्वमतःशब्दार्थः॥१८६२॥

श्रोत्रियोऽधीतवेदः स्याज्ज्ञातवेदार्थ एव यः॥
कृत्स्नचोदितकारित्वात्सर्वपापविवर्जितः॥१८६३॥

यश्चेत्यादौ श्रोत्रियशब्दं व्याचष्टे। श्रोत्रिय इति। अर्थज्ञानान्तमध्ययनमेकशाखाविषयं यस्यास्ति स1011श्रोत्रियो विवक्षित इति यावत्। अवृजिनशब्दार्थमाह। कृत्स्नेति॥१८६३॥

आजानदेवावधिककामानुपहताशयः॥
ततः परेषु भोगेषु जाततृष्णश्च यः पुमान्॥१८६४॥

अकामहतपदार्थमाह। आजानेति। तदानन्दादर्वाचीनानन्देषु वीतरागोऽत्राकामहत इत्यर्थः। वैराग्यस्य निरङ्कुशत्वमित्याशङ्क्याऽऽह। तत इति। आजानदेवानन्दमारभ्योत्तरानन्देषु प्रवृत्ततृष्णश्च यो भवति सोऽकामहत इत्यर्थः॥१८६४॥

आजानदेवानन्देन समं तस्य च यत्सुखम्॥
अस्याकामहतत्वेन सुखोत्कृष्टिरिहोच्यते1012॥१८६५॥

चशब्दार्थमाह। आजानदेवेति। उक्तविशेषणवतो मनुष्यदेहे वर्तमानस्यैव यत्सुखं तदाजानदेवानन्देन तुल्यं भवतीति यावत्। श्रोत्रियत्वादीनां तुल्यमानन्दोत्कर्षे1013 हे1013तुत्व-

मविशेषश्रुतेरित्याशङ्क्याऽऽह। अस्येति। मनुष्यदेहस्थस्याधिकृतस्येति यावत्। इहेति निर्धारणे सप्तमी॥१८६५॥

श्रोत्रियावृजिनत्वे द्वे तुल्ये वाऽऽविरिञ्चितः1014
अकामहतताहेतोर्बुद्धौ ह्लादो विवर्धते॥१८६६॥

तत्र हेतुः। श्रोत्रियेति। ते हि मनुष्यानन्दादारभ्य शतानन्दान्तेषु तुल्ये दृष्टे तदकामहतत्वोत्कर्षादुत्कर्षः सुखस्येत्यर्थः। तस्यापि सर्वत्र तद्वदैकरूप्यात्कथं तदुत्कर्षादानन्दोत्कर्षस्तत्राऽऽह। अकामेति॥१८६६॥

पूर्वपूर्वोपभोगेभ्यो यावद्यावन्निवर्तते॥
कामो विवर्धते पुंसस्तावत्तावत्सुखं हृदि॥१८६७॥

तत्रानुभवं प्रमाणयति। पूर्वेति॥१८६७॥

कामैकक्षयतन्त्रैव यस्मात्पुंसः सुखोन्नतिः॥
अकामहततैबातः पूर्वाभ्यां साधनं परम्॥१८६८॥

अकामहतत्वस्येतराभ्यामुत्कृष्टत्वं फलितमाचष्टे। कामेति॥१८६८॥

साधनत्वं समानं स्यात्त्रयाणामिह यद्यपि॥
कामक्षयप्रकर्षोऽत्र ह्युत्कृष्टाह्लादसाधनम्॥१८६९॥

कथं साधारणश्रुतेरेष विभागस्तत्राऽऽह। साधनत्वमिति। इहेत्यानन्दाप्तिरुक्ता। अत्रेत्यधिकृतपुरुषोक्तिः। अबाधितस्वानुभवप्राप्तो विभागो न साधारणश्रुत्या शक्यो भेत्तुमित्यर्थः। उक्तेऽर्थे स्वानुभवमनुकूलयितुं हिशब्दः॥१८६९॥

समुच्चयविवक्षाऽत्र न मनागपि युज्यते॥
कर्तृत्वादिसमुच्छेदिज्ञानस्येहाऽऽश्रितत्वतः॥१८७०॥

अथाकामहतशब्देन ब्रह्मज्ञानं विवक्ष्यते श्रोत्रियावृजिनशब्दाभ्यां कर्म तथाच विशेषणत्रयवतोऽनतिशयानन्दाप्तिं बदन्ती श्रुतिर्ज्ञानकर्मसमुच्चयं विवक्षति नेत्याह। समुच्चयेति। अत्रेति वाक्यं ज्ञानकर्मणी मुक्तिर्वोक्ता। अयुक्तत्वे हेतुः। कर्तृत्वादीति। इह खल्वन्तिमे पर्याये यथोक्तज्ञानस्याकामहतशब्देनेष्टत्वान्न मोक्षे समुच्चयो विवक्षित इत्यर्थः॥१८७०॥

समुच्चयनिवृत्त्यर्थं न्यायश्चापि पुरोदितः॥
नातः समुच्चयाशेह कर्तव्या सूक्ष्मदर्शिभिः॥१८७१॥

केन पुनर्न्यायेन समुच्चयो निरस्यते तत्राऽऽह। समुच्चयेति। पुरा संबन्धग्रन्थादावित्यर्थः। फलितमाह। नेति। मानयुक्तिविरोधोऽतः शब्दार्थः। इहेति मुक्तेरुक्तिः॥१८७१॥

साधनत्वं यतस्तुल्यं श्रोत्रियावृजिनत्वयोः॥
अवरे1015ष्वपि भोगेषु न चोत्तमसुखं ततः॥१८७२॥

किंचाकामहतशब्दितज्ञानस्य परमसुखोपायत्वादितरयोस्तदभावान्न समुच्चय इत्याह। साधनत्वमिति॥१८७२॥

अकामहततैवात्र तारतम्यात्मकत्वतः॥
भेदादुत्तमसौख्यस्य साधनं चोत्तमा1016 भवेत्॥१८७३॥

अर्वाचीनसुखसाधनत्वाविशेषादकामहतत्वस्यापि श्रोत्रियत्वादिवन्न मुक्तिहेतुतेत्याशङ्क्याऽऽह। अकामेति। प्रकृतसाधनेष्वकामहतत्वस्योत्कर्षापकर्षसंभवादपकृष्टं तस्कादाचित्कार्वाचीनसुखहेतुरुत्कृष्टं ज्ञानाव्यतिरिक्तमोक्षोपायस्तन्न समुच्चयान्मुक्तिरित्यर्थः॥१८७३॥

युवा साधुयुवेत्येवं तैत्तिरीयश्रुतीरणात्॥
अधरेष्वपि वाक्येषु श्रोत्रियादि विवक्षितम्॥१८७४॥

नाऽऽजानदेवेभ्योऽर्वाक्तनभोगहेतुत्वं श्रोत्रियत्वादेरकामहतत्ववदस्ति श्रवणाश्रवणयोः साम्यादित्याशङ्क्य तस्य तद्धेतुत्वं विवक्षितमित्येतन्मानतो दर्शयति। युवेति। साधुयुवेत्यवृजिनत्वमध्यायक इति श्रोत्रियत्वमित्युभयं पूर्वभूमिष्वपि युवा स्यात्साधुयुवाऽध्यायक इत्यत्रोक्तमतो येषु पर्यायेषु तन्न श्रुतं तत्रापि द्रष्टव्यमित्यर्थः॥१८७४॥

विराट्प्रजापतिर्ज्ञेयस्त्रैलोक्यात्मकदेहभृत्॥
हिरण्यगर्भो ब्रह्माऽत्र तथा ब्रह्मगिरोच्यते॥१८७५॥

स एकः प्रजापतिलोक आनन्दः स एको ब्रह्मलोक आनन्द इत्यनयोरैकात्म्यमित्याशङ्क्याऽऽह। विराडिति॥१८७५॥

अतः परमनन्तत्वाद्गणितं1017 विनिवर्तते॥
यत एवमतः प्राहाथैष एवेति नः श्रुतिः॥१८७६॥

अथैष इत्यादिवाक्यमादत्ते। अतः परमिति। आत्मसुखे गणनायोगात्तदेवानतिशयमित्यर्थः॥१८७६॥

अनेनातिशयवता ह्यस्मद्गोचरवर्तिना॥
अपास्तातिशयानन्दं सुखेनेहानुमीयते॥१८७७॥

कथमिदं प्रमीयते तत्राज्ञान्प्रति प्रमाणमाह। अनेनेति। अनेन सुखेनेति संबन्धः। सातिशयस्य निरतिशयेन व्याप्तिं वक्तुं हिशब्दः। आत्मतत्त्वमिति शेषः। इहेत्यनुमानभूमिरुक्ता॥१८७७॥

ध्वस्तातिशयनिष्ठत्वाल्लोके सातिशयात्मनः॥
यतोऽतोऽतिशयवता गम्यतेऽनतिशयं सुखम्॥१८७८॥

कथमनुमानं तत्र व्याप्तिमाह। ध्वस्तेति। व्याप्तिसिद्धिरिति शेषः। तामनूद्यानुमानमाह। यत इति। सुखोत्कर्षतारतम्यं क्वचिद्विश्रान्तं तरतमभावत्वात्परिमाणतारतम्यवदिति भावः॥१८७८॥

यत्रैतानि समस्तानि निष्ठां यान्ति परात्मनि॥
परमोऽसाविहाऽऽनन्दः सर्वानन्दातिलङ्घनात्॥१८७९॥

हिरण्यगर्भानन्दे तत्तारतम्यविश्रान्तेरर्थान्तरत्वमाशङ्क्याऽऽह। यत्रेति। एतानीति लौकिकसुखोक्तिः। इहेति प्रकृतानन्दभेदा गृह्यन्ते॥१८७९॥

एषोऽस्येति प्रतिज्ञात आनन्दः सोऽनुमानतः॥
निष्ठां प्रतीचि गमित उत्तरोत्तरवृद्धितः॥१८८०॥

अथानुमानात्परानन्दे परमात्मनि सिध्यत्यपि प्रत्यगात्मा कथं परानन्दी भवितुमुत्सहते।एषोऽस्येति॥१८८०॥

अविज्ञातपरानन्दान्प्रत्येषाऽनु1018मितिर्मता॥
साक्षाज्ज्ञाता1019त्मतत्त्वानां प्रत्यक्षतममेव तत्॥१८८१॥

अज्ञान्प्रत्यनुमानमुक्त्वाऽऽत्मज्ञान्प्रत्याह। अविज्ञातेतिउक्तं हि स एष परमानन्दो वितृष्णश्रोत्रियप्रत्यक्षोऽधिगत इति॥१८८१॥

अकामहतधीगम्य आनन्दः प्रत्यगात्मनि॥
यः स एव यथोक्तेभ्यः परमः स्यादनन्ततः॥१८८२॥

आत्मानन्दस्य परमत्वं साधयति। अकामेति॥१८८२॥

तथाच भगवान्व्यासः सर्ववेदार्थतत्त्ववित्॥
स्वयं प्राहेममेवार्थं कामानर्थजिहासया॥१८८३॥

तस्य परमत्वे प्रमाणमवतारयति। तथाचेति। अकामहतत्वकृतमुत्तमं सुखमिति वदतोऽभिप्रायमाह। कामेति॥१८८३॥

यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम्॥
तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम्॥१८८४॥

तदेवोदाहरति। यच्चेति॥१८८४॥

यतो यतो निवर्तते10201020तस्ततो विमुच्यते॥
निवर्तनाद्धि सर्वतो न वेत्ति दुःखमण्वपि॥१८८५॥

तदीयमेव वाक्यान्तरं पठति। यत इति॥१८८५॥

सलिलादिगिरा योऽर्थः प्रत्यज्ञायि पुराऽखिलः॥
ब्रह्मलोकान्तवाक्येन तस्य स्यादुपसंहृतिः॥१८८६॥

एष इत्यादिवाक्यस्य तात्पर्यमाह। सलिलादीति। ब्रह्मलोकान्तवाक्येन ब्रह्मलेकपदमन्ते मध्ये यस्यास्ति तेनेति यावत्। सलिल एको द्रष्टेत्युपक्रम्य मात्रामुपजीवन्तीत्यन्तेन कार्यकारणनिर्मुक्तोऽनतिशयानन्दो यः प्रत्यगात्मा परिपूर्णः प्रतिज्ञातः। पुनः स यो मनुष्याणामित्यारभ्याथैष एवेत्यन्तेन प्रतिपादितस्तस्येदानीमेष इत्यादिवाक्ये नोपसंहारः कृत इत्यर्थः॥१८८६॥

प्रश्नार्थेऽस्मिन्समाप्तेऽपि पूर्ववत्तं मुनिं नृपः॥
अन्वयुङ्क्तात ऊर्ध्वं त्वं मुक्तये ब्रूहि यत्परम्॥१८८७॥

सोऽहमित्यादेरर्थमाह। प्रश्नेति। राज्ञो जनकस्य मुक्तिफलसम्यग्ज्ञानाय प्रश्न प्रवृत्तस्तस्यार्थे सम्यग्ज्ञाने यथोक्तरीत्या निर्धारितेऽपि तन्निर्धारणात्प्रागिव राजा मुनिं यन्मुक्तये परं साधनं तदस्मादूर्ध्वं मह्यं ब्रूहीति विद्यानिष्कयार्पणपूर्वकं पप्रच्छेत्यर्थ॥१८८७॥

याज्ञवल्क्योऽपि राज्ञैवं पृष्टः सन्पूर्ववत्तदा॥
अविभेद1021न्यतो हेतोर्न त्वसामर्थ्यकारणात्॥१८८८॥

अत्र हेत्यादेरर्थमाह। याज्ञवल्क्योऽपीति। वक्तृत्वासामर्थ्यादुत्तराज्ञानाद्वा मुनेर्भयमित्येतन्निरस्यति। अन्यत इति॥१८८८॥

सर्वज्ञत्वान्मुनेर्नाभूत्प्रश्नार्थाज्ञानतो भयम्॥
कारणं त्वन्यदेवातो यतः श्रुतिरभाषत॥१८८९॥

असामर्थ्यमज्ञानं वा न तस्य भयहेतुरित्यत्र हेतुमाह। सर्वज्ञत्वादिति। ब्रह्मीभूतश्च याज्ञवल्क्यः सर्वज्ञः सर्वशक्तिश्च न तस्य प्रश्नोत्तरीभूतार्थाज्ञानात्तदुक्त्यसामर्थ्याद्वा भयं संभवतीत्यर्थः। किं तर्हि तस्य तत्कारणमित्यपेक्षायामन्यतो हेतोरित्युक्तं व्यक्ती कर्तुं मेधावीत्याद्युत्थापयति। कारणं त्विति॥१८८९॥

अविवक्षुमयं राजा कामप्रश्नबलाश्रयात्॥
किंज्योतिरित्येवमादिमप्राक्षीन्मां पुनः पुनः॥१८९०॥

तद्व्याकर्तुं भूमिकां करोति। अविवक्षुमिति॥१८९०॥

अप्रत्याख्येयो ह्यर्थश्च सत्यस्यावश्यरक्षणात्॥
स्वयंज्योतिष्ट्वनिर्णीतिः कृताऽतोऽनवशेषतः॥१८९१॥

ननु दुराग्रहग्रस्तो राजा पृच्छतु त्वया तु प्रत्युत्तरं न देयं न हि पथि कृतं गौनव्रतमकस्मादेव हातव्यं तत्राऽऽह। अप्रत्याख्येयो हीति। हिशब्दार्थमेव विशदयति।

सत्यस्येति। तर्हि पृष्टं बुभुत्सितं निःशेषं विशदी क्रियतामत आह। स्वयमिति। प्रागुक्तहेतुपरामर्शार्थोऽतःशब्दः॥१८९१॥

निर्णीतेऽप्यथ मां राजा पुनः पुनरपृच्छत॥
अत ऊर्ध्वमिति गिरा निरुणद्ध्येव मां नृपः॥१८९२॥

तर्हि कृतनिर्णयस्य ते कुतो भयमुपस्थितं तत्राऽऽह। निर्णीतेऽपीति। अथशब्दोऽतःशब्दपर्यायो निरुणद्धीत्यस्मात्पूर्वं संबध्यते॥१८९२॥

कामप्रश्नाङ्कुशेनैव मां वशीकृत्य मद्गतम्॥
समादित्सति निःशेषं ज्ञानं राजाऽतिपण्डितः॥१८९३॥

ननु राजा गुरुं निरुन्धन्नविवेकी न विद्यापात्रं नेत्याह। कामेति॥१८९३॥

इत्येष भयहेतुः स्याद्याज्ञवल्क्यस्य नान्यतः॥
भयहेतोरविद्यायाः सर्वज्ञत्वादसंभवात्॥१८९४॥

सर्वस्वापहारप्रसङ्गो भयहेतुरित्युपसंहरति। इत्येष इति। नान्यतो भयहेतुरित्यत्र हेतुमाह। भयेति॥१८९४॥

असकृन्निर्णयोऽकारि पृष्टे वस्तुन्यशेषतः॥
अरौत्सीन्मां तथाऽप्येष सर्वस्वादित्सया नृपः॥१८९५॥

विद्यायोग्यो हि राजा मुनिगतं ज्ञानमादित्सते तथा च तस्मै तद्दातुं किमिति गुरुर्विभेति न हि परस्मै दत्तं तदात्मनि ह्रसतीत्याशङ्क्याऽऽह। असकृदिति॥१८९५॥

मेधावी पण्डितोऽतोऽयं ब्रह्मस्वादानकारणात्॥
न विभेति यतस्तस्माद्भेतव्यं जनकाद्भृशम्॥१८९६॥

तस्य श्रुत्युक्तं मेधावित्वं साधयति। मेधावीति। अतःशब्दार्थमेव स्फुटयति। ब्रह्मेति। ब्रह्मणो ब्राह्मणस्य स्वं ज्ञानं तस्याऽऽदानादित्यर्थः। मोक्षफलकं ज्ञानं पालयितुमिच्छता जनकाद्भयं कर्तव्यमिति फलितमाह। तस्मादिति। योग्येऽपि पात्रे मुक्तिफलं ज्ञानं सहसा नोपदेष्टव्यमिति वाक्यार्थः॥१८९६॥

ननु प्रश्ना यथोक्ताश्चेन्निर्णीतार्थाः पुरोक्तिभिः॥
अनिर्णीतं किमुद्दिश्य नृपोऽमाक्षीन्मुनिं पुनः॥१८९७॥

स वा एष इत्याद्याक्षिपति। नन्विति। यथोक्ताः प्रश्नाः किंज्योतिरयमित्यादय आदित्यज्योतिरित्याद्यास्तु पुरोक्तयोऽत ऊर्ध्वमितिप्रश्नायोगे प्रत्युक्तिरपि न युक्तेति भावः॥१८९७॥

स्वप्नबुद्धान्तसंचार आत्मनो यः पुरोदितः॥
दृष्टान्तत्वेन राज्ञाऽसौ सर्वोऽपीह विवक्षितः॥१८९८॥

अनिर्णीतं दर्शयन्प्रश्नप्रत्युक्ती समर्थयते। स्वप्नेति। इहेति लोकद्वयसंचाराख्यसंसारोक्तिः॥१८९८॥

तस्य दार्ष्टान्तिको योऽर्थो यावत्साक्षान्न कथ्यते॥
मुमुक्षति न तावत्तं राजा प्रश्नार्थशेषतः॥१८९९॥

तथाऽपि कथं प्रश्नावकाशस्तत्राऽऽह। तस्येति। स यावदिति वक्तव्यं योऽत्र इत्युपक्रमात्तमित्याचार्यस्तच्छब्दार्थः। प्रश्नार्थस्य बन्धरूपस्य दार्ष्टान्तिकस्य वक्तव्यस्य शिष्टत्वादिति यावत्। अवस्थाद्वयसंचारो लोकद्वयसंचाराख्यसं1022सारस्य दृष्टान्ततयोत्त्कोऽथ तस्यैव दार्ष्टान्तिकस्योक्त्यर्थमुत्तरो ग्रन्थ इत्यर्थः॥१८९९॥

दृष्टान्तस्य सुषुप्तेश्च नार्थं दार्ष्टान्तिकं जगौ॥
ब्रह्मास्मीत्यागमाद्बोधः सुषुप्तोदाहृतेर्मतः॥
दार्ष्टान्तिकोऽर्थः प्राज्ञस्य दृष्टान्तस्यावशेषतः॥१९००॥

संसारप्रकरणस्यार्थवत्त्वमुक्त्वाऽथाकामयमान इत्यादेरर्थवत्त्वमाह। दृष्टान्तस्येतिअतोऽपि प्रश्नस्य सावकाशत्वमिति शेषः। कोऽसौ दार्ष्टान्तिकोऽर्थस्तमाह। ब्रह्मेति। यतः स्वापदृष्टान्तस्य दार्ष्टान्तिकोऽर्थो वक्तव्यत्वेनावशेषितोऽतस्तादर्थ्येन मोक्षप्रकरणमागमिष्यतीत्याह। प्राज्ञस्येति॥१९००॥

उक्ते दार्ष्टान्तिकेऽर्थेऽस्मिन्प्रश्नार्थस्य समाप्तितः॥
सर्वमुक्तं भवेद्यस्मादतः सोऽर्थोऽधुनोच्यते॥१९०१॥

दार्ष्टान्तिकद्वये निर्दिष्टेऽपि वक्तव्यान्तरशेषादाकाङ्क्षानिवृत्तेः प्रश्नतादवस्थ्यमित्याशङ्क्याऽऽह। उक्त इति॥१९०१॥

असङ्गो मत्स्यवत्प्रत्यङ्कामकर्मादिभिः क्रमात्॥
समेति स्वप्नबुद्धान्तौ यथाऽयं स्ववशस्तथा॥१९०२॥

सहेतुरस्य संसारः परलोकेहलोकयोः॥
सविस्तरः स वक्तव्य इत्यर्थेयं परा श्रुतिः॥१९०३॥

प्रकरणद्वयमवतार्याऽऽदौ संसारप्रकरणमुत्थापयति। असङ्ग इति। यथा महामत्स्यो नद्या द्वे कूले क्रमात्क्रमते तथाऽयं कामादिभिर्वस्तुतोऽस्पृष्टोऽपि जाग्रत्स्वप्नौ स्वतन्त्रः सन्ननुसंचरति तथाऽस्य लोकद्वये संचाराख्यो बन्धो हेतुसहितो विस्तर1023सहितश्चवाच्यो वैराग्यार्थमिति संसारप्रकरणं प्रवृत्तमि1024त्यर्थः॥१९०२॥ १९०३॥

बन्धो बन्धनहेतुश्च मोक्षस्तद्धेतुरेव च॥
सविस्तरः प्रवक्तव्यस्तदुक्त्यर्था परा श्रुतिः॥१९०४॥

प्रकरणद्वयार्थं प्रतिपत्तिसौकर्यार्थं संक्षिपति। बन्ध इति॥१९०४॥

जाग्रत्स्थानात्ततः पूर्वं स्वप्नमात्मा प्रवेशितः॥
जाग्रद्भूमिं स नेतव्यो दार्ष्टान्तिकविवक्षया॥१९०५॥

इतरसंदर्भमवतार्य स वा एष इत्यादेस्तात्पर्यमाह। जाग्रदिति। बुद्धान्ते रत्वेत्यादिवाक्याज्जागरितादात्मा स्वप्नान्तायैवेति स्वप्नं प्रवेशितः स चेदानीं ततो जाग्रदवस्थां संसारप्रकारप्रदर्शनार्थं प्रापयितव्यो न हि स्वप्नावस्थायामेव दार्ष्टान्तिको बन्धः स्पष्टयितुं शक्यतेऽतः स्वप्नज्जाग्रदापत्तिकथनार्थमनन्तरवाक्यमित्यर्थः॥१९०५॥

आनन्दनिर्णयान्तं तु संप्रसादवचो यदा॥
तदा निगमनार्थं1025 तत्प्रतिज्ञातार्थगोचरम्॥१९०६॥

तस्यैवोक्तार्थाविरोधेनार्थान्तरमाह। आनन्देति। यदा स्वप्नान्तायेत्यत्र स्वप्नान्तं सुषुप्तं तथा महामत्स्यवाक्यमारभ्याथैष एव परम आनन्द इत्येतदन्तं वाक्यं तद्विषयं ततश्च प्रतिज्ञातार्थमधिकृत्य निगमनार्थमनन्तरवाक्यं तदाऽपि स्वापाज्जागरापत्तिरात्मनोऽत्र विवक्षिताऽन्यथा संसारप्रकारप्रदर्शनायोगादित्यर्थः॥१९०६॥

अलुप्तदृष्टिरात्माऽयं यथोक्तं1026 स्व1026प्नवोधयोः॥
प्राज्ञेऽपि च तथैवायं यद्वै तदितिवाक्यतः॥१९०७॥

कोऽसौ प्रतिज्ञातोऽर्थस्तमाह। अलुप्तेति। यथा स्थानद्वये प्रत्यगात्माऽपि नष्टदृष्टिस्तथा स्वापेऽपीत्येतद्दृष्टिपरीक्षायामुक्तमित्यर्थः॥१९०७॥

अतिकारकहेतुश्च यथाऽऽत्माऽयं सुषुप्तगः॥
कूटस्थदृष्टिमात्रत्वात्तथा स्वप्नप्रबोधयोः॥१९०८॥

प्रतिज्ञातमर्थान्तरमाह। अतिकारकेति। यथाऽऽत्मा स्वापे मात्रादिद्वैतरहितस्तथा स्थानद्वयेऽपि कूटस्थदृष्टित्वाविशेषादिति च तत्रैवोक्तमित्यर्थः॥१९०८॥

इत्येवं पूर्वसिद्धेऽर्थे1027 निग1027मार्थं पुनर्वचः॥
स वा इत्यादिकं ज्ञेयं न तु नाशादिशङ्कया॥१९०९॥

प्रतिज्ञातं स्मारयित्वा तन्निगमनार्थत्वमुत्तरस्योपन्यस्यति। इत्येवमिति। आत्मनो नित्यदृष्टित्वं मात्रादिद्वैतराहित्यं चेत्युभयमत्र स्वप्नान्तपदेन निगम्यते स्वप्नशब्देन हि विशेषदर्शनमुच्यते तस्यान्तः सुप्तमित्युक्ते मात्रादिहीनं तत्त्वं सिध्यति तद्धानिश्च तत्काले कूटस्थबोधाधीना साधकान्तराभावादतः स्वप्नान्तपदेनोभयं निगमयद्वाक्यं स्वप्नादात्मनो जागरापत्तिं दर्शयतीत्यर्थः। ननु सुप्तो मृतवन्नष्टो देशान्तरं गतो वेति शङ्क्यते तस्य व्यादितास्यत्वादिना मृतेन तुल्यत्वात्तथाच तन्निराचिकीर्षयाऽनन्तरवाक्यमिति नेत्याह। न त्विति। न खल्वात्मनो नाशं देशान्तरगमनं वा शङ्कित्वा वाक्यमित्येत-

त्प्रवृत्तं नित्यसिद्धे निष्क्रिये प्रतीचि तदाशङ्कानवकाशान्न च सुप्तो मृतेन तुल्यः प्रसन्न बदनतादिवैसादृश्यादित्यर्थः॥१९०९॥

इत आरभ्य संसार आत्मनो वर्ण्यतेऽधुना॥
स्वप्नाद्बोधाप्तिवच्चास्माल्लोकाल्लोकान्तरं गतः॥१९१०॥

इत्यर्थप्रतिपत्त्यर्थं दृष्टान्तोऽत्राभिधीयते॥
सुखावबोधसिद्ध्यर्थं श्रोतुरर्थे विवक्षिते॥१९११॥

स वा एष इत्यादेर्बुद्धान्तायेत्यन्तस्य तात्पर्यमुक्त्वा ब्राह्मणशेषस्य तात्पर्यमाह। इत इति। तद्यथाऽन इत्यादिदृष्टान्तवाक्यमादत्ते। स्वप्नादिति। अत्रेत्यनन्तरवाक्योक्तिः। अज्ञस्याऽऽत्मनो देहाद्देहान्तरापत्तिरेवोच्यतां किं तत्र दृष्टान्तेनेत्याशङ्क्याऽऽह। सुखेति। अस्मिन्प्रकरणे विवक्षितसंसारप्रकारे श्रोतुः सुखप्रतिपत्त्यर्थं स्वप्नाज्जाग्रत्प्राप्तिवद्देहाद्देहान्तरप्राप्तौ दृष्टान्तोक्तिरित्यर्थः॥१९१०॥ १९११॥

नानार्थसाधनैर्मार्गे10281029थाऽनः सुसमाहितम्॥
शब्दान्नानाविधान्कुर्वद्गुरुभारप्रपीडनात्॥१९१२॥

तदक्षराणि व्याचष्टे। नानार्थेति। अनेकफलोपायैरुलूखलमुसलपिठरादिभिरिति यावत्। नानाविधशब्दकरणे कारणमाह। गुरुभारेति॥१९१२॥

व्रजेच्छाकटिकेनेह देशान्तरमधिष्ठितम्॥
अनसस्तद्गताच्चार्थाद्विलक्षणवपुर्भृता॥१९१३॥

स्वार्थेनाधिष्ठितं गच्छेत्पथि शाकटिकेन तत्॥
दृष्टान्तार्थेन संबन्ध एवमेवेति भण्यते॥१९१४॥

यायादित्यस्यापेक्षितं पूरयन्नर्थमाह। व्रजेदिति। इहेति व्यवहारभूमिग्रहः। ननु शकटमध्यपतितः शाकटिकस्तदधिष्ठितस्य1030 कु1030तो गतिरित्याशङ्क्योक्तं प्रपञ्चयति। अनस इति। एवमेवेत्यस्यार्थमाह। दृष्टान्तेति। दार्ष्टान्तिकस्येति शेषः॥१९१३॥ १९१४॥

भुक्तदेहादिदं लिङ्गमुत्क्रान्तं भोगसंक्षयात्॥
याति देहान्तरं तद्वत्कर्मविद्यादिसंभृतम्॥१९१५॥

अयं शारीर आत्मा यातीत्यस्यार्थमाह। भुक्तेति। उत्क्रातौ हेतुमाह। भोगेति। प्रतिनियतदेहान्तरप्राप्तिनिमित्तं सूचयति। कर्मेति। तद्वत्प्रकृतशकटवदित्यर्थः॥१९१५॥

वियुक्तं देवताभिः सत्कर्मसंभारसंभृतम्॥
अनोवल्लिङ्गमेत्येतत्प्रत्यगात्मार्थसिद्धये॥१९१६॥

किमिति लिङ्गं भुक्तदेहान्निष्क्रान्तं देहान्तरं गच्छत्यादित्याद्यनुगृहीतमत्रैव कुतो न

तिष्ठति न च तस्य गतौ कारणं वा फलं वाऽस्ति तत्राऽऽह। वियुक्तमिति। कर्मविद्यादिसंभृतमित्येतदेव स्फुट्यते। कर्मेत्यादिना॥१९१६॥

शारीरवचसा चात्र लिङ्गमेवाभिधीयते॥
शरीरदेशसंस्थत्वान्न तु प्रत्यङ्ङसंहतेः॥१९१७॥

आत्मेति विशेषणादत्र शारीरशब्देन लिङ्गग्रहणमयुक्तमित्याशङ्क्याऽऽह। शारीरेति। आत्मैकादश1031 इत्यादावात्मशब्दस्य लिङ्गेऽपि प्रयोगात्तदेवात्र गतियोभ्यं विवक्षितमित्यर्थः॥१९१७॥

प्राज्ञेनाधिष्ठितं गच्छेद्रथिना स्वार्थरूपिणा॥
प्रत्यग्धियः समारोहमन्वात्माऽऽरूढवद्यतः॥१९१८॥

प्राज्ञेनेहाऽऽत्मना तस्मादन्वारूढोऽभिधीयते॥
भानुनेवोदपात्रादेरारोहो नाऽऽत्मनः स्वतः॥१९१९॥

प्राज्ञेनेत्यत्र विवक्षितमाह। प्राज्ञेनेति। अन्वारूढशब्दार्थमाह। प्रत्यगिति। प्रत्यग्धीश्चैतन्याभासस्तस्याऽऽरोहोऽन्तःकरणे व्याप्तिस्तदनन्तरमात्माऽपि तत्र व्याप्तवद्यतोऽवतिष्ठते तस्मात्प्राज्ञेनाऽऽत्मना परेण साभासबुद्ध्यात्मको लिङ्गात्मो1032वाऽन्वा1032रूढोऽस्मिन्वाक्ये कथ्यत इत्यर्थः। किमित्याभासद्वाराऽऽत्मनो बुद्धिव्याप्तिः स्वत एव किं स्यादित्याशङ्कयाऽऽह। भानुनेति। उदपात्रादेरुपाधिविशेषस्य भानुना स्वप्रतिविम्बद्वारा व्याप्तिर्यथोच्यते तथा प्राज्ञस्याऽऽत्मनश्चिदाभासद्वारैव बुद्धौ व्याप्तिर्न स्वतोऽसङ्गत्वादित्यर्थः॥१९१८॥१९१९॥

प्राक्वोक्तमात्मनैवायं ज्योतिषेत्यादिकं वचः॥
आत्मानं रथिनं विद्धीत्यपि श्रुत्यन्तरे वचः॥१९२०॥

किमिति लिङ्गस्य प्राज्ञेनाधिष्ठितत्वं स्वयमेव गत्यादिव्यापारवत्स्यादित्याशङ्क्य बुद्ध्यादिव्यापारस्याऽऽत्माधीनत्वमुक्तं स्मारयति। प्राक्वेति। कार्यकार1033णसंघातस्याऽऽत्मचैतन्याधिष्ठितस्य व्यापारवत्त्वे काठकश्रुतिरपि मानमित्याह। आत्मानमिति॥१९२०॥

मर्मकृन्तनसंभूतवेदनार्दितमानसम्॥
हिक्किकालक्षणं शब्दं मृतिकाल उपस्थिते॥१९२१॥

उत्सर्जद्याति लिङ्गं तदिति प्रत्यक्षगोचरः॥
तदिदं भण्यते श्रुत्या पुंसां1034 वैराग्यजन्मने॥१९२२॥

उत्सर्जन्याती1035त्यस्यार्थं प्रकटयति। मर्मेति। तल्लिङ्गमिति साभासप्राणोक्तिः। किमिति प्रत्यक्षमर्थं श्रुतिरनुवदति तदाह। तदिदमिति॥१९२१॥१९२२॥

मर्मसूत्कृत्यमानेषु मुच्यमानेषु संधिषु॥
मुमूर्षतोऽत्र यद्दुःखं स्मर्यतां तन्मुमुक्षुभिः॥१९२३॥

संसारस्वरूपे प्रत्यक्षे वैराग्यं न चेदुत्पद्यते कथं तस्मिन्ननुवादमात्रेण तत्सिद्धिरित्याशङ्क्यानुवादश्रुतेरभिप्रायमाह। मर्मस्विति। अत्र स्वस्थावस्थायां1036 तत्तद्दुः1037खश्रुतौ तत्प्रत्यनीकसम्यग्धीसिद्धये तदुपायेषु यत्नः संभवतीति भावः॥१९२३॥

कस्मिन्काल इदं जन्तोः किंनिमित्तं च जायते॥
इत्यस्य प्रतिपत्त्यर्थं परो ग्रन्थोऽवतार्यते॥१९२४॥

यत्रेत्याद्याकाङ्क्षापूर्वकमादत्ते। कस्मिन्निति। इदमा दुःखं परामृश्यते॥१९२४॥

उदानवायौ प्रबले यत्रैतत्स्यान्मुमूर्षतः॥
ऊर्ध्वोच्छ्वासी पुमांस्तत्र यथोक्तं जायते मृतौ॥१९२५॥

प्रथमप्रश्नस्योत्तरम्। उदानेति। मुमूर्षोर्जन्तोर्यत्र मृतावुपस्थितायामुदानाख्ये वायौ प्रबले सति पु1038मानूर्ध्वोच्छ्वासी व्यपदिश्यते यत्र चैतदूर्ध्वोच्छ्वासित्वं तत्र यथोक्तं हाहेत्यादिशब्दपूर्वकं परवशस्य लिङ्गस्य गमनं भवत्यतस्तस्या मृतेः प्रागेव यत्नवता भवितव्यमित्यर्थः॥१९२५॥

पिण्डोऽणुत्वं यदाऽभ्येति जरयाऽभ्यर्दितस्तदा।
उपतापान्वितो वा सन्यथोक्तं प्रतिपद्यते॥१९२६॥

द्वितीयप्रश्नस्योत्तरं स यत्रायमित्यादि तद्व्याकरोति। पिण्ड इति। यथोक्तमूर्ध्वोच्छ्वासित्वमित्येतत्।१९२६॥

अणिमानमणोर्भावं कार्श्यंदेहो यदैत्ययम्॥
जरया रोगहेतोर्वा ऊर्ध्वोच्छ्वासी तदा भवेत्॥१९२७॥

उक्तमनूद्य चतुर्थपादार्थं स्फुटयति। अणिमानमिति॥१९२७॥

जरया रोगतो वाऽस्य जायते विषमाग्निता॥
सम्यक्पक्तिस्ततोऽन्नस्य मन्दाग्नेर्नोपजायते॥१९२८॥

रसादिधातुभिर्देहस्ततोऽनुपचयादयम्॥
अबलः सन्पतत्येष जीर्णमन्दिरवत्क्षितौ॥१९२९॥

जराज्वरादिना देहस्य कथं कार्श्यमित्याशङ्क्याऽऽह। जरयेति। रसादिधातुभिः पक्वरसपूर्णत्वगादिभिरिति यावत्॥१९२८॥१९२९॥

**अथैवं कृशतापन्नेदेहेऽन्तरुपजायते॥
या वृत्तिः सोच्यते साक्षादृष्टान्तोक्त्या प्रयत्नतः॥१९३०॥ **

तद्यथेत्यादिवाक्यतात्पर्यमाह। अथेति। ऊर्ध्वोच्छ्वासादिदुःखस्य कालनिमित्तयोरवगत्यनन्तरमित्यथशब्दार्थः। स्थूलदेहे यथोक्तेऽन्तर्वृत्तिर्नाम लिङ्गस्योत्क्रान्तिस्तस्याश्चदृष्टान्तोक्त्या प्रत्यक्षवद्वचनं वैराग्यद्वारा ज्ञानहेतुष्ववधानं फलयतीत्यर्थः। प्रयत्नो भूयसां दृष्टान्तानामुक्तिः॥१९३०॥

आम्रं यथा रसादार्ढ्येस्वस्माद्वृन्तात्प्रमुच्यते॥
तथेहान्नरसग्लानौ लिङ्गं देहात्प्रमुच्यते॥१९३१॥

तात्पर्यमुक्त्वा वाक्यं योजयति। आम्रमिति॥१९३१॥

वृन्ते निबध्यते येन रसेनाऽऽपरिपाकतः॥
स रसो बन्धनं ज्ञेयो वृन्तं वा बन्धनं मतम्॥१९३२॥

दृष्टान्तगतबन्धनशब्दस्यार्थमाह। वृन्त इति। करणव्युत्पत्त्या रसो वाऽधिकरणव्युत्पत्त्या वृन्तं वा बन्धनमिति यावत्॥१९३२॥

वृन्तेनाऽऽम्रस्य संबन्धो रसस्याऽऽपरिपाकतः॥
बाल्ये दृढो यथा तद्वन्नैवं पक्वरसस्य सः॥१९३३॥

तस्मादाम्रादिफलस्य पाते हेतुमाह। वृन्तेनेति। एवमिति दार्ष्टान्तिकोक्तिः। स संबन्धोऽप1039क्वरसस्याऽऽम्रस्योक्तदृष्टान्तानुसारेण बाल्यावस्थायामिव दृढो न भवति तेन तत्पतनमित्यर्थः॥१९३३॥

क्लैद्यमापद्यमानोऽथ पाककाल उपस्थिते॥
रस आम्रं धारयितुं1040 नैवेहोत्स1040हतेऽबलः॥१९३४॥

कथं फलपाते पक्वोरसो हेतुरित्याशङ्क्य हेतुत्वं साधयति। क्लैद्यमिति। अबल इति च्छेदः। रसक्लेदस्य तदीयदौर्बल्ये हेतुत्वमथेत्युच्यते। आम्रधारणाधिकरणं वृन्तं सप्तम्या गृह्यते॥१९३४॥

गुरुत्वाद्बन्धनाद्वृन्ताद्रसाद्वाऽथ प्रमुच्यते॥१९३५॥

नानाहेतुकपातस्य फलस्य प्रतिपत्तये॥
दृष्टान्तानामिहोक्तिः स्याद्भूयसां भिन्नरूपिणाम्॥१९३६॥

फलपातहेतुमुक्त्वा तत्पतनमधुना दर्शयति। गुरुत्वादिति। एकेनापि दृष्टान्तेनेष्टार्थसिद्धौ किमिति विषमानेकदृष्टान्तोक्तिरित्याशङ्क्याऽऽह। नानेति। प्रकृतं वाक्यं सप्तम्या संगृहीतम्॥ १९३५॥१९३६॥

वृन्तादेवाऽऽम्रपातोऽत्र वृन्तेनोदुम्बरं सह॥
पतत्यश्वत्थपातस्तु पाकेऽप्यन्यनिमित्ततः॥१९३७॥

अनुभवानुसारेण फलपतनस्य नानाहेतुकत्वमाह। वृन्तादिति। फलभेदाः सप्तम्य संगृह्यन्ते। अन्यनिमित्तं शकुन्तसंबन्धादिः॥१९३७॥

बहुप्रकारसिद्ध्यर्थं वाशब्दव्याहृतिस्त्विह।
बहुहेतुर्मृतिर्यस्मात्प्राणिनां जगतीक्ष्यते॥१९३८॥

किमिति दृष्टान्ते त्रयाणां वाशब्दानामुक्तिरित्याशङ्क्य दार्ष्टान्तिकं मरणमनियतहेतुकमिति प्रतिपत्तुमित्याह। बहुप्रकारेति। मरणस्यानियतानेकहेतुकत्वमनुभवावष्टम्भेन स्पष्टयति। बहुहेतुरिति। तस्मात्तत्र न विवदितव्यमिति शेषः॥१९३८॥

यथाऽयमुक्तो दृष्टान्तः पुरुषोऽप्येवमेव हि॥
लिङ्गात्मा पुरुषो ज्ञेयस्तस्यैवेहाङ्गसंगतेः॥१९३९॥

दृष्टान्तं संक्षेपविस्तराम्यां व्याख्याय दार्ष्टान्तिकं विवृणोति। यथेति। अङ्गेभ्यः संप्रमुच्यत इति शेषः। न च संप्रमोक्षणं प्रत्यक्षमिति वक्तुं हिशब्दः। पुरुषशब्दार्थमाह। लिङ्गेति। इहेति देहोक्तिः॥१९३९॥

श्रोत्रत्वगादिनाड्यश्च प्रोच्यन्तेऽत्राङ्गसंज्ञया॥
तेषु व्युह्यैव1041 लिङ्गात्मा यतोऽलं स्यात्स्वकर्मणे॥१९४०॥

अङ्गशब्दार्थमाह। श्रोत्रेति। ननु कस्मादस्मिन्वाक्ये श्रोत्रादीन्द्रियस्थानमङ्गशब्देन गृह्यते तत्राऽऽह। तेष्विति। अतस्तेषामङ्गशब्दवाच्यतेति शेषः॥१९४०॥

अङ्गस्य कृष्णसारस्य चक्षुषः करणस्य च॥
आश्रयाश्रयिसंबन्धे हेतुरन्नरसो भवेत्॥१९४१॥

आम्रादेरपक्वोरसो वृन्ते स्थितिहेतुरास्थितो लिङ्गस्य तु देहे कस्तथेति तत्राऽऽह। अङ्गस्येति॥ १९४१॥

अन्नं दामेति चाप्युक्तं रसादिपरिणामतः॥
तद्यावत्कठिनं देहे तावल्लिङ्गं स्थिरं भवेत्॥१९४२॥

लिङ्गस्य देहे स्थितावन्नरसो हेतुरिति चतुर्थे व्याख्यातमित्याह। अन्नमिति। तद्रसमात्रं देहे लिङ्गस्य स्थितिहेतुश्चेत्पक्वोऽपि स तथा स्यादिति देहपातानुपपत्तिरित्याशङ्क्याऽऽह। रसादीति। रसशब्देनाणीयान्परिणामो गृह्यते। आदिशब्देनाधममध्यमपरिणामौ गृहीतौ॥१९४२॥

जरादिहेतुपाके तु पतत्याम्रादिवद्द्रुतम्॥
एभ्योऽङ्गेभ्य इति गिरा तदेतदभिधीयते॥१९४३॥

कठिनस्यान्नरसस्य लिङ्गस्य स्थितिहेतुत्वमुक्त्वा तस्यैव पक्वस्य लिङ्गनिर्गमयितृत्वेन

देहपातहेतुत्वमाह। जरादीति। कर्तृत्वं देहस्यात्र विवक्षितम्। उक्तेऽर्थे पदत्रयस्य द्योतकत्वं सूचयति। एभ्य इति॥१९४३॥

उपसर्गः समित्येष एकीभावप्रसिद्धये॥
तथा प्रकर्षसिद्ध्यर्थं प्रोपसर्गः प्रयुज्यते॥१९४४॥

संप्रमुच्येत्यत्रोपसर्गयोरर्थमाह। उपसर्ग इति॥१९४४॥

व्यस्तानि स्थानसंबन्धात्करणानि यतस्ततः॥
स्वस्थानेभ्योऽपकृष्टानि मरणे यान्त्यथैकताम्॥१९४५॥

कोऽयमेकीभावो यत्प्रसिद्धये समित्युपसर्गस्तत्राऽऽह। व्यस्तानीति। स्वस्थावस्थायां स्थानभेद संबन्धाद्यतस्ततो व्यस्तानि करणानि मरणे स्वस्थानेभ्योऽपकृष्टान्यनन्तरं लिङ्गात्मनैकतां यान्तीति संबन्धः॥१९४५॥

स्वप्नेप्राणावशेषत्वात्स्थानात्करणसंहृतेः॥
मृतौ सहैव चानेन प्रकर्षोऽत्रात ईक्ष्यते॥१९४६॥

कोऽसौ प्रकर्षो यदर्थं प्रोपसर्गस्तत्राऽऽह। स्वप्नइति। अस्ति स्वप्नेऽपि स्वस्थानात्करणसंहृतिर्नाप्तौ निर्लेपेन भवति तस्याः प्राणावशेषत्वान्मरणे तु सहैव तेन तानि स्वस्थानेभ्यः संह्रियन्तेऽतः स्वप्नापेक्षया प्रकर्षो मरणे करणोपसंहृतेर्दृश्यते प्रोपसर्गश्चतदवद्योतीत्यर्थः॥१९४६॥

देहान्तरादमुं देहं पूर्वमागाद्यतस्ततः॥
तदपेक्ष्य पुनःशब्दः श्रुत्यैवेहाभिधीयते॥१९४७॥

पुनः शब्दार्थमाह। देहान्तरादिति। तदपेक्ष्यैवेति संबन्धः॥१९४७॥

स्वप्नाद्यथेतो बुद्धान्तं स्वप्नं बुद्धान्ततः पुनः॥
पूर्वदेहात्तथैवाऽऽत्मा याति देहान्तरं पुनः॥१९४८॥

उक्तमेव दृष्टान्तेन स्पष्टयति। स्वप्नादिति। इतो गतः॥१९४८॥

बाह्याद्देहात्तथैवान्तर्लिङ्गं स्वाप्नंप्रपद्यते॥
यथान्यायप्रतिन्यायौ यथा तत्रोदितौ पुरा॥१९४९॥

देहाद्देहान्तरप्राप्तौ तथैवेति विनिर्दिशेत्॥
प्रतियोनि यथास्थानभित्यत्रापि तथैव तत्॥१९५०॥

एतदेव संक्षिपति। बाह्यादिति। यथा जाग्रद्देहाद्बहिःस्थितादन्तःस्थितं लिङ्गं स्वप्नसंबद्धं तन्निमित्तकर्मोद्भवे पुमान्प्रतिपद्यते ततो जाग्रदेहं तन्निमित्तकर्मप्रवृत्तौ प्राप्नोति तथाऽयमात्मा देहादेहान्तरं गच्छतीत्यर्थः। प्रतिन्यायशब्दार्थं स्मारयति। यथान्यायेति। स वा एष एतस्मिन्संप्रसादे रत्वेत्यादौ दृष्टान्ते प्रतिन्यायशब्दो यथान्यायशब्दश्चव्याख्येयव्याख्यानतया यथोक्तो तथैवात्रापि तौवाच्यावित्यर्थः। प्रतियोनिशब्दार्थ-

माह। प्रतीति। यथा पूर्वं दृष्टान्ते1042 प्र1042तियोनिशब्दो यथास्थानमित्यर्थे व्याख्यातस्तथैवात्रापि दार्ष्टान्तिके तद्व्याख्या द्रष्टव्येत्यर्थः॥१९४९॥१९५०॥

श्रुतकर्मानुरूपेण चक्षुराद्यनुरूपतः॥
प्रतियोनि यथास्थानमाद्रवत्येष जन्मने॥१९५१॥

पदद्वयार्थमुक्त्वा वाक्यार्थमाह। श्रुतेति। प्रतियोनिव्याख्यानस्य यथास्थानमित्यस्य विवक्षितमर्थमाह। चक्षुरादीति। प्राणायेत्यस्यार्थो जन्मन इति॥१९५१॥

देहान्तरगृहीत्यर्थं प्राणिनां मरणं यतः॥
प्राणायेति ततो वक्ति जन्मन्यसति नो मृतिः॥१९५२॥

तमेव संक्षिप्तमर्थं प्रपञ्चयति। देहान्तरेति। मरणस्य जन्मव्याप्तेर्मृतो देहान्तरमवश्यं गृह्णाति जातस्य हीत्यादिस्मृतेरित्यर्थः॥१९५२॥

प्राणव्यूहायचैवायमाद्रवत्यन्यदेहतः॥
स्थानेष्वव्यूढकरणो नालं स्यात्कर्मणे यतः॥१९५३॥

तमुत्क्रामन्तमित्यादिश्रुतेः सहैव प्राणेन जीवगमनात्प्राणार्थं देहान्तरग्रहणं कुतो मृतस्येत्याशङ्क्याऽऽह। प्राणेति। अन्यदेहतोऽन्यस्माद्देहादन्यं देहं प्रतीत्यर्थः। तेषामा मुक्तेः सत्त्वात्तद्व्यूहस्याकिंचित्करत्वात्कुतस्तदर्थं देहान्तरोपादानमित्याशङ्क्याऽऽह। स्थानेष्विति। सत्यमा मुक्तेरस्ति प्राणानुवृत्तिस्तथाऽपि न तत्तद्गोलकादिस्थानेषु करणस्थापनं विनाऽयमात्मा कर्म निर्मातुमीष्टे तस्माद्देहान्तरग्रहणं प्राणव्यूहार्थमर्थवदित्यर्थः॥१९५३॥

प्राणव्यूहस्य संसिद्धिः कथमस्येति शङ्क्यते॥
शरीरग्रहणाशक्तेरव्यूढकरणत्वतः॥१९५४॥

तद्यथा राजानमित्यादिवाक्यापोद्यं चोद्यमाह। प्राणेति। अस्येति प्रकृतो भोक्ता गृह्यते। अतिप्रसङ्गित्वं निर्बीजशङ्काया निरसितुं तद्बीजमाह। शरीरेति॥१९५४॥

न च देहान्तरं कृत्वा राज्ञो1043 भृत्या इवाऽऽसते॥
यतः कर्मसहायोऽयमेकाक्येवेह गच्छति॥१९५५॥

यद्यपि त्यक्तदेहो देहान्तरं कर्तुमसहायत्वादक्षमस्तथाऽपि केचिदस्य भृत्यस्थानीया देहान्तरं कृत्वा प्रतीक्षिप्यन्तेऽत आह। न चेति। इहेति मृतौ सत्यामित्यर्थः॥१९५५॥

इत्यस्य परिहारार्थं दृष्टान्तोऽत्राभिधीयते॥
कृत्स्नं जगत्स्वभोगार्थं पुंसोपात्तं स्वकर्मणा॥१९५६॥

उत्तरं वाक्यमुत्तरत्वेनाऽऽदत्ते। इत्यस्येति। अत्रेति श्रुतिरुक्ता। यत्तु नास्य भृत्यस्थानीयाः सन्तीति तत्राऽऽह। कृत्स्नमिति॥१९५६॥

तत्कर्मफलभोगार्थं कृत्वा देहं प्रतीक्षते॥
शुभं वा यदि वा पापं1044 श्रुतकर्मानुरूपतः॥१९५७॥

इन्द्रादिजगतो भृत्यस्थानीयस्य सत्त्वेऽपि कथं प्रतीक्षकत्वमित्याशङ्क्याऽऽह। तत्कर्मेति। स्वामिभोगाय देहं कृत्वा तदिन्द्रादिजगद्भोक्तारं प्रतीक्षत इति योजना। कथमेतत्कर्मोपार्जितमिन्द्रादीत्याशङ्क्य कर्मस्वरूपं विवेचयति। शुभं वेति। पूर्वज्ञानकर्मानुसारतः शुभमशुभं वा पुनरपि कर्मोपचिनोति “तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते”इति स्मृतेरित्यर्थः॥१९५७॥

कर्मोपात्तानि भूतानि तत्प्रयुक्तानि देहिनः॥
कृत्वा देहान्तरं योग्यं तस्थू राज्ञोऽग्रगा इव॥१९५८॥

उपचितकर्मोपार्जितानि भूतानि तत्प्रेरितानि तत्फलाभिमुखानि तिष्ठन्तीत्याह। कर्मेति। भूतानामात्मकर्मार्जितत्वे सिद्धमर्थमाह। देहिन इति॥१९५८॥

तत्रैतस्मिन्यथोक्तेऽर्थे दृष्टान्तोऽप्यभिधीयते॥
विवक्षितार्थविज्ञानप्रसिद्धिः स्यात्कथं न्विति॥१९५९॥

उक्तेऽर्थे दृष्टान्तश्रुतिं पातयति। तत्रेति। देहिनो देहाद्देहान्तरग्रहे सहायाः सन्तीत्यस्मिन्नर्थे दृष्टान्तस्तद्यथेत्यादिनोच्यत इत्यर्थः। देहान्तरग्रहे पुंसः सहायसंपदस्तीति विवक्षितं चेत्तन्मात्रमेवोच्यतां श्रुतेरनतिशङ्क्यत्वात्कृतं दृष्टान्तेनेत्याशङ्क्याऽऽह। विवक्षितेति। श्रुतेरनतिशङ्क्यत्वेऽपि प्रतिपत्तिसौकर्यार्थं दृष्टान्तोक्तिरित्यर्थः। अयमेव पूर्वार्धगतस्यापेरर्थः॥१९५९॥

यथा राजानमायान्तं सद्मपानादिसाधनैः॥
बुद्ध्वा क्लृृप्तैः प्रतीक्षन्त उग्राः सूतादयो जनाः॥१९६०॥

तदक्षराणि व्याकरोति। यथेति। आयान्तं बुद्ध्वेति संबन्धः॥१९६०॥

उग्रे कर्मणि ये राज्ञा नियुक्ताः पापकारिषु॥
उग्रास्तेऽत्राभिधीयन्ते जातितो वाऽभिधा भवेत्॥१९६१॥

उग्रशब्दस्य द्वेधाऽर्थमाह। उग्र इति॥१९६१॥

एन एनः प्रति तथा नियुक्ता ये नराधिपैः॥
प्रत्येनसोऽत्र ते ज्ञेया भिन्नास्ते स्वाधिकारतः॥१९६२॥

उग्राः प्रत्येनस इत्यनयोरर्थैक्यमाशङ्क्याऽऽह। एन इति। अत्रेति निर्धारणार्था

सप्तमी। उभये तच्छब्देन गृह्यन्ते। अधिकारो नियोगविशेषः प्रवृत्तिविशेषो वा॥१९६२॥

रथवाहाश्चसूताः स्यू रथवाहनकोविदाः॥
ग्रामण्यो ग्रामनेतारः सेनाधिपतयो मताः॥१९६३॥

सुतादिशब्दद्वयं व्याचष्टे। रथेति॥१९६३॥

ते यथा कर्मणोपात्ताराज्ञः प्रागेव चाऽऽगमात्॥
अन्नपानगृहाद्यर्थान्कृत्वा राजप्रतीक्षिणः॥

राजाऽयं नः समायातीत्यासते यत्नमास्थिताः॥१९६४॥

दृष्टान्ते विवक्षितमुपसंहरति। ते यथेति॥१९६४॥

यथैवं सर्वभूतानि भोक्त्रा कर्मादिकारणैः॥
अर्जितान्युचितं देहं भोक्तुर्भोगक्षमं तथा॥१९६५॥

कृत्वा तत्प्राप्तितः पूर्वं यथा सूतादयो1045 नृपम्॥
प्रतीक्षन्ते प्रयत्नेन ब्रह्मैतीत्यभिकाङ्क्षया॥१९६६॥

एवमित्यादि व्याचष्टे। यथैवमिति। परामृष्टं दृष्टान्तमनुवदति। यथेति॥१९६५॥१९६६॥

विज्ञानात्मन्युपक्रान्ते ब्रह्मेति यदिहोच्यते॥
स्वतो ब्रह्मत्वतस्तस्य संसारित्वमवि1046द्यया॥१९६७॥

देहादेहान्तरग्रहीतरि तस्मिन्निदं ब्रह्माऽऽयातीति ब्रह्मशब्दप्रयोगे को हेतुरित्याशङ्क्याऽऽह।विज्ञानेति। इहेति वाक्योक्तिः। तस्येत्यत्र तदिति वक्तव्यम्। जीवः संसारी कथमसंसारि ब्रह्म स्यादित्याशङ्क्याऽऽह।संसारित्वमिति॥१९६७॥

कथं नाम मतिस्तस्य ब्रह्मास्मीति भवेदिह॥
श्रुतिस्तत्तत्त्वबोधार्थंब्रह्मेत्याह ततो नरम्॥१९६८॥

जीवे ब्रह्मशब्दस्यापरं तात्पर्यमाह। कथमिति। इहेत्यात्मस्वरूपोक्तिः। यतः श्रुतेरयमाशयस्तत इति योजना॥१९६८॥

अनुवादो न तु विधिरेवंविदमितीर्यते॥१९६९॥

सर्वान्प्रत्यविशिष्टत्वादेवंविदमितीरणम्॥
नानुवादः फलोक्तिर्वा यथाव्याख्यातवेदिनः॥१९७०॥

एवं हैवंविदमित्यत्रैवंविच्छब्दस्यार्थमाह। अनुवाद इतितत्र हेतुःसर्वानिति। मरणस्य सर्वसाधारणत्वादुत्क्रान्तिविद्भवेदिति न विधिः किंतु लोकसिद्धमेवोत्क्रमणमनूद्यते देहान्तरोपादाननिवेदनार्थमित्यर्थः। अनुवादमुक्त्वा विधिपक्षमाह।

एवमिति। यथाशास्त्रमुत्क्रान्तिमनुसंधानस्य संसारे ध्वस्ततृष्णस्य सर्वाणि भूतानि प्रतीक्षन्त इति फलोक्तेरेवंविदमित्येवंवित्त्वं विधीयते न त्वनूद्यते तन्मात्रे फलाभावात्तस्मादृतेऽपि देहान्तरोपादानत्वोक्तेः सुकरत्वादित्यर्थः। वाशब्दोऽवधारणार्थः॥१९६९॥१९७०॥

करणानुग्रहीतॄणि भूतानि च मुमूर्षतः॥
कृत्वा देहं प्रतीक्षन्ते नृपस्येव गृहं नराः॥१९७१॥

सर्वाणि भूतानीत्यत्र भूतशब्दार्थमाह। करणेति। क्रियापदार्थमाह। कृत्वेति॥१९७१॥

एवं जिगमिषुं देवमनुगच्छन्ति के तु1047 तम्॥
गच्छन्तः1048 कस्य गत्या वा स्वातन्त्र्येणाऽऽत्मनोऽथवा॥१९७२॥

अज्ञस्याऽऽत्मनो वर्तमानदेहं हित्वा देहान्तरं जिगमिषतस्तन्निर्माणे सहायसंपत्तिरुक्ता। इदानीं तद्यथा राजानं प्रयियासन्तमित्याद्यवतारयितुं चोदयति। एवमिति। गच्छन्तं केऽनुगच्छन्त्यनुगच्छन्तोऽपि कस्य गत्याऽनुगच्छन्ति किं स्वातन्त्र्येणाऽऽत्मकर्मप्रयुक्ता वेति जिज्ञासार्थः॥१९७२॥

इत्यर्थमपि दृष्टान्तः पूर्ववद्भण्यते1049 पुनः1049
1049तः प्रवसतो देहाद्देहिनः कर्मसंक्षयात्॥१९७३॥

आत्मकर्मप्रेरिता वागादयोऽनुगच्छन्तीति निर्णयार्थं दृष्टान्तमुत्थापयति। इत्यर्थमिति। अपिशब्दसूचितं प्रकटयति। पूर्ववदिति। दार्ष्टान्तिकं सूचयति। इत इति। प्राणाः समायान्तीति संबन्धः॥१९७३॥

यथेह प्रयियासन्तमुग्रसूतादयो जनाः॥
राजानमभिसंयान्ति प्राणास्तद्वन्मृतौ नरम्॥१९७४॥

दृष्टान्तं विवृणोति। यथेति। दार्ष्टान्तिकं स्पष्टयति। प्राणा इति॥१९७४॥

यदोर्ध्वाच्छ्वासितैवास्य पुरुषस्य भवत्यथ॥
सुखयन्तस्तदा प्राणाः संयान्त्युत्क्रान्तिवेदिनम्॥१९७५॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके चतुर्थाध्यायस्य
तृतीयं ज्योतिर्ब्राह्मणम्॥३॥

बृहदारण्यकक्रमेण षष्ठाध्यायस्य तृतीयं ब्राह्मणम्॥

यत्रैतदित्यादेस्तात्पर्यमाह। यदेति। अस्यार्थः। संसारिणो हि प्रारब्धकर्मावसानानन्तरं यस्यामेव दशायामूर्ध्वाच्छ्वासितोपावर्तते तस्यामेवावस्थायां यथाशास्त्रं1050 पू1050र्वाभ्यस्तोत्क्रान्तिविदं संसृतावनास्थावन्तं पुमांसमक्लेशयन्तो वागादयोऽनुवर्तन्ते मरणावसरे हि

प्राणाः सर्वेषु प्राणिषु क्लेशमादधतीत्युत्सर्ग उत्क्रान्तिवेदिनि पुनर्न ते क्लेशाधायिनो ज्ञानमाहात्म्यादिति॥१९७५॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिकटीकायां चतुर्थाध्यायस्य तृतीयं ज्योतिर्ब्राह्मणम्॥३॥

श्लोकानामादितः समष्ट्यङ्काः—९०३३
___________
अथ चतुर्थं ब्राह्मणम्।
________

यत उत्क्रान्तिरुक्तेयं विशिष्टफलसंगतेः॥
सर्वेषामविशिष्टाऽतः स यत्रेत्युच्यतेऽधुना॥१॥

पूर्वस्मिन्ब्राह्मणे कार्यकरणसंघातातिरिक्तस्याऽऽत्मनः स्वयंज्योतिषोऽवस्थात्रयातीतस्याविद्याकामकर्मनिर्मुक्तस्यानतिशयानन्दस्यापिदुरपह्नवानाद्य-विद्यानिमित्तकामादिकृतमिहलोकपरलोकसंचर1051णमवस्थाद्वयसंचारदृष्टान्तस्य दार्ष्टान्तिकं मोक्षोदाहरणं च सुषुप्तं व्याख्यातम्। अधुना मोक्षस्यैव सुषुप्तिदार्ष्टान्तिकस्य शिष्टत्वात्तस्मिन्वक्तव्ये पुनः संसारोक्तिरयुक्ता पुनरुक्तेरित्याशङ्क्य ब्राह्मणान्तरमवतारयति। यत इति। वैशिष्ट्ये हेतुमाह। फलेतिएवंविदं सर्वाणि भूतानि प्रतिकल्पन्त इति श्रुतेरित्यर्थः॥१॥

करणानां समुत्क्रान्तिर्गमनं च तयोः समम्॥
प्रागुक्तं तत्र यन्नोक्तं तदेवेहोच्यतेऽधुना॥२॥

एवंवित्त्वविधिपक्षे संबन्धमुक्त्वा तदनुवादपक्षे तमाह। करणानामिति। तयोर्जीवप्राणयोरिति यावत्। प्रागुक्तं तद्यथा राजानं प्रयियासन्तमित्यादावित्यर्थः। यन्नोक्तं तेजोमात्रादानादीत्यर्थः॥२॥

संसारस्याधिकारोऽयमा श्लोकोदाहृतेर्मतः॥
स यत्रेत्यत आरभ्य पुंसः संसारवर्णनम्॥३॥

सर्वस्यैव ब्राह्मणस्य संसारविषयत्वं व्यावर्तयितुं संसारप्रकरणपरिमाणमाह। संसारस्येति। स यत्रायमित्यस्मादारभ्य तदेव सक्तः सह कर्मणेतिश्लोकसहितार्वाक्तनग्रन्थेन संसारप्रकरणं यतो निवृत्तमतोऽकामयमानवाक्यात्प्रागेव वैराग्यहेतोः संसारवर्णनमित्यर्थः॥३॥

पुंसः संसरणं पूर्वं सूत्रितं यत्समासतः॥
विस्तरस्तस्य वक्तव्य इत्यर्था वा परा श्रुतिः॥४॥

भाष्याद्बहिरेव संबन्धद्वयोक्त्या पुनरुक्तिं समाधाय भाष्योक्तसंबन्धमनुसृत्य तां समाधत्ते। पुंस इति॥४॥

तत्संप्रमोक्षणं कस्मिन्पुंसः कालेऽभिजायते॥
कथं1052 वेत्या1052दिकोऽत्रार्थोविस्तरेणोपवर्ण्यते॥५॥

विस्तरप्रकारमेवाऽऽह। तदिति। देहाङ्गानि10531053 सर्वनाम्ना गृहीतानि तानि हि पुंसो देहान्मुच्यमानस्यापादानभूतानि। आदिपदेन देहान्तरोपादानोपकरणारम्भादि गृह्यते। अत्रेति वक्ष्यमाणसंसारप्रकरणोक्तिः॥५॥

प्रकृतात्मपरामर्शः सशब्देन विवक्ष्यते॥
संसारानर्थसंबन्धविज्ञानाय तमस्विनः॥६॥

तात्पर्यमुक्त्वा पदव्याख्यानमारभमाणः सशब्दार्थमाह। प्रकृतेति। तद्यथाऽतःसुसमाहितमित्यादौ प्रकृतस्याज्ञस्याऽऽत्मनः सशब्देन किमिति परामर्शस्तत्राऽऽह। संसारेति॥६॥

य आत्मा प्रस्तुतोऽविद्वान्स यदेदं शरीरकम्॥
कार्श्यंप्रापय्य पूर्वोक्तैर्जरारोगादिहेतुभिः॥७॥

उक्तमनूद्याबल्यं न्येत्येत्यस्यार्थमाह। य आत्मेति। उक्तहेतुभिरविद्वानात्मा कार्श्यंप्रापय्य यदा संमोहमिव याति तदैनं वागादयः समायन्ती1054ति संबन्धः॥७॥

यदि वा स्वयमेवैत्य देहाभेदत्वहेतुतः॥
दौर्बल्यमेवं संप्राप्य संमोहमिव यात्यथ॥८॥

न्येत्येति ल्यप्श्रुतेर्णिचोऽश्रवणात्कथं कार्श्यंप्रापय्येत्युच्यते तत्राऽऽह। यदि वेति। स्वयमेवाऽऽत्मा कार्श्यमेत्य संमोहमिव यातीति संबन्धः। आत्मनो दौर्बल्यप्राप्तौ हेतुमाह। देहेति। मनुष्योऽहमित्यध्यासादित्यर्थः। उक्तमनूद्योत्तरवाक्यमादत्ते। दौर्बल्यमिति। कार्श्यमोहाप्त्योनैरन्तर्यार्थोऽथशब्दः॥८॥

मूर्छादाविव संमोहमिहाप्यात्मा निगच्छति॥
बोधमात्रैकयाथात्म्यान्नायं संमोहभाग्यतः॥
संमूढबुद्धिसाक्षित्वात्संमूढ इव भात्यतः॥९॥

तस्य दृष्टान्तपूर्वकमर्थमाह। मूर्छादाविति। इहेत्यन्तकालोक्तिः। इवशब्दार्थं समर्थयते। बोधेति॥९॥

संमोहहेतुकं कार्यं संमोहात्मकमि1055ष्यते॥
अकार्यका1056रणं प्रत्यग्ज्योतिः संमुह्यते कुतः॥१०॥

आत्मनो वस्तुतोऽसंमोहे हेत्वन्तरमाह। संमोहेति॥१०॥

कार्श्यसंमोहसंबन्धो यतो नास्य स्वतस्ततः॥
मोहोत्थदेहबुद्ध्यादिसंगतेरिवगीरियम्॥११॥

इवशब्दार्थमुपसंहरति। कार्येति॥११॥

उत्क्रान्तिकाले प्राणानां स्वस्थानादार्ढ्यहेतुका॥
स्वगोचरेष्वशक्तिर्या संमोहोऽसाविहाऽऽत्मनः॥१२॥

संमोहशब्देन मूलाज्ञानमुक्त्वाऽर्थान्तरमाह। उत्क्रान्तीति। इहशब्दस्य पूर्वसमीभ्यां संबन्धः॥१२॥

दाहच्छेदादयो यद्वददाह्याच्छेद्यतन्विनः॥
परोपाधिनिमित्ताः स्युर्दुर्बलत्वादयस्तथा॥१३॥

कथं करणाशक्तिरात्मनः संमोहो न ह्यन्यधर्मोऽन्यस्य भवतीत्याशङ्क्याऽऽह दाहेति। परोपाधिर्देहादिः॥१३॥

बाह्य तावदियं वृत्तिर्व्याख्याता प्रत्यगात्मनः॥
कार्यसंमोहरूपा या प्रसिद्धा जगतीदृशी॥१४॥

अथैनामित्याद्यवतारयितुं वृत्तं कीर्तयति। बाह्येति। ईदृशीति स्वानुभवसिद्ध त्वोक्तिः॥१४॥

मरिष्यतोऽस्य या वृत्तिरान्तरी साऽधुनोच्यते॥
हृत्सद्मन्युपसंहारो यथा स्यादिन्द्रियात्मनाम्॥१५॥

अथेत्यादेस्तात्पर्यमाह। मरिष्यत इति। एतच्चप्रत्यगात्मविशेषणं प्रागपि संबध्यते। का पुनरान्तरी वृत्तिस्तामाह। हृदिति। तथोच्यत इति शेषः॥१५॥

अथैनमुच्चिक्रमिषुं विज्ञानात्मानमीश्वरम्॥
प्राणा वागादयः सर्वे तं समायन्ति1057 कृत्स्नतः॥१६॥

पदानि व्याकरोति। अथेति। प्रारब्धकर्मावसानानन्तर्यमथशब्दार्थः। वागादीनां जीवं प्रत्यागतौ करणस्वामित्वं हेतुमाह। ईश्वरमिति। स्वापाद्विशेषार्थं कृत्स्नत इत्युक्तम्॥१६॥

अभीति चाऽऽभिमुख्येऽर्थे सं तु सामस्त्य इष्यते॥
अवध्यर्थे तथाऽऽङत्र यन्तीत्यस्य विशेषणम्॥१७॥

अभिसमायन्तीत्यत्रोपसर्गत्र्यार्थमाह। अभीति चेति॥१७॥

स्वाश्रयेभ्यो यियासन्ति करणानि हृदीश्वरम्॥
यदैषां स्थानसंबन्धविमोक्षः स्यात्तदैव तु॥१८॥

स्वाश्रयस्थानामेव करणानामात्मानं प्रति गतिश्चक्षुषो गोलकस्थस्यैव ध्रुवादिगतिदृष्टेरित्याशङ्क्याऽऽह।स्वाश्रयेभ्य इति। जीवदवस्थायां स्वाश्रयस्थानामेव गमनेऽपि मरणकाले करणानां न तादृग्गमनं मरणानुपपत्तेरित्यर्थः॥१८॥

कथं तमभिसंयान्तीत्युक्ते श्रुत्याऽभिधीयते॥
आत्मानमभिसंयान्ति वागादीनि यथा स्फुटम्॥१९॥

स एता इत्याद्याकाङ्क्षापूर्वकमादत्ते। कथमिति॥१९॥

स आत्मा प्रकृतस्त्वे1058ताश्चक्षुःश्रोत्रादिलक्षणाः॥
तेजोमात्रा यथादेशं समये मृतिकर्मणः॥२०॥

यथाऽऽस्मानं करणानि सामस्त्येनाऽऽभिमुख्येन गच्छन्ति तथा स्फुटमुच्यते वाक्येनेति तात्पर्यमुक्त्वा तद्व्याचष्टे। स इति। अविद्वानात्मा तत्तद्देशात्करणान्यादाय मृतिकाले हृदि गच्छतीत्यर्थः॥२०॥

उद्भूताकूतवि1059ज्ञानो मृतिं प्रति यदा तदा॥
आकूतानुविधायीनि जायन्ते करणान्यथ॥२१॥

समभ्याददान इत्यस्यार्थं वक्तुं पातनिकां करोति। उद्भूतेति। यथोक्ताकूतस्य तदनुविधायित्वस्य च हेतुहेतुमत्त्वद्योतनार्थोऽथशब्दः॥२१॥

स्वाकूतानुविधायित्वं यत्तदा करणात्मनाम्॥
अभ्याददान इति तत्कर्तृत्वं स्यादिहाऽऽत्मनः॥२२॥

संप्रति शानचोऽर्थमाह। स्वाकूतेति। अविद्वानात्मा मुमूर्षुः स्वशब्दार्थः। तदेति मुमूर्षावस्थोच्यते। इहेति प्रकृतवाक्योक्तिः॥२२॥

एतत्कर्तृत्वमापेक्ष्य श्रुत्यैवमभिधीयते॥
अभ्याददान इति तु तेजोमात्राः1060 स्व1060देशतः॥२३॥

करणानामात्माभिप्रायानुसारित्वमेव तस्य तदादानकर्तृतेति कस्मादुच्यते चैत्रादौ धनादिविषये प्रसिद्धमादानकर्तृत्वमत्रापि किं न स्यादित्याशङ्क्याऽऽह। एतदिति। ध्यायतीवेत्यादिविरोधात्करणान्तराभावाच्च तदादानकर्तृताऽऽत्मनोऽमु1061ख्येत्यर्थः॥२३॥

मीयन्ते विषया याभिर्मात्रास्ताश्चक्षुरादयः॥
तेजोविकृतिहेतुत्वात्तेजोमात्राश्च ताः स्मृताः॥२४॥

तेजोमात्रा इत्यस्यार्थमाह। मीयन्त इति। तेज एव विकृतिः साभासस्याज्ञानस्य तां हेतूकृत्य प्रवृत्तत्वात्तेजसो मात्राः करणानीत्यर्थः॥२४॥

सत्त्वं तेजोऽत्र विज्ञेयं तदेव करणात्मना॥
प्रविभक्तं हि तच्छब्दस्पर्शाद्यर्थावभासनात्॥२५॥

मात्राशब्दार्थं समासं चोक्त्वा तेजःशब्दार्थं सांख्याभिप्रेतमाह। सत्त्वमिति। तत्र सांख्यप्रसिद्धिद्योतको हिशब्दः। कथं सत्त्वगुणश्चक्षुरादिकरणरूपेण परिणत1062 इति1062 ज्ञायते तत्राऽऽह। तच्छब्देति। सत्त्वमहंकाराव1063स्थितं शब्दाद्यर्थावभासकत्वात्करणरूपेण परिणतं सात्त्विक एकादशकः प्रवर्तते वैकृतादहंकारादित्युक्तेरित्यर्थः॥२५॥

पित्ताख्यं वा भवेत्तेजस्तदंशाश्चक्षुरादयः॥
इत्येवमायुर्वेदज्ञाः करणानि प्रचक्षते॥२६॥

पूर्वपक्षान्तरमाह। पित्ताख्यं वेति। तत्र प्रमाणमाह। इत्येवमितिउक्तं हि— अग्निरेव शरीरे पित्तान्तर्गतः कुपिताकुपितानि शुभाशुभानि करोतीति। अन्योऽप्याह—

“आमाशयाश्रयं पित्तं रञ्जकं रसरञ्जनात्।
बुद्धिमेधाभिमानाद्यैरभिप्रेतार्थसाधनात्॥

साधकं हृद्गतं पित्तं रूपालोचनतः स्मृतम्।
दृक्स्थमालोचकं त्वक्स्थं भ्राजकं भ्राजनात्त्वचः” इति॥२६॥

यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह॥
इति प्रकाशरूपत्वं करणानां श्रुतिर्जगौ॥२७॥

सिद्धान्तयितुं करणानां प्रकाशरूपत्वं सप्रमाणमाह। यदेति॥२७॥

भौतिकस्तु प्रकाशोऽयं भौतिकार्थप्रकाशनात्॥
प्रदीपवन्न भूतेभ्यो जात्यन्तरमतो भवेत्॥२८॥

तेषां प्रकाशरूपत्वेऽपि कथं ते सिद्धान्तसिद्धिरत आह। भौतिकस्त्विति। तेजःशब्देन भूतपञ्चकमुच्यते तत्कार्यं करणजातं भौतिकप्रकाशत्वा1064दालाकेवत्। तदाहु**र्भर्तृप्रपञ्चाः—**प्रकाशः पु1065नरयं भौतिको न जात्यन्तरं भूतेभ्य इति। आयुर्वेदविदश्चाऽऽहुः—

“एकैकाधिकयुक्तानि खादीनामिन्द्रियाणि च”इति।

“खादीनि बुद्धिरव्यक्तमहंकारस्तथाऽष्टमः।
भूतप्रकृतिरुद्दिष्टा विकाराः षोडशैव तु॥
बुद्धीन्द्रियाणि पञ्चैव पञ्च कर्मेन्द्रियाणि च।
समनस्काश्च पञ्चार्था विकारा इति संज्ञिताः”इति च।

तत्कथं सांख्यादिसिद्धान्तसिद्धिरिति भावः॥२८॥

स्पष्टं च वक्ष्यतेऽथोर्ध्वमेतेभ्य इति हि श्रुतिः॥
अक्षाणि भौतिकान्येव नातः शक्तय आत्मनः॥२९॥

करणानां भौतिकत्वे वाक्यशेषसंवादमाह। स्पष्टं चेति। एतेभ्यो भूतेभ्यः समुत्थायेत्यत्र भूतशब्देन कार्यकरणान्युच्यन्ते तथा च शरीरवदिन्द्रियाण्यपि भूतकार्याण्येवेति श्रुतिर्वेक्ष्यति भाष्यकारादिभिश्चायमर्थो वक्ष्यते तस्माद्भौतिकत्वमिन्द्रियाणामविवादमित्यर्थः। आयुर्वेदे श्रुत्यन्तरे च यथा करणानां भौतिकत्वमुक्तं तथा वाक्यशेषेऽपीत्यथशब्दार्थः। भौतिकत्वे तेषामात्मविकारत्वमपि स्वयूथ्याभीष्टं प्रत्यादिष्टमित्याह। नात इति॥२९॥

लिङ्गात्मकानां भूतानां निर्देशोऽविद्यया सह॥
तन्नाशमनु नाशः स्याद्यतो दुःखात्मनस्ततः॥३०॥

यथोक्ते वाक्ये करणानां भौतिकत्वं न भाति तत्कथं तत्र वाक्यशेषस्य संवादितेत्याशङ्क्याऽऽह। लिङ्गेति। साविद्यं सप्तदशकलिङ्गाकारपरिणतं भूतपञ्चकमत्र भूतशब्दार्थः। तथाच भूतेषु करणानामन्तर्भावात्कार्यतैव परिशिष्यत इत्यर्थः। तत्र भूतशब्दस्योक्तार्थत्वे हेतुमाह। तन्नाशमिति। तान्येवानुविनश्यतीति जीवस्यापि भूतनाशेन नाशो यतः श्रूयतेऽतो भूतशब्देनोक्तलिङ्गग्रह इत्यर्थः॥३०॥

पिण्डनाशेऽपि नैवास्य नाशः संसारिणो यतः॥
अविद्यादीनि भूतानि तत्रोच्यन्ते ततो ध्रुवम्॥३१॥

स्थूलदेहनाशेऽपि शारीरनाशात्तद्विषयमेव भूतपदमित्याशङ्क्याऽऽह। पिण्डेति। तथाऽपि सूक्ष्मदेहगृहीतस्य स्थितिसंभवादित्यर्थः॥३१॥

मात्रासंसर्ग एवास्य तथाचैव प्रवक्ष्यते॥
विज्ञानेनाथ विज्ञानमादायेत्यपि चावदत्॥३२॥

साविद्यं लिङ्गशरीरं वाक्यशेषे भूतशब्दितमित्युक्त्वा करणानां भौतिकत्वे पूर्वोक्तवाक्यस्थमेव लिङ्गमुपन्यस्यति। मात्रेति। तेषां भौतिकत्वानुसारेण प्रकृतवाक्य एव मात्रासंसर्गस्त्वस्य भवतीति वक्ष्यते। तथाच भूतेभ्यो मात्राभ्यश्च समुत्थायेति पूर्वत्र विवक्षितं न च भूतानां मात्रास्तेजोमात्राभ्यो भिद्यन्ते तेन मात्रासंसर्गश्रुत्या भौतिकत्वमिन्द्रियाणामिष्टमिति भावः। तत्रैव हेत्वन्तरमाह। विज्ञानेनेति। विज्ञानेन विज्ञानमादायान्तर्हृदये शेत इति वदता विज्ञानमात्रत्वं करणानामुक्तं न च तन्मात्रास्तेजोमात्राभ्यो भिन्नास्तद्यथोक्तवाक्यादपीन्द्रियाणां भौतिकत्वमित्यर्थः। करणानां भौतिकत्ववदभौतिकत्वे न श्रुतिरस्तीतिद्योतनार्थोऽथशब्दः॥३२॥

अस्य लोकस्य चेत्युक्तं शुक्रमित्यादि चापरम्॥
सर्वेष्वेषु प्रदेशेषु भूतनात्राग्रहः श्रुतौ॥३३॥

किंचास्य लोकस्य सर्वावतो मात्रामपादाय प्रस्वपितीतिब्राह्मणोक्तोऽर्थः शुक्रमादाय पुनरैति स्थानमित्यादिमन्त्रेणापि प्रकाश्यते तेनात्रापि स्वप्नप्रकरणे करणानां

भौतिकत्वं विवक्षितमित्याह। अस्येति। अथोदाहृतवाक्येषु करणानां भौतिकत्वं न भाति तत्राऽऽह। सर्वेष्विति॥३३॥

भूतेभ्यो नापरं वस्तु यस्मादात्मन ईक्ष्यते1066॥३४॥

अतो विषेको भूतानां यः परोऽतीव शुद्धितः॥
तेजोमात्रादिवचसा स एवात्राभिधीयते॥३५॥

श्रुतिगतोक्तवाक्येषु भूतमात्राभ्योऽतिरिक्तग्रहणं किं न स्यात्तत्राऽऽह। भूतेभ्य इति। आत्मनोऽतिरिक्तं वस्तु भूतभौतिकेभ्यो नापरं दृश्यते तस्माद्भूतात्मातिरिक्तविषयत्वे भौतिकविषयत्वस्याऽऽवश्यकत्वाद्युक्तमत्र सर्वत्र भूतमात्राग्रहणमित्यर्थः। उक्तवाक्यानां भूतमात्रार्थत्वात्तदनुसारेण प्रकृतवाक्येऽपि तद्ग्रहणमुचितमिति फलितमाह। अत इति। यो भूतानामुत्तमो विवेकापरपर्यायः परिणामोऽत्यन्तप्रकाशरूपः करणसमुदायः स एव तेजोमात्राः समभ्याददान इति वाक्ये तेजोमात्राशब्देनोच्यत इत्यर्थः॥३४॥३५॥

इन्द्रियाणीन्द्रियार्थाश्च न विकारः परात्मनः॥
अतो न जायत इति तद्विकारनिषेधतः॥३६॥

केचित्तु सविषयाणां करणानां न भौतिकत्वमात्मविकारत्वादित्याहुस्तान्प्रत्याह। इन्द्रियाणीतिउक्तं चैतन्नातः शक्तय आत्मन इति। तत्र हेतुमाह। अत इतिअतोऽन्यदार्तं जायते म्रियते वा विपश्चिदित्यादिनाऽऽत्मनः सर्वविकारनिषेधान्न तद्विकारत्वमिन्द्रियादेरित्यर्थः॥३६॥

जन्मादिविक्रियाषट्कं साक्षान्नपरमात्मनः॥
अपूर्वानपराद्युक्तेर्नेति नेत्यादिवाक्यतः॥३७॥

तत्रैव हेत्वन्तरमाह। जन्मादीति। साक्षादित्यविद्यां विनेत्यर्थः॥३७॥

न च वेदान्तसिद्धान्ते परमात्मातिरेकतः॥
इष्टं विकारवद्वस्तु यथा कापिलशासने॥३८॥

तर्हि तदतिरिक्तमेव किंचित्परमार्थतो विकारि भविष्यति नेत्याह। न चेति॥३८॥

स्वतः कूटस्थतत्त्वस्य तदसंबोधतस्ततः॥
जन्मादिविक्रियाषट्कसंगतिः स्यात्परात्मनः॥३९॥

परस्य कूटस्थत्वे विकारिणश्चान्यस्यानुपगमे निष्कारणं विश्वं स्यादित्याशङ्क्याऽऽह। स्वत इतिमायां तु प्रकृतिमित्यादिश्रुतेराविद्यंकारणत्वं तस्यैव परस्याऽऽस्थेयमित्यर्थः॥३९॥

आत्मकारणवादोऽयमेवं सत्युपपद्यते॥
न तु विध्वस्तनिःशेषजन्मनाशादिकारणे॥४०॥

आत्मनो यदि कारणत्वं तत्तर्हि वस्तुतोऽस्तु किं तदबोधेनेत्याशङ्क्याऽऽह। आत्मेति। एवं सत्यविद्याकृते कारणत्वे स्वीकृते सतीति यावत्। निरविद्ये1067 ह्यात्म1068न्यङ्गीकृते नैवमपूर्वादिश्रुतेरित्याह। न त्विति॥४०॥

तेजोऽतो भौतिकं सर्वमन्यत्र परमात्मनः॥
स्वयंज्योतिःप्रसङ्गेन तदुक्तं प्रागपि श्रुतौ॥४१॥

अज्ञानहीनस्य कूटस्थस्य कारणत्वानुपपत्तेरात्माज्ञानजन्यभूतकार्यत्वमिन्द्रियादेरित्युपसंहरति। तेज इति। ब्रह्मैव तेज एवेत्यत्र व्यभिचारमाशङ्क्याऽऽह। अन्यत्रेति। किंच करणादेर्भौतिकत्वंज्योतिर्ब्राह्मणादावपि साधितमित्याह। स्वयमिति॥४१॥

आदित्यादीनि तेजांसि तथाऽध्यात्माधिभूतयोः॥
भौतिकान्येव तानीति प्रत्यङ् तेभ्यो विलक्षणः॥४२॥

उक्तमेव स्मारयति। आदित्यादीनीति। इति यत्तदुक्तमिति संबन्धः। सर्वस्यभौतिकत्वोक्तिफलमाह। प्रत्यङ्ङिति॥४२॥

ता एतास्तेजसो मात्राःसमस्ताश्चाऽऽभि1069मुख्यतः॥
सामस्त्येनाऽऽददानः सन्हृत्सद्मन्युपसर्पति॥४३॥

स इत्यादेरर्थमनूद्य हृदयमित्यादेरर्थमाह। ता इति॥४३॥

अभ्याददान एवायमन्ववक्रामतीश्वरः॥
न त्वाक्रम्य समादत्ते कथं तदिति भण्यते॥४४॥

करणाभ्यादानस्य हृदयाक्रमणस्य च पौर्वापर्यमाशङ्क्य शानचा विवक्षितं यौगपद्यमाह। अभ्याददान इति। ईश्वरत्वं करणस्वामित्वं वस्तुतो वा परमात्मत्वम्। आत्मनः स्वात्मोपसंहारः करणादानं च युगपन्नोपपद्यते स्थितिगतिवद्व्यापारद्वययौगपद्यायोगादित्याक्षिपति। कथमिति। सप्तदशकलिङ्गोपाधिकत्वादात्मनो लिङ्गसंकोचविकासावेवाऽऽत्मनः संकोचविकासौ न स्वतोऽतो व्यापारद्वयाभावान्न क्रमप्राप्तिरित्याह। भण्यत इति॥४४॥

विशेषज्ञानलाभोऽस्य लिङ्गात्मानुविधानतः॥
यतस्तदपकर्षेण विज्ञानात्मोपसंहृतिः॥४५॥

तद्व्याप्तौ चापि संव्याप्तिरापादतलमस्तकम्॥
स्वतस्तु व्याप्तिसंहाररहितत्वात्परात्मनः॥४६॥

तदेव वार्तिकाभ्यां प्रपञ्चयति। विशेषेत्यादिना। अस्य जीवस्य तदपकर्षेण

लिङ्गस्य देहादवसर्पणेन तद्व्याप्तौ देहे लिङ्गस्य व्याप्तौ सत्यामित्यर्थः। लिङ्गसंकोचविकासावेव तदुपाधेरात्मनस्तावित्यत्र हेतुमाह। स्वतस्त्विति॥४५॥४६॥

सैन्धवादिरसव्याप्ते पीयमाने यथोदके॥
पानं सलवणस्यैवं लिङ्गात्मानुविधायिता॥४७॥

एतद्दृष्टान्तेन साधयति। सैन्धवादीति॥४७॥

सोऽभ्यादानस्य कर्ताऽत्र लिङ्गं योऽस्मीति मन्यते॥
आक्रामद्धृदयं लिङ्गमन्ववक्रामतीव सः॥४८॥

उपहितस्य लिङ्गानुविधायित्वेऽपि करणादानहृदयप्रवेशकर्तुस्ततो भेदाद्व्यर्थं तस्य लिङ्गानुविधायित्वमित्याशङ्क्याऽऽह। स इति। यः सप्तदशकलिङ्गात्मन्यहमभिमानी सोऽस्मिन्वाक्ये करणादानस्य कर्ता स एव10701070 बहिष्कर1071णरूपं लिङ्गमन्तःकरणं प्रविशदनुप्रविशति तदुपाधित्वान्न च तस्य वस्तुतः प्रवेशो निर्व्यापारत्वादित्यर्थः॥४८॥

तथा हृदयशब्देन1072तत्स्था1073 धीर1072भिधीयते॥
एवेत्यवधृतिश्चात्र स्वप्नप्राज्ञनिवृत्तये॥४९॥

हृदयमेवेत्यत्र हृदयशब्दार्थमाह।तथेति। यथाऽभ्याददानोऽन्ववक्रामतीत्युभयत्रापि कर्तोपहितो विवक्षितस्तद्वदित्यर्थः। एवकारकृत्यमाह। एवेतीति॥४९॥

विशेषकार्यवाहिभ्यः स्रोतोभ्यः1074 स्वप्नभूमिगः॥
विशेषाननुसृप्याऽऽत्मा यात्वा हृदयमाश्रयम्॥५०॥

पुरीतरत्प्रमुखं देहं वृत्त्या सामान्यरूपया॥
तप्तलोहादिवद्व्याप्य शेते प्राणात्मतां गतः॥५१॥

कथमनेनावधारणवाचिना स्वप्नस्वापयोर्व्यवच्छित्तिरित्याशङ्क्य तयोः स्वरूपं तावदाह। विशेषेत्यादिना। स्वप्नस्थो हि पुरुषो रूपादिवासनाश्रयनाडीविशेषवशाद्वासनामयान्विशेषाननुभवति स च स्वप्ननिर्वर्तककर्मक्षये सत्यन्तःकरणं प्राप्य प्राणशब्दिताज्ञातब्रह्मतां गतस्तप्तलोहादौ वह्निरिव समस्तं देहं निर्विकल्पकचिदाभासेन व्याप्यावतिष्ठते तथाच्च साभासाया बुद्धेः शरीरे सामान्यव्याप्तिर्द्वयोस्तुल्या वासनारूपेण द्रष्टेत्यादिविशेषव्याप्तिः स्वप्न एवेत्यर्थः॥५०॥५१॥

इह त्वेवेति निःशेषा लिङ्गस्यास्योपसंहृतिः॥
विशेषेभ्योऽविशेषेभ्यो युक्तं प्रत्यवसर्पणम्॥५२॥

द्वयोर्वृत्तमुक्त्वा मृतावेवकारः सर्वप्रकारव्याप्तिं निरस्यतीत्याह। इह त्वितिलिङ्गस्य निःशेषोपसंहारे तदुपाधेरात्मनोऽपि तथा संभवतीत्याह। विशेषेभ्य इति॥५२॥

अवदध्रेऽत एवेति मा भूत्स्वप्नादिवत्स्थितिः॥
सामान्यं वा विशेषो वा न यतोऽत्रावशि1075ष्यते॥
कार्त्स्न्येन हृदयएव1076 पिण्डीभावं व्रजत्यतः॥५३॥

एवकारार्थं निगमयति। अवदध्र इति। स्वप्नसुप्त्योरिव मरणेऽपि स्थितिरात्मनो लिङ्गस्य च मा भूदिति यस्मान्मन्यते श्रुतिस्तस्मादेवेत्यवधृतवतीति यावत्। हृदयमित्यादेरर्थमुपसंहरति। सामान्यं वेति॥५३॥

विधिराकर्षणे तावत्तेजोमात्राश्रयो10771077तः॥
अथासंवेदनविधिर्मुमूर्षोरुच्यते यथा॥५४॥

स यन्नेत्यादिवाक्यस्य वृत्तानुवादपूर्वकं तात्पर्यमाह। विधिरिति। करणादानप्रकारमुक्त्वा मुमूर्षोर्मृतिकाले शब्दाद्यज्ञानप्रकारो यथा तथोच्यत इत्यर्थः॥५४॥

साधारणात्मनो र्योऽशो भोक्तृकर्मवशीकृतः॥
अध्यात्मं चक्षुषि रवेश्चक्षुर्व्यापारसिद्धिकृत्॥५५॥

तात्पर्यमुक्त्वा चाक्षुषशब्दार्थमाह। साधारणेति। यो हि सर्वत्र तुल्यस्य रवेरध्यात्मं चक्षुषि रूपादिधीहेतुरनुग्राहकोंऽशो भोक्तृकर्मार्जितः स चाक्षुष इत्यन्वयः॥५५॥

कर्मोपभोगसिद्ध्यर्थं परिच्छिन्नः स्वचक्षुषा॥
चाक्षुषोऽतः स विज्ञेयः सामान्यात्माऽपि भास्करः॥५६॥

किमिति सर्वसाधारणस्य रवेः श्रोत्रत्वादि विहाय चाक्षुषत्वमिष्यते तत्राऽऽह। कर्मेति। साधारणात्माऽपि कर्मफलभोगार्थं भोक्तुः स्वचक्षुषाऽऽदित्यो यतः परिच्छिद्यत आदित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशदिति श्रुतेरतः स चाक्षुषो ज्ञेय इति योजना॥५६॥

स एष पुरुषो यत्र तत्प्रयोक्तृक्रियाक्षये॥
क्षेत्राज्ञार्थात्पराङेव पर्यावर्तत आत्मनि॥५७॥

स यत्रेत्यादेरवशिष्टभागस्यार्थमाह। स एष इति। आदित्यांशश्चक्षुषोऽनुग्राहका देहगतः स्वप्रयोजकभोक्तृकर्मक्षये1078 भोक्तुर्भोग्ये1078भ्यो विमुखः स्वावयविदेवतारूपे यदा पर्यावर्तते तदाऽरूपज्ञो भवतीत्यर्थः॥५७॥

निरनुग्रहतैवास्य पर्यावर्तनमुच्यते॥५८॥

हृल्लिङ्गप्रसृतो र्योऽश उपभोगार्थमक्षिणि॥
सोऽस्य कर्मक्षयादक्ष्णः पराङावर्तते हृदि॥५९॥

पर्यावर्तनं व्याकरोति। निरनुग्रहतेति। अनुग्राहकादित्यांशस्यांशिदेवतात्मनोपसंहारेऽपि करणस्य चक्षुषो रूपधीहेतुत्वसंभवाद्भोगो भोक्तुः सिध्यतीत्याशङ्क्याऽऽह। हृदिति। हृच्छब्देन लिङ्गमेवोच्यते। अस्येति भोक्तुर्निर्देशः। अक्षिशब्दोऽत्र

स्थानार्थः। यदा हि देवतांशश्चाक्षुषो देवतामापद्यते तदा चक्षुरपि करणं स्थानाद्व्यावृत्तं लिङ्गमेवैत्यतो न तस्य कार्यकर1079णतेत्यर्थः॥५८॥५९॥

चाक्षुषे पुरुषे तस्मिन्नावृत्ते कर्मणः क्षयात्॥
देवता देवतामेति लिङ्गैक्यं करणं तथा॥६०॥

स यत्रेत्यादेरर्थमुपसंहरति। चाक्षुष इति॥६०॥

अथैवं सत्यरूपज्ञो देवताकरणच्युतेः॥
आत्मैवमुक्तानुक्तेषु योज्यं प्राणेष्वशेषतः॥६१॥

अथारूपज्ञो भवतीत्यस्यार्थमाह। अथैवमिति। अथशब्दस्य तदापर्यायस्य व्याख्यानमेषं सतीति देवतांशस्य देवतैक्यं करणस्य लिङ्गैक्यमित्येवं स्थिते सतीत्यर्थः। देवताच्युतिरनुग्राहकनिवृत्तिः करणच्युतिः स्थानभ्रंशः। मुमूर्षोर्मरणकाले रूपावेदनप्रकारं प्रदर्श्य गन्धादिवेदनाभावप्रकारमतिदिशति। एवमिति। चक्षुष्युक्तमवेदनोपयोगि सर्वं घ्राणादिष्वपि द्रष्टव्यमिति यावत्॥६१॥

चेतनावदधिष्ठानात्करणादेर्जडात्मनः॥
प्रवृत्तिर्नियता दृष्टा लोकेऽतो न विपर्यये॥६२॥

इतश्च मृतिकाले युक्तमात्मनो विषयाज्ञानमित्याह। चेतनावदिति। लोके हि चेतनावता पुरुषेणाधिष्ठानादचेतनस्य शकटादेर्गमनादिप्रवृत्तिर्नियता दृष्टा तदनधिष्ठिते त्वचेतने न कदाचिदपि प्रवृत्तिरतोऽस्यापि संघातस्य तदधिष्ठितस्यैव प्रवृत्तिर्विमता प्रवृत्तिश्चेतनाधिष्ठानपूर्विकाऽचेतनप्रवृत्तित्वाद्रथादिप्रवृत्तिवदित्यनुमानस्य यः प्राणेन प्राणितीत्यत्र दर्शितत्वात्तथाचमरणकाले चेतनस्याधिष्ठातृत्वाभावात्कार्यकरणयोरप्रवृत्तेर्युक्तमात्मनो विषयावेदनमित्यर्थः॥६२॥

अरूपज्ञत्वहेतुः क इत्याशङ्क्योत्तरं वचः॥
लोकप्रसिद्धिमाचष्ट एकीत्यादि मुमूर्षति॥६३॥

एकी भवतीत्यादेराकाङ्क्षापूर्वकं तात्पर्यमाह। अरूपेति। मुमूर्षति पुरुषे देवताकरणच्युतिरेवारूपज्ञत्वहेतुरित्यत्र लोकप्रसिद्धिमेकी भवतीत्यादिवाक्यमाहेत्यर्थः॥६३॥

एकी भवति सावित्रः सवित्रांऽशस्तथैव च॥
लिङ्गांशश्चाक्षुषो व्यूढो लिङ्गैक्यं प्रतिपद्यते॥६४॥

तद्योजयन्नेकी भवतीत्यस्यार्थमाह। एकी भवतीति। व्यूढत्वमादित्यानुपग्राह्यत्वेन चक्षुस्थानावच्छिन्नत्वम्॥६४॥

स्वांशिभ्यामेकतापत्तौ देवतालिङ्गभागयोः॥
अथारूपज्ञतामेति यः प्राग्रूपादिवेद्यभूत्॥६५॥

न पश्यतीत्यस्यार्थमाह। स्वांशिभ्यामिति। अनुग्राह्यानुग्राहकनिवृत्ते रूपज्ञानाभावस्य च हेतुहेतुमत्त्वार्थोऽथशब्दः। रूपाद्यवेदनस्य स्वभावत्वं व्यावर्तयति। य इति॥६५॥

अथैनं पार्श्वगाः प्राहुर्बन्धवोऽस्य मुमूर्षतः॥
वाक्यमेकी भवतीति निराशास्तस्य जीविते॥६६॥

इत्याहुरित्यस्यार्थमाह। अथेति। कालार्थोऽथशब्दः॥६६॥

करणे देवता यस्मिन्पूर्वंमुञ्चत्यनुग्रहम्॥
तस्यैव प्रथमं वृत्तिनिरोध उपजायते॥६७॥

देवताकरणभागगमनमज्ञानकारणं मरणे श्रुत्युक्तं लोकप्रसिद्ध्याऽपि दृढीकृतम्। इदानीं तस्याज्ञानस्य पाठक्रमानुसारेण क्रमविवक्षायामनुभवविरोधः कस्याश्चिद्वाचो वृत्तिरादौनिरुध्यते कस्यचिदिन्द्रियान्तरस्येत्यनुभवादित्याशङ्क्याऽऽह। करण इति। आनुभविकमर्थमनुसृत्य पाठक्रमो बाध्य इत्यर्थः॥६७॥

कस्मिंश्चित्करणे वृत्तिनिरोधः पूर्वमीक्ष्यते॥
अयौगपद्येनोत्क्रान्तौ तल्लिङ्गं देवतात्मनाम्॥६८॥

स चेदुपेक्ष्यते यौगपद्यमेव करणोत्क्रमणादेरस्तु किं क्रमान्तरानुसरणेनेत्याशङ्क्यानुभवमेवाऽऽश्रित्याऽऽह। कस्मिंश्चिदिति॥६८॥

यदाऽऽलोचनमात्रं स्याद्रूपादौ चक्षुरादिभिः॥
प्रविवेक्ता तु रूपादेः सम्यङ्नैव पुमान्भवेत्॥६९॥

तदोत्क्रान्तां विजानीयान्मनसो देवतामितः॥
केवलालोचनाल्लिङ्गात्तथा बुद्धेश्चदेवताम्॥७०॥

चक्षुरादिदेवतोत्क्रान्तौ तद्वृत्तिविशेषनिरोधवन्मनोबुद्धिदेवतोत्क्रान्तौ लिङ्गाभावात्तदुत्क्रान्तिनिश्चयो न स्यादित्याशङ्क्याऽऽह। यदेति। केन पुनर्लिङ्गेन मनोबुद्धिदेवतोत्क्रान्तिरुच्यते तत्राऽऽह। केवलेति। मनोदेवतावद्बुद्धेरपि देवतामुत्क्रान्तां विजानीयादिति पूर्वेण संबन्धः॥६९॥७०॥

एवं तद्देवतोत्क्रान्तावेकीभावेन संगतेः1080
मनुते1081 नो10811081 जानातीत्येवमाहुस्तथा10821082नाः॥७१॥

एकी भवतीत्यादेरर्थमाह। एवमिति। चक्षुरादिदेवतावन्मनोदेवताया बुद्धिदेवतायाश्चास्माद्देहादुत्क्रान्तौ सत्यां मनोदेवतायाश्चन्द्रमस्यैक्यान्न मनुते बुद्धिदेवतायाश्च। प्रजापतिनैक्यान्न जानातीत्येवं तस्यामवस्थायां पार्श्वस्था ब्रुवन्तीति योजना॥७१॥

उक्तंविमोक्षणं तावत्करणानां स्वदेशतः॥
असंविज्ञानता चोक्ता हृदये चोपसंहृतिः॥७२॥

तस्येत्यादिवाक्यार्थं वक्तुं वृत्तं कीर्तयति। उक्तमिति॥७२॥

अथोपसंहृताशेषकरणस्याऽऽत्मनो यथा॥
लोकान्तरोपसं1083क्रान्तिस्तथैतदभिधीयते॥७३॥

वाक्यतात्पर्यमाह। अथेति। एतदिति हृदयाग्रप्रद्योतनादि गृह्यते॥७३॥

तस्यैतस्य यथोक्तस्य कृत्स्नप्राणोपसंहृतेः॥
नाड्यग्रं हृदयस्याथ प्रकर्षेण प्रकाशते॥७४॥

वाक्याक्षराणि व्याकरोति। तस्येति। यथोक्तस्येत्येतदेव व्यनक्ति। कृत्स्नेतिकृत्स्नानां प्राणानामुपसंहृतिर्यस्मिन्हृदये तस्येति विग्रहः। करणोपसंहारानन्तर्यमथशब्दार्थः।पूर्ववार्तिकस्थाथशब्दस्याप्ययमेवार्थः॥७४॥

सर्वेषु संहृतेष्वेवं करणेषु सवायुषु॥
बुद्धेः प्रद्योततेऽथाग्रंहृदयस्य यियासतः॥७५॥

उक्तमेव व्यनक्ति। सर्वेष्विति। परलोकं गन्तुमिच्छतो जन्तोर्यद्धृदयं तत्संबन्धिनाडीमुखं मरणकाले सर्वकरणोपसंहारे सति प्रकाशत इत्यर्थः। हृदयस्येत्यस्य व्याख्या बुद्धेरिति। पुरुषस्य परलोकौन्मुख्यानन्तर्यमथशब्दार्थः॥७५॥

स एष कर्मजो बुद्धेः प्रकाशो जायते मृतौ॥
स्वकर्मनिर्मितं लोकं येनाऽऽत्माऽयं प्रपश्यति॥७६॥

हृदयाग्रप्रद्योतस्य किं कारणं तदाह। स इति। यः स मृतिकाले प्रकाशो बुद्धेर्जायत एष कर्मज इति योजना। तस्य कार्यमाह। स्वकर्मेति॥७६॥

कर्मणैवास्य विज्ञानं तादात्म्यमुपनीयते॥
पश्चादापन्नतद्भावो देहमेतं विमुञ्चति॥७७॥

कर्मवशाद्भाविदेहज्ञानमुत्पद्यते चेत्तर्हि तत्र ममतामहंतां वा समुल्लिखेदित्याकाङ्क्षायामाह। कर्मणैवेति। उच्चिक्रमिषोस्तावत्कर्मवशाद्भाविदेहज्ञानमुत्पन्नं तेन1084स्व1084विषयेण सह पुरुषस्य तादात्म्यं तद्वशादेवोपस्थाप्यते तथाचाहंभावो भाविदेहे भवतीत्यर्थः। तत्र प्रवृत्ताहंभावस्य फलमाह। पश्चादिति॥७७॥

भाविलोकात्मिका याऽस्य प्रत्यक्चैतन्यविम्बिता।
वासनैवाऽऽत्मनः प्रोक्ता प्रद्योतवचसा स्फुट1085म्॥७८॥

उपसंहृतकरणवर्गस्य मरणकाले कथं भाविदेहज्ञानसंभावना न हि कर्मणोऽसहायस्य

तद्धेतुतेत्याशङ्क्याऽऽह। भावीति। मरणात्प्रागेव षण्मासादारभ्याहमस्मीति पुंसो योऽभिमानो जायते सोऽत्र प्रद्योत इत्यर्थः॥७८॥

मात्रोपादानरूपेण स्वेन भासा पुराऽब्रवीत्॥
स्वेनैव ज्योतिषा स्वप्ने यथा तद्वदिहापि तत्॥७९॥

तथाऽपि मरणकाले करणव्यतिरेकेण नोक्तज्ञानव्यक्तीभावो न हि मनसोऽभावे वासनाऽपि समुल्लसेदित्याशङ्क्याऽऽह। मात्रेति। यथा स्वप्ने जाग्रद्वासनादानरूपेण स्वेन भासा चैतन्यज्योतिषा च करणव्यतिरेकेण ज्ञानं ज्योतिर्ब्राह्मणे श्रुतिरुक्तवती तथा मृतिदशायामपि यथोक्तं प्रद्योतनं युक्तं न हि तदा बुद्धिरुपसंहृता तदुपसंहारेऽपि प्रद्योतोपपत्तिः स्फुटी भविष्यतीत्यर्थः॥७९॥

प्रद्योतेन यथोक्तेन प्रद्योतितपथा कृत—
कर्मकार्योऽथ हृदयानिष्क्रामति यथासुखम्॥८०॥

तेनेत्यादिवाक्यतात्पर्यमाह। प्रद्योतेनेति। फलभोगकाले प्राप्ते सतीत्यथशब्दार्थः। असुखं सुखमिति वा छेदः॥८०॥

साध्वेवातः प्रयत्नेन कर्म कार्यं विपश्चिता॥
पश्यता प्राणिनामेवं कर्ममूलामिमां गतिम्॥८१॥

अथ मृतिकाले बाह्यमान्तरं च वृत्तं पुमर्थानुपयोगि किमर्थं कथ्यते तत्राऽऽह। साध्विति। अतःशब्दार्थं स्फुटयितुं विशिनष्टि। पश्यतेति॥८१॥

आत्मा स्वकर्मणोपात्तं प्रद्योतेन यथोचित1086म्॥
लोकं पश्यन्स्वहृदयान्निष्क्रामति यथायथम्॥८२॥

हृदयान्निष्क्रामन्नात्मा केन प्रकारेण निष्क्रामति तत्राऽऽह। आत्मेति। उक्तप्रद्योतेन कर्मार्जितं लोकं पश्यन्नात्मा यथाकर्म यथाश्रुतं चक्षुरादिद्वारा हृदयान्निष्क्रामतीत्यर्थः॥८२॥

चक्षुष्टो वाऽथ मूर्ध्नोवा यं यं लोकं प्रपत्स्यते॥
तद्द्वारेणैव निष्क्रामन्न क्वचित्प्रतिहन्यते॥८३॥

यथायथमित्येतदेव स्फुटयति। चक्षुष्टो वेति॥८३॥

आदित्यलोकसंप्राप्तौ चक्षुष्टोऽयं निगच्छति॥
ब्रह्मलोकपरिप्राप्तौ मूर्ध्न आत्मा निगच्छति॥८४॥

उक्तविकल्पस्य व्यवस्थामाह। आदित्येति॥८४॥

कर्मश्रुतानुरोधेन ह्यन्येभ्यो वा यथायथम्॥
हृदयसृत1087नाडीभिरित आत्मा निगच्छति॥८५॥

अन्येभ्यो वेत्यादेरर्थमाह। कर्मेति। प्रदेशान्तरेभ्यो विनिर्गमनमनुभवानुसारीति हिशब्दार्थः। आत्मनस्तेभ्यो विनिर्गमनमार्गमाह। हृदयेति॥८५॥

लिङ्गं च सर्वतो गच्छन्न क्वचित्प्रतिहन्यते॥
अतिसूक्ष्मस्वभावत्वादपि लोहसमुद्रगम्1088॥८६॥

देहाद्बहिर्गतस्यापि प्रतीचो न देहान्तरगमनसंभवो बहुविधपदार्थप्रतिहतस्य गत्यनुपपत्तेरित्याशङ्क्य लिङ्गस्याप्रतिघातात्तदुपाधेरात्मनोऽपि न क्वचित्प्रतिहतिरित्याह। लिङ्गं चेति। किंचाभेद्यादपि लोहादेः समुद्गच्छत्तेनाप्रतिहतं लिङ्गं न केनचित्प्रतिहन्यत इत्याह। अपीति॥८६॥

उत्क्रामन्तं तमात्मानं यथोक्तेनेह वर्त्मना॥
प्राणोऽनूत्क्रामति ततः प्राणं प्राणास्तथा परे॥८७॥

तमुत्क्रामन्तमित्यादेरर्थमाह। उत्क्रामन्तमिति। यथोक्तेन हृदयामप्रद्योतप्रकाशितेन पथेति यावत्॥८७॥

नन्वात्मप्राणवागादेरन्योन्यव्यतिमिश्रणात्॥
देशकालाद्यसंभेदात्क्रमेणोत्क्रमणं कथम्॥८८॥

श्रुतं क्रममाक्षिपति। नन्विति॥८८॥

नैष दोषो यतो नेह क्रमकालो विवक्ष्यते॥
प्रयोजकप्रयोज्यत्वं यतोऽमीषां विवक्षितम्॥८९॥

तस्याविवक्षितत्वान्नैतदित्याह। नैष इति। इहेत्युत्क्रमणं परामृश्यते। क्रमस्याविवक्षितत्वे हेतुमाह। प्रयोजकेति। आत्मनः प्राधान्यं प्राणस्य गुणत्वं तस्य प्राधान्यं वागादीनां गुणत्वमित्येतद्यतोऽत्र विवक्षितमतः क्रमस्याविवक्षितत्वात्तदभावो न दोषमावहतीत्यर्थः॥८९॥

इहोच्चिक्रमिषा याऽस्य विज्ञानात्मैकसंश्रया॥
प्राणोत्क्रान्तेः प्रयोक्त्री सा वागाद्युत्क्रमणस्य च॥९०॥

आत्मादीनां प्रयोजकप्रयोज्यत्वं कीदृशमित्यपेक्षायामाह। इहेति। या जगति लोकस्य जीवाश्रयोत्क्रान्तीच्छा सा प्राणस्योत्क्रान्ति प्रयोजयति सा च वागादीनामिति यावत्॥९०॥

मुख्यप्राणस्य योत्क्रान्तिः प्रयोक्त्री सैव नापरा॥
विज्ञानात्मैकडाया भावनायाः प्रधानता॥९१॥

जीवोत्क्रान्तेस्तर्हि किं प्रयोजकं तदाह। मुख्येति। सा हि स्वप्रयोजकत्वेन प्राणोत्क्रान्तिमाक्षिपति सा च जीवोत्क्रान्तिमुत्पादयति कस्मिन्न्वहमित्यादिश्रुतेस्तदुच्चिक्रमिषा-

याश्च कर्मादि प्रयोजकमिति भावः। सविज्ञान इत्याद्यवतारयितुं पातनिकां करोति। विज्ञानेति॥९१॥

सा हि देहान्तरप्राप्तावात्मनो मार्गदर्शिनी॥
तया प्रयुक्तः प्राणोऽयं प्राणानादाय चेतरान्॥९२॥

कथं पूर्वप्रज्ञाख्यभावनाप्राधान्यं तत्राऽऽह। सा हीति। अतो युक्तं तत्प्राधान्यमिति शेषः। मुख्यप्राणस्य योत्क्रान्तिरित्याद्युक्तत्वात्कथं भावनाप्राधान्यमित्याशङ्क्याऽऽह। तयेति। प्रयुक्तो देहान्निष्क्रामतीति संबन्धः॥९२॥

आत्मनाऽनन्यभूतः सञ्जलपात्रार्कवद्बहिः॥
निष्क्रामति यथाकर्म सविज्ञानो भवत्यथ॥९३॥

भावनाबलात्प्राणोत्क्रान्तावपि जीवस्य किमायातं तत्राऽऽह919आत्मनेति। यथा जलपात्रे प्रतिबिम्बितः सविता तदनुविधायी तथा जीवस्तेनाभिन्नः सन्प्राणो यदा देहाद्वहिर्निष्क्रामति तदा तदनुसारी निर्गच्छतीत्यर्थः। तत्र वाक्यं पातयति। यथेति। यथोक्तोत्क्रमणात्प्रागेव श्रुतकर्मानुसारेण भाविदेहविज्ञानसहितो भवति स चोत्क्रान्त्यनन्तरं विशेषज्ञानोद्भासितं गन्तव्यमनुगच्छतीत्यर्थः॥९३॥

ननूपसंहृताशेषकरणत्वादधीः पुमान्॥
तदाकूतानुगुण्यं स्यात्प्राणादेः कथमुच्यते॥९४॥

काण्वश्रुतिं व्याख्यायोत्क्रान्तिवाक्यादनन्तरं संज्ञानमेवान्ववक्रामतीतिमाध्यंदिनपाठमनुसृत्य तद्व्यावर्त्यां शङ्कामाह। नन्विति। पुरुषस्याकरणस्य मरणकाले ज्ञानायोगात्तदभिप्रायानुगुण्यं प्राणादेरयुक्तमित्यर्थः। उत्तरत्वेन माध्यंदिनवाक्यमवतारयति। उच्यत इति॥९४॥

प्रत्यभिज्ञात्मकं ज्ञानं संज्ञानमिति भण्यते॥
पूर्वं यद्धृदयस्याग्रद्यो1089तनेन प्रकाशितम्॥९५॥

भाविनोऽर्थस्य1090 विज्ञानं प्रत्यभिज्ञानमुच्यते॥
स तथोद्भूतविज्ञान आत्मा देहान्निगच्छति॥९६॥

तत्र संज्ञानशब्दार्थमाह। प्रत्यभिज्ञेति। किं तत्प्रत्यभिज्ञारूपं ज्ञानं न हि भावितेऽर्थे पूर्वानुभवाभावे तदीयसंस्कारसमुत्थं ज्ञानं युक्तं तदाह। पूर्वंयदिति। अस्य पुंसो मुमूर्षोर्भावितार्थज्ञानं हृदयाग्रप्रद्योतशब्दितं मरणात्प्रागेव षण्मासादारभ्य प्रवृत्तं जीवदवस्थायामिव मरणावस्थायामपि प्रत्युपस्थितं देवोऽस्मीत्याद्याभिमानात्मकं प्रत्यभिज्ञानमत्रेष्टमित्यर्थः। पाठक्रमादुत्क्रान्तेरनन्तरभावीदं प्रत्यभिज्ञानमित्याशङ्क्याऽऽह। स तथेति। स हि मुमूर्षुरुक्तरीत्योत्पन्नप्रत्यभिज्ञानाख्यज्ञानोपेतो देहाद्बहिर्गच्छति

प्रत्यभिज्ञानस्य प्रागेव प्रवृत्तत्वात्पाठक्रमस्त्वविवक्षितोऽन्यथोत्क्रान्तेरपि क्रमप्रसङ्गात्तस्य च प्रत्युक्तत्वादित्यर्थः॥९५॥९६॥

हृदयाग्रप्रकाशेन निष्क्रान्तस्यापि देहतः॥
निःसंबोधस्य गमनं कथं देहान्तरं प्रति॥९७॥

स एष इत्यादिवाक्यव्यावर्त्यांशङ्कामाह। हृदयेति॥९७॥

इत्यस्य परिहाराय स इत्यादि परं वचः॥
स एष ज्ञः परो1091 देवः सविज्ञानो भवत्यथ॥९८॥

उत्तरं वाक्यमादत्ते। इत्यस्येति। तदेव पठति। स इति। उत्क्रान्त्यानन्तर्यमथशब्दार्थः॥९८॥

संहृताशेषकरणोभावनाकर्महेतुतः॥
सविज्ञानो यथा स्वप्नेतथोत्क्रान्तावपीष्यते॥९९॥

स एष ज्ञ1092ःसविज्ञानो भवतीत्युपात्तमाध्यंदिनवाक्यस्यार्थमाह। संहृतेति। स्वप्नबदुत्कान्तौ ध्वस्तसर्वकरणोऽपि चेतनत्वाद्भावनादिना मार्गादिज्ञानसहितो भवत्येवेत्यर्थः॥९९॥

विशेषज्ञानसंबन्धः कर्मणैवास्य हेतुना॥
न तु स्वातन्त्र्यतो लभ्यः स्वातन्त्र्यासंभवादिह॥१००॥

माध्यंदिनश्रुतिमपि व्याख्याय श्रुतिद्वयमनुसरन्भाविदेहादिज्ञानमस्य चेतनत्वात्कर्मानपेक्षं भाविकमित्याशङ्क्याऽऽह। विशेषेति। इहेति मृत्यवस्थोक्तिः॥१००॥

कृतकृत्यो भवेत्सर्वो विशेषज्ञानसंगतिः॥
स्वातन्त्र्येणेह चेल्लभ्या न तु लभ्या तथाऽऽह च॥१०१॥

यं यं वाऽपि स्मरन्भावं त्यजत्यन्ते कलेवरम्॥
तं तमेवैति कौन्तेय सदा तद्भावभावितः॥१०२॥

तत्रास्वातन्त्र्ये हेतुमाह। कृतकृत्य इति। इहेति पूर्ववत्। उक्तेऽर्थे व्यासवाक्यं प्रमाणयति। तथेति। सफलायाः स्मृतेरन्तराले हेतुमाह। सदेति॥१०१॥ १०२॥

एवमात्मा सविज्ञानो गन्तव्यं यत्पुराऽर्जितम्॥
तदात्मभावविज्ञानस्तदेवातो निगच्छति॥१०३॥

उभयोरपि शाखयोर्वाक्यद्वयस्यार्थमुपसंहरति। एवमिति। कर्मवशादित्यतःशब्दार्थः॥१०३॥

यत एवमतः पुम्भिः स्वातन्त्र्यार्थं प्रयत्नतः॥
योगादिसाधनाभ्यासः कर्तव्यः पुण्यसंचयः॥१०४॥

उक्तां कर्मगतिं परामृश्य वाक्यद्वयाभिप्रायं प्रकटयति। यत इति। ननु कर्मानुसारी पुरुषो न स्वतन्त्रः स कथं पुण्यसंचये नियुज्यते तत्राऽऽह। प्रयत्नत इति। कर्मानुसारिणोऽपि राजादिवदविरुद्धं स्वातन्त्र्यमिति भावः। योगश्चित्तवृत्तिनिरोधस्तदङ्गानि यमप्रभृतीनि तेषां साधनानामभ्यासो विशिष्टपुण्योपचयश्च तात्पर्येण कार्यो मृतिकाले पारवश्यव्यावृत्त्यर्थमित्याह। योगादीति॥१०४॥

सर्वशास्त्रसमारम्भस्तदर्थोऽयं महानिह॥
वाङ्मनःकायसाध्यानामुपायानां प्रबुद्धये॥१०५॥

किंच सर्वस्य शास्त्रस्य शुभकर्मविधायित्वेनाशुभकर्मनिषेधित्वेन चाऽऽरम्भो महानिति व्य1093वहारभूमौ दृश्यते सोऽपि मृतिकाले स्वातन्त्र्यार्थं पुण्योपचयकार्यतां दर्शयतीत्याह। सर्वेति। तदर्थ इत्येतदेव स्फोरयति। वागिति॥१०५॥

तथाऽनर्थपरिप्राप्तावुपायानां निषेधनम्॥
एतावानेव शास्त्रार्थः कर्त्रधीनः सुखाप्तये॥१०६॥

अनिष्टसाधननिषेधोऽपि निषेधशास्त्रेण क्रियते तच्च पुण्यविधिवदन्तकाले स्वातन्त्रार्थं दुरितनिबर्हणकार्यतां दर्शयतीत्याह। तथेति। यद्यपि शास्त्रेण धर्मो विधीयते निन्द्यते चाधर्मस्तथाऽपि धर्मानुष्ठानमधर्मत्यागश्चेत्येतावन्मात्रेण कथं पुमर्थसिद्धिस्तत्राऽऽह। एतावानिति। सुखदुःखाप्तिहानार्थं धर्मोपचयादिरेव शास्त्रोक्तः कर्तव्योनान्यः कर्तृतन्त्रः पुमर्थहेतुस्तस्मान्मृतिकाले स्वातन्त्र्यार्थं धर्मोऽनुष्ठेयोऽधर्मश्च त्याज्य इत्यर्थः॥१०६॥

मात्रालक्षणमादानं कृत्वा स्वप्नस्य सर्जनम्॥
यथेह न तथा किंचिदुपादानं समीक्ष्यते॥१०७॥

सविज्ञान इत्यादि व्याख्याय तं विद्येत्यादिवाक्यव्यावर्त्यमाह। मात्रेति। यथा स्वप्ननिर्माणं जाग्रद्वासनाकर्मभ्यामिष्टं तथा लोकान्तरनिर्माणकारणं न किंचिद्दृष्टमित्यर्थः॥१०७॥

अथैवं देवतात्यक्ते लिङ्गे देहाद्वहिर्गते॥
लोकान्तरगतौ हेतुर्लोकारम्भे च भण्यताम्॥१०८॥

कार्यकरणतदधिष्ठातृदेवतावशाद्देहान्तरगतिस्तदारम्भश्चेत्याशङ्क्याऽऽह। अथेति। अथारूपज्ञो भवतीत्यादावुक्तन्यायेनाऽऽह। एवमिति॥१०८॥

आत्मनः परलोकाययत्स्याद्गमनकारणम्॥
भुङ्क्ते गत्वा च यत्तत्र देहारम्भे च कारणम्॥१०९॥

आत्मनस्तर्हि विनैव कारणं देहान्तरगमनादि स्यादत आह। आत्मन इति। कथ्यतामित्युत्तरेण संबन्धः। कारणं विना कार्यायोगादिति भावः॥१०९॥

लिङ्गानस इतो देहाद्देहमन्यं निगच्छतः॥
संभारः कोऽस्य गत्यर्थो देहारम्भे च कथ्यताम्॥११०॥

लिङ्गमेव तर्हि केवलं गत्यादिहेतुरित्याशङ्क्य स्थूलदेहानपेक्षस्य तस्याकिंचित्करत्वान्मैवमित्याह। लिङ्गेति। अस्य लिङ्गानस इति संबन्धः। लिङ्गमेवानो यस्य सोऽयं लिङ्गानास्तस्येति यावत्॥११०॥

इतो जिगमिषुं विद्याकर्मणी ये पुराऽर्जिते॥
तं समन्वारभेते ते या1094चाभू1094त्पूर्ववासना॥१११॥

परलोकनिर्माणे तद्गतौ भोगे च कारणं वक्तुं तं विद्येत्यादिवाक्यमिति मन्वानस्तदादत्ते। इत इति॥१११॥

विज्ञानं संशयज्ञानं मिथ्याज्ञानमथापि वा॥
प्रमाणतोऽप्रमाणाद्वा सर्वं विद्येति भण्यते॥११२॥

विद्यां व्याचष्टे। विज्ञानमिति। ज्ञानमात्रमत्र विद्येत्यर्थः॥११२॥

संसारकारणध्वंसि यत्तु ज्ञानं परात्मगम्॥
तदत्र न परिग्राह्यं सर्वापत्कारणापनुत्॥११३॥

ब्रह्मज्ञानमपि तर्हि विद्याशब्देनात्र ग्राह्यमित्याशङ्क्याऽऽह। संसारेति। तस्याग्राह्यत्वे हेतुः। सर्वेति। विद्येत्यत्र बन्धहेतुर्गृह्यते तद्धेतुकर्मादिसाहचर्यात्। ब्रह्मज्ञानं तु तद्ध्वंसित्वान्नेह विद्याशब्दमर्हतीत्यर्थः॥११३॥

संसारकारणं तस्मादात्माज्ञानावि1095रोधि यत्॥
अप्राप्तपरमार्थार्थं ज्ञानमात्रं1096 जि1096घृक्षितम्॥११४॥

तस्यात्राग्रहे फलितमाह। संसारकारणमिति। तदविरोधित्वे हेतुमाह। अप्राप्तेति॥११४॥

वाङ्मनःकायसाध्यं च शास्त्रतो यदि वाऽन्यतः॥
दृष्टादृष्टार्थरूपं यत्तच्च कर्मेति गृह्यते॥११५॥

कर्मशब्दार्थमाह। वागिति। व्यापारमात्रमत्र कर्मेत्यर्थः॥११५॥

अन्वारभेते गच्छन्तं यथोक्ते ज्ञानकर्मणी॥
गच्छन्तं पुरुषं यस्मादन्वेते स्वस्वभावतः॥
गच्छतोऽतोऽनुशब्दोऽत्र पश्चादर्थे प्रयुज्यते॥११६॥

उक्तविद्याकर्मानुवादपूर्वकं तं समन्वारभेते इतिभागमादत्ते। अन्वारभेते इति

तस्यार्थमाह। गच्छन्तमिति। स्वस्वभावतो ज्ञानकर्मणोराश्रयपारतन्त्र्यस्वाभाव्यादित्यर्थः॥११६॥

गमनादिविधौ पुंसः साधनत्वं निगच्छतः1097॥११७॥

कर्मणः क्रियमाणस्य संस्कारो यो हृदि श्रितः॥
तत्फलस्य च भुक्तस्य पूर्वप्रज्ञेति सोच्यते॥११८॥

यत्तु संभारः कोऽस्येत्यादि तत्राऽऽह। गमनादीति। आदिपदेन देहेन देहान्तरारम्भ गृह्यते। पूर्वप्रज्ञां व्याचष्टे। कर्मण इति॥११७॥११८॥

पूर्वोपचितसंस्कारहेतुभ्यः साऽभिजायते॥११९॥

षण्मासशेषप्रोद्भूता वासना1098 याऽस्य देहिनः॥
मरिष्यतोऽन्यदेहार्थं पूर्वप्रज्ञेति तां विदुः॥१२०॥

अन्तःकरणाश्रिता कर्मतत्फलसंस्कारसंज्ञिता पूर्वप्रज्ञा सदभिव्यक्तिकारणमाह। पूर्वेति। उपात्तकर्मापूर्वाख्यहेतुभ्यां मृतिकाले पूर्वोक्ता पूर्वप्रज्ञा कार्याभिमुख्येनाऽऽविर्भवतीत्यर्थः। पूर्वप्रज्ञाशब्दस्यार्थान्तरमाह। षण्मासेति॥११९॥१२०॥

समर्था सैव ते यस्मादुद्बोद्धुं ज्ञानकर्मणी॥
नरस्यातः प्रधानत्वात्पृथक्तस्या ग्रहः कृतः॥१२१॥

तस्या विद्याकर्मभ्यां पृथक्कथने को हेतुस्तत्राऽऽह। समर्थेति। न हि मृतस्य विद्याकर्मणी स्वरूपेण स्थातुमर्हतः कारकभेदाभावादतो वासनात्मनैव स्थितेस्तयोस्तत्प्राधान्यात्तस्या युक्ता पृथगुक्तिरित्यर्थः॥१२१॥

समासेनैव निर्दिष्टे कारणत्वाविशेषतः॥
अन्योन्यकारणत्वाच्च श्रुत्येह ज्ञानकर्मणी॥१२२॥

तर्हि पूर्वप्रज्ञावदसमासकरणं विद्याकर्मणोरपि स्यान्नेत्याह। समासेनेति। ज्ञानकर्मणी हि पूर्वप्रज्ञायां कारणत्वाविशेषात्तत्कारणे श्रुत्या समासेनैवोक्ते एकस्मिन्कार्ये कारणत्वेनैकरूप्यात्तस्य युक्तत्वादित्यर्थः। किंच प्रज्ञाया विद्याकर्मणोश्चान्योन्यं कार्यकारणभावात्कार्यकारणकोट्योर्युक्तं द्वैराश्यमित्याह। अन्योन्येति। इह ज्ञानकर्मपूर्वप्रज्ञाख्यार्थेषु मिथोहेतुफलभावाज्ज्ञानकर्मणी श्रुत्या पृथक्कृते पूर्वप्रज्ञा च ताभ्यां पृथक्कृतेति योजना॥१२२॥

पूर्वप्रज्ञात उद्भूतिर्विद्यायाः कर्मणो यतः॥
ताभ्यां च भावनोद्भूतिर्निर्देशोऽतो यथोदितः॥१२३॥

तदेव स्फुट्यते। पूर्वेति॥१२३॥

कर्मणो भुज्यमानस्य परिशेषो हि भावना॥
मूलं च जायमानस्य प्रधानं तेन भण्यते॥१२४॥

तस्यास्तयोश्च मिथो हेतुहेतुमत्त्वे त्रयाणामविशेषात्कथं पूर्वप्रज्ञाप्राधान्यमित्याशङ्क्याऽऽह। कर्मण इति। परिशेषो नाम फलवासना। हिशब्दापेक्षितं फलितमाह। प्रधानमिति॥१२४॥

परिच्छेत्त्रीविनिर्मात्री विद्या लोकान्तरस्य हि॥
विकर्तृ कर्म वोढ्रीच पूर्वप्रज्ञेहपूर्वयोः॥१२५॥

त्रयाणां कार्यविशेषोक्तिपूर्वकं वाक्यार्थमुपसंहरति। परिच्छेत्त्रीति। परिच्छेत्तृत्वं विद्याया विकर्तृत्वं च कर्मणो लोकसिद्धमिति हिशब्दार्थः। सप्तमी निर्धारणे॥१२५॥

नानाविकल्पसद्भावात्संदेहो गमनं प्रति॥
पक्षीव वृक्षात्किं तावत्परिच्छिन्नो व्रजत्ययम्॥१२६॥

विद्यादिसंघातवतो देहान्तरप्राप्तिरुक्ता संगति तृणजलायुकावाक्यमवतारयितुं भूमिकामाह। नानेति। वादिविप्रतिपत्तिमूलं संदेहमेव व्याकुर्वन्नादौ दिगम्बरमतमाह। पक्षीति॥१२६॥

आतिवाहिकदेहेन किंवा देहान्तरं प्रति॥
गतिर्विकाशसंकोचौ भिन्नकुम्भस्थदीपवत्॥
मतं वा किं मनोमात्रं देहाद्देहान्तरं व्रजेत्॥१२७॥

देवतावादिमतमाह। आतिवाहिकेति। देवता येन देहेन विशिष्टं जीवं परलोकं नयति सोऽयमातिवाहिको देहस्तेनेति यावत्। सांख्यादिमतमाह। विकाशेति। वैशेषिकादिपक्षमाह। किमिति॥१२७॥

किंवा सर्वगतानां स्यात्करणानामिहाऽऽत्मनि॥
श्रुतकर्मानुरोधेन वृत्तिहान्युद्भवौ क्वचित्॥१२८॥

औपनिषदं दर्शनं दर्शयति। किंवेति। इहेति सिद्धान्तोक्तिः। क्वचिदिति मृतिजीवनावस्थयोर्ग्रहः॥१२८॥

इति भूरिविकल्पायां भूमौ सिद्धान्त उच्यते॥
अनन्ताः सर्व एवैते वाङ्मनःप्राणलक्षणाः॥१२९॥

वादिविवादेन संदेहं कृत्वा तन्निवृत्तये सिद्धान्तमाह। इति भूरीति। तमेव स्फोरयति। अनन्ता इति। सर्वगतत्वपक्षमाश्रित्य श्रुतिप्रवृत्तेस्तद्विरुद्धानि पक्षान्तराणि त्याज्यानीत्यर्थः॥१२९॥

प्राणिकर्मानुरोधेन प्लुष्यादिपरिमाणता॥
इति श्रुत्युक्तितस्तेषां प्रतिप्राणि यथामति॥
यथाकर्म गतिः स्थानं परिच्छेदोऽथ विस्तृतिः॥१३०॥

कथं तर्हि मशकादिदेहेषु हस्त्यादिदेहेषु च प्राणानां संकोचविकासौ तत्राऽऽह। प्राणीतिसमः प्लुषिणेत्यादिश्रुतिमत्र प्रमाणयति। इति श्रुतीति। उक्तश्रुतिवाक्यात्प्राणानां सर्वप्राणिषु ज्ञानकर्मानुरोधेन स्थितिगती परिच्छेदविस्तारौ च निश्चितावित्यर्थः॥१३०॥

स्वातन्त्र्यं पारतन्त्र्यं वाऽणिमाद्यैश्वर्यमेव वा॥
करणानामिदं सर्वं ज्ञानकर्मादिहेतुकम्1099॥१३१॥

तेषां स्वातन्त्र्यादिवद्गत्याद्यपि विद्याद्यनपेक्षमित्याशङ्क्याऽऽह। स्वातन्त्र्यमिति। अणिमादीत्यादिपदेन लघिमा महिमा गरिमा प्राकाम्यं वशित्वमीशित्वं यत्र कामावसायितेत्येतावन्त्युच्यन्ते। उक्तं चैतेषां करणधर्मत्वमध्यवसायो बुद्धिधर्मो ज्ञानं विराग ऐश्वर्यं सात्त्विकमेतद्रूपं तामसमस्माद्विपर्यस्तमिति॥१३१॥

अस्मदादेर्यथा तद्वद्विद्याकर्मानुरोधतः॥
अनात्मनोऽपि चाऽऽनन्त्यं न स्वतः सिद्धमात्मवत्॥१३२॥

करणात्मनो हिरण्यगर्भस्य कर्मादिकृतश्चेत्परिच्छेदस्तर्हि स्वतस्तस्य ब्रह्मवदानन्त्यं एते सर्व एव समाः सर्वेऽनन्ता इति श्रुतेरित्याशङ्क्याऽऽह।**अस्मदादेरिति॥**१३२॥

इतीमं पक्षमाश्रित्य श्रुत्या दृष्टान्त उच्यते॥१३३॥

तृणाग्रस्था जलूकेह प्राप्य तस्मात्तृणान्तरम्॥
संहरत्यात्मनाऽऽत्मानं पूर्वस्मात्तत्र सा क्रमात्॥१३४॥

करणान्याधिदैविकरूपेणानन्तान्याध्यात्मिकरूपेण परिच्छिन्नान्युक्त्वा दृष्टान्तश्रुतिमवतारयति। इतीममिति। करणसर्वगतत्वं गृहीत्वाऽन्तःकरणस्था भावना भाविदेहं स्पृशन्ती पूर्व देहं त्यजतीत्यस्मिन्नर्थे दृष्टान्तोक्तिरित्यर्थः। तां व्याचष्टे। तृणेति। जलूकासद्भावकालः सप्तम्योच्यते। आत्मनेत्यवयविनिर्देशः। आत्मानमित्यपरभागोक्तिः। पूर्वस्मात्तृणादित्येतत्। तत्रेति तृणात्तरमुच्यते॥१३३॥१३४॥

यथैवमेवमात्मेदं शरीरं कर्मणः क्षयात्॥
निहत्याचेष्टमापाद्य स्वात्मलिङ्गोपसंहृतेः॥१३५॥

गमयित्वा तथाऽविद्यां जाड्यं निःसंज्ञतामिदम्1100
अतो1100ऽन्यमाक्रमं देहं प्राप्य भावनयाऽञ्जितः॥
पूर्वदेहस्थमात्मानं संहरत्यात्मनाऽऽत्मनि॥१३६॥

दृष्टान्तमनूद्य दार्ष्टान्तिकं व्याचष्टे। यथेत्यादिना। एवमुक्तरीत्या यथा दृष्टान्तो व्याख्यात एवमेवाऽऽत्मेदं शरीरमारब्धस्य कर्मणो भोगेन क्षयान्निश्चेष्टं निःसंज्ञं चाऽऽपाद्यदेहान्तरं भावनाविषयं लब्ध्वा पूर्वदेहं मुञ्चतीति योजना। स्थूलदेहस्य निःसंज्ञताकरणे हेतुमाह। स्वात्मेति। स्वस्यस्थूलदेहस्याऽऽत्मा लिङ्गं तस्योपसंहृतेरिति यावत्॥१३५॥१३६॥

जलूकावद्गतिरियमात्मनः प्रतिपादिता॥
तत्र देहान्तरारम्भ उपादानं किमात्मनः॥१३७॥

पेशस्कारिवाक्यमवतारयितुं वृत्तं कीर्तयति। जलूकावदिति। तद्व्यावर्त्यां शङ्कामाह। तत्रेति। आत्मनस्तस्मिन्प्रस्तुते देहान्तरारम्भे किमुपादानमस्ति किंवा न नास्ति चेन्न भावरूपं कार्यं सिध्येदस्ति चेत्तद्वाच्यमित्यर्थः॥१३७॥

उपमृद्योषमृद्यास्य नित्योपात्तं किमिष्यते॥
पुनः पुनरपूर्वं वा देहारम्भाय कल्पते॥१३८॥

भूतपञ्चकमेव तदुपादानमिति चेत्तत्राऽऽह। उपमृद्येति। अस्याऽऽत्मनो नित्योपात्तमेव भूतपञ्चकं पूर्वपूर्वदेहोपमर्देनान्यमन्यं देहमारभत आहोस्विदन्यदन्यद्भूतपञ्चकमन्यमन्यं देहं जनयति नाऽऽद्यो भूतपञ्चकस्य तत्तद्देहोपादानत्वे मायायाः सर्वकारणत्वबिरोधान्न द्वितीयो भूतपञ्चकोत्पत्तावपि कारणान्तरस्य मृग्यत्वात्तस्यैव देहान्तरकारणत्वसिद्धेरिति भावः॥१३८॥

इति दृष्टान्तवचसा निर्णयोऽस्योपवर्ण्यते॥१३९॥

पेशस्कारी यथा मात्रामुपादायेह पेशसः॥
विमृद्य रचनां पूर्वांकुरुते रचनान्तरम्॥१४०॥

नवान्नवतरं रूपं कल्याणतरमेव च॥
कल्याणादिति दृष्टान्तो यथा तद्वदिहापि च॥१४१॥

उत्तरवाक्यमुत्तरत्वेनाऽऽदत्ते। इति दृष्टान्तेति। नित्योपात्तमेव भूतपञ्चकमारम्भकमित्यस्यार्थस्य दृष्टान्तेन निर्णयो न च मायावादविरोधः प्रत्यक्चैतन्याश्रितमायाविवर्तभूतपञ्चकपरिणामो जगदिति स्थितेरिति भावः। दृष्टान्तं व्याचष्टे। **पेशष्कारीति।**सुवर्णकारव्यवहारभूमिरिहेत्युक्ता। दार्ष्टान्तिकमाह। इति दृष्टान्त इति। इहेति दार्ष्टान्तिकोक्तिः॥१३९॥१४०॥१४१॥

आपेक्ष्य नवमादानं तत्कार्यं नवमुच्यते॥
श्रुत्या नवतरं रूपं कल्याणतरमेव च॥१४२॥

ननु क्रियमाणस्य देहस्य नवत्वमेवयुक्तं न नवतरत्वं तत्राऽऽह। आपेक्ष्येति

तस्य भूतपञ्चकस्य कार्यं नवमपेक्ष्य तस्मादपि नवं देहान्तरस्याऽऽदानं तदिह भुत्या नवतरं कल्याणतरं चोच्यते तस्मादेतद्देहादि नित्योपात्तभूतकार्यमित्यर्थः॥१४२॥

नित्योपात्तानि भूतानि करणानि च देहिनः॥
द्वे वाव ब्रह्मणो रूपे इति पूर्वमवादिषम्॥१४३॥

तत्र मूर्तमूर्तब्राह्मणं प्रमाणयति। नित्येति। अस्यार्थः। यच्चक्षुरेष तपतीति च स्थूलो देहो लक्षितो योऽयं दक्षिणेऽक्षन्पुरुषो य एष एतस्मिन्मण्डले पुरुष इति च सूक्ष्मो देहो गृहीतस्तत्र सतो ह्येष रसस्त्यस्य ह्येष रस इति च तयोर्भूतपञ्चकारब्धत्वमुक्तमतोऽत्रापि नित्योपात्तमेव तदारम्भकमिष्टमिति॥१४३॥

उपमृद्योपमृद्यैषां रचनां प्राक्तनीं पुनः॥
यथाकर्म यथाज्ञानं कुरुते रचनान्तरम्॥१४४॥

अस्तु यथोक्तदे1101हाद्युपादानं निमित्तं तु वाच्यमित्याशङ्क्याऽऽह। उपमृद्येति॥१४४॥

पित्रादियोग्यं पित्र्यादि ह्युत्तमाधममध्यमम्॥१४५॥

पित्र्यादिलोकेष्वात्माऽयं यथाकर्म यथाश्रुतम्॥
तनुते देहजातानि भूरिरूपाण्यविद्यया॥१४६॥

पित्र्यं वेत्यादि व्याचष्टे। पित्रादीति। तस्मिन्नवान्तरभेदमाह। उत्तमेति। तन्नानात्वमुपायनानात्वाधीनमिति वक्तुंहिशब्दः। पदार्थमुक्त्वा तात्पर्यार्थमाह। पित्र्यादीति॥१४५॥१४६॥

न तु चैतन्यवत्साक्षात्संसारोऽस्य स्वतो मतः॥
इत्यर्थप्रतिपत्त्यर्थमाजगामोत्तरं वचः॥१४७॥

यथोक्तः संसारश्चैतन्यवदात्मनः स्वाभाविकः स्यादित्याशङ्क्य स वा अयमित्याद्यवतारयति। न त्विति॥१४७॥

यच्चास्य वास्तवं रूपं यच्चाविद्योत्थमात्मनः॥
स वा इत्यादिना तस्य निर्णयः क्रियतेऽधुना॥
तन्निर्णयादशे1102षोऽर्थोऽनिर्णीतः स्यात्कथं न्विति1103॥१४८॥

तस्य तात्पर्यमाह। यच्चेति। आत्मनो वास्तवावास्तवरूपद्वयनिर्णये वेदार्थः सर्वोऽपि निर्णीतः स्यादिति फलितमाह। तदिति॥१४८॥

संसारी यो यथोक्तेन ग्रन्थेन प्रतिपादितः॥
तद्गृहीत्यै सशब्दोऽयं तत्स्मृत्यर्थं तथाच वै॥१४९॥

सवैशब्दयोरर्थमाह। संसारीति॥१४९॥

अनात्मभूत एतस्मिन्कार्यकारणलक्षणे॥
संसारे प्रथते योऽर्थ आत्मनाऽनन्यमानगः॥१५०॥

अयंशब्दार्थमाह। अनात्मेति। अविद्यातत्कार्यनिर्मुक्तस्वप्रकाशोऽर्थोऽत्रायमित्युच्यत इत्यर्थः॥१५०॥

यत्साक्षिकौ यथोक्तस्य भावाभावौ प्रसिध्यतः॥
संसारवस्तुनः सोऽयमात्मेत्यत्राभिधीयते॥१५१॥

आत्मशब्दार्थमाह। यदिति। कूटस्थसाक्षी चिद्धातुरत्राऽऽत्मे1104त्यर्थः॥१११॥

व्यभिचारो न यस्यास्ति सर्वेषु व्यभिचारिषु॥
तदवष्टम्भतः सिद्धेर्व्यभिचारस्य सर्वदा॥१५२॥

कूटस्थत्वं साधयति। व्यभिचार इति। सोऽत्राऽऽत्मेति पूर्वेण संबन्धः। तस्याव्यभिचारे हेतुमाह। तदिति॥१५२॥

प्रत्यक्तयाऽस्य साक्षात्त्वादक्रियाकारकत्वतः॥
अनन्यबोधमानत्वादयमित्युच्यते ततः॥१५३॥

भावाभावविभागविधुरस्य सर्वसाधकस्याऽऽत्मनः संप्रयुक्तपुरोवर्तित्वाभावादयमिति कथं व्यपदेशस्तत्राऽऽह। प्रत्यक्तयेति। संनिहितत्वादपरोक्षत्वाच्चाऽऽत्मनोऽयंशब्दवाच्यतेत्यर्थः। साक्षात्त्वं साधयति। अनन्येति। तदेव कथमिति तदाह। अक्रियेति॥१५३॥

निःशेषानात्मतद्धेतुनिराकरणवर्त्मना॥
आत्मत्वमात्मनः सिध्येन्नान्यशेषमनात्मवत्॥१५४॥

घटादिवदयंशब्दवाच्यत्वादात्मा परिच्छिन्नः स्यादिति चेन्नेत्याह। निःशेषेति॥१५४॥

असाधारणसिद्ध्यैव सिद्धिः स्यादात्मवस्तुनः॥
यतोऽत आत्मवस्त्वेव कार्यकारणवज्जगत्॥१५५॥

कथमनात्मतद्धेतुनिरासद्वाराऽऽत्मसिद्धिरात्मातिरिक्तस्य कार्यकारणवस्तुनः सत्त्वादित्याशङ्क्याऽऽह। असाधारणेति। अद्वितीयस्वप्रकाशात्मनि जगतोऽध्यासात्तत्पूर्णता युक्तेत्यर्थः॥१५५॥

न हीदमात्मनः1105 स्था1105नं ततोऽन्यत्रापि वाऽश्नुते॥
आत्मनोऽव्यतिरेकेण यतोऽनात्मा प्रसिध्यति॥१५६॥

आत्मनि जगतोऽध्यस्तत्वं समर्थयते। न हीति। इदमा प्रकृतं जगन्निर्दिश्यते।

उभयत्र हेतुमाह। आत्मन इति। न हि व्यतिरेकाव्यतिरेकाभ्यामनात्मसिद्धिर्व्यतिरेके निःस्वरूपत्वादव्यतिरेकस्य1106 जडाजडयोरयोगादतोऽनात्माऽध्यस्त इत्यर्थः। इहापि पूर्वार्धगं नञ्पदमनुकृष्यते॥१५६॥

आत्मा त्वनात्मप्रत्यक्त्वाद्व्यतिरेकं न सोऽर्हति॥
स्रजीव सर्पदण्डादेः स्रगविद्योत्थवस्तुनः॥
स्रक्तत्त्वव्यतिरेकेण सिद्धिर्नान्यत्र कुत्रचित्॥१५७॥

आत्मनोऽनात्मव्यतिरेकवदनात्माऽपि ततोऽतिरिच्यतामिति चेन्नेत्याह। आत्मा त्विति। आत्मनो भेदाभेदाभ्यामनात्मा न सिध्यतीत्यत्र दृष्टान्तः। स्रजीति। न हि स्रजि भासतस्तदविद्याकल्पितस्य सर्पादेस्तदतिरेकेणान्यत्र सिद्धिर्नापि तदात्मनैव तत्सिद्धिस्तथाऽऽत्मनो व्यतिरेकाव्यतिरेकाभ्यां नानात्मसिद्धिरित्यर्थः॥१५७॥

न चाभावावसाय्येतदभावस्यापि भाववत्॥
प्रत्यङ्मात्रैकयाथात्म्यादश्रुतत्वान्न चार्थतः॥१५८॥

अन्वयव्यतिरेकाभ्यां जगतोऽसिद्धिश्चेदभावावसायितेति नेत्याह। न चेति। किंच जगतोऽभावनिष्ठत्वं श्रुत्या कल्प्यते तदर्थापत्त्या वा नाऽऽद्य इत्याह। अश्रुतत्वादितिनेति नेतीत्यादिश्रुतिर्जगतो भावममृष्यन्ती तस्याभावनिष्ठत्वमर्यादाहेति द्वितीयमाशङ्क्याऽऽह। न चेति॥१५८॥

अनूद्य निखिलं विश्वं तत्तत्त्वप्रतिपत्तये॥
आत्मैवेति श्रुतं यस्मान्नातोऽन्यत्किंचिदिष्यते॥१५९॥

बलीयस्या श्रुत्या दुर्बलायास्तदर्थापत्तेर्बाध्यत्वं हेतुमाह। अनूद्येति। जगतः शून्यत्वमन्यदित्युच्यते॥१५९॥

प्रत्याख्याय न चाऽऽत्मानमनात्मा व्यतिरिच्यते॥
व्यतिरेकस्वभावत्वान्नापि चाऽऽत्मनि सिध्यति॥१६०॥

अभावनिष्ठत्वं जगतो निरस्यान्वयादिनिरासमनुवदति। प्रत्याख्यायेति। आत्मानं विहायानात्मा न स्वातन्त्र्येण सिध्यति निःस्वरूपत्वापत्तेरुक्तत्वान्नाप्यभिन्नतयाऽऽत्मनि तत्सिद्धिर्जडत्वेनाजडाद्व्यतिरिक्तत्वादित्यर्थः॥१६०॥

प्रत्याचष्टे श्रुतिरतः सर्वं नेतीति चाऽऽत्मनि॥
सर्वमात्मेति च तथा व्यतिरेकं निषेधति॥१६१॥

जगतोऽन्वयाभावे मानमाह। प्रत्याचष्ट इति। व्यतिरेकाभावे मानमाह। सर्वमिति॥१६१॥

अपूर्वानपरानन्तरबाह्यं ब्रह्मलक्षणम्॥
उक्तात्मवस्तुस्वाभाव्यादात्मा ब्रह्मेत्यतो वचः॥१६२॥

वा अयमात्मेत्येतद्व्याख्याय ब्रह्मशब्दार्थमाह। अपूर्वेति। सामानाधिकरण्यतात्पर्यमाह। उक्तेति। सामान्यविशेषादिहीनं ब्रह्म तत्र तत्रोक्तं तस्याऽऽत्मस्वरूपत्वादात्मा ब्रह्मेत्यात्मनो ब्रह्मत्वं सामानाधिकरण्यश्रुत्योच्यते तेन तयोरैक्यमित्यर्थः॥१६२॥

प्रत्यक्त्वं ब्रह्मणस्तत्त्वं ब्रह्मत्वं चाऽऽत्मनस्तथा॥
परोक्षद्वयहानेन ह्यात्मा ब्रह्मेति बोध्यते॥१६३॥

कथं तयोरैक्यं पारोक्ष्यसद्वयत्वाभ्यां विरोधादत आह। प्रत्यक्त्वमिति। विरुद्धभागत्यागादैक्यं सोऽयमित्यत्र प्रसिद्धमिति हिशब्दार्थः॥१६३॥

अव्यावृत्ताननुगतो ब्रह्मशब्दार्थ इष्यते॥
नाऽऽस्मनोऽन्यत्र लभ्योऽसौ नाप्यात्मा ब्रह्मणोऽन्यतः॥१६४॥

ब्रह्मणस्तत्त्वं प्रत्यक्त्वमित्येतद्ब्रह्मशब्दार्थमनूद्य प्रकटयति। अव्यावृत्तेति। आत्मनो ब्रह्मत्वं तत्त्वमित्येतद्व्यनक्ति। नापीति॥१६४॥

आत्मनोऽपि परोक्षत्वं ब्रह्मणोऽविद्यया यथा॥
आत्मनः सद्वितीयत्वं ब्रह्मणोऽपि तथा मम॥१६५॥

तथाऽपि कथं पारोक्ष्यसद्वयहानमित्याशङ्क्य तद्वक्तुं पारोक्ष्यादेराविद्यत्वमाह। आत्मनोऽपीति॥१६५॥

अतोऽविद्यासमुच्छित्तौ यथावस्त्ववबोधतः॥
आत्मा ब्रह्मैव सन्नेष ब्रह्माप्येति स्वतोऽद्वयम्॥१६६॥

तस्याऽऽविद्यत्वे फलितमाह। अत इति। एष खल्वात्मा स्वतो ब्रह्मैव सन्नज्ञानादब्रह्मवत्प्रतिपन्नः सम्यग्ज्ञानादज्ञानध्वंसे ब्रह्मैवाऽऽपद्यत इत्यर्थः॥१६६॥

यथोक्तबोधविरहादस्यानर्थपरंपरा॥
विज्ञानाद्यभिसंबन्धो यथा तदधुनोच्यते॥१६७॥

आत्मनो वास्तवं वृत्तमुक्त्वा विज्ञानमय इत्यादेस्तात्पर्यमाह। यथोक्तेति। तामेव स्फुटयति।विज्ञानादीति॥१६७॥

आत्मा ब्रह्मैव सन्नेष धर्मैर्यावद्भिरन्वितः॥
अज्ञानात्संसरत्यत्र वर्ण्यते तत्समासतः॥१६८॥

उक्तेऽर्थे यस्येत्यादि भाष्यं योजयति। आत्मेति। विज्ञानमयादिवाक्यमत्रेति परामृश्यते॥१६८॥

यतोऽविद्यान्वयेऽशेषसंसारानर्थसंगतिः॥
तद्ध्वस्तावात्मनस्तस्मात्पुरुषार्थः समाप्यते॥१६९॥

अज्ञानादेष विज्ञानादियोगद्वारा संसरतु किं तावता ते लभ्यते तदाह। यत इति॥१६९॥

अविद्यामात्रहेतूत्था ह्यात्मनोऽनर्थसंगतिः॥
इत्यस्य प्रतिपत्त्यर्थं परो ग्रन्थोऽवतार्यते॥१७०॥

अविद्यावशादात्मनो बन्धश्चेदुक्तं सिध्येन्न चासावाविद्यो मानाभावादित्याशङ्क्याऽऽह। अविद्येति। अत्रान्वयव्यतिरेकौ हेतूकर्तुं हिशब्दः। तत्रैव श्रुतिं संवादयति। इत्यस्येति॥१७०॥

यद्यविद्यैकहेतु स्यात्संसारित्वं तदाऽऽत्मनः॥
विद्यार्थोऽयं समारम्भो युज्यते नान्यथा सति॥१७१॥

बन्धस्याऽऽविद्यत्वे युक्तिमाह। यदीति। शास्त्रारम्भस्य विद्यार्थत्वात्तस्याः समूलानर्थध्वंसार्थत्वाद्विद्याविद्ययोरेव विरोधप्रसिद्धेराविद्यो बन्धो युक्तोऽन्यथा शास्त्रारम्भासंभवादित्यर्थः॥१७१॥

प्राणात्मत्वाभिमानी सन्यतः प्राणः प्रसूयते॥
प्राणप्राणोऽपि सन्मोहात्प्राणनादि प्रपद्यते॥१७२॥

उत्तरग्रन्थतात्पर्यमुक्त्वा पाठक्रममविवक्षित्वा प्राणमय इत्यस्यार्थमाह। प्राणेति। यस्मात्प्रतीचः सकाशात्प्राणो जायत एतस्माज्जायते प्राणः प्राणमसृजतेत्यादिश्रुतेः प्राणस्य प्राणमिति श्रवणात्प्राणप्राणोऽपि मोहात्प्राणोऽस्मीतितादात्म्याभिमानी भूत्वा प्राणनादिक्रियां प्राप्नोतीत्यर्थः॥१७२॥

ततो बुद्धिसमुत्पत्तौ विज्ञानोऽस्मीतिभावतः॥
विज्ञानमयतामेति स्रक्सर्पमयतामिव॥१७३॥

चलनं विना विज्ञानादिमयत्वायोगादादौ प्राणमयत्वं प्रदर्श्य विज्ञानमयत्वं व्याचष्टे। तत इति। मनोमय इत्यस्यार्थमाह। बुद्धीति॥१७३॥

मनसो ग्रहणं चात्र बुद्धिवृत्त्युपलक्षणम्॥
असुबुद्धी यतो हेतू सर्वेषामिन्द्रियात्मनाम्॥१७४॥

बुद्धिर्मनस्तच्च बुद्धिवृत्तीनामनुक्तज्ञानेन्द्रियाणां प्राणवृत्तीनां च कर्मेन्द्रियाणामुपलक्षणमतस्त्वगादिमयत्वं वागादिमयत्वं चाऽऽत्मनो द्रष्टव्यमित्याह। मनस इति। कथमिन्द्रियाणां बुद्धिप्राणवृत्तिमत्त्वमात्मवृत्तित्वोपगमादित्यत आह। असुबुद्धी इति। अतस्तेषां तत्कार्यत्वेन तद्वृत्तित्वान्नाऽऽत्मधर्मतेति शेषः॥१७४॥

कर्मेन्द्रियाणां सार्थानां प्राणः कारणमुच्यते॥
स एव बुद्ध्यतिशयः श्रोत्रादेरपि कारणम्॥१७५॥

ननु मनः सर्वेन्द्रियाणि चेत्यात्मकार्यत्वेन तद्धर्मत्वमिन्द्रियाणां श्रूयते तत्कथं प्राणा-

दिकार्यत्वेन तद्वृत्तितेत्याशङ्क्य कारणत्वं तेषु प्राणबुद्ध्योर्विविच्य दर्शयति। कर्मेति। प्राण एव बुद्धिलक्षणविलक्षणाकारो भूत्वा श्रोत्रादेः सविषयस्य हेतुर्मनःस्पन्दनमेव द्वैतमिति स्थितेरित्याह। स एवेति। आत्मा हि भूतानि सृष्ट्वा तदात्मना प्राणो भूत्वा शक्तिद्वयावष्टम्भेन सर्वमिन्द्रियवर्गं सृजतीत्याथर्वणश्रुत्यर्थः पाठक्रमस्याकिंचित्करत्वात्तद्युक्तं प्राणबुद्धिकार्यत्वेन तद्वृत्तित्वमिन्द्रियाणामिति भावः॥१७५॥

स्वाभ्यस्तभावनातोऽस्य श्रुतकर्मानुरोधतः॥
प्राणो बुद्धिर्मन1107श्चक्षुः श्रोत्राद्यज्ञस्य जायते॥१७६॥

ननु प्राणादीनामसङ्गोदासीनात्मकार्यत्वे किं कारणमित्याशङ्क्य निमित्तकारणमाह। स्वाभ्यस्तेति। उपादानकारणमाह। अज्ञस्येति॥१७६॥

प्रायार्थे च म1108यड्ज्ञेयो विकारादेर्निषेधनात्॥
अविज्ञातात्मतत्त्वस्य विकारो वाऽस्त्वदोषतः॥१७७॥

अस्मिन्प्रकरणे श्रूयमाणस्य मयटोऽर्थमाह। प्रायार्थ इति। तत्र हेतुः। विकारादेरिति प्राणादिविकारत्वतत्स्वरूपत्वतदधीनत्वादेरात्मन्यप्राणो ह्यमनाः शुभ्रो न जायते म्रियते वेत्यादिश्रुत्या निषेधादित्यर्थः। मयटो विकारार्थत्वमुपेत्यापि स्वमते दोषराहित्यमाह। अविज्ञातेति। विकारो वा मयडर्थोऽस्त्वज्ञातस्याऽऽत्मनः कारणत्ववत्प्राणादिविकारत्वे दोषाभावादित्यर्थः॥१७७॥

सर्पादयो यथा रज्ज्वा1109 विकाराः स्युरबोधतः॥
अज्ञानादात्मनस्तद्वत्तेजोबन्नादिविक्रिया॥१७८॥

परस्याज्ञानात्कारणत्वं दृष्टान्तेनाऽऽह।सर्पादय इति॥१७८॥

न हि वेदान्तसिद्धान्ते ह्यज्ञातात्मातिरेकतः॥
सांख्यानामिव सिद्धान्ते लभ्यते कारणान्तरम्॥१७९॥

किमित्यात्मनोऽज्ञस्य कारणत्वं प्रधानादिकारणान्तरसंभवादत आह। न हीति। स्वसिद्धान्तस्य श्रुतिस्मृतिन्यायानुसारित्वं हिशब्दार्थः॥१७९॥

प्राणादिमयतां यात्वा तद्वत्तीनामबोधतः॥
आत्माऽकर्ताऽपि कर्तृत्वमेति तासां समुद्भवे॥१८०॥

परस्याज्ञानात्कारणत्वे श्रुतिसिद्धेऽपि प्रकृते किमायातं तदाह। प्राणादीति। परो हि प्राणाद्युत्पाद्य तद्रूपेण स्थित्वा तद्विकाराणामिन्द्रियाणां च वस्तुतोऽकर्ताऽप्यबोधतस्तदुद्भवे कर्ताभवतीत्यर्थः। उक्तं हि—

“कारणं पुरुषस्तस्मात्कारणज्ञैरुदाहृतः।
न चेत्कारणमात्मा स्यात्खादयः स्युरहेतुकाः”इति॥१८०॥

चक्षुषश्चक्षुरप्येवं यथा चक्षुर्मयस्तथा॥
श्रोत्रादिमयताऽप्यस्य व्याख्येया प्रत्यगात्मनः॥१८१॥

चक्षुर्मय इत्यादेरर्थमाह। चक्षुष इति। प्राणादेः प्राणादिरपि यथा प्राणादिमयस्तथा चक्षुषश्चक्षुरपि यथाऽऽत्मा चक्षुर्मयस्तथाऽस्य श्रोत्रादिमयताऽप्यज्ञानाधीना द्रष्टव्येति योजना॥१८१॥

स विज्ञानमनःप्रा1110णचक्षुःश्रोत्रादि मोहजम्॥
मन्वानोऽविद्ययाऽऽत्मैति1111 तन्मयत्वं न तु स्वतः॥१८२॥

प्राणादिमयत्वमस्य वास्तवमस्तु किमज्ञानेनेत्याशङ्क्याऽऽह। स विज्ञानेति। आत्मा विज्ञानाद्यज्ञानजन्यमहंत्वेनाभिमन्यमानस्तन्मयत्वं भ्रान्त्या निगच्छति वस्तुतस्तु कूटस्थासङ्गाद्वितीयो न तन्मयो भवतीत्यर्थः। उक्तं हि—

‘अव्यक्तमात्मा क्षेत्रज्ञः शाश्वतो विभुरव्ययः’ इति॥१८२॥

समासव्यासतस्तद्वत्पञ्च भूतान्यविद्यया॥
अशब्दादिमयोऽप्यात्मा तन्मयत्वं निगच्छति॥१८३॥

पृथिवीमय इत्यादिवाक्यतात्पर्यमाह। समासेति। यथाऽऽत्मा प्राणादिमयतां गतस्तद्वदशब्दमस्पर्शमित्यादिश्रुतेरशब्दादिमयोऽप्यविद्यया पृथिव्यादिभूतानि विराडात्मना सूत्रात्मना च सामस्त्येन वैयस्त्येन च प्रत्येकमभिमन्यमानो भूतमयत्वमाप्नोतीत्यर्थः॥१८३॥

लिङ्गदेहाविमावेवं पञ्चभूतमयावुभौ॥
प्रधानगुणवृत्त्योक्तौ सूक्ष्मस्थूलविभागतः॥१८४॥

वाक्यान्तरस्य तात्पर्यं वक्तुं वृत्तं कीर्तयति। लिङ्गेति। विज्ञानमय इत्यारभ्य पृथिवीमय इत्यतः प्राक्तनवाक्येन सूक्ष्मो लिङ्गदेहो व्यापित्वात्प्रधानं व्याख्यातः पृथिवीमय इत्यारभ्य काममय इत्यतोऽर्वाक्तनवाक्येन स्थूलो देहो व्याप्यत्वाद्गुणो दर्शितस्तौ च पाञ्चभौतिक मिथश्च कार्यकारणभूतौ पूर्वोक्तरीत्योपदिष्टौ तत्सिद्धमात्मनो देहद्वयमयत्वमित्यर्थः॥१८४॥

उक्तयोरात्मनोरन्तर्यद्रूपं भावनामयम्॥
कामादिमयतोक्त्येह तदिदानीं विभाव्यते॥१८५॥

काममय इत्यादिवाक्यतात्पर्यमाह। उक्तयोरिति। आत्मनोर्देहयोरिति यावत्। इहेत्यविद्वदात्मोक्तिः॥१८५॥

कामं क्रोधं तथा धर्मं तद्विरुद्धं च मोहतः॥
संभावयन्प्रतीच्यात्मा तन्मयत्वं निगच्छति॥२८६॥

वाक्यार्थमाह। काममिति॥१८६॥

प्रवृत्तय इहेक्ष्यन्ते वाङ्मनःकायसाधनाः॥
यावत्यो भावनाः पुंसामपि तावत्य एव तु॥१८७॥

इदंमय इत्यादिपदद्वयस्य तात्पर्यं वक्तुं भूमिकां करोति। प्रवृत्तय इति। इहेति पुरुषोक्तिः। भावना रागाद्याः॥१८७॥

इत्येवमादयोऽनेके कोशाः स्युर्भावनामयाः॥
असंख्येया बहुत्वात्ते1112 संक्षे1112पोऽतोऽत्र भण्यते॥१८८॥

त्रिविधचेष्टावत्तज्जा भावना भूयस्यश्चेत्किमिति प्रत्येकं नोच्यन्ते तत्र हेतुं वदन्पदद्वयस्य तात्पर्यमाह। इत्येवमिति। अत्रेति कार्यकारणप्रपञ्चोक्तिः। इदंमय इत्यादिनेति शेषः॥१८८॥

इदमित्येव यत्साक्षात्किंचित्कर्मोपलक्ष्यते॥
परोक्षं भावनारूपं तेनादोमयतेष्यते1113॥१८९॥

पदद्वयस्याक्ष1114रार्थमाह। इदमित्येवेति। यत्किमपि कर्म शुभाशुभचेष्टरूपं साक्षादालक्ष्यते तदिदमित्येवोच्यते तेन प्रत्यक्षेण लिङ्गेन भावनारूपं परोक्षमदःशब्दितं तद्धेतुत्वेनानुमीयते तेन चेदंमयेन लिङ्गेनादोमयत्वमात्मनोऽनुमेयमित्यर्थः॥१८९॥

इदंमयेन लिङ्गेन संबन्धोऽदोमयात्मनः॥
प्रत्यक्ष आत्मनि यथा तथाऽन्यत्रापि लिङ्ग्यते॥१९०॥

स्वात्मन्युक्तन्यायमन्यत्राप्यतिदिशति। इदंमयेनेति। यथैकस्य स्वगतरागादिसंबन्धं शुभादिकर्म स्वानुभवसिद्धं तथाऽन्यस्यापि शुभादिव्यापारं दृष्ट्वा तेन तद्गतं रागादि पुरुषान्तरेण शक्यमनुमातुमित्यर्थः॥१९०॥

धूमाग्न्योरिव संबन्धस्तयोर्दृष्ट इहाऽऽत्मनि॥
अकामप्रमुखैर्योगैस्तथा1115 कामादियोगतः॥१९१॥

धर्माधर्मयोभूत्वा पुमान्सर्वमयो भवेत्॥
धर्माधर्मैकहेतुत्वात्सर्वस्य जगतस्ततः॥१९२॥

स्वात्मदृष्टान्तमेवं साधयति। धूमेति। तयोरिदंमयत्वादोमयत्वयोरित्यर्थः। अर्थक्रममनुसृत्य कार्यकारणमयत्वमुक्त्वा सर्वमय इत्यस्यार्थमाह। अकामेति। अकामाक्रोधादिभिर्योगैः पुरुषो धर्ममयो जायते तथा कामक्रोधादिभिर्योगादधर्ममयो भवत्येवं धर्माधर्ममयो भूत्वा सर्वमयः स्यादित्यर्थः। तत्र हेतुः। धर्मेति। ततो धर्मादिमयः सर्वमयः स्यादेवेति शेषः॥१९१॥१९२॥

अदोमयत्वं लिङ्गं स्याल्लिङ्गेनेदंमयात्मना॥
भावनाकर्मविद्यानामेवमुक्तेन वर्त्मना॥
भूरिभेदान्न शक्यन्ते वक्तुं रूपाण्यशेषतः॥१९३॥

सर्वमयत्वे व्याख्याते पाठक्रमेण तद्यदेतदित्यादिवाक्ये बुद्धिस्थे तदर्थमुक्तमनुवदति। अदोमयत्वमिति। युक्तं हि कार्येण कारणानुमानमिति भावः। इदंमयादिवाक्यार्थमुपसंहरति। भावनेति। एवमित्यस्यैवार्थमाह। उक्तेनेति। प्रवृत्तय इहेक्ष्यन्त इत्यादिनेत्यर्थः।तस्मादिदंमयोऽदोमय इति संक्षेपोक्तिर्युक्तेति शेषः॥१९३॥

किं कारणं पुमान्यस्माद्यथाकारी भवत्ययम्॥
यथाचारी च लोकेऽस्मिंस्तथारूपो भवत्यसौ॥१९४॥

आत्मनोऽसङ्गाद्वयस्य प्राणादिमयत्वे हेतुर्वाच्यो न चाविद्याभावनादिस्तथा तेनापि संगत्यभावादिति पृच्छति। किं कारणमिति। यथाकारीत्यादिवाक्यनोत्तरमाह। पुमानिति। तथारूपशब्दात्पूर्वं तस्मादिति वक्तव्यं स्वाविद्यया करणचरणानुसारेण प्राणादिमयतेत्यर्थः॥१९४॥

करणं नियतं1116 चैव11161116तोऽन्यच्चर1117णं तथा॥
करणं कर्मशक्तिर्वा चरणं प्रत्ययात्मकम्॥१९५॥

करणचरणयोरर्थभेदाभावेन पौनरुक्त्यमाशङ्क्याऽऽह। करणमिति। नियतस्वं शास्त्राधीनत्वमन्यत्वमनियतत्वमतो मानाधीनत्वतदनधीनत्वात्तद्भेदादपौनरुक्त्यमित्यर्थः। सर्वप्रकारव्यापारशक्तिः करणं करोतेस्तदर्थत्वात्सर्वप्रकारज्ञानयोग्यता चरणं चरतेर्गत्यर्थत्वादित्यर्थान्तरमाह। करणमिति॥१९५॥

साधुकारी पुमान्यः स्यात्साधुरेव भवत्यसौ॥
पितृगन्धर्वदेवादौ साधुसाधनसंपदा॥१९६॥

साधुकारीत्याद्यादत्ते। साध्विति। तद्व्याचष्टे। पित्रिति। देवादौ जायत इति संबन्धः॥१९६॥

पापकारी च पापश्च स्थाण्वादावभिजायते॥
कामक्रोधादिभूयिष्ठः1118 पुमानुग्रेण कर्मणा॥१९७॥

पापकारीत्यादिवाक्यमादाय व्याचष्टे। पापेति॥१९७॥

साध्वादि भूयोभ्यासात्स्यात्ताच्छील्यप्रत्ययश्रुतेः॥
फलमित्यतिशङ्क्याऽऽह पुण्य इत्यादिकं वचः॥१९८॥

ताच्छील्यप्रत्ययोपादानादित्यादिभाष्यमाश्रित्याऽऽशङ्कापूर्वकमुत्तरवाक्यमुत्थापयति। साध्वादीति। अतिशङ्क्य धर्माधर्मशक्तिमतीत्य शङ्कां कृत्वेत्यर्थः॥१९८॥

नैवाभ्यासव्यपेक्षाऽस्ति पुण्यपापफलाप्तये॥
सकृदप्यनुतिष्ठन्ना प्राप्नोत्येव फलं तयोः॥१९९॥

तद्व्याचष्टे। नैवेति। अन्यथा तदनुष्ठानवैफल्यादित्यर्थः॥१९९॥

फलातिशीतिरभ्यासाज्जायते पुण्यपापयोः॥
तत्फलस्य तु या प्राप्तिः सा सकृत्करणादपि॥२००॥

अभ्यासवैयर्थ्यात्ताच्छील्यप्रत्ययविरोधः स्यादित्याशङ्क्याऽऽह। फलेति॥२००॥

कामक्रोधादिपूर्वैव कर्तृता पुण्यपापयोः॥
पुंसः सर्वमयत्वस्य1119 हेतुः संसारकारणम्॥२०१॥

यथाकारीत्यारभ्याथो खल्वाहुरित्यस्मात्प्राक्तनवाक्यस्य तात्पर्यमनुभाषते। कामेति। किं पुनः पुण्यादिना कर्मणेत्याशङ्क्याऽऽह। पुंस इति॥२०१॥

धर्माधर्मात्मकं कर्म संसारानर्थकारणम्॥
एतद्विषयमेवैतद्वेदशास्त्रमधीयते॥२०२॥

संसारकारणमेव स्फोरयति। धर्मेति। तत्र प्रमाणमाह। एतदिति। वेदशास्त्रशब्देन कर्मकाण्डं गृह्यते॥२०२॥

कर्मैव वेदशास्त्रेऽस्मिन्प्रधानं निश्चितं यतः॥
पुंसोऽभ्युदयदुःखाप्तौ कार्यं वर्ज्यं च तत्ततः॥२०३॥

कर्मणः संसारप्रयोजकत्वे फलितमाह। कर्मैवेति॥२०३॥

कर्म साध्वेव कर्तव्यमिच्छताऽभ्युदयं चिरम्॥
पापं तु सर्वदा हेयं दुःखेभ्यस्त्रस्यता भृशम्॥२०४॥

कथमेकमेव विरुद्धफलतया कार्यं स्याज्यं चेत्याशङ्क्य विभजते। कर्मेति॥२०४॥

संसारानर्थनिष्पत्तौ सर्वेषामविशिष्टता॥
आरम्भकाणां विज्ञानप्रमुखाणामिहाऽऽत्मनः॥२०५॥

यद्यप्येवं तथाऽपीहधर्माधर्मात्मकं बुधाः॥
कर्म प्रधानमिच्छन्ति यतः कर्म प्रयोजकम्॥२०६॥

प्रयोज्यमितरत्सर्वं विज्ञानादि यदीरितम्॥
प्रयोजकं प्रयोज्याच्च प्रधानमिति निश्चितम्॥२०७॥

संसारप्राप्तौ न कर्मणः प्राधान्यं विज्ञानादीनामपि तत्राविशेषादित्याशङ्क्याथो खल्वित्यादिवाक्यव्यावर्त्यमाह। संसारेति। इहेति संसारानर्थाप्तिनिर्देशः। पूर्वसप्तमी तु पूर्वया सप्तम्या योजनीया। कर्मप्राधान्ये हेतुः। यत इति। प्रयोजकत्वेऽपि कथं प्राधान्यमत आह। प्रयोजकमिति॥२०५॥२०६॥२०७॥

पुण्य इत्यादिवचसा कर्मप्राधान्यवाञ्छया॥
कर्मोपसंहृतं श्रुत्या यथोक्तेनैव हेतुना॥२०८॥

कर्मप्राधान्ये श्रुतिं प्रमाणयति। पुण्य इत्यादीति। यथोक्तेन प्रयोजकत्वेनेत्यर्थः॥२०८॥

कर्म प्रधानमित्येवं साक्षाच्छ्रुत्योपसंहृतम्॥
पूर्वपक्षेऽथ सिद्धान्तः खल्वाहुरिति भण्यते॥२०९॥

पूर्वपक्षमनुभाष्य सिद्धान्तवाक्यमादत्ते। कर्मेति। साक्षात्त्वं शब्दोपात्तत्वं पूर्वपक्षानन्तरं सिद्धान्तप्राप्तेर्योग्यताद्योतकोऽथशब्दः॥२०९॥

अथो खल्वत्र पूर्वोक्ते प्राहुरुच्चैर्विपश्चितः॥
न कर्ममय एवायं पुमान्सर्वमयः कुतः॥२१०॥

यतः काममयो भूत्वा प्राप सर्वमयात्मताम्॥
प्रयोजकप्रयोज्यत्वे ज्ञानादीनां प्रयोजकम्॥२११॥

कर्मैवावधृतं यद्वत्कर्मान्तानां प्रयोजकः॥
काम एवेति तत्स्पष्टं स यथेति विभाव्यते॥२१२॥

तत्राथो खल्वाहुरित्यस्यार्थमाह। अथो खल्बिति। प्रागेव सप्तम्योरर्थो दर्शितः। पुंसः सर्वमयत्वे कर्ममयत्वं प्राधान्येन प्रयोजकमित्यत्र प्रश्नपूर्वकं हेतुत्वेनानन्तरवाक्यमादाय व्याकरोति। कुत इत्यादिना। कामः संसारस्य प्राधान्येन प्रयोजको न कर्मेत्येतद्दृष्टान्तेन साधयति। प्रयोजकेति। ज्ञानादीनां कामातिरिक्तानां प्रयोजकत्वे प्रयोज्यत्वे च निरूप्यमाणे कर्मैव तदितरप्रयोजकमवधृतं पुण्यो वै पुण्येनेत्यादिवचसेति शेषः। कथं कामस्य प्राधान्येन प्रयोजकत्वभवधार्यते तत्राऽऽह। तदिति॥२१०॥२११॥२१२॥

प्रयोजकत्वे कर्मादेः कामप्राधान्यमीरितम्॥
प्रयोजकानां निष्ठात्वे न तु कामो विवक्षितः॥२१३॥

कामस्य संसारप्रयोजकावसानभूमित्वात्प्रत्यगज्ञानं तन्मूलमित्युप1120गमहानिरित्याशङ्क्याऽऽह।प्रयोजकत्व इति॥२१३॥

यथावस्त्वपरिज्ञानं कामस्यापि प्रयोजकम्॥
आप्ताशेषसुखापास्तदुःखत्वादात्मवस्तुनः॥२१४॥

नानवाप्तं सुखं किंचिन्नानपास्तं तथाऽसुखम्॥
यो वै भूमेति वचनाद्योऽशनायेति चाऽऽत्मनि॥२१५॥

कामस्य प्रयोजकावसानभूमित्वाभावे हेतुमाह। यथावस्त्विति। तत्प्रतिपादयितुमात्मयाथात्म्यं तावदाह। आप्तेति। आप्ताशेषसुखत्वे मानमाह। यो वा इति। अपास्तदुःखत्वे तदाह। य इति। आत्मनि वचनादिति संबन्धः॥२१४॥२१५॥

स्वत एवंविधं वस्तु यतोऽतस्तदबोधतः॥
कामद्वेषादिसंभूतिर्मिथ्याज्ञानत्वकारणात्॥२१६॥

वस्तुस्वरूपमुक्त्वा तदज्ञानजत्वं कामादेराह। स्वत इति। तन्निमि1121त्तमाह। मिथ्येति। शोभनाध्यासादिरूपो मिथ्याज्ञानभावस्तस्मान्निमित्तात्कामादिजन्मेत्यर्थः॥२१६॥

अज्ञातं वस्तु चोद्दिश्य तत्तत्त्वप्रतिपत्तये॥
प्रमाणानां प्रवृत्तिः स्यादन्यथा नोपपद्यते॥२१७॥

ननु11221122 प्र1122कृते वाक्ये कामहेतुरज्ञानं श्रुतं तत्कथं तस्माज्जन्मेत्याशङ्क्य सामान्यन्यायमाह। अज्ञातमिति। प्रमाणप्रवृत्तिरज्ञातमर्थमाश्रित्येत्यन्वयमुक्त्वा तदभावे न तत्प्रवृत्तिरिति व्यतिरेकमाह। अन्यथेति॥२१७॥

प्रयोजकत्वेऽवि1123द्येयं यदि नामेह न श्रुता॥
मितिप्रवृत्तिहेतुत्वात्तथाऽप्यत्राऽऽश्रितैव सा॥२१८॥

अस्त्वेवं स्वाज्ञानस्य कामादिहेतुत्वे किमायातं तदाह। प्रयोजकत्व इति। अज्ञाते प्रमाणप्रवृत्तिनियमादात्मनि श्रुतिप्रामाण्ये स्वाज्ञानमश्रुतमपि तत्र तत्प्रवृत्तिहेतुतयेष्टं तथाच प्रतीचि कामादि दृश्यमानं कारणान्तराभावादज्ञानमेव तत्त्वेन स्वीकरोतीत्यर्थः॥२१८॥

सर्वेषामपि मानानां प्रमाणं परमं श्रुतिः॥
सर्वमेयातिवर्त्यात्मयाथात्म्यप्रतिबोधतः॥२१९॥

श्रुतिप्रामाण्ये तत्प्रवृत्तिहेतुत्वेनाऽऽत्मन्यज्ञानसिद्धिस्तत्प्रामाण्यं तु संदिग्धं वादिनां तत्र विवादादित्याशङ्क्याऽऽह। सर्वेषामिति। न तावद्वेदप्रामाण्ये संदेहः प्राच्यामेव मीमांसायां तन्निराकरणादुपनिषदस्तु तत्त्वावेदकतया प्रमाणमिति भावः। तासां तत्त्वावेदकत्वे हेतुमाह। सर्वेति॥२१९॥

तस्मादज्ञात आत्मैव कामादेः स्यात्प्रयोजकः॥
यतोऽबो1124धस्य1125 वि1125ध्वस्तौ पुंसः स्यात्कृतकृत्यता॥२२०॥

श्रुतिप्रामाण्यात्तत्प्रवृत्तिहेतुत्वेनाऽऽत्मनिष्ठमपि तदज्ञानं न कामादिकारणमात्मनः सर्वकारणत्वाङ्गीकारादित्याशङ्क्याऽऽह। तस्मादिति। अज्ञानस्याऽऽत्मनि सिद्धत्वं तच्छब्दार्थः। आत्मनोऽज्ञातस्य कामादिप्रयोजकत्वे फलितमाह। यत इति॥२२०॥

वाङ्मनःकायसाध्यायाः प्रवृत्तेः काममूलता॥
यथा तत्प्रतिपत्त्यर्थं स यथेत्युत्तरा श्रुतिः॥२२१॥

काममय एवेत्यादि व्याख्याय स यथेत्यादेस्तात्पर्यमाह। वागिति॥२२१॥

सर्वस्य जगतो हेतू पुण्यापुण्ये समीरिते॥
यद्यपीह परो हेतुः काम एव तयोरपि॥२२२॥

कथं काममूलत्वं त्रिविधप्रवृत्तेरुच्यते पुण्यो वै पुण्येनेत्यादिना कर्मणः सर्वजगन्मूलत्वप्रतीतेरित्याशङ्क्याऽऽह। सर्वस्येति। पुण्यो वै पुण्येनेत्यादिवाक्यमिहेत्युच्यते॥२२२॥

अकामस्य क्रिया काचिद्दृश्यते नेह कस्यचि1126त्॥
यद्यद्धि कुरुते जन्तुस्तत्तत्कामस्य चेष्टितम्॥२२३॥

सर्वप्रकारप्रवृत्तौ प्राधान्येन कामस्य प्रयोजकत्वे प्रमाणमाह। अकामस्येति॥२२३॥

निष्फलं कर्म सर्वं स्यान्न चेत्कामपुरःसरम्॥
अपराधलघुत्वं च दृष्टं पुंसोऽप्यकामतः॥२२४॥

अथाकामस्यापि क्रिया दृश्यते न हि कश्चित्क्षणमपीत्यादिस्मृतेस्तथाचादृष्टिवचनमनुभवविरुद्धमित्यत आह। निष्फलमिति। कामादृते कृतमपि कर्मफलमित्यत्र हेतुमाह। अपराधेति। रागं विना प्रमादोपनतेऽपि दुरिते पुरुषस्य दोषाल्पत्वं धर्मशास्त्रेषु दृष्टम्। यथोक्तम्—

“चण्डालान्नं प्रमादेन यदि भुञ्जीत यो द्विजः।
ततश्चान्द्रायणं कुर्यान्मासमेकं व्रतं चरेत्”इति॥

तदकामपूर्वकं कर्माफलमित्यर्थः॥२२४॥

कामप्रयुक्तो हि नरः संचिनोति शुभाशुभे॥
आत्मैवेदमिति गिरा श्रुत्यैतत्प्रागपीरितम्॥२२५॥

कामप्रयुक्ता त्रिविधाऽपि फलवती प्रवृत्तिरित्यत्र प्रतिज्ञापूर्वकमात्मैवेदमग्र आसीदेक एव सोऽकामयतेत्यादिश्रुतिं प्रमाणयति। कामेति। तत्रान्वयव्यतिरेकयोरानुकूल्यं वक्तुं हिशब्दः॥२२५॥

काम गर्धोऽभिलाषश्च तृष्णेत्येकार्थवाचकाः॥
आसङ्गपूर्वकः कामो नाऽऽसङ्गविरहादसौ॥२२६॥

काममूलत्वं सर्वप्रवृत्तेरुक्त्वा कामशब्दार्थमाह। काम इति। आसङ्गोऽपि कामपर्यायः स कस्मादत्राभिलाषादिवन्न गृह्यते तत्राऽऽह। आसङ्गेति। आसङ्गोऽभि-

निवेशो मिथ्याध्यासस्तस्मान्निमित्तात्कामो भवति न खल्वध्यासविकला भवन्ति कामिनस्तथाच निमित्तत्वेन पार्थक्यान्न समभिव्याहार इत्यर्थः॥२२६॥

ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते॥
सङ्गात्संजायते काम इति सर्वज्ञशास्त्रतः॥२२७॥

आसङ्गो निमित्तं कामस्येत्यत्र प्रमाणमाह। ध्यायत इति॥२२७॥

पुंसो या विषयादित्सा स काम इति भण्यते॥
तद्गुणस्मरणाभ्यासादिच्छा पुंसोऽभिवर्धते॥२२८॥

स यथेत्यादेस्तात्पर्यमुक्त्वाऽक्षराणि व्याकुर्वन्कामपदार्थमनुवदति। पुंस इति। यादृशेन कामेन स पुरुषो युज्यते तादृशः क्रतुमान्भवतीत्यभिधित्समानः कामस्य क्रतुत्वं वक्तुं पातनिकामाह। तद्गुणेनेति। तच्छब्देन विषया गृह्यन्ते॥२२८॥

कामिताद्विषयान्नान्यस्तदा तस्येह रोचते॥
निराकर्तुं न च ततः शक्यते येन1127 केनचित्॥२२९॥

इच्छावृद्धिफलमाह। कामितादिति। तदा विषयगुणस्मरणाभ्यासावस्थायामित्यर्थः। तस्येति काममयपुरुषोक्तिः। इहेत्यविद्यादशोच्यते। दोषानुसंधानात्कामितविषये वैमुख्यमाशङ्क्याऽऽह। निराकर्तुमिति। दोषानुसंधाने विषयवैमुख्येऽपि तदनुसंधानाभावे विषयपारवश्यमशक्यनिरसनमित्यर्थः॥२२९॥

इत्येवं वर्धमानः सन्क्रतुत्वं प्रतिपद्यते॥
यदनन्तरमेवेहा स कामः क्रतुरुच्यते॥२३०॥

पातनिकां कृत्वा तत्क्रतुर्भवतीति वाक्यं व्याकरोति। इत्येवमिति। प्रकरणात्कर्ता कामः। क्रतुशब्दार्थं स्फुटयति। यदनन्तरमिति॥२३०॥

क्रतुना यादृशेनायं यत्क्रतुः1128 स्यात्पुमानिह॥
कुरुते तादृशं कर्म वाङ्मनःकायसाधनैः॥२३१॥

यत्क्रतुरित्यादेरर्थमाह। क्रतुनेति। इहेति कर्मभूमिरुक्ता॥२३१॥

यत्कर्म कुरुते चायं शुभं वा यदि वाऽशुभम्॥
संपद्यतेऽथ तत्साक्षादात्मत्वेन पुमानयम्॥२३२॥

यत्कर्मेत्यादेरर्थमाह। यदिति। कर्मणोऽनुष्ठितस्य फलानुकूलत्वमथशब्दार्थः। साक्षात्संपत्तिमेव व्याकरोति। आत्मत्वेनेति॥२३२॥

अपूर्वमिति चेदं स्याददृष्टमिति चोच्यते॥
पुण्यापुण्यमय इति प्राक्चैतदुपवर्णितम्॥२३३॥

कर्मवशात्तत्फलं कर्ताऽप्नोतीत्ययुक्तमपूर्वमदृष्टं फलहेतुरितीष्टस्वादित्याशङ्क्याऽऽह।

अपूर्वमिति चेति। कर्मवशात्तत्फलाप्तिरित्येतद्धर्ममयोऽधर्ममय इत्यत्रोक्तमित्याह। पुण्येति॥ २३३॥

पुमान्काममय एव कर्मादेः स्यात्मयोजकः॥
यथा तदुक्तं श्रुत्येह मन्त्रोऽप्यत्र निगद्यते॥२३४॥

अज्ञस्य संसारित्वे कामो हेतुरिति ब्राह्मणोक्तमनूद्य तत्रैव मन्त्रमादत्ते। पुमानिति। इहेत्यनन्तरपूर्वसंदर्भोक्तिः॥२३४॥

तदेवैति पुमानस्य सक्तं यत्र मनो भवेत्॥
आत्मा सक्त इदं लिङ्गं कर्मणा सह तत्सदा॥२३५॥

पूर्वार्धंव्याचष्टे। तदेवेति। यत्रास्याज्ञस्य मनो निश्चयेन सक्तमुद्भूताभिलाषं स्यात्तदा तत्रैवार्थे तदिदं लिङ्गं सक्तस्तेनैकीभूतस्तदेव कर्मणा सह पुमानेतीत्येवमात्मा कामकर्मभ्यां विषयाधीनः संसरतीत्यर्थः॥२३५॥

सूक्ष्म देहोऽत्र लिङ्गं स्याल्लिङ्गनात्प्रत्यगात्मनः॥
स्वात्मचैतन्यविम्बेन निःसङ्गः सक्त आत्मना॥२३६॥

लिङ्गशब्दार्थमाह। सूक्ष्म इति। तस्य लिङ्गत्वे हेतुः। लिङ्गनादिति। तेन हि प्रत्यगात्मनि स्फुटतरं ज्ञानमुत्पद्यते तेन लिङ्ग्यते ज्ञायते सोऽनेनेति सूक्ष्मो देहो लिङ्गमित्यर्थः। आत्मनोऽसङ्गस्य कुतो लिङ्गसक्तिरित्याशङ्क्याऽऽह। स्वात्मेति। आत्मनोऽतङ्गत्वेऽप्यात्मना लिङ्गेन स्वचैतन्याभासद्वारा काल्पनिकी सक्तिरविरुद्धेत्यर्थः॥२३६॥

उदपात्रार्कगतिवदगतेर्गतिरात्मनः॥
ध्यायतीवेति च तथा निषिद्धैव स्वतो गतिः॥२३७॥

तथाऽपि1129 यत्रार्थे मना निषक्तं तत्राऽऽत्मा लिङ्गेनैक्यं गतो गच्छतीत्ययुक्तं कूटस्थस्य विभोस्तदयोगादित्याशङ्क्याऽऽह। उदपात्रेति। यथा जलपात्रगमनं तद्गते सवितर्यारोप्यते तथाऽऽत्मनो गतिरहितस्यापि लिङ्गगमनं स्वात्मन्यारोप्य गतिरिष्टेत्यर्थः। औपाधिकमात्मनो गमनमित्यत्र मानमाह। ध्यायतीति। यथाऽत्र गमनमौपाधिकं तथा तदनुसारेणेति यावत्॥२३७॥

तदेवैतीति यदि वा गन्तव्यमभिधीयते॥
कामप्रधानता चैवं प्रकृतार्थानुरोधिनी॥२३८॥

तदेवेत्यादिभागस्य भाष्याद्बहिरर्थमुक्त्वा भाष्योक्तमर्थमाह। तदेवेति। यत्र स्वर्गादिफले मनो निश्चयेन सक्तमुद्भूताभिलाषमस्य पुंसो भवति तदेव113011301130च्छतीति तच्छब्देन गन्तव्यं गृह्यते कथं च गच्छतीत्यपेक्षायां फलासक्तः सन्यत्कर्माकरोत्तेन सह

तत्फलं प्राप्नोतीति प्रतिभातीत्यर्थः। पूर्वव्याख्यानादस्यसाक्षात्प्रकृत1131 उप1131योगित्वेन युक्ततरत्वमाह। कामेति॥२३८॥

कामादयो यतो धर्माः स्वान्तस्यैवेह कीर्तिताः॥
तदात्ममानिनोऽतः स्युरात्मनस्ते न तु स्वतः॥२३९॥

मनो यत्र निषक्तमुद्भूताभिलाषमित्ययुक्तमभिलाषादेरात्मधर्मत्वादित्याशङ्क्याऽऽह। कामादय इति। कामः संकल्पो विचिकित्सेत्यादाविति शेषः॥२३९॥

लिङ्गासक्तिवशादात्मा सक्त इत्यभिधीयते॥
सक्तः सन्कर्मणा सार्धमेत्यात्मा कर्मणः फलम्॥२४०॥

सक्त इति विशेषणादात्मनः स्वतोऽभिलाषादिशालित्वं स्यादित्याशङ्क्यानेकश्रुतिविरोधादन्यथासिद्धं विशेषणं नाऽऽत्मनः स्वतःसक्तिसाधकमित्याह। लिङ्गेति। औषाधिकींसक्तिमुक्त्वा तत्फलमाह। सक्तः सन्निति॥२४०॥

मनोभिष्वङ्गवशगः कर्मणैति यतः सह॥
कामस्यातः प्रधानत्वं तत्प्रयुक्तात्मसंसृतेः॥२४१॥

लिङ्गोपाधिरात्मा फलासक्तो यत्कर्म कृतवांस्तेन सह तत्फलं गच्छतीति वदतो मन्त्रस्याभिप्रेतार्थमाह। मन इति। अतः शब्दार्थं स्पष्टयति। तत्प्रयुक्तेति॥२४१॥

लिङ्गं मनःप्रधानत्वाल्लिङ्गं मन इहोच्यते॥
यदि वा लिङ्ग्यते तेन मनो लिङ्गमिहाऽऽत्मनः॥२४२॥

सप्तदशकं लिङ्गं न मनोमात्रं तत्कथं लिङ्गं मन इति सामानाधिकरण्यमित्याशङ्क्याह।लिङ्गमिति। लिङ्गं मन इत्यत्र लिङ्गमिति मनो गृह्यते लिङ्गस्य सप्तदशकस्यापि मनःप्रधानत्वादिति योजना। अथवेत्यादिभाष्यार्थमाह। यदि बेति॥२४२॥

निश्चयेन तदासक्तं यस्मिन्विषय आत्मना॥
विषयं कर्मणा सार्धं तमेवैतीति संगतिः॥२४३॥

तन्मनो यत्रेत्यादिभाष्यार्थमाह। निश्चयेनेति। तन्मनो लिङ्गमुपहितेनाऽऽत्मना सह यस्मिन्नर्थे स्वर्गादावस्य सक्तमासीत्तत्रोद्भूताभिलाषवशादनुष्ठितकर्मणा तमेवार्थमात्मा मनः सक्तिहेतोर्गच्छतीत्यर्थः॥२४३॥

इति कामप्रधानत्वसिद्धान्तस्योपसंहृतिः॥
कर्मणोऽन्तं फलं प्राप्य भुक्त्वा निरवशेषतः॥२४४॥

तेनेत्यादिभाष्यार्थमाह। इति कामेति। इतिशब्देन प्रकृतमन्त्रभागोक्तिः। प्राप्यान्तमित्यादेरर्थमाह। कर्मण इति। इमं लोकं पुनरैतीत्युत्तरत्र संबन्धः॥२४४॥

कस्य कर्मण इत्युक्ते यत्किंचेहेति तद्वचः॥२४५॥

फलभोगावसानेऽथ1132 कि1132मसौ प्रतिपद्यते॥
तस्माल्लोकादिमं लोकं पुनरैति स कर्मणे॥२४६॥

आकाङ्क्षापूर्वकं यत्किंचेत्यादिना कर्म विशेष्यत इत्याह। कस्येति। प्रश्नपूर्वकं तस्मादित्याद्यादत्ते। फलेति॥२४५॥२४६॥

अस्मै लोकाय देहाय देहयोगश्च कर्मणे॥
इत्येवमपरिश्रान्तो बंभ्रमीति पुनः पुनः॥२४७॥

अस्मै लोकाय कर्मण इति भागं विभजते। अस्मा इति। कर्म किमर्थमित्याशङ्क्यफलसंयोगार्थमित्याह। इत्येवमिति॥२४७॥

अनिर्ज्ञातात्मतत्त्वः सन्कामबन्धनबन्धनः॥
घटीयन्त्रवदश्रान्तो वंभ्रमीत्यनिशं नरः॥२४८॥

पौनःपुन्येनेहलोकपरलोकयोरतिशयेन भ्रमणे हेतुमाह। अनिर्ज्ञातेति। अविश्रान्तां भ्रान्तिं दृष्टान्तेन स्पष्टयति। घटीयन्त्रवदिति॥२४८॥

इतीत्युक्तपरामर्शे1133 न्वि1133ति खेदानुकम्पयोः॥
एवमज्ञः कामवशाद्भूयो योनीः प्रपद्यते॥२४९॥

उपसर्गयोरर्थमाह। इतीत्युक्तेति। किं तदुक्तमित्युक्ते तद्दर्शयति। एवमिति॥२४९॥

अस्माल्लोकादमुं लोकममुष्मादिममेव च॥
अज्ञः कामाङ्कुशाकृष्टो जायते म्रियतेऽसकृत्॥२५०॥

खेदानुकम्पे स्फुटयति। अस्मादिति। प्रपद्यत इति संबन्धः। लोकद्वयप्राप्तिं प्रकटयति। अज्ञ इति॥२५०॥

इति कामप्रधानस्य संसारानर्थसंगतिम्॥
उक्त्वा त1134दुपसंहारमितीतिवचसाऽकरोत्॥२५१॥

इतिशब्दस्यार्थान्तरमाह। इति कामेति। उक्त्वेत्यत्रेतिशब्दस्य संबन्धः॥ २५१॥

एवं कामयमानोऽयं स्वप्नबुद्धान्तवन्नरः॥
संसरत्यप्रबुद्धः सन्परलोकेहलोकगः॥२५२॥

उपसंहृतमेव दर्शयति। एवमिति। आत्मनो नित्यशुद्धबुद्धमुक्तस्वभावस्यावियादिवशादीदृशी दशा तेन श्रेयोर्थिना तदपवादे यतितव्यमिति भावः॥२५२॥

**अथ तस्यावदत्पूर्वं योषिदालिङ्गने यथा॥
सौषुप्तं स्थानमाप्तस्य रूपं कामादिवर्जितम्॥२५३॥ **

तद्वा अस्यैतदित्येवं प्राक्श्नुत्याप्रतिपादितम्॥
मोक्षो दार्ष्टान्तिकस्तस्य दृष्टान्तस्येह वर्ण्यते॥२५४॥

अथाकामयमान इत्याद्यवतारयितुं वृत्तं कीर्तयति। अथेति। प्रकरणविच्छेदार्थोऽथशब्दः। यथा योषिदालिङ्गने पुंसो रूपं स्त्रीवाक्येन श्रुतिरवदत्तथा सौषुप्तं स्थानं प्राप्तस्य कामादिहीनं रूपं मोक्षदृष्टान्तभूतमतिच्छन्दादिवाक्येनोक्तमनन्तरं च स्वप्नादिसंचार1135दृष्टान्तस्य दार्ष्टान्तिको बन्धो वर्णित इत्यर्थः। संप्रत्युत्तरप्रकरणं प्रस्तौति। मोक्ष इति॥२५३॥२५४॥

अथशब्दोऽत्र हेत्वर्थ उक्तस्य तदपेक्षतः॥
काम्येव हि यतोऽजस्रं संसरत्यविचक्षणः॥२५५॥

यस्मादित्यादिभाष्येणाथशब्दार्थमाह। अथशब्द इति। तत्र हेतुः। उक्तस्येति। उक्तो बन्धस्तस्य कामापेक्षत्वाद्यस्मात्कामी संसरति तस्मादकामो मुच्यत इत्यत्र विवक्षितमित्यर्थः। संसारस्य कामापेक्षां साधयति। काम्येवेति। कामस्यानर्थमूलत्वमनुभवानुसारीति हिशब्दार्थः। यतःशब्दस्योत्तरेणातःशब्देन संबन्धः। कामित्वे हेतुः। अविचक्षण इति॥२५५॥

तद्भावभाविहेतुत्वादतोऽकामो विमुच्यते॥
नरोऽकामयमानः स्यात्कामहेतोर्निराकृतेः॥२५६॥

काम्येव संसारीत्यत्र हेतुमाह। तद्भावेति। तस्य कामस्य भावे बन्धस्य भावाद्विपर्यये चाभावात्तस्य तं प्रति हेतुत्वसिद्धेरित्यर्थः। कामी संसारीति सिद्धे फलितमाह। अत इति। सत्यमकामो मुच्यते कथं त्वकामत्वं तदाह। नर इति। यद्वा नाकामो मुच्यते सुप्तस्याकामस्यापि पुनरुत्थानादित्याशङ्क्याऽऽह।नर इति॥२५६॥

स्वत एवाखिलसुखप्राप्ततत्त्वे1136 स्व1136 आत्मनि॥
निरस्ताशेषदुःखे च मोहात्तत्र विपर्ययः॥२५७॥

कस्तर्हि कामहेतुस्तत्राऽऽह। स्वत इति॥२५७॥

अप्राप्तं दुःखवन्मोहान्मन्वानः सुखमुत्तमम्॥
सुखं मे स्यादिति सदा नरः कामयतेऽबुधः1137॥२५८॥

निरतिशयसुखे प्रतीचि मोहकृतं विपर्ययमभिनयति। अप्राप्तमिति॥२५८॥

तथा परिहृताशेषदुःखहेतुः स्वतोऽपि सन्॥
मा भूद्दुःखं ममेत्येवं जाड्यात्कामयतेऽनिशम्॥२५९॥

निरस्तसमस्तदुःखे तस्मिन्नविद्यातो विपर्ययमुदाहरति। तथेति॥२५९॥

कृत्स्नानन्दस्य चानाप्तिरवाप्तिरसुखस्य च॥
नाऽऽत्मवस्त्वनुरोधेन तदबोधात्तदश्नुते॥२६०॥

मुखस्याप्राप्तिर्दुःखस्य प्राप्तिश्चेत्युभयमाविद्यं तत्प्रपञ्चयति। कृत्स्नेति॥२६०॥

वस्तुतन्त्राभवेद्विद्या कर्तृतन्त्रैव च क्रिया॥
अतः कामयमानत्वं कर्तृतन्त्रमबोधतः॥२६१॥

कामस्य स्वाविद्या हेतुरित्युक्तं तत्रैव हेत्वन्तरं वक्तुं सामान्यन्यायमाह। बस्त्विति। अस्तु प्रस्तुते किं जातं तदाह। अत इति। कामस्य क्रियारूपत्वेन कर्तृतन्त्रत्वात्कर्तुश्चाज्ञानजत्वात्तस्यापि तज्जन्यत्वसिद्धिरित्यर्थः॥२६१॥

कारकाण्युपमृद्गाति विद्या बीजमिवोषरम्॥
1138त्कारणोपमर्दित्वाज्जन्मनैव न कारकम्॥२६२॥

क्रियावद्विद्याऽपि कर्तृतन्त्रेत्याशङ्क्याऽऽह। कारकाणीति। कथं कारकोपमर्दित्वं विद्यायाः सिद्धं तत्राऽऽह। तदिति। विद्या जन्ममात्रेणैव कारकं न सिध्यति तस्याः स्वोदयमात्रेण तत्कारणाविद्योपमर्दित्वादित्यर्थः॥२६२॥

यत एवमतो विद्वान्कामहेतूपमर्दनात्॥
स्यादकामयमानोऽत्र न त्वविद्वान्कथंचन॥२६३॥

स्वाविद्या कामहेतुरिति स्थिते फलितमाह। यत इति। अत्रेत्यधिकारिनिर्धारणे सप्तमी॥२६३॥

कुतोऽकामयमानः स्यादित्येवमभिचोदिते॥
योऽकाम इति वचनं पूर्वप्रत्युक्तिरुच्यते॥२६४॥

अथेत्यादि व्याकुर्वता कामस्य मूलकारणमज्ञानमित्युक्तमिदानीं तस्यैवावान्तरकारणं वक्तुं चोद्यपूर्वकमुत्तरवाक्यमादत्ते। कुत इति। पूर्वस्य चोद्यस्य प्रत्युक्तिर्योऽकाम इति वचनमिति योजना॥२६४॥

कामा यस्य न विद्यन्ते दृष्टानुश्रविका बहिः॥
सोऽकाम इति संभाव्यः कृत्स्त्रकर्मनिराकृतेः॥२६५॥

अकामशब्दार्थमाह। कामा इति। बाह्येषु शब्दाद्यर्थेषु दृष्टिश्रुतिपूर्वकास्तृष्णाप्रभेदा यस्य न सन्ति सोऽकाम इति ज्ञेय1139इत्य1139र्थः। उक्तप्रकारकामाभावे हेतुमाह। कृत्स्नेति। कर्मशब्देन व्यापारोऽर्थश्चेत्युभयमुच्यते। न हि विदुषो बाह्यो विषयो व्यापारो वाऽस्ति साक्षात्कृताविक्रियाखण्डचिदेकस्वाभाव्यादित्यर्थः॥२६५॥

क्रियमाणो यथा कामः क्रत्वादीनि प्रसूयते॥
तथा संत्यज्यमानोऽपि नैष्कर्म्येणावतिष्ठते॥२६६॥

कामाभावं विदुषो दृष्टान्तेन प्रतिपादयति। क्रियमाण इति। यथा शोभनाध्यासेनाविदुषा क्रियमाणः कामः क्रत्वादीनाधत्ते तथा विवेकवैराग्यादिना बाध्यमानोऽपि कैवल्येन तिष्ठत्यतो विद्वानकामयमान इत्यर्थः॥२६६॥

अकामोऽपि क इत्येवं पृष्ठे निष्काम उच्यते॥२६७॥

प्रयोजकात्मकाः कामा निष्क्रान्ता यस्य बुद्धितः॥
अतिग्रहाः स निष्कामो विद्वद्भिरभिधीयते॥२६८॥

प्रश्नपूर्वकं विशेषणान्तरमुत्थापयति। अकामोऽपीति। पूर्वेणास्य पौनरुक्त्यमाशङ्क्य व्याचष्टे। प्रयोजकेति। अतिग्रहशब्दिताः शब्दादिवासनाः साभासबुद्ध्यारूढाः स्थूलकामहेतवोऽत्र कामास्ते यस्मान्निर्गताः स निष्कामोऽतोऽकामपदेन कामा बाह्या निरस्यन्त आन्तरास्तु निष्कामपदेनेत्यपौनरुक्त्यमित्यर्थः॥२६७॥२६८॥

बाह्यानामान्तराणां च कार्यकारणता मिथः॥
प्रत्यगज्ञानहेतुः स्यात्तदुच्छित्तौ न सा ततः॥२६९॥

प्रयोजकात्मकाः कामा इति वदता बहिरन्तस्थितकामानामन्योन्यं कार्यकारणभावोदर्शितस्तस्य किं प्रयोजकं तदाह। बाह्यानामिति। प्रत्यगज्ञानकृतानां कामानामन्योन्यं कार्यकारणतेत्युक्ते सिद्धमर्थमाह। तदुच्छित्ताविति॥२६९॥

तदुच्छित्तावतः प्रत्यग्याथात्म्यज्ञानमुच्यते॥
आप्तकामादिवचसा यथावस्त्ववबोधिना॥२७०॥

स्वाज्ञानध्वस्तिकारणं किमित्याशङ्क्य विशेषणद्वयमादत्ते। तदिति। अज्ञानध्वस्तौ ज्ञानातिरिक्तहेत्वयोगोऽतःशब्दार्थः॥२७०॥

आप्ताः सर्वे स्वतोऽप्यस्य कामा ये बाह्यसाधनाः॥
फलतोऽवाप्तकामोऽसौ परानन्दस्वभावतः॥२७१॥

आप्तकामत्वमयुक्तं स्वर्गादिफलानामननुष्ठायिविद्वदाप्यत्वासिद्धेरित्याशङ्क्याऽऽह। आप्ता इति। ये स्वर्गादयस्ते यद्यपि यागाद्यपेक्षास्तथाऽपि विदुषः स्वतः सर्वे प्राप्ता इति भवत्यसावाप्तकाम इत्यर्थः। साधनाधीनं सुखमेव च तदतिरेकेण प्राप्यमिति विप्रतिषिद्धमित्याशङ्क्याऽऽह। फलत इति। परानन्दरूपं ब्रह्म तत्स्वभावश्च विद्वांस्तत्क्रतुत्वादतोऽसावर्थादाप्तसर्वकामः सर्वानन्दानां परानन्दान्तर्भूतत्वादित्यर्थः॥२७१॥

मानुषानन्दमारभ्य ह्युत्तरोत्तरवृद्धितः॥
सहस्रदशमांशोक्त्या परानन्दो निरूपितः॥२७२॥

ये तु परानन्देऽपि विवदन्ते तान्प्रत्याह। मानुषेति। न केवलमिहैव निरूपितमिदमपि तु श्रुत्यन्तरेऽपीति हिशब्दार्थः॥२७२॥

कामिकामप्रभेदस्य प्रसक्ताविदमुच्यते॥
श्रुत्याऽऽत्मकाम इत्येवमात्मैवामी न ते पृथक्॥२७३॥

आप्तकामत्वं व्याख्यायाऽऽत्मकामत्वं व्याचष्टे। कामीति॥२७३॥

आत्मैव सर्वमित्येवं बुद्धावस्याऽऽप्तकामता॥२७४॥

अबाह्याभ्यन्तरः कृत्स्नः प्रज्ञानघनमात्रभाक्॥
इत्येवं यस्य वेदान्तवाक्योत्थं ज्ञानमात्मनि॥२७५॥

ध्वस्ताशेपतमस्कत्वात्सम्यग्ज्ञानप्रसूतितः॥
वद तस्य कुतो हेतोः कामादेः स्यात्समुत्थितिः॥२७६॥

आत्मकामत्वमाप्तकामत्वे हेतुरित्याह। आत्मैवेति। सर्वस्य शब्दादिप्रपञ्चस्य ज्ञानादात्ममात्रत्वे प्रतिपन्ने स्वातिरिक्तकामयितव्यराहित्यमात्मकामत्वमतः शब्दादिसाध्यसुखस्याप्यात्ममात्रत्वमाप्तकामत्वमित्यर्थः। आत्मकामत्वादाप्तकामत्वं ततो निष्कामत्वं ततश्चाकामत्वं तस्माच्चाकामयमानस्य मुक्तिरित्यभिप्रेत्याऽऽ।अबाह्येत्यादिना॥२७४॥२७५॥२७६॥

यत्र वा अन्यदित्येवं सत्येवाज्ञान आह हि॥
ज्ञातृज्ञेयादिकं भेदं तमोध्वस्तौ न सोऽस्त्यतः॥२७७॥

सम्यग्ज्ञानादज्ञाने ध्वस्तेऽपि ज्ञात्रादिभेदवशेन कामादिः स्यादित्याशङ्क्याऽऽह। **यत्रेति।**अज्ञानावस्थायामेव ज्ञात्रादिभेदस्योक्तत्वाज्ज्ञानादज्ञानध्वस्तौ ज्ञात्रादिभेदप्रयुक्तो न कामादिरित्यर्थः॥२७७॥

यत्र त्वस्येत्यतः प्राह ध्वस्तात्मतमसि श्रुतिः॥
तत्केन कमितीत्यादि साक्षेपं वचनं स्वयम्॥२७८॥

ज्ञानावस्थायां ज्ञात्रादिभेदाभावे मानमाह। यत्र त्विति। यत्र त्वस्य सर्वमित्यस्मादारभ्यतत्केन कं पश्येदित्यादिवचनं साक्षेपं ध्वस्तात्मतमसि पुंसि श्रुतिः स्वयमाहेत्थं ज्ञानादज्ञाने ध्वस्ते ज्ञात्रादिभेदाभावात्कामाद्यनुपपत्तिरित्यर्थः॥२७८॥

ऐकात्म्यमात्रकू1140टस्थप्रबोधावसितेः कुतः॥
मातृमानक्रियामेयव्यवहारस्य संभवः॥२७९॥

आक्षेपं प्रकटयन्भाष्योक्तं श्रुत्यर्थं स्फुटयति। ऐकात्म्येति॥२७९॥

अविजानन्हि विज्ञेयं कामं कामयते कथम्॥
ज्ञात्वैव विषयाल्लोँके सर्वः कामयते यतः॥२८०॥

ज्ञाने ज्ञात्रादिव्यवहाराभावेऽपि कामः स्यादित्याशङ्क्याऽऽह। अविजानन्निति। ज्ञातविषयो हि कामी ध्यायतो विषयानित्यादिस्मृतेः। न चाऽऽत्मज्ञः स्वातिरिक्तान्विषयानुपलभते तत्कुतोऽस्य काम इत्यर्थः। हिशब्दसूचितमन्वाचष्टे। ज्ञात्वैवेति॥२८०॥

इत्येवमात्मकामत्वादाप्तकामोऽत्र यो भवेत्॥२८१॥

आप्तकामतया तद्वन्निष्कामत्वं समश्नुते॥
निष्कामत्वेन चाकामः1141 स आत्मज्ञो विमुच्यते॥२८२॥

अथेत्यादिवाक्यार्थं हेतुहेतुमद्भावेनोक्तमुपसंहरति। इत्येवमिति॥२८१॥२८२॥

संसारानर्थबीजस्य प्रध्वंसादात्मबोधतः॥
तस्मादात्मनि विज्ञाते कामहेतोरसंभवात्॥२८३॥

कामकर्माद्यसद्भावात्पूर्ण आत्माऽवतिष्ठते॥
न तस्येत्युत्तरोक्त्याऽयं यथोक्तोऽर्थः समर्थ्यते॥२८४॥

केयं मुक्तिर्न हि सा निर्धारिता वादिविप्रतिपत्तेरित्याशङ्क्याऽऽह।संसारेति। ज्ञानादज्ञानतज्जध्वंसादपूर्णताहेत्वभावात्पूर्णरूपेणावस्थानं मुक्तिरित्यर्थः। तत्र विप्रतिपत्तिनिरासार्थं न तस्येत्यादिवाक्यद्वयमवतारयति। नेति॥२८३॥२८४॥

अपास्तानर्थहेतुत्वं यदुक्तं1142 प्रत्यगात्मनः॥
योऽकाम इत्यादिगिरा यो वेदाऽऽत्मानमागमात्॥२८५॥

जिघृक्षत्यायसं तप्तं शास्त्राचार्यात्मनिश्चयात्॥
तस्योत्क्रामन्ति न प्राणा आसते नापि तत्र ते॥२८६॥

यथोक्तमर्थमेव व्यनक्ति। अपास्तेति। अखण्डब्रह्मात्मरूपेणावस्थानलक्षणं मोक्षं पूर्ववाक्योक्तमनन्तरवाक्यद्वयं समर्थयते तन्न श्रौतेऽर्थे विवादो वैदिकानामितरे तु प्रत्युदस्ता इत्यर्थः। वाक्याक्षराणि व्याकरोति। यो वेदेति। प्राणानामनुत्क्रमणं वाक्यात्रब्रह्मविदो नात्रोच्यते किंतु मनुष्योऽहमितिवदहं ब्रह्मेतिदृढप्रत्ययवतः सत्याभिसंधस्य तप्तपरशुग्रहणादिशपथसमर्थस्येत्यर्थः॥२८५॥२८६॥

स्थित्युत्क्रान्त्योर्हि यो हेतुरात्माविद्यादिलक्षणः॥
ध्वस्तत्वात्तस्य सर्वस्य प्रत्यग्याथात्म्यदर्शनात्॥२८७॥

किमिति प्राणा ब्रह्मविदो नोत्क्रामन्ति दृश्यते हि तस्यापीतरवदुत्क्रमणमत आह। स्थितीति। उत्क्रमणादिहेतुत्वमविद्यादेरन्वयव्यतिरेकलभ्यमिति हिशब्दार्थः। तत्कार्यस्यास्थितिरिति शेषः॥ २८७॥

यत एवमतः प्राणाः सम्यग्ज्ञानस्य जन्मनि॥
नोत्क्रामन्ति न तिष्ठन्ति न च नश्यन्त्यहेतुतः॥२८८॥

उत्क्रान्तिस्थितिहेत्वभावे वाक्यार्थमुपसंहरति। यत इति॥२८८॥

रज्जुसर्पो यथा लोकेऽज्ञातरज्जुसतत्त्वकः॥
नोत्क्रामति न चाप्यास्ते न च नश्यति रज्जुतः॥२८९॥

आत्मयाथात्म्यज्ञानादज्ञानादिध्वस्तौ प्राणानामुत्क्रान्तिस्थितिनाशा न सिध्यन्तीत्यत्र दृष्टान्तमाह। रज्ज्वति। अज्ञातेति च्छेदः॥२८९॥

स्थित्युत्क्रान्तिविनाशानां रज्जुस्तत्त्वं यतस्ततः॥
रज्जुज्ञानसमुत्पत्तौ रज्ज्वा नान्योऽवशिष्यते॥२९०॥

रज्जुरेव तत्र कल्पितसर्पस्य तत्त्वमित्युक्तं हेतुं प्रपञ्चयति। स्थितीति। एवमात्मज्ञानोत्पत्तावन्यानवशेषान्न प्राणोत्क्रान्त्यादि सिध्यतीति शेषः॥२९०॥

अविद्यातज्जनिर्मुक्तं वस्त्वत्रैवेति भण्यते॥
समित्यैकात्म्यमात्रेण प्राणानां स्थितिरुच्यते॥२९१॥

अत्रैव समवनीयन्त इति माध्यंदिनश्रुतावत्रैवेत्यस्यार्थमाह। अविद्येति। उपसर्गार्थमाह। समितीति॥२९१॥

अवनीयन्त इत्युक्त्या नाशादिभ्योऽन्यतोगतिः॥
प्रत्यङ्मात्रैकनिष्ठत्वान्न भावाभावयोः स्थितिः॥२९२॥

क्रियापदार्थमाह। अवनीयन्त इतीति। अन्वयव्यतिरेकाभावपरिहारेण प्राणानामात्ममात्रतया स्थितिरवनयनमित्येतदुपपादयति। प्रत्यगिति॥२९२॥

तादात्म्यमेव सर्वस्य कार्यकारणवस्तुनः॥
उत्क्रान्त्यादेश्चकृत्स्नस्य सर्वमात्मेतिशास्त्रतः॥२९३॥

प्रत्यङ्निष्ठतामन्तरेण प्राणादेर्भावाभावात्मना न स्थितिरित्यत्र मानमाह। तादात्म्यमिति॥२९३॥

इति वस्तु स्वतो बुद्धमज्ञानं चानुभूतितः॥२९४॥

प्रत्यग्याथात्म्यमात्रत्वात्तन्मोहाद्यप्यशेषतः॥
निवर्ततेनिवृत्तं चेत्येतदप्यनुभूतितः॥२९५॥

ननु सर्वस्याऽऽत्ममात्रत्वे साधकाभावादात्मासिद्धिर्न च शास्त्रात्तत्सिद्धिस्तस्याज्ञाते प्रवृत्तेर्न च सर्वस्याऽऽत्मत्वे ततोऽन्यदज्ञानमस्ति न चाज्ञानादि निवर्तते निवृत्तं चेति व्यवहारस्ते संभवत्यत आह। इति वस्त्विति। न तावदात्मनः साधकापेक्षा स्वप्रकाशत्वान्नापि तत्र शास्त्राप्रामाण्यमज्ञानस्य तत्रानुभवसिद्धत्वात्प्रत्यगितररूपाभावादविद्यादेस्त्रैकाल्यनिवृत्तिश्च विद्वदनुभवसिद्धा न विरुद्धेत्यर्थः॥२९४॥२९५॥

यत एवमतो वस्तु मुक्तमेव विमुच्यते॥
कठवल्लीषु चाप्युक्तं विमुक्तश्च विमुच्यते॥२९६॥

माध्यंदिनश्रुतिं व्याख्याय ब्रह्मैवेत्यादिवाक्यमवतार्य व्याख्यातुं भूमिकां करोति। यत इति। आत्मवस्तु वस्तुतो नित्यशुद्धबुद्धमुक्तस्वभावमविद्ययाऽन्ययेत्येवं यतोऽवगतमतः स्वतो मुक्तमेवाविद्यया बद्धवत्सिद्धं विद्ययाऽविद्याध्वस्तौ मुक्तिष्यपदेशभागित्यर्थः। तत्र श्रुत्यन्तरं संवादयति। कठेति॥२९६॥

इहापि सपरीवा1143रं श्रुतिन्यायोपपत्तिमत्॥
श्रुतिस्तदेव चाऽऽचष्टे वस्तु ब्रह्मैव सन्निति॥२९७॥

पातनिकां कृत्वा मुक्तस्यैव मुक्तिरित्यर्थे वाक्यमुत्थापयति। इहेतिब्रह्मैव सन्ब्रह्माप्येतीत्येषा श्रुतिस्तदेव श्रुत्यन्तरसिद्धं वस्तु शमादिपरिवारसहितश्रवणमनननिदिध्यासनैः श्रुतिन्यायोपपत्तिशब्दितैर्विषयीकृतमाचष्टे तदिहापि श्रुत्यन्तरवन्मुक्तस्यैव मुक्तिः सिद्धेत्यर्थः॥ २९७॥

ब्रह्म वा इदमित्येवं सूत्रितं वस्तु यत्पुरा॥
स्पष्टं व्याख्याय तच्छ्रुत्या ह्युपसंह्रियतेऽधुना॥२९८॥

ननु ब्रह्म वा इदमग्र आसीदित्यत्र ब्रह्मज्ञानं सफलं सूत्रितं तच्च ब्रह्म ते ब्रवाणीत्यादिना व्याख्यातमतो ब्रह्मैव सन्नित्याद्यनर्थकमत आह। ब्रह्मेति। उपक्रान्तस्य परामृष्टस्योपसंहारावसरं दर्शयितुं हिशब्दः॥२९८॥

योऽयं संसारभूमिष्ठो व्याख्यातोऽज्ञाततत्त्वकः॥
कार्यकारणरूपोऽयं मो1144हवृत्तानुरोधतः॥२९९॥

उपसंह्रियमाणं सोपस्कारं स्फोरयितुं संसारिरूपमनुवदति। योऽयमिति। यस्तावत्तद्धेदमित्यादावज्ञाततत्त्वकः प्रत्यग्धातुः संसारभूमिगतः प्रकृतः सोऽयं यत्रायमात्मेत्यादिना व्याख्यात इति योजना । संसारभूमिष्ठं प्रत्यञ्चं प्रपञ्चयति। कार्येति॥२९९॥

यतो ब्रह्मैव सन्नेष प्रथते मोहतोऽन्यथा॥
ब्रह्मैवैतीह सन्ब्रह्म तस्मान्मोहनिराकृतौ॥३००॥

अथोपसंह्रियमाणं वदन्वाक्यं योजयति। यत इति। इहेति विद्याविद्यावस्थयोरन्यतरोक्तिः॥३००॥

नान्यदज्ञानतोऽस्तित्वं द्वितीयस्याऽऽत्मनो यथा॥
निवृत्तिस्तद्वदेवास्य नावगत्यात्मनोऽपरा॥३०१॥

मोहध्वस्तेरात्मनोऽन्यत्वमाशङ्क्यासकृदुक्तं स्मारयति। नेति॥३०१॥

यस्मादेतत्स्वतो बुद्धं स्वतः शुद्धमतोऽद्वयम्॥
प्रमात्रादेस्तदज्ञाननिवृत्तौ विनिवृत्तितः॥३०२॥

अवगत्यात्मस्वरूपं दर्शयति। यस्मादिति। कथमद्वयत्वं मात्रादेः सत्त्वात्तत्राऽऽह। प्रमात्रादेरिति॥३०२॥

मुक्तं चातः स्वतस्तत्त्वं1145 मुक्तमित्युपचर्यते॥
तदविद्यादिविध्वंसात्त्रिर्वः1146 शपथयाम्यहम्॥३०३॥

नित्यशुद्धस्याद्वयस्य कथं मुक्तत्वोक्तिर्मलाभावे तद्विगमात्मनो मुक्तेरनुपपत्तेस्तत्राऽऽह।मुक्तमिति। उपचारे निमित्तमाह। तदिति। उक्तात्मरूपे संदिहानान्प्रत्याह। त्रिरिति॥३०३॥

योऽक्रियाकारकं साक्षादक्रियाकारकात्मकः1147
1147त्मानमात्मनैवाऽऽत्मा साक्षाद्वेति सुषुप्तवत्॥३०४॥

निरस्ताशेषसंभेदं दृष्टिमात्रं निरञ्जनम्॥
वितमस्कं स आत्मज्ञस्ततोऽन्ये मूढचेतसः॥३०५॥

ब्रह्मविदो मुक्तस्यैव मुक्तिरित्ययुक्तं तस्याप्रत्यवायार्थं कर्मानुष्ठानस्य वादिभिरिष्टत्वादित्याशङ्क्याऽऽह। य इति। कूटस्थात्मवेदिनस्तत्क्रतुन्यायात्तथात्वमप्रतिहतमिति वक्तुं साक्षादित्युक्तम्। आत्मानमिति कर्मान्तरमात्मनैवेति करणान्तरमात्मैवेति कर्त्रन्तरं च निरस्यते। द्वितीयं साक्षात्पदं यथाश्रुतं संगतमित्यपौनरुक्त्यम्। यथा सुप्तमात्मरूपं मोक्षदृष्टान्तभूतमुक्तं तथैवाऽऽत्मानं मोक्षरूपं साक्षात्कुर्वन्ब्रह्मविदित्युच्यते स ब्रह्मविदिति श्रुतेर्ये त्वात्मानं वस्तुतः संसारिणं प्रत्यवायिनं कल्पयन्ति न ते विदन्ति ये के चाऽऽत्महनो जना इति श्रुतेरित्यर्थः॥३०४॥३०५॥

न तस्य जीवतः कश्चिद्विशेषोऽस्ति मृतस्य वा927
यतः सर्वविशेषाणामविद्यैवास्ति1148 कारणम्॥३०६॥

जीवन्नेव विद्वान्मुक्तः सन्मुच्यत इत्ययुक्तं जीवतो मुक्तिविरोधान्न हि प्राणादिमत्त्वं तद्राहित्यं च युगपद्युक्तमतो विदुषोऽपि मृतस्यैव मुक्तिरित्याशङ्क्याऽऽह। न तस्येति। सा चाविद्या जीवत एव विदुषोपनीताऽतो मृतस्य मोक्षवादिनो भ्रान्ता इति शेषः॥३०६॥

**अविचारितसंसिद्धिप्र1149त्यङ्मोहादिलक्षण—
व्यवधानमात्राभावेन ब्रह्माप्येतीतिशब्द्यते॥३०७॥ **

जीवदवस्थायामितरत्र च विदुषो विशेषाभावे कथं ब्रह्माप्येतीत्युच्यतेऽत आह। अविचारितेति॥ ३०७॥

इतोऽन्यथा चेन्मोक्षः स्यादारम्भोऽनर्थकः श्रुतेः॥
मुक्तेश्चकर्महेतुत्वादनित्यत्वं प्रसज्यते॥३०८॥

अप्येतिशब्दोऽविद्यातज्जरूपव्यवधानाभावाभिप्रायेण कस्मादौपचारिको व्याख्यातः परस्मादन्योजीवोऽनतिशयज्ञानकर्मभ्यां ब्रह्माप्येतीति किं न स्यादित्याशङ्क्याऽऽह। इत इति। आत्मनः स्वरूपावस्थानं मुक्तिः सा चाज्ञानव्यवधानहानार्थं ज्ञानं काङ्क्षति तत्राऽऽत्मैक्यार्था श्रुतिरर्थवती। आत्मनो भिन्नस्यैव भावान्तरब्रह्मभावो मुक्तिश्चेदैक्यश्रुत्युपक्रमो बाध्येतेत्यर्थः। मोक्षस्य साध्यत्वे दोषान्तरमाह। मुक्तेश्चेति॥३०८॥

एष नित्यो महिमेति श्रुतिवाक्यं विहन्यते॥
स्वाभाविकात्स्वभावाच्च नित्यो नान्योऽस्ति कश्चन॥३०९॥

इष्टापत्तिमाशङ्क्याऽऽह। एष इति। कृतकोऽपि ब्रह्मभावो ध्वंसवन्नित्यः स्यादित्याशङ्क्याऽऽह।स्वाभाविकादिति। कृत्रिमस्वभावव्यावृत्त्यर्थं स्वाभाविकपदम्। अतोऽन्यदार्तमिति हि श्रुतिः। ध्वंसस्य तु विकल्पमात्रत्वान्नित्यत्वमसंमतमिति कुतो दृष्टान्तेति भावः॥३०९॥

आत्मस्वभावो मोक्षश्चेद्वियच्छिद्रत्ववत्सदा॥
अग्न्युष्णवच्चाशक्योऽतः कर्मोत्थ इति भाषितुम्॥३१०॥

मोक्षोऽकृत्रिमस्वभावोऽपि कर्मोत्थः स्यादित्याशङ्क्याऽऽह। आत्मेति॥३१०॥

ज्वलनव्यापृतेरग्नेः प्रकाशौष्ण्यादि चेत्फलम्॥
नोपलब्ध्यन्तरायार्थध्वंसाभिव्यक्त्यपेक्षतः॥३११॥

अरणिगतस्य वह्नेरौष्ण्यप्रकाशौ नोपलभ्येते ज्वलने च सति दृश्येते तत्तयोरागन्तुकत्वं कादाचित्कोपलब्धिमत्त्वादिति दृष्टान्तेन विवदमानः शङ्कते। ज्वलनेति। न खलु स्वतोऽग्नेरौष्ण्यादि कादाचित्कं युक्तं दृष्टेर्व्यवधानस्य दार्वादेर्ध्वंसे मथनज्वलनादिनाऽप्यग्न्यभिव्यक्तिमपेक्ष्य तत्स्वभावस्यौष्ण्यादेर्व्यक्त्युपगमादिति परिहरति। नोपलब्धीति॥३११॥

ज्वलनव्यापृतेर्वह्नेःप्रकाशौष्ण्यादिजन्मनः॥
न त्वग्न्यपेक्षयौष्ण्यादेरभिव्यक्तस्वभावतः॥३१२॥

तत्प्रपञ्चयति। ज्वलनेति। मथनादिव्यापारादग्नेरौष्ण्यादिविशिष्टस्य जन्मोपगमाल्लब्धात्मकाग्न्यपेक्षया प्रकाशादेर्न व्यक्तिस्तदन्यतत्स्वभा1150वाभावादतो न सिद्धाग्न्यपेक्षयौष्ण्याद्यभिव्यक्तेः साध्यत्वं पुरुषापेक्षया तु तदिष्टमेव वह्नेरन्यत्वात्पुंसो व्यवधिसंभवादित्यर्थः॥३१२॥

नाभिव्यञ्जकसंसाध्या घटादेरिव चाऽऽत्मनः॥
अभिव्यक्तिः स्वतोभास्वद्बोधमात्रैकरूपतः॥३१३॥

पुरुषापेक्षयाऽग्न्यौष्ण्याद्यभिव्यक्तेर्ज्वलनादिसाध्यत्ववदात्मनो ब्रह्मभावमोक्षाभिव्यक्तिरपि कर्मादिसाध्येत्याशङ्क्याऽऽह। नेति। घटाद्यभिव्यक्तेर्दीपादिसाध्यत्ववदात्मनो ब्रह्मत्वव्यक्तिर्न साध्येत्यत्र हेतुमाह। स्वत इति॥३१३॥

अग्नेरन्यस्य पुंसोऽग्निज्वलनादिनिमित्ततः॥
उष्णप्रकाशयोर्व्यक्तिर्व्यवधानस्य संभवात्॥३१४॥

अग्न्यौष्ण्यादिव्यक्तिरपि न साध्या प्रकाशरूपत्वादात्मव्यक्तिवदित्याशङ्क्याऽऽह। अग्नेरिति॥३१४॥

अप्यभिव्यक्तिरूपेऽस्मिन्मोक्षे नैवास्ति कार्यता॥
प्रदीपादेरभिव्यङ्ग्यं नैव कार्यंघटादिकम्॥३१५॥

अग्निपुरुषयोरन्यत्वादग्निस्वभावौष्ण्यादिना सह पुंसो व्यवधिवदात्ममुक्त्योरपि कल्पितव्यवधिसंभवात्कर्मादिसाध्या तद्व्यक्तिरित्याशङ्क्याङ्गीकृत्याऽऽह। अपीति। अस्मिन्पक्षे कर्मादिकृतव्यक्तिस्वभावेऽभ्युपगतेऽपि न मुक्तेः साध्यतेति यावत्। मुक्तिश्चेत्कर्मव्यङ्ग्या कथं न तत्साध्येत्याशङ्क्याऽऽह।प्रदीपादेरिति॥३१५॥

अभिव्यक्तिश्च नैवास्ति सौष्ण्याद्यात्मकवस्तुनः॥
तदन्तरायासद्भावाद्वास्तवी न तु मोहजा॥३१६॥

दृष्टान्तेऽग्निस्वभावस्यैवौष्ण्यादेर्ज्वलनादिसाध्यां व्यक्तिमुपेत्य दार्ष्टान्तिके मोक्षे न कर्मादिसाध्या व्यक्तिस्तस्यास्तथात्वेऽपि मोक्षस्य न तत्साध्यतेत्युक्तम्। इदानीं दृष्टान्ते पुरुषापेक्षयेवाग्न्यपेक्षयाऽपि तदौष्ण्यादिव्यक्तेर्ज्वलनादिसाध्यत्वं किं न स्यादित्याशङ्क्याऽऽह। अभिव्यक्तिश्चेति। उष्णसहितप्रकाशात्मकं हि वह्न्याख्यं वस्तु न तस्य प्रकाशादिना सह व्यवधानं न हि स्वस्य स्वेनैव व्यवधिरतो वह्न्यपेक्षया तदौष्ण्यादिव्यक्तिर्न ज्वलनादिसाध्येत्यर्थः। कथं तर्हि मथनादिना वह्न्यौष्ण्यादेर्व्यक्तिव्यवहारस्तत्राऽऽह। वास्तवीति। न वह्निस्वरूपानुसारिणी तत्रौष्ण्यादिव्यक्तिव्यवहृतिर्मोहजा तु सेति यावत्॥३१६॥

ज्वालानुग्रहतो वह्नेस्तत्प्रकाशादिदर्शनात्॥
भ्रमोऽयमग्निव्यापारादुष्णादेर्जन्मकल्पना॥३१७॥

ज्वलनादिनौष्ण्यादिजन्मैव न तु व्यक्तिर्नियामकाभावादित्याशङ्क्याऽऽह। ज्वालेति। वह्नौ या ज्वाला तदनुग्रहात्तस्यैव वह्नेरौष्ण्यादिदृष्ट्या तद्द्वारा तज्जन्मेति भ्रान्तिर्वस्तुतस्त्वभिव्यक्तिरेव न जन्मेत्यर्थः॥३१७॥

न चेदग्नेः प्रकाशादिस्वभावोऽभ्युपगम्यते॥
यत्स्यात्स्वाभाविकं यस्य तदुदाहरणं भवेत्॥३१८॥

अग्नेरौष्ण्यादि न स्वाभाविकं तन्न तादृशो मोक्षस्योदाहरणमिति शङ्कते। चेदिति। वस्तुनः स्वाभाविको धर्मोऽस्ति न वेति विकल्प्याऽऽद्यं प्रत्याह। यदिति उदाहरणं मोक्षस्येति शेषः॥३१८॥

न च स्वाभाविको धर्मः कस्यचिन्नास्ति वस्तुनः॥
स्वयं तु भवतो यस्माद्वस्तुनोऽन्येन संगतिः॥३१९॥

द्वितीयं दूषयति। न चेति। तत्र हेतुः। स्वयं त्विति। लब्धात्मकं हि वस्त्ववस्त्वन्तरेण संबध्यतेऽन्यथा सर्वाण्येव वस्तूनि संकीर्येरन्नस्ति च निम्बे तिक्तत्वधीरित्यर्थः॥३१९॥

निगडध्वंसवन्नापि पुंसो मोक्ष इहाऽऽत्मनः॥
निवृत्तिमात्रं बन्धस्य कथंचिदुपपद्यते॥३२०॥

ब्रह्मभावो मोक्षो न कर्मसाध्य इत्युक्तमन्ये तु तममृष्यमाणा बन्धध्वंसं मोक्षमाचक्षाणास्तस्य कर्मसाध्यतामाहुस्तान्प्रत्याह। निगडेति। न हि बन्धस्य तथास्थितस्य ध्वस्तिर्विरोधान्नाप्यन्यथास्थितस्य तस्यानवस्थानान्न च प्रसिद्धिविरोधो दुर्निरूपध्वस्ति विषयत्वादित्याह। निवृत्तीति॥३२०॥

एकमेवाद्वितीयं सद्द्वि1151तीयं तदबोधतः॥
न च बद्धस्ततोऽन्योऽस्ति यस्य नश्यति बन्धनम्॥३२१॥

किंच नाऽऽत्मातिरिक्ता तद्ध्वस्तिर्बन्धस्याऽऽविद्यस्यास्वातन्त्र्यान्न हि रज्ज्वविद्याकल्पितसर्पभावाभावौ रज्ज्वातिरेकेण स्तस्तथाच स्वरूपस्थितिरेव मुक्तिरित्याह। एकमिति। ब्रह्मणोऽद्वयत्वेऽप्यन्यस्य बद्धस्य स्वीयबन्धध्वस्तिर्मुक्तिरित्याशङ्क्याऽऽह।न चेति॥३२१॥

प्रतीचो व्यतिरेकेण तथैवाव्यतिरेकतः॥
वस्त्वन्तरस्य सद्भावमभावं च प्रयत्नतः॥३२२॥

निराकार्षं सुयुक्त्युक्त्या मोक्षोऽतोऽज्ञाननिह्नुतिः।
सर्पाद्यभाववद्रज्जुमोहमात्रनिवृत्तितः॥३२३॥

अन्यो बद्धोऽबद्धो वा नेत्यत्राव्याकृतविचारादावुक्तं स्मारयति। प्रतीच इति। प्रयत्नो विचारपरिनिष्पीडनं सुयुक्तिर्नामाऽऽगमानुसारी न्यायः। प्रत्यग्ब्रह्मातिरिक्तवस्त्वभावे कीदृशी मुक्तिरित्याशङ्क्याह। मोक्ष इति। तत्प्रतिबन्धकाज्ञानध्वस्तौ

तद्व्यवहार इत्यत्र दृष्टान्तमाह। सर्पादीति। रज्जुविषयमोहमात्रध्वस्त्या तज्जसर्पादिध्वस्तिवदात्मज्ञानात्तदज्ञानध्वस्त्या तदुत्थबन्धध्वस्तिरतो रज्जोः स्वाज्ञानतज्जध्वस्तौ रज्जुभाववदात्मनोऽपि स्वाविद्यातज्जध्वस्तावुपचर्यते ब्रह्मत्वमित्यर्थः॥३२२॥३२३॥

ये तु व्याचक्षते मोक्षे नित्यानन्दैकगोचरा॥
ज्ञानाभिव्यक्तिरित्येवं स्वसिद्धान्तसमाश्रयात्॥३२४॥

आत्मनो1152 ब्र1152ह्मत्वं मुक्तिरित्युक्तमथ वैषयिकसुखज्ञानातिरिक्ते सुखज्ञाने मोक्षे व्यज्येते ते च मिथो विषयविषयिभूते न ब्रह्मभावमात्रं मुक्तिरिति मतमाह। ये त्विति। तत्र मानयुक्तिहीनत्वं सूचयति। स्वसिद्धान्तेति॥३२४॥

तैरभिव्यक्तिशब्दार्थो वक्तव्यः कीदृगिष्यते॥
प्रसिद्ध एव चेदर्थो विज्ञानालम्बनाप्तिता॥३२५॥

केयमभिव्यक्तिरुत्पत्तिर्वा प्रकाशो वा नाऽऽद्यो मोक्षे सुखाद्युत्पत्तौ तदनित्यत्वापत्तेरिति मत्वाऽऽह। तैरिति। द्वितीयमालन्यते। प्रसिद्ध इति। घटादेरिव ज्ञानविषयत्वं मुखादेर्व्यक्तिरित्यर्थः॥३२५॥

विज्ञानालम्बनप्राप्तिः किं सतो वाऽथवाऽसतः॥
अभिव्यक्तिः सतश्चेत्स्याद्यस्य मुक्तस्य तत्सुखम्॥३२६॥

स्वरूपमेव तस्येति विशेषणमनर्थकम्॥
मुक्तौ तद्व्यज्यते ज्ञानं सुखं चेति यदीरितम्॥३२७॥

सुखादि विद्यमानमविद्यमानं वाऽऽत्मनो व्यज्यत इति विकल्पयति। विज्ञानेति। आद्यमनुभाष्य दूषयति। अभिव्यक्तिरिति। आत्मनो विद्यमानं सुखादि मुक्तौ व्यज्यते चेत्तर्हि स्वरूपमेव मुक्तस्य स्यात्ततो भेदेनावस्थाने मानाभावादतो नित्यव्यक्तेः सुखादेर्मुक्तौव्यक्तिरिति विशेषोक्तिरनर्थिकेत्यर्थः। संसारेऽनभिव्यक्तमपीत्यप्यर्थे चकारः॥३२६॥ ३२७॥

स्वात्मभूतं हि यद्यस्य नैव तद्व्यवधीयते॥
आत्मनस्तत्स्वभावत्वात्सर्वदेति विनिश्चयः॥३२८॥

स्वरूपत्वेन सदा सदपि तत्प्राङ्मुक्तेर्व्यवहितत्वादव्यक्तमित्याशङ्क्याऽऽह। स्वात्मेति। स्वरूपसुखादेर्न वास्तवं व्यवधानं स्वरूपत्वविरोधान्मानाभावाच्चावास्तवे तु तस्मिन्मतभेदासिद्धिरित्यर्थः। यद्यस्य स्वरूपं न तत्तस्य व्यवहितं यथा प्रकाशो दीपस्येतिव्याप्त्यर्थो हिशब्दः॥३२८॥

अमुक्तावथवा मुक्तौ विशेषोऽस्ति न कश्चन॥
प्रत्यगात्मस्वभावत्वात्सुखविज्ञानयोरतः॥३२९॥

मुक्तौ तद्व्यज्यत इति विशेषवचनं मृषा॥
स्वसिद्धान्तविरोधोऽपि तदभिव्यक्तिवादिनः॥३३०॥

सत्कार्यवादिनो यस्मादभिव्यक्तिः प्रशस्यते॥
व्यज्यते सर्वमेवेदं सत्त्वात्सर्वस्य वस्तुनः॥३३१॥

बन्धमोक्षयोः सुखादेरतिशयाभावे मुक्तौ तद्व्यक्तिरिति विशेषोक्तिरनर्थिकेत्युक्तं निगमयति।अमुक्ताविति। किंचासत्कार्यवादिनां सत्कार्यवादिनां वा मतमेतदिति विकल्प्याऽऽयं प्रत्याह। स्वसिद्धान्तेति। तत्पक्षे वा कथं तत्प्रशंसेत्याशङ्क्य तन्मतमनुवदति। व्यज्यत इति॥३२९॥३३०॥३३१॥

आरम्भवादे त्विच्छादेः कार्यत्वादसदात्मता॥
असतश्चाप्यभिव्यक्तिर्न युक्ता खरशृङ्गवत्॥३३२॥

असत्कार्यवादेऽपि कस्मादभिव्यक्तिरेव न भवति तत्राऽऽह। आरम्भेति। नापि द्वितीयस्तत्र विशेषणवैयर्थ्यस्योक्तत्वादिति तुशब्दार्थः। विद्यमानसुखादेरभिव्यक्तिपक्षं निराकृत्य पक्षान्तरं निराकरोति। असतश्चेति॥३३२॥

व्यङ्ग्यव्यञ्जकसंबन्धः प्रदीपघटयोरिव॥
उभयोः सिद्धयोर्योगान्नेष्टा कारणकार्यता॥३३३॥

तस्यापि तच्छब्दाद्व्यक्तिमाशङ्क्य तद्विशेषो नास्तीत्याह। व्यङ्ग्येति। किंच व्यक्तिः सत्यसती वोभयथाऽपि कारणेन तस्या न कार्यता सतोऽसतश्च साध्यत्वादृष्टेरित्याह। नेष्टेति॥३३३॥

सुखविज्ञानयोश्चापि किमभेदोऽथवा भिदा॥
नैक्येऽभिव्यक्तिशब्दार्थः कदाचिदपि लभ्यते॥३३४॥

व्यक्तिपक्षे दोषान्तरं वक्तुं विकल्पयति। सुखेति। आद्ये ज्ञानालम्बनत्वाख्या व्यक्तिर्न सिध्यत्येकत्र विषयविषयित्वायोगादित्याह। नेति॥३३४॥

अथ भेदस्तयोरिष्टोव्यवधानं प्रसज्यते॥
तद्भेदाभेदतासिद्धौ न च मानमिहास्ति वः1153॥३३५॥

कल्पान्तरमनूद्य निरस्यति। अथेति। सुखज्ञानयोर्भेदे देशादिव्यवधिप्रसङ्गाद्घटादिवन्नित्यज्ञानाज्ज्ञानान्तरं सुखग्राहि स्यात्तथाच मुक्तावपि कार्यकारणप्रसक्तेः संसारादविशेष इत्यर्थः। ज्ञानानन्दयोर्न केवलो भेदो नाप्यभेदः किंतु भेदाभेदावित्याशङ्क्याऽऽह।तदिति। इहेत्यात्मा मुक्तिर्वोक्ता॥३३५॥

भेदग्राहि न नो मानमितोऽन्यत्रापि विद्यते॥
मेयमात्रावसायित्वात्सर्वमानस्य सर्वदा॥३३६॥

तयोर्भेदाभेदे मानाभावार्थं भेदस्याप्रामाणिकत्वं साधयति। भेदेति। घटादावपि न भेदग्राहि मानमस्तीत्यत्र हेतुमाह। मेयेति॥३३६॥

स्वमेयव्यतिरेकेण मेयान्तरसमाश्रयः॥
1154 व्यावृत्त्यनुवृत्यादिव्यापारोऽस्ति मितेः क्वचित्॥३३७॥

स्वार्थं व्यञ्जयदेव मानमन्यस्माद्व्यावृत्तिमनुवृत्तिं च तस्य व्यनक्तीत्याशङ्क्याऽऽह। स्वमेयेति। स्वार्थावसितव्यापाराणि मानानि न तस्यान्यतो भेदमभेदमुभयं वाऽवगाहन्ते स्वार्थशूराणां तेषामन्यत्रौदासीन्यादित्यर्थः॥३३७॥

अभिव्यक्तिः सुखस्यास्तु कामं ज्ञानेन संगतेः॥
ज्ञानव्यक्तौ तु किं मानं यतोऽभिव्यक्तिवागियम्॥३३८॥

अस्तु वा यथाकथंचिज्ज्ञानेन संगत्या सुखव्यक्तिस्तद्व्यक्तिस्तु न सिध्यति तत्कुतो द्वयोर्मुक्तौ व्यक्तिरित्याह। अभिव्यक्तिरिति। ज्ञाने स्वयमेव मानमन्यद्वेति प्रश्नार्थः॥३३८॥

प्रमाणानां प्रमाणत्वं न स्वरूपप्रमेयता॥
1155 च मानान्तरादिष्टं तयोस्तुल्यस्वभावतः॥३३९॥

तत्राऽऽद्यं दूषयति। प्रमाणानामिति। मानमेययोर्भेदप्रसिद्धेरित्यर्थः। द्वितीयं निराह। न चेति। इष्टं मानस्य मेयत्वमिति शेषः॥३३९॥

अभिव्यक्तिर्मताऽथापि कादाचित्की न सर्वदा॥
तदन्तरायसद्भावादव्यक्तिः स्यात्सदा ध्रुव1156म्॥३४०॥

किंच ज्ञानेन सुखव्यक्तिरनित्या नित्या वेति विकल्प्याऽऽद्यमादत्ते। अभिव्यक्तिरिति। अनित्या चेदानन्दाभिव्यक्तिस्तदा तस्य व्यवधेरव्यक्तिरेव मुक्तौ स्यात्तत्काले तद्धेत्वभावादित्याह। तदन्तरायेति। संसारदशायामानन्दाव्यक्तेरिष्टत्वमवष्टम्यसदेत्युक्तम्॥३४०॥

अन्तरायनिवृत्तौ च व्यपेक्षा वः प्रसज्यते॥
साधनान्तरविषया तज्ज्ञानव्यतिरेकतः॥३४१॥

मुक्तिदशायां व्यवधिभङ्गेन तद्व्यक्तिरित्याशङ्क्याऽऽह। अन्तरायेति। व्यवधेर्वस्तुत्वे ज्ञानस्यातद्ध्वंसित्वात्तदर्थं हेत्वन्तरमुपास्यं तदभावान्मुक्तौ व्यवधानाध्वस्तेरव्यक्तिरेव सुखस्येत्यर्थः॥३४१॥

उपलब्ध्येकनीडत्वे व्यवधानस्य कल्पना॥
न चोपपद्यते मानात्तयोरेकात्मकत्वतः॥३४२॥

व्यवधेरवस्तुत्वे तस्याज्ञानाख्यस्य ध्वस्तिर्नित्यादागन्तुकाद्वा ज्ञानादिति विक-

ल्प्याऽऽद्यं दूषयति। उपलब्धीति। यत्र ज्ञानं तत्रैव सुखमपीत्येकाश्रयत्वे तयोर्व्यवधानमप्रामाणिकमेकस्मिन्नात्मनि तयोः सदा सत्त्वाद्व्यवधानाज्ञानस्य नित्यज्ञानेन नित्यप्रतिहतेरित्यर्थः॥३४२॥

एवं च सत्यभिव्यक्तिः सर्वदा सुखबोधयोः॥
अभिव्यक्तिर्न चेदेवं नाभिव्यक्तिः सदा तदा॥३४३॥

व्यवधानायोगे फलितमाह। एवं चेति। विपक्षे दण्डमाह। अभिव्यक्तिरिति॥३४३॥

इतोऽन्यथा कल्पनायां न प्रमाणं समीक्ष्यते॥३४४॥

नाप्येकाश्रयिणां लोके धर्माणां क्वचिदीक्ष्यते॥
मानमेयत्वसंबन्धो1157 मि1157थोयोग्यत्वतस्तथा॥३४५॥

यदि मुक्तावागन्तुकं ज्ञानमज्ञानाख्यं व्यवधिं धुनीते तत्राऽऽह। इतोऽन्यथेति। नित्यज्ञानं विना मुक्तावागन्तुकज्ञानकल्पनायां तत्र मात्रादि कल्प्यं तच्चायुक्तं बन्धादविशेषापत्तेर्मानाभावाच्चेत्यर्थः। इतश्च मुक्तौ ज्ञानादिव्यक्तिरयुक्तेत्याह। नापीति। विमतौ नान्योन्यगोचरावेकाश्रयत्वात्तथाविधरूपरसवदिति भावः॥३४४॥३४५॥

सुखादिव्यक्तितः पूर्वं यस्य संसारिता मता॥
सोऽन्य एव सदाव्यक्तनित्यज्ञानसुखात्मनः॥
शीतोष्णयोरिव तयोर्वैलक्षण्यात्पर1158स्परम्॥३४६॥

अभिव्यक्तिवादे दोषान्तरं वक्तुं भूमिकामाह। सुखेति। परापरयोर्भेदे दृष्टान्ते हेतुं ब्रूते। शीतेति॥३४६॥

परात्मभेदकॢप्तौ च संत्यागो वः प्रसज्यते॥
यतो वैदिकपक्षस्य नातः कल्प्याऽऽत्मनो भिदा॥३४७॥

तद्भेदापादनमस्मदिष्टमेवेत्याशङ्क्याऽऽह। परेतिएको देवः सर्वभूतेष्वेकमेवाद्वितीयमित्यादिर्वैदिकः पक्षः॥३४७॥

आत्मधीमानमात्रत्वात्प्रत्यगात्मैकव1159स्तुनः॥
प्रमाणासंभवश्च स्यादात्मभेदप्रकल्पने॥१४८॥

वैदिकोऽपि पक्षस्त्यज्यते तद्भेदस्य प्रत्यक्षादिसिद्धत्वादित्याशङ्क्याऽऽह। आत्मेति। स्वप्रकाशे भेदग्राहिमानायोगाद्ब्रह्मभावो मोक्षस्तस्य निर्विशेषो नित्यसिद्ध इत्यर्थः। उक्तप्रमाणविरोधसमुच्चयार्थश्चकारः॥३४८॥

नन्विदानीं यथा तद्वन्मुक्तौ चेदविशेषता॥
नातियत्नो भवेन्नॄणां शास्त्रवैयर्थ्यमेव च॥३४९॥

उक्तां मुक्तिममृष्यमाणः शङ्कते। नन्विति। लौकिकं यत्नमतीत्य शास्त्रीयशमादिरतियत्नः। शास्त्रं मोक्षविषयम्॥३४९॥

नाऽऽत्माविद्याहानमात्रकारित्वादागमात्मनः॥
तदर्थंयत्नसाफल्यं शास्त्रारम्भोऽपि चार्थवान्॥३५०॥

मोक्षस्य निर्विशेषत्वेऽपि स्वाविद्यातज्जध्वंसित्वेन शास्त्राद्यर्थवदिति परिहरति। नाऽऽत्मेतियथाऽऽहुः—अविद्याकल्पितभेदनिवृत्तिपरत्वाच्छास्त्रस्येति॥३५०॥

मुक्तामुक्तत्वरूपोऽयं न विशेषोऽस्ति वस्तुनि॥
तदविद्यैव निःशेषविशेषाणां प्रसूतिकृत्॥३५१॥

अथामुक्तस्याऽऽत्मनो मुक्तिविशेषार्थौशास्त्रयत्नौ किं न स्यातां तत्राऽऽह। मुक्तेति। तत्र वस्तुतो विशेषाभावे हेतुमाह। तदविद्येति॥३५१॥

अशेषानर्थहेतुं तामविद्यां शास्त्रजा मतिः॥
यतो निहन्ति तेन स्यात्साफल्यं यत्नशास्त्रयोः॥१५२॥

शास्त्रयत्नयोरर्थवत्त्वं निगमयति। अशेषेति॥३५२॥

अथाविद्यावतोऽविद्याहान्यहानिकृतो भवेत्॥
विशेष आत्मनः कश्चिदिति चेन्नैवमिष्यते॥३५३॥

अविद्यामात्रहेतूत्थगोचरत्वसमाश्रयात्॥
रज्जुखण्डाद्य1160विद्योत्थसर्पादिविनिवृत्तिवत्1161॥३५४॥

आत्मनो निर्विशेषासिद्धिं चोदयति। अथेति। आविद्यःसोऽपीति समाधत्ते। नैवमिति। रज्ज्वविद्योत्थसपीदेस्तद्विद्यया ध्वंसाध्वंसयो रज्जोर्वास्तवविशेषाभाववदात्मनोऽपि स्वाविद्यामात्रोत्थविशेषवतोऽपि तद्ध्वंसाध्वंसयोर्न वास्तवो विशेषोऽस्तीत्यर्थः॥३५३॥३५४॥

आत्मनो मोहकर्तृत्वमकर्तृत्वं यदीष्यते॥
विशेष इति नैवं स्याद्ध्यायतीबेति वारणात्॥३५५॥

तथाऽपि सविशेषताऽऽत्मनो दुर्वारेत्याह। आत्मन इति। मोहकर्तृत्वं तज्जनकत्वं तदाश्रयत्वं वेति विकल्प्याऽऽद्यं दूषयति। नैवमिति॥३५५॥

अजो न जायते नेति ध्यायतीवेति चाऽऽगमैः॥
निषेधः क्रियतेऽशेषविकारादेरिहाऽऽत्मनः1162॥३५६॥

तदेव स्फोरयति। अज इति। विकारादेरित्यादिशब्देन विकारिग्रहणम्। इहेति मुक्तिशास्त्रोक्तिः॥३५६॥

विषयत्वोपपत्तेश्च प्रत्यङ्मोहतदुत्थयोः॥
नाविद्यावान्भवेदात्मा नापि तत्कार्यवांस्ततः
*1163॥३५७॥

कल्पान्तरं प्रत्याह। विषयत्वेति। अविद्यादेरात्मदृश्यत्वान्न तदाश्रयत्वं न हि तद्गतस्य तद्ग्राह्यत्वमंशतःस्वग्रहापत्तेरित्यर्थः। चकारोऽवधारणार्थः। *1163अतःशब्दस्तु प्राच्या पञ्चम्या संबध्यते॥३५७॥

ग्राहकग्रहणग्राह्यभावाभावप्रसिद्धता॥
यथाऽऽत्मसाक्षिका तद्वन्न वेद्मीत्यात्मसाक्षिकम्॥३५८॥

तस्याऽऽत्मदृश्यत्वं प्रपञ्चयति। ग्राहकेति। अज्ञानोत्थस्याऽऽत्मदृश्यत्ववत्तस्यापि तद्दृश्यत्वं स्वसाक्षिकमित्यर्थः॥३५८॥

अज्ञातत्वान्यथाज्ञातसिद्धेरात्मैकसाक्षितः॥
अज्ञानमन्यथाज्ञानमतो नास्त्यात्मसाक्षिणः॥३५९॥

सर्वस्याऽऽत्मसाक्षिकत्वेऽपि किं तवेति तदाह। अज्ञातत्वेति॥३५९॥

न हि यो यत्र साक्षीह स तत्राज्ञ इतीर्यते॥
असामान्येन तत्सिद्धेः साक्षिसाक्ष्यपदार्थयोः॥३६०॥

न जाने मुग्धोऽस्मीति प्रतीतेः साक्षिणोऽपि तदाश्रयतेत्याशङ्क्याऽऽह। न हीति। इहेति व्यवहारदशोक्तिः। तयोराश्रयाश्रयित्वाभावे हेतुमाह। असामान्येनेति। मिथोव्यावृत्तासाधारणरूपेणेत्यर्थः। तत्तयोरिति यावत्॥३६०॥

तस्मिन्साक्षी च मूढश्चेत्यतीवैतद्विरुध्यते॥
मिथो वाक्यमतो नेदृग्वक्तव्यं मानिना ततः॥३६१॥

आत्मनोऽविद्यानाश्रयत्वे हेत्वन्तरमाह। तस्मिन्निति। ततो नाऽऽत्मनोऽविद्याश्रयतेति शेषः॥३६१॥

न जाने मुग्ध एवाहं भवदुक्तं मनागपि॥
इति चेद्वीक्षसे तर्हि मूढमज्ञंच कुम्भवत्॥३६२॥

प्रतीचो युक्तितोऽज्ञानाद्याश्रयत्वं प्रत्युक्तं सा चानुभवबाधितेति मन्वानो ब्रूते। नेति। मातुस्तदाश्रयत्वमनुभवादभिदधासि तत्साक्षिणो वाऽऽद्यं प्रत्याह। वीक्षस इति॥३६२॥

त्वं त्वज्ञोमूढ एवेति भव कामं यथेच्छसि॥
मूढाज्ञयोस्तु यः साक्षी नासौ मुग्धोऽज्ञएव वा॥३६३॥

___________________________________________________________________________

* एतद्टीकानुरोधेन मूले वानत इति स्यादथवा मूलानुरोधेन टीकायां ततःशब्द इति स्यादिति ज्ञेयम्॥

उक्तेऽर्थे भवेत्या1164दिभाष्यं योजयति। त्वं त्विति। कल्पान्तरं निराह। मूढेति॥३६३॥

लोकेऽपि यस्य यः साक्षी सम्यग्दर्श्येव तस्य सः॥
यथा लोके तथेहापि साक्षी सम्यक्प्रपश्यति॥३६४॥

मातृसाक्षिणो मोहाद्यभावे लोकप्रसिद्धिं प्रमाणयति। लोकेऽपीति। प्रकृते साक्षिणि लोकसाक्षिणो वैलक्षण्यमाशङ्क्याविशिष्टस्तु वाक्यार्थ इति न्यायेनाऽऽह। यथेति॥३६४॥

महाभूतादिधृत्यन्तं क्षेत्रमेवेति चाब्रवीत्॥
साक्षात्स्वयंभूर्वेदात्मा संसारानर्थशान्तये॥३६५॥

आत्मनो मोहादिराहित्ये भगवद्वाक्यमपि मानमित्याह। महाभूतादीति

“महाभूतान्यहंकारो बुद्धिरव्यक्तमेव च।
इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः॥

इच्छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः।
एतत्क्षेत्रं समासेन सविकारमुदाहृतम्”॥

इत्यज्ञानोत्थस्य महाभूतादेः साक्षिणः सकाशात्क्षेत्रत्वेन पृथक्करणात्तत्कारणीभूतस्याज्ञानस्यापि तदस्पर्शसिद्धिरित्यर्थः। न चेदममानमाप्तोक्तत्वादित्याह। साक्षादिति। न चेदं सुगतोक्तिसमं वेदमूलत्वादित्याह। वेदेति। किमर्थमित्थं भगवानूचिवांस्तत्राऽऽह। संसारेति॥३६५॥

यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः॥
क्षेत्रं क्षेत्री तथा कृत्स्त्रं प्रकाशयति भारत॥३६६॥

मोहादेरात्मदृश्यत्वान्नाऽऽत्मनिष्ठतेत्यत्रापि संमतिमाह। यथेति॥३६६॥

ज्योतिषामपि तज्ज्योतिः स्वयंज्योतिःश्रुतेस्तथा॥
न तत्र सूर्यो भातीति नान्योऽतोऽस्तीति च श्रुतेः॥३६७॥

तत्रैव श्रुतिं संवादयति। ज्योतिषामिति। आत्मनोऽपि दृश्यत्वमाशङ्क्याऽऽह। स्वयमिति। द्रष्ट्न्तराभावाच्च नाऽऽत्मनो दृश्यतेत्याह। नान्य इति॥३६७॥

यत एवमतो नास्ति विशेषोऽत्र मनागपि॥
बन्धमोक्षादिरूपोऽयमात्मनीति विनिश्चयः॥३६८॥

आत्मनो निर्विशेषत्वे सिद्धे स्वमतमुपसंहरति। यत इति॥३६८॥

ये त्वतः कल्पयन्तीममन्यथैव महाधियः॥
अर्थवादं च बन्धादिशास्त्रं व्याचक्षते तथा॥३६९॥

पक्षान्तरमनुभाषते। ये त्विति। अतो निर्विशेषत्वादिति यावत्। इममित्यात्मोक्तिः। महाधिय इति स्थूलबृद्धित्वमुच्यते। यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते। अथ सोऽभयं गतो भवति। यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते। अथ तस्य भयं भवतीत्यादावज्ञानाद्बन्धोज्ञानान्मुक्तिरिति शास्त्रे सति कथमात्मनो वस्तुतः सविशेषतेत्याशङ्क्याऽऽह। अर्थवादं चेति। तथा सत्यात्मनो बन्धमोक्षादिविभागो वास्तवोऽस्तीत्याह। तथेति॥३६९॥

इत्युक्तावसकृत्पूर्वं परिहारोऽपि वर्णितः॥३७०॥

एवं परिहृतेऽप्याहुर्यथेच्छं दूषणं परे॥
विद्वद्भिस्त उपेक्ष्याः स्युर्बालोन्मत्तसमा जनाः॥३७१॥

इमामेव द्वैतिनामुक्तिमनूद्य तत्र तत्रानेकधा समाधेरुक्तत्वान्न भूयस्तदर्थं यतितव्यमित्याह। इत्युक्ताविति। अपिरवधारणार्थो निष्ठानन्तरभाबी। भाष्याद्बहिरेव परपक्षदोषं स्मारयित्वा त उत्सहन्ते खेऽपीत्यादिभाष्यतात्पर्यमाह। एवमिति॥३७०॥३७१॥

ब्रह्माप्येतीत्यतो वाक्यमुपचारसमाश्रयात्॥
तदविद्योत्थदेहादिसंतत्युच्छेदहेतुतः॥३७२॥

परपक्षनिरासेनोक्तं वाक्यार्थमुपसंहरति। ब्रह्मेति। उपचारनिमित्तं निगमयति। तदविद्येति॥ ३७२॥

अविद्याध्वस्तिमापेक्ष्य सम्यग्धीजन्ममात्रतः॥
आत्मा ब्रह्मैव सन्साक्षाद्ब्रह्माप्येतीति भण्यते॥३७३॥

भाविदेहादिसंतत्युच्छेदे निमित्तमाह। अविद्येति। तद्ध्वस्तिहेतुमाह। सम्यगिति। उपचाराश्रयादुक्तवाक्यस्य योजनां निगमयति। आत्मेति। सम्यग्ज्ञानादज्ञानध्वस्तिमपेक्ष्य तज्जन्यदेहादिध्वंसं निमित्तीकृत्य साक्षाद्ब्रह्मैव सन्नात्मा ब्रह्माप्येतीत्युच्यते तस्मादुपचारादेतद्वाक्यमिति वार्तिकयोजना1165॥३७३॥

इत्येतत्सर्ववेदान्तसर्वस्वं ब्राह्मणोदितम्॥
अर्थस्य ब्राह्मणोक्तस्य द्रढिम्नेऽतःपरा श्रुतिः॥३७४॥

तदित्यादिश्रुतितात्पर्यं वृत्तमनूद्य कथयति। इत्येतदिति॥३७४॥

यथा काममये1166 तद्वन्मन्त्रं श्लोकमुदाहरत्॥
ब्रह्मास्मीति परिज्ञानात्प्रत्यगज्ञानहानतः॥३७५॥

यदा सर्वेऽखिलाः कामाः काम्यैश्च विषयैः सह॥
प्रमुच्यन्ते विनश्यन्ति तेषामज्ञानहेतुतः॥
कार्याणां कारणे वृत्तिर्नान्यत्र जगतीक्ष्यते॥३७६॥

ब्राह्मणोक्तार्थस्य तेनैव दार्ढ्यसिद्धेरलं मन्त्रोदाहरणेनेत्याशङ्क्याऽऽह। यथेति। ब्राह्मणोक्तेनैव दृढेऽपि मन्त्रोक्तौ श्रोतृप्रवृत्तेर्दृढतेति तदुक्तिरिति भावः। यदेत्यादिपदानि व्याचष्टे। ब्रह्मेति। तदाऽमृतो भवतीति संबन्धः। ज्ञानादज्ञाने हतेऽपि कामाः स्थास्यन्तीति चेन्नेत्याह। तेषामिति। नष्टाज्ञानस्यापि कामादि दृष्टमित्याशङ्क्याऽऽह। कार्याणामिति। कारणे नष्टे कार्यं न स्थातुमर्हति ततोऽन्यत्र तदयोगान्नष्टाज्ञानस्य रागादिदृष्टिस्तु बाधितानुवृत्तिरज्ञानलेशादित्यर्थः॥३७५॥ ३७६॥

यदा कामाः प्रमुच्यन्त इत्युक्त्यैव कृतार्थता॥
विशेषणं सर्व इति किमर्थमभिधीयते॥३७७॥

कामविशेषणानर्थक्यं चोदयति। यदेति। कृतार्थता काममात्रध्वस्तेः सिद्धतया निराकाङ्क्षतेति यावत्॥३७७॥

जाग्रत्स्वप्नक्षये कामाः प्रमुच्यन्तेऽखिला नृणाम्॥
संस्कारमात्रशेषास्ते सुषुप्ते यान्ति संक्षयम्॥
यतस्तदवरोधार्थं तस्मात्सर्वविशेषणम्॥३७८॥

समाधत्ते। जाग्रदिति। तदवरोधार्थं कामसंस्काराणामपि ज्ञानबलान्निवर्त्यतया संग्रहार्थमित्यर्थः। सर्वविशेषणं सर्व इति कामानां विशेषणमिति यावत्॥३७८॥

कामहेतौ हि विध्वस्ते न कश्चिदवशिष्यते॥
संस्कारो वाऽथवाऽप्यन्यः1167 सर्व1167स्याज्ञानमूलतः॥३७९॥

कथं ज्ञानवशात्कामसंस्कारा नश्यन्तीत्याशङ्क्याऽऽह। कामेति। अन्यशब्देन कामोक्तिः। हेत्वभावे फलाभावप्रसिद्ध्यर्थो हिशब्दः। कोऽसौ तद्धेतुस्तत्राऽऽह। सर्वस्येति। कामस्यापि तदेव मूलमिति शेषः॥३७९॥

हृदि श्रिता इति वचः कामधर्म्यब्रवीन्मनः॥
कामः संकल्प इत्येवं तथाच माक्श्रुतीरणम्॥३८०॥

अस्य पुंसो ये कामा लोकद्वयविषयास्ते सर्वे ज्ञानान्नश्यन्तीत्युक्तं संप्रति हृदीत्यादेस्तात्पर्यमाह। हृदीति। तत्र त्र्यन्नाधिकारं संवादयति। काम इति॥३८०॥

इदं च हेतुवचनं प्रतिज्ञातस्य वस्तुनः॥
हृदि श्रिता यतः कामाः प्रमुच्यन्तेऽखिलास्ततः॥३८१॥

तर्हि तेनैव गतार्थत्वाद्व्यर्थमेतदित्याशङ्क्याऽऽह। इदं चेति। कामाः प्रमुच्यन्त इतिप्रतिज्ञातवस्तुनो हृदि श्रिता इति हेतुवाक्यमित्यमुमेव विभागं प्रकटयति। हृदीति॥३८९॥

अविद्याया यतः कार्यमध्यात्मादिविशेषणम्॥
त्रयं वा इदमित्युक्तं वाङ्मनःप्राणभेदवत्॥३८२॥

अतोऽविद्यासमुच्छित्तौ तद्धेतूनामशेषतः॥
कामानामपि नाशः स्याद्ग्रहातिग्रहरूपिणाम्॥३८३॥

ननु ब्रह्मविदो विद्यया कामध्वस्तौ तेषां हार्दत्वं कथं हेतुर्न हि शुक्तिविद्यया तदविद्याध्वस्तौ पुरुषनिष्ठत्वं तस्या हेतुः क्रियते तत्राऽऽह। अविद्याया इति। त्रिविधं वागादिकं जगदाविद्यमिति त्रयं वा इदमित्यत्र यस्मादुक्तं तस्मादविद्याध्वस्तौ तज्जान्तः करणध्वस्तेस्तदाश्रितानामपि कामानां सार्थानां सर्वथा ध्वस्तिरिति विदुषो विद्यया कामध्वस्तौ हृदिश्रितत्वोक्तिर्भवति हेतुरित्यर्थः॥३८२॥३८३॥

निःशेषजनिमद्धेतुः काम एवावधारितः॥
श्रिता अतिग्रहाः कामा इन्द्रियाणां प्रवर्तकाः॥
हृदि श्रिता इति वचस्तेषामवरुरुत्सया॥३८४॥

नन्वविद्याध्वस्तौ तत्कार्यध्वस्तेस्तदाश्रितकामध्वंसेऽपि कार्यान्तरं स्थास्यति तत्कुतो मुक्तिस्तत्रा। निःशेषेति। काममय एवायं पुरुषः कामबन्धनमेवेदमित्यादाविति शेषः। कामहेतुकत्वाद्धर्मादेर्विद्ययाध्वस्तौ1168 कर्म विध्वंसते तथाच मुक्तिप्रतिबन्धाभावात्तत्सिद्धिरित्यर्थः। कामशब्दस्यानेकार्थत्वात्कस्य जनिमद्धेतुत्वं तत्राऽऽह। श्रिता इति। बुद्धिस्था रागादिवासनाख्याः कामा द्विविधेन्द्रियप्रवर्तकाः सन्तो नानाक्रियामुत्पादयन्तो जगज्जनयन्ति धिया धिया जनयते कर्मभिरिति श्रुतेरित्यर्थः। रागादिवासनानामत्र कामत्वे गमकमाह। हृदीति। रागादीनामत्र कामशब्देन संग्रहार्थमेतद्विशेषणं न हि मनोगतत्वं रागादिभ्योऽन्यत्र मुख्यमित्यर्थः॥३८४॥

वेदव्यासोऽपि च मुनिर्जगादेमं यथोदितम्॥
श्रुत्यर्थमुररीकृत्य लोकानुग्रहकाम्यया॥३८५॥

ब्रह्मविदो ज्ञानादशेषकामध्वस्तिरिति प्रतिज्ञाहेतुभ्यामुक्तं तत्र स्मृतिं प्रमाणयति। वेदव्यासोऽपीति॥३८५॥

विषया विनिवर्तन्ते निराहारस्य देहिनः॥
रसबर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते॥३८६॥

तदीयं वाक्यं पठति। विषया इति। तत्प्रावण्यराहित्यं निराहारत्वं रसो रागः॥३८६॥

एवं बुद्धेः परं बुद्ध्वा संस्तभ्याऽऽत्मानमात्मना॥
जहि शत्रुं महाबाहो कामरूपं दुरासदम्॥३८७॥

तदीयं वाक्यान्तरमाह। एवमिति॥३८७॥

हेत्वर्थे चाथशब्दोऽयं हेत्वर्थप्रकृतत्वतः॥
यस्मादज्ञानतो मर्त्योऽतोऽमृतोऽज्ञानहानतः॥३८८॥

मन्त्रस्य पूर्वार्धं व्याख्यायोत्तरार्धं व्याचष्टे। हेत्वर्थे चेति। सत्स्वर्थान्तरेषु किमत्र नियामकं तत्राऽऽह1169हेत्वर्थेति। हृदि श्रिता इति हेत्वर्थस्य प्रकृतत्वादिति यावत्। हेतुरूपमर्थं स्फुटयन्मर्त्य इत्यादेरर्थमाह। यस्मादिति॥३८८॥

प्रत्यग्याथात्म्यविज्ञानं यदत्रेत्यभिधीयते॥
सम्यग्ज्ञानसमुत्पत्तावत्रैव ब्रह्म सोऽश्नुते॥३८९॥

अत्रेत्यस्यार्थमाह। प्रत्यगिति। उक्तमनूद्य ब्रह्मेत्यादेरर्थमाह। सम्यगिति॥३८९॥

ब्रह्मज्ञानोदये यस्माज्जन्मबन्धो व्यपेयते॥
मृतिरात्ममतिस्तस्य हेतुहेतूपमर्दनात्॥३९०॥

ज्ञानसमकालमेव ब्रह्माप्तिरित्यत्र हेतुमाह। ब्रह्मेति। जन्माख्यस्य बन्धस्य हेतुधर्मादिकस्तस्य कारणं स्वाज्ञानं तन्निवर्तकत्वाद्ब्रह्मज्ञानं जन्मादिबन्धस्य मृतिर्यस्मादुच्यते तस्माज्ज्ञानसमकालमेव बन्धोऽपगच्छतीति युक्ता विदुषो मुक्तिरित्यर्थः॥३९०॥

यथोक्तादन्यथैवेमं व्याख्यानाद्यत्नतो बुधाः॥
श्लोकं व्याचक्षतेऽयुक्त्या हुतभुग्वरसंश्रयात्॥३९१॥

निःशेषेकामध्वस्तौ विदुषो मुक्तिरित्येवमर्थतया मन्त्रः स्वमते व्याख्यातः संप्रति मन्त्रस्य1170 भर्तृप्रपञ्चव्याख्यानं प्रस्तौति। यथोक्तादिति। श्लोकाक्षराणां श्रुतत्यागेनाश्रुतकल्पनं यत्नः। अन्यथा व्याख्याने बुद्धिबाहुल्यं हेतुरित्युपहसति। बुधा इति। न युक्तिकृतेयं व्याख्या किंतु देवताप्रसादायत्तेत्युपहासान्तरमाह। अयुक्त्येति॥३९१॥

यथैव पूर्वं संसारः काममूलोऽनुवर्णितः॥
श्लोकेन तद्वन्मोक्षोऽपि निष्कामस्योपवर्ण्यते॥३९२॥

कथमन्यथा व्याख्यानं तदाह। यथेतिउक्तं च यथा पूर्वस्मिन्कामैर्बन्ध इति श्लोकेनोद्भावितमेवमेवेहापि निष्कामोऽपि मुच्यत इति लोकेनोद्बिभावयिषतीति॥३९२॥

प्राज्ञादात्मन एतस्मात्प्रमुच्यन्तेऽखिला यदा॥
कामास्ते कतम इति तद्विशेषणमुच्यते॥३९३॥

परपक्षे मन्त्रवतार्य तस्यार्थमाह। प्राज्ञादिति। तदा मर्त्योऽमृतो भवतीति संबन्धः। स्वस्था धीस्थाश्चोभये कामास्तत्र केषां ध्वस्तिरित्याकाङ्क्षामुत्थाप्य येऽस्येत्याद्यवतारयति। त इति॥३९३॥

हृदि येऽस्य श्रिताः कामाः प्रमुच्यन्ते त एव तु॥
आत्माश्रितास्तु ये त्वस्य प्रमुच्यन्ते न ते सदा॥३९४॥

विशेषणमेव दर्शयन्वाक्यं योजयति। हृदीति। एवकारार्थमाह। आत्मेति॥३९४॥

हृदयं नाम विज्ञानं मांसपेशी च भण्यते॥
रूढ्या वृत्तिर्मां1171सखण्डे तात्स्थ्याद्विज्ञानवाचकम्॥३९५॥

हृदयशब्दार्थमाह। हृदयमिति। कथमेकमेव पदमनेकार्थमेकस्यानेकार्थत्वायोगात्तत्राऽऽह। रूढ्येति। श्रुतिलक्षणाभ्यामेकस्यानेकार्थत्वमविरुद्धमित्यर्थः॥३९५॥

कामाः पुनरिहोच्यन्ते य उक्ता वासनात्मकाः॥
माहारजनमित्यादिवाक्येनाऽऽत्मविशुद्धये॥३९६॥

कामशब्दार्थमाह। कामा इति। इहेति मन्त्रोक्तिः। किमिति मूर्तामूर्तब्राह्मणे मनोगताः कामा व्याख्यातास्तत्राऽऽह। आत्मेति। यथाऽऽहुः कामाः पुनर्माहा1172रजनादिरूपा इति॥३९६॥

प्राज्ञस्याभ्यन्तरं रूपं तन्माहा1173रजनादिकम्॥
हृदयाश्रयिणस्ते तु बाह्याः स्युर्बाह्यसंश्रयात्॥३९७॥

तच्च वासनात्मकं रूपं क्षेत्रज्ञस्यान्तरङ्गं स्वरूपमित्याह। प्राज्ञस्येति। सर्वेषां कामानामविशेषादात्मरूपतेत्याशङ्क्याऽऽह। हृदयेति। बाह्यत्वमनात्मरूपत्वम्। तदुक्तं तद्ये माहा1174रजनादिलक्षणाः कामविशेषास्ते बाह्ये हृदये श्रिता इति॥३९७॥

हृदयाश्रयिकामेभ्य आत्मसंश्रयिणां यतः॥
प्रसूतिरिह कामानामतोऽनेकसमाश्रयात्॥३९८॥

हृदयाश्रयणं तेषां विशेषणमिहोच्यते॥
आत्माश्रयाणां कामानां विनिवृत्तिः फलं हि तत्॥३९९॥

मनोगतस्थूलकामानामात्मस्थसूक्ष्मकामेषु कारणत्वमाह। हृदयाश्रयीति। इहेतिबन्धावस्थोक्तिः। आत्मान्तःकरणस्थकामानां कार्यकारणभावे फलितमाह। अत इति। हृदि श्रिता इति विशेषणस्य कृत्यमाह। आत्मेति। यथाऽऽहुस्ततो हि तेषां प्रसूतिर्भवतीति। यथोक्तभाष्यावद्योती हिशब्दः॥३९८॥३९९॥

मनोद्वारोपसंक्रान्ता भावना याऽऽत्मनि स्थिता॥
देहिनो जन्मबीजं सा तदुच्छेदाद्विमुच्यते॥४००॥

आत्माश्रयाः कामा न निवर्तन्ते चेत्तर्हि मुक्तिर्न सिध्येत्कामी मुक्तश्चेति व्याहतेरित्याशङ्क्याऽऽह। मनोद्वारेति॥४००॥

बीजस्थस्याङ्कुरस्येह जन्माऽऽश्रित्य यथैव गाम्॥
आश्रयादेव जन्मैवं कामानां हृदयाश्रयात्॥४०१॥

बुद्ध्याश्रयकामवशादात्माश्रयकामोत्पत्तिरित्येतद्दृष्टान्तेन साधयति। बीजस्थस्येति। पृथिवीमाश्रित्य बीजगतस्याङ्कुरस्य व्यवहारभूमौ जन्मेत्यत्र तदाश्रितत्वेन तद्दर्शनं हेतुमाह। आश्रयादिति। केचित्त्वाश्रयादेवेत्यस्य व्याख्यानं हृदयाश्रयादित्याहुः। उक्तं हि यथा बीजगतस्याङ्कुरस्य पृथिवीमाश्रित्य प्रसूतिरेवं प्राज्ञाश्रितानां हृदयं योनिरिति॥४०१॥

हृदयेन च संबन्धाद्दृश्यन्ते1175 येन तेऽखिलाः॥
अतो विशेषकार्येण विशेष्यन्ते हृदैव ते1176॥४०२॥

मनोद्वाराऽऽत्मन्युत्पन्ना यदि कामास्तर्हि किमिति हृदि श्रिता इति तेनैव ते विशेष्यन्ते तत्राऽऽह। हृदयेनेति। विशेषकार्येण कामव्यक्तिविशेषकार्यस्य हृदये दृष्टत्वेनेति यावत्॥४०२॥

हृदि श्रिता यदा कामाः प्रमुच्यन्तेऽस्य देहिनः॥
अथ मर्त्योऽमृतः प्राज्ञो भवतीत्येष निश्चयः॥४०३॥

पूर्वार्धस्योक्तमर्थमनूद्योत्तरार्धं व्याचष्टे । हृदीति॥४०३॥

विद्याकर्मसमूहेन येनायं परमात्मनः॥
संसारित्वं परिच्छिद्य प्रापितः स यदाऽखिलः॥
प्रमुच्यतेऽथ तद्धानाच्छुद्धो ब्रह्म समश्नुते॥४०४॥

विद्यया कामादिध्वस्तौ ध्वस्तेऽपि बन्धे ब्रह्मभावार्थं हेत्वन्तरं मृग्यमिति चेन्नेत्याह। विद्येति। येनाज्ञानमूलेन कामादिनाऽयं विज्ञानात्मा परस्मादात्मनः सकाशात्परिच्छिद्य संसारित्वं प्रापितः स कामादिरखिलोऽपि यदा विद्याकर्मसमुच्चयेन प्रमुच्यते तदा हेत्वभावेन बद्धत्वहानात्परिशुद्धोऽप्रतिबन्धेनाऽऽत्मा ब्रह्म भवतीत्यर्थः॥४०४॥

आत्मकामोक्तिमानाच्च प्रागप्येतद्विनिश्चितम्॥
आत्मैव कामा अस्येति न भिन्ना हार्दकामवत्॥४०५॥

बुद्धिस्थास्तद्द्वाराऽऽत्मस्थाश्च कामा हृदि श्रिता निवर्तन्ते ततो जीवस्य मोक्षो न

त्वात्मनः सहसिद्धसत्यकामादिध्वस्तिरित्युक्तम्। इदानीमात्मनि सहजकामध्वस्तिर्नेत्यत्राऽऽत्मकामवाक्यं प्रमाणयति। आत्मकामेति। निश्चितमेव दर्शयति। आत्मति॥४०५॥

तत्र ये त्वात्मनोऽभिन्नास्तेभ्योऽनन्यत्वकारणात्॥
प्रमुक्तिरात्मनो नास्ति तैरसंसर्गतः सदा॥४०६॥

कामानामात्माभेदे फलितमाह। तत्रेति। तेषु कामेष्वितिनिर्धारणार्था सप्तमी। कामैश्चाभिन्नैरात्मनः सर्वदा संसर्गाभावादिति हेतुमाह। तैरिति॥४०६॥

संसर्गः प्रविवेको वा भिन्नयोर्वस्तुनोर्यतः॥
नाभिन्नयोरतो मुक्त आत्मस्थानामभेदतः॥४०७॥

आत्माभिन्नेभ्योऽपि कामेभ्यस्तस्य किं न स्यातां संसर्गो व्यावृत्तिर्वाऽऽम्रादिवद्गुणिनो गुणेभ्यस्तत्संभवादि- त्याशङ्क्याऽऽह। संसर्ग इति। मुक्ते पुंसि स्वगतानां कामानामभेदान्न तेभ्यः संसर्गप्रविवेकावित्युक्तं भिन्नयोर्हि क्षीरनीरयोस्तौ दृश्येते न च तत्र संसर्गयोग्यो गुणगुणिभावोऽस्तीत्यर्थः॥४०७॥

मिथ्यादर्शनजा ये तु माहा1177रजनपूर्वकाः॥
अन्यत्वेऽवस्थिता बन्धहेतुत्वेन च सर्वदा॥४०८॥

संसर्गप्रविवेकौ स्तो यतस्तैरात्मनः सदा॥
तानेवोद्दिश्य तेनेदं विशेषणमिहेरितम्॥४०९॥

कैः सह तर्हि संसर्गप्रविवेकावात्मनो मतावित्याशङ्क्याऽऽह। मिथ्येति। कल्पितागन्तुकोक्तरूपकामप्रतियोगिसं- सर्गादिसिद्धौ किं सिध्यति तदाह। तानेवेति। तेन यतः शब्दोपात्तेन हेतुनेति यावत्। इहेति मन्त्रोक्तिः॥४०८॥४०९॥

हृदयाश्रयिणो येऽस्य न त्वात्मैकसमाश्रयाः॥
कामास्तेऽस्य प्रमुच्यन्त इत्येतत्प्रागपीरितम्॥
तदा तीर्णो भवत्येष शोकान्हृदयसंश्रितान्॥४१०॥

तदेवाभिनयति। हृदयेति। हृदयस्थकाामनां मोक्षणं ज्योतिर्ब्राह्मणेऽपि व्यखयातमित्याह। एतदिति॥४१०॥

शोकाभिधानास्तत्रापि कामा एवोदिताः पुरा॥
न्यायस्तत्राप्ययं कृत्स्नः संभवत्येव निर्णये॥४११॥

तत्र शोकध्वस्तिरुच्यतेऽत्र च कामध्वस्तिस्तथाचार्थभेदाद्भिन्नवाक्यतेत्याशङ्क्याऽऽह। शोकेति। तत्रेति जीर्णवाक्यं पुरेति पूर्वब्राह्मणमुक्तम्1178। एकवाक्यत्वेऽपि तत्र हृदयस्येति किमर्थं विशेषणमित्याशङ्क्याऽऽह। न्याय इति। अत्र हृदीतिविशेषणसंबन्धी यो

न्यायः स सर्वोऽपि तीर्णवाक्ये हृदयस्येतिविशेषणार्थवत्त्वनिर्णये द्रष्टव्य इति योजना॥४११॥

इति श्रीमन्महाभर्तृप्रपञ्चस्य महीयसः॥
व्याख्यामधीयते धीरा न्यायागमबहिष्कृताम्॥४१२॥

परमतं सोपहासमुपसंहरति। इति श्रीमदिति। तस्या हेयत्वार्थमन्त्यविशेषणम्॥४१२॥

सर्वात्मभावं विद्यायाः फलमुक्त्वा च नः श्रुतिः॥
अथ योऽन्यामिति गिरा प्राहाविद्यां तथा फलम्॥४१३॥

हृदि श्रिता इति विशेषणादात्माश्रयाः सन्ति कामा इत्युक्तं तत्कथमेतदागमबाह्यमित्याशङ्क्य तदर्थं तार्तीयमनुवदति। सर्वेति। आत्मेत्येवोपासीतेति सूत्रिताया विद्यायास्तस्मात्तत्सर्वमभवदिति सर्वात्मकत्व1179फलमुक्त्वा विद्यापोद्यां चाविद्यामथ योऽन्यां देवतामिति सूत्रयित्वा विद्याफलवत्तत्फलमपि श्रुतिरस्मान्प्रति प्राहेति योजना॥४१३॥

कार्यकारणरूपेण यदेतद्भेददर्शनम्॥
अविद्याया इदं कार्यमन्योऽसाविति भण्यते॥४१४॥

किं तदविद्याफलं तदाह। कार्येति॥४१४॥

आ समाप्तेस्तृतीयस्य प्रत्यगज्ञानहेतुकम्॥
ब्रह्म वा इत्युपक्रम्य मोहकार्यं विवक्षितम्॥४१५॥

नन्वन्योऽसावन्योऽहमित्यत्र भेददर्शनमविद्याकार्यमुक्तं चेत्किं ब्रह्म वा इदमग्र आसीदेकमेवेत्यारभ्य तृतीयसमाप्त्यन्तेन ग्रन्थेन क्रियते तत्राऽऽह। आ समाप्तेरिति। उपक्रम्य प्रपञ्चितमिति शेषः। एवं प्रकरणद्वये प्रवृत्तेऽपि कामाश्रयत्वमात्मनो नास्तीत्यत्र किमायातं तत्राऽऽह। मोहेति। अविद्याधिकारे कामादि तज्जमिष्टं तथा च कामानां स्वाविद्योत्थबुद्धिस्थत्वमेव नाऽऽत्माश्रयत्वं श्रुतिविरोधादित्यर्थः॥४१५॥

अस्यामविद्याधिकृतौ सप्तान्नाविष्कृताविह॥
फलात्मकानामन्नानां प्रसङ्ग इदमीरितम्॥४१६॥

कथमविद्याधिकारे तत्कार्यत्वं कामाद्याधारस्येष्टं तदाह। अस्यामिति। अविद्यासूत्रव्याख्याप्रस्तुतावन्नाधिकारे कामादिवाक्येनाविद्योत्थमनोधर्मत्वं कामादीनामुक्तमतस्तेषामा-त्मधर्मत्वं वेदबाह्यमित्यर्थः॥४१६॥

अव्याकृतस्य तत्त्वस्य नामरूपक्रियात्मभिः।
व्याकृतिर्योदितापूर्वं तदज्ञानविजृम्भितम्॥४१७॥

अव्याकृतप्रक्रियालोचनायामपि तेषां नाऽऽत्माश्रयतेत्याह। अव्याकृतस्येति।

तद्भेदमित्यत्राज्ञातस्याऽऽत्मनो नामरूपकर्मात्मना व्याकरणमज्ञानकृतमित्युक्तं कामादयश्च नामरूपान्तर्वर्तिनो न केवलमात्मानमाश्रयन्तीत्यर्थः॥४१७॥

नामरूपादिभेदेन वर्णादिप्रविभागतः॥
कार्यमेतदविद्यायाः श्रुत्या व्याख्यायतेऽखिलम्॥४१८॥

सृष्टिप्रकरणालोचनेऽपि तेषां नाऽऽत्मधर्मतेत्याह। नामेति। अस्यार्थः। अज्ञातस्य ब्रह्मणो नामाद्यात्मना व्याकरणं तद्धेदमित्यत्र सूत्रितमथ योऽन्यामित्यादिनाऽनूद्यब्रह्म वा इदमित्यादिना प्रपञ्च्यते तथाचाविद्यापेक्षत्वात्सर्वकार्यस्य तदन्तर्गतकामादेर्नाऽऽत्मधर्मतेति॥४९८॥

कणभुग्जैमिनीयैर्य आत्मधर्मा इतीरिताः॥
नाऽऽत्मनोऽनात्मनस्ते तु काम इत्यादिनोदिताः॥४१९॥

कथं तर्हि तेषामात्मधर्मत्वं वदन्तो वादिनो बोधनीयास्तत्राऽऽह। कणभुगिति। श्रुतिबाधितं तत्तन्मतमनादरणीयमिति भावः॥४१९॥

यावत्किंचिज्जगत्यस्मिन्नूपं मेयत्वमागतम्॥
सर्वं तन्मन एवेति श्रुत्या साक्षात्स्फुटीकृतम्॥४२०॥

आत्मनो रूपाश्रयत्ववत्कामाद्याश्रयत्वमपि स्यादिति चेन्नत्याह। यावदितिएतद्धि सर्वाणि रूपाणि विभर्तीति श्रुत्या रूपमात्रस्य मनोनिष्ठत्वं तृतीये दर्शितमित्यर्थः॥४२०॥

प्रकाशोऽपि च1180 यः कश्चिदभिव्यञ्जक इष्यते॥
अभिव्यङ्ग्याभिसंबन्धः स च वागित्यथावदत्॥४२१॥

नामवत्कामादेरात्मधर्मतेति चेन्नेत्याह। प्रकाशोऽपीति। रूपमात्रस्य मनस्त्ववदितिदृष्टान्तार्थोऽथशब्दः। एतद्धि सर्वाणि नामानि बिभर्तीति श्रुतिः सर्वनाम्नो1181 वाग्धर्मत्वमवोचदित्यर्थः॥४२१॥

क्रियात्मकं च यत्किंचिन्मानतो जगतीक्ष्य1182ते॥
तत्सर्वं प्राण एवेति संजहार श्रुतिः स्वयम्॥४२२॥

कर्मवदात्मधर्मत्वं कामादेरित्याशङ्क्याऽऽह। क्रियेति। एतद्धि सर्वाणि कर्माणि बिभर्तीति श्रुतिरुपसंहृतवती कर्ममात्रस्य प्राणधर्मत्वमित्यर्थः॥४२२॥

निश्चितं यच्च संदिग्धं तथाऽविज्ञातमेव च॥
वाङ्मनःप्राणरूपाणि तानि हीति श्रुतिर्जगौ॥४२३॥

सर्वस्य प्रपञ्चस्य मनोवाक्प्राणधर्मत्वान्नाऽऽत्मधर्मतेत्युक्तम्। इदानीं विज्ञातं विजि-

ज्ञास्यमविज्ञातमेत एवेत्यादिश्रुत्याऽपि सर्वस्य त्रयान्तर्भावावगमान्नाऽऽत्मधर्मता कामादेरित्याह। निश्चितमिति। अन्नाधिकारेऽप्युपपादितमेतदिति हिशब्दार्थः॥४२३॥

यतोऽविद्यात्मकान्येव रूपाण्येतान्यतो दृशेः॥
नाऽऽत्मनः स्युः समस्तानि कार्यकारणबाह्यतः॥४२४॥

तृतीयालोचनातो1183 लब्धमर्थमुपसंहरति। यत इति। रूपाणि नामरूपकर्मात्मकानि कामादीनीत्यर्थः। दृशेर्न स्युरेतानीत्यत्र हेतुः। कार्येति॥४२४॥

तथा दिग्भेदभिन्नानां नामरूपक्रियात्मनाम्॥
उक्तं हृदय एवेति नीडं नाऽऽत्मा परो मतः॥४२५॥

शाकल्यब्राह्मणनिरूपणेऽप्यात्मनो न कामाद्याश्रयतेत्याह। तथेति। किंदेवतोऽस्यां प्राच्यामित्यारभ्य हृदय इत्यन्तेन नामादेः सर्वस्य हृदयमधिकरणमित्युक्तं नाऽऽत्मा परस्तदाधारः श्रुतेरिष्टस्तथाच तदन्तस्थकामादेर्नाऽऽत्मधर्मतेत्यर्थः॥४२५॥

समान उपसंहृत्य जगत्कारणरूपके॥
कारणस्याप्यपह्नुत्यै नेतीत्यात्मानमब्रवीत्॥४२६॥

कस्मिन्नु हृदयं प्रतिष्ठितमित्यारभ्यैतान्यष्टावायतनानीत्यस्मात्प्राक्तन1184ग्रन्थसंदर्भालोचनायामपि नाऽऽत्मधर्मता कामादेरित्याह। समान इति। जगदुपसंहृत्येति संबन्धः॥४२६॥

कार्यकारणयोरेवं निषेधान्नेतिवाक्यतः॥
आत्माश्रयत्वं कामानां निष्प्रमाणकमुच्यते॥४२७॥

मूर्तामूर्तशाकल्यकूर्चमैत्रेयीशारीरकब्राह्मणेषु श्रुतनिषेधानुरोधेनापि नाऽऽत्माश्रयत्वं कामादीनामित्याह। कार्येति। एवमित्यसकृदित्यर्थः॥४२७॥

हृदयोत्पाद्यता नापि कामानामिह कीर्त्यते॥
हृदि श्रिता इति ह्युक्तेर्न श्रुता कारणात्मता॥४२८॥

तेषामात्माश्रयत्वस्याश्रौतत्वमुक्त्वा बुद्धिस्थकामेभ्यः सकाशादात्मस्थकामजन्मेत्युक्तं प्रत्याह। हृदयेति। अत्र हि श्रुतिस्तदर्थापत्तिर्वा मानं न तावदस्मिन्मन्त्रे हार्दकामोत्पाद्यता कामानामात्मस्थानामुच्यते तेषां हृदयस्थत्वमात्रस्योच्यमानत्वादन्यत्र वाचकशब्दाभावान्न द्वितीयः श्रुतस्यान्यथानुपपत्त्यभावात्तस्मादात्मीयकामानां बौद्धकामेभ्यो जन्माप्यश्रौतमित्यर्थः। द्वितीयपक्षप्रतिक्षेपद्योती हिशब्दः॥४२८॥

नेति नेतीति चोक्तोऽर्थो जनकं प्रति यः पुरा॥
किंज्योतिरित्युपक्रम्य स एवार्थः प्रपञ्च्यते॥४२९॥

आत्मनि कामोत्पत्तिरश्रौतीत्युक्त्वा श्रुतिविरुद्धा चेत्याह। नेतीति। कूर्चब्राह्मणे

प्रत्यगात्मा निर्विशेषो दर्शितः स एव ज्योतिर्ब्राह्मणेऽपि प्रतिपाद्यते तत्तत्र1185 कामानां वस्तुतो जन्म ब्राह्मणद्वयविरुद्धमित्यर्थः॥४२९॥

क्रियाकारककर्मभ्यो व्युत्थाप्याऽऽत्मानमेकलम्॥
पुमासनादिलिङ्गेन रवीन्दूदाहृतेस्तथा॥४३०॥

तत्रैव हेत्वन्तरमाह। क्रियेति। पुरुषव्यापारलिङ्गेनाऽऽदित्यादिदृष्टान्तेन च क्रियाकारकविषयस्थूलसूक्ष्मोपाधिभ्यो निष्कृष्य ज्योतिरेकरसमात्मानं किंज्योतिरयमित्यादिना श्रुतिः श्रावयति तथाच देहद्वयातिरिक्ते प्रतीचि न कामादेरवकाश इत्यर्थः॥४३०॥

व्यतिरिक्तस्य तस्यैवमुक्ताध्यात्मादिभेदतः॥
स्वयंज्योतिर्विशुद्ध्यर्थं स वा इत्यादिका श्रुतिः॥४३१॥

तत्रैव हेत्वन्तरमाह। व्यतिरिक्तस्येति। उक्तोऽध्यात्मादिभेदो देहद्वयात्मकस्तस्मात्किंज्योतिरित्यादा-वुक्तानुमानेनातिरिक्ततया दृष्टस्य स्वयंज्योतिष्ट्वविस्पष्टीकरणार्थं स वा एष एतस्मिन्संप्रसादे रत्वेत्याद्या श्रुतिः सा च तस्यावस्थात्रयसंचारेण कामादिराहित्यमाहेत्यर्थः॥४३१॥

स्वतोऽसंदूषितः प्रत्यङ्कामकर्मादिभिर्मलैः॥
अनन्वागतवचनात्तथाऽसङ्गश्रुतेरपि॥४३२॥

इतश्चाऽऽत्मनि वस्तुतो नास्ति कामादीत्याह। स्वत इति॥४३२॥

आत्मशुद्धेर्विवक्षेह न त्वशुद्धेः कथंचन॥४३३॥

विशेषणस्य श्रवणाद्धृदीत्यात्मनि चेन्मतम्1186
सव्येनाक्ष्णा न पश्यामि यथा सामर्थ्यतस्तथा॥४३४॥

श्रुतिषु विवक्षितमात्मनि कामादिराहित्यमुपसंहरति। आत्मेति। कामाद्यसंबन्धः शुद्धिस्तत्संबन्धश्चाशुद्धिः। तेषामात्माश्रयत्वे श्रुत्यभावेऽपि तदर्थापत्तिरस्तीति शङ्कते। विशेषणस्येति। यथा सव्येन न पश्यतीत्युक्ते दक्षिणेनाक्ष्णा पश्यतीत्यर्थाद्गम्यते तथा हृदि श्रिता निवर्तन्ते कामा इति विशेषणादात्माश्रिताः सन्तीति निवृत्तिप्रतियोगिकामानां हृदिश्रितत्वविशेषणसामर्थ्याल्लब्धमित्यर्थः॥४३३॥४३४॥

नोक्तोत्तरत्वात्साध्वेतद्भवतेहाभिधीयते॥
प्रतिज्ञातार्थसिद्ध्यर्थ1187त्वर्थं तद्विशेषणम् ॥४३५॥

दूषयति। नेति। इहेति श्लोकाक्षरव्याख्याग्रन्थोक्तिः। उक्तमेव स्मारयति। प्रतिज्ञेति। विद्यया कामादिविमोको हि प्रतिज्ञातोऽर्थस्तत्र हेतुसिद्ध्यर्थं विशेषणमित्युक्तं तस्मादात्माश्रयाणां कामानामित्याद्ययुक्तमित्यर्थः॥४३५॥

सर्वेषामपि कामानामाश्रयो हृदयं यतः॥
तद्धेत्वतिक्रमादात्मा सर्वशोकातिगस्ततः॥४३६॥

हृदि श्रिता यत इत्यादावुक्तमेव हेत्वर्थं प्रकटयति। सर्वेषामिति॥४३६॥

अनाश्रितविभागार्थमथवाऽस्तु विशे1188षणम्॥
तेषु यत्नविधेयत्वात्सफलं स्याद्विशेषणम्॥४३७॥

ब्रह्मविदः कामा निवर्तन्त इति प्रतिज्ञायामज्ञानोत्थबुद्धिस्थत्वात्तेषां तद्ध्वस्तौ ध्वस्तेरितिहेत्वर्थतया विशेषणं व्याख्यायार्थान्तरमाह। अनाश्रितेति। लब्धसत्ताकाः कामास्तावद्बुद्धिमाश्रयन्ते नालब्धसत्ताकास्तान्व्यावर्तयितुं हृदिश्रितविशेषणमितियावत्। कामाः प्रमुच्यन्त इत्येतावतैवेष्टसिद्धेर्लब्धसत्ताका इत्यनर्थकमन्येषामप्रस्तावात्तथाच विशेषणवैयर्थ्यमित्याशङ्क्याऽऽह। तेष्विति1189। आप्तकामेषु विषयदोषदर्शनादिना ध्वस्तौ यत्नातिशयस्य कार्यत्वात्तद्बोधनार्थं विशेषणमर्थवदित्यर्थः॥४३७॥

नाऽऽश्रयापेक्षयैतत्स्याद्धृदीतीह विशे1190षणम्॥४३८॥

न हि हृद्व्यतिरेकेण कामानामाश्रयान्तरम्॥
श्रुतोस्मृतौ वा न्यायाद्वा दृश्यतेऽपि प्रमान्तरात्॥४३९॥

आश्रयान्तरस्थकामापोहार्थमेव तत्किं न स्यान्नेत्याह। नाऽऽश्रयेति। तत्र हेतुः। न हीति॥४३८॥४३९॥

प्रवृत्तिः कामशब्दस्य भूयःस्वर्थेषु दृश्यते॥
कर्मादिषु जगत्यस्मिंस्तानपेक्ष्यात उच्यते॥
हृदि श्रिता इति वचो नाऽऽश्रयान्तरवीक्षया॥४४०॥

वर्तमानकामेषु यत्नाधिक्यविधानार्थमनाश्रितकामेभ्यो विभागं वक्तुं विशेषणमित्युक्त्वाऽर्थान्तरमाह। प्रवृत्तिरिति। काम्यत इति वा काम्यतेऽनेनेति वा कामनमिति वा कामशब्दस्यानेकार्थत्वं दृश्यते तत्र भावव्युत्पत्तिलब्धतृष्णाविशेषा हृदि श्रिता नेतरे करणादयस्तानपेक्ष्य तद्विशेषणं नाऽऽत्मीयकामापेक्षया तदभावस्योक्तत्वादतः सर्वविषयेच्छाध्वस्तौ मुक्तिर्नान्यथेति वक्तुं विशेषणमित्यर्थः। नाऽऽश्रयान्तरवीक्षयेत्यात्मनः कामाश्रयत्वाभाव उक्तः॥४४०॥

अतिच्छन्दा इति वचः कामाधारत्व आत्मनः॥
विरुध्यते प्रमाणं सन्न चान्यार्थत्वमिष्यते॥४४१॥

तत्रैव हेत्वन्तरमाह। अतिच्छन्दा इति। आत्मन्यौपाधिककामाभावपरमेतदतोऽस्य स्वाभाविककामाश्रयत्वे यथोक्तोक्तिविरोधो नास्तीत्याशङ्क्याऽऽह। चेति। आत्मनः कामाश्रयत्वे मानाभावान्नेयं कल्पनेत्यर्थः॥४४१॥

आत्मनः कामनीडत्वे न च मानान्तरं क्वचित्॥
सर्वकामादिवचनं प्रमाणमिति चेन्मतम्॥४४२॥

कथं मानाभावस्तत्र किं प्रत्यक्षाद्यात्मनस्तदाश्रयत्वे मानं किंवा सर्वकामादिवाक्यं तत्राऽऽद्यं दूषयति। आत्मन इति। क्वचिद्देशादाविति यावत्। तस्य तदगोचरत्वादित्यर्थः। द्वितीयमालम्बते। सर्वेति॥४४२॥

तन्नातिच्छन्दवचसा विरोधान्नास्य1191 मानता॥४४३॥

वस्तुनोऽप्यनृतन्त्रत्वात्षोडशिग्रहणादिवत्॥
विकल्पोऽप्यत्र नैवास्ति न हि वस्तु विकल्पते॥४४४॥

तस्याऽऽत्मनो न कामाश्रयत्वे मानत्वं वाक्यान्तरविरोधादतो नैतदित्याह। तन्नेति। अतिच्छन्दवाक्यस्य च्छान्दोग्यवाक्यस्य च तुल्यतया विरोधे सत्युदितानुदितहोमवद्विकल्पः स्यादित्याशङ्क्याऽऽह। वस्तुनोऽपीति। योऽपि विकल्पः शङ्क्यते सोऽपीत्येकस्यापेरर्थः। न क्वचिदपि विकल्पो बहुदोषत्वात्क्वचित्त्वगत्या तदाश्रयणम्। उक्तं हि—

“एवमेषोऽष्टदोषोऽपि यद्व्रीहियववाक्ययोः।
विकल्प आश्रितस्तत्र गतिरन्या न विद्यते” इति॥

एतदभिप्रेत्य द्वितीयोऽपिशब्दः। अत्रेति वाक्यद्वयोक्तिः॥४४३॥४४४॥

सर्वं हि खल्विदं ब्रह्मेत्येवं तत्रापि च श्रुतिः॥
प्रतिज्ञायाऽऽह युक्तिं च तज्जलानिति सादरात्॥४४५॥

तस्य तुल्यबलत्वमुपेत्य वस्तुनि विकल्पायोग उक्तः। अथातुल्यत्वं वक्तुं छान्दोग्यश्रुतिमनुसंधानस्तद्गतं सर्वमित्यादिवाक्यमादत्ते। सर्वं हीति। पुनः सर्वकामादिवाक्यस्यातिच्छन्दवाक्येन बाधोऽतुल्यत्वादिति हिशब्देन द्योत्यते। एतदेव स्फुटयितुं तद्व्याचष्टे। प्रतिज्ञायेति। ब्रह्माद्वयं प्रतिज्ञाय सा श्रुतिस्तस्मिन्नर्थे तज्जत्वात्तल्लत्वात्तदनत्वाच्चेत्यबाधितां युक्तिं तात्पर्येण वक्तीत्यर्थः॥४४५॥

अक्रियाकारकफलं यतो ब्रह्माद्वयं ततः॥
त्यक्ताशेषक्रियैस्तस्मात्तदुपास्यं सदाऽऽत्मना॥४४६॥

शान्त उपासीतेत्यस्यार्थमाह। अक्रियेति। यतोऽद्वयं ब्रह्म ततः क्रियादिभेदशून्यं तस्मात्सं1192न्यासिभिः शमादियुक्तैस्तत्प्रत्यक्त्वेन सदा ध्येयमित्यर्थः॥४४६॥

इत्येतज्जगतो वृत्तं ब्रह्मैवाकार्यकारणम्॥
अव्यावृत्ताननुगतं प्रत्यङ्मात्रसतत्त्वकम्॥४४७॥

सर्वमित्यादेरथेत्यतः प्राक्तनस्यार्थमुपसंहरति। इत्येतदिति॥४४७॥

उक्त्वैवं वस्तुनो वृत्तं तद्याथात्म्याप्रबोधजम्॥
कर्त्रादिकारकापेक्षं क्रि1193यावृत्तमभाषत॥४४८॥

अथ खल्वित्याद्यवतारयति। उक्त्वेति॥४४८॥

ब्रह्मात्मानमुपासीत ब्रह्मतत्त्वाविचक्षणः॥
कुर्वीत स क्रतुं कर्ता ह्यकार्यत्वेऽपि वस्तुनः॥४४९॥

मनोमयादिविषयः क्रतुः पुंसो विधीयते॥
स हि तस्मिन्यतः शक्तो लोकाग्न्यादिविधौ यथा॥४५०॥

स क्रतुमित्यादिवाक्यमथोक्तिपूर्वकमादत्ते। ब्रह्मेति। तत्त्वज्ञानहीनस्य तादर्थ्येनोपास्तिसंभावनार्थो हिशब्दः। ननु न ब्रह्मात्मनि विधिरकार्यत्वान्नापि तद्ध्याने तस्यान्वयव्यतिरेकाभ्यां ध्येयातिशयहेतुत्वसिद्धेर्विध्यानर्थक्यात्तत्राऽऽह। अकार्यत्वेऽपीति। मनोमयत्वादिगुणके परस्मिन्नात्मनि सोपाधिके ध्यानं विधीयते सर्वत्र प्रसिद्धोपदेशादिति न्यायान्न चान्वयादिना सिद्धसाधनत्वे तस्मिन्विध्ययोगोऽवघातवदुपपत्तेरित्यर्थः। यथोक्ते ध्याने विधिरित्यत्र हेतुमाह। स हीति। आरोपितदृष्टिविषयविधौ पुरुषसामर्थ्येहिशब्दद्योतिते दृष्टान्तमाह। लोकेति॥४४९॥४५०॥

अतः कर्त्रादितन्त्रत्वात्सर्वकामादिवस्तुनः॥
अतिच्छन्दोक्तिबाधः स्याद्वस्तुन्त्रत्वहेतुतः॥४५१॥

सर्वमित्यादिवाक्यं वस्तुपरं तत्राऽऽत्मनो न कामसंबन्धः श्रुतोऽथेत्यादि तु क्रियापरं तत्र च कामश्रुतिरिति स्थिते फलितमाह। अत इति। वस्तुनः सर्वकामादिरूपस्य क्रियात्मकत्वेन कारकतन्त्रत्वात्तदर्थवाक्यस्य न वस्तुपरत्वमतिच्छन्दवाक्यस्य तु तत्परत्वादन्यतोबलीयस्त्वादतुल्यत्व-मतस्तद्बाधः सर्वकामादिश्रुतेरित्यर्थः॥४५१॥

विकल्पोऽत्र न युक्तः स्यादेवमुक्तेन वर्त्मना॥४५२॥

असत्यकामनुत्त्यर्था कामोक्तिर्याऽपि चाष्टमी॥
सत्यास्त इम इत्यादि स्तुतिर्वा स्याद्विधित्सिते॥४५३॥

वाक्यद्वयेऽपि विकल्पायोगमुपसंहरति। विकल्पोऽत्रेति। एवमित्यतुल्यबलत्वोक्तिः। उक्तेन वर्त्मनेति बाध्यबाधकप्रकारोक्तिः। ननु वस्तुपरे दहरवाक्ये त इमे सत्याः कामा इत्यात्मनः कामसंबन्धश्रवणादतिच्छन्दवाक्यस्य सत्यकामवाक्यस्य च वस्तुपरत्वेन तुल्यत्वाद्विकल्पो द्वयोरप्रामाण्यं वा तत्राऽऽह। असत्येति। न तद्दहरवाक्यं वस्तुपरमुपास्तिपरत्वात्तस्मिन्यदन्तस्तदन्वेष्टव्यामित्यादि-श्रुतेर्वस्तुपरत्वेऽपि नैतदात्मनः कामत्वं प्रापयति तस्मिन्नसत्यानां कामानां निरासपरत्वाद्यद्वा ब्रह्मोपासने विधित्सिते ब्रह्मस्तुतिरिह प्रस्तूयते प्रशस्तं हि ब्रह्म यस्मात्तस्मिन्कामाः सत्याः सन्तीति तस्माद्द-

हरवाक्यस्या1194तिच्छन्दवाक्येनातुल्यत्वाद्बाध एवेत्यर्थः। अष्टम्यष्टमप्रपाठकनिविष्टेति यावत्॥४५२॥४५३॥

सन्त्यात्मनि न चेत्कामास्तदेवं फ1195लवद्वचः॥
अतिच्छन्दाइति1196 शुभं कामशोकनिषेधकृत्॥४५४॥

वस्तुपरेऽपि प्रजापतिवाक्ये सत्यकाम इति कामसंबन्धः श्रूयते तद्विकल्पाप्रामाण्ययोरन्यतरापत्ति-रित्याशङ्क्याऽऽह। सन्तीति। अस्यार्थः। स्वरूपसुखस्यानादिनिधनत्वेनामृषात्वादवितथसुखत्वमात्मनः सत्यकामशब्दार्थो वेद्यं वा ब्रह्म तेन स्तूयते सर्वथाऽप्यात्मनो न कामसंबन्धोऽन्यथाऽतिच्छन्दवाक्यविरोधाद्विकल्पस्तु वस्तुनि निरस्तो न च तदमानं तद्धेत्वभावादिति॥४५४॥

निषिध्यन्ते न चेत्कामा यथोक्ताः प्रत्यगात्मनि॥
अथ काममयत्वेऽस्य संसारोऽपि न वार्यते॥४५५॥

किंचाऽऽत्मनि वासनामयाः कामाः संसारहेतवो न वेति विकल्प्याऽऽद्यं प्रत्याह। निषिध्यन्त इति। आत्मनि बन्धहेतवः कामा यद्यनिषिद्धास्तदा न तस्य कदाचिदपि मुक्तिः यथाकामो भवतीति श्रुतेरित्यर्थः। तादर्थ्येऽथशब्दः। हेतुभावे फलभावसंभावनार्थोऽपिशब्दः॥४५५॥

मतं नालं प्ररोहाय ये कामाः प्रत्यगात्मनि॥
किमर्था तर्हि तत्रैषां कल्प्यते भवता स्थितिः॥४५६॥

द्वितीयमालम्बते। मतमिति। आत्मनि तेषां बन्धाहेतुत्वं चेत्तत्र स्थितिर्न कल्प्या फलाभावादित्याक्षिपति। किमर्थेति॥४५६॥

न कश्चिदुपयोगोऽत्र कामानां विद्यते स्थितौ॥
अजागलस्तनस्येव प्रमाणाद्बन्धमोक्षयोः॥४५७॥

तेषां तत्र स्थितिर्बन्धाहेतुरपि फलान्तरं करिष्यतीत्याशङ्क्याऽऽह। न कश्चिदिति। अत्रेत्यात्मोक्तिः। न हि सा मुक्तिहेतुर्विरोधित्वाद्बन्धस्यापि न हेतुश्चेद्विफलैव स्यात्फलान्तरस्याप्रमाणत्वादित्यर्थः॥४५७॥

प्रमाणलब्धसद्भावो निष्फलोऽपि न वार्यते॥
प्रतीचि कामसंबन्धो न तथेति निषिध्यते॥४५८॥

न केवलं वैफल्यादात्मनि कामासंबन्धः किंतु मानाभावादपीत्याह। प्रमाणेति॥४५८॥

कामादीनामर्थानां प्रतीचि शतशः श्रुतौ॥
निषेधकानि वाक्यानि सन्त्यपि स्मृतिशासने॥४५९॥

तद्विरोधाच्च कामसंबन्धो नाऽऽत्मनीत्याह। कामादीनामिति। श्रीतैरस्थूलादिवाक्यैः स्मार्तैश्चाविकार्योऽयमित्यादिभिर्विरोधान्नाऽऽत्मनि तत्संगतिरिति यावत्॥४५९॥

कामकॢप्तिरतो नेह प्रत्यगात्मनि युज्यते॥
प्रमाणासंभवात्तस्मात्सा न कल्प्या विपश्चिता॥४६०॥

मानफलयोरभावे तद्विरोधे च फलितमुपसंहरति। कामेति॥४६०॥

प्रमाणवन्त्यदृष्टानि कल्प्यानि सुबहून्यपि॥
अदृष्टशतभागोऽपि न कल्प्यो निष्प्रमाणकः॥४६१॥

मानाद्यभावान्नाऽऽत्मनि कामादिकॢप्तिरित्यत्र भट्टपादसंमतिमाह। प्रमाणवन्तीति॥४६१॥

न चाऽऽत्मकाम इत्यत्र कामाधारत्व आत्मनः॥
मानान्तरप्रसिद्धत्वात्प्रामाण्यं लभ्यते श्रुतेः॥४६२॥

आत्मकामवाक्यादात्मैवास्य कामा न भिन्ना हार्दकामवदित्युक्तं तत्कथं मानाभावोक्तिरित्याशङ्क्याऽऽह। न चेति। आत्मकाम इत्यत्र कामः सुखं तृष्णाभेदो वाऽऽद्ये त्वदिष्टेऽर्थे श्रुतेर्न मानत्वमात्मनः सुखत्वे पर्यवसानाद्द्वितीयेऽप्यात्मनस्तदाधारत्वे श्रुतेर्न मानत्वं तस्य तदाधारत्वस्य लोकासिद्धत्वेनापूर्वत्वाभावादित्यर्थः॥४६२॥

न चोपास्योऽयमप्यर्थः सर्वकामादिवच्छ्रुतेः॥
ऐकात्म्यवस्तुयाथात्म्यप्रकाशनपरत्वतः॥४६३॥

किंचाऽऽत्मनः कामसंबन्धो ज्ञेयत्वेनोपास्यत्वेन वोच्यते नाऽऽद्यस्तस्यानर्थत्वान्नान्त्य इत्याह। न चेति। तत्र व्यतिरेकदृष्टान्तमाह। सर्वेति। तत्र हेतुः। श्रुतेरिति। आत्मकामादिवाक्यस्य वस्तुपरत्वादित्यर्थः॥४६३॥

कणभुङ्न्यायसिद्धा चेत्कामाद्याश्रयताऽऽत्मनः॥
श्रुतेस्तदनपेक्षत्वान्नापेक्ष्यं कणभुङ्मतम्॥४६४॥

परपक्षस्याऽऽगमबाह्यत्वं प्रतिपाद्य न्यायबाह्यत्वं प्रतिपादयितुं चोद्यमुद्भावयति। कणभुगिति। इच्छादयः क्वचिदाश्रिता गुणत्वाद्रूपवदिति सामान्येन धर्मिसिद्धौ परिशेषादात्मा तदाश्रयः सेत्स्यतीति भावः। तेषां मनोधर्मत्वश्रुतेरात्मनो निर्गुणत्वश्रुतेश्च तर्कमतानुसारित्वाभावादुपेक्ष्यं तन्मतमिति परिहरति। श्रुतेरिति॥४६४॥

तन्निषेधश्रुतेश्चापि नापेक्ष्यं तद्विरोधतः॥
सौगताद्युक्तिवत्तस्मान्न कामाश्रयताऽऽत्मनः॥४६५॥

किंच यदा सर्वे प्रमुच्यन्तेऽस्थूलमनण्वित्यादिना कामादीनामात्मनि निषेधात्तद्विरो-

धात्त्याज्यं तन्मतमित्याह। त1197न्निषेधेति। तार्किकयुक्तेराभासत्वे फलितमाह। तस्मादिति॥४६५॥

न च कामाश्रयत्वेऽन्यत्प्रमाणं किंचिदीक्ष्यते॥
मानमेयातिवर्तित्वात्स्वतः सिद्धेश्चवस्तुनः॥४६६॥

आत्मनः कामाश्रितत्वे श्रुतियुक्त्योरसत्त्वेऽपि मानान्तरमस्तीत्याशङ्क्याऽऽत्मनः कामनीडत्वे न च मानान्तरमित्युक्तं प्रपञ्चयति। न चेति। न तर्हि वस्तुनः सिद्धिरित्याशङ्क्याऽऽह। स्वत इति॥४६६॥

मातृमानप्रमेयार्थांश्चाऽऽगमापायिनः सदा॥
वीक्षते योऽविलुप्ताक्षः स आत्माऽनन्यमानगः॥४६७॥

कथं स्वतःसिद्धत्वमित्याशङ्क्यासकृदुक्तमित्युपपादयति। मातृमानेति। चकारस्त्ववधारणार्थः सदेत्यत्र संबध्यते॥४६७॥

यः स्वतो नाऽऽगमापायी तद्विरुद्धेषु सर्वदा॥
तत्रैवाऽऽत्मेति धीरेषा नाऽऽगमापायिवस्तुषु॥४६८॥

स आत्मेत्यात्मत्वं साक्षिणोऽयुक्तं देहादिष्वेव तत्प्रसिद्धेरित्याशङ्क्याऽऽह। यः स्वत इति। देहादिष्वात्मत्वधीर्भ्रान्तिरिति भावः॥४६८॥

कामिनं दुःखिनं मूढं योऽविलुप्ताक्ष ईक्षते॥
नासौ कामोऽथवा कामी तत्संबन्धोऽथवा स्वयम्॥४६९॥

आत्मत्वेऽपि मात्रादिसाक्षिणः प्रस्तुते किं जातं तदाह। कामिनमिति। कामाद्याश्रयमातृसाक्षिणश्चिद्धातोरात्मत्वान्न तस्य तत्संगतिरित्यर्थः॥४६९॥

एवं दुःखादिषु ज्ञेयमुक्तं प्रत्यक्षसंश्रयात्॥
इच्छादेश्चित्तधर्मत्वात्कर्मस्थत्वं सुनिश्चितम्॥४७०॥

कामादावुक्तन्यायं दुःखादिष्वतिदिशति। एवमिति। उक्तमनात्मत्वादिकमितिः शेषः। प्रत्यक्षं साक्ष्यनुभवः। कामादेरात्मधर्मत्वाभावे हेत्वन्तरमाह। इच्छादेरिति॥४७०॥

इच्छादिधर्मवत्साक्षाद्यः सदा वीक्षते मनः॥
तस्येच्छाद्यभिसंबन्धः केन मानेन गम्यते॥४७१॥

अग्न्यौष्ण्यस्य जलाधारत्ववच्चित्तस्थमिच्छाद्यात्मस्थं किं न स्यादित्याशङ्क्याऽऽह। इच्छादीति। औष्ण्यधीर्जले भ्रान्तिरिच्छादिधीरप्यात्मनि तादृशी चेदविरुद्धेति भावः॥४७१॥

प्रत्यग्वस्तु पराग्बुद्धिगम्यैरिच्छादिभिः कथम्॥
विरुद्धत्वाद्विशेष्यं स्यात्तमसा दिनकृद्यथा॥४७२॥

इतश्च नेच्छादेरात्मधर्मतेत्याह। प्रत्यगिति॥४७२॥

एकबुद्ध्यधिगम्यत्वं विशेषणविशेष्ययोः॥
नीलोत्पलादिवद्दृष्टं न तद्दृष्टं विरुद्धयोः॥४७३॥

मिथोविरुद्धत्वेनैकधीग्राह्यत्वाभावाच्च नाऽऽत्मधर्मत्वं कामादेरित्याह। एकेति।॥४७३॥

नापि चाऽऽत्मातिरेकेण ग्राहकोऽन्योऽवसीयते॥
ग्राहकस्थश्च कामादिः स कथं ग्राह्यतां व्रजेत्॥४७४॥

किंच तस्याऽऽत्मधर्मत्वे ग्राहको धर्मिणोऽन्योऽनन्यो वेति विकल्प्याऽऽद्यं दूषयति। नापीति। द्वितीयं निरस्यति। ग्राहकेति। तस्यांशतःस्वग्रहापत्तेरित्यर्थः॥४७४॥

चक्षुर्दृष्टेर्न चक्षुस्थं कृष्णत्वाद्येति दृश्यताम्॥
प्रमातृस्थं न कामादि तद्वदेयात्प्रमेयताम्॥४७५॥

स्वस्य स्वगतधर्मग्राहकत्वायोगं दृष्टान्तेनाऽऽह। चक्षुरिति॥४७५॥

आत्मत्वावगमाद्वाऽपि जडस्यैवेह वस्तुनः॥
कामकाम्यादि तस्यास्तु दृष्टिमात्रात्मनो न तु॥४७६॥

किंच कामाद्याश्रयत्वमात्मनो जडस्याजडस्य वा तत्राऽऽद्यमङ्गी करोति। आत्मत्वेति। विकल्पद्योती वाशब्दः। इहेति च परपक्षोक्तिः। द्वितीयं प्रत्याह। दृष्टीति। ऐकरस्यविरोधादित्यर्थः॥४७६॥

अचेतनैकनीडत्वं मयाऽपीह प्रसाध्यते॥४७७॥

स्वेन भासेति च स्वप्ने सर्वकामादिवर्जितम्॥
स्वेनैव ज्योतिषेत्युक्तं स्वयंज्योतिष्ट्वसिद्धये॥४७८॥

जडस्य कामाद्याश्रयत्वाङ्गीकारं विवृणोति। अचेतनेति। इहेति कामाद्युक्तिः। त्वयाऽपि तदेव साध्यते चेन्न विप्रतिपत्तिरित्यपेरर्थः। किंच स्वेन भासेत्युपक्रम्य स्वेन ज्योतिषा प्रस्वपितीति श्रुत्या स्वयंज्योतिष्ट्वसाधनार्थमात्मनः स्वप्ने कामादिसर्वविशेषहीनं रूपमुक्तमतस्तद्विरोधान्न तस्य कामाद्याश्रयतेत्याह। स्वेनेति॥४७७॥४७८॥

स्वयंज्योतिष्ट्वसिद्धिश्च श्रुतिन्यायपुरःसरा॥
कामाद्याश्रयतो1198क्त्याऽर्थात्सात्वया1199 बाधिता भवेत्॥४७९॥

तत्रैव हेत्वन्तरं वक्तुं पातनिकां करोति। स्वयमितिअत्रायं पुरुषः स्वयंज्योतिरिति श्रुतेर्जाड्येऽनात्मत्वापत्तिरित्यादिन्यायाच्चाऽऽत्मनः स्वप्रकाशत्वेऽपि कामाद्या-

श्रयत्वं किं न स्यात्तत्राऽऽह। कामादीति। सा हि श्रौती नैयायिकी वाऽऽत्मनः1200 स्वप्रकाशत्वप्रसिद्धिस्त्वया कामादीनामात्माश्रयत्वोक्त्या बाधिता स्यात्स्वाश्रयवृत्तिविशेषादेव तदाश्रयस्याऽऽत्मनो वैशेषिकादिवद्दृष्टिसंभवादित्यर्थः॥४७९॥

तथैवाऽऽत्मनि दृष्टे च सर्वं दृष्टं भवेदिति॥
कामादेरात्मनोऽन्यत्वे तच्चापि स्यात्प्रबाधितम्॥४८०॥

किंच कामादेरात्माश्रयत्वं वदता तद्भेदोपगमादेकविज्ञानेन सर्वविज्ञानश्रुतिर्बाधिता स्यादित्याह। तथेति। स्वयंज्योतिष्ट्वप्रसिद्धेर्बाधितत्ववदित्यर्थः॥४८०॥

सर्ववेदान्तबाधश्च कामाद्याश्रयता1201 यदि॥
आत्मनोऽभ्युपगम्येत तेषां तत्प्रतिषेधः॥४८१॥

इतश्चाऽऽत्मनो न कामाद्याश्रयतेत्याह। सर्वेति। तत्र हेतुः। तेषामिति। तदुपलक्षितेऽर्थे पर्यवसानादित्यर्थः॥४८१॥

ऐकात्म्यस्याऽऽगमार्थत्वाच्छ्रुतेश्चान्यानपेक्षतः॥
यतोऽतस्तार्किकोक्तीस्ता नैवापेक्षामहे वयम्॥४८२॥

श्रुतियुक्तिभ्यामात्मनो न कामाद्याश्रयतेत्युक्तमुपसंहरति। ऐकात्म्यस्येति। एकरसं वस्तु यतः श्रुत्यर्थोऽतो न श्रुत्याऽऽत्मनः कामाद्याश्रयत्वसिद्धिर्नापि तार्किकयुक्तिभिरात्मप्रतिपादकश्रुतेरन-पेक्षमाण1202त्वाद्यतो न प्रामाणिकेऽर्थे तद्विरुद्धा युक्तयः सावकाशा अतो वैशेषिकादियुक्तयस्तदाश्रयत्वमात्मनो दर्शयन्त्यः श्रुतिविरोधादुपेक्ष्या इत्यर्थः॥४८२॥

हृद्याश्रितत्वं कामानां नन्वत्रोक्तं विशेषणम्॥
संभवे व्यभिचारे च तच्च स्यात्फलवत्सति॥४८३॥

विशेषणस्य श्रवणादित्यादावुत्थाप्य प्रत्याख्यातमेव चोद्यमधिकविवक्षयोत्थापयति। हृदीति। तत्सामर्थ्यादात्माश्रिताः कामाः सन्तीत्यर्थः॥४८३॥

हृद्यनाश्रितकामानां संभवादिष्टमेव तत्॥
आत्माश्रयातिरेकेण तच्चावो चं पुराऽप्यहम्॥४८४॥

अनाश्रितविभागार्थमित्यादावुक्तं स्मारयति। हृद्यनाश्रितेति॥४८४॥

मूर्तं मर्त्यं स्थितं सच्च पृथिव्यप्तेजसामिदम्॥
न विशेषणमित्यस्मादमूर्तत्वादिकल्पनम्॥४८५॥

यदधिकं विवक्षन्नुक्तावेव चोद्यपरिहारावन्ववादीत्तदिदानीमाह। मूर्तमिति। न हि व्यावर्तकमेव विशेषणमिति नियमो भूतत्रयविशेषणानां मूर्तत्वादीनामपि तत्प्राप्तावमूर्त-

त्वादियुक्तपृथिव्यादिसत्त्वप्रसङ्गात्तेषाममूर्तवाय्वादिव्यावर्तकत्वेनाविरोधे प्रकृतेऽप्यनाश्रितकामव्यावर्त-कत्वोपपत्तेर्न विशेषणवशादात्मनि कामादिसिद्धिरित्यर्थः॥४८५॥

चलनात्मा मरुन्नित्यं दाहकोऽग्निरितीरिते॥
विशेषणश्रवात्कॢप्तिर्नैतयोस्तद्विरुद्धयोः॥४८६॥

इतश्च विशेषणं व्यावर्तकमिति नियन्तुमशक्यमित्याह। चलनात्मेति॥४८६॥

वास्येऽर्थे वासनाः सर्वाः सजातीये च ता यतः॥
निःसङ्गे भिन्नजातीये ताः कुतः प्रत्यगात्मनि॥४८७॥

हृदिश्रितत्वस्य शुक्लं भास्वरं रूपं तैजसमितिवत्स्वरूपविशेषणत्वान्न तद्वलादात्माश्रयकामादिसिद्धिरित्युक्तं यत्तु कामादिवासनानामात्मनि वृत्तिरिति तत्र परस्य जीवस्य वा तदाश्रयतेति विकल्प्याऽऽद्यं दूषयति। वास्य इति। परस्यापि वास्यत्वमाशङ्क्याऽऽह। सजातीये चेति। साजात्यं कामाद्याश्रयेण हृदयेन तस्यापि स्यादिति चेन्नेत्याह। निःसङ्ग इति॥४८७॥

प्रत्यगात्मातिरेकेण प्राज्ञोऽन्यश्चेद्विवक्ष्यते॥
नेति नेतीति तस्योक्तान्निषे1203धान्नेह संभवः॥४८८॥

द्वितीयं निरस्यति। प्रत्यगिति। प्राज्ञो जीवः। इहेति शास्त्रीयव्यवहारभूमिरुक्ता॥४८८॥

निःशेषकामकर्मादेर्व्युत्थाप्याऽऽत्मानमब्रवीत्॥
तद्वा अस्यैतदित्युक्त्या नातः कामादयोऽत्र ते॥४८९॥

तद्वा अस्यैतदाप्तकाममित्यादिवाक्यालोचनयाऽपि नाऽऽत्मनि कामादयः सन्तीत्याह। निःशेषेति॥४८९॥

तद्वा अस्यैतदित्यादेः प्राज्ञस्याऽऽन्तररूपतः॥
वासनाकामकर्मादेः कुतोऽस्याऽऽन्तररूपता॥४९०॥

यत्तु प्राज्ञस्याभ्यन्तरं रूपं तन्माहा1204रजनादिकमिति तत्राह। तद्वा इति। प्राज्ञस्य कामकर्मादिनिर्मुक्तं रूपमन्तरङ्गमित्यङ्गीकारान्न कामादेस्तदन्तरङ्गरूपतेत्यर्थः॥४९०॥

पीतरक्तादिभी रूपैः कर्मकार्यैः प्रयुज्यते॥
निर्देष्टुं शक्यते तस्मादनिर्देश्योऽपि सन्नसौ॥४९१॥

स्वोक्तिविरोधाच्चाऽऽत्मनो न कामाद्याश्रयतेति वक्तुं भर्तृप्रपञ्चप्रक्रियां मूर्तामूर्तब्राह्मणस्थामनुभाषते। पीतेति। कर्मकार्यवासनात्मकरूपसंबन्धे कार्यमाह। निर्देष्टुमिति॥४९१॥

भावनैव विजृम्भन्ती स्थूलत्वमुपगच्छति॥
अव्याकृतादिभावेन स्ववाय्वादित्यसंशितम्॥४९२॥

कथमनिर्देश्यस्य निर्देश्यत्वं भावना भावयतीत्याशङ्क्य तस्याः स्थूलरूपतां तावदाह। भावनेति। प्रकृतिविकृतिभावेन विजृम्भमाणा भावना भूतभौतिकात्मकं स्थौल्यमाप्नोतीति यावत्॥४९२॥

मूर्तामूर्तादिभावाच्च क्षीयमाणा हि सैव तु॥
निर्गुणं सन्तमात्मानं रञ्जयित्वाऽवतिष्ठते॥४९३॥

सैव सूक्ष्मत्वमपि गच्छतीत्याह। मूर्तेति। सूक्ष्मत्वमुपगच्छतीत्यध्याहारः। भावनातिरिक्तस्थूलसूक्ष्मदृश्यार्थसत्त्वे मानाभावो हिशब्दार्थः। कथं द्विविधाऽपि साऽऽत्मनि व्यवहारमावहेदित्याशङ्क्याऽऽह। निर्गुणमिति॥४९३॥

भावना बहुरूपाऽसौ बहुरूपत्वमात्मनः॥
करोत्यनामरूपस्य मणेरास्तरणं यथा॥४९४॥

तस्याश्चिदात्मसंबन्धे फलितमाह। भावनेति॥४९४॥

इत्यादि भवतैवोक्तं वासनोक्तिप्रसङ्गतः॥
इहोक्तेस्तद्विरुद्धत्वात्परस्परविरुद्धता॥४९५॥

परप्रक्रियामुपसंहरति। इत्यादीति। आदिशब्देन राशित्रयकल्पनं कर्मराशिपदेनाऽऽत्मग्रहणमित्यादि गृह्यते। तस्य हैतस्य पुरुषस्येत्यादिना वासनारूपविशेषोक्तिप्रसङ्गाद्यद्यपीदमुक्तं तथाऽपि प्रकृते को दोषस्तत्राऽऽह। इहेति। अत्र मन्त्रे कामादीनामात्माश्रयत्वं स्वतोऽस्तीति भवद्वाक्यस्य पूर्वोक्तेनाऽऽत्मन्यौपाधिककामसंबन्धवादिस्ववाक्येन विरुद्धत्वान्मिथो विरुद्धत्वात्स्वव्याख्यानस्येत्यात्मनो न कामाद्याश्रयतेत्यर्थः॥४९५॥

कर्मराशिगिराऽऽत्माऽपि यदि तत्र विवक्षितः॥
निषेधात्तस्य नेतीति शून्यतैव प्रसज्यते॥४९६॥

किंच मूर्तामूर्तब्राह्मणे राशित्रयं कल्पयता कर्मराशिशब्देनाऽऽत्मनोऽपि गृहीतत्वात्तस्य निषेधविषयस्य न कामाद्याश्रयत्वेन स्थितिरित्याह। कर्मेति॥४९६॥

परमार्थात्मनोऽथान्यः कश्चिदात्मेति भण्यते॥
अस्तु कामं स कामादेराश्रयो न निवार्यते॥४९७॥

आत्मा हि द्विविधः परमार्थश्चापरमार्थश्च तत्रापरमार्थस्य कामाद्याश्रयस्य कर्मराश्यन्तर्भूतत्वेन निषेधेऽपीतरस्य शिष्टत्वान्न शून्यतेति शङ्कते। परमार्थेति। इष्टापत्त्या परिहरति। अस्त्विति॥४९७॥

शक्त्यात्मनाऽप्यवस्थानं कारणात्मनि युज्यते॥
तस्य शक्त्यभिसंबन्धान्न त्वकारण आत्मनि॥४९८॥

कामा द्विविधाः स्थूलाः सूक्ष्माश्च तत्र स्थूलानामपरमार्थात्माऽऽश्रयः सूक्ष्माणां तु परमार्थात्मेति विभागे कथं त्वदिष्टसिद्धिरित्याशङ्क्याऽऽह। शक्तीति। तदात्मना सूक्ष्मरूपेणेत्यर्थः॥४९८॥

न च कारणमात्रत्वं रूपमिष्टं परात्मनः॥
अनिर्मोक्षप्रसक्तित्वाच्छ्रुत्यनारम्भसक्तितः॥४९९॥

अकारणविशेषणमात्मनोऽयुक्तं तस्य त्वया कारणत्वस्वीकारादित्याशङ्क्याऽऽह। न चेति। अविद्यया कारणत्वेऽपि वस्तुतो न तत्संभवोऽन्यथा मुक्त्यनुपपत्तेस्तदर्थोपनिषदामप्रवृत्तिप्रसङ्गादित्यर्थः॥४९९॥

स्थूलादीनां च सर्वेषां प्रतीचि प्रतिषेधतः॥
विशेषणानां संबन्धो नातः स्यात्प्रत्यगात्मनः॥५००॥

न केवलमात्मनि कामादीनामेवासंभवः किंतु सर्वस्यैव विशेषणजातस्येत्याह। स्थूलादीनामिति॥५००॥

आत्माश्रयत्वं कामानां न युक्त्या नापि शास्त्रतः॥
अपव्याख्यानतस्तेषां कामा आत्माश्रया इति॥५०१॥

परपक्षनिरासमुपसंहरति। आत्माश्रयत्वमिति॥५०१॥

एवं समवनीतेषु प्राणेष्वात्मनि तद्विदः॥
पूर्ववद्देहसंबन्धः किमिवेह न जायते॥५०२॥

यदेत्यादिमन्त्रस्य भाष्योक्तमर्थमुक्त्वा परकीयं व्याख्यानं निरस्तमिदानीं तद्यथेत्यादिवाक्यनिरस्यां शङ्कामाह। एवमिति। विदुषो विद्ययाऽऽत्ममात्रत्वेन प्राणेषु बाधितेष्वपि देहे चेदसौ वर्तते पूर्ववदस्य तद्योगः स्यात्ततो विद्यावैयर्थ्यमिति चोद्यार्थः। इहेति विद्यादशा गृह्यते॥५०२॥

सर्पनिर्मोकवत्कृत्स्नमात्माविद्यैकहेतुजम्॥
यथावस्तुधिया हित्वा निर्ममो निरहंकृतः॥५०३॥

तस्य यथापूर्वं देहायोगं दर्शयन्नर्थवत्त्वं विद्यायाः समर्थयते। सर्पेति। यथा सर्पस्त्वचं विहाय तत्राहंतादिहीनो वर्तते तथाऽयं विज्ञानशेषमपि देहादि स्वाविद्योत्थं तत्त्वविद्यया त्यक्त्वा ममत्वादिरहितस्तिष्ठतीत्यर्थः॥५०३॥

वर्तमानोऽपि देहादौ लोकदृष्टिव्यपेक्षया।
नाऽऽत्माऽऽत्मीयत्वबुद्ध्याऽसौ देहादीन्समुदीक्षते॥५०४॥

कथं देहादौ वर्तमानस्तत्र ममत्वादिहीनो भवति1205 तत्राऽऽह। वर्तमानोऽपीति॥५०४॥

षष्ठ्यर्थहेतुविध्वंसाद्यथावस्त्ववबोधतः॥
अव्यावृत्ताननुगतं पूर्णं वस्त्ववतिष्ठते॥५०५॥

अज्ञदृष्ट्या देहादिनिष्ठोऽपि न स्वदृष्ट्या तत्र ममत्वादिभागीत्यत्र हेतुमाह। षष्ठीति। तत्त्वज्ञानाद्देहादिसंबन्धहेतोरज्ञानस्यापनीतत्वादित्यर्थः। केन तर्हि रूपेण विद्वानवतिष्ठते तत्राऽऽह। अव्यावृत्तेति॥५०५॥

अहिनिर्ल्वयनीवाचा सर्पनिर्मोक उच्यते॥
मृता सत्यहिना न्यस्ता वल्मीकान्तर्बिलाश्रये॥५०६॥

तात्पर्यमुक्त्वा पदव्याख्यामारभते। अहीति। शयीतेति संबन्धः॥५०६॥

अहिदेहवियोगोऽत्र मृतशब्देन भण्यते॥
वल्मीकाश्रयणं त1206स्याः प्रत्यस्तेत्यभिधीयते॥५०७॥

मृता प्रत्यस्तेतिपदयोरसंकीर्णमर्थमाह। अहिदेहेति॥५०७॥

अहिनिर्मोकविषयो व्यापारस्तावदीरितः॥
निर्ममाहंकृतित्वं तु सर्पदृष्टान्तसंश्रयम्॥५०८॥

सर्पस्तन्निर्मोकश्चेति दृष्टान्तद्वयमत्रेष्टं तत्र सर्पनिर्मोको विद्वद्देहस्य दृष्टान्तो व्याख्यात इत्यनुवदति। अहीति। सर्पशरीरविश्लेषो वल्मीकान्तःशयनमित्यादिव्यापारः। सर्पो विदुषो दृष्टान्तः स च व्याख्यायत इत्याह। निर्ममेति। विदुष इति शेषः॥५०८॥

बिले त्यक्तेऽहिना यद्वत्स्वनिर्मोके न पूर्ववत्॥
निर्गच्छन्प्रविशन्सर्पो निर्मोकमनुरुध्यते॥५०९॥

व्याख्याप्रकारमाह। बिल इति॥५०९॥

नाहं ममेति वा बुद्धिस्तत्राहेरुपजायते॥
तत्रैव वर्तमानस्य यथैवं प्रत्यगात्मनः॥५१०॥

संबन्धहेतोरुच्छित्तेरात्मसंबन्धवर्जितम्॥
शेते शरीरं सूक्ष्मं च स्थूलं चैकात्म्यधीह्नुतम्॥५११॥

सर्पस्य त्यक्तनिर्मोकाननुरोधमेव स्फोरयति। नाहमिति। दृष्टान्तौ व्याख्याय निर्मोकदृष्टान्तमनुवदति। यथेति। तस्य दार्ष्टान्तिकं व्याकरोति। एवमिति॥५१०॥५११॥

अहिनिर्मोकदृष्टान्तदार्ष्टान्तिकमितीरितम्॥
दार्ष्टान्तिकोऽर्थः सर्पस्य दृष्टान्तस्याथ उच्यते॥५१२॥

उक्तमनूद्याथेत्याद्यवतारयति। अहीति। विसंधिकरणं वाक्यप्रतीकोपादानार्थम्॥५१२॥

अहिनिर्मोकयोरत्र संगतिः पूर्ववन्मिथः॥
निषिध्यते प्रयत्नेन स्थितिर्नात्र विवक्षिता॥५१३॥

ननु दृष्टान्ते सर्पनिर्मोकयोर्भेदेन स्थितिवद्दार्ष्टान्तिके विद्वद्देहयोस्तथा स्यादन्यथा तद्भावासिद्धेरित्याशङ्क्योभयत्र विवक्षितमंशं दर्शयति। अहिनिर्मोकयोरिति। अत्रेति दृष्टान्तवाक्योक्तिः। पूर्ववन्मिथो विश्लेषात्पूर्वावस्थायामिवेत्यर्थः। प्रयत्नस्त्वनेकविशेषणग्रहणम्। एवं दार्ष्टान्तिकेऽपि मिथ्याभिमानाख्यसंबन्धनिषेधो विवक्षितो भेदेन स्थितिस्त्वविवक्षितेति शेषः॥५१३॥

प्रधानवादः प्राप्नोति यदि देहात्मनोः पृथक्॥
विवक्ष्यते स्थितिरिह न्यषेधि बहुशः स च॥५१४॥

विपक्षे दोषमाह। प्रधानेति। इहेति विद्यावस्थोक्तिः। इष्टापत्तिमाशङ्क्याऽऽह। न्यषेधीति॥५१४॥

हेत्वर्थे त्वथशब्दोऽयं हेतूक्तेः प्रकृतत्वतः॥
सकारणस्य देहस्य त्यागो हेतुर्विवक्षितः॥५१५॥

प्रासङ्गिकं त्यक्त्वाऽथशब्दार्थमाह। हेत्वर्थे त्विति। सत्स्वर्थान्तरेषु नियमे हेतुमाह। हेतूक्तेरिति। अथ मर्त्योऽमृतो भवतीत्यत्रेति शेषः। हेतुरूपमर्थं प्रकटयति। सकारणस्येति। अज्ञानेन सह देहस्य नष्टत्वमशरीरत्वादौ हेतुरथशब्देन द्योत्यत इत्यर्थः॥५१५॥

स्रगज्ञानमनादाय नाहियोगः स्रजो यथा॥
प्रतीचो देहसंबन्धो नाऽऽत्माज्ञानादृते तथा॥५१६॥

अज्ञानं न देहहेतुः स्वाभाविकत्वादात्मनस्तत्संगतेरित्याशङ्क्याऽऽह। स्रगिति। न स्वल्वसङ्गस्य स्वाभाविकी देहादिसंगतिः संभवतीत्यर्थः॥५१६॥`

प्रत्यग्ज्ञानशिखिध्वस्ते मिथ्याज्ञाने सहेतुके॥
नेतिनेतिस्वरूपत्वादशरीरो भवेत्ततः1207॥५१७॥

अथशब्दार्थमनूद्याशरीरविशेषणमादत्ते। प्रत्यगिति॥५१७॥

स्वतोऽदिग्देशकालादेः प्रत्यक्चिन्मात्रवस्तुनः॥
देशादिमच्छरीरेण न संबन्धस्तमो विना॥५१८॥

तस्यार्थमाह। स्वत इति। अदिग्देशकालादेरिति च्छेदः। देहयोगवियोगाद्यर्थं विशिनष्टि। तमो विनेति॥५१८॥

कल्पितेनाभिसंबन्धो न ह्यकल्पितवस्तुनः॥
अज्ञानकालेऽप्यस्तीह किमुताज्ञाननिह्नुतौ॥५१९॥

विदुषो देहयोगो नेत्युक्तं कैमुतिकन्यायेन साधयति। कल्पितेनेति॥५१९॥

अनस्थिकगिरा स्थूलदेहस्येह निवारणम्॥
तथाऽशरीरशब्देन सूक्ष्मो देहो निषिध्यते॥५२०॥

अथायमनस्थिकोऽशरीर इति माध्यंदिनपाठस्तत्रानस्थिकशब्दार्थमाह। अनस्थिकेति। अशरीरशब्दस्य तर्हि पुनरुक्ततेत्याशङ्क्याऽऽह। तथेति॥५२०॥

सूक्ष्मदेहनिषेधोक्त्या स्थूलस्यापि निषेधतः॥
तन्निषेधाय यत्नोऽतः काण्वश्रुत्या न भण्यते॥५२१॥

तर्हि काण्वपाठे स्थूलदेहनिवारकाभावस्तत्राऽऽह। सूक्ष्मेति॥५२१॥

यद्वाऽशरीरशब्देन तच्छ्रुतौ लिङ्गनिह्नुतिः॥
स्थूलस्यामृत इत्युक्त्या निषिद्धत्वान्न निह्नुतिः॥५२२॥

यश्चार्थादर्थो न स चोदनार्थ इति न्यायेन काण्वश्रुतौ स्थूलदेहनिषेधस्याविवक्षितत्वमाशङ्क्याऽऽह। यद्वेति। माध्यंदिनश्रुतौ विशेषणद्वयार्थोऽमृतश्रुतौ पिण्डीकृत्योच्यते॥५२२॥

साक्षिणः प्राणशब्देन विशेष्यस्याभिधेष्यते॥
ब्रह्मैवेति तु शब्देन तद्विशेषणमुच्यते॥५२३॥

यथोक्तस्य विदुषो मुक्तस्यापनीतप्राणत्वान्न प्राणशब्दता युक्तेत्याशङ्क्याऽऽह। साक्षिण इति। ब्रह्मशब्दार्थमाह। ब्रह्मेति॥५२३॥

साक्षिणः सद्वितीयत्वं ब्रह्मणश्च परोक्षताम्॥
तद्धेतुप्रतिषेधेन वाक्यमेतन्निषेधति॥५२४॥

समानाधिकृतपदद्वयतात्पर्यमाह। साक्षिण इति। तद्धेतुः सद्वितीयत्वादिहेतुरात्माज्ञानम्॥५२४॥

नामोपक्रममाशान्तं प्राणकारणसंश्रयम्॥
प्राणो ब्रह्मेति वचसा तदात्मनि निषिध्यते॥५२५॥

न केवलं सद्वयत्वादेरेव प्राणो ब्रह्मेतिवाक्योत्थज्ञानान्निषेधः किंत्वन्यदपि सर्वं सकारणं निषिध्यते तेनेत्याह। नामेति॥५२५॥

ब्रह्मात्मनोश्च संसर्गो मा प्रापत्कृष्णसर्पवत्॥
इत्यर्थं तेज एवेति श्रुतिः संसर्गवारिणी1208॥५२६॥

प्राणो ब्रह्मैवेत्युक्त्वा तेज एवेत्ययुक्तं तेजःशब्दस्याऽऽदित्यादौ रूढस्य साक्षिणि

ब्रह्मण्ययोगादित्याशङ्क्याऽऽह। ब्रह्मेति। प्राणः साक्षी तेज एवेति श्रुतिर्ब्रह्मात्मनोः संसर्ग1209वारिणी1210ति संबन्धः। तयोः संसर्गप्रसङ्गं दृष्टान्तेन दर्शयन्ती वा1211रणप्रकारमितरयागेनाभिनयति न च तेजःशब्दस्य तस्मिन्नयोगस्तस्य भासेत्यादिश्रुतेः सर्वावभासकस्य। तच्छब्दार्थत्वादिति भावः॥५२६॥

व्यावर्त्यभेदादाभाति भेदो ब्रह्मात्मशब्दयोः॥
वस्तुतस्त्वेक एवाऽऽत्माऽमानित्वादिर्यथा तथा॥५२७॥

ब्रह्मात्मनोरभेदे कथं तद्भेदभानमत आह। व्यावर्त्येति। तच्छब्दयोस्तद्वतोरर्थयोरित्यर्थः॥५२७॥

ब्रह्मैव तेज एवेति ह्युभयत्रावधारणम्॥
संसर्गप्रतिषेधार्थं मा भून्नीलोत्पलादिवत्॥५२८॥

कथं ब्रह्मैवेत्युक्त्वा तेज एवेत्युक्ते ब्रह्मात्मनोः संसर्गनिषेधस्तत्राऽऽह। ब्रह्मैवेति। वकारद्वयसामर्थ्यात्संसर्गवारणमित्यर्थः। श्रुतेः सामर्थ्यादर्थसाधकत्वमन्यत्रापि प्रसिद्धमिति हिशब्दार्थः। तत्प्रतिषेधप्रकारमभिनयति। मा भूदिति॥५२८॥

सर्वानर्थैकबीजस्य प्रत्यगज्ञानरूपिणः॥
कार्योऽत्र वचसा बाधः केवलो नान्य इष्यते॥५२९॥

अथेत्यादि पदशो व्याख्याय तत्तात्पर्यमुपसंहरति। सर्वानर्थेति। इहेति प्रत्यगात्मोक्तिः॥५२९॥

यस्मादेतत्स्वतो बुद्धमतः शुद्धमसंगतेः॥
मुक्तं चातः स्वतो वस्तु किमन्यत्कार्यमिष्यते॥५३०॥

वाक्यीयज्ञानादनर्थहेत्वज्ञानहानं केवलं कर्तव्यं न तु सति ज्ञाने कार्यान्तरमस्तीत्यत्र हेतुमाह। यस्मादिति॥५३०॥

कृतं चिकीर्षितं सर्वं बुद्धं यच्च बुभुत्सितम्॥
आप्तं वोधात्तथाऽऽप्तव्यं वर्जनीयं च वर्जितम्॥५३१॥

चिकीर्षा बुभुत्सा प्रेप्सा परिजिहीर्षा चेज्ज्ञानिनोऽपि दृश्यते तत्कथं तस्य कार्यास्याभावस्तत्राऽऽह। कृतमिति। सर्वानर्थहेत्वज्ञानहानादेवोक्तार्थसिद्धेर्ज्ञानिनो न कर्मान्तरं तद्धीश्चाऽऽभासो दग्धपटवदित्यर्थः॥५३१॥

कामप्रश्नः समाप्तोऽतो निराकाङ्क्षोऽभवन्नृपः॥
सोऽहं सहस्रमित्याह तस्मादेव च कारणात्॥५३२॥

सोऽहमित्यादेस्तात्पर्यमाह। कामेति। तत्समाप्तिपरामर्शोऽतःशब्दार्थः। सहस्रदामेत्तं निराकाङ्क्षत्वं तस्मादित्युच्यते॥५३२॥

ननु प्रश्नः समाप्तश्चेन्नादात्सर्वं स किं नृपः॥
सहस्रमेव तु प्रादादेकदेशोक्तिवत्कथम्॥५३३॥

कामप्रश्नो मोक्षार्थो मुनिना राज्ञे वरो दत्तः समाप्तश्चेन्न सहस्रदानं युक्तं सर्वस्वदानं तु1212युक्तमित्याक्षिपति। नन्विति॥५३३॥

मतं विद्यारसाकृष्टो विद्यां भूयोऽपि चेन्नृपः॥
शुश्रूषति तदर्थं च सहस्रं मुनये ददौ॥५३४॥

सर्वस्वदानप्राप्तावपि सहस्रदाने हेतुमेकदेशी शङ्कते। मतमिति॥५३४॥

शुश्रूषालिङ्गमेतत्स्यान्न त्वियं गुरुदक्षिणा॥५३५॥

सर्वस्वं चेदहं दद्यामिहैव च तदा मुनिः॥
निवृत्तकामं मां मत्वा विद्यां भूयो न वक्ष्यति॥५३६॥

यदि श्रुतामेव विद्यां पुनः श्लोकैः श्रोतुमिच्छति तदा किमर्थमल्पीयसी दक्षिणा क्रियते प्रभूता हि सा गुरुं प्रीणयन्ती स्वीयां शुश्रूषां फलयति तत्राऽऽह। शुश्रूषेति। कथमस्य तल्लिङ्गत्वं तदाह। सर्वस्वमिति। इहेति श्लोकोपन्यासात्प्रागवस्थायामित्यर्थः॥५३५॥५३६॥

इत्येतस्माद्भयाद्राजा श्लोकशुश्रूषयेरितः॥
प्रादात्सहस्रमेवास्मै शुश्रूषालिङ्गवित्तये॥५३७॥

इति चेन्नैतदेवं स्याच्छ्रुतेः प्रामाण्यकारणात्॥
श्रुतौ न युक्ता व्याजोक्तिरप्रमाणनरोक्तिवत्॥५३८॥

स्वयूथ्योक्तिं निगमयति। इत्येतस्मादिति। तन्मतं दूषयति। नैतदिति। सहस्रदानकरणे राज्ञश्चेदेवमभिप्रायस्तदा प्रमाणभूतश्रुतेरप्रामाण्यप्रसक्तिरित्यर्थः। तामेव प्रकटयति। श्रुताविति। अनाप्तोक्तौ हृदयेऽन्यन्निधाय वाचाऽन्यन्निष्पादनात्मकं व्याजोत्तरं युक्तं श्रुतौ त्वपौरुषेय्यामपास्ताशेषदोषाशङ्कायां न व्याजोक्तिर्युक्ता स्वारसिकतदीयप्रामाण्यभङ्गप्रसङ्गादित्यर्थः॥५३७॥५३८॥

संभवाच्चार्थशेषस्य सर्वसंन्यासरूपिणः॥
प्राग्यथोक्तात्मवि1213ज्ञानसाधनस्येह चाश्रवात्॥५३९॥

एकीयपरिहारायोगे हेत्वन्तरमाह। संभवाच्चेति। यद्यपि मोक्षार्थं सम्यग्ज्ञानमुक्तं तथाऽपि तच्छेषस्य संन्यासस्य वक्तव्यस्य संभवान्नायं समाधिरित्यर्थः। तस्यापि पूर्वमसकृदुक्तेस्तदीयशुश्रूषाधीनसहस्रदानमनुचितमित्याशङ्क्याऽऽह। प्रागिति। इह सहस्रदानकरणे शमादेर्ज्ञानसाधनत्वेन प्रागनुक्तेस्तेन सह भूयोऽपि संन्यासस्य वाच्यत्वयोगात्तदपेक्षया सहस्रदानं न त्वदुक्तान्निमित्तादित्यर्थः॥५३९॥

यत एवमतोऽयुक्ता पुनरुक्तार्थकल्पना॥
गतौ सत्यामनृज्वीयं नापि विद्यास्तुतिर्मता॥५४०॥

वाच्यशेषसिद्धौ फलितमाह। यत इति। उक्तन्यायेनापुनरुक्तार्थसंभवाद्विद्यां श्रुतामेव श्लोकैः श्रोतुं सहस्रदानमित्येषा पुनरुक्तार्थकल्पना न कल्पते1214ऽगतिका हीयं गतिर्यत्पुनरुक्तार्थकल्पनं सा चायुक्ता सत्यां गतावित्यर्थः। ननु संन्यासादि विद्यास्तुत्यर्थमुच्यते महाभागा हीयं यत्तदर्थी दुष्करमपि करोत्यतो नार्थशेषसिद्धिरित्याशङ्क्याऽऽह। नापीति। अस्यार्थः। न तावत्संन्यासो विद्यास्तुतिर्विदित्वा व्युत्थायेति समानकर्तृकत्वनिर्देशात्। उक्तं चैतत्पञ्चमे नापि शमादि विद्या1215स्तुतिस्तत्रापि विधेर्वक्ष्यमाणत्वादिति॥५४०॥

ननु यद्यर्थशेषोऽस्ति कस्माद्ब्रूते न पूर्ववत्॥
विमोक्षायैव मे ब्रूहीत्यदोषाऽयं कुतो यतः॥५४१॥

अर्थशेषशुश्रूषया सहस्रदानमित्युक्तमाक्षिपति। नन्विति। अत ऊर्ध्वमित्यादिप्रश्नाकरणस्यादोषत्वं प्रतिजानीते। अदोषोऽयमिति। तत्र हेतुं पृच्छति। कुत इति। आत्मज्ञानवदिति भाष्येण हेतुरुच्यत इत्याह। यत इति॥५४१॥

विमोक्षायेह नैवालमन्यदात्मावबोधतः॥
मुक्तस्य च मुमुक्षोश्च सर्वत्यागव्यपेक्षतः॥५४२॥

तमेव स्फुटयति। विमोक्षायेति। आलोच्यमाने शास्त्रे ज्ञानादन्यन्न साक्षान्मोक्षाय क्षममिष्यते वक्ष्यमाणसंन्यासादेस्तद्द्वारा साधनत्वादिति विवक्षन्विमोक्षायेति नापृच्छदित्यर्थः। संन्यासस्य ज्ञानवन्मोक्षाहेतुत्वे हेत्वन्तरमाह। मुक्तस्येति। मुक्तेन मुमुक्षुणा च संन्यासोऽपेक्ष्यते तस्य मुक्तिसाधनत्वे न स मुक्तेन मुमुक्षुणेवापेक्ष्येत साध्याभावादित्यर्थः॥५४२॥

स्वरूपसाधनत्वाभ्यां त्यागस्यैवान्तरङ्गतः॥
नापूर्ववद्विधेयत्वं न च त्यागाद्विमुक्तता॥५४३॥

ननु तेऽपि मुक्तस्य तदपेक्षाऽयुक्ता कृतकृत्यत्वान्मुमुक्षुरेवाभीष्टहेतुशेषतया तमपेक्षेत तत्राऽऽह। स्वरूपेति। मुक्तेन स्वरूपत्वेन संन्यासोऽपेक्षितो निःशेषक्लेशोपशमात्मकं हि तस्य स्वरूपं, मुमुक्षुणा तु धीहेतुत्वेन सोऽपेक्षितव्य उपरतो हि पश्यति तथाच ज्ञानबलादर्थप्राप्तसंन्यासस्य फलत्वाद्वैधस्य च ज्ञानसाधनत्वादन्तरङ्गतया नासावपलापमर्हतीत्यर्थः। विरक्तेन कार्यः संन्यास इति विविदिषासंन्यासो विधीयते चेदविशेषादितरोऽपि विधेयस्तन्न फलरूपसंन्याससिद्धिरित्याशङ्क्याऽऽह। नेति। अपूर्वसाधनाग्निहात्रोदिवन्न विद्वत्संन्यासस्य विधेयत्वं स्वरूपत्वेनासाध्यत्वादित्यर्थः। तथाऽपि

विधेयो विविदिषासंन्यासो ज्ञानवन्मोक्षहेतुरस्तु त्यागेनैके अमृतत्वमानशुरिति श्रुतेरित्याशङ्क्याऽऽह। न चेति। मार्गान्तरनिषेधकश्रुतिस्मृतिविरोधादुक्तश्रुतिर्धीद्वारा संन्यासस्य मुक्ति हेतुत्वे पर्यवसितेति भावः॥५४३॥

प्रागात्मज्ञानसंभूतेः संन्यासो ज्ञानसाधनम्॥
उत्पन्नात्मधियः पश्चाज्ज्ञानमेव हि तत्तथा॥५४४॥

विविदिषासंन्यासो धीहेतुर्विद्वत्संन्यासस्तु फलमित्युक्तमुपसंहरति। प्रागिति। ज्ञानमेवेति नित्यमुक्तब्रह्मोक्तिः। ब्रह्मणो निर्व्यापारत्वप्रसिद्ध्यर्थो हिशब्दः। सर्वकर्मत्यागात्मकं पारिव्राज्यं तदित्युच्यते। विविदिषासंन्यासस्य धीहेतुत्ववदितरस्य फलत्वं तथाशब्दार्थः॥५४४॥

उक्तब्रह्मविदो मोक्ष इत्यर्थे ब्राह्मणोदिते॥
श्लोका अपि भवन्त्यत्र ब्राह्मणोक्तविनिश्चितौ॥५४५॥

सर्वस्वदानप्राप्तावपि राज्ञः सहस्रदाने विमोक्षायेतिप्रश्नाकरणे चाभिप्रायमुक्त्वा तदित्यादि व्याकरोति। उक्तेति। अथाकामयमान इत्यादिब्राह्मणेन यदेत्यादिमन्त्रेण च ज्ञानादेव मुक्तिरिति संक्षिप्तोऽर्थो विव्रियते श्लोकैरिति यावत्॥५४५॥

अणुस्थूलादिनिःशेषविकल्पातिक्रमादयम्॥
अणुरात्मैकयाथात्म्यज्ञानं पन्थाः पुरातनः॥५४६॥

मन्त्राणां तात्पर्यमुक्त्वा प्रतीकमादाय व्याचष्टे। अणुरिति। आद्यमणुपदं मन्त्रोक्त्यर्थं द्वितीयं व्याख्यातेऽर्थे व्याख्येयोपादानमिति भेदः। यद्वा स्थूलाण्वाद्यशेषविशेषात्ययादयमणुः सूक्ष्म इति यावत्। पथिशब्दार्थमाह। आत्मेति॥५४६॥

अनन्तात्मैकमेयत्वाद्विततश्चातिविस्तृतः॥
अनुत्पन्नागमोत्थत्वात्पुराणश्चेति शब्द्यते282॥५४७॥

विततशब्दार्थमाह। अनन्तेति। तथाऽपि कथं पुरातन इति पुराणशब्दो व्याख्यातस्तत्राऽऽह। अनुत्पन्नेति॥५४७॥

तरन्त्यनेन विस्पष्टं संसारानर्थसागरम्॥
यतोऽतो वितरः पन्थाः प्रत्यग्बोधोऽभिधीयते॥५४८॥

वितर इति माध्यंदिनपाठस्यार्थमाह। तरन्तीति॥५४८॥

मां मुक्त्वाऽसंभवो यस्माद्ब्रह्मार्थस्यात उच्यते॥
मां स्पृष्टो मामनुप्राप्त एष पन्था यथोदितः॥५४९॥

मां स्पृष्ट इत्यश्लिष्टं ब्रह्मज्ञानं हि ब्रह्म स्पृशति न प्रत्यञ्चमित्याशङ्क्याऽऽह। मामिति। असंभव इति च्छेदः॥५४९॥

शास्त्राचार्योक्तितः पश्चादनुवित्तो मयैव च॥
ज्ञेयाज्ज्ञाता परो नास्ति प्रत्यग्ज्ञाने यतस्ततः॥५५०॥

तथाऽपि कथमनुवित्तो मयैवेत्युच्यते न हि वित्तस्यैव वेदनमर्थवत्तत्राऽऽह। शास्त्रेति। कुतोऽवध्रियते ब्रह्मवेदनस्य ब्रह्मणाऽपि लब्धत्वादित्याशङ्क्याऽऽह। ज्ञेयादिति। ब्रह्म ज्ञेयं ब्रह्मविज्ज्ञाता तयोरभेदादवधारणमित्यर्थः॥५५०॥

प्रागप्यवोचं बहुश इममर्थं यथोदितम्॥
श्रुतितो न्यायतः स्पष्टं नाऽऽत्मनोऽन्योऽस्ति वेदिता॥५५१॥

ब्रह्मणः सकाशाद्वेदितुर्नाभेदो युक्तो द्रष्टृदृश्यभेदस्य सर्वजनीनत्वादित्याशङ्क्याऽऽह। प्रागपीति। श्रुतितो नान्योऽतोऽस्ति द्रष्टेत्यादेरिति यावत्। न्यायतः प्रतीचोऽन्यस्य घटवन्न द्रष्टृतेत्यादेरित्यर्थः। यथोदितमेवार्थमाह। नेति॥५५१॥

तेनानेन पथा धीराः प्रत्यग्ध्वान्तच्छिदा सदा॥
ब्रह्मापियन्ति निर्द्वंद्वा आप्तमेव तमोह्नुतेः॥५५२॥

तेनेत्यादेरर्थमाह। तेनेति। धीरा इत्यस्य विवक्षितोक्तिर्निर्द्वंद्वा इति प्रज्ञावन्तः सदा द्वंद्वातीता इत्यर्थः। ब्रह्माप्तेरागन्तुकत्वं परिहरति। आप्तमेवेति। तस्य कथमाप्तिस्तत्राऽऽह।तम इति॥५५२॥

आत्मैव ब्रह्म चाऽऽत्माऽपि ब्रह्मैव स्याद्यतः स्वतः॥
तद्याथात्म्यापरिज्ञानात्तद्विपर्ययधीरियम्॥५५३॥

प्राप्तस्यैवाज्ञानध्वस्त्या न प्राप्तिर्ब्रह्मात्मनेर्भेददृष्टेरित्याशङ्क्याऽऽह। आत्मैवेति॥५५३॥

निःशेषमिथ्याविज्ञानहेत्वविद्याविनाशकृत्॥
नान्योऽस्ति ब्रह्मसंबोधाच्छ्रुतिस्तेनेत्यतोऽवदत्॥५५४॥

ब्रह्मणोऽविद्यातज्जध्वंसात्प्राप्तस्यैव प्राप्तावपि तद्ध्वंसि ज्ञानमेवेत्यत्र किं गमकमित्याशङ्क्याऽऽह। निःशेषेति॥५५४॥

स्वर्गोऽयमेव प्रागुक्तः स्वर्गकामवचस्यपि॥
कर्मभिस्तदसिद्धेर्हि वेदान्तज्ञानसिद्धितः॥५५५॥

स्वर्गलोकमित्यत्र स्वर्गशब्दार्थमाह। स्वर्ग इति। अयमेवात्र स्वर्गोविवक्षित एषोऽस्य परम आनन्द इत्यादौ यः परमानन्दोऽभिहित इति योजना। स्वर्गकामो यजेतेत्यत्र भोगभूमिविशेषः स्वर्गोगृहीतः स एवात्रापि ग्राह्यो लोकशब्दादित्याशङ्क्याऽऽह। स्वर्गेति। तत्राप्युपाध्यवच्छिन्नः परमानन्द एव स्वर्गशब्देनोच्यते तन्नासौ दृष्टान्तो दार्ष्टान्तिकादविशेषादित्यर्थः। तर्हि तत्र स्वर्गस्य कर्मसाध्यत्वान्मोक्षस्यापि

तच्छब्दस्य तदापत्तिरित्याशङ्क्याऽऽह। कर्मभिरिति। सोपाधिकस्वर्गस्य कर्मसाध्यत्वेऽपि निरुपाधिकस्य ज्ञानैकलभ्यत्वात्तदसाध्यत्वात्तेनेति श्रुतिरविरुद्धेत्यर्थः॥५५५॥

परमानन्द एवातः स्वर्गशब्देन भण्यते॥
मोक्षप्रकरणान्नित्यः क्रियोत्थोऽतो न गृह्यते॥५५६॥

अयमपि सोपाधिकस्वर्गो लोकत्वादितरवदित्याशङ्क्याऽऽह। परमानन्द इति। तत्र लोकशब्दसंभावनार्थोऽतःशब्दः। निरतिशयप्रकाशतया परस्मिन्नेवाऽऽनन्दे लोकशब्दसंभवात्क्रियाफलस्यात्राग्रहात्प्रकरणविरोधादनुमानमनवकाशमित्यर्थः॥५५६॥

इत उक्तात्मसंबोधमोहोच्छित्तेरनन्तरम्॥
स्वत एव यतो मुक्ता मुच्यन्तेऽतस्तमोह्नुतेः॥५५७॥

इत इत्यादेरर्थमाह। इत इति॥५५७॥

देहपातव्यपेक्षा स्याद्यत्र कारणसंगतिः॥
सर्वकारणविध्वस्तौ नान्यद्बोधादपेक्ष्यते॥५५८॥

न मुक्ता मुच्यन्ते देहपातोत्तरभावित्वान्मुक्तेरिति चेन्नेत्याह। देहेति। यत्र सूत्रादिभावे चोच्यमाने कारणेनाज्ञानेन संबन्धो नापगतस्तत्र देहपातोऽपेक्ष्यत इह त्वज्ञानध्वंसे मोक्षे ज्ञानान्नान्यदपेक्ष्यमस्ति ज्ञानाज्ञानयोरेव विरोधप्रसिद्धेरित्यर्थः॥५५८॥

मुक्तौ तमोतिरेकेण नान्तरायोऽन्य इष्यते॥
यतोऽतोऽज्ञानविध्वस्तौ मुक्तः सन्ना विमुच्यते॥५५९॥

ब्रह्मभावे मोक्षे व्यवधिभूततमोध्वस्तौ ज्ञानादर्थान्तरस्यानपेक्षत्वेऽपि व्यवधानान्तरध्वस्तौ देहपातापेक्षेत्याशङ्क्याऽऽह। मुक्ताविति॥५५९॥

ब्रह्मैव सन्निति तथा प्रागपीदं श्रुतीरितम्॥
देहपातव्यपेक्षाऽतो न स्यादूर्ध्वश्रुतेरिह॥५६०॥

ऊर्ध्वश्रुतिवशात्तदपेक्षा मोक्षस्येत्याशङ्क्याऽऽह। ब्रह्मेति। प्रकृतमन्त्रवदिति तथाशब्दार्थः। मुक्तस्यैव मुक्तत्वमिदमा परामृष्टम्। प्राचीनश्रुतिवशादित्यतःशब्दार्थः। अनन्यथासिद्धवाक्यान्तरविरोधेऽन्यथासिद्धा श्रुतिरनादेयेत्यर्थः।इहेति मोक्षोक्तिः॥५६०॥

मोक्षमार्गे यथोक्तेऽस्मिन्नविद्योपप्लुताशयाः॥
दर्शनानि विचित्राणि कल्पयन्ति यथारुचि॥५६१॥

तस्मिन्नित्यादिपूर्वपक्षस्य तात्पर्यमाह। मोक्षेति। विचित्रानेकदृष्टिकल्पनाहेतुमाह। अविद्येति। तत्रैव हेत्वन्तरमाह। यथेति॥५६१॥

शुक्लंब्रह्मातिसंशुद्धमिति केचिद्विनिश्चिताः॥
शरदि व्योमवन्नीलमित्याहुरपरे जनाः॥५६२॥

पिङ्गलं तत्परं ब्रह्म वह्निज्वालेव शाश्वतम्॥
वैदूर्यवच्च हरितं केचिदाहुर्विपश्चितः॥५६३॥

अपरे लोहितं प्राहुर्जपाकुसुमसंनिभम्॥
यथा रूपे तथा ज्ञेया शब्दादिष्वपि कल्पना॥५६४॥

कल्प्यमानदर्शनान्येव दर्शयति। शुक्लमित्यादिना। गन्तव्यब्राह्मणः शौक्ल्यादियोगात्तन्मार्गोऽपि नाडीविशेषस्तथेत्यर्थः। पिङ्गलमित्यनेन लोहितमित्यस्य पौनरुक्त्यमिति चेन्न तद्धि वह्निज्वालातुल्यमिदं तु जपाकुसुमसममिति विशेषादेत्याह। जपेति। चकारार्थमाह। यथेति। यथाऽनेकविधे रूपे तदात्मके ब्रह्मणि तन्मार्गोऽपि यथा कल्प्यते तथा शब्दस्पर्शादिष्वपि ज्ञेयं नानाविधेषु तेषु तदात्मके ब्रह्मणि तन्मार्गत्वेन नानानाडीकल्पनमित्यर्थः॥५६२॥५६३॥५६४॥

अविद्यापटसंवीतचेतसामागमादृते॥
कामापहतबुद्धीनामेवमाद्या विकल्पनाः॥५६५॥

कल्पनानामनादेयत्वं सूचयति। अविद्येति। अज्ञानिनां कामिनां स्वेच्छानुसारित्वादप्रामाणिककल्पनानां नेयत्तेति वक्तुमादिपदम्॥५६५॥

एकमेवैकरूपं सद्वस्त्वज्ञातं निरञ्जनम्॥
जात्यन्धगजदृष्ट्येव कोटिशः कल्प्यते मृषा॥५६६॥

यथोक्तकल्पनानां वस्त्वनुसारित्वादविद्यानपेक्षत्वमाशङ्क्याऽऽह। एकमिति। दाडिमादिवदेकस्यैवानेकरसत्वं निरसितुं विशिनष्टि। एकरूपमिति। तस्यैव मेयत्वार्थमाह। अज्ञातमिति। वस्तुतस्तु नाज्ञानादियोगोऽस्तीत्याह। निरञ्जनमिति। वस्त्वनुसारित्वाभावे कल्पनानामविद्यात्वं फलतीत्याह। जात्यन्धेति॥५६६॥

अस्थूलाशब्दनेतीति सर्वमात्रादिनिह्नुतेः॥
कुतोऽकारणकार्येऽस्मिञ्शुक्लादेः संभवः परे॥५६७॥

जात्यन्धानां गजदृष्टिर्मानविरुद्धत्वान्मिथ्या शुक्लंब्रह्मेत्यादिकल्पना तु श्रौतत्वान्न तथेत्याशङ्क्याऽऽह। अस्थूलेति। तत्परश्रुतिविरोधेऽन्यपरा श्रुतिरवहेयेति भावः॥५६७॥

यस्तु वेदोदितोपायक्षपिताशेषकल्मषः॥
ब्रह्मणैवानुवित्तोऽयं तेन पन्था गुरूक्तितः॥५६८॥

कल्पितमोक्षमार्गाणां त्याज्यत्वं प्रदर्श्यैष पन्था इत्यादिसिद्धान्ते प्रथमपादस्यार्थमाह। यस्त्विति। वैदिकयज्ञादिनिरस्तसमस्तपाप्माऽयं शुद्धधीरधिकारी तेन मुमुक्षुणा गुरूपदेशानन्तरमखण्डाद्वयप्रत्यग्ब्रह्मात्मना मोक्षहेतुर्ज्ञानमार्गो लब्ध इत्यर्थः। ब्रह्मशव्देन ब्राह्मणो गृह्यते॥५६८॥

अव्यावृत्ताननुगतब्रह्मरूपातिरेकतः॥
न रूपमात्मनोऽस्त्यन्यच्छ्रुतिन्यायानुभूतितः॥५६९॥

तेन च परस्माद्ब्रह्मणो रूपान्तरेणैव ज्ञानमार्ग उपलब्ध इति चेन्नेत्याह। अव्यावृत्तेति। तत्त्वमसीत्याद्या श्रुतिरात्मनो ब्रह्मणोऽन्यत्वे तत्त्वानुपपत्तिर्न्यायोऽनुभूतिर्विद्वदनुभवः॥५६९॥

यतोऽतो ब्रह्मणैवायं पन्था ज्ञातः प्रमाणतः॥५७०॥

ब्रह्मणैवेति च ज्ञेया इत्थंभूतार्थलक्षणा॥
तृतीयेयं न कर्त्रादौ प्रतीचि तदसंभवात्॥५७१॥

आत्मनो ब्रह्मातिरिक्तरूपाभावेफलितमाह। यत इति। कर्तृकरणादिषु कस्मिन्नर्थे तृतीयेत्यपेक्षायामाह। ब्रह्मणेति। संधिस्तु सन्नपि न विवक्षितो विवक्षितस्य तस्य प्रवृत्तेः। हस्तेन शरेण रामेणेतिवत्कर्त्रादौ किं न स्यादत आह। नेति। तत्र हेतुः। प्रतीचीति॥५७०॥५७१॥

क्रियाकारकभेदोऽयं प्रत्यगज्ञानहेतुजः॥
यतोऽतो न तृतीयेयं कर्त्रादाविह युज्यते॥५७२॥

असंभवं साधयति। क्रियेति। आत्मनि कर्तृत्वादिभावस्य वस्तुतोऽयोगोऽतः शब्दार्थः॥५७२॥

ब्रह्मात्मनोरभिन्नत्वं वस्तुतो यद्यपीक्ष्यते॥
अनन्तानर्थसंप्राप्तिस्तथाऽपि तदबोधतः॥५७३॥

नन्वात्मन्यज्ञानादपि न कर्तृत्वादिसंभवस्तस्यासंसारिब्रह्माभिन्नत्वात्तथाच प्रतीचि न स्वाज्ञानात्क्रियाकारकभेदो नेत्याह। ब्रह्मात्मनोरिति॥५७३॥

तथाच यदि नाम स्याद्यथोक्तज्ञानपूर्वकम्॥
पराक्सर्वार्थविज्ञानं वस्तुवृत्तानुरोधतः॥५७४॥

ननु चिदात्मस्फूर्तिपूर्वकं सर्वस्य जडस्य स्फुरणमस्ति च तस्य सदा स्वरूपज्ञानेन स्फूर्तिस्तत्कथं तदबोधादनर्थाप्तिरत आह। तथाचेति। ब्रह्मात्मनोरभेदे सतीति यावत्। वस्तुवृत्तानुरोधतोऽखण्डस्फुरत्स्वरूपस्याऽऽत्मनः सर्वप्रकाशकत्वस्वाभाव्यादनात्मनश्च जडत्वादजडात्मापेक्षां विना स्फूर्त्ययोगादित्यर्थः॥५७४॥

तथाऽप्यब्रह्मवित्तेन न कैवल्यं पथैति तत्॥
तेनैति ब्रह्मवित्तस्मा1216न्नान्यः पन्था इति श्रुतेः॥५७५॥

स्वरूपस्फूर्तिरात्मनः सदेष्टा चेत्तर्हि ज्ञानाधीनमुक्तेरनायाससिद्धत्वान्नानर्थसंगतिस्तत्राऽऽह। तथाऽपीति। वाक्योत्थाखण्डाद्वयब्रह्माकारस्वरूपसाक्षात्कारं विना

ज्ञानमात्रान्न मुक्तिरित्यर्थः। एष इत्यादि व्याख्याय तेनेत्यादि व्याचष्टे। तेनेति। प्रकृतज्ञानमार्गेण ब्रह्मविन्मोक्षं गच्छति तदितरस्तन्मार्गो1217 नेति श्रुतिसिद्धत्वात्तस्मान्नाब्रह्मविन्मुक्तिभागित्य1218र्थः॥५७५॥

ब्रह्मवित्त्वे च को हेतुरित्याशङ्क्याऽऽह नः श्रुतिः॥
पुण्यकृत्तैजसश्चेति भवेद्ब्रह्मविदुत्तमः॥५७६॥

पुण्यकृदित्यादिपदद्वयमाकाङ्क्षापूर्वकमादत्ते। ब्रह्मेति॥५७६॥

पुण्यकृज्जायते यस्माच्छुद्धधीरिह मानवः॥
शुद्धसत्वोऽथ तद्ब्रह्म साक्षादात्मनि पश्यति॥५७७॥

द्वयोर्ब्रह्मवित्त्वे हेतुत्वमुक्त्वाऽऽद्यस्य तद्धेतुत्वं साधयति। पुण्येति। इहेत्यधिकृतनिर्धारणार्था सप्तमी। तस्मात्पुण्यकृत्त्वं ब्रह्मवित्त्वे हेतुरित्यथशब्दार्थः॥५७७॥

तेजः शब्देन संशुद्धं सत्त्वमेवाभिधीयते॥
तस्मिन्भवस्तैजसः स्यात्प्रत्यक्प्रवणधीर्नरः॥५७८॥

तैजसत्वमपि हेतुस्तत्रेति वक्तुं तैजस1219शब्दार्थमाह। तेजःशब्देनेति। शुद्धधीः पुमानात्मप्रवणोऽत्र तैजसः॥५७८॥

ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः॥
यथाऽऽदर्शतलप्रख्ये पश्यत्यात्मानमात्मनि॥५७९॥

तत्र ज्ञानोत्पत्तिरित्यत्र मानमाह। ज्ञानमिति। किमिति ज्ञानं बुद्धिशुद्धिमपेक्षते तत्राऽऽह। यथेति॥५७९॥

गार्भैर्होमैर्जातकर्मचूडामौञ्जीनिबन्धनैः॥
महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः॥
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वाऽऽत्मशुद्धये॥५८०॥

पापक्षये शुद्धधियस्तु ज्ञानोत्पत्तिस्तत्क्षयस्तु कथमित्युक्ते वाक्यान्तरमाह। गार्भैरिति। तत्रैव भगवतः संमतिमाह। योगिन इति॥५८०॥

योगी वा तैजसोऽत्र स्यात्प्रत्यग्दृष्टौ समर्थतः॥
विषयाकृष्टधीर्यस्मान्न क्षमः प्रत्यगीक्षणे॥५८१॥

पुण्यकृत्त्वेनैव शुद्धधीत्वसिद्धेस्तैजसत्वमकिंचित्करमित्याशङ्क्यार्थान्तरमाह। योगी वेति। समाहितधियो योगिनस्तैजसत्वे हेतुमाह। प्रत्यगिति। कथमात्मदृष्टौ सामर्थ्यमेकाग्रबुद्धेरिष्यते सर्वो हि स्वात्मानमहमिति द्रष्टुमीष्टे तत्राऽऽह। विषयेति। प्रत्यग्याथात्म्यधीरसमाहितधियो न सिध्यति कश्चिद्धीरः प्रत्यगात्मानमैक्षदिति श्रुतेस्तस्माद्धीसमाधानं ज्ञाने हेतुर्निदिध्यासनविधानादित्यर्थः॥५८१॥

सर्वभूतस्थमात्मानं सर्वभूतानि चाऽऽत्मनि॥
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः॥५८२॥

एकाग्रधियस्तैजसस्य ज्ञानोत्पत्तिरित्यत्र भगवदनुमतिमाह। सर्वेति॥५८२॥

इत्येवं स्मृतयः सन्ति श्रुतयश्च सहस्रशः॥
कर्माभिः शुद्धसत्त्वस्य सम्यग्ज्ञानस्य जन्मनि॥५८३॥

शुद्धबुद्धेर्ज्ञानमित्यत्रोक्ताः स्मृतीरूपसंहरन्नत्रैव श्रुतीनामपि सत्त्वं सूचयति। इत्येवमिति। तासां संक्षिप्तमर्थं कथयति। कर्मभिरिति॥५८३॥

यस्मिन्विशुद्ध इत्येवं सत्त्वशुद्धौध्रुवा स्मृतिः॥
तमेतमिति च स्पष्टं श्रौतानि च वचांसि नः॥५८४॥

श्रुतयः सन्तीत्युक्तं ताः संप्रत्युदाहरति। यस्मिन्निति। यच्छब्देन चित्तमुच्यते। एषोऽणुरात्मा चेतसेति प्रकृतत्वाद्धि भवत्येष आत्मेति शेषः। तत्रैव श्रुत्यन्तरमाह। सत्त्वेति। स्मृतिस्तत्त्वज्ञानम्। विविदिषावाक्यं च वेदानुवचनादीनां शुद्ध्यादिद्वारा ज्ञानोत्पत्तौ विनियोजकमित्याह। तमिति। उक्तश्रुतीरुपसंहरति। श्रौतानीति। येन केनचन यजेतेत्यादिवाक्यसमुच्चयार्थश्चकारः॥५८४॥

प्रसिद्धमहिमानौ वा पुण्यकृद्योगिनाविह॥
ब्रह्मवित्स्तूयते ताभ्यां ब्रह्मविद्यावृत्तये॥५८५॥

पुण्यकृत्त्वादेर्ब्रह्मवित्त्वे हेतुत्वमुक्त्वा पक्षान्तरमाह। प्रासिद्धेति। इहेति जन्तुमात्रोक्तिः। स्तुतिफलमाह। ब्रह्मेति। यो ब्रह्मवित्तेन गच्छति स एव पुण्यकृत्तैजसश्चेति ब्रह्मविदस्ताभ्यां स्तुतिः सा च मुमुक्षूणां ब्रह्मविद्योद्देशेन श्रवणादिप्रवृत्तावुपकरोतीत्यर्थः॥५८५॥

इह केचिन्महात्मानः प्रत्यङ्मोहच्छिदा सह॥
पुण्यकृत्तैजसत्वाभ्यां ज्ञानेनाऽऽहुः समुच्चयम्॥५८६॥

तेनेत्यादेः स्वाभिप्रेतां व्याख्यामुक्त्वा व्याख्यान्तरमनुभाषते। इहेति। ज्ञानेन प्रत्यङ्मोहच्छिदेति संबन्धः॥५८६॥

पुण्यकृत्पुण्यकर्मा यो योगी तैजस उच्यते॥५८७॥

ब्रह्मज्ञानैकनिष्ठः सन्पुण्यकृत्तैजसश्च सन्॥
शास्त्रोपदिष्टमैकात्म्यं शक्तो योगेन वीक्षितुम्॥५८८॥

समुच्चयप्रकारं दर्शयितुं पदयोरर्थमाह। पुण्यकृदिति। योगी सूत्राद्युपासको योगशास्त्रसिद्धो वा। संप्रति समुच्चयप्रकारमाह। ब्रह्मेति। तत्फलमाह। शास्त्रेति। योगः साधनानां मेलनम्॥५८७॥५८८॥

परस्परं व्यपाश्रित्य यथोक्तं साधनत्रयम्॥
एकार्थसिद्धयेऽलं स्यान्नान्यथेदं त्रिदण्डवत्॥५८९॥

ब्रह्मवित्त्वादीनामपरोक्षज्ञानेन समुच्चयेऽपि मोक्षे न सोऽस्ति प्रत्येकं सामर्थ्यादित्या शङ्क्याऽऽह। परस्परमिति। न हि त्रयो दण्डा मिथोऽसंबद्धाः कुड्यादि निर्मातुमर्हन्ति तथेदमपि साधनत्रयमसमुच्चितं न मुक्तये पर्याप्तं विद्यातपसोः संयुक्तयोर्भेषज1220त्वस्मरणादित्यर्थः॥५८९॥

समुच्चयोऽयमस्माभिर्यथाऽभाणि तथा यदि॥
व्याख्यायते न दोषः स्यात्तत्र मानस्य संभवात्॥५९०॥

क्रमसमुच्चयः समसमुच्चयो वा साध्यते तत्राऽऽद्यमङ्गी कुरुते1221। समुच्चय इति॥५९०॥

इतोऽन्यथा चेद्व्याख्यानं क्रियते बुद्धिलाघवात्॥
दुर्निवारेह साऽऽप्नोति योक्ता दोषपरंपरा॥५९१॥

द्वितीयं प्रत्याह। इतोऽन्यथेति। समुच्चयव्याख्याने बुद्धिदौर्बल्यं हेतुरित्याह। बुद्धीति। उक्ता विज्ञानकर्मणोस्त्रेधा यद्युच्येतेत्यादाविति शेषः॥५९१॥

अपुण्यपुण्योपरमे यं पुनर्भवनिर्भयाः॥
शान्ताः संन्यासिनो यान्ति तस्मै मोक्षात्मने नमः॥५९२॥

तत्र मानस्य संभवादित्युक्तं व्यञ्जयन्कर्मणां मोक्षे साक्षाज्ज्ञानेनासमुच्चये प्रमाणमाह। अपुण्येति॥५९२॥

त्यज धर्ममधर्मंच उभे सत्यानृते त्यज॥
उभे सत्यानृते त्यक्त्वा येन त्यजसि तं त्यज॥५९३॥

ज्ञानस्य कर्मासमुच्चयेऽपि विवेकज्ञानेन सोऽस्तीत्याशङ्क्याऽऽह। त्यजेति॥५९३॥

निराशिषमनारम्भं निर्नमस्कारमस्तुतिम्॥
अक्षीणं क्षीणकर्माणं तं देवा ब्राह्मणं विदुः॥५९४॥

ब्रह्मविदोऽपि स्तुत्यादिदृष्टेस्तेन समुच्चयो ज्ञानस्येत्याशङ्क्याऽऽह। निराशिषमिति। काम्याननुष्ठानमनारम्भः। अक्षीणत्वं निषिद्धानाचरणम्। क्षीणकर्मत्वं नित्यादिकर्मराहित्यम्॥५९४॥

नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च॥
शिलं स्थितिर्दण्डनिधानमार्जवं ततस्ततश्चोपरमः क्रियाभ्यः॥५९५॥

ज्ञानकर्मासमुच्चये वाक्यान्तरमाह। नेत्यादिना। एकता निरपेक्षता सर्वत्रोदासी—

नतेति यावत्। समता मित्रोदासीनशत्रुबुद्धिव्यतिरेकेण सर्वत्र स्वस्मिन्निव दृष्टिः। दण्डनिधानमहिंसापरत्वम्॥५९५॥

अर्थस्य मूलं निकृतिः, क्षमा चकामस्य रूपं च वयो वपुश्च॥
धर्मस्य यागादि दया दमश्चमोक्षस्य सर्वोपरमः क्रियाभ्यः॥५९६॥

चतुर्विधे पुमर्थे साधनभेदोपदेशाच्च न समुच्चय इत्याह। अर्थस्येति। निकृतिर्वाणिज्यादिलक्षणा किंवा शाठ्यं वा सत्यानृतमिथुनीकरणात्मा व्यवहार इति स्थितेः॥५९६॥

इत्येवं स्मृतिशास्त्राणि सर्वत्यागपुरःसरम्॥
ज्ञानजन्माभिदधति तथा श्रुतिवचांसि च॥५९७॥

ननु क्रियाभ्यः सर्वथोपरमो मोक्षस्य न मूलं तज्ज्ञानस्य तथात्वोपगमादित्याशङ्क्य यथोक्तस्मृतीनां तात्पर्यमाह। इत्थेवमिति। तासां श्रुतिमूलतया प्रामाण्यदार्ढ्यार्थमाह। तथेति। न कर्मणेत्यादीनीत्यर्थः॥५९७॥

ऐकात्म्यदर्शनादुक्ताद्यदन्यद्दर्शनान्तरम्॥
अन्धं तम इति श्रुत्या तदिहापोद्यतेऽखिलम्॥५९८

केवलो ज्ञानमार्गो मुक्तिहेतुरित्युक्तम्। इदानीमन्धमित्यादिमन्त्रतात्पर्यमाह। ऐकात्म्येति। इहेति मुक्तेरुक्तिः॥५९८॥

तमोमोहादिभेदेन तमोऽनेकस्वल1222क्षणम्॥
यतोऽतोऽन्धं तम इति विशिनष्टि1223 श्रुतिस्तमः॥५९९॥

अन्धं तमोविशेषणं किमर्थमित्याशङ्क्याऽऽह। तम इति। आदिपदेन महामोहतामिस्रान्धतमसानां ग्रहणम्॥५९९॥

अन्धं मूढं तमो यान्ति1224 येऽविद्यां समुपासते॥
विरक्ता अपि संसारान्नैकात्म्यं ये विदुर्नराः॥६००॥

मन्त्रस्य विशेषणस्य चाभिप्रायमुक्त्वा पूर्वार्धाक्षराणि व्याकरोति। अन्धमिति। अविरक्तानां कर्ममात्रशरणानामेषा निन्दा न विरक्तानां दहराद्युपासकानामित्याशङ्क्याऽऽह। विरक्ता इति। अविरक्ताः केवलकर्मिणस्तामसं देहं गृह्णन्ति विरक्ता दहरादिपरा राजसमिति भेदः॥६००॥

संभूतिवचसाऽपीयमविद्यैवाभिधीयते॥
अविद्यातो हि संभूतिः सर्वस्य जगतो यतः॥६०१॥

अन्धं तमः प्रविशन्ति ये संभूतिमिति माध्यंदिनास्तत्र संभूर्ति व्याचष्टे। संभूतीतिकाण्वश्रुतिस्थामविद्यामियमित्यनुकर्षति। कथमविद्यायां संभूतिशब्दो न हि तत्र वृद्धास्तं

प्रयुञ्जते तत्राऽऽह। अविद्यातो हीति। तत्रान्वयादि प्रमाणयितुं हिशब्दः। यतःशब्दस्तु पूर्वप्रतिज्ञया संबध्यते॥६०१॥

ततो भूयस्तमो यान्ति1225 ये विद्यायां रता जनाः॥
अणिमादावविद्योत्थे पराक्चित्ततया रताः॥६०२॥

उत्तरार्धं विभजते। तत इति। द्वितीयपादार्थं स्फुटयति। अणिमादाविति। आदिपदेनावशिष्टैश्वर्योक्तिः॥६०२॥

ग्राह्यग्राहकभेदेन या विद्यामात्रकारणा॥
विद्येति सेह विज्ञेयानैकात्म्य1226प्रसमीक्षणम्1227॥६०३॥

नन्वत्र विद्याशब्देन परविद्योच्यते तदधिकारात्तत्कथं तस्यामासक्तावन्धं तमो निगच्छन्ति सा हि मुक्तिबीजं तत्राऽऽह। ग्राह्येति। भेददृष्टिनिविष्टास्तामसयोनयो भवन्तीत्यर्थः॥६०३॥

कर्मार्थद्योतिका वेह विद्याऽत्राप्यभिधीयते॥
तस्यामभिरता ये स्युर्वेदान्तार्थानपेक्षिणः॥६०४॥

विशन्त्यज्ञास्तु ते सन्तस्ततो भूयः परं तमः॥
मिथ्याज्ञानाधिकत्वेन भूयस्त्वं तमसो भवेत्॥६०५॥

भेददृष्टिरविद्योत्थत्वात्तच्छब्दमर्हति न विद्याशब्दमित्याशङ्क्यार्थान्तरमाह। कर्मेति। विद्याशब्दार्थमुक्त्वा वाक्यार्थमाह। तस्यामिति। ननु तमो नामाज्ञानं तच्च ज्ञानाभावत्वान्न भूयो भवति न हि तस्मिन्भूयस्त्वाभूयस्त्वे परिमाणे संभवतस्तत्राऽऽह। मिथ्येति। अविद्यारतास्तावदीश्वरमाश्रयन्त्युपनिषदश्च तद्विषयत्वेन प्रामाण्यमनुमन्यन्ते तत्र तेषामविवेको भूयान्कर्मनिष्ठा मीमांसकास्त्वीश्वरं द्विषन्त्युपनिषदश्च विधिशेषतया कार्यार्थत्वादप्रामाण्यमाहुस्तेन तेषां मिथ्याज्ञानाधिक्यात्तद्धेत्वविवेकस्यापि प्रभूतत्वं न च ज्ञानाभावोऽज्ञानं जगन्निदानत्वादित्यर्थः॥६०४॥६०१॥

यदि ते तत्तमो यान्ति1228 को दोष इति चोदिते॥
अनन्दा इति वाक्येन तद्दोषोऽथाभिधीयते॥६०६॥

अनन्दा नामेत्यादेस्तात्पर्यमाकाङ्क्षापूर्वकमाह। यदीति। दोषबुभुत्सायां त1229दुक्तिर्युक्तेति वक्तुमथशब्दः॥६०६॥

अनानन्दाभिधा लोकास्तीव्रदोषसमन्विताः॥६०७॥

तांस्ते प्रेत्याभिगच्छन्ति येऽविद्वांसोऽबुधो जनाः॥
अविद्वांसो न सामान्यात्किंतु येऽत्राबुधो जनाः॥६०८॥

तमेव दोषं विशदयति। अनानन्देति। आध्यात्मिकादित्रिविधदेहजातं दुःखबहुलमात्मज्ञानप्रतिकूलं ते गृह्णन्तीत्यर्थः। अबुध इतिविशेषणतात्पर्यमाह। अविद्वांस इति। अत्रेति ब्रह्मात्मोक्तिः। जननमरणादिमात्रशालित्वेन ब्रह्मात्मबोधविधुरतामेव स्फोरयति। जना इति॥६०७॥६०८॥

आत्मानं चेद्विजानीयात्सर्वधीवृत्तिसाक्षिणम्॥
अशनायाद्यतिक्रान्तं कथंचित्सत्त्वशुद्धितः॥६०९॥

आत्मज्ञानाभावे दोषं मन्त्राभ्यामुक्त्वा तज्ज्ञाने मुक्तिमुत्तरमन्त्रेणाऽऽह। आत्मानमिति। चेच्छब्दार्थमाह। कथंचिदिति। तदा नानुसंज्वरेदिति संबन्धः॥६०९॥

कथं तमभिजानीयादित्युक्त इदमुच्यते॥
पुरुषः परमात्माऽयमयमस्मीतिवाक्यतः॥
किमिच्छन्कस्य वाऽर्थाय शरीरं संज्वरेत्तदा॥६१०॥

अयमित्याद्याकाङ्क्षापूर्वकमवतार्थ व्याकरोति। कथमित्यादिना। अयमात्मा ब्रह्माहं ब्रह्मास्मि तत्त्वमसीत्यादिवाक्यादयं परमात्माख्यः पुरुषोऽहमस्मीति जानीयादित्यर्थः। उत्तरभागमादत्ते। किमिच्छन्निति। तदेति ज्ञानावस्थोक्तिः॥६१०॥

सर्वेच्छानां समाप्तत्वादात्मकामप्रबोधतः॥
आक्षिप्यतेऽत इच्छेह किमिच्छन्नितिवाक्यतः॥६११॥

किंशब्दस्याऽऽक्षेपार्थत्वमाह। सर्वेच्छानामिति। इहेति विद्वदुक्तिः॥६११॥

प्रत्यगात्मातिरेकेण यस्माच्चान्यन्न पश्यति॥
कस्य कामाय वा चातोऽप्यनात्माऽऽक्षिप्यतेऽखिलः॥६१२॥

कस्य कामायेत्यस्यार्थमाह। प्रत्यगिति। अखिलोऽप्यनात्मेति संबन्धः॥६१२॥

शरीरज्वरमन्वेष संज्वरेद्ब्रह्म सन्कथम्॥
निःसङ्गस्य हि संबन्धो देहेनास्य न कश्चन1230॥६१३॥

शरीरमित्यादेरर्थमाह। शरीरेति। कथमित्युक्तानुपपत्तिं स्फुटयति। निःसङ्गस्येति। असङ्गत्वससङ्गत्वयोर्मिथो विरोधी हिशब्दार्थः॥६१३॥

नातो देहादिदुःखेन दुःखित्वं प्रत्यगात्मनः॥
निःशेषदुःखसंबन्धहेतूच्छित्तेः प्रबोधतः॥६१४॥

संबन्धाभावे फलितमाह। नेति। इतश्चाऽऽत्मनो न दुःखितेत्याह। निःशेषेति॥६१४॥

भूयोऽसह्यमहादुःखनीडदेहप्रवेशन—
हेत्वविद्यासमुच्छित्तेर्देहं चानुविशेत्कुतः॥६१५॥

शरीरमनुसंचरेदिति माध्यंदिनपाठस्यार्थमाह। भूय इति। ज्ञानिनो देहान्तरसंसर्गक्षेपार्थश्चकारः। भूयःशब्दस्तु वर्तमानदेहपातानन्तर्यवाची तेन संबध्यते समस्तो वा यथाश्रुतोऽस्तु॥६१५॥

शास्त्राचार्यप्रसादात्तु क्षपिताशेषपाप्मनः॥
वित्तो बुद्ध्यादिसाक्षीशः प्रतिबुद्धस्तथैकलः॥६१६॥

यस्येत्यादिमन्त्रावयवस्यार्थमाह। शास्त्रेति। येन परमात्मा लब्धः साक्षात्कृतश्च स सर्वस्य कर्तेति संबन्धः॥६१६॥

अन्नात्तेजोभिरत्यर्थं देहः संदिह्यते यतः॥
संदेहस्तेन देहोऽयं संदेघश्छान्दसत्वतः॥६१७॥

संदेहशब्दार्थमाह। अन्नेति। संदिह्यते सम्यगुपचीयत इति यावत्। कथं तर्हि श्रुतौ घकारप्रयोगस्तत्राऽऽह। संदेघ इति॥६१७॥

आध्यात्मिकाधिभूताधिदैविकार्थातिसं1231करात्॥
गुणप्रधानभावेन गहनोऽयं ततो मतः॥६१८॥

देहस्य गहनत्वं साधयति। आध्यात्मिकेति। गुणप्रधानत्वेनाऽऽध्यात्मिकाद्यर्थानां पृथक्करणायोग्यतयाऽस्मिन्देहे संश्लेषादेष गहन इत्यर्थः॥६१८॥

संदेहे गहनेऽत्राऽऽत्मा प्रविष्टो जलसूर्यवत्॥
विविच्य येन विज्ञातः स स्याद्विश्वकृदीश्वरः॥६१९॥

प्रविष्टशब्दं व्याचष्टे। संदेह इति। स विश्वकृदित्यस्यार्थमाह। विविच्येति॥६१९॥

प्रत्यग्याथात्म्यसंबोधात्सर्वंतेन कृतं भवेत्॥
निःशेषपुरुषार्थाप्तेर्न कार्यं शिष्यते परम्॥६२०॥

न ब्रह्मविदो विश्वकृत्त्वं विश्वाभावादित्याशङ्क्याऽऽह। प्रत्यगिति। विदुषः सर्वकृत्त्वे हेतुमाह। निःशेषेति। ज्ञानफले सर्वस्यान्तर्भावाज्ज्ञानिना सर्वं कृतमित्युच्यत इत्यर्थः॥६२०॥

स हि सर्वस्य कर्तेति तस्मादेवाभिधीयते॥
कृतकृत्यत्वतो हेतोर्लोकोऽयं तस्य लोकिनः॥६२१॥

स हीत्यादेस्तात्पर्यमाह। स हीति। तच्छब्दपरामृष्टं स्पष्टयति। कृतेति। ज्ञानेन

सर्वस्याऽऽत्मसात्करणात्सर्वकृदुच्यते विद्वानित्यर्थः। तस्येत्यादेरर्थमाह। लोक इति। अयं परमात्मा तस्य विदुषः स्वभावः स्वभावान्तरासंभवादित्यर्थः॥६२१॥

निःशेषजनिमत्कार्यहेतोर्वा ज्ञाततत्त्विनः॥
विश्वकृत्त्वं भवेदेवं हीतिहेतुपरिग्रहात्॥६२२॥

स विश्वकृदित्यादेरर्थान्तरमाह। निशेषेति। अज्ञस्यावि1232श्वरूपत्वेऽपि नाऽऽत्मज्ञस्य तत्सिद्धिस्तथाच स विश्वकृदिति कुतो व्य1233पदेशः सशब्देन विद्वत्परामर्शादित्याशङ्क्याऽऽह। एवमिति। स हि सर्वस्य कर्तेत्येवं हेतूक्तेर्विद्वानेवाविद्वद्दशायां तद्द्वारा विश्वकर्तेति यावत्॥६२२॥

तस्य साक्षादयं लोको योऽहं ब्रह्मेतिबोधितः॥
भेदाशङ्कापनुत्त्यर्थं स उ लोक इतीर्यते॥६२३॥

तस्येत्यादि व्याचष्टे। तस्येति। यो हि कूटस्थश्चिदात्मा स्वाज्ञानाद्विश्वकर्ता स येन ज्ञानादज्ञानादि व्युदस्य साक्षात्कृतस्तस्य विदुषःप1234रमात्मा साक्षादात्मेत्यर्थः। यद्वा तस्य परस्यायं विद्वान्साक्षादात्मेति यावत्। स उ लोक एवेत्यस्यार्थमाह। भेदेति। तस्येत्युक्ते भेदः शङ्कितस्तन्निरासार्थं स इत्यादिवाक्यं स हि परो विदुषः स्वभावः स वा परस्यातो न भेदशङ्केत्यर्थः॥६२३॥

इहैव कृतकृत्यत्वात्सन्तः स्याम परं यदि॥
ब्रह्म प्रत्यक्तया विद्मः कथंचित्कल्मषक्षयात्॥६२४॥

इहैवेत्यादि व्याकुर्वन्नुक्ताभेदज्ञानफलमाह। इहेति। यदि बहुजन्मनिर्वर्तितानन्तपुण्यवशात्तत्त्व-ज्ञानप्रतिबन्धकपापापाकरणात्परं ब्रह्म प्रत्यक्त्वेन जानीमस्तदा वयमिहैवानेकानर्थसंकटे देहे वर्तमाना ज्ञानात्प्राप्तपरमपुरुषार्थतया तदेव ब्रह्म भवामोऽतो महाभागधेया ब्रह्मविद्येत्यर्थः॥६२४॥

न चेदथ परं विद्मः शास्त्राचार्यानुसारतः॥
अवेदिनं तदा बालं विनष्टिर्महती व्रजेत्॥६२५॥

न चेदित्यादि व्याकुर्वन्नज्ञाने प्रत्यवायप्राप्तिमाह। न चेदिति। बहुवचनेनोपक्रम्य पुनरेकवचनेन विनिर्दिशन्बहुत्वमविवक्षितमिति सूचयति। अवेदिनमिति। अथशब्दार्थस्तदेत्यनुकृष्यते। यदि शास्त्राद्यनुसारेण परं ब्रह्म प्रत्यक्तया नानुभवामस्तदा योऽहं वेदनहीनस्तं मां बालवदविवेकिनं या महती विनष्टिः सा सहसा समाक्रम्याधितिष्ठेदित्यर्थः॥६२५॥

विनष्टिं महतीं चेयाद्योऽवेद्यात्माऽविचक्षणः॥६२६॥

विनष्टिर्महती चेह विनाशादिप्रसूतितः॥

आत्माविद्यैव निर्दिष्टा सामानाधिकरण्यतः॥६२७॥

अवेदिनः कर्मत्वं विनष्टेश्चकर्तृत्वमुक्त्वा विधान्तरमाह। विनष्टिमिति। अवेदित्वं व्याकरोति। आत्मेति। यस्तावदात्मज्ञानहीनः स या महती विनष्टिस्तामाश्रित्य तत्परवशस्तिष्ठतीत्यर्थः। केयं महती विनष्टिर्न हि ध्वंसस्य महत्त्वं तत्राऽऽह। विनष्टिरिति। महती विनष्टिरिति सामानाधिकरण्यादात्माविद्यैव निर्दिष्टेति संबन्धः। अखण्डजाड्यात्मकत्वादात्माविद्याया महत्त्वेऽपि कथं सा विनष्टिस्तत्राऽऽह।विनाशादीति॥६२६॥६२७॥

उक्तार्थस्य प्रकाशार्थमुत्तरार्धेन भण्यते॥
ये तद्विदुरिति श्रुत्या स्पष्टार्थप्रतिपत्तये॥६२८॥

ये तदित्यादेरर्धस्य पूर्वेण पौनरुक्त्यमाशङ्क्याऽऽह। उक्तार्थस्येति। ये तद्विदुरितिश्रुतिरूपेणोत्तरार्धेन पूर्वार्धार्थ एव प्रपञ्चार्थमुच्यते प्रपञ्चनं चोक्तार्थस्य स्पष्टताप्रतिपत्त्यर्थमिति योजना। तत्र प्रथमपादार्थस्तृतीयपादेन प्रपञ्च्यते द्वितीयपादार्थश्चतुर्थपादेनेति विभागः॥६२८॥

ब्रह्मैव सन्तो विज्ञानात्प्रागतो ब्रह्मबोधतः॥
भवामो ब्रह्म नानाप्तं दशमो दशमं यथा॥६२९॥

मन्त्रार्थमुपसंहरति। ब्रह्मैवेति। वयं हि ज्ञानात्प्रागपि वस्तुतो ब्रह्मैव सन्तोऽतस्तदज्ञानादब्रह्मवदवस्थिता वाक्योत्थज्ञानादज्ञानेऽपयाते ब्रह्म भवामो न स्वर्गादिवदप्राप्तं ब्रह्म ज्ञानात्प्राप्नुमो यथा दशमो माणवको दशमोऽसीतिवाक्योत्थज्ञानादज्ञानं विधूय दशममात्मानमाप्नोति तद्वदित्यर्थः॥६२९॥

ब्रह्मास्मीति यदैवैतमा1235त्मानं देवमञ्जसा॥
अनुपश्यति साक्षात्तमीश्वरं भूतभव्ययोः॥६३०॥

ईश्वरप्रत्यगात्माप्तेस्तदा तद्भेदनाशतः॥
ईशितव्यत्वसंक्रान्तेर्न ततो विजुगुप्सते॥६३१॥

यदेत्यादेरर्थमाह। ब्रह्मेति। अञ्जसेत्यस्य व्याख्या साक्षादिति। तमेतमा1236त्मानं स्वप्रकाशतया पूर्वत्रोक्तं सर्वेश्वरं परमात्मानं साक्षादाचार्योपदेशानुसारेणास्मीति यदा पश्यति तदा परस्य प्रत्यक्त्वेनाऽऽप्तेस्तद्भेदभ्रमनाशादप्यनिष्टतया प्रतिपन्नस्येशितव्यत्वस्य व्यावृत्तेर्ज्ञानबलादेव न विजुगुप्सत इति योजना॥६३०॥६३१॥

गुप्तिमिच्छति सर्वोऽपि यत ईशाद्भयातुरः॥
अयं तु तदभिन्नत्वान्न ततो गुप्तिमिच्छति॥६३२

उत्थापितं चतुर्थं पादं विभजते। गुप्तिमिति। तदभिन्नत्वाद्भयाभावादिति शेषः॥६३२॥

यतो वाचो निवर्तन्ते अप्राप्य मनसा सह॥
आनन्दं ब्रह्मणो विद्वान्न बिभेतीति शास्त्रगीः॥६३३॥

विदुषो भयाभावे मानमाह। यत इति। यथावाक्यमुपपादयितुमिहासंधिकरणम्॥६३३॥

न वा निन्दति निःशेषद्वैतहेतुविनाशतः॥
ऐकात्म्यदर्शनाद्विद्वान्यत्र त्वस्येतिशास्त्रतः॥६३४॥

न तत इत्यादेरर्थान्तरमाह। न वेति। तत्त्वज्ञानान्निःशेषद्वैतस्य सहेतुकस्य नाशे मानमाह। यत्रेति॥६३४॥

निःशेषविक्रियाहेतुकालातिक्रमहेतुतः॥
जन्मादिविक्रियाषट्कसंगतिस्तस्य1237 नेष्यते॥६३५॥

ज्ञानस्याव्यवहितफलत्वं दर्शयित्वा यस्मादित्यादिमन्त्रतात्पर्यमाह। निःशेषेति॥६३५॥

अर्वाग्यस्मादयं कालो विकुर्वञ्जनिमज्जगत्॥
सं1238वत्सरः स्वावयवैरहोभिः परिवर्तते॥
ज्योतिषामपि तज्ज्योतिरायुर्देवा उपासते॥६३६॥

ज्ञेयस्याऽऽत्मतत्त्वस्य कूटस्थत्वविधानार्थं वाक्यमित्युक्त्वा तदक्षराणि व्याकरोति। अर्वागिति। अयं संवत्सराख्यः कालः स्वावयवैरहोरात्रैः कार्यजातं विकुर्वन्यस्मादर्वागेव परिवर्तते तं कूटस्थमात्मानं ज्योतिषामपि ज्योतिरायुरित्येवमनुसंदधते देवास्तेनाऽऽयुष्मन्तो ज्योतिष्मन्तश्च ते प्रसिद्धा इत्यर्थः॥६३६॥

कौटस्थ्यादमृतं ज्योतिर्मृत्युभूम्यतिलङ्घनात्॥
कालस्य जरणादात्मा श्रुतौ कालंजरो मतः॥६३७॥

तस्यामृतत्वं साधयति। कौटस्थ्यादिति। कौटस्थ्यं मृत्युगोचरत्वाभावे हेतुस्ततश्च ज्योतिरमृतमित्यर्थः। इतश्च परस्य कालनिमित्तोऽन्यथाभावो नास्तीत्याह। कालस्येतिज्ञः कालकालो1239 गुणी सर्वविद्य इति पाच्यांश्च सर्वान्परिणामयेद्य इति च श्रुतौ कालस्यान्यथाभावः परमात्मनिमित्तो निश्चितस्तेन न तन्निमित्तोऽन्यथाभावस्तस्येत्यर्थः। यद्वा योऽयमात्मा तत्र तत्र श्रुतौ मतः स कालस्य जरणात्कालंजरो भवतीति योजना। उक्तं हि—

‘कालः पचति भूतानि सर्वाण्येव सताऽऽत्मना।
का1240लः पक्वोयमन्वेति यस्तं वेद स वेदवित्॥
कालः1241 स पच्यते1242 यत्र न कालस्तत्र वै प्रभुः।
कालस्यैव च मृत्योश्च जङ्गमस्थावरस्य च॥
ईशते भगवानेकः सत्यमेतद्ब्रवीमि ते’ इति।

मोक्षधर्मे च

‘आहत्य सर्वसंकल्पान्सत्त्वे चि1243त्तं निवेशयेत्॥
सत्त्वे1244 चित्तं समावेश्य ततः कालंजरो भवेत्’ इति॥६३७॥

भावाभावात्मकस्यास्य कार्यकारणवस्तुनः॥
परमात्मा स्वतः सिद्धेरायुरस्य परार्थतः॥६३८॥

परस्य कालनिमित्तान्यथात्वाभावेऽपि न कौटस्थ्यमायुष्ट्वादायुषश्च प्रतिप्राण्यन्यथात्वादित्याशङ्क्याऽऽह। भावेति। स कथं स्वतः सिद्धोऽपि प्रपञ्चस्य जीवनमिति तत्राऽऽह। अस्येति। कार्यकारणप्रपञ्चस्य जडतया स्वतः सत्तास्फूर्त्योरभावात्परमात्मैव स्वरूपमित्यर्थः॥६३८॥

गन्धर्वाः पितरो देवा रक्षोभिश्चसहासुराः॥
यस्मिन्पञ्चजनाः पञ्च वियदन्ताः प्रतिष्ठिताः॥६३९॥

कूटस्थत्वं स्वप्रकाशत्वं सर्वात्मत्वं च व्याख्याय यस्मिन्नित्यादिमन्त्रेण सर्वकल्पनाधिष्ठानत्वमात्मनो दर्शयित्वा विदुषो ब्रह्मत्वं विवक्षितमित्यङ्गीकृत्य पूर्वार्धस्यार्थमाह। गन्धर्वा इति। तमेव मन्य इति संबन्धः॥६३९॥

पञ्च प्राणादयो वा स्युरन्नान्तास्तच्छ्रुतत्वतः॥
अन्नाभावे विवक्ष्यन्तेकाण्वानां ज्योतिषा सह॥
तमेव कारणात्मानं विद्वान्मन्येऽमृतोऽमृतम्॥६४०॥

प्राणादयो वाक्यशेषादितिसूत्रविरोधमाशङ्क्य पक्षान्तरमाह। पञ्चेति। प्राणस्य प्राणमित्यादिवाक्यशेषे माध्यंदिनैरन्नमपि पठ्यते काण्वैस्तु नैवं तत्कथं तत्पक्षे पञ्चसंख्यादिपूरणमित्याशङ्क्य ज्योतिषैकेषामित्यादिन्यायेनाऽऽह। अन्नेति। काण्वश्रुतावन्नपाठाभावे ज्योतिषां ज्योतिरिति षष्ठ्यन्तज्योतिषा सह प्राणादयः पञ्च पञ्चजना विवक्षिता इति यावत्। तमेवेत्यादिभागमादत्ते। तमिति॥६४०॥

कार्यकारणयोस्तत्त्वं यस्मादात्मैव निर्द्वयः॥
मन्य आत्मानमेवातः कार्यकारणवज्जगत्॥६४१॥

कारणात्मानमित्युक्तेरात्मनि कार्यादिविभागः स्यान्न चोभयान्यत्वेन श्रुतेस्तत्रासौयुक्त इत्याशङ्क्य व्याचष्टे। कार्येति॥६४१॥

प्रध्वस्तभेदहेतुत्वात्कारणादेरसंभवात्॥
अमृतोऽमृतमित्याह स्वयं विद्वानिति श्रुतिः॥६४२॥

उभयात्मकं जगदात्ममात्रं बुध्यते चेत्तस्य सविशेषतेत्याशङ्क्य विद्वानित्यादेरर्थमाह। प्रध्वस्तेति। विद्वानित्याद्या श्रुतिरमृतः स्वयं विद्वानमृतं ब्रह्मेत्याहेति योजना॥६४२॥

यतः प्राणादिभावोऽयं प्राणादीनां तमेव ये॥
निचिक्युस्ते विदुः साक्षादग्र्यं ब्रह्म सनातनम्॥६४३॥

प्राणस्येत्यादेस्तात्पर्यमा1245ह। यत इति। पूर्वमन्त्रे विद्वान्ब्रह्मेत्युक्तं सा विद्या कथं स्यादित्यपेक्षायां यथा त्वंपदार्थविदां वाक्यार्थधीरूपा सोदेतीत्येतमर्थं प्राणस्येत्यादिर्मन्त्रो दर्शयतीत्यर्थः॥६४३॥

निरपेक्षात्मनैवेह सर्वस्याऽऽत्मवतो यतः॥
प्राणादेरात्मवत्ता स्यात्प्राणस्य प्राणमित्यतः॥६४४॥

प्राणादीनां प्राणादित्वं किमित्यात्मकृतं स्वाभाविकमेव चैतन्यवत्किं न स्यात्तत्राऽऽह। निरपेक्षेति। आत्मानात्मनोर्मध्ये प्राणादेरनात्मनः सर्वस्याऽऽत्मवतः स्वार्थेनाऽऽत्मनैव यस्मादात्मवत्ता तस्मात्प्राणस्य प्राणमित्यादिवाक्यं युक्तमिति योजना॥६४४॥

अनात्मा हि स्वतोऽसिध्यन्स्वतःसिद्धमपेक्षते॥
आत्मनस्तु स्वतः सिद्धेर्नापेक्षाऽनात्मसंश्रयात्॥६४५॥

किंचानात्मा जाड्यान्न स्वतः स्फुरत्यनात्मत्वाच्च न स्वतोऽस्त्यतः सन्तं स्फुरन्तं चाऽऽत्मानमपेक्ष्यासौ सिध्यतीति प्राणादीनां प्राणादित्वं तत्कृतं युक्तमित्याह। अनात्मेति। उक्तहेतुद्वयसिद्ध्यर्थो हिशब्दः॥६४५॥

अन्यतः संगतिः सेयमविचारितसिद्धिका॥
अविद्योत्सङ्गसंस्थैव तत्त्वज्ञानाद्विनश्यति॥६४६॥

आत्मनोऽपि तुल्यं सापेक्षत्वं स हि विषयसंविदाश्रयत्वेन सिध्यति तत्कथमात्मना प्राणादेरात्मवत्त्वमत आह। अन्यत इति। आत्मानात्मसंबन्धस्य कल्पितत्वफलमाह। तत्त्वेति॥६४६॥

अकार्याकारणात्मैव कार्यकारणवस्तुनः॥
तत्त्वमुक्तं पृथिव्यादेर्नभोन्तस्याक्षरं परम्॥६४७॥

ततश्चेत्तत्संगतिर्नश्यति तौ तर्हि विश्लिष्टौ स्वतन्त्रौ स्यातामित्याशङ्क्य पाञ्चमिकं स्मारयति। अकार्येति॥६४७॥

तस्यास्य दर्शनोपायः कः स्यादित्यभिचोदिते॥
मनसैवेत्यतः प्राह श्रुतिर्ब्रह्मावबोधने॥६४८॥

पदार्थज्ञानस्य वाक्यार्थज्ञानोपायत्वमुक्त्वोपायान्तरजिज्ञासापूर्वकं मन्त्रान्तरमवतारयति। तस्येति। श्रवणादिसंस्कृतं मनो ब्रह्मधीसाधनमिति प्रकृता श्रुतिराहेत्यर्थः। चोद्यानन्तरं प्रतिवचनमुचितमित्यतःशब्दार्थः॥६४८॥

अवदध्रेयतश्चेयं मनसैवेति च श्रुतिः॥
मनोतिरेकतोऽपेक्षा नैवातः साधनान्तरे॥६४९॥

एवकारं व्याकरोति। अवदध्र इति। मनसैवेदमाप्तव्यमितिश्रुत्यन्तरसमुच्चयार्थश्चकारः साधनान्तरानुपलम्भं समुच्चेतुं द्वितीयः॥६४९॥

आत्मानात्मपदार्थेषु विज्ञानोत्पत्तिसाधनम्॥
मनः साधारणं दृष्टं सर्वज्ञानैकहेतुतः॥६५०॥

किंचाऽऽत्मज्ञाने मनसः साधनत्वं नास्मत्साध्यं तस्य सर्वज्ञानसाधारणकर1246णत्वस्य सर्वेष्टत्वादित्याह। आत्मेति। मनसः साधारणकर1247णत्वस्येष्टत्वे हेतुमाह। सर्वेति। सर्वत्र ज्ञानहेतूनां मध्ये मनसोऽन्यतमत्वेन हेतुत्वादिति यावत्॥६५०॥

प्रत्यक्चिदाकृतिस्तत्र सर्वदा धर्मधर्मिणोः॥
हेत्वन्तरानपेक्षत्वादात्मत्वात्संनिधेः स1248दा॥६५१॥

मनश्चेदनात्मज्ञानवदात्मज्ञानेऽपि साधनं तर्हि तद्गम्यत्वादात्मनोऽपि जाड्यापत्तिरित्याशङ्क्याऽऽह। प्रत्यगिति। धर्मिणो बुद्ध्यादेस्तद्धर्मस्य च ज्ञानादेः सदा चिदाभासव्याप्तिरस्ति तस्य स्वरूपलाभातिरेकेण चिद्व्याप्तौ हेत्वन्तरानपेक्षत्वात्तथाच तस्मिन्बुद्ध्यादौ साधकत्वान्नाऽऽत्मनो जाड्यमित्यर्थः। उक्तं हेतुं साधयति। आत्मत्वादिति। बुद्ध्यादेः स्वरूपत्वेन सदा चिदात्म1249नस्तत्र संनिधानादित्यर्थः॥६५१॥

आत्माकृतिरतो नित्या तद्धेतोः संभवात्सदा॥
अज्ञानादेश्चचिद्रूपं तद्याथात्म्यान्न वार्यते॥६५२॥

न केवलं बुद्धितद्धर्मयोरेव सदातनश्चिदाभासः किंतु सर्वस्येत्याह। आत्मेति। अतः संभवादिति संबन्धः। सर्वस्याऽऽत्माकारो नित्यस्तत्र हेतोरात्मसंनिधेः सर्वत्र नित्यभावादस्य सर्वस्य प्रत्यक्त्वादित्यर्थः। कथं सर्वस्या1250ऽऽत्माकृतिर्नित्या संशयादेस्तदभावादित्याशङ्क्याऽऽह। अज्ञानादेश्चेति। तद्याथात्म्यात्तस्यैव चिद्धातोरज्ञानादिस्वरूपत्वा-

दतिरिक्तत्वाभा1251वादिति यावत्। आत्मप्रसादादेव सर्वस्य सत्ता स्फूर्तिश्चेत्यात्मनो न जाड्यं तद्दर्शने मनसः साधनत्वोक्तिस्तु सदा तदाकारस्य तस्य श्रवणादिसंस्कारापेक्षया कादाचित्कतद्रूपपरिणामधारित्वादिति वार्तिकयोस्तात्पर्यार्थः॥६५२॥

धर्माधर्माद्यपेक्षत्वादन्यत्वाच्चान्यवस्तुनः॥
शब्दाद्याकारता तस्मात्कादाचित्की धियो भवेत्॥६५३॥

सर्वधीसाधारणस्य मनसः किमित्यात्माकृतिर्नित्येति विशेष्यते तस्यानात्माकृतिरपि तथेत्याशङ्क्याऽऽह। धर्मेति। मनसः शब्दाद्याकारता न नित्याऽदृष्टाद्यपेक्षत्वात्तदाकारतायाः शब्दादेरप्रत्यक्तया मनसि सदासांनिध्याभावाच्च तस्मादनात्माकृतिर्न नित्येत्यर्थः॥६५३॥

यद्यपीमौजगत्यस्मिन्नात्मज्ञानपुरःसरौ॥
शब्दाद्यनात्मविज्ञानभावाभावौ स्वभावतः॥६५४॥

तथाऽप्यनुभवादेव प्रत्यक्तत्त्वानभिज्ञता॥
अनात्मबोधवत्सिद्धाऽविद्याऽतः प्रत्यगात्मनि॥६५५॥

मनसः शब्दाद्याकृतेरनित्यत्वेऽपि सर्वस्यऽऽत्माकारो नित्यश्चेदात्मस्फूर्तिपूर्वकत्वात्तच्छब्दादिज्ञान-भावाभावयोर्नाऽऽत्माज्ञानं कदाचिदपि संभवेदात्मस्फूर्तिव्याप्तमनोवृत्त्या तन्निवृत्तेरित्याशङ्क्याऽऽह। यद्यपीति। अनात्माकारधीवृत्तिभावाभावयोरात्मचैतन्यव्याप्तत्वेऽपि तत्त्वमादिवाक्योत्थबुद्धिवृत्तिरेवा-द्वयप्रत्यङ्मात्राकारा तदविद्यामपनुदति वृत्त्यन्तरं चिदाकारमप्याकारान्तरोद्ग्राहित्वान्न तामपनेतुमर्हति तस्मात्प्रतीच्यज्ञानमनुभवसिद्धं दुरपह्नवमित्यर्थः। अनुभवप्राप्तमर्थं निगमयति। अनात्मेति। अतःशब्दोऽनुभवार्थः॥६५४॥६५५॥

उत्पन्नस्यापि चोत्पत्तिः कूपाकाशादिवत्ततः॥
प्रत्यग्याथात्म्यबोधस्य व्युत्पत्तेर्गुरुशास्त्रतः॥६५६॥

भवतु प्रतीच्यज्ञानं तथाऽपि तन्निवर्तते न वा न चेदनिर्मोक्षो निवर्तते चेन्निवर्तकमस्ति न वा न चेत्सदा निवृत्तिरस्ति चेत्किं कर्म ज्ञानं वा? नाऽऽद्योऽनभ्युपगमाद्द्वितीयेऽपि स्वरूपज्ञानं ज्ञानान्तरं वा नाऽऽद्यः सदा निवृत्त्यनिवृत्त्योरन्यतरापत्तेः श्रवणादिवैयर्थ्यप्रसङ्गाज्ज्ञानान्तरमपि जडमजडं वाऽऽद्ये नाज्ञानं निवर्तयेदविरोधाद्द्वितीये तदात्मनोऽर्थान्तरं चेदपराद्धान्त आत्मैव चेत्तस्यापि कादाचित्कत्वप्रसक्तिः स्वरूपज्ञानपक्षोक्तदोषश्चेत्याशङ्क्याऽऽह। उत्पन्नस्येति। यथा नित्यसिद्धस्यैवाऽऽकाशस्य कूपाद्यवच्छिन्नस्योत्पत्तिस्तथा प्रत्यग्याथात्म्यरूपबोधस्य सदालब्धात्मकस्यापि शास्त्राचार्यबलादह-

मस्मि ब्रह्मेतिधीवृत्त्युत्पत्तेरनन्तरं तदुपहितस्यैवोत्पत्तिरिष्टा ततश्च स्वरूपज्ञानस्यैव वाक्योत्थधीवृत्त्युपहितस्याविद्याध्वंसित्वोपगमान्नावद्यमित्यर्थः॥६५६॥

प्रसादादनु शास्त्रादेर्मनसैवेत्यतः श्रुतिः॥
द्रष्टव्यमात्मनस्तत्त्वमित्याहास्मद्धितैषिणी॥६५७॥

मनसेत्यादेरर्थमुपसंहरति। प्रसादादिति। संस्कृतस्य मनसो ज्ञानहेतुत्वसंभवोऽतःशब्दार्थः। अनुशब्दो द्रष्टव्यमित्यनेन संबध्यते॥६५७॥

दृश्यं चेन्मनसैवैतद्द्रष्टृत्वादिप्रभेदतः॥
पुनः प्रसक्तं नानात्वं मैवं यस्मान्निषिध्यते॥६५८॥

नेहेत्यादिव्यावर्त्यां शङ्कामाह। दृश्यं चेदिति। न ब्रह्मात्मनि नानात्वं तस्य निषिध्यमानत्वादित्याह। मैवमिति॥६५८॥

नेह प्रमाणतो मेयं यस्मान्नानाऽस्ति किंचन॥
अज्ञातं यदि वा ज्ञातं वस्तु नानात्वभाङ्न हि॥६५९॥

निषेधमेव दर्शयन्वाक्यं योजयति। नेहेति। तस्मान्न द्वैतप्रसक्तिरिति शेषः। प्रतिषेधं प्रपञ्चयति। अज्ञातमिति॥६५९॥

नानात्वबुद्धये नालममितोऽर्थो यतस्ततः॥
अज्ञातः संशयज्ञातो मिथ्याज्ञातो न भित्तये॥६६०॥

अज्ञातं वस्तु वस्तुनः सकाशाद्वस्तुतो न नानात्वभागित्येतत्साधयति। नानात्वेति। मानेनागृहीतस्य भेदो न प्रामाणिक इत्यर्थः॥६६०॥

सम्यग्ज्ञातोऽपि नैवार्थो द्वैतबोधकृदिष्यते॥
द्वैतकारणबाधेन सम्यग्ज्ञातत्वसिद्धितः॥६६१॥

ज्ञातं वस्तु वस्तुतो न नानात्वभागित्युक्तं व्यनक्ति। सम्यगिति। प्रत्यगर्थो हि शास्त्राचार्यवशाद्यथावदधिगतो न भेदज्ञानं करोति नानात्वहेत्वज्ञाननिरासेन तस्य सम्यग्ज्ञातत्वादित्यर्थः॥६६१॥

मेयव्याप्तिश्च मानानां नान्यव्यावृत्तिवर्त्मना॥
व्यावर्त्येष्वपि तत्सक्तेर्न चापि लभतेऽवधिम्॥६६२॥

ज्ञातमज्ञातं वा वस्तु न नानात्वभाक्चेत्कथं प्रत्यक्षादीनि नानात्व1252मुल्लिखन्तीत्याशङ्क्य विधिमुखेन निषेधमुखेन वा तानि नानात्वं गोचरयन्तीति विकल्प्य द्वितीयं प्रत्याह। मेयेति। घटः पटो नेत्यन्यनिवृत्तिद्वारा मानानां न मेयव्याप्तिः पटादिषु व्यावर्त्येष्वप्यन्यव्यावृत्तिप्रसक्तेर्न सा क्वचिद्विश्राम्येदतो न निषेधद्वारा मानप्रवृत्तिरित्यर्थः॥६६२॥

मेयेनैव समाप्तत्वात्ततोऽन्या व्यापृतिर्न च॥
नातो वस्त्वन्तरव्याप्तिं व्यावृत्तिंवाऽश्नुते प्रमा॥६६३॥

कल्पान्तरं निरस्यति। मेयेनेति। ततो वस्तुबोधनादिति यावत्। वस्तुमात्रबोधनेनैव मानानामुपक्षीणत्वान्न भेदाभेदगोचरतेत्यर्थः। व्यापारान्तराभावोऽतःशब्दार्थः॥६६३॥

व्यावृत्तेश्चाप्यवस्तुत्वान्न सद्वस्तूपलम्भनैः॥
प्रमाणैरपि सं1253बन्धः प्रत्यक्षप्रमुखैः क्वचित्॥६६४॥

किंचान्यव्यावृत्तिरेव भेदोऽर्थान्तरं वा प्रथमे भेदस्य प्रत्यक्षादिग्राह्यत्वानुपपत्तिरित्याह। व्यावृत्तेश्चेति। व्यावृत्तिवत्तदन्तर्भूतभेदस्यावस्तुत्वमपेरर्थः। क्वचिदिति देशकालविषयोक्तिः॥६६४॥

अभावमात्रबोधित्वान्नाभावादपि भेदधीः॥
भावाभावावभावेन प्रत्यक्षेणेव नेक्षते॥६६५॥

प्रत्यक्षादिपञ्चकस्य व्यावृत्त्यबोधित्वेऽपि षष्ठं मानं तां बोधयिष्यत्यतो भेदस्यापि प्रामाणिकतेत्याशङ्क्याऽऽह। अभावेति। योग्यानुपलब्धेरभावमात्रबोधित्वान्न ततो भावरूपभेदधीर्न हि भेदोऽन्यव्यावृत्तिरेवत1254था सति तदवस्तुत्वेनाद्वैतापातादेतेन कल्पान्तरमपि प्रत्युक्तं व्यावृत्त्यतिरिक्तभेदे मानाभावादिति भावः। अभावस्याभावमानमेयत्वमङ्गीकृत्य भेदस्याप्रामाणिकत्वमुक्तं संप्रत्यङ्गीकारं त्यजति। भावेति। अभावश्चेदभावेन गृह्यते भावोऽपि तेन ग्रहीतव्यस्तयोर्धर्मधर्मित्वान्न हि धर्मिणमगृह्णन्मानं तद्धर्मं गृह्णाति न च शब्दादेराकाशाद्यग्रहेऽपि श्रोत्रादिग्राह्यता दृष्टेति वाच्यं तत्रापि विप्रतिपत्तेस्तुल्यत्वाद्दृष्टिमात्रानुसारे च यौक्तिकत्वव्याघातान्न चाभावेन मानेन भावाभावौ कश्चिदपि निश्चिनोति यथा प्रत्यक्षेण भावे गृह्यमाणेऽपि नाभावो गृह्यते तथाऽभावेनापि नोभयग्रहः स्वयमतो ग्राहकत्वायोगात्तस्मादभावस्य न तद्ग्राह्यताऽपीत्यर्थः॥६६५॥

योऽपि प्रत्यक्षतोऽभावं वादी कश्चित्समीक्षते॥
तावन्मात्रावसायित्वाद्द्वैतं नासावपीक्षते॥६६६॥

प्रत्यक्षाभाववादिपक्षे दृष्टान्तासिद्धिमाशङ्क्याऽऽह। योऽपीति। तन्मतेऽपि प्रत्यक्षस्यान्यव्यावृत्तिरूपाभावमात्रविषयत्वान्न भेदविषयतेत्याह। तावन्मात्रेति॥६६६॥

प्रत्यक्षस्यानुवृतिं च व्यावृतिं तद्भिदां च सः॥
प्रत्यक्षेणैव सं पश्येत्कथमित्यभिधीयताम्॥६६७॥

अभावस्य धर्मिप्रतियोगिघटितत्वात्तद्ग्राहि प्रत्यक्षं कथं न भेदं गृह्णातीत्याशङ्क्याऽऽह। प्रत्यक्षस्येति। भेदवादी सर्वनाम्ना परामृश्यते। समुपसर्गस्तु क्रियापदेन योजनीयः।

तस्य विषयेष्वनुवृत्तिस्तेभ्यो व्यावृत्तिरवान्तरभेदश्चेत्येतन्नाध्यक्षगोचरोंऽशतःस्वग्रहापत्तेर्न च तद्ग्राहि मानान्तरमनवस्थानादतो नाध्यक्षं विषयभेदमपि साधयेत्तस्मादगृहीतभेदत्वात्तद्वदित्यर्थः॥६६७॥

यतो मानं न हीहास्ति नानात्वप्रतिपत्तये॥
स्वकार्ष्ण्यवदतस्तत्स्यादविचारितसिद्धिकम्॥६६८॥

न किंचिदपि प्रत्यक्षतो नानात्वभागीत्युक्त्वा मानान्तरं नानात्वावेदकमित्याशङ्क्याऽऽह। यत इति। इहेति वस्तूक्तिः॥६६८॥

अज्ञातवस्तुहेत्वेव यस्मान्नाना ततोऽवदत्॥
मृत्योः स मृत्युमाप्नोति योऽत्र नानेव पश्यति॥६६९॥

नेहेत्यादि व्याख्याय मृत्योरित्याद्युक्तमुपजीव्याऽऽदत्ते। अज्ञातेति। सप्तमी पूर्ववत्॥६६९॥

मृत्युर्हिरण्यगर्भः स्यात्स्वकार्यप्रलयत्वतः॥
तस्यापि मृत्युर्विज्ञेयो यत आविरभूदसौ॥६७०॥

नन्वेको मृत्युः स कथं द्विधोच्यते तत्राऽऽह। मृत्युरिति। यत इति साभासप्रत्यगज्ञानोक्तिः॥६७०॥

मिथ्यादर्शनदोषित्वान्मिथ्यादर्शनकारणम्॥
मृत्योर्मृत्युमसावेति यो नानेवेह वीक्षते॥६७१॥

मृत्युशब्दयोरर्थमुक्त्वा वाक्यं योजयति। मिथ्येति। इहेति ब्रह्मात्मोक्तिः॥६७१॥

पूर्वं ज्ञानसमुत्पत्तेर्नानैवेति ह्यभून्मतिः॥
ज्ञानोत्पत्तौ तु तद्बाधान्नानेवेति प्रयुज्यते॥६७२॥

इवशब्दार्थमाह। पूर्वमिति। अज्ञानदशायां नानात्वबुद्धिप्रसिद्ध्यर्थो हिशब्दः। ज्ञानोत्पत्तेरूर्ध्वं नानेव वर्तमानं पूर्वं नानैवेति यो मन्यते स खल्वाभासभूतं नाना परमार्थबुद्ध्या पश्यन्नज्ञः संसरतीत्यर्थः॥६७२॥

वस्तुवृत्तं यतोऽद्वैतं नानात्वं मोहहेतुजम्1255
एकधैवात आत्माऽयं द्रष्टव्यः श्रुतिवर्त्मगैः॥६७३॥

एकधेत्यादि सोपपत्तिकमवतारयति। वस्त्विति॥६७३॥!

एकेनैव प्रकारेण भास्वच्चिन्मात्ररूपिणा॥
शास्त्रैकमानतो ब्रह्म द्रष्टव्यं प्रत्यगात्मना॥६७४॥

तस्यार्थमाह। एकेनेति। इत्थंभावे तृतीया॥६७४॥

समस्तव्यस्ततादृष्टिरेकधैवेतिवाक्यतः॥
मिथ्येति गम्यते1256 श्रौतान्मृत्योरिति च निन्दनात्॥६७५॥

वाक्यस्य श्रौतार्थमुक्त्वाऽऽर्थिकार्थमाह। समस्तेति। तत्रैव भेददृष्ट्यपवादस्यानुग्राहकत्वमाह। श्रौतादिति॥६७५॥

एतदप्रमयं1257 ब्रह्म मृत्युहेतोर्निषेधनात्॥
मृ1258त्युर्वै तम इत्युक्तं तच्च बोधान्निराकृतम्॥६७६॥

एतदित्यादेस्तात्पर्यमाह। एतदिति। जन्ममृत्युप्रमुखसर्वबन्धहेत्वज्ञानस्य वाक्योत्थज्ञानेन निषेधात्तस्य वस्तुबोधित्वाभावाद्वस्तुनो युक्तममेयत्वमित्यर्थः। मृत्युरेव हिरण्यगर्भाख्यो हेतुस्तस्य निषेधेऽपि कथं ब्रह्मणोऽप्रमेयत्वमिति प्रतिभासं व्यावर्तयति। मृत्युरिति॥६७६॥

एकधैव यतस्तत्त्वं सर्वस्य जगतस्ततः॥
क्रियाकारकसंभेदधीर्मृषेत्यवधार्यताम्॥६७७॥

सर्वप्रत्ययवेयं ब्रह्मेति स्थितेः कथमप्रमेयमित्याशङ्क्याऽऽह। एकधैवेति। भेदबुद्धेर्मिथ्यात्वात्तद्ग्राह्यत्वमपि तादृगेव न च केवलस्य सर्वप्रत्ययवेद्यत्वमौपनिषदत्वादित्यर्थः॥६७७॥

यत्र हि द्वैतमित्येवं यत्र त्वस्येति च श्रुतिः॥
नानात्वदृष्टेर्मिथ्यात्वं स्वयमेवावदत्पुरा॥६७८॥

भेदधीमिध्यात्वे वाक्यान्तरमन्वयव्यतिरेकानुवादि दर्शयति। यत्र हीति॥६७८॥

एकधा चेत्परं ब्रह्म द्रष्टव्यं कथमुच्यते॥
द्रष्ट्रादिभेदसद्भावे द्रष्टव्यत्वप्रसिद्धितः॥६७९॥

एकधा द्रष्टव्यमिति पदयोर्मिथो विरोधं शङ्कते। एकधा चेदिति। का पुनरनुपपत्तिस्तत्राऽऽह। द्रष्ट्रादीति॥६७९॥

अप्रमेयं कथं वस्तु प्रमाणेन प्रमीयते॥
मीयते चेत्प्रमाणेन नाप्रमेयं तदिष्यते॥६८०॥

द्रष्टव्यमप्रमेयमिति च मिथो विरुद्धमिति व्याघातान्तरमाह। अप्रमेयमिति। विरोधं स्फुटयति। मीयते चेदिति॥६८०॥

नैष दोषः पुरोक्तत्वात्परिहारस्य चाञ्जसा॥
भूयोऽपि परिहारोक्तौ भवेत्पिष्टस्य पेषणम्॥६८१॥

समाधत्ते। नैष दोष इति। समाहितमपि विरोधद्वयं पुनः समाधेयमिति चेत्तत्राऽऽह। भूयोऽपीति॥६८१॥

प्रमात्रादेरुपादानमैकात्म्यप्रतिबन्धकम्॥
यतोऽतस्तत्प्रबोधेऽस्मिन्न प्रमात्राद्यपेक्षते॥६८२॥

एकधा चेत्कथं द्रष्टव्यमितिविरोधसमाधिमनेकधोक्तं स्मारयति। प्रमात्रादेरिति। सहेतुमात्रादिस्वी-कारस्यैक्यप्रतिबन्धित्वात्तन्निरासेन तज्ज्ञाने वास्तवमात्राद्यपेक्षाभावादेकधात्वं द्रष्टव्यत्वं चाविरुद्धमित्यर्थः॥६८२॥

मेयस्य मानसंबन्धे प्रमेय इति गीरियम्॥
प्रमाफलं त्वप्रमेयं यतो नातो विरुद्धता॥६८३॥

अज्ञातवस्तुना योगो मानस्येह यतस्ततः॥
ज्ञातस्य चाप्रमेयत्वान्नापेक्षा मानसंगतौ॥६८४॥

यत्तु द्रष्टव्यमप्रमेयमिति विरोधवचनं तस्यापि पूर्वोक्तं परिहारं स्मारयन्सामान्यन्यायमाह। मेयस्येति। एवमपि प्रकृते किमायातं तदाह। यत इति। प्रमाणभूमिः सप्तम्यर्थः। चकारोऽवधारणार्थः सन्पञ्चम्यनन्तरं संबध्यते॥६८३॥६८४॥

फलात्मनैव तन्मानं न तु मात्रादिरूपतः॥
अभिव्यनक्ति नो ज्ञातं नातोऽस्य स्यात्प्रमेयता॥६८५॥

कथममेयत्वे द्रष्टव्यत्वाधीना मेयतेत्याशङ्क्याऽऽह। फलात्मनेति। तद्धि स्वप्रकाशे प्रतीचि प्रवृत्तं प्रमाणमविषयसंविद्रूपतयैव तं नोऽस्माकं साक्षाद्बोधयति न तु मात्राद्यपेक्षया विषयी करोत्यतो वृत्तिव्याप्यत्वं कल्पितं फलाव्या1259प्यत्वं तु वास्तवमित्यविरोध इत्यर्थः॥६८५॥

तरावेव च्छिदा यद्वद्द्वैधीभावे तु नेष्यते॥
प्रमेयत्वं तथाऽज्ञाते न तु ज्ञाते फलात्मता॥६८६॥

फलाव्या1260प्यत्वेऽपि वृत्तिव्याप्यत्वं वास्तवं किं न स्यादित्याशङ्क्याऽऽह। तराविति॥६८६॥

आमगोऽपीममात्मानं तत्तमोध्वस्तिवर्त्मना॥
अवबोधयतीत्येवं भण्यते दृष्टितत्त्वतः॥६८७॥

आत्मनि फलव्याप्यत्वमपीतरवत्कल्प्यमौपनिषदत्वात्तस्येत्याशङ्क्याऽऽह। आगमोऽपीति। न हि वृत्तिव्याप्यत्वादृते प्रतीचः संविद्व्याप्यत्वं कल्प्यं तदात्मत्वादित्यर्थः1261॥६८७॥

स्वतःसिद्धाद्यतः सिद्धिरज्ञातादपि चाऽऽत्मनः॥
सिद्ध्यसिद्ध्योः प्रमात्रादेस्तत्सिद्धौ किमपेक्षते॥६८८॥

इतश्चाऽऽत्मनो न तद्व्याप्यतेत्याह। स्वतःसिद्धादिति। मात्रादिभावाभावयोर्य-

त्प्रसादात्सिद्धिस्तस्य स्वप्रकाशस्याज्ञातस्य मानजन्यवृत्तिव्याप्यतया सिद्धत्वव्यवहारे नान्यसंविदपेक्षेत्यर्थः॥६८८॥

ज्ञानव्याप्तिर्हि शब्दादौ स्यादेकप्रकृतित्वतः॥
अकार्यकारणे व्याप्तिः कथं स्यात्प्रत्यगात्मनि॥६८९॥

किंच वृत्तिव्याप्यत्वमपि तस्य दुर्वचनमित्याह। ज्ञानेति। तत्रोभयसंप्रतिपत्त्यर्थो हिशब्दः। शब्दादौ ज्ञानव्याप्तिरित्यत्र हेतुमाह। एकेति। शब्दादेर्बुद्धिवृत्तेश्चाविद्योपादानत्वा1262दित्यर्थः। आत्मनि तु न ज्ञानव्याप्तिरित्याह। अकार्येति। एकभूतप्रकृतित्वे सति रूपचक्षुषोर्ग्राह्यग्राहकत्वं दृष्टं न चाऽऽत्मनो ज्ञानेनैकप्रकृतिकत्वमकार्यकारणत्वात्तन्न तत्र वृत्तिरूपस्यापि ज्ञानस्य व्याप्तिरित्यर्थः॥६८९॥

शब्दप्रवृत्तिहेतूनां प्रत्यगात्मन्यसंभवात्॥
नाभिधानाभिधेयत्वसंगत्याऽतः प्रबोध्यते॥६९०॥

आत्मनः शाब्दज्ञानाविषयत्वे हेत्वन्तरमाह। शब्देति। अतोऽसंभवादिति संबन्धः॥६९०॥

प्रत्यगज्ञानहेतूत्थो यत्रानात्मा प्रसिध्यति॥
ज्ञातृज्ञेयप्रभेदः स्यात्तत्र प्रत्यगनात्मनोः॥६९१॥

प्रतीचः संविदव्याप्यत्वे हेत्वन्तरं वक्तुं भूमिकां करोति। प्रत्यगिति। यस्यां खल्वविद्यावस्थायामात्माज्ञानजोऽनात्मा ज्ञायते तत्र प्रतीचोऽनात्मनश्च ज्ञातृज्ञेयभावेन भेदप्रतिभासो भवेद्यत्र हीत्यादिश्रुतेरतस्तत्राऽऽत्मनि न ज्ञानव्याप्तिरित्यर्थः॥६९१॥

यत्र त्वात्मैव मेयः स्यात्तत्र मेयातिरेकतः॥
कः प्रमाता प्रमाणं वा यमेवेति तथा श्रुतिः॥६९२॥

विद्यावस्थामुपन्यस्यति। यत्र त्विति। यस्यां विद्यावस्थायामात्मैवाद्वयो वाक्योत्थबुद्धिवृत्त्या व्याप्यते तत्राऽऽत्मातिरेकतो मात्रादेरभावान्न संविद्व्याप्यता यत्र त्वस्य सर्वमात्मैवेत्यादिश्रुतेरित्यर्थः। मात्राद्यभावे श्रुत्यन्तरं संवादयति। यमेवेति। यमेवैष वृणुते तेन लभ्य इति श्रुतेर्मात्रादिविभागाभावः। एष हि परो यमेव साधकं मामयं प्रत्यक्त्वेन प्रतिपद्यतामित्यनुगृह्णाति स तेन तथा शक्यो ज्ञातुमिति श्रुत्यर्थः। तत्कुतो मात्रादिभेदसिद्धिरित्यर्थः॥६९२॥

मानापेक्ष्येव यो भावः स एवामानतो न सन्॥
मानानपेक्षसिद्धिस्तु कस्मान्मानमपेक्षते॥६९३॥

मानातिरेकि मेयमाक्षिप्यते चेन्मेयस्याऽऽत्मनोऽसत्त्वं मानसिद्धस्यैव सत्त्वादित्याश-

ङ्क्याऽऽह। मानेति। आत्मनोऽपि वस्तुत्वादस्ति मानापेक्षेति चेन्नेत्याह। मानानपेक्षेति। स्वप्रकाशस्य न मानापेक्षेत्यर्थः॥६९३॥

मातृमानप्रमेयाणां प्रत्यक्त्वादात्मवस्तुनः॥
नातः प्रमेयता तस्य स्वतश्चावगमात्मनः॥६९४॥

इतश्चाऽऽत्मनो न ज्ञानव्याप्यतेत्याह। मात्रिति। अतः प्रत्यक्त्वादिति संबन्धः। तत्रैव हेत्वन्तरमाह। स्वतश्चेति। स्वरसतः स्फुरत्स्वरूपत्वादात्मनो न मानव्याप्यता वेदान्तास्तु तदाकारां वृत्तिमुत्पादयन्तस्तदज्ञाननिवर्तकतया तत्र प्रमाणमिति भावः॥६९४॥1263

प्रमातत्फलयोर्भित्तेर्नेह चोद्यस्य संभवः॥
क्रिययोर्हि प्रभेदे तत्किं पूर्वमिति चोद्यते॥६९५॥

ज्ञानाज्ञानध्वस्त्योरनिश्चितपौर्वापर्ये कथं तद्ध्वस्तिर्मानफलमित्याशङ्क्याऽऽह। प्रमेति। न हि फलान्तरं मानस्याऽऽत्मनि संभाव्यते तत्प्रमायास्तत्फलस्य चाज्ञानध्वस्तेर्हेतुफलभावेन पौर्वापर्यस्य व्यवस्थितत्वादनयोर्मध्ये किं पूर्वमिति न चोद्यमित्यर्थः। तत्तर्हि कुत्र सावकाशमिति तत्राऽऽह। क्रिययोरिति। तत्क्रमस्यानिर्धारितत्वं हिशब्दार्थः। पौर्वापर्यं तदित्युच्यते॥६९५॥

अपीतकरणग्रामः पुमान्यद्वत्सुषुप्तगः॥
शब्दान्निद्रामपास्याथ यथावस्त्ववबोध्यते॥६९६॥

नन्वात्मनि शाब्दी प्रमैव नोत्पद्यते जात्यादिहीने तस्मिन्नगृहीतसंगतेः शब्दस्याबोधकत्वात्तद्दूरापेतं प्रमातत्फलयोः पौर्वापर्यं तत्राज्ञातसंगतेरपि शब्दस्य बोधकत्वे दृष्टान्तमाह। अपीतेति। तदनुभवस्याऽऽनुभविकत्वद्योतकोऽथशब्दः॥६९६॥

अगृहीत्वैव संबन्धमभिधानाभिधेययोः॥
हित्वा निद्रां प्रबुध्यन्ते यथेहापि तथाऽऽत्मनि॥६९७॥

दृष्टान्ते विवक्षितमंशमनूद्य दार्ष्टान्तिकमाह। अगृहीत्वेति॥६९७॥

शब्दशक्तेरचिन्त्यत्वादात्मत्वाद्बोधरूपिणः॥
तत्साक्ष्यत्वा1264च्च निद्राया विपस्तं मोहहानतः॥६९८॥

दार्ष्टान्तिकं स्फुटयति। शब्देति। तस्य हि महिमा न प्राकृतोऽवसेयस्तस्यातीतानागतवर्तमानादिषु तुल्यत्वात्। उक्तं हि चोदना हि भूतं भवन्तमित्यादि। तदज्ञातशक्तिको न बोधयत्ययमित्यशक्यं निश्चेतुमित्यर्थः। किंच बोधस्य1265 स्फुरद्रूपत्वाद्बोधकापेक्षैव नास्तीत्याह। आत्मत्वादिति। अज्ञातमात्मवस्तु वेदान्तवेद्यमित्यङ्गीकारस्तर्हि कथं तत्राऽऽह। तत्साक्ष्यत्वा1266दिति॥६९८॥

धर्माधर्मौ रजो ज्ञेयं रजोवत्तन्मलत्वतः॥
तदकर्तृत्वतो ब्रह्म विरजोऽकारणत्वतः॥६९९॥

अप्रमेयवाक्यार्थमुक्त्वोत्तरवाक्यं व्याख्यातुं विरजशब्दार्थमाह। धर्मेति। तयो रजस्त्वे हेतुः। रजोवदिति। ब्रह्मणो विरजस्त्वं सहेतुकमाह। तदकर्तृत्वत इति। ब्रह्मणो धर्माधर्माकर्तृत्वे हेतुमाह। अकारणत्वत इति॥६९९॥

असम्यग्ज्ञानयाथात्म्यो ज1267निमत्प्रकृतित्वतः॥
आत्मैवाऽऽकाशशब्देन श्रुत्येह प्रतिपाद्यते॥७००॥

आकाशशब्दं व्याकरोति। असम्यगिति। तृतीये समानाधिकरणे। प्रकृतो मन्त्रः सप्तम्यर्थः॥७००॥

जनिमत्कारणादात्मा योऽस्थूलादिविशेषणः॥
आकाशात्स परो ज्ञेयस्तस्यापूर्वादिरूपतः॥७०१॥

परशब्दार्थं कथयति। जनिमदिति। जगत्कारणादाकाशादव्याकृतादस्थूलादिविशेषणस्याऽऽत्मनो-ऽन्यत्वे हेतुमाह। तस्येति॥७०१॥

यस्मादेवमतोऽजोऽसावकार्याकारणत्वतः॥
अजत्वादेव निःशेषविकाराणामपाक्रिया॥७०२॥

अज इत्यस्यार्थमाह। यस्मादिति। उपजीव्यतयोक्तमेव हेतुं स्पष्टयति। अकार्येति। अजविशेषणस्याऽऽर्थिकमर्थमाह। अजत्वादिति॥७०२॥

अव्यावृत्ताननुगतेर्महानात्मेति भण्यते॥
कौटस्थ्याच्च ध्रुवो ज्ञेयो विकारोच्छिस्यत्त्यसंभवात्॥७०३॥

आत्मा महानित्यनयोरर्थमाह। अव्यावृत्तेति। ध्रुव इत्यस्यार्थमाह। कौटस्थ्याच्चेति। विकारस्योच्छित्तेश्चासंभवात्कौटस्थ्यमतश्च ध्रुव इत्यर्थः॥७०३॥

प्रत्यक्तया श्रुतेर्वाक्यात्तमेवोक्तविशेषणम्॥
अन्वयव्यतिरेकाभ्यां विज्ञायाऽऽत्मानमादितः॥७०४॥

तमेवेत्यादेरर्थमाह। प्रत्यक्तयेति। उक्तविशेषणं विरजस्त्वादिविशेषणवन्तमिति यावत्। चतुर्विधान्वयव्यतिरेकानुरोधेन तन्मूलश्रुत्या च पदार्थौपरिशोध्य प्रज्ञां कुर्यादित्यर्थः॥७०४॥

बुभुत्सोच्छेदिनीं1268 प्रज्ञां सर्वाज्ञाननिरासतः॥
सर्वज्ञेयसमाप्तेश्च कुर्याद्वाक्यार्थबोधतः॥७०५॥

प्रज्ञां कुर्वीतेत्यस्यार्थमाह। बुभुत्सेति। वाक्यार्थज्ञानाज्ज्ञेयस्य सर्वस्य ज्ञातत्वाद-

ज्ञानस्य च निरस्तत्वादशेषाकाङ्क्षाशान्तिरतो वाक्यार्थधीरूपां सर्वाकाङ्क्षाध्वंसित्वेन परमपुरुषार्थहेतुं प्रज्ञां तत्त्वमादिवाक्यवशादेवाऽऽपादयेदित्यर्थः॥७०५॥

इह व्याचक्षते केचिदुक्ताद्व्याख्यानतोऽन्यथा॥
कृतायाः करणं कीदृक्प्रज्ञाया इति चोदिते॥७०६॥

विज्ञाय प्रज्ञां कुर्वीतेत्यत्र पदार्थद्वयज्ञानं संपाद्य वाक्यार्थज्ञानं कुर्यादिति वाक्यार्थ उक्तः। इदानीं भर्तृप्रपञ्चमतमाह। इहेति। अन्यथाव्याख्यानमेवाऽऽख्यातुं तदीयं चोद्यमनुद्रवति। कृताया इति। विज्ञायेति ल्यबन्तेन निष्पन्ना प्रज्ञोच्यते तस्याश्च प्रज्ञां कुर्वीतेति पुनः करणं कथ्यमानमयुक्तं पिष्टपिष्टेरित्यर्थः॥७०६॥

उच्यते वचसा बुद्धौ वस्तुमात्रं समर्प्यते॥
विज्ञातस्य सतत्त्वस्य1269 तादात्म्यप्रतिपादनम्॥७०७॥

भावनाज्ञानसंतानैः प्रज्ञाकरणमुच्यते॥
अस्मिन्काले तु सा प्रज्ञा निष्ठां नीता कृता भवेत्॥७०८॥

समाधिमाह। उच्यत इति। अनुभवानारूढं वस्तु बुद्धौ शब्देनार्प्यते तच्च शाब्दं परोक्षज्ञानं विज्ञायेत्युच्यते परोक्षतया ज्ञातस्य ब्रह्मणः प्रतीचा तादात्म्यसाक्षात्करणं शब्दज्ञानाभ्यासप्रचयोत्थं प्रज्ञा तस्याश्च मुमुक्षुयत्नसाध्यताऽत्र विवक्षितेत्यर्थः। अहं ब्रह्मेति शाब्दे ज्ञाने सति कृतं साक्षात्कारेणेत्याशङ्क्याऽऽह। अस्मिन्निति। सा हि शब्देन कृता प्रज्ञा साक्षात्कारकाले निष्ठां नीता सफला स्यादतः शाब्दज्ञानवताऽपि साक्षात्कारोऽपेक्ष्यत इत्यर्थः॥७०७॥७०८॥

इत्येतदुररीकृत्य विज्ञायेत्युक्तमादरात्॥
प्रमाणवृत्तमुक्त्वैतन्मनसैवेतिवाक्यतः॥७०९॥

उक्तेऽर्थे श्रुत्यभिप्रायं दर्शयितुं तदुत्थानप्रकारमाह। इत्येतदिति। अनुभवानारूढं शाब्दं ज्ञानमादावुत्पद्यते तदभ्यस्यमानं साक्षात्कारमापाद्य फलवदित्येतदङ्गीकृत्य मनसैवानुद्रष्टव्यमितिवाक्येन शब्दप्रमाणस्य बोधनप्रकारमभिधाय विज्ञायेत्यादिवाक्यमवतारितं श्रुत्यैवेत्यर्थः॥७०९॥

मात्राद्यप्रविभक्तं सदद्वैतं ब्रह्म शाश्वतम्॥
द्रष्टव्यं तत्कथं साक्षान्मातृमानाद्यसंभवात्॥७१०॥

कथं मनसैवेत्यादिना मानवृत्तमुक्तमित्याशङ्क्य तद्दर्शयितुं परकीयं चोद्यमुद्भावयति। मात्रादीति। अद्वयमनाद्यनन्तं मात्रादिहीनं ब्रह्म साक्षात्कर्तुमशक्यं हेत्वभावादित्यर्थः॥७१०॥

द्रष्टव्यं मनसैवैतन्नान्या गतिरिष्यते॥
कथं तदिति चेदत्र मानव्यापार उच्यते॥७११॥

एतदुत्तरत्वेन मनसेत्यादि योजयति। द्रष्टव्यमिति। इहेति ब्रह्मदर्शनोक्तिः। मनसैव ब्रह्म द्रष्टव्यमित्ययुक्तं तद्विषयत्वनिषेधेन तस्यौपनिषदत्वोपगमादिति शङ्कते। कथमिति। औपनिषदमपि तत्तेन द्रष्टव्यमित्यस्मिन्नर्थे साध्ये सति शब्दस्य बोधनप्रकारस्तावत्प्रदर्श्यत इत्याह। अत्रेति॥७११॥

तत्त्वमस्यादिवाक्योक्तौ शब्दमात्रावलोकनम्॥
श्रोत्रेण क्रियते तस्य शब्दस्याऽऽलोचितस्य तु॥७१२॥

स्वरवर्णपदोक्त्याऽऽनुपूर्वी या प्रविभागभाक्॥
प्रविभक्तक्रमवती मनसा तस्य कल्प्यते॥७१३॥

उक्तिप्रकारं प्रकटयति। तत्त्वमिति। अस्यार्थः। आचार्येण तत्त्वमादिवाक्योच्चारणानन्तरं तन्मात्रस्य ग्रहणं मुमुक्षुणा श्रोत्रमात्रेण क्रियते तस्य गृहीतशब्दमात्रस्य स्वरवर्णपदात्मकोक्तीनामानुपूर्वी प्रवाहरूपा स्वराद्येकै1270कविशेषिता प्राथम्यचारम्यरूपेण प्रविभक्तक्रमवती या प्रसिद्धा सा तस्य श्रोत्राभिव्यक्तशब्दस्य मनसा कल्प्यते तन्मात्रेण गृह्यत इति॥७१२॥७१३॥

स्वेनार्थेनाभिसंबन्धः सिद्धशब्दस्य यः सदा॥
दृश्यते मनसैवासौ नातोऽन्येनेह केनचित्॥७१४॥

अस्तु शब्दमात्रस्य श्रोत्रमात्रग्राह्यत्वं विशिष्टस्य तु तस्य मनोगम्यत्वं तथाऽपि शब्दार्थयोः संगतिरनुमानगम्या न मानसी तत्कथं शब्दादात्मविज्ञा1271नं मानसं स्यात्तस्यापि संगतिवदानुमानिकत्वसिद्धेरित्याशङ्कयाऽऽह। स्वेनेति। यः शब्दार्थयोः संबन्धः सदा सिद्ध औत्पत्तिकस्तु शब्दस्यार्थेन संबन्ध इति न्यायाद्युत्पत्तिकाले चानुमानादवगतो व्यवहारो हि मूलं बालानां व्युत्पत्तेरिति स्थितेः स तु व्युत्पन्नाच्छब्दादर्थधीकाले मनसैव स्मर्यते तथाच संबन्धस्य मानसत्वात्तज्ज्ञातशब्दजन्या धीर्मानस्येवेत्यर्थः। इहेति व्युत्पत्तिकाले व्युत्पन्नस्य शब्दाद्व्यवहारकाले चेत्यर्थः1272॥७१४॥

तत्रार्थप्रत्ययो योऽसौ प्रमातुर्मानसो भवेत्॥
अवशिष्टः स बाह्येन मेयेनार्थेन संगतेः॥७१५॥

शब्दार्थसंबन्धस्मरणपूर्वकं शब्दादर्थे जायमानमानसप्रत्ययस्यार्थाकारत्वमाह। तत्रेति। शब्दार्थयोः संबन्धस्यानुस्मरणे सतीति यावत्। अविशिष्टस्तद्रूपस्तदाकार इत्यर्थः। तस्य बाह्यमेयाकारत्वे हेतुमाह। अर्थेनेति॥७१५॥

प्रत्ययश्च यथारूपो मानसोऽस्योपजायते॥
प्राज्ञ आत्माऽपि तादात्म्यात्तन्मयत्वं निगच्छति॥७१६॥

न केवलं प्रत्ययस्यार्थमयत्वं किंत्वात्मनोऽपीत्याह। प्रत्ययश्चेति। तादात्म्यान्मनसो यो बोध्यस्तदभेदात्तदात्मकप्रत्ययेनापि तद्भावादित्यर्थः। तन्मयत्वं बाह्यार्थमयत्वं तत्प्रधानत्वमित्येतत्॥७१६॥

मनोबुद्ध्योरभेदेन व्यवहारश्रुताविह॥
तत्रैवं सति योऽप्यस्य देवताविषयो भवेत्॥७१७॥

यथा श्रुतौ मनस्येव प्रत्ययः सोऽवतिष्ठते॥
तन्मयत्वं तथैवैतिक्रमेणै1273व स1274 मानवः॥७१८॥

शब्दार्थे प्रत्ययो मानस इत्ययुक्तं तस्य बौद्धत्वाभ्युपगमादित्याशङ्क्याऽऽह। मन इति। इह मनसैवेत्यादावित्यर्थः। आत्मनः सामान्यतो ज्ञानद्वारा ज्ञेयमयत्वमुक्त्वा विशिष्टदेवतादिज्ञा1275ने सति तदुपास्त्या तन्मयतेति विशेषमाह। तत्रेति। तस्मिन्नात्मनि धीद्वारा बाह्यार्थमयत्वे सति योऽप्यस्याऽऽत्मनो देवताविषयः प्रत्ययः श्रुतौ निमित्तभूतायां स्यात्स मनस्येवावतिष्ठतेऽतो यथा बाह्यप्रत्ययाभ्यासात्तन्मयत्वं तथा देवताप्रत्ययावृत्तेः स क्रमेण देवतामयत्वं गच्छति देवो भूत्वेत्यादिश्रुतेरित्यर्थः। मनुष्यस्यैव सर्वासूपास्तिष्वधिकार इतिद्योतनार्थं मानव इति विशेषणम्॥७१७॥७१८॥

द्वैतैकत्वं श्रुताच्छब्दात्पश्यतीह यदाह्यसौ1276
हैरण्यगर्भमात्मेति बौद्धं ज्ञानं तदा भवेत्॥७१९॥

स खलूत्पन्नविज्ञानस्तन्मयः संस्तथा व्रजेत्॥
तस्मिन्नेव स विज्ञान आत्मरूपे स्थितो भवेत्॥७२०॥

बौद्धेऽथ स यदा तत्त्वं परं समनुपश्यति॥
तदा विविच्य रूपाणि क्रमशो यो धियः शुभम्॥
वीक्षते केवलं शुद्धं तत्त्वं ब्रह्म सनातनम्॥७२१॥

इन्द्रादिमयत्वमुक्त्वाऽऽत्मनः सूत्रमयत्वमाह। द्वैतेति। प्रामाणिकव्यवहारे श्रुतसूत्रप्रतिपादकशब्दादहं हिरण्यगर्भोऽस्मीति समस्तव्यस्तात्मकं सौत्रं तत्त्वमात्मा यदा पश्यति तदा तस्य बुद्धिवृत्तिरूपं विज्ञानमावृत्तियोग्यं भवति स चैवमुत्पन्नज्ञानस्तदभ्यसन्विज्ञानमयः सन्विज्ञानानुसारेण विज्ञेयसूत्रमयत्वं गच्छति ततश्च तस्मिन्नेवाहंग्रहेण ज्ञाते तद्रूपे बौद्धादिशब्दिते स्वरूपभूते साधकस्तिष्ठतीत्यर्थः। सूत्रावस्थां प्राप्तस्य

तत्त्वमयत्वमाह। अथेति। सूत्रात्मना स्थित्यनन्तरं स पुरुषस्तथा स्थितो यदा तत्त्वमादिवाक्यादहं ब्रह्मेति परं तत्त्वं सम्यक्पश्यति तदा तदनुसंधानाद्धियो देवतादिरूपाणि क्रमेण त्यक्त्वा सर्वसंसारनिर्मुक्तं तद्धेतुना च हीनमद्वयं वास्तवमनाद्यनन्तं ब्रह्म नैरन्तर्येण यो वीक्षते स तदेव तत्क्रतुन्यायाद्भवतीत्यर्थः॥७१९॥७२०॥७२१॥

तन्मनोऽथ परे तत्त्वे लब्धलक्ष्यं स्व आत्मनि॥
रूपाणि विलिखत्साक्षान्निर्वाणं संप्रलीयते॥७२२॥

ननु नाद्वयं ब्रह्म तदवगतिहेतोर्मनसो द्वितीयस्य सत्त्वादित्याशङ्कयाऽऽह। तन्मन इति। स्वकार्येण सह मनो निःशेषं साक्षाल्लीयते ब्रह्मणीत्यर्थः। कल्पितस्याकल्पिते ल1277यो रज्जुभुजंगवदिति वक्तुमथेत्युक्तम्। लब्धलक्ष्यं प्राप्तावकाशमित्यर्थः॥७२२॥

परं तत्त्वं प्रदृश्यैवं मनस्यद्वैततां गते॥
विज्ञानं केवलं शुद्धं स्वात्मन्येवावतिष्ठते॥७२३॥

तत्र स्वरूपेण मनसि लीने सत्यवशिष्टं व्याचष्टे। परमिति। केवलमित्यद्वयत्वं शुद्धमिति कार्यकारणस्पर्शशून्यत्वमुच्यते॥७२३॥

दाह्यं दग्ध्वा यथा वह्निर्दाह्यनाशमनु स्वयम्॥
नश्यतीदं मनस्तद्वद्द्वैतमद्वैतरूपताम्॥
आपाद्य विषयं सम्यक्स्वयमेव प्रलीयते॥७२४॥

मनसः स्वात्मनि ब्रह्मणि दर्शितं लयं दृष्टान्तेन साधयति। दाह्यमिति। विषयशब्दो द्वैतशब्देन संबध्यते॥७२४॥

मनस्यस्मिन्निलीने तु यत्सुखं स्वात्मसाक्षिकम्॥
योगावस्थां परामेतामाहुर्योगविदो जनाः॥७२५॥

मनोलयादनन्तरं परमसुखरूपा परब्रह्मावस्था विद्वदनुभवसिद्धा तत्र योगशास्त्रसंमतिमाह। मनसीति। उक्तं हि सर्ववृत्तिनिरोधे त्वसंप्रज्ञातसमाधिरिति।1278 धर्ममेघनामधेयं समाधिमभिधाय चोक्तं ततः क्लेशकर्मनिवृत्तिस्तस्मादविद्यादयः क्लेशाः समूलकाषं कषिता भवन्ति कुशलाकुशलाश्च कर्माशयाः समूलघातं हता भवन्ति क्लेशकर्मनिवृत्तेस्तु जीवन्नेव विद्वान्मुक्तो1279 भवतीति॥७२५॥

भूमौ यथाऽऽहितं लोहं भूमित्वमुपगच्छति॥
मनोऽक्षरे धृतं तद्वदक्षरत्वं निगच्छति॥७२६॥

वह्निदृष्टान्ते वह्निकाष्ठविनाशयोर्भिन्नाधारत्ववन्मनोद्वैतनाशयोरपि स्यात्तथाच नाऽऽत्मनि मनोलय इत्याशङ्क्याऽऽह। भूमाविति॥७२६॥

एतच्च दृष्टं लोकेऽपि यैर्भावैः संप्रयुज्यते॥
मनस्तन्मयतामेति तद्भावेनानुरञ्जितम्॥७२७॥

लोहस्य भूविकारत्वात्तत्र निहितस्य तन्मयत्वेऽपि मनसो भौतिकस्याक्षरविकारत्वाभावान्नैवमित्याशङ्क्य परिहर्तुं सामान्यन्यायमाह। एतच्चेति॥७२७॥

एवमस्मिन्परे तत्त्वे भाव्यमाने मुमुक्षुणा॥
तद्भावमचिरेणैति स्थैर्यं चात्रैव गच्छति॥७२८॥

उक्तन्यायं प्रकृते योजयति। एवमिति। विषयेषु रञ्जितं तन्मयमपि मनस्तेभ्यो विमुखं कदाचिद्दृष्टं तथाऽऽत्मनि धृतं तद्रूपमपि तत्तस्मात्कदाचिच्च्यवेतेत्याशङ्क्याऽऽह। स्थैर्यं चेति। आत्मीभूतस्य मनसो न ततश्च्युतिरनिर्मोक्षप्रसङ्गादनुसंधेयान्तराभावाच्चेत्यर्थः॥७२८॥

मनोविनाशमन्वेष विज्ञानात्मा विलीयते॥
यथा संकल्पितश्चार्थ उभयोर्ज्ञानयोगयोः॥७२९॥

मनसो ब्रह्मणि लयेऽपि न मुक्तिः संसारिणः सत्त्वादित्याशङ्क्याऽऽह। मन इति। तदुपाधिकत्वादित्यर्थः। किं तत्र साधनमित्याशङ्क्य समुच्चय इत्याह। यथेति। यथाऽऽत्मनि मनोलयस्तथाऽस्मिञ्जीवलयोऽपि दर्शितो ज्ञानकर्मणोः समुच्चितयोरर्थ इति योजना॥७२९॥

एतदेवमभिप्रेत्य तदुक्तं नेह किंचन॥
नानाऽस्तीत्येवमेकत्वमस्मिञ्शास्त्रेऽभिधीयते॥७३०॥

मनसैवेत्यादेरर्थमुक्त्वा नेहेत्याद्यवतार्य तात्पर्यमाह। एतदिति। फलावस्थमद्वयमात्मरूपमङ्गीकृत्य नेहेत्यादिप्रवृत्तेस्तत्र मुक्तात्मनि नानात्वाभावमाहेत्यर्थः। तन्निषेधेऽध्यक्षादिविरोधमाशङ्क्याऽऽह। इत्येवमिति। संसारदशायां नानात्वस्य सत्त्वेऽपि मोक्षावस्थायां तदसत्त्वमित्यनया रीत्यैक्यं शास्त्रे विवक्षितं तथाच सांसारिकनानात्वविषयत्वात्प्रत्यक्षादेर्न विरोध इत्यर्थः॥७३०॥

मुक्तिप्रवेशोपायोऽयं यथोक्तेनेह वर्त्मना॥
उक्तो मनस एकस्मिन्प्रत्ययो मानसो यतः॥७३१॥

भागशो वाक्यतात्पर्यमुक्त्वा समुदायेन विवक्षितमर्थमाह। मुक्तीति। मनोलयादिद्वारा मुमुक्षोर्मोक्षानुप्रवेशे को हेतुरस्मिन्वाक्ये मनसः संबन्धी विवक्षितस्तत्राऽऽह। एकस्मिन्निति। एकमद्वयं ब्रह्मास्मीत्येकस्मिन्ब्रह्मणि योऽत्यन्तदृढप्रत्ययो मानसः स मोक्षप्रवेशहेतुरित्यर्थः। प्रथमार्थे यतःशब्दः॥७३१॥

एकत्वधीव्यवस्थाऽपि मानस्येवेति गम्यताम्॥

वृत्तिः सा त्वपरिक्षीणा मनोवृत्तिरियं भवेत्॥
तावद्यावदमी सर्वे विशेषाः स्युः क्षयं गताः॥७३२॥

कथमैक्यप्रत्ययस्य मानसत्वमात्मतत्त्वतद्विकारत्वयोरन्यतरत्वात्तत्राऽऽह। एकत्वेति। न तावदात्मैव तद्धीराद्यन्तवत्त्वान्नापि विकारस्तस्यापरिणामित्वादतः साऽऽत्मनो ब्रह्मत्वव्यवस्थापकत्वाद्व्यवस्थेत्युच्यमाना मानसी वृत्तिरेवेति निश्चय इत्यर्थः। नानात्वधीवादित्यपेरर्थः। तस्याः स्थित्यवधिमाह। सा त्विति। पश्चान्निरिन्धनाग्निवदुपयोगाभावादुपशाम्यतीत्यर्थः॥७३२॥

स्वात्मन्येवाथ संशुद्धं ज्ञानमद्वैतरूपकम्॥
अवस्थितं भवेत्साक्षादेवं कृत्वेदमुच्यते॥७३३॥

विषयेषु क्षीणेषु क्षीणायां च तस्यां किमवशिष्यते तदाह। स्वात्मनीति। ज्ञानस्य स्वमहिमप्रतिष्ठत्वे प्रतिबन्धकाभावं हेतूकर्तुमथेत्युक्तम्। साक्षादित्यस्यैव निरपेक्षत्वमुच्यते। उक्तमात्मस्वरूपं मनसि कृत्वैकधेत्यादि प्रवृत्तमित्याह। एवं कृत्वेति॥७३३॥

मनसाऽनुप्रविश्येदं क्रमेणैकात्म्यमुत्तमम्॥
यत्नादप्रमयं तत्त्वं द्रष्टव्यं तद्विपश्चिता॥७३४॥

तस्यार्थमाह। मनसेति। क्रमेण देवतासूत्राप्तिद्वारेत्यर्थः॥७३४॥

कौटस्थ्याद्ध्रुवमक्षय्यं प्रत्यगात्मन्यवस्थितम्॥७३५॥

विरजः शुद्ध इत्यर्थ आकाशात्परतः स्थितः॥
अजो न जायते यस्मान्महान्सर्वमहत्तरः॥७३६॥

ध्रुवमित्यस्यार्थमाह। कौटस्थ्यादिति। विरज इत्यादि व्याकरोति। विरज इति॥७३५॥७३६॥

तमेवंविधमात्मानं ज्ञात्वा कुर्यान्मतिं दृढाम्॥
भावनाज्ञान1280संतानसंरूढामविचालिनी1281म्॥७३७॥

द्वैताभिधायकाञ्शब्दान्ध्यानकाले न चिन्तयेत्॥
वाचं ते ग्लापयन्त्येतां येयमेकत्ववाचिनी॥७३८॥

तमेवेत्यादेरर्थमाह। तमिति॥७३७॥७३८॥

ग्लानौ तस्यास्तदर्थेऽस्य मनोऽस्मिन्नाधिवर्तते॥७३९॥

तस्मान्न चिन्तयेदेतान्किंतु यैक1282त्ववाचिनी॥
वा1283क्पूर्वं चिन्तयित्वा तां तदर्थे धारयेन्मनः॥७४०॥

अस्त्वेकत्ववाचिन्या वाचो ग्लानिः का हानिस्तत्राऽऽह। ग्लानाविति। निषेधा-

र्थमुपसंहरति। तस्मादिति। किं तर्हि मुमुक्षुणा कर्तव्यं तदाह। किंत्विति॥७३९॥७४०॥

श्रीमद्भर्तृप्रपञ्चस्य श्लोकव्याख्येयमीरिता॥७४१॥

मनसैवेत्युपक्रम्य सा त्विदानीं विचार्यते॥
न्याय्याऽन्याय्येति वा यत्नाद्युक्तिभिः प्रविभागशः॥७४२

परपक्षमुपसंहरति। श्रीमदिति। तत्र दोषं संभावयति। सा त्विति। तात्पर्येण विचार्य विभज्य युक्तिभिः सहितो भागो गृह्यते त्यज्यते चेतर इति विचारफलमा1284ह। यत्नादिति॥७४९॥७४२॥

मनसैवानुद्रष्टव्यमिति यद्भवतेरितम्॥
सत्यमेतन्मनो मुक्त्वा न तस्यास्त्यन्यतो गतिः॥७४३॥

परप्रस्थानस्थमादेयं दर्शयन्द्रष्टव्यं मनसैवैतन्नान्या गतिरित्युक्तमङ्गी करोति। मनसैवेति॥७४३॥

तत्त्वस्माभिर्यथाऽभाणि मनसैवेति दर्शनम्॥
मनसा शक्यते द्रष्टुं तत्तथैव प्रमान्वयात्॥७४४॥

अगतिका हीयं गतिर्यत्परोदीरिताङ्गीकरणमित्याशङ्क्याऽऽह। तत्त्विति। आत्मनो दर्शनं मनसैवेति यथाऽस्माभिरुक्तं तथैव त्वयापि तदात्मतत्त्वं मनसैव शक्यते द्रष्टुमिति वदतोच्यते तन्नास्माभिर्दूष्यते मनसैवानुद्रष्टव्यमित्यादिमानसिद्धार्थस्यादूष्यत्वादित्यर्थः॥७४४॥

प्रमाणव्यापृतिर्याऽपि भवतेहोपवर्णिता॥
साऽपि कामं भवत्वेव1285 न दोषस्तत्र भण्यते॥७४५॥

यत्तु तत्त्वमस्यादिवाक्योक्तावित्यादिना शब्दस्य बोधनप्रकारो दर्शितः सोऽप्यस्माभिरङ्गीकृत एवेत्याह। प्रमाणेति। इहेति पूर्वपक्षोक्तिः॥७४५॥

शब्दप्रधानं विज्ञानं प्रमातृव्यापृतौ पुरा॥
जायतेऽनन्तरं शब्दः स्वव्यापारक्रमादथ॥
ज्ञानप्रधानतामेति स्वार्थसंकेतवर्त्मना॥७४६॥

शब्दस्य बोधनप्रकारं परोक्तं स्वेन स्वीकृतं सोपस्कारं प्रपञ्चयति। शब्देति। आचार्येण शब्दोच्चारणानन्तरं प्रमातुः श्रोतुः शब्दमात्रविषयायां श्रोत्रकरणिकायां व्यापृतौ ज्ञानाख्यायां सत्यां तज्ज्ञानमादौ शब्दप्रधानं भवति कर्मकारकस्य कर्मणि प्राधान्यादित्यर्थः। तद्ग्रहानन्तरं शब्दस्यार्थसंबन्धस्मरणापेक्षया स्वार्थबोधनक्रमेण तद्विष1286-

यज्ञानं प्रधानीकृत्य तत्प्रति गुणतामेति करणत्वेन तदुत्पादकत्वादित्याह। अनन्तरमिति। शब्दस्योक्तार्थबोधनप्रकारोपसंहारार्थोऽथशब्दः॥७४६॥

वर्णस्वरादिक्रमवद्वाक्यरूपानुरञ्जितम्॥
अज्ञातार्थाधिगतौ तु ज्ञानं1287 मानमितीर्यते॥७४७॥

शब्दप्रधानमित्यादिना जायत इत्यन्तेनोक्तं व्यनक्ति। वर्णेति। वर्णाश्च स्वराश्चपदानि च तेषां यः क्रमस्तद्विशिष्टं यद्वाक्यं तदाकारं यज्ज्ञानं श्रोत्रोत्थं तच्चाज्ञातवाक्यरूपार्थाधिगतिं निमित्तीकृत्य प्रवृत्तत्वाद्वाक्ये प्रमाणमित्युच्यतेऽतो वाक्यं प्रति ज्ञानं गुणस्तस्य कर्मत्वेन प्रधानत्वादित्यर्थः॥७४७॥

शब्दाभिन्नं पुरा ज्ञानं शब्दरूपानुरञ्जितम्॥७४८॥

स्वप्रमेये प्रमाणं तदिति यद्वदिहोदितम्॥
प्रमेयेऽपि तथैवैतत्पूर्वं मेयप्रधानकम्॥७४९॥

अनन्तरमित्यादि प्रपञ्चयन्नुक्तमर्थं दृष्टान्तमेवानुवदति। शब्देति। यथा श्रोत्रेण शब्दज्ञानोत्पत्तिकाले शब्दस्य कर्मतया प्राधान्यमुत्पत्त्यनन्तरं सत्ताकाले ज्ञानस्य गुणत्वं तस्य शब्दसाधकत्वाच्च ज्ञानं शब्दाभिन्नं स्वार्थे शब्दे मानमिति पूर्वत्र स्थितमित्यर्थः। शब्दाभिन्नमित्यस्यैवार्थमाह। शब्दरूपेति। दार्ष्टान्तिकमाह। प्रमेयेऽपीति। उक्तदृष्टान्तानुसारेण मेयेऽपि घटादौ शब्दोत्थमेतज्ज्ञानमुत्पत्तिकाले घटादिप्रधानकं भवति तस्य कर्मत्वेन प्रधानत्वादित्यर्थः॥७४८॥७४९॥

मेयव्यापारतः पश्चात्प्राप्तज्ञानानुरञ्जनात्॥
गुणत्वं व्रजति ज्ञाने प्रमेयोऽर्थः प्रमातरि॥७५०॥

अर्थप्रधानकज्ञानोत्पत्त्युत्तरकालं मेयस्य मानव्याप्यत्वरूपव्यापारवशादसौ मेयोऽर्थः स्वविषयेण मातृपरिणामेन ज्ञानेन संबन्धात्तस्मिन्गुणत्वं गच्छति प्रमातारे तेनाऽऽपादितस्फुरणवत्त्वादित्याह। मेयेति॥७५०॥

अमितार्थानुगं ज्ञानं प्रमेयार्थानुरञ्जितम्॥
पूर्वोक्तेन प्रमाणेन संगतेर्मेय उच्यते॥७५१॥

तच्च ज्ञानमर्थे शब्दोत्थं तदाकारं तन्मानमज्ञातार्थविषयत्वादित्याह। अमितेति। घटादेर्मेयत्वे हेतुमाह। पूर्वेति। उक्तरूपेण ज्ञानेनेत्यर्थः॥७५१॥

मेयमानाभिसंबन्धो यथेह प्रतिपादितः॥
एवमेवैष विज्ञेयो मेयमानान्तरेष्वपि॥७५२॥

शाब्दधीमेययोरुक्तां प्रक्रियामन्यत्राप्यतिदिशति। मेयेति॥७५२॥

मेयमानाभिसंबन्धान्मानमेयार्थसंकरात्॥
नश्यद्विशेषणत्वं तन्मानं याति फलात्मनि॥७५३॥

ज्ञानज्ञेयनिष्ठां प्रक्रियां प्रदर्श्य ज्ञानतत्फलसंबद्धां प्रक्रियामाह। मेयेति। मानमेययोर्मिथःसंबन्धादूर्ध्वं क्षणिकत्वान्नश्यज्ज्ञानं फले विशेषणत्वमेतीत्यर्थः॥७५३॥

तावन्मात्रप्रधानत्वात्प्रमाणफलमुच्यते॥
इत्येष मानव्यापारो यथावदनुवर्णितः॥७५४॥

तत्प्रकारमभिनयति। तावन्मात्रेति। फलमेव मानस्य प्रधानं तदवसायितां विना तस्योपेक्षणीयत्वात्तस्मात्तस्येदं फलमिति फले स्फुरणाख्ये विशेषणत्वं गच्छन्मानमपिग1288च्छति तत्पुनरनाद्यनन्तमद्वयमित्यर्थः। मानव्यापारमङ्गीकृतं संस्कृत्य प्रपञ्चितमुपसंहरति। इत्येष इति॥७५४॥

व्यापारः कर्तृतन्त्रः स्यात्तनुवाग्बुद्धिसाधनः॥
पुंसस्तत्र स्वतन्त्रत्वाद्विद्याच्छास्त्रं प्रवर्तकम्॥७५५॥

भर्तृप्रपञ्चप्रक्रियायामादेयत्वेनादूप्यांशो दर्शितः संप्रति वचसा बुद्धौ वस्तुमात्रमित्यादिना विज्ञायेत्यादौ प्रज्ञाकरणं विधेयमित्युक्तं दूषयितुं भूमिकां करोति। व्यापार इति। यत्पुंसा कर्तुमकर्तुमन्यथा च कर्तुं शक्यं तद्विधेयं यथा यागादि देहादिसाध्ये धात्वर्थे पुंसः स्वातन्त्र्यादित्यर्थः। उक्ते व्यापारे विधिशास्त्रस्य सावकाशत्वं दर्शयति। विद्यादिति॥७५५॥

वस्तुतन्त्रं तु सद्यत्र विज्ञानं जायते बलात्॥
तत्रापुरुषतन्त्रत्वान्न कश्चिद्विधिरिष्यते॥७५६॥

विधेयवृत्तमुक्त्वा तदभावात्प्रकृते प्रज्ञाकरणविध्यसंभवमाह। वस्त्विति। प्रमाणज्ञाने नियमापूर्वपरिसंख्यानामन्यतमोऽपि विधिर्न संभवति तस्य प्रमाणबलाज्जायमानस्य वस्तुमात्रतन्त्रतया पुरुषानधीनत्वान्न च शब्दादेव तत्त्वधीसंभवे तदुद्देशेनाभ्यासे विधिरकिंचित्करत्वादित्यर्थः॥७५६॥

व्यापारः कर्तृतन्त्रो हि तमेतमितिशास्त्रतः॥
नित्यो ध्यानादिरूपो वा स स्याद्बुद्धिविशुद्धये॥७५७॥

इतश्च प्रज्ञाकरणवाक्यं न विधिपरमित्याह। व्यापार इति। अत्र हि ज्ञानस्य विध्यनर्हत्वात्तद्धेतुर्विधेयः स च वेदानुवचनादिः शमादिश्चपुरुषाधीनो व्यापारो विविदिषावाक्येन शान्तादिवाक्येन च विधास्यते तन्नेदं विधिपरमित्यर्थः। ज्ञानोपाये विधिर्वक्ष्यते चेत्कथं शब्दादेव तदुत्पत्तिरुक्तेत्याशङ्क्याऽऽह। स स्यादिति। विहितो वेदा-

नुवचनादिरूपो यश्चित्तशुद्धिहेतुस्तस्य तद्धेतुतायाः श्रुतिस्मृतिप्रसिद्धत्वाच्छुद्धबुद्धेश्चाधिकारिणः शब्दो ज्ञानं जनयत्यधिकारिणः प्रमितिजनको वेद इति न्यायादित्यर्थः॥७५७॥

तमोरजोभ्यां मुक्ता धीर्यदा स्यादुक्तसाधनात्॥
शमादिमान्यथातत्त्वमथाऽऽत्मानं समीक्षते॥७५८॥

यत्तु शब्दादेव तत्त्वज्ञाने सर्वेषामपि श्रुतशब्दानां किमिति न भवतीति तदप्येतेन प्रत्यादिष्टमित्याह। तम इति। वेदानुवचनादिभ्यः शमादीनां ज्ञानं प्रत्यन्तरङ्गत्वं मत्वा विशिनष्टि। शमादिमानिति। यदेत्युपक्रमादथशब्दस्तदेत्यर्थः॥७५८॥

तस्मिन्दृष्टेऽथ सर्वस्य तावन्मात्रैकतत्त्वतः॥
सर्वाज्ञानसमुच्छित्तेः सर्वज्ञानोदयस्तथा1289॥७५९॥

आत्मसमीक्षणमविहितमफलमिति चेन्नेत्याह। तस्मिन्निति। दृष्टिफलं दृष्टफलं कृतकृत्यत्वमथशब्दार्थः। तदुपपादयितुं ज्ञेयस्य सर्वस्याऽऽत्मविदा ज्ञातत्वमाह। सर्वाज्ञानेति। आत्मज्ञानेन सर्वज्ञाने हेतुमाह। सर्वस्येति। सर्वज्ञानफलमाह। सर्वेति॥७५९॥

निःशेषपुरुषार्थाप्तिः सर्वदुः1290खौघनिह्नुतिः॥
1291तोऽत आत्मनि ज्ञाते कृतकृत्यत्वहेतुतः॥७६०॥

वाङ्मनःकायसाध्याया व्यापृतेः स्यादसंभवः॥
फलावधित्वात्सर्वेषामुपायानां जगत्यपि॥७६१॥

सर्वाज्ञानध्वस्तौ किं सिध्यति तदाह। निःशेषेति। तद्युक्तमात्मविदः कृतकृत्यत्वमित्यर्थः। सोऽपि विद्वान्विध्यधीनः स्यादिति चेन्नेत्याह। यत इति। असंभवो यतोऽतो विदुषो न विधिरिति शेषः। कृतकृत्यस्य विध्यसंभवे लोकप्रसिद्धिमनुकूलयति। फलेति। लोकेऽपि सर्वेषामुपायानां फलपर्यन्तत्वान्न प्राप्ते फले पुनर्विधेरुपायानुष्ठानमफलत्वादित्यर्थः॥७६०॥७६१॥

प्रमेयमयतां कामं प्रमातैव व्रजत्वयम्॥
तस्यैव परिणामित्वात्प्रमेयेन च1292 संगतेः॥७६२॥

प्रज्ञाकरणविधिः संक्षेपतो निरस्तः। यत्तु प्राज्ञ आत्माऽपि तादात्म्यात्तन्मयत्वं निगच्छतीति तत्र मातुर्वा साक्षिणो वा तन्मयत्वमिति विकरूप्याऽऽद्यमङ्गी कुरुते1293प्रमेयेति। अङ्गीकारे हेतुमाह। तस्येति॥७६२॥

षड्भावविक्रियाभावादसङ्गाच्चाप्यनात्मना॥
विज्ञानादिमयत्वं स्यान्न स्वतः प्रत्यगात्मनः॥७६३॥

द्वितीयं दूषयति। षडिति॥७६३॥

एवंभूतोऽपि चाज्ञातः कार्यकारणरूपताम्॥
व्रजत्येष य1294था रज्जुरज्ञाता सर्परूपताम्॥७६४॥

यद्यात्मा सर्वविकारहीनोऽसङ्गो न स्वतो विज्ञानादिमयः कथं तर्हि तस्य सर्वात्मत्वश्रुतिरत आह। एवंभूतोऽपीति॥७६४॥

मनआदेरशेषस्य प्रत्यगज्ञानहेतुतः॥
हेतुध्वस्तौ भवेद्ध्वस्तिरकार्याकारणेऽक्षरे॥७६५॥

यद्यपि मनोविनाशमन्वेष विज्ञानात्मा विलीयत इति तत्र लयो ज्ञानाधीनो बाधो नाशादिर्वेति विकल्प्याऽऽद्यमङ्गी करोति। **मन इति॥**७६५॥

तत्त्वबोधान्न नाशः स्याद्व्यतिरेकान्वयौ न च॥
प्रत्यङ्मात्रैकयाथात्म्यादविद्यादेरिहाऽऽत्मनि॥७६६॥

द्वितीयं निरस्यति। तत्त्वेति। नाशस्तुच्छता व्यतिरेको वस्तुनः सकाशात्पृथक्त्वमन्वयः कारणसंसर्गस्तस्य त्रिविधस्यापि लयस्यायोगे हेतुमाह। प्रत्यगिति। इहाऽऽत्मन्यविद्यादेर्न नाशो न चान्वयव्यतिरेकाविति संबन्धः॥७६६॥

विनाशः क्रियते यत्र व्यतिरेकोऽथवाऽन्वयः॥
कार्यकारणसंबन्धान्मुक्तिस्तत्र सुदुर्लभा॥७६७॥

विपक्षे दोषमाह। विनाश इति। न तावदविद्यादेरात्यन्तिको नाशः सप्रतियोगिकस्य तस्यातथात्वादनात्यन्तिकनाशस्य च कारणसंबन्धत्वाद्व्यतिरेके कादाचित्कसंबन्धसंभवादन्वये च तस्येष्टत्वात्पुनर्बन्धः स्यादित्यर्थः। यत्तच्छब्दौ पक्षार्थौ॥७६७॥

ध्यानादिसंस्कृतं चेतो यदि मुक्तौ प्रणश्यति॥
सभावनं सहेत्वेवं ध्यानं सर्वमपार्थकम्॥७६८॥

विनाशपक्षे दोषान्तरमाह। ध्यानादीति। सति विशिष्टे मनसि मुक्तिरिष्टा चेन्नाशो व्यर्थः स्यान्मुक्तावुद्देश्यायां तन्नश्यति चेद्ध्यानादेस्तद्धेतुत्वासिद्धेर्यथा संकल्पितश्चेत्यादिर्वृथा प्रलापः स्यान्न चोक्तमनो ज्ञानवन्मुक्तिमापाद्य नश्यति तस्याभिध्यानादित्यादिव1295दित्यस्मिन्नर्थे मानाभावादिति भावः॥७६८॥

अथ मुक्तौ तदन्वेति कारणेन सहान्वियात्॥
अज्ञाने सति संसारो वद केन निवार्यते॥७६९॥

अन्वयपक्षे मुक्तेर्दौर्बल्यमुक्तं प्रपञ्चयति। अथेत्यादिना। अज्ञानं च कारणं तत्सत्त्वे चानर्थानुबन्धान्न मुक्तिरित्यर्थः॥७६९॥

लोहादेः कारणं भूमिर्भूमिष्ठं भूमितामितम्॥
विरोधिहेतुसंपर्काल्लोहाद्येति न वायुताम्॥७७०॥

मनआदिलयं दार्ष्टान्तिकं निरस्य भूमौ यथाऽऽहितं लोहमित्यादिनोक्तं दृष्टान्तं निराचष्टे। लोहादेरिति। कांस्यायसादेर्भूमिरुद्भवहेतुस्तत्तैजसत्वं तु प्रक्रियामात्रं न चासांसिद्धिकद्रवत्वे सति जात्युपाधावेकविधरूपं ततैजसत्वसाधकमसांसिद्धिकद्रवत्वं हि नैमित्तिकद्रवत्वाधिकरणत्वं वा स्वाभाविकद्रवत्वानधिकरणत्वं वा नाऽऽद्यः प्रदीपप्रभादृष्टान्ते साधनवैकल्याद्द्वितीये पार्थिवप्रदेशविशेषेषु व्यभिचारो न च तत्र पाकात्प्रागूर्ध्वं च रूपस्यानेकविधत्वं यत्कृष्णं तदन्नस्येति पार्थिवरूपस्यैकविधत्वश्रुतेस्तच्च भूमौ स्वकारणे स्थितं विरोधिद्रव्यान्तरसंपर्काद्विलीयमानं स्वकारणभूतभूमितामेति न तु स्वाकारणवाय्वादिभावं निगच्छत्यतो लोहादेर्मृद्भावः संभवति मनआदेस्त्वकारणब्रह्मभावो न सिध्यतीत्यर्थः॥७७०॥

स्वकारणस्थं नित्यं च कार्यं सर्वमिदं मतम्॥
न चैति कारणत्वं तत्तस्मादुक्तमपेशलम्॥७७१॥

यत्पुनरेतच्च दृष्टमित्यादि तन्न कारणादन्यत्र कार्यलयायोगादित्यभिप्रेत्य ब्रह्मात्मनोऽपि कारणत्ववादिनं प्रत्याह। स्वकारणस्थमिति। सर्वमपीदं कार्यं सदा स्वकारणे ब्रह्मणि तदात्मना स्थितमिति परिणामवादिनां मतमतस्तत्कार्यं कदाचित्कारणत्वमेतीत्ययुक्तं तथाच ब्रह्मणः कारणत्वं वस्तुतो न सिध्येदित्यर्थः॥७७१॥

कुलालाद्युत्थसंस्कारविनाशादेव तत्स्वयम्॥
कार्यं कारणतामेति न तु तत्कारणस्थितेः॥७७२॥

घटादिकार्यं सदा मृदादिकारणस्थमपि मुसलादिव्यापाराद्विनश्यत्कारणभावं निगच्छतीति लौकिकीप्रसिद्धिस्तथा ब्रह्मणि सदा स्थितमपि जगद्ध्यानादिना नश्यद्ब्रह्मत्वमेतीत्यविरुद्धमित्याशङ्क्याऽऽह। कुलालादीति। संस्कारो नाम कम्बुग्रीवादिसंस्थानविशेषस्तस्य मुसलाभिघातादिना तिरोभावो नाशस्तद्वशात्तत्कार्यं नश्यति कारणतामेतीति चोच्यते न तु स्वयमेव तत्कार्यं नश्यति कारणत्वं चाऽऽपद्यते तस्य सदा कारणे स्थितत्वादतो दृष्टान्ताभावाद्ब्रह्मकारणपक्षे जगतस्तद्भावे नोपयोगो ध्यानादेरित्यर्थः॥७७२॥

आरभ्यं यत्र कार्यं स्यात्तत्रैव व्यापृतिर्ध्रुवम्॥
तमित्यस्याः श्रुतेर्ज्ञेया भावनाज्ञानकर्मणाम्॥७७३॥

कुत्र तर्हि तस्योपयोगस्तत्राऽऽह1296आरभ्यमिति। यस्मिन्पक्षे ध्यानादिभिर्ब्रह्मविविदिषाख्यं कार्यमारभ्यते तत्रैव तेषां फलवती प्रवृत्तिर्ज्ञेया तमेतं वेदानुवचनेनेत्यादिश्रुतेरतो विविदिषायामुपयोगस्तेषामित्यर्थः॥७७३॥

ब्रह्मैव सन्स्वतो यत्र ब्रह्माप्येति तमोह्नुतेः॥
नामीषां व्यापृतिस्तत्र ह्युत्पत्त्यादिविरोधतः॥७७४॥

साक्षादेव मोक्षान्वयस्तेषां किं नेष्यते तत्राऽऽह। ब्रह्मैवेति। स्वतो ब्रह्मैव सन्प्रतिबन्धतमोध्वस्तौ ब्रह्म भवतीति यस्मिन्सिद्धान्ते स्थितिस्तत्र ध्यानादीनां न तद्भावफलत्वेन प्रवृत्तिस्तेषामुत्पत्त्यादिफलवत्त्वात्तस्य च तद्विरोधित्वादित्यर्थः॥७७४॥

प्रत्यगज्ञानविध्वंसिज्ञा1297नाभ्यासोऽपि नेष्यते॥
सकृदात्मप्रसूत्यैव बोधस्याज्ञानहानतः॥७७५॥

ब्रह्मत्वव्यवधितमोध्वस्तौ ध्यानाद्युपयोगमाशङ्क्याऽऽह। प्रत्यगिति। अपिर्वेदानुवचनादिसमुच्चयार्थः। तत्र हेतुः। सकृदिति॥७७५॥

न ह्यावृत्तिव्यपेक्षं सन्मानं जगति किंचन॥
स्वप्रमेये तमो हन्ति स्वसाध्ये साधनं यथा॥७७६॥

इतश्च बोधस्य तमोध्वंसित्वे नाऽऽवृत्त्यपेक्षेत्याह। न हीति। तत्र दृष्टान्तमाह। स्वसाध्य इति। यथा यागादिसाधनमावृत्तिगुणादृते विहितं साध्ये स्वर्गादौ परमापूर्वे वा नाभ्यासमपेक्षते तथा वाक्योत्थात्मधीरपीत्यर्थः॥७७६॥

भावनाजं फलं यत्स्याद्यच्च स्यात्कर्मणः फलम्॥
न तत्स्थास्न्विति मन्तव्यं पण्यस्त्रीगमनं यथा1298॥७७७॥

ये त्वज्ञानव्यवहितत्वमनिच्छन्तः साक्षादेव ध्यानादिसाध्यं मोक्षमाचक्षते तान्प्रत्याह। भावनेति। भावनाधीनफलस्यास्थिरत्वे दृष्टान्तः। पण्यस्त्रीति॥७७७॥

संसार्यस्मीति चेद्ध्वस्ता कोटिकल्पोपबृंहिता॥
स्वल्पीयोभ्यासजा स्थास्न्वी भावनेत्यत्र का प्रमा॥७७८॥

ब्रह्मास्मीति भावनायाः स्थास्नुत्वात्तत्फलं कैवल्यं स्थास्नु भविष्यतीत्याशङ्क्याऽऽह। संसारीति॥७७८॥

तस्मान्न साध्विदं सर्वं भावनासंचयार्थिभिः॥
ध्यानादि यदुपन्यस्तं निःशेषानर्थमुक्तये॥७७९॥

ध्यानादेर्मोक्षसाधनत्वायोगे फलितमुपसंहरति। तस्मादिति॥७७९॥

वाक्येनावेदितं कृत्स्नं यदि साक्षात्प्रबोध्यते॥
वस्तु बुद्धौ वद ध्यानव्यापारात्किमपेक्षते॥७८०॥

मोक्षार्थत्वाभावेऽपि ध्यानस्य ज्ञानार्थत्वेनानुष्ठेयतेति चेन्नेत्याह। वाक्येनेति॥७८०॥

निःशेषानर्थसंप्राप्तिकै1299वल्यानाप्तिकृत्तमः॥
तच्चेज्ज्ञानादपध्व1300स्तं समाप्तं यच्चिकीर्षितम्॥७८१॥

ज्ञानस्योत्पत्तौ ध्यानानपेक्षत्वेऽपि फले तदपेक्षेत्याशङ्क्याऽऽह। निःशेषेति। तन्न ध्यानमर्थवदिति शेषः॥७८१॥

कृतं चिकीर्षितं सर्वं बुद्धं यच्च बुभुत्सितम्॥
सम्यग्ज्ञानोदयात्सर्वं वर्जितं यज्जिहासितम्॥७८२॥

तथेप्सितं च संप्राप्तमित्येवं कृतकृत्यता॥
प्रत्यग्याथात्म्यसंमोहध्वंसमात्रात्प्रबोधतः॥७८३॥

ज्ञानादपेक्षितसर्वार्थाप्तिमेव व्यनक्ति। कृतमिति। सम्यग्ज्ञानोदयादित्युक्तं व्यनक्ति1301प्रत्यगिति। कृतकृत्यतेति पूर्वेण संबन्धः॥७८२॥७८३॥

समर्पितं चेच्छब्देन बुद्धौ वस्तु यथोदितम्॥
प्रज्ञां कुर्वीतेति विधिः किमर्थ इति भण्यताम्॥७८४॥

सति प्रज्ञां कुर्वीतेति विधौ कुतोऽफलत्वेनापलप्यते ध्यानमित्याशङ्क्य ज्ञातेऽज्ञाते वा ब्रह्मणि तद्विधिरिति विकल्प्याऽऽद्यमनूद्य दूषयति। समर्पितं चेदिति। यथोदितं विरजस्त्वादिलक्षणमित्यर्थः॥७८४॥

न चेत्समर्पितं साक्षाद्वस्तु श्रुत्या यथोदितम्॥
अप्रामाण्यं श्रुतेः प्रापत्स्वार्थस्याप्रतिपादनात्॥७८५॥

द्वितीयमनूद्य निरस्यति। न चेदिति॥७८५॥

स्वप्रमेये प्रमाणं सत्प्रवृत्तं स्वात्मलाभतः॥
अज्ञानाद्यनिरासेन नास्ति लोके प्रबोधकम्॥७८६॥

स्वार्थबोधित्वेन प्रामाण्यं श्रुतेराश्रीयते ध्यानविधिस्तु विषयस्थाज्ञानादिध्वंसोपयोगीत्याशङ्क्याऽऽह। स्वप्रमेय इति। अज्ञानादिध्वंसित्वं विना स्वार्थबोधित्वायोगान्नाऽऽत्मनि शाब्दबोधातिरेकेणाज्ञानादिध्वस्तौ विध्यपेक्षेत्यर्थः॥७८६॥

अज्ञानमिथ्यासंशीतिव्यतिरेकेण नापरम्॥
प्रत्यर्थि मेयविषये मानस्येहास्ति किंचन॥७८७॥

ज्ञानस्य ज्ञेयस्थाज्ञानादिध्वंसित्वेन तद्गतचैतन्यादिध्वंसित्वमेव किं न स्यादित्याशङ्क्य विरोधिध्वंसित्वेऽपि न सर्वध्वंसितेत्याह। अज्ञानेति॥७८७॥

अज्ञानादित्रयं बाध्यं मेययाथात्म्यसंश्रयात्॥
मानं बाधकमेवात्र बाध्येन नहि1302 हन्यते॥७८८॥

विरोधित्वाविशेषाज्ज्ञातमेवाज्ञानादिना निवर्त्यमिति वैपरीत्यमाशङ्क्याऽऽह। अङ्गा-

नादीति। मानस्य बाधकत्वे हेतुः। मेयेति। अत्रेति प्रकृतबाध्योक्तिः। नियमनिरस्यमाह। बाध्येनेति॥७८८॥

बाध्यस्य बाधनादेव प्रमाणस्य प्रमाणता॥
स्वमेयतत्त्वसंबन्धलब्धरूपस्य सर्वदा॥७८९॥

मानं बाधकमेवेत्युक्तं समर्थयते। बाध्यस्येति॥७८९॥

नादग्ध्वाऽभ्याहितं दाह्यमग्नेरग्नित्वमिष्यते॥
यथा बाध्यमबाधित्वा नैषं बाधकता मितेः॥७९०॥

अज्ञानाद्यन्यतमबाधेनैव मानस्य मानतेत्येतद्दृष्टान्तेन स्पष्टयति। नेति॥७९०॥

न च प्रामाणिकं ज्ञानमुत्पत्त्यादौ नियुज्यते॥
स्वमेयव्यक्तितस्तस्य न कार्यान्तरमिष्यते॥७९१॥

प्रज्ञाकरणवाक्ये ध्यानाविधानेऽपि प्रज्ञाशब्दिते ज्ञाने विधिः स्यादिति चेत्तत्किं मानममानं वाऽऽद्येऽपि तदुत्पत्त्याद्यन्यतमनिमित्तं विधीयते फलान्तरार्थं वेति विकल्प्याऽऽद्यं प्रत्याह। न चेति। प्रमाणज्ञानस्योत्पत्त्यादिफलत्वमप्रामाणिकमिति भावः। द्वितीयं निराह। स्वमेयेति॥७९१॥

न च मानान्तरैर्मेये मानस्येष्ठा विरोधिता॥
असाधारणमेयत्वान्मानानां चक्षुरादिवत्॥७९२॥

अप्रामाणिकं ज्ञानं प्रज्ञाख्यं विधेयमित्यत्र तदप्रामाण्यं मानान्तरासं1303वादात्तद्विरोधाद्वा नाऽऽद्यस्तस्य प्रतीच्यप्रवृत्तेरिति मत्वा द्वितीयं निरस्यति। न चेति। तत्र हेतुः। असाधारणेति। स्वविषयशूरत्वान्मानानां मिथो विरोधो नास्तीत्यर्थः॥७९२॥

मानान्तरैर्विरोधश्चेन्मानस्याभ्युपगम्यते॥
तदुच्छित्तौ न हेतुः स्याद्विरोधस्य प्रमाश्रयात्॥७९३॥

अस्तु वा तत्त्वमस्यादिवाक्यस्याध्यक्षादिभिर्विरोधस्तथाऽपि स प्रातिभासिको वा वास्तवो वेति विकल्प्याऽऽद्यमङ्गीकृत्य द्वितीये दोषमाह। मानान्तरैरिति॥७९३॥

न च सामान्यतो ज्ञानं ल्यबन्तेनाभिधीयते॥
प्रत्यग्वस्तु यतः सिद्धमसामान्यविशेषवत्॥७९४॥

विज्ञायेति शाब्दं परोक्षं ज्ञानमनूद्य प्रज्ञां कुर्वीतेत्यत्रापरोक्षज्ञानार्थं तदावृत्तिर्विधेयेति प्रत्युदस्तं यदपि विज्ञायेति सामान्यज्ञानं प्रज्ञां कुर्वीतेति प्रज्ञाशब्देन विशेषज्ञानमुच्यते ब्रह्मणो द्व्यात्मकत्वादिति तन्निराकरोति। न चेति॥७९४॥

सामान्येनेक्षमाणस्य विशेषेण च वस्त्विदम्॥
अपवादः पुरा तस्य न पश्यन्तीति वर्णितः॥७९५॥

तत्र1304 श्रुतिं प्रमाणयति। सामान्येनेति। अतो ल्यबन्तेन सामान्यज्ञानमनूद्य द्वितीयान्तेन विशेषज्ञानं विवक्षित्वा तत्सिद्धयेऽभ्यासविधिर्वाक्यार्थ इत्ययुक्तमिति भावः॥७९५॥

अन्ये तु पण्डितंमन्याः संप्रदायानुसारतः॥
विज्ञायेति वचः श्रौतमिदं व्याचक्षतेऽन्यथा॥७९६॥

ब्रह्मणि कार्यकारणभावः सामान्यविशेषभावश्च वस्तुतोऽस्तीति भर्तृप्रपञ्चपक्षे प्रज्ञाकरणवाक्यव्याख्या प्रत्युक्ता संप्रत्यकार्यकारणासामान्यविशेषं प्रत्यग्ब्रह्मेत्युपगच्छतां मण्डनादीनां तद्व्याख्यामुत्थापयति। अन्ये त्विति॥७९६॥

तत्त्वमस्यादिवाक्योत्थविज्ञानेन यथोदितम्॥
विज्ञाय वस्त्वसंसर्गि प्रज्ञां कुर्वीत यत्नतः॥७९७॥

कथमन्यथा व्याख्यानं तदाह। तत्त्वमिति। यत्नत इत्यावृत्तिः सूच्यते॥७९७॥

नन्वत्रापि कृतैवासौ ल्यबन्तेनाभिधीयते॥
प्रज्ञाऽतः करणं तस्या भूयः कस्माद्विधीयते॥७९८॥

उक्तमेव व्यक्तीकर्तुं शङ्कयति। नन्विति। भर्तृप्रपञ्चपक्षवदस्मिन्नपि पक्षे निष्पन्नैव प्रज्ञा विज्ञायेत्युच्यते तथाच प्रज्ञां कुर्वीतेति प्रज्ञाया निर्वर्तिताया न पुनः करणं विधेयं पिष्टपिष्टिप्रसक्तेरित्यर्थः॥७९८॥

मैवं पदार्थसंसर्गरूपस्यैवातथात्मके॥
ऐकात्म्ये वाक्यहेतूत्थबोधस्योद्भूतिकारणात्॥७९९॥

ब्रह्मासंसर्गि तद्यस्मादसामान्यविशेषवत्॥
संसर्गरूपं वाक्योत्थं ज्ञानं नीलोत्पलादिवत्॥८००॥

परिहरति। मैवमिति। शाब्दज्ञानस्य संसृष्टपरोक्षरूपस्यासंसृष्टापरोक्षब्रह्मण्युत्पत्तेर्न तद्ब्रह्म स्पृशत्यतो ब्रह्मस्पर्शिसाक्षात्कारस्य चिकीर्षितत्वान्न पिष्टपिष्टिरित्यर्थः। शाब्दज्ञानस्य ब्रह्मासंसर्गित्वं साधयति। असामान्येति। असंसृष्टापरोक्षब्रह्मविरोधितया संसृष्टपरोक्षशाब्दज्ञानस्य न ब्रह्मस्पर्शितेति यावत्। शाब्दज्ञानस्य संसृष्टपरोक्षत्वे दृष्टान्तः। नीलेति॥७९९॥८००॥

स्वभावतोऽखिलं वाक्यं संसर्गात्मकमेव हि॥
परोक्षवृ1305त्त्याच तथा वस्तु बोधयति स्वतः॥८०१॥

कथं शाब्दज्ञानं संसृष्टपरोक्षं प्रतिज्ञायते तत्राऽऽह। स्वभावत इति। स्वर्गकामादिवाक्यं दृष्टान्तयितुं हिशब्दः॥८०१॥

स्वस्वभावं न चोल्लङ्घ्य स्वभावान्तरसंश्रयात्॥
ब्रह्मासंसर्गि साक्षाच्च शब्दः शक्नोति बोधितुम्॥८०२॥

ब्रह्मणोऽन्यत्र शब्दः संसृष्टं परोक्षं च ज्ञानं जनयन्नपि ब्रह्मण्यसंसृष्टापरोक्षे तथा ज्ञानं जनयिष्यति मेयानुसारित्वान्मानस्येत्याशङ्क्याऽऽह। स्वस्वभावमिति। अर्थापेक्षया स्वरूपस्याभ्यर्हितत्वान्न शब्दस्य स्वभावमतिक्रम्य बोधकतेत्यर्थः॥८०२॥

अलब्धब्रह्मयाथात्म्यं ज्ञानं वाक्योद्भवं यतः॥
तस्मात्प्रज्ञां प्रकुर्वीत साक्षाद्ब्रह्मैकगोचराम्॥८०३॥

शाब्दज्ञानस्य ब्रह्मास्पर्शित्वे फलितमाह। अलब्धेति॥८०३॥

अपास्ताशेषसंसर्गं यया ब्रह्माधिग1306म्यते॥८०४॥

केनेति च व्यपेक्षायां विज्ञानेनेति गम्यते1307
ल्यबन्तोक्तेन सांनिध्यान्न ततोऽन्यदपेक्ष्यते1308॥८०५॥

कार्यां प्रज्ञां प्रकटयति। अपास्तेति। प्रज्ञाकरणे करणमाकाङ्क्षापूर्वकमाह। केनेतीति। तस्य करणत्वे हेतुमाह। सांनिध्यादिति। ब्राह्मण्यादेरपि सांनिध्यात्करणत्वापत्तिमाशङ्क्याऽऽह। नेति॥८०४॥८०५॥

योग्यं संनिहितं चेदं साकाङ्क्षं च समीक्ष्यते1309
विज्ञानं यल्ल्यबन्तोक्तं तदेवात्र तु साधनम्॥८०६॥

तत्र विशेषं दर्शयति। **योग्यमिति॥**८०६॥

तस्माद्वाक्योत्थविज्ञानसाधनाभ्यासतोऽनिशम्॥
प्रज्ञां कुर्यादसंसर्गिब्रह्मयाथात्म्यबोधिनीम्॥८०७॥

तस्य क्षणिकत्वान्न प्रज्ञाकरणे साधनतेत्याशङ्क्याऽऽह। तस्मादिति॥८०७॥

अपेताशेषसंसर्गं तथैव ब्रह्म गम्यते॥
यतोऽशेषतमोहन्त्री प्रज्ञा सैवात इष्यते॥८०८॥

असंसर्गित्वादिनोक्तं व्यनक्ति। अपेतेति। ब्रह्म प्रत्यक्तया सदा ज्ञातमेवेति व्यर्थं प्रज्ञाकरणमित्याशङ्क्याऽऽह। यत इति। प्रज्ञेत्यभ्यासजनितः साक्षात्कारो विवक्षितः॥८०८॥

साक्षाद्दर्शनसिद्ध्यर्थमन्यत्रापि विधीयते॥
निदिध्यासनवाक्येन साधनं ध्यानलक्षणम्॥८०९॥

न केवलमिहैव साक्षात्कारमुद्दिश्य ज्ञानं विधीयते किंतु द्रष्टव्यवाक्येऽपीत्याह। साक्षादिति॥८०९॥

इत्येवमादिवाक्यानि गम्भीरन्यायवेदि1310नः॥
केचिद्व्याचक्षते यत्नादत्र प्रतिविधीयते॥८१०॥

एकीयं मतमुपसंहरति। इत्येवमादीति। आदिशब्देन निदिध्यासितव्यः स विजिज्ञासितव्य इत्यादिवाक्यानि गृहीतानि। यत्नाद्वस्तुस्वरूपमननुसृत्य स्वसामर्थ्यादित्यर्थः। सिद्धान्तयति। अत्रेति॥८१०॥

मानान्तरापरिज्ञाते प्रमेयार्थे प्रमां स्फुटाम्॥
मेयाज्ञातत्वबाधेन कुर्वन्मानमितीर्यते॥८११॥

तत्प्रकटनार्थं प्रथमं प्रमाणलक्षणमाह। मानान्तरेति। तत्संवादविसंवादाभ्यां फलाभावेन चाऽऽभासत्वं निरसितुं विशेषणानि॥८११॥

ब्रह्मानधिगतं चेदं वाक्यादन्यैः प्रमान्तरैः॥
तद्यथा बोधयेद्वाक्यं तत्तथैवेति गृह्यताम्॥८१२॥

अज्ञातगन्तृ मानमिति लक्षणेऽपि प्रस्तुते किं जातं तदाह। ब्रह्मेति। संसृष्टपरोक्षतया श्रुत्या ब्रह्म दृष्टं चेत्तत्तथैव नासंसृष्टापरोक्षतया तद्ग्राह्यं प्रामाणिकार्थस्यान्यथयितुमशक्यत्वादित्यर्थः॥८१२॥

प्रमाणादेव यत्प्राप्तं कथं तदतिशङ्क्यते॥
ब्रह्म संसर्गरू1311पं वा यदि वाऽतोऽन्यथा श्रुतेः॥८१३॥

उक्तमेव साधयितुं सामान्यन्यायमाह। प्रमाणादिति। न हि प्रमाणमतीत्य शङ्कितुं युक्तं प्रमाणविरोधादित्यर्थः। तत्फलं प्रकृते प्रापयति। ब्रह्मेति। ज्ञातं तथैवेति शेषः॥८१३॥

प्रमाणतोऽपि संप्राप्तं यदि वस्त्वतिशङ्क्यते॥
तदा शङ्कानिवृत्त्यर्थं मानादन्यत्किमिष्यताम्॥८१४॥1312

विपक्षमनूय दोषमाह। प्रमाणतोऽपीति। अतिशङ्क्यते प्रमाणमतिक्रम्य शङ्का क्रियत इति यावत्॥८१४॥

न चापि स्वप्रमेयेऽस्ति मानानां बोधहेतुतः॥
तारतम्यं यथा कार्ये कारकाणामसंभवात्॥८१५॥

संसृष्टपरोक्षतया शब्दावगते ब्रह्मण्यसंसृष्टापरोक्षबोधार्थं ध्यानविधिरित्यत्र शब्दप्रमाणविरोध उक्त इदानीं चक्षुषोदूरस्थं वृक्षाद्यपेक्ष्य वस्त्विति वा द्रव्यमिति वा सामान्येनाऽऽदौ बोधमाधाय1313 पुनः समीपगमनाद्यपेक्षया वृक्षोऽयमिति तत्त्वज्ञानहेतुत्ववत्प्रथमं शब्दस्यापि स्वभावमनुसृत्य संसृष्टपरोक्षतया ब्रह्म बोधयतस्तदभ्याससचिवस्यासंसृष्टापरोक्षबोधितेति बोधनक्रमे मानविरोधो नास्तीत्याशङ्क्याऽऽह। न चेति

कारकस्यायं स्वभावो न बोधकस्येत्यत्र हेतुमाह। असंभवादिति। न हि कारकाणामपर्यायेणानेककार्यनिर्माणसंभवो मृदादिष्वदृष्टत्वाद्व्यञ्जकानां तु युगपदनेकव्यञ्जता स्याद्दीपादौ तथा दृष्टेरित्यर्थः॥८१५॥

नच प्रमान्तरैः साक्षादज्ञाते ब्रह्मवस्तुनि॥
अयथावस्त्विति ज्ञानं वक्तुं शक्यं विपश्चिता॥८१६॥

बोधकेषु बोधनक्रमाभावेऽपि ब्रह्मण्यसंसृष्टापरोक्षज्ञानस्य तद्विपरीतशाब्दज्ञानेनाभ्यस्य-मानेनोद्भवस्तस्याप्रमाणतया स्वयमेव पुमर्थसमाप्तिहेतुत्वायोगादित्याशङ्क्यासंसृष्टापरोक्षं ब्रह्म ज्ञानान्तरैर्ज्ञायते न वेति विकल्प्य द्वितीयं प्रत्याह। न चेति। असंसृष्टापरोक्षब्रह्मणो मानान्तरागोचरत्वे संसृष्टपरोक्षं तद्गोचरं शाब्दं ज्ञानमप्रमाणमित्यशक्यं वक्तुं तद्विरोधिमानाभावादित्यर्थः॥८१६॥

अपि मानान्तराज्ज्ञाते1314 तद्विरुद्धस्वभावके॥
1315 चैवं युज्यते वकुं द्वयोरपि मितित्वतः॥८१७॥

कल्पान्तरं निरस्यति। अपीति। असंसृष्टापरोक्षे ब्रह्मणि शब्दातिरिक्तप्रमाणगम्येऽपि शाब्दं ज्ञानममानमित्येवं वक्तुं न युक्तं मानान्तरवत्तन्मानत्वस्यापि दुर्वारत्वादित्यर्थः॥८१७॥

प्रमान्तरेण चेज्ज्ञातं ब्रह्मासंसर्गरूपकम्॥
कृतत्वात्तर्हि प्रज्ञाया निष्फलोऽयं पुनर्विधिः॥८१८॥

संसृष्टपरोक्षब्रह्मग्राहिशाब्दज्ञानस्य तद्विपरीतग्राहिमानान्तरविरोधेन मानत्वं शक्यं वारयितुमित्याशङ्क्य विरोधस्य तुल्यत्वान्मैवमित्यभिप्रेत्य दोषान्तरमाह। प्रमान्तरेणेति॥८१८॥

प्रज्ञायाश्च समाप्तत्वादविद्याया निराकृतेः॥
पुरुषार्थस्य चाऽऽप्तत्वात्किमर्थं विधिशासनम्॥८१९॥

विधेर्निष्फलत्वं प्रपञ्चयति। प्रज्ञायाश्चेति॥८१९॥

वाक्यमानोद्भवं ज्ञानमयथावस्त्वितीर्यते॥
यावस्त्वप्रमोत्थं च चित्रं सर्वज्ञचेष्टितम्॥८२०॥

किंच शाब्दं ज्ञानममानमभ्यासोत्थं तु तन्मानमिति वदतो महत्पाण्डित्यमित्युपहसति। वाक्येति। अप्रमाऽभ्यासः॥८२०॥

न च मिथ्याधियोऽभ्यासात्सम्यग्ज्ञानसमुद्भवः॥
तथा सत्यप्रयत्नेन मुक्तिः स्यात्सर्वदेहिनाम्॥८२१॥

किंच शाब्दं ज्ञानममानं चेत्तदभ्यासान्न सम्यग्धीरुद्भवेदित्याह। न चेति। विपक्षे दोषमाह। तथेति॥८२१॥

संसारमिथ्याविज्ञानमभ्यस्यन्त्येव सर्वदा॥
प्राणिनो न च सम्यग्धीस्तेषां ब्रह्मणि जायते॥८२२॥

मिथ्याज्ञानाभ्यासात्सम्यग्ज्ञानोत्पत्तिमङ्गीकृत्यातिप्रसङ्गमुक्त्वा सैवादृष्टेर्नास्तीत्याह। संसारेति॥८२२॥

सम्यग्ज्ञानप्रसूतेश्चविघातायैव जायते॥
मिथ्याज्ञानाभ्यासहेतुः संस्कारो न तु जन्मने॥८२३॥

न केवलं मिथ्याज्ञानाभ्यासः सम्यग्ज्ञानं नोत्पादयति किंतु तद्विरोधी चेत्याह। सम्यगिति॥८२३॥

तथाच प्राह भगवान्व्यासः सत्यवतीसुतः॥
पूर्वमर्थान्तरे न्यस्ता कालान्तरगता1316 मतिः॥८२४॥

मिथ्याज्ञानाभ्यासः सम्यग्धीविरोधीत्यत्र मानमाह। तथाचेति। तदेवोदाहरति। पूर्वमिति। अनादिसंभवपरंपरायामात्मातिरिक्ते शब्दादौ विषये मतिः स्वारस्येन प्रथमं प्रवृत्ता सा च बहुतिथं विषयाभ्याससंस्कृता तत्रैव सत्तेत्यर्थः॥८२४॥

तेनान्यं सन्तमप्यर्थं द्वेषान्न प्रतिपद्यते॥
परीक्ष्य यो न गृह्णाति गृह्णाति च विपर्ययात्॥८२५॥

आसङ्गफलमाह। तेनेति। विषयासङ्गेन हेतुना वस्तुतो विषयेभ्योऽतिरिक्तमक्रियाकारकफलमनतिशयानन्दं प्रत्यञ्चं सन्तमपि द्वेषान्नानुमन्यते तदनुमतेर्विषयानुभवविरोधित्वादित्यर्थः। विषयानुभवाभ्यासस्य तत्त्वज्ञानप्रतिबन्धकत्वमुक्त्वा प्रतिबन्धकान्तराण्याह। परीक्ष्येति। न गृह्णाति सन्तमर्थमिति शेषः। परीक्षामन्तरेणासन्तमर्थं सद्बुद्ध्यागृह्णातीत्याह। गृह्णाति चेति॥८२५॥

दृढपूर्वश्रुतत्वाच्च प्रमादाच्चापि1317 लौकिकात्॥
चतुर्भिः कारणैरेतैर्याथातथ्यं न विन्दति॥८२६॥

दृढपूर्वश्रुतत्वमबाधितसंप्रदायस्ततो न तत्त्वं वेत्ति किंतु स्वयमुत्प्रेक्षते शास्त्रनिरीक्ष1318णेनेत्याह। दृढेति। लौकिकप्रमादो विषयपारवश्यादिः। अपिर्निद्रालस्यसमुच्चयार्थः॥८२६॥

नातो मिथ्याधियोऽभ्यासः सम्यग्ज्ञानस्य जन्मने॥८२७॥

अपि मिथ्याधियोऽभ्यासः सम्यग्ज्ञानस्य जन्मने॥
स्यादेव चेच्छ्रुतेर्मात्वान्न मितेर्व्यञ्जकत्वतः॥८२८॥

मिथ्याज्ञानाभ्यासः सम्यग्ज्ञानविरोधीति वृद्धसंमतमर्थमुपसंहरति। नात इति।

श्रुतिविरोधे स्मृत्यप्रामाण्यं मन्वानः श्रुत्वा शङ्कते। अपि मिथ्येति। विज्ञायेतिल्यबन्तोक्तविज्ञानं सम्यग्ज्ञानं चेत्प्रज्ञां कुर्वीतेतिविध्यानर्थक्यान्मिथ्याज्ञानमेव तेनोच्यते तदभ्यासाच्च सम्यग्ज्ञानोदयः प्रज्ञाकरणश्रुतेर्मानत्वादित्यर्थः। मानस्य व्यञ्जकत्वेन मेयानुसारित्वान्न मिथ्याज्ञानाभ्यासाज्जन्मेति दूषयति। न मितेरिति॥८२७॥८२८॥

कार्योत्पत्तौ स्वतन्त्रत्वं कारणस्यै1319व निश्चितम्॥
मानस्य व्यञ्जकत्वात्तु मेयतत्त्वानुरोधिता॥८२९॥

व्यञ्जकमपि मानं विषयविमुखं किं न स्यादित्याशङ्क्याऽऽह। कार्येति। स्वातन्त्र्यं विषयवैमुख्यं, माने तु तदभावान्न मिथ्याज्ञानाभ्यासाज्जन्मेत्याह। मानस्येति॥८२९॥

अपि चाभ्यस्यमानस्य दार्ढ्यंदृष्टं जगत्यपि॥
तदभ्यासवशादेवमत्राप्यध्यवसीयताम्॥८३०॥

तत्रैव हेत्वन्तरमाह। अपि चेति। यदभ्यस्यते तदेव दृढीभवद्दृष्टं यथा दीर्घप्रपाठके तथाच मिथ्याज्ञानाभ्यासे तस्यैव दार्ढ्यंन सम्यग्ज्ञानं सावकाशमित्यर्थः॥२३०॥

भवद्व्याख्यात एवार्थो न चास्य वचसो ध्रुवम्॥
व्याख्येयः सोऽपरेणापि राज्ञामाज्ञां विना क्वचित्॥८३१॥

मिथ्याज्ञानमभ्यस्यमानं सम्यग्ज्ञानं नाऽऽदधाति चेत्तर्हि प्रज्ञाकरणवाक्याप्रामाण्यं हेत्वन्तराभावादित्याशङ्क्याऽऽह। भवदिति। न हि तस्य त्वदुक्तादर्थान्तराभावो न त्वदुक्तानङ्गीकारे सत्यप्रामाण्यं निवारकाभावात्तस्यान्यत्रापि नेतुं शक्यत्वादित्यर्थः॥८३१॥

भवद्व्याख्यानतोऽस्माभिरुक्ता दोषपरंपरा॥
सा यथा प्रसजेन्नेह व्याख्येयं तत्तथा वचः॥८३२॥

अस्मद्व्याख्यानमदुष्टत्वादेष्टव्यं कृतं व्याख्यान्तरगवेषणयेत्याशङ्क्याऽऽह। भवद्व्याख्यानत इति। सार्वविभक्तिकत्वात्तसिः सप्तम्यर्थः। यद्वा तस्मान्निमित्तादिति योज्यम्। ब्रह्मानधिगतं चेदमित्या1320दिनेत्यर्थः। कथं तर्हि वाक्यं व्याख्येयं तत्राऽऽह। सा यथेति। इहेति वाक्यव्याख्योक्तिः॥८३२॥

सर्वमानाविरोधेन वाक्यार्थो गम्यते यथा॥
गुणवृत्त्याऽन्यथा वा तद्व्याख्येयं सुविपश्चिता॥८३३॥

उक्तमेव व्यनक्ति। सर्वेति। असंसृष्टापरोक्षब्रह्मप्रतिपादकास्थूलादिसर्ववाक्याविरोधेन प्रज्ञाकरणवाक्यार्थो यथा गम्यते तथा तद्वाक्यं मुख्यलक्षणागुणवृत्तीनामन्यतमया वृत्त्या प्रेक्षावता व्याख्येयमित्यर्थः॥८३३॥

वाक्यमाहात्म्यसंभूतं शाब्दं विज्ञानमुच्यते॥
मेययाथात्म्यतो जाता प्रज्ञेतीहाभिधीयते॥८३४॥

मानान्तराविरुद्धं व्याख्यानमनुवर्तयन्पदद्वयार्थमाह। वाक्येति। अधीतवाक्यप्रसादप्रसूतमापातिकं ज्ञानं विज्ञायेत्युच्यते मेयस्वरूपानुसारेण निर्वृत्तं विचारफलभूतमसंसृष्टापरोक्षज्ञानं प्रज्ञेति प्रकृते वाक्ये कथ्यत इत्यर्थः॥८३४॥

शाब्दविज्ञानमानेन प्रज्ञामैकात्म्यलक्षणाम्॥
ब्रह्मास्मीति प्रकुर्वीत बुभुत्सोच्छेदिनीं1321 दृढाम्॥८३५॥

वाक्यार्थमाह। शाब्देति। शब्दोत्थप्रयोजकज्ञानेन विचारपूर्वकासं1322सृष्टापरोक्षज्ञानमहं ब्रह्मेत्येवंरूपमसंभावनादिहीनमापादनीयं तेन सर्वाकाङ्क्षाध्वस्तेरित्यर्थः॥८३५॥

विज्ञायेति ल्यबन्तेन प्रमाणव्याप्तिरुच्यते॥
मेयस्य तेन माव्याप्तिः प्रज्ञामित्यभिधीयते॥८३६॥

व्याख्यानान्तरमाह। विज्ञायेतीति। अविद्यातज्जध्वंसिज्ञानेन मेयव्याप्तिर्ल्यबर्थो मेयेन मानव्याप्तिः प्रज्ञा तन्नात्र ज्ञानद्वयमस्तीत्यर्थः॥८३६॥

प्रमाणव्यापृतेर्यस्मान्मेयस्य व्यापृतेस्तथा॥
प्रज्ञाफलं जायतेऽथ यदपूर्वादिलक्षणम्॥८३७॥

तयोर्मिथोव्याप्तेरुपयोगमाह। प्रमाणेति। मानमेययोर्मिथोव्याप्त्या मानफलमपूर्वादिरूपं कैवल्यं सिध्यति तेन सा वाच्येत्यर्थः। अथशब्दस्तस्मादर्थो यथोक्त1323फलद्योतकः॥८३७॥

प्रमात्रादिविभागेन मानं मेयं समश्नुते॥
मेयेनाऽऽप्तौ तु तद्ध्वस्तिर्मेययाथात्म्यमात्रतः॥८३८॥

मानेन मेयस्य व्याप्तिमात्रेण तत्सिद्धेर्व्यर्था मेयेन मानव्याप्तिरित्याशङ्क्याऽऽह। प्रमात्रादीति। मेयेन मानव्याप्तौ प्रमात्रादिविभागादिध्वस्तिरित्यत्र हेतुमाह। मेयेति1324॥८३८॥

सकारणस्य मात्रादेः प्रत्यग्दृष्ट्यतिरेकतः॥
तत्त्वं नान्यद्यतस्तस्मात्तन्मात्रेणैव तद्धतिः॥८३९॥

कथं मात्रादेस्तथात्वं मेयेन मानव्याप्तौ तन्निवृत्तिस्वीकारात्तत्राऽऽह। सकारणस्येति। मात्रादिभावाभावयोरात्मातिरेकेणाभावा1325त्तद्याथात्म्यमात्रत्वं तस्याविरुद्धमित्यर्थः॥८३९॥

निद्रान्धः सन्यथा स्वप्ने ह्यग्निव्याघ्रादिसंगतेः॥
निद्रास्वप्नप्रहाणेन बोधमात्रार्थभाग्भवेत्॥८४०॥

प्रत्यगज्ञानसंभूतनानात्वोत्थप्रबोधतः॥
प्रध्वंसादात्ममोहस्य तथैकात्म्यं समश्नुते॥८४१॥

प्रत्यग्दृष्टिमात्रत्वान्मात्रादेरतिरिक्ततया भासमानस्य मिथ्यात्वे तत्त्वधीहेत्वभावादुक्ताया मुक्तेरसिद्धिरित्याशङ्क्या- ऽऽह। निद्रेति। स्वप्ननिमित्तकृतप्रबोधस्य1326प्रसिद्धत्वं हिशब्दार्थः। यथा स्वाप्नमिथ्याव्याघ्रादिबलात्फलवान्प्रबोधः प्रजायते तथा मिथ्यामात्रादिना फलवज्ज्ञानमविरुद्धमित्यर्थः॥८४०॥८४१॥

शास्त्राचार्यमतिर्वाऽत्र विज्ञायेत्यभिधीयते॥
प्रज्ञेत्यादिकया वाचा ह्यात्मप्रत्यय उच्यते॥८४२॥

वाक्यस्यार्थान्तरमाह। शास्त्रेति। श्रवणमननादिविज्ञानं विज्ञायेत्युच्यते वाक्यार्थज्ञानं प्रज्ञा तेन श्रवणादि कृत्वा वाक्यार्थज्ञानं कुर्यादिति वाक्यार्थ इत्यर्थः। श्रवणादेर्वाक्यार्थहेतुत्वावद्योती हिशब्दः॥८४२॥

शास्त्राचार्यव्यपेक्षत्वात्परतन्त्रैव तन्मतिः॥
अनन्यापेक्षतो ज्ञेया प्रत्यग्बुद्धेः स्वतन्त्रता॥८४३॥

शास्त्राचार्यमतेरात्मप्रत्ययस्य चावान्तरभेदमाह। शास्त्राचार्येति। तदधीना श्रवणादिरूपा मतिस्तदपेक्षत्वात्प- रतन्त्रा व्यवह्रियते प्रत्यग्विषयायास्तु बुद्धेर्वाक्यार्थज्ञानाख्यायाः सत्यां श्रवणादिसामग्र्यामन्यापेक्षाराहित्या- त्स्वतन्त्रतेत्यर्थः॥८४३॥

आत्मप्रत्यय आत्मैको द्वितीयः पुनरात्मनः॥
अनात्मप्रत्ययः सोऽहमुत्पत्त्यैवास्मि केवलः॥८४४॥

किंच बुद्धेर्बोध्याकारत्वात्प्रत्यग्बुद्धिबोध्यस्य च स्वातन्त्र्याद्युक्ता तद्बुद्धेः स्वतन्त्रतेत्याह। आत्मेति। आत्मा स्वप्रकाशत्वादद्वयः परमार्थोऽनात्मा दृश्यत्वान्मिथ्या तत्स्वतः प्रतीचः स्वातन्त्र्यात्तद्बुद्धिरपि तथेत्यर्थः। केवलशब्दः स्वतन्त्रार्थः॥८४४॥

यदि वोक्तात्मयाथात्म्यबोधेनैवाद्वयात्मिकाम्॥
ब्रह्ममज्ञां प्रकुर्वीत विशेषणसमाश्रयात्॥८४५॥

वाक्यस्यार्थान्तरमाह। यदि वेति। आत्मनो ब्रह्मत्वं विज्ञायेत्युच्यते ब्रह्मणश्च प्रत्यक्त्वं प्रज्ञेत्याख्यायते तस्मादात्मनो ब्रह्मत्वं विज्ञाय तेनैवाऽऽत्मरूपेण ब्रह्मानुसंदधीतेत्यर्थः। कथं प्रतीचो ब्रह्मत्वं ब्रह्मणो वा प्रत्यक्त्वं गमकाभावात्तत्राऽऽह। विशेषणेति। तमेवेत्यवधारणसामर्थ्यात्प्रत्यक्त्वं ब्रह्मणोऽवगम्यते। अज आत्मा महानित्यत्र महानिति विशेषणात्प्रतीचोऽपि ब्रह्मत्वसिद्धिरित्यर्थः॥८४१॥

अव्यावृत्ताननुगतब्रह्मार्थोऽनात्मनोऽन्यतः॥
लभ्यतेऽत्र यतस्तस्मात्तमेवेत्यभिधीयते॥८४६॥

एवकारसामर्थ्यसिद्धमर्थं प्रपञ्चयति। अन्यावृत्तेति। अध्यात्मशास्त्रं सप्तम्यर्थः॥८४६॥

अव्यावृत्ताननुगतब्रह्मार्थान्नापि चान्यतः॥
प्रत्यक्ता लभ्यते साक्षान्महानात्मेत्यतोऽत्र गीः॥८४७॥

महत्त्वविशेषणावष्टम्भादिष्टं स्पष्टयति। अव्यावृत्ताननुगतेति। विरज इत्यादिमन्त्रः सप्तम्या गृहीतः॥८४७॥

व्यावर्त्यार्थातिरेकेण नाऽऽत्मब्रह्मपदार्थयोः॥
स्वरूपेऽस्ति भिदा काचिदमानित्वादिवस्तुवत्॥८४८॥

प्रत्यग्ब्रह्मणोरन्योन्याभेदमुक्त्वा भेदधीगतिमाह। व्यावर्त्येति॥८४८॥

विरुध्यतेऽक्रियारूपं मानित्वादिक्रियात्मकैः॥
अमानित्वादिकं वस्तु यथेहापि तथेष्यताम्॥८४९॥

दृष्टान्तं प्रपञ्चयति। विरुध्यत इति। अक्रियारूपमिति च्छेदः। अमानित्वमित्यादि मानित्वादिभिर्विरुध्यते तेषां च प्रतियोगिनां भेदादमानित्वाद्यपि भिन्नवद्भाति वस्तुतस्तु तत्तदभावोपलक्षितमेकमेव वस्तुस्वरूपं तथा ब्रह्मात्मन्यद्वयत्वं1327 पारोक्ष्यं च विरुध्यते तद्भेदादेव भेदधीर्वस्तुतस्त्वेकत्वमेवेति दृष्टान्तमनूद्य दार्ष्टान्तिकमाह। यथेति॥८४९॥

प्रत्यग्वस्त्वद्वयमपि तदबोधोपघाततः॥
स्रगिवाह्यादिरूपेण प्रथते भेदवन्मृषा॥८५०॥

अद्वयस्य सद्वयत्वमपरोक्षस्य परोक्षत्वं विरुध्यते चेत्कथं निवृत्तिस्तदनिवृत्ताविष्टैक्यासिद्धिरित्याशङ्क्य सद्वयत्वस्याऽऽविद्यत्वमाह। प्रत्यगिति॥८५०॥

तथैवाऽऽत्माऽपि तद्ब्रह्म तदविद्यैकहेतुतः॥
परोक्षमिव तद्भाति तिमिरोद्भूतचन्द्रवत्॥८५१॥

आत्मनः सद्वयत्ववत्पारोक्ष्यस्यापि ब्रह्मणोऽविद्याकृतत्वमाह। तथेति॥८११॥

सद्वितीयपरोक्षत्वे यतोऽज्ञानैकहेतुके॥
न वस्तु स्पृशतस्तस्मात्प्रमाणोत्थप्रबोधतः॥८५२॥

उभयोराविद्यत्वमनूद्य तत्फलमाह। सद्वितीयेति॥८५२॥

यथावस्त्वभिसंबन्धान्निवर्तेते सहेतुके॥
अकारकात्मबोधस्य जन्मनैव तमोह्नुतिः॥८५३॥

प्रामाणिकबोधस्य निवर्तकत्वे हेतुमाह। यथावस्त्विति। वाक्यीयो बोधो वस्त्वनुसारित्वादविद्यां नुदन्नुभयमपि तत्कार्यं नुदति चेदजातस्यासत्त्वादेव तन्निवर्तकत्वाभावो जातस्याविरोधेन जातत्वादेवानिवर्तकतेत्याशङ्क्याऽऽह। अकारकेति॥८१३॥

नान्वयव्यतिरेकाभ्यां नाप्यभावेन तद्धतिः॥
आत्मब्रह्मपदार्थैकरूपेणैव ह्नुतिर्यतः॥८५४॥

प्रस्तुततमोनिवृत्तेः प्रसिद्धनिवृत्तितो वैलक्षण्यमाह। नेति। तत्र हेतुः। आत्मेति॥८५४॥

नान्यदज्ञानतोऽस्तित्वं द्वितीयस्याऽऽत्मनो यथा॥
निवृत्तिरप्यविद्याया नावगत्यात्मनोऽपरा॥८५५॥

प्रकृता निवृत्तिरात्मैवेत्युक्ते दृष्टान्तेनानेकशो दर्शितं प्रसङ्गागतं स्मारयति। नान्यदिति॥८५५॥

पदार्थप्रतिबोधो1328 वा वाक्यार्थज्ञानजन्मने॥
विज्ञायेत्युच्यते श्रुत्या पुंसस्तत्र स्वतन्त्रतः॥८५६॥

व्याख्यानान्तरमाह। पदार्थेति। पदार्थद्वयज्ञानं विज्ञायेतिश्रुत्या वाक्यार्थज्ञानार्थं कर्तव्यं वाक्यार्थज्ञानं प्रज्ञा तथाच पदार्थौसंशोध्य वाक्यार्थोज्ञातव्य इत्यर्थस्तेनोच्यते पदार्थज्ञाने पुंसः स्वातन्त्र्यात्तस्य कर्तुं योग्यत्वादिति योजना॥८५६॥

अन्वयव्यतिरेकाभ्यां वाक्यनीडपदार्थयोः॥
पुमानलं विवेकाय न तु वाक्यार्थवित्तये॥८५७॥

पदार्थविवेके पुंसः स्वातन्त्र्यमुक्तं साधयति। अन्वयेति। वाक्यनीडे तन्निष्ठे तत्त्वंपदे तदर्थयोर्विवेकोऽन्वयादिना शोधनं तदर्थं पुरुषः समर्थो भवति तदेव शोधनं कुर्यादित्यर्थः। वाक्यार्थज्ञानेऽपि पुंसः स्वातन्त्र्यसंभवात्पदार्थविवेकवत्तस्मिन्नसौ नियुज्यतामित्याशङ्कयाऽऽह। न त्विति॥८९७॥

नानुत्पत्रे विधिः पुंसोऽशक्यत्वाद्वस्तुतन्त्रतः॥
उत्पन्नेऽपि कृतार्थत्वान्न स्याद्वाक्यार्थबोधने॥८५८॥

तदेव साधयति। नेत्यादिना। न हि वाक्यार्थज्ञाने विधिस्तस्य प्रमाणवस्तुतन्त्रतया पुंस्तन्त्रत्वाभावान्न चानुत्पन्ने तस्मिन्विधिस्तस्यासत्त्वादेव विध्ययोग्यत्वान्नापि तस्मिन्नुत्पन्ने विधिस्तदुत्पत्तिमात्रेण कृतकृत्यत्वात्पुंसो विधिफलाभावादित्यर्थः॥८९८॥

अन्वयव्यतिरेकाभ्यां लौकिकत्वात्पदार्थयोः॥
शक्तस्तद्विषयं ज्ञानं कर्तुं वाक्यार्थवित्तये॥८५९॥

पदार्थविवेकवादित्युक्तं1329 विघटयति। अन्वयव्यतिरेकाभ्यामिति। पदार्थयोर्लौकिकत्वादन्वयादिना तद्विषयं ज्ञानं वाक्यार्थज्ञानार्थं कर्तुं पुरुषः शक्त इति योजना। विवेकस्य क्रियात्वाद्यागादाविव पुंसः स्वातन्त्र्यात्तत्र युक्तो विधिरित्यर्थः॥८५९॥

आत्मा द्रष्टव्य इत्यादावयमेव विधीयते॥
पदार्थविषयः पुंसो व्यापारो योऽनुमात्मकः॥८६०॥

किंच द्रष्टव्यवाक्येऽपि विवेकविषयो विधिर्न वाक्यार्थज्ञानविषय इति साधितमित्याह। आत्मेति। अनुमानात्मकोऽन्वयाद्यधीनः शोधनात्मेति यावत्॥८६०॥

वाक्यार्थप्रतिबोधस्य पदार्थाज्ञानमेव तु॥
अन्तरायो यतस्तस्मात्पदार्थज्ञानचोदना॥८६१॥

वाक्यादेव तदर्थधीसंभवात्तादर्थ्येन तत्पदार्थज्ञानं न विधेयमित्याशङ्क्याऽऽह। वाक्यार्थेति॥८६१॥

ज्ञात्वाऽऽत्मानं तमेवेति तन्मोहोत्थादनात्मनः॥८६२॥

अनात्मार्थप्रधानोऽयं यावदात्मा समीक्ष्यते॥
ब्रह्मास्मीति न तावद्धीर्जायते सान्तरायतः॥८६३॥

चोदनामेव साधयति। ज्ञात्वेति। स्वमोहोत्थाद्देहादेर्निष्कृष्याऽऽत्मानं ज्ञात्वा वाक्यार्थं मुमुक्षुर्जानात्यतस्तमेवेत्यादिना विवेके विधिरर्थवानित्यर्थः। पदार्थाज्ञानस्य वाक्यार्थज्ञानान्तरायत्वं स्फोरयति। अनात्मेति॥८६२॥८६३॥

अनात्मनो यदाऽऽत्मानं प्रत्यगज्ञानकल्पितात्॥
विविनक्त्यनुमानेन तदा वाक्यार्थधीर्भवेत्॥८६४॥

कदा तर्हि वाक्यार्थज्ञानं तदाह। अनात्मन इति। अनुमानेनान्वयादिना तदनुसारिश्रुत्या चेत्यर्थः॥८६४॥

आत्मन्येव यदाऽऽत्मानं व्युत्थाप्यानात्मनो नरः॥
विजानाति तदा सर्वमात्मैवेति प्रपश्यति॥८६५॥

विवेकविधिफलमुपसंहरति आत्मन्येवेति॥८६५॥

अथवा पुरुषार्थत्वात्मज्ञायाः करणं नृणाम्॥
स्वतः प्राप्तमनुद्येह तमेवेति नियम्यते॥८६६॥

व्याख्यान्तरमाह। अथवेति। ब्रह्मसाक्षात्करणं प्रज्ञेत्युच्यते तच्च परमानन्दाकारतया परमपुरुषार्थत्वेन प्रसिद्धं तदनुद्याऽऽत्मज्ञानमेव कर्तव्यमिति नियम्यत इत्यर्थः। प्राप्तमित्यस्मादूर्ध्वमतस्तदित्यध्याहार्यम्॥८६६॥

प्रज्ञां कुर्वीत यदिह तत्तमेव यथोदितम्॥
तां प्रकुर्वीत विज्ञाय स्वात्मानं न त्वनात्मनः॥८६७॥

तत्पक्षे व्याख्याप्रकारं दर्शयति। प्रज्ञामिति। तां प्रज्ञां1330 कुर्वीतेति यदिह वाक्ये

दृश्यते तत्तमेव स्वात्मानं यथोक्तं विज्ञाय कुर्वीतेति गम्यते न त्वनात्मनो ज्ञात्वा तेन प्रज्ञाकरणमिति योजना॥८६७॥

तत्त्वमात्मैव सर्वस्य कार्यकारणवस्तुनः॥
यस्मादात्मानमेवातः प्रज्ञां विज्ञाय कुर्विति॥८६८॥

यथोक्ते नियमे हेतुमाह। तत्त्वमिति1331। इतिशब्दो नियमार्थः1332॥८६८॥

तदन्यविषयज्ञाने न किंचिद्वेत्ति तत्त्वतः॥
न च कृत्स्नतमोहानिः सर्वज्ञानोदयो न च॥८६९॥

आत्मानं ज्ञात्वा प्रज्ञाकरणमित्यत्र हेतुमुक्त्वा नानात्मानं ज्ञात्वेत्यत्र हेतुमाह। तदन्येति। इतश्च नानात्मानं ज्ञात्वा प्रज्ञाकरणमित्याह। न चेति॥८६९॥

प्रत्यगात्मनि तु ज्ञाते श्रुत्युक्तेनैव वर्त्मना॥
नानुत्पन्नं क्वचिज्ज्ञानं नेहाध्वस्तं तमोऽप्यतः॥८७०॥

आत्मज्ञाने विशेषमाह। प्रत्यगिति। श्रुत्युक्तं वर्त्म श्रवणादि। अतःशब्दः सर्वज्ञानोदयार्थः॥८७०॥

विज्ञायेह तमेवातः प्रज्ञां कुर्वीत सद्द्विजः॥
अज्ञानादि1333 तथा1334 कृत्स्नमात्मनोऽन्यत्र वेदने॥
सर्वमात्मानमेवेति श्रुतेरपि वचस्तथा॥८७१॥

नियमपक्षमुपसंहरति। विज्ञायेति। इहेत्यात्मानात्मनोरिति निर्धारणे सप्तमी। प्रज्ञाकरणस्य प्राप्तत्वमतः शब्दार्थः। आत्मानमेव ज्ञात्वा प्रज्ञाकरणमित्ययुक्तमनात्मनोऽपि हेयत्वेन ज्ञेयत्वात्परिहार्यत्वेनाधर्मजिज्ञासावदित्याशङ्क्याऽऽह। अज्ञानादीति। अन्यत्रानात्मनि वेदने स्वीकृतेऽपि कृत्स्नमनात्मरूपमात्मत्वेनैव ज्ञेयं यस्मादात्मन एवाज्ञातत्वादि संभवत्यतो यदात्मानमेव ज्ञात्वा प्रज्ञाकरणं तत्तथैव स्थितमित्यर्थः। सर्वस्याऽऽत्मत्वेनैव दर्शने मानमाह। सर्वमितिसर्वमात्मानं पश्यत्यात्मानमेव लोकमुपासीतेत्यादिवचोऽपि दर्शितार्थानुमारीत्यर्थः॥८७१॥

निष्कर्मिका वा प्रज्ञेह विहितेत्यथ भण्यते॥
कर्म तस्यास्तमेवेति विज्ञायेत्यनुवादतः॥८७२॥

व्याख्यान्तरमाह। निष्कर्मिकेति। प्रज्ञां कुर्वीतेति कर्मरहिता प्रज्ञा विहिता न च सा तादृशी युक्ता तदनन्तरं कर्मापेक्षायां तमेवेति वाक्येन तत्कर्मोच्यते तथाच प्रज्ञाकर्मविधानपरं वाक्यमित्यर्थः। आत्मैव प्रज्ञाकर्मेत्येतद्वाक्यं बोधयति चेद्विज्ञायेत्य-

नर्थकमित्याशङ्क्याऽऽह। विज्ञायेतीति। प्रज्ञैव विज्ञायेत्यनूद्यतेऽनुवादश्चाऽऽत्मकर्मकप्रज्ञायां सत्यां कार्यज्ञेयसमाप्तेः कृतार्थतेतिद्योतनार्थमित्यर्थः॥८७२॥

प्रज्ञा वा परमात्मेह प्रज्ञानमितिवाक्यतः॥
विज्ञायेह तमा1335त्मानं प्रज्ञां कुर्वीत सद्द्विजः॥८७३॥

व्याख्यान्तरमाह। प्रज्ञा वेति। पदार्थमुक्त्वा वाक्यं योजयति। विज्ञायेति। देहादौ स्थितं त्वमर्थं ततो निष्कृप्य ज्ञात्वा पुनस्तं ब्रह्मरूपमनुसंदध्यादित्यर्थः। द्विजस्य सत्त्वंसाधनचतुष्टयवत्त्वम्॥८७३॥

इमं देहस्थमात्मानं विज्ञायोक्तेन वर्त्मना॥
परां प्रज्ञां प्रकुर्वीतेत्येष शास्त्रस्य संग्रहः॥८७४॥

अन्तिमां व्याख्यामुपसंहरति। इममिति। उक्तेन वर्त्मनाऽन्वयादिनेति यावत्। परा प्रज्ञा वाक्यार्थज्ञप्तिः॥८७४॥

तत्रैवं संभवत्यर्थे सर्वमानाविरोधिनि॥
वाक्यार्थः कल्प्यते कस्माद्विरुद्धो यः प्रमान्तरैः॥८७५॥

असंसृष्टापरोक्षब्रह्मप्रतिपादकप्रमाणाविरोधेनाष्टधा वाक्यार्थे समर्थिते पूर्वोक्तं पक्षद्वयं न ग्राह्यमिति फलितमाह। तत्रेति। प्रज्ञाकरणवाक्यस्य प्रागुक्तरीत्या बहुधाऽर्थे प्रमाणाविरुद्धे सिद्धे सति प्रमाणविरुद्धो यो वाक्यार्थः स कल्प्यो न भवतीति योजना॥८७९॥

असंतोषादतोऽन्येऽत्र भूरिदोषप्रदर्शिनः॥
व्याख्यानादन्यथा चक्रुर्व्याख्यां वेदार्थनिश्चिताः॥८७६॥

पक्षद्वयप्रत्युक्त्या प्रज्ञाकरणवाक्यमनेकधा व्याख्याय स्वयूथ्यानामेव मतान्तरमाह। असंतोषादिति। उक्ताद्व्याख्यानादन्यथाऽस्य वाक्यस्य व्याख्यानमन्ये वेदार्थनिश्चयवन्तः कृतवन्तः प्रस्तुते व्याख्यात्रये सति संतोषाभावात्ते च तत्र प्रचुरदोषदर्शिन इत्यक्षरार्थः॥८७६॥

वेदान्तवाक्यजं ज्ञानं यथावस्त्वेव मोहनुत्॥
प्रामाण्याद्वेदवचसस्तज्जं मिथ्या भवेत्कथम्॥८७७॥

कथं पक्षत्रये दोषदर्शितेत्याशङ्क्य सिद्धान्तातिरिक्तपक्षयोर्दोषमाह। वेदान्तेति। वाक्योत्थं ज्ञानं वस्त्वनुसारेण तद्बोधयत्तदविद्यां निवर्तयति वाक्यस्य मानत्वात्तथाच न मिथ्याज्ञानं वचो जनयत्यतो न संसृष्टपरोक्षं शाब्दं ज्ञानमात्मनोऽसंसृष्टापरोक्षत्वादित्यर्थः॥८७७॥

वाक्यश्रवणकाले तत्सर्वा1336ज्ञानतमोपनुत्॥
जायते यद्यपि ज्ञानं कृत्स्नैकात्म्यसमाश्रयम्॥८७८॥

जन्मानन्तरमेवैतदनादितमसाऽखिलम्॥
तथाऽपि बाध्यते ज्ञानमविद्याकार्यदर्शनात्॥८७९॥

सिद्धान्ते दोषमाह। वाक्येति। यद्यपि सर्वाविद्यातज्जध्वंसित्वेन वाक्यादादौ। यथार्थज्ञानमुत्पद्यते तथाऽपि तदनाद्यज्ञानेन बाध्यते तत्तत्कार्यरागादिदृष्टेरिति वार्तिकयोरर्थः। अखिलमनल्पं विषयसहितमित्यर्थः॥८७८॥८७९॥

अविद्याहेतुरागा1337दीन्सम्यग्ज्ञानादनन्तरम्॥
यतो वीक्षामहे तस्माज्ज्ञानस्याज्ञानबाधनम्॥८८०॥

अविद्याकार्यदर्शनादित्युक्तं विवृणोति। अविद्येति॥८८०॥

नैसर्ग्यागन्तुकी चेति ह्यविद्या द्विविधा स्मृता॥
आगन्तुकी स्याद्विषये नैसर्गिक्यात्मनीष्यते॥८८१॥

नष्टस्याज्ञानस्य पुनरनुद्भवादन्यस्य चाभावात्कथं तेन ज्ञानस्य बाध्यतेत्याशङ्क्य तदर्थमज्ञानद्वैविध्यमाह। नैसर्गीति। तत्र परप्रसिद्ध्यर्थो हिशब्दः। एकस्मिन्नात्मन्याकारभेदं विना कुतोऽज्ञानभेदस्तत्राऽऽह। आगन्तुकीति॥८८१॥

तत्राऽऽगन्तु य1338दज्ञानं तत्सकृज्ज्ञानजन्मना॥
अपैति नासि शबरो राजाऽसीत्युक्तितो यथा॥८८२॥

नैसर्गिकी तु याऽविद्या सा सकृज्ज्ञानजन्मना॥
ध्वस्ताऽपि पुनरेवैति तज्जरागादिदर्शनात्॥८८३॥

तथाऽपि प्रत्यगज्ञानादशेषमज्ञानमपगच्छतीत्याशङ्क्य विशेषमाह। तत्रेत्यादिना। ध्वस्ताऽपीत्यभिभूताऽपीत्यर्थः॥८८२॥८८३॥

यस्मादेवंस्वभावैषाऽविद्या नैसर्गिकी ततः॥
विज्ञायापि परं तत्त्वं कुर्यात्प्रज्ञां पुनः पुनः॥८८४॥

नैसर्गिकमज्ञानं प्रज्ञानस्य बाधकमिति स्थिते फलितमाह। यस्मादिति। एवंस्वभावत्वं ज्ञानबाधकत्वम्॥८८४॥

तावत्प्रज्ञां प्रकुर्वीत यावद्ध्वस्ता निरन्वया॥
आत्मविद्या यथोक्तात्मविद्याभ्यासेन यत्नतः॥८८५॥

प्रज्ञाकरणस्यावधिमाह। तावदिति। अभ्यासस्य दीर्घकालादरनैरन्तर्यवत्त्वं यत्नः॥८८५॥

श्लोकांश्च गौडपादादेर्यथोक्तार्थस्य साक्षिणः॥
अधीयतेऽत्र यत्नेन संप्रदायविदः स्वयम्॥८८६॥

ज्ञाततत्त्वेनाप्यज्ञानध्वंसार्थं ज्ञानाभ्यासः कार्य इत्यत्र मानमाह। श्लोकांश्चेति। आदिपदेन व्यासादिग्रहः। यथोक्तार्थः सप्तम्यर्थः। यत्नो गुरुशुश्रूषादिः॥८८६॥

तत्त्वमाध्यात्मिकं दृष्ट्वा तत्त्वं दृष्ट्वा तु बाह्यतः॥
तत्त्वीभूतस्तदारामस्तत्त्वादप्रच्युतो भवेत्॥८८७॥

तत्र गौडपादीयं श्लोकद्वयं पठति। तत्त्वमित्यादिना। शरीरादि पृथिव्यादि च सर्वं परमार्थात्मवस्तुमात्रं तद्व्यतिरेकेणासद्वाचारम्भणमित्यनुभूय तत्र कल्पनाधिष्ठानत्वेन स्वयंस्थितस्तन्निष्ठो विषयासक्तिविवर्जितो ब्रह्मास्मीति सम्यग्धीपरः स्यादित्यर्थः॥८८७॥

यदा न लीयते चित्तं न च विक्षिप्यते पुनः॥
अनिङ्गनमनाभासं निष्पन्नं ब्रह्म तत्तदा॥८८८॥

वैतथ्यप्रकरणस्थं वाक्यमुक्त्वाऽद्वैतप्रकरणस्थं वाक्यमाह। यदेति। लये संबोधयेच्चित्तमित्यादिनोक्तोपायेन निगृहीतं चित्तं यदा सुषुप्तवन्न लीयते न च पुनर्विषयेषु विक्षिप्यते निर्वातदीपवदचलं न केनचित्कल्पितेन विषयाकारेण भासते तदा ब्रह्मरूपेण निष्पन्नं भवतीत्यर्थः॥८८८॥

मन एव मनुष्याणां कारणं बन्धमोक्षयोः॥
बन्धाय विषयासक्तं मुक्त्यै निर्विषयं यदा॥८८९॥

तत्रैव वैयासिकं वाक्यद्वयमाह। मन इत्यादिना। कथमेकस्यैव मनसो1339 विरुद्धफलवत्त्वं तत्राऽऽह। बन्धायेति॥८८९॥

तावदेव निरोद्धव्यं हृदि यावत्क्षयं गतम्॥
इदं ज्ञानं च ध्यानं च शेषोऽन्यो ग्रन्थविस्तरः॥८९०॥

तन्निरोधस्यावधिमाह। तावदिति। हृदि ज्ञानात्मनीति यावत्। आत्मज्ञानं मनोनिग्रहं वा स्तौति। इदमिति। अन्यो ग्रन्थविस्तरोऽस्यैव शेष इति योजना॥८९०॥

इति व्याचक्षते केचिद्विज्ञायेति वचः स्फुटम्॥
महामीमांसका धीरा अत्र प्रतिविधीयते॥८९१॥

स्वयूथ्यमतमुपसंहरति। इति व्याचक्षत इति। सिद्धान्तयति। अत्रेति॥८९१॥

यदाऽसाधारणाऽविद्या प्रत्यगात्मैकगोचरा॥
अज्ञानाद्यात्मिका सिद्धा द्वैविध्यं स्यात्तदा कुतः॥८९२॥

तदेव प्रकटयन्परोक्तमविद्याद्वैविध्यं निरस्यति। यदेति। अविद्या खल्वज्ञानसंशयमिथ्याज्ञानात्मिका प्रत्यङ्मात्रस्था सती तदसाधारणा यदेष्टा तदा प्रतीचोऽद्वयस्य निर्विशेषत्वात्तत्र तद्भेदायोगाद्भ्रान्त्यादिनिदानमेकैवाविद्या न तद्द्वैविध्यमित्यर्थः॥८९२॥

अज्ञात एव सर्वत्र मानानां मेय उच्यते॥
आत्मैव ज्ञेय एष्टव्यो ध्रुवमैकात्म्यवादिना॥८९३॥

कथं तस्याः1340 प्रत्यङ्मात्रगोचरत्वेनासाधारण्यं तत्राऽऽह। अज्ञात इति। अज्ञातस्य मानविषयत्वादात्मैवाज्ञातत्वेन तद्विषयः सर्वैरेष्टव्यस्तस्मात्तदेकगोचरा तदसाधारणाऽविद्या न द्विविधेत्यर्थः। सर्वत्र सर्वेषु शास्त्रेष्विति यावत्। ऐकात्म्यवादिनेत्युपलक्षणं सर्वैः परीक्षकैरिति द्रष्टव्यम्॥८९३॥

अज्ञातोऽर्थोऽन्यतो यस्मान्नैवैकात्म्यात्प्रसिध्यति॥८९४॥

न चानधिगतत्वस्य प्रसिद्धिः स्यात्प्रमाणतः॥
अतिशीतेरसद्भावान्न च बाधोऽस्य माश्रयात्॥८९५॥

अज्ञातस्य मेयत्वेऽप्यात्मन एव कथं तथात्वमित्याशङ्क्य ध्रुवमिति सूचितमाह। अज्ञात इति। अन्यस्याज्ञानहेतुत्वात्तस्मादात्मैवाज्ञातो मेय इति शेषः। किंचानात्मनोऽज्ञातत्वं मानाद्वा स्वमहिम्ना वा सिद्धं नाऽऽद्य इत्याह। न चेति॥८९४॥८९५॥

न चाप्यनात्मना सि1341द्धिरज्ञातस्येह वस्तुनः॥
तस्याप्यविद्यारूपत्वाज्जडोऽनात्मेति हीष्यते॥८९६॥

नापि द्वितीय इत्याह। न चापीति। स्वगताज्ञातत्वस्यानात्ममहिम्ना न सिद्धिरित्यत्र हेतुस्तस्येति। अविद्यावदित्यपेरर्थः। अनात्मनः स्वतःसाधकत्वास्वीकाराच्च न तद्वशात्तदज्ञातत्वसिद्धिरित्याह। जड इति॥८९६॥

अतो मात्राद्यभावेऽपि योऽज्ञातत्वस्य सिद्धये॥
अलमर्थः स एवात्र मेयोऽज्ञात इहेष्यते॥८९७॥

साधकाभावादनात्मनोऽज्ञातत्वायोगे ने फलितमाह। अत इति। अत्रेति स्वापादेरिहेति मानभूमेरुक्तिः। स एवाज्ञातः स मेय इष्यत इति संबन्धः॥८९७॥

बोधमात्रातिरेकेण नान्योऽर्थोऽज्ञानसिद्धिकृत्॥
अज्ञानादित्रयं तस्मात्स्वतोबोधैकसंश्रयम्॥८९८॥

अज्ञातत्वसाधकोऽर्थोऽज्ञातो मेयोऽस्तु तथाऽपि प्रतीचि किमायातं तदाह। बोधेति। प्रतीचोऽज्ञानविषयत्व- वदाश्रयत्वमपीत्याह। अज्ञानादीति। आश्रयान्तरदृष्ट्यभावस्तच्छब्दार्थः॥८९८॥

संभाव्यते जगत्यस्मिन्बोधमात्रपुरःसरम्॥८९९॥
अज्ञायमानो मात्रादिर्न यस्मादनुभूयते॥
अज्ञातचितिवत्तस्मादज्ञातोऽनुभवः स्मृतः॥९००॥

अज्ञानाद्यात्ममात्राश्रितमित्यत्रानुभवं प्रमाणयति। संभाव्यत इति। अनुभवासिद्धमपि त्रयं मात्राद्याश्रयं किं न स्यात्तत्राऽऽह। अज्ञायमान इति। यथा चिदात्मा तदाश्रयो दृश्यते न तथा मात्रादिस्तस्य सदाऽनुभवग्रस्तत्वादतंश्चिदात्मैव तदाश्रय इत्यर्थः॥८९९॥९००॥

अज्ञातायां यथा शुक्तौ रजताद्यर्थनिश्चितिः॥
अनात्मनिश्चितिस्तद्वदज्ञातेऽनुभवात्मनि॥९०१॥

इतश्चाऽऽत्मैवाज्ञातइत्याह। अज्ञातायामिति। शुक्त्यज्ञानविवर्तरजतस्येवाऽऽत्माज्ञानविलसितस्याऽऽकाशादेरपि नाज्ञातत्वसिद्धिरित्यर्थः॥९०९॥

ज्ञानात्पृथगसंसिद्धे रजतादेरमेयता॥
शुक्तेरिव त्वविज्ञातज्ञातत्वस्य ततोऽन्यतः॥९०२॥

शुक्तिकादावज्ञाते रजतादिनिश्चयो युक्तस्तस्याप्रामाण्यादात्मन्यज्ञाते नानात्मनिश्चयस्तस्य सम्यक्त्वेन प्रामाण्यादित्याशङ्क्य रजतादिनिश्चयवत्तदप्रामाण्यार्थं तस्याप्रामाण्यं साधयति। ज्ञानादिति। रजतादिज्ञानस्य प्रामाण्यं तद्विषयत्वेन शुक्त्यादिविषयत्वेन वा नाऽऽद्यः शुक्तेरज्ञाताया ज्ञातत्वस्य रजतादन्यत्वेन सिद्धिवत्तस्य ततः पृथगज्ञातत्वस्य ज्ञातत्वस्य च ज्ञानादसिद्धेर्मेयत्वायोगादित्यर्थः॥९०२॥

यतो न लभते मेयं शुक्तौ रजतधीरतः॥
न रूप्यधीः प्रमाणं स्यात्प्रमेयासंभवादिह॥९०३॥

रजतादेर्मेयत्वाभावे फलितमाह। यत इति। इह शुक्ताविति संबन्धः॥९०३॥

यथा न रजते मानं शुक्तावपि तथैव सा॥
तदप्रबोधताबाधात्तस्याश्चाशुक्तिकात्मनः॥९०४॥

द्वितीयं दूषयति। यथेति। रजतादिधियो रजतादाविव शुक्त्यादावपि न मानता तदज्ञानाध्वंसित्वात्तदाकारत्वाभावाच्चेत्यर्थः॥९०४॥

यथैवं सर्वमानानि प्रत्यङ्मानातिरेकतः॥
अनात्ममेयभावञ्ज्येवविज्ञेयानीति निश्चितिः॥९०५॥

रजतादिज्ञानाप्रामाण्यमुक्त्वा तद्दृष्टान्तेनानात्मज्ञानानामप्यप्रामाण्यमाह। यथेति। यथोक्तरीत्या रजतादिधीर्न मानं तथा प्रत्यग्ज्ञानमेकं हित्वा सर्वाण्यनात्ममानान्येवममानानि ज्ञेयानि विषयाभावादनात्मन्यज्ञातत्वज्ञातत्वयोरयोगादज्ञा- नाध्वंसित्वादतदाकारत्वाच्च तन्मृषैवानात्मधीर्भवतीत्यर्थः॥९०५॥

प्रत्यक्संवित्त्वविज्ञाता तथैवे1342हानुभूयते॥
अपि प्राङ्मानसंव्याप्तेर्यावव्द्युत्पाद्यते न ना॥९०६॥

प्रत्यङ्मानातिरेकत इतिविशेषणतात्पर्यमाह। प्रत्यगिति। प्रतीच्यज्ञातत्वस्यानुभवसिद्धत्वात्तदाकारज्ञानस्य तदज्ञानध्वंसित्वाच्च तत्र मानतेत्यर्थः। अज्ञातत्वस्याऽऽत्मन्यनुभवसिद्धत्वं स्फुटयति। अपीति। यावदेष पुरुषो नासि संसारी किंतु सदेवेति न व्युत्पाद्यते तावन्मानसंबन्धात्पूर्वं स्वप्रकाशेऽपि स्वानुभवसिद्धमज्ञातत्वमित्यर्थः॥९०६॥

वास्तव्येव तु संसिद्धिरनुभूतेर्यतस्ततः॥
नाज्ञातत्वस्य बाधः स्याच्छुक्तिकाबाधसिद्धिवत्॥९०७॥

तथाऽपि सवितारे तमोहानवत्तद्बाधितमेवेत्याशङ्क्य वाक्योत्थज्ञानात्स्वरूपज्ञानाद्वेति विकल्प्याऽऽद्यं प्रत्याह। वास्तवीति। चिदात्मनः स्वरूपस्फूर्तिरेव सदा वर्तते न वाक्यीया तन्न तद्बलादात्मन्यज्ञातत्वस्य सदा बाधेत्यर्थः। द्वितीयं दूषयति। नेत्यादिना। यथा शुक्त्या न स्वाज्ञातत्वबाधस्तथा न स्वरूपज्ञानेनान्यथाऽतिप्रसङ्गादित्यर्थः॥९०७॥

मानेनानभिसंबन्धान्नेयं षष्ठेन्द्रियार्थवत्1343
अनुभूतेः सुषुप्त्यादेर्न चाप्यनुभवत्वतः॥
निरपेक्षा प्रमाणातौ मानाप्तकरबिल्ववत्॥९०८॥

वाक्योत्था मितिः सदा नास्ति चेन्न तर्हि स्वरूपज्ञानमपि सदा स्यान्मानाभावादित्याशङ्क्याऽऽह। मानेनेति। अनुभूतिरमेयाऽपि नासतीत्यत्र हेतुमाह। अनुभूतेरिति। स्वापादिसाधकत्वेन स्वतः सिद्धेरिति यावत्। सा तर्हि मानेन स्वप्राप्तौ निरपेक्षा स्वतःसिद्धत्वात्तत्कथमौपनिषदत्वमित्याशङ्क्याऽऽह। न चेति। प्रत्यक्षाप्तं करतलकलितं बिल्वफलं न पुनर्मानाप्तिमपेक्षते न तथाऽनुभूतिः स्फुरद्रूपत्वेऽपि मानेन स्वाप्तावनपेक्षा स्वाज्ञानध्वंसित्वेन वाक्योत्थधीसापेक्षत्वादित्यर्थः॥९०८॥

प्रमाणव्यापृतेः पूर्वमेवं मेयोऽत्र लभ्यते॥९०९॥
नैवं वेदान्तसिद्धान्तादन्यसिद्धान्तशासने॥
मेयसिद्धिर्यतस्तस्मान्न मानं तत्र विद्यते॥९१०॥

चिदात्मैवाज्ञातो मे इत्युक्तमुपसंहरति। प्रमाणेति। एवमित्यनुभवानुसारोक्तिः। अत्रेति सिद्धान्तोक्तिः। स्वपक्षे मानप्रवृत्तिमुक्त्वा परपक्षे तदयोगमाह। नैवमिति॥९०९॥९९०॥

इह त्वज्ञात आत्मैव मिथ्याज्ञातस्तथैव च॥
तस्य प्रमाणसंबन्धात्सर्वाज्ञानप्रहाणतः॥९११॥

तत्र मानफलमपि नास्तीति मत्वा स्वपक्षे तत्सत्त्वमाह। इह त्विति। तथैवेति संदिग्धत्वसमुच्चयः। सर्वाज्ञानप्रहाणतः किं कार्यमवशिष्यत इति संबन्धः॥९११॥

तत्त्वमस्यादिवाक्येभ्यः सर्वज्ञानप्रसूतितः॥
सर्वाज्ञानापनुत्तेश्च ज्ञेयकार्यसमाप्तितः॥९१२॥

आत्मनो मानसंबन्धात्कथं सर्वाज्ञानध्वस्तिस्तन्मानसंबन्धे तदज्ञानध्वस्तिरेव युक्ता तत्राऽऽह। तत्त्वमिति। वाक्यवशादात्मनि ज्ञाते तदन्यवस्त्वभावादेकविज्ञानेन सर्वविज्ञानन्यायेन सर्वत्र ज्ञानोत्पत्तेः सर्वाज्ञानध्वस्तिरित्यर्थः। तत्फलमाह। सर्वेति॥९१२॥

प्राप्यस्य सर्वस्यावाप्तेस्तथा हेयस्य हानतः॥
सम्यग्धियः सकृत्सूतेः किं कार्यमवशिष्यते॥९१३॥

प्राप्यपरिहार्ययोरवशेषं शङ्कित्वाऽऽह। प्राप्यस्येति। ब्रह्मविदोऽप्यनुष्ठानं केचिदिच्छन्ति तान्प्रत्याह। सम्यगिति। सकृत्सूतेरुक्ताशेषफलसिद्धेरिति शेषः॥९१३॥

अविद्या पूर्ववच्चेत्स्यात्सम्यग्ज्ञातेऽपि वस्तुनि॥
भूयोऽपि सा मृतेरूर्ध्वं नेष्यतीत्यत्र का प्रमा॥९९४॥

आत्मैवाज्ञश्चाज्ञातश्चेति वदता द्वैविध्यमज्ञानस्य निरस्तमिदानीं ध्वस्तेनाज्ञानेन पुनरुद्भूतेन ज्ञानं बाध्यमित्युक्तमनुभाष्य दूषयति। अविद्येति। तत्त्वज्ञानानन्तरमप्यविद्योद्भूतौ विदेहकैवल्यादूर्ध्वमपि तदुद्भवसंभवादमुक्तिरित्यर्थः॥९१४॥

अविद्याविद्ययोर्यस्माद्बाध्यबाधकसंगतिम्॥
मुक्त्वाऽन्यो नास्ति संबन्धो दाह्मदाहकयोरिव॥९१५॥

ध्वस्ताऽपि पुनरुद्भवत्यविद्येत्येतन्निरस्य विद्योदयमात्रान्न सा ध्वस्ता किंतु तिरोभूता पुनर्व्यक्ता भविष्यतीत्याशङ्क्याऽऽह। अविद्येति। तस्मादविद्या विद्यया भवति ध्वस्तैव न तिरोभूतेति शेषः॥९१५॥

बाध्याऽविद्या कथं विद्यां बाधिकां बाधते वद॥
दाहकस्य न दाहोऽस्ति वह्नेर्दाह्येन वस्तुना॥९१६॥

यत्त्वविद्या विद्याया बाधिकेति तन्निरस्यति। बाध्येति। अविद्याया बाधकत्वं दाह्यस्य दाहकत्ववदयुक्तमित्यर्थः॥९१६॥

विद्यमानाऽप्यविद्येयं विद्यां चेन्नावधीत्पुरा॥
ध्वस्ता बाधिष्यतेऽविद्या विद्यामित्यत्र का प्रमा॥९१७॥

किंचाविद्या विद्यमाना विद्यां बाधतेऽविद्यमान्तवा नाऽऽद्यः परिपन्थिन्यामनाद्यविद्यायां विद्यानुदयप्रसङ्गादित्याभिप्रेत्य द्वितीयं दूषयति। विद्यमानेति॥९९७॥

अविद्यया चेद्विध्वस्ता विद्येयं कार्त्स्न्यतस्तदा॥
मुषितात्मपरिज्ञानः प्रज्ञां कुर्यात्कथं जडः॥९१८॥

यत्तु यस्मादेवंस्वभावैषेत्यादि तद्दूषयति। अविद्ययेति॥९१८॥

किंच हेतुमतो जन्म सर्वत्र स्यात्पुनः पुनः॥
सर्वहेतोस्त्वविद्याया ध्वस्तायाः स्यात्कुतो भवः॥९१९॥

इतश्च ध्वस्ताऽविद्या न पुनरुद्भवतीत्याह। किंचेति। सा हि पुनर्भवन्ती हेतुमपेक्षते न वा न चेत्तत्राऽऽह। हेतुमत इति। अपेक्षते चेत्तत्र पृच्छति। सर्वेति। अर्थान्तराद्ब्रह्मणो वेति प्रश्नार्थः॥९१९॥

ब्रह्मणश्चेद्भवस्तस्या अनिर्मोक्षः प्रसज्यते॥
स्थास्नुत्वाद्ब्रह्मणो नित्यं किरणानां रवेरिव॥९२०॥

नाऽऽद्योऽविद्यातज्जातिरेकितदभावादिति मत्वा कल्पान्तरमादाय दूषयति। ब्रह्मणश्चेदिति। प्रसङ्गं प्रकटयति। स्थास्नुत्वादिति॥९२०॥

अनादेर्नाप्यनुच्छित्तिः सर्वत्रोच्छित्तिदर्शनात्॥
अनाद्यज्ञातमे1344येषु ह्यज्ञानस्य प्रहाणतः॥९२१॥

हेत्वभावादविद्याया नोत्पत्तिश्चेदुच्छित्तिरपि न स्यादनादित्वादात्मवदिति प्रासङ्गिकीं शङ्कां प्रत्याह। अनादेरिति। सर्वत्रेत्यादि स्फुटयति। अनादीति। तेष्वज्ञातत्वं तद्धानिश्चानु1345भवादिति शेषः। संभवत्यनाद्यज्ञानोच्छित्तिसिद्धिरिति हिशब्दार्थः॥९२१॥

अनाद्यज्ञानवन्मेयमूरीकृत्येह सर्वतः॥
उच्छिन्दन्ति प्रमाणानि ह्यज्ञातत्वं प्रमेयगम्॥९२२॥

अर्थेष्वज्ञातत्वध्वंसेऽपि कथमनाद्यज्ञानध्वस्तिरित्याशङ्क्याऽऽह। अनाद्यज्ञानेति। न हि मानानि मेयस्थमज्ञातत्वमज्ञाने स्थिते बाधितुं पारयन्तीत्यर्थः। तदध्वंसित्वे प्रमाणानर्थक्यमित्यवद्योतनार्थे हिशब्दः॥९२२॥

न च कारणसंसर्गोनाशोऽज्ञानस्य भण्यते॥
उरगादेः स्रजीवास्य ब्रह्मणोऽकारणत्वतः॥९२३॥

तथाऽपि ध्वंसस्य कारणसंसर्गत्वात्पुनरुद्भवः स्यादित्याशङ्क्याऽऽह। न चेति। स्रजि कल्पितस्य सर्पादेर्नाशो न कारणसंसर्गः किंतु स्रङ्मात्रता तथा ब्रह्मण्यज्ञाननाशोऽपि न कारणसंसर्गात्मको ब्रह्मणस्तदकारणत्वात्तस्य चाकार्यत्वादित्यर्थः॥९२३॥

अज्ञातज्ञापनं मुक्त्वा न चेहास्त्यपरो विधिः॥
तावतैव कृतार्थत्वान्न कार्यमवशिष्यते॥९२४॥

यतु तावत्प्रज्ञां प्रकुर्वीतेत्यादि तन्निरस्यति। अज्ञातेति। इहेति मोक्षशास्त्रोक्तिः तत्र हेतुः। तावतेति॥९२४॥

आत्मैव कारणं यस्य सर्वज्ञानस्य कार्यतः॥
आत्मान्वितेः स्वतः सिद्धेर्न कार्या तस्य चाऽऽत्मधीः॥९२५॥

किंच लौकिकात्मज्ञाने तत्संताने वा विधिर्वैदिकात्मज्ञाने तत्संताने वाऽऽद्येऽपि प्राभाकरनयेन वा भाट्टमतेन वा सांख्यानुमत्या वा वेदान्तिमतेन वा वैशेषिकभाषया वो लोकायतनीत्या वेति विकल्प्याऽऽद्यं दूषयति। आत्मैवेति। गुरुमते ज्ञानमात्रस्याऽऽत्मैवाऽऽश्रयस्तथाच ज्ञानस्याऽऽश्रितत्वात्तस्मिन्नाश्रयत्वेनाऽऽत्मान्वयात्तस्य विधिं विना सिद्धेर्नाऽऽत्मज्ञाने तत्संताने वा विधिर्घटादिज्ञानेऽपि तदाश्रयत्वेनाऽऽत्मदृष्टेरित्यर्थः॥९२५॥

अंशांशिसंगतेरात्माऽप्यहंबुद्ध्याऽनुभूयते॥
तस्यापि नित्यसंबन्धान्न विधेयाऽऽत्मधीरियम्॥९२६॥

द्वितीयं निरस्यति। अंशेति। द्रव्यबोधावंशावंशी चाऽऽत्मेति संगतिर्यस्य भाट्टस्यास्ति तस्याप्यहमिति बुद्ध्या यस्मादात्माऽनुभूयते तस्मात्तस्य ज्ञानस्य च विना विधिं! सदा संबन्धादात्मधीस्तत्संततिर्वा न विधेयेत्यर्थः॥९२६॥

आत्मानात्मपरिज्ञाने यस्य साधारणं मतम्॥
करणं बुद्धिरेवेह न तं प्रत्यपि1346 चोदना॥९२७॥

तृतीयं प्रत्याह। आत्मेतिसांख्यमते सर्वप्रतिपत्तौ बुद्धेः साधारणकरणत्वात्तद्बलादात्मधीसिद्धेर्नाऽऽत्म- ज्ञानतत्संतत्योर्विधिरित्यर्थः॥९२७॥

बुद्ध्यादेर्विषयान्तस्य प्रतीचोऽन्यस्य वस्तुनः॥
आत्मात्मीयत्वतस्तस्माच्चित्स्वभावमिदं जगत्॥९२८॥

चतुर्थं शिथिलयति। बुद्ध्यादेरिति। वेदान्तिमते प्रतीचस्ततोऽन्यतया भासमानवस्तुनश्चाऽऽत्मात्मीयतया संबन्धात्सर्वं जगच्चित्स्वभावं निश्चीयते तस्मात्तन्मतेऽपि न ज्ञानादौ विधिरित्यर्थः॥९२८॥

चित्स्वभावं सदा1347 तत्स्यादन्यहेत्वनपेक्षणात्॥
धर्माधर्माद्यपेक्षत्वादनात्माकारतां प्रति॥९२९॥

सर्वस्य चित्स्वभावत्वे हेत्वन्तरमाह। चिदिति। न हि जगदौपनिषदे दर्शने चिदतिरिक्तं हेतुमपेक्षते जन्मादिसूत्रमारभ्य प्रकृतिश्चेति न्यायान्न च कारणातिरिक्तं कार्यमारम्भणाधिकरणविरोधादतः सर्वं चिन्मात्रमित्यर्थः। तस्यादृष्टत्वा1348द्यपेक्षत्वादन्यहेत्वनपेक्षत्वमप्र-

सिद्धमित्याशङ्क्याऽऽह। धर्मेति। अनात्मनः स्वरूपसत्तां प्रत्यात्माविद्योत्थधर्मादिनिमित्तापेक्षत्वेऽपि नोपादानान्तरापेक्षाऽतो युक्ता तस्य चिन्मात्रतेत्यर्थः॥९२९॥

वियत्संपूर्णतां नर्ते घटो नानाविधैर्युतिम्॥
द्रव्यैर्यायाद्वियोगं वा संविदर्ते तथा धियः॥९३०॥

बुद्ध्यादिविषयान्तस्य सदा चिदात्मव्याप्तिं दृष्टान्तेन साधयति। वियदिति। आकाशव्याप्तो हि घटो दध्यादिभिः संयोगवियोगौ प्रतिपद्यते तथा संविद्व्याप्यं जगत्तत्तदर्थक्रियां प्राप्नोतीत्यर्थः॥९३०॥

शब्दाद्याकारतां यान्ति संशयाद्यात्मतां तथा॥
प्रत्यक्वित्पूर्णतां मुक्त्वा शून्यतां न च ताः सदा॥९३१॥

दार्ष्टान्तिकं प्रपञ्चयति। शब्दादीति। न हि धियःसंविद्व्या1349प्तिं मुक्त्वा भावमभावं वाऽऽकारं धारयन्ति जडत्वात्स्वतोऽर्थक्रियायामसामर्थ्यादतः सदा जगत्पूर्णं चिदात्मनेत्यर्थः॥९३१॥

यतोऽतो नाऽऽत्मधीः कार्या नापि तत्संततिस्तथा॥
स्वभावादेव तत्सिद्धेः सर्वप्राणभृतामपि॥९३२॥

सर्वस्य सर्वदा तद्व्याप्तौ फलितमाह। यत इति। अतः शब्दार्थं स्पष्टयति। स्वभावादिति। तच्छब्देनाऽऽत्मधीतत्संतती गृह्येते॥९३२॥

सर्वेषामपि भिन्नानां तथाऽभेदत्वहेतुतः॥
न कार्यैवाऽऽत्मधीः पुंभिः कृतत्वादेव हेतुतः॥९३३॥

इतश्चास्मन्मते नाऽऽत्मज्ञानतत्संतत्योर्विधेयतेत्याह। सर्वेषामिति। भेदप्रपञ्चस्य सर्वस्याऽऽत्माभेदेन तज्ज्ञानस्याप्यात्मज्ञानत्वात्तस्मिन्नयत्नसिद्धे न विधिरित्यर्थः। तथोक्तचिद्व्याप्त्यनुसारेणेति यावत्॥९३३॥

आत्माधाराणि यस्यापि ज्ञानादीनीह वादिनः॥
तस्यापि नाऽऽत्मधीः कार्या नित्यप्राप्तत्वकारणात्॥९३४॥

पञ्चमं पराकरोति। आत्मेति। आदिशब्देनेच्छाप्रयत्नादिग्रहणम्। इहेति व्यवहारावस्था कथ्यते॥९३४॥

देहस्य सर्वदैवास्य जीवतश्चित्स्वभावतः॥
स्वभाववादिनोऽपीयं कार्या नैवाऽऽत्मधीस्तथा॥९३५॥

षष्ठमपास्यति। देहस्येति। वाद्यन्तरं दृष्टान्तयितुमपिशब्दः। जीवतो देहस्य चित्स्वभावत्वमनुभवानुसारीति वक्तुं तथाशब्दः॥९३५॥

नियमे परिसंख्यायां सर्वानात्मासमीक्षणात्॥
वैयर्थ्यं कर्मकाण्डस्य निर्मूलत्वात्प्रसज्यते॥९३६॥

लौकिकात्मज्ञानतत्संतत्योर्विधिर्वादिभेदेन निरस्तः। संप्रति वैदिकात्मधीतत्संतत्योर्विधिपक्षे किमपूर्वो नियमो वा परिसंख्या वेति विकरूप्यात्यन्ताप्राप्त्यभावादाद्यायोगं मत्वेतरौ दूषयति। नियम इति। तत्रानात्मज्ञानाभावादमूलं कर्मकाण्डममानं ते स्यादित्यर्थः॥९३६॥

न चापि नित्यप्राप्तत्वात्तयोरस्तीह संभवः॥
अप्राप्तांसे यतो नित्यं विधिः सर्वोऽपि चेष्यते॥९३७॥

आत्मज्ञाने विधिद्वयमङ्गीकृत्योक्त्वा तदयोगे हेत्वन्तरमाह। न चेति। आत्मज्ञानस्य नित्यप्राप्तावपि तयोस्तत्र काऽनुपपत्तिस्तत्राऽऽह। अप्राप्तेति। उभयोः पक्षप्राप्तौ नियमो नित्यप्राप्तौ परिसंख्या वाक्योत्थज्ञानानन्तरं तु तदेव सदेति नोभयोरिह संभावनेत्यर्थः॥९३७॥

कर्तव्यमात्मविज्ञानमित्यत्रैव निराकृतः॥
विधिः सर्वप्रकारोऽपि न त्वबुद्धार्थबोधनम्॥९३८॥

आत्मज्ञाने न कोऽपि विधिरित्यत्र द्रष्टव्यवाक्योक्तन्यायं स्मारयति। कर्तव्यमिति। अनेन द्रष्टव्यवाक्यमर्थतोऽनूद्यते। सर्वप्रकारो विधिर्निरस्तश्चेदज्ञातज्ञापनस्यापि निरासादज्ञातज्ञापनं मुक्त्वा न चेहास्त्यपरो विधिरित्युक्तिव्याहतिरित्याशङ्क्याऽऽह। न त्विति। प्रवर्तकविधिनिरासेऽपीतरदिष्टमेवेत्यर्थः॥९३८॥

कर्तव्यता न साध्यस्य विज्ञातत्वाद्विधीयते॥
दुःखत्वाच्च न यागस्य द्युपायोऽतोऽत्र बोध्यते॥९३९॥

किंच कर्मकाण्डेऽपि प्रवर्तको विधिर्न संभवति ज्ञानकाण्डे तु सुतरामित्यभिप्रेत्याऽऽह। कर्तव्यतेति। यदा सा विधेया तदा फलस्य भावार्थस्य वा सा नाऽऽद्योऽभिलाषगोचरीभूतं हि फलं तत्र सा रागप्राप्ता न विध्यपेक्षा न द्वितीयः क्लेशात्मनस्तस्य कर्तव्यानुपपत्तेरतो न कर्मकाण्डस्यापि तद्विधायकत्वमित्यर्थः। कथं तर्हि तस्य प्रामाण्यं तत्राऽऽह। उपाय इति। अज्ञातेष्टसाधनताज्ञानहेतुत्वेन तत्प्रामाण्यमित्यर्थः। विधेयान्तराभावो हिशब्दद्योतितोऽतःशब्देन परामृश्यते। सप्तम्या तु कर्मकाण्डं गृह्यते॥९३९॥

प्रवृत्तिरप्रवृत्तिर्वा मेयवस्त्वनुरोधिनी॥
प्रमाऽत्र बोधिकैवातो न प्रवृत्तिः प्रमाणतः॥९४०॥

प्रवर्तको नियोगो नेष्टश्चेत्तर्हि शब्दस्तथेति भावनावादिनस्तान्प्रत्याह। प्रवृत्तिरिति

मेयेऽर्थे शोभनाशोभनाध्यासद्वारा रागद्वेषाभ्यां प्रवृत्तिनिवृत्ती न शब्दात्स त्विष्टानिष्टोपायमात्रं ज्ञापयत्यतो न शब्दस्य प्रवर्तकतेत्यर्थः॥९४०॥

कर्त्रादिहेतुच्छित्तेश्च प्रवृत्तेर्नास्ति संभवः॥
सम्यग्ज्ञानसमुत्पत्तौ मेयस्याकारकत्वतः॥९४१॥

कर्मकाण्डे प्रवर्तकविध्यसंभवोक्त्या ज्ञानकाण्डे तदयोगमुक्त्वा ज्ञाने सति तदयोगे हेत्वन्तरमाह। कर्त्रादीति। मात्रादेर्ध्वस्तत्वादात्मनश्च कौटस्थ्याज्ज्ञाने सति प्रवृत्त्ययोगान्न प्रवर्तको विधिरित्यर्थः॥९४१॥

अज्ञानध्वंसि विज्ञानं न च कारकरूपताम्॥
गृहीत्वेह तमो हन्ति द्वैधीभावेऽसिवत्क्वचित्॥९४२॥

ज्ञाने सति प्रवृत्त्यन्तराभावेऽप्यभ्यासाख्यप्रवृत्तिसंभवात्प्रवर्तकविधिरित्या1350शङ्क्याऽऽह। अज्ञानेति। इहेति प्रत्यगुक्तिः। वैधर्म्यदृष्टान्तो द्वैधीभाव इति कुठारादिकारकवद्बोधकं प्रमाणं नाऽऽवृत्तिमपेक्ष्य फलवदित्यर्थः॥९४२॥

प्रत्यग्बोधोऽप्रमः सिद्ध आगमापायिमातृवत्॥
प्रत्यङ्मात्रफलत्वेन साक्षित्वेन च सर्वदा॥९४३॥

अथाऽऽत्मज्ञानमात्मानं बोधयत्येव न तत्तमो हन्ति तद्धानिस्तु विध्यधीनादभ्यासादित्याशङ्क्याऽऽह। प्रत्यगिति। न तावदात्मनो मानाधीना सिद्धिः स्वप्रकाशत्वान्मात्रादिसाक्षित्वाच्च यथा मातुरात्मसाक्ष्यत्वान्न मानाधीना सिद्धिस्तद्वत्तस्मादात्मज्ञानं निवर्तकमेवेत्यर्थः॥९४३॥

अनात्मवस्तुना नाऽऽत्माऽकारकत्वाद्विना तमः॥
संबन्धं लभते साक्षात्तथाऽनात्माऽपि चाऽऽत्मना॥९४४॥

साक्षित्वकृतमात्मानात्मनोः संबन्धमाशङ्क्य स वास्तवोऽवास्तवो वा नाऽऽद्योऽसङ्गत्वश्रुतिविरोधादिति मत्वाऽऽह। अनात्मेति। अकारकत्वादिति च्छेदः॥९४४॥

बुद्ध्यादिर्जडरूपत्वात्स्वमहिम्ना न सिध्यति॥
बोधात्मवत्स्वतःसिद्धप्रत्यक्सिद्ध्यैव सिध्यति॥९४५॥

द्वितीयमङ्गी करोति। बुद्ध्यादिरिति। न तावदात्मवबुद्ध्यादिः स्वतः सिध्यति जडत्वात्किंतु स्वप्रकाशप्रत्यक्चैतन्यवशात्तत्राध्यस्तस्तथाचाऽऽध्यासिकसंबन्धसिद्धिरित्यर्थः॥९४५॥

स्वार्थं प्रत्येव सर्वोऽपि परार्थोऽर्थः प्रसिध्यति॥
यथा स्वप्नविनिर्माणं सिध्येत्स्वप्नदृशं प्रति॥९४६॥

बुद्ध्यादेरभ्यस्तस्य प्रतीच्यधिष्ठानभूतप्रत्यक्प्रसादात्सिद्धिरित्येतदृष्टान्तेन साधयति। स्वार्थमिति॥९४६॥

पृथक्त्वे वाऽपृथक्त्वे वा नैव तस्य मृषात्मता॥
पृथक्त्वे स्वमहिम्नैव तस्य सिद्धेः परात्मवत्॥९४७॥

किंचाऽऽत्मन्यध्यस्तं जगत्ततो भिन्नमभिन्नं वेति विकल्प्य कल्पितं संबन्धमेव स्फुटयति। पृथक्त्वे वेति। कथमुभयथाऽपि मिथ्यात्वासिद्धिरित्याशङ्क्याऽऽद्ये तदसिद्धिं प्रकटयति। पृथक्त्व इति। भेदे सत्यात्मसंबन्धस्य दुर्वचनत्वात्स्वतः सिद्धिरसिद्धिर्वाऽनात्मनः स्यान्नोभयथाऽपि मिथ्यात्वं न ह्यात्मा स्वतः सिद्धो मिथ्या दृष्टो न चासिद्धो नभोनलिनादिस्तथाऽत्यन्तादृष्टस्य सतत्त्वादिविशेषासिद्धेरित्यर्थः॥९४७॥

आत्मत्वादपृथक्त्वे च मानं नाशे च नेक्ष्यते1351
परमार्थमनाविश्य न मिथ्येति1352 प्रसिध्यति॥९४८॥

द्वितीये मिथ्यात्वासिद्धिं स्फोरयति। आत्मत्वादिति। न मृषात्मतेति पूर्वेण संबन्धः। न चामि1353थ्यैव जगदस्तु जडत्वाद्रज्जुसर्पवदिति भा1354वः। आत्मनो भेदाभेदाभ्यां जगतोऽसिद्धावभावनिष्ठमेव तत्स्यादिति चेनेत्याह। मानमिति। न हि तदभावीभूतमित्यत्र मानं दृष्टमर्थक्रियाप्रतीतिविशेषविरोधश्च तदभाववादिनः स्यान्न च पूर्वं सदपि ज्ञानादूर्ध्वमसद्भविष्यति “नासतो विद्यते भावो नाभावो विद्यते सतः” इत्युक्तेरिति भावः। आत्मनो भेदाभेदात्मना मिथ्या जगन्न सिध्यति चेत्तर्हि तद्रहितात्मवत्तदपि स्वेन रूपेण स्वतन्त्रं स्यादित्याशङ्काऽऽह। परमार्थमिति॥९४८॥

क्लृसर्पाद्यभावोऽयं न स्रक्तत्त्वात्पृथङ्मितः1355
व्यतिरेकेण तत्सिद्धेर्नापि चाऽऽत्मानमन्वियात्॥९४९॥

कल्पितस्य नाधिष्ठानादृते भावाभावावित्यत्र दृष्टान्तमाह। क्लृप्तेति। अभावो भावोपलक्षणं तथाऽऽत्मातिरेकेण जगतो न भावाभावाविति शेषः। कल्पितजगतोऽधिष्ठानाद्भेदाभेदयोरसंभवे हेत्वन्तरमाह। व्यतिरेकेणेति॥९४९॥

स्वार्थस्य प्रत्यगात्मत्वात्प्रत्यग्याथात्म्यतोऽपि च॥
खण्डमुण्डादिवन्मत्तो नानात्मा लभते भिदाम्॥९५०॥

प्रातीतिकश्चेद्भेदः स तर्हि वास्तवोऽस्त्ववाधादित्याशङ्क्याऽऽह। स्वार्थस्येति॥९५०॥

सर्वमात्मेत्यतो वाक्यात्प्रत्यङ्गात्रैकरूपताम्॥
तदबोधप्रहाणेन प्रतीमो जगदात्मनः॥९५१॥

अन्वयव्यतिरेकाभावपरिहारेण जगतो वाक्यीयधीबाधितस्य प्रत्यङ्मात्रतया परिशेष इत्युपसंहरति। सर्वमिति॥९९१॥

तत्त्वबोधनं मुक्त्वा कार्यकारणवस्तुनः॥
अपूर्वाद्यर्थवचसा नान्वयाद्यवबोध्यते॥९५२॥

इदं सर्वं यदयमात्माऽपूर्वमनपरमनन्तरमित्यादिना जगतो ब्रह्मणोऽन्वयव्यतिरेकावुच्येते न त्वेतत्तत्त्वबोधनद्वारा प्रत्यङ्मात्रेऽवसितमित्याशङ्क्याऽऽह। तत्त्वेति॥९१२॥

बोधोऽप्यकारको यस्माद्धन्त्यज्ञानमिहाऽऽत्मनि॥
न चाऽऽवृत्तिव्यपेक्षः सन्व्यञ्जकत्वात्तमोपनुत्॥९५३॥

वैदिकात्मज्ञाने वि1356ध्यसंभवमुपसंहरति। वोधोऽपीति। अकारकोऽपीति संबन्धः। तस्मान्नास्मिन्विधिरिति शेषः। तदभ्यासेऽपि न सोऽस्तीति निगमयति। न चेति॥९५३॥

एवं स्वात्मनि विज्ञाते निष्क्रियेऽकारकेऽफले॥
प्रवृत्तौ वा निवृत्तौ वा को हेतुरिति भण्यताम्॥९५४॥

प्रवर्तकविध्यभावेऽपि ज्ञानिनो निवर्तकविधिः स्यादित्याशङ्क्याऽऽह। एवमिति॥९५४॥

प्रत्यङ्मात्रैकतां मुक्त्वा तदविद्यामृते न हि॥
विद्वान्रूपान्तरं पश्येद्यत्र हीति तथा श्रुतिः॥९५५॥

विदुषोऽपि द्वैतदृष्टिरेव तद्धेतुरित्याशङ्क्याऽऽह। प्रत्यगिति। न हि विद्वान्प्रत्यङ्मात्रमेकमन्तरेण रूपान्तरं पश्यत्यविद्याया द्वैतधीहेतोर्विद्यया बाधितत्वादित्थर्यः। अविद्याकृता द्वैतधीरित्यत्र मानमाह। यत्रेति। विदुषो द्वैतदृष्टेर्बाधितानुवृत्तित्वान्न प्रवर्तकत्वं निवर्तकत्वं वेति भावः॥९५५॥

नातोऽविद्यासमुच्छित्तौ ब्रह्मयाथात्म्यबोधतः॥
प्रतीचि भूयोऽविद्यायाः संभवोऽस्ति1357 प्रमाणतः॥९५६॥

ध्वस्ताऽप्यविद्या पुनरुद्भवन्ती द्वैतं दर्शयिष्यति तथाच वैधप्रवृत्त्यादिसिद्धिरित्याशङ्क्याऽऽह। नात इति। तत्त्वमादिवाक्यमतः शब्दार्थः॥९९६॥

रागादिदर्शनं यच्च ज्ञानिनोऽपीह चोद्यते॥
बाधितस्यैव तत्सूतेस्तदप्युक्ते न दूषणम्॥९५७॥

विदुषोऽपि रागादिदृष्टेरविद्याऽस्तीत्युक्तमनुभाषते। रागादीति। व्यवहारभूमिः सप्तम्यर्थः। ध्वस्ताऽविद्या पुनर्नोद्भवतीत्यत्र ज्ञानिनो रागादिदृष्टिर्न दोषमावहति तस्य

बाधितस्यैव विद्यादशायां दग्धपटन्यायेनाऽऽभासस्य दृष्टेरिति समाधत्ते। बाधितस्येति॥९५७॥

बाध्यबाधकयोर्यस्मात्संबन्धः सकृदेव तु॥
संबन्धोत्तरकाले तु1358 तत्स्मृत्योरेव संगतिः॥९५८॥

ज्ञानिनो रागादि बाधितमेवेत्यत्र हेतुमाह। बाध्येति। द्वैतदृष्टेरद्वैतदृष्टेश्चबाध्यबाधकत्वेन सकृदेव संबन्धोऽतो द्वैतधियो ज्ञानोत्तरकालीनरागादिधीरूपाया बाधितानुवृत्तिमात्रमित्यर्थः। ननु ज्ञानिनो ज्ञानं तदेवैकमनवरतं नावतिष्ठते क्षणिकत्वादभ्यासश्च नेष्यते तदीयस्मृत्यङ्गीकारे च द्वैतस्मृतेरपि संभवाद्वैधप्रवृत्त्यादिसिद्धिस्तत्राऽऽह। संबन्धेति। द्वैताद्वैतधियोः संबन्धादूर्ध्वमद्वैतस्मृतिर्वाधकत्वेन संबध्यते, बाध्यत्वेन द्वैतस्मृतिरिति विभागः॥९५८॥

न च स्मृतेः प्रमाणत्वं क्वचित्सिद्धान्त इष्यते॥
प्रमाणलक्षणाभावान्न च बाधोऽप्रमाणतः॥९५९॥

द्वैताद्वैतस्मृत्योरुक्तबाध्यबाधकत्वव्यवस्थार्थमुभयसिद्धस्मृत्यप्रामाण्यमनुवदति। न चेति। तर्हि द्वयोरप्रामाण्याविशेषात्कुतो बाध्यबाधकत्वमत आह। न चेति। अप्रमाणपूर्वकं द्वैतस्मरणं बाध्यं प्रमाणपूर्वकं त्वन्यद्बाधकमिति व्यवस्थेत्यर्थः॥९५९॥

मात्रादिकारणध्वस्तेः पराङ्मानप्रबाधतः॥
प्रत्यक्षादिविरोधोऽपि नातश्चोद्यः कथंचन॥९६०॥

अद्वैतधीरध्यक्षादिविरोधान्न मानं तन्नाद्वैतस्मृतेर्मानपूर्वकतेत्याशङ्क्याऽऽह। मात्रादीति। अद्वैतधिया सकार्याज्ञानध्वस्तेरूर्ध्वमध्यक्षादेर्बाधितत्वात्तेन विरोधो नास्याः शङ्कनीयस्तथाच तत्प्रामाण्यात्तत्पूर्विका स्मृतिर्बलवत्तरेतरस्या बाधिकेत्यर्थः॥९६०॥

उदर्के च शमादीनि साधनानि प्रवक्ष्यति1359
उक्तप्रज्ञाप्रसिद्ध्यर्थं येषु स्वातन्त्र्यमिष्यते॥९६१॥

ज्ञानिनोऽपि रागादिदृष्ट्या तद्धेत्वविद्यानुवृत्तेस्तद्ध्वंसायाभ्यासे विधिरित्येतन्निरस्तं संप्रति प्रज्ञायाः सांधनापेक्षत्वात्तदपेक्षितसाधनत्वेनाभ्यासः कर्तव्य इत्येतद्दूषयति। उदर्क इति। तेषां विधियोग्यत्वमाह। येष्विति॥९६१॥

नाभिध्यायेदतः शब्दाननात्मार्थावबोधिनः॥
बहूनित्यनुवादः स्यात्तद्बहुत्वस्य सिद्धितः॥९६२॥

प्रज्ञाकरणवाक्यस्य परकीयव्याख्यानिरासेन स्वव्याख्यां व्यवस्थाप्य नानुध्यायादित्यादेरर्थमाह। नेति। शमादीनां साधनत्वेन विधास्यमानत्वादनात्मवाचिशब्दानुसंधा-

नस्य च तद्विरोधित्वादित्यतःशब्दार्थः। बहुशब्दोपादानं स्वरूपानुवादार्थमित्याह। बहूनितीति। बहुत्वस्यानात्मवाचिशब्देष्विति शेषः॥९६२॥

वाचो विग्लापनमिति श्रुत्या निन्दाऽभिधीयते॥
भूरिशब्दानुचिन्तायास्तन्निषेधप्रसिद्धये॥९६३॥

उत्तरपादस्य तात्पर्यमाह। वाच इति। निन्दाफलमाह। तन्निषेधेति॥९६३॥

प्रभूतशब्दाभिध्यानं नालं मोक्षार्थसिद्धये॥
न चेदेवं फलं तत्स्याद्वा1360क्तालुगलशोषणम्॥९६४॥

अनात्मवाचिशब्दानुध्याननिषेधे हेतुमाह। प्रभूतेति। किं तर्हि तत्फलं तदाह। न चेदिति॥९६४॥

उक्तव्याख्यानतोऽन्यस्य व्याख्यानस्य यथोदित—
न्यायेन दूषितत्वात्तदूषणार्थं न यत्यते॥९६५॥

द्वैताभिधायकाञ्शब्दान्ध्यानकाले न चिन्तयेदिति भर्तृप्रपञ्चोक्तं निरस्यति। उक्तेति। यथोदितो न्यायो ध्यानविधिनिरासोपयोगी न च ध्यानकाले द्वैतवादिशब्दानामनुसंधानं प्राप्तं येन तन्निषिध्यते मुमुक्षोः सदा तन्निषेधे च पक्षभेदासिद्धिरिति भावः॥९६५॥

ओमित्येवं सदा ध्यायेदन्या वाचो विमुञ्चथ॥
तेऽनुवित्त्वेति च तथा त्रयीत्यागे वचः स्फुटम्॥९६६॥

मुमुक्षुणाऽनात्मवाचिकर्मकाण्डाख्यशब्दानुध्यानं1361 न कार्यमित्यत्र श्रुत्यन्तरं प्रमाणयति। ओमित्येवमिति। तेषामोंकारनिष्ठत्वे श्रुत्यन्तरमाह। तेऽनुवित्त्वेति चेति। त्रयीत्यागस्तद्विहितकर्मत्यागस्तद्द्वारा प्रणवनिष्ठत्वे विशिष्टाधिकारिणां देवा ह वै मृत्योरित्यारम्य तेऽनुवित्त्वोर्ध्वमृचः साम्नो यजुषः स्वरमेव प्राविशन्निति च्छन्दोगवचः स्पष्टमित्यर्थः॥९६६॥

हेत्वर्थ इतिशब्दोऽयं बहुशब्दजिहासया॥
मन्त्राम्नायसमाप्त्यर्थं यदि वेतिसमीरणम्॥९६७॥

इतिशब्दार्थमाह। हेत्वर्थ इतीति। यस्मात्प्रभूतशब्दध्यानं ताल्वादिशोषमात्रफलं तस्माद्बहवः शब्दा मुमुक्षुणा न ध्येयाः स्वल्पास्त्वात्मैकत्वार्थास्तस्याप्यनुज्ञायन्तेऽन्यथा बहूनितिस्वरूपानुवादिविशेषणवैयर्थ्यादन्या वाचो विमुञ्चथेत्यत्रान्यविशेषणानर्थक्याच्चेति भावः। हिशब्देनैव हेतोरुक्तत्वादितिशब्दोऽपि तदर्थश्चेत्पुनरुक्तिरित्याशङ्क्याऽऽह। मन्त्रेति॥९६७॥

सहेतुकावभिहितौ बन्धमोक्षौ प्रयत्नतः॥
मन्त्रोक्त्या ब्राह्मणोक्त्या च पुंसां श्रेयोभिवाञ्छिनाम्॥९६८॥

पूर्वोत्तरसंदर्भयोः संगतिं वक्तुं वृत्तं कीर्तयति। सहेतुकाविति। प्रयत्नमेव प्रकटयति। मन्त्रेति। तदेव सक्तः सह कर्मणेत्यादिमन्त्रोक्त्या स यत्रायमात्माऽबल्यमित्यादिब्राह्मणोक्त्या च कामादिहेतुसहितो बन्धो मुमुक्षूणां हेयत्वेनोक्तो यदा सर्वे प्रमुच्यन्त इत्यादिमन्त्रेणाथाकामयमान इत्यादिब्राह्मणेन च तेषामेवापेक्षत्वेन सम्यग्धीहेतुको मोक्ष उक्तः पुनश्च तत्स्वरूपं श्लोकैर्विप्रपञ्चितमित्यर्थः॥९६८॥

नानुध्यायाद्बहूञ्शब्दानिति कस्मादिहोच्यते॥
अल्पीयसां वा न त्यागः कस्मादित्यभिधीयताम्॥९६९॥

स वा एष महानित्याद्यवतारयितुं चोदयति। नेत्यादिना। मुमुक्षुरधिकारी सप्तम्यर्थः॥९६९॥

शब्दस्याल्पीयसोऽत्यागे तत्र तावदिहोच्यते॥
हेतुस्त्रय्यास्तु संत्यागे तमेतमिति वक्ष्यते॥९७०॥

बहूनितिविशेषणादल्पीयसां तत्त्वमादिशब्दानामत्यागो दर्शितस्तत्र बुभुत्सितो हेतुस्तमेतमित्यतः प्राक्तनवाक्येनोच्यत इत्याह। शब्दस्येति। तत्र त्यागात्यागयोरिति यावत्। स वा एष इत्यादावात्मयाथात्म्यमनूद्यते तेन तद्विषयोपनिषद्भागेन भवितव्यं तस्यापि त्यागे तत्त्वज्ञानासिद्धेरित्येतत्तमेतमित्यस्मात्प्रागभिप्रेतमित्यर्थः। बहूञ्शब्दान्नानुध्यायेदिति कर्मकाण्डत्याग उक्तस्तत्र हेतूक्त्यर्थं तमित्यादिवाक्यमित्याह। त्रय्यास्त्विति। प्रभूतायास्तस्याः कर्मकाण्डरूपायास्त्यागे तमित्यादिना हेतुर्वक्ष्यते तेन हि विविदिषायां कर्माणि विनियुज्यन्ते तथाचोत्पन्नविविदिषस्याफलत्वात्कर्मत्यागे तत्काण्डस्यापि त्यागः संसिध्यतीत्यर्थः॥९७०॥

यदि वा भिन्नवाक्यत्वात्कर्मविज्ञानकाण्डयोः॥
वेदान्तैः कर्मकाण्डस्य परस्परविरोधतः॥९७१॥

विविदिषावाक्यस्य तात्पर्यान्तरं प्रतिजानीते। यदि वेति। तदेव वक्तुं शङ्कयति। भिन्नेति। सिद्धसाध्यार्थतया काण्डयोर्भिन्नवाक्यत्वान्मिथो विरोधाच्च न शेषशेषितेति शङ्कार्थः। कर्मकाण्डस्य वेदान्तैः सह विरोधवत्तेषामपि तेन विरोधात्परस्परविरोध इत्युत्तरार्धयोजना॥९७९॥

हेतुतां प्रतिपद्यन्ते कर्माण्यपि विमुक्तये॥
बुद्धेः संस्कारकत्वेन यथा तदभिधीयते॥९७२॥

यथा कर्मवाक्यानां बुद्धिशुद्धिद्वारा ज्ञानवाक्यशेषता तथा वक्तुमुत्तरमि1362त्युत्तरमाह। हेतुतामिति। ज्ञानवदित्यपेरर्थः॥९७२॥

पूर्वो भागः समस्तोऽपि वेदान्तार्थावबुद्धये॥
यथा भवति वेदस्य तथाऽथ प्रतिपाद्यते॥९७३॥

वेदान्तार्थं यथायातमनूद्य श्रुतिरादरात्॥
स वा इत्यादिनोक्तार्थंप्रवक्तुमुपचक्रमे॥९७४॥

एवमेतस्मिन्नित्यादिभाष्यमुक्तेऽर्थे योजयति। पूर्व इति। स वा इत्यादिना कर्मकाण्डस्योक्तरीत्या ज्ञानकाण्डशेषत्वं नोच्यते तथाच भाष्ये कण्डिकोक्तिरयुक्तेत्याशङ्क्य तच्चेत्यादिभाष्यतात्पर्यमाह। वेदान्तेति। स वा इत्यादिना वेदान्तार्थमनूद्येति संबन्धः। अनुवादे हेतुमाह। यथेति। आगमप्रधानेन मधुकाण्डेनोपपत्तिप्रधानेन मुनिकाण्डेन वेदान्तान्तरैश्च प्राप्तं रूपमनतिक्रम्येति यावत्। श्रुतिस्तमेतमित्याद्या। उक्तार्थं कर्मणां धीशुद्धिद्वारा ज्ञानोत्पत्तिहेतुत्वम्॥९७३॥९७४॥

परामर्शः सशब्देन पूर्वोक्तस्य प्रसिद्धितः॥
वैशब्दः स्मृतये तस्य मृतिजन्मादिधर्मिणः॥९७५॥

कण्डिकातात्पर्यमुक्त्वा विविदिषावाक्यात्प्राक्तनग्रन्थस्यावयवशस्तात्पर्यं दर्शयन्पदयोरर्थमाह। परामर्श इति। वैशब्दस्तस्यैव स्मृत्यर्थमित्यत्र हेतुः। प्रसिद्धित इति। त्वंपदलक्ष्यस्यापि प्रागुक्तत्वात्तस्य सशब्देन परामर्शमाशङ्क्याऽऽह। मृतीति॥९७५॥

ध्रुवान्तमन्त्राम्नायोक्त एष इत्यभिधीयते॥
महानज इति वचस्तद्विशेषणसिद्धये॥९७६॥

एषशब्देनापि तस्यैवोक्तिं व्यावर्तयति। ध्रुवेति। विरजः पर आकाशादज आत्मा महान्ध्रुव इत्युक्तस्त्वंपदलक्ष्योऽर्थोऽत्रैषइत्युपदिष्ट इत्यर्थः। त्वमर्थस्य शोधनार्थमजशब्दः। शुद्धस्य तस्य ब्रह्मलक्षणविशेषणसिद्ध्यर्थं महानिति पदमित्याह। महानिति॥९७६॥

अन्वयव्यतिरेकार्था योऽयमित्यादिका श्रुतिः॥
विशेषणविशेष्यार्थं सर्वस्येति तथा वचः॥९७७॥

योऽयमित्यादेस्तात्पर्यमाह। अन्वयेति। अन्वयव्यतिरेकाभ्यां त्वंपदार्थपरिशोधनार्थेति यावत्। सर्वस्य वशीत्यादेस्तात्पर्यमाह। विशेषणेति। ब्रह्मणः प्रतीचो विशेषणत्वेन यथा तस्य विशेष्यत्वं तथा ब्रह्मणोऽपि सर्वस्य वशीत्यादिविशेषणैर्विशेष्यत्वार्थं वाक्यमित्यर्थः॥९७७॥

यत्र किंचिद्वक्तव्यं तस्य प्रागेव चोक्तितः1363
सामानाधिकरण्यादेर्नेह तत्पुनरुच्यते॥९७८॥

ब्रह्मणो विशेषणत्वं प्रतीचश्च विशेष्यत्वं चेत्तर्हि पदयोः सामानाधिकरण्यं तदर्थयोर्विशेषणविशेष्यत्त्वं स्वरूपमात्रस्य लक्ष्यत्वमित्येतदपि वाच्यं न चात्र सामानाधिकरण्यादि स्वीकर्तुं शक्यं ब्रह्मप्रतीचोर्मिथो विरोधादित्याशङ्क्य ब्रह्मकण्डिकायामुक्तं स्मारयति। यदत्रेति। इहेत्यत्रच प्र1364कृतकण्डिकोक्तिः॥९७८॥

भूयान्स साधुना नेति ज्ञानस्य फलमुच्यते॥
एष सर्वेश्वरोक्त्या च यथोक्तस्यैव संस्तुतिः॥९७९॥

स न साधुनेत्यादेस्तात्पर्यमाह। भूयानिति। एष सर्वेश्वर इत्यादेस्तात्पर्यमाह। एष इति। यथोक्तस्येति प्रत्यगुक्तिः॥९७९॥

एतदुक्तं भवत्यत्र योऽयमित्यादिनोदितः॥
विविक्तः कामकर्मादेः स्वयंज्योतिश्च शब्दितः॥९८०॥

स एष ईश्वरः साक्षादिति श्रुत्या प्रदर्शितः॥
विशेषणविशेष्यत्वमीशितव्येशयोरिह॥९८१॥

त्वं ब्रह्म1365त्वं विष्णुरित्यादिवदविद्यमानस्तुतिरेषेत्याशङ्क्य स्तुतिप्रकारमभिनयति। एतदिति। अत्रेति ज्योतिर्ब्राह्मणोक्तिः। तत्त्वमादिवाक्यादैक्यसिद्धेरेषा यथार्थस्तुतिरेवेति भावः। तत्र विशेषणविशेष्यत्वविभा1366गं दर्शयति। विशेषणेति। इहेति श्रुतिरुक्ता॥९८०॥९८१॥

यमपेक्ष्येश्वरत्वं स्यात्तत्तावत्प्रतिषेधति॥
विशेषणविरोधित्वान्महत्खं कुम्भगं य1367था॥९८२॥

ईश्वरेण विशेषणेन जीवस्य विशेष्यत्वे फलमाह। यमिति। सर्वेश्वरत्वादिविशेषणसामर्थ्याद्विशेष्यजीवस्थमीशितव्यत्वाद्यपगच्छतीत्यर्थः। निषेधकर्ता विशेषणविशेष्यभावस्तस्य निषेधकत्वे हेतुमाह। विशेषणेति। ईश्वरत्वेन विरोधित्वात्तेन विशेषितजीवगतेशितव्यत्वस्य निवृत्तिरित्यर्थः। घटाकाशो महाकाश इत्युक्ते घटाकाशस्थपरिच्छिन्नत्वनिवृत्तिवदेष सर्वेश्वर इत्युक्ते जीवगतेशितव्यत्वनिवृत्तिरित्याह। महदिति॥९८२॥

ईशितव्यापनुत्तौ च तदपेक्षैकसंश्रयात्॥
ईशित्वमपि निःशेषं प्रतीचो विनिवर्तते॥९८३॥

ईशितव्यत्वनिवृत्तौफलितमाह। ईशितव्येति। ततश्च निर्विशेषं प्रत्यङ्मात्रं तिष्ठतीति भावः॥९८३॥

घटाकाशो महाकाश इत्युक्ते कुम्भखह्नुतौ॥
आकाशमात्रताशेषो यथैवेह तथाऽऽत्मनि॥९८४॥

महदित्यादिनोक्तं दृष्टान्तं प्रपञ्चयति। घटेति। दार्ष्टान्तिकमाह। इहेति॥९८४॥

विरुद्धयोरसंसर्गोयथैवमविरुद्धयोः॥
तदबोधसमुच्छित्ताववाक्यार्थोऽवशिष्यते॥९८५॥

तदेव स्पष्टयति। विरुद्धयोरिति। पदार्थद्वयस्थसद्वयत्वपरोक्षत्वयोर्न ब्रह्मात्मभ्यां संसर्गो मिथोविरुद्धत्वादेवं प्रत्यक्त्वाद्वयत्वयोरपि नान्योन्यमन्वयस्तयोरेकत्वादतो ब्रह्मात्माज्ञानध्वस्तावेकरसं वस्तु स्यादित्यर्थः॥९८५॥

ऐदंपर्यमिदं तावत्पदार्थोऽथाधुनोच्यते॥
स वा इतिवचोर्थस्य व्याख्यातत्वान्न यत्यते॥
तद्व्याख्यानाय भूयोऽपि तस्य चेहानुवादतः॥९८६॥

उक्तवक्ष्यमाणयोः पौनरुक्त्यं परिहरन्नुक्तमनूद्य वक्ष्यमाणं प्रतिजानीते। ऐदंपर्यमिति। पदार्थानामपि प्रागेवार्थादुक्तत्वात्तदवस्था पुनरुक्तिरित्याशङ्क्याऽऽह। स वा इतीति। तथाऽपि कतम आत्मेत्यारभ्य यदुक्तं तेन पौनरुक्त्यमित्याशङ्क्य तस्यैव चात्रोपनिषद्भागात्या1368गेन हेतूक्त्यर्थत्वेनानुवादान्न पुनरुक्तिरित्याह। तस्येति॥९८६॥

आकाशवचसा चोक्तः परोऽज्ञातो जगद्गुरुः॥
जगज्जनिस्थितिध्वंसहेतुरात्मविशेषणम्॥९८७॥

आकाशशब्दार्थं स्मारयति। आकाशेति। जगद्गुरुत्वं स्फोरयति। जगदिति। तस्य ताटस्थ्यं व्यावर्तयति। आत्मेति॥९८७॥

क्षेत्रक्षेत्रज्ञयोरेष स्वभावः प्राक्समीरितः॥
अप्रबुद्धात्मतत्त्वः सन्कारणात्मतया स्थितः॥९८८॥

जगत्कारणत्वफलं सर्वात्मत्वमिदं सर्वमित्यादावुक्तमिति स्मारयति। क्षेत्रेति॥९८८॥

सर्वमस्य वशे यस्माद्वशी सर्वस्य तेन सः॥
उदासीनस्य तस्य स्याद्वशित्वमिति चे1369न्पतम्॥९८९॥

वशित्वश1370क्तिसंबन्धान्मै1371वं यस्मात्पुनर्वचः॥
सर्वस्येशान एवेति सर्वस्येष्ठे सदैव सः॥९९०॥

सर्वस्य वशीत्यस्यार्थमाह। सर्वमिति। सर्वस्येशान इत्येतदाकाङ्क्षापूर्वकमादाय व्याकरोति। उदासीनस्येति॥९८९॥९९०॥

कुमारनृपवत्तत्स्यादीशानत्वं परात्मनः॥
इति चेन्नैतदेवं स्याद्यतोऽधिपतिरुच्यते॥९९१॥

अधिष्ठायाऽऽत्मकार्यत्वादुत्पत्तिस्थितिहानिषु॥
त्रिविधेनाऽऽधिपत्येन स जगत्पाति सर्वदा॥९९२॥

सर्वस्याधिपतिरिति विशेषणमाशङ्कापुरःसरमवतार्य व्याकरोति। कुमारेति। उत्पत्तिस्थितिहानिप्रयोजकं त्रिविधमाधिपत्यं स खलु तिसृष्ववस्थासु जगदुक्तेनाऽऽधिपत्येनाधिष्ठाय सदा पालयति स्वकार्यत्वाज्जगतस्तस्मिन्नधिष्ठानपालनसिद्धेरिति द्वितीयवार्तिकयोजना॥९९१॥९९२॥

धर्माधर्मसमायोगो लोकबच्छासनात्प्रभोः॥
प्राप्नोति चेन्न तत्प्राप्तिः स नेति वचसः श्रुतेः॥९९३॥

स न साधुनेत्यादि शङ्काद्वारोत्थापयति। धर्मेति॥९९३॥

स्वकर्तृफलदायित्वं स्वभावः कर्मणां मतः॥
कर्तृस्वामित्वविरहान्नेशस्य फलसंगतिः॥९९४॥

तदपेक्षितामुपपत्तिं शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वादिति न्यायेनाऽऽह। स्वकर्त्रिति॥९९४॥

कौटस्थ्यान्नास्य कर्तृत्वमकार्याकारणत्वतः॥
कार्यकारणभेदेन तदविद्यैव संस्थिता॥९९५॥

ईशस्य सर्वकर्तृत्वोपगमात्कर्तृत्वराहित्यमसिद्धमित्याशङ्क्याऽऽह। कौटस्थ्यादिति। तदुपपादयति। अकार्येति। कथं तर्हि तस्य कारणत्वं तदाह। कार्येति॥९९५॥

अस्थूलं नेति नेतीति न जायत इति श्रुतिः॥
अपूर्वानपरेत्याद्या तथाच सति युज्यते॥९९६॥

प्रतीचः स्वतो न कर्तृत्वं किंत्वविद्ययेत्यत्र श्रुतीनामानुकूल्यमाह। अस्थूलमिति॥९९६॥

स्वस्वामित्वादिसंबन्धस्तथा नास्याद्वितीयतः॥
यत्र हि द्वैतमित्येवं तथाच श्रुतिशासनम्॥९९७॥

कर्तृत्वाभावमीशस्योक्त्वा स्वामित्वाभावमाह। स्वस्वामित्वादीति। आदिशब्देन संबन्धान्तराणामपि कल्पितत्वं सूचयति। तथा कार्यकारणत्ववदित्यर्थः। आत्मनः संबन्धः सर्वोऽपि कल्पित इत्यत्र श्रुतिमाह। यत्र हीति॥९९७॥

जन्यादयो विकारा ये संबन्धाश्चापि ये मताः॥
अविद्योपप्लुतस्यैव ते सर्वे स्युर्नतु स्वतः॥९९८॥

कर्तृत्वाद्यात्मनो वस्तुतो नेत्युक्तमुपसंहरति। जन्यादय इति। जनिर्जन्म तदादयो विकारा विपरिणामादयः॥९९८॥

यत एवमतो नेशो भूयान्स्यात्साधुकर्मणा॥
कनीयान्नापि पापेन तदकर्तृत्वहेतुतः॥९९९॥

आत्मनः स्वतःस्वामित्वाद्यभावमुक्तमुपजीव्य कर्मफलासंबन्धं वदन्वाक्यं योजयति। यत इति। अतः शब्दार्थं स्फुटयति। तदकर्तृत्वहेतुत इति॥९९९॥

क्षेत्रज्ञस्य सतो यद्वत्पुण्यपापाभिसंगतिः॥
कर्तृत्वाद्यभिमानित्वान्नेशस्य तदसंभवात्॥१०००॥

ईश्वरस्य कर्मतत्फलासंबन्धे हेत्वन्तरमाह। क्षेत्रज्ञस्येति। विशिष्टस्य कर्मतत्फलसंबन्धः क1372र्ताऽहमित्याद्यभिमानित्वान्न तथोपलक्षितस्य तस्य1373 तदभावादित्यर्थः॥१०००॥

निर्हेतुत्वात्प्रतीचोऽस्य तमस्वित्वस्य सर्वदा॥
हानिवृद्धी न तस्यातो धर्माधर्मैरसंगतेः॥१००१॥

इतश्चनेशस्य कर्मादिसंबन्धितेत्याह। निर्हेतुत्वादिति। अस्य प्रतीचस्तमस्वित्वं नामाज्ञानकृतमीशत्वं तस्याज्ञानोपाधिकस्याऽऽगन्तुकहेत्वनपेक्षत्वेन सदाभावान्न धर्मादिभिः संगतिरतो न कर्मप्रयुक्तहानिवृद्धी परस्येत्यर्थः॥१००१॥

न कार्यकारणं वाऽस्य1374 यत्कर्तृत्वादिकारणम्॥
स्वतोऽसङ्गस्वभावत्वान्निरंशैकत्वतस्तथा॥१००२॥

ईशत्वाद्यात्मनः स्वीकृत्य तस्य धर्माद्यसंगतिमुक्त्वा तदेव तस्य नास्तीत्याह। नेत्यादिना। कर्तृत्वादिकारणस्य कार्यकारणस्य वाऽभावे1375 हेतुमाह। स्वत इति। अंशभेदेन कर्तृत्वमसङ्गत्वं च स्यादित्याशङ्क्याऽऽह। निरंशेति। क्षेत्रज्ञस्य कर्तृत्वं परस्यासङ्गत्वमित्याशङ्क्याऽऽह। एकत्वत इति1376। यथो1376क्तलक्षणत्वादात्मनो नेशत्वादीत्यर्थः॥१००२॥

स्वत एवं स्वभावोऽपि तदविद्यासमाश्रयात्॥
एष सर्वेश्वरो देव ईशितव्यव्यपेक्षया॥१००३॥

तहिं कथमेष सर्वेश्वर इत्यादिवाक्यमत आह। स्वत इति। एवंस्वभावोऽसङ्गत्वानंशत्यादिरूपोऽपीति यावत्। तदविद्यासमाश्रयादीशितव्यव्यपक्षयेति संबन्धः॥१००३॥

एष सर्वेश्वर इति पुनरुक्तं किमुच्यते॥
वक्ष्यमाणबुभुत्साया विषयत्वप्रसिद्धये॥१००४॥

सर्वस्येशान इत्यनेन पुनरुक्तिं चोदयति। एष इति। तस्यास्तात्पर्यं दर्शयन्परिहरति। वक्ष्यमाणेति। प्रत्यगात्मैवाज्ञातो विविदिषाविषय इति वक्तुं पुनरुक्तिरेष इति

हि प्रतीचो निर्देशस्तस्याज्ञातत्वं सर्वेश्वरशब्देन द्योत्यते स च बुभुत्साविषयो विवक्षित इत्यर्थ1377वती पुनरुक्तिरित्यर्थः॥१००४॥

अज्ञात एष एवाऽऽत्मा तावन्मात्रसतत्त्वतः1378
1379शादेर्विषयान्तस्य कल्पितत्वमतो भवेत्॥१००५॥

अज्ञातत्वेन तद्विषयत्वं हरिहरादेरपि संभवति तत्कथं प्रत्यगात्मैव तथा प्रतिज्ञायते तत्राऽऽह। अज्ञात इति। नियमे हेतुः। तावन्मात्रेति। प्रत्यङ्मात्रं कथं सर्वस्य सतत्त्वमीश्वरादेरपि लोके वस्तुत्वप्रसिद्धेरित्याशङ्क्याऽऽह। ईशादेरिति। जडत्वपरिच्छिन्नत्वादिरतः1380 शब्दार्थः॥१००५॥

साध्वाद्यनभिसंबन्धे यदि वा हेतुरुच्यते॥
एष इत्यादिवचसा सर्वेशस्याऽऽत्मनः स्फुटः1381॥१००६॥

पालनादिकर्तुरनुग्रहादिना कृतेन धर्मादिना योगो दुर्वारो लोके तथादृष्टत्वात्तत्कथं स नेत्यादिवाक्यमित्याशङ्क्य पुनरुक्तेरर्थान्तरमाह। साध्वादीति॥१००६॥

धर्माधर्मादितन्त्रोऽर्थस्तत्फलेनेह लिप्यते॥
विज्ञानात्मा न तु तथा सर्वेशत्वात्परो भवेत्॥१००७॥

सर्वस्य कर्मणोऽप्येष कारकस्य च तत्कृतः॥
स्वतन्त्र ईश्वरो यस्मान्नातो धर्मादितन्त्रता॥१००८॥

कोऽसावबाधितोऽसंदिग्ध हेतुस्तमाह। धर्मेति। कामकर्माविद्यातन्त्रो जीवस्तत्फलेन संबध्यते परस्तु तद्वन्न कर्मादितन्त्रः सर्वेश्वरत्वात्तस्मिन्नपि नियन्तृत्वादतो न तत्फलसंबन्धी स्यादित्यर्थः। इहशब्दो जीवेशयोर्निर्धारणार्थः। कथं सर्वेश्वरत्वेऽपि कर्मतत्फलासंबन्धित्वं तत्राऽऽह। सर्वेति॥१००७॥१००८॥

भूतानि जनिमन्त्येष यतः पालयतीश्वरः॥
भूतपालस्ततो देवः कार्याणां कारणत्वतः॥१००९॥

पशुपतिर्वा श्रीपतिर्वा सर्वेश्वरो न प्रत्यगात्मेत्याशङ्क्यैष भूताधिपतिरिति विशेषणमित्यभिप्रेत्यैष भूतपाल इत्यस्यार्थमाह। भूतानीति। तत्र हेतुः। कार्याणामिति॥१००९॥

कारणेन हि पाल्यते कार्याणीह यतस्ततः॥
तत्कार्यत्वाच्च भूतानां भूतपालत्वमात्मनः॥१०१०॥

यद्यपि सर्वकार्याणां जन्मादिसूत्रमारभ्य तत्र तत्रोक्तन्यायेन कारणमीश्वरस्तथाऽपि कथं तस्य भूतपालत्वमत आह। कारणेनेति। तेनोपेक्षितस्य कार्यस्य सत्त्वमेव नेति

वक्तुं हिशब्दः। व्यवहारभूमिरिहेत्युक्ता। यतस्ततः सर्वत्रेत्यर्थः। सामान्यन्यायं प्रकृते योजयति। तत्कार्यत्वादिति॥१०१०॥

भूताधिपतिशब्देन ब्रह्मा वाऽत्राभिधीयते॥
इन्द्रो लोकेश्वरश्चात्र वरुणाद्यात्मना तथा॥१०११॥

लोकपालोऽपि चाप्येष तथाकार्यस्य दर्शनात्॥
प्रशासिताऽपि चाप्येष तदेतदभिधीयते॥१०१२॥

भूताधिपतिशब्दस्यार्थान्तरमाह। भूतेति। यो ब्रह्मा श्रुतिस्मृतीतिहासपुराणेषु सूत्रादिसंज्ञया विज्ञातः सोऽस्मिन्वाक्ये भूताधिपतिशब्देनोच्यते हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीदिति श्रुतेः स चात्र परमात्मैव तत्प्रकरणत्वादित्यर्थः। एष लोकेश्वर एष लोकपाल इति माध्यंदिनास्तत्र लोकेश्वरशब्दं व्याकरोति। इन्द्र इति। लोकपालशब्दार्थमाह। वरुणादीति। यथा परमात्मैवेन्द्रात्मना लोकेश्वरस्तथा स एव वरुणादिरूपेण लोकपालोऽपीत्यत्र हेतुः। तथेति। जगन्नियमनपालनादिकार्यस्येन्द्रादौ दर्शनादनीश्वरस्य तदयोगात्तत्तद्रूपेण स्थित्वा स एव तत्तत्कार्यं करोतीत्यर्थः। एष सेतुरित्याद्यवतारयति। प्रशासितेति। मर्यादाधारयितेति यावत्। द्वितीयोऽपिरवधारणे॥१०११॥१०१२॥

लोकानां रचना यैषा क्षित्यादीनां व्यवस्थिता॥
सिद्धाऽसंकीर्यमाणेह साऽप्यस्यैवानुशासनात्॥१०१३॥

परस्मादन्योऽपि कश्चित्प्रशासिताऽस्तु तद्भेदप्रसिद्धेरिति चेन्नेत्याह। लोकानामिति। प्रशासित्रन्तरमतोऽन्यदार्तमित्यादिना प्रत्युदस्तमित्यर्थः॥१०१३॥

वर्णाश्रमादिहेतुनां व्यवस्थानामसंकरः॥
नैव सिध्येद्विना हेतुं सेतुरेष इतीक्ष्यताम्॥१०१४॥

परस्यैव प्रशासितृत्वेऽपि कथं सेतुशब्दस्तत्र प्रयुक्तस्तत्राऽऽह। वर्णेति॥१०१४॥

यथोदकप्रवाहस्य सेतुर्विधरणस्तथा॥
सर्वलोकव्यवस्थानां सेतुः स परमेश्वरः॥१०१५॥

परस्य सेतुत्वं दृष्टान्तेन साधयितुं विधरणविशेषणं व्याचष्टे। यथेति॥१०११॥

किमर्थं सेतुरित्येवमाकाङ्क्षायां परं वचः॥
असंभेदाय लोकानामेषामित्यभिधीयते॥१०१६॥

एषामित्याद्यादत्ते।1382 कि1382मर्थमिति॥१०१६॥

असंभिन्नव्यवस्थाः स्युः कथं नाम यथोदिताः॥
तस्मै तस्मै फलायालं सेतुरीशो भवेत्ततः॥१०१७॥

किं तत्परं वचस्तदसंभेदायेति तद्व्याकरोति। असंभिन्नेति। यथोदिता वर्णाश्चाऽऽश्रमाश्च पृथिव्यादयश्च लोका इति यावत्। तत्तत्फलमसंकीर्णं तत्तदधीनं कार्यम्॥१०१७॥

एवं तावत्समासेन षष्ठाध्यायोक्तमादरात्॥
श्रुत्यानूद्याखिलं वस्तु तस्याथ प्रतिपत्तये॥१०१८॥

उपायतां यथा सर्वो वेदोऽयं प्रतिपद्यते॥
तमेतमिति वाक्येन तदेतदभिधीयते॥१०१९॥

वृत्तमनूद्य विविदिषावाक्यतात्पर्यमाह। एवं तावदिति। वस्तु ब्रह्मात्मैक्यमिति यावत्। श्रुत्या स वा एष महानित्यादिकयेत्यर्थः। अखिलं पूर्णमित्येतत्। तस्येत्यैक्योक्तिः। तत्प्रतिपत्तेरुपायापेक्षाद्योतकोऽथशब्दः। वेदशब्दः कर्मकाण्डार्थः॥१०१८॥१०१९॥

एतं1383 विविदिषन्त्युक्तं वेदानुवचनादिभिः॥
उपायैरीश्वरं साक्षादपेताशेषकल्पनम्॥१०२०॥

विविदिषावाक्यतात्पर्यमुक्त्वा तदक्षराणि योजयति। एतमि1384ति। साक्षाद्विविदिषन्तीति संबन्धः। उक्तं विरजः पर आकाशादित्यादावित्यर्थः। ईश्वरमित्यज्ञातस्य प्रतीचो विविदिषाविषयत्वं सूचयति। तस्यैव निरुपाधिकं नित्यमुक्तं रूपमाह। अपेतेति॥१०२०॥

स्वातन्त्र्येणेशविषया बुभुत्साऽप्यतिदुर्लभा॥
गम्यते तदुपायानां विधानाद्यत्नतः श्रुतौ॥१०२१॥

प्रतीचि ज्ञानेच्छाया लौकिकेच्छातो विशेषमाह। स्वातन्त्र्येणेति। लौकिकी तावदिच्छा शोभनार्थधीकृता सुलभा प्रत्यग्विषया तु पुरुषस्य स्वातन्त्र्येण बुभुत्साऽपि न लभ्यते तज्ज्ञानं तु सुतरामित्यर्थः। विविदिषादौर्लभ्यस्य गमकमाह। तदुपायानामिति। बहूपायोपन्यासो यत्नः॥१०२१॥

विनियोगप्रयत्नाच्च कर्मविज्ञानकाण्डयोः॥
गम्यते भिन्नवाक्यत्वं नैकत्र विनियोगगीः॥१०२२॥

विविदिषावाक्यालोचनया सिद्धमर्थमाह1385विनियोगेति। यत्तु काण्डयोरेकवाक्यत्वं कैश्चिदुक्तं तदयुक्तं तयोर्भिन्नवाक्यत्वमेव हि गम्यते कर्मणां विविदिषायां विनियोगे वाक्यतात्पर्यदर्शनान्न च काण्डयोर्वाक्यैक्येऽपि तेषां तत्र विनियोगोक्तिर्युक्ता तद्विनियोगे लब्धविविदिषस्य कर्मत्यागप्रसङ्गादेकवाक्यत्वानवकाशादित्यर्थः॥१०२२॥

यद्बुभुत्साऽपि दुष्प्रापा1386 वद तत्तत्त्वबोधनम्॥
ततोऽपि दुर्लभतरमुपायाल्लभ्यते कुतः॥१०२३॥

ईशविषया बुभुत्साऽपीत्यत्रापिना सूचितमर्थमाह। यदिति॥१०२३॥

बुभुत्सामात्र एवामी वेदानुवचनादयः॥
विनियुक्ता यतस्तस्मान्नैते तज्ज्ञानसिद्धये॥१०२४॥

कर्मणां विविदिषायां विनियोगोक्तिमनुसृत्य काण्डयोरेकवाक्यत्वाभावमुक्त्वा विनियोगोक्तिवशादेव लब्धमर्थान्तरमाह। बुभुत्सेति॥१०२४॥

अत एव श्रुतिर्यत्नाच्छमादीनेव वक्ष्यति॥
उपायानात्मयाथात्म्यविज्ञानाय यमात्मकान्॥१०२५॥

विविदिषासाधनान्येव कर्माणि न ज्ञानसाधनानीत्यत्र वाक्यशेषस्यानुग्राहकत्वमाह। अत इतिअहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमा इतियोगसूत्रानुसारेण शमादीन्विशिनष्टि। यमात्मकानिति। १०२५॥

बुभुत्सासाधनेष्वेषु वेदानुवचनादिषु॥
अधिकारोऽविशेषेण ह्याश्रमाणां यथायुति1387॥१०२६॥

अस्तु बुभुत्सासाधनान्येव कर्माणि केषां पुनस्तेष्वधिकारस्तत्राऽऽह। बुभुत्सेति। अविशेषेणेति च्छेदः। तेषां तत्र स्वामित्वेन योग्यत्वं हिशब्दार्थः। वर्णाश्रमकर्मव्यवस्था तर्हि दुस्था स्यादित्याशङ्क्याऽऽह। यथायुतीति। येन वर्णेनाऽऽश्रमेण वा यत्कर्म शास्त्रवशाद्युज्यते तां युतिमनतिक्रम्य तस्य तस्मिन्नधिकृतिरित्यर्थः॥१०२६॥

यथायोगं यथाश्रद्धं तद्बुभुत्साप्रसिद्धये॥
सर्वाश्रमैरमी कार्या वेदानुवचनादयः॥१०२७॥

तत्प्रपञ्चयति। यथायोगमिति। तद्बुभुत्सा प्रत्यग्विविदिषा॥१०२७॥

वेदानुवचनोक्त्याऽत्र वेदाध्ययनमन्वहम्॥
श्रुत्येह भण्यतेऽस्मभ्यं नित्यस्वाध्यायलक्षणम्॥१०२८॥

वाक्यार्थः संक्षिप्तस्तत्तात्पर्यमनेकधोक्तमिदानीं वेदानुवचनशब्दार्थमाह। वेदेति। अत्रेति। विविदिषावाक्यस्येहेति वैदिकव्यवहारभूमेरुक्तिः॥१०२८॥

ब्राह्मणग्रहणं चात्र द्विजानामुपलक्षणम्॥
अविशिष्टाधिकारित्वात्तेषामात्मावबोधने॥१०२९॥

ब्राह्मणविशेषणात्तस्यैव विविदिषासाधनवेदानुवचनादिष्वधिकारात्सर्वाश्रमैरमी कार्या वेदानुवचनादय इत्ययुक्तमित्याशङ्क्याऽऽह। ब्राह्मणेति॥१०२९॥

इदं मेऽङ्ग1388मनेनेति पुंसंस्कारश्रुतेस्तथा॥
यज्ञो दानं तपश्चेति स्मृतेरपि वचः स्फुटम्॥१०४२॥

कर्मणां शुद्धिहेतुत्वे श्रुतिस्मृती प्रमाणयति। इदमिति। तथा शुद्धिहेतुत्वं कर्मणामित्यत्र स्फुटमिति प्रामाण्यं सूच्यते॥१०४२॥

यस्मिन्विशुद्ध इति च1389 सत्त्वशुद्धौ ध्रुवा स्मृतिः॥
इत्येवमादिवाक्यानि श्रौतान्युक्तार्थसिद्धये॥१०४३॥

कर्मभिः शुद्धबुद्धेर्विविदिषोर्ज्ञानमित्यत्र मानमाह। यस्मिन्निति। उक्तोऽर्थः शुद्धधियो विविदिषादिद्वारा ज्ञानोत्पत्तिलक्षणः। आदिपदेन विशुद्धसत्त्वस्ततस्तु तं पश्यते1390 निष्कलमित्यादिवाक्यानि गृह्यन्ते॥१०४३॥

ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः॥
यथाऽऽदर्शतलप्रख्ये पश्यत्यात्मानमात्मनि॥१०४४॥

शुद्धधियो ज्ञानमित्यत्र स्मृतिमाह। ज्ञानमिति। १०४४॥

यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत्॥
यज्ञो दानं तपश्चैव पावनानि मनीषिणाम्॥१०४५॥

चत्वारिंशत्तथाऽष्टौ च संस्कारा इति च स्मृतिः1391
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वाऽऽत्मशुद्धये॥१०४६॥

कर्मभिः शुद्धिरित्यत्रोक्तामेव स्मृतिमनूद्य स्मृत्यन्तरमाह। यज्ञेत्यादिना। तत्रैव वाक्यान्तरमाह। योगिन इति। फलाभिलाषं हित्वा बुद्धिशुद्ध्यर्थमीश्वरार्पणबुद्ध्या कर्म कर्मिणो निर्वर्तयन्तीत्यर्थः॥१०४५॥१०४६॥

योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः॥
सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते॥१०४७॥

कर्मणां शुद्धिहेतुत्वे वाक्यान्तरमाह। योगेति। बुद्धिशुद्धावात्मशब्दितबुद्धेः स्ववशत्वमिन्द्रियान्तराणां च स्वाधीनत्वं फलतीत्याह। विजितेति। न च तस्य कर्मानुष्ठितवतोऽपि तत्फलसंबन्धः सर्वेषां भूतानामात्मभूतं यद्ब्रह्म तदात्मत्वादित्याह। सर्वेति॥१०४७॥

गार्भैर्होमैर्जातकर्मचूडामौञ्जीनिबन्धनैः॥
बैजिकं गार्भिकं चैनो द्विजानामपमृज्यते॥१०४८॥

नित्यकर्मानुष्ठानात्पापहानिरित्यत्र स्मृत्यन्तरमाह। गार्भैरिति। बीजसंबन्धाद्गर्भसंबन्धाच्च संभावितं पापं पुंसवनादिकर्मभिर्निवर्तते त्रैवर्णिकानामित्यर्थः॥१०४८॥

स्वाध्यायेन व्रतैर्होमैस्त्रैविद्येनेज्यया सुतैः1392
महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः॥१०४९॥

कर्मणां शुद्धिहेतुत्वे वाक्यान्तरमप्यस्तीत्याह। स्वाध्यायेनेति। त्रैविद्येन स्वाध्यायेनेति संबन्धः। यद्वा स्वाध्यायोऽध्ययनमात्रं त्रैविद्यं नित्यस्वाध्यायोऽथवाऽधीतवेदः स्वाध्यायस्तदर्थज्ञानं त्रैविद्यमिति भेदः॥१०४९॥

इत्येवं शतशः सन्ति यथोक्तार्थप्रसिद्धये॥
स्मृतिवाक्यानि पुंबुद्धिशुद्धिशंसीनि कर्मभिः॥१०५०॥

उक्तस्मृतीनां तात्पर्यमाह। इत्येवमिति। शुद्धिफलमाह। यथोक्तेति। विविदिषाद्वारा ज्ञानसिद्ध्यर्थमिति यावत्॥१०५०॥

संसारानर्थहेतुत्वज्ञानायैव च कर्मणाम्॥
काम्यानामिह निर्देशस्तज्जिहासाप्रसिद्धये॥१०५१॥

शुद्धिद्वारा मुक्तिफलोपायत्वान्नित्यकर्मणामुत्तमपुमर्थान्वयमुक्त्वा काम्यकर्मणां तदन्वयप्रकारमाह। संसारेति। यदा वेदे काम्यानि कर्माण्युक्तानि गर्भवासाद्यनर्थहेतवो ज्ञायन्ते तदा तेषु जिहासोपवर्तते ततश्च नित्याद्यनुष्ठानात्परिशुद्धबुद्धेर्विविदिषादिद्वारा मुक्तिरिति युक्ता तेषामपि प्रकृष्टफलान्वयितेत्यर्थः॥१०५१॥

यद्वा विविदिषार्थत्वं काम्यानामपि कर्मणाम्॥
तमेतमिति वाक्येन संयोगस्य पृथक्त्वतः॥१०५२॥

तेषां विधान्तरेण मोक्षान्वयित्वं संबन्धग्रन्थोक्तं स्मारयति। यद्वेति। कथं तानि फलान्तरोद्देशेन विहितानि विविदिषायामुपयुज्यन्ते तत्राऽऽह। संयोगस्येति॥१०५२॥

देशे काले च पात्रे च दानं श्रद्धादिपूर्वकम्॥
शुद्धिकृत्स्याद्धियः पुंसो बहिर्वेद्यपि शास्त्रतः॥१०५३॥

महायज्ञैश्च यज्ञैश्चेत्याद्युदाहरता यज्ञेनेति व्याख्यातम्। इदानीं दानेनेत्यस्यार्थमाह। देश इति। कुरुक्षेत्रादिर्देशः। राहूपरागादिः कालः। श्रोत्रियोऽध्यात्मविदित्यादिः पात्रम्। श्रद्धादीत्यादिशब्देन भक्तिरुक्ता। ननु दक्षिणाख्यं दानं यज्ञान्तर्भूतं तथाच यज्ञेनेत्यनेन गतत्वाद्दानेनेति पुनरुक्तं नेत्याह। बहिरिति। वेद्या बहिरपि दानं शुद्धिकरमित्यत्र मानमाह। शास्त्रत इति। दाने सर्वं प्रतिष्ठितं तस्माद्दानं परमं वदन्तीत्यादिवाक्यादित्यर्थः॥१०५३॥

नियमाद्द्वंद्वसंपातसहनं तप उच्यते॥
तस्यापि बुद्धिसंशुद्धिहेतुत्वं शास्त्रतो मतम्॥१०५४॥

तपः शब्दार्थमाह। नियमादिति। रागादिनिमित्तक्लेशसहिष्णुत्वव्यवच्छेदार्थं

नियमादित्युक्तम्। शास्त्रीयपारलौकिकजपोपवासादिविधिवशादिति यावत्। तेन कथं विविदिषासिद्धिस्तत्राऽऽह। तस्यापीति॥१०१४॥

विजिज्ञासस्व तद्ब्रह्म तपसैवेति च श्रुतिः॥
तपसा कल्मषं हन्तीत्यपि च स्मृतिशासनम्॥१०५५॥

तदेवोदाहरति। विजिज्ञासस्वेति। अन्वयव्यतिरेकरूपं तपोऽत्र विवक्षितमित्याशङ्क्य चशब्दसूचितां स्मृतिमवतारयति। तपसेति॥१०५५॥

यद्दुस्तरं यद्दुरापं यद्दुर्गं यच्च दुष्करम्॥
सर्वं तत्तपसा साध्यं तपो हि दुरतिक्रमम्॥१०५६॥

तत्रैव स्मृत्यन्तरमाह। यदिति। दुस्तरं दुष्परिहरं कुम्भीपाकादिदुःखम्। दुरापमाप्तुमशक्यं स्वर्गादिसुखम्। दुर्गमवगन्तुमशक्यमात्मादि। दुष्करं कर्तुमशक्यमश्वमेधादि। तपसा सर्वस्य साध्यत्वे हेतुमाह। तपो हीति। तपसा हि कुम्भसंभवेनाम्भोनिधिः सहसा चुलुकीकृतस्तत्र तस्य माहात्म्यं सुवचमिति भावः॥१०५६॥

अनाशकं चानशनं कामानशनलक्षणम्॥
रागद्वेषवियुक्तैस्तु विषयानिति चाऽऽह हि॥१०५७॥

कामानशनबोधार्थं वेदव्यासोऽपि यत्नतः॥
मृत्य्वन्तं वा सनियमं तदप्यत्यन्तशुद्धिकृत्॥१०५८॥

अनाशकशब्दार्थमाह। अनाशकं चेति। रागद्वेषाभिनिवेशातिरेकेण परिमितशास्त्रीयविषयनिषेवणमनाशकमित्यत्र मानमाह। रागेति। इन्द्रियमनोनिग्रहस्य प्रसादादिफलवचनं यत्नः। अनाशकशब्दस्य प्रसिद्धिमनुरुन्धानोऽर्थान्तरमाह। मृत्य्वन्तमिति। नियमेन संकल्पेन सहितं मरणान्तमशनवर्जनमनाशकमित्यर्थः। किं तेनेति तदाह। तदपीति॥१०५७॥१०५८॥

प्रत्यग्विविदिषामात्रहेतुत्वान्न मृतेर्भयम्॥
अनेकजन्मसंसिद्धस्ततो यातीति च स्मृतेः॥१०५९॥

शुद्धिद्वारा विविदिषाहेतुत्वं तस्य न सिध्यति जीवतो हि शुध्द्यादिसिद्धिरित्याशङ्क्याऽऽह। प्रत्यगिति। अनाशकस्याऽऽत्मविविदिषामात्रहेतुत्वान्न त्वैहिकविविदिषायां तन्नियमोऽतो मृतिप्रयुक्तमनाशकस्याफलत्वं नाऽऽशङ्कनीयं जन्मान्तरे तस्य तद्धेतुत्वादित्यर्थः। ऐहिकमपि साधनं जन्मान्तरविविदिषाद्वारा मुक्तिहेतुरित्यत्र मानमाह। अनेकेति॥१०५९॥

भावितैः करणैश्चायं बहुसंसारयोनिषु॥
आसादयति शुद्धात्मा मोक्षं वै प्रथमाश्रमे॥१०६०॥

सर्वानाश्रमाननुष्ठितवतो जन्मान्तरेऽपि मुक्तिरिति नियमं निराकुर्वन्वाक्यान्तरमाह। भावितैरिति॥१०६०॥

पृथूदकादितीर्थेषु तथाच मरणं स्मृतौ॥
श्रूयते मुक्तये साक्षान्न भयं स्यादतो मृतेः॥१०६१॥

यद्यपि वार्तमानिकं यज्ञादि जन्मान्तरे शुद्ध्यादिद्वारोपयुक्तं तथाऽपि कथं विशिष्टं मरणं तथेत्याशङ्क्याऽऽह। पृथूदकादीति। आदिपदेन प्रयागादिग्रहः। स्मृतौ ब्रह्मज्ञानेन मुच्यन्ते प्रयागमरणेन वेत्याद्यायामिति। तथाच मृतिकृतमनाशकस्याफलत्वविषयं भयं नास्तीति फलितमाह। नेति॥१०६१॥

साक्षात्तुव1393स्तुविज्ञाने श्रुत्या यत्र नियुज्यते॥
विद्वान्परिहरेत्तत्र मृतिहेतुं प्रयत्नतः॥१०६२॥

सर्वैरपि तर्हि मुमुक्षुभिरनशनं मरणान्तमनुष्ठेयं तत्कुतस्तेषां श्रवणादिविन्धिरित्याशङ्क्याऽऽह। साक्षादिति। यत्र ज्ञानमुद्दिश्य श्रवणादौ श्रोतव्यादिश्रुत्या पुरुषो नियुज्यते तत्र समर्थः साधनचतुष्टयसंपन्नो मरणकारणमनशनं दूरादेव त्यजेदनशनान्तरं चाऽऽद्रियेत मृतिहेतुमिति विशेषणाच्छ्रवणादिसमर्थस्तु मरणान्तमनशनमा-चरन्प्रत्यवेयात्त्वंपदार्थविवेकायेत्यादिस्मृतेरित्यर्थः॥१०६२॥

चतुर्णामाश्रमाणां वा वेदानुवचनादिना॥
श्रुत्येह ग्रहणं ज्ञेयं तद्बुभुत्साप्रसिद्धये॥१०६३॥

वेदानुवचनादिशब्दानां कर्मपरत्वमुक्त्वाऽऽश्रमविषयत्वमाह। चतुर्णामिति। वेदानुवचनादिरूपया श्रुत्या किमित्यस्मिन्वाक्ये ग्रहणमाश्रमाणामित्याशङ्क्याऽऽह। तदिति। सर्वेषामप्याश्रमाणां व्यवधानाव्यवधानाभ्यां प्रत्यग्विविदिषायामधिकारार्थं तेषां ग्रहणमित्यर्थः॥१०६३॥

ब्रह्मचर्यान्तवाक्येन ब्रह्मचारिपरिग्रहः॥
तपसा तापसस्यैव यज्ञेन गृहिणस्तथा॥१०६४॥1394

श्रद्धा1394नाशकवाक्यं तु सर्वार्थमिति गम्यते॥
एतमेव विदित्वेति पारिव्राज्यं च वक्ष्यति॥१०६५॥

केन शब्देन कस्याऽऽश्रमस्य ग्रहणमित्यपेक्षायां माध्यंदिनपाठमनुसृत्य विभागमाह। ब्रह्मचर्यान्तेतितमेतं वेदानुवचनेन ब्रह्मचर्येणब्रा1395ह्मणा विविदिषन्ति य1396ज्ञेन दानेन तपसाऽनाशकेनेति हि ते पठन्ति। तथाऽपि त्रयाणामेवाऽऽश्रमाणामिह ग्रहश्चतुर्थाश्रमद्योतिशब्दाभावादित्याशङ्क्याऽऽह। एतमेवेति॥१०६४॥१०६५॥

सर्वेऽपि क्रमशस्त्वेते सेव्यमाना यथाविधि॥
यथोक्तकारिणं विप्रं नयन्ति परमां गतिम्॥१०६६॥

चतुर्भिराश्रमैरेभिर्यथाशास्त्रमनुष्ठितैः॥
अत्यन्तं क्षेममाप्नोतीत्यापस्तम्बोऽप्यभाषत॥१०६७॥

बेदानुवचनादिशब्दानामाश्रमविषयत्वं वदता विविदिषादिद्वारा मोक्षोपायत्वमाश्रमाणामुक्तं तत्र प्रमाणमाह। सर्वेऽपीति। क्षेमशब्देन मोक्षं ग्रहीतुमत्यन्तविशेषणम्॥१०६६॥१०६७॥

यं तं विविदिषन्त्युच्चैर्यथोक्तैः साधनैः परम्॥
एतमेव विदित्वाऽथ मुनिः स्यात्प्राग्यथोदितः॥१०६८॥

एतमेव1397 विदित्वेत्यादेरर्थमाह। यमिति। आत्मवेदनमुनिभावयोरव्यवधानार्थमथेत्युक्तम्। प्रागिति विविदिषावाक्योक्तिः। यथोदितः प्रत्यग्विविदिषावानित्यर्थः। तात्पर्यवत्त्वमुच्चैरित्युच्यते॥१०६८॥

पाण्डित्यबाल्ययोर्निष्ठां मुनित्वं प्रागवादिषम्॥
सर्वकर्ममुचां यस्मान्न तत्साधारणं ततः॥१०६९॥

प्रत्यञ्चं विविदिषुस्तमेव विदित्वा ज्ञानी भवतीत्युक्तम्। इदानीमात्मवेदनान्मुनित्वं सर्वाश्रमसाधारणं विविदिषा हि श्रवणादिद्वारा ज्ञानहेतुः सा च सर्वाश्रमसाधारणी दर्शितेत्याशङ्क्य पञ्चमोक्तं स्मारयति। पाण्डित्येति॥१०६९॥

योगस्य च समस्तस्य प्रत्यग्विज्ञानजन्मने॥
उपयोगो यतस्तस्मान्नाऽऽत्मज्ञानोदयात्परः॥१०७०॥

किंच कर्मणां विविदिषाद्वारा दूरोपकारित्वाज्ज्ञानादूर्ध्वमयोगात्कर्मत्यागिनामेव ज्ञानितेत्याह। योगस्येति। कर्मण इति यावत्। परो योग इति शेषः॥१०७०॥

शमादीन्येव विद्यायाः साधनानि यतस्ततः॥
कुतोऽसंन्यासिनस्तत्स्यान्मुनित्वं निष्प्रमाणकम्॥१०७१॥

यदि कर्मणो ज्ञानोत्पत्त्युपायत्वमिष्टं तर्हि कर्मिणोऽपि मुनित्वं तत्राऽऽह। शमादीनीति। अन्तरङ्गसाधनं विद्यायाः शमादिर्बहिरङ्गसाधनं कर्मातः संन्यासिनामेव ज्ञानितेत्यर्थः॥१०७१॥

मननात्मकमेवास्य कर्म नान्यद्यतस्ततः॥
मुनित्वं न्यासिनो युक्तं मौनाच्चाप्यस्य सर्वदा॥१०७२॥

तेषामपि न ज्ञानित्वं स्वाश्रमकर्माक्षिप्तचित्तत्वादित्याशङ्क्याऽऽह। मननेति। संन्यासिनो हि कर्म वेदान्तानामैक्यविषयमैदंपर्यं निश्चित्य तस्यैव तात्पर्यविपयस्य श्रौत—

युक्त्यवष्टम्भेनानवरतमनुसंधानमेव न तद्विरोधि कर्मान्तरं शौचादीनां बाधितानुवृत्तिमात्रत्वादतस्तस्य युक्ता मुनितेत्यर्थः। सततमतिनियतवागादिव्यापारत्वाच्च तस्य मुनित्वं युक्तमित्याह। मौनाच्चेति॥१०७२॥

प्रत्यग्याथात्म्यविज्ञाननिष्ठता मुनिता यतः॥
तज्ज्ञानजन्मनो नोर्ध्वं मुनिता तत्फलत्वतः॥२०७३॥

अन्ये तु शब्दोत्थब्रह्मज्ञानमात्रान्न मुनित्वं तस्य संसृष्टपरोक्षत्वात्तदभ्यासोत्थसाक्षात्कारापेक्षं तदिति मन्यन्ते तान्प्रत्याह। प्रत्यगिति। आत्मस्वरूपविषयं शाब्दज्ञानं साक्षात्कारफलकमेवोत्पद्यते तथाविधज्ञानलाभो मुनित्वं तस्य फलरूपत्वादतः शाब्दज्ञानोत्तरकालमभ्यासकृतसाक्षात्कारमपेक्ष्य मुनित्वं न शङ्क्यमि1398त्यर्थः॥१०७३॥

एतमेवेत्यवधृतेर1399स्यैवैकस्य वस्तुनः॥
तदज्ञानैकहेतुत्वात्सर्वस्यानात्मवस्तुनः॥१०७४॥

इतश्च संन्यासिनामेव मुनितेति वक्तुमेवकारं व्याकरोति। एतमिति। अवधारणे हेतुः। तदज्ञानेति॥१०७४॥

सामर्थ्याच्च ततोऽस्यैव प्रत्यग्याथात्म्यवेदिनः॥
मुनित्वं प्रत्यगज्ञानहेतुकर्मापवर्जनात्॥१०७५॥

अस्त्वेवं प्रस्तुते किं जातं तदाह। सामर्थ्याच्चेति। आत्मैव वस्त्वनात्मा तदविद्याजन्यस्ततो वस्तुस्वरूपाभिज्ञस्यैव ज्ञानसामर्थ्यादज्ञानकृतकर्मत्यागसिद्धेस्तस्यैव मुनितेत्यर्थः॥१०७५॥

किंचैतमेवमात्मानं सर्वानर्थैककारणम्॥
मोहमात्रव्यवहितमाप्तुमिच्छन्त आदरात्॥१०७६॥

तत्रैव हेत्वन्तरत्वेनोत्तरं वाक्यमादत्ते। किंचेति। प्रकृतमात्मानं शुद्ध्यादिद्वाराऽऽप्तुमादरादिच्छन्तः प्रव्रजन्तीति संबन्धः। आत्मनः सदाऽऽप्तत्वात्कथमाप्तीच्छेत्याशङ्क्याऽऽह। सर्वेति॥१०७६॥

आत्मयाथात्म्यविज्ञानसर्वाविद्योपमर्दिना॥
सम्यग्ज्ञानप्रदीपेन प्रत्यक्प्रवणबुद्धयः॥१०७७॥

तदाप्त्युपायमाह। आत्मेति। आत्मनो याथात्म्यमेव विज्ञानं तत्र सर्वप्रकाराविद्याविषयाश्रयान्तराभावात्तदुपमर्दिसम्यग्ज्ञानसंज्ञो दीपस्तेनाऽऽत्मानमाप्तुमिच्छन्तीति योजना। प्रव्राजिन इत्यस्य तात्पर्यमाह। प्रत्यगिति॥१०७७॥

विरक्ताः सर्वसंसारादाग्रजाद्बुद्धिशुद्धितः॥
उत्पन्ननिखिलानर्थतित्यक्षा दोषदर्शनात्॥१०७८॥

कथं स्वभावतो विषयाभिमुखानां प्रत्यक्प्रावण्यं पराञ्चि खानीति हि श्रुतेस्तत्राऽऽह विरक्ता इति। नित्यकर्मानुष्ठानसिद्धिशुद्धिलब्धवैराग्यस्य विषयदोषधीसहकृतस्त फलमाह। उत्पन्नेति॥१०७८॥

वाङ्मनःकायकर्मभ्योऽतः प्रव्रजनशीलिनः॥१०७९॥

एतमेवेत्यवधृतेर्न लोकत्रयकामिनाम्॥
पारिव्राज्येऽधिकारोऽस्तीत्यय1400मर्थोऽवगम्यते॥१०८०॥

प्राप्तसर्वसंसारत्यागेच्छानामिच्छाकार्यमाह। वागिति। यस्मादीदृक्षा मुमुक्षवोऽत प्रत्यक्प्रवणबुद्धयः प्रव्रजन्तीति संबधः। एवकारार्थं दर्शयन्नेतमेव लोकमित्यादिभाष्यार्थमाह। एतमिति॥१०७९॥१०८०॥

असाधारणसाध्यानि पुत्रादीनि यथा तथा॥
पुत्रादिकामत्यागोऽपि स्यादसाधारणोऽर्थ1401वान्॥१०८१॥

विरक्तस्य पारिव्राज्यमुक्त्वा तस्यैव पारिव्राज्यं ज्ञानद्वारा मुक्तिहेतुरित्येतद्दृष्टान्तेनाऽऽह। असाधारणेति॥१०८१॥

परस्परविरोधाच्च पराक्प्रत्यक्फलात्मनाम्॥
पुत्रादिसाधनानां च तत्त्यागस्य च वर्त्मनः॥१०८२॥

पुत्रादिसाधनसमुच्चितस्य पारिव्राज्यस्य कुतो न मोक्षहेतुतेत्याशङ्क्याऽऽह। परस्परेति॥१०८२॥

पूर्वे समुद्रे यः पन्था न स गच्छति पश्चिमम्॥
एकः पन्था हि मोक्षस्येत्यपि व्यासोऽपि चावदत्॥१०८३॥

मिथो विरोधे दृष्टान्तमाह। पूर्व इति। पारिव्राज्यस्यैव केवलस्य कैवल्यहेतुतेत्यत्र वृद्धसंमतिमाह। एक इति। श्रौतार्थे स्मृतिसमुच्चयार्थमपि चेत्युक्तम्। अपिशब्दस्त्याग एव हि सर्वेषां मोक्षसाधनमुत्तममित्यादिवाक्यसमुच्चयार्थः॥१०८३॥

प्रव्राजिनोऽत्र गृह्यन्ते प्रसिद्धेर्यदि वा परे॥
त्रिदण्डिनः समाख्यायास्तेष्वेवातिप्रसिद्धितः॥१०८४॥

प्रव्राजिनः प्रव्रजनशीला मुमुक्षव इत्येवंपरत्वेन व्याख्यातमिदानीं तस्यैवार्थान्तरमाह। प्रव्राजिनोऽत्रेति। प्रसिद्धेरिति हेतुं स्फुटयति। समाख्याया इति। मुमुक्षवस्त्रिदण्डिनः पारमहंसीं वृत्तिं गृह्णन्तीति भावः॥१०८४॥

पराश्चि स्वानीत्यादीनि श्रौतानि च वचांसि नः॥
तानि वा इति निन्दित्वा न्यासो ब्रह्मेति शासनात्॥१०८५॥

उपायो न्यास एवातः प्रत्यग्ज्ञानस्य जन्मने॥
प्रत्यग्ज्ञानविरुद्धत्वान्मनोवाक्कायकर्मणाम्॥१०८६॥

कर्मिणामेव तेषां विवक्षितज्ञानलाभात्किं पारमहंस्येनेत्याशङ्क्य बहिर्मुखानां कर्मिणां न ज्ञानमित्यत्र मानमाह। पराञ्चीति। पारमहंस्यमेव सम्यग्धीहेतुरित्यत्र श्रौतं लिङ्गमाह। तानीति। न्यास इति ब्रह्मा1402 ब्रह्मा हि परः परो हि ब्रह्मेत्युक्त्वा तानि वा एतान्यवराणि तपांसीति प्रकृतानि सत्यादीनि निन्दित्वा न्यास एवात्यरेचयदिति परमहंससंन्यासस्यातिशायित्वोपदेशात्तस्य तत्त्वज्ञानं प्रत्यन्तरङ्गत्वं निश्चितमित्यर्थः। वाङ्मनःकायकर्मणां संन्यास एवेति संबन्धः। अवधारणे हेतुः1403प्रत्यगिति॥१०८५॥१०८६॥

शब्दादिप्रकृतीन्येव कार्याणि करणानि च॥
प्रत्यग्ज्ञानाय नैवालमतस्तानि विरोधतः॥१०८७॥

विरोधं साधयति। शब्दादीति। देहेन्द्रियाणि भौतिकत्वाप्रत्यग्विरोधोनि न तज्ज्ञानमुत्पादयितुमुत्सहन्ते तत्कार्यत्वात्कर्माण्यपि तथैवेत्यर्थः॥१०८७॥

आत्मलोकपरीप्सायां तस्मात्साधनमुत्तमम्॥
त्याग एव हि विज्ञेयं मनोवाक्कायकर्मणाम्॥१०८८॥

कर्मत्यागो ज्ञानहेतुरित्युक्तमुपसंहरति। आत्मेति। तस्य ज्ञानसाधनत्वं श्रुतिस्मृतिप्रसिद्धमिति हिशब्दार्थः॥१०८८॥

प्रतिसाध्यं सुतादीनि यथा लोकत्रयार्थिनाम्॥
नियतानि तथैवेह प्रत्यग्लोकाप्तिमिच्छताम्॥१०८९॥

सर्वकर्मपरित्यागः साधनं परमं मतम्॥
असंभवे हि कर्माणि विधीयन्तेऽस्य सर्वतः॥१०९०॥

तदेव दृष्टान्तेन स्पष्टयति। प्रतिसाध्यमिति। इहेति प्रतीचो लोकस्याऽऽप्तिरुक्ता। कर्मत्यागो ज्ञानसाधनं चेत्तर्हि पङ्कप्रक्षालनन्यायात्कर्मविधिवैयर्थ्यमित्याशङ्क्याऽऽह। असंभवे हीति। अविरक्तस्य संन्यासासंभवे सति सर्वतो वैराग्योत्पत्त्यर्थं शुद्धिकलानि कर्माणि विधीयन्ते तस्मान्न पङ्कप्रक्षालनन्याय इत्यर्थः॥१०८९॥१०९०॥

रागाद्याकृष्टचेतस्त्वान्न चेच्छक्नोत्यशेषतः॥
कर्माणि मानवस्त्यक्तुं स करोतु यथाविधि॥१०९१॥

कर्माणि कर्मसंत्यागसामर्थ्यार्थं दिवानिशम्॥
न कर्मणामनारम्भात्तथाच स्मृतिशासनम्॥१०९२॥

तदेव प्रपञ्चयति। रागादीति। कर्मणां संत्यागे सामर्थ्यं बुद्धिशुद्धिद्वारा वैराग्यं

तदर्थमिति यावत्। अज्ञस्याविरक्तस्य कर्मानुष्ठानमित्यत्र मानमाह। नेति॥१०९१॥॥१०९२॥

आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते॥
योगारूढस्य तस्यैव शमः कारणमुच्यते॥१०९३॥

तर्हि कर्मणामेव साक्षान्नैष्कर्म्यसाधनत्वं भगवतो मतमिति शान्तिकर्मणि वेतालोदयस्तत्राऽऽह। आरुरुक्षोरिति। योगशब्देन चित्तशुद्धिर्ज्ञानोदयो वोच्यते॥१०९३॥

कोऽभिप्रायोऽखिलं कर्म त्यजतां साधनैः सह॥
आत्मलोकार्थिनां पुंसामिति पृष्टेऽर्थ उच्यते॥१०९४॥

एतमेवेत्यादि व्याख्यातम्। इदानीमेतद्ध स्मेत्यादि प्रश्नपूर्वकमादत्ते। कोऽभिप्राय इति। साधनैः शिखायज्ञोपवीतादिभिरिति यावत्॥१०९४॥

एतद्ध स्मेति वचसा पारिव्राज्येऽभिधीयते॥
अर्थवादस्वरूपेण हेतुः श्रुत्या प्रयत्नतः॥१०९५॥

अभिप्रेतमर्थमुच्यमानत्वेन प्रतिज्ञातं प्रकटयति। एतदिति। अर्थवादस्वरूपेणैतदित्यादिवचसा तात्पर्येण श्रुत्या पारिव्राज्ये हेतुरुच्यत इति योजना॥१०९५॥

तदेतत्कारणं स्पष्टं पारिव्राज्येऽभिधीयते॥
ऐतिह्यार्थं च ह स्मेति वैशब्दः स्मरणाय च॥१०९६॥

तात्पर्यमुक्त्वा पदानि व्याकुर्वाणस्तदेतच्छब्दयोः संबन्धं दर्शयन्नपेक्षितं पूरयति। तदेतदिति। निपातत्रयं व्याकरोति। ऐतिह्येति॥१०९६॥

पूर्वेऽतिक्रान्तकालीना विद्वांसो ज्ञाततत्त्वकाः॥
तिसृणामेषणानां स्यात्प्रजामित्युपलक्षणम्॥१०९७॥

पदद्वयं व्याचष्टे। पूर्व इति। प्रजां न कामयन्त इति संबन्धः। प्रजामित्येतच्छ्रूयते कर्मापरब्रह्मविद्यां चेति कथं भाष्यमित्याशङ्क्याऽऽह। तिसृणामिति॥१०९७॥

न कामयन्ते नेच्छन्ति पुत्रोत्पत्त्यादिलक्षणाः॥
एषणाः सकला एताः कस्मादित्यभिधीयते॥१०९८॥

नेत्यादेरर्थमाह। नेत्यादिना। वाच्यमुक्त्वा विवक्षितमाह। पुत्रेति। नेच्छन्तीति पूर्वेण संबन्धः। पुत्रादिलोकत्रयसाधनं नानुतिष्ठन्तीतिभाष्यव्याख्याने हेतुं पृच्छति। कस्मादिति। किमित्यादि हेतुत्वेनावतारयति। अभिधीयत इति॥१०९८॥

एषणास्त्यजतां तेषामभिप्रायमिमं शृणु॥
एषणात्रितयस्यापि किमित्याक्षेप उच्यते॥१०९९॥

तस्य तात्पर्यमाह। एषणा इति। तेषामभिप्रायं दर्शयितुमेतद्वाक्यमित्यर्थः। किंशब्दस्य प्रश्नवितर्ककुत्सार्थत्वं व्यावर्तयति। एषणेति॥१०९९॥

प्रजया किं करिष्यामः कनीयःफलया वयम्॥
स्वतः सिद्धैकलो ह्यात्मा येषां लोको ध्रुवोऽक्षयः॥११००॥

आक्षेपं प्रकटयद्वाक्यं योजयति। प्रजयेति। येषामस्माकं कूटस्थश्चिदात्मैव पुमर्थस्ते वयं प्रजादिना लोकत्रयहेतुना साध्यं नैव पश्याम इत्यर्थः। आक्षेपे हेतुरुत्तरार्धे नोक्तः॥११००॥

आत्मत्वादेव चावाप्तः सर्वसाधननिःस्पृहः॥
वस्तुत्पत्त्यादिमद्यस्मात्साधनानि व्यपेक्षते॥११०१॥

आत्माख्योऽपि पुमर्थः साधनसाध्यः स्वर्गादिवत्तत्कथमाक्षेपस्तत्राऽऽह। आत्मत्वादिति। आत्मनः साधननिरपेक्षत्वे हेत्वन्तरमाह। वस्त्विति। तस्मादुत्पत्त्यादिरहितमात्मवस्त्वनपेक्षमिति शेषः॥११०१॥

यच्चोत्पत्त्यादिमद्वस्तु तत्तुच्छं स्वप्नवस्तुवत्॥
आत्मज्ञाने तु निःशेषफलान्तर्भावकारणात्॥११०२॥

अथोत्पत्त्यादिमद्वस्त्वात्मनोऽन्यदनन्यद्वा प्रथमे वस्त्वन्तरस्वीकारादपसिद्धान्तो द्वितीये साधनानपेक्षत्वं नाऽऽत्मनः सिध्यति तत्राऽऽह। यच्चेति। तस्य तुच्छत्वे स्वर्गादिलाभो न पुमर्थः स्यात्ततोऽन्यस्य तत्त्वे चाऽऽत्मलाभादप्यर्थान्तरस्य तथात्वमित्यनवस्थेत्याशङ्क्याऽऽह। आत्मज्ञाने त्विति। तस्य पुमर्थता दुर्वारोति शेषः॥११०२॥

नाऽऽत्मलाभात्परो लाभः कृत्स्नेऽपि जगतीक्ष्यते॥
सर्वप्राप्यार्थसंप्राप्तेः सर्वहेयनिराकृतेः॥११०३॥

तत्रैव हेत्वतन्रमाह। नेत्यादिना। आत्मज्ञाने निःशेषफलान्तर्भावे हेतुमाह। सर्वेति॥११०३॥

इति चेतसि संधाय ह्याक्षिपन्ति प्रजादिकम्॥
नृलो1404कादिफलं सर्वमेषणात्रयमादरात्॥११०४॥

एषणात्यागिनामभिप्रायं निगमयति। इति चेतसीति। आत्मज्ञाने सति प्राप्यस्य सर्वस्य प्राप्तेर्निराकर्तव्यस्य सर्वस्य निराकृतेस्तस्मिन्सर्वफलान्तर्भावादात्मलाभात्परो लाभो नेति मत्वा प्रजादिकं विद्वांसः समाक्षिपन्तीत्यर्थः। आक्षेपके सत्याक्षेपस्योपपत्त्यर्थो हिशब्दः॥११०४॥

उत्पाद्यमाप्यं संस्कार्यं विकार्यं चैषणाफलम्॥
तस्मिन्नेवंविधे कः स्यात्संतोषो विदुषामपि॥११०५॥

आक्षेपे हेत्वन्तरमाह। उत्पाद्यमिति। एवंविधे सातिशये जन्मविनाशवतीत्यर्थः॥११०५॥

आत्मब्रह्मानुलोम्येन शेषणात्याग इष्यते॥
साधनं ब्रह्मविद्येव ब्रह्मज्ञानस्य जन्मने॥११०६॥

विदु1405षामपीत्युक्तत्वादज्ञस्यापि विरक्तस्य पुत्राद्येषणात्यागो धीहेतुत्वेन सूचितः। इदानीं तत्त्यागस्य तद्धेतुत्वं दृष्टान्तेन साधयति। आत्मेति। यथा ब्रह्मविद्या प्रत्यग्भूतब्रह्मानुरूपत्वात्तत्प्राप्तिहेतुरेवमेषणात्यागोऽपि कर्मविरोधित्वेन नैष्कर्म्यब्रह्मज्ञानानुरूपत्वात्तज्जन्मने साधनमिष्यते तस्मादज्ञस्यापि विरक्तस्य संन्यासो भवति फलवानित्यर्थः॥११०६॥

आप्ताशेषपुमर्थस्य प्रत्यग्याथात्म्यबोधिनः1406
दग्धात्मसः पुंसो नैषणाऽपेक्षितेष्यते॥११०७॥

अविद्वत्संन्यास1407फलमुक्त्वा विद्वत्संन्याससौ1408लभ्यमाह। आप्तेति॥११०७॥

सर्वभूतात्मभूतस्य सर्वैकात्म्यं प्रपश्यतः॥
आप्ताशेषपुमर्थस्य त्यक्ताशेषासुखस्य च॥११०८॥

प्राप्तस्य परमं स्वास्थ्यं वद किं स्यात्प्रजादिभिः॥
इति निश्चित्य निःसङ्गाः प्रव्रजन्त्येव सर्वतः॥११०९॥

विदुषामेषणापेक्षा नास्तीत्येतत्प्रतिपादयति। सर्वभूतेति। ज्ञेयरूपमनूद्य ज्ञानरूपमनुवदति। सर्वेति। तद्दृष्टिफलमाह। आप्तेति। तं प्रति प्रजादीनामकिंचित्करत्वमाह। वदेति। उक्तरीत्या ज्ञानवतामेषणात्यागस्यानायासत्वमाह। **इति निश्चित्येति॥**११०८॥११०९॥

धावतोऽविदुषो दृष्ट्वामृगतृष्णोदकार्थिनः॥
तत्तोयत1409त्त्ववित्कश्चिन्न हि धावति मूढवत्॥१११०॥

तेषामेषणात्यागं दृष्टान्तेन स्पष्टयति। धावत इति। अविदुष इति च्छेदः॥१११०॥

यथैवं श्रुतितोऽशेषवाङ्मनःकायसाधन—
प्रवृत्तिविषयप्रत्यग्याथात्म्यज्ञानिनामिह॥११११॥

अविद्यापटसंवीत धिषणान्कामिनो नरान्॥
पुत्रोत्पत्यादिसाध्येषु प्रवृत्तान्वीक्ष्य यत्नतः॥
अस्माकं न प्रवृत्तिः स्यात्कृतार्थत्वाच्च कारणात्॥१११२॥

दृष्टान्तानुसारेण दार्ष्टान्तिकमाह। यथेति। त्रिविधप्रवृत्तीनामालम्बनं देहादिस्तस्याप्यात्मा प्रत्यक्त्वेन स्थितस्तत्स्वरूपज्ञानिनस्तत्त्वमादिश्रुतिवशादेव ये तेषामस्माकमज्ञानाच्छन्नबुद्धित्वाद्रागादिपराधीनान्पुत्रोत्पत्त्यादिषु विधिवशादेव यतमानान्मनुष्याभिमानिनो दृष्ट्वा न पुत्रोत्पत्त्यादौ प्रवृत्तिस्तत्त्वज्ञानविरोधादित्यर्थः। न केवलमस्माकं ज्ञानमेव तत्फलं चास्त्यतोऽपि न प्रवृत्तिरित्याह। कृतार्थत्वादिति॥११११॥१११२॥

यदज्ञानात्प्रवृत्तिर्या तज्ज्ञानात्सा कुतो भवेत्॥
तस्मात्सर्वप्रवृत्तीनां हानिः स्यादात्मबोधतः॥१११३॥

इतश्च विदुषो1410 न प्रवृत्तिरित्याह। यदज्ञानादिति। उक्तं सामान्यन्यायं प्रकृते योजयति। तस्मादिति॥१११३॥

सदोत्पत्तेरनुत्पाद्योऽनाप्यश्चापि तथाऽऽत्मनः॥१११४॥

असंस्कार्योऽक्रियाङ्गत्वान्निर्गुणत्वात्तथाऽऽत्मनः॥
कौटस्थ्यादविकार्योऽयं वद स्यात्कर्मणाहि किम्1411॥१११५॥

आत्मनः कर्मानपेक्षत्वाच्च तद्रूपेण स्थितस्य विदुषो न प्रवृत्तिरित्याह। सदेत्यादिना। सर्वदाविद्यमानत्वादित्यर्थः॥१११४॥१११५॥

नोत्पत्त्यादि स्वतो यस्य स्वत एवास्ति यस्य तत्॥
न तस्य कर्मापेक्षाऽस्ति कर्मापेक्षा ततोऽन्यतः॥१११६॥

किंच सतोऽसतो वा कर्मानपेक्षत्वादात्मनश्च सत्त्वात्तदनपेक्षतेत्याह। नेत्यादिना। कस्य तर्हि कमीपेक्षा तत्राऽऽह। कर्मेति॥१११६॥

उत्पत्त्यादौ समर्थ यद्धेतुमात्रमपेक्षते॥
फलवत्कर्म तत्रैव ततोऽन्यत्राफलं भवेत्॥१११७॥

तत्प्रपञ्चयति। उत्पत्त्यादाविति। सदसद्विलक्षणस्यानिर्वाच्यस्य कर्मापेक्षेत्यर्थः। निर्वाच्ये तु नित्यसद्रूपे प्रतीचि कर्मानर्थकमित्याह। तत इति॥१११७॥

उक्तहेतुबलात्तस्माद्विदित्वाऽऽत्मानमात्मना॥
प्रव्रजेयुः समस्ताभ्य एषणाभ्यो द्रुतं बुधाः॥१११८॥

आत्मस्वरूपस्यैवंरूपत्वेऽपि प्रकृते पारिव्राज्ये किमायातं तदाह। उक्तेति। आत्मानं नित्यमुक्तत्वादिरूपेण ज्ञात्वा तस्य चतुर्विधक्रियाफलविलक्षणत्वलक्षणोक्तहेतुसामर्थ्यादेषणाभ्यो बुधा द्रुतं प्रव्रजेयुस्तस्मादविद्वत्संन्यासो ज्ञानाङ्गत्वेन विद्वत्संन्यासस्तत्फलत्वेन सिद्ध इत्यर्थः॥१११८॥

पुत्रोत्पत्तिं समुद्दिश्य ह्येषणा दारसंग्रहः॥
पुत्रैषणेति सेहोक्ता यदि वाऽतोऽन्यथैषणा॥१११९॥

एतदित्यादि व्याख्याय ते हेत्यादौ पुत्रैषणाशब्दार्थमाह। पुत्रेति। यः प्रसिद्धः पुत्रोत्पत्तिमुद्दिश्य दारसंग्रहः सा खल्वेषणा पुत्रैषणेत्यस्यां श्रुतावुक्तेति संबन्धः। उक्तैषणातो विधान्तरेण प्रवृत्ताकदाचि1412देषणा पुत्रैषणेति पक्षान्तरमाह। यदि वेति॥१११९॥

मनुष्यलोकसंप्राप्तिं समुद्दिश्यास्य यैषणा॥
पुत्रोत्पत्त्येह तत्प्राप्तौ साऽत्र पुत्रैषणोच्यते॥११२०॥

विधान्तरं प्रकटयति। मनुष्येति। पुत्रोत्पत्त्या हेतुभूतया मनुष्यलोकाप्ताविह पुत्रेणैवायं लोको जय्य इतिशास्त्रसिद्धा या तामुद्दिश्याज्ञस्यैषणा साऽस्मिन्वाक्ये पुत्रैषणेति योजना॥११२०॥

दैवं च मानुषं वित्तं कर्मणो यत्प्रयोजकम्॥
देवतादिपरिज्ञानं दैवं पश्वादि मानुषम्॥११२१॥

वित्तैषणाशब्दार्थमाह। दैवं चेति। तस्य विनियोगमाह। कर्मण इति। वित्तद्वयं विभजते। देवतादीति॥११२१॥

संसारकारणध्वंसि यत्तु ज्ञानं विमुक्तिदम्॥
वित्तश्रुत्या न तद्ग्राह्यं तस्य कर्मविरोधतः॥११२२॥

ब्रह्मज्ञानस्यापि दैववित्तान्तर्भावाद्वित्तशब्दतेति केचित्तान्प्रत्याह। संसारेति। वित्तं हि कर्मप्रयोजकं तत्र विनियुक्तमिदं तु तद्विरोधित्वान्न तच्छब्दार्हमित्यर्थः॥११२२॥

यस्य साधनभावः स्यात्प्रवृत्तौ सर्वकर्मणाम्॥
गर्तादे1413रिव वित्तत्वं तस्य ज्ञानस्य कर्मसु॥११२३॥

देवतादिज्ञानस्यापि तर्हि ब्रह्मज्ञानवन्न तच्छब्दतेत्याशङ्क्य विशेषमाह। यस्येति। गर्तादेरिवेत्याहवनीयरूपादि दृष्टान्त्यते। यद्वा गर्तकण्टकादेर्व्यावहारिकस्य कर्माहेतुत्वान्न वित्तत्वं नैवं प्रकृतस्य ज्ञानस्येति व्यतिरेको ग1414वादेरिवेति पाठान्तरम्॥११२३॥

कर्महेतुविरुद्धं तु न वित्तं ज्ञानमिष्यते॥११२४॥

कर्मप्रकरणाकाङ्क्षि ज्ञानं कर्मगुणो भवेत्॥
यद्धि प्रकरणे यस्य तत्तदङ्गं प्रचक्षते॥११२५॥

ब्रह्मज्ञानं वित्तश्रुत्या न ग्राह्यं कर्मविरोधित्वादित्युक्तमनुभाषते। कर्मेति। ब्रह्मज्ञानस्य कर्मतद्धेतुविरुद्धत्वमसिद्धं कर्माङ्गत्वादाज्यावेक्षणवदित्याशङ्क्याऽऽह। कर्मेति

तत्र हेतुः। यद्धीति। विनियोजकप्रमाणाभावान्नेदं कर्माङ्गमित्यर्थः॥११२४॥॥११२५॥

स्वरूपलाभमात्रेण यत्त्वविद्यां निहन्ति नः॥
न तदङ्गं प्रधानं वा ज्ञानं स्यात्कर्मणः क्वचित्॥११२६॥

अङ्गत्वाभावेऽपि प्राधान्येन ज्ञानस्य कर्मणि संबन्धः स्यादिति चेन्नेत्याह। स्वरूपेति। क्वचिदिति स्वरूपे फले वेत्यर्थः॥११२६॥

एतद्बलेन संन्यास एषणाभ्योऽवसीयते॥
देवलोकफलं ज्ञानमेषणैवेति गम्यते॥११२७॥

ब्रह्मज्ञानस्य कर्मविरोधित्वान्न वित्तत्वमित्युक्त्वा तत्रैव हेत्वन्तरमाह। एतदिति। अतो नास्य वित्तत्वेन त्यागोऽस्तीति शेषः। ब्रह्मधीवदुपास्तिमपि हित्वा ज्ञानान्तरं वित्तश्रुत्या ग्राह्यमित्याशङ्क्याऽऽह। देवलोकेति। यस्य साधनभावः स्यादित्यत्र कर्मप्रयोजकं ज्ञानं वित्तमेवेत्युक्तमिह तूपास्तिरपीति विशेषो न हि यथोक्तफलं ज्ञानमेषणातोऽर्थान्तरं पितृलोकादिफलस्य कर्मादेरपि तथात्वापत्तेरिति भावः॥११२७॥

लोकैषणाग्रहेणैव वित्तान्तर्भावसिद्धितः॥
फलोद्देशेन या चेष्टा सैव लोकैषणा यतः॥११२८॥

लोकैषणाशब्देन वित्तैषणाशब्दस्य पौनरुक्त्यं शङ्कते। लोकेति। तेनैव वित्तैषणा गृहीता लोकसाधनत्वेन वित्तस्य लोकैषणायामन्तर्भावसिद्धेरिति योजना। अन्तर्भावं साधयति। फलेति। अतो लोकैषणाशब्देनैव लोकसाधनसर्वप्रकारकर्मग्रहाद्वित्तशब्देनापि तद्ग्रहे पुनरुक्तिरित्यर्थः॥११२८॥

यत्तु चोदितमित्येव क्रि1415यते कर्म निष्फलम्॥
वित्तैषणेति तां ब्रूमो जामित्वविनिवृत्सया॥११२९॥

अर्थभेदं दर्शयन्परिहरति। यत्त्विति। निष्फलं विध्युद्देशस्थफलविकलमिति यावत्। वित्तशब्देन नित्यं कम तत्साधनं च पुनरुक्तिपरिहारार्थं ग्राह्यमित्यर्थः॥११२९॥

लोकोद्देशेन या चेष्टा वाङ्मनः कायसाधना॥
लोकैपणेति तामाहुरेषणार्थविदो जनाः॥११३०॥

लोकैषणाशब्दार्थमाह। लोकेति। काम्यं कर्म तत्साधनं चात्र विवक्षितमिति न पौनरुक्त्यमित्यर्थः॥११३०॥

क्रियाकारकरूपाभ्य एषणाभ्यः प्रबोधतः॥
प्रातिलोम्येन यत्स्थानं व्युत्थानमिति तद्विदुः॥११३१॥

व्युत्थायेत्यत्र प्रकृत्यर्थमाह। क्रियेति॥११३१॥

इत्येवमादि व्याख्येयं व्याख्यातं पूर्वमेव तु॥
कहोलब्राह्मणे नातस्तद्व्याख्यानाय यत्यते॥११३२॥

अथेत्यादिवाक्यं प्रत्याह। इत्येवमादीति। व्याख्याप्रकारं पृच्छन्तं प्रत्याह। व्याख्यातमिति॥११३२॥

प्रव्रजेयुरतो लोकमीप्सन्तो ब्राह्मणा बुधाः॥
प्रव्रजन्तीति च विधिरर्थवादेन संगतेः॥११३३॥

पदार्थस्यावाच्यत्वेऽपि प्रकरणार्थमाह। प्रव्रजेयुरिति। आत्मलोकस्य कर्मासाध्यत्वमतः शब्दार्थः। न च ब्राह्मण्यमेव जिज्ञासाद्वारा पारिव्राज्यस्य हेतुः किंतु विवेककृतं वैराग्यमित्याह। बुधा इति। प्रव्रजेयुरिति न विधिः प्रव्रजन्तीतिवर्तमानापदेशादित्याशङ्क्याऽऽह। प्रव्रजन्तीति चेति॥११३३॥

नार्थवादान्तरापेक्षा ह्यर्थवादस्य युज्यते॥
विधिनैवैकवाक्यत्वमर्थवादस्य युज्यते॥१९३४॥

एतद्ध स्मेत्याद्यर्थवादसंबन्धेऽपि पारिव्राज्यवचनस्य कुतो विधित्वमत आह। नेत्यादिना। तत्रादृष्टत्वं हेतूकर्तुं हिशब्दः। अयुक्तत्वं साधयति। विधिनेति। सोऽरोदीदित्यादेर्बर्हिषि रजतं न देयमित्यादिविधिनैकवाक्यत्वदर्शनादर्थवादस्यार्थवादान्तरापेक्षा न युक्तेत्यर्थवादाधिकरणे स्थितमित्यर्थः॥११३४॥

अर्थवादेन लिङ्गेन तस्माद्विधिरयं स्फुटः॥
विधिशेषत्वमुज्झित्वा नार्थवादो यतोऽन्यतः॥११३५॥

तस्य विधिनैवान्वये फलितमाह। अर्थवादेनेति। तच्छब्दार्थं स्फुटयति। विधीति॥११३५॥

समानकर्तृकत्वोक्तेर्विभागोक्तेः फलस्य च॥
प्रव्रजन्तीत्येष विधिरर्थवादेन चान्वयात्॥११३६॥

इतश्च पारिव्राज्यं विधित्सितमित्याह। समानेति। यथाऽर्थवादयोगात्प्रव्रजन्तीत्येष विधिरित्युक्तं तथा विदित्वा व्युत्थायेति ज्ञानेन सह व्युत्थानाख्यपारिव्राज्यस्य तुल्यकर्तृकत्व1416निंर्देशाद्वेदनसहितव्युत्थानस्य पुत्रादिफलभूतलोकत्रयाद्विभज्याऽऽत्मलोकाख्यफलोक्तेश्च विधित्सितमेव पारित्राज्यमित्यर्थः॥११३६॥

विज्ञानेन विदित्वेति श्रूयतेऽस्यैक1417कर्तृता॥
विविनक्ति फलं चापि1418 येषामित्येवमादिना॥११३७॥

उक्तेऽर्थे विज्ञानसमानेत्यादिभाष्यं योजयति। विज्ञानेनेति। अपिशब्दाद्वेदानुवचनादिसहपाठान्नार्थवादताऽस्येति सूचितम्॥११३७॥

प्रव्रजन्तीति नाप्येतत्सकृच्छ्रुतमिहेष्यते॥
प्राप्तवल्लोकनुत्यर्थमर्थवादव्यपेक्षि च॥
प्रधानवदतो नेदं लोकस्तुतिपरं भवेत्॥११३८॥

इतश्च तद्विधित्सितमित्याह। प्रव्रजन्तीति। न केवलं प्रकृते वाक्ये सकृदेवेदं पारिव्राज्यं श्रूयते किंतु तत्र तत्राभ्यस्यते प्रव्राजिनः प्रव्रजन्ति व्युत्थाय भिक्षाचर्यं चरन्ति विदित्वा मुनिर्भवतीति च तस्मादेतद्विधेयमित्यर्थः। ननु यथा वायुर्वै क्षेपिष्ठेत्यादिना प्राप्तार्थेनार्थवादेन देवतादिप्रशंसाद्वारा वायव्यं श्वेतमालभेतेत्यादिना विहितं कर्म स्तूयते तथा पारिव्राज्येनापि महाभागोऽयमात्मलोको यत्तदर्थं दु1419ष्करमपि पारिब्राज्यं कुर्वन्तीत्यात्मलोकस्तुतिर्विवक्षिता तथाच न तत्र विधिरत आह। प्राप्तवदिति। पूर्वार्धस्थं नञ्पदमानुषज्यते। किंच यथा प्रधानस्य दर्शादेः सुवर्गाय हि लोकायेत्यर्थवादापेक्षा तथेदमपि पारिव्राज्यमेतद्ध स्मेत्यर्थवादापेक्षमतो लोकस्तुतिपरमेतदिति भ्रान्तिमात्रमित्याह। अर्थवादेति॥११३८॥

नाप्यनुष्ठेयरूपेण पारिव्राज्येन संस्तुतिः॥
आत्मलोकस्य युक्ता स्यान्नापि तज्ज्ञानसंस्तुतिः॥११३९॥

नन्वनुष्ठेयेनापि तेनाऽऽत्मा तज्ज्ञानं वा स्तूयतां नेत्याह। नापीति॥११३९॥

अथानुष्ठेयमपि संस्तुत्य1420र्थं भवतेष्यते॥
अनुष्ठेयस्य दर्शादेः स्तुत्यर्थत्वं प्रसज्यते॥११४०॥

विपक्षे दोषमाह। अथेति॥११४०॥

कर्तव्यतान च ज्ञाता पा1421रिव्राज्यस्य कुत्रचित्॥
स्तुत्यर्थत्वं यतोऽस्येह भवता परिकल्प्यते॥११४१॥

किंच प्राप्तं पारिव्राज्यं स्तावकं वाच्यं न च शास्त्रं विना विशिष्टं तद्द्रष्टुं शक्यंतथाच तस्य विद्याप्रकरणे प्राप्तिरन्यत्र वा प्रथमेऽननुष्ठेयतया प्राप्तेन तेन स्तुत्ययोगादनुष्ठेयत्वेन स्तावकत्वेन च तस्मिन्नुच्यमाने वाक्यं भिद्येतेत्यभिप्रेत्य द्वितीयं निराह। कर्तव्यतेति। परमते पारिव्राज्यस्य क्वापि कर्तव्यत्वापरिज्ञानान्न तेनाऽऽत्मलोके तज्ज्ञाने वा स्तुतिः सिध्यतीत्यर्थः॥११४१॥

अन्यत्रापि विधौ कल्प्य इहैवासौ समर्थ्यताम्॥११४२॥

भूमिष्ठेमधुनि प्राप्ते को विद्वान्पर्वतं व्रजेत्॥
लब्धेऽपि प्रव्रजन्तीति विधावन्यत्र किं श्रमः॥११४३॥

किंच प्रकरणान्तरे पारिव्राज्यविधिर्न कल्पनीयस्तस्य कर्मप्रकरणे विरोधित्वादिति मत्वाऽऽह। अन्यत्रेति। किंचास्मिन्नेव विद्याधिकारे तद्विधौ संभवति किमित्यन्यत्र सकल्प्यतेऽर्के चे1422न्मधु विन्देत किमर्थं पर्वतं व्रजेदिति न्यायादित्याह। भूमिष्ठ इति। न च पारिव्राज्ये नोत्पत्तिविधिरस्तीति युक्तं चतुर्विधविधीनां मिथोऽविनाभावादन्यथा सोमयागविधावपि पर्यनुयोगादिति॥११४२॥११४३॥

काणकुण्ठादिविषये यत्तु कैश्चित्प्रकल्प्यते॥
पारिव्राज्यं न तद्युक्तमननुष्ठेयरूपतः॥११४४॥

केचित्तु विधेयमपि तत्कर्मानधिकृतान्धादिविषयमाहुस्तान्प्रत्याह। काणेति॥११४४॥

कर्तव्यत्वेन न ज्ञातं वृक्षाद्यारोहणं यथा॥
संन्यासोऽपि तथैवायं नैव कार्यतया मतः॥
प्रव्रजन्तीत्यतो नास्य स्तुतिगन्धोऽपि विद्यते॥११४५॥

कथमिदं काणादीनामनुष्ठेयत्वेन न प्रतिपन्नमत आह। कर्तव्यत्वेनेति। यथाऽग्निप्रवेशादि काणादेरनुष्ठेयं नास्मिन्वाक्ये प्रतीयते तथा पारिव्राज्यं तदनुष्ठेयं नेह भातीत्यर्थः। प्रकृतमुपसंहरति। प्रव्रजन्तीत्यत इति। अर्थवादान्वयादिलिङ्गादस्य विधेयत्वमतःशब्दार्थः। आत्मलोकं तज्ज्ञानं वा प्रतीति शेषः। अपिशब्देन संन्यासस्यानधिकृतविषयत्वाभावो विवक्षितः॥१९४५॥

ननु चाऽऽत्मप्रबोधेन विधिगोचरलङ्घिनः॥
कृतकृत्यस्य मुक्तस्य विधिरेष कथं भवेत्॥११४६॥

तस्य विधेयत्वमुक्तमाक्षिपति। नन्विति। न तावदविदुषो विहितः संन्यासो विद्वत्प्रकरणविरोधान्नापि विदुषस्तस्य प्राप्तविद्याफलस्य विध्ययोग्यत्वाद्वैवसंन्यासायोगादित्यर्थः॥११४६॥

परिहारोऽस्य चोद्यस्य कहोलब्राह्मणेऽखिलः॥
यतोऽभाणि मया पूर्वं नेहातः पुनरुच्यते॥११४७॥

पञ्चमोक्तं स्मारयन्परिहरति। परिहारोऽस्येति। साक्षात्कारवतो वा वैधसंन्यासो निरस्यत आपातज्ञानवतो वा नाऽऽयस्तस्य विद्याफलभूतसंन्यासस्याऽऽर्थिकत्वेन वैधत्वानुपगमान्न द्वितीयस्तस्य साक्षात्कारोद्देशेन संन्यासस्यानुष्ठेयतया विध्यपेक्षत्वादित्यर्थः॥११४७॥

ब्रह्मचर्यं समाप्येतिप्रत्यक्षश्रुतिमूलतः॥
चतुर्णामाश्रमाणां स्यान्नोपेक्षाऽतोऽनुमानतः॥११४८॥

ननु विदुषोऽविदुषो वा न संन्यास ऐकाश्रम्यस्मृतेर्गार्हस्थ्यातिरेकेणाऽऽश्रमान्तरायोगाद्यथाऽऽहगौतमऐकाश्रम्यं त्वाचार्याः प्रत्यक्षविधानाद्गार्हस्थ्यस्येति तत्राऽऽह। ब्रह्मचर्यमिति। श्रुतिवशाच्चातुराश्रम्यसंभवादनुमानशब्दितै- काश्रम्यविषयस्मृतिबलान्नाऽऽश्रमान्तरोपेक्षत्यर्थः॥११४८॥

न च वेदैकमूलत्वविरहात्स्या1423त्प्रमाणता॥
आचारस्य स्मृतेर्वाऽपि बौद्धाद्याचारवद्ध्रुवम्॥११४९॥

तर्हि श्रुतेश्चातुराश्रम्यं स्मृतेरैकाश्रम्यं चेति संशयः स्याद्द्वयोरपि प्रामाण्याविशेषादत आह। न चेति। तुल्यन्यायत्वादाचारग्रहणम्। अयं भावः। वेदमूलाः स्मृतयः प्रमाणं तन्मूलागमानां मानत्वान्न चैकाश्रम्यस्मृतेर्मूलं वेदोऽस्ति कुटुम्बे शुचौ देशे स्वाध्यायमधीयान इत्यादि तु नाऽऽश्रमान्तरमपवदति किंत्वज्ञस्याविरक्तस्य गार्हस्थ्यमनुमोदते न चास्यां स्मृतावाश्रमान्तरासत्त्वं विवक्षितं ब्रह्मचर्यस्याप्यपलापप्रसङ्गात्तस्याऽऽश्रमविकल्पमेके ब्रुवत इत्युपक्रमविरोधाच्च न चासावेकीयपक्षोपन्यासो न स्वमतमिति वाच्यं नियामकाभावाच्चातुराश्रम्यविषयबहुश्रुतिस्मृतिविरोधाच्च तस्मादैकाश्रम्यस्मृतेर्मूलाभावादमानत्वान्न तद्वशादत्र संशयोऽवतरेदिति॥११४९॥

धर्मस्य वेदमूलत्वादवेदस्य न धर्मता॥
इत्येवं न्यायवद्वाक्यमाहुर्वेदप्रमाणकाः॥११५०॥

वेदमूला स्मृतिर्मानमित्यत्र स्मृत्यधिकरणं प्रमाणयति। धर्मस्येति। अवेदस्य वेदाप्रमाणकस्य चैत्यवन्दनादेरिति यावत्। वेदप्रमाणकाः शबरस्वामिप्रभृतयः। उक्तं हि— शब्दमूलको हि धर्म इत्युक्तमिति ये त्वदृष्टार्थास्तेषु वैदिकशब्दानुमानमिति च॥११५०॥

वेदशास्त्रानपेक्षत्वं1424 स्मृतिशास्त्रस्य चेन्मतम्॥
निर्ग्रन्थिशास्त्रतुल्यत्वं स्मृतीनां वः प्रसज्यते॥११५१॥

श्रुतिमूला स्मृतिर्मानमित्युक्त्वा विपक्षे दोषमाह। वेदेति। निर्ग्रन्थयो दिगम्बरादयः। यथाऽऽहुः—युक्तं श्रुतिविरोधात्स्मृतिरप्रमाणमितीति॥११५१॥

नापि स्मृतिव्यपेक्षाऽस्ति श्रुतेः स्वातन्त्र्यकारणात्॥
स्मृत्यर्थस्यानुवादोऽयं पारतन्त्र्येऽसति श्रुतेः॥११५२॥

श्रुतिनिरपेक्षत्वे स्मृतीनामप्रामाण्यप्रसङ्गात्प्रमाणं स्मृतिस्तत्सापेक्षेति नियम्यते चेदितराऽपि स्मृतिसापेक्षा किं न स्यात्साऽपि पौरुषेयी मूलानपेक्षा न मानमित्याशङ्क्याऽऽह। नापीति। तत्र हेतुः। स्वातन्त्र्येति। अपौरुषेयतया निरस्तसमस्तदोषाशङ्कायाः श्रुतेः स्वार्थे स्वतन्त्रप्रमाणत्वान्नापेक्षेत्यौत्पत्तिकसूत्रे स्थितम्। उक्तं हि—

अतश्च प्रमाणमनपेक्षत्वादिति। शब्दार्थसंबन्धापौरुषेयत्वमतःशब्दार्थः। ननु स्मृत्यर्थमनुवदन्ती श्रुतिः स्मृतिं कथं नापेक्षते पादोऽस्य विश्वा भूतानीत्याद्या हि श्रुतिर्ममैवांशो जीवलोक इत्यादिस्मृत्यर्थमनुवदति नेत्याह। स्मृत्यर्यस्येति। श्रुतेरसति पारतन्त्र्ये नास्ति स्मृत्यर्थानुवादित्वमिति पूर्वनन्वयेन योजना॥११५२॥

स्वतन्त्रयोर्मिथोऽपेक्षा नापि स्यात्परतन्त्रयोः॥
पारतन्त्र्यान्न चापेक्षा स्वतन्त्रस्य स्वतः कचित्॥११५३॥

श्रुतेः स्मृत्यनपेक्षत्वं दृष्टान्तेनाऽऽह। स्वतन्त्रयोरिति। आत्माकाशयोर्वा घटपटस्थरूपरसयोर्वा मिथोपेक्षाभाववद्वेदस्यापि स्वतन्त्रस्य स्मृतिशास्त्रात्परतन्त्रात्कचिदप्यर्थे स्वतोऽपेक्षा न युक्ता स्वतन्त्रस्य परतन्त्राधीनापेक्षावत्त्वव्याघातादित्यर्थः॥११५३॥

स्मृत्यर्थं न श्रुतिस्तस्मादनुवक्तीह कुत्रचित्॥
स्मृतिस्त्वनुवदत्येव श्रुत्यर्थं परतन्त्रतः॥११५४॥

श्रुतेः स्मृत्यनपेक्षत्वे फलितमाह। स्मृत्यर्थमिति। इहेति वैदिकव्यवहारभूमिरुक्ता। यतु पादोऽस्येत्यादिश्रुतिर्ममैवेत्यादिस्मृत्यर्थमनुवदतीति तत्र वैपरीत्यमाह। स्मृतिस्त्वितिउक्तं हि प्रमाणमेषा स्मृतिर्विज्ञातं तत्किमित्यन्यथा भवतीति॥१११४॥

आत्मा चेदिष्यते लोकः कर्माण्येव न किं नराः॥
तत्प्राप्त्यर्थं प्रयत्नेन कुर्वन्तीह दिवानिशम्॥११५५॥

पारिव्राज्येन किं कार्यमिति चेदुच्यते शृणु॥
अस्यात्यन्तमसंबन्धादात्मलोकस्य कर्मभिः॥११५६॥

सार्थवादं पारिव्राज्यवाक्यं व्याख्याय स एष इत्यादिवाक्यव्यावर्त्यां शङ्कामाह। आत्मा चेदिति। प्रयत्नेन शास्त्रानुसारेणेत्यर्थः। इह पारिव्राज्येन किमिति संबन्धः।इहेत्यात्मलोकोक्तिः। दिवानिशमिति विहितकालोपलक्षणम्। न हि यावज्जीवं जुहुयादित्याहारनिर्हारादिकालेऽपि होमो विधीयते यावदुपबन्धस्य सायंप्रातःकालविधिना संकोचाद्धोमाङ्गस्यापि कालस्यानुपादेयतया निमित्तानुप्रवेशादिति। पारिव्राज्यकार्यं निर्धार्योच्यमानं श्रोतव्यमित्याह। उच्यत इति। उक्तिप्रकारं प्रकटयति। अस्येति। साधनत्वेन फलत्वेन चोत्पाद्यत्वादीनामन्यतमत्वेनापि कर्मभिरात्मलोकस्य संबन्धाभावं वक्तुमत्यन्तमित्युक्तम्॥११५५॥११५६॥

नोत्पत्त्याद्यभिसंबन्ध आत्मनोऽस्योपपद्यते॥
यतोऽतः कर्मणां कार्यं नेह संभाव्यतेऽण्वपि॥११५७॥

उक्तमेव व्यनक्ति। नेत्यादिना॥११५७॥

तदसंभावनायाश्च को हेतुरिति भण्यते॥
स एष नेति नेत्यात्मा यस्मात्प्रागपि वर्णितः॥११५८॥

आत्मनि कर्मकार्यस्यासंभावनाहेतुं पृच्छति। तदिति। हेतुवादी वाक्यमादत्ते। भण्यत इति। तस्य हेतुरूपमर्थमाह। स एष इति। स खल्वयमात्मा निरस्तसमस्तप्रपञ्चो यस्मादवतिष्ठते तस्मान्न तत्र कर्मकार्यमीषदप्यस्तीत्यर्थः। अस्य च वाक्यस्यार्थो न व्याख्येयः प्रागेवानेकशो व्याख्यातत्वादित्याह। प्रागपीति॥११५८॥

प्रध्वस्तैकात्म्यसंमोहो नेति नेत्यात्मविद्यया॥
अगृह्याद्यात्मतां यातःस्वमहि1425म्नि व्यवस्थितः॥११५९॥

वर्णितप्रकारं प्रतिपत्तिसौकर्यार्थं संक्षिपति। प्रध्वस्तेति॥११५९॥

कर्मणां चाऽऽत्मविद्यायां चरितार्थत्वकारणात्॥
विद्ययाऽपि न चेत्कार्यं कर्मभिः स्यात्कथं नु तत्॥११६०॥

इतश्चाऽऽत्मलोकार्थिभिर्न कर्मानुष्ठेयमित्याह। कर्मणां चेति। शुद्धिविविदिषादिद्वारा तेषां विद्यायामवसितत्वाद्विविदिषादिप्राप्तस्य मुमुक्षोर्न तत्कार्यमित्यर्थः। न कर्माणि विद्यायामवस्यन्ति किंतु मुक्तावित्याशङ्क्याऽऽह। विद्ययेति। उत्पन्नायां विद्यायां तत्कार्ये चाविद्यातत्कार्यध्वंसे सिद्धे विद्ययाऽपि कार्यं न किंचिदस्ति चेत्कर्मकार्यमात्मलोके नास्तीति किमु वक्तव्यमित्यर्थः॥१६०॥

एवं चतुर्भिरध्यायैर्यथाव्याख्यातवर्त्मना॥
मुमुक्षुः प्रापितः स्वास्थ्यं परमैकात्म्यलक्षणम्॥११६१॥

आत्मलोकस्याकर्मसाध्यत्वे तत्र तत्रोक्तन्यायमत्रानुसंधेयत्वेन सूचयति। एवमिति। यथाव्याख्यातं वर्त्म कर्मत्यागाख्यं स्वास्थ्यस्य परमत्वं कर्मासाध्यत्वम्। तत्र हेतुः। ऐकात्म्येति॥११६१॥

यस्मादेवमयं तस्माद्विदिते परमात्मनि॥
ज्ञेयकार्यसमाप्तत्वान्न किंचिदवशिष्यते॥११६२॥

मुक्तेरकर्मसाध्यत्वे फलितमाह। यस्मादिति। अयमिति मोक्षपरामर्शः॥११६२॥

सर्वकर्मफलानां च तथाऽन्तर्भावसंभवात्1426
आप्ते कर्मफले नात आरम्भः कर्मणामिह॥११६३॥

ब्रह्मज्ञानफले सर्वकर्मफलान्तर्भावाच्च ज्ञानिनो न किंचित्कार्यमित्याह। सर्वेति। मुक्तेरकर्मसाध्यत्वान्मुमुक्षणा मुक्तेन वा न कर्म कार्य यथा तथा क1427र्मफलमात्रस्य ज्ञानफलेऽन्तर्भावादिह ज्ञाने प्राप्ते तत्फले तदन्तर्भावात्कर्मफले च भूयस्तदारम्भो न संभवतीत्यर्थः॥११६३॥

तथाच भगवान्व्यास इममर्थमुवाच ह॥
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते॥११६४॥

ज्ञानफले कर्मफलान्तर्भावे मानमाह। तथाचेति। व्यासोक्तेरतिप्रसिद्धत्वार्थो निपातः। अखिलं समग्राङ्गोपेतमित्यर्थः। ११६४॥

नातो विज्ञाततत्त्वस्य कर्महेतुप्रबाधनात्॥
वाङ्मनःकायसाध्यानामारम्भः सर्वकर्मणाम्॥११६५॥

स इत्यादिवाक्यतात्पर्यमुपसंहरति। नात इति॥११६५॥

यस्त्वेषणानिवृत्तः स्या1428न्नेति नेत्यात्मविद्यया॥११६६॥

नेतीत्यात्मैव संवृत्तो यतोऽतस्तं विपश्चितम्॥
उभे न व्याप्नुतोऽज्ञोत्थे नेति नेत्यात्मनि स्थित1429म्॥११६७॥

एतमित्यादेरर्थमाह। यस्त्विति। एषणाभ्यो निवृत्तौ हेतुमाह। नेतीति। स नेति नेत्यात्मैव यतः संवृत्तोऽतस्तं विपश्चितमुभे न व्याप्नुतस्तयोरज्ञानादुत्पन्नत्वाद्विदुषश्च निष्प्रपञ्चात्मनि स्थितत्वादिति योजना॥११६६॥११६७॥

के ते उभे न तरत इत्युक्तार्थविवक्षया॥
अत इत्यादिकं तस्मादाजगामोत्तरं वचः॥११६८॥

आकाङ्क्षापूर्वकमुत्तरवाक्यमवतारयति। के ते इति। उक्तार्थविवक्षयेति पूर्ववाक्यार्थस्य स्फुटीकरणेच्छयेति यावत्। तस्मादेतमित्यादेरुत्तरमत इत्यादिकं वच इति संबन्धः॥११६८॥

अतो निमित्तादत्यर्थमहं पापमकारिषम्1430
भोक्तव्यं तन्मयेदानीं मरणात्समनन्तरम्॥११६९॥

अतः पापमकरवमित्यस्यार्थमाह। अत इति। अविवेककृताद्रागादेरित्यर्थः। यद्यपि महत्पापं कृतं तथाऽपि किं तेनेत्यत आह। भोक्तव्यमिति। इदानीमित्यस्य व्याख्या मरणादिति॥। ११६९॥

असह्यानन्तदुःखौघमहाभयमुपस्थितम्॥
इत्येष घोरसंकल्पो हिक्किकावशवर्तिनः॥
सर्वसामर्थ्यहीनस्य जायते तापकारणम्॥११७०॥

तदा पापं भुज्यतां किं खेदेनेति तत्राऽऽह। असह्येति। इतिशब्दार्थमाह। इत्येष इति। एवं संकल्पयन्प्राप्तव्यदुःखपरिहारार्थं किमिति साधनं नानुतिष्ठतीत्याशङ्क्याऽऽह। हिक्किकेति। तापकारणं कृतदुरितमिति शेषः॥११७०॥

क्षयिष्णु पुण्यं चैतस्माद्धेतोरकरवं पुरा॥
इत्येते विचिकित्से द्वे सर्वस्य भवतो मृतौ॥११७१॥

अतः कल्याणमित्यादेरर्थमाह। क्षयिष्ण्विति। एतस्माद्रागादेरेवेत्यर्थः। तत्फलं च मरणानन्तरं भो1431क्तव्यमिति संकल्पयतीति शेषः। संकल्पद्वये कोऽधिकारीत्यपेक्षायामाह। इत्येते इति। तत्र समुच्चयानुष्ठायी यथोक्तविचिकित्सावान्मृतेरूर्ध्वं सूक्ष्मदेहवेष्टितो देवयानेन पथा ब्रह्मलोकमासाद्य निर्वृणोति केवलेष्टादिकारित्वविशेषणः पितृयाणेन चन्द्रमसमासीदति। अनिष्टादिकारी पुनरुक्तविशेषणो भूतसूक्ष्मपरिवृतः संयमने यामीर्यातना भूयो भूयोऽनु1432भूय ततोऽवरुह्य तृतीयस्थानभाग्भवतीति भावः॥११७१॥

एते न तरतोऽज्ञोत्थे तद्धेत्वज्ञानघस्मरम्॥
अशनायाद्यतिक्रान्तं ब्रह्मास्मीत्यात्मवेदिनम्॥
कथं ते व्याप्नुतोऽविद्याहेतूत्थे ब्रह्मवेदिनम्॥११७२॥

तर्हि ब्रह्मविदोऽपि स्यातामेते विचिकित्से तत्कारणे च सुकृतदुष्कृते नेत्याह। एते इति। धर्माधर्मयोर्ब्रह्मविदस्पर्शे हेतुमाह। कथमिति। न हि तं स्पृष्ट्वाऽदृष्टं तपति तस्याविद्याकार्यत्वात्तद्रहितेऽस्मिन्नयोगादित्यर्थः॥११७२॥

तापाय पुण्यमप्याहुः परिणामादिसंगतेः॥
क्षयातिशययोगित्वात्तथा व्यासोऽप्यभाषत॥
तस्य स्थानवरिष्ठस्य सर्वे निरयसंज्ञिताः॥११७३॥

पापस्य तापकत्वेऽपि पुण्यस्य तस्य1433 तदभावात्तन्न तपतीत्यप्रसक्तनिषेधोऽयमित्याशङ्क्याऽऽह। तापायेति। आहुः सूत्रकारभाष्यकारप्रभृतयः श्रुतयश्चेति शेषः। तस्य पापवत्तापकत्वे हेतुमाह। परिणामादीति। पुण्यस्य हि फले परिणामवृद्ध्यादिसंबन्धात्क्षयेणातिशयेन च युक्तत्वाद्युक्तं तस्यापि तापकत्वमित्यर्थः। तत्र स्मृतिं प्रमाणयति। तथेति। व्यासवाक्यमेव लेशतो दर्शयति। तस्येति। ब्रह्मलोकाख्यस्थानस्य मोक्षस्थानस्य वाऽधस्ताद्भाविनः सर्वे लोका दुःखबहुलत्वान्नरकशब्दिता इति वदन्पुण्यमपि तापकं सूचयति स्मेत्यर्थः॥११७३॥

न व्याप्नुतस्ते तं कस्मात्कर्मणी साध्वसाधुनी॥
इतिहेतूपदेशार्थमुभे इति परं वचः॥११७४॥

पुण्यापुण्ये ब्रह्मविदं न स्पृशतो न तपतश्चेत्यत्र श्रुतिमुखेन हेतुं वक्तुं प्रश्नपूर्वकमुत्तरवाक्यमादत्ते। नेत्यादिना॥११७४॥

उभे एते तरत्येष विद्वांस्तद्धेतुबाधनात्॥
उभे न तरतोऽतस्तमुभे न तपतश्चतम्॥११७५॥

तद्व्याकरोति। उभे इति। तत्र हेतुः। तद्धेत्विति। कर्महेतोरविद्याया विद्यया

बाधादिति यावत्। विदुषो धर्माद्यतिक्रमफलमभिलषन्नैनमित्यादेरर्थमाह। उभे नेति॥११७५॥

कृतं फलप्रदानेन प्रत्यवायेन चाकृतम्॥
न तापयति कर्मैतन्नेति नेत्यात्मदर्शिनम्॥११७६॥

उभे न तपतस्तमित्येतत्प्रपञ्चयति। कृतमिति। तस्यातापकत्वे हेतुमाह। नेतीति॥११७६॥

पुण्यं वा यदि वा पापं न कर्मेहास्ति तादृशम्॥
लोकोऽस्य मीयते येन ब्रह्मविद्याप्रकाशितः॥११७७॥

यद्यपि कर्म विद्वांसं न तापयति तथाऽपि विद्यया सह तत्फलं परिच्छिनत्तीत्यस्ति विदुषोऽपि कर्माधीनतेत्याशङ्क्याऽऽह। पुण्यं वेति। षष्ठीसप्तमीभ्यां विद्वानुच्यते॥११७७॥

न तस्य प्रतिमा अस्ति यस्य नाम महद्यशः॥
इति मन्त्रोऽपि चाऽऽनन्त्यमैकात्म्यस्यावदत्स्वयम्॥११७८॥

विद्याप्रकाशितात्मलोकस्यापरिच्छिन्नत्वे मानमाह। न तस्येति। तस्य तात्पर्यमाह। इति मन्त्रोऽपीति॥११७८॥

सर्वकर्मातिगं ब्रह्म प्रत्यङ्मात्रसतत्त्वकम्॥
मन्त्रेणाप्यात्मनो रूपं तदेतदिति वर्ण्यते॥११७९॥

तदेतदित्यादेरर्थमाह। सर्वेति। अस्त्वेवंविधं ब्रह्म प्रतीचस्तु किमायातमित्याह। प्रत्यङ्ङिति। ब्राह्मणोक्तं ब्रह्मानूद्य तत्र मन्त्रप्रवृत्तिमाह। मन्त्रेणेति। तदिति ब्राह्मणोक्तब्रह्मोक्तिः। एतदिति संनिहितात्मरूपोक्तिः। इतिशब्देन तस्य प्रत्यक्षत्वं विवक्ष्यते॥११७९॥

एष योऽभिहितः पूर्वं तं साक्षाद्दृष्टवानृषिः॥
तत्रैव निष्ठां यातः सन्मन्त्रमेतमुदीरयेत्1434॥११८०॥

मन्त्रमवतार्य व्याख्यातुं प्रतीकमादत्ते। एष इति। तस्य प्रकृतत्वं सूचयति। योऽभिहित इति। ऋषिरिति मन्त्रद्रष्टोच्यते। कथमन्यदृष्टो मन्त्रोऽस्मद्दृष्टिपथमवतरति तत्राऽऽह। तत्रैवेति। मन्त्रार्थस्तच्छब्दार्थः॥११८०॥

आ ब्रह्मणोऽस्य ये सिद्धा अविद्याकर्महेतुतः॥
सर्वेऽपि महिमानोऽमी क्षणप्रध्वंसिनो मताः॥११८१॥

नित्यविशेषणस्य व्यावर्त्यमाह। आ ब्रह्मण इति। अस्येति षष्ठ्या प्रत्यग्ब्रह्मोच्यते। महिमशब्देनैश्वर्यविशेषो व्यपदिश्यते॥११८१॥

एष एवैकलोनित्यो बाह्यसाधननिस्पृहः॥
महिमा ब्राह्मणस्योक्तो नेतीत्याद्युक्तिभिः पुरा॥११८२॥

संप्रत्याद्यपादस्य संपिण्डितमर्थमाह। एष एवेति। तस्यैव नित्यत्वे हेतुमाह। बाह्येति। ब्राह्मणस्य महिमेत्युक्तेर्भेदमाशङ्क्य विशिनष्टि। उक्त इति॥११८२॥

अस्यैकस्य स्वतः सिद्धेर्न वृद्धिः पुण्यकर्मभिः॥
न च पापैः कनीयस्ता तस्यासाध्यत्वहेतुतः॥११८३॥

न वर्धते कर्मणेत्यादेरर्थमाह। अस्येति॥११८३॥

वृद्धिहानी यतो दृष्टे कर्मसाध्यस्य वस्तुनः॥
कर्मानपेक्षसंसिद्धेः कथं ते भवतो वद॥११८४॥

श्रुत्यक्षरैरुक्तेऽर्थे युक्तिमाह। वृद्धीति। उत्पाद्यादिरूपस्यैव स्वर्गादेर्वृद्ध्यादिदृष्टमनुत्पाद्यादिरूपस्याऽऽत्मवस्तुनो न तत्सिध्यतीत्यर्थः॥११८४॥

स ब्राह्मण इति गिरा यः श्रुत्या प्रतिपादितः॥
ग्रहणं ब्राह्मणस्येति तस्यैवेहाऽऽत्मवस्तुनः॥११८५॥

महिमा ब्राह्मणस्येत्यत्र ब्राह्मणशब्देन जातिग्रहणमाशङ्क्याऽऽह। स इति॥११८५॥

महिमा विद्यमानोऽपि तदविद्यासमुद्भव—
देहजात्यादिमानस्य वृद्धिहान्यादिसंगतेः॥११८६॥

अविद्यमानवज्ज्ञेयो महिमाप्रतिबोधतः॥
ब्राह्मणग्रहणेनातः कृतकृत्य इहोच्यते॥११८७॥

यदि ब्रह्मविदो निरुपाधिकात्मरूपेण स्थितस्य कहोलप्रश्नोक्तस्यात्र मन्त्रे ब्राह्मणशब्दत्वं तर्हितस्याऽऽत्मनो ब्रह्मस्वरूपमहिमा नित्यत्वेनोपगतो नित्यं कि1435मिति नोपलभ्यते तत्राऽऽह। महिमेति। विद्यमानोऽपि महिमा महिम्नोऽप्रबोधादविद्यमानवज्ज्ञेय इति संबन्धः। तत्र हेतुः। तदविद्येति। आत्माविद्योत्थदेहजन्मादिसंबन्धी स्वभावभूतो महिमा तथाचास्य वृद्ध्यादिसंबन्धादविद्यमानवत्प्रतीतिरित्यर्थः। निरुपाधिकब्रह्मस्वरूपस्य ब्रह्मविदो ब्राह्मणशब्दत्वे फलितमाह। ब्राह्मणेति। कहोलप्रश्नोक्तब्राह्मणस्यास्मिन्मन्त्रे ग्रहोऽतःशब्दार्थः॥११८६॥११८७॥

महिमैवंविधो यस्माद्ब्राह्मणस्यात आदरात्॥
पदवित्स्यान्महिम्नोऽस्य महत्तज्ज्ञानतः फलम्॥११८८॥

तस्यैवेत्यादेरर्थमाह। महिमेति। एवंविधो वृद्धिहानिहीन इति यावत्। महिम्न-

स्त्वंपदार्थस्य पदं1436 ब्रह्म तज्ज्ञानी स्यान्मुमु1437क्षुरित्यर्थः। तं विदित्वेत्यादेस्तात्पर्यमाह। महदिति॥११८८॥

तत्त्ववित्स्यान्महिम्नोऽस्येत्येष मन्त्रो विधित्सितः1438
फलवादोऽर्थवादः स्यादस्यैव तु विधेः परः॥११८९॥

उक्तमेव विभजते। तत्त्वविदिति। तं विदित्वेत्यादिर्विधेः1439 परः फलवादोऽर्थवादः स्यादिति योजना॥११८९॥

महिम्नोऽस्यैव वा साक्षाद्वाक्यार्थप्रतिबुद्धये॥
अन्वयव्यतिरेकाभ्यां स्यात्पदार्थविचक्षणः॥११९०॥

यद्येष सार्थवादो विधिस्तर्हि वाक्यार्थज्ञाने विधीष्टेरपराद्धान्त इत्याशङ्क्य तस्येत्यादेरर्थान्तरमाह। महिम्न इति। महिम्नः पदं त्वमर्थरूपं तज्ज्ञानमत्र विधीयते तस्यैव पदवित्स्यादिति। किमर्थं तद्विधानं तत्राऽऽह। साक्षादिति। पदार्थज्ञानविधिमेवाभियति। अन्वयेति॥११९०॥

यतः पदार्थसंबोधान्नेति नेत्यादिलक्षणम्॥
महिमानं श्रुतेर्वेत्ति फलं चेत्स्यात्ततोऽपि किम्॥११९१॥

वाक्यार्थज्ञानार्थं पदार्थज्ञानं न विधेयं वाक्यादेव तदर्थज्ञानसिद्धेरित्याशङ्क्याऽऽह। यत इति। अज्ञातपदार्थस्य वाक्यार्थज्ञानायोगात्तादर्थ्येन पदार्थज्ञानमर्थितमित्यर्थः। वाक्यार्थज्ञानफलं पृच्छति। फलं चेदिति॥११९१॥

तं विदित्वेत्यतः प्राह फलं वाक्यार्थबोधतः॥
यस्मादेवंफलं ज्ञानमेवंविद्यत्नतस्ततः॥११९२॥

शमादिसाधनो भूत्वा महिम्नः पदविद्भवेत्॥
इति मन्त्रोक्त एवार्थो ब्राह्मणेनापि वर्ण्यते॥११९३॥

मन्त्रभागेनोत्तरमाह। तमिति। तस्मादित्यादेस्तात्पर्यमाह। यस्मादिति। एवंफलमकर्मसंबन्धिस्वरूपावस्थानफलकमिति यावत्। एवंविदिति ज्ञानाद्यथोक्तफलत्वं विद्वानित्यर्थः। शमादेरायाससाध्यतां दर्शयितुं यत्नत इत्युक्तम्। एष नित्यो महिमेत्यादिमन्त्रेणास्य पुनरुक्तिमाशङ्क्याऽऽह। इति मन्त्रेति। मन्त्रब्राह्मणाभ्यामुक्तोऽर्थो भूयो ब्राह्मणेनोपस्क्रियमाणो द्रढिमानमनुभवतीति भावः॥११९२॥११९३॥

धर्माधर्मासमायोगो यस्मात्प्रत्यग्धियः फलम्॥
एवंविदादरात्तस्मात्प्रत्यक्प्रवणधीर्नरः॥११९४॥

वाक्यतात्पर्यमुक्त्वा तत्पदार्थमाह। धर्मेति। तस्मादेवंवित्प्रत्यग्ज्ञानजन्मने विनियु-

ज्यत इति संबन्धः। एवंविदित्यस्यार्थमाह। आदरादिति। आत्मज्ञानफलं कर्मतत्फलध्वस्तिरित्येवं जानन्नात्मधीः श्रद्धालुतया सदा प्रत्यक्प्रवणचित्तः स्यादित्यर्थः॥११९४॥

उत्पन्नात्मबुभुत्सुः सन्वेदानुवचनादिभिः॥
विरक्त आग्रजाल्लोकान्मोक्षादर्वाक्षु भूमिषु॥११९५॥

प्रत्यक्प्रावण्ये कारणमाह। उत्पन्नेति। तस्य पूर्वेण संबन्धः। बुभुत्सोत्पत्तौ वेदानुवचनाद्यधीनधीशुद्धिं हेतुं सूचयति। वेदेति। ननु तदनुष्ठानेऽपि न सोऽपावर्तते सर्वेषां स्वभावतो विषयप्रावण्यादुक्तं हि स्वभावतो विषयविषयाणीन्द्रियाणीति तत्राऽऽह। विरक्त इति॥११९५॥

संशुद्धधिषणोऽत्यर्थं वैदिकैरेव सा1440धनैः॥
पराङ्मुखीकृतः शुद्ध्या तैस्तैः सांसारिकैः फलैः॥११९६॥

वैराग्ये हेतुमाह। संशुद्धेति। शुद्धिफलं कथयति। पराङिति॥११९६॥

दुःखात्मकत्वात्सर्वेषां शिखिविन्यस्तहस्तवत्॥११९७॥

इत्येवं ध्वस्तनिःशेषकल्मषः पूर्वसाधनैः॥
उत्पन्नात्मबुभुत्सुः संस्त्यक्तसर्वपरिग्रहः॥११९८॥

युक्तं सांसारिकेषु फलेषु पराङ्मुखत्वमित्याह। दुःखेति। नित्यादिकर्मभिः शुद्धबुद्धेर्विवेककृतं वैराग्यं सिध्यतीत्युक्तमिदानीं विरक्तस्य पारिव्राज्यं विशेषणान्तरमाह। इत्येवमिति॥११९७॥११९८॥

रजस्तमोजरागादिदोषानाक्षिप्तशेमुषिः॥
मुमुक्ष्ववस्थां संप्राप्त एवं पूर्वोक्तसाधनैः॥११९९॥

सर्वकर्मसंन्यासिनः शमादिसंपत्तिमाह। रज इति। उक्तं साधनत्रयमवेक्ष्य मुमुक्षुत्वं लम्भयति। मुमुक्ष्ववस्थामिति॥११९९॥

मन्त्रब्राह्मणरूपिण्याऽथेदानीं विनियुज्यते॥
श्रुत्याऽशेषतमोघातिप्रत्यग्ज्ञानस्य जन्मने॥१२००॥

साधनचतुष्टयविशिष्टमधिकारिणमुक्त्वा तस्य विधिसंबन्धमाह। मन्त्रेति। तस्यैव स्यात्पदविदात्मन्येवाऽऽत्मानं पश्येदिति श्रुत्या त्वंपदार्थविवेकादिसाधनेषूक्तोऽधिकारी नियुज्यते वाक्यार्थज्ञानार्थमित्यर्थः। तस्य यथोक्तसाधनातिरेकेणायोगोऽथशब्दार्थः। इदानीमिति वाक्यार्थज्ञानाकाङ्क्षादशोक्तिः॥१२००॥

एवं पूर्वोक्तमन्त्रार्थज्ञानतत्फलवित्सुधीः॥
शमादिसाधनो विद्यादन्वयव्यतिरेकतः॥
व्युत्थाप्यानात्मनः पश्येत्प्रविश्याऽऽत्मानमात्मना॥१२०१॥

कथमधिकारिणो यथोक्तसाधनेषु मन्त्रब्राह्मणाभ्यां विनियुज्यमानत्वमित्यपेक्षायां विनियोगप्रकारमाह। एवमिति। कर्मानुष्ठानशुद्ध्यादिक्रमेणैष नित्यो महिमेत्यादिमन्त्रार्थज्ञानतत्फलवेत्ता भूत्वा बुद्धिपूर्वकारी देहादेरन्वयव्यतिरेकाभ्यामात्मानं निष्कृष्य स्वेन पूर्णात्मना तमेव प्रविश्य तदैक्यमासाद्य पश्येदिति यदुच्यते तदयं विवेकशमादिसाधनः सन्विद्यादित्येवं विवक्षितमित्यर्थः॥१२०१॥

वाक्यादेव ततोऽसङ्गः सर्वमात्मेति वीक्षते॥
इत्येतद्ब्राह्मणेनेह प्रयत्नेन विधीयते॥१२०२॥

पदार्थज्ञानमधिकृत्य मन्त्रेण विनियोगे फलितमाह। वाक्यादिति। पदार्थज्ञानानन्तरं देहाद्यभिनिवेशशून्योऽधिकारी तत्त्वमादिवाक्यादखण्डैकरसमात्मानमनुभवत्येवेत्यर्थः। ब्राह्मणेन तर्हि किमित्येष नियुज्यते तत्राऽऽह। इत्येतदिति। इतिशब्देन शमाद्युच्यते तच्चेदं ब्राह्मणेन वाक्यार्थबुद्धावुद्देश्यायां तात्पर्येण विधीयते न च तन्मन्त्रेण विहितं न च तद्विना वाक्यार्थधीरतस्तज्ज्ञानमुद्दिश्य शमादि विधातुं ब्राह्मणमित्यर्थः॥१२०२॥

दान्तो भूत्वा ततः शान्तस्ततश्चोपरतो भवेत्॥
अर्थक्रमो बलीयान्स्याद्यतः पाठक्रमादिह॥१२०३॥

पदद्वयं व्याख्याय पदान्तराणि व्याचिख्यासुरादौ पाठक्रमं भङ्क्त्वा क्रमान्तरमाह। दान्त इति। पाठक्रमभङ्गे हेतुः। अर्थेति। इहेति श्रौतं पन्थानं निर्दिशति॥१२०३॥

क्रियानिवृत्तिविषये प्रयोगो जगतीक्ष्यते॥
अभिधानस्य शान्तादेः1441 प्रत्यक्षेणेह सर्वतः॥१२०४॥

कोऽसावर्थक्रमो यस्य बलीयस्त्वमित्याशङ्क्य पदपञ्चकस्य साधारणमर्थमाह। क्रियेति। इह जगतीति संबन्धः। सर्वतः सर्वत्र व्युत्पत्तिभूमावित्यर्थः। प्रत्यक्षेण व्युत्पत्तिजनितस्वानुभवेनेत्यर्थः॥१२०४॥

बहिष्करणचेष्टाया निवृत्तौ दान्त उच्यते॥
दान्तोऽश्वो गौर्गजो वाऽपि प्रयोगस्तत्र वीक्ष्यते॥१२०५॥

इदानीमर्थक्रमेण दान्तपदं व्याचष्टे। वहिरिति। तत्र वृद्धप्रयोगं प्रमाणयति। दान्त इति। बाह्यकरणचेष्टादिनिवृत्तिः सप्तम्यर्थः॥१२०५॥

अन्तःकरणचेष्टाया निवृत्तौ शान्त उच्यते॥
शान्तो भिक्षुस्तपस्वीति तत्प्रयोगसमीक्षणात्॥१२०६॥

शान्तशब्दं व्याकरोति। अन्तःकरणेति। तत्प्रयोगसमीक्षणात्तस्मिन्नन्तःकरणचेष्टानिवृत्तिविशिष्टे पुंसि शान्तशब्दस्य प्रयोगदृष्टेरित्यर्थः। अयं भावः। बाह्यकरणानां विषयाभिनिवेशनिवृत्तिमन्तरेणान्तःकरणस्य विषयासङ्गो न व्यावर्तते न हि विषयविमुखा धीर्बाह्यानि करणानि तदभिनिवेशभाञ्जीति युज्यते तदव्यावृत्तावपि तदुपरमः संभवति कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन्निति स्मृतेस्तद्यथोक्तमर्थक्रममाश्रित्य पाठक्रमातिक्रमो यदि तु शान्तदान्तशब्दयोर्भाष्योक्तोऽर्थो वृद्धप्रयोगमनादृत्योपेयते तदा पाठक्रमोऽपि स्यादिति॥१२०६॥

नन्वप्राप्तौ विधिर्युक्तः प्राप्तास्त्वेते दमादयः॥
कुतस्तत्प्राप्तिरिति चेद्यथा प्राप्तिस्तथोच्यते॥१२०७॥

शमादीनां विधेयत्वमाक्षिपति। नन्विति। शमादीनामपि तुल्यमप्राप्तत्वमित्याशङ्क्याऽऽह। प्राप्तास्त्विति। प्रापकाभावाद्विधिं विना तेषां न प्राप्तिरित्याह। कुत इति। प्रापकोक्त्या प्राप्तिस्तेषां प्रदर्श्यत इत्याह। यथेति॥१२०७॥

प्रतिषिद्धं तथा काम्यं चापलं नित्यमेव च॥
इयदेव जगत्यस्मिन्पुंसां कर्म समीक्ष्यते॥१२०८॥

तदर्थमादौ कर्मणां चातुर्विध्यमाह। प्रतिषिद्धमिति। चापलं प्रामादिकं प्रायश्चितार्ह कर्म। कर्मान्तरसत्त्वं निरस्यति। इयदेवेति॥१२०८॥

निषिद्धस्य निषिद्धत्वात्कर्मकाण्डेऽपि कर्मणः॥
कुतो वेदान्तविद्यायां तस्य प्राप्तिर्मनागपि॥१२०९॥

संप्रत्युपपत्त्या शमादि प्रापयन्निषिद्धध्वस्तेर्विधिं विना प्राप्तिमाह। निषिद्धस्येति। वेदान्तविद्यायामिति ज्ञानकाण्डोक्तिः॥१२०९॥

मुक्तेरर्वाक्षु काम्येषु मुमुक्षुत्वाद्विरक्ततः॥
काम्यकर्मापि नैवेह मुमुक्षोः संभवत्यतः॥१२१०॥

कर्मकाण्डाभिव्याहारात्काम्यकर्मणामपि ध्वस्तेर्विना विधिं प्राप्तिमाह। मुक्तेरिति। मुक्त्यतिरिक्तकाम्येषु सूत्रादिपदेषु विरक्तत्वे हेतुमाह। मुमुक्षुत्वादिति वैराग्यफलमाह। काम्येति। इहेति वेदान्तविद्योक्तिः। अतः शब्दो विरक्तत इत्यनेन संबध्यते॥१२१०॥

रजस्तमोतिवर्तित्वात्सत्त्वसंशुद्धिहेतुतः॥
चापलान्यपि कर्माणि नातः सन्त्यस्य कानिचित्॥१२११॥

चापलनिवृत्तेर्विधिमनपेक्ष्य प्राप्तिं दर्शयति। रज इति। मुमुक्षोर्गुणद्वयातिवर्तित्वे हेतुमाह। सत्त्वेति। अतःशब्दोऽप्यत्रैव स्पृश्यते॥१२११॥

न पाणिपादचपल इत्युक्तेर्वा निषेधतः॥
नातः संभाव्यते कर्म मुमुक्षोश्चापलं कचित्॥१२१२॥

“न पाणिपादचपलो न नेत्रचपलो भवेत्।
न स्याद्वाक्चपलश्चैव न परद्रोहकर्मधीः”॥

इतिस्मार्तनिषेधानुरोधादपि विधिं विना चापलध्वस्तिरित्याह। न पाणीति। वाशब्दश्चार्थे॥१२१२॥

नित्यस्याकरणाद्यः स्यादनर्थः करणादपि॥
नित्यस्यावाप्यतेऽसौ चेद्वद किं नित्यकर्मणा॥१२१३॥

नित्यकर्मणामपि ध्वस्तिर्विध्यनपेक्षा सिध्यतीति वक्तुं तत्करणाकरणयोरनर्थकरत्वमाह। नित्यस्येति। असावित्यनर्थो गर्भवासादिरुच्यते॥१२१३॥

एवं नित्यानि कर्माणि कुर्वतः शुद्धचेतसः॥
तित्यक्षा जायते पुंसो नित्येष्वपि च कर्मसु॥१२१४॥

तर्हि तेषामत्यन्तमेवानादरो नेत्याह। एवमिति। यावज्जीवश्रुतिवशेनेति दर्शयितुमेवमित्युक्तम्। कर्मान्तराणि दृष्टान्तयितुमपि चेत्युच्यते॥१२१४॥

संसारमोक्षणायाऽऽशु नित्यं कर्म न चेदलम्॥
कोऽर्थस्तेनेह पुंसः स्यादकृतेन कृतेन वा॥१२१५॥

त्यागेच्छाप्रकारमभिनयति। संसारेति। आशु झटिति साक्षादिति यावत्। इहेति मोक्षोक्तिः॥१२१५॥

इति संजातपरमवैराग्यो नित्यकर्मणः॥
स्वतस्त्यागं करोत्येव प्राप्तास्तेन शमादयः॥१२१६॥

तित्यक्षाफलमाह। इति संजातेति। शमादीनां विधिं विनोपपत्त्या प्राप्तिमुक्तामुपसंहरति। प्राप्ता इति॥१२१६॥

यमान्सेवेत सततं न नित्यं नियमान्बुधः॥
यमान्पतत्यकुर्वाणो नियमान्केवलान्भजन्॥१२१७॥

न केवलमुपपत्तितस्तत्प्राप्तिः किंतु स्मार्तविधितोऽपीत्याह। यमानिति। देशकालावस्थाभिरनियता बुद्धिशुद्धिहेतवो ब्रह्मचर्यादयो यमाः। उक्तं हि—अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमा इति। देशकालावस्थापक्षिणः शुद्धिहेतवः क्रियाविशेषा देवताप्रणिधानादयो नियमाः। उक्तं च—शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमा इति। उक्तस्य विधेरर्थवादं दर्शयति। यमानिति॥१२१७॥

सत्यमेवं शमादीनां प्राप्तवान्नेष्यते विधिः॥
प्राप्तानामेव तेषां तु साधनत्वं विधीयते॥
प्रत्यग्याथात्म्यविज्ञानजन्मने श्रुतिवाक्यतः॥१२१८॥

प्राप्तत्वहेतुना शमादीनां स्वरूपे वा विधिर्निरस्यते तत्त्वज्ञानहेतुत्वे वेति विकल्प्याऽऽद्यमङ्गी करोति। सत्यमिति। द्वितीयं प्रत्याह। प्राप्तानामिति॥१२१८॥

यथोक्तविषये तेषां साधनत्वं न मानतः॥
यतः प्राप्तमतः श्रुत्या साधनत्वं विधीयते॥१२१९॥

ज्ञानसाधनत्वमपि प्राप्तत्वान्न विधेयमित्याशङ्क्याऽऽह। यथोक्तेति। प्रत्यग्याथात्म्यज्ञानजन्मनीति यावत्। श्रुत्या शमादिवाक्येनेत्यर्थः॥१२१९॥

निवृत्तिमात्रं प्राप्तं वा भवेदुक्तेन वर्त्मना॥
कर्तव्यता निवृत्तेस्तु न प्राप्तेति विधीयते॥१२२०॥

इतश्च तेषां विधेयतेत्याह। निवृत्तीति। उक्तं वर्त्म निषिद्धस्य निषिद्धत्वादित्यादि। वाशब्दो विधान्तरद्योतनार्थः। यद्वा शमादीनां विधेयत्वमुपसंहरति। निवृत्तीति। वाशब्दोऽवधारणार्थः॥१२२०॥

ननु दान्तशमोक्त्यैव सर्वस्यैवेह कर्मणः॥
वारितत्वादुपरतश्रुत्याऽन्यत्किं विधीयते॥१२२१॥

शमादीनां विधेयत्वमोपाद्योपरतश्रुति1442व्यावर्त्यां शङ्कामाह। नन्विति॥१२२१॥

बहिरन्तः क्रियातोऽन्या न क्रिया विद्यते यतः॥
नोत्सर्गविधिना यस्मान्नापवादस्य बाधनम्॥१२२२॥

शान्तिदान्तिभ्यामनिवारितक्रियानिवारणार्थमुपरतश्रुतिरित्याशङ्क्याऽऽह। बहिरिति। अतस्तयोर्वारितत्वादुपरतश्रुतिरनर्थिकेति शेषः। दूषयति। नेति। उपरतश्रुतेरपुनरुक्तं विषयं वक्तुं सामान्यन्यायमाह। उत्सर्गेति। एकस्य निषेधविधेः स्वविषयस्य क्रत्वर्थत्वेन पुरुषार्थत्वेन च विनियोगे विरोधात्सामान्यविषयत्वे च पुरुषार्थहिंसासु सावकाशस्य न क्रत्वर्थहिंसाविषयत्वं तदाऽधि1443कारान्तरानुप्रवेशित्वेन सापेक्षत्वप्रसङ्गादतो नोत्सर्गेणापवादस्य बाधोऽस्तीत्यर्थः॥१२२२॥

भूताहिंसाविधिर्यस्मान्नाग्नीषोमीयमारभित्1444
ऊर्ध्वं प्राणा उत्क्रामन्ति यूनः स्थविर आयति॥१२२३॥

तत्र श्रौतदृष्टान्तमाह। भूतेति। न हिंस्यात्सर्वभू1445तानीति निषेधस्य निषेध्याधीननिरूपणत्वात्तस्य च रागप्राप्तत्वेन पुरुषार्थत्वात्तन्निषेधस्यापि तादर्थ्याद्रागप्राप्तहिंसानुवा-

देन नञर्थे विध्युपसंक्रान्तेर्यत्पुरुषार्थभूतहिंसनं तन्न कुर्यादिति वाक्यार्थावसानात्पुरुषार्थनिषेधो न क्रत्वर्थमप्यास्कन्दस्यन्यथा वाक्यभेदान्न हि न हिंस्यादिति क्रतुप्रकरणे तौ न पशौ करोतीतिवदाम्नातं तस्माद्भिन्नगोचरचारित्वान्न भूताहिंसाविधिरग्नीषोमीयहिंसाबाधक इति भावः। तत्रैव स्मार्तदृष्टान्तमाह। ऊर्ध्वमिति॥१२२३॥

प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते॥
इत्यौत्सर्गिकमाचारं यथा ब्रह्मा प्रबाधते॥१२२४॥

तर्हिस्थविरदर्शी युवा कथं पुनर्जीवति तत्राऽऽह। प्रत्युत्थानेति। ऋत्विग्विशेषो ब्रह्मन्प्रर्गेणेत्यादौ संबोध्यमानो ब्रह्मेत्युच्यते॥१२२४॥

आगच्छति गुरौ तूष्णीमासीनस्तद्वदत्र च॥
औत्सर्गिकत्यागविधिं नित्यकर्मविधिर्बलात्॥
तस्य जीवनमात्रैकहेतुत्वाद्बाधते ध्रुवम्॥१२२५॥

स कथमौत्सर्गिकमाचारं बाधते तत्राऽऽह। आगच्छतीति। तस्य वागादिविसर्गे कर्मभ्रंशादित्यर्थः। दार्ष्टान्तिकमाह। तद्वदिति। अत्रेति शमादिवाक्योक्तिः। त्यागविधिः शान्तो भवेदित्या1446दिः। कथं यावज्जीवादिविधिस्तस्य बाधको द्वयोर्वैदिकविधित्वाविशेषात्तत्राऽऽह। तस्येति॥१२२५॥

नित्यकर्मविधेर्यस्माच्छमादिविधिना हतिः॥
न संप्राप्तेत्यतो यत्नात्प्रारब्धोपरतश्रुतिः॥१२२६॥

शमादिविधेरौत्सर्गिकस्यापवादतया प्रवृत्तयावज्जीवादिविधेरपवादार्थमुपरतश्रुतिरिति फलितमाह। नित्येति। उत्सर्गापवादयोरपवादस्य बलवत्त्वमतःशब्दार्थः। न च शमादिश्रुतेर्यावज्जीवश्रुतेश्च विपरीतमुत्सर्गापवादत्वं हिंसाहिंसाश्रुत्योरपि तथा प्रसङ्गात्सामान्यविशेषविषयत्वेन तयोरुत्सर्गापवादत्वं प्रकृतेऽपि तुल्यं शमादिविधेरन्तर्बहिश्चेष्टामात्रनिवृत्तिविषयस्य सामान्यविषयत्वेनोत्सर्ग-त्वाद्यावज्जीवश्रुतेरग्निहोत्रा-दिविषयत्वेनापवादत्वादतस्तदपवादार्थमुपरतश्रुतिरिति भावः। अतो यत्नादुक्तन्यायादगतार्थत्वसंभवादिति यावत्॥१२२६॥

इह चोपरतश्रुत्या तिष्ठत्यादिवदुच्यते॥
कर्माकर्मैव पुंसोऽस्य ह्यनुष्ठेयतयाऽऽ मृतेः॥१२२७॥

उपरतिर्विधीयते चेद्यागादिवत्कर्म स्याद्विधेर्भावार्थविषयत्वनियमात्तथाच तद्वदेव त्याज्यताऽन्यथा यागादेरप्युपादेयतेत्याशङ्क्याऽऽह। इह चेति। यथा तिष्ठति स्वपितीत्यादिना क्रियानिवृत्तिरेवोच्यते तथोपरतश्रुत्या नित्यकर्मनिवृत्तिरूपमकर्मैव यावन्मरणमनुष्ठे-

यमस्मिन्वाक्ये विवक्ष्यतेऽतो यागादिसदृशकर्मविध्यभावान्निषेधेष्विव विध्यवसानान्नोक्तानुपपत्तिरित्यर्थः॥१२२७॥

अनुष्ठेयतया श्रुत्या निवृत्तिः सर्वकर्मणाम्॥
यस्माद्विधीयते तस्मात्तत्त्यागी पतितो भवेत्॥१२२८॥

अथोपरतश्रुतेरभिप्रायं दर्शयति। अनुष्ठेयतयेति। स्वीकृतपारमहंस्यो जीवन्नेव तत्त्यजन्नस्पृश्यः स निरयार्हः स्याद्बहिस्तूभयथाऽपीति न्यायादित्यर्थः॥१२२८॥

इत्यत्र चोदयित्वैके परिहारं प्रचक्षते॥
नित्यानां कर्मणां कस्मात्परित्यागो विधीयते॥१२२९॥

उपरतश्रुतिर्नित्यकर्मनिवृत्त्यर्थेत्युक्तेऽर्थे चोद्यसमाधी परकीयावुद्भावयति। इत्यत्रेति। कौ तावित्याकाङ्क्षायां चोद्यं तावद्दर्शयति। नित्यानामिति। यावज्जीवश्रुतिचोदितानामकस्मात्त्यागायोगो न चोपरतश्रुतिस्तत्त्यागे हेतुस्तस्याः काम्यकर्ममात्रत्यागार्थत्वात्काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुरिति स्मृतेः शमदमश्रुतिभ्यामेव तत्सिद्धेस्तद्वैयर्थ्ये सिद्धं नः समीहितमिति भावः॥१२२९॥

काम्यादिकर्मवत्तेषां मनोव्याक्षेपहेतुतः॥
त्यागोऽतोश्चोद्यते श्रुत्या नित्यानामपि कर्मणाम्॥१२३०॥

तत्र परकीयं समाधिमाह। काम्यादीति। अतः शब्दस्य पूर्वपञ्चम्या संबन्धः॥१२३०॥

भूत्वा समाहित इति समाधानं विधास्यते॥
चोद्यस्यासंभवोऽस्यात्र श्रुत्यैव विहितत्वतः॥१२३१॥

साधनत्वेन शान्त्यादेः सम्यग्ज्ञानस्य जन्मने॥
नातश्चोद्यावकाशोऽत्र शमादेर्विहितत्वतः॥१२३२॥

नित्यकर्मणां चित्तविक्षेपकत्वेऽपि तत्त्यागादृते मुमुक्षूणामपेक्षितज्ञानस्य काम्यादित्यागादेव सिद्धेस्तत्त्यागचो1447दना वृथेत्याशङ्क्याऽऽह। भूत्वेति। ज्ञानार्थिनश्चित्तसमाधिविधेस्तद्विक्षेपस्य तद्विरोधित्वान्मुमुक्षुणा तद्धेतुधियमिच्छता चित्तविक्षेपकरं नित्यमपि कर्म त्याज्यमेवेत्यर्थः। परेषां चोद्यमाक्षिपति। चोद्यस्येति। आत्मनि धीहेतुत्वेन संन्यासादेः श्रुत्यैव विहितत्वान्नित्ययागायोगचोद्यमनवकाशं न च काम्यादिमात्रत्यागार्थोपरतश्रुतिः शमादिश्रुत्या पुनरुक्तेर्न चोपरतवचनं प्रमत्तगीतं नोत्सर्गविधिनेत्यादिन्यायेन सति गत्यन्तरे वैदिकोक्तित्यागायोगात्तुल्यं हि सांप्रदायिकमिति भावः। तदेव दृष्टान्तेन स्पष्टयितुमनुभाषते। नात इति। अत्राऽऽत्मनि ज्ञानमुद्दिश्य श1448मादेर्विहितत्वान्न चोद्यं सावकाशमित्यर्थः॥१२३१॥१२३२॥

साध्यसाधनसंबन्धविधाने सत्यसंभवः॥
स्वर्गादाविव यागादेर्विधानादेव कारणात्॥१२३३॥

सत्यपि शमादिविधौ किमिति चोद्यं नोल्लसेदित्याशङ्क्याऽऽह। साध्येति। यथा स्वर्गादौ साध्ये यागादेः साधनत्वं ज्योतिष्टोमादिवाक्येन विधीयते तथा सम्यग्ज्ञानोदयस्य कर्मत्यागस्य च साध्यसाधनत्वेन संबन्धविधौ श्रौते विधेरेव कर्मत्यागसंभवात्कथं नित्यत्यागायोगचोद्योल्लासोऽस्ति हि मुमुक्षोरुपरतः स्यादिति विधिस्तथाच ततो नित्यत्यागे चोद्यायोगान्न समाधिरपि साधीयानित्यर्थः॥१२३३॥

दोषान्तरप्रसङ्गार्थं परिहारः कृतस्ततः॥
चोद्यपूर्वक एतस्मिन्नन्य1449चोद्यस्य संभवात्॥१२३४॥

सिद्धान्ती समाधत्ते। दोषान्तरेति। अस्यार्थः—यावज्जीवश्रुतिविहितनित्यकर्मत्यागो न युक्तिमानितिचोद्यपूर्वकमनोविक्षेपकत्वात्काम्यादिवत्त्यागो नित्यानामिति समाधौ चोद्यान्तरस्य संभवादसच्चोद्यमादावुद्भाव्य समाधिस्तस्य विहितस्ततो दोषान्तरमापाद्य समाधेयमिति परेषामिष्टमिति॥१२३४॥

यदि व्याक्षेपकारित्वान्नित्यं कर्म निषिध्यते॥
बहु भिक्षाटनाद्यस्ति तत्कस्मान्न निषिध्यते॥१२३५॥

किं तच्चोद्यान्तरं यद्दोषान्तरप्रसङ्गरूपं परिजिहीर्ष्यते तदाह। यदीति। नित्यकर्मणश्चित्तविक्षेपकत्वादुपरतश्रुत्या निषेधे विक्षेपकत्वाविशेषाद्भिक्षाटनाद्याश्रमधर्मस्यापि निषेधः स्यात्तथाच तद्धीनः संन्यासी भ्रष्टो न पुरुषार्थाय स्यात्।

“आरूढो नैष्ठिकं धर्मं यस्तु प्रच्यवते पुनः।
प्रायश्चित्तं न पश्यामि येन शुध्येत्स आत्महा”॥

इति भ्रष्टस्यासमाधेयपतनस्मृतेरित्यर्थः॥१२३५॥

वेदान्तश्रवणाद्यस्ति बहु व्याक्षेपकारि च1450
तन्नित्यकर्मवत्कस्माच्छ्रुत्येह न निषिध्यते॥१२३६॥

भिक्षाटनादेः श्रवणाद्यर्थत्वान्न निषेधोऽस्तीत्याशङ्क्य तस्यापि विक्षेपकत्वान्मुमुक्षुविषये निषेधप्राप्तेर्मैवमित्याह। वेदान्तेति॥१२३६॥

नैष दोषः प्रधानार्थसमाप्तेरेव कारणात्॥
भिक्षाटनाद्यनुष्ठानं तादर्थ्यान्न निषिध्यते॥१२३७॥

नित्यकर्मवद्भिक्षाटनादेः श्रवणादेश्चोपरतश्रुत्या त्यागो न प्राप्नोतीत्याह। नैष इति। तत्र हेतुः। प्रधानेति। भिक्षाटनादेः श्रवणादेश्चोभयविधाद्धेतोर्ज्ञानान्यार्थस्य प्रधानस्य सम्यगाप्तेर्न प्रधानार्थिनः संन्यासिनस्तत्त्यागसिद्धिः प्रधानविघातादित्यर्थः। यत्ता-

वद्भिक्षाटनाद्युपरतश्रुत्या निषेध्यमिति तद्दूषयति। भिक्षेति। ज्ञानार्थत्वान्मुमुक्षुणा तदनुष्ठेयमन्यथा जीवनायोगात्प्रधानासिद्धेस्तन्नोपरतश्रुत्या तन्निषेध्यमित्यर्थः॥१२३७॥

प्रत्यग्याथात्म्यविज्ञानसमाप्त्याऽपेक्षितत्वतः॥
वेदान्तश्रवणादीनां न त्यागोऽतोऽत्र भण्यते॥१२३८॥

यत्तु वेदान्तश्रवणाद्यस्तीत्यादि तत्राऽऽह। प्रत्यगिति। अतः शब्दोऽपेक्षितत्वत इत्यनेन युज्यते। अत्रेति प्रकृतवाक्योक्तिः। श्रवणादित्यागे ज्ञानासिद्धेर्जिज्ञासोस्तत्त्यागायोगात्तद्विविधसाधनसंपादनकाले विक्षेपो भवन्नपि भुजिकालश्रमवत्प्रधानाविरोधीति भावः॥१२३८॥

समाप्तिं न समायाति प्रधानं यदसंभवे॥
निषिद्धमपि तत्कार्यं तत्समाप्तिप्रयुक्तितः॥१२३९॥

उपरतश्रुत्या प्रधानार्थत्वादनिषेधः श्रवणादेरित्युक्त्वा निषेधमङ्गीकृत्यापि मुमुक्षुणा तस्य कार्यत्वमाह। समाप्तिमिति॥१२३९॥

प्रधानचोदनैवास्य चोदनातोऽवगम्यते॥
भिक्षाटनादिना नर्ते प्रधानं हि समाप्यते॥१२४०॥

तत्समाप्तिप्रयुक्तित इत्येतत्प्रपञ्चयति। प्रधानेति। ज्ञानोपदेश एव श्रवणादेः प्रापको भातीत्यत्रातः शब्दोक्तं हेतुं व्यनक्ति। भिक्षेति। न हि संन्यासिनो विना भिक्षादिना देहधारणं न च तद्विना तस्य ज्ञानमागन्तुकं युक्तं शरीरं मे विचर्षणमित्यादि श्रुतेर्नापि श्रवणाद्यभाव एव तत्त्वबोधो युक्तो द्रष्टव्यादिश्रुतेस्तन्निषिद्धमपि प्रधानानुरोधि कार्यं तद्विधिनाऽऽक्षिप्ततया निषेधस्याकिंचित्करत्वादित्यर्थः॥१२४०॥

शेषभक्षं न कुर्वन्ति प्रधानार्थानुरोधतः॥
साक्षाद्विहितमप्येवं तादर्थ्यात्कर्म नो मतम्॥१२४१॥

प्रधानार्थिना निषिद्धमपि प्रधानानुरोधादु1451पादानप्रमाणात्कर्तव्यमित्युक्तम्। इदानीं विहितमपि प्रधानविरोधि त्याज्यमिति तार्तीयोदाहरणेन दर्शयति। शेषेति। अस्यार्थः—यदि राजन्यं वैश्यं वा याजयेत्स यदि सोमं विभक्षयिषेन्न्यग्रोधस्तिभिनीराहृत्य ताः संपिष्य दधन्युन्मृज्य तमस्मै भक्षं प्रयच्छेदित्यत्र फलचमसो भक्षविकारो यागविकारो वेति विशये तमस्मै भक्षं प्रयच्छेदिति श्रुतेर्भक्षे स सोमं विकरोतीति पूर्वपक्षे श्रुत्या भक्षान्वयेऽपि यागशेषद्रव्यसंस्कारार्थतया तस्यावगतत्वात्फलचमसस्य यागसाधनत्वं विना तदयोगाद्यथाऽयं शेषभक्षस्तथा कुर्यादित्यनया भङ्ग्या यागसं1452बन्धस्यैव विधानाद्भक्षणमपि सोमकार्यापत्त्याऽर्थप्राप्तमनूद्यत इति राद्धान्तितमिज्याविकारो वा संस्कारस्य तदर्थत्वादित्यत्र तत्र यथा तमस्मै भक्षं प्रयच्छेदिति साक्षाद्विहितमपि शेषभक्षं प्रधान-

सोमयागविरोधाद्राजन्यादयो न कुर्वन्ति किंतु तदनुरोधेनैव तमाचरन्ति न सोममिति च श्रूयते तथेहापि प्रधानवशाद्विहितस्यापि विरोधिनस्त्यागो नाविरुद्धस्येति। अथवाऽधिकारलक्षणे स्थितं निर्देशाच्छेषभक्षोऽन्यप्रधानत्वाद्दर्शपूर्णमासयोर्ये शेषभक्षास्ते किमृत्विग्म्योऽन्यैरेव कर्तव्याः किंवा तैरेवेति संशये सर्वभक्षेषु कर्मकरत्वेन प्राप्तानामृत्विजां यजमानपञ्चमा इडां भक्षयन्तीति पुनरिडायाः श्रवणाद्भक्षान्तरपरिसंख्यानादिडामेवैते भक्षयन्तीति नियमादन्येष्व1453न्यभक्षेष्वितर इति प्राप्ते यजमानस्याकर्मकरत्वेनाप्राप्तस्य प्रापकं यजमानपञ्चमा इत्यादि-वचनमित्यङ्गी-काराद्भक्षान्तराणामपरिसंख्यातत्वात्तेष्वपि प्रकृतानामेव प्रधानकर्मानुरोधेन कर्तृत्वान्नान्येषामिति राद्धान्तितं तत्र यथा साक्षाद्विहितमपि शेषभक्षं प्रधानपूर्णमासानुरोधादृत्विग्भ्योऽन्ये न कुर्वन्त्यृत्विजामेव दर्शपूर्णमासकर्तृतया तदीयशेषभक्षेऽपि कर्तृत्वनिश्चयात्तथा प्रकृते निषिद्धमपि प्रधानाविरुद्धमेष्टव्यं तद्विरुद्धं तु विहितमपि त्याज्यमिति। अथवाऽभिषुत्य हुत्वा भक्षयन्तीति समानकर्तृकत्वश्रुतेरभिषवादिपदेन तत्साक्षाद्विहितमपि शेषभक्षं न प्रधानीभूतप्रयोजनानुरोधादनुतिष्ठन्ति न हि शेषभक्षप्रतिबद्धं किमपि फलमभिलप्यते किंतु प्रतिपत्तिकर्मतया तमाचरन्ति तथा प्रतिपत्तिकर्मभूतसर्वकर्मत्यागं विरक्ता मुमुक्षवोऽनुतिष्ठन्तोऽपि प्रधानीभूतसम्यग्ज्ञानानुरोधादेव भिक्षाटनादि न त्यजन्तीति। अथवा होमादिवत्तुल्यकर्तृकत्वश्रुत्या मुखतो विहितमपि शेषभक्षणं न रौद्रस्येडामवद्यतीति1454 रौद्रे गावीधुके चरौ प्रतिषेधान्न कुर्वन्ति प्रकृते तु प्रधानभूतसम्यग्ज्ञानानुरोधादनिषेधाञ्च भिक्षाचर्याद्यविरुद्धमिति विरोधिनस्त्याग इति प्रधानार्थिना विहितमपि विरोधि त्याज्यं निषिद्धत्वादविरोध्यनुसर्तव्यमित्युक्तिद्वारा श्रवणादेर्ज्ञानोपायत्वादनुष्ठानावस्थायामर्थप्राप्तो विक्षेपो न ज्ञानोत्पत्तिविरोधीत्युक्तमिदानीं कर्मणोऽपि तादर्थ्यात्तदनुष्ठानकालिकमनोविक्षेपस्य तदविरोधित्वान्मुमुक्षुणा तदत्याज्यमित्याशङ्क्याऽऽह। एवमिति। यथा श्रवणादि ज्ञानसाधनं दर्शनमनूद्य तदुपायत्वेन विधानान्न तथा कर्म साक्षात्तत्साधनं विविदिषन्तीति व्यवधानश्रुतेस्तस्य चित्तशुद्ध्यर्थत्वादतः शुद्धबुद्धेर्मुमुक्षोस्त्याज्यमेव कर्म फलाभावादित्यर्थः॥१२४१॥

याः काश्चिज्जीवता शक्यास्त्यक्तुं तित्यक्षता क्रियाः॥
ताः सर्वाः संपरित्यज्य निमेषादौ व्यवस्थितः॥१२४२॥

मुमुक्षोः श्रवणाद्यतिरिक्ताशेषकर्मत्यागे स्मृतिं प्रमाणयति। याः काश्चिदिति। शक्या भिक्षाटनादिव्यतिरिक्ता जीवतेति विशेषणात्तित्यक्षता त्यक्तुमिच्छता विरक्तेनेति यावत्। निमेषादौ काले स्थितो झटिति ताः सर्वास्त्यक्त्वा ज्ञानार्थी श्रवणादिपरः स्यादिति शेषः॥ १२४२॥

उक्तविध्यर्थविषयाद्याः क्रिया विषयान्तरे॥
निषिध्यन्तेऽत्र ताः सर्वा व्याघातायैव ता यतः॥१२४३॥

तस्यास्तात्पर्यमाह। उक्तेति। उक्तो विधिरूपोऽर्थः शान्तः स्यादित्यादिस्तस्य विषयस्तत्त्वज्ञानमुद्देश्यं तस्मादुद्देश्यान्तरे स्वर्गादौ या यागादिक्रियाः संभाव्यन्ते ताः सर्वाः सम्यग्ज्ञानस्य व्याघातायैव यतो भवन्त्यतोऽस्यां स्मृतौ निषिध्यन्ते श्रवणादयस्तु तद्धेतुत्वान्न निषेधमर्हन्तीत्यर्थः॥१२४३॥

द्वंद्वप्रवाहसंपातसहिष्णुरभिधीयते॥
तितिक्षुवचनेनात्र दुरुक्तादेस्तथैव च॥१२४४॥

उपरतश्रुतिं व्याख्याय तितिक्षापदस्यार्थमाह। द्वंद्वेति। शीतोष्णादिप्रवाहसंबन्धसहनशीलो दुर्वादताडनादेश्च सहिष्णुरस्मिन्वाक्ये तितिक्षुर्विवक्षित इत्यर्थः॥१२४४॥

स्वातन्त्र्यं येषु कर्तुः स्यात्करणाकरणं प्रति॥
तान्येव तु निषिद्धानि कर्माणीह शमादिभिः॥१२४५॥

शान्तादिपदचतुष्टयेन समाहितपदस्यागतार्थत्वार्थं तत्र निष्पन्नमनुवदति। स्वातन्त्र्यमिति। इहेति प्रकृतश्रुतिग्रहः। तथाविधानि काम्यादीनि कर्माणि प्रसिद्धानीति वक्तुं हिशब्दः॥१२४५॥

अस्वातन्त्र्यं तु येषु स्यात्कर्तुः कर्मसु सर्वदा॥
समाहितोक्त्याऽथेदानीं तन्निरोधो विधीयते॥१२४६॥

संप्रति समाहितपदस्यार्थमाह। अस्वातन्त्र्यमिति। मनोरथादिनिवृत्तिः समाहितोक्त्या धीसाधनतया विधीयते न च सा पूर्वत्र विहितेत्यर्थः। धीपूर्वककर्मनिवृत्तिरितरनिवृत्तौ संस्कारद्वारा हेतुरित्यथशब्दार्थः॥१२४६॥

पिण्डीकृत्येन्द्रियग्रामं बुद्धावारोप्य निश्चलम्॥
विषयांस्तत्स्मृतींस्त्यक्त्वा तिष्ठेच्चिदनुरोधतः॥१२४७॥

तत्र स्मृतिं प्रमाणयति। पिण्डीकृत्येति। द्विविधेन्द्रियसमुदायमर्थेभ्यो विमुखीकृत्य बुद्ध्यधीनमापाद्य निश्चलं कृत्वा स्मृत्यादिमनोव्यापारं च हित्वा चिन्मात्राकारं तद्विधाय तदनुसारेण सदा वर्तेत योगशास्त्रविदोऽप्येतमेवासंप्रज्ञातसमाधिमाहुरित्यर्थः॥१२४७॥

एषोऽभ्युपायः1455 सर्वत्र वेदान्तेषु विधीयते॥
तत्त्वमस्यादिवाक्यार्थज्ञानोत्पत्त्यर्थमादरात्॥१२४८॥

इह विहितेषु शमादिषु सर्ववेदान्तसंमतिमाह। एष इति॥१२४८॥

नाविरतो दुश्चरितान्नाशान्तो नासमाहितः॥
नाशान्तमानसो वाऽपि प्रज्ञानेनैनमाप्नुयात्॥१२४९॥

तानेव वेदान्तानुदाहरन्नादौ कठश्रुतिं पठति। नाविरत इति। दुराचारो वा द्विविधेन्द्रियाधीनो वा निद्रालस्यादिपरवशो वा नाऽऽत्मज्ञानाधिकारीति वदता विहितः शमादिरित्यर्थः॥१२४९॥

मुक्तेर्हि बिभ्यतो देवा मोहेनापिदधुर्नरान्॥
ततस्ते कर्मसूद्युक्ताः प्रावर्तन्त दिवानिशम्॥१२५०॥

शाखान्तरीयवाक्यमुदाहरति। मुक्तेरिति। प्राक्चासकृदुदाहृतमेतद्वाक्यमिति हिशब्दार्थः॥१२५०॥

यतः कर्म तमोहेतुस्तस्मादेव मुमुक्षुभिः॥
ज्ञानेन भित्त्वा संमोहं सर्वानर्थैकसंश्रयम्॥१२५१॥

कर्मणामविवेककार्यत्वे1456 फलितमाह। यत इति। तमः शब्देनाविवेको गृह्यते। ज्ञानेन विवेकेनेति यावत्। संमोहमविवेकमित्यर्थः। तस्य हातव्यत्वे हेतुः। सर्वेति। मुमुक्षुभिरेव संन्यासः कर्तव्य इति शेषः॥१२५१॥

संन्यस्य सर्वकर्माणि प्रत्यक्प्रवणधीर्नरः॥
प्रत्यग्याथात्म्यविज्ञानमात्रमेव समाश्रयेत्॥१२५२॥

तदनन्तरमनुष्ठेयं दर्शयति। संन्यस्येति॥१२५२॥

तत एवैकलाद्यस्मात्संसाराद्विप्रमुच्यते॥
इत्येतदाह विस्पष्टं भाल्लविब्राह्मणं वचः॥१२५३॥

किमिति ज्ञानमात्रमपेक्ष्य श्रवणाद्येवाऽऽवर्तनीयं तत्राऽऽह। तत इति। भाल्लविश्रुतिमुपसंहरति। इत्येतदिति। मुक्तिसाधनज्ञानोद्देशेन संन्यासपूर्वकं श्रवणादि कार्यमित्येतद्भाल्लविश्रुत्या विवक्षितमित्यर्थः॥१२५३॥

यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह॥
बुद्धिश्चन विचेष्टेत तामाहुः परमां गतिम्॥१२५४॥

पुनरपि तस्मिन्नेवार्थे कठवल्लीवाक्यमुपन्यस्यति। यदेत्यादिना। बाह्येन्द्रियाणां मनोबुद्ध्योश्च विषयपारवश्यं त्यक्त्वा निश्चलत्वेन स्थितिरुत्तमपुरुषार्थहेतुरिति संन्यासिनो ज्ञानार्थिनः समाधान1457पूर्वकं श्रवणादेरनुष्ठेयत्वं सू1458चयतीत्यर्थः॥१२५४॥

तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम्॥
अप्रमत्तस्तदा भवति1459 योगो हि प्रभवाप्ययौ॥१२५५॥

योगो हि मुमुक्षुभिर्ज्ञानार्थिभिः संन्यासिभिरनुष्ठेयः स सर्वेन्द्रियाणां निश्चलावस्थेति योगविदो वदन्तीत्याह। तामिति। किं पुनर्योगानुष्ठानेन लभ्यते तत्राऽऽह1460अप्रमत्त इति। कोऽसौ योगो यस्यानुष्ठानाज्ज्ञानद्वारा संसाराख्यप्रमादध्वंसस्तत्राऽऽह। योगो

हीति। सृष्टिप्रलयानुसंधानरूपप्रत्ययावृत्तिकरणं योगः। योगशास्त्रविदोऽपि यथोक्तं योगं संप्रज्ञातसमाधिमाचक्षते स चोक्तफलहेतुरित्यर्थः॥१२५५॥

यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि॥
ज्ञानमात्मनि महति तद्यच्छेच्छान्त आत्मनि॥१२५६॥

बाह्येन्द्रियाणि मनोधीनत्वेनोपसंहरेदित्याह। यच्छेदिति। वागिति द्वितीयार्थे प्रथमा। मनसीति दैर्घ्यं छान्दसम्। मनसो बुद्धावुपसंहारमाह। तद्यच्छेदिति। व्यष्टिबुद्धेः समष्टिबुद्धाबुपसंहारमाह। ज्ञानमिति। हिरण्यगर्भबुद्धेरात्मनि परस्मिन्नकार्यकरणे लयं कथयति। तदिति॥१२५६॥

उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत॥
सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम्॥
अन्तःशरीरे ज्योतिर्मयो हि शुभ्रो यं पश्यन्ति यतयः क्षीणदोषाः॥१२५७॥

अज्ञाननिद्राया मुमुक्षूणामुत्थानं प्रार्थयते। उत्तिष्ठतेति। तत्रोपायमाह। जाग्रतेति। कथं जागरणं तत्राऽऽह। प्राप्येति। उत्कृष्टान्ब्रह्मनिष्ठानाचार्यान्प्राप्य तत्प्रसादान्निश्चयेन तत्त्वबोधं प्राप्नुतेति यावत्। आथर्वणिकं वाक्यद्वयमस्मिन्नेवार्थे दर्शयति। सत्येनेत्यादिना। नित्यशब्दः सत्यादिषु प्रत्येकं संबध्यते सदातनसत्यादिसाधनबलादुपलब्धसम्यग्ज्ञानेनाऽऽत्मलाभो मुक्तिरित्यर्थः। परस्य स्वर्गादिवल्लभ्यत्वे ताटस्थ्यमाशङ्क्याऽऽह। अन्तरिति। परापरयोरैक्ये हेतुः। ज्योतिर्मयो हीति। चिद्रूपत्वात्परस्य प्रत्यक्त्वे तद्गतं संसारित्वं तस्य प्रसज्येतेति चेन्नेत्याह। शुभ्र इति। तत्र विद्वदनुभवं प्रमाणयति। यमिति। सर्वेषां द्रष्टृत्वं व्यावर्तयति। यतय इति। तेषां प्रधानं लक्षणमाह। क्षीणेति॥१२५७॥

न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वा॥
ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते1461 निष्कलं ध्यायमानः॥१२५८॥

पश्यन्तीत्युक्तत्वाच्चक्षुरादिग्राह्यत्वमाशङ्क्याऽऽह। नेत्यादिना। देवशब्देन द्योतनवन्तीन्द्रियाणि गृह्यन्ते। कथं तर्हिपश्यन्तीत्युक्तं तत्राऽऽह। ज्ञानेति। ततो नित्यादिकर्मानुष्ठानाद्विशुद्धबुद्धिर्विवेकप्रकर्षेण श्रवणादि कुर्वन्नात्मानं साक्षात्करोतीत्यर्थः॥१२५८॥

प्रतिशाखं तथाऽन्यानि ज्ञानोपायप्रसिद्धये॥
तन्मूलानि तथाऽन्यानि स्मृतिवाक्यानि कोटिशः॥१२५९॥

सन्त्येवाऽऽत्मपरिज्ञानसाधनानां प्रसिद्धये॥
अनग्निरनिकेतः स्यादशर्माऽशरणो मुनिः॥१२६०॥

यथोक्तवाक्यवद्वाक्यान्तराण्यपि सर्वासु शाखासु शमादिसाधकानि शान्त उपासीत तपसा ब्रह्म विजिज्ञासस्वेत्यादीनि सन्तीत्याह। प्रतिशाखमिति। तत्रैव स्मृतीनां सत्त्वं सूचयति। तन्मूलानीति। तथा श्रुतिवदित्यर्थः। पिण्डीकृत्येत्यादिपूर्वोक्तस्मृत्यपेक्षयाऽन्यत्वे तेषां तात्पर्यमाह। आत्मेति। तान्येवोपन्यस्यति। अनग्निरित्यादिना। अनेन पञ्चाग्नित्वत्रेताग्नित्वादि निषिध्यते। अनिकेतशब्देन गृहसंबन्धं निषेधता भार्याराहित्यमुच्यते। विषयस्पर्शकृतसुखलेशालोलुपत्वमाह। अशर्मेति। मठादिनियतस्थानराहित्यमाह। अशरण इति। श्रवणादिनिष्ठतामाह। मुनिरिति॥१२५९॥१२६०॥

त्यज धर्ममधर्मं च उभे सत्यानृते त्यज॥
उभे सत्यानृते त्यक्त्वा येन त्यजसि तं त्यज॥१२६१॥

संन्यासविषयं वाक्यान्तरमाह। त्यजेति॥१२६१॥

यतो यतो निवर्तते1462 ततस्ततो विमुच्यते॥
निवर्तनाद्धि सर्वतो न वेत्ति दुःखमण्वपि॥१२६२॥

सर्वत्यागे फलमाह। यत इति॥१२६२॥

कोऽहं कस्य कुतो वेति कः कथं वा भवेदिति॥
प्रयोजनमतिर्नित्यमेवं मोक्षाश्रमी भवेत्॥१२६३॥

निःशेषत्यागादशेषदुःखहानिश्चेत्तर्हि संन्यासिनो न किंचित्कार्यमस्तीत्याशङ्क्याऽऽह। कोऽहमिति। अहं देहादिषु कः स्यां कस्य वा संबन्धी कुतो वाऽऽगतो जातो वेति निरूप्य वर्तमानदेहपाते सुरनरादिषु को भविष्यामि केन वा प्रकारेणेतिफलपर्यन्तविचारान्वितः संन्यासी सदाऽन्वयादिकुशलः स्यादित्यर्थः॥१२६३॥

नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च॥
शीलं स्थितिर्दण्डनिधानमार्जवं ततस्ततश्चोपरमः क्रियाभ्यः॥१२६४॥

वित्तद्वयमपि मुमुक्षुणा लोकद्वयोपयोगिकत्वान्न त्याज्यं तत्कथं सर्वसंन्यासितेत्याशङ्क्याऽऽह। नैतादृशमिति॥१२६४॥

निवर्तयित्वा रसनं रसेभ्यो घ्राणं च गन्धाच्छ्रवणं च शब्दात्॥
स्पर्शात्तनुं रू1463पगुणाच्च चक्षुस्ततः परं पश्यति स्वं स्वभावम्॥१२६५॥

क्रियाभ्यः सर्वाभ्यो नोपरमो घ्राणादीनां गन्धादिप्रवणत्वादित्याशङ्क्याऽऽह। निवर्तयित्वेति। तनुशब्देन त्वगत्र गृह्यते। स्पर्शादिति विशेषणादिन्द्रियोपरतिफलमाह। तत इति॥१२६५॥

एवं मनुवसिष्ठादिधर्मेष्वपि सहस्रशः॥
स्पष्टानि सन्ति वाक्यानि यथोक्तार्थप्रसिद्धये॥१२६६॥

व्यासवाक्यवन्मन्वादिशास्त्रेष्वपि ज्ञानसाधनशमादिसिद्ध्यर्थं बहूनि वाक्यानि सन्तीत्याह। एवमिति। यथाऽऽह मनुः

“अनग्निरनिकेतः स्याङ्ग्राममन्नार्थमाश्रयेत्।
उपेक्षकोऽसंचयिको मुनिर्भावसमन्वितः॥
कपालं वृक्षमूलानि कुचेलमसहायता।
समता चैव सर्वस्मिन्नेतन्मुक्तस्य लक्षणम्” इत्यादि।

** वसिष्ठश्च**—

“अरण्यनित्यस्य जितेन्द्रियस्य सर्वेन्द्रियप्रीतिनिवर्तकस्य।
अध्यात्मचिन्तागतमानसस्य ध्रुवा ह्यनावृत्तिरुपेक्षकस्य॥
न शब्दशास्त्राभिरतस्य मोक्षो न चापि लोकग्रहणे रतस्य॥
नभोज1464नाच्छादनगर्वितस्य न चापि रम्यावसथप्रियस्य” इति।

** याज्ञवल्क्यश्च**—

“विषयेन्द्रियसंरोधतन्द्रालस्यविवर्जनम्।
शरीरपरिसंख्यानं प्रवृत्तिष्ववदर्शनम्॥
विरजं समता1465 सत्त्वशुद्धिर्निस्पृहता शमः।
एतैरुपायैः संशुद्धसत्त्वो योग्यमृती भवेत्” इति॥१२६६॥

साध्यस्य कर्मणस्त्यागात्सामर्थ्यादेव सिद्धतः॥
तत्साधनस्य संत्यागे श्रद्धावित्तगिराऽत्र किम्॥१२६७॥

तस्मादित्यादि समाहित इत्यन्तं व्याख्याय श्रद्धावित्तो भूत्वेति माध्यंदिनश्रुतिं व्याख्यातुं चोदयति। साध्यस्येति। श्रद्धैव वित्तमस्येति व्युत्पत्त्या वित्तान्तरत्यागो विवक्ष्यते स च कर्मत्यागेनैव गतस्तथाचोपरतादिश्रु1466त्या श्रद्धावित्तश्रुतेः पौनरुक्त्यात्प्रमादपाठोऽयमित्यर्थः॥१२६७॥

मैवं दृष्टार्थविषये यत्कर्मास्यावशेषितम्॥
तत्साधनेष्वममताविधानार्थं वचो यतः॥१२६८॥

परिहरति। मैवमिति। देहस्थितिर्दृष्टार्थस्तद्विषये यत्कर्म भिक्षाटनादि पूर्वविशेषणैरनिषिद्धं संन्यासिनोऽवशेषितं तत्साधनेषु भिक्षापात्रादिष्वपि ममता न कार्येत्येतदर्थं श्रद्धावित्तपदमु1467क्तम्। उक्तं हि—

“न कुट्यां नोदके सङ्गो न चैले न त्रिपुष्करे।
नागारे नाऽऽसने नान्ने यस्य वै मोक्षवित्तु सः” इति।

तस्मादपुनरुक्तेर्युक्ता माध्यंदिनश्रुतिरित्यर्थः॥१२६८॥

श्रद्धैव वित्तमस्येति नान्यदस्य यतस्ततः॥
श्रद्धावित्तोऽयमित्युक्तः संन्यासी सर्वकर्मणाम्॥१२६९॥

उक्तेऽर्थे तां व्याचष्टे। श्रद्धेति। यतः शब्दात्पूर्वमितिशब्दस्य संबन्धः॥१२६९॥

भूत्वेत्यस्याभिसंबन्धः सर्वैः शान्तादिभिः पदैः॥
विधिनाऽस्यापि चाऽऽक्षेपाद्विधितत्रत्वमिष्यते॥१२७०॥

पाठद्वयेऽपि भूत्वेतिपदस्याव्यवहितेनैव संबन्धो न व्यवहितेन शान्त्यादिनेति शङ्कां निरस्यति। भूत्वेत्यस्येति। न हि संनिधिरेव संबन्धहेतुः किंतु योग्यत्वादिरपीति भावः। शान्तः स्यादित्यादिर्विधिरत्रास्ति चेत्तर्हि शमादीनां स्वतन्त्रविधिविषयत्वान्न ज्ञानशेषतेत्याशङ्क्य पश्येदितिविधिसंनिधानान्मैवमित्याह। विधिनेति। उभयत्र विधिपदं पश्येदितिविधिविषयम्॥१२७०॥

पाण्डित्यादि पुरोक्तं यत्तस्येयमुपसंहृतिः॥

प्राक्तदात्मानमेवावेदिति यच्च समीरितम्॥
सेतिकर्तव्यताकोऽथ विधिस्तस्यायमुच्यते॥१२७१॥

कहोलब्राह्मणादौ यथोक्तशमादेर्विहितत्वात्किमत्र तद्विधिनेत्याशङ्क्याऽऽह। पाण्डित्यादीति। आत्मन्येवेत्यादेस्तात्पर्यमाह। प्रागिति। तृतीयेऽध्याये तदात्मानमेवावेदित्यत्र वाक्यार्थज्ञानमुक्तं तस्योपाये त्वमर्थज्ञाने शमादीतिकर्तव्यतासहितो विधिरात्मन्येवेत्यादिनोच्यते शमादिसंपन्नो हि त्वमर्थज्ञानी भूत्वा वाक्यार्थज्ञानवान्मुच्यत इत्यर्थः। वाक्यार्थज्ञानस्य मुक्तिहेतुत्वेनाऽऽवश्यकत्वद्योतनायाथेत्युक्तम्॥१२७१॥

अन्वयव्यतिरेकाभ्यां यथोक्तैःसाधनैर्युतः॥१२७२॥

आत्मन्येव तमात्मानं निष्कृष्यानात्मराशितः॥
पश्येदित्यभिसंबन्धः पश्यतीत्यथवा भवेत्॥१२७३॥

नायं वाक्यार्थज्ञाने विधिरिति स्फोरयितुं पदार्थज्ञाने विधिमनुवदन्नात्मनीत्यादि व्याकरोति। अन्वयेति। शमादिभिर्युक्तोऽधिकारी चतुर्धाऽन्वयव्यतिरेकाभ्यामात्मानमनात्मराशेर्निष्कृप्य तमात्मन्येव पश्येदिति योजना। सप्तम्या संघातोक्तिः। द्वितीयया तत्साक्षिनिर्देशः। पश्येदिति माध्यंदिनपाठेनोक्तम्॥१२७२॥१२७३॥

विध्यर्थस्य पुरा प्राप्तेः काण्वानामनुवा1468दतः॥
द्रष्टव्याद्युक्तितस्तस्मात्पश्यतीत्यभिधीयते॥१२७४ ॥

पश्यतीति वर्तमानापदेशात्काण्वपाठे पदार्थज्ञाने कुतो विधिरित्याशङ्क्याऽऽह। विधीति। यद्यपि द्रष्टव्यादिवाक्यात्पदार्थज्ञानं काण्वमाध्यंदिनयोः सिद्धं तथाऽपि विशिष्टं तदप्राप्तमिति माध्यंदिनानां तद्विधिरिष्टः काण्वानां तु पदार्थज्ञानमनूद्य विशेषणविषयो विधिरिति वर्तमानापदेशात्कल्पितोऽर्थतो नोभयेषां विशेष इत्यर्थः॥१२७४॥

आत्माऽनात्मप्रधानत्वाद्ब्रह्मरूपेण नेक्ष्यते॥१२७५॥

विशेषणत्वं स्वार्थोऽपि सत्कार्ये कारणे गतः॥
स्वात्माविद्यासमुत्थेऽस्मिन्नात्माविद्यासमाश्रयात्॥१२७६॥

ननु शमादिविशेषणमात्रविषयो विधिरात्मज्ञानस्य विधिमन्तरेणाहमिति सदा प्राप्तेरत आह। आत्मेति। यद्यप्यहमात्मेक्ष्यते तथाऽपि परमार्थस्वरूपेण नायं लभ्यते देहादावात्माभिमानभाक्त्वादतस्त्वमर्थशुद्धिर्विधेयेत्यर्थः। कथमजडस्य चिद्धातोः स्वतन्त्रस्यानात्मप्राधान्यं तत्राऽऽह। विशेषणत्वमिति॥१२७५॥१२७६॥

देहेन्द्रियमनोधीभ्यो ह्यन्वयव्यतिरेकतः॥
मुञ्जेषीकावदुत्कृष्य पश्येदात्मानमात्मनि॥१२७७॥

तस्मादित्यादिवाक्यार्थमुपसंहरति। देहेति। अन्वयव्यतिरेकयोर्विवेकहेत्वोश्चतुर्थे प्रसिद्धत्वार्थो हिशब्दः॥१२७७॥

आत्मन्येव यदाऽऽत्मानं विभज्यानात्मनोऽखिलात्॥
प्रपश्यति तदाऽनात्मा न पृथग्व्यवशिष्यते1469॥१२७८॥

अन्वयादिना देहद्वयाद्विभज्य स्वमहिमस्थात्मनो ज्ञाने रज्जुसर्पवत्कल्पितत्वादनात्मनोऽनवशेषात्पूर्णत्वं प्रतीचः सिध्यतीति फलितमाह। आत्मन्येवेति॥१२७८॥

स एष नेति नेत्यात्मेत्यथैतस्मात्पुरोदितात्॥
वाक्यात्सर्वमसंसर्गमात्मानं परिपश्यति॥१२७९॥

सर्वमित्यादेरर्थमाह। स एष इति। साधनसंपत्त्यानन्तर्यमथेत्युच्यते। सर्वं जगदेकरसमात्मानं वाक्याद्विशिष्टोऽधिकारी पश्यतीत्यर्थः॥१२७९॥

अविद्यातज्जकार्याणां प्रत्यग्दर्शनबाधतः॥
अव्यावृत्ताननुगतं ब्रह्मात्मानं प्रपश्यति॥१२८०॥

वाक्यस्यार्थान्तरमाह। अविद्येति। सर्वशब्देन ब्रह्म गृह्यते। तस्य लक्षणमाह। अव्यावृत्तेति। एतत्समर्थनार्थं पूर्वो भागः। शोधितत्वमर्थः शमादिसंपन्नोऽधिकारी वाक्याद्ब्रह्म प्रत्यक्त्वेन प्रत्येतीति वाक्यार्थः॥१२८०॥

नानुत्पन्नमतो ज्ञानं नाप्यज्ञानमबाधितम्॥
कृत्स्नज्ञेयसमाप्तत्वान्न किंचिदवशिष्यते॥१२८१॥

आत्मनो ब्रह्मत्वज्ञानफलमाह। नानुत्पन्नमिति। आत्मनि ज्ञाते ज्ञानमनुत्पन्नं नेत्यत्र हेतुमाह। कृत्स्नेति। अबाधितमज्ञानमपि नास्तीत्यत्र युक्तिमाह**। न किंचिदिति**। आत्मज्ञानविषयः सप्तम्यर्थश्चातः शब्दः॥१२८१॥

इयं सा ब्रह्मविद्योक्ता मधुकाण्डे पुरोदिता॥
या तस्या जन्मनः काले फलं श्रुत्याऽधुनोच्यते॥१२८२॥

नैनं पाप्मेत्यादेर्वृत्तानुवादपूर्वकं तात्पर्यमाह**। इयं सेति।** या पूर्वं मधुकाण्डे ब्रह्मविद्या सूचिता1470 सेयं मुनिकाण्डे प्रपञ्चेनोक्तेत्यनुवादार्थः॥१२८२॥

अकर्तृत्वात्मविज्ञानाद्ध्वस्तात्माज्ञानहेतुतः॥
नैनं ब्रह्मविदं पाप्मा तरत्यज्ञं यथा तथा॥१२८३॥

नैनमित्याद्यवतारितश्रुतेरक्षराणि व्याकरोति। अकर्तृत्वेति॥१२८३॥

पाप्मशब्देन धर्मोऽपि देहोपादानहेतुतः॥
मुमुक्षोस्तदनिष्टत्वादिह निःशेष उच्यते॥१२८४॥

पाप्मेति विशेषणात्पापमेव ब्रह्मविदं न स्पृशति पुण्यं तु स्पृशतीत्याशङ्कयाऽऽह। पाप्मेति। प्रकृते हि वाक्ये पाप्मशब्दो धर्ममपि निःशेषं विषयी करोत्यधर्मवद्धर्मस्यापि देहग्रहणहेतुत्वान्मुमुक्षोश्च देहग्रहणस्यानिष्टत्वान्नातो धर्मोऽपि ब्रह्मविदं स्पृशतीत्यर्थः॥१२८४॥

दुःखाभावः सदेहस्य नैवास्तीति श्रुतेर्मतम्॥
तस्माद्देहोऽप्यनर्थः स्याद्देहो नाशाच्च सर्वदा॥१२८५॥

देहग्रहणं मुमुक्षोरनिष्टमित्येतत्प्रतिपादयति। दुःखेति। सदेहस्य देहाभिमानवतो दुःखाभावः सदैव नास्तीति न ह वै सशरीरस्येत्यादिश्रुतेर्मतमिति संबन्धः। अपिशब्दो मानुषादिदेहस्यानर्थत्वं कैमुतिकन्यायात्सिद्धमितिद्योतनार्थः। देहमात्रस्यानिष्टत्वे हेत्वन्तरमाह। नाशाच्चेति। सर्वदेत्यनर्थपदेन युज्यते॥१२८५॥

न तपत्यथ तं कस्मात्तापकोऽप्यात्मवेदिनम्॥
पाप्मेति हेतुरधुना तत्र श्रुत्याऽभिधीयते॥१२८६॥

पाप्मा धर्माधर्मात्मको न ब्रह्मविदं स्पृशति न च तमस्पृशन्नुपतापं तस्मिन्नाधातुमलमित्युक्तं संप्रति सर्वमित्यादिवाक्यमाकाङ्क्षापूर्वकमादत्ते। नेत्यादिना। पाप्मनस्तापकत्वस्यापि दृष्टिसिद्धत्वात्तत्र कर्माऽऽत्मवेदिनो न तापकमित्यर्थः॥१२८६॥

अकर्तृत्वात्मयाथात्म्यसम्यग्ज्ञानाग्निना यतः॥
सर्वं पापं तपत्येष भस्मसात्कुरुतेऽग्निवत्॥१२८७॥

हेतुवाक्यं विभजते। अकर्तृत्वेति। तपतीत्यस्य व्याख्या भस्मसात्कुरुत इति। अतो न कर्म विद्वद्दृष्टितापकमिति शेषः॥१२८७॥

स्वयमेवेश्वरः प्राह प्रपन्नाय किरीटिने॥
पुराणः शाश्वतोऽचिन्त्यः स1471र्वभूतानुकम्पया॥१२८८॥

सम्यग्ज्ञानाग्निः सर्वं कर्म भस्मी करोतीत्यस्मिन्नर्थे भगवद्वाक्यमवतारयति। स्वयमिति॥१२८८॥

यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन॥
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा॥१२८९॥

तदेवोदाहरति। यथेति॥१२८९॥

संबन्धे सति पाप्माऽयं स्वफलेनानुतापयेत्॥
अकर्तृत्वान्न संबन्धो विदुषोऽस्तीह पाप्मभिः॥१२९०॥

नैनं पाप्मेत्यादेस्तात्पर्यमाह। संबन्ध इति। इहेति विद्यावस्थोक्तिः॥१२९०॥

तदेतदुच्यते श्रुत्या नैनं पाप्मेति यत्नतः॥
नैनं ब्रह्मविदं पाप्मा तरति व्याप्नुते स्वतः॥१२९१॥

तदकर्तृत्वतो हेतोर्ब्रह्मवित्तु सकारणम्॥
सर्वंतरति पाप्मानं सर्पादीन्रशना यथा॥१२९२॥

उक्तेऽर्थे वाक्यं पठति। तदेतदिति। यत्नतोऽभ्यासादिति यावत्। पाठक्रमस्त्वत्राविवक्षित इत्यभिप्रेत्य नैनं पाप्मा तरतीत्यस्यार्थमनुवदति। नैनमिति। प्रतीत्यविरोधार्थं विशिनष्टि। स्वत इति। सर्वमित्यादेरर्थमाह ब्रह्मवित्त्विति। विदुषः सकारणकर्मातिक्रमश्चेदतिक्रमणीयस्य नद्यादिवद्वस्तुत्वापत्तिरित्याशङ्क्याऽऽह। सर्पादीनिति॥१२९१॥१२९२॥

आत्मयाथात्म्यवित्सोऽयं विपापो विरजः स्वतः॥
निष्कर्मा स्याद्विपापोऽयं विरजस्कोऽप्यकामतः॥१२९३॥

सर्वसंशयहेतोश्चप्रत्यङ्मोहस्य नाशतः॥
स्यादेषोऽविचिकित्सोऽतः सर्वसंशयवर्जितः॥१२९४॥

विपाप इत्यादिपदानि व्याकरोति। आत्मेत्यादिना। अतः शब्दः सम्यग्ज्ञानार्थः॥१२९३॥१२९४॥

एवमात्मपरिज्ञानाद्ध्वस्ताविद्यो भवेद्यदा॥
अनापन्नादिमध्यान्तं ब्राह्मण्यं लभते तदा॥१२९५॥

ब्राह्मणो भवतीत्यस्यार्थमाह। एवमिति॥१२९५॥

इमामवस्थामापन्नो मुख्यो ब्राह्मण उच्यते॥
भाविवृत्त्या स गौणस्तु प्रागतो ब्राह्मणो भवेत्॥१२९६॥

ब्राह्मण्यं न विद्याफलं प्रागेव लब्धत्वादित्याशङ्कयाऽऽह। इमामिति। पूर्वावस्थायां तच्छब्दप्रयोगे निमित्तमाह। भावीति। अतःशब्दो ज्ञानावस्थार्थः॥१२९६॥

जातौ ब्राह्मणशब्दोऽयं मा प्रापदिति तं श्रुतिः॥
व्याचष्टेऽतः प्रयत्नेन ब्रह्मलोकगिरा स्वयम्॥१२९७॥

प्रकृतं ब्राह्मणमेषशब्देनानूद्य तस्मिन्ब्रह्मलोकपदं प्रयुञ्जानायाः श्रुतेरभिप्रायमाह। जाताविति। इतिशब्दादूर्ध्वमतःशब्दो योज्यः। तमिति ब्राह्मणशब्दोक्तिः। यत्नस्तु पूर्ववत्॥१२९७॥

अव्यावृत्ताननुगतं ब्रह्मेत्यत्राभिधीयते॥
लोकोऽपि दृष्टिमात्रत्वात्प्रत्यङ्मात्रं निरुच्यते॥१२९८॥

ब्रह्मशब्दं व्याकरोति। अव्यावृत्तेति। अत्रेत्यखण्डपदोक्तिः। लोकशब्दं व्याचष्टे। लोकोऽपीति॥१२९८॥

अन्योन्यार्थसमाप्तित्वात्कर्मधारय एव तु॥
समासोऽत्र परिग्राह्यो निषादस्थपतिर्यथा॥१२९९॥

पदच्छेदः पदार्थोक्तिरिति न्यायेन पदार्थमुक्त्वा समासमाह। अन्योन्येति। ब्रह्मलोकपदयोरेकार्थावसानाद्ब्रह्मैव लोक इति कर्मधारयोऽस्मिन्पदे भातीत्यर्थः। ब्रह्मणो लोक इति षष्ठीसमासोऽपि संभवतीत्याशङ्क्याऽऽह। निषादेति। यथा निषादानां स्थपतिरिति षष्ठीसमासो नेष्टः कल्पनागौरवाल्लाघवात्तु निषादश्चासौ स्थपतिश्चेति कर्मधारयो निषादस्थपत्यधिकरणे स्थितस्तथाऽत्रापीत्यर्थः॥१२९९॥

श्रुतमेकविभक्तित्वं विभक्त्यन्तरकल्पनात्॥
लघीयोऽतीव यत्तस्मात्कर्मधारय एव सः॥१३००॥

कर्मधारयाङ्गीकारे हेत्वन्तरमाह। श्रुतमिति। लोकशब्दस्य प्रथमान्तत्वं श्रुतं तदेव समासान्तर्वर्तिब्रह्मशब्दस्यापि स्वीकर्तुमुचितं संनिधानाल्लाघवाच्च तथाच श्रुतकल्पकशून्यषष्ठीकल्पनातो यतोऽतिशयेन लघुतरं प्रथमान्तत्वं तस्मान्नात्र समासान्तरमेष ब्रह्मलोकः सम्राडिति हैनमनुशशासेत्यत्र चैतत्प्रपञ्चितमित्यर्थः॥१३००॥

ब्रह्मलोकमिमं साक्षाद्धे सम्राड्ब्रह्मविद्यया॥
प्रापितोऽस्यभयं पूर्वं यत्प्रतिज्ञातवानहम्॥१३०१॥

सम्राडिति संबोधयतो मुनेराशयं दर्शयति। ब्रह्मलोकमिति। ननु कूर्चब्राह्मणे विद्याफलमभयं वै जनक प्राप्तोऽसीत्यभयमुक्तमिह तु ब्रह्मलोकं प्राप्तोऽसीत्युच्यते तथा

च तत्फले विकल्पः स्यादित्याशङ्क्याभयस्यैव ब्रह्मलोकत्वान्मैवमित्याह। अभयमिति॥१३०१॥

इत्येवं याज्ञवल्क्यस्तं नृपमुक्तेन वर्त्मना॥
साक्षादनुशशासैनमित्युक्तिः स्याच्छ्रुतेरियम्॥१३०२॥

इति हेत्यादेरर्थमाह। इत्येवमिति। एवंपदमितिपदस्य व्याख्यानं तस्यार्थमाह। उक्तेनेति। अनुशासनस्य साक्षात्त्वं पुनःशङ्कानुत्थाननिदानत्वम्। इदं च श्रुतेर्वाक्यं न मुने राज्ञो वेत्याह। इत्युक्तिरिति॥१३०२॥

अनुशिष्टोऽथ नृपतिर्विद्यानिष्क्रयहेतुतः॥
सोऽहमित्यादिकं वाक्यं गुरुमाह त्वरान्वितः॥१३०३॥

सोऽहमित्यादेस्तात्पर्यमाह। अनुशिष्ट इति। अनुशासनफलं विद्यालाभानन्तर्यमथशब्दार्थः। ब्रह्मविद्यानुरूपा नास्ति दक्षिणेति सूचयति। त्वरान्वित इति। दक्षिणात्वेन राजा राज्यमात्मानं च गुरवे समर्पितवानिति वाक्यार्थः॥१३०३॥

ब्रह्मविद्या समाप्तेयं ससंन्यासाऽद्वयात्मिका॥
सेतिकर्तव्यताकेयं साङ्गा निःश्रेयसे नृणाम्॥१३०४॥

प्रकरणार्थमुपसंहरति। ब्रह्मविद्येति। अद्वयात्मिकेत्यखण्डवस्त्वाकारत्वोक्तिः। तत्त्वज्ञानं साङ्गोपाङ्गं तत्फलं चोक्तमित्यर्थः। निरित्युपसर्गोनिश्चितार्थोऽसमस्तो द्रष्टव्यः॥१३०४॥

निःशेषपुरुषार्थोऽयं समाप्तो ब्रह्मबोधतः॥
सर्वानर्थनिरासार्थमेतावानेव चाऽऽदृतैः॥१३०५॥

कर्तव्यो यत्नमास्थाय कृते यस्मिन्कृतार्थता॥
नान्यतः कृतकृत्यः स्यादुक्तज्ञानातिरेकतः॥१३०६॥

ब्रह्मविद्यासमाप्तावपि परमानन्दावाप्तये कार्यान्तरमाशङ्क्याऽऽह। निःशेषेति। तथाऽप्यनर्थनिरासार्थं कर्तव्यान्तरमाशङ्क्याऽऽह। सर्वानर्थेति। एतावानित्युक्तो ब्रह्मबोधो गृह्यते। अद्वेष्टा सर्वभूतानामित्यादिशास्त्रोपदिष्टधर्मवैशिष्ट्यं यत्नास्थानम्। तत्करणफलमाह। कृत इति। हेत्वन्तरादपि कृतकृत्यतासंभवदेतावानेवेति नावधार्यमित्याशङ्क्याऽऽह। नेति॥१३०५॥१३०६॥

व्याख्यातो योऽयमत्राऽऽत्मा स विज्ञानानुरोधतः॥
फलाय स्यादविज्ञात इत्येतदधुनोच्यते॥१३०७॥

वृत्तमर्थमुपसंहृत्योत्तरकण्डिकाद्वयस्य तात्पर्यमाह। व्याख्यात इति। योऽयं प्रत्यगात्मा पूर्वोक्तः स ज्ञातः सन्मोक्षाय स्यादिति द्वितीयवाक्येनोच्यते स चाज्ञातः संसाराख्यैश्वर्यफलायेत्यादिवाक्येनेत्यर्थः॥१३०७॥

पञ्चमान्त उपन्यस्तं रातेर्दातुः परायणम्॥
तद्विदस्तिष्ठमानस्येत्यस्य चेहोपसंहृतिः॥१३०८॥

रातिर्दातुः परायणं तिष्ठमानस्य तद्विद इत्यत्र कर्मज्ञानफलयोरुक्तत्वादत्रापि तदुक्तौ पुनरुक्तिरित्याशङ्क्य तयोरर्थान्तरमाह। पञ्चमान्त इति। कर्मफलमुपसंहर्तुमाद्यं वाक्यं ज्ञानफलमुपसंहर्तुं द्वितीयमित्यर्थः॥१३०८॥

आत्मान्तेनास्य वाक्येन स्वतस्तत्त्वमिहोच्यते॥
अन्नादवसुदानाभ्यामविद्योत्थं तु भण्यते॥१३०९॥

कथं कूटस्थस्याऽऽत्मनोऽन्नादत्ववसुदानत्वोपपत्तिरित्याशङ्क्याऽऽद्यवाक्यस्य विभज्य तात्पर्यमाह। आत्मान्तेनेति। इहेत्याद्यकण्डिकोक्तिः। अविद्योत्थमात्मनस्तत्त्वं मूलकारणमिति शेषः॥१३०९॥

निःशेषान्नादनादात्मा प्राणान्तोऽन्ना1472द उच्यते॥
आत्माऽयं कारणं यस्मात्कार्यमित्यखिलं ततः॥१३१०॥

कथमन्नादपदेन मूलकारणमुच्यतेऽन्नात्तृत्वमात्रं हि तेन भातीत्याशङ्क्याऽऽह। निःशेषेति। अज्ञातो हि परः प्राणस्वभावः कारणात्मा सर्वकार्यसंहर्तृत्वादन्नादो विवक्षित इत्यर्थः। कथं तस्य सर्वकार्यसंहर्तृत्वं तत्राऽऽह। आत्मेति। जगन्मूलकारणस्य तत्संहर्तृत्वं यत्प्रयन्त्यभिसंविशन्तीत्यादौ प्रसिद्धमित्यर्थः॥१३१०॥

कारणेऽनुपयुक्तं यत्कार्यं तन्नेह विद्यते॥
कार्येऽप्यनुपयुक्तं यन्न तत्कारणमुच्यते॥१३११॥

अन्नादपदार्थोक्तिप्रसङ्गागते कार्यकारणे तयो रज्जुसर्पवत्कल्पितत्वं वक्तुं मिथः सापेक्षत्वमाह। कारण इति। अनुपयुक्तमनपेक्षमिति यावत्। इहेति व्यवहारभूमिरुक्ता॥१३११॥

अन्योन्यार्थव्यपेक्षित्वात्कार्यकारणवस्तुनोः॥
नान्योन्यार्थातिरेकेण सिध्येते कार्यकारणे॥१३१२॥

तयोः सापेक्षत्वे फलितमाह। अन्योन्येति॥१३१२॥

वसूपकरणं प्रोक्तं तद्ददातीश्वरत्वतः॥
यतस्ततोऽज आत्माऽयं वसुदान इहोच्यते॥१३१३॥

वसुदानपदं व्याचष्टे। वस्विति। उपकरणं भोगसाधनमिति यावत्। इहेति वाक्योक्तिः॥१३१३॥

अन्नादवसुदानाभ्यां गुणाभ्यां यः समीक्षते॥
ईश्वरं स यथादृष्टि फलमाप्नोति मानवः॥१३१४॥

विन्दत इत्यादेरर्थमाह। अन्नादेति॥१३१४॥

इत्येवमयथावस्तुदर्शिनः फलमीरितम्॥
यथावस्तुदृशोऽप्येवं यथा रज्ज्वादिदर्शिनः॥१३१५॥

उक्तं सम्यग्धीफलमिति मन्दमतिशङ्कां निरस्यति। इत्येवमिति। किं तर्हि सम्यग्धीफलं तदाह। यथेति। एवं दृष्ट्यनुसारिकैवल्यमिति यावत्। सम्यग्ज्ञानिनस्तदनुकूलफललाभे दृष्टान्तः। यथेति। यो हि र1473ज्ज्वादि स्वरूपेण पश्यति तस्य भयादिध्वस्तिः फलमेवमात्मतत्त्वदृशो बन्धध्वस्तिरित्यर्थः॥१३१५॥

ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्॥
इति चाऽऽहेश्वरो वाक्यमुक्तार्थप्रतिपत्तये॥१३१६॥

प्रतिपत्त्यनुसारिफलमित्यत्र भगवत्संमतिमाह। ये यथेति॥१३१६॥

यथातत्त्वं तु योऽज्ञातं वस्तु साक्षात्प्रपद्यते॥
यथावस्त्वेव तस्यापि फलं स्यादिति भण्यते॥१३१७॥

आत्मदर्शनान्मुक्तिरित्यत्रानन्तरवाक्यमवतारयति। यथेति। अज्ञातमिति च्छेदः॥१३१७॥

काण्डद्वयस्य वा योऽर्थः स संक्षिप्याभिधीयते॥
स वा इत्यादिवाक्येन सारार्थस्य जिघृक्षया॥१३१८॥

वाक्यस्यार्थान्तरमाह। काण्डद्वयस्येति। संक्षिप्योपसंहारे फलमाह। सारार्थस्येति। ब्रह्मात्मैक्यज्ञानसौकर्यार्थं संक्षेपोक्तिरित्यर्थः॥१३१८॥

अविद्यावान्पुरा योक्तो मृत्युजन्मादिसंसृतिः॥
स वा इति गिरा सोऽत्र स्मार्यते ब्रह्मसंगतौ॥१३१९॥

वाक्यतात्पर्यमुक्त्वा स वा इतिपदयोरर्थमाह। अविद्यावानिति। पुरा ब्राह्मणादाविति यावत्। य उक्त इत्यत्र योक्त इति प्रयोगः सेमामितिवत्। मृत्युर्जन्म चेत्यादिरूपा संसृतिर्यस्येति विग्रहः। स्मारणफलमाह। ब्रह्मेति। ब्रह्मणो जीवस्य संगतिस्तादात्म्यधीस्तस्यामुद्देश्यायामित्यर्थः। अत्रेत्यन्तिमकण्डिकोक्तिः। प्रसिद्धानुवादेनाप्रसिद्धविधेर्न्याय्यतया संसारिस्मारणं फलवदिति भावः॥१३१९॥

स वा एष पुरोक्तेन यो वाक्येन प्रकाशितः॥
प्रध्वस्ताज्ञानतज्जः सन्परां निर्वृतिमागतः॥१३२०॥

एषशब्दार्थमाह। स वाइति। यो हि त्वंपदवाच्यः स वा इत्युक्तः स ब्रह्मलोकवाक्ये लोकशब्देन प्रकाशितोऽविद्यातज्जहीनो नित्यमुक्तस्तल्लक्ष्यः सोऽयमेष इति विवक्षित इत्यर्थः॥१३२०॥

महानित्यभिधानेन सत्यज्ञानादिलक्षणम्॥
ब्रह्मैव प्रोच्यते साक्षात्प्रत्यगात्मविशेषणम्॥१३२१॥

महानित्यस्यार्थमाह। महानितीति। तत्पदलक्ष्यस्य तस्याऽऽत्मानं प्रति विशेषणत्वमाह। प्रत्यगिति। साक्षादित्यपरोक्षत्वोक्तिः॥१३२१॥

ब्रह्मैवाऽऽत्मा स्वतोऽबोधादब्रह्मैव प्रकाशते॥
जरादिधर्मवांस्तस्माद्ब्रह्मणैव विशेष्यते॥१३२२॥

महानात्मेति ब्रह्मात्मनोर्न विशेषणविशेष्यत्वमात्मनो जरादिमत्त्वात्तद्धीनब्रह्मणा विशेष्यत्वायोगादित्याशङ्क्याऽऽह। ब्रह्मैवेति। जरादिधर्मवत्त्वस्य प्रतीच्यबोधकृतत्वं तच्छब्दार्थः॥१३२२॥

प्रमान्तरानधिगता ब्रह्मता प्रत्यगात्मनः॥
प्रत्यक्त्वं ब्रह्मणस्तद्वद्वचसैव प्रबोध्यते॥१३२३॥

पदार्थयोर्विशेषणविशेष्यत्वमुक्त्वा पदयोः सामानाधिकरण्यस्य तात्पर्यमाह। प्रमान्तरेति। तद्वदिति प्रमान्तरानधिगतमाकृष्यते। वचसा महानात्मेति समानाधिकृतेनेति यावत्॥१३२३॥

अहं ब्रह्मेतिवाक्योत्थविज्ञानात्प्रत्यगात्मनः॥
ध्वस्तेऽज्ञाने सकार्येऽथ यद्रूपं तदिहोच्यते॥१३२४॥

प्रबोधफलमनूद्याज इत्यादेस्तात्पर्यमाह। अहमिति। समनन्तरवाक्यमिहेत्युच्यते। वाक्यीयज्ञानादज्ञानतज्जध्वस्तौ व्यावर्तकाभावाद्युक्तमात्मनोऽद्वितीयनिर्विशेषैकरस्यमिति-द्योतनायाथशब्दः॥१३२४॥

रज्जुः सर्पादिनेवाऽऽत्मा विनाऽविद्यां न जायते॥
कार्यात्मना यतस्तस्मादात्माऽज इति भण्यते॥१३२५॥

अजशब्दं व्याचष्टे। रज्जुरिति॥१३२५॥

सर्वभावविकाराणां जन्म मूलं यतस्ततः॥
सर्वेषां प्रतिषेधः स्यान्निषेधादात्मजन्मनः॥१३२६॥

अजरादिविशेषणान्याक्षिपति। सर्वेति॥१३२६॥

तथाऽपि ताञ्श्रुतिर्यत्नाज्जरादीन्प्रतिषेधति॥
स्वाभाविकत्वाशङ्कायाः प्रतिषेधस्य सिद्धये॥१३२७॥

जन्मनिषेधादितरविकारनिषेधमङ्गीकृत्य समाधत्ते। तथाऽपीति। आर्थिकनिषेधस्याशाब्दिकत्वाज्जरादीनां पारमार्थिकत्वाशङ्कायां तन्निरासार्थं मुखतो निषेध इत्यर्थः॥१३२७॥

कालात्मना ह्यवच्छेदान्नायं कालंजरत्वतः॥
देहादिवज्जरामेति तस्मादात्माऽजरः स्मृतः॥१३२८॥

अजरपदं व्याकरोति। कालात्मनेति। यथा देहादि कालावच्छिन्नत्वाज्जीर्यते न तथाऽऽत्मा जरामेति कालंजरत्वादेव तदनवच्छिन्नत्वात्प्रतीचश्च कालंजरत्वमुक्तं तस्मादयमजरः स्मृतो विद्वद्भिरित्यर्थः। कालंजरत्वस्याऽऽत्मनि प्रागुक्तत्वावद्योती हिशब्दः॥१३२८॥

सर्वस्य परिणामस्य हानोपादानमात्रतः॥
जराजन्मनिषेधेन सर्वोऽतोऽत्र निषिध्य1474ते॥१३२९॥

जरादीनां स्वाभाविकत्वं निषेद्धुमजरादिविशेषणं चेत्तर्हि वृद्ध्यादेस्तथात्वाशङ्का तदवस्था तन्निषेधकविशेषणाभावादित्याशङ्क्याऽऽह। सर्वस्येति। अत्रेत्यात्मोक्तिः। हानोपादानमात्रतो जराजन्मान्तर्वर्तित्वादिति यावत्। अतःशब्दस्य पञ्चम्या संबन्धः॥१३२९॥

परिणामोऽस्य येनान्त्यः श्रुत्येह प्रतिषिध्यते॥१३३०॥

देहस्थितेरवसितिर्मृतिशब्देन भण्यते॥
तन्निषेधोऽमरोक्त्याऽत्र नित्यस्याऽऽत्मन उच्यते॥१३३१॥

उक्तेर्थे गमकमाह। परिणाम इति। इह वाक्ये जन्मजरानिषेधानन्तरमात्मनो नाशाख्योऽन्त्यो विकारोऽमृतश्रुत्या येन हेतुना निषिध्यते तेन मध्यवर्तिवृद्ध्यादिसर्वविकारनिषेधो विवक्षित इत्यर्थः। अमरपदं तर्हि किमर्थमित्याशङ्क्य प्राणत्यागरूपमरणनिषेधार्थमाह। देहेति। तन्निषेधे हेतुमाह। नित्यस्येति॥१३३०॥१३३१॥

नाजस्यापरिणामस्य मरणं जगतीक्ष्यते॥
अजोऽजरश्च तेनोक्तोऽमरश्चैष ततः स्मृतः॥१३३२॥

अजत्वाद्युपजीव्यामरत्वं साधयति। नाजस्येति। यतोऽजस्तेनाजरो यतश्चाजरस्ततोऽमर इति योजना॥१३३२॥

परिणामात्मको मृत्युरमरोक्त्या निवारितः॥
अमृतोक्त्याऽथ नाशोऽस्य वार्यते यो निरन्वयः॥१३३३॥

अमरपदेनैवान्त्यविकारनिराससिद्धेर्व्यर्थममृतपदं न च घटादिवन्नाशं निरसितुं तदिति युक्तमजर1475पदेन गतत्वादित्याशङ्क्याऽऽह। परिणामेति। अमरोक्त्या प्राणत्यागस्याजरोक्त्या च कारणसंसर्गस्य मृत्योर्निवारितत्वान्निरन्वयनाशं निरसितुममृतपदमित्यर्थः। अमृतपदस्यागतार्थत्वद्योतनार्थोऽथशब्दः॥१३३३॥

अविनाशीत्यपि तथा विनाशद्वयमात्मनः॥
श्रुत्या निषिध्यते साक्षात्प्रत्यक्कौटस्थ्यसिद्धये॥१३३४॥

मैत्रेयीब्राह्मणेऽप्यविनाशी वा अरेऽयमात्माऽनुच्छित्तिधर्मेति श्रुत्या नाशद्वयमात्मनो निषिद्धमित्याह। अविनाशीत्यपीति। प्रकृतश्रुत्यैवेति वक्तुं तथाशब्दः। तन्निषेधफलमाह। प्रत्यगिति॥१३३४॥

कामकर्मतमोभावादमरोऽमृत एव च॥
तत एवाभयः प्रत्यङ्भयं1476 हि तदबोधतः॥
कारणस्य निषेधो भयकार्यनिषेधतः॥१३३५॥

अमरत्वाद्युपजीव्याभयत्वम1477वतारयति। कामेति। तद्विभजते। भयं हीति। अनुभवानुसारार्थो हिशब्दः॥१३३५॥

कुतोभयत्वसंसिद्धिः प्रतीच इति शङ्किते॥
ब्रह्मेत्याहाऽऽत्मनस्तत्त्वं ब्रह्म त्वभयमेव हि॥१३३६॥

आकाङ्क्षापूर्वकं विशेषणान्तरमादत्ते। कुत इति। तथाऽपि कथमभयत्वमित्याशङ्क्याभयं वै ब्रह्मेत्यस्यार्थमाह। ब्रह्म त्विति। श्रौतीं प्रसिद्धिमनुरोद्धुं हिशब्दः॥१३३६॥

अहं ब्रह्मेत्यतः साक्षाद्यथोक्तेनैव वर्त्मना॥
भयहेतोर्निरासेन स ब्रह्माभयमश्नुते॥१३३७॥

अभयं हीत्यादि व्याकरोति। अहमिति। इतिशब्दो ज्ञानपरामर्शार्थः। तस्य निमित्तत्वमतःशब्दार्थः। अपरोक्षज्ञानस्यैव सनिदानापरोक्षभ्रमध्वंसितेति दर्शयितुं साक्षादित्युक्तम्। ऐक्यज्ञानोदयोपायं सूचयति। यथोक्तेनेति। अन्वयादिना पदार्थशोधनपूर्वकं श्रुतेन वाक्येनेत्यर्थः॥१३३७॥

सर्वोपनिषदामेष संक्षिप्तोऽर्थ इहोदितः॥
उत्पत्त्यादिविकल्पोऽय1478मस्यैव प्रतिपत्तये॥१३३८॥

अन्तिमकण्डिकार्थमुपसंहरति। सर्वोपनिषदामिति। कूटस्थमद्वयं प्रत्यग्ब्रह्म वेदान्तार्थश्चेत्किमिति सृष्ट्याद्युच्यते श्रुत्येत्याशङ्क्याऽऽह। उत्पत्त्यादीति॥१३३८॥

एकप्रभृतिसंख्येयं रे1479खासंकेतवर्त्मना॥
प्रतिपत्तिरसंख्येयव1480स्तुनः स्याद्यथा तथा॥१३३९॥

सर्वप्रमाणविषयलङ्घिनोऽकार्यकारण—
वस्तुनः प्रतिपत्तिः स्याज्जन्मादिध्वंसवर्त्मना॥१३४०॥

सृष्ट्यादेरात्मज्ञानहेतुत्वे दृष्टान्तमाह। एकेति। इयं खल्वेकप्रभृतिपरार्धान्ता

संख्या रेखाविशेषेष्वध्यासद्वारेणानन्तवस्तुप्रतिपत्तिहेतुः संख्येयज्ञानं विना संख्याज्ञानायोगात्। यद्वैकप्रभृतिपरार्धान्तसंख्यायाः संख्येयस्य वस्तुनो रेखाविशेषेष्वारोपद्वारा नानाविधा वस्तुप्रतिपत्तिर्यथेत्यर्थः। दार्ष्टान्तिकमाह। तथेति। परस्मिन्नध्यस्तजगज्जन्मादिद्वारा तद्धीरित्यर्थः॥१३३९॥१३४०॥

संख्येयत्वं न रेखायाः संख्यात्वं वाऽञ्जसेष्यते॥
तदध्यारोपगत्यैव तथाऽपि प्रतिपत्तये1481॥१३४१॥

रेखायां संख्या वा संख्येयं वा नाऽऽरोपितमित्याशङ्क्य दृष्टान्तं साधयति। संख्येयत्वमिति। यद्यपि रेखायां स्वगता संख्या तत्संख्येयत्वं च नाऽऽरोपितं तथाऽपि यद्द्वारा रेखा संख्येयं वस्तु बोधयति तत्तस्यामध्यस्तं न हि तत्र घटादि वा संख्या वा वस्तुतोऽस्ति तस्मादारोपितद्वारैव सा धीहेतुरित्यर्थः॥१३४१॥

यथैवमवगच्छन्ति प्रध्वस्ताशेषकल्पनम्॥
आत्मानं स्थितिजन्मादिकल्पनोपायमात्रतः॥१३४२॥

दृष्टान्तमनूद्य दार्ष्टान्तिकं प्रपञ्चयति। यथेति॥१३४२॥

पत्रकज्जलरेखाभिर्यथा वाऽध्यासवर्त्मना॥
वर्णाञ्जानन्त्यकारादीन्पत्रादिभ्यो विलक्षणान्॥१३४३॥

उदाहरणान्तरमाह। पत्रेति।॥१३४३॥

तथोत्पत्त्यादिकाध्यासवर्त्मना तद्विलक्षणम्॥
जन्मादिहेतुध्वंसेन नेतीति ब्रह्म गम्यते॥१३४४॥

दार्ष्टान्तिकमाह। तथेति। तद्वैलक्षण्यं कौटस्थ्यं तद्धेतुरविवेकादि॥१३४४॥1482

इति काण्डद्वयोक्तोऽर्थः संहृत्य सफलोऽखिलः॥
इह प्रदर्शितो वाक्ये तत्समाप्तिविवक्षया॥१३४५॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके चतुर्थाध्यायस्य
चतुर्थं शारीरकब्राह्मणम्॥४॥

बृहदारण्यकक्रमेण षष्ठाध्यायस्य चतुर्थं ब्राह्मणम्॥४॥

प्रकृतमुपसंहरति। इति काण्डेति। इह वाक्य इत्यन्तिमकण्डिकोक्तिः। तच्छब्देन काण्डद्वयमुच्यते॥१३४५॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिकटीकायां चतुर्थाध्यायस्य
चतुर्थं शारीरकब्राह्मणम्॥४॥

श्लोकानामादितः समष्ट्यङ्काः—१०३७८
<MISSING_FIG href="../books_images/U-IMG-1733197976Screenshot2024-08-04235410.png"/>

अथ पञ्चमं ब्राह्मणम्।
————

निरधारि पुरा ब्रह्म मधुकाण्डागमेन यत्॥
याज्ञवल्कीयकाण्डेन तद्युक्त्याऽथोपपादितम्॥१॥

पूर्वस्मिन्ब्राह्मणे मन्त्रब्राह्मणाभ्यामनर्थानर्थहेतुपुरुषार्थतद्धेतुरूपं चतुष्टयं शिष्ट्वामन्त्रैरेव प्रपञ्चिते पुमर्थमार्गे सर्वस्याऽऽम्नायस्य विनियोगमुक्त्वा सोपाधिकनिरुपाधिकब्रह्मभेदेन ब्रह्म तज्ज्ञानं तत्फलं चोक्तमिदानीं वक्तव्यानवशेषादुत्तरं ब्राह्मणमकिंचित्करमित्याशङ्क्य वृत्तं कीर्तयति। निरधारीति। आगमशेषस्य युक्तेरागमानन्तर्यं युक्तं प्रधानानन्तर्याद्गुणस्येति वक्तुमथेत्युक्तम्॥१॥

जल्पन्यायेन तत्पूर्वं पञ्चमे प्रतिपादितम्॥
वादन्यायेन तद्भूयः षष्ठे सम्यक्प्रपञ्चितम्॥२॥

युक्तिप्रधानमुनिकाण्डेनाध्यायभेदेनोक्तं विभज्यानुद्रवति। जल्पेति॥२॥

अथाधुना निगमनस्थानीयमिदमुच्यते॥
मैत्रेयीब्राह्मणं श्रुत्या तथाच न्यायविद्वचः॥३॥

उत्तरब्राह्मणसंगतिमाह। अथेति। किमिदं निगमनं नाम तदाह। तथाचेति॥३॥

हेतूक्तितः प्रतिज्ञायाः सिद्धार्थाया यदुत्तरम्॥
वचो निगमनं तत्स्याद्वाक्यस्यावयवोक्तिभाक्॥४॥

अनुमानविदो न्यायसूत्रकृतो हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनमिति सूत्रमुदाहरति। हेतूक्तित इति। वाक्यस्येत्यनुमानरूपं पञ्चावयवं महावाक्यं गृह्यते। निगमनस्यान्त्यावयवत्वं प्रतिज्ञाहेतूदाहरणोपनयननिगमनान्यवयवा इत्यवयवविभागोद्देशसूत्रान्मन्तव्यम्। एतदुक्तं भवति। साधर्म्योक्ते वैधर्म्योक्ते वा हेतौ यथोदाहरणमुपसंहृते तस्मादुत्पत्तिधर्मवत्त्वादनित्यः शब्द इति निगमनं तेन हि प्रतिज्ञादय एकार्थतया समर्थ्यन्त एवं प्रकृतेऽपि श्रुतियुक्तिसिद्धोऽर्थोऽनेनोपसंह्रियत इति॥४॥

ससंन्यासाऽऽत्मविद्या या मधुकाण्डागमोदिता॥
उपपत्तिप्रधानेऽपि सैव मोक्षेऽवसीयते॥५॥

ब्राह्मणस्यार्थान्तरमाह। ससंन्यासेति। मधुकाण्डे मैत्रेयीब्राह्मणेनाऽऽगमबलादुक्ता मुक्तिसाधनीभूता संन्याससहिताऽऽत्मविद्या सैवाधुना न्यायप्रधानेऽपि मुनिकाण्डे मुक्तौ हेतुत्वेन न्यायतो मन्तव्येत्येतद्ब्राह्मणं प्रवृत्तमित्यर्थः॥५॥

आत्मज्ञानं ससंन्यासं मोक्षायेत्यागमाद्यथा॥
युक्तितोऽपि तथा ज्ञेयमिति चेहोपसंहृतिः॥६॥

कहोलप्रश्नादौ न्यायतोऽपि सिद्धा यथोक्ता विद्येति किमनेन ब्राह्मणेनेत्याशङ्क्य

प्रथमपक्षमेवानुसरन्नाह। आत्मज्ञानमिति। इतिशब्दादूर्ध्वं ज्ञानमित्यध्याहारः। श्रुतियुक्तिसिद्धार्थोपसंहारार्थमिदं ब्राह्मणं न च निगमनमनर्थकं यदाहोदाहरणस्थयोर्धर्मयोः साध्यसाधनभावोपपत्तौ साध्ये विपरीतप्रतिषेधार्थं निगमनमिति तस्मादुपसंहारोऽर्थवानित्यर्थः॥६॥

व्याख्यातत्वात्पदार्थानां चतुर्थेऽध्याय एव तु॥
तद्व्याख्यानाय यत्नोऽतो न भूयः क्रियतेऽधुना॥७॥

ब्राह्मणस्य तात्पर्यमुक्त्वा पदार्थोक्तिप्राप्तावाह। व्याख्यातत्वादिति॥७॥

शब्दस्यैवाऽऽत्मनो जन्म चतुर्थे प्रतिपादितम्॥
सर्वोपसंहृतेरत्र यागादेरपि भण्यते॥८॥

अक्षरार्थो न वक्तव्यश्चेत्तात्पर्यस्योक्तत्वाद्ब्राह्मणस्य समाप्तिरेवेत्याशङ्क्येष्टमित्यादिवाक्यतात्पर्यमाह। शब्दस्येति। यागादेरर्थप्राप्तस्या1483पि प्रकृते जन्म मुखतो निर्दिश्यते सर्वोपसंहारस्येह विवक्षितत्वादित्यर्थः॥८॥

शब्दोऽयं बहुधा भिन्नो नामैव परमात्मजम्॥
यागदानादिकं कर्म रूपं लोकपुरःसरम्॥९॥

यदृग्वेद इत्यादिश्रुतेर्विभागमाह। शब्दोऽयमिति। अयं शब्दो बहुधा मन्त्रब्राह्मणभेदेन भिन्नो नाममात्रं तच्च परमात्मजमेवेत्येतदृग्वेद इत्यारभ्येष्टमित्यस्मात्प्राक्तनवाक्येनोपसंह्रियते। इष्टमित्यारभ्यायं च लोक इत्यस्मात्प्राचीनवाक्येन यागादिकर्म परमात्मजमेवेत्युपसंहारः क्रियतेऽयं चेत्युपक्रम्य परेण तादृगेव रूपमिति नियम्य1484ते। एष विभागः सृष्टिश्रुतेरित्यर्थः॥९॥

सर्वमेतदयत्नेन तत एव विनिःसृतम्॥
अनन्यभूतं तेनातःसाक्षात्तत्त्वं1485 प्रगीय1486ते॥१०॥

कथं परस्मात्त्र्यात्मकं जगज्जायते तस्य प्रयत्नाद्यभावादन्यथा ततो जातो नामान्तर्गतो वेदः स पौरुषेयः स्यादत आह। सर्वमिति। परस्य प्रयत्नाद्यभावेऽपि मायामयी सृष्टिरविरुद्धा सर्वधर्मोपपत्तेश्चेति न्यायादिति भावः। सर्वस्य परस्मादुत्पत्तौ फलितमाह। अनन्येति। कार्यस्य कारणातिरेकेणाभावोऽतःशब्दार्थः। तेन परेण कारणेनेति यावत्। तत्त्वं1487 सर्वस्य कार्यस्येति शेषः॥१०॥

अन्तर्बहीरसघनः सैन्धवस्य घनो यथा॥
विज्ञानघन एवायं विज्ञानात्मा तथैव च॥११॥

यथा सैन्धवघन इत्यादेरर्थमाह। अन्तरिति॥११॥

स्वविकारोपसंश्लेषाद्विज्ञानात्मत्वमेत्यतः॥
तद्धेतुनाशात्प्रकृतिं स्वामेव प्रतिपद्यते॥१२॥

एतेभ्य इत्यादेरर्थमाह। स्वविकारेति। स्वशब्देन प्रत्यगविद्योक्ता तद्विकारो बुद्ध्यादिस्तेन संबन्धे सैवाविद्या हेतुरित्यतःशब्दार्थः। तान्येवेत्यादेरर्थमाह। तद्धेत्विति। चिद्धातोर्बुद्ध्यादिसंबन्धे हेतोरविद्याया विद्यया नाशाज्जीवो जैवं भावं हित्वा स्वाभाविकं ब्रह्मभावं प्राप्नोतीत्यर्थः॥१२॥

परिणामनिषेधः स्यादविनाशिगिराऽऽत्मनः॥
अनुच्छित्तिगिरा नाशो वार्यते यो निरन्वयः॥१३॥

अविनाशीत्यादिपदद्वयस्यापुनरुक्तिमाह। परिणामेति। कारणसंसर्गः परिणामः॥१३॥

मात्रासंसर्गजस्त्वेष यो विनाशादिधर्मवान्॥
अविद्यामात्रहेतूत्थो रज्जुसर्पादिवन्मतः॥१४॥

मात्रासंसर्गस्त्वस्य भवतीति माध्यंदिनश्रुतेरर्थमाह। मात्रेति। अत्र विशेष्यत्वेन जीवो मन्तव्यः। प्रथमपादार्थं विवृणोति। अविद्येति। जीवशब्दवाच्यस्यानिर्वाच्यत्वे नि1488र्विशेषनित्यसिद्धं चिदेकरसं जीवपदलक्ष्यं भवतीति भावः॥१४॥

ब्रह्मैवैकः स आत्मोक्तो ह्यध्यायेषु चतुर्ष्वपि॥
उपायमात्रभेदोऽत्र न तूपेयः प्रभिद्यते॥१५॥

तस्य ब्रह्मप्राप्त्युपायानां प्रत्यध्यायं भेदादनेकरसं ब्रह्मेत्याशङ्क्याऽऽह। ब्रह्मैवेति। उक्तेरतिव्यक्तत्वद्योतको हिशब्दः। आगमो जल्पवादात्मको न्यायश्चोपायः॥१५॥

नेति नेति चतुर्थेऽसौ यथैव प्रतिपादितः॥
नेतीति पञ्चमेऽप्येवं निर्विकल्पोऽवधारितः॥१६॥

षष्ठेऽपि जनकाख्यानप्रारम्भे तद्वदीरितः॥
निर्विकल्पो यथैकोऽर्थो नेतीत्यत्रोपसंहृतः॥१७॥

नेतीति शास्त्रावसितौ तथैवाऽऽत्मोपसंहृतः॥
एकरूपमतस्तत्त्वं सर्वत्रैव विवक्षितम्॥१८॥

उपेयभेदाभावमुपपादयन्स एष इत्यादेस्तात्पर्यमाह। नेतीति। अत्रेति शारीरकब्राह्मणोक्तिः। शास्त्रावसिताविति मैत्रेयीब्राह्मणग्रहः। उपेयभेदाभावमुपसंहरति। एकरूपमिति॥१६॥१७॥१८॥

नेति नेत्यात्मकात्तत्त्वात्मकाराणां शतैरपि॥
निरूप्यमाणे नान्यादृग्यस्मात्तत्वं समीक्ष्यते॥१९॥

तर्कतोयदि वा वाक्यादत एवेदमेव तु॥
नेतिनेत्यात्मविज्ञानममृतत्वैकसाधनम्॥२०॥

ससंन्यासं विनिश्चेयमिति शास्त्रस्य संग्रहः॥
अमृतप्राप्तयेऽलं स्यात्साधनान्तरनिस्पृहम्॥२१॥

यथोदितमिदं ज्ञानं सहकार्यन्यसाधन—
निरपेक्षमलं मुक्त्या इत्येतदभिधीयते॥२२॥

अतःशब्दपरामृष्टं हेतुमाह। नेत्यादिना। तदैकरूप्ये फलितमाह। अत इति। निर्विशेषाद्वयात्मज्ञानं ससंन्यासं मुक्तिहेतुरित्युक्तमनुवदति। अमृतेति। तत्रैवैतावदित्यादेवाक्यं प्रमाणत्वेनाऽऽदत्ते। सहकारीति॥१९॥२०॥२१॥२२॥

एतावदर एवैतदमृतत्वस्य सिद्धये॥
प्रत्यग्याथात्म्यविज्ञानं नान्यत्किंचिदपेक्ष्यते1489॥२३॥

तद्व्याकरोति। एतावदिति। एतावदेवेति संबन्धः। एवकारार्थमाह। नान्यदिति॥२३॥

इत्युक्तार्थपरिज्ञानदार्ढ्यार्थं सर्वसाधनम्॥
कर्माणि चा1490पनुद्याऽऽशु1491 प्रवव्राजाविचारयन्॥२४॥

विजहारेत्यस्यार्थमाह। इत्युक्तेति। आत्मज्ञानं संन्याससहायं मुक्तिहेतुरित्यत्र मैत्रेयीनिश्चयाधानार्थं शिखायज्ञोपवीताद्यङ्गमङ्गि च कर्म त्यक्त्वा पारिव्राज्यमाश्रममाश्रितवान्मुनिरित्यर्थः। ज्ञानिनः संन्यासे फलात्मके विध्यालोचनापेक्षा नेति सूचयति। आश्विति। वैधेऽपि संन्यासे विरक्तिरेव सामग्रीति विवक्षति। अविचारयन्निति॥२४॥

न केवलमिदं ज्ञानं कर्मसाधननिस्पृहम्॥
निःशेषकर्मसंन्यासापेक्षाऽपि स्याद्यतो मुनिः॥२५॥

सम्यग्विज्ञाततत्त्वत्वात्कृतार्थोऽप्यखिलं स्वयम्॥
तत्याज कर्म त्वरया वाङ्मनःकायसाधनम्॥२६॥

आत्मज्ञानं केवलं मुक्तिहेतुरिति द्योतयितुं कृतकृत्योऽपि संन्यस्यति स्मेत्येकोऽभिप्राय उक्त इदानीं विजहारेत्यस्याभिप्रायान्तरमाह। न केवलमिति। त्वरयेति कर्मत्यागे निवारकाभावं विवक्षन्नावश्यकत्वं तस्य दर्शयति॥२५॥२६॥

अतोऽवगम्यते नूनं न कर्म सहतेऽखिलम्॥
आत्मज्ञानं यतोऽत्याक्षीत्सम्यग्ज्ञानोऽपि तन्मुनिः॥२७॥

संन्यासापेक्षं ज्ञानं मोक्षहेतुरिति द्वितीयमभिप्रायमुक्त्वाऽभिप्रायान्तरमाह। अत

इति। ज्ञानकर्मणोर्विरोधस्पाष्ट्याय कर्म त्यक्तवान्कृतार्थोऽपि मुनिरिति तृतीयोऽभिप्रायः॥२७॥

कर्महेतुविरुद्धत्वात्सम्यग्ज्ञानस्य कर्मणा॥
विरोधोऽत्यर्थमेवातस्तत्त्यक्तं ज्ञानशालिना॥२८॥

कथं विरोधस्तयोरित्याशङ्क्याऽऽह। कर्मेति। यथोक्तविरोधद्योतनार्थं कर्मत्यागं कृतकृत्यस्योक्तं निगमयति। अत इति॥२८॥

एवं काण्डद्वयेनेयं सफलाऽनवशेषतः॥
सर्वसंन्यासनिष्ठा च ब्रह्मविद्या समीरिता॥२९॥

काण्डद्वयतात्पर्यमुपसंहरति। एवमिति॥२९॥

एतावानुपदेशः स्याद्वेदे श्रेयोर्थिनां नृणाम्॥
कृतकृत्यो भवेत्क्षिप्रमेतज्ज्ञात्वाऽनुशासनम्॥३०॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके चतुर्थाध्यायस्य
पञ्चमं ब्राह्मणम्॥५॥

त्रिसाहस्री तथा पञ्च शतान्यत्र समासतः॥
चत्वारिंशत्तथा श्लोकाः षष्ठाध्यायस्य वार्तिके॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यभगवत्पूज्यपादश्रीशंकराचार्यशिष्य-
सुरेश्वराचार्यकृतौ बृहदारण्यकोपनिषद्भाष्यवार्तिके
चतुर्थोऽध्यायः॥४॥

बृहदारण्यकक्रमेण षष्ठोऽध्यायः॥६॥

तल्लाभे कार्यान्तराभावं दर्शयति। एतावानिति। अथोपदेशान्तरमपि सुगतादिभिरुच्यते तत्राऽऽह। वेद इति। चैत्यवन्दनादिरुपदेशो म्लेच्छप्रायाणां पुरुषापसदानां भवतीति न पुरुषधौरेयाणां मुमुक्षूणामित्याह। श्रेयोर्थिनामिति। वेदानुशासनज्ञानफलमाह। कृतकृत्य इति। तत्र हेत्वन्तरनैरपेक्ष्यं सूचयति। क्षिप्रमिति॥३०॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिकटीकायां चतुर्थाध्यायस्य
पञ्चमं ब्राह्मणम्॥५॥

इति श्रीमत्परमहंसपरिब्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्येण श्रीमदानन्दज्ञानेन
विरचितायां श्रीमत्सुरेश्वरवार्तिकटीकायां शास्त्रप्रकाशिकाख्यायां
चतुर्थोऽध्यायः॥४॥

श्लोकानामादितः समष्ट्यङ्काः—१०४०८।
————

अथ पञ्चमोऽध्यायः।
————

समाप्तं याज्ञवल्कीयं काण्डमैकात्म्यनिष्ठितम्॥
खिलकाण्डमथेदानीं यथावदुपवर्ण्यते॥१॥

पूर्वस्मिन्नध्याये ब्रह्मात्मज्ञानं सविषयं सफलं साङ्गोपाङ्गं वादन्यायेनोक्तमिदानीं वृत्तमनूद्य संगतिं वदन्काण्डान्तरमाह। समाप्तमिति॥१॥

संभावितं न यत्पूर्वं कर्मविज्ञानकाण्डयोः॥
तदत्र भण्यते सर्वंखिलकाण्डत्वहेतुतः॥२॥

ननु पूर्वत्रानुक्तं वक्तव्यत्वेनावशिष्टं खिलमित्युच्यते तद्विषयत्वेन काण्डारम्भो न युक्तः सर्वस्यार्थस्य काण्डद्वयेनोक्तत्वादवशेषाभावात्तत्राऽऽह। संभावितमिति। क्रियाविशेषस्य शिष्टत्वात्तस्य खिलतया तद्विषयत्वेन काण्डारम्भ इत्यर्थः। शिष्टस्यापेक्षितस्यात्र वक्तव्यत्वे हेतुमाह। खिलेति॥२॥

अपास्तनिखिलध्वान्ततज्जं ब्र1492ह्मोपवर्णितम्॥
पूर्वैश्चतुर्भिरध्यायैर्यद्धीः कैवल्यसिद्धये॥३॥

उक्तां संगतिं व्यनक्ति। अपास्तेति। तदुक्तिफलमाह। यद्धीरिति॥३॥

सोपाधिकस्य तस्यैव व्यवहारानुपातिनः॥
उपासनानि वाच्यानि यान्यनुक्तान्यतः परम्॥४॥

समाप्तमित्यादिभागं विभज्य खिलकाण्डं विभजते। सोपाधिकस्येति। तान्यतः परं वाच्यानीति संबन्धः॥४॥

प्रकृष्टाभ्युदयार्थानि क्रममुक्तिकराणि च॥
क्रियाभिश्चाविरुद्धानि वाच्यानीति परा श्रुतिः॥५॥

तानि त्रेधा विभजति। प्रकृष्टेति। अभ्युदयफलानि क्रममुक्तिफलानि कर्मसमृद्ध्यर्थानि च त्रिविधान्युपासनानि तानि वाच्यानीति कृत्वा परा श्रुतिरिति योजना॥५॥

तथोंकारं दमं दानं दयामित्यादिकानि च॥
सर्वोपास्त्यङ्गभूतानि वक्तव्यानीति यत्यते॥६॥

वाच्यमर्थान्तरमाह। तथेति। उपास्तिवदित्यर्थः। शिक्षेदिति वक्ष्यमाणक्रियया कर्मणः संबन्धः। आदिशब्देन गतिः फलमित्यादि गृह्यते। तेषां वाच्यत्वे हेतुः। सर्वेति॥६॥

कार्यकारणसंबन्धव्याजमाश्रित्य तत्परम्॥
व्याख्यातं यत्नतः पूर्वमात्मज्ञानप्रसिद्धये॥७॥

काण्डारम्भमुक्त्वा पूर्णवाक्यस्य वृत्तमनूद्य तात्पर्यमाह। कार्येति। मिथ्याभूतं कार्यकारणसंबन्धमाश्रित्य तात्पर्येण ब्रह्मव्याख्यानस्य फलमाह। आत्मेति॥७॥

चरितार्थत्वतस्तस्य कार्यकारणवस्तुनः॥
निषेधायेयमुक्तिः स्यात्पूर्णमित्येवमादिना॥८॥

सत्यात्मज्ञाने कार्यादेस्तादर्थ्येन कल्पितस्य कृतफलतया पुनरनुपयोगात्तन्निषेधार्थं पूर्णवाक्यमित्याह। चरितार्थत्वत इति॥८॥

न व्यावृत्तमिदं सर्वं पराक्प्रत्ययमानगम्॥
नानुवृत्तं तथैवैतन्नाप्यभावैकनिष्ठितम्॥९॥

ननु कार्यादि ब्रह्मणि निषिद्धमिह निषिद्धघटवदन्यत्रास्तीति चेद्ब्रह्मणो न पूर्णता तस्य ब्रह्ममात्रत्वेऽपि स एव दोषः परिच्छिन्नाभिन्नस्य पूर्णत्वायोगात्तच्चेत्तुच्छमध्यक्षादिविरोधः स्यादित्याशङ्क्यान्यत्रास्तित्वकृतं दोषं तावन्निरस्यति। नेत्यादिना। न हीदं ब्रह्मणोऽन्यत्रास्ति भेदस्य दुर्निरूपत्वान्न च ततोऽर्थान्तरं स्वतः परतश्च सिध्यति जडत्वाच्चिदसंबन्धाच्चेत्यर्थः। अभेदप्रयुक्तदोषं प्रत्याह। परागिति। न हीदं प्रत्यगभिन्नं पराक्त्वेन भानादित्यर्थः। जडाजडयोर्भेदायोगाच्च न ब्रह्माभिन्नं तदित्याह। नेति। यथैतन्न व्यावृत्तं तथैवानुवृत्तमपि न भवतीत्यर्थः। तुच्छत्वनिमित्तदोषं निराह1493नापीति। अपरोक्षप्रतीतेरर्थक्रियादृष्टेश्चेत्यर्थः॥९॥

अव्यावृत्ताननुगतमात्मप्रत्ययमीरितम्1494
यस्मात्पूर्णमिदं साक्षात्तादात्म्यं तेन वर्ण्यते॥१०॥

अन्वयव्यतिरेकाभावैर्जगतो दुर्निरूपत्वे फलितमाह। अव्यावृत्तेति। यस्मादिदं जगदन्वयादित्यागेनाद्वयं स्वप्रकाशं ब्रह्मैव तस्मात्पूर्णस्येत्यादिवाक्येन यदैक्यं स्फुटमुच्यते तद्युक्तमित्यर्थः॥१०॥

अज्ञातमिथ्याविज्ञाततत्त्वमात्रैकनिष्ठितम्॥
सम्यग्ज्ञानं यतस्तस्मात्पूर्णं तज्ज्ञेयमुच्यते॥११॥

ननु प्रत्यग्ब्रह्म ज्ञायते न वा न चेन्न पूर्णतानिश्चयो ज्ञायते चेज्ज्ञानस्य पृथग्भावान्न पूर्णत्वं तत्राऽऽह। अज्ञातेति। सर्वकल्पनाधिष्ठानतया तत्स्वरूपं ब्रह्म सम्यग्ज्ञानस्य विषयस्तस्य च वाक्यीयधीवृत्तिरूपस्य कार्यान्तर्गमाद्ब्रह्मैव यतो रूपमतोऽस्य युक्ता पूर्णतेत्यर्थः॥११॥

गोत्ववन्नानुवृत्तं यन्न व्यावृत्तं च खण्डवत्॥
अनन्यमानमानन्दं पूर्णं तदभिधीयते॥१२॥

पूर्णवाक्यस्याद्वयप्रत्यग्ब्रह्मावेदने तात्पर्यमुक्त्वाऽक्षराणि व्याकुर्वन्पूर्णपदं व्याचष्टे।गोत्ववदिति॥१२॥

अदः परोक्षमत्यन्तं सर्वकार्यस्य कारणम्॥
कार्यानुमेयं तद्विद्यात्पूर्णमात्रसतत्त्वकम्॥१३॥

अदःशब्दं व्याकरोति। अद इति। आत्यन्तिकपरोक्षत्वे हेतुमाह। सर्वेति। कारणमनूद्य वस्तुमात्रत्वं विधेयमिति वाक्यार्थमाह। तदिति॥१३॥

इदं यज्जनिमत्किंचिन्नामरूपक्रियात्मकम्॥
प्रत्यक्षाद्यवसेयं यत्पूर्णं तदपि पूर्ववत्॥१४॥

पूर्णमद इतिपदाभ्यां तत्पदस्य वाच्यं लक्ष्यं चोक्त्वा पूर्णमिदमित्यस्यार्थमाह। इदमिति। तत्रेदंशब्दप्रवृत्तौ निमित्तमाह। प्रत्यक्षादीति। यथा कारणमनूद्य वस्तुमात्रत्वं विहितं तथा च कार्यानुवादेन तस्य तन्मात्रत्वं विधेयमित्याह। पूर्ववदिति। आभ्यां पदाभ्यां त्वंपदस्य वाच्यं लक्ष्यं चोच्यते तथाच पदचतुष्टयसमभिव्याहारात्तत्त्वमर्थयोरैक्यं विवक्षितम्॥१४॥

कार्यकारणयोश्चेष्टा पूर्णात्पूर्णमितीर्यते॥
वस्तुवृत्तमिदं तावत्प्रागपि ज्ञानसंगतेः॥१५॥

पूर्णादित्यस्य वाक्यस्य तात्पर्यमाह। कार्येति। कार्यस्योत्पादनमित्येवंरूपो व्यापारः पूर्णादित्यादिनोच्यत इत्यर्थः। तत्त्वंपदयोर्वाच्योऽर्थोऽत्र प्रपञ्चितः। ननु पूर्णमित्यादावकार्यकारणं तत्त्वमुक्तं तस्य च ज्ञानोत्पत्तेरूर्ध्वमेवंरूपत्वेऽपि प्राक्कार्यकारणात्मत्वमेवान्यथा पूर्णादित्यादिविरोधादत आह। वस्तुवृत्तमिति। यद्वोक्तकार्यकारणत्वस्य वस्तुत्वमाशङ्क्योक्तम्। वस्तुवृत्तमिति। ज्ञानात्पूर्वमज्ञानसंभवात्तत्र कार्याद्यात्मकं वस्तुनो वृत्तं तथाऽपि वस्तुतो नैतदस्तीत्यर्थः॥१५॥

अथ हेतुफलावेशनिषेधाय परं वचः॥
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते॥१६॥

पूर्णस्येत्यादेस्तात्पर्यमाह। अथेति। पूर्णादित्यादिनोक्तकार्यकारणत्वनिरासद्वारा शिष्टवस्त्वादानेन तज्ज्ञानफलोक्त्यर्थं वाक्यमित्यर्थः॥१६॥

ब्रह्म वा इदमित्यादि मधुकाण्डे यदीरितम्॥
तदेव पूर्णमित्यादिवाक्येनेहोपसंहृतम्॥१७॥

फलमैक्यज्ञानं ब्रह्मकण्डिकायामुक्तं तदिह कस्मादुच्यते पिष्टपिष्टेरकिंचित्करत्वात्तत्राऽऽह। ब्रह्मेति। इहेति खिलकाण्डोक्तिः॥१७॥

अपीता1495खिलकार्यं सत्तमोमात्रावशेषगम्॥
भास्वत्स्वार्थं चिदेकस्थमदः पूर्णमिहोच्यते॥१८॥

कथं तार्तीयवाक्येन पूर्णवाक्यस्यैकवाक्यतेत्याशङ्क्य ब्रह्मपदेन पूर्णमित्यादिपदद्वयस्यैकार्थतामाह।1496 अपी1496तेति। मुक्त्यालम्बनं व्यावर्तयति। तमोमात्रेति। भास्वदिति साक्षित्वं स्वार्थमित्यन्यानपेक्षत्वमुच्यते। तत्र हेतुः। चिदेकस्थमिति। अविद्यासाक्षिभूतं चैतन्यं तत्पदवाच्यं तृतीये ब्रह्मशब्दितमत्र पूर्णमद इति वाक्येनोक्तमित्यर्थः॥१८॥

तमोन्वितं च यत्कार्यं साक्षिणः साक्ष्यतां गतम्॥
प्रत्यक्षमागमापायि विद्यात्पूर्णमिदं तथा॥१९॥

इदंशब्देन पूर्णमिदमितिपदयोरैकार्थ्यमाह। तमोन्वितं चेति। बुद्ध्यादेः कार्यत्वसिद्ध्यर्थं साक्षिण इत्यादिविशेषणानि। बुद्ध्यादिसाक्षिभूतं चैतन्यं त्वंपदवाच्यं पूर्वत्रेदंशब्दितमत्र पूर्णमिदमित्युक्तमित्यर्थः॥१९॥

ईशक्षेत्रज्ञयोरेवं तमस्तज्जाभिसंस्थयोः॥
सामानाधिकरण्यादेर्वाक्यादैकात्म्यमुच्यते॥२०॥

तदात्मानमित्यादिना पूर्णस्येत्यादेरैकार्थ्यं दर्शयति। ईशेति। तत्त्वमर्थयोराविद्यं कार्यकारणत्वं पूर्णादित्यादिनोच्यते तयोरैक्यज्ञानं सामानाधिकरण्यद्वारा तत्त्वमस्यादिवाक्यवद्वाक्यादुत्पद्यते तच्च मुक्तिफलं तस्मात्तत्सर्वमभवदिति पूर्वत्रोक्तमत्र पूर्णस्येत्यादिना गृहीतमित्यर्थः। एवमित्युक्तदृष्टान्तद्योतनार्थम्॥२०॥

क्षेत्रज्ञेश्वरभेदेन ह्यभिन्नं वस्त्वविद्यया॥
भिन्नं बोधात्तमोध्वस्तौ नेतीत्यात्माऽवशिष्यते॥२१॥

कथं तयोरैक्यधीर्भेदधीविरोधादित्याशङ्क्याऽऽह। क्षेत्रज्ञेति। वस्तुतः श्रुतिस्मृतियुक्तिप्रसिद्धेरभिन्नमपि वस्तु जीवेश्वरजगद्भेदेनाविद्यया भिन्नं प्रतिभाति ततश्च विद्ययाऽविद्याविध्वंसे निर्विशेषमेकमेवाऽऽत्मरूपं सिध्यतीत्यर्थः॥२१॥

न भेदो न च संसर्गो नाप्यभावोऽवसीयते1497
तन्मूलाज्ञानविध्वस्तेर्यथोक्तागममानतः॥२२॥

निर्विशेषमात्मतत्त्वमवशिष्टामित्यश्लिष्टं भेदो वा संसर्गो वाऽन्यापोहो वा वाक्यार्थ इति स्थितेरित्याशङ्क्याऽऽह। नेत्यादिना। तत्र हेतुः। तन्मूलेति॥२२॥

स्रगज्ञानमनादाय तदुत्थैः संगतिः स्रजः॥
नैव संभाव्यते यद्वत्तथेहाऽऽत्मनि वीक्ष्यताम्॥२३॥

वाक्योत्थज्ञानाद्भेदादिमूलाज्ञानध्वंसेऽपि तत्संगतिरात्मनि स्वाभाविकी किं न

स्यादित्याशङ्क्याऽऽह। स्रगिति। वीक्ष्यतामज्ञानोत्थैर्भेदादिभिः संगतिरज्ञानकृतैवेति शेषः॥२३॥

कार्यकारणयोर्ध्वस्तावपूर्वाद्युक्तिबोधतः॥
आत्मप्रत्ययमागम्यः स्वार्थ आत्माऽवशिष्यते॥२४॥

अज्ञानादात्मनि भेदादिसंबन्धेऽपि कथं तस्यैकरस्यमित्याशङ्क्याऽऽह। कार्येति॥२४॥

यादृगस्य द्वये रूपमात्मनैवावगम्यते॥
तावदेव हतान्ध्यस्य तदन्यानवशेषतः॥२५॥

सकार्याविद्याध्वस्तावात्मा स्वरूपेणैव शिष्यते चेत्पूर्वमन्यादृशतया सविशेषतेत्याशङ्क्याऽऽह। यादृगिति। देहादौ साक्षित्वलक्षणं यद्रूपमविद्यादशायामस्य स्वरूपेणानुभूतं तदेव विद्यावस्थायां ध्वस्ताविद्यस्याऽऽत्मनो रूपं तद्ध्वस्तावन्यस्यानवशेषादतो युक्तमैकरस्यमित्यर्थः॥२५॥

यदेवेहेति च तथा मन्त्रोऽप्युच्चैर्जगाद नः॥
अन्यदेवेति च श्रुतिः कार्येतरनिषेधिनी1498॥२६॥

तत्र श्रुतिं प्रमाणयति। यदेवेति। तदमुत्रय1499दमुत्र तदन्विहेति शेषसंग्रहश्चार्थः। तथेत्यैक्योक्तिः। अकार्यकारणं तत्त्वमित्यत्रापि श्रुतिमाह। अन्यदिति॥२६॥

आत्मेतिदृष्टेर्मेयत्वं स्वार्थावगतितोऽप1500रम्॥
नान्यदुत्सहते वोढुमिति पूर्वमवादिषम्॥२७॥

आत्मनि ज्ञाते सर्वं ज्ञातं भवतीत्यात्मज्ञानेन सर्वस्य ज्ञेयत्वोपगमात्तन्निषेधश्रुतिः श्रुत्यन्तरविरुद्धेत्याशङ्क्याऽऽह। आत्मेति। तद्दृष्टिस्तावन्नानात्मानं गोचरयत्यात्मदृष्टित्वव्याघातान्न चानात्मा तद्विषयस्तत्त्वविरोधादात्मज्ञानेन सर्वज्ञानश्रुतिस्तु तदितरसर्वाभावात्तस्मात्कार्येतरनिषेध-सिद्धिरित्यर्थः॥२७॥

एवं यथोदिते तावत्प्रमाणार्थेऽप्यव1501स्थिते॥
अन्यथेदं वचः केचिद्व्याचख्युरतिनैपुणात्॥२८॥

पूर्णवाक्यमखण्डाद्वयप्रत्यग्ब्रह्मपरं व्याख्यातमिदानीं भर्तृप्रपञ्चव्याख्यानमुत्थापयति। एवमिति। प्रमाणं पूर्णवाक्यम्॥२८॥

पूर्णमित्यादिवाक्यस्य षष्ठान्त्यवचसा सह॥
वक्तुकामो हि संबन्धमेवं यत्नादचीक्लृपत्॥२९॥

कथमन्यथा व्याख्यानमित्याशङ्क्य तदर्थं परोक्तसंबन्धमनुद्रवति1502पूर्णमित्या-

दीति। पूर्णवाक्यस्य यत्र हीत्यादिवाक्येन संबन्धं वक्तुमिच्छन्तस्तदर्थं वक्ष्यमाणप्रकारेण विचार्य कल्पितवन्त इत्यर्थः। षष्ठाध्यायावसानिकवाक्यप्रतीकवाक्यग्रहार्थो हिशब्दः॥२९॥

द्वैताद्वैतात्मकं ब्रह्म मैत्रेय्यै वर्णितं किल॥
यत्र हि द्वैतमित्युक्त्या यत्र त्वस्येति चाऽऽदरात्॥३०॥

कल्पितं वाक्यार्थं दर्शयति। द्वैतेति। किलेत्यसंमतिरुक्ता। मैत्रेयीब्राह्मणे भिन्नाभिन्नं ब्रह्मेति वाक्यं नास्ति चेत्तत्राऽऽह। यत्र हीति। यत्र हि द्वैतमिति द्वैतात्मकं ब्रह्मोक्त्वा यत्र त्वस्येत्यद्वैतात्मकं तदुक्तं तथाच वाक्याभ्यां भिन्नाभिन्नब्रह्मसिद्धिरित्यर्थः॥३०॥

यद्यद्वैतं परं ब्रह्म तत्र स्यात्परमार्थतः॥
कल्पितं प्रसजेद्द्वैतं तोयबुद्धिरिवोषरे॥३१॥

संबन्धं वक्तुकामैरर्थश्चेदित्थं कल्पितस्तर्हि कोऽसौ संबन्ध इत्याशङ्क्य तं वक्तुमाक्षिपति। यदीति। तत्रेति मैत्रेयीब्राह्मणोक्तिः। अद्वैतं द्वैतं वा वास्तवमिति विकल्प्याऽऽद्ये द्वैतस्य मृषात्वप्रसक्तिरित्युक्तं तत्र हेतुगर्भं दृष्टान्तमाह। तोयेति। उषरे तोयधीवद्द्वैतधियो भ्रमत्वादित्यर्थः॥३१॥

मृषात्वाद्भेदजातस्य सर्गस्थित्याद्यसंभवात्॥
सर्गस्थितिलयानां स्यादन्वाख्यानं मृषैव तु॥३२॥

इष्टमेव तस्य कल्पितत्वमित्याशङ्क्य निर्विषयतया सृष्ट्यादिश्रुतेरप्रामाण्यप्रसक्तिदोषमाह। मृषात्वादिति॥३२॥

श्रवणप्रतिपत्ती च व्यर्थे स्यातां तथाऽद्वये॥
अथ स्वेनैव रूपेण द्वैतमस्तीति भण्यते॥३३॥

तत्रैव दोषान्तरमाह। श्रवणेति। अद्वये वास्तवे सति मननादिसहितं श्रवणं तत्पूर्ण1503तावधिर1504नाधेयातिशयात्मन्यफले स्यातां तथाचोपनिषदप्रामाण्यमित्यर्थः। द्वितीयमुत्थापयति। अथेति॥३३॥

अन्वाख्यानं सतामेव सर्गादीनां तथा भवेत्॥
तथाऽप्यद्वैतसंदृष्टेर्मृषात्वं स्याद्विरोधतः॥३४॥

द्वैतस्य स्वरूपेण सत्त्वे फलितमाह। अन्वाख्यानमिति। सर्गादिश्रुतेर्मानत्वमङ्गीकृत्य दूषयति। तथाऽपीति। अद्वैतदृष्टेरपि द्वैतदृष्टिवत्प्रमात्वमाशङ्क्याऽऽह। विरोधत इति। नैकत्र ते दृष्टिप्रमाणे तमःप्रकाशदृष्टिवदित्यर्थः॥३४॥

परिकल्पिततादोष एवमत्र प्रसज्यते॥
तद्दोषापनुनुत्सायै पूर्णमित्यादिका श्रुतिः॥३५॥

कल्पद्वये दर्शितं दोषं निगमयति। परिकल्पिततेति। अत्रेति कल्पद्वयोक्तिः। आक्षेपोत्तरत्वेन मन्त्रमवतारयति। तद्दोषेति। शङ्कितदोषस्येष्यमाणापनोदार्थं पूर्णवाक्यमित्यर्थः॥३५॥

न कश्चिदपि दोषोऽत्र यथा तदभिधीयते॥
स्वानुभूत्यनुसारेण सर्वं सुस्थं भवेदतः॥३६॥

कथमत्र तन्निरसनमित्याशङ्क्याऽऽह। नेति। द्वैताद्वैतयोरन्यतरस्य मृषात्वप्रयुक्तो दोषो यथा न भवति तथा द्वयोरवस्थयोर्वस्तुत्वमस्मिन्मन्त्रे कथ्यतेऽतः स्वानुभवाद्द्वैतस्याद्वैतस्य च श्रुतिवशादिष्टत्वात्कर्मकाण्डप्रामाण्यादि संभवतीत्यर्थः॥३६॥

अदः परोक्षमत्यन्तं कारणं पूर्णमुच्यते॥
व्योमवद्व्यापि सद्ब्रह्म सर्वतोऽनवखण्डितम्॥३७॥

तात्पर्यमुक्त्वा पूर्णमद इत्यस्यार्थमाह। अद इति॥३७॥

ब्रह्मणो याऽद्वयावस्था सैव तावदिहोदिता॥
एवं चेदद्वयं ब्रह्म द्वैतावस्था न सिध्यति॥३८॥

इतिदोषनिषेधार्थमिदं पूर्णमितीर्यते॥
यथोक्तावस्थयोर्मा भून्मृषात्वं ब्रह्मणः सदा॥३९॥

वाक्यार्थमुपसंहरति। ब्रह्मण इति। पूर्णमिदमिति वाक्यं शङ्कापूर्वकमादत्ते। एवं चेदिति। द्वयोरवस्थयोर्वास्तवत्वं मन्त्रप्रकाश्यमित्युक्तं कथं निर्वहेदित्याशङ्कयाऽऽह। यथेति। तत्र हेतुः। सदेति। तयोरवस्थयोः सदा सत्त्वादित्यर्थः॥३८॥३९॥

पूर्णब्रह्मपरिज्ञानाव्यतिरेकत्वहेतुतः॥
अदोवत्कार्यमप्येतत्पूर्णमेवावसीयताम्॥४०॥

अद्वैतावस्था यद्यपि सदा सती वास्तवी तथाऽपि न द्वैतावस्था तथेत्याशङ्क्याऽऽह। पूर्णेति। ब्रह्मैव पूर्णं परितो ज्ञप्तिरूपं तस्मादव्यतिरेकात्कारणवत्कार्यमपि पूर्णमेवेत्यर्थः॥४०॥

पूर्णेनाभेदतः कार्यं पूर्णं स्यान्न मृषा श्रुतेः॥
यद्यतो नातिरेकेण तत्तदेवेति निश्चितिः॥४१॥

तथाऽपि कथं वास्तवमित्याशङ्क्याऽऽह। पूर्णेनेति। तस्य पूर्णाभेदे मानमाह। श्रुतेरिति। पूर्णमिदमितिश्रवणादित्यर्थः। पूर्णात्कार्यस्याव्यतिरेकेऽपि कथं वस्तुत्वंतत्राऽऽह। यद्यत इति। अत्र घटशरावाद्युदाहरणम्॥४१॥

एवं तर्ह्येकरूपेऽस्मिंस्तत्त्वे सत्ये समर्थिते॥
ततः सर्गाद्यभावः स्यादेकरूपतया स्थितेः॥४२॥

पूर्णादित्यादिवाक्यस्य व्यावर्त्यां शङ्कामाह। एवं तर्हीति। अवस्थाद्वयस्य सत्यत्वे कार्यकारणत्वव्यवस्थानुपपत्तिरित्यर्थः। एकरूपत्वमत्र द्वैताद्वैतात्मना द्रष्टव्यम्॥४२॥

नैवं यतः श्रुतिः प्राह पूर्णात्पूर्णमुदच्यते॥
पूर्णात्कारणतः पूर्णं द्वैतमेतदुदच्यते॥४३॥

तदुत्तरत्वेन वाक्यमवतारयति। नैवमिति। तां व्याकरोति। पूर्णादिति॥४३॥

यस्मादुद्रिच्य1505मानं हि द्वैतं नैवातिरिच्यते॥
तदेवोद्रेचनं चेत्स्याद्द्वैतस्येति मतं यदि॥४४॥

अद्वैतकार्यत्वे द्वैतस्योक्ते सिद्धान्त्याशङ्कते। यस्मादिति। द्वैतस्याद्वैतादुद्रेचनमुद्भवनमिष्टं चेत्तर्हि तस्मादद्वैतादुद्गच्छन्न ततोऽतिरिच्यते किंतु तत्र कल्पितं तदेव स्यान्न हि रज्जोरुद्गच्छन्नुरगस्तस्माद्भिद्यते तथाच विवर्तवादः स्यादित्यर्थः। दृष्टान्तद्योतको हिशब्दः॥४४॥

नैतदेवं कुतो यस्माद्दृष्टहानं प्रसज्यते॥
प्रत्यक्षतो हि दृष्टोऽयं द्वैताख्यो विषयः स्फुटः॥४५॥

द्वैतस्य मिथ्यात्वानुपपत्तेर्मैवमित्येकदेशी दूषयति। नैतदिति। मिथ्यात्वासंभवे हेतुं पृच्छति। कुत इति। एकदेशी हेतुमाह। यस्मादिति। प्रसङ्गं प्रकटयितुं दृष्टं व्याचष्टे। प्रत्यक्षतो हीति। उक्तदृष्टौ संप्रतिपत्त्यर्थो हिशब्दः॥४५॥

तथा दर्शनतः सिद्धो विधितश्चावसीयते॥
प्रामाण्योच्छेद एव स्याच्छ्रुतेरेवं समर्थने॥४६॥

दृष्टत्वमिव श्रुतत्वमपि तस्यास्तीत्याह। तथेति। यथा दर्शनतः सिद्धस्तथा विधितश्चेति योजना। द्वैतस्य रज्जुसर्पवन्मिथ्यात्वोक्तौ न दृष्टत्वहानिरेव किंतु कर्मश्रुतेर्विषयाभावादप्रामाण्यं च स्यादिति फलितमाह। प्रामाण्येति॥४६॥

पारमार्थ्यं क्वचिच्छास्त्रं क्वचिच्चाप्यनृतात्मताम्॥
विदधन्मानतां जह्यात्परस्परविरोधतः॥४७॥

तदप्रामाण्येऽपि का हानिर्ब्रह्मात्मवादिनामित्याशङ्क्य ज्ञानकाण्डस्यापि तत्प्रसक्तेर्मैवमित्याह। पारमार्थ्यमिति। अद्वैतविषयः प्रथमः क्वचिच्छब्दः॥४७॥

पूर्णत्वेनाजहद्वृत्त्या त्रिष्वप्यध्वसु वर्तते॥
द्वैताद्वैतात्मकं ब्रह्म पूर्णत्वेनाविभागतः॥४८॥

श्रुतावष्टम्भेनाद्वैतवद्द्वैतमपि पारमार्थिकमिति समर्थितमिदानीं तत्रैव हेत्वन्तरमाह। पूर्णत्वेनेति। ब्रह्म द्वैताद्वैतात्मकमुत्पत्तिस्थितिलयकालेषु त्रिष्वपि वर्तते पूर्णत्वेनावस्थाद्वयमपरित्यज्यैव सदावस्थानादन्यतरावस्थानत्यागे पूर्णत्वायोगात्तस्मात्तेन वस्तुरूपेणावस्थयोरविभागात्तयोरस्ति वास्तवत्वमित्यर्थः॥४८॥

कुतोऽविभागो मानाच्चेदुभयोरप्यवस्थयोः॥
पूर्णादित्यादिवचनान्महाप्रलय आत्मनि॥४९॥

अवस्थाद्वयस्य वस्तुरूपेणाविभागे मानं पृच्छति। कुत इति। परिहरति। पूर्णादित्यादीति। पूर्णात्पूर्णमुदच्यत इति द्वैताद्वैतयोः कार्यकारणत्वमुक्त्वा पूर्णस्येत्यादिना प्रलयावस्थायामात्मन्यवस्थाद्वयस्याविभागेनावस्थानं दर्शयता द्वैताद्द्वैतात्मकमेवाऽऽत्मवस्तु परिशिष्टमित्यर्थः॥४९॥

इदं च द्वैतमस्त्येव तथाऽदोऽद्वैतमेव च॥
पूर्णत्वाख्याजहद्वृत्या समुद्रोर्मिवदीक्ष्यताम्॥५०॥

प्रलयावस्थायामद्वैतावस्थैवास्ति नेतरा लीनत्वादित्याशङ्क्याऽऽह। इदं चेति। भेदेनासदपि द्वैतं ब्रह्मरूपेणास्तीत्यत्र हेतुदृष्टान्तावाह। पूर्णत्वेति। यथा समुद्रात्मन्यूर्म्यादिविभागस्य जलात्मत्वेनैकरूपत्वस्य च सदा सत्त्वं तथा पूर्णत्वाख्यवस्तुनोऽवस्थाद्वयमजहतः सदाऽवस्थानात्तत्रावस्थाद्वयं प्रलयेऽप्यस्तीत्यर्थः॥५०॥

अग्रे चलत्वमूर्मीणां मध्य ईषच्चलात्मता॥
निष्कम्पत्वं तथा मूले समुद्रः सर्वरूपभृत्॥५१॥

दृष्टान्तं प्रपञ्चयति। अग्र इति॥५१॥

यथैता यौगपद्येन वृत्तीरूर्मिभिरात्मनः॥
अनुभूयन्त एकत्र देवदत्तादिके तथा॥५२॥

तमनूद्य दार्ष्टान्तिकमाह। यथेति। आत्मनः समुद्रस्योर्मिद्वारा यौगपद्येनैताश्चलाचलत्वादिवृत्तयो यथाऽनुभूयन्ते तथैकत्र मैत्रादिक्षेत्रज्ञे युगपदेता वृत्तीरालोचयेदित्यर्थः॥५२॥

निष्कम्पा देवदत्तस्य वृत्तिः स्यात्परमात्मना॥
ईषत्प्रचलिता प्राणभावेनेत्यवगम्यते॥५३॥

विराड्भावेनातितरां चण्डप्रचलितोर्मिवत्॥
ऊर्म्यग्रवत्पिण्डभावे नामरूपक्रियात्मना॥५४॥

दार्शन्तिकं व्याचष्टे। निष्कम्पेति। प्राणशब्दः सूत्रार्थः। पिण्डभावश्चतुर्विधभूतग्रामत्वम्। अत्यन्तप्रचलितादपि प्रचलितत्वं व्यष्टिदेहग्रहे केनाऽऽकारेणेत्यपेक्षायामाह। नामेति॥५३॥५४॥

जनिस्थितिलयेष्वेवं त्रिषु कालेषु पूर्णता॥
कार्यकारणयोर्ज्ञेया द्वैताद्वैतस्वभावयोः॥५५॥

अवस्थाद्वयस्य वस्तुत्वमुपसंहरति। जनीति॥५५॥

सा चैकैवाविभागत्वात्कार्यकारणभेदतः॥
भेदेन व्यपदेशार्हा सर्वमेवं समञ्जसम्॥५६॥

द्वैतावस्थायामन्या पूर्णताऽन्या चाद्वैतावस्थायामित्याशङ्क्याऽऽह। सा चेति। अविभागत्वाद्वस्तुतः पूर्णता विभागसाधकाभावादित्यर्थः। कारणं पूर्णं कार्यं पूर्णमितिभेदोक्तिस्तर्हि कथमित्याशङ्क्याऽऽह। कार्येति। द्वैतमद्वैतं च वास्तवमित्युक्तं तन्निगमयति। सर्वमिति॥५६॥

आविर्भावतिरोभावैः कार्यकारणरूपिभिः॥
समुद्रवन्नृत्यति च प्रत्यवस्थं विभुः स्थितः॥५७॥

अद्वैतावस्था कारणं कार्यं द्वैतावस्थेत्यवस्थयोरेव तद्भावो ब्रह्म तूभयतो बहिरेकरसमित्याशङ्क्याऽऽह। आविर्भावेति। न हि स्वातन्त्र्यमवस्थयोरास्थातुं शक्यमिति भावः॥५७॥

एवं द्वैतस्य सत्यत्वे कर्मकाण्डस्य मानता॥
अनन्तपुरुषार्थाप्तिरिष्यते कर्मकाण्डतः॥५८॥

द्वैतस्य सत्यत्वे फलितमाह। एवमिति। किं कर्मकाण्डस्य मानत्वे1506नेति तदाह। अनन्तेति॥५८॥

यदा तु कल्पितं द्वैतमद्वैतं परमार्थतः॥
उच्छिन्नं कर्मकाण्डस्य प्रामाण्यं विषयादृते॥५९॥

द्वैतस्य सत्यत्वे लाभमुक्त्वा तन्मिथ्यात्वे दोषमाह। यदेति॥५९॥

एकदेशस्य चामात्वे वेदस्याप्यप्रमाणता॥
सर्वनाशो भवेदेवं सर्वाप्रामाण्यहेतुतः॥६०॥

तदप्रामाण्योपगमे पारमार्थ्यं क्वचिदित्यादिनोक्तं दूषणमवतरेदित्यभिप्रेत्याऽऽह। एकदेशस्येति। उपनिषद्भागो वेदः। सर्वनाशः स्वर्गापवर्गयोरयोगः॥६०॥

अतो विरोधनुत्त्यर्थं सत्यत्वप्रतिपत्तये॥
कार्यकारणयोः शास्त्रं पूर्णमित्यादिनाऽवदत्॥६१॥

उक्तदोषनिरासस्तर्हि कथमित्याशङ्क्याऽऽह। अत इति। द्वैतसत्यत्वानङ्गीकारे पूर्वोक्तदोषोऽतःशब्दार्थः। अवदत्पूर्णत्वमिति शेषः॥६१॥

प्रत्यक्षादीनि मानानि भेदग्राहीणि सर्वदा॥
तेषां चाप्यप्रमाणत्वं प्रापदद्वैतवादिनः॥६२॥

न केवलं श्रुतेरेव द्वैतसत्यत्वं किंत्वध्यक्षादेरपीत्याह। प्रत्यक्षादीनीति॥६२॥

इति वेदविदः केचिद्भिन्नाभिन्नसतत्त्वकम्॥
सर्वंवस्त्वभिवाञ्छन्ति तत्तु युक्त्या न युज्यते॥६३॥

भर्तृप्रपञ्चपक्षमुपसंहरति। इति वेदविद इति। सिद्धान्तयति। तत्त्विति॥६३॥

न युक्तिमदिदं गीतं ह्यपवादविकल्पनम्॥
न्यायासंभवतः स्पष्टं स च न्यायो विभाव्यते॥६४॥

प्रतिज्ञातं प्रकटयति। नेति। वक्ष्यमाणामुपपत्तिमत्र हेतूकर्तुं हिशब्दः। अद्वयं ब्रह्मेत्युत्सर्गप्रवृत्तं शास्त्रं प्रलयावस्थब्रह्मविषयं सृष्टिशास्त्रं तु विशेषप्रवृत्तं तस्यापवादस्ततो द्वैताद्वैतरूपं ब्रह्म यद्वा सद्वयं कदाचित्कदाचिदद्वयमित्युभयरूपत्वं ब्रह्मण इति चेन्नेत्याह। अपवादेति। न तावद्ब्रह्मण्युत्सर्गापवादसंभवो विषयभेदे हि तत्संभवो न चेह तथा न खल्वद्वयं ब्रह्मैव जायते लीयते न चात्र विकल्पो न हि तदद्वयं सद्वयं वेति युक्तं वस्तुनि तदयोगान्न चावस्थाभेदेन तद्योगो वस्तुनि तत्कृतस्यादृष्टत्वान्नापि ब्रह्माद्वयं सद्वयं वेति समुच्चयो विरोधात्तस्मादुत्सर्गापवादयोर्विकल्पसमुच्चययोश्चात्रायोगान्न द्वैताद्वैतात्मकं ब्रह्मेत्यर्थः। केन न्यायेन ब्रह्मण्युत्सर्गादेरसंभवस्तत्राऽऽह। स चेति॥६४॥

अहिंसन्सर्वभूतानीत्यहिंसा सर्वभूतगा॥
शास्त्रेणोत्सर्गतः प्राप्ता तीर्थे साऽपोद्यते यथा॥६५॥

तत्रोत्सर्गापवादासंभवे न्यायं दर्शयन्वैधर्म्यदृष्टान्तमाह। अहिंसन्निति। तीर्थे यागादाविति यावत्। अपोद्यतेऽग्नीषोमीयादिविधिनेति शेषः॥६५॥

न तथेहाद्वयावस्था श्रुत्योत्सर्गेण यत्नतः॥
प्रापिता तद्विशेषेऽसौ निर्भागत्वान्निषेधभाक्॥६६॥

दार्ष्टान्तिकमाह। नेति। इहेति ब्रह्मोक्तिः। तद्विशेषो ब्रह्मैकदेशः। असावद्वैतावस्थेत्येतत्। तस्या ब्रह्मैकदेशे निषेधभावत्वाभावे हेतुमाह। निर्भागत्वादिति। ब्रह्मणो निरंशत्वादेकदेशाभावादित्यर्थः। यत्नस्तु प्राप्तौ निषेधे चोभयत्र संबध्यते॥६६॥

विकल्पानुपपत्तेश्च1507 षोडशिग्रहणादिवत्॥
वस्तुतन्त्रं हि नो मानं कर्तृतन्त्रं विकल्पते1214॥६७॥

उत्सर्गाद्ययोगमुक्त्वा विकल्पायोगं साधयति। विकल्पेति। द्वैताद्वैतात्मकं ब्रह्मेति कल्पना न युक्तेति शेषः। ब्रह्मणि विकल्पायोगे वैधर्म्यदृष्टान्तः। षोडशीति

वस्तुनि विकल्पायोगे हेतुमाह। वस्त्विति। तथाच प्रमिते तस्मिन्विकल्पो नास्तीति शेषः। कुत्र तर्हि विकल्पस्तत्राऽऽह। कर्त्रिति॥६७॥

यत्कर्तुं वाऽप्यकर्तुंवाऽप्यन्यथा कर्तुमेव वा॥
कारकैः शक्यते लोके तद्विकल्पस्य गोचरः॥६८॥

तदेव व्यनक्ति। यदिति॥६८॥

परस्परविरोधाच्च नैकदैकत्र संभवः॥
द्वयोरवस्थयोर्यद्वत्प्रकाशतमसोरिह॥६९॥

विकल्पाद्ययोगवद्ब्रह्मणि द्वैताद्वैतावस्थयोः समुच्चयासंभवमाह। परस्परेति ॥६९॥

श्रुतिन्यायविरोधाच्च कल्पनेयमशोभना॥
अपूर्वानपरानन्तप्रज्ञानैकरसाद्वयम्॥७०॥

एवं ब्रह्माद्वैताद्वैतात्मकमित्यत्र दोषान्तरमाह। श्रुतीति। श्रुतिविरोधं साधयति। अपूर्वेति॥७०॥

अपूर्वानपराबाह्यं भेदसंसर्गवर्जितम्॥
अस्थूलं नेति नेतीति यथोक्तार्थे वचांसि हि॥७१॥

अपूर्वमनपरमनन्तरं सत्यं ज्ञानमनन्तं कृत्स्नः प्रज्ञानघन एकमेवाद्वितीयमित्याद्युदाहृतश्रुतीनामर्थं संक्षिपति। अपूर्वेति। ब्रह्मैकरस्ये वाक्यान्तराण्याह। अस्थूलमिति। तेषामपौरुषेयत्वेनादोषतया प्रामाण्यद्योतको हिशब्दः॥७१॥

अमात्वाशङ्कासद्भावाद्यथोक्तार्थविनिश्चितौ॥
अब्धौ क्षिप्तानि तानि स्युरन्यार्थासंभवत्वतः॥७२॥

तेषामुपास्यार्थार्पकतया तद्विधिपरत्वं किं न स्यादित्याशङ्क्याऽऽह। अमात्वेति। तेषामपौरुषेयतया निर्दोषाणामप्रामाण्यशङ्काबीजाभावात्तद्बलादात्मैक्यनिश्चये सत्युपास्तिपरत्वायोगादात्मैकरस्यानुपगमे निर्विषयाण्येतान्यमानानि स्युरित्यर्थः॥७२॥

तथा न्यायविरोधोऽपि क्रियाकारकरूपिणः॥
जडाध्रुवानात्मनो हि त्वत्कृता कल्पनेष्यते॥७३॥

न तु चिन्मात्ररूपस्य ध्रुवानंशात्मनः स्वतः॥
नित्यत्वं चाऽऽत्मनः सिद्धं प्रत्यभिज्ञादिमानतः॥७४॥

प्रसजेत्तद्विरोधश्च भिन्नाभिन्नत्ववादिनः॥
कल्पनायाश्च वैफल्यमनित्यत्वे परात्मनः॥७५॥

श्रुतिविरोधवन्न्यायविरोधं दर्शयति। तथेति। सावयवे सक्रियेऽनित्ये जडेऽनात्मवस्तुनि भेदादिकल्पना मृष्यते तथा लोके दर्शनाच्चिदेकरसं तु न तां सहते नित्यत्वान्निरंशत्वाच्चानेकात्मकत्वे तूचिता सांशत्वं सक्रियत्वमनित्यत्वं च स्यादित्यर्थः। तस्या-

नित्यत्वे दोषान्तरमाह। कल्पनायाश्चेति। कर्मकाण्डप्रामाण्यार्थं द्वैतसत्यत्वं त्वया कल्प्यते तस्याः कल्पनाया इति यावत्। न हि नित्यात्माभावे तत्प्रामाण्यं फलवदिति भावः॥७३॥॥७४॥७५॥

अकृताभ्यागमः प्राप्तः कृतनाशश्च सत्वरः॥
कर्मकाण्डस्य वैफल्यमेवं कल्पयतो भवेत्॥७६॥

तत्रैव दोषान्तरमाह। अकृतेति। निवारकाभावमाह। सत्वर इति। दोषद्वयाङ्गीकारवादिनं प्रत्याह। कर्मेति॥७६॥

मकरी ननु दृष्टान्तो भिन्नाभिन्नत्वसिद्धिकृत्॥
ब्रह्मणः प्रागुपन्यस्तोऽसाध्वीयं कल्पना कथम्॥७७॥

भेदाभेदवादे श्रुतिन्यायविरोधमसहमानो दृष्टान्तं स्मारयति। मकरीति। अनेकात्मकत्वस्य दृष्टान्ते दृष्टत्वाद्दार्ष्टान्तिकस्य ब्रह्मणो भिन्नाभिन्नत्वकल्पना युक्तेत्यर्थः। मकरी मकरालयः समुद्रः। असाध्वीति च्छेदः॥७७॥

अतोऽन्यविषयत्वात्सोऽविरोधः प्रागुदीरितः॥
नतु चिन्मात्ररूपस्य ह्यत्रावोचं विरुद्धताम्॥७८॥

परिहरति। अत इति। निरुपाधिकान्निरवयवाच्चिदात्मनोऽन्यः सूत्रादिरर्थस्तद्विषयः समुद्रदृष्टान्तोऽतः सोऽविरोधो विरोधविधुर इत्यर्थः। अवस्थाद्वयस्य विरुद्धत्वं तर्हिकुत्र त्वयेष्टमित्याशङ्क्याऽऽह। न त्विति। न हि तस्य दृष्टान्तो नानारूपत्वं साधयेदन्यविषयत्वादतश्चिन्मात्रे भिन्नाभिन्नत्वस्य विरुद्धत्वमुक्तमित्यर्थः॥७८॥

नाध्येयत्वाच्च शास्त्रार्थकल्पनेयं त्वया कृता॥
षड्भावविक्रियं वस्तु ध्येयं वक्ति न हि श्रुतिः॥७९॥

किंच ब्रह्मणो नानात्वं ध्येयं ज्ञेयं वा नाऽऽद्य इत्याह। नेति। तस्याध्येयत्वे हेतुमाह। षडिति॥७९॥

स्वतस्तस्य च संप्राप्तेर्विनाऽप्यागमशासनम्॥
ध्येयत्वेनेह सर्वेषां खरोष्ट्रादेरपीक्षणात्॥८०॥

तद्ध्येयत्वमङ्गीकृत्यापि नानारसस्याशास्त्रार्थतामाह। स्वत इति। शास्त्रं विना तत्प्राप्तिमेव प्रकटयति। ध्येयत्वेनेति। व्यवहारभूमौ व्यवहर्तॄणां मध्ये रासभादेरपि नानात्वस्यानुसंधेयत्वेन वीक्षणान्न शास्त्रात्तत्प्रतिपत्त्युपयुक्तमित्यर्थः॥८०॥

एकधैवानुविज्ञेयमिति च श्रुतिशासनम्॥
भेददृष्ट्यपवादाच्च मृत्योरिति विनिन्दनात्॥८१॥

द्वितीये श्रुतिविरोधमाह। एकधेति। एकरसस्यैव ज्ञेयत्वोक्तेर्मृत्योरित्यादिनिन्दया द्वैतदृष्टेश्चापवादान्न ज्ञेयमपि ब्रह्मण्यनेकरसत्वमित्यर्थः॥८१॥

यत्तूक्तं वेदभागत्वाद्भिन्नवस्त्ववबोधिनः॥
नामा1508त्वं कर्मकाण्डस्येत्यत्र प्रतिविधीयते॥८२॥

नोभयथाऽपि नानारसतेत्युक्त्वा पूर्वोक्तं चोद्यमनुवदति1509यत्त्विति। भिन्नवस्तुबोधि कर्मकाण्डं तस्य विषयाभावादप्रामाण्यं चेज्ज्ञानकाण्डस्यापि वेदत्वात्तत्स्यात्ततः स्वर्गापवर्गयोरसिद्धिरित्यनुवादार्थः। कर्मकाण्डप्रामाण्यात्तदर्थतया द्वैतस्योपेयत्वं वा साध्यते तस्याविषयत्वेनाप्रामाण्यं वेति विकल्पयति। अत्रेति॥८२॥

न हि जात्यादिसंभेदसंसिद्धौ मानता श्रुतेः॥
प्रत्यक्षाद्यनवष्टब्धे तस्यामात्वं यतः स्थितम्॥८३॥

प्रथमं प्रत्याह। न हीति। आत्मनो जात्यादिसंबन्धप्रतीतौ कर्मश्रुतेर्न मानता तस्य लोकतो लब्धत्वादतो न तद्विषयत्वेन द्वैतसिद्धिरित्यर्थः। द्वितीयं निराह। प्रत्यक्षादीति। अज्ञाते साध्यसाधनसंबन्धे कर्मश्रुतेर्मानत्वान्नास्या निर्विषयत्वादिशङ्केत्यर्थः॥८३॥

भेदग्राहि न नो मानं लौकिकं वैदिकं च यत्1510
अविचारितसंसिद्धिस्तस्माद्भेदोऽवसीयताम्1511॥८४॥

यत्तु प्रत्यक्षादीनि भेदग्राहीणि तत्राऽऽह। भेदेति। अन्योन्याश्रयत्वादित्यर्थः। तद्धियो गतिमाह। अविचारितेति। प्रामाणिकत्वाभावस्तच्छब्दार्थः॥८४॥

न स्वतः परतो वाऽयं भेदो वस्तुन ईक्ष्यते॥
सर्वस्यैव स्वतोऽभित्तेस्तदन्यस्याप्यभेदतः॥८५॥

किंच स्वस्मादेव भेदोऽप्यस्माद्वा नोभयथाऽपीत्याह। नेति। वस्तुनः स्वस्माद्भेदो न प्रामाणिकोऽस्तीत्यत्र हेतुमाह। सर्वस्येति। सर्वं वस्तु स्वस्मादभिन्नमन्यथा वस्त्वभावप्रसङ्गादतो नाऽऽद्यो युक्त इत्यर्थः। परतो भेदोऽपि न प्रामाणिकोऽस्तीत्यत्र हेतुमाह। तदन्यस्येति। वस्तुनोऽन्यत्वेनेष्टस्यापि न सत्त्वं भेदस्याद्याप्यसिद्धेस्तन्न द्वितीयोऽपीत्यर्थः॥८५॥

वस्तु वस्त्वन्तरं भिन्द्याद्योगाद्यद्वा विभागतः॥
योगे नाति1512शयैकत्वात्तयोश्चाप्येकरूपतः॥८६॥

किंच घटः संबन्धद्वारा पटं भिन्द्यात्स्वरूपेण स्थितो वेति विकल्पयति। वस्त्विति। नाऽऽद्य इत्याह। योग इति। घटस्य पटेन संबन्धो नासौ पटं भेत्तुमर्हत्यतिशयशब्दितसंबन्धस्यैकत्वाद्घटपटयोश्च प्रत्येकमैक्याद्भेदकान्तरस्य चाभावादित्यर्थः।

अनतिशयैकत्वादिति पाठे भेदोऽतिशयस्तस्मादन्यस्तत्प्रयोजकसंबन्धोऽनतिशयस्तस्यैक्यान्न भेदः स्यादित्यर्थः॥८६॥

विभागेऽपि न भेदः स्यात्तयोरेकात्मना स्थितेः॥
अन्यदीयोऽपि नान्यस्य भेदः स्यात्कल्पनां विना॥८७॥

कल्पान्तरं प्रत्याह। विभागेऽपीति। घटपटयोरसंबन्धेऽपि मिथो न भेदः प्रत्येकं तयोरैकरूप्येण स्थितेरित्यर्थः। पटासंबन्धोऽपि घटः स्वस्मिन्पटाद्भेदमावेदयतीत्याशङ्क्य स एव पटस्य भेदोऽन्यो वेति विकल्प्याऽऽद्यं दूषयति। अन्यदीयोऽपीति। पटासंबन्धो घटो न स्वात्मनि ततो भेदावेदकः संबन्धाभावे धर्मिप्रतियोगित्वायोगादित्यरुचिरपेरर्थः॥८७॥

मेययाथात्म्यसंलेहि मानं मानत्वमश्नुते॥
भेदं न लभते मेये, मेयादन्यत्र न प्रमा॥८८॥

द्वितीये स स्वभावो धर्मो वा नाऽऽद्यो वस्त्वभावप्रसङ्गादित्यभिप्रेत्य द्वितीयं निरस्यन्सामान्यन्यायमाह। मेयेति। तथाऽपि प्रस्तुते किं जातं तदाह। भेदमिति। मानं मेयं विषयीकुर्वन्न तत्र भेदं गोचरयति तस्य तद्धर्मत्वेन ततोऽन्यत्वान्न च मेयादन्यस्मिन्नपि भेदे प्रमाणं प्रसरति मेयैकविषयत्वादतो धर्मभेदोऽपि न प्रामाणिक इत्यर्थः॥८८॥

सतो न व्यतिरेकेण भेदो नापि सदन्वयात्॥
यथैवं नास1513तोऽप्येवं भेदो नैवावसीयते॥८९॥

किंच भेदः सतो भिन्नोऽभिन्नो वा नाऽऽद्योऽनवस्थीतात्सतो भिन्नस्यासत्त्वेन सदद्वैतापत्तेश्च। द्वितीयेऽपि सदद्वैतमित्यभिप्रेत्याऽऽह। सत इति। भेदस्य सतो भेदाभेदाभ्यां दुर्निरूपत्ववदसतोऽपि तस्य तौदुर्वचावित्यतिदिशति। यथेति। उक्तं न्यायं निगमयति। एवमिति॥८९॥

सर्वं सदेव यस्येष्टमथवाऽसदिदं जगत्॥
भेदः किमाश्रयस्तस्य विरोधान्न द्व1514याश्रयः॥९०॥

किंच सांख्यबौद्धक्षपणकपक्षेषु भेदो न सिध्यतीत्याह। सर्वमिति। पक्षद्वयेऽपि।धर्मिप्रतियोगिविशेषाभावाद्भेदकाकाराभावात्तृतीये च विरोधान्न भेदसिद्धिरित्यर्थः॥९०॥

अन्यापेक्षं पृथक्त्वं चेत्स्वत एवापृथग्घटः॥
बलीयानन्तरङ्गत्वाद्बहिरङ्गं प्रबाधते॥९१॥

तार्किकपक्षेऽपि भेदासिद्धिरित्याह। अन्यापेक्षमिति॥९१॥

द्रव्याद्भिन्नं पृथक्त्वं चेदनवस्थैति सत्वरा॥
द्रव्यमेव पृथक्त्वं चेदपृथक्स्यादिदं जगत्॥९२॥

किंच पृथक्त्वं द्रव्याद्भिन्नमभिन्नं वेति विकल्प्य क्रमेण दूषयति। द्रव्यादिति। अनवस्थाया मूलक्षयकरीत्वे दोषत्वं सूचयति। सत्वरेति॥९२॥

स्वतश्चेद्वस्तुनो भेदो वस्तु शून्यं प्रसज्यते॥
आपेक्षिकोऽपि क्लृप्तत्वान्न भेदो रज्जुसर्पवत्॥९३॥

स्वतः परतो वा भेदो नास्तीत्युक्तमुपसंहरति। स्वतश्चेदिति॥९३॥

इत्येवमादि बहुशो भिन्नाभिन्नत्वदूषणम्॥
प्रागप्युक्तं तदत्रापि संधेयं वस्तुसिद्धये॥९४॥

भेदस्यासकृन्निरस्तत्वादिह तन्निरासे पुनरुक्तिरित्याशङ्क्याऽऽह। इत्येवमादीति। आदिशब्देन गुरुशिष्यादिव्यवस्थानुपपत्तिर्गृह्यते भेदाद्यवस्थायामभेदात्तदभावात्। प्रागिति संबन्धग्रन्थादावित्यर्थः। इहापि भर्तृप्रपञ्चव्याख्याने पूर्वोक्तन्यायस्यानुसंधानार्थमनुवादश्चेत्तदेव किमर्थमिति तत्राऽऽह। वस्त्विति। ब्रह्मात्मैकरस्यस्फुटीकरणार्थं परमतप्रत्याख्यानमित्यर्थः॥९४॥

अपि वेदैकदेशस्य प्रामाण्यं यदि नेष्यते॥
कर्मकाण्डस्य सर्वस्य वेदस्यापि प्रसज्यते॥९५॥

इति यत्प्रागुपन्यस्तं तस्य दूषणमुच्यते॥
साध्यसाधनसंबन्धे तस्यापीष्टा प्रमाणता॥९६॥

अद्वैतमते प्रत्यक्षादिविरोधं निराकृत्य श्रुतिविरोधनिराकरणं यत्तूक्तं वेदभागत्वादित्यादिना संक्षिप्तं प्रपञ्चयितुमनुवदति। अपि वेदेति। प्रसज्यते प्रामाण्यराहित्यमित्यर्थः। कर्मकाण्डाप्रामाण्ये ज्ञानकाण्डाप्रामाण्यमित्ययुक्तं तदप्रामाण्यस्यैवाभावादित्याह। तस्येति। कथं विषयाभावाद्वैतमते कर्मश्रुतेर्मानत्वं तत्राऽऽह। साध्येति॥९५॥९६॥

भेदः प्रमान्तरैः सिद्धो न त्वागमसमाश्रयात्॥
पशवोऽपि हि जानन्ति भेदमक्षादिमानतः॥९७॥

भेदविषयत्वेनैव तत्प्रामाण्यं किं न स्यादित्याशङ्क्याऽऽह। भेद इति। द्वैतवदद्वैतस्यापि न शास्त्रगम्यत्वं वैपरीत्यं वा स्यादित्याशङ्क्याऽऽह। पशवोऽपीति। अद्वैतस्य त्वपूर्वतया शास्त्रीयतेति भावः। अयमेवार्थो हिशब्देन द्योत्यते॥९७॥

न च मिथ्यात्वधीर्भेदे जन्मनैवेह कस्यचित्॥
अप्युत्थापितबुद्धीनां भेदेऽसंभावना न च॥९८॥

साध्यसाधनसंबन्धे कर्मश्रुतेर्मानत्वे द्वैतं सत्यमेष्टव्यमन्यथोपजीव्याभावे संबन्धस्यैवा-

सिद्धेरित्याशङ्क्याऽऽह। न चेति। तन्मिथ्यात्वे ब्रह्मज्ञा1515नं विना न तद्धीस्तभाच प्राग्भाविमिथ्याभेदोपजीवनेन संबन्धसिद्धेस्तस्मिन्कर्मश्रुतेः प्रामाण्यसिद्धिरित्यर्थः। कल्पितं भेदमादाय तत्प्रामाण्ये हेत्वन्तरमाह। अपीति। यथा सुगतादिप्रेरितास्तदीयशिष्या युक्तितो भेदमिथ्यात्वं जानन्तोऽपि भेदापेक्षमेव तदीयागमप्रामाण्यमनुमन्यन्ते तथा विवेकादिहेतोर्देहादिद्वैतविमुखानामपि ब्रह्मविद्याहीनानामसंभावनाबुद्धिर्भेदे नोत्पद्यते तथाच प्राग्ज्ञानात्कल्पितद्वैतेन कर्मकाण्डप्रामाण्यमित्यर्थः॥९८॥

क्रियाकारकसंभित्तौ वस्तुतत्त्वेन मा श्रुतिः॥
साध्यसाधनसंबन्धमात्रैकविषयत्वतः॥९९॥

लोकसिद्धं भेदमुपेत्य तस्य संबन्धविशेषबोधित्वेऽपि बोध्यस्य सत्यत्वमिष्टं स्यादित्याशङ्क्याऽऽह। क्रियेति। संभित्तिः संभेदः संबन्ध इति यावत्। तत्र हेतुमाह। साध्येति। तत्सत्यत्वासत्यत्वयोस्ताटस्थ्यमेकशब्दार्थः॥९९॥

लोकसिद्धमतो भेदमादायेष्टार्थसिद्धये॥
इदं कार्यमिदं नेति वेदशास्त्रं प्रवर्तते॥१००॥

कर्मकाण्डप्रामाण्यमुपसंहरति। लोकेति। कर्मकाण्डप्रामाण्ये प्रागुक्तनित्याभेदसत्यत्वापेक्षाभावोऽतः शब्दार्थः॥१००॥

सर्वतस्तु विरक्तो यः कर्मभिः शुद्धधीर्नरः॥
कामयानः पूर्णफलमुत्पत्त्यादिविलक्षणम्॥१०१॥

यत्तु ज्ञानकाण्डस्यापि वेदभागत्वादप्रामाण्यमिति तत्राधिकार्यभावात्फलाभावाद्विषयाभावाद्वा तदप्रामाण्यमिति विकल्प्याऽऽद्यं प्रत्याह। सर्वतस्त्विति। कामयानः कामयमान इति यावत्। स साधनचतुष्टयसंपन्नोऽधिकारीति शेषः॥१०१॥

तमोमात्रान्तरायत्वात्प्रतीचः पूर्णरूपिणः॥
स्वतःसिद्धत्वतस्तस्य व्यञ्जकान्नान्यदीक्ष्यते॥१०२॥

द्वितीयं निराह। तमोमात्रेति। सविलासाविद्याध्वस्तिरत्र फलमिति भावः। तृतीयं प्रत्याह। प्रतीच इति। अज्ञातस्य तस्य विषयत्वान्न तद्राहित्यमित्यर्थः। अज्ञानध्वस्तावपि फले कर्मापेक्षां केचिदाहुस्तान्प्रत्याह। स्वत इति॥१०२॥

स्वतः प्राप्तस्य संप्राप्तौ वाक्यान्मोहप्रहाणतः॥
मानापेक्षा न भूयः स्यात्फलाप्तेस्तत्कृतार्थतः॥१०३॥

प्रतीचः स्वतः स्फुरणात्तदाच्छादकाज्ञानध्वंसार्थं मानमेव मुमुक्षुरपेक्षते न कर्मेत्यत्र हेतुमाह। स्वत इति। उत्पन्नमपि मान1516मभ्यस्यमानमज्ञानध्वंसीत्यपरे तान्निराकरोति।

मानेति। सकृदुत्पन्नादेव मानादज्ञानध्वस्तेस्तावतैव पुरुषस्य कृतकृत्यत्वान्न मानावृत्त्यपेक्षेत्यर्थः॥१०३॥

साध्ये हि साधनापेक्षा सिद्धेऽसौ विनिवर्तते॥
किम्वसाध्ये समस्तस्य पूर्णत्वेन समाप्तितः॥१०४॥

अन्ये तु ब्रह्मप्राप्तावभ्यासापेक्षां मन्यन्ते तान्निरस्यति। साध्ये हीति। स्वर्गादौ तदपेक्षायां साध्ये सिद्धे च तदभावस्य दृष्टत्वं हिशब्दार्थः॥१०४॥

द्वैताद्वैतात्मकं ब्रह्म यदाऽण्वभ्युपगम्यते॥
तदाऽपि न विरोधोऽयं केनचिद्विनिवार्यते॥१०५॥

अद्वैते श्रुतिविरोधं निराकृत्यान्यत्र तमुपपादयति। द्वैतेति॥१०५॥

समस्तव्यस्तभूतस्य ब्रह्मण्यवसितात्मनः॥
ब्रूत कर्मणि को हेतुः सर्वानन्यत्वदर्शिनः॥१०६॥

कथमत्र विरोधोद्वैतापेक्षया कर्मकाण्डस्याद्वैतापेक्षया च काण्डान्तरस्य प्रामाण्यसंभवादित्याशङ्क्याऽऽह। समस्तेति॥१०६॥

सर्वजात्यादिमत्त्वे च परस्परविरोधतः॥
व्याघातान्न प्रवृत्तिः स्यान्निषेधेऽथ विधौ तथा॥१०७॥

विशिष्टजात्यादिमत्त्वमेव हेतुरित्याशङ्क्याऽऽह। सर्वेति। द्वैताद्वैतात्मके ब्रह्मणि स्थितस्य विदुषः सर्वजात्याश्रमादियुक्तत्वे सति विशेषणभूतजात्यादीनां मिथो विरोधाद्ब्राह्मणत्वाद्बृहस्पतिसवे प्रवृत्तिः क्षत्त्रियत्वान्निवृत्तिश्चेत्यन्योन्यव्याघाताद्विधिनिषेधयोर्न प्रवृत्तिनिवृत्ती स्यातां तथाच विश्वमप्रवृत्तिकमिति कर्मश्रुत्यप्रामाण्यादुपनिषदामपि तत्स्यादिति भावः॥१०७॥

न चावच्छेदमानित्वं विदुषोऽस्त्यासुरत्वतः॥
विदुषोऽप्यासुरत्वे स्यान्निष्फलं ब्रह्मदर्शनम्॥१०८॥

किंच सर्वजात्यादिसत्त्वेऽपि विदुषस्तदनभिमानान्न प्रवृत्तिर्निवृत्तिर्वेत्याह। न चेति। विपक्षे दोषमाह। विदुषोऽपीति। परिच्छेदाभिमानस्याऽऽसुरत्वमसुराणां ह्येषोपनिषदिति श्रुतेर्द्रष्टव्यम्॥१०८॥

तस्मादसदिदं गीतं भिन्नाभिन्नत्वसिद्धये॥
श्रुतिन्यायविरुद्धत्वात्प्रकृतं त्वधुनोच्यते॥१०९॥

परमतनिरासमुपसंहरति। तस्मादिति। ब्रह्मणो भिन्नाभिन्नत्वार्थं यद्भर्तृप्रपञ्चैरुक्तं तदिदमसदित्यत्र तत्पक्षोक्तं हेतुमाह। श्रुतीति। पूर्णवाक्यस्य परेष्टार्थायोगादेकरसार्थपरतेति साधितं संप्रति श्रुतिव्याख्यानमेवानुवर्त्यत इति प्रतिजानीते। प्रकृतं त्विति॥१०९॥

ओं खं ब्रह्मेति मन्त्रोऽयं श्रुत्येह ध्यानकर्मणि॥
नियुज्यते फलप्राप्तौ यथा तदभिधीयते॥११०॥

प्रकृतमेव वर्तयन्नोमित्यादिमन्त्रमवतारयति। ओं खमिति। तस्य विनियोगं दर्शयति। श्रुत्येति। क्रममुक्तिफलप्राप्तौ विवक्षितायां सगुणब्रह्मणि ध्यानं विधीयते तत्रायं मन्त्रोऽनेन ब्राह्मणेन विनियुक्तो ध्येयार्थप्रकाशनसामर्थ्यादित्यर्थः। कथमस्य ध्येयप्रकाशकत्वेन ध्याने विनियुक्तत्वं तदाह1517यथेति॥११०॥

परस्य ब्रह्मणः साक्षाद्याथात्म्याधिगमो यथा॥
पूर्वैश्चतुर्भिरध्यायैस्तथा श्रुत्योदितोऽञ्जसा॥१११॥

किमित्युपासनमुच्यते सम्यग्ज्ञानादेवेष्टसिद्धेरित्याशङ्क्य काण्डद्वयार्थमनुवदति। परस्येति॥१११॥

अस्यैव प्रतिपत्त्यर्थमुपासनमथोच्यते॥
ओं खं ब्रह्मेति वचसा पुंसां श्रेयोभिवाञ्छताम्॥११२॥

संप्रत्यत्रोच्यमारोपास्तेस्तत्त्वसाक्षात्कारोपायत्वमाह। अस्यैवेति। सम्यग्धियो झटित्यनुपपत्तेरुपास्त्यपेक्षाऽस्तीति सूचयति। अथेति। मुमुक्षूणामत्राधिकारमवद्योतयति। पुंसामिति॥११२॥

ब्रह्मेतीह विशेष्यार्थः खमित्यपि विशेषणम्॥
सामानाधिकरण्योक्तेस्तद्वृत्तिः कृष्णसर्पवत्॥११३॥

तत्र विशेषणविशेष्यत्वव्यवस्थामाह। ब्रह्मेतीति। इहेति मन्त्रोक्तिः। अपिना वैपरीत्यमपि सूच्यते। पदयोः सामानाधिकरण्यतात्पर्यमस्तु। सामानाधिकरण्येति। कृष्णः सर्पो नीलमुत्पलमिति यावत्। सामानाधिकरण्यादेकस्मिन्नर्थे वृत्तिः सिध्यतीत्यर्थः॥११३॥

प्रवृत्तिर्ब्रह्मशब्दस्य बृहद्वस्त्वेकगोचरा॥
स्वेन तद्विशिनष्ट्यत्र सामान्यांशैकपातिना॥११४॥

ब्रह्मेत्युक्ते विशेषणाकाङ्क्षाभावान्नास्य विशेष्यतेत्याशङ्क्याऽऽह। प्रवृत्तिरिति। उक्तं हि ब्रह्मशब्दस्य हि व्यु1518त्पाद्यमानस्य नित्यशुद्धत्वादयोऽर्थाः प्रतीयन्ते बृंहतेधीतोरर्थानुगमादिति। अत्रेति मन्त्रोक्तिः। सामान्यस्यांशो विशेषस्तदेकमात्रतया स्थितेन स्वेनेति संबन्धः॥११४॥

अनाकाशस्वभावेभ्यः स्वेन ब्रह्म निवर्त्यते॥
तथाऽब्रह्मस्वभावेभ्यः सामर्थ्याद्ब्रह्मणा च स्वम्॥११५॥

तेन ब्रह्मणो विशेष्यत्वफलमाह। अनाकाशेति। ब्रह्मणा स्वस्य विशेष्यत्वफलमाह। तथेति। यथा खेनानाकाशेभ्यो ब्रह्म व्यवच्छिद्यते तद्वदिति यावत्। सामर्थ्याद्ब्रह्मणो विशेषितस्याब्रह्मत्वानुपपत्तेरित्यर्थः॥११५॥

सामान्यमात्रवाचित्वात्खशब्दस्य विशेषणम्॥
पुराणमिति निर्वक्ति कारणप्रतिपत्तये॥११६॥

तेन खस्य विशेष्यत्वे महत्त्वं सिध्यतु तथाऽपि कार्यकारणद्वैविध्यात्कस्यात्र ग्रहणमित्यपेक्षायामाह। सामान्येति। स्वशब्दस्य कार्यं कारणं चेत्युभयं सामान्यं तन्मात्रवाचकत्वात्कस्य ग्रहणमिति संशये पुराणमिति कारणप्रतिपत्तये खस्य विशेषणं निर्वक्ति श्रुतिस्तथा संदेहनिवृत्तिरित्यर्थः॥११६॥

यत्तद्ब्रह्म खमित्युक्तं तदोंशब्दाभिधानकम्॥
चिन्तयेत्सततं धीमानोमालम्बनमेव वा॥११७॥

वाक्यार्थं दर्शयति। यत्तदिति। कारणब्रह्मदृष्टिरोंकारे वाचके प्रतीके वा कार्येत्यर्थः॥११७॥

एतदालम्बनं श्रेष्ठमिति च श्रुतिशासनम्॥
एतेनैवाक्षरेणेति ह्यर्थर्वाणोऽप्य1519धीयते॥११८॥

द्वितीये पक्षे प्रमाणमाह। एतदिति। आद्येऽपि मानमाह। एतेनेति। अक्षरेण परं पुरुषमभिध्यायीतेति शेषः। ओमिति ब्रह्मेत्यादावपि प्रसिद्धमेतदिति वक्तुं हिशब्दः॥११८॥

अतीन्द्रियत्वात्त्वस्यापि कथं स्यात्तदुपासनम्॥
वायुरं स्वमिति प्राह तदालम्बनसिद्धये॥११९॥

वायुरमित्यादेस्तात्पर्यमाह। अतीन्द्रियत्वादिति। अकार्यकारणवदित्यपेरर्थः। ओंकारालम्बनाकाशावच्छिन्नब्रह्मदृष्ट्यर्थं वाक्यमिति तात्पर्यार्थः॥११९॥

स्वं पुराणं न विज्ञेयं मन्त्रेऽस्मिन्निति मन्यते॥
कौरव्यायणिजो धीमान्वायुरेतिप्रसिद्धितः॥१२०॥

इति ह स्मेत्यादेरर्थमाह। खमिति॥१२०॥

रूढ्या वृत्तिः स्वशब्दस्य वायुरे व्योम्नि लक्ष्यते॥
बहुशश्च प्रयोगोऽतो वायुरं खं प्रतीयताम्॥१२१॥

प्रसिद्धिं प्रकटयति। रूढ्येति। तत्रैव खं वायुरमित्यादौ खशब्दस्य प्रयोगबाहुल्यं दर्शयति। बहुशश्चेति। हेतुद्वयफलं निगमयति। अत इति॥१२१॥

पुराणं यदि तद्व्योम यदि वा वायुरं भवेत्॥
ध्येयं तदोमिति सदा पक्षयोरुभयोरपि॥१२२॥

कारणब्रह्मपक्षो भूताकाशपक्षो वा कतरः श्रेयानित्याशङ्क्याऽऽह। पुराणमिति। भूताकाशस्यापि कारणवदतीन्द्रियत्वं तुल्यं प्रयोगबाहुल्यं चाविशिष्टं कारणेऽपि ब्रह्मणि बहुशः श्रुतिष्वाकाशशब्दप्रयोगात्तस्मात्तदुभयपक्षयोः शब्दत्वादोंकारे दृष्टिद्वयमैच्छिकमित्यर्थः॥१२२॥

आलम्बनतयोंकार उपास्तिविषयो भवेत्॥
चतुर्भुजाङ्कितं दारु विष्णोरिव निगच्छति॥१२३॥

ओंकारप्रतीकमुभयविधं ब्रह्म ध्येयमित्युक्त्वा तस्य प्रतीकत्वं दृष्टान्तेनाऽऽह। आलम्बनतयेति। विष्णोरालम्बनतयोपास्तिविषयत्वमिति शेषः॥१२३॥

नेदीयो ब्रह्मणः स्थानमोमितीदं प्रतीयताम्॥
शालग्रामो हरेर्यद्वत्सर्वानर्थापहारिणः॥१२४॥

सत्स्वालम्बनान्तरेषु किमित्यत्रैव ब्रह्मदृष्टिरारोप्यते तत्राऽऽह। नेदीय इति। निकटतममतिशयेन संनिहितं प्रेमास्पदमित्यर्थः। तत्रोदाहरणम्। शालग्राम इति॥१२४॥

यद्वाऽभिधानमोंविद्यात्तस्यैव परमात्मनः॥
तस्मिन्निविष्टचित्तस्य तद्ब्रह्माऽऽशु प्रसीदति॥१२५॥

अप्रतीकत्वपक्षं प्रतिपादयितुमारभते। यद्वेति। अत्र विशेषमाह। तस्मिन्निति। अस्यार्थः— सोऽहमिति महावाक्यमोंकारः सकारहकारलोपे तदुत्पत्तेस्तस्य चाकारादयस्त्रयोऽवयवास्तत्र विराड्जागरितविश्वाख्यं त्रयमकारः सूत्रं स्वप्नस्तैजसश्चेति त्रयमुकारोऽव्याकृतं सुषुप्तिः प्राज्ञश्चेति त्रयं मकारस्तेषां च पूर्वपूर्वस्योत्तरोत्तरस्मिन्नुपसंहारे मकारस्य प्रतीच्यवसानं स च नित्यशुद्धबुद्धमुक्तस्वभावं ब्रह्मोंकारवाच्यत्वेन ध्यातं प्रत्यग्ब्रह्म झटिति फलदमिति॥१२५॥

ओंकारो वेद एवेति ब्राह्मणास्तु प्रचक्षते॥
वेदैनेन यतो वेद्यं ब्रह्म वेदस्ततो मतः॥१२६॥

ओंकारवाच्यत्वेनोपास्यं ब्रह्मेत्युक्तेऽर्थे वेदोऽयमित्याद्यवतारयति। ओंकार इति। तत्र हेतुत्वेन वेदेत्यादि व्याचष्टे। वेदेति॥१२६॥

अभिधानतयैवैनमोंकारं विदुरञ्जसा॥
ब्राह्मणास्तदभिध्यानाद्विदन्ति ब्रह्म निर्भयम्॥१२७॥

प्रतिज्ञाहेतोर्विवक्षितं संक्षिपति। अभिधानतयेति॥१२७॥

वेदोऽयमिति चोक्तिः स्याद्यथोक्तोपासनं प्रति॥
स्तुतित्वादर्थवादोऽयं नातोऽन्योऽर्थोऽवसीयते॥१२८॥

वेदोऽयमित्यादेरर्थान्तरमाह। वेद इति। ओंकारप्रतीकमुपा1520सनं प्रति वेदोऽयमित्यादिरर्थवादस्तत्र तस्य स्तुतित्वेन ततः स्तुत्यर्थादर्थान्तराप्रतीतेर्वेदो ह्ययमोंकारो यस्मादनेन वेदार्थो ब्रह्म वेद्यते तस्मात्तस्मिन्ब्रह्मदृष्टिः कार्येत्यर्थः॥१२८॥

उद्गीथादिप्रभेदेन यं वा संविद्रते1521 द्विजाः॥
वेदोऽसाविति विज्ञेयस्त्रय्यास्तत्र समाप्तितः॥१२९॥

अर्थान्तरमाह। उद्गीथादीति। आदिपदेन प्रस्तावप्रतिहारग्रहः। तत्र हेतुः। त्रय्या इति। ओंकारे हि त्रयी समाप्यते तद्यथा शङ्कुनेत्यादिश्रुतेरतो वेदत्वं तस्येत्यर्थः॥१२९॥

तस्मिन्प्रयुज्यमानेऽतः सर्वो वेदः ससंग्रहः॥
प्रयुक्तः स्यादतो वेद ओंकार इति गम्यताम्॥१३०॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके पञ्चमाध्यायस्य
प्रथमं ब्राह्मणम्॥१॥

तत्र तत्समाप्तिफलं दर्शयन्प्रकृतमुपसंहरति। तस्मिन्निति। त्रय्यास्तत्र समाप्तिराद्यातःशब्दार्थः। तत्प्रयोगे सर्वस्य वेदस्य प्रयुज्यमानत्वं द्वितीयातःशब्दार्थः॥१३०॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिकटीकायां पञ्चमाध्यायस्य
प्रथमं ब्राह्मणम्॥१॥

श्लोकानामादितः समष्ट्यङ्काः—१०५३८
————

अथ द्वितीयं ब्राह्मणम्।
————

उक्तमाभ्यन्तरं तावद्ब्रह्मोपासनसाधनम्॥
ओंकारोऽथ दमादीनां साधनत्वं विधीयते॥१॥

वृत्तमनूद्योत्तरब्राह्मणतात्पर्यमाह। उक्तमिति॥१॥

दान्तो दाता दयालुश्चसबाह्याभ्यन्तरः शुचिः॥
एवंविधोऽधिकारी स्यात्सर्वासूपास्तिभूमिषु॥२॥

कथं तेषां ध्यानसाधनत्वं तद्धीनस्यापि मनोव्यापारात्मकध्यानसिद्धेरत आह।

दान्त इति। परवस्तुन्यतिसूक्ष्मे न ध्यानमन्यस्य सिध्यतीति भावः। उपास्त्यन्तरेष्वपि तुल्यमिदमधिकारिविशेषणमिति मत्वा सर्वास्विति विशेषणम्॥२॥

दमादिविधिशेषोऽयमर्थवादोऽभ्युपेयताम्॥
त्रया इत्यादिको ग्रन्थः स्पष्टार्थोऽतो न यत्यते॥३॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके पञ्चमाध्यायस्य
द्वितीयं ब्राह्मणम्॥२॥

तात्पर्यमुक्त्वा विभजन्नक्षराणामव्याख्येयत्वमाह। दमादीति। तदेतत्त्रयं शिक्षेदिति विधिशेषस्तस्मात्पूर्वो ग्रन्थः स च स्पष्टत्वादव्याख्येय इत्यर्थः॥३॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिकटीकायां पञ्चमाध्यायस्य
द्वितीयं ब्राह्मणम्॥२॥

श्लोकानामादितः समष्ट्यङ्काः—१०५४१
————

अथ तृतीयं ब्राह्मणम्।
————

ब्रह्मानुपाधि पूर्वत्र व्याख्यातं यत्नतोऽधुना॥
सोपाधिकस्य तस्यैव ह्युपास्तिर्वक्ष्यते स्फुटा॥१॥

वृत्तमनूद्योत्तरसंदर्भतात्पर्यमाह। ब्रह्मेति। काण्डद्वये निरुपाधिकं ब्रह्म तात्पर्येणोक्तमोंकारो दमादित्रयं च पूर्वब्राह्मणयोरुपास्त्यङ्गतया गीतमथ तस्यैव ब्रह्मणः सोपाधिकस्य ध्यानभेदोक्त्यर्थमुत्तरं ग्रन्थजातमित्यर्थः। निरुपाधिकोक्त्यनन्तरं तत्प्रतिपत्त्यनधिकारिणः सोपाधिकोक्तिरुचितेति हिशब्दार्थः॥१॥

श्रुतः प्रजापतिः पूर्वं कोऽसाविति न गम्यते॥
सामान्योक्तेर्विशेषार्थमेष इत्यादि भण्यते॥२॥

अनन्तरब्राह्मणस्याऽऽकाङ्क्षापूर्वकं तात्पर्यमाह। श्रुत इति। प्रजापतिर्देवादीनामनुशास्तेति सामान्योक्तेर्दक्षादिष्वपि संभवात्तेभ्यो व्यावर्त्य विवक्षितं प्रजापतिं दर्शयितुमेष प्रजापतिरित्यादि वाक्यमित्यर्थः॥२॥

हृद्गिरा मांसपेश्युक्ता तात्स्थ्याद्बुद्धिस्तु लक्ष्यते॥
हृदि नामादिसंहारं यत्र शाकल्य ऊचिवान्॥३॥

यद्धृदयमित्यत्र हृदयशब्दार्थमाह। हृदिति। तर्हि वाच्यो लक्ष्यो वा कीदृशोऽत्र हृदयशब्दार्थस्तत्राऽऽह। हृदीति। लक्ष्योऽत्र तदर्थः स च पञ्चमे प्रस्तुत इत्यर्थः॥३॥

सर्वभूतसमुत्पत्तेस्तथा सर्वेश्वरत्वतः॥
प्रजापतिरिति ज्ञेयं हृदयं तेन हेतुना॥४॥

तस्य प्रजापतित्वं साधयति। सर्वेति। कथं हृदयस्य प्रजापतेश्चैकलक्षणत्वेनैक्यं तदाह। तेनेति। शाकल्यब्राह्मणोक्तेन त्र्यन्नाधिकारोक्तेन हेतुना तयोरेकलक्षणत्वादैक्यमित्यर्थः॥४॥

सर्वज्ञेयस्य तद्व्याप्तेर्ब्रह्मापि हृदयं भवेत्॥
यत एवमतो यत्नादुपास्यं हृदयं सदा1522
हृदयाख्याक्षराणां च श्रुत्योपासनमुच्यते॥५॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके पञ्चमाध्यायस्य
तृतीयं ब्राह्मणम्॥३॥

एतद्ब्रह्मेत्यस्यार्थमाह। सर्वेति। उक्तरीत्या प्रजापतित्वं तस्य सर्वव्याप्तौ हेतुः। हृदयस्य ब्रह्मत्वे फलितमाह। यत इति। तस्य ब्रह्मत्वेन महीकरणस्य फलान्तराभावादित्यर्थः। यत्नादित्यादरनैरन्तर्यदीर्घकालरूपविशेषणत्रयमुपास्तेरुपादीयते। तदेतत्त्र्यक्षरमित्यादेस्तात्पर्यमाह। हृदयेति। हृदयमित्याख्यागताक्षराणां त्रयाणामिति यावत्। उपास्यहृदयस्तुत्यर्थं तन्नामाक्षरोपास्तिवचनमिति चार्थः॥५॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिकटीकायां पञ्चमाध्यायस्य
तृतीयं ब्राह्मणम्॥३॥

श्लोकानामादितः समष्ट्यङ्काः—१०५४६
————

अथ चतुर्थं ब्राह्मणम्।
————

तस्यैव हृदयाख्यस्य ब्रह्मणोऽन्यदुपासनम्॥
सत्योपाधिविशिष्टस्य तद्वै तदिति भण्यते॥१॥

ब्राह्मणान्तरस्य तात्पर्यमाह। तस्यैवेति। तदन्यत्वे हेतुः। सत्येति॥१॥

तच्छब्देन परामर्शो वैशब्दः स्मरणाय च॥
प्रकारान्तरनिर्देशे तदासेति च तद्वचः॥२॥

वाक्यस्थपदानामपुनरुक्तमर्थमाह। तच्छब्देनेति। हृदयाख्यब्रह्मपरामर्शस्तच्छब्देनाऽऽद्येन क्रियते। तदुच्यते विधान्तरेणेति1523 द्वितीयस्तच्छब्दः। किं तदित्युक्ते तदेतदेवाऽऽसेति वक्ष्यमाणमेतच्छब्देनोक्त्वा तदिति तृतीयं व1524चस्तेन समानाधिकृतमित्यर्थः॥२॥

सत्यमेव तदासेति यदुक्तं हृदयात्मना॥
मूर्तामूर्तात्मकं सत्यं ब्रह्म पूर्वंप्रपञ्चितम्॥३॥

सत्यमेवेतिवाक्यं योजयति। सत्यमेवेति। यद्ब्रह्म हृदयात्मनोकं तत्सत्यमेवाऽऽसति योजना। सत्यशब्दार्थमाह। मूर्तेति। पूर्वमिति मूर्तमूर्तब्राह्मणोक्तिः॥३॥

महत्तत्परिमाणेन यक्षं पूज्यतमत्वतः॥
अग्रजः प्रथमोद्भूतेस्तदन्यत्कार्यजन्मनः॥४॥

महदित्यादि व्याचष्टे। महदिति। तस्मात्सत्यादन्यद्यद्वैराजं कार्यं यच्चान्यत्तस्य कार्यं तज्जन्मनः प्रागुत्पत्तेरिति संबन्धः॥४॥

यः कश्चिदेतं व्याख्यातं वेदोपास्ते दिवानिशम्॥
लोकाञ्जयति स सर्वाञ्शत्रुश्चास्य जितो भवेत्॥५॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके पञ्चमाध्यायस्य
चतुर्थं ब्राह्मणम्॥४॥

फलवाक्यं व्याकरोति। यः कश्चिदिति। दिवानिशमित्यत्रापि विशेषणत्रयं विवक्ष्यते॥५॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिकटीकायां पञ्चमाध्यायस्य
चतुर्थं ब्राह्मणम्॥४॥

श्लोकानामादितः समष्ट्यङ्काः—१०५५१
————

अथ पञ्चमं ब्राह्मणम्।
————

उक्तं प्रथमजं सत्यं कथं तदिति भण्यते॥
आप एवेदमित्युक्त्या यथोक्तार्थस्तवाय तु॥१॥

उत्तरब्राह्मणतात्पर्यमाकाङ्क्षापूर्वकमाह। उक्तमिति। यद्ब्रह्म सत्यमुक्तं तत्कथं प्रथमजमित्युक्ते तदुत्तरवाक्येनोच्यते तच्च सत्यब्रह्मोपास्तेः स्तुत्यर्थमित्यर्थः॥१॥

पयःसोमादिका आपो ह्यग्निहोत्रादिकर्मसु॥
सर्वाहुतिषु संसृष्टा बाहुल्यादप्परिग्रहः॥२॥

तात्पर्यमुक्त्वाऽऽप इति पदं व्याकरोति। पय इति। तासामग्निहोत्राद्याहुतिषु संसृष्टत्वं मीमांसकसंमतमिति वक्तुं हिशब्दः। भूतान्तराणामपीह ग्रहणमिष्टं तत्किमित्याप इतिविशेषोक्तिस्तत्राऽऽह। बाहुल्यादिति॥२॥

सत्स्वप्यन्येषु भूतेषु भूयस्त्वादाप एव तु॥
प्राधान्याच्चैव गृह्यन्ते न त्वन्यद्विनिवार्यते॥३॥

अन्यनिवृत्त्यर्थमेव विशेषणं किं न स्यादित्याशङ्क्याऽऽह। सत्स्विति॥३॥

प्रक्षेपोत्तरकालं ताः सर्वमानातिवर्तिना॥
तस्थुः सूक्ष्मेण रूपेण क्रियामाश्रित्य सर्वतः॥४॥

कर्मसु हूयमानद्रव्याणां द्रव्यबाहुल्यादपां भूयस्त्वं प्राधान्यं त्वाहुतिमयीनां तासामपूर्वीभूतानां सर्वजगत्परिणामकारणस्याग्निहोत्रप्रकरणे श्रुतत्वात्प्रक्षिप्यमाणाः सोमाद्या आपो यद्यपि कर्मसमवायिन्यस्तथाऽप्युत्तरकालं कथं तासां तथात्वं कर्मणोऽस्थायित्वादित्याशङ्क्याऽऽह। प्रक्षेपेति। क्रियामाश्रित्य प्रक्षेपोत्तरकालं सूक्ष्मरूपेण सर्वतस्तस्थुरिति संबन्धः॥४॥

यावत्किंचिज्जगत्यस्मिन्नाहुत्येह व्यपेक्ष्यते॥
अन्तर्भूतं तदप्स्विति ह्याप एवेदमित्यतः॥५॥

अक्षरार्थमुक्त्वा वाक्यं योजयति। यावदिति। इहाग्निहोत्रादावाहुत्या कारणत्वेन स्थितया यावत्किंचिदस्मिञ्जगति जन्यत्वेनापेक्ष्यते तत्सर्वमप्स्वन्तर्भूतं ह्याप एवेत्यादिवाक्याद्दृष्टमिति योजना। दृष्टत्वद्योती हिशब्दः। आप इति मूलकारणं विवक्षितम्॥५॥

अग्रे प्रथमतः सृष्टेरग्रजस्य प्रजापतेः॥
सत्यं ब्रह्मासृजन्नापः कारणत्वादपां ततः॥६॥

तन्मात्रं सूत्रोत्पत्तेः पूर्वं जगदासीदिति वाक्यार्थं संगृह्णाति। अग्र इति। ता इत्यादेरर्थमाह। सत्यमिति। तत्र हेतुः। कारणत्वादिति। उक्तप्रकारादपां मूलकारणत्वात्सत्यस्रष्टृत्वसंभवादित्यर्थः॥६॥

तदिदं हिरण्यगर्भस्य व्यक्तीभावो महेश्वरात्॥
आदित्यस्येह वाक्येन वर्ण्यतेऽग्रजसिद्धये॥७॥

सत्यं ज्ञानमनन्तमिति श्रुतं ब्रह्म कथमव्याकृताज्जायत इत्याशङ्क्य व्याख्यातवाक्याभिप्रायमाह। तदिदमिति। तद्बभुत्सितं सूत्रस्याऽऽदित्यजीवस्येदं जन्माव्याकृतादस्मिन्ब्राह्मणे ता इत्यादिनोच्यते न चासतः सतो वा जन्मयोगः कारणात्मना स्थितस्यैव व्यक्तीभावो जन्मेत्युपगमात्तदुक्तिश्च सूत्रस्याग्रजत्वप्रत्ययत्वार्थमित्यर्थः॥७॥

भूतादिव्य1525क्तितो व्यक्तिरग्रजस्यापि नान्यथा॥
ताः सत्यमिति तेनाऽऽह सत्यं ब्रह्मातिविस्तृतेः॥८॥

सूत्रक्षेत्रज्ञस्य तर्हि जन्मस्वीकारान्नाऽऽत्माऽश्रुतेरित्यधिकरणविरोधः स्यादित्याशङ्क्याऽऽह। भूतेति। निरुपाधिकब्रह्मवत्तस्यापि न स्वतो जन्म किंत्वौपाधिकं स च

भूतोपाधिरपञ्चीकृतमहाभूतानां तद्देहकत्वात्तदुत्पत्तेश्चौपाधिकत्वं चराचरव्यपाश्रयाधिकरणे सिद्धमित्यर्थः। औपाधिकं सूत्रजन्मेत्यत्र लिङ्गमाह। ता इति। सतोऽसतश्च जन्मायोगादभिव्यक्तिरेवाभिमतेति भावः। सत्यं ब्रह्मेति वाक्यमनूद्य सूत्रस्य ब्रह्मत्वे हेतुमाह। सत्यमिति॥८॥

सूर्यादिकरणं देवं ब्रह्माऽस्राक्षीज्जगद्गुरुम्॥
देवान्विराडपि ब्रह्मा ससर्जेत्यनुषज्यते॥९॥

ब्रह्मेत्यादि व्याकरोति। सूर्यादीति॥९॥

एवं सत्याद्यतो जातं क्रमेण ब्रह्मणो जगत्॥
महत्सत्यमतो ब्रह्म यक्षत्वं तूपवर्ण्यते॥१०॥

सत्यत्वमहत्त्वप्रथमजत्वानि सूत्रे सिद्धानीति निगमयति। एवमिति। ते देवा इत्यादेस्तात्पर्यमाह। यक्षत्वमिति॥१०॥

अतीत्य पितरं देवाः पितामहमुपासते॥
यतोऽतो ब्रह्म यक्षं च सत्यं प्रथमजं विदुः॥११॥

तद्व्याकरोति। अतीत्येति। यद्ब्रह्म सत्यं प्रथमजमुक्तं तद्यक्षं विदुरिति योजना॥११॥

तस्यापि ब्रह्मणो नाम त्र्यक्षरं सत्यमुच्यते॥
प्रथमोत्तमे त्वमृतमक्षरे सस्वरत्वतः॥१२॥

तदेतदित्यादेरर्थमाह। तस्यापीति। हृदयब्रह्मदृष्टान्तार्थोऽपिशब्दः। सकारयकारयोरमृतत्वे हेतुमाह। सस्वरत्वत इति॥१२॥

निरच्कं मध्यतो मृत्युर्निर्जी1526वं देहवत्स्थितम्॥
भूयोऽमृतेन तद्ग्रस्तं मृतं चापि स्वतो यतः॥१३॥

मध्यत इत्यादेरर्थमाह। निरच्कमिति। तदेतदित्यादेरर्थमाह। भूय इति। स्वतो मृतमपि स्वराभावात्तकाराक्षरं सकारयकाराभ्यामुभयतो यतो गृहीतमतोऽकिंचित्करमित्यर्थः॥१३॥

इत्येवं पर्युपासीनो नामाभिज्ञो नरः सदा॥
सत्यभूयं भवेदेव नैनमित्यादियुक्तिगीः॥१४॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके पञ्चमाध्यायस्य
पञ्चमं ब्राह्मणम्॥५॥

उक्तविभागस्योपास्तिसंबन्धं ब्रुवाणस्तत्फलमाह। इत्येवमिति। विदुषः सत्यरूपे-

णावस्थाने युक्तिकथनार्थं नैनमित्यादिवाक्यमित्याह। नैनमित्यादीति। न हि यथोक्तब्रह्मविदं तद्रूपेण स्थितमनृतं स्पृशतीतस्ततः कार्यकरत्वमित्यर्थः॥१४॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिकटीकायां पञ्चमाध्यायस्य
पञ्चमं ब्राह्मणम्॥५॥

श्लोकानामादितः समष्ट्यङ्काः—१०५६५
————

अथ षष्ठं ब्राह्मणम्।
————

संस्थानवदथेदानीमध्यात्मे चाधिदैवते॥
रूपं प्रकल्प्य सत्यस्य भण्यते तदुपासनम्॥१॥

प्रथमजत्वादिविशिष्टसत्योपास्यत्वमुक्त्वा ब्राह्मणान्तरतात्पर्यमाह। संस्थानवदिति। विशिष्टसत्योपास्त्यनन्तरमवसरे प्राप्ते सत्यध्यात्माधिदैवतयोः सत्यस्यैव स्थानभेदविशिष्टं रूपं कल्पयित्वा तदुपास्त्यर्थमुत्तरब्राह्मणमित्यर्थः॥१॥

अक्ष्यादित्याख्यनीडस्थौ स्थानमात्रप्रभेदतः॥
भिन्नाविव समीक्ष्येते देवतैकैव सा सती॥२॥

आदित्याक्षिस्थानभेदाद्देवताभेदे ध्यानं भिद्येतेत्याशङ्क्याऽऽह। अक्षीति। यद्यपि सूत्राख्या देवतैकैव तथाऽपि तथाविधस्थानद्वययोगात्तन्मात्रभेदाद्भिन्नेव सा भाति तस्मादादित्यचाक्षुषौ भिन्नाविव दृष्टाविति नोपास्तिभेद इत्यर्थः॥२॥

उपकार्योपकारित्वसंबन्धेनेतरेतरम्॥
प्रतिष्ठितौ तावध्यात्मे चक्षुष्यादित्य एव च॥३॥

तावित्यादेरर्थमाह। उपकार्येति। इतरेतरं प्रतिष्ठितत्वमभिनयति। अध्यात्म इति। अध्यात्मे चक्षुष्यादित्यः प्रतिष्ठितोऽधिदैवे चाऽऽदित्ये चाक्षुष इत्यर्थः॥३॥

प्रतिष्ठितौ तावन्योन्यं कथमित्युच्यते यथा॥
अक्ष्णि रश्मिभिरादित्यः प्राणैस्तस्मिंश्च चाक्षुषः॥४॥

यथोक्तं संबन्धं प्रकटयन्नाकाङ्क्षापूर्वकं रश्मिभिरित्यादेरर्थमाह। प्रतिष्ठिताविति। आदित्यो हि चक्षुषि प्रकाशेनोपकुर्वन्प्रतिष्ठितश्चाक्षुषश्चेन्द्रियैर्मण्डलं प्रकाशयन्नादित्ये तथा। यद्वा चक्षुरादीन्द्रियाणि करणस्वामिनं भोक्तारमुपनयन्ति स चादृष्टद्वाराऽऽदित्यमुत्पादयति तथाच चाक्षुषस्य तत्रावस्थानोक्तिरित्यर्थः॥४॥

अरिष्टदर्शनं चात्र प्रासङ्गिकमथोच्यते॥
ज्ञातारिष्टः कथं नाम कुर्यादात्महितं पुमान्॥५॥

स यदेत्यादेस्तात्पर्यमाह। अरिष्टेति। उपास्तिप्रस्तावे कथं तदुच्यते तत्राऽऽह। प्रासङ्गिकमिति। चाक्षुषादित्यपुरुषप्रसङ्गागतमेतदित्यर्थः। तदुक्तिफलमाह। ज्ञातेति॥५॥

उत्क्रमिष्यन्यदा भोक्ता भवतीहाऽऽयुषः क्षये॥
चन्द्रमण्डलवच्छुद्धं वीक्षते रविमण्डलम्॥६॥

पदानि व्याकरोति। उत्क्रमिष्यन्निति। भोगभूमिरिहेत्युक्ता॥६॥

रश्मयो न समायान्ति विज्ञानपुरुषं प्रति॥
भोगेन प्रक्षयाद्भोक्तुस्तद्वशीकारिक1527र्मणः॥७॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके पञ्चमाध्यायस्य
षष्ठं ब्राह्मणम्॥६॥

तत्र हेतुसिद्ध्यर्थं नैनमित्यादेरर्थमाह। रश्मय इति। विज्ञानं बुद्धिस्तदुपाधिकः पुरुषो जीवः। तच्छब्देन रश्मयो गृह्यन्ते॥७॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिकटीकायां पञ्चमाध्यायस्य
षष्ठं ब्राह्मणम्॥६॥

श्लोकानामादितः समष्ट्यङ्काः—१०५७२
————

अथ सप्तमं ब्राह्मणम्।
————

शरीरं व्याहृतिमयं कल्प्यतेऽक्षिरविस्थयोः॥
तस्यैव सत्यनाम्नोऽथ तदुपासाप्रसिद्धये॥१॥

ब्राह्मणान्तरस्य तात्पर्यमाह। शरीरमिति। कल्पनाफलमाह। तस्येति। तदुपासनाप्रसिद्धये व्याहृतिशरीरत्वेनोपास्तिसिद्ध्यर्थमिति यावत्। अथशब्दो ब्राह्मणान्तरारम्भार्थः॥१॥

तस्यैव नामोपनिषद्ब्रह्मणो भण्यते द्वयोः॥
स्थितस्य स्थानयोः साक्षाद्यद्ग्रहात्तत्प्रसीदति॥२॥

तस्योपनिषदित्यादेरर्थमाह। तस्यैवेति। नामकरणे फलमाह। यद्ग्रहादिति। साक्षात्प्रसीदतीति संबन्धः॥२॥

हन्तेर्वेदं जहातेर्वाऽहरित्येतदिहेष्यते॥
पाप्मानं हन्ति तेनातो जहाति च न संशयः॥३॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके पञ्चमाध्यायस्य सप्तमं ब्राह्मणम्॥७॥

अहरहमितिपदयोर्निष्पत्तिप्रकारं सूचयति। हन्तेरिति। आङ्पूर्वस्य हन्तेर्जहातेर्वा

डसि कृते ह्रस्वत्वे चोपसर्गस्य टिलोपे चाहरिति पदं भवति। आङ्पूर्वाभ्यां ताभ्यामेव धातुभ्यां डमि कृते पूर्ववदुपसर्गह्रस्वत्वादौ चाहंपदं निष्पद्यत इत्यर्थः। नामद्वयविशिष्टसत्योपासकस्य हन्तीत्यादिनोक्तं फलमाह। पाप्मानमिति। तेनेत्युपासनोक्तिः। तस्य तद्विरोधित्वमतःशब्दार्थः। उपासनशक्तेरनतिशङ्कनीयत्वमाह। नेति॥३॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिकटीकायां पञ्चमाध्यायस्य
सप्तमं ब्राह्मणम्॥७॥

श्लोकानामादितः समष्ट्यङ्काः—१०५७५
————

अथाष्टमं ब्राह्मणम्।
————

मनोमयोऽयमिति च तस्यैव ब्रह्मणोऽपरम्॥
स्वान्तोपाधिविशिष्टस्य ह्युपासनमथोच्यते॥१॥

ब्राह्मणान्तरमाह। मनोमय इति। सत्याद्युपाधिविशिष्टस्योपास्तिवदित्यथशब्दार्थः॥१॥

मनोभिमानतोऽज्ञानात्पुरुषोऽयं मनोमयः॥
यदि वा मनसि व्यक्तेर्मनसा वोपलभ्यते॥२॥

भाः प्रकाशोऽमलं ज्योतिः सा सत्यमविनाशतः॥
तस्मिन्नित्यादिवचनं पूर्वोक्तस्थानसिद्धये॥३॥

पदानि व्याचष्टे। मन इत्यादिना। तस्मिन्नहमभिमाने हेतुः। अज्ञानादिति। जडप्रकाशं व्यावर्तयति। अमलमिति। तस्मिन्नित्यादेस्तात्पर्यमाह। तस्मिन्नित्यादीति। प्रकृताक्ष्यादित्यस्थानत्यागेन यद्धृदयमितिव्यवहितस्थानग्रहार्थं वाक्यं न चैव तेन गतार्थत्वमत्रापूर्वगुणोक्तेरिति भावः॥२॥३॥

बुद्ध्युपाधिव्यवच्छेदाद्व्रीह्यादिपरिमाणता॥
स्वतोऽनन्तत्वतो मानात्सर्वेशानादिरूपता॥४॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके पञ्चमाध्यायस्याष्टमं ब्राह्मणम्॥८॥

कथं पूर्णे प्रतीचि सूक्ष्मत्वं यथा व्रीहिर्वेत्यादिनोच्यते तत्राऽऽह। बुद्धीति। तर्हि सर्वेशानाद्ययुक्तं न हि परमाणुतुल्यस्य तथात्वं तत्राऽऽह। स्वत इति। कथमनन्तत्वं सत्यं ज्ञानमनन्तमित्यादिश्रुतेरित्याह। मानादिति। अमानादिति वा छेदः। निर्गुणत्वेन परिमाणराहित्यादित्यर्थः॥४॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिकटीकायां पञ्चमाध्यायस्याष्टमं ब्राह्मणम्॥८॥

श्लोकानामादितः समष्ट्यङ्काः—१०५७९

अथ नवमं ब्राह्मणम्।
————

विद्युद्देहस्य तस्यैव ब्रह्मणोऽन्यदुपासनम्॥
अशेषपाप्मविध्वस्त्यै श्रुत्याऽथ प्रतिपाद्यते॥१॥

ब्राह्मणान्तरतात्पर्यमाह। विद्युदिति। ब्राह्मणान्तराधिकारार्थोऽथशब्दः स च प्रथमतो योज्यः॥१॥

विद्युद्ब्रह्मेति युक्तं तद्विद्युद्धि स्याद्विदानतः॥
द्यतेरेतद्यतो रूपमवखण्डनकर्मणः॥२॥

अक्षरार्थमाह। विद्युदित्यादिना। यद्ब्राह्मणा विद्युद्ब्रह्मेत्याहुस्तद्युक्तं विदानतो हि विद्युदुच्यते ब्रह्मापि पाप्मानमुपासकस्य खण्डयत्यतो विद्युत्स्यादित्यर्थः। कथमित्थं विद्युदित्युक्ते विद्युत्पदनिष्पत्तिं सूचयति। द्यतेरिति। अतो विद्युदेवंभूता युक्तेति शेषः॥२॥

तमोऽन्धकारमखिलमवखण्डयति क्षणात्॥
विद्युद्यथा तथाऽस्मत्तः पाप्मानं तदुपासितुः॥३॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके पञ्चमाध्यायस्य
नवमं ब्राह्मणम्॥९॥

फलवचनं व्याचष्टे। तम इति। प्रसिद्धस्य मेघकृतस्य च तमसो ग्रहादपुनरुक्तिः। यद्वा तमःशब्दस्य पाप्मशब्देन संबन्धः। उपासितुरस्मत्तस्तमोमूलं पाप्मानं देवाप्तिप्रतिबन्धकं तदुपास्यं ब्रह्म खण्डयतीति योजना॥३॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिकटीकायां पञ्चमाध्यायस्य
नवमं ब्राह्मणम्॥९॥

श्लोकानामादितः समष्ट्यङ्काः—१०५८२
————

अथ दशमं ब्राह्मणम्।
————

तस्यैव ब्रह्मणोऽथान्यदुपासनमिहोच्यते॥
वाग्धेनूपाधियोगेन फलाय महतेऽधुना॥१॥

ब्राह्मणान्तरस्य तात्पर्यमाह। तस्यैवेति। अथशब्दस्तु पूर्ववत्। इहेति ब्राह्मणोक्तिः। वाङ्मयी धेनुरुपाधिस्तत्संबन्धेनेति यावत्॥१॥

वागित्यत्र त्रयी ग्राह्मा न स्थानकरणादयः॥
स्वाहाकारादि नान्यत्र त्रय्याः संभाव्यते क्वचित्॥२॥

पदार्थान्व्याकरोति। वागित्यादिना। आदिपदेन देवतोक्तिः। तत्र हेतुः। स्वाहाकारादीति। क्वचिदिति स्थानेषु करणेषु देवतासु चेत्यर्थः॥२॥

त्रयीयं धयते सर्वं स्वाहाकारादिभिः स्तनैः॥
धेनुमित्येव तां तेन सदोपासीत भारतीम्॥३॥

त्रय्या वाचो धेनुदृष्ट्योपास्तौ निमित्तं वदन्वाक्यं1528 योजयति। त्रयीति। धयते क्षरतीति यावत्॥३॥

केभ्यः क्षरति सा धेनुरित्येतदधुनोच्यते॥
तस्यै द्वौ स्तनावित्युक्त्या कथ्यन्ते च स्तनास्तथा॥४॥

तस्यै द्वावित्यादिवाक्यस्य प्रश्नपूर्वकं तात्पर्यमाह। केभ्य इति। एतदिति संप्रदानोक्तिः। तस्या इत्यादेरर्थमाह। कथ्यन्ते चेति। तथा संप्रदानवदित्यर्थः॥४॥

ऋषभोऽस्यास्तथा ज्ञेयः प्राणस्तस्मात्प्रसूयते॥
अप्राणस्य न वागस्ति वागप्युच्चार्यते बलात्॥५॥

तस्याः प्राण ऋषभ इत्यस्यार्थमाह। ऋषभ इति। लौकिक्या धेन्वा लौकिकबलीवर्दवदित्याह। तथेति। तत्र हेतुः। तस्मादिति। वाग्व्यापारस्य प्राणाधीनत्वमन्वयव्यतिरेकाभ्यामाह। अप्राणस्येति। कर्मान्तरस्य बलाधीनत्ववदित्यपेरर्थः॥५॥

वाक्प्रस्रवणहेतुत्वाद्धेन्वा वत्सो मनो भवेत्॥
यद्यद्ध्यायति मनसा तत्तद्वाचा प्रभाषते॥६॥

मनो वत्स इत्यस्यार्थमाह। वागिति। हेतुं साधयति। यद्यदिति॥६॥

यथोक्तोपासनफलमुक्तब्रह्मात्मरूपता॥
तं यथा यथा इत्यु1529क्तेरनिर्देशेऽपि गम्यते॥७॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके पञ्चमाध्यायस्य
दशमं ब्राह्मणम्॥१०॥

फलाश्रुतेरुपास्त्यविवक्षायां महते फलायेत्युक्तमयुक्तमित्याशङ्क्याऽऽह। यथोक्तेति। तं यथा यथेत्यादिवाक्यमित्यत्र विवक्षितं न शब्दस्वरूपं संधिर्वेति द्रष्टव्यम्॥७॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिकटीकायां पञ्चमाध्यायस्य
दशमं ब्राह्मणम्॥१०॥

श्लोकानामादितः समष्ट्यङ्काः—१०५८९
————

अथैकादशं ब्राह्मणम्।
————

उपास्त्यन्तरमस्यैव कौक्षेयाग्नेर्वपु1530र्भृतः॥
अयमग्निरिति श्रुत्या यत्नेनाथ विधीयते॥१॥

ब्राह्मणान्तरस्य तात्पर्यमाह। उपास्त्यन्तरमिति। उपास्यार्थस्य साक्षात्त्वकथनं यत्नः॥१॥

वैश्वानरगिराऽस्याग्नेः सामान्येनाभिधानतः॥
योऽयमन्तरितीत्युक्त्या तद्विशेषणमुच्यते॥२॥

अयमग्निर्वैश्वानर इत्येतावतैवोपास्यार्थसिद्धेर्योऽयमित्यादि किमर्थमित्याशङ्क्याऽऽह। वैश्वानरेति। कौक्षेयाग्निग्रहणार्थं विशेषणमित्यर्थः॥२॥

तस्याग्नेरेष घोषः स्यात्कर्णौ प्रोर्णूय यच्छ्रुतिः॥
उपास्यार्थस्य साक्षात्त्वं घोषरूपेण वर्ण्यते॥३॥

तस्येत्यादेरर्थमाह। तस्येति। प्रोर्णूय हस्ताभ्यां पिधायेति यावत्। यच्छ्रुतिर्यस्यश्रवणमित्येतत्। किमर्थमेष घोषो निर्दिश्यते कौक्षेयं हि ज्योतिरिह स्पष्टयितव्यं ब्रह्मणस्तदुपाधिकस्योपास्यत्वात्तत्राऽऽह। उपास्येति॥३॥

अरिष्टदर्शनं चात्र प्रासङ्गिकमथोच्यते॥
नैनं घोषं शृणोतीति प्रत्यासन्नमृतिर्नरः॥४॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिकेपञ्चमाध्यायस्यैकादशं
ब्राह्मणम्॥११॥

स यदेत्यादेरर्थमाह। अरिष्टेति। अत्रेति प्रकृतवाक्योक्तिः। प्रासङ्गिकं घोषप्रसङ्गागतमिति यावत्। उपास्यप्रदर्शनानन्तर्यमथशब्दार्थः। ज्ञातारिष्टः कथं नामेत्यत्रोक्तमनुसंधेयम्॥४॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिकटीकायामेकादशं ब्राह्मणम्॥११॥

श्लोकानामादितः समष्ट्यङ्काः—१०५९३
————

अथ द्वादशं ब्राह्मणम्।
————

गतिः फलं च वक्तव्यं पूर्वत्र तदनुक्तितः॥
उपासनानां सर्वेषामित्यर्थः पर आगमः॥१॥

ब्राह्मणान्तरस्य तात्पर्यमाह। गतिरिति। सार्वत्रिकी गतिः फलमनुक्तविषयमिति भेदः। तत्र हेतुः। पूर्वत्रेति॥१॥

उत्क्रामति यदा विद्वाञ्शरीरादायुषः क्षयात्॥
आश्वेव वायुं दुर्भेद्यं स आगच्छति वेगवान्॥२॥

प्राप्ताय लोकभोगार्थं वायुस्तस्मै विगच्छति॥
कियच्छिद्रं मरुद्दद्याद्रथचक्रखमानगीः॥३॥

द्विकाष्ठसं1531तताघातमाडम्बरमिहोच्यते॥
भेरीं च दुन्दुभिं विद्यात्तेनोर्ध्वं यात्युपासकः॥8॥

लोकं प्रजापतिं ब्रह्म1532 प्रैत्यसौ1533 भावनाबलात्॥
अशोकमहिमं चेति1534 दुःखतद्धेतुवर्जितम्॥५॥

शाश्वतीश्च समा नित्या अस्मिल्ँ लोके वसत्यसौ॥
पूर्वत्रानुक्तकार्याणामुपास्तीनामिदं फलम्॥६॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके पञ्चमाध्यायस्य
द्वादशं ब्राह्मणम्॥१२॥

पदानि व्याकरोति। उत्क्रामतीत्यादिना। स यावत्क्षिप्येदित्यादिश्रुतिमाश्रित्य विशिनष्टि। आश्वेवेति। विगच्छति स्वात्मनि च्छिद्रं प्रयच्छतीति यावत्। हृदयसत्याद्युपासनेषु फलस्योक्तत्वात्कथमिदं सर्वोपास्तिसंबन्धीत्याशङ्क्याऽऽह। पूर्वत्रेति॥२॥॥३॥४॥५॥६॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिकटीकायां द्वादशं ब्राह्मणम्॥१२॥

श्लोकानामादितः समष्ट्यङ्काः—१०५९९
————

अथ त्रयोदशं ब्राह्मणम्।
————

ज्वरादिव्याधिना तप्तो व्याधितस्तप्यते तु यत्॥
परमं तत्तपश्चिन्त्यं परमं लोकमीप्सता॥१॥

ब्रह्मोपासनानि सफलानि कानिचिदुक्तानि संप्रत्यब्रह्मोपासनानि सफलानि कानिचिन्निर्दिदर्शयिषुर्ब्राह्मणान्तरं प्रस्तौति। ज्वरादीति॥१॥

व्याधिग्रहग्रहाविष्टोऽसह्यं दुःखं समश्नुते॥
तपोऽतः परमं हि स्यात्तच्चिकित्सामकुर्वतः॥२॥

व्याधिप्रयुक्तदुःखस्य तपस्त्वं साधयति। व्याधीति। आद्योग्रहः संबन्धः। द्वितीयः प्रसिद्ध इति भेदः। अनुभवद्योती हिशब्दः। दुःखसामान्यमतःशब्दार्थः। अधिकारिणं विशिनष्टि। तदिति। अनिन्दकत्वमविषादित्वं चात्र द्रष्टव्यम्॥२॥

निर्हन्त्यृत्विजोऽरण्यमन्ये वा मां मृतं गृहात्॥
परमं तदपि ध्येयं वानप्रस्थ्येन संमितम्॥३॥

एतद्वै परमं तपो यं प्रेतमित्यादेस्तात्पर्यमाह। निर्हरन्तीति॥३॥

अभ्यादधति यच्चाग्नौ प्रेतं1535 मां ज्ञातयोऽथ तत्॥
परमं तदपि ध्येयमग्न्यावेशसमत्वतः॥४॥

वाक्यान्तरस्यार्थमाह। अभ्यादधतीति। अरण्यनयनानन्तर्यमथेत्युक्तम्। एकस्तच्छब्दस्तस्मादर्थे पञ्चम्या संबध्यते॥४॥

उचितं यस्य यद्यत्स्यात्तत्तल्लोकगिरोच्यते॥
तपसस्तापसस्यैवमग्न्यावेशस्य यत्फलम्॥५॥

इति श्रीवृहदारण्यकोपनिषद्भाष्यवार्तिके पञ्चमाध्यायस्य
त्रयोदशं ब्राह्मणम्॥१३॥

परमं हैव लोकं जयतीति सर्वत्र फलैक्यश्रुतेरैक्योपास्तेरित्याशङ्क्याऽऽह। उचितमिति। तपस्तापसाग्न्यावेशानामेकैकस्य यद्यत्फलं तत्तदिहोक्तोपासनानामप्येकैकस्य यस्माद्योग्यं फलं तस्मादत्र तद्भेदस्य लोकशब्दस्य ग्रहादुपास्तिभेदः॥५॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिकटीकायां त्रयोदशं ब्राह्मणम्॥१३॥

श्लोकानामादितः समष्ट्यङ्काः—१०६०४
————

अथ चतुर्दशं ब्राह्मणम्।
————

अन्नं ब्रह्मेति निर्वक्ति पुरेवान्यदुपासनम्॥
उदारफलसिद्ध्यर्थं तस्य न्यायेन निर्णयः॥१॥

कण्डिकात्रयेणाब्रह्मोपासनान्युक्त्वा प्रकृतब्रह्मोपासनान्येवानुवर्तयन्ब्राह्मणान्तरस्य तात्पर्यमाह। अन्नमिति। विरमितिविशिष्टगुणद्वयविशिष्टान्नप्राणोपाधिकब्रह्मोपासनं विशिष्टफलकं विधातुमुत्तरो ग्रन्थ इत्यर्थः। कथं तथाविधं ब्रह्मोपास्यमिति निर्णीयते तत्राऽऽह। तस्येति॥१॥

अन्नमेव परं ब्रह्मेत्येक आहुर्विपश्चितः॥
तत्तथा नावगन्तव्यं क्लिद्यत्यन्नमसुं विना॥२॥

प्राणो ब्रह्मेति चाप्यन्ये तच्च ग्राह्यं पुरेव न॥
अन्नादृते यतः प्राणः शोषमाशु निगच्छति॥३॥

न्यायमेव दर्शयन्पदानि व्याकरोति। अन्नमित्यादिना। न हि ब्रह्मणो नित्यसिद्धस्य क्लेदनं सिध्यत्यच्छेद्योऽयमित्यादिस्मृतेरिति मत्वाऽऽह। क्लिद्यतीति। न हि ब्रह्मणो भूतभौतिकस्य शोषोऽशोष्यत्वस्मृतिविरोधादित्याशयेनाऽऽह। अन्नादिति॥२॥३॥

ब्रह्मत्वं नानयोर्यस्मादेकैकस्य न युक्तिमत्॥
संभूय देवते तस्माद्ब्रह्मत्वं संनिगच्छतः॥४॥

एते ह त्वेवेत्यादि व्याचष्टे। ब्रह्मत्वमिति॥४॥

तदेतत्संप्रधार्याऽऽह प्रातृदः पितरं किल॥
किंस्विदित्यादि संहृष्टस्तद्दोषस्यासमीक्षणात्॥५॥

तद्ध स्मेत्यादेरर्थमाह। तदेतदिति। अन्नप्राणोपाधिकं ब्रह्मोपास्यमिति निश्चित्येति यावत्। किलेत्यर्थवादत्वमस्य द्योत्यते। किमाहेत्युक्तेऽनन्तरवाक्यमादत्ते। किमिति। तत्र निमित्तमाह। तद्दोषस्येति। गुणहीनोक्तब्रह्मोपास्तौ दोषस्येति यावत्॥५॥

किंस्विदेवंविदे साधु कृत्स्नसाध्वाप्तिहेतुतः॥
कुर्यामसाधु वा तस्मै सर्वासाधुनिराकृतेः॥६॥

वाक्यं व्याकरोति। किंस्विदिति। अन्नप्राणब्रह्मोपासिता कृतकृत्यो न तस्य प्राप्यं हेयं वाऽस्तीति भावः॥६॥

पाणिना मैवमित्युक्त्या तं पिता प्रत्यषेधयत्॥
संभूय परमत्वं कः स्वतोशक्तिरवाप्नुयात्॥७॥

स ह स्मेत्यादेरर्थमाह। पाणिनेति। कस्त्वेनयोरित्यादेस्तात्पर्यमाह। संभूयेति। अन्नप्राणयोरगुणयोः प्रत्येकं ब्रह्मत्वे योग्यत्वाभावान्मिलितयोरपि न तथात्वं कश्चिज्ज्ञातुमलमित्यर्थः॥७॥

स्वतोऽशक्तिमतोर्लोके1536 शक्तिर्योगेऽपि नेक्ष्यते॥
जात्यन्धयोर्न योगेऽपि शक्ती रूपवदीक्षणे॥८॥

स्वतोऽशक्तस्याशक्तान्तरयोगेऽपि न शक्तिरित्यत्र दृष्टान्तमाह। स्वत इति॥८॥

तस्माच्छक्तिमतोरेव ग्रासांशानां यथा तथा॥
तृप्तिशक्तिरिहापि स्यात्प्राणान्नाद्यात्मनोर्युतौ॥९॥

अशक्तानां मिथो योगेऽपि न शक्तिरिति स्थिते सदृष्टान्तफलितमाह। तस्मादिति। यथा ग्रासभागानां स्वतः शक्तानामेव मिलितानामपि तृप्तिसंपत्तिशक्तिस्तथा प्राणान्नयोरपि स्वतः शक्तिमतोरेव मिथः संबन्धे ब्रह्मत्वशक्तिः स्यादित्यर्थः॥९॥

न चेत्परमतां यातः कथं परमतोच्यताम्॥
प्रत्येकं शक्तिमत्त्वोक्तिर्वीत्यादिवचसोच्यते॥१०॥

कथं तर्हि शक्तिमत्त्वमनयोरिति पृच्छति। न चेदिति। तस्मा इत्याद्युत्तरत्वेनावतारयति। प्रत्येकमिति॥१०॥

व्याख्यानाय तु वीत्यस्य त्वन्नं वै वीति भण्यते॥
अन्ने विष्टानि सन्त्येव भूतत्वं यान्ति येन हि॥११॥

अन्नविष्टानि सर्वाणि भूतानीत्यन्नमुच्यते॥
वीति तेन सदा प्राणो रमित्येवमिहोच्यते॥१२॥

अन्नं वै वीतिवाक्यतात्पर्यमाह। व्याख्यानायेति। व्याख्यानमेव स्पष्टयति। अन्न इति। सर्वाणि भूतान्यन्नाश्रितानि सन्ति भूतत्वं येन हेतुना यान्ति तेन तान्यन्ने विष्टानीति व्युत्पत्त्या वीत्यन्नं सर्वभूताश्रयभूतमुच्यते सदेति योजना। सर्वभूताश्रयत्वमन्नस्य लोकप्रसिद्धमिति हिशब्दार्थः। रमित्यादेरर्थमाह। प्राण इति। इहेति वाक्योक्तिः॥११॥१२॥

प्राणे सति रमन्ते हि लोके दृष्टानि सर्वदा॥
भूतानि रमिति प्रोक्तस्तस्मात्प्राणोऽपि सूरिभिः॥१३॥

तदेव साधयन्प्राणे हीत्यादि व्याचष्टे। प्राण इति। अन्नं वीत्युक्तिवदित्यपेरर्थः॥१३॥

स्वतो गुणवतोरेवमन्नप्राणात्मनोर्भवेत्॥
संभूय परमत्वं हि फलोक्तिः सैव योदिता॥१४॥

तयोर्गुणवत्त्वोक्तिफलमा1537ह। स्वत इति। प्रागुक्तदृष्टान्तसूचको हिशब्दः। यथोक्तब्रह्मोपासकस्य फलवचनमुत्थापयति। फलेति। सर्वाणि ह वा अस्मिन्नित्याद्या या श्रुतिरुक्ता सैव प्रकृतोपासकस्य फलोक्तिरिति योजना॥१४॥

विशन्ति सर्वभूतानि ह्यन्नभूते प्रजापतौ॥
रमन्ते प्राणभूते च फलमेतदुपासितुः॥१५॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके पञ्चमाध्यायस्य
चतुर्दशं ब्राह्मणम्॥१४॥

फलोक्तिं व्यनक्ति। विशन्तीति। अन्नप्राणाधीनतया भूतानां स्थितिरत्योरतिप्रसिद्धिरस्तीति हिशब्दार्थः॥१५॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिकटीकायां पञ्चमाध्यायस्य
चतुर्दशं ब्राह्मणम्॥१४॥

श्लोकानामादितः समष्ट्यङ्काः—१०६१९
————

अथ पञ्चदशं ब्राह्मणम्।
————

उक्थादिगुणपूगेन विशिष्टस्यानरूपिणः॥
उपासनमथेदानीं ब्रह्मणो भण्यते परम्॥१॥

अन्नप्राणोपाधिब्रह्मध्यानमुक्त्वा ब्राह्मणान्तरतात्पर्यमाह। उक्थादीति। आदिपदेन यजुःसामक्षत्त्राणि गृह्यन्ते॥१॥

उक्थं प्राणः कुतो यस्मात्प्राणे सति चराचरम्॥
उत्थापयति कर्मेदं कर्ता वा नान्यथा ततः॥२॥

पदानि व्याकरोति। उक्थमिति। उक्थं शस्त्रं तस्य प्राणात्मत्वमप्रसिद्धमित्याह।कुत इति। प्राणे सत्येव पुण्यापुण्यं कर्म जीवो वा जगदुत्पादयति न तु तं विना तयोर्यस्मादुत्पादकत्वं तस्मादुक्थं प्राण इत्याह। यस्मादिति॥२॥

वीरश्चोक्थात्मवित्पुत्र उपासीनस्य जायते॥
दृष्टं फलमदृष्टं तु ह्युक्थस्यैकात्म्यमश्नुते॥३॥

उक्थेत्यादि व्याचष्टे। वीरश्चेति। तं यथा यथेत्यादिशास्त्रमत्र प्रमाणयितुं हीत्युक्तम्॥३॥

यजुश्च प्राण एवेति सदोपासीत यत्नतः॥
कुतो यजुष्ट्वंतस्येति युक्तिलेशोऽभिधीयते॥४॥

युज्यन्ते सर्वभूतानि संहन्यन्ते परस्परम्॥
प्राणे सति यजुस्तस्मात्फलोक्तिः पूर्ववत्तथा॥५॥

यजुरित्यादेरर्थमाह। यजुश्चेति। आदरे नैरन्तर्ये च यत्नशब्दः। प्राणे हीत्यादिशङ्कापूर्वकमुत्थाप्य व्याचष्टे। कुत इत्यादिना। युज्यन्ते हेत्यादेस्तात्पर्यमाह।फलोक्तिरिति। पूर्ववदिति दृष्टादृष्टविभागोक्तिः। तथा सति फलवत्त्वादिदमुपासनंकर्तव्यमिति सूचयति। तथेति॥४॥५॥

सामापि प्राण एवेति कथं तदिति भण्यते॥
सम्यञ्चिसर्वभूतानि प्राणे सति यतस्ततः॥६॥

सामेत्यादेरर्थमाह। सामापीति। इतिशब्दः सदोपासीतेति पूर्वेण संबध्यते। प्राणे हीत्याद्युत्थाप्य व्याचष्टे। कथमित्यादिना। सम्यञ्चिसंगतानि साम्यमापन्नानि ततःप्राणः सामेति शेषः॥६॥

क्षत्त्रं च प्राण एवेति चिन्तयेत्सततं हृदा॥
त्रायते हेति युक्त्युक्तिः क्षत्त्रत्वस्य प्रसिद्धये॥७॥

क्षत्त्रमित्यादेरर्थमाह। क्षत्त्रं चेति। कथं तस्य क्षत्त्रत्वमित्युक्तेऽनन्तरवाक्यमादत्ते।त्रायत इति॥७॥

क्षणितोर्हिक्षतात्प्राण1538स्त्रायते न तु तं विना॥
क्षत्त्रं प्राणस्ततो ज्ञेयो यथोक्तन्यायगौरवात्॥८॥

युक्तिरूपामुक्तिं व्यनक्ति। क्षणितोरिति। न तं प्राणं विना त्राणं पिण्डस्येतिशेषः॥८॥

प्राप्नोत्यत्रमसौ क्षत्त्रमत्रातृकमनीश्वरम्॥
स एव त्राता सर्वस्य ह्यत्रं क्षत्त्रमतो भवेत्॥९॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके पञ्चमाध्यायस्य
पञ्चदशंब्राह्मणम्॥१५॥

प्र क्षत्त्रमित्यादेरर्थमाह। प्राप्नोतीति। असावित्युपासकोक्तिः। प्राणस्यात्रत्वंसाधयति। अत्रातृकमिति। तत्र नियन्त्रन्तराभावं हेतुमाह। अनीश्वरमिति।तस्यापीश्वरत्वाभावशङ्कां वारयति। स एवेति॥९॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिकटीकायां पञ्चमाध्यायस्य
पञ्चदशं ब्राह्मणम्॥१५॥

श्लोकानामादितः समष्ट्यङ्काः—१०६२८
————

अथ षोडशं ब्राह्मणम्।
————

हृदयं सत्यमित्यादिवद्रूपाधिसमाश्रयम्॥
1539पासनमतिक्रान्तं ब्रह्मणः फलवद्बहु॥१॥

उक्थादिगुणकप्राणरूपब्रह्मोपास्तिमुक्त्वा ब्राह्मणान्तरमवतारयन्वृत्तं कीर्तयति। हृदयमिति॥१॥

सर्वोपाध्युपसंहारिगायत्र्युपाधिकं प्रभोः॥
अधुनोपासनं वाच्यमित्यर्थः पर आगमः॥२॥

गायत्रीब्राह्मणस्य तात्पर्यमाह। सर्वेति॥२॥

उदारफलसंप्राप्तावैश्वर्यं तत्र तत्र हि॥
श्रुतं श्रुतौ हि गायत्र्यास्तदुपास्तिर्वरा ततः॥३॥

सर्वात्मकगायत्र्युपाधिकत्वेन ब्रह्मोपास्तिं विधातुं किमित्यारम्भोऽन्येषामपि च्छन्दसांभावात्तदन्यतमोपाधिकं ब्रह्म कुतो नोपास्यमित्याशङ्क्याऽऽह। उदारेति। तत्र तत्रश्रुतौ तद्गयांस्तत्रे तस्माद्गायत्रीत्यादावित्यर्थः। एको हिशब्दो यस्मादर्थो द्वितीयोनान्यस्य च्छन्दसस्तथाविधभक्तिः श्रुतेतिद्योतनार्थः॥३॥

उदारफलसंबन्धो ब्राह्मणस्यैव नान्यतः॥
ब्राह्मणस्य च गायत्री कारणं तेन सा वरा1540॥४॥

गायत्रीप्राधान्ये हेत्वन्तरमाह। उदारफलेतिब्राह्मणा व्युत्थायेत्यादिश्रुतेरित्यर्थः।नान्यतो नान्यस्येति यावत्। कथं तावता गायत्रीप्राधान्यं तत्राऽऽह। ब्राह्मणस्येति।गायत्र्या ब्राह्मणमसृजतेतिश्रुतेरित्यर्थः॥४॥

भूमिरित्यादिवाक्येन त्रिलोक्यष्टाक्षरोच्यते॥
अष्टाक्षरं पदं सिद्धं गायत्र्याः प्रथमं च यत्॥५॥

अन्ययोगव्यवच्छेदेन गायत्र्युपाधिकब्रह्मोपास्तिवचने तात्पर्यमुक्त्वा भूरित्यादिवाक्यस्य विवक्षितमाह। भूमिरित्यादीति॥५॥

अष्टाक्षरत्वसामान्याद्गायत्र्याः प्रथमं पदम्॥
तच्चेदं चैकतामेति संख्यासामान्यहेतुतः॥६॥

किमर्थमित्थं संख्यासाम्यमुच्यते तत्राऽऽह। अष्टाक्षरत्वेति। तद्गायत्रीप्रथमपदमिदं च त्रैलोक्यमष्टाक्षरत्वसादृश्यादैक्यं गच्छत्यतः संख्यासाम्याद्गायत्र्याद्यं पदं त्रैलोक्यात्मना ध्येयमित्यर्थः॥६॥

त्रैलोक्याभिहितिरियमष्टाक्षरसमत्वतः1541
गायत्र्याद्यपादसमतो विराजाऽऽत्मैक्यमश्नुते॥७॥

तत्रैव हेत्वन्तरमाह। त्रैलोक्येति। गायत्र्या यदाद्यं पदं तत्सवितुर्वरेण्यमिति तस्यैवविराड्नाम्ना भूमिरित्यादिना सहाष्टाक्षरत्वसाम्यात्तत्तेन प्रतिपद्यते तथाच त्रैलोक्यात्मनो विराजोऽभिधानमिदं यद्गायत्र्याद्यपदमष्टाक्षरत्वाविशेषादित्यर्थः। विराजा तन्नाम्नेति यावत्॥७॥

एवं पदं त्रयो लोका अभिधानाभिसंगतेः॥
अत्यन्तमभिधेयस्य विराजैक्यं प्रपद्यते॥८॥

गायत्र्याद्यपदस्य विराजश्चाभिधानाभिधेयभावेऽपि प्रकृते किमिति तदाह। एवमिति। उक्तरीत्या वाच्यवाचकत्वेन संगतं गायत्र्याद्यपदं त्रैलोक्यात्मकं विराडभिन्नंवाच्यवाचकयोस्तादात्म्यात्तेन तद्विराडात्मनोपास्यमित्यर्थः। उपासकस्य फलमाह।विराजेति॥८॥

उक्ताभिधानद्वारेण संपन्नो यस्त्रिलोकताम्॥
यथोक्तोपासनाभ्यासाद्विराडेव भवेदसौ1542॥९॥

संक्षिप्तं फलं प्रपञ्चयति। उक्तेति। विराडभिधेयो गायत्र्याद्यपदं चाभिधानं तद्द्वारेण तयोरभेदानुसंधानेनेति यावत्। त्रिलोकतां विराडात्मतां गायत्र्याद्यपदं विराडात्मकमिति ध्यानं यथोक्तोपासनम्॥९॥

त्रिषु लोकेषु यावत्स्यात्पुंभोगायेह साधनम्॥
तावत्सर्वं जयत्याशु प्रथमोपास्तितः फलम्॥१०॥

श्रुतेर्बहिरेव तत्फलमुक्त्वा श्रौतं फलमाह। त्रिष्विति॥१०॥

रूपराशिरशेषेण भूम्याद्युक्त्योपसंहृतः॥
ऋच इत्यादिना ज्ञेया नामराश्युपसंहृतिः॥११॥

पूर्वकण्डिकायां विवक्षितमनुवदति। रूपेति। गायत्रीप्रथमपादात्मनेति शेषः।ऋचो यजूंषीत्यादेस्तात्पर्यमाह। ऋच इत्यादिनेति। गायत्रीद्वितीयपादरूपेणेतिशेषः॥११॥

अभिधेयाभिधानाख्यराशी नित्यौ व्यवस्थितौ॥
परस्पराभिसंबन्धौ गायत्रीवर्त्मनोदितौ॥१२॥

रूपराश्युपसंहारोक्त्यनन्तरं नामराश्युपसंहारोक्तौ को हेतुरित्याशङ्क्य कण्डिकाद्वयार्थं संक्षिप्यानुद्रवति। अभिधेयेति॥१२॥

ऋगादेरभिधानस्य यावती व्याप्तिरिष्यते॥
तावत्सर्वमवाप्नोति यथोक्तोपासनान्नरः॥१३॥

द्वितीयपदस्य त्रय्यात्मनोपासने फलमभिदधानः स यावतीयमित्यादि व्याचष्टे।ऋगादेरिति॥१३॥

व्याख्या तुल्यैव पूर्वेण वाक्येनोत्तरवाक्ययोः॥
अक्षराणामिह ज्ञेया नातो व्याख्यायते पुनः॥१४॥

ऋचो यजूंषि सामानि प्राणोऽपानो व्यान इति वाक्ययोरक्षराणां व्याख्या भूमिरित्यादिपूर्ववाक्येन तुल्यैव ज्ञेया तथाच नोत्तरवाक्ययोरक्षराणि भूयो व्याख्यायन्ते पुनरुक्तिप्रसक्तेरित्युत्तरवाक्यस्थाक्षराण्यव्याचक्षाणस्य भाष्यकृतोऽभिप्रायमाह। व्याख्येति।इहेति भाष्यग्रहणम्॥१४॥

कर्मराशिरथेदानीं प्राण इत्यादिनोच्यते॥
विधृतिः पूर्वयोः प्राणो मधुकाण्डे यथोदितः॥१५॥

प्राणात्मानं यथोक्तेन पादेनाऽऽपाद्य यत्नतः॥
प्राणात्मैव भवत्याशु सदा तद्भावभावितः॥१६॥

प्राणोऽपान इत्यादिवाक्यतात्पर्यमाह। कर्मराशिरिति। गायत्रीतृतीयपदात्मनोपसंह्रियमाणत्वेनेति शेषः। राशिद्वयोपसंहारानन्तर्यमथशब्दार्थः। प्राणशब्दार्थमाह।विधृतिरिति। पूर्वयोर्नामरूपयोरिति यावत्। न त्वपानव्यानयोरर्थतो वा पाठतो वापूर्वत्वाभावादिति द्रष्टव्यम्। प्राणोऽपानो व्यान उदानः समानोऽन इत्येतत्सर्वं प्राणएवेत्यत्र सप्तान्नाधिकारे यथोक्तस्य प्राणस्य प्रस्तुतत्वमाह। मध्विति। गायत्रीतृतीय-

पादप्राणात्मनाऽनुसंधानस्य फलमाह। प्राणेति। तृतीयपादरूपेण प्राणात्मानमापाद्ययत्नतो नैरन्तर्येण तद्भावभावितो देहपाते तत्क्षणादेव प्राणात्मा भवतीति योजना।द्वितीयपादोपासनेऽपि तुल्यमेतत्फलमिति द्रष्टव्यम्॥१५॥१६॥

अभिधेयोपसंहारस्त्रिलोकीवचसोदितः॥
ऋच इत्यादिना तद्वदभिधानोपसंहृतिः॥१७॥

कर्मणोऽप्युपसंहारः प्राण इत्यादिना तथा॥
एतावद्वस्तु जगति गायत्रीपादसंश्रयम्॥१८॥

नामरूपकर्मात्मकं जगद्गायत्रीपादत्रयात्मनोपसंहृतमिति वाक्यत्रयार्थमुपसंहरति।अभिधेयेति। गायत्रीपादत्रयात्मना नामरूपकर्मणामुपसंहृतत्वेऽपि तद्व्यतिरेकेणानुपसंहृतं किंचिदस्ति जगदित्याशङ्क्याऽऽह। एतावदिति। यद्गायत्रीपादत्रयनिष्ठंरूपादित्रयमुक्तमेतावदेव व्यवहारभूमौ वस्त्वस्ति व्यावहारिकवस्त्वन्तरे मानाभावादित्यर्थः॥१७॥१८॥

अभिधेयस्य गायत्री यस्येयं त्रिपदा मता॥
तस्याभिधित्सयेदानीं प्रारब्धैषोत्तरा श्रुतिः॥१९॥

अथास्या एतदेवेत्यादिवाक्यस्य तात्पर्यमाह। अभिधेयस्येति। आदित्यात्मकहिरण्यगर्भाभिधानायोत्तरो ग्रन्थ इत्यर्थः। मता वाचकत्वेनेति शेषः॥१९॥

व्याचष्टे स्वयमेवार्थं तुर्यादिपदसंहतेः॥
यद्वै चतुर्थमित्यादिवचसा यत्नतः श्रुतिः॥२०॥

यद्वै चतुर्थमित्यादेः पूर्वेण पौनरुक्त्यमित्याशङ्क्याऽऽह। व्याचष्ट इति।व्याख्याने तात्पर्यं यत्नः॥२०॥

रागो रज इति ज्ञेयः प्रवृत्तेः कारणं तु यत्॥
रञ्जनं काम आसङ्गः सर्वानर्थकृदात्मनः॥२१॥

सर्वमुह्येवैष रज इत्यत्र रजःशब्दं व्याचष्टे। राग इति। कः पुना रागो नाम तमाह।प्रवृत्तेरिति। तत्र रजःशब्दप्रवृत्तिं साधयति। रञ्जनमितिउक्तं हि सुखानुशायी राग इति। तस्य सर्वप्रवृत्तिहेतुत्वे यद्यद्धि कुरुते जन्तुस्तत्तत्कामस्य चेष्टितमिति स्मृतिर्मानमित्याह। काम इति। सङ्गात्संजायते काम इति स्मृतिमाश्रित्यतद्धेतुमाह। आसङ्ग इति। तस्य त्याज्यत्वं सूचयति। सर्वेति॥२१॥

तं क्रमित्वोपरि स्थित्वा तपतीति क्रियापदम्॥
भूतानि वा रजोवाचा भण्यन्तेऽत्राखिलानि तु॥२२॥

उपर्युपरीत्यादेरर्थमाह। तमिति। अत्र लोका रजांस्युच्यन्ते। इमाल्ँ लोकान्वि-

चक्रमेऽथो वेदानथो वाचमिति श्रुतिमाश्रित्य रजःशब्दः सकललोकवाची भाष्येव्याख्यातस्तदनुसारेण पक्षान्तरमाह। भूतानीति॥२२॥

उपर्युपरि तान्येष तपत्युल्बणरश्मिवान्॥
श्रीयशोभ्यां यथैवायं तपत्येवमुपासकः॥२३॥

गुणैः सर्वानतिक्रम्य स्थित्वोपरि श्रिया ज्वलन्॥
यशसा च सुदीप्तेन विद्वांस्तपति विद्विषः॥२४॥

रजःशब्दार्थमुक्त्वा वाक्यं योजयति। उपरीति। एवं हेत्यादि व्याचष्टे। श्रीयशोभ्यामिति॥२३॥२४॥

कामितार्थस्य लब्धत्वात्सर्वग्रहणमात्रतः।
उपर्युपरीति वीप्सा किमर्थमिति भण्यते॥२५॥

गायत्र्याश्चतुर्थपादं सूत्रात्मक्रमादित्यान्तर्गतमहंबुद्ध्या ध्यायतः सर्वाधिपत्यादिफलमुक्तमिदानीमुपर्युपरीति वीप्सामाक्षिपति। कामितेति। सर्वाधिपत्यस्येत्यर्थः॥२५॥

नैव दोषो यतो येषां सूर्यः स्यादुपरि स्थितः॥
लोकानां सर्वशब्देन तेषामेव ग्रहो भवेत्॥२६॥

परिहरति। नैष इति। वीप्सावैयर्थ्याभावे हेतुमाह। यत इति। अतो वीप्साभावे न सर्वाधिपत्यमिति शेषः॥२६॥

पराञ्चो ये रवेर्लोकास्तेषामपि परिग्रहः॥
कथं नु नाम सिद्धः स्यादतो वीप्सा प्रयुज्यते॥२७॥

वीप्सापक्षेतु सर्वाधिपत्यसिद्धिरित्याह। पराञ्च इति। सिद्धः स्यादिति श्रुतेराकाङ्क्षा यत इति शेषः॥२७॥

व्याख्याता या पुरा यत्नाद्गायत्री जगदात्मिका॥
मूर्तामूर्तरसे भानौ त्रिपादेषा1543 प्रतिष्ठिता॥२८॥

सैषा गायत्रीत्यादेरर्थमाह। व्याख्यातेति। आद्यस्य त्रैलोक्यात्मत्वं द्वितीयस्यत्रय्यात्मत्वं तृतीयपादस्य सर्वप्राणात्मत्वमिति व्युत्पादनं यत्नः॥२८॥

तदपीदं पदं तुर्यंसत्येऽध्यात्मे प्रतिष्ठितम्॥
अक्ष्णि प्रकाशरूपे हि सर्वंरूपं प्रतिष्ठितम्॥२९॥

तद्वै तत्सत्ये प्रतिष्ठितमित्यस्यार्थमाह। तदपीति॥२९॥

किं पुनस्तत्सत्यमि1544ति सत्यं चक्षुरितीर्यते॥
चक्षुषः सत्यता कस्मादिति चेदुच्यते तथा॥३०॥

उत्तरवाक्यं शङ्कापूर्वकमुत्थापयति। किं पुनरिति। तस्मादित्यादिवाक्यस्याऽऽकाङ्क्षापूर्वकं तात्पर्यमाह। चक्षुष इति॥३०॥

तस्मादित्यादिवाक्येन सत्यताऽक्ष्णो विभाव्यते॥
दृष्टं मृषाऽपि श्रवणं न तु दृष्टिर्मृषेक्ष्यते॥
तस्या विशेषनिष्ठत्वान्मृषात्वं नोपपद्यते॥३१॥

उच्यते तथेत्युक्तमेव प्रथयति। तस्मादिति। तत्र विवक्षितं चक्षुषः सत्यत्वंसाधयति। दृष्टमिति। रजतादिदृष्टिरपि मृषा दृष्टेत्याशङ्क्यनिर्दुष्टा दृष्टिर्नैवमित्यभिप्रेत्याऽऽह। तस्या इति। यद्यपि निर्दुष्टा श्रुतिरपि न मृषा तथाऽपि ततो दृष्टिर्बलीयसी श्रुतवादिनो दृष्टवादिनि लोकस्य संप्रत्ययदर्शनादिति भावः॥३१॥

एवं तुरीयमेतस्मिन्सत्ये चक्षुषि सर्वदा॥
प्रकाशैकस्वभावे हि साक्षादेव प्रतिष्ठितम्॥३२॥

चक्षुषः सत्यत्वे फलितमुपसंहरति। एवमिति। एकस्वभावत्वादाधाराधेयत्वं चक्षुरादित्ययोर्युक्तमिति वक्तुं हिशब्दः॥ ३२॥

अक्ष्णिप्रकाशरूपेऽस्मिन्सर्वं रूपं प्रतिष्ठितम्॥
बले प्राणे प्रतिष्ठा च चक्षुषोऽपि प्रदर्श्यते॥३३॥

तद्वै तदित्यादेर्वृत्तकीर्तनपूर्वकमर्थमाह। अक्ष्णीति। चक्षुषोऽस्ति प्रतिष्ठायेक्षेति वक्तुंचशब्दः॥३३॥

इन्द्राग्नी ताविमौ सिद्धावग्निस्तत्र प्रकाशकः॥
इन्द्रो विधरणः प्राणः पूर्वयोर्नामरूपयोः॥३४॥

आदित्यश्चक्षुर्द्वारा प्राणे प्रतिष्ठितो दर्शितः संप्रति प्राणस्येन्द्रत्वमादित्यस्याग्नित्वमित्युपासनार्थं विभागमाह। इन्द्रेति। ताविति प्राणादित्यनिर्देशः। उक्तं विभजते।अग्निरिति॥३४॥

यावान्प्रकाशो जगति स सर्वोऽग्निरिहोच्यते।
परिस्पन्दश्च सर्वत्र प्राण इन्द्रस्तथोच्यते॥३५॥

कथं स प्रकाशकोऽन्यस्यापि तत्संभवादित्याशङ्क्याऽऽह। यावानिति। इहेतिश्रौतं पन्थानमाह। अग्निरिति प्रकाशमात्रोक्तिः। तद्रूपेणाऽऽदित्यस्य ध्येयत्वमुक्त्वाप्राणशब्देन चलनमात्रं गृहीत्वा तदात्मा प्राणो बलस्य देवता तेन प्रसिद्धेन्द्रात्मनाध्येय इति मत्वाऽऽह।परिस्पन्दश्चेति॥३५॥

त्रिलोकी च त्रिवेदी च प्राणादित्रयमेव च॥
प्रतिष्ठितमिहाध्यात्म एवमुक्तेन वर्त्मना॥३६॥

प्राणो वै बलमित्यादेस्तात्पर्यमुक्त्वैवम्वेषेत्यादेरर्थमाह। त्रिलोकी चेति। एवमित्यस्यव्याख्यानमुक्तेन वर्त्मनेति सैषा गायत्रीत्याद्युक्तमार्गेणेत्यर्थः॥३६॥

प्राणादित्यौ हि गायत्रीसक्तावुक्तेन वर्त्मना॥
संजीवनं तदन्ये1545षां प्राणानां भवतीश्वरात्॥३७॥

सा हैषेति श्रुतिरतो यथोक्तार्थावबुद्धये॥
प्राणान्गयान्यतस्तत्रे गायत्रीयमतो मता॥३८॥

एवमित्यादेरर्थमाह। प्राणेति। त्रिपदा गायत्र्यधिदैवमादित्ये प्रतिष्ठिता स चाध्यात्मं चक्षुर्द्वारा प्राणे प्रतिष्ठित इत्युक्तरीत्या तौ गायत्र्यां सक्तौ तदात्मानावित्यर्थः।सा हैषेत्यादेस्तात्पर्यमाह। संजीवनमिति। गायत्रीरूपादीश्वरात्प्राणानां जीवनमित्यतस्तत्प्रतिपत्त्यर्थं वाक्यमित्यर्थः। तद्व्याचष्टे। प्राणानिति॥३७॥३८॥

उपनीतौ स आचार्यः पच्छश्चार्धर्चशस्तथा॥
सावित्रीं याममूं प्राह बटवे मन्त्रलक्षणाम्॥३९॥

साऽप्येषैव च विज्ञेया व्याख्याता या प्रयत्नतः॥
यस्मै प्राह स आचार्यस्तस्य प्राणानवत्यसौ॥४०॥

स यामेवेत्यादेरर्थमाह। उपनीताविति। पच्छः पादशः। तथा समस्तांचेति यावत्। नामरूपकर्मात्मकं जगद्दृष्टान्तयितुमपिशब्दः। व्याख्याने प्रयत्नस्तु पादशो विभजनम्। एषा सावित्री गायत्र्येवेति कुतो निश्चितमित्याशङ्क्यानन्तरश्रुत्यर्थमाह। यस्मा इति॥३९॥४०॥

एवंवित्सन्स आचार्यो यस्मा अन्वाह सादरः॥
त्रायते तस्य गायत्री वटोः प्राणान्न संशयः॥४१॥

अतः सा गायत्र्येवेति फलितमाह। एवंविदिति। गायत्र्युपासकः सन्नाचार्यःसादरो यस्मै गायत्रीमनुवक्ति तस्य सा प्राणान्यस्मात्त्रायते तस्मादियं गायत्रीत्यत्र नसंशयोऽस्तीत्यर्थः॥४१॥

माणवकस्योपनयनसमये वेदवादिनाम्॥
छन्दः प्रति विवादोऽयं तन्निर्णीतौ परा श्रुतिः॥४२॥

तामित्यादेस्तात्पर्यमाह। माणवकस्येति। माणकायोपदेश्यायामृचि यच्छन्दस्तत्प्रतीति यावत्॥४२॥

तां हैतामिति वाक्येन सावित्रीं प्रति1546दर्श्यताम्1547
अनुष्टुप्छन्दसं ब्रूयात्पूर्वपक्षप्रसिद्धये॥४३॥

तात्पर्यमुक्त्वाऽक्षरार्थमाह। तामिति॥४३॥

तामेतामेक आचार्या उपनीताय यत्नतः॥
अनुष्टुप्छन्दसं प्राहुः सावित्रीं न्यायसंश्रयात्॥४४॥

तां हैतामित्यत्र तच्छब्दस्य पूर्वकृतगायत्रीपरामर्शकत्वशङ्काव्युदासार्थं पूर्वार्धंविभज्य वाक्यं योजयति। तामेतामिति॥४४॥

वागनुष्टुब्यतः साक्षाद्वाक्च साक्षात्सरस्वती॥
उपनीताय सैवातो वक्तव्या न ततोऽपरा॥४५॥

कोऽसौ न्याय इत्याशङ्क्यवागित्यादेरर्थमाह। वागिति। वाग्वा अनुष्टुबितिश्रुतेरनुष्टुभो वाक्त्वाद्वाचश्च साक्षात्सरस्वतीरूपत्वादनुष्टुबेव माणवकाय वक्तव्या तथाचतत्सवितुर्वृणीमहे वयं देवस्य भोजनम्। श्रेष्ठं सर्वधातमं तुरं भगस्य धीमहीत्यनुष्टुप्छन्दस्कसावित्र्यर्पणे सरस्वत्येवार्पिता स्यादित्यर्थः॥४५॥

यथैतदुक्तमाचार्यैः कुर्याद्विद्वान्न तत्तथा॥
गायत्रीमेव सावित्रीं ब्रूयात्सर्वफलाप्तितः1548॥४६॥

नेत्यादिसिद्धान्तं व्याकरोति। यथैतदिति। किं तर्हि वक्तव्यं तदाह। गायत्रीमिति। यत्पुनरनुष्टुप्छन्दस्का सावित्री माणवकायार्प्यते चेत्सरस्वत्येवार्पितास्यादिति सैव वक्तव्येति तत्राऽऽह। सर्वेति। अनुष्टुभो निर्देशे सरस्वतीमात्रं प्राप्यतेगायत्रीकथने तु सकलमपि लभ्यते तेन सैव वक्तव्येत्यर्थः॥४६॥

यथोक्तायां हि गायत्र्यां कृत्स्नं जगदुपाहितम्॥
तदुक्तौ सर्वमुक्तं स्याद्यत्पुमर्थाय साधनम्॥४७॥

गायत्र्या उपदेशे सर्वाप्तिं साधयति। यथोक्तायामिति। सर्वस्य जगतो गायत्र्यामुपाहितत्वं प्रागुक्तमित्यर्थः॥४७॥

विज्ञानपुरुषस्येदं स्वभावादेव सर्वदा॥
आत्मैव हि जगत्कृत्स्नं साधारणविशेषवत्॥४८॥

भूमिरित्यादिना गायत्र्युपाधिकब्रह्मोपास्तिमुक्त्वा यदि हेत्यादिपदोक्तितात्पर्यं वक्तुंभूमिकां करोति। विज्ञानेति। तत्र श्रुतिप्रसिद्ध्यर्थो हिशब्दः॥४८॥

साधारणानि वस्तूनि तथाऽसाधारणान्यपि॥
नानुपादाय कृत्स्नानि जन्तोः काचित्क्रियेष्यते॥४९॥

कथं स्वभावतः सर्वस्य जीवस्य समष्टिव्यष्ट्यात्मकत्वं तदाह। साधारणानीति।मधुब्राह्मणे प्रपञ्चितमेतदिति भावः॥४९॥

अभिव्यक्तेः पुराऽप्येतद्रूपमासीत्स्वभावतः॥
अभिव्यक्तौ तु तत्साक्षात्समष्टिव्यष्टिलक्षणम्॥५०॥

उपास्तेरूर्ध्वं समष्टिव्यष्टिरूपता जीवस्य न प्रागिति चेत्तत्राऽऽह। अभिव्यक्तेरिति। किमर्थं तर्हि ध्यानमत आह। अभिव्यक्ताविति। प्रागेव ध्यानाधीनवस्तुव्यक्तेर्ध्यातुः स्वतः समष्टिव्यष्ट्यात्मत्वेऽपि तत्कृतायां तद्व्यक्तौध्येयमात्मरूपमुभयात्मकमपरोक्षं भवत्यतो ध्यानमर्थवदित्यर्थः॥५०॥

एवं सिद्धे महिम्न्यस्मिन्यथोक्तेनैव वर्त्मना।
कनीयस्ता विवृद्धिर्वा नैव संभाव्यते मितेः॥५१॥

अथ फलोक्तितात्पर्यमाह। एवमिति। स्वभावतः सर्वस्य चेतनस्य समष्टिव्यष्ट्यात्मत्वमित्युक्तन्यायेनाऽऽत्मरूपे सिद्धे तस्य पूर्वोक्तनीत्या गायत्र्युपासकस्य प्रामाणिकवृद्धिहान्योरयोगाद्बहुतरप्रतिग्रहेऽप्यदोष इत्यर्थः॥५२॥

ऊरीकृत्येममेवार्थं स य इत्यादिनोच्यते॥
महाप्रतिग्रहेणापि नैवंविद्दोषमृच्छति॥५२॥

सामान्येन गायत्रीविदः फलं विधाय विशेषतो विधातुं वाक्यमवतारयति। ऊरीकृत्येति। आत्मनः स्वतो वृद्ध्यादि नेत्युक्तं स्वीकृत्यानन्तरवाक्ये प्रतिग्रहकृतदोषाभावोविदुषो विवक्ष्यत इत्यर्थः॥५२॥

दर्शनस्य स्तुतिरियं स य इत्यादिनोच्यते॥
तादृक्प्रतिग्रहस्येह न क्वचित्संभवो यतः॥५३॥

नन्वेवमसत्प्रतिग्रहस्यापि विद्वद्विषये निर्दोषत्वप्रसक्तेः शूद्राद्यपादानकप्रतिग्रहनिषेधकशास्त्रविरोधः स्यादत आह। दर्शनस्येति। तत्र हेतुमाह। तादृगिति॥५३॥

प्रतिग्रहस्य निन्दा वा विद्वन्मानात्प्रसक्तितः॥
निःशेषपुण्यमोषित्वान्निषेधार्थाय कुत्स्यते॥५४॥

तात्पर्यान्तरमाह। प्रतिग्रहस्येति। विद्वानहं मम तद्बलाद्दोषः सर्वो भस्मी भवतीत्यभिमानादसत्प्रतिग्रहस्यापि प्राप्तिर्विद्वानयमिति बहुमानाद्वा तस्मै बहुदानं प्राप्तं न च ब्रह्मसाक्षात्कारादृते सर्वदोषनिबर्हि किंचिदस्त्यतोऽनेन व्याजेन प्रतिग्रहो निन्द्यते त्रैलोक्यादिपरिमितद्रव्यप्रतिग्रहकृतो भोगो न गायत्रीपदमात्रधीफलेनापि तुल्यस्तन्न प्रतिग्रहः श्रेयानिति भावः। किमर्थमिति स1549 निन्द्यते तत्राऽऽह। निःशेषेति॥५४॥

उक्तपादेष्वपि ज्ञानं नैवालमपबाधितुम्॥
गायत्रीवेदिनो जन्तोरपि भूयान्प्रतिग्रहः॥५५॥

निन्दास्तुतिपक्षयोर्निन्दापक्षो व्यक्तीकृतः संप्रति स्तुतिपक्षमनुसृत्य स्तुतिं प्रकटयति।उक्तेति॥५५॥

नैवं दाता जगत्यस्मिन्न च तादृक्प्रतिग्रहः॥
ग्रहीता वेह नैवेति कुत इत्यादिनोच्यते॥५६॥

कुत इत्यादेस्तात्पर्यमाह। नैवमिति॥५६॥

अप्यभ्युपगमे चैषां नैव दोषस्य संभवः॥
विदुषोऽस्तीत्यतः प्राह स य इत्यादिना श्रुतिः॥५७॥

कथं तर्हि स य इमानित्यादिवाक्यमत आह। अपीति। अतो दर्शनस्तुत्यर्थतयासोपपन्नेति शेषः॥५७॥

स यः कश्चिदिमाल्ँ लोकान्पूर्णान्पुंभोगसाधनैः॥
विद्वान्संप्रतिगृह्णीयात्कथंचित्कामसंप्लुतेः॥५८॥

आद्यपादपरिज्ञानमात्रस्यैव प्रतिग्रहः॥
क्षयायालं न शेषस्य गायत्रीदर्शनस्य सः॥५९॥

तां व्याकरोति। स य इति। तस्येत्यध्याहृत्य स प्रतिग्रह इति संबन्धः॥५८॥५९॥

यावतीयं त्रयी विद्या तावन्तमपि गृह्णतः॥
द्वितीयपदविज्ञानक्षतिरेव न सर्वतः॥६०॥

अथ यावतीयमित्यादि व्याचष्टे। यावतीति॥६०॥

असंभवेऽपि कल्प्येत यदि तादृक्प्रतिग्रहः॥
त्रैविद्यलक्षणः सोऽपि तृतीयं नाऽऽप्नुयात्पदम्॥६१॥

त्रयीपरिमितवस्तुप्रतिग्रहः संभावितो न भवतीत्याशङ्क्याऽऽह। असंभवेऽपीति।तादृक्प्रतिग्रहं कल्पयित्वा विद्यास्तुतिमवोचामेत्यर्थः॥६१॥

अन्तरण्डवि1550भक्तस्य यथोक्तैः स्यात्प्रतिग्रहैः॥
क्षयो नानन्तरूपस्य स्यात्समष्टिवपुर्भृतः॥६२॥

अथास्या एतदेवेत्यादेस्तात्पर्यमाह। अन्तरिति। चतुर्थपादज्ञानफलस्याऽऽनन्त्यात्तत्क्षयो न संभवतीत्यर्थः॥६२॥

परिच्छिन्नेन सर्वत्र प्रतिमानं जगत्यपि॥
अन्तवद्विषयं दृष्टं न त्वनन्तस्य कुत्रचित्॥६३॥

इतश्च तत्क्षयो नास्तीत्याह। परिच्छिन्नेनेति। सर्वत्रापि जगति घटादिवन्नश्यति

स्वर्गादीति परिच्छिन्नेनान्तवद्विषयमुपासनमुपलब्धं न च चतुर्थपादधीफलस्यानन्तस्यक्षये दृष्टान्तोऽस्तीत्यर्थः॥६३॥

अयं चानन्तमात्मानमक्षिसूर्यव्यवस्थितम्॥
अगादुपासनात्प्राणमात्मत्वेन दिवानिशम्॥६४॥

तदानन्त्यमसिद्धं ब्रह्मज्ञानफलातिरिक्तत्वात्स्वर्गादिवदित्याशङ्क्याऽऽह। अयं चेति।दिवानिशमात्मत्वेनोपासनादयमुपासकोऽनन्तं प्राणमात्मानमगादिति संबन्धः॥६४॥

संभाव्यते क्षयस्तस्य न कुतश्चिदनन्ततः॥
अन्तवान्क्षीयते लोके न त्वनन्तः कुतश्चन॥६५॥

उपास्तिफलानन्त्ये सिद्धं निगमयति। संभाव्यत इति। तदुपपादयति। अन्तवानिति॥६५॥

आवृत्तिः क्षयशब्देन दुःखप्रायासु भूमिषु॥
कैवल्यावसितेर्नासौ स्यात्समष्टिवपुर्भृतः॥६६॥

क्षयशब्दार्थोक्तिपूर्वकं फलावस्थोपासितुस्तदभावे हेत्वन्तरमाह। आवृत्तिरिति॥६६॥

उपस्थानं यथोक्ताया गायत्र्याः श्रद्धयाऽन्वितः॥
गायत्र्यसीतिमन्त्रेण कुर्यादुक्तार्थवित्सदा॥६७॥

एकद्वित्रिपद्यसीति पूर्वान्पादान्विचिन्तयेत्॥
चतुष्पात्त्वंच तुर्येण यथोक्तेन विचिन्तयेत्॥६८॥

अपदसीत्यपि गिरा तस्या आनन्त्यमुच्यते॥
अव्यया चाक्षयाऽसीति न ह्यन्तस्तेऽधिगम्यते॥६९॥

नमस्तेऽस्तु तुरीयायेत्युक्त्या तुर्यप्रधानताम्॥
गुणभावं यथोक्तस्य विद्यात्पादत्रयस्य तु॥७०॥

शत्रुनामगृहीत्यर्थमसावितिपदं त्विह।
फलोक्तिरद इत्येतदुपासितुरहं तथा॥७१॥

तस्या उपस्थानमित्यस्यार्थमाह। उपस्थानमिति। तत्र गायत्र्युपासकस्याधिकारंसूचयति। उक्तेति। तदुपस्थितेर्यादृच्छिकत्वं व्यावर्तयति। सदेति। मन्त्रत्रयं सप्तम्यर्थः॥६७॥६८॥६९॥७०॥७१॥

शत्रुणा कामितो योऽर्थो मा प्रापत्तमसाविति॥
मा समृद्ध्यथवा सोऽस्मै तं वाऽहं प्राप्नुयामिति॥७२॥

असावदो मा प्रापत्कामोऽस्मै मा समृद्ध्यहमदः प्रापमिति मन्त्रान्योजयति। शत्रुणेति॥७२॥

अभिचारार्थमेतस्मिन्नुपस्थाने यथोदिते॥
अभिधानैकदेशोक्त्या विकल्पः फलगोचरः॥७३॥

कथमेकस्योपस्थानस्य विरुद्धानेकफलतेत्याशङ्क्याभिचारार्थं चेति द्विधोपस्थानमुपेत्याऽऽद्ये फलविकल्पं दर्शयति। अभिचारार्थमिति। अभिधानानि त्रयो मन्त्रास्तेषामेकदेशोक्तिस्तयोर्मन्त्रयोरन्यतरोक्तिस्तयेति यावत्॥७३॥

स्वार्थे त्वहमद इति ह्युपस्थाने फलं भवेत्॥
अदः प्रयोजनं देवि प्राप्नुयां त्वत्प्रसादतः॥७४॥

द्वितीये फलनियममाह। स्वार्थे त्विति। तत्र सर्वत्र मन्त्रसामर्थ्यं प्रमाणयितुंहिशब्दः। अहमदः प्रापमितिमन्त्रोक्तं स्वार्थोपस्थाने फलं नियतमित्यर्थः। मन्त्रं विभजते। अद इति॥७४॥

एतावदेष किं ज्ञेयं किंवाऽन्यदपि शिष्यते॥
अस्त्यन्यदपि विज्ञेयं तद्विनाऽकृत्स्नता यतः॥७५॥

एतद्धेत्यादेराकाङ्क्षापूर्वकं तात्पर्यमाह। एतावदिति। अन्यस्य विज्ञेयत्वे हेतुः।तद्विनेति। अकृत्स्नतेति च्छेदः। यदन्तरेण गायत्रीज्ञानं पूर्णं न भवति तत्प्रतिपादनायोत्तरो ग्रन्थः॥७५॥

कार्त्स्न्येन विद्या स्वभ्यस्ता फलायालमुपासितुः॥
विपर्ययेणानर्थाय तदेतत्प्रतिपाद्यते॥७६॥

सत्यपि विज्ञेयान्तरे पूर्वोक्तैव विद्याऽभ्यस्ता फलवतीति कुतस्तद्व्यतिरेकेणाकृत्स्नतेत्याशङ्क्याऽऽह। कार्त्स्न्येनेति। उत्सर्गमुक्त्वा प्रस्तुतोपास्तिकार्त्स्न्यार्थमवशिष्टं ज्ञेयंव्युत्पाद्यतेऽनन्तरग्रन्थेनेत्याह। तदेतदिति॥७६॥

सर्वात्मकत्वाद्गायत्र्या अग्नेरपि परिग्रहः॥
तन्मुखत्वेनासंसिद्धेस्तादर्थ्येनोत्तरा श्रुतिः॥७७॥

गायत्र्याः सर्वात्मकत्वादग्नेरपि तदन्तर्भावात्किमवशिष्टमिति शङ्कते। सर्वात्मकत्वादिति। गायत्र्यन्तर्गमेन सिद्धस्यापि तन्मुखत्वेनासिद्धेरग्नेस्तद्विधानार्थमुत्तरं वाक्यमिति परिहरति। तन्मुखत्वेनेति॥७७॥

मुखविज्ञानविरहादनर्थफलकीर्तनम्॥
अग्निरेव मुखं तस्या इत्युक्त्या कृत्स्त्रतोच्यते॥७८॥

गायत्रीदर्शनस्येह फलकार्त्स्न्यंतथैव च॥
यथोक्ताग्निमुखज्ञानाद्यदीत्यादिगिराऽधुना॥७९॥

अग्नेर्गायत्रीमुखत्वं विधित्सितं चेत्तर्हिकिमर्थं हस्तीभूतो वहसीत्यनर्थफलत्वकथनमित्याशङ्क्याऽऽह। मुखेति। तस्या अग्निरेव मुखमित्यस्यार्थमाह। अग्निरेवेति। फलो-

क्तितात्पर्यमाह। इहेति। दर्शनं सप्तम्यर्थः। तस्या अग्निरित्याद्युक्त्या गायत्रीदृष्टिकार्त्स्न्योक्तिवत्तस्या दृ1551ष्टौ फलकार्त्स्न्यमुच्यते यदि हेत्यादिनेत्याह। तथैवेति। तथाच दर्शनस्यफलस्य च पूर्णत्वादेतद्दर्शनवाक्यमिति चार्थः॥७८॥७९॥

यो वेदाग्निमुखामेतां गायत्रीमग्निरेव सः॥
अग्निरिन्धनवत्सर्वं दहेद्विद्वान्प्रतिग्रहम्॥८०॥

फलश्रुतिं योजयति। यो वेदेति। अग्निरेवेत्यग्निमुखत्वोक्तिस्तत्क्रतुन्यायेन समस्तोपासकस्य व्यस्तमात्रत्वायोगादिति मन्तव्यम्। विदुषोऽग्निमुखत्वे फलितमाह।अग्निरिति॥८०॥

दाहकस्य न बह्वस्ति दाह्ययोगाभिवृद्धितः॥
क्षयश्चाशेषदाह्यस्य यस्मात्तस्मादिवेतिगीः॥८१॥

अपि वह्निवेत्यत्रेवशब्दस्य विवक्षितमाह। दाहकस्येति। क्षयश्च दाहकयोगादिति शेषः। एतेन दार्ष्टान्तिकेऽपीवकारो नेयः॥८१॥

एवंविदेवमेव स्यात्पापं वह्निवदिन्धनम्॥
सर्वं संभक्ष्य तत्पापं शुद्धः पापवियोगतः॥८२॥

दार्ष्टान्तिकं प्रपञ्चयति। एवंविदिति। उक्तरीत्या वह्निमुखीं गायत्रीं विद्वान्वह्निवदशेषं पापमपाकुर्वन्प्रजापतिरेव स्यादित्यर्थः। उक्तमेव स्फुटयति। पापमित्यादिना। यथा वह्निरिन्धनं भस्मी करोति तथा यत्पापमात्मना सृष्टं तत्पापं सर्वं संभक्ष्यशुद्धो भवतीति योजना॥८२॥

पूतोऽसंसर्गिधर्मत्वादजरोऽपरिणामवान्॥
अमृतोऽस्थूलदेहत्वात्प्राणमात्रस्वभावतः॥८३॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके पञ्चमाध्यायस्य
षोडशं ब्राह्मणम्॥१६॥

पापवियोगकृतशुद्धिफलमाह। पूत इति। पापासंबन्धाधीना शुद्धिस्तत्कार्यासंबन्धात्पूततेति भेदः। स्थूलदेहत्वाभावे हेतुः। प्राणेति॥८३॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिकटीकायां पञ्चमाध्यायस्य
षोडशं ब्राह्मणम्॥१६॥

श्लोकानामादितः समष्ट्यङ्काः—१०७११
————

अथ सप्तदशं ब्राह्मणम्।
————

यथोक्तोपासनाभ्यासभावितस्य क्रियाकृतः॥
उपस्थानं प्रवक्तव्यमित्यर्थः पर आगमः॥१॥

गायत्र्युपासनं तदुपस्थानं च फलवदुक्त्वा समुच्चयकारिणः सावित्रमाग्नेयं चोपस्थानंवक्तुं ब्राह्मणान्तरमित्याह। यथोक्तेति। उपस्थानमादित्यादिविषयमिति शेषः॥१॥

तुरीयं पदमादित्यो लोकद्वारं च येन सः॥
संभाव्यते प्रसङ्गोऽत आदित्योपस्थितेरिह॥२॥

आदित्यस्याप्रस्तुतत्वात्तदुपस्थानोक्तिरप्यप्रस्तुतेत्याशङ्क्याऽऽह। तुरीयमिति। गायत्रीचतुर्थपादत्वेन स आदित्यमागच्छतीति ब्रह्मलोकमार्गद्वारत्वेन चाऽऽदित्यस्य प्रस्तुतत्वात्तदुपस्थानोक्तिर्गायत्र्युपासनावसाने युक्तैवेत्यर्थः॥२॥

हिरण्यं ज्योतिरमृतं मण्डलेन तदात्मना॥
सत्यस्य परमार्थस्य द्वारमाच्छादितं रवेः॥३॥

तात्पर्यमुक्त्वा पदानि व्याकरोति। हिरण्यमिति। तदात्मना ज्योतिर्मयेनेतियावत्॥३॥

त्वद्दर्शनार्थिने मह्यं पूषन्द्वारमपावृणु॥
जगत्पुष्णाति वृष्ट्याद्यैः पूषाऽऽदित्यस्ततः स्मृतः॥४॥

तत्त्वमित्यादेरर्थमाह। त्वद्दर्शनेति। पूषशब्दार्थमाह। जगदिति॥४॥

सत्या अवितथा धर्मा यस्य मानव्यपाश्रयात्॥
तस्मै मे सत्यधर्माय दृष्ट्यैद्वारमपावृणु॥५॥

सत्यधर्मायेत्यादेरर्थमाह। सत्या इति। उपास्यात्मना स्थितस्य कामादीनामवैतथ्ये हेतुमाह। मानेति। सत्यसंकल्पादिश्रुतिवशादित्यर्थः। यद्वेति शास्त्राद्यस्य मेज्ञानकर्मात्मानो धर्मा न वितथास्तस्मै मह्यं त्वद्दृष्टिनिमित्तं द्वारं विवरितव्यमित्यर्थः॥५॥

हिमघर्माम्बुदानेन पुष्णातीदं यतो जगत्॥
तस्मात्पूषा यतश्चैको गच्छत्येकर्षिता ततः॥६॥

संयमात्सर्वयाम्यानां यमोऽसि परमेश्वरः॥
स्वीरणाच्छीततोयादेः सूर्यस्तेनासि घर्मदः॥७॥

प्रजापतिः परं ब्रह्म कारणं तदपत्यतः॥
प्राजापत्योऽसि तेन त्वं गीयसे विपुलश्रुतैः॥८॥

पूषन्नित्यस्यार्थमनुभाष्य चत्वारि संबोधनपदानि व्याचष्टे। हिमेति। तत्र विद्वत्प्रसिद्धिं प्रमाणयति। तेनेति॥६॥७॥८॥

रश्मीनपनुदाशेषांस्तेजः संयच्छ संहर॥
कल्याणं ते यदत्यर्थं रूपं यच्च तथैव तत्॥९॥

सदा त्वाऽहं प्रपश्यामि सत्यधर्मान्वयाद्यथा॥
भगवन्सत्यरूपेण मद्धर्मोऽपि भवांस्तथा॥१०॥

व्यूहेत्यादेरर्थमाह। रश्मीनिति। यत्ते रूपमित्यादेरर्थमाह। कल्याणमिति।यदतिशयेन कल्याणं ते रूपं तत्पश्यामि यच्च तवैवासाधारणं रूपं तद्यथाऽनुभवामिसत्यलक्षणेन धर्मेण त्वत्स्वरूपेण सदा तादात्म्यान्ममापि तथात्वात्तथा भवानपि सत्यात्मनामदभिन्नो मां सदा पश्यतु सर्वज्ञो हि भवान्प्रार्थितं जानन्योजयतु तेन मामिति योजना॥९॥१०॥

योऽसावादित्यगो देवः सोऽहमस्मीतिबुद्धिगः॥
स्थानमात्राच्च तौ भिन्नौवस्तुतो नाऽऽवयोर्भिदा॥११॥

योऽसावादित्य इत्यादेरर्थमाह। योऽसाविति। आदित्यगतो बुद्धिगतश्चेदुपास्योपासकयोर्भेदमाशङ्क्याऽऽह। स्थानेति॥११॥

देवतामनिलं यातु वायुर्योऽयं शरीरगः॥
शरीरं भस्मसाद्यातु मर्त्यत्वं ह्येतदाश्रितम्॥१२॥

वायुरित्यादेरर्थमाह। देवतामिति। वायोः सदा देवताभावस्य सत्त्वात्प्रार्थनाव्यर्थेत्याशङ्क्याऽऽह। योऽयमिति। अमृतमित्यस्य सोऽहमस्मीत्यत्र संबन्धः। अथेत्यादेरर्थमाह। शरीरमिति। तत्र हेतुमाह। मर्त्यत्वमिति॥१२॥

भस्मान्तमिति लिङ्गाच्च कर्मिणः स्यादुपस्थितिः॥
न तु संन्यासिनो न्याय्या दाहासंभवहेतुतः॥१३॥

भस्मान्तविशेषणसामर्थ्यायातमर्थमाह। भस्मान्तमितीति। अकर्मिण्यपि लिङ्गंगच्छतीत्याशङ्क्याऽऽह। न त्विति॥ १३॥

वायुरित्यादिकं ग्राह्यमुपलक्षणमेव तु॥
शिष्टानां देवांशानां यथास्वं प्रतिपत्तये॥१४॥

तथाऽन्या देवताः स्वां स्वामित्यादिभाष्यं विभजते। वायुरित्यादिकमिति॥१४॥

अग्निं स्वात्ममनःसंस्थामधुना देवतां गृही॥
प्रार्थयत्योमिति गिरा मुमूर्षुस्तत्परीप्सया॥१५॥

आदित्योपस्थानमुक्त्वा तदात्मकस्यायमग्निरित्यादौ प्रस्तुतस्याग्नेरुपस्थानं प्रस्तौति।अग्निमिति। प्रार्थनाफलमाह। तदिति॥१५॥

सर्वस्याप्यवनादों स्यादवतेरों यतस्ततः॥
क्रतुर्मनोमयत्वाच्च सा हि संकल्परूपिणी॥१६॥

ओमित्यादिवाक्यतात्पर्यमुक्त्वा तदक्षराणि व्याचष्टे। सर्वस्येति। तत्र हेतुत्वेननिष्पत्तिमोमित्यस्य दर्शयति। अवतेरिति। ततो यथोक्तार्थत्वं तस्य युक्तमिति शेषः।देवतायामोंकारशब्दस्य प्रवृत्तिमुक्त्वा क्रतुत्वं तस्य साधयति। क्रतुरिति। सेति देवतोक्तिः। तस्याः संकल्पसाध्यात्वं हिशब्दार्थः॥१६॥

ओं क्रतो इति संबोध्य स्मरेत्यत्र नियुज्यते॥
प्रकृष्टफलसंप्राप्तेः स्मृतिमात्रैकहेतुतः॥१७॥

स्मर्तव्यं स्मर तेनाद्य मरणे प्रत्युपस्थिते॥
आदरार्थं स्मरेत्यस्य पुनः पुनरुदीरणम्॥१८॥

वाक्यं योजयति। ओमिति। अत्रेति स्मर्तव्यस्मृत्युक्तिः। तत्कार्यत्वे हेतुं वदन्नियोगंस्फुटयति। प्रकृष्टेति। अनुसंहितादेव पुरुषनिष्ठाज्ज्ञान1552कर्मनिमित्तात्फलाप्तिरिति तच्छब्दार्थः। अभ्यासतात्पर्यमाह। आदरार्थमिति॥१७॥१८॥

सुपथा नय नो वह्ने सुपथेति विशेषणात्॥
उदङ्मार्गग्रहो न्याय्यः शिष्टानां पुनरागतेः॥१९॥

अग्ने नयेत्यादिना प्रार्थनान्तरमग्निविषयं दर्शयन्पदानि व्याचष्टे। सुपथेति। उपसर्गतात्पर्यमाह। सुपथेतीति। बहूक्तिर्व्यक्तिभेदाभिप्राया॥१९॥

रायेकर्मफलायेति रयिः कर्मफलं यतः॥
प्रज्ञानानि च सर्वाणि देव विद्वान्क्रियास्तथा॥२०॥

राय इत्यादि व्याचष्टे। राय इति। उक्तव्याख्याने हेतुः। रयिरिति। विश्वानीत्यादेरर्थमाह। प्रज्ञानानीति॥२०॥

कुटिलं च तथा पापमस्मत्तस्त्वं वियोजय॥
वयं तु कृतकृत्यत्वादशक्ताश्चमुमूर्षवः॥२१॥

नमउक्तिमतो भक्त्या तुभ्यं बहुतमां धिया॥
आयुषोऽन्ते विधेमाद्य क्षम देव प्रसीद मे॥२२॥

युयोधीत्यादेरर्थं कथयति। कुटिलं चेति। देवयानप्राप्तिप्रतिबन्धकत्वं कौटिल्यम्।भूयिष्ठामित्यादेरर्थमाह। वयं त्विति। स्वस्थावस्थायामेवास्माभिर्ज्ञानकर्मणोरनुष्ठितत्वादधुना च मुमूर्षादशायां कृत्यान्तरे शक्त्यभावान्मनसा भक्तिश्रद्धाभ्यां नमोमात्रंभवतेऽर्प्यते तच्च सर्वाधिकत्वेन त्वया ग्राह्यमायुरवसाने चावसन्नानां क्षमाप्रसादौ कार्यावित्यर्थः॥२१॥२२॥

मस्करीन्द्रप्रणीतस्य भवनामभृतो यतेः॥
भाष्यस्य वार्तिकोक्त्यैवमध्यायः सप्तमो गतः॥२३॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके पञ्चमाध्यायस्य
सप्तदशं ब्राह्मणम्॥१७॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यभगवत्पूज्यपादशिष्यश्रीसुरेश्वराचार्य-
विरचिते बृहदारण्यकोपनिषद्भाष्यवार्तिके पञ्चमोऽध्यायः॥५॥

बृहदारण्यकक्रमेण सप्तमोऽध्यायः॥७॥

अध्यायार्थमुपसंहरति। मस्करीन्द्रेति। मस्करो वैणवो दण्डः स एषां ते मस्करिणस्तेषामिन्द्रो भाष्यकारस्तत्कृतस्य भाष्यस्योक्तरीत्या वार्तिकोक्त्या सप्तमोऽध्यायोऽतिक्रान्त इत्यर्थः। मस्करीन्द्रसंज्ञा प्रकृष्टे परिव्राजकान्तरेऽपि स्यादित्याशङ्क्याऽऽह।भवेति। मस्करीन्द्रतेति शेषः। मन्दमध्यमोत्तमाधिकारिषु श्रेयोमार्गप्रदर्शनात्साधारण्यात्तत्रैव तत्पर्यवसानादित्यर्थः। यद्वा कस्येयं वार्तिकोक्तिरित्याशङ्क्यभवनामभृतोभाष्यकृच्छिष्यस्य सुरेश्वरनाम्नो यतेरित्याह। भवनामेति॥२३॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिकटीकायां पञ्चमाध्यायस्य
सप्तदशं ब्राह्मणम्॥१७॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यश्रीमद्भ-
गवदानन्दज्ञानकृतश्रीमद्भगवत्सुरेश्वरवार्तिकटीकायां शास्त्रप्र-
काशिकाख्यायां पञ्चमोऽध्यायः॥५॥

श्लोकानामादितः समष्ट्यङ्काः—१०७३४
————

अथ षष्ठोऽध्यायः।
————

समाप्तः सप्तमोऽध्यायः प्राप्तावसर उच्यते॥
अष्टमः खिलकाण्डेऽस्मिन्पूर्वकाण्डेष्वनुक्तितः॥१॥

ध्यानं प्राणप्रधानं फलवदिह तथाऽवादमन्यच्च वाच्यं
श्रीमन्थं पुत्रमन्थं प्रकृतमतियुजो जातभार्यस्य कर्म॥
सर्वं यत्पूर्वमुक्तं न खलु खिलविधावष्टमं तत्प्रदेष्टुं
प्रारब्धं वंशभेदप्रवचनसहितं लक्षणं लक्षणीयम्॥१॥

पूर्वोत्तराध्यायसंबन्धमाह। समाप्त इति। ओंकारो दमादित्रयं ब्रह्माब्रह्मोपासनानि तत्फलानि तदर्था गतिरादित्याद्युपस्थान1553मित्येवमर्थः सप्तमस्तावदध्यायोऽस्मिन्खिलकाण्डेऽतिवृत्तः संप्रति प्राधान्येनाब्रह्मोपासनानि सफलानि श्रीमन्थादिकर्म चानुक्तंवक्तव्यमित्यष्टमोऽध्याय आरभ्यत इत्यर्थः। सप्तमादष्टमस्याऽऽनन्तर्ये हेतुमाह। प्राप्तेति। ब्रह्मोपासनसंबन्धे विचारे प्राधान्येन व्यतीते1554 सत्यब्रह्मोपास्तिसंबन्धविचारंप्राधान्येन कर्तुमध्यायान्तरं न हि प्रधानविचाराहतेऽप्रधानविचारः संभवतीति भावः।खिलकाण्डस्यैवानुपयुक्तत्वात्कथमित्थमित्याशङ्क्याऽऽह। पूर्वकाण्डेष्विति। कर्मकाण्डेन सह बहूक्तिः। अपुनरुक्तार्थसद्भावादुपयुक्तं तदित्यर्थः॥१॥

गायत्र्याः प्राणभावोक्तिः कस्माद्धेतोः पुरोदिता॥
न तु वागादिभावोऽस्यास्तत्र हेतुरिहोच्यते॥२॥

अध्यायसंबन्धमुक्त्वाऽऽद्यब्राह्मणस्यावान्तरसंबन्धं चोद्यपूर्वकमाह। गायत्र्या इति।तत्रेति वागादित्यागेन गायत्र्याः प्राणभावोक्ताविति यावत्। इहेत्यनन्तरब्राह्मणोक्तिः॥२॥

ज्येष्ठः श्रेष्ठो यतः प्राणो न तु वागादयस्ततः॥
प्राणात्मभाव एवोक्त आनन्तर्यार्थमेव तु1555॥३॥

कोऽसौ हेतुरित्यपेक्षायामाह। ज्येष्ठ इति। यथोक्तप्राणोपासनस्यान्यशेषतेतिचेत्तत्र किमुक्थाद्युपास्तिशेषता गायत्र्युपास्तिशेषता वा मन्थकर्मशेषता वेति विकल्प्याऽऽद्यं प्रत्याह। आनन्तर्यार्थमिति। वागादिषु सत्स्वपि तत्त्यागेन प्राणस्यैवोक्थादिगुणस्योपास्तिरुक्ता तत्र हेतुत्वेन ज्येष्ठत्वाद्युच्यते न चेयमुपास्तिरुक्थाद्युपास्तिशेषो ग्रन्थानन्तर्यघटनार्थमेव हि ज्येष्ठत्वादि तन्मात्रोपास्यत्वे हेतुत्वेन संबध्यते गुणभेदात्फलभेदाच्च नास्यास्तच्छेषतेति भावः॥३॥

उपास्त्यन्तरमेवैतत्फलवत्तु विवक्षितम्॥
न तूक्तशेषतैतस्या भिन्नोपास्तित्वकारणात्॥४॥

द्वितीयं दूषयति। उपास्त्यन्तरमिति। ज्येष्ठत्वादिगुणकप्राणोपास्तिः स्वतन्त्रेस्यत्र हेतुमाह। फलवदिति। एवकारार्थमाह। न त्विति। उक्तशब्देन गायत्र्युपास्तिर्गृह्यते। षष्ठी प्राणोपासनार्था। गुणभेदाच्च भिन्नत्वे सति नास्यान्यशेषतेति हेत्वन्तरमाह। भिन्नेति॥४॥

मन्थकर्मणि ये मन्त्राः पञ्च ज्येष्ठादयः श्रुताः॥
प्राणात्मवेदिनस्तेषां प्रयोगोऽत्रोपवर्ण्यते॥५॥

तृतीयं शङ्कते। मन्येति। प्राणात्मवेदिनो यन्मन्थाख्यं कर्म वक्ष्यते तत्र ज्येष्ठायस्वाहेत्यादयो मन्त्राः श्रुतास्तेषामुपयोगोऽस्मिन्ब्राह्मणे कथ्यते तदर्थस्यात्रोपास्यत्वोक्तेरतोमन्थकर्मशेषता यथोक्तोपास्तेर्युक्तेत्यर्थः॥५॥

पृथग्वा फलनिर्देशाद्यो ह वा इति पञ्चधा॥
प्राणविद्या पृथङ्मन्थान्मन्थस्तु महिमार्थिनः॥६॥

पञ्चेति च्छान्दोग्यश्रुत्यनुसारेणोक्तं दूषयति। पृथग्वेति। वाशब्दश्चोद्यनिरासार्थः।न हि मन्थकर्मशेषता प्राणोपास्तेर्युक्ता यो ह वै ज्येष्ठं चेत्यादिना मन्थकर्मणः पृथगेवतस्या बहुधा फलाभिलापात्तद्धैश्वर्यार्थिनो वित्तसिद्धये विधीयते तस्मात्पृथगेव प्राणविद्येत्यर्थः॥६॥

फलेऽन्यस्मिन्ननिर्दिष्टे वाक्यशेषगतं फलम्॥
तस्मिन्सति हि सद्भावाद्वागादीनां न तं विना॥७॥

प्राणविदो मन्थाधिकारात्प्राणविद्याऽपि महत्त्वफलेत्याशङ्क्याऽऽह। फल इति।प्राणोपास्तेः स्ववाक्यस्थफलेनैव नैराकाङ्क्ष्यान्न वाक्यशेषस्थं महत्त्वं फलं न चाधिकृताधिकारादेकफलता दर्शाद्यधिकृतस्य गोदोहनाधिकारे तद्भेदादिति भावः। ब्राह्मणस्यस्वतन्त्रप्राणोपास्तिविषयत्वमुक्त्वा प्राणस्य ज्येष्ठत्वं व्युत्पादयति। तस्मिन्निति। प्राणविषयस्तच्छब्दः। न सत्त्वमिति शेषः। अन्वयव्यतिरेकाभ्यां प्राणज्येष्ठता सिद्धेत्यर्थः।अयमेवार्थो हिशब्देन द्योत्यते॥७॥

शास्त्रेणोक्ता शरीरेऽस्मिन्वृत्तिः प्राणस्य जीवनम्॥
पूर्वमाविशति प्राणो देहं पश्चाच्चमुञ्चति॥८॥

तत्रैव शास्त्रसंवादमाह। शास्त्रेणेति। शरीरे प्राणस्य जीवनं नाम वृत्तिर्व्यगादिवृत्तिस्तदपेक्षया शास्त्रेणोक्तेति योजना। तदेवोदाहरति। पूर्वमिति॥८॥

ज्येष्ठः श्रेष्ठश्च सर्वेषां प्राणानामाश्रयो हि सः॥
श्रेष्ठता वक्ष्यमाणेन ग्रन्थेनास्य विभाव्यते॥९॥

अन्वयादिना शास्त्राच्चोक्तं निगमयति। ज्येष्ठ इति। श्रेष्ठत्वं तस्य प्रतिजानीते।श्रेष्ठश्चेति। तत्र हेतुः। सर्वेषामिति। सर्वप्राणाश्रयता प्राणस्यासीद्धेत्याशङ्क्याऽऽह।श्रेष्ठतेति। ते हेत्यादिनेत्यर्थः॥९॥

अस्मिल्ँ लोके परस्मिंश्च वागेव न विहन्यते॥
देहान्तरस्थान्प्राणांश्चनियुङ्क्तेसा ततोऽधिका॥१०॥

यो ह वै ज्येष्ठं चेत्यादेस्तात्पर्यमुक्त्वा यो ह वै वसिष्ठामित्यादेस्तात्पर्यमाह।अस्मिन्निति। लोकद्वयेऽपि चक्षुरादिवद्वाचो न विहतिः सर्वत्र तत्प्रवृत्तेः स्वदेहस्थप्राणवदन्यदेहस्थानपि तान्नियुङ्क्ते सर्वप्रवृत्तेर्वागधीनत्वादतस्तेभ्योऽधिका सोपास्येत्यर्थः॥१०॥

श्रुतान्मतात्तथोक्ताद्वा प्रमाणं दृष्टिरात्मनः॥
चक्षुः प्रतिष्ठा ज्ञानानामात्मा तत्र प्रतिष्ठितः॥११॥

यो ह वै प्रतिष्ठामित्यादेस्तात्पर्यमाह। श्रुतादिति। मतश्रुतादेर्दृष्टिरेव स्वस्यविश्वासहेतुरतस्तत्करणं चक्षुर्ज्ञानानां प्रतिष्ठाऽऽत्मा च योऽयं दक्षिणेऽक्षन्नित्यादिनाचक्षुषि प्रतिष्ठितः श्रुतस्तथाच तदितराधिकं सदुपास्यमित्यर्थः॥११॥

वाग्वि संपद्यते श्रोत्रादश्रुतं न हि भाषते॥
स्ववृत्तेः परवृत्तेश्चसंपच्छ्रोत्रे प्रतिष्ठिता॥१२॥

यो ह वै संपदमित्यादेरर्थमाह। वागिति। श्रोत्राधीना वाक्संपत्तिरित्यत्र हेतुमाह। अश्रुतमिति। किंच स्वव्यापारद्वारिका पुरुषान्तरव्यापारद्वारिका च सर्वा संपद्भवति श्रोत्रप्रयुक्तेत्याह। स्ववृत्तेरिति। अतः श्रोत्रस्य संपद्गुणकत्वेनेतरापेक्षयोत्कर्षाद्धेयतेति भावः॥१२॥

मन आयतनं तत्र वागादीनां हि वृत्तयः॥
स्थितास्तत्पूर्विकाश्चैव ध्यायतः1556 साधनं हि तत्॥१३॥

यो ह वा आयतनमित्यादेस्तात्पर्यमाह। मन इति। करणानां विषयाणां चेतिशेषः। अत्र हेतुः। तत्रेति। उच्चारणादिक्रियास्तत्पूर्विकाश्च वृत्तयो वागादीनां मनसिप्रतिष्ठितास्तद्व्यतिरेकेण तददृष्टेरन्यथा तन्नैरर्थक्यात्तथाच मनः सर्वायतनमित्यर्थः।किंच न ध्यानसाधनं विना वागादिव्यापारो यद्धि मनसेत्यादिश्रुतेरतो मनो वागाद्यायतनत्वात्तद्गुणकं सर्वाधिक्यादुपास्यमित्याह। ध्यायत इति॥१३॥

उपस्थेन्द्रियं प्रजातिः स्यात्तस्य जन्मैकहेतुतः॥
न हि रेतो विना जन्म प्राणिनोऽत्र समीक्ष्यते॥१४॥

यो ह वै प्रजातिमित्यत्र प्रजातिशब्दार्थमाह। उपस्थेति। तत्र निमित्तमाह।

तस्येति। तदेव साधयति। न हीति। अत्रेति देहग्रहभूमिरुक्ता। प्रजननेन्द्रियं सर्वप्राणिजनकत्वगुण-योगादुत्कृष्टमुपास्यमिति भावः॥१४॥

वृत्तीनां प्राणपूर्वत्वाद्व्यपदेशाच्च तत्कृतात्॥
प्राणानां प्रथमः प्राणः स ह्यत्ताऽन्नं हि तस्य तत्॥१५॥

तत्किमिदानीमिमानि षडुपासनानि फलवन्ति मिथो भिन्नानि तथाच भिन्नानिवाक्यानि स्युरित्याशङ्क्यते हेत्यादिवाक्यतात्पर्यमाह। वृत्तीनामिति। सर्वेन्द्रियव्यापाराणां प्राणाधीनत्वात्प्राणशब्देन चेन्द्रियाणां व्यपदेशान्मुख्यप्राणस्य च तेषां भोग्यत्वात्तस्य च जीवादव्यतिरिक्तत्वेन भोक्तृत्वात्सर्वापेक्षया स्वामित्वात्प्राणानां मध्ये मुख्यप्राणः श्रेष्ठ इति तस्यैवोपास्यत्वं तच्छेषत्वेनेतरेषामिति कुतो वाक्यभेद इत्यर्थः।प्रथमो हिशब्दो मुख्यप्राणस्य जीवाभेदेनात्तृतोपपादको द्वितीयो वागादेर्भाग्यान्तर्भावेनतथात्वावेदकः॥१५॥

ते प्राणाः स्वगुणैरुक्तैर्वसिष्ठत्वादिलक्षणैः॥
श्रेयानस्म्यहमेवेति विवदन्तः परस्परम्॥१६॥

पदार्थान्व्याकरोति। ते प्राणा इति। विरुद्धं वदन्तो निर्धारयितुं न पारयन्तिस्मेति शेषः॥१६॥

निर्णयार्थाय ते ब्रह्म जग्मुरिन्द्रं प्रजापतिम्॥
को नो वसिष्ठ इति तं पप्रच्छुर्निर्णयार्थिनः॥१७॥

कथं तर्हि तेषां विवादनिवर्तको निर्णयस्तत्राऽऽह। निर्णयार्थायेति। ब्रह्मशब्दंव्याकरोति। इन्द्रमिति। अन्यत्राप्रसङ्गार्थमाह। प्रजापतिमिति। ते प्रजापतिमुपेत्य किं कृतवन्तस्तत्राऽऽह। को न इति। प्रश्नप्रापकमाह। निर्णयार्थिन इति॥१७॥

यस्मिन्व इति वाक्येन वसिष्ठत्वस्य लक्षणम्॥
प्राणेभ्यः प्राब्रवीद्ब्रह्म पक्षपातभयात्किल॥१८॥

ब्राह्मं वचो दर्शयति। यस्मिन्निति। लक्षणमुपेत्य साक्षादेव मुख्यं प्राणं किमितिवसिष्ठत्वादिगुणकं नोक्तवान्प्रजापतिः स हि सर्वज्ञ इत्याशङ्क्याऽऽह। पक्षपातेति॥१८॥

जानन्नपि वसिष्ठादिगुणवत्त्वं यथार्थतः॥
तथाऽपि नावदद्ब्रह्मस्वानुभूत्यवबुद्धये॥१९॥

लक्षणमात्रोपदेशे हेत्वन्तरमाह। जानन्नपीति। वसिष्ठादिगुणवत्त्वं यथा तथाजानन्यद्यपि वर्तते प्रजापतिस्तथाऽपीति योजना। स्वशब्देन वागादयो गृह्यन्ते॥१९॥

उत्क्रान्तेऽन्यतमे यस्मिन्प्रत्येकमपसर्पणे।
पापीयो मन्यते लोको वसिष्ठो वः समीक्ष्यताम्॥२०॥

यस्मिन्नित्यादिवाक्यतात्पर्यमुक्त्वा तदक्षराणि व्याकरोति। उत्क्रान्त इति। भवतामस्माद्देहात्प्रत्येकमपसर्पणे सति यस्मिन्नपमृते शरीरमतिशयेनपापमस्पृश्यं लोकोमन्यते स युष्माकं मध्ये वसिष्ठत्वादिगुणको ज्ञेय इत्यर्थः॥२०॥

अन्वयव्यतिरेकाभ्यां वसिष्ठत्वावबुद्धये॥
उपास्यार्थपरीक्षायै प्रवृत्तैषा परा श्रुतिः॥२१॥

वाग्वोच्चक्रामेत्यादेस्तात्पर्यमाह। अन्वयेति। ध्येयनिश्चयार्थमन्वयादिना वसिष्ठत्वादिगुणकं वस्तु निर्णेतुं परा श्रुतिरित्यर्थः॥२१॥

संहतानां क्रियासिद्धेः करणानां पृथक्पृथक्॥
नैकैकस्य क्रियासिद्धिः शिबिकोद्वाहवत्ततः॥२२॥

सा संवत्सरमित्यादौ प्रतीतसंवत्सरप्रवासाद्यपि विवक्षितमिति शङ्कां निरस्यति।संहतानामिति। मिलितानामेव करणानां क्रिया नैकैकस्य पृथक्पृथगित्यत्र दृष्टान्तः।शिबिकेति। ततः संवत्सरप्रवासाद्यविवक्षितमिति शेषः॥२२॥

प्राणप्राधान्यसिद्ध्यर्थं श्रुत्याऽऽख्यायिकच्छद्मना॥
अन्वयव्यतिरेकाभ्यां न्यायो लौकिक उच्यते॥२३॥

यथाऽकला इत्यादेस्तात्पर्यमाह। प्राणेति। अथवैकस्यैव पृथक्क्रिया न चेत्कथमुक्तं वाग्वोच्चक्रामेत्यादि तत्राऽऽह। प्राणेति॥२३॥

यथा मूका विना वाचा यथाऽन्धाश्चक्षुषा विना॥
इत्यादिवचसा प्राणे सति जीवनमुच्यते॥२४॥

लौकिकन्यायमेव दर्शयन्वाक्यं योजयति। यथेति। तस्मात्प्राणः श्रेयानितिशेषः॥२४॥

उत्क्रान्तौ च प्रवेशे च ह्यलं देहः स्वकर्मणे॥
वागादीनां न पातोऽस्य नापि चोत्थानमीक्ष्यते॥२५॥

वागादीनां श्रेष्ठत्वाभावमुपसंहरति। उत्क्रान्तौ चेति। तदुत्क्रान्तावपि देहो नपतितो न च तेषामस्मिन्प्रवेशेऽपि तस्योत्थानं दृश्यते किंतु तत्प्रवेशाप्रवेशयोः सस्वव्यापारक्षमो दृष्टोऽतो न वागादिप्राधान्यमित्यर्थः। तत्रानुभवानुरोधी हिशब्दोऽतएवेक्ष्यत इत्युक्तम्॥२५॥

उत्क्रान्ते प्राण एवास्माच्छरीरं पतति ध्रुवम्॥
उत्तिष्ठति प्रविष्टे च प्राणः श्रेयांस्ततोऽन्यतः॥२६॥

अथ हेत्यादेस्तात्पर्यं वदन्प्राणप्राधान्यं निगमयति। उत्क्रान्त इति॥२६॥

मामृते जीवितुं यूयं यद्यशक्ताः स्थ सर्वदा॥
प्रधानं तर्हिमां वित्त भवन्तश्चापराधिनः॥२७॥

ते होचुरित्यादेस्तात्पर्यमाह। मामिति॥२७॥

करं बलिं प्रधानाय दत्त वागादयोऽचिरात्॥
इत्युक्तास्ते तथेत्यूचुः सर्वस्वं ददते प्रभोः॥२८॥

अपराधनिषेधस्तर्हि कथमिति तत्राऽऽह। करमिति। तथेत्यङ्गीकारतात्पर्यमा1557ह।इत्युक्ता इति॥२८॥

त्वद्वसिष्ठतयैवाहं वाग्वसिष्ठेत्युदाहरत्॥
इत्युक्त्वाऽन्येऽपि सर्वस्वं ददुर्वागादयः सुराः॥२९॥

सा हेत्यादेरर्थमाह। त्वद्वसिष्ठतयेति। यद्वा अहमित्यादेस्तात्पर्यमाह। इत्युक्त्वेति॥२९॥

किमन्नं मे बुभुक्षोः स्याद्वासो वा मे किमीर्यताम्॥
इति प्राणवचः श्रुत्वा प्रत्यूचुः करणानि तम्॥३०॥

आ श्वभ्यो यदिदं किंचिदा कृमिभ्यश्च लक्ष्यते॥
अन्नं तद्भवतः सर्वं वयं त्वच्छेषभोगिनः॥३१॥

तस्येत्यादिप्रश्नद्वयं व्याचष्टे। किमन्नमिति। उत्तरमाह। प्राणेति। कथं तर्हियुष्मज्जीवनं तत्राऽऽह। वयमिति॥३०॥३१॥

जीवः प्राणोऽत्र संसारी भोक्तेन्द्रियमनःपरः॥
प्राणो ह्येतानि सर्वाणि भवतीति च लिङ्गतः॥३२॥

सर्वं प्राणस्यान्नं चेत्प्राणो जीवश्चेत्येकत्र भोक्तृभेदे विरुद्धाभिप्रायानेकचेतनाधिष्ठितंशरीरमनवस्थितं स्यादित्याशङ्क्याऽऽह। जीव इति। आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुरिति श्रुतेर्जीवस्यैव भोक्तृत्वात्प्राणस्यापि तत्त्वेनात्रोच्यमानस्य तदभेदो युक्तस्तच्चैकत्रभोक्तृभेदकृतदोषाभाव इत्यर्थः। प्राणशब्देन जीवोक्तौ हेत्वन्तरमाह। प्राणो हीति।सर्वेन्द्रियाणां प्राणाधारत्वश्रवणात्करणस्वामित्वस्य च जीवादन्यत्रायोगादत्र प्राणो जीवएवेत्यर्थः॥३२॥

तन्मया हीतरे प्राणास्तन्मूलास्तन्निबन्धनाः॥३३॥

एवंविदे हि नानन्नं किंचिदस्तीति दर्शनात्॥
फलं स्यात्प्राणसायुज्यं सर्वं तस्य हि भोजनम्॥३४॥

मुख्यप्राणस्यापि करणस्वामित्वं किं न स्यादत आह। तन्मया हीति। उत्पत्तिस्थितिलयेषु जीवाधीनत्वात्करणानां स एव तेषां स्वामी तमुत्क्रामन्तमित्यादिश्रुतेरित्यर्थः।फलवाक्यस्य तात्पर्यमाह। एवंविदे हीति। प्राणात्मत्वे सति विदुषः सर्वान्नत्वसंभवा-

दिति हिशब्दार्थः। सर्वं प्राणस्यान्नमित्युपासितुस्तादात्म्यं फलमित्यर्थः। प्राणात्मत्वेऽपिकथं विदुषः सर्वमिति धीस्तत्राऽऽह। सर्वमिति। भवति हि प्राणस्य सर्वमन्नं तथाचतदात्मनो विदुषोऽपि तथा स्यादित्यर्थः॥३३॥३४॥

भवत्यत्ता स सर्वस्य नान्नं भवति कस्यचित्॥
केवलेऽवस्थितेऽत्तृत्वे मृत्युनाऽपि न गीर्यते॥३५॥

सर्वस्य भोक्ता विद्वान्भोज्यश्च स्यान्नेत्याह। भवतीति॥३५॥

अद्भिः परिदधत्येनमशिष्यन्त इति श्रुतेः॥
विदधाति ह्यपां पानमपूर्वं शास्त्रलक्षणम्॥३६॥

उत्तरवाक्यनिरस्यां शङ्कामाह। अद्भिरिति। भोक्ष्यमाणं भुक्तवन्तं च प्राणमद्भिःपरिदधातीतिश्रवणादपां पानं शास्त्रं विदधाति तच्च स्मार्ताचमनादन्यदेव श्रौतमाचमनमन्यतोऽप्राप्तं विधेयं तस्मात्तद्विधायकमिदं वाक्यमित्यर्थः॥३६॥

शास्त्रं मुख्यार्थमेव स्या1558द्विध्यर्थं यदि कल्प्यते॥
युक्तः फलानुषङ्गोऽस्य वासोलाभो विधिर्यदि॥३७॥

आचामन्तीतिवर्तमानापदेशात्कुतो विधिरित्याशङ्क्याऽऽह। शास्त्रमिति। प्रवृत्त्याद्युपदेशि शास्त्रमिति स्थितेरग्निहोत्रं जुहोतीतिवदत्र विध्युपपत्तिरिति भावः। फलवत्त्वाच्चाऽऽचमने विधिरस्तीत्याह। युक्त इति। यद्याचमनस्य विधिस्तदा प्राणस्य वासो लाभो नाफ1559लानुषङ्गो युक्तो विधेस्तदनुषक्तत्वादिति योजना॥३७॥

एके च शाखिनो व्यक्तं विधिरूपमधीयते॥
मन्त्रेण प्राशनं चापामेकेषां शाखिनां मतम्॥३८॥

किंचाशिष्यन्नाचामेदशित्वा चाऽऽचामेदिति च्छान्दोग्ये विधिश्रुतेरत्रापि सस्वीकर्तव्यः सर्ववेदान्तप्रत्ययन्यायादित्याह। एके चेति। किंचाशनात्प्रागुपरिष्टाच्चामृतोपस्तरणमस्य-मृतापिधानमसीति च मन्त्रचोदितमाचमनमित्येकेऽन्ये तु मन्त्रहीनमेव तदपूर्वंविधेयमित्याहुस्तदस्ति तस्मिन्विधिरित्याह। मन्त्रेणेति॥३८॥

अन्नदर्शनवच्चैके वासोदृष्टिं प्रचक्षते॥
प्रायत्यार्थमपां पाने दृष्टेः प्रकरणादिह॥
सर्वाभक्ष्यप्रसक्तिः स्याद्यदि कर्म विधित्स्यते॥३९॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके षष्ठाध्यायस्य
प्रथमं ब्राह्मणम्॥१॥

श्रौतमाचमनमिहापूर्वं विधेयमिति पूर्वपक्षिते सिद्धान्तमाह। अन्नदर्शनवदिति

यथा सर्वं प्राणस्यान्नमिति दृष्टिरेव विधीयते तथा शुद्ध्यर्थे स्मार्ताचमने सतितदनुवादेनाऽऽचमनीयास्वप्सु वासोदृष्टिर्विधीयते दृष्टेरत्र प्रकृतत्वात्कार्याख्यानादपूर्वमिति च न्यायादित्यर्थः। दृष्टान्ते विवदमानं प्रत्याह। सर्वेति। प्राणविदः सर्वान्नभक्षणं विधीयते चेदभक्ष्यस्यापि लशुनादेर्भक्ष्यत्वप्रसङ्गादभक्ष्यभक्षिणः क्रिमयो भवन्तीत्यादिनिषेधविरोधो न च प्राणविदोऽन्यत्र निषेधस्तस्यापि सर्वभक्षणप्रापकाभावाद्वाक्यस्य साधारणनिषेधविरोधे विद्यास्तावकस्य स्वार्थे मानत्वायोगान्न चानापदि कस्यचिदपि सर्वभक्षणं सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनादित्यर्थः॥३९॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिकटीकायां षष्ठाध्यायस्य
प्रथमं ब्राह्मणम्॥१॥

श्लोकानामादितः समष्ट्यङ्काः—१०७७३
—————

अथ द्वितीयं ब्राह्मणम्।
————

यन्न संभावितं पूर्वं वस्तुप्राधान्यहेतुतः॥
वक्तुं तदत्र वक्तव्यं खिलकाण्डाधिकारतः॥१॥

उत्तरब्राह्मणस्य संबन्धोक्त्यर्थं काण्डार्थमनुवदति। यन्नेति। कर्मकाण्डे ज्ञानकाण्डे वा यद्वस्तु प्राधान्येन न वक्तुं संभावनोपनीतं तदस्मिन्काण्डे वक्तव्यमस्य खिलकाण्डत्वादनुक्तकथनार्थवत्त्वेनाऽऽरब्धत्वादित्यर्थः। यद्वा यत्पूर्वं ज्ञानकाण्डे वक्तुंन संभावितं तस्य वस्तुप्राधान्यत्वात्तदत्र क्रियारूपं वाच्यं तादर्थ्येनास्याऽऽरम्भादित्यर्थः॥१॥

सप्तमावसितावुक्तं मार्गप्रार्थनमग्नितः॥
सुपथेति श्रुतं तत्र श्रुत्या मार्गविशेषणम्॥२॥

संप्रति ब्राह्मणार्थमनुक्तं वक्तुमनन्तराध्यायसमाप्तावुक्तमनुभाषते। सप्तमेति।समुच्चयकारिणो मुमूर्षोरग्निप्रार्थनेऽपि किं स्यादित्याशङ्क्यविशेषणत्वं दर्शयति।सुपथेति॥२॥

संभवे व्यभिचारे च विशेषणविशेष्ययोः॥
दृष्टं विशेषणं लोके यथेहापि तथेक्ष्यताम्॥३॥

तथाऽपि किमायातमित्याशङ्क्याऽऽह।संभव इति। नीलमुत्पलमित्यत्र विशेषणविशेष्ययोः संभवे विशेषणं विना विशेष्यस्य व्यभिचारे प्रसक्ते नीलमितिविशेषणमथर्वद्दृष्टं तथा सुपथा नयेत्यत्रापि व्यभिचारसंभवे विशेषणमर्थवज्ज्ञेयमित्यर्थः॥३॥

सुपथेति ततो युक्तं संभवे भूयसां पथाम्॥
विशेषणमतो वाच्याः पन्थानः कर्महेतवः॥४॥

अस्तु तर्हीदमपि व्यावर्तकमेवेति तत्राऽऽह। सुपथेति। विशेषणस्य व्यावर्तकत्वं ततःशब्दार्थः। विशेषणवशाद्बहवो मार्ग भान्ति तेषामभिधानाय ब्राह्मणमितिफलितमाह। अत इति॥४॥

दक्षिणोदगधोमार्गा विहितप्रतिषिद्धयोः॥
विपाकाः कर्मणोर्वाच्यास्तद्वैराग्यप्रसिद्धये॥५॥

के ते मार्गायेषां निरूपणमिष्यतेऽत आह। दक्षिणेति। तेषां स्वरूपमाह।विहितेति। तदुक्तिफलमाह। वाच्या इति। तच्छब्दः कर्मफलार्थः॥५॥

नाविरक्तस्य निःशेषसांसारिकपुमर्थतः॥
प्रवृत्तिर्मुक्तये तस्माच्छ्रुत्या यत्नात्तदुच्यते॥६॥

वैराग्योक्तिरकिंचित्करेति चेन्नेत्याह। नेत्यादिना। संसारगतिभेदेषु दुःखबहुलेषूक्तेषु विवेकिनो वैराग्यसिद्धिस्तच्च मुमुक्षुत्वहेतुरतः श्रुत्या कर्मविवेकाद्वैराग्यं विवक्षितमित्यर्थः॥६॥

शक्नुवन्ति न कर्माणि सर्वकामसमापनम्॥
निषेद्धुं वाऽखिलानर्थांस्तत्फलस्यातिफल्गुतः॥७॥

कर्मवशादेवाशेषपुरुषार्थसंभवान्न तद्विपाकविषयं वैराग्यं युक्तमित्याशङ्क्याऽऽह।शक्नुवन्तीति॥७॥

न कर्म कारणं मुक्तेर्नाग्निर्दाहज्वरापनुत्॥
कर्मभ्यो जन्म नियतं जन्म चेन्निर्वृतिः कुतः॥८॥

तेषां मुक्तिफलत्वाद्धेत्वसिद्धिरित्याशङ्क्याऽऽह। नेति। तदेव साधयति।कर्मभ्य इति॥८॥

न कर्मणा कनीयस्ता महत्त्वं चान्तरात्मनः॥
इति बाहुमिवोद्धृत्य वेदान्तैर्घोषणा कृता॥९॥

आत्मरूपे मोक्षे कर्माफलमित्यत्र प्रमाणमाह। न कर्मणेति॥९॥

न तत्र दक्षिणा यन्ति विद्ययैव तदाप्यते॥
इति श्रीयाज्ञवल्क्येन मुक्तकण्ठमुदाहृतम्॥१०॥

तत्रैव स्मृतिमुदाहरति। न तत्रेति॥१०॥

अतो मुक्तिं परीच्छद्भिरुत्पत्त्यादिविरोधिनीम्॥
त्यक्त्वा कर्माण्यथैकात्म्यज्ञानं सर्वात्मनाऽऽश्रयेत्॥११॥

मोक्षस्याकर्मायत्तत्वे फलितमाह। अत इति। त्याज्यानि कर्माणीति शेषः। तदनन्तरकार्यमर्थमाह। त्यक्त्वेति। श्रवणादिकार्यद्योतकोऽथशब्दः। सर्वात्मनेत्यन्तर्बहिर्व्यापारान्तराभावं द्योतयति। ब्रह्मसंस्थोऽमृतत्वमेतीति हि श्रुतिः॥ ११॥

तमोन्तरायतो मुक्तेर्नान्तरायोऽपरोऽस्ति हि॥
तमोहतिर्न कर्मभ्यो ज्ञानात्सा व्यञ्जकत्वतः॥१२॥

मोक्षे कर्मानुपयोगेऽपि तद्व्यवधिभङ्गे तदुपयुक्तमित्याशङ्क्याऽऽह। तमोन्तरायतइति। अन्तरायान्तरस्याप्रमाणकत्वद्योतको हिशब्दः। कर्मणामव्यञ्जकत्वात्तेभ्यस्तमोहतेरयोगाज्ज्ञानस्य व्यञ्जकत्वात्तस्मात्तत्सिद्धिर्व्यवधानान्तरं त्वप्रामाणिकमित्यर्थः। सुपथेतिविशेषणप्राप्तबहुमार्गनिरूपणाय ब्राह्मणमित्येकः संबन्धः। ज्ञानस्यैव मुक्तिहेतुताकर्मणां बन्धफलत्वेन तत्रानन्वयादिति वक्तुं तदित्यपरः॥१२॥

न तु त्वमेतयोर्वेत्थेत्युत्क्रान्त्यादिस्वलक्षणम्॥
षड्विधं परिणामार्थमग्निहोत्राहुतीहयोः॥१३॥

एवं संबन्धद्वयमुक्त्वा संबन्धान्तरं वक्तुमग्निहोत्रप्रकरणे वृत्तमनुवदति। न त्विति। षट्प्रकारमुत्पत्त्यादिस्वरूपं जगदग्निहोत्राहुत्यपूर्वपरिणामात्मकं न जानासीति साक्षेपःप्रश्नो न त्वित्यादिवाक्येन याज्ञवल्क्यं प्रति कृतो जनकेनेत्यर्थः॥१३॥

इतिप्रश्नप्रतिवचस्ते वा इत्यादिकं जगौ॥
लोकं प्रत्युत्थितं या1560वदग्निहोत्राहुतीहयोः॥१४॥

परिहारवाक्यमवतारयति। इतिप्रश्नेति। तस्य परिणामं दर्शयति। लोकमिति॥१४॥

अपूर्वपरिणामोऽयमग्निहोत्राख्यकर्मणः॥
उत्क्रान्त्यादिगिरेहोक्त आलोकोत्थानवाक्यतः॥१५॥

तद्व्याकरोति। अपूर्वेति। अयमिति षट्प्रकारप्रपञ्चोक्तिः। इहेत्यग्निहोत्राधिकारोक्तिः॥१५॥

आहुत्योरग्निहोत्रस्य ह्यन्तरिक्षादिभेदतः॥
आ लोकोत्थानतः श्रुत्या उक्ताऽपूर्वस्य विक्रिया॥१६॥

उक्तं प्रपञ्चयति। आहुत्योरिति। अग्निहोत्रस्य द्वे सायं प्रातराहुती तयोरपूर्वस्यान्तरिक्षद्य्वादि1561लक्षणं लोकं प्रत्युत्थानादा ष1562ड्विधा जगदात्मिका विक्रिया प्रश्नप्रत्युक्तिरूपया श्रुत्योक्तेति योजना। उक्तयोराहुत्योः श्रुतिसिद्ध्यर्थो हिशब्दः॥१६॥

तदेवोक्तमिहाऽऽलम्ब्य तदग्नीक्षणसिद्धये॥
श्वेतकेतुरिति ग्रन्थः पर आरभ्यतेऽधुना॥१७॥

षट्प्रश्नीये ग्रन्थे सर्वं जगदग्निहोत्रापूर्वपरिणाम इति प्रश्नप्रत्युक्तिभ्यां प्रतिपादितमित्युक्तमिदानीमस्य ब्राह्मणस्य तेन संगतिमाह। तदेवेति। तच्छब्दो जगदर्थः।इहेति खिलकाण्डोक्तिः। तस्मिञ्जगति पञ्चधा विभक्तेऽग्निदृष्टिसिद्ध्यर्थमिति यावत्।श्वेतकेतुरित्यस्मादारभ्यानन्तरो ग्रन्थ इति योजना॥१७॥

पञ्चाग्निविद्या यत्नेन वृद्धेनाब्राह्मणादपि॥
हित्वा धनं च मानं च लब्धेत्युक्तिः स्तुतिर्धियः॥१८॥

ब्राह्मणतात्पर्यमुक्त्वाऽऽख्यायिकातात्पर्यमाह। पञ्चेति। यत्नो लोकगमनोपगमनकर्तृतादितात्पर्यम्॥१८॥

परिणामो हि पाकेन पाकश्च न विनाऽग्निना॥
दर्शनात्परिणामस्य पक्ता सर्वत्र पावकः॥१९॥

पञ्चसु द्युलोकादिष्वग्निशब्दो नोपपद्यते तेषामनग्नित्वादित्याशङ्क्याऽऽह। परिणामो हीति। सर्वो हि परिणामः पाकाधीनो न चाग्निं विना पाको द्युलोकाद्यधीनश्चदेहाख्यः परिणामो दृष्टः पञ्चम्यामाहुत्यामित्यादिश्रुतेस्तथाचाग्निरेव पक्तेति नियमाद्युक्तस्तेष्वग्निशब्द इत्यर्थः। पाकस्याग्न्यधीनत्वं परिणामस्य पाकाधीनत्वं च लोके प्रसिद्धमिति हिशब्दार्थः॥१९॥

समाप्ताशेषविद्यं हि समावर्त्य पिता सुतम्॥
समाप्ताशेषविद्योऽसीत्येवमाहोत्ससर्ज च॥२०॥

आख्यायिकाक्षराणि व्याचिख्यासुर्भूमिकां करोति। समाप्तेति। अशेषशब्देन पुराणन्यायसहितवेदोक्तिः। श्वेतकेतोर्विद्यावैशद्यमन्येषामपि प्रतिपन्नमिति प्रकटयितुंहिशब्दः। तस्य संदेहापोहार्थं समाप्तेत्यादि पितृवचनं तस्य स्वातन्त्र्यापादनमुत्सर्गः॥२०॥

निकषोपलसंस्थेषु वेदवित्सु परीक्ष्यताम्॥
विद्येयं यत्नतो वत्स द्रढिम्ने मच्छ्रुतस्य च॥२१॥

तमुत्सृजतो गौतमस्याऽऽशयं दर्शयति। निकषेति। सुवर्णपरीक्षापाषाणस्थानीयेषुतेष्वतिनिर्बन्धेन बुद्धिविकाशोदयसमाधानं यत्नः। परीक्षाफलमाह। द्रढिम्न इति।मत्तस्त्वया श्रुतस्येति यावत्॥२१॥

प्रसिद्धाऽतीव विद्वत्ता पञ्चालब्राह्मणेषु हि॥
तामेव परिषदं तस्मादाजगाम त्वरान्वितः॥२२॥

विद्वत्परिषदन्तरेषु सत्सु किमिति पञ्चालपरिषदमेव श्वेतकेतुरागतवानित्याशङ्क्यपदानि व्याचष्टे। प्रसिद्धेति। हिशब्दो यस्मादर्थः। विजिगीषातिशयं सूचयति।त्वरेति॥२२॥

पञ्चालब्राह्मणाञ्जित्वा विद्योत्कर्षैकहेतुतः॥
राजानमपि जेष्यामीत्याजगाम नृपं ततः॥२३॥

तस्याऽऽगच्छतोऽभिप्रायमाह। पञ्चालेति। ब्राह्मणजयानन्तर्यं ततःशब्दार्थः॥२३॥

तं जिगीषुं समायान्तमुन्मार्गे संस्थितं द्विजम्॥
सन्मार्गप्रतिपत्त्यर्थं राजोवाच स्वशास्त्रतः॥२४॥

तमित्यादेरर्थमाह। तं जिगीषुमिति। द्विजस्य सशमादियोगस्य दर्पाधिक्याज्जिगीषयाऽऽगमनमेवोत्पथवृत्तत्वम्। उन्मार्गगा प्रजा सन्मार्गे संक्रमणीयेति राजकृत्यं सूचयति। राजेति। स्वशास्त्रतो जिगीषुमिति संबन्धः॥२४॥

आमन्त्रयामास च तं कुमारा३ इति बालवत्॥
प्रतिशुश्राव सोऽप्युक्तो भो३ इत्युक्त्या गुरुं यथा॥२५॥

प्लुत्या निगृह्णन्कुमारपदेन विप्रं राजा संबोधितवानित्याह। आमन्त्रयामासेति।कोपाविष्टत्वादयोग्यमपि प्रतिश्रवणं तं प्रति श्वेतकेतुरकरोदित्याह। प्रतिशुश्रावेति॥२५॥

दर्पोत्सेकसमावेशान्नानुशिष्टोऽयमादरात्॥
पित्रेतिजातसंदेहः पर्यपृच्छदतो नृपः॥२६॥

अनुशिष्टो न्वित्यादिवाक्यमादत्ते। दर्पेति। यथोक्तसंदेहस्य प्रश्ननिमित्तत्वमाह।अत इति॥२६॥

अनुशिष्टोऽसि किं पित्रा उताहो नेति भण्यताम्॥
नानुशिष्टस्य जगति वृत्तमीदृक्समीक्ष्यते॥२७॥

प्रश्नं व्याकरोति। अनुशिष्टोऽसीति। कल्पद्वयस्पष्टतायै विसंधिकरणम्। नायंसंशयो मदनुशासनस्य प्रसिद्धत्वादित्याशङ्क्याऽऽह। नेति। ईदृगिति दर्पोत्सेकसाचिव्यमाह॥२७॥

बाढं पित्रानुशिष्टोऽस्मि किं न पश्यसि मज्जयम्॥
त्वत्पण्डितेषु सर्वेषु पृच्छ मां यदि शङ्कसे॥२८॥

ओमित्यादेरर्थमाह। बाढमिति। अनुशासने राज्ञोऽपि ज्ञानयोग्यं लिङ्गमाह।किं नेति। न केवलं तेष्वेव मे जयः किंतु त्वय्यपीति मत्वाऽऽह। पृच्छेति॥२८॥

एवं राज्ञो यथोक्तोक्त्या ह्यभ्युपेतेऽनुशासने॥
श्वेतकेतुमथाप्राक्षीत्पञ्चप्रश्नान्क्रमान्नृपः॥२९॥

वेत्थेत्यादि प्रश्नजातमुत्थापयति। एवमिति। अनुशिष्टोराज्ञो यथोक्तोक्तिस्तयाऽनुशासने पितृकर्तृके स्वीये श्वेतकेतुनोपेते सतीति यावत्। ओमित्यङ्गीकारमेवंशब्देन परामृशति। तदङ्गीकारे पितृकर्तृकोपदेशस्य प्राक्प्रवृत्तत्वं हेतुरितिद्योतको

हिशब्दः। अनुशासनाङ्गीकारानन्तरं प्रश्नावसरं सूचयति। अथेति। तेषामसांकर्यात्प्रतिपत्तिसौकर्यं द्योतयति। क्रमादिति॥२९॥

अनुशिष्टोऽसि चेद्ब्रूहि तुल्येऽपि मरणे प्रजाः॥
यथा विप्रतिपद्यन्ते भिन्नवर्त्मप्रभेदतः॥३०॥

तत्राऽऽद्यं प्रश्नं व्याकरोति। अनुशिष्टोऽसीति। सर्वासां प्रजानां मरणे तुल्येऽपिमार्गभेदप्रतिपत्त्या यथा ता विप्रतिपद्यन्ते तथा किं जानासि यदि त्वमस्मिन्विषयेपित्राऽनुशिष्टस्तर्हि ब्रूहीत्यर्थः॥३०॥

येन कर्मविशेषेण समानायां मृतौ प्रजाः॥
अन्या अन्येन संयान्ति यथाऽन्येनापरास्तथा॥३१॥

तदेव प्रपञ्चयति। येनेति। तं कर्मविशेषं जानासि चेद्ब्रूहीति शेषः॥३१॥

त्वयोक्तं न विवेदाहं नानुशिष्टिरिहास्ति मे॥
वेत्थेह ता यथा भूय आवर्तन्ते प्रजा इति॥३२॥

श्वेतकेतुराह। त्वयेति। ज्ञानाभावे हेतुः। नेति। प्रश्नान्तरमाह। वेत्थेति। तामृताः प्रजा लोकान्तरं प्रस्थिता यथा पुनरिहाऽऽवर्तन्ते तथा किं वेत्थेति योजना। इतिशब्दो वाक्यसमाप्तौ॥३२॥

यथा येन मृताः सत्यो हेतुनाऽनेन च प्रजाः॥
तं वेत्थ स्विन्नवेत्युक्तो नेति होवाच तं पुनः॥३३॥

तद्व्याकरोति। यथेति। प्रजा आवर्तन्त इति पूर्वेण संबन्धः। तमित्यागतिमार्गं तद्धेतुंचाऽऽह। तं वेत्थेति। श्वेतकेतुस्तु पूर्ववदुक्तवानित्याह। नेतीति॥३३॥

प्रयद्भिरसकृद्भूतैर्महद्भिर्बहुभिः सदा॥
नैवासौ पूर्यते लोको यथा वेत्थ तथाऽत्र किम्॥३४॥

तृतीयप्रश्नार्थमाह। प्रयद्भिरिति। अस्य व्याख्या। महद्भिरिति॥३४॥

नेति होवाच पृष्टः सन्राजा पप्रच्छ तं पुनः॥
हुतायामाहुतौवेत्थ यतिथ्यांपुरुषाभिधाः॥३५॥

परकीयं वचोऽनूद्य चतुर्थप्रश्नमुत्थापयति। नेतीत्यादिना। यतिथ्यामाहुतौ हुतायामापः पुरुषाभिधाः समुत्थाय वदन्ति तथा किं वेत्थेति राजा पृष्टवानिति योजना॥३५॥

आप एव समुत्थाय पुरुषाकृतयो हुताः॥
प्रवदन्ति यथा वेत्थ तथाऽऽशु प्रतिपद्यताम्॥३६॥

प्रश्नं प्रपञ्चयति।आप एवेति। यत्संख्याकायामाहुतौ हुतायामापो हुताः पुरुषाकारास्तच्छब्दवाच्या भूत्वा यथा वदनादि कुर्वन्ति तथा तत्संख्याकाहुत्यादिप्रकारं प्रतिपद्यसे चेत्प्रतिपादयेत्यर्थः॥३६॥

राजानं नेति होवाच नाहं वेद्मि त्वयोदितम्॥
पर्यपृच्छदतो राजा शान्तदर्पं द्विजं पुनः॥३७॥

पथस्त्वं देवयानस्य पितृयाणस्य वाऽञ्जसा॥
वेत्थ प्रतिपदं किंवा न वेत्सीत्यभिधीयताम्॥३८॥

परस्योक्तिमवतार्य व्याचष्टे। राजानमिति। प्रश्नान्तरं व्याकरोति। पर्यपृच्छदिति। दर्पशान्तौ पूर्वोक्ताज्ञानं हेतुं करोति। अत इति। अवशिष्टदर्पलेशशैथिल्यार्थंप्रश्नान्तरमिति द्योतयति। पुनरिति॥३७॥३८॥

प्रतिपद्वचनस्यार्थं यत्कृत्वेत्यादराच्छ्रुतिः॥
व्याचष्टे देवयानादिप्रतिपत्तौ क्रियैव सा॥३९॥

केयं प्रतिपन्नाम तत्राऽऽह। प्रतिपदिति। प्रतिपदः संक्षिप्ताया विवरणादादरो विधेर्ज्ञेयः। श्रुत्युक्तां प्रतिपदं संक्षिप्याऽऽह। देवयानादीति। क्रियाशब्देनेष्टापूर्तदत्तोपासनान्युच्यन्ते॥३९॥

स्वाभ्यूह इति मा शङ्कीर्यतो मार्गद्वयेऽपि नः॥
ऋषेर्मन्त्रस्य श्रवणमस्ति तच्च विभाव्यते॥४०॥

मार्गद्वयमप्रामाणिकं व्यामोहार्थं त्वदुत्प्रेक्षितमित्याशङ्क्याऽऽह। स्वाभ्यूहइति॥४०॥

द्वे सृतीअशृणवं साक्षात्संबन्धिन्यौ दिवौकसाम्॥
पितॄणां चापि मर्त्यानां मार्गौतावधिकारतः॥४१॥

मन्त्रं व्याकरोति। द्वे इति। देवादिवन्मर्त्यानामपि तत्संगतिश्चेत्प्राप्यकोटिप्रवेशाद्मन्त्रभावः स्यादित्याशङ्क्याऽऽह। अधिकारत इति॥४१॥

ताभ्यां सर्वमिदं गच्छद्यथाकर्म यथाश्रुतम्॥
समेति मध्ये भोगाय रोदस्योः कर्मणो जगत्॥४२॥

अधिकृतानां मार्गान्तरं वारयति। ताभ्यामिति। केन पथाकस्य गमनमितितत्रा1563ऽऽह। यथेति। कर्मणो भोगाय द्यावापृथिव्योर्मध्ये जगत्समेतीति संबन्धः॥४२॥

त्वदुक्तात्प्रश्नगणतो न वेद्म्येकमपीरितम्॥
प्रश्नं मा मामतः प्राक्षीरित्युक्त्वाऽवाक्शिरा ह्यभूत्॥४३॥

नाहमित्यादेरर्थमाह। त्वदुक्तादिति। चनशब्दसूचितमाह। मा मामिति। अतइत्यज्ञानपरामर्शार्थः। अज्ञानकृतलज्जाधीनमवाक्शिरस्त्वमिति द्योतकोहिशब्दः॥४३॥

निर्धूताशेषकलुषं शान्तदर्पं समीक्ष्य तम्॥
वसत्याऽऽमन्त्रयांचक्र उष्यतामिति पार्थिवः॥४४॥

अथैनामेत्यादेरर्थमाह। निर्धूतेति। कालुष्याभावे हेतुमाह। शान्तेति। तत्रानुभवं प्रमाणयति। समीक्ष्येति॥४४॥

ह्रीतो रोषाच्च तद्वाक्यं वसत्यर्थमुदीरि1564तम्॥
अनादृत्य प्रदुद्राव यत्राऽऽस्ते गौतमः पिता॥४५॥

अनादृत्येत्यादि व्याचष्टे। ह्रीत इति॥४५॥

प्राप्याथ पितरं रोषात्साभ्यसूयं निराह सः॥
इति वावेति वचनं पूर्वोत्तरविरोधतः॥४६॥

तं होवाचेत्यस्यार्थमाह। प्राप्येति। रोषे राज्ञोक्तार्थाज्ञानं हेतुमाह। अथेति।अभ्यसूयासहितं किमाहैतदाह। इति वावेति। पूर्वोत्तरविरोधभ्रान्त्या वाक्यमितिवावेत्यादि पितरं प्रति श्वेतकेतुरुक्तवानित्यर्थः॥४६॥

इतीत्युक्तपरामर्शो वाकोवाक्यं नृपेरितम्॥
अप्रात्यक्ष्यात्किलेत्युक्तिरनुमानाद्धितद्गतिः॥४७॥

इतिशब्दार्थमाह। इतीत्युक्तेति। उक्तशब्देन प्रश्नसमुदायो वा पितृवाक्यं वोच्यते।वावशब्दार्थमाह। वाकोवाक्यमिति। तर्कशास्त्रं हि वाकोवाक्यं तेन चात्र प्रश्नसमुदायो राजोक्तो लक्ष्यते तं लिङ्गत्वेनाऽऽदाय पितृवाक्यं समाप्ताशेषविद्योऽसीत्येवंरूपंविरुद्धतया स्मर्यत इत्यर्थः। किलेत्यस्यार्थमाह। अप्रात्यक्ष्यादिति। राजोक्तप्रश्नाज्ञानलिङ्गेन पित्रभिहितमनुशासनमसदिति गम्यते न हि तस्यासदनुशासनत्वं प्रत्यक्षं किंतूक्तलिङ्गादेव तद्धीस्तस्मात्किलेत्युक्तिर्युक्तेत्यभिप्रायः। पित्रनुशास्तेराभासत्वमप्रत्यक्षमित्येतदुपपादयति। अनुमानादिति॥४७॥

नृपोक्त्यभिभवाल्लिङ्गाद्वञ्चितोऽस्मीति लिङ्ग्यते॥
यथावदनुशिष्टस्य नाभिभूतिर्यतोऽन्यतः॥४८॥

ननु पिता हितमेव सुतं प्रत्युपदिशति कथं तदनुशासनस्याऽऽभासत्वं शङ्क्यतेतत्राऽऽह। नृपेति। वञ्चितःपित्रेति शेषः। अनुशासनं पित्रा कृतं न वञ्चनं त्वदपराधात्तु ते नृपादभिभूतिरित्याशङ्क्याऽऽह। यथावदिति। अतो न यथावदनुशिष्टिरिति शेषः॥४८॥

तं मामननुशिष्यैव किमित्युक्तं त्वया पुरा॥
अनुशिष्टोऽसिपुत्रेति वञ्चितोऽस्मीत्यतो म1565तिः॥४९॥

यद्यपि यथावदनुशिष्टिर्न कृता तथाऽपि कथं मया पुत्र वञ्चितस्त्वमित्याशङ्क्याऽऽह। तं मामिति। अनुशासनमकृत्वैवानुशिष्टोऽसीति वदता वञ्चितोऽहमित्यर्थः॥४९॥

कथं त्वं नानुशिष्टोऽसि ब्रूहि तत्कारणं मम॥
पञ्च मामित्यतोऽवोचद्यथा ह्यननुशासनम्॥५०॥

कथमित्यादेरर्थमाह। कथमिति। पञ्चेत्यादेस्तात्पर्यमाह। पञ्चेति। पितृप्रश्नानन्तर्यमतःशब्दार्थः। पितुरननुशासनद्योतकं पुत्रवचनमिति हिशब्दार्थः॥५०॥

प्रश्नास्ते कतमे वत्स यांस्त्वं न ज्ञातवानसि॥
प्रश्नप्रतीकानवदत्पृष्टः पित्रा समासतः॥५१॥

पित्रा कृतस्य प्रश्नान्तरस्यार्थमाह। प्रश्ना इति। इम इति हेत्यादेरर्थमाह। प्रश्नेति।प्रतीकशब्देनैकदेशोक्तिः। समासतोऽवददिति संबन्धः॥५१॥

ब्राह्मणज्ञानतोऽन्यत्र विद्यां पप्रच्छ भूमिपः॥
न हि ब्राह्मणविज्ञाने किंचिदस्ति त्वयाऽगतम्॥५२॥

स होवाचेत्यस्यार्थमाह। ब्राह्मणेति। ननु तैरधिगन्तव्येऽपि ज्ञाने ममावशिष्टमस्तीति राजोक्तप्रश्नाज्ञानात्कल्प्येत ने1566त्याह। न हीति॥५२॥

इत्येतद्धृदये कृत्वा तथा न इति सोऽवदत्॥
मा शङ्किष्ठास्ततो मां त्वं नोक्तं सर्वं ममेति हि॥५३॥

तथेत्यादिवाक्यमादत्ते। इत्येतदिति। तस्यार्थमाह। मा शङ्किष्ठा इति।ब्राह्मणस्थस्य सर्वस्य ज्ञानस्य त्वय्यर्पितत्वादिति ततःशब्दार्थः। शङ्काभावे पितापुत्रसंबन्धहेत्वन्तरं वक्तुं हिशब्दः॥५३॥

प्रेहि तत्र गमिष्यावस्तद्विद्यालब्धिसिद्धये॥
ब्रह्मचर्यं च वत्स्याव आवां तत्र नृपे गतौ॥५४॥

प्रेहीत्यादेरर्थमाह। प्रेहीति। तत्रेति राजधानीनिर्देशः। गतिफलमाह। तद्विद्येति।तदर्थं कार्यं दर्शयति। ब्रह्मचर्यं चेति। गतावावामिति संबन्धः। पाषाणा वृक्षेष्वितिवत्संनिध्यर्था सप्तमी॥५४॥

यातु तत्र भवानेव नाहं तं गन्तुमुत्सहे॥
इत्युक्तः सूनुना ह्रीतः स्वयमेव जगाम तम्॥५५॥

ससंभ्रमः स चोत्थाय तस्मा आसनमाहरत्॥
अप आहारयांचक्र अर्घ्यपाद्यार्थसिद्धये॥५६॥

सत्कृत्य च यथाशास्त्रं राजाऽथ तमुवाच ह॥
वरं कामं प्रयच्छामो यः कामो वाञ्छितस्त्वया॥५७॥

ऋषिराहाथ राजानं कामितार्थस्य सिद्धये॥
प्रतिज्ञातो वरस्तावद्भवताऽप्रार्थितोऽपि सन्॥५८॥

भवानेवेत्यादेरर्थमाह। यात्विति। सूनोरेवं वदने पितृवाक्यातिलङ्घित्वेन प्रत्ययायित्वं शङ्कित्वाऽऽह। ह्रीत इति। सत्कारानन्तरमपि मुनेरर्थित्वं दृष्ट्वेत्यथशब्दार्थः।राज्ञो वक्तृत्वयोग्यता निपातेनद्योत्यते। दैवादवकाशमासाद्येति द्वितीयाथ1567शब्दार्थः।कामितार्थस्य विद्यालाभस्येति यावत्। ब्राह्मणं स्वयमाहूय याचमानमकिंचनमित्यादिन्यायस्ते मा भूदिति सूचयन्वरं विशिनष्टि। अप्रार्थितोऽपीति॥५५॥५६॥५७॥५८॥

अस्तु सत्यप्रतिज्ञोऽत्र प्रतिज्ञातं त्वयेह यत्॥
देहि प्रश्नात्मिकां वाचं यां मत्सूनोरभाषथाः॥५९॥

राजाऽपि तमुवाचाथ दैवेष्विति परं वचः॥
दैवेष्वयं वरः सिद्धो मानुषाणां वरं वृणु॥६०॥

वाक्यान्तरमवतारयितुं भूमिकां करोति। अस्त्विति। इह सभायां यत्त्वया प्रतिज्ञातमस्मिन्प्रतिज्ञाते वस्तुनि सत्यप्रतिज्ञोऽस्तु भवानिति योजना। अप्रतिहतैव मे प्रतिज्ञेति राज्ञो वाक्यमाशङ्क्याऽऽह।देहीति। संभ्रमार्थोऽथशब्दः। राजवाक्यं व्याचष्टे।दैवेष्विति॥५९॥६०॥

न हि मानुषतो देवः प्रार्थनीयो विजानता॥
मानुषस्तूचितो दातुमादातुं मानुषाद्वरः1568॥६१॥

तस्य दुर्लभत्वात्प्रार्थ्यमानत्वमाशङ्क्याऽऽह। न हीति। कथं तर्हि प्रतिज्ञेत्याशङ्क्य मानुषवरविवक्षयेत्याह। मानुषस्त्विति॥६१॥

ममाप्यस्त्येव तत्सर्वं यद्यद्दित्ससि मानुषम्॥
विज्ञायते मयैवाऽऽदौभवताऽपि प्रमान्तरात्॥६२॥

गौतमस्त्वाह। ममापीति। तव विद्यमानमपि वित्तं मया न ज्ञायते तेन तद्दित्सेत्याशङ्क्याऽऽह। विज्ञायत इति। प्रमान्तरमाप्तवाक्यादि॥६२॥

न च तत्प्रार्थनीयं मे भूरि यद्विद्यते मम॥
तस्माद्दैवो वरो मह्यं दीयतां नास्त्यसौ मम॥६३॥

विद्यमानमपि वित्तं भूयस्त्वार्थमर्थ्यतामित्याशङ्क्याऽऽह। न चेति। कीदृशस्तर्हिवरस्तुभ्यं दातव्यस्तत्राऽऽह। तस्मादिति। मानुषस्य वरस्य प्रार्थनीयत्वाभावादितियावत्। दैवस्य वरस्य प्रार्थनीयत्वं सूचयति। नास्तीति॥६३॥

बहोरनन्तापर्यन्तदैववित्तस्य लोभतः॥
मा भूरभ्यवदान्यस्त्वं दाता भूत्वेह नः प्रति॥६४॥

स दातुमशक्यो लोभादित्याशङ्क्याऽऽह। बहोरिति। प्रभूतमपि दैवं वित्तं दीयमानं

क्रमादपगच्छति तत्कथं दातुं शक्यमित्याशङ्क्याऽऽह। अनन्तेति। अनन्तत्वादपर्यन्तमवसानहीनं परस्मै दीयमानमतिदृढतया मानुषवित्तविलक्षणमाधिक्यमापद्यते तदेव वित्तंतस्येति यावत्। इह सर्वस्मिन्नर्थिजने दाता भूत्वाऽस्मान्प्रत्येवावदान्यः कदर्यो विभवेसत्यदाता यथोक्तवित्तस्य लोभतो मा भूस्त्वमिति योजना॥६४॥

दैवं वरं न संदातुं प्रत्याख्यातुं च तं द्विजम्॥
इति दुःखित्वमापन्नस्तीर्थेनेच्छेत्युवाच तम्॥६५॥

स वै गौतमेत्यादेस्तात्पर्यमाह। दैवमिति। दातुं प्रत्याख्यातुं च न श1569क्त इतिशेषः। विद्याया रहस्यत्वमेकत्र प्रतिज्ञा रक्षणीया द्विजस्य चार्थित्वं राज्ञो देयमित्यपरत्र हेतुः॥६५॥

तीर्थेन विद्या देयेति नातीर्थेनेति चाऽऽगमः॥
यतोऽतस्तीर्थसृत्यैव मत्तो विद्यां त्वमाप्नुहि॥६६॥

किमर्थमित्थं राजा ब्राह्मणं तिरस्कुर्वन्निवोक्तवांस्तत्राऽऽह। तीर्थेनेति। शिष्यादीनां षण्णामन्यतमेन तीर्थेनार्थितो यो गुरुस्तेनोपसन्नाय तस्मै विद्या देयेति मन्वादिवाक्यंदर्शयति नातीर्थेन षड्बाह्येनाऽऽचार्योऽर्थितोऽपि तस्मै न दद्यादिति च तदेववदतीत्यर्थः। उक्तमुपजीव्य राज्ञो वचनमुचितमित्याह। यत इति॥६६॥

शास्त्रार्थं स्मारितः सोऽथ राज्ञोपैमीत्यथोचिवान्॥
वाचैव ह्यवरान्पूर्व उपयन्ति यतस्ततः॥६७॥

स होपायनकीर्त्यैव ब्रह्मचर्यमुवास ह।
उपैमीति हि संकीर्तेर्नान्यत्किंचिच्चकार सः॥६८॥

उपैमीत्यादेरर्थमाह। शास्त्रार्थमिति। राज्ञा स्मारितशास्त्रार्थस्य मुनेस्तदनुष्ठानप्रवृतौतदर्थनिष्ठत्वं हेतुंकरोति। अथेति। द्वितीयोऽथशब्दस्तथार्थः। यथा विद्याहीनोराजानं विद्यामर्थितवांस्तथा तदुपगमनं चोपगतवानिति योजना। ननु प्रतिलोममिदंयद्ब्राह्मणो राजानमुपगच्छति तत्राऽऽह। वाचेति। उद्दालकादीनामश्वपतौप्रसिद्धमिदमुपगमनमिति हिशब्दार्थः। ब्रह्मचर्यस्य विद्योदयाय प्राधान्यद्योती निपातः। तदेवविवृणोति। उपैमीतीति। कर्तव्यान्तराभावं हेतुं कर्तुं हिशब्दः॥६७॥६८॥

सापराधं स्वमात्मानं राजा परिहरन्नथ॥
क्षम1570यामास तमृषिं तथा न इतिवाक्यतः॥६९॥

स होवाचेत्याद्यवतारयति। सापराधमिति। उपगमनाद्यानन्तर्यमथशब्दार्थः॥६९॥

मानोऽपराधिनो मंस्थास्तव पूर्वे पितामहाः॥
नामन्यन्त यथा तद्वद्भवानप्यपराधिनः॥७०॥

वाक्यं व्याचष्टे। मा न इति। अस्मानपराधिनो मा त्वं मंस्थास्तव पूर्वे पितामहा मम पूर्वान्पितामहानपराधिनो नामन्यन्त तद्वदस्मानपराधिनो भवानपि न मन्येतेत्यर्थः॥७०॥

त्वत्संप्रदानतः पूर्वं विद्येयं हि कदाचन॥
नोवास ब्राह्मणे साध्वी साक्षादपि बृहस्पतौ॥७१॥

ननु ब्राह्मणानां प्रवरे गौतमे राजानमासाद्य विद्यामर्थयमाने तामप्रयच्छन्कथमसौ नापराधीत्याशङ्क्याऽऽह। त्वत्संप्रदानत इति। क्षत्त्रियेष्वेवामुष्या विद्यायाः प्रसिद्धत्वार्थो हिशब्दः। यद्यपि प्रागेषा योग्यताहीने ब्राह्मणे नोषितवती तथाऽपिकुत्रचिद्योग्ये संभावितेत्याशङ्क्याऽऽह।साक्षादिति॥७१॥

एवं गुप्तामपि तु तां वक्ष्याम्येवाहमञ्जसा॥
प्रत्याख्यातुं समर्थः को ब्रुवन्तं ब्राह्मणं नृपः॥७२॥

विद्याया गुप्तिमुक्त्वा मत्प्रत्याख्याने प्रवृत्तस्य ते प्रतिज्ञाहानिरित्याशङ्क्याऽह।एवमिति। मयि विद्यार्थिनि त्वदभ्याशमागच्छत्यपि तद्दाने ते चित्तं न प्रसीदतिचेदस्तु प्रत्याख्यानमित्याशङ्क्याऽऽह। प्रत्याख्यातुमिति॥७२॥

असाविति क्रमोऽभेद कस्माद्धेतोरितीर्यताम्।
प्रश्नस्येह चतुर्थस्य प्राधान्याद्भिद्यते क्रमः॥७३॥

असौ वै लोकोऽग्निरित्यादिना चतुर्थप्रश्नस्य प्राथम्येन निर्णये हेतुं पृच्छति।असाविति। उत्तरमाह। प्रश्नस्येति। इहेति प्रश्नसमुदायोक्तिः॥७३॥

उत्पत्तेस्तदधीनत्वाज्जन्मायत्ता स्थितिस्तथा॥
स्थित्यपाये प्रयाणं च श्रुत्याऽभेदि क्रमस्ततः॥७४॥

तस्य प्राधान्येन प्राथम्यं प्रकटयन्क्रमभङ्गं साधयति। उत्पत्तेरिति। मनुष्यजन्मस्थितिलयानां चतुर्थप्रश्ननिर्णयाधीनतया तस्य प्राधान्यात्प्राथम्ये सत्यर्थक्रममाश्रित्याविवक्षितस्य पाठक्रमस्य भङ्गः कृत इत्यर्थः॥७४॥

दूरतोऽमुष्य लोकस्य स्यादसाविति गीरियम्॥
समिद्धूमादिभी रूपैर्लोक्यते लोकगीरपि॥७५॥

वैशब्दः स्मरणाय स्यादग्निस्तत्परिणामतः॥
यत आहवनीयोऽग्निर्द्युलोकात्मतया स्थितः॥७६॥

क्रमं भङ्क्त्वा पदानि व्याकरोति। दूरत इति। स्मरणाय प्रसिद्धद्युलोकस्येतिशेषः। तस्याग्निपरिणामता कथमित्याशङ्क्याऽह। यत इति। अतो द्युलोकाग्निपरिणामता युक्तेति शेषः॥७५॥७६॥

अपूर्वपरिणामोऽयमग्निहोत्राख्यकर्मणः॥
द्युलोकोपक्रमो ज्ञेयो यावत्पुरुषसंभवः॥७७॥

कथमाहवनीयाग्नेर्द्युलोकाद्यात्मना स्थितिस्तत्राऽऽह। अपूर्वेति। न हि कर्म कारकानपेक्षं साध्यैकस्वभावत्वात्तथाचाग्निहोत्राद्यपूर्वमाहवनीयादिकारकसहितमेव द्युलोकाद्यारभते ते दिवमेवाऽऽहवनीयं कुर्वाते इति श्रुतेरतो युक्तमाहवनीयस्य द्युलोकाद्यात्मनाऽवस्थानमित्यर्थः॥७७॥

आहुत्योरग्निहोत्रस्य या विभूतिः पुरोदिता॥
सैवेह दृष्टिविध्यर्थं श्रुत्या व्याख्यायतेऽञ्जसा॥७८॥

किंचाग्निहोत्राधिकारालोचनायामपि द्युलोकादेरग्नित्वं युक्तमित्याह। आहुत्योरिति। पूर्वत्राग्निहोत्राधिकारे कर्मापूर्वपरिणामो जगदित्याहुत्योः स्तुत्यर्थत्वेनोक्तं तदेवजगदत्र दृष्टिविध्यर्थमसावित्यादिश्रुत्याऽनूद्यते तद्युक्तं द्युलोकादेरग्नित्वमित्यर्थः॥७८॥

अध्यात्मे चाधियज्ञे च ह्यधिलोकाधिदैवयोः॥
श्रुतिराहवनीयादेर्व्याचष्टे विस्तृतिं स्फुटाम्॥७९॥

जगतोऽपूर्वपरिणामत्वेऽपि कथं द्युलोकादेरग्नितेत्याशङ्क्यकर्मविभूतिमनुवदति।अध्यात्म इति। आहवनीयादिरूपाग्नेरध्यात्मादिविभागेनावस्थानं षट्प्रश्नीये ग्रन्थे श्रयतेऽतस्तस्यैवाऽऽहवनीयादिपरिणामस्य जगतोऽत्र पञ्चाग्निविद्याविधानायानुवादाद्युज्यते लोकादेरग्नित्वमित्यर्थः॥७९॥

लोक आहवनीयोऽग्निरसाविति विचिन्तयेत्॥
आदित्यादिष्वपि तथा समिदादिसमीक्षणम्॥८०॥

एवमनग्नेरग्नित्वमुपपाद्यासावित्यादाविष्टमुपास्तिप्रकारमाह। लोक इति। अनग्नावेवाग्निदृष्टिर्द्युलोके कार्येत्यर्थः। तस्येत्यादेस्तात्पर्यमाह। आदित्यादिष्विति। तथाद्युलोकेऽग्निदृष्टिवदिति यावत्॥८०॥

समिन्धनात्समिद्भानू रश्मयो धूम इत्यपि॥
समिन्निर्गमसामान्यादर्चिरहस्तथैव च॥८१॥

आदित्ये समिद्दृष्टौ हेतुमाह। समिन्धनादिति। रश्मिषु धूमदृष्टिमनूद्य हेतुमाह।रश्मय इति। अर्चिर्दर्शनमह्नि कार्यमित्यर्थः। अहरर्चिरित्यत्र हेतुं समिदुत्थत्वं कथयति। तथैवेति॥८१॥

शान्तत्वाच्च दिशोऽङ्गाराः समिद्धि प1571रिणामतः॥
अर्चिरङ्गारभावस्य यथैवं भानुहेतुकाः॥
रश्मयश्च दिशश्चैता आदित्यसमदाश्रयाः॥८२॥

दिक्ष्वङ्गारदृष्टौ निमित्तमाह। शान्तत्वादिति। रश्म्यहर्दिक्षु धूमार्चिरङ्गारदृष्टीनांकार्यत्वे हेत्वन्तरमाह। समिदिति। यथा धूमादीनां समित्परिणामतया समिदाश्रयस्तथा रश्म्यादीनामादित्यविकारत्वात्तदा-श्रयत्वात्तेषु धूमादिदृष्टिः कार्येत्यर्थः। दिशामादित्यकार्यत्वं तद्व्यवहारस्य तदधीनत्वाद्द्रष्टव्यम्॥८२॥

अवान्तरदिशस्तद्वद्विक्षिप्तत्वैकहेतुतः॥
विस्फुलिङ्गा इति ज्ञेयास्तस्मिन्नग्नौ यथोदिते॥८३॥

अवान्तरदिशो विस्फुलिङ्गा इत्यस्यार्थमाह। अवान्तरेति। तद्वद्दिशामङ्गारत्ववदितियावत्। तस्मिन्नित्यादेरर्थमाह। तस्मिन्निति। देवा जुह्वतीति शेषः॥८३॥

त्रयस्त्रिंशच्च ये देवाः स्युस्तेऽध्यात्मादिभूमिगाः॥
होतारस्तत्र तत्र स्युः कर्मज्ञानानुरोधतः॥८४॥

के ते देवा ये होतारस्तत्राऽऽह। त्रयस्त्रिंशदिति। अष्टौ वसव एकादश रुद्राद्वादशाऽऽदित्या इन्द्रः प्रजापतिरिति ये देवाः स्युस्तेऽध्यात्मादिभेदभिन्नास्तत्तद्भावभाजि यजमाने तदीयकर्माद्यनुसारतस्तत्र तत्राग्निभेदेषु होतारः स्युरतो यजमानप्राणावागादयोऽत्र देवा इत्यर्थः॥८४॥

ऋत्विग्रूपेण ते ह्यासन्यथा प्राकृतकर्मणि॥
होतारः परिणामेषु तथैवोत्तरभूमिषु॥८५॥

तदेव दृष्टान्तेन स्पष्टयति। ऋत्विगिति। यथा ज्योतिष्टोमादौ ब्राह्मे कर्मणिषोडशर्त्विजो होतारः स्थितास्तथोत्तरेष्वपि कर्मापूर्वपरिणामेषु द्युलोकादिष्वृत्विग्रूपेण तेदेवा यजमानप्राणा होतारः स्युरित्यर्थः। यज्ञभूमावृत्विजां प्रसिद्ध्यर्थो हिशब्दः॥८५॥

आहुत्योः परिणामोऽयमूर्ग्रसोऽपूर्वमित्यपि॥
तस्य श्रद्धैकहेतुत्वाच्छ्रद्धा नामेति कीर्त्यते॥८६॥

एवं होतृसिद्धावपि न श्रद्धाया होम्यत्वं प्रत्ययविशेषात्मकत्वादित्याशङ्क्य श्रद्धाशब्दार्थमाह। आहुत्योरिति। अग्निहोत्रादिकर्मापूर्वं श्रद्धाकार्यत्वादुपचारतः श्रद्धाशब्दितमित्यर्थः॥८६॥

तस्याश्चाप्याहुतेः सोमो राजा संभवतीति च॥
तस्याभिवृद्धिः संभूतिर्न त्वभूतजनिर्यतः॥८७॥

उत्तरवाक्यमादत्ते। तस्याश्चेति। श्रद्धाया होम्यत्वसिद्धौ तदाहुतिकार्यमपि सिध्यत्येवेति वक्तुमाद्यौ निपातौ। वक्ष्यमाणसोमाद्याहुतिकार्यवदितिदृष्टान्तार्थो द्वितीयश्चकारः।इतिशब्दो ध्यानार्थः। कीदृशी सोमस्य संभूतिस्तत्राऽऽह। तस्येति। तत्र हेतुः।न त्विति। सोमस्य प्रागेव सिद्धेरसतो जन्मायोगाद्वृद्धिरेव संभूतिः सा च सोमलोके

कर्तृभोगाय देहान्तरारम्भकता तत्र द्युलोकं प्रविश्य सोममण्डले कर्तुः शरीरमारभत इतिहि भाष्यमित्यर्थः॥८७॥

द्यौरग्निः समिदादित्यः श्रद्धा तस्मिन्हि हूयते॥
सूर्ये समिधि दीप्तायां श्रद्धां जुह्वति देवताः॥८८॥

आदिपर्यायार्थं संक्षिप्योपसंहरति। द्यौरिति। तस्याश्चाऽऽहुतेः सोमवृद्धिरितिशेषं सूचयितुं हिशब्दः। तदेव स्पष्टयति। सूर्य इति। श्रद्धाशब्देन कर्मापूर्वं गृहीत्वातदाहुतेः सोमसंभूतिरुक्ता॥८८॥

श्रयतेः श्रद्दधातेर्वा श्रद्धेत्याहुर्विपश्चितः॥८९॥

श्रयणाद्धारणाच्चाऽऽपः श्रद्धाह्वाः कारणात्मिकाः॥
भूत्वाऽऽप इति लिङ्गाच्च आपः श्रद्धाभिधास्ततः॥९०॥

नन्वपूर्वस्यापि श्रद्धाख्यस्य न होम्यता तस्य द्युलोके प्रवेशमात्रं होमश्चेन्न श्रद्धाशब्दस्य मुख्यार्थस्त्याज्यस्तस्यापीच्छाविशेषस्योक्तहोमसंभवादित्याशङ्क्य श्रद्धाशब्दनिष्पत्तिमाह। श्रयतेरिति। वाशब्दश्चार्थः। निष्पन्नशब्दस्य विवक्षितमर्थमाह। श्रयणादिति। भौतिकप्रपञ्चस्याऽऽश्रयत्वात्पोषक-त्वाच्चाऽऽपो भूतान्तरसहिताः श्रद्धाशब्दाइत्यर्थः। कथं तासां श्रयणादि तत्राऽऽह। कारणात्मिका इति। अपामेवात्र श्रद्धाशब्दत्वमित्यत्र हेत्वन्तरमाह। भूत्वेति। पदविभागस्पाष्ट्यर्थं संधिर्न गृहीतः। नकेवलमापः पुरुषवाचो भूत्वा समुत्थाय वदन्तीत्युपक्रमादेव श्रद्धाशब्देनाऽऽपो गृह्यन्तेकिंतु श्रद्धा वा आप इति श्रुतेश्चेति मत्वाऽऽह। तत इति॥८९॥९०॥

आकृष्टं रश्मिभिस्तोयमादित्ये प्रतितिष्ठति॥
तस्मादादित्यगः सोमः क्षीण आप्यायते पुनः॥९१॥

श्रद्धाहुतेः सोमस्य संभूतिर्वृद्धिरित्युक्तं कथं निर्वहतीत्याशङ्क्याऽऽह। आकृष्टमिति। तच्छब्दस्तोयार्थः। कृष्णपक्षे क्षीयमाणः सोमोऽमावास्यायामादित्यान्तर्गतस्तद्गततोयेन शुक्लपक्षे क्रमेणाऽऽप्यायते सेयं वृद्धिः सोमस्य संभूतिः।

“विवस्वानंशुभिस्तीक्ष्णैरादाय जगतो जलम्।
सोमे मुञ्चत्यथेन्दुश्च वायुनाडीमयैर्द्विज"॥

इत्यादिस्मृतेरित्यर्थः॥९१॥

परिणामो ह्यपां सोमः शीतांशुस्तेन सोऽम्मयः॥
श्रद्धाहुतेर्हि सोमस्य संभवः शास्त्र उच्यते॥९२॥

ये तु सोमस्य तैजसत्वमाहुस्तेषां तस्या आहुत्यै सोमो राजा संभवतीति विरोध इत्याह। परिणामो हीति। श्रुतिप्रसिद्ध्यर्थो हिशब्दः। प्रत्यक्षं च तस्याऽऽप्यत्वामित्याह। शीतांशुरिति। किंच श्रद्धाख्यानामपां हुतेः सोमस्य संभवो यः शास्त्रे कथ्यते

स सोमलोके कर्तृभोगार्थं देहान्तरारम्भ एव तथाच तस्य तैजसत्वेऽपि न क्षतिरितिविवक्षन्नाह। श्रद्धाहुतेरिति॥९२॥

अङ्गाराश्चन्द्रमास्तस्मिन्हुतेऽग्नौ सोमसंभवः॥
सोमचन्द्रमसोरेवं भेदः शास्त्रेण दर्शितः॥९३॥

ननु द्युलोकाग्नौश्रद्धाहुतेः सोमोत्पत्तिश्चेत्तत्कथं तस्य मनुष्यलोकाग्नावङ्गारत्वंचन्द्रमा अङ्गारा इति हि श्रुतिरित्याशङ्क्यसोमचन्द्रमसोर्भेदं साधयति। अङ्गाराइति। तस्मिन्निति द्युलोकाग्नेरुक्तिः। कारकभूतश्चन्द्रमाः फलभूतः सोम इति भेदइत्यर्थः। तत्र प्रमाणं प्रकटयति। सोमेति। शास्त्रमत्र चन्द्रमा अङ्कारास्तस्याआहुत्यै सोमो राजेत्यादि॥९३॥

चन्द्रमा मण्डलं स्वच्छं चन्द्रकेण मितो हि सः॥
सोमस्तु मण्डले श्वेतो वर्धते ह्रसते च यः॥९४॥

पदार्थालोचनायामपि भेदसिद्धिरित्याह। चन्द्रमा इति। मण्डले चन्द्रमःशब्दप्रवृत्तिनिमित्तमाह। चन्द्रकेणेति। अभ्रकेण तुलित इत्यर्थः। सशब्दो मण्डलार्थः।मण्डलान्तर्वर्तिनि पुरुषे सोमशब्दप्रवृत्तिमाह। सोमस्त्विति। तत्र निमित्तमाह।वर्धतइति। लतारूपे वृद्धिह्रासदृष्टेरस्मिन्नपि पक्षभेदेन तद्भावात्तच्छब्दप्रवृत्तिः।न च मडलस्यैव वृद्धिह्रासौ नियामकाभावादेवमेनांस्तत्र भक्षयन्तीति च श्रुतेर्न चसाऽपि मण्डलार्था तन्मात्रस्याभोग्यत्वादित्यर्थः॥९४॥

चन्द्रमाः पर आदित्यादर्वाक्सोमः श्रुतेर्मतः॥
आदित्याच्चन्द्रमित्याह नैते संवत्सरं तथा॥९५॥

भेदकान्तरमाह। चन्द्रमा इति। आदित्यात्प्रागूर्ध्वं च श्रुतयोः सोमचन्द्रमसोर्भेदःश्रौतश्चेत्काऽसौ श्रुतिरित्याशङ्क्याऽऽह। आदित्यादिति। उत्तरमार्गगाः संवत्सरद्वाराऽऽदित्यं गतास्तस्माच्चन्द्रं गच्छन्तीति श्रुतिरादित्यात्पराञ्चंचन्द्रं ब्रूते। एते दक्षिणमार्गगा न संवत्सरमापद्यन्तेकिंतु मासेभ्यः पितृलोकं पितृलोकाच्चन्द्रमेष सोमो राजेत्यादिश्रुतिरादित्यादर्वाञ्चं सोममाह। न च चन्द्रस्याऽऽदित्यात्पराचीनत्वे तदन्तर्वर्तिनःसोमस्य तस्मादर्वाचीनत्वानुपपत्तिरैश्वर्यवशाद्देवतायास्तथात्व-संभवादनेकप्रतिपत्तिन्यायादित्यर्थः॥९५॥

सोमचन्द्रमसोस्तस्माद्भेदः समवगम्यते॥
देशाभेदादभिन्नौ तावेष सोम इति श्रुतेः॥९६॥

फलितं भेदं निगमयति। सोमेति। तयोरत्यन्तभेदश्चेत्कथमभेदोक्तिरित्याशङ्क्याऽऽह।देशेति। स्वरूपभेदे सत्येव देशाभेदेन पितृलोकाच्चन्द्रमेष सोमो राजेत्यभेदश्रुतिः सोमस्य मण्डलस्थत्वाद्देशान्तराभावादित्यर्थः॥९६॥

भिन्नौ च धर्मभेदेन तस्मादुभयथा श्रुतिः॥
पर्जन्योऽग्निरिति ज्ञेयः समित्संवत्सरः स्मृतः॥९७॥

संवत्सरे समिद्धे हि पर्जन्यस्य समेधनात्॥
धूमोऽभ्राणीति सादृश्याद्विद्युदर्चिस्तथैव च॥९८॥

शान्तिवर्तुलतोऽङ्गाराः पर्जन्यशिखिनोऽशनिः॥
विक्षिप्तत्वैकसामान्यात्स्फुलिङ्गाः स्तनयित्नवः॥९९॥

सोमं जुह्वति तत्राग्नौ देवाश्चात्रोदिताः पुरा॥
वृष्टेश्चसंभवस्तस्माल्लोकेऽस्मिन्साऽपि हूयते॥१००॥

कथं तर्हिभेदश्रुतिस्तत्राऽऽह। भिन्नौ चेति। धर्मभेदेन स्वरूपभेदेनेति यावत्।देशाभेदादभेदश्रुतिः स्वरूपभेदाद्भेदश्रुतिरित्युपसंहरति। तस्मादिति। द्वितीयपर्यायंव्याचष्टे। पर्जन्य इत्यादिना। ऋतुभिः संवत्सरे दीप्ते सत्येव पर्जन्यप्रसिद्धा दीप्तिरन्यथा तद्वैयर्थ्यादिति हिशब्दार्थः। धूमोऽभ्राणीत्यत्रेतिशब्दो ज्ञेयत्वानुकर्षणार्थः।अभ्राणां धूमसादृश्यं धूम्रत्वम्। विद्युत्यर्चिर्दृष्टिरित्यत्र वर्णसादृश्यं हेतूकरोति। तथैवचेति। तृतीयमग्निमवतारयति। लोकेऽस्मिन्निति॥९७॥९८॥९९॥१००॥

लोकोऽयमग्निर्विज्ञेयः पृथिवी समिदुच्यते॥
पृथिव्या हि समिद्धोऽयं समित्तेन क्षितिर्मता॥१०१॥

अग्निर्धूमस्तदुत्थानाद्रात्रिरर्चिस्तथैव च॥
रात्रिमाहुः क्षितिच्छायामङ्गाराश्चन्द्रमास्तथा॥१०२॥

शान्तत्ववर्तुलत्वाभ्यां विस्फुलिङ्गसमत्वतः॥
नक्षत्राणि स्फुलिङ्गाः स्युस्तस्मिन्नित्यादि पूर्ववत्॥१०३॥

अन्नस्य संभवस्तस्मात्पुमग्नौ तच्च हूयते॥
पुरुषोऽग्निरिति ध्येयो व्यात्तं तस्य समित्स्मृता॥१०४॥

व्यात्तेमुखे हि तद्दीप्तिर्धूमः प्राणो मुखोत्थितेः॥
पुंदीप्तेर्वाङ्निमित्तत्वादर्चिर्वाक्तेन भण्यते॥१०५॥

स्थितेरङ्गारवच्चक्षुरङ्गाराः श्रोत्रमेव च॥
विस्फुलिङ्गा इति ज्ञेयं तस्य विक्षेपसंस्थितेः॥१०६॥

अन्नं जुह्वति तत्राग्नौ संभवो रेतसस्ततः॥
योषिदग्निरिति ज्ञेया उपस्थश्चसमित्तथा॥१०७॥

तदुपस्थेन संदीप्तेर्धूमो लोमानि साम्यतः॥
अर्चिर्वर्णसमानत्वाद्योनिरर्चिर्भवेत्ततः॥१०८॥

अन्तः करोति यत्कामी तेऽङ्गारास्तत्समानतः॥
विस्फुलिङ्गाः सुखलवाः क्षणिकत्वैकहेतुतः॥१०९॥

रेतो जुह्वति तत्राग्नौ देवाश्चेन्द्रियरूपिणः॥
पञ्चम्या आहुतेस्तस्याः पुरुषः संभवत्ययम्॥११०॥

अयं वै लोकोऽग्निरित्यादिवाक्यं व्याकरोति। लोकोऽयमित्यादिना1572। एत1572ल्लोकपृथिव्योर्देहदेहिभावेन भेदः। देहिना देहस्य प्रसिद्धा दीप्तिरिति हेतू कर्तुं हिशब्दः।तच्छब्देन पृथिवी समिदुच्यते। तथैव चेति पृथिवीसमिधः समुत्थानादेवेत्यर्थः। कथंपुना रात्रेरुक्तसमिधः यः समुत्थानं तत्राऽऽह। रात्रिमिति। एतानि हि चन्द्रं रात्रेस्तमसोमृत्योर्बिभ्यतमत्यपारयन्निति श्रुते रात्रेस्तमस्त्वावगमात्तस्य च मृत्युर्वैतमश्छाया तेनैवतज्ज्योतिषा मृत्युं तमश्छायां तरतीति भूच्छायाश्रुतेस्तमो राहुस्थानं तच्च भूच्छायेतिप्रसिद्धम्—

“उद्धृत्य पृथिवीछायां निर्मितं मण्डलाकृति॥
स्वर्भानोस्तद्बृहत्स्थानं तृतीयं यत्तमोमयम्” इति स्मृतेः॥

चतुर्थमग्निमुत्थापयति। पुमग्नाविति। पुरुषो वा अग्निरित्यादि व्याकरोति। पुरुष इत्यादिना। वाग्ग्मिनो व्यक्ता दीप्तिरिति वक्तुं हिशब्दः। तेन वागर्चिरिति वाक्येनेत्यर्थः। योपा वा अग्निरित्यादि व्याचष्टे। योषिदित्यादिना। तथेतिसमिद्धाग्नेः संदीप्तिवदित्यर्थः। लोमसु धूमदृष्टौ वर्णसादृश्यं हेतुमाह। साम्यत इति।अङ्गाराः खल्वग्नेरुपशान्तिहेतवस्तथेदमपि कर्म योषिदग्नेः पुरुषस्य च तेजोवीर्यादिनाशकत्वेन शान्तिकरमतस्तस्मिन्कर्मण्यङ्गारदृष्टिरित्याह। तत्समानत इति॥१०१॥१०२॥१०३॥१०४॥१०५॥१०६॥१०७॥१०८॥ १०९॥११०॥

यथोक्तवर्त्मना ह्यापः प्राप्ताः पुंस्परिणामताम्॥
पाकजः परिणामोऽयमेवं पञ्चभिरग्निभिः॥१११॥

पञ्चाग्निविज्ञानस्य चतुर्थप्रश्ननिर्णायकत्वेन प्रकृतोपयोगं दर्शयति। यथोक्तेति।अग्निहोत्रादौ वैदिके कर्मणि प्रकृतानामपां प्रसिद्धताद्योतको हिशब्दः। अग्निहोत्रेहुतानां पयोघृतादीनां पुरुषरूपपरिणामश्चेत्कथं तस्य स्थूलतया व्यवहारयोग्यता तासांस्वभावसौक्ष्म्यादित्याशङ्क्याऽऽह।पाकज इति॥१११॥

तस्मादापः सूक्ष्मभावाः स्थूलतां यान्ति पाकतः॥
अग्निभिः पञ्चभिः पक्वाःपुरुषाख्या भवन्ति हि॥११२॥

पुरुषाख्यपरिणामस्य पाकजत्वे फलितमाह। तस्मादिति। आपो भूतसूक्ष्मलक्षणाः

पूर्वोक्ताग्निपाकतः सूक्ष्मत्वं हित्वा ततः स्थूलतां गच्छन्ति1573 तथाऽपि कथं पुरुषाख्यत्वमतआह। अग्निभिरिति। पाकजपरिणामस्य करचरणादिमत्त्वाद्युक्ता पुरुषाख्येतिहिशब्दार्थः॥११२॥

तस्मान्मृतं प्रियं बन्धुं हरन्त्यमग्नय ऋत्विजः॥११३॥

यथैवाऽऽहवनीयाग्नेःप्रसिद्धं समिदादिकम्॥
श्मशानास्तथैवैतत्सर्वं ज्ञेयं न कल्प्यते॥११४॥

पञ्चाग्निविदो गतिं विवक्षुर्वक्ष्यमाणगत्युपयोगिदेहप्रदर्शनार्थमन्त्येष्टिविषयं वाक्यंव्याचष्टे। तस्मादिति। यद्वा षष्ठोऽग्निरग्निलयोऽहमितिदृष्टिशेषत्वेनोच्यते। वर्तमानदेहस्थितिनिमित्तकर्मक्षयपरामर्शीतच्छब्दः। तस्येत्यादेरर्थमाह। यथेति। नित्यानुवादफलमाह। नेति॥११३॥११४॥

अन्त्यसंस्कारसिद्ध्यर्थं तस्मिन्नग्नौ यथोदिते॥
ऋत्विजां जुह्वति नरमन्त्याहुत्यै विधानतः॥
आहुतेर्जायते तस्याः पुमान्भास्वररूपभृत्॥११५॥

तस्मिन्नित्यादेरर्थमाह। अन्त्येति। अन्त्येष्टिरन्त्याहुतिस्तदर्थे यद्विधानं पितृमेधोक्तं तद्वशादिति यावत्॥११५॥

राजसं तामसं रूपमितो ह्यन्यत्र वक्ष्यते॥११६॥

इतोऽग्निभ्योऽग्निमेवायं स्वां योनिं प्रतिपत्स्यते॥
इति लोके समाचारादग्निभ्यः संभवस्ततः॥११७॥

भास्वरवर्णविशेषणस्य व्यावर्त्यमाह। राजसमिति। इतो विद्वद्रूपात्सात्त्विकादितियावत्। अन्यत्र कर्मण्युभयभ्रष्टे वेत्यर्थः। पुरुषस्याग्निजन्यत्वे तल्लये च विद्वत्प्रसिद्धिंप्रमाणयति। इत इति। समागत इति यावत्। लोकः श्रुतिमार्गानुसारी विद्वद्वर्गः।संभवस्तेषु लयोपलक्षणम्॥११६॥११७॥

पञ्चम्यामाहुतावेवं पुंनाम्नो जन्म कीर्तितम्॥
गतिस्तस्याथ वक्तव्या उदग्दक्षिणभेदतः॥११८॥

ते य एवमित्यादिवाक्यस्य वृत्तानुवादपूर्वकं संगतिमाह। पञ्चम्यामिति। जन्मेत्युपलक्षणमन्त्याहुतिश्चोक्तेति द्रष्टव्यम्। मृतस्य गत्यपेक्षाद्योतकोऽथशब्दः। संधिरनुपयोगादविवक्षितः॥११८॥

ते य एतद्यथा1574जातं ज्ञानं पञ्चाग्निसंश्रयम्॥
विदुरर्चिःसमायान्ति बहूक्तेश्च द्विजातयः॥११९॥

तद्योजयति। ते य इति। ये विदुस्ते संभवन्तीति बहुवचनादत्र त्रैवर्णिकमात्रमधिकारित्वेनोपात्तमित्याह। बहूक्तेरिति॥ ११९॥

उत्पत्तिसंस्थितिलया यथोक्ताग्न्येकहेतवः॥
इत्थं ये विदुरर्चिस्तेसंभवन्त्यात्मभाविताः॥१२०॥

तेषां कदाचित्पञ्चाग्निविद्योदयमात्रमर्चिरादिप्राप्तिहेतुरित्याशङ्क्याऽऽह। उत्पत्तीति।द्युलोकादिषु श्रद्धाद्याहुतिकृतो ममोत्पत्त्यादिरित्येवं ये जानन्ति ते सदातादृगनु1575संधानवन्तोऽर्चिरादिद्वारा ब्रह्मलोकं गच्छन्तीत्यर्थः॥१२०॥

इष्टापूर्तकृतो ये वै ग्रामस्थेभ्यश्च ये परे॥
अरण्य इति गृह्यन्त इतरेषां पृथग्ग्रहात्॥१२१॥

ये चेत्यादौ विवक्षितानधिकारिणो ब्रूते। इष्टेति। एतावदमी गृहिणः श्रौतस्मार्तकारिणो ये चान्ये वनस्थाः श्रौतादिकर्मकर्तारस्ते चारण्य इत्यादिना श्रद्धादिपूर्वकंसत्यब्रह्मोपासनेऽधिकारिणो विवक्षिता इत्यर्थः। ये चेत्यादौ ब्रह्मचारिणामपि प्राप्तिमाशङ्क्याऽऽह। इतरेषामिति। नैष्ठिकब्रह्मचारिणामुत्तरेण पथा ब्रह्मलोकगामित्वे श्रुतिंविना स्मृतेरेव ग्रहान्न तेषामत्र प्राप्तिरित्यर्थः॥१२१॥

यज्ञदानतपांसीह गृहस्थ इव तापसे॥
गृहस्थाचार्यवासाच्च न ग्रहो ब्रह्मचारिणाम्॥१२२॥1576

गृहस्थानामिष्टादिकारित्वेऽपि कथं वनस्थानां तत्कर्तृतेत्याशङ्क्याऽऽह। यज्ञेति।अस्मिन्वाक्ये ब्रह्मचारिणामग्रहे हेत्वन्तरमाह। गृहस्थेति। तेषामाचार्यमात्राधीनतया तत्कुलेऽभिवसतामुपासनादाव-स्वातन्त्र्यादित्यर्थः॥१२२॥

नारण्यस्था न च ग्राम्या अपेक्षन्तेऽत्र विद्यया॥
सामान्यवचसोपात्तेर्न विशेषपरिग्रहः॥१२३॥

सत्यविद्यायामिव पञ्चाग्निविद्यायामपि गृहस्थवनस्थयोरेवाधिकाराद्बहूक्तेश्चेत्याद्ययुक्त-मित्याशङ्क्याऽऽह। नेत्यादिना। अत्रेति पञ्चाग्निविद्याधिकारोक्तिः। विशेषग्रहाभावेहेतुमाह। सामान्येति। ते य एवमेतद्विदुरित्यविशेषग्रहणा1577द्गृहस्थादिविशेषासिद्धिरित्यर्थः॥१२३॥

सश्रद्धस्यापि सत्यस्य यद्यप्यन्यत्र संभवः॥
तथाऽपि यतयोग्राह्या अरण्येन विशेषणात्॥१२४॥

ये चेत्यादौ गृहस्थवनस्थग्रहणं पूर्वपक्षत्वेनोक्तं संप्रति सिद्धान्तत्वेन वनस्थानां परमहंसातिरिक्तसंन्यासिनां च ग्रहणमत्र विवक्षितमित्याह। सश्रद्धस्येति। यद्यपि

श्रद्धापूर्वं सत्योपासनस्य गृहस्थेष्वपि संभवस्तथाऽपि ये चेत्यादौ वनस्थानाममुख्ययतीनांच ग्रहणमरण्यविशेषणस्य तेष्वेव संभवादित्यर्थः॥१२४॥

ते य एवं विदुरिति यदि वा गृहिणां ग्रहः॥
अग्निसंबन्धतो न्याय्यो वनस्थस्यापि संभवात्॥१२५॥

ये चेत्यादाविव वाक्यान्तरेऽपि यतिवनस्थयोरेव ग्रहणमित्याशङ्क्यसामान्यवचसोपात्तेरित्यत्रोक्तं पक्षं हित्वा पक्षान्तरमाह। ते य इति। संभवादग्निसंबन्धस्य वनस्थस्यापिग्रह इति संबन्धः॥१२५॥

न चाग्निहोत्रशेषत्वमुक्तदृष्टेरिहेष्यते॥
सामान्येन ग्रहात्तस्याः पञ्चाग्निरितिलिङ्गतः॥१२६॥

केचित्तु पञ्चाग्निदर्शनस्याग्निहोत्रस्तुतित्वेनाविवक्षितत्वात्तदुपबन्धा गतिरप्यविवक्षितेति गन्तृनिरूपणमस्थाने संभ्रान्तिरित्याहुस्तान्प्रत्याह। न चेति। अस्मिन्प्रकरणे प्रदृश्यमानाग्निदृष्टेर्नाग्निहोत्रस्तुतित्वेन तच्छेषत्वं तत्संबन्धादृते दृष्टेरसौ लोकोऽग्निरिति सामान्येनोक्तत्वात्पञ्चाग्नीन्वेदेति च सांपादिकाग्निषु प्रचयशिष्टसंख्याश्रवणादग्निहोत्रशेषदृष्टेश्च षट्प्रश्नोक्तायाः षड्भिरग्निभिः संबन्धदृष्टेरित्यर्थः॥१२६॥

त्रिलोकीसाधनत्यागान्नापि संन्यासिनो ग्रहः॥
दैवी विद्या हि वित्तं स्याद्वित्ताच्च व्युत्थितिर्यतः॥१२७॥

दृष्टेरनन्यशेषत्वाद्गतेर्निरूपणेन गन्तृनिरूपणेऽपि ये चेत्यादौ परमहंसातिरिक्तयतिग्रहोऽयुक्तोऽरण्यविशेषणात्तेषामपि ग्रहणादित्याशङ्क्याऽऽह। त्रिलोकीति। लोकद्वयेहेतुप्रजाकर्मत्यागेऽपि देवलोकस्य साधनं ज्ञानं परमहंसैरत्यक्तं तादर्थ्यादित्याशङ्क्याऽऽह।दैवीति। वित्तद्वैविध्याभ्युपगमो हिशब्दार्थः। अतो यथोक्तं ज्ञानं त्यक्तं तैरिति शेषः॥१२७॥

प्रजया किं करिष्याम आक्षेपो ब्रह्मवेदनात्॥१२८॥

पञ्चाग्निज्ञानवद्भाव्या गतिरप्यत्र सर्वदा॥
यतोऽतो गतिरप्युक्ता नान्यथा तदुदीरणम्॥१२९॥

तेषां लोकत्रयहेतुत्यागे मानमाह। प्रजयेति। तेषामित्याक्षेपादुक्तत्यागसिद्धिरितिशेषः। ये चेत्यादेरर्थमुक्त्वा पञ्चाग्निविद्यासंनिधौ गत्युक्तेस्तात्पर्यमाह। पञ्चाग्नीति।प्रकरणं सप्तम्यर्थः। उपास्यत्वाभावे संनिधिवैयर्थ्यात्तद्बलाद्गतेरुपास्यतेत्याह। नान्यथेति॥१२८॥१२९॥

देवतोपासनस्येह प्रकृतत्वात्तथा गतेः॥
अर्चिःशब्देन तेनेह देवतैवात्र गृह्यते॥१३०॥

तेऽर्चिषमित्यत्रार्चिःशब्दस्य ज्वालामात्रविषयत्वं व्यावर्त्य देवताविषयत्वमाह। देवतेति। इहेति प्रकरणोक्तिः। अत्रेति वाक्यकथनम्। तथा गतेः प्रकृतविद्यासंनिधौगतिपर्वत्वेनार्चिषः श्रवणादित्यर्थः। इहशब्दो द्वितीयो विद्यासंनिध्यर्थः॥ १३०॥

अर्चिर्देवतयैकत्वं प्राप्याहर्देवतैकताम्॥
संभवन्तीति सर्वत्र संबन्धोऽत्रानुषज्यते॥१३१॥

तेऽर्चिरित्यादेरर्थमनूद्यार्चिषोऽहरित्यस्यार्थमाह। अर्चिरिति। अस्मिन्वाक्ये संभवन्तीतिसंबन्धवदुत्तरत्रापि सर्वत्र तस्य संगतिरवगन्तव्येत्याह। संभवन्तीति॥१३१॥

गृह्यते देवता नो चेदर्चिरादिगिरा तदा॥
असंभवोऽन्यत्र मृतेरित्यपार्था गतिश्रुतिः॥१३२॥

अर्चिःशब्देनेवाहरादिशब्दैरपि देवतैव ग्राह्येत्यत्र युक्तिमाह। गृह्यत इति।यद्यर्चिरादिशब्देन देवता न गृह्यते तदोपासकस्य फलप्राप्त्ययोगः स्यात्कृष्णपक्षादावपि मृतिसंभवात्तत्कालस्यानियतत्वादतो गतिश्रुतिरनर्थिका स्यात्तस्माद्देवतावाचित्वमेवार्चिरादिशब्दानामित्यर्थः॥१३२॥

यत्तूदगयनापेक्षा भीष्मस्य श्रूयते स्मृतौ॥
सत्यवादित्वसिद्ध्यर्थं शंतनोस्तदपीक्ष्यताम्॥१३३॥

नन्वहरादिशब्दानां कालविशेषविषयत्वमेष्टव्यं विदुषोऽपि भीष्मस्य मरणार्थमुत्तरायणप्रतीक्षादर्शनात्तत्राऽऽह। यत्त्विति। भीष्मस्य युद्धमरणे प्राप्तेऽपि तदीयदेहारम्भकस्यादृष्टस्योत्तरायणपर्यन्तमवस्थानमपेक्ष्य पितृस्तुतिरत्र विवक्ष्यते महानुभावोहि शंतनुर्यत्तद्वचोबलाद्भीष्मःस्वच्छन्दमृत्युरभूदित्यर्थः। न तु फलाप्तौ गतिपर्वत्वेनकालविशेषो विवक्षितोऽतश्चायनेऽपि हि दक्षिण इतिन्यायविरोधादग्निर्ज्योतिरहः शुक्लइत्यत्रापि देवतैव विवक्षिताऽऽतिवाहिकन्यायादित्यर्थः॥१३३॥

अन्यथा कृतनाशः स्यादकृताभ्यागमस्तथा॥
देवताग्रहणात्तस्माद्देवतैवार्चिरुच्यते॥१३४॥

यदि श्रुतिस्मृत्योर्मार्गपर्वत्वेन कालविशेषोऽपेक्षितस्तदा मरणकालानियमाद्रात्र्यादौ मरणेऽप्यहरादिप्रतीक्षा स्यादन्यथा गतिहीनस्य फलित्वायोगात्ततश्च रात्र्यादौ मृतिप्रापकस्य कृतस्य नाशोऽहरादिप्रतीक्षाहेतोश्चाकृतस्याऽऽगतिरित्याह। अन्यथेति।अर्चिःशब्दार्थं निगमयति। देवतेति। यस्मादहरादिशब्दैरसंदिग्धं देवताग्रहणंतस्मादिति योजना॥१३४॥

तस्मादेवंविदो धीरा अर्चिराद्यभिमानिनीम्॥
क्रमेण देवतां यात्वा वैरिञ्चंयान्ति तत्पदम्॥१३५॥

ते य इत्यादिवाक्यार्थमुपसंहरति। तस्मादिति। तच्छब्देन देवताग्रहोक्तिः॥१३५॥

श्रद्दधानास्तपस्यन्तः सत्यं ब्रह्म समाहिताः॥
उपासते बहिर्ग्रामादर्चिस्ते संभवन्त्यतः॥१३६॥

पञ्चाग्न्युपासकानामुत्तरमार्गाप्तिमुपसंहृत्य ये चेत्यादिवाक्यार्थमुपसंहरति। श्रद्दधानाइति॥१३६॥

ब्रह्मणः स्थानमायान्ति यद्वा स्वाश्रमकर्मभिः॥
संन्यासाद्ब्रह्मणः स्थानं तथाच स्मृतिशासनम्॥१३७॥

<MISSING_FIG href="../books_images/U-IMG-1733112605Capture2.PNG"/>सत्यशब्दस्य सूत्रविषयत्वमुक्त्वा तेन सत्यवदनं गृहीत्वा वाक्यस्यार्थान्तरमाह।ब्रह्मण इति। श्रद्धापूर्वकं स्ववर्णाश्रमविहितसत्यवदनाद्यनुष्ठानाद्ब्रह्मलोकमुत्तमाश्रमिणोगच्छन्तीत्यत्र मानमाह। संन्यासादिति। केवलादेव यथावदनुष्ठितादित्यर्थः॥१३७॥

ततोऽहर्देवतां यान्ति शुक्लपक्षं ततः क्रमात्॥
षण्मासांश्च ततो यान्ति ह्युत्तरायणलक्षणान्॥१३८॥

देवतां च ततो यान्ति देवलोकाभिमानिनीम्॥
तत आदित्यमायान्ति वैद्युतं चापि भास्करात्॥१३९॥

ब्रह्मणा मनसा सृष्टो मानसः पुरुषस्ततः।
ब्रह्मलोकान्स नयति सोऽप्यभ्येत्याथ वैद्युतान्॥१४०॥

ते तेषु ब्रह्मलोकेषु दीप्यमानाः पराः समाः॥
ब्राह्ममानाः समा ग्राह्या ब्रह्मलोकेषु तच्छ्रुतेः॥१४१॥

तेऽर्चिषमित्यादि व्याख्यायार्चिषोऽहरित्यादि योजयति। तत इत्यादिना। अर्चिरादिपदोक्तप्रक्रियाग्रहार्थं क्रमादित्युक्तम्। षण्मासा। उत्तरायणमितिस्मृतिप्रसिद्ध्यर्थंहीत्युक्तम्। ततो ब्रह्मलोकादभ्येत्येति संबन्धः। वैद्युतान्विद्युद्देवताधीनान्विदुष इतियावत्। शैघ्य्रद्योतकोऽथशब्दः। तेषु वसन्तीति संबन्धः। समाशब्देनोक्तसंवत्सरग्रहेहेतुमाह। ब्रह्मलोकेष्विति। तच्छब्देन समोक्तिः॥१३८॥१३९॥१४०॥१४१॥

सार्ष्टिसालोक्यसायुज्यव्यपेक्षा बहुगीरियम्॥
समष्टिव्यष्टिभेदं वा व्यपेक्ष्य बहुवागियम्॥१४२॥

सत्यलोकस्यैक्याद्ब्रह्मलोकानित्यादिबहुवचनं कथमित्याशङ्क्याऽऽह। सार्ष्टीति। साधनतारतम्यात्फलतारतम्यं गृहीत्वा बहूक्तिरित्यर्थः। गत्यन्तरमाह। समष्टीति। ब्रह्मलोकस्य सूत्रदेहस्य सामान्यविशेषात्मना बहुरूपत्वात्तदपेक्षया बहूक्तिरित्यर्थः॥१४२॥

___________________________________________________________

<MISSING_FIG href="../books_images/U-IMG-1733112605Capture2.PNG"/>अत्र पुस्तकद्वयेऽपि सत्योपास्तिरतः शब्दस्येति वर्तते परं तु किंचित्त्रुटितं स्यादथवा कानिचिदक्षराण्यधिकपतितानि स्युरिति मत्वा सत्यशब्दस्येत्यर्थानुकूलं स्थापितम्।

आवृत्तिर्न पुनस्तेषां यावदाभूतसंप्लवम्॥
आभूतसंप्लवस्थानममृतत्वं हि भाष्यते॥१४३॥

तेषामित्यादि व्याकरोति। आवृत्तिरिति। देवतानाममृतत्वश्रवणाद्यावदित्यादिविशेषणमयुक्त-मित्याशङ्क्याऽऽह। आभूतेति॥१४३॥

ऐकात्म्यधीसमुत्पत्तेर्यदि वा ब्रह्मलोकतः॥
मुच्यन्ते न निवर्तन्ते यथा धूमादिमार्गगाः॥१४४॥

अनावृत्तिश्रुतेर्मुख्यार्थं प1578क्षान्तरमाह। ऐकात्म्येति। तत्र वैधर्म्यदृष्टान्तः। यथेति॥१४४॥

इमं मानवमावर्तमित्याद्यस्य विशेषणात्॥
अत्रैव कल्पेऽनावृत्तिर्न त्वन्येष्वनिवारणात्॥१४५॥

तेषामित्यादिवाक्ये क्रममुक्तिरापेक्षिकी वाऽनावृत्तिरिष्टेत्युक्तं तत्र द्वितीये गमकमाह। इममिति। अनावृत्तिशब्दार्थस्येममिति विशेषणाद्वर्तमानकल्पेऽनावृत्तिः कल्पान्तरेषु नैव तत्र निवारकाभावादित्यर्थः॥१४५॥

देवयानः समासेन पन्था यत्नात्प्रपञ्चितः॥
व्याख्याऽथ पितृयाणस्य सम्यगारभ्यतेऽधुना॥१४६॥

अथ ये यज्ञेनेत्यादिवाक्यस्य वृत्तमनूद्य तात्पर्यमाह। देवयान इति। समासेनाल्पग्रन्थेनेति यावत्। अर्चिरादिपर्वणां प्रत्येकमुपन्यासो यत्नः। देवयानोक्त्यनन्तरंपितृयाणोक्तेरवसरार्थोऽथशब्दः॥१४६॥

देवादिज्ञानहीनेन येऽथ यज्ञेन सद्द्विजाः॥
लोकाञ्जयन्ति दानेन सद्देशादिमता तथा॥१४७॥

निःशेषकल्मषध्वंसितपसा वाऽविपश्चितः॥
मृतास्ते धूममायान्ति धूमाद्रात्रिं तमस्विनः॥१४८॥

रात्रेरपरपक्षं चदक्षिणायनदेवताम्॥
मासेभ्यः पितृलोकं हि पितरो यत्र शेरते॥
पितृलोकाच्च ते चन्द्रं यान्त्यन्नं तद्दिवौकसाम्॥१४९॥

तात्पर्यमुक्त्वा वाक्यं योजयति। देवादीति। केवलसुकृतनिर्वर्तनानन्तरं लोकजयप्रसङ्गं दर्शयति। अथेति1579। क1579र्माधिकारिणमाह। सद्द्विजा इति। दातव्यमिति यद्दानमित्यादिस्मृतेर्विशिष्टदेशकालपात्रविशिष्टमेव दानं लोकजयहेतुरिति सूचयति। सद्देशादीति।तपसो निःशेषकल्मषध्वंसित्वं तपसा कल्मषं हन्तीति स्मृतेर्मन्तव्यम्। अविपश्चित इति च्छेदः। ते धूममित्यादेरर्थमाह। मृता इति। दक्षिणायनदेवतामित्यु1580क्तत्वाद्धूमादावपि देव-

ताग्रहः। पितृलोकस्य देवतां व्यावर्तयति। पितर इति। तच्छब्दश्चन्द्ररूपपरामर्शार्थः॥१४७॥१४८॥१४९॥

चन्द्रं प्राप्यान्नभावं च ते यतस्तत्र संस्थिताः॥
असकृद्भक्षयन्त्येतानाप्याय्याऽऽप्याय्य सोमवत्॥१५०॥

ते चन्द्रमित्यादेरर्थमाह। चन्द्रमिति। अन्नभावं च यान्तीति संबन्धः। तानित्यादिव्याचष्टे। यत इति। यथर्त्विजो यज्ञे चमसस्थं सोममाप्याय्याऽऽप्याय्य भक्षयन्तितथा पितृलोकस्था देवाश्चन्द्रप्राप्तान्कर्मिणः पुनराप्याय्य यतो भुञ्जतेऽतो युक्ता तेषामन्नतेत्यर्थः॥१५०॥

पक्षे शुक्ले तमाप्याय्य कृष्णे तं भक्षयन्त्यथ॥१५१॥

भोगसाधनभावश्च भक्षयन्तीति भण्यते॥
न त्वभ्यवहृतिर्न्याय्यावेदवर्त्मनि तिष्ठताम्॥१५२॥

दृष्टान्तं विधान्तरेण विवृणोति। पक्ष इति। आप्यायनभक्षणयोः पौनःपुन्यमथशब्दार्थः। कर्मिणश्चन्द्रं प्राप्ता देवैर्भक्ष्यन्ते चेदनर्थायैव तत्प्राप्तिरिति प्राप्तमननुष्ठानमित्याशङ्क्यभाक्तं वाऽनात्मवित्त्वादितिन्यायेनाऽऽह।भोगेति। श्रौतं भक्षणं मुख्यमेव किं न स्यात्तत्राऽऽह। न त्विति। तत्र हेतुः। वेदेति। तिष्ठतां सत्त्वाधिकानामहिंसादिप्रवणानामि1581तियावत्॥१५१॥१५२॥

यदा तूपचितं कर्म पर्यवस्यति भोगतः॥
तेषामथैतमध्वानमावर्तन्ते यथागतम्॥१५३॥

आकाशमनुनिष्पद्य वायुमायान्त्यभोगिनः॥
वायोर्वृष्टिमवाप्याथ वृष्टेश्चपृथिवीं ततः॥
अन्नभावं पृथिव्याऽतस्ते समायान्ति भूमिगाः॥१५४॥

तेषां यदेत्यादि व्याकरोति। यदा त्विति। कृतात्ययेऽनुशयवानिति न्यायादनुशयस्याऽऽगतिहेतुत्वं सूचयति। अथेति। तत्र तत्राऽऽकाशादौ भोगप्रसङ्गं प्रत्याह।अभोगिन इति। व्रीह्यादिभावात्पूर्वमाकाशादौ नातिचिरेणेति न्यायं सूचयितुमथशब्दः।चकारः साभाव्यापत्तिन्यायसमुच्चयार्थः। अन्नभावो व्रीह्यादिसंश्लेषमात्रमन्याधिष्ठिते पूर्ववदभिलाषादिति न्यायात्। सहार्थे तृतीया। सा हि व्रीह्यादिभावेन परिणता तयासह कर्मिणोऽपि वृष्टिरूपेण तत्प्राप्त्यनन्तरं तत्र संश्लिष्यन्ते ततश्चातिकृच्छाच्छरीरंलभन्तेऽतो वै खलु दुर्निष्प्रपतरमिति श्रुतेरित्यर्थः॥१५३॥१५४॥

घटीयन्त्रवदश्रान्ता एवमेव पुनः पुनः॥
परिवर्तन्ति संसारे कर्मवायुसमीरिताः॥१५५॥

एवमित्यादेरर्थमाह। घटीयन्त्रवदिति। न हि वैदिका वेदमूर्तयो वेदवत्प्रयुञ्जाना लौकिकैरुपालभ्येरन्॥१५५॥

दक्षिणस्य पथो व्याख्या यथावदनुवर्णिता॥१५६॥

यथोक्तलक्षणौ ये तु पन्थानावुत्तरेतरौ॥
न विदुस्ते भवन्तीह कीटाद्या दुःखभोगिनः॥१५७॥

अथेत्यादि वृत्तानुवादेनावतार्य व्याकरोति। दक्षिणस्येत्यादिना॥१५६॥१५७॥

नाऽऽद्रियन्त इदं ज्ञानमुदङ्मार्गाप्तिसाधनम्॥
कर्म वा पितृयाणाप्तौ ते कीटाद्यामियुर्गतिम्॥१५८॥

मार्गद्वयाज्ञानेऽपि तत्प्राप्तिहेत्वोर्ज्ञानकर्मणोः सत्त्वे कथं कीटाद्याप्तिरित्याशङ्क्यविद्याकर्मणोरिति तु प्रकृतत्वादिति न्यायेनाऽऽह। नेत्यादिना॥१५८॥

गोमयाद्युद्भवाः कीटाः पतङ्गाः शलभास्तथा॥
दंशाश्च मशकाश्चैव दन्दशूकाः सपन्नगाः॥१५९॥

कीटादिपदानामपुनरुक्तमर्थमाह। गोमयादीति॥१५९॥

यतिथ्यामिति यः प्रश्नः स पुंजन्मोक्तितो गतः॥
तदनन्तरमेवोक्ता व्यावृत्तिश्च पथोर्द्वयोः॥१६०॥

नन्वत्र पञ्च प्रश्ना निर्णेतव्यत्वेन प्रक्रान्तास्तेषां निर्णयो नेह कृतस्तथाच किमिदमकाण्डताण्डवमत आह। यतिथ्यामिति। षष्ठाग्न्याप्त्यनन्तरं केचिदर्चिर्गच्छन्ति केचिद्धूममिति विप्रतिपत्त्याऽऽद्यप्रश्नस्य निर्णीतत्वमाह। तदनन्तरमिति॥१६०॥

आकाशाद्यभिसंभूत्या पुनरावर्तनं गतम्॥
देवयानं च यत्कृत्वा पितृयाणं च लभ्यते॥१६१॥

साधनं तदपीहोक्तं ज्ञानकर्मस्वलक्षणम्॥
लोकस्यापूरणे हेतुः समाप्तावुदितः स्फुटः॥१६२॥

द्वितीयं प्रश्नं प्रत्याह। आकाशादीति। पञ्चमप्रश्नस्य निर्णीतत्वप्रकारमाह।देवयानं चेति। तृतीयप्रश्नस्योत्तरमाह। लोकस्यति॥१६१॥१६२॥

कीटादीनामागमनाद्गतानां चाऽऽगतेस्तथा॥
एवं पञ्चापि निर्णीताः प्रश्ना ये प्राक्प्रचोदिताः॥१६३॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके षष्ठाध्यायस्य
द्वितीयं ब्राह्मणम्॥२॥

उक्तमेव प्रकटयति। कीटादीनामिति। संयमने त्वनुभूयेत्यादिन्यायस्तथाशब्दार्थः।ब्राह्मणमुपसंहरति। एवमिति॥१६३॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिकटीकायां षष्ठाध्यायस्य
द्वितीयं ब्राह्मणम्॥२॥

श्लोकानामादितः समष्ट्यङ्काः—१०९३६
—————

अथ तृतीयं ब्राह्मणम्।
————

वित्तं विना न सिद्धिः स्याद्दृष्टादृष्टार्थकर्मणः॥
यतोऽतः कर्म मन्थाख्यं तादर्थ्येनाभिधीयते॥१॥

ज्ञानकर्मणोर्गतिरुक्ता संप्रत्युत्तरस्य ब्राह्मणस्य तात्पर्यमाह। वित्तमिति। तादर्थेनवित्तार्थत्वेनेति यावत्॥१॥

पितुर्लोक्यो यथा पुत्रः कर्मणेहोपजायते॥
तादृक्पुत्रार्थिनः कर्म त्वेषामित्यादिनोच्यते॥२॥

पुत्रमन्थब्राह्मणस्य तात्पर्यमाह। पितुरिति। यथाशब्दो यादृगर्थः। इहेति विद्यादशोक्तिः। कर्मणेत्यत्र येनेत्यध्याहारः। कर्मेत्यत्रापि तच्छब्दो द्रष्टव्यः॥२॥

यः स्यात्कामग्रहग्रस्तो वित्तापत्योद्भवं प्रति॥
तं प्रत्येवेति विज्ञेयं कर्मेदं न त्वकामिनम्॥३॥

अथात्र शास्त्रे मुमुक्षोरधिकारादिदमपि कर्मद्वयं तं प्रति युक्तमत आह। यःस्यादिति। स यः कामयेतेत्युपक्रमान्मुमुक्षोश्च वित्तापत्योद्भवकामानामभावादितिभावः॥३॥

प्राप्नुयां सुमहद्वित्तमिति यः कामयेत ह॥
इत्युक्त्याऽवाप्तवित्तस्य नेदं कर्मेति गम्यते॥४॥

ब्राह्मणद्वयतात्पर्यमुक्त्वा स य इत्यादि व्याचष्टे। प्राप्नुयामिति। यथोक्तकामनाया लोकप्रसिद्धत्वद्योतनार्थो निपातः। तस्येदं कर्म विधित्सितमिति शेषः। वित्तार्थिनं प्रति कर्म ब्रुवतो वाक्यस्याभिप्रायमाह। इत्युक्त्येति॥४॥

महत्त्वमात्मनोऽत्यर्थं यो वा कामयते गृही॥
महत्ता न विना वित्तं कर्मातो वित्तसिद्धये॥५॥

महच्छब्दस्यार्थान्तरं गृहीत्वा विधान्तरेण वाक्यं योजयति। महत्त्वमिति। तस्येदंकर्मेति शेषः। महत्त्वार्थिनश्चेदिदं कर्म तर्हिवित्तार्थिनस्तदितिप्रतिज्ञाहानिस्तत्राऽऽह।

महत्तेति। ऐश्वर्यं हि महत्त्वं न च तद्वित्तं विना लभ्यं तथाचार्थात्तत्सिद्धिरिह फलतीतिन प्रतिज्ञाहानिरित्यर्थः॥५॥

कालो विधीयते चास्य मन्थाख्यस्येह कर्मणः॥
श्रुत्योदगयनाद्युक्त्या कर्मसिद्ध्यै प्रयत्नतः॥६॥

उदगयन इत्यादिवाक्यतात्पर्यमाह। काल इति। इह गृहिणि वित्तार्थिनीतियावत्। काले कर्म विधीयते नाका1582ल इति न्यायमाश्रित्य कर्मण इत्युक्तम्। तद्विधिफलमाह। कर्मेति। प्रयत्नत इत्यभ्यासं दर्शयति॥६॥

प्रार्थनीयः पुरा कालो विशुद्धिश्चाऽऽत्मनस्ततः॥
द्रव्याण्योषधयश्चैव देशश्च तदनन्तरम्॥७॥

यस्मिन्कस्मिंश्चित्कालादौ कर्माऽऽरभ्यानन्तरं विशिष्टकालाद्यनुसंधानेन निर्वर्त1583नमाशङ्क्याऽऽह। प्रार्थनीय इति। पयोघृतादीनि द्रव्याणि। ओषधयो व्रीहियवाद्याः॥७॥

कालादीनां गुणानां च कर्मण्यस्मिन्समुच्चयः॥
न विकल्पः समृद्धिः स्यात्कर्मणोऽस्य समुच्चितौ॥८॥

देशादीनामन्यतमसंपत्त्याऽपि कर्मारम्भसंभवान्न सर्वं पूर्वं निरूप्यमित्याशङ्क्याऽऽह। कालादीनामिति। शुद्धिश्रद्धादयो गुणाः। विकल्पेऽपि का हानिरित्याशङ्क्य समुच्चयस्वीकारफलमाह। समृद्धिरिति॥८॥

कर्मणश्चास्य निष्पत्तौ विद्वत्ताऽपि समाश्रिता॥
यतोऽतः सूत्रितं नेदं सूत्रकृद्भिर्यथोदितम्॥९॥

अग्निहोत्रादिवदिदं कर्म वैदिकं चेत्किमिति कल्पसूत्रकारैर्न सूत्रितमित्याशङ्क्याऽऽह। कर्मणश्चेति। पूर्वोक्तकालवदित्यपेरर्थः॥९॥

यो ह वै ज्येष्ठमित्युक्त्या विद्वत्ता या पुरोदिता॥
तस्यां सत्यामिदं कर्म ज्येष्ठायेत्यादिलिङ्गतः॥१०॥

कीदृशी विद्वत्ता तत्रोपयुक्तेति तत्राऽऽह। यो हीति। प्रकृतकर्मसमवेतमन्त्रसामर्थ्यात्प्राणविदो यथोक्तं कर्माधिगतमित्यर्थः॥१०॥

भूमिशय्या पयःपानं ब्रह्मचर्यं च वाग्यमः॥
उपसद्व्रतमेतत्स्यादमावास्येति लिङ्गतः॥११॥

उपसद्व्रती भूत्वेत्यत्र किं तदुपसत्सु व्रतं तत्राऽऽह। भूमीति। तत्र गमकमाह।अमावास्येतीति। उदगयनेऽमावास्यायां दीक्षित्वा पूर्वपक्षस्येत्यादिश्रुत्यन्तरादमावास्यायां च ब्रह्मचर्यादेः साग्निविषये प्रसिद्धत्वादुपसद्व्रतमित्यत्र चतुष्टयमिष्टमित्यर्थः॥११॥

अग्निमित्येकवचनात्तथैवोल्लेखनादितः॥
न मुख्योपसदामत्र संभवोऽस्तीति गम्यते॥१२॥

उपसद एव व्रतमिति व्युत्पत्तेर्नोपदिष्टचतुष्टयग्रहणमित्याशङ्क्याऽऽह। अग्निमितीति। अग्निमुपसमाधायेति श्रुतेरेकाग्निसंबद्धमेतत्कर्मोपसदस्तु ज्योतिष्टोमादौ प्रवर्ग्याहे श्रूयमाणास्त्रेताग्निगामिन्यस्तथोल्लेखनपरिसमूहनादिसंबद्धमिदं कर्म न चोपसदां तत्संभवस्तस्मात्तासामत्रासंभवादुपसत्सु व्रतमित्येव व्युत्पत्तिरित्यर्थः॥१२॥

ताम्रं नौदुम्बरं ग्राह्यमिध्मैस्तस्य विरोधतः॥
वानस्पत्यमतो ग्राह्यं कर्मण्यौदुम्बरं श्रुतौ॥१३॥

विकल्पवाक्ये श्रुतमौदुम्बरं ताम्रमिति केचित्तान्प्रत्याह। ताम्रमिति। औदुम्बरइध्म इतिशेषविरोधं हेतुमाह। इध्मैरिति। कीदृगौदुम्बरं तर्हि ग्राह्यं तत्राऽऽह।वानस्पत्यमिति॥१३॥

ग्राम्याणि दश धान्यानि फलपुष्पाणि सर्वतः॥
अप्रमादकराणीह भक्ष्यमेध्यानि यानि च॥१४॥

सर्वौषधमित्यादेरर्थमाह। ग्राम्याणीति। सर्वतः सर्वाणीति यावत्। मदकराणिफलानि व्यावर्तयति। अप्रमादेति। इह भक्षणे सतीति यावत्। लशुनादिव्यावर्त्यमाह।भक्ष्येति। तान्यस्मिन्कर्मणि ग्राह्याणीति शेषः॥१४॥

दशेति नियमार्थं स्यान्न ततोऽन्यनिषेधने॥
भूरिदोषोपदुष्टत्वात्परिसंख्याविधेरिति॥१५॥

वाक्यशेषाद्दशेति विशेषणं तस्य तात्पर्यमाह। दशेतीति। नियमस्य गणितद्रव्यग्रहे तात्पर्यं नान्यनिवृत्तौ तदधिकग्रहेऽपि विशेषणमविरोधीति भावः। अन्यनिवर्तकपरिसंख्यार्थमेव विशेषणं किं न स्यात्तत्राऽऽह। भूरीति। श्रौतसर्वविशेषणत्यागोऽश्रुतान्यनिवृत्तिस्वीकारः —

“व्रीहयश्च यवाश्चैव गोधूमा अणवस्तिलाः।
प्रियंगवोऽभ्युदाराश्चकोरदूषाःसचीणकाः॥

माषामुद्गा मसूराश्च निष्पावाः सकुलत्थकाः।
आढक्यश्चणकाश्चैव श्यामाः सप्तदश स्मृताः॥

इत्येता ओषधीनां तु ग्राम्याणां जातयः स्मृताः।
ओषध्यो यावकाश्चैव ग्रामारण्याश्चतुर्दश”॥

इत्यादिस्मृतिविरोधश्चेतिबहुदोषदुष्टत्वादत्र परिसंख्यायोगान्नियम एवेत्यर्थः। इतिशब्दो नियमनिगमनार्थः॥१५॥

कंसाद्याकारसिद्ध्यर्थं कंसाद्युक्तिरिहोच्यते॥
तण्डुलान्फलपुष्पाणि पिष्ट्वा पात्रे निधापयेत्॥१६॥

दध्नाच मधुना पिष्टं सम्यगालोड्यपात्रगम्॥
स्थापयेत्कृतरक्षं सच्छुचौ देशे प्रयत्नतः॥१७॥

विकल्पवाक्यस्य तात्पर्यमाह। कंसादीति। इहेति पात्रमुच्यते। आकारे विकल्प आकारिणि त्वौदुम्बरे नियम इति भावः। इति संभृत्येत्यस्य तात्पर्यमाह। तण्डुलानिति। आलोड्य खजकेन मथित्वेति यावत्। प्रयत्नतः कृतरक्षमिति संबन्धः। रक्षाकरणं काकश्वाद्युपघातपरिहारः॥१६॥१७॥

परीत्यादिगिरा चात्र देशसंस्कार उच्यते॥
संस्कृते भूप्रदेशेऽथ ह्यग्निं संस्थापयेद्गृही॥१८॥

परिसमुह्यादेस्तात्पर्यमाह। परीत्यादीति। परिसमूहनोपलेपनोल्लेखनोद्धारणाभ्युक्षणलक्षणो देशसंस्कारः। अत्रेति प्रकृतवाक्योक्तिः। अग्निमुपसमाधायेत्यस्यार्थमाह।संस्कृत इति। भूसंस्कारस्याग्निप्रतिष्ठां प्रति हेतुत्वं सूचयति। अथेति। एतच्चगृह्यप्रसिद्धं ग्राह्यमिति हिशब्दार्थः॥१८॥

लेपनादि च कर्तव्यं कृतपूर्वेऽपि तद्विधेः॥
इति कातीयवचनमदृष्टार्थत्वकारणात्॥१९॥

ननु देशशुद्धिं निरूप्याऽऽरब्धत्वात्कर्मणः शुद्धे देशे पुनः संस्कारो नोपयुज्यतेतत्फलस्य सिद्धत्वादत आह। लेपनादीति। दृष्टार्थतया कृतशोधनेऽपि देशे लेपनादिकर्तव्यमिति कात्यायनप्रणीतं वाक्यमुपलभ्यते परिसमुह्योपलिप्योल्लिख्योद्धृत्याभ्युक्ष्येत्यादि। तथाच परिसमूहनादिविधेर्दर्शादिविधिवददृष्टार्थत्वात्तत्कार्यता। द्विविधा हिशुद्धिर्दृष्टादृष्टभेदात्तत्राऽऽद्या प्रागेव प्रयोगादृते विधेः सिद्धा द्वितीया तु वैधीतितादर्थ्येन परिसमूहनादि विधिना कर्तव्यमित्यर्थः॥१९॥

पाकयज्ञविधानेन संस्कृत्याऽऽज्यं यथाविधि॥
पुंसा हस्तादिनर्क्षेण मन्थमानीय सिद्धये॥२०॥

खजकेनैकधीकृत्य मन्थद्रव्यमतः परम् !!
आवापस्थान आज्यस्य हुत्वा नित्याहुतीस्ततः॥२१॥

यावन्त इत्युपक्रम्य मन्त्रैराज्यं यथाक्रमम्॥
हुत्वा हुत्वा च मन्थेऽथ संस्रवं प्रक्षिपेन्मुहुः॥२२॥

परिस्तीर्याऽऽवृतेत्यादेरर्थमाह। पाकयज्ञेति। ब्रह्मासनास्तरणप्रणीतासादनपरिस्तरणादि यथोपदेशं कृत्वा निरूप्याऽऽज्यमधिश्रित्य पर्यग्नि कुर्यादित्युक्तस्थालीपाकप्रक्रिययाऽऽज्यं संस्कृत्य स्रावप्रतापादिद्वारा जुहुयादित्यर्थः। पुंसेत्यादेरर्थमाह। पुंसेति

नक्षत्रनियमे हेतुमाह। सिद्धय इति। सा हि तत्साध्यवित्तसिद्धावुपयुक्ताऽन्यपुंसेत्यादिश्रुतिविरोधादित्यर्थः। खजकेन प्रथमेन मथेति यावत्। मन्थद्रव्यमग्नेरात्मनःदक्षिणतः स्थापयेदिति शेषः। जुहोतेरर्थमाह। अतः परमिति। आवापस्थानमाहुतिविशेषप्रक्षेपदेशः। हुत्वा संस्रवं प्रक्षिपेदिति संबन्धः। नित्याहुतीरित्याघारावाज्यभागैःमहाव्याहृतयः सर्वप्रायश्चित्तं स्विष्टकृच्चेत्येवंलक्षणा विवक्षिताः। यावन्त इत्यादेस्तात्पर्यमाह। तत इति। भो जातवेदस्त्वदधीना यावन्तो देवा वक्रमतयःसन्तो मम पुरुषस्यार्थान्प्रतिबध्नन्ति तेभ्योऽहमाज्यभागं त्वय्यर्पयामि ते च तेन तृप्ता भूत्वा सर्वैरपिपुरुषार्थैर्मांतर्पयन्तु। अहं त्वदधीनोऽर्पित इत्याद्यमन्त्रस्यार्थः। जातं जातं वेत्तीति वाजाते जाते विद्यत इति वा जातवेदाः। या देवता कुटिलधीर्भूत्वा सर्वस्याहमेव धारयित्रीति मत्वा त्वामाश्रित्य वर्तते तां सर्वसाधनीं देवतामहं घृतस्य धारया यजे स्वाहेतिपूर्ववदेष द्वितीयमन्त्रार्थः। संस्रवं स्रुवावलिप्तमाज्यं चकारोऽवधारणार्थस्तिङासंबध्यतेहोमद्वयापेक्षया वक्ष्यमाणहोमेषु वि1584शेषार्थोऽथशब्दः॥२०॥२१॥२२॥

स्वाहाकारावसानाः स्युर्मन्त्राः सर्वे यथोदिताः॥२३॥

मन्त्रद्वयेन ज्येष्ठादौ होमः कार्यो विजानता॥
अग्न्यादावेकशः कार्यो यावन्मन्थावमर्शनम्॥२४॥

मन्त्रपरिमाणं ज्ञापयति। स्वाहेति। यद्विवक्षयाऽथशब्दस्तं दर्शयति। मन्त्रेतिविजानता यथोक्ते कर्मण्युपदेशवतेत्यर्थः। अग्न्यादावित्यग्नये स्वाहेत्यस्याऽऽदी रेतसेस्वाहेति मन्त्रस्तस्मिन्निति यावत्। उक्तं च भाष्ये रेतस इत्याद्यारभ्यैकैकामाहुतिं हुत्वेत्यादि॥२३॥२४॥

अथ स्विष्टकृदन्तेऽस्मिन्होमानन्तरमेव तत्॥
द्वितीयेन मथाऽऽलोड्य ह्यथाभिमृशति पाणिना॥२५॥

अथैनमित्यत्राप्यथशब्दार्थमाह। अथेति। अस्मिन्होमे सत्यवसाने स्विष्टकृद्धोमकर्तव्य इति यावत्। उक्तमेवाथशब्दार्थं स्फुटयति। होमेति। अपरयेत्यादिभाष्यार्थमाह। तदिति। मन्थद्रव्यमिति यावत्। दधिमधुभ्यां सह प्रथमेन मथा यदालोडनमुक्तं तद्वदिति हिशब्दार्थः। व्यादाय स्वपितीतिवदवमर्शानन्तर्यमालोडनस्य व्यावर्तयतिअथेति॥२५॥

भ्रमसीत्यादिना मन्थं स्मरंस्तद्देवतां हृदा॥
भ्रमसि प्राणभूतस्त्वं न ह्येकत्रावतिष्ठमे॥२६॥

तन्मन्त्रमवतारयति। भ्रमसीत्यादिनेति। ज्ञातदेवताकं मन्त्रानुष्ठानं फलवदिति

मत्वाऽऽह। स्मरन्निति। कथं मन्थद्रव्यं भ्रमदसीत्यभिमृश्यते न हि तस्याचेतनस्यस्वतो भ्रमणं संभवति तत्राऽऽह। भ्रमसीति॥२६॥

ज्वलज्जाज्वल्यमानस्त्वं जठरस्थान्नपाककृत्॥
पूर्णं च सर्वतोव्यापि सर्वत्रानवखण्डितम्॥२७॥

कथं तर्हि ज्वलदसीत्युच्यते न हि प्राणस्य चलनात्मकस्य ज्वलनमस्ति तत्राऽऽह।ज्वलदिति। कुतस्तर्हि परिच्छिन्नस्य पूर्णत्वं तत्राऽऽह। पूर्णं चेति। व्यापित्वं ब्रह्मरूपेण साधयति। सर्वत्रेति॥२७॥

प्रस्तब्धोऽसि स्थिरत्वाच्च वियद्वन्न विकम्पसे॥२८॥

सर्वतोऽपरिपन्थित्वात्सर्वैश्चाप्यनुकूलतः॥
त्वमेकशफमित्युक्तं शफैका या त्वदात्मिका॥२९॥

तथाऽपि प्राणाद्यात्मना क्रियावतो न प्रस्तब्धत्वमित्याशङ्क्यतदपि ब्रह्मरूपेणैवेत्याह। प्रस्तब्धोऽसीति। कथमनवच्छिन्नमविक्रियमेकशफमित्युच्यते न हि पादादिहीनस्य तदर्थत्वं तत्राऽऽह। सर्वत इति। प्राणरूपं हि मन्थद्रव्यं प्रतिबन्धकत्वाभावात्सर्वानुकूलत्वाच्च सर्वमपि जगदेकशफवदात्मन्यतर्भाव्यानवच्छिन्नतया स्थितमित्यर्थः। उक्तं संक्षिपति। शफेति। या खल्वेका शफा जगदात्मिका निखिलमपि जगत्तव पादभागत्वेन वर्तते न तु पादत्वेऽपि पर्याप्तमतोऽनवच्छिन्नस्त्वमित्यर्थः॥२८॥२९॥

उद्गात्रा हिंकृतं पूर्वं स्तोत्रमुद्गायता स्फुटम्॥
यज्ञारम्भे तदा मध्ये गीयमानेऽथ सामनि॥३०॥

अपि हिंक्रियमाणोऽसि तथोद्गीथे विनिर्दिशेत्॥
श्रावितोऽध्वर्युणा च त्वमग्नीधा च तथोत्तरम्॥३१॥

तथाऽपि कथमेकमेव हिंकृतं हिंक्रियमाणं चेत्याशङ्क्यकालभेदादित्याह। उद्गात्रेति। यत्पूर्वं हिंकृतं तदेव मध्ये हिंक्रियमाणमित्यत्र कर्मिणां संमतिं सूचयितुमथेत्युक्तम्। उक्तमर्थमुद्गीथमसीप्रादावतिदिशति। तथेति। कथमुद्गातृनिर्वर्त्यकर्मात्मकस्याध्वर्युप्रभृतिनिष्पाद्य-कर्मात्मकतेत्याशङ्क्यसर्वात्मकत्वादित्याह। श्रावित इति॥३०॥३१॥

आर्देमेघोदरे विद्युत्संदीप्तोऽसीति कथ्यते॥
विविधं त्वमेव भवसि यतोऽतो विभुरुच्यते॥३२॥

सोमो वृष्ट्यादिभावेन प्रभुः प्रभवसीत्यतः॥
आदित्यः प्राणभावेन ह्यन्नभावेन सोमता॥३३॥

आर्द्रे संदीप्तमित्यादि व्याकरोति। आर्द्र इत्यादिना। सोमादिभावेन प्रभवसीत्यतःप्रभुरुच्यत इति संबन्धः। ननु विभुत्वेनोक्तस्य कथमन्नमसीत्यादिनाऽन्नादिमात्रत्वं

तत्राऽऽह। आदित्य इति। ज्योतिरसीत्याद्यपादेनान्नमसीत्यस्य च द्वितीयपादेनार्थउक्त इति विभागः। अनवच्छिन्नस्यान्नादिभावोऽपि संभवति सर्वात्मकत्वादिति हिशब्दार्थः॥३२॥३३॥

अन्नान्नादद्वयं सर्वं त्वमेव तदपि प्रभो॥
निधनं कारणत्वात्त्वं कारणे कार्यसंलयः॥३४॥

तदेव संक्षिप्याऽऽह। अन्नेति। अन्नत्वान्न निधनत्वमन्नादत्वात्तदभावोऽपिस्यादित्याशङ्क्याऽऽह। निधनमिति। तथाऽपि कथं निधनत्वं तत्राऽऽह।कारण इति॥३४॥

वागग्न्याद्यात्मसंपातात्संवर्गोऽसीति भण्यते॥
इति मन्त्रः समाप्तोऽयमभिमर्शनकर्मणि॥३५॥

संवर्गोऽसीत्यस्यार्थमाह। वागिति। अध्यात्मं प्राणरूपेण वागादीनामधिदैवं च वायुरूपेणाग्न्यादीनामात्मनि संहरणादित्यर्थः। इतिशब्दार्थमाह। इतीति॥३५॥

अथैनं मन्त्रपूतं सदुद्यच्छति यथोदितम्॥
आमंसीत्यादिमन्त्रेण तदर्थाविष्कृतिस्त्वियम्॥३६॥

मन्थस्योद्यमनमुक्त्वा तन्मन्त्रमवतार्य तद्व्याख्यानं प्रतिजानीते। अथेत्यादिना।अभिमर्शनानन्तर्यमथशब्दार्थः॥३६॥

आमंसीति भवेद्रूपं ज्ञानार्थस्यैव मन्यतेः॥
लेट्याङ्पूर्वस्य संसिद्धं शब्लुकीत्यवधारणात्॥३७॥

पदार्थं वक्तुमादौ पदनिष्पत्तिप्रकारमाह। आमंसीतीति। मन ज्ञान इत्यस्यधातोराङ्पूर्वस्य लेटि शपो लुकि सत्येतद्रूपं सिद्धं स्यादिति योजना। तत्र वैयाकरणप्रक्रियांप्रमाणयति। इत्यवधारणादिति॥३७॥

आसमन्ताद्विजानासि सूक्ष्मादि जगति स्थितम्॥
ज्ञेयं यावज्जगत्किंचिदामंसीति ततः सदा॥३८॥

इदानीं पदार्थमाह। आसमन्तादिति। यावत्किंचित्सूक्ष्मादि ज्ञेयमस्मिञ्जगतिस्थितं तत्सर्वं सर्वतो यतः सदा जानास्यतो जगदामंसीति व्यवह्रियस इत्यर्थः॥३८॥

यथाऽस्मांस्त्वं विजानासि तथैव त्वां वयं सदा॥
मन्यामहे वरीयांसं गुणवद्भ्योगुणाधिकम्॥३९॥

मन्थस्य प्राणात्मतया सर्वज्ञत्वमुक्त्वाऽऽमंहि त इत्यस्यार्थमाह। यथेति। वरीयांसमित्यस्य व्याख्या। गुणवृद्भ्य इति॥३९॥

महि महत्त्वं जानीम आमोऽसि त्वं तथा प्रभो।
न त्वं पाकसमायोगात्फलवन्नाशमृच्छसि॥४०॥

महीत्यस्यार्थमाह। महीति। आमंहीत्यखण्डं पदमादायार्थमुक्त्वा पदद्वयं गृहीत्वाऽऽममित्यस्यार्थमाह। आमोऽसीति। तथा महत्त्वज्ञानानुरूप्येणेति यावत्। आमत्वमुपपादयति। न त्वमिति॥४०॥

आमोऽपक्वंत्वयि गतं महत्त्वमपि भण्यते॥
यस्माद्राजाऽस्य सर्वस्य मां च देवः स सर्वदा॥४१॥

राजानं च तथेशानं करोत्वधिपतिं च माम्॥
उद्यम्यानेन मन्त्रेण भक्षयत्यथ भागशः॥४२॥

हिशब्दार्थमाह। आम इति। त्वयि व्यवस्थितं महत्त्वमपि त्वामिवाऽऽममविनाशि विद्वान्निश्चिनोतीत्यर्थः। महत्त्वस्याविनाशित्वमुपजीव्य स हीत्यादेरर्थमाह।यस्मादिति। जातितो राजत्वेऽपि शासनशक्तिराहित्यं क्वचिद्दृश्यते ततो विशेषमाह।ईशानमिति। ईशानशक्तिमतोऽपि राजकुमारादेरमात्यादितन्त्रत्वं दृष्टं ततो विशिनष्टि। अधिपतिमिति। अथैनमाचामतीत्यस्यार्थं वृत्तानुवादपूर्वकमाह। उद्यम्येति। उद्यमनफलं भक्षणमिति वक्तुमथेत्युक्तम्॥४१॥४२॥

गायत्र्या मधुमत्या च व्याहृत्या चेति पादशः॥
ग्रासमश्नाति मन्थस्य ह्युत्तरेषु तथैव च॥४३॥

कथं भागशो भक्षणं तत्राऽऽह। गायत्र्येति। मन्थद्रव्यग्रासचतुष्टयं कृत्वा ग्रासमेकं गायत्रीप्रथमपादेन प्रथमया मधुमत्या व्याहृत्या चाऽऽद्यया भक्षयेत्तथैवावशिष्टेष्वपि ग्रासेषु भक्षणविधिः। द्वितीयं ग्रासं द्वितीयेन गायत्रीपादेन द्वितीयया मधुमत्याव्याहृत्या च द्वितीयया भुञ्जंस्तृतीयं ग्रासं तृतीयेन गायत्रीपादेन तृतीयया मधुमत्यातृतीयया व्याहृत्या चाश्नीयाच्चतुर्थं ग्रासं समस्तया गायत्र्या सर्वया मधुमत्या सकलयाच व्याहृत्याऽभ्यवहरेदेवं समन्त्रकं भागशो भक्षणमित्यर्थः॥४३॥

सवितुस्तद्वरेण्यं स्याद्भर्गमन्नं महात्मनः॥
ऋतायन्ते तथा वाता मधुवत्सुखकारिणः॥४४॥

तत्सवितुर्वरेण्यमित्यस्यार्थमाह। सवितुरिति। स्वरूपभूतं पदं वरेण्यं वरणीयं भजनीयमित्यत्र हेतुत्वेन भर्गशब्दार्थमाह। भर्गमिति। महात्मनः सवितुरिति संबन्धः। महात्मत्वं व्यापित्वं सर्वात्मत्वं सवितृत्वं सर्वप्रसवहेतुत्वं तत्साधकत्वम्।आद्यां मधुमतीं व्याचष्टे। ऋतायन्त इति। तथेत्यस्यार्थमाह। सुखकारिण इति॥४४॥

अनुद्वेगकरा हृद्या ऋतायन्ते वहन्ति च॥
अमृतं मधु नद्योऽपि मदर्थं सर्वदा शुभम्॥४५॥

तदेव व्याकरोति। अनुद्वेगेति। प्रापणविषयमाह। अमृतमिति। चकारः

सुखकारित्वस्यामृतवहनेन समुच्चयार्थः। सिन्धवो नद्यस्ताश्च शुभं मध्यमृतं सर्वदा क्षरन्तीति संबन्धः॥४५॥

तृप्ता मोदामहे येन क्षरन्तीति क्रियापदम्॥
अत्यर्थं मधुररसाः सन्तु ह्योषधयश्च नः॥४६॥

मधुक्षरणफलमाह। तृप्ता इति। प्रथमार्थे द्वितीयेत्यभिप्रेत्याऽऽह। अत्यर्थमिति।ओषधीनां मधुररसत्वं लोके प्रसिद्धमिति वक्तुं हिशब्दः॥४६॥

त्रिकमुच्चार्य भूः स्वाहेत्याहुतिं प्रक्षिपेन्मुखे॥
त्रिकं त्रिकं तथोच्चार्य ह्युत्तरेष्वपि योजयेत्॥४७॥

उक्तार्थद्वयं भूः स्वाहेत्यनेन सह त्रिकं तदुच्चार्य व्याहृत्यन्ते प्रथमग्रासभक्षणमित्याह। त्रिकमिति। प्रथमाहुतिवद्द्वितीयतृतीयाहुती त्रिकं त्रिकमुच्चार्य कार्ये चतुर्थी तुसर्वमुच्चार्येति त्रिषु ग्रासेषु प्रयोगं जानीयादित्यर्थः। न्यायसाम्यार्थो हिशब्दः॥४७॥

देवस्य द्योतनवतो हृद्यंयच्चिन्तयेमहि॥
मधु नक्तमथो रात्रिर्मधुरा दुःखहानिकृत्॥४८॥

उषसो दिवसस्यापि माधुर्यंनोऽस्तु सर्वदा॥
पार्थिवं च रजो लोको ह्लादकृन्मधुमांस्तथा॥४९॥

द्युलोकः पितृलोकोऽथपिता हि द्यौर्यतो मतः॥
भुवः स्वाहेति मन्थस्य द्वितीयामाहुतिं क्षिपेत्॥५०॥

भर्गो देवस्येत्यादौ भर्गपदस्य व्याख्यातत्वादवशिष्टं व्याचष्टे। देवस्येति। वरेण्यमित्युक्तमनुवदति। हृद्यमिति। यद्देवस्य हृद्यं पदं तच्चिन्तयेमहीति योजना।द्वितीयां मधुमतीं व्याकरोति। मध्विति। अप्यर्थो रात्रिशब्दादुपर्यथोशब्दः संबध्यते। लोका रजांस्युच्यन्ते। स इमाल्ँ लोकान्विचक्रम इति श्रुतिमाश्रित्याऽऽह। रजो लोकइति। नक्तादिदृष्टान्तार्थस्तथाशब्दः। पितृरूपा द्यौरित्यत्र हेतुमाह। **पिता हीति।**मतः श्रुताविति शेषः। इयं वै मातेति पृथिव्या मातृत्ववदितिदृष्टान्तार्थोऽथशब्दः।उक्तार्थगायत्रीद्वितीयपादं द्वितीयां च मधुमतीमुच्चार्य भुवः स्वाहेत्युक्त्वा द्वितीयामाहुतिं कुर्यादित्याह। भुव इति॥४८॥४९॥५०॥

धियः प्रचोदयेद्योन उद्यन्प्रज्ञेन्द्रियाणि च॥
प्रचोदयतु नो देवः श्रेयसे सर्वदाऽऽत्मनः॥५१॥

गायत्रीतृतीयपादमादाय विभजते। धिय इति। यः सविता समुद्गच्छन्वर्तते सोऽस्माकं श्रेयसे ज्ञानानि तत्करणान्यस्मांश्च प्रेरयतुसर्वदेत्यर्थः॥५१॥

वनस्पतिस्तथा चन्द्रः सूर्यस्तु मधुरोऽस्तु नः॥
गावो दीधितयः सन्तु मधुमत्यो दिशोऽथवा॥५२॥

तृतीयां मधुमतींव्याचष्टे। वनस्पतिरिति। वनस्पतीनां चन्द्रो देवता सोम ओषधीनामिति श्रुतेस्तद्युक्तं तच्छब्देन तद्ग्रहणमित्यर्थः। तथाशब्दो मधुरोऽस्त्वितिसंबधार्थः। सूर्यादिग्रहादेव दीधितीनामपि ग्रहात्पुनरुक्तिमाशङ्क्यपक्षान्तरमाह। दिश इति॥५२॥

स्वः स्वाहेत्याहुतिक्षेपः समस्तां व्याहरेत्ततः॥
सावित्रीं मधुमतीश्चैव तिस्रोऽपि व्याहृतीस्तथा॥५३॥

चतुर्थीं प्रक्षिपेदेवमाहुतिं पूर्ववन्मुखे॥
अहमेव जगत्सर्वं भूयासमिति निर्ब्रुवन्॥५४॥

उक्तार्थद्वयमुक्त्वा स्वः स्वाहेत्युच्चार्य तृतीयामाहुतिं जुहुयादित्याह। स्वः स्वाहेति।सर्वां चेत्यादेरर्थमाह। समस्तामिति। पूर्ववदित्युक्तत्वाच्चतुर्थ्यामाहुतौ गायत्र्याद्यतिरिक्तमन्त्रराहित्य-माशङ्क्याऽऽह। अहमेवेति। आहुतिं प्रक्षिपेदिति पूर्वेण संबन्धः॥५३॥५४॥

स्मार्तमाचमनं त्वन्ते प्रायत्यार्थमिहोच्यते॥
अग्नेः पश्चिमतोऽथान्ते प्राक्शिराः संविशेत्ततः॥५५॥

अन्तत आचम्येत्यस्यार्थमाह। स्मार्तमिति। चतुर्थग्रासान्ते यदिहाऽऽचमनमुच्यतेतन्नापूर्वं किंतु शुद्ध्यर्थम्—

“आचम्य प्रयतो नित्यमुभे संध्ये समाहितः।
शुचौ देशे जपञ्जप्यमुपासीत यथाविधि”॥

इत्यादिस्मृतिप्रसिद्धमेवात्रानूद्यत इत्यर्थः। पाणी प्रक्षाल्येत्यादेरर्थमाह। अग्नेरिति।अथेत्याचमनानन्तरभाविहस्तप्रक्षालनानन्तर्यार्थः। अन्त इति ग्रासचतुष्टयभक्षणे सतीत्यर्थः।ततो यावत्प्रातःसंध्यं व्रतस्थः शयीतेत्याह। तत इति॥५५॥

प्रत्यूषसि ततो भक्त्या ह्यादित्यमुपतिष्ठते॥
वक्ष्यमाणेन मन्त्रेण ह्युपासीत रविं सदा॥५६॥

प्रातरादित्यमित्यादेरर्थमाह। प्रत्यूषसीति। ततः शयनादुत्थाय बहिर्गत्वा प्रातःसंध्यामुपास्य भक्तिश्रद्धाभ्यामुदयसमये सवितुरुपस्थानं कुर्यादित्यर्थः। संध्योपासन1585स्यस्मृतिप्रसिद्ध्यर्थो हिशब्दः। तं मन्त्रमवतारयन्नुपस्थानस्वरूपमाह। वक्ष्यमाणेनेति।सदेति प्रत्यहमुदयशब्दो गृह्यते। आदित्योपासनस्यापि प्रसिद्धत्वार्थो हिशब्दः॥५६॥

एकपुण्डरीकमिति प्रधानत्वं विवक्षितम्॥
एकशब्देन नो संख्या यथैकः श्वेतवाहनः॥५७॥

मन्त्रं व्याकरोति। एकेति। संख्याविषयत्वमाशङ्क्याऽऽह। एकशब्देनेति। तस्यप्रधाने प्रयोगाभावं शङ्कित्वाऽऽह। यथेति॥५७॥

दिशां यद्वत्प्रधानस्त्वं मनुष्याणां तथा ह्यहम्॥
भवेयं त्वत्प्रसादाद्भोः स्फीतः पुंभोगसाधनैः॥५८॥

पदार्थमुक्त्वा वाक्यार्थमाह। दिशामिति। स्वकीयप्राधान्यवरपरिज्ञानयोग्यत्वार्थोहिशब्दः। तथाविधं स्वप्राधान्यं स्फुटयति। स्फीत इति॥५८॥

यथेतमेत्याथाऽऽसीनः पश्चादग्नेःसमाहितः।
तं हैतमितियत्नेन वंशं जपति भक्तितः॥५९॥

वंशजपमवतारयति। यथेतमिति। आदित्योपस्थानानन्तरं बहिर्देशाद्यथागतमागत्याग्नेः पश्चादासीनो यत्नतः समाहितो भक्त्या वंशं जपेदित्यर्थः॥५९॥

तं हैतंमन्थंयत्नोक्तमुद्दालतनयः सुधीः॥
उक्त्वाऽथ याज्ञवल्क्याय तं प्रोवाचाथ विस्मितः॥६०॥

तं हेत्यादि व्याचष्टे। तं हेति। प्राणोपास्त्यानन्तर्यमाद्यस्याथशब्दस्यार्थः। कर्मानुष्ठानानन्तर्यं द्वितीयस्याथशब्दस्यार्थः। उभयं कृत्वा विस्मितः सन्नुद्दालको याज्ञवल्क्याय मन्थमुपदिश्य पुनरुक्तवानित्यर्थः॥६०॥

मन्यं शुष्केऽपि यः स्थाणौ निषिञ्चेदुक्तसंस्कृतम्॥
जायेरन्नेव तच्छाखाः प्ररोहेयुर्दलानि च॥६१॥

किमुक्तवानित्यपेक्षायामपि य एनमित्यादेरर्थमाह। मन्थमिति॥६१॥

यादृगर्थोऽस्य वचस उत्तरेष्वपि तादृशः॥
चतुरौदुम्बरोक्त्यर्थो व्याख्यातः पूर्वमेव तु॥
सुखावबोधतश्चैव स्वयमेव प्रतीयताम्॥६२॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके षष्ठाध्यायस्य
तृतीयं ब्राह्मणम्॥३॥

एतमित्याद्युत्तरवाक्येषु यथोक्तमतिदिशति। यादृगिति। चतुरौदुम्बरो भवतीत्यादिवाक्यव्याख्याप्राप्तावुक्तम्। चतुरिति। पूर्वमेवौदुम्बरे चमसे कंसे वेत्यत्रेत्यर्थः। किंचचतुरौदुम्बरादिवाक्यस्य निगदव्याख्यातत्वान्नाऽऽकाङ्क्षेत्याह। सुखेति। मन्थद्रव्यमौदुम्बरे पात्रे निक्षिप्य दध्यादित्रयाक्तं कृत्वा पूर्वोक्तविधानेनाऽऽज्याहुतीर्नित्याःसंपाद्यानन्तराहुतिषु संपातं कुर्यादित्युक्तमेवेत्येवकारार्थः। चतुरौदुम्बरादिवाक्येव्याख्यातृकृत्याभावे कथं तदर्थधीरित्याशङ्क्याऽऽह। स्वयमेवेति॥६२॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिकटीकायां षष्ठाध्यायस्य
तृतीयं ब्राह्मणम्॥३॥

श्लोकानामादितः समष्ट्यङ्काः—१०९९८

अथ चतुर्थं ब्राह्मणम्।
————

एषामिति नृबीजस्य स्तुतिरुक्त्या विवक्ष्यते॥
प्रतिष्ठां कल्पयानीति यस्यां पुंस्त्वं प्रपद्यते॥१॥

प्राणोपासकस्य वित्तार्थिनो मन्थाख्यं कर्मोक्त्वा तस्यैव विशिष्टपुत्रार्थिनः पुत्रमन्थोक्त्यर्थं ब्राह्मणान्तरमाह।1586 1586षामिति। एषामित्यारभ्य रेत इत्यन्तयोक्त्येति संबन्धः।स हेत्याद्यवतारयति। प्रतिष्ठामिति। यस्यां प्रतिष्ठितं रेतः पुंस्त्वमापद्यते तादृशींप्रतिष्ठां कल्पयानीति प्रजापतिरीक्षितवानित्यर्थः॥१॥

शुक्रं निषिक्तं यत्रेदं पुरुषत्वं निगच्छति॥
प्रतिष्ठां तादृशीमीशः प्रजापतिरचीक्लृपत्॥२॥

तद्व्याकरोति। शुक्रमिति॥२॥

स्त्रियं ससर्ज तद्योग्यां मधुकाण्डे यथोदिताम्॥
सृष्ट्वाऽथाधः प्रदेशे तामुपास्ते ग्राम्यधर्मतः॥३॥

स स्त्रियमित्यादि व्याचष्टे। स्त्रियमिति। तच्छब्दः शुक्रनिषेकार्थः। ततः पतिश्चपत्नी चाभवतामित्यत्र पत्नीशब्दोक्तां शतरूपामित्याह। मधुकाण्ड इति। तां सृष्ट्वेत्यादेरर्थमाह। सृष्ट्वेति। पशुकर्मयोग्यतानन्तर्यमथशब्दार्थः। उपास्तिप्रकारं कामशास्त्रोक्तं सूचयति। ग्राम्येति॥३॥

अपत्योत्पत्तये स्त्रीणामधोदेशं प्रजापतिः॥
प्रागुपासितवान्यत्नादुपास्यं तेन तत्ततः॥४॥

तस्मादित्यादि व्याकरोति। अपत्येति। तेनापत्यार्थिना कामुकेनेति यावत्।शास्त्रीयक्रमाक्रमो यत्नः॥४॥

सोमाभिषवरूपत्वक्लृप्तयेऽथाधुनोच्यते॥
एतं ग्रावाणवच्छिश्नमुदपारयदात्मनः॥५॥

स एतमित्यादेस्तात्पर्यमाह। सोमेति। अत्र मैथुनकर्मणि वाजपेयकल्पना क्रियतेतत्र तदङ्गेप्रजननेन्द्रिये सोमाभिषवपाषाणदृष्टिरारोप्यते तेन पाषाणेन सामर्थ्यं पञ्चमेन्द्रियस्य काठिन्यमनेन वाक्येनोच्यत इत्यर्थः। वाजपेयकल्पनोपक्रमार्थोऽथशब्दः।उक्तेऽर्थे वाक्यं योजयति। एतमिति॥५॥

प्राञ्चंकृत्वाऽथ तं शिश्नं यथैवाभिषवोपलम्॥
एकीभावेन तं नार्यां यत्नात्समुपवेशयेत्॥६॥

प्रजापतिः स्वीयं प्रजननेन्द्रियं पाषाणवत्कठिनं कृत्वा किमकरोदित्यपेक्षायामाह।प्राञ्चमिति। ऋजुतया दीर्घकरणमिह विवक्षितम्। उद्देश्ये कार्ये गौरवं यत्नः।नारीशब्दस्तदीयेन्द्रियविषयः। एकीभावो द्वयोर्मिथोमिश्रता॥६॥

तथाभूतेन ग्राव्णैतां स्त्रियमभ्यसृजन्मुहुः॥
आत्मनः पुरुषार्थाय यथोक्तोपासनं भवेत्॥७॥

तेनेत्यादि व्याचष्टे। तथेति। किमर्थं पशुकर्मणि वाजपेयसंपादनं तत्राऽऽह।आत्मन इति। पुरुषार्थस्तु स यावानित्यादिना वक्ष्यते॥७॥

यस्यां प्रजननं पुंसा स्त्रियामभ्यन्तरीकृतम्॥
तस्या वेदिरुपस्थः स्यादूर्वोरुपरि दर्शनम्॥८॥

तस्या वेदिरित्यादि व्याकुर्वन्नुपास्तिप्रकारमाह। यस्यामिति। विवक्षित1587मर्थमाह।ऊर्वोरिति। अवाच्ये देशे वेदिदर्शनं कार्यमित्यर्थः॥८॥

बर्हिस्तज्जानि लोमानि चर्माधिषवणे तथा॥
चर्मेहाऽऽडुहं पश्येत्सोमाभिषवसिद्धये॥९॥

लोमानीत्यादि व्याचष्टे। बर्हिरिति। अवाच्यदेशस्थलोमसु बर्हिर्दृष्टिस्तत्रत्येचर्मण्यानडुहचर्मदृष्टिस्तथा मुष्कयोरुभयतःस्थितमांसपिण्डयोरधिषवणदृष्टिरनुष्ठेयेत्यर्थः।चर्मेत्युक्तं स्पष्टयति। चर्मेति। सोमाभिषवार्थं यदानडुहं चर्म क्रतौ प्रसिद्धं तदिह द्वितीयगुददेशोद्भवं चर्म पश्येदिति योजना॥९॥

फलके चाधिषवणे यथासंख्येन निर्दिशेत्॥१०॥

यो योन्यन्तर्गतो देशः समिद्धश्चर्म निर्दिशेत्॥
तद्देशमभितस्तौ यौ मुष्कौ तौ वृषणाविति॥११॥

अधिषवणे तथेत्युक्तं व्यनक्ति। फलके चेति। अधिषवणे हि सोमाभिषवफलकेदक्षिणोत्तरे तद्दृष्टिर्मुष्कयोर्दक्षिणोत्तरवृषणयोरनुसंधेया तथा यथासंख्येन फलकदृष्टिं तयोरुपदिशेदित्यर्थः। समिद्धो मध्यत इत्यस्यार्थमाह। **यो योनीति।**योन्यन्तर्गते देशेवह्निदृष्टिः कार्येत्यर्थः। तौ मुष्कावित्यस्यार्थमाह। चर्मेति। योनिदेशमभितो यच्चर्मतदन्तर्वर्तिनौ यौ तौ मुष्कौ तौ वृषणाविति निर्दिशेत्। तयोरधिषवणदृष्टिरुक्तेत्यर्थः॥१०॥११॥

लोकः स्याद्वाजपेयेन यजमानस्य मानतः॥
तावन्तं लोकमाप्नोति यावन्तं वाजपेयतः॥१२॥

उपास्तिप्रकारमुक्त्वा फलोक्तिमवतारयति। लोकः स्यादिति। वाजपेयेन परि-

माणतो यावाल्ँ लोकः स्यात्तावानेतदुपासकस्यापीत्यर्थः। तामेव फलोक्तिं व्याकरोति।तावन्तमिति॥१२॥

अन्नानि संभ्रियन्ते हि दश सप्त च भागशः॥
वाजपेये क्रतावन्नकामस्य स विधीयते॥१३॥

पशुकर्माङ्गेषु वाजपेयाङ्गाध्यासेऽपि कथं तत्र तदध्यासः साम्याभावादित्याशङ्क्यसाम्यार्थं वाजपेयस्यान्नत्वं साधयति। अन्नानीति। सप्तदश प्राजापत्यान्पशूनालभतइति श्रुतेरसांकर्येण तत्तद्देवतोद्देशेन वाजपेयेऽन्नानि संपाद्यन्ते सच सर्वा1588न्नकामस्यविधीयते स्वाराज्यभोज्यत्वेनान्नाव्यतिरिक्तस्य तत्फलत्वात्तस्मादन्नात्मकः स इत्यर्थः॥१३॥

रेतसोऽन्नरसस्यैव यत्रान्नाहुतिरीक्ष्यते॥
वाजपेयाभिसंपत्स्यान्मैथुनाख्यक्रतोरतः॥
सामान्यादिति विज्ञेयं वाजपेयफलार्थिनाम्॥१४॥

पशुकर्मणोऽपि तदात्मत्वमाह। रेतस इति। यत्र क्रतावन्नरसस्य रेतसोऽन्नरूपैवाऽऽहुतिरिष्यते तस्य मैथुनाख्यस्य योग्यत्वेनान्नत्वादस्मादेव सामान्यादस्मिन्कर्मणिवाजपेयसंपत्तिः स्यादित्यर्थः। यद्वा यस्मिन्पुरुषेऽन्नाहुतिरिष्टा तस्मिन्नेतस्मिन्नग्नौ देवाअन्नं जुह्वतीति श्रुतेस्तस्य पुंसो रेतो भुक्तान्नरसस्तस्यैव यस्मिन्कर्मणि हूयमानत्वं तस्यपूर्ववदन्नत्वात्तस्मिन्वाजपेयदृष्टिरित्यर्थः। उपास्तेः सर्वाधिकारित्वमाशङ्क्याऽऽह।इति विज्ञेयमिति। उक्तरीत्योपासनं वाजपेयानुष्ठानं विनातत्फलार्थिनामि1589तियावत्॥१४॥

स्त्रीणां च सुकृतं वृङ्क्ते सर्वमावर्जयेच्छुभम्॥
अधोपहासं यो विद्वान्यथोक्तमुपसेवते॥१५॥

उपास्तेरधिकफलत्वमाह। स्त्रीणां चेति। यथोक्तं पशुकर्मणो वाजपेयसंपन्नत्वं विद्वानिति संबन्धः॥१५॥

अनेवंविदुषः पुण्यं सुकृतं वृञ्जते स्त्रियः॥
मैथुनोपनिषत्तत्त्वमेतद्ध स्माऽऽह भावितः॥१६॥

सर्वदैवाऽऽहुतीर्विद्वाञ्जुहोत्यश्नन्नपः पिबन्॥
उपगच्छन्स्त्रियं तद्वदारुणिर्गोत्रतः किल॥१७॥

विद्याभावेऽपि रागातिरेकात्तत्कर्म कुर्वाणस्य प्रत्यवायं दर्शयति। अनेवमिति।एतद्धेत्यादि व्याचष्टे। मैथुनेति। तदेतत्कर्म वाजपेयसंपन्नं विद्वान्पुनः पुनस्तत्रैवानुसंधानवानश्नन्पिबन्नुपगच्छन्सर्व-व्यापारेष्वाहुती रेतोरूपाः सर्वो जन्तुः सदा जुहोतीत्येवंपश्यन्नारुणिराह स्मेत्यर्थः॥१६॥१७॥

ब्राह्मणा जातिमात्रेण स्त्रीभिर्हृतशुभागमाः॥
उक्तं विधिमजानन्तो म्रियन्ते मैथुने रताः॥१८॥

किमुक्तवानित्यपेक्षायामाह। ब्राह्मणा इति। तस्मादविदुषामिदं कर्मातिगर्हितमितिभावः॥१८॥

बह्वेतदिति विज्ञेयं प्रयोजनबहुत्वतः॥
रेतः स्कन्दति यत्सुप्तौ जाग्रतो वाऽपि कामिनः॥१९॥

प्राणोपासितुः श्रीमन्थं कृतवतो न यदाकदाचिद्भार्योपगतिरिति तदृतुकाले प्रतीक्ष्यमाणे प्रमादाद्रेतःपाते प्रायश्चित्तार्थं बह्वित्यादि तस्यार्थमाह। बह्विति। कथं बहुत्वंतत्राऽऽह। प्रयोजनेति। लोक्यपुत्रोत्पत्तिहेतुतया बहुफलत्वाद्रेतसो बहुत्वमित्यर्थः।स्वप्ने वा जागरे वा तत्कामातिरेका द्यदपि रेतः स्यन्दते तदिति संबन्धः॥१९॥

हस्तेनाऽऽलभ्य ततः पश्चाच्चाप्यनुमन्त्रयेत्॥२०॥

यदद्यमेऽपतद्रेत ओषधीरसरच्च यत्॥
अपोऽगच्छत्स्वयोनिं च तदहं भूय आददे॥२१॥

तदभिमृशेदित्यादेरर्थमाह। हस्तेनेति। अनुमन्त्रणपूर्वकमाददीतेत्यपेरर्थः। यन्मेऽद्येत्यादि व्याचष्टे। यदद्येति॥२०॥२१॥

अभिमर्शनस्य यो मन्त्रो ग्रहणस्य स एव तु॥
पुनर्मामैतु तद्रेतो विज्ञानं तेज उच्यते॥२२॥

अभिमर्शनस्य रेतसो ग्रहणस्य वा कथमत्र विभागस्तत्राऽऽह। अभिमर्शनस्येति।अभिमृष्टमभिमन्त्रितं च रेतो गृहीतं किमर्थमित्युक्ते तद्विनियुक्तं विनियोजकमाह। पुनरिति। इन्द्रियशब्दार्थमाह। तद्रेत इति। तेजःशब्दं व्याचष्टे। विज्ञानमिति।इन्द्रियशब्दितं विज्ञानशब्दितं च तद्रेतो बहुभूगतं मामेवाऽऽगच्छतादित्यर्थः॥२२॥

सौभाग्यं पुनरग्निः स्युः परिशिष्टाश्च देवताः॥२३॥

प्रकाशकत्वात्सर्वासां धिष्ण्याश्चाप्यग्नयो मताः॥
गमयन्तु यथास्थानं देवा अग्न्यादयो मम॥२४॥

पुनर्भग इत्यस्यार्थमाह। सौभाग्यमिति। भगं सौभाग्यं तत्पुना रेतोरूपेण बहिर्गतंमामेवाऽऽगच्छत्वित्यर्थः। अग्निरपि रेतोरूपेण बहिर्गतो मामेवाऽऽगन्तुमर्हतीत्याह।अग्निरिति। याश्च देवता लोकवेदसिद्धाः स्युस्ता मामेवाऽऽगच्छन्त्वित्याह। स्युरिति।पुनरित्यादेरर्थमाह। प्रकाशकत्वादिति। सर्वासां देवतानां प्रकाशकत्वादग्नयो देवताःसर्वास्पदत्वाद्धिष्ण्यास्ताः पुना रेतो भूगतं मम स्वस्थानं गमयन्त्वित्यर्थः॥२३॥२४॥

अङ्गुष्ठानामिकाभ्यां तद्रेत आदाय चाऽऽत्मनः॥
स्तनौ भ्रुवौ वा निमृजेन्मध्ये च स्तनयोस्तदा॥२५॥

अनामिकाङ्गुष्ठाभ्यामित्यादेरर्थमाह। अङ्गुष्ठेति। अन्तरेणेत्यादेरर्थं विवृणोति। मध्यइति। रेतःस्वीकारानन्तर्यं लेपनस्याऽऽह। तदेति॥२५॥

रेतःस्वयोनावुदक आत्मानं चेत्प्रमादतः॥
पश्येन्मन्त्रेण तत्तोयमनेनैवानुमन्त्रयेत्॥२६॥

अथेत्यादि व्याचष्टे। रेत इति। रेतसः स्वभावभूता योनिरुदकं तस्मिन्नात्मनश्छायांयदि प्रमादतो रेतःसिक्पश्येत्ततो मयीत्यादिमन्त्रेण तदुदकमनुमन्त्रयेत्तथा रेतःस्वरूपजले स्वदृष्टिकृतापराधसमाधिरित्यर्थः॥२६॥

मयि तेजोऽस्तु विज्ञानमिति रेतोऽभिधीयते॥
विशिष्टापत्यहेतुत्वाज्जपेदेवं तथोत्तरे॥२७॥

मन्त्रार्थमाह। मयीति। तेजो विज्ञानं तच्च रेतस्तस्य च विज्ञानादित्वं लोक्यपुत्रहेतुत्वात्तद्रेतो मयि स्यादित्येवं ज्ञात्वा मन्त्रं जपेदित्यर्थः। तेजःशब्दवदुत्तरत्रेन्द्रियादिशब्देऽपि सुकृतशब्दपर्यन्ते रेतोविषयमेष्टव्यमित्याह। तथेति। रेतसस्तथात्वे विशिष्टापत्यहेतुत्वमेव हेतुः॥२७॥

उद्गतं मलवद्वासश्चतुर्थेऽहनि यत्स्त्रियाः॥
तां मलोद्वाससं पत्नीमाहुस्तत्कर्मकारिणः॥२८॥

रेतःसिचो देशकालावतिक्रम्य प्रामादिकरेतस्खलनप्रयुक्तापराधे प्रायश्चित्तं प्रदर्श्येदानीमृतुकाले भार्याभिगमनमादर्शयितुं श्रीरित्यादिना भूमिका विरच्यते तत्र मलोद्वासःशब्दार्थमाह। उद्गतमिति। तत्कर्म पत्न्यां पुंसा कृतं कर्म मैथुनाख्यं तत्कारिणोगृहस्था इति यावत्॥२८॥

गुणाढ्यापत्यफलवत्पुष्पभूतत्वकारणात्॥
मलवद्वाससं प्राहुः श्रियं श्रीहेतुतः स्त्रियम्॥२९॥

कथं तस्याः श्रीत्वं तदाह। गुणाढ्येति॥२९॥

चतुर्थे दिवसे स्नातां गत्वा तामुपमन्त्रयेत्॥
आत्मनोऽभिमुखीभावे वाग्यत्नोऽत्रोपमन्त्रणम्॥३०॥

तस्मादित्यादेरर्थमाह। चतुर्थ इति। कीदृगनुमन्त्रणं तत्राऽऽह। आत्मन इति।अत्रेति द्वितीयपिण्डोक्तिः॥३०॥

प्रेम्णोपमन्त्रिताऽप्यस्मै पत्ये दद्यान्न चेदसौ॥
वस्त्राभरणभोगाद्यैरात्मनो वशमानयेत्॥३१॥

सा चेत्यादि व्याचष्टे। प्रेम्णेति। दद्यात्पशुकर्म कर्तुमवकाशमिति शेषः। अनुक्तवशीकारोपायसंग्रहार्थमादिपदम्॥ ३१॥

तथाऽप्युक्ता न चेद्दद्याद्बलात्तां वशमानयेत्॥
उपेयात्तामतिक्रम्य शापदानाय रोषितः॥३२॥

इन्द्रियेण त इत्यादिमन्त्रेणाथ शपेद्रुषा॥
पतिशापादपुत्रा सा वशमाशु भवेत्तदा॥३३॥

सा चेदस्मै नैवेत्यादेरर्थमाह। तथाऽपीति। एवमपि तस्याः स्वानुसारित्वाभावे बलादुपगच्छेदृतुकालातिक्रमणायोगादित्याह। उपेयादिति। बलात्कारासंभवे पुनरुपायमुपदिशति। शापेति। शापदानायाऽऽरभेतेति शेषः। भार्यायाश्चोक्तकरत्वाभावं शापारम्भे हेतू करोति। अथेति। शपेत्तमारभेतेत्यर्थः। तत्फलमाह। पतीति। तदाशापारम्भावस्थायामित्यर्थः॥३२॥३३॥

शप्स्यामि त्वामिति ह्युक्त्वा वशं तामानयेत्पतिः॥
दद्याच्छापभयात्सा चेदनुलोमं तदाऽऽचरेत्॥३४॥

स्वभार्याशापो न स्वात्मनो हिताय तत्कथं तदर्थमारम्भ इत्याशङ्क्यवशीकारार्थमित्याह। शप्स्यामीति। भार्यावशीकारं विना विवक्षितकर्मायोगो हिशब्दार्थः।सा चोदित्यादि व्याचष्टे। दद्यादिति। विवक्षितं कर्मावकाशमिति शेषः॥३४॥

अथ शापभयाद्दद्यात्पत्ये कामितमादरात्॥
तदा निवर्तयेच्छापं मन्त्रेणानेन सत्पतिः॥३५॥

किं तदनुलोमाचरणं तदाह। अथेति। यदार्थोऽथशब्दः। दद्याद्भार्येति शेषः। अनेनेन्द्रियेणेत्यादिनेत्यर्थः॥३५॥

पुरुषद्वेषिणीं भार्यां पतिश्चेदभिकामयेत्॥
मामियं कामयेतेति कुर्यात्तस्या इमं विधिम्॥३६॥

स यामित्यादेरर्थमाह। पुरुषेति॥३६॥

उक्तमन्थविधानेन चरितव्रत एव सन्॥
उत्तरेष्वपि कार्येषु सर्वं तदनुवर्तयेत्॥३७॥

वक्ष्यमाणकर्मप्रकारे सर्वाधिकारं व्यावर्तयति। उक्तेति। इमं विधिं कुर्यादितिपूर्वेण संबन्धः। उत्तरेष्ववघातादिषु तत्पदमितिकर्तव्यताजातार्थम्॥३७॥

स्त्रीलक्षणे प्रवेश्यान्तरात्मीयं पुंस्त्वलक्षणम्॥
वक्त्रं वक्त्रेण संधाय स्पृष्ट्वोपस्थं जपेदथ॥३८॥

इमं विधिं कुर्यादिति प्रकृतं विधिं दिदर्शयिषुस्तस्यामित्यादि व्याचष्टे। स्त्रीलक्षणइति। जपस्य वशीकरणहेतुत्वं वक्तुमथशब्दः॥३८॥

अङ्गादङ्गात्संभवसि जग्धान्नपरिणामतः॥
रसाच्छोणितमित्यादिक्रमाच्छुक्रतया मम॥३९॥

जपमन्त्रस्याऽऽद्यं पादमादाय व्याकरोति। अङ्गादिति। आदिशब्दो मांसादिविषयः॥३९॥

शुक्रप्रवहया नाड्या हृदयाच्चाभिजायसे॥
स त्वमङ्गकषायोऽसि दिग्धविद्धां मृगीमिव॥
स्नेहोपरोधादेवैतां पत्नीं मे वशमानय॥४०॥

हृदयादित्यादि व्याचष्टे। शुक्रेति। दिग्धविद्धामौषधस्पृष्टेन शरेण ताडितामितियावत्। तस्यां प्रविश्येति शेषः॥४०॥

मा बिभर्गर्भमित्येवमथ यां कामयेत सः॥
रूपभ्रंशो हि भवति यतो गर्भस्य धारणे॥४१॥

तथा यौवनहानिश्च तस्मादेवं स कामयेत्॥
तस्यां स्वमर्थं निष्ठाय मुखेनेत्यादि पूर्ववत्॥४२॥

अथ यामित्यादेरर्थमाह। मा बिभर्गर्भमिति। अथशब्दो वशीकरणानन्तर्यार्थः।तस्यामर्थं निष्ठायेति संबन्धः। पुत्रोत्पादनस्य पुरुषार्थत्वाद्यथोक्ता कामना पत्युरयुक्तेत्याशङ्क्याऽऽह। रूपेति। तत्रानुभवमनुकूलयितुं हिशब्दः॥४१॥४२॥

प्राण्याऽदौरेचकं कृत्वाऽपानयेत्तदनन्तरम्॥४३॥

निषिक्तमपि तद्रेतः प्राणवृत्त्या यथाविधि॥
अपानवृत्त्या तद्ध्वस्तमित्येतत्कर्मणः फलम्॥४४॥

अभिप्राण्येत्यादि व्याचष्टे। प्राण्येति। पशुकर्मकाले प्रथमं स्वीयपुंस्त्वद्वारा तदीयस्त्रीत्वे वायुं विसृज्य तेनैव द्वारेण ततस्तदादानाभिमानं कुर्यादित्यर्थः। तत्फलमाह।निषिक्तमिति॥४३॥४४॥

इन्द्रियेण त इत्यादिमन्त्रोक्त्या तां परामृशेत्॥४५॥

इन्द्रियेणैव त्वद्रेतो रेतसा आददे स्वयम्॥
अरेता एव सा स्त्री स्यादेवं पत्याऽभिमन्त्रिता॥४६॥

इत्थमभिसंधाय कर्म कुर्वन्निन्द्रियेणेत्यादिना भार्यामभिमन्त्रयेदित्याह। इन्द्रियेणेति।मन्त्रं व्याकरोति। इन्द्रियेणैवेति। श्रौतं पदं तथैवानुवदितुं संधिरुपेक्षितः। तदीयरेतःस्वीकारो मम शक्यो मन्निमित्तत्वात्तदुत्पत्तेरिति मत्वाऽऽह। स्वयमिति। परामर्शफलमाह। अरेता इति॥४५॥४६॥

दधीत गर्भमित्येवं यामिच्छेत्पतिरङ्गनाम्॥
तामपान्य प्रयत्नेन प्राण्यान्मन्त्रेण कारयेत्॥
इन्द्रियेण त इत्युक्त्या आदधामीति सत्पतिः॥४७॥

अथेत्यादेरर्थमाह। दधीतेति। स्वीयपञ्चमेन्द्रियेण तदीयपञ्चमेन्द्रियाद्रेतः स्वीकृत्य

तत्पुत्रोत्पत्तिसमर्थं कृतमिति मत्वा स्वकीयेन रेतसा सह तस्मिन्निक्षिपेत्तदिदमपाननंप्राणनं च तत्पूर्वकं तत्र प्रयुक्तं च यथोक्तमनुचिन्तनं प्राणनं वक्ष्यमाणमन्त्रेण कार्यमित्याह। मन्त्रेणेति। तमेवोदाहरति। इन्द्रियेणेति। अत्रापि पूर्ववदनादृतःसंधिः॥४७॥

अथाऽऽभिचारिकं कर्म प्रसङ्गादभिधीयते॥
उपायत्वेन विज्ञप्त्यै श्येनवन्न विधीयते॥४८॥

अथ यस्येत्यादेस्तात्पर्यमाह। अथेति। विवाहानन्तर्यमथशब्दार्थः। पशुकर्मप्रसङ्गादुपपतिहिंसार्थिनः साधनत्वेनाऽऽभिचारिकं कर्मोच्यतेऽनन्तरवाक्येनेति यावत्। नहिंस्यादितिश्रुतिविरोधान्न हिंसार्थो विधिरित्याशङ्क्याऽऽह। उपायत्वेनेति। विज्ञप्त्यैज्ञापनाय॥४८॥

अथ यस्य गृहस्थस्य पत्न्या जारो भवेत्क्वचित्॥
तं चेद्द्विष्याद्रुषैवैनामारभेत तदा क्रियाम्॥४९॥

संप्रत्यक्षराणि योजयति। अथेति। क्वचिदिति देशकालावस्थाविशेषोक्तिः। तत्राधिकारिणं विशिनष्टि। तं चेदिति। अथशब्दस्याऽऽरम्भार्थत्वमुपेत्याऽऽह। आरभेतेति॥४९॥

न ह्यद्विष्टमनस्कस्य कर्मैतत्सिद्धिमश्नुते॥
अतोऽधिकारिविज्ञप्त्यै द्विष्यादिति विशेषणम्॥५०॥

उक्तमधिकारिविशेषणं व्यतिरेकमुखेनाऽऽह। न हीति॥५०॥

आमपात्रेऽग्निमित्युक्त्या ह्यभिचाराख्यकर्मणः॥
योग्यतैवाऽऽमपात्रस्य भिदुरत्वसमन्वयात्॥५१॥

आमपात्रेऽग्निमित्यत्राऽऽमपात्रग्रहणं किमर्थमित्याशङ्क्याऽऽह। आमेति। अभिचारसंबन्धित्वेनाऽऽमपात्रस्य योग्यतैव प्रकाश्यते विशेषणेनेत्यर्थः। क्रियापदद्योतकोहिशब्दः। योग्यत्वं प्रकटयति। भिदुरत्वेति। जारभेदस्येष्टत्वादामपात्रस्य च तच्छीलत्वात्तस्यात्र योग्यतेत्यर्थः॥५१॥

यथाऽऽमंभिदुरं पात्रमप्सु सद्यो विलीयते॥
प्राप्तजारोऽपि मे शत्रुस्तथैवाऽऽशु विदीर्यताम्॥५२॥

विशेषणतात्पर्यं निगमयति। यथेति॥५२॥

अग्निमित्येकवचनादुल्लिख्यादेश्चलिङ्गतः॥
आवसथ्याग्निनिर्देशो न तु त्रेताग्निसंग्रहः॥५३॥

त्रेताग्निगतमिदं कर्मेति शङ्कां प्रत्याह। अग्निमिति। आविपदेनाऽऽमपात्रादयो

गृह्यन्ते। न चात्रोल्लेखनाद्यप्रस्तुतं परिसमुह्य परिलिप्येत्युपक्रमात्। आवसथ्यो लौकिकोऽग्निः॥५३॥

प्रतिलोममवस्तीर्य कर्मणः प्रतिलोमतः॥
शरबर्हिः प्रयत्नेन विद्वान्रोषसमन्वितः॥५४॥

तस्मिन्नग्नौ शरेषीका घृताक्ता जुहुयादथ॥
जारस्य दोषं प्रख्याप्य मन्त्रेणानेन सत्वरः॥५५॥

प्रतिलोममित्यादेरर्थमाह। प्रतिलोममिति। बर्हिषां प्रतिलोमत्वेन परिस्तरणे हेतुमाह। कर्मण इति। तस्मिन्कर्मणि सावधानत्वं प्रयत्नः। विद्वान्प्राणोपासिता मन्थकर्मानुष्ठातेत्यर्थः। विद्यासहकारिकारणमाह। रोषेति। होमस्य जारभ्रंशं प्रति हेतुत्वमथशब्दार्थः। होमप्रकारं दर्शयति। जारस्येति। ममेत्यादिना मन्त्रेण शत्रुदोषंज्ञापयित्वा सत्वरो जुहुयादिति संबन्धः। शत्रुनाशशैघ्र्यसिद्ध्यर्थं सत्वर इति विशेषणम्॥५४॥५५॥

मम स्वभूते योषाग्नौ समिद्धे यौवनादिना॥
शुक्राहुतिं यतोऽहौषीरेष तेऽत्र व्यतिक्रमः॥५६॥

आददेऽतोऽपराधात् प्राणापानौ जिजीविषोः॥
फट्कारेणैव जुहुयाच्छरभृष्टीर्यथोदिताः॥५७॥

मन्त्रं व्याचष्टे। ममेति। असाविति स्वस्य शत्रोर्वा नामग्रहणम्। आदद इत्यस्यान्ते फडिति पदं प्रयोक्तव्यमित्याह। फट्कारेणेति। यथोदिता इति घृताक्तत्वंप्रतिलोमत्वं चोच्यते॥५६॥५७॥

तथा पुत्रान्पशूंश्चैव आददे तेऽद्य कामुक॥
श्रौतमिष्टं विजानीयात्स्मार्तं सुकृतमित्यपि॥५८॥

मन्त्रान्तरं व्याचष्टे। तथेति। पूर्ववद्दोषं प्रख्याप्येत्यर्थः॥५८॥

श्रौतं स्मार्तं च यत्किंचित्पुण्यं कर्म त्वया कृतम्॥
तत्सर्वं त आददेऽहमाहुतिं प्रक्षिपेद्रुषा॥५९॥

इष्टादिपदार्थमुक्त्वा वाक्यार्थमाह। श्रौतमित्यादिना। अहमित्यस्मादूर्ध्वमित्युक्त्वेत्यध्याहार्यम्। पूर्वत्राप्यादद इत्यस्मादूर्ध्वमहमित्यादि संबध्यते॥५९॥

प्रार्थनाऽऽशेति विज्ञेया पराकाशा1590 प्रतीक्षणम्॥
आदानान्तो भवेन्मन्त्रः सर्वत्रैवं विनिर्दिशेत्॥६०॥

आशादिपदयोरर्थमाह। प्रार्थनेति। असावितिनामग्रहान्तत्वं मन्त्रस्य व्यावर्तयति।आदानान्त इति। पूर्वेष्वपि मन्त्रेष्वेतदेव परिमाणमित्याह। सर्वत्रेति॥६०॥

वाङ्मात्रेण प्रतिज्ञातं कर्मणा नोपपादितम्॥
तत्प्रतीक्षणमाकाङ्क्षा पराकाशेति भण्यते॥६१॥

पराकाशा प्रतीक्षणमित्युक्तं स्फुटयति। वाङ्मात्रेणेति॥६१॥

स वा इत्यादिनाऽथास्य फलमुक्तस्य कर्मणः॥
भण्यते वचसोक्तस्य निरिन्द्रियपुरःसरम्॥६२॥

अभिचारस्वरूपमुक्त्वा तत्फलमवतारयति। स वा इत्यादिनेति। कर्मोक्त्यनन्तरंफलोक्त्यवकाशं दर्शयति। अथेति। किं तत्फलं तदाह। उक्तस्येति। शत्रोरितियावत्॥६२॥

निःशेषपुरुषार्थाप्तिलोपकृत्कर्म वर्णितम्॥
जायया मैथुनाख्यं यच्छ्रोत्रियस्य विपश्चितः॥६३॥

तस्मादेवंविदित्यादिवाक्यस्य पातनिकां करोति। निःशेषेति॥६३॥

उपहासमतो नेच्छेत्सार्धं श्रोत्रियजायया॥
मैथुनं तु विशेषेण ह्युक्तानर्थजिहासया॥६४॥

तद्व्याकरोति। उपहासमिति। साधारणमपि मैथुनमकार्यमितिद्योतको हिशब्दः॥६४॥

कर्माऽऽभिचारिकं प्रोक्तं प्रसङ्गान्न प्रधानतः॥
यदर्थस्तु प्रयासोऽयं तत्कमार्थ प्रपञ्च्यते॥६५॥

अथेत्याद्यवतारयितुं वृत्तमनुद्रवति। कर्मेति। पशुकर्मद्वारा जारप्रसङ्गेनाभिचारःसफल उक्तो न प्राधान्येन तस्य सत्पुत्रफलकर्मविरोधित्वादित्यर्थः। उत्तरं वाक्यमादत्ते।यदर्थस्त्विति। लोक्यपुत्रोत्पादनार्थोहि प्रारम्भस्तथा पुत्रार्थे तस्मिन्कर्मणि धर्मकलापार्थत्वेनोत्तरो ग्रन्थ इत्यर्थः। प्रासङ्गिककर्मोक्त्यनन्तरं प्रकृतकर्मापेक्षितधर्मोक्तेरवसरंदर्शयति। अथेति॥६५॥

यस्य मन्थविधिज्ञस्य जायां चेदार्तवं व्रजेत्॥
तिस्रो रात्रीर्नकांस्येन पानं कुर्यात्तथाऽशनम्॥६६॥

तात्पर्यमुक्त्वा वाक्यं योजयति। यस्येति। तदा तस्य सा जायेति शेषः॥६६॥

तथैवाहतवासाः स्यादहःस्वेतेषु शुद्धधीः॥
वृषलो वृषली वैनां नोपहन्यात्कदाचन॥६७॥

अहतवासा इत्यस्यार्थमाह। तथेति। न ह्यागन्तुकदोषोपहतवासस्त्वमेतेष्वहःसु स्त्रियां युक्तं तत्परिशोधनफलस्नानस्य तेष्वनुपपत्तेरित्यर्थः। शुद्धधीत्वं तत्र मनसाऽपिपुरुषाकाङ्क्षाराहित्यम्। नैनामित्यादेरर्थमाह। वृषल इति। कदाचनेति स्नानात्पूर्वोत्तरकालोक्तिः॥६७॥

अन्यो वा पापकृत्कश्चित्स्पर्शसंभाषणादिभिः॥
व्रतस्थां नोपहन्यात्तामभीप्सितफलाप्तये॥६८॥

वृषलादिग्रहणं पापकृतामुपलक्षणमित्याह। अन्यो वेति। आदिपदं परिहासादिग्रहार्थम्। अनुपहतिफलमाह। अभीप्सितेति। सत्पुत्रजन्मेष्टं फलं तादर्थ्येनानुपहतिरतियत्नसाध्येत्यर्थः॥६८॥

सा त्रिरात्रान्त आप्लुत्याहतवासाः शुचिः सती॥
श्रपणाय चरोर्भर्ता व्रीहींस्तामवघातयेत्॥६९॥

त्रिरात्रान्त इत्यादेरर्थमाह। सेति। या सा स्वीया भार्या चतुर्थे दिवसे स्नात्वाशुद्धवस्त्रा स्वयं च शुद्धा सती वर्तते तां चरुपाकार्थं भर्ता व्रीहीनवघातयेदिति योजना॥६९॥

शुक्लो गौरोऽत्र विज्ञेयः शुक्लो वा बलदेववत्॥
सुव्याख्येयत्वतः शेषः स्वयमेवावगम्यताम्॥७०॥

पुत्रो मे शुक्ल इत्यत्र शुक्लशब्दं द्वेधा व्याकरोति। शुक्ल इति। वेदमित्यादेर्व्याख्याप्राप्तावुक्तं सुव्याख्येयत्वत इति। इतिशब्दान्तः शेषः॥७०॥

क्षीरौदनं तयैवा1591थ पाचयित्वा स्वयं पतिः॥७१॥

दंपती घृतवन्तं तमश्नीयातामथौदनम्॥
स्वतन्त्रावीश्वरौ स्यातां सत्पुत्रप्रसवाय तौ॥७२॥

क्षीरौदनमित्यादेरर्थमाह। क्षीरेति। यथोक्तकामानन्तर्यमथशब्दार्थः। सर्पिष्मन्तमित्यादि व्याचष्टे। दंपती इति। होमानन्तर्यमथशब्दार्थः। ईश्वरशब्दार्थमाह। स्वतन्त्राविति॥७१॥७२॥

यथोक्तपुत्रप्रसवे यदि वा क्षिप्रकारिणौ।
यथोक्तकर्मणैतेन स्यातां तावेव दंपती॥७३॥

अदृष्टादिसापेक्षत्वान्न स्वातन्त्र्यमित्याशङ्क्याऽऽह। यथोक्तेति। एतेन चरुहोमादिनेति यावत्॥७३॥

दुहिता पण्डितेत्यत्र स्त्रीणामुचितकर्मसु॥
तत्पाण्डित्यमिह ज्ञेयं न तु वेदार्थगोचरम्॥७४॥

दुहिता मे पण्डितेत्यत्र दुहितुर्वेदार्थविषयं पाण्डित्यं कथं काम्यते तस्या वेदाध्ययनानधिकारित्वादित्याशङ्क्याऽऽह। दुहितेति। तच्छब्दो दुहितृविषयः। इहशब्दः स्त्रीणामुचितकर्मस्वित्यनेन संबध्यते॥७४॥

विजिगीतो जगत्यस्मिन्नत्यर्थं यो विश1592ब्दितः॥
विद्वत्सभा च समितिस्तद्योग्यः समितिंगमः॥७५॥

विजिगीत इत्यादि व्याचष्टे। विजिगीत इत्यादिना॥७५॥

प्रकृतायां त्रिसंख्यायां सर्वशब्दप्रयोगतः॥
प्रतीयाच्चतुरो वेदान्सर्वशब्दार्थवित्तये॥७६॥

सर्वान्वेदानित्यत्र सर्वशब्दस्य वेदत्रयविषयतया चरितार्थत्वात्रीन्वेदानित्यनेन पुनरुक्तिरित्याशङ्क्याऽऽह। प्रकृतायामिति॥७६॥

तण्डुलान्मांससंमिश्रान्पक्त्वा मांसौदनं विदुः॥
उक्षा सेचनशक्तो गौः स एव ऋषभो महान्॥७७॥

मांसौदनं पाचयित्वेत्यत्र मांसौदनशब्दार्थमाह। तण्डुलानिति। औक्षेण वेत्यादौ पदद्वयस्यापौनरुक्त्यमाह। उक्षेति॥७७॥

प्रसिद्ध्यसंभवात्त्वद्य ह्युक्तं मांसौदनं प्रति॥
मांसं कृष्णमृगच्छागविषयं त्वद्य कुर्वते॥७८॥

औक्षेणेत्यादिविशेषणवशाद्गोमांसस्यापि भक्ष्यत्वं प्राप्तं तच्च प्रसिद्धिविरुद्धमित्याशङ्क्याऽऽह। प्रसिद्धीति। लोकसंप्रतिपत्त्यर्थो हिशब्दः। कथं तर्हि मांसौदनश्रुतिस्तत्राऽऽह।मांसमिति। कथं तर्हि विशेषणमित्याशङ्क्यकालविशेषापेक्षयेत्याह।अद्येति॥७८॥

यत्नेनोपार्जितं तच्चेत्क्रीत्वा वा मांसमाहरेत्॥
हिंसायाः प्रतिषिद्धत्वात्पशून्हन्यान्न तु स्वयम्॥७९॥

तर्हि कृष्णमृगादि स्वयमेव हिंसित्वा मांसमाहर्तव्यमिति शङ्कते। यत्नेनेति। परिहरति। क्रीत्वेति। वाशब्दः शङ्कापोहार्थः। स्वयमेव हत्वा मांसं नाऽऽहर्तव्यमित्यत्रहेतुमाह। हिंसाया इति॥७९॥

अथशब्दो विकल्पार्थो यथोक्तानां यथारुचि॥
काम्यानां ह्यन्यतमं पक्षमाश्रित्य भण्यते॥८०॥

अथ य इच्छेदिति बहुवारमथशब्दप्रयोगस्य तात्पर्यमाह। अथेति। विकल्परूपमर्थं प्रकटयति। यथोक्तानामिति। कामानामनेकत्वप्रसिद्ध्यर्थो हिशब्दः। भण्यतेभोजननियम इति शेषः॥८०॥

आरभ्योद्गमने भानोः सर्वं स्नानाद्यशेषतः॥
निर्वर्त्य संस्कारमथ यत्नात्प्राग्य उदाहृतः॥८१॥

पूर्वेद्युर्वीह्यवघातादिसंस्कार उत्तरेद्युश्च कामिताशनमिति व्यवस्थां परिहरति। आरभ्येति। आदित्योदयदशायामारभ्य नित्यं कर्म सर्वं निर्वर्त्यानन्तरं पूर्वोक्तो योऽवघा-

तादिसंस्कारस्तं च यत्नान्निष्पाद्य कामिताशनं कार्यं तन्नानयोर्दिनभेदोऽस्तीत्यर्थः।नित्यानुष्ठानानन्तरं नैमित्तिकानुष्ठानमिति वक्तुमथशब्दः॥८१॥

स्थालीपाके क्रिया या सा चाऽऽवृदित्यभिधीयते॥
स्थालीपाकविधानेन संस्कृत्याऽऽज्यं तथैव तु॥८२॥

स्थालीपाकावृतेत्यत्राऽऽवृच्छब्दार्थमाह। स्थालीपाक इति। तथैव स्थालीपाकविहितावृत्त्या जुहोतीत्युत्तरत्र संबन्धः॥८२॥

उपलक्षणमन्येषामाज्यस्य ग्रहणं भवेत्॥
आदिशब्दस्य वा लोपादाज्यादिमिति गम्यताम्॥८३॥

आज्यं संस्कृत्येत्याज्यस्यैव संस्कारश्रवणाच्चर्वादीनां संस्काराविवक्षामाशङ्क्याऽऽह।उपलक्षणमिति। यद्वाऽऽज्यादिं सं1593स्कृत्येति वाक्यं न चाऽऽदिशब्दादर्शनं दोषोविद्यमानस्यैव लोपात्तत्सिद्धेस्तद्धेतोश्चाध्यापकप्रमादादेः संभवादित्याह। आदिशब्दस्येति॥८३॥

उपहत्योपहत्याथ स्थालीपाकस्य मन्त्रतः॥
नित्यास्तत्राऽऽहुतीर्हुत्वा आवापस्थान आदरात्॥८४॥

स्थालीपाकस्येत्यादेरर्थमाह। उपहत्येति। आज्यादिसंस्कारानन्तरमग्नये स्वाहेत्यादिस्थालीपाकमन्त्रबलात्पौनःपुन्येनाऽऽवापस्थाने पूर्वोक्ते नित्यास्तात्पर्यादाहुतीर्हुत्वाचरुहोमः कर्तव्य इत्यर्थः॥८४॥

प्रधानाहुतयस्तिस्रो याः स्युरग्न्यादिपूर्विकाः॥
हुत्वा स्विष्टकृदन्तं तत्समापय्य यथोदितम्॥८५॥

कर्मेदं तत उद्धृत्य चरुं स्थाल्याः समाहितः॥
सर्पिष्मन्तमथाश्नीयात्कामितार्थानुरोधतः॥८६॥

आघारादिनिर्वर्तनानन्तरं कर्तव्याहुतीनां संख्यानियममाह। प्रधानेति। हुत्वोद्धृत्येत्यादेरर्थमाह। हुत्वेति। नित्यं नैमित्तिकं च होममाज्यचरुभ्यां स्विष्टकृतं निर्वर्त्यततः स्थाल्याः सकाशादवशिष्टं चरुं समाहितमनाः समुद्धृत्य घृताप्लुतमिष्टपुत्रोत्पत्तिमुद्दिश्याश्नीयादित्यर्थः। यथोक्तहुतशेषाशनस्येष्टसुतं प्रति हेतुत्वमाह। अथेति॥८५॥८६॥

चरुं प्राश्य स्वयं शेषं भार्यायै संप्रयच्छति।
उच्छिष्टमेव भार्यायै चरुं भर्ता प्रयच्छति॥८७॥

प्राश्येत्यादि व्याचष्टे। चरुमिति। स्थाल्यां व्यवस्थितमेव चरुशेषं भर्ता भार्यायैप्रयच्छतीत्याशङ्क्याऽऽह। उच्छिष्टमिति॥८७॥

पाणी प्रक्षाल्य यत्नेन सामर्थ्यादेव गम्यते॥
स्मार्तमाचमनं शुद्ध्यैपाणिप्रक्षालनोक्तितः॥८८॥

प्रक्षाल्येत्यादि व्याचष्टे।पाणी इति। मलत्यागार्थं बहुजलमानीय पौनःपुन्येनक्षालनं यत्नः। जायामभ्युक्षयेदिति संबन्धः। पाणिप्रक्षालनमात्रस्य श्रुतत्वादाचमनंविना शुद्ध्यभावत्वे कथमभ्युक्षणादौ भर्ताऽधिक्रियेत तत्राऽऽह। सामर्थ्यादिति।ततः शुद्धावुद्देश्यायामाचमनं सामर्थ्यात्सिद्धं न हि तदन्तरेणोद्देश्यसिद्धिरितियोजना॥८८॥

उदपात्रमथाऽऽदाय तदद्भिस्त्रिः सुताप्तये॥
वक्ष्यमाणेन मन्त्रेण जायामभ्युक्षयेन्मुहुः॥८९॥

उदपात्रमित्यादेरर्थमाह। उदपात्रमिति। तस्य हस्तक्षालनानन्तर्यमथशब्दार्थः।त्रिरित्युक्त्वा मुहुरिति प्रयुञ्जानोऽभ्युक्षणस्यैवाऽऽवृत्तिर्न मन्त्रस्येत्याह॥८९॥

अतोऽस्मदीयदारेभ्य उत्थायान्यत आव्रज॥
विश्वावस्वभिधानेन गन्धर्वोऽत्र प्रबोध्यते॥९०॥

तन्मन्त्रं व्याकरोति। अत इति। अन्यतोऽन्यत्रेति यावत्। अत्रेति मन्त्रोक्तिः॥९०॥

प्रपूर्व्यामिति नार्यत्र भण्यते तरुणी किल॥
प्रपूर्वी पीवरीमन्यां याहि विश्वावसो द्रुतम्॥९१॥

अन्यामिच्छेति व्याकुर्वन्वाक्यं योजयति। प्रपूर्व्यामिति। परिदृढां दृढाङ्गीं समर्थामिति यावत्॥९१॥

प्रपूर्व्यामिति लिङ्गाच्चतरुण्यां सत्पतिः सदा॥
यथोदितं कर्म सत्यां कुर्यात्सत्पुत्रजन्मने॥९२॥

तत्पदसामर्थ्यसिद्धमर्थमाह। प्रपूर्व्यामिति। तारुण्यद्योतकशब्दवशादिति यावत्।तरुण्यां सत्यामिति संबन्धः। ऋतुकालः सदेत्युक्तः। यथोदितं कर्मावघातादि तस्यपशुकर्मान्तस्यानुष्ठानफलमाह। सदिति॥९२॥

अहं तु स्वामिमां जायां समुपैमीति संगतिः॥
एवं प्रस्थाप्य गन्धर्वमथैनामभिपद्यते॥९३॥

जायामित्यादेरर्थमाह। अहमिति। मया पत्या सह वर्तमानां स्वीयामीमांभार्यामहं समुपगच्छामि तत्रावकाशो देयस्त्वयेति वाक्यघटनेत्यर्थः। अथैनामित्याद्यवतारयति। एवमिति। गन्धर्वप्रस्थापनानन्तरमालिङ्गने प्रतिबन्धाभावोऽथशब्दार्थः॥९३॥

अभीष्टगर्भाधानाय जायामालिङ्गते पतिः॥
अमोऽहमितिमन्त्रोक्त्या तावावांदेवतात्मकौ॥९४॥

कर्माऽऽरभावहैदेवि सत्सुतोत्पत्तिसिद्धये॥
त्वं चाहं चैव संभूय योनौ रेतो दधावहै॥९५॥

केयमभिपत्तिस्तामाह। अभीष्टेति। आलिङ्गनमन्त्रं दर्शयति। अमोऽहमितीति।तावेहीत्यादेरर्थमाह। ताविति। कर्मारम्भफलमाह। सत्सुतेति। कोऽयं कर्मारम्भइत्याशङ्क्यसहेत्यादेरर्थमाह। त्वं चेति॥९४॥९५॥

रेतःक्षेपफलं चाऽऽह पुंसे पुत्राय लब्धये॥
मन्त्रोक्त्यनन्तरं तस्या विजिहीथामितीरयेत्॥९६॥

पुंसे पुत्रायेत्यादेस्तात्पर्यमाह। रेत इति। उत्तरवाक्यस्थाथशब्दार्थं दर्शयन्विहापनमन्त्रमवतारयति। मन्त्रोक्तीति। अमोऽहमित्यादिमन्त्रोक्तिद्वारा भार्यालिङ्गनानन्तरमूर्वोस्तस्या विश्लेषकरणार्थं मन्त्रं जपेदित्यर्थः॥९६॥

विहापयति मन्त्रेण ऊरू पत्न्याः प्रयत्नतः॥
ऊर्वोरामन्त्रणं चैतद्विजिहीथामितीक्ष्यताम्॥९७॥

अस्या इत्यादिपदानि व्याचष्टे। विहापयतीति। विश्लेषयतीति यावत्।मन्त्रेण विजिहीथामित्यादिनेत्यर्थः। प्रयत्नतो वशीकारानुष्ठानद्वारेत्यर्थः। संधिरत्रापि नविवक्षितः। द्यावापृथिवी इत्यस्यार्थमाह। ऊर्वोरिति। द्यावापृथिवी इत्येतदूर्वोरामन्त्रणमीक्ष्यतामिति संबन्धः। विजिहीथामित्यूरूप्रति नियोगकरणमित्यध्याहारः॥९७॥

विजिहीतेरिदं रूपं ण्यन्तस्य गतिकर्मणः॥९८॥

मन्त्रतः पाणिनाऽथैनां त्रीन्वाराननुलोमतः1594
अनुमार्ष्ट्यथ तां जायां मन्त्रं विष्णुरितीरयन्॥९९॥

विहापयतीतिक्रियापदोत्पत्तिप्रकारोक्तिपूर्वकं तदर्थमाह। विजिहीतेरिति। त्रिरेनामित्यादि व्याकरोति। मन्त्रत इति। अनुलोमतो मूर्धानमारभ्यपादान्तमिति यावत्।पशुकर्मानन्तर्यार्थोऽथशब्दः। कोऽसावनुमार्जनमन्त्रस्तमाह। मन्त्रमिति॥९८॥९९॥

समर्थनं कल्पनार्थस्त्वष्टाऽवयवशस्तथा॥
निर्वर्तयतुरूपाणि शोभनानि सुतस्य मे॥१००॥

सहजसिद्धा योनिः कथं कल्प्यते तत्राऽऽह। समर्थनमिति। पुत्रजन्मनि शक्तत्वापादनमिति यावत्। त्वष्टेत्यादेरर्थमाह। त्वष्टेति। आत्मनो भार्यायाश्चावयवशोरूपाणि निर्वर्तितानि किं तत्र त्वष्ट्रेत्याशङ्क्याऽऽह। सुतस्येति॥१००॥

दर्शाहर्देवता चेह सिनीवालीति भण्यते॥
पृथुष्टुकेति सैवोक्ता पृथस्तुतिरसौ यतः॥१०१॥

गर्भं धेहीत्यादिमन्त्रस्थसि1595नीवालीपदार्थमाह। दर्शेति। गर्भं धेहि पृथुष्टुक इत्यत्रदेवतान्तरस्य संबोध्यमानत्वमाशङ्क्याऽऽह। पृथुष्टुकेतीति॥१०१॥

गर्भं ते सम्यगाधत्तामश्विनौ पुष्करस्रजौ॥
सूर्याचन्द्रमसावेव विज्ञेयावश्विनाविह॥१०२॥

गर्भं ते अश्विनावित्यादिभागमादत्ते। गर्भमिति। प्रसिद्धावश्विनौ व्यावर्तयन्नश्विनावित्येतद्व्याचष्टे। सूर्येति। सर्वत्राश्विनोरुक्तरूपत्वप्रसक्तावुक्तम्। इहेति॥१०२॥

स्वरश्मिस्रग्विणौ तौ हि प्रसिद्धौ जगति य1596तः॥१०३॥

हिरण्यं ज्योतिरमृतं तन्मय्यावरणी शुभे॥
निरमन्थतां याभ्यां तावश्विनावमृतं पुरा॥१०४॥

तत्र हेतुमाह। स्वरश्मीति। यौ तौ सूर्याचन्द्रमसौ तौ स्वरश्मिमालिनौ यतो जगतिसिद्धावतोऽश्विनौ पुष्करस्रजाविति विशेषितौ सूर्याचन्द्रमसौ युक्ताविति योजना। विशेषणसामर्थ्यद्योतको हिशब्दः। हिरण्मयीत्यादेरर्थमाह। हिरण्यमिति॥१०३॥१०४॥

अश्विनौ यादृशं गर्भं प्रयत्नान्निरमन्थताम्॥
आदधावस्तथा रूपं दशमे मासि सूतये॥१०५॥

तमित्यादि विभजते। अश्विनाविति। अमृततुल्यत्वाद्गर्भस्य प्रयत्नेन भवितव्यमितिसूचयति। प्रयत्नादिति॥१०५॥

यथाऽग्निगर्भा पृथिवी द्यौरिन्द्रेणेव भानुना॥
वायुर्दिशां यथा गर्भो दृष्टः श्लथन1597कर्मकृत्॥१०६॥

यथेत्यादेरर्थमाह। यथेति। इन्द्रशब्दार्थमाह। भानुनेति। वायुं व्याचष्टे।श्लथनेति॥१०६॥

आत्मनाम समुच्चार्य तथा गर्भं दधामि ते॥
तस्या वा नाम गृह्णीयान्मन्त्रमुच्चारयन्पतिः॥१०७॥

असावित्यस्यार्थद्वयं वदन्नन्वयप्रकारमाह। आत्मेति। तथा पृथिव्यादेरग्न्यादिगर्भवदित्यर्थः। गर्भं दधामि त इति मन्त्रमुच्चारयेदिति शेषः। तमुच्चारयन्भर्ताभार्यायावा नामासाविति गृह्णीयादित्युत्तरार्धस्य योजना॥१०७॥

मन्त्रेणाथैष सोष्यन्तीमद्भिरभ्युक्षयेच्छनैः॥
वायुः पुष्करिणीं यद्वत्समिञ्जयति चालयेत्॥१०८॥

सोप्यन्तीमित्यादेरर्थमाह। मन्त्रेणेति। यथा वायुरित्यादिनेति यावत्। गर्भाधानमारभ्य दशममासपूरणानन्तर्यमथशब्दार्थः। एषशब्दो भर्तृविषयः। पीडानिवृत्त्यर्थं

शनैरित्युक्तम्। अभ्युक्षणमन्त्रं व्याचष्टे। वायुरिति। सर्वमपि चालयन्वायुः पुष्करिणीमपि चालयतीति यावत्॥१०८॥

यथा पुष्करिणीं वायुश्चालयन्नपि सर्वतः॥
न करोति क्षतिं तद्वद्गर्भ एजतु ते सुखम्॥१०९॥

दृष्टान्ते विवक्षितमंशमनुवदति। यथेति। क्षतिं तस्या इति शेषः। एवेत्यादिव्याचष्टे। तद्वदिति॥१०९॥

गर्भस्त्वां सुखयन्नेतु सहोल्बेण जरायुणा।
व्रजोमार्गो हि गर्भस्य सार्गलोऽयं कृतः पुरा॥११०॥

सहेत्यादेरर्थमाह। गर्भस्त्वामिति। अवेतिनिपातार्थः सुखयन्निति।इन्द्रस्येत्यादिविभजते। व्रज इति। पुरेति सृष्टिकालो गर्भाधानकालो वोक्तः। गर्भमार्गस्यार्गलस्यवा प्रसिद्ध्यर्थो हिशब्दः॥११०॥

जरायुरर्गलस्तं त्वमिन्द्र निर्जहि सत्वरः॥
गर्भे विनिःसृते पश्चाद्या निर्गच्छति योनितः॥१११॥

मांसपेशी समा तन्वी साऽवरेति निगद्यते॥
प्राणश्चेन्द्रोऽत्र विज्ञेयः स एव प्रार्थ्यते ततः॥११२॥

अर्गलं व्याचष्टे। जरायुरिति। अर्गलसहितमार्गं भङ्क्त्वा केवलं मार्गं कुर्वित्यर्थः।गर्भेणेत्यादाववरां व्याकरोति। गर्भ इति। समा गर्भेणेति शेषः। तां निर्जहीति पूर्वेणसंबन्धः। प्रथमेन्द्रशब्दस्य गर्भविषयत्वेऽपि द्वितीयस्य को विषयस्तमाह। प्राणश्चेति।अत्रेति वाक्योक्तिः। तत्र हेतुः। स एवेति। यतस्तमिन्द्र इत्यत्र प्राण एव पत्याप्रार्थ्यते ततस्तस्यैवेन्द्रशब्दतेत्यर्थः॥१११॥११२॥

जाते कुमारेऽथ पतिरङ्कमारोप्य तं पिता॥
अग्निं ह्युपसमाधाय प्रसिद्धार्थमथापरम्॥११३॥

जातेऽग्निमित्यादेरर्थमाह। जात इति। जातकर्मणो जन्माव्यवधानार्थोऽथशब्दः।पतिः पोषकः पितोत्पादकः। उपसमाधाय जुहोतीति संबन्धः। आवसथ्याग्निप्रसिद्ध्यर्थो हिशब्दः। कंसे पृषदाज्यमित्यादिव्याख्याप्रसक्तावुक्तं प्रसिद्धार्थमिति॥११३॥

घृतं दधि च संमिश्रं पृषदाज्यमितीर्यते॥
एकीकृत्याथ संनीय पृषदाज्यस्य मन्त्रतः॥११४॥

उपघातं जुहोतीति णमुल्वाऽऽभीक्ष्ण्य इष्यते॥
उपहत्योपहत्येति पृषदाज्याहुतीः क्षिपेत्॥११५॥

पृषदाज्यं व्याचष्टे। घृतमिति। संनीयेत्यादेरर्थमाह। एकीकृत्येति। घृतं दधिच मिश्रीकृत्य कांस्यगं पुरतो निधायानन्तरं पृषदाज्यमुपहत्योपहत्य वक्ष्यमाणमन्त्रैर्जु-

हुयादित्यर्थः। कथमस्य पौनःपुन्यमुच्यते तत्राऽऽह। णमुल्वेति। आभीक्ष्ण्यमभिव्यनक्ति। उपहत्येति। कर्मणि षष्ठीत्यभिप्रेत्य पृषदाज्यस्य जुहोतीत्यस्यार्थमाह। पृषदाज्येति॥११४॥११५॥

पुष्यासं स्वे गृहेऽत्राहं मनुष्याणां प्रकामतः॥
सहस्रसंख्यया शश्वद्बहोर्नाम सहस्रगीः॥११६॥

तन्मन्त्रं व्याचष्टे। पुष्यासमिति। अत्र स्वे गृहे मनुष्याणां सहस्रं प्रकामतःशश्वत्पुष्यासमिति संबन्धः। सहस्रनियमे को हेतुस्तत्राऽऽह। बहोरिति॥११६॥

एवं त्वं वर्धमानोऽत्र मन्वीथाः पुत्र संततिम्॥
संततावुपसन्द्यांत्वं पश्वादेर्मेकरिष्यसि॥११७॥

दार्ष्टान्तिकमाह। एवमिति। अस्येत्यादेरर्थमाह। संतताविति। अस्य मे संततौवर्धमानस्त्वमिति संबन्धः। उपसन्द्यामित्यस्य व्याख्या संतताविति। पश्वादेः संततिमितिशेषः॥११७॥

नैव व्यपेक्षते व्याख्यां स्पष्टार्थत्वेन हेतुना॥
मयिप्राणानिति ग्रन्थः स्वयमेवावगम्यताम्॥११८॥1598

व्याख्यानपेक्षत्वमाह। नैवेति॥११८॥

अथास्य स्वमुखे कर्णं दक्षिणं प्रणिधाय तु॥
वाग्वागिति हि त्रिर्ब्रूयात्त्रयी वागिति भण्यते॥११९॥

अथास्येत्यादेरर्थमाह। अथेति। जातकर्मानन्तर्यमथशब्दार्थः॥११९॥

त्रयीवाक्त्वां श्रोत्रमार्गेण श्रेयसे प्रविशत्वियम्॥
यस्ते स्तन इति गिरा शस्यतेऽत्र सरस्वती॥१२०॥

पुत्रस्य दक्षिणे कर्णे वाग्वागिति त्रिवारं वदतो जनकस्याभिप्रायमाह। त्रयीवागिति। यस्ते स्तन इत्यादेस्तात्पर्यमाह। यस्त इति। अत्रेति पुत्रस्य स्तनपानप्रस्तावोक्तिः॥१२०॥

उदारगुणसंपत्तिः सुतस्यास्त्विति भण्यते॥
शशयः सशयो ज्ञेयः शयश्च फलमुच्यते॥१२१॥

प्रशंसाफलमाह। उदारेति। सुतस्य स्तनपानद्वारेति शेषः। अक्षराणि व्याचष्टे।शशय इति। शयः कर्मफलं शेतेऽस्मिन्कर्तेति व्युत्पत्तेस्तेन सह वर्तत इति सशयःस्तन इत्यर्थः॥१२१॥

गुहा शयो वा शशयः श्रुत्यैव प्रतिपादितः॥
मयोभूरन्नभूतोऽयं सर्वप्राणिभृदुच्यते॥१२२॥

रत्नस्य पयसोऽत्यर्थं रत्नाधारश्चयः स्तनः॥
वसुनो धनस्य लब्धा च तस्य वृष्ट्यादिहेतुनः॥१२३॥1599

भूरिकल्याणदातृत्वात्सुदत्र इति भण्यते॥
येन पुष्यसि वार्याणि सर्वाणीह सरस्वति॥१२४॥

संभावितमर्थान्तरमाह। गुहेति। स्तनोत्थानदेहदेशो गुहाशब्दितः शयः। अस्मिन्पक्षे नाक्षरव्यत्यासोऽस्ति शं सुखं तस्य हेतुः शयः स्थितिः स्थानं यस्येति व्युत्पत्तेत्याह। श्रुत्येति। कथमन्नत्वं सरस्वतीस्तनस्येति तत्राऽऽह। सर्वेति। स हितत्र तत्रमातुः स्तने प्रविश्य सर्वेषां भोग्यतया सर्वान्बिभर्ति तेन सर्वप्राणिस्थितिहेत्वन्नभूतःइत्यर्थः। अत्यर्थं धाता निष्पादक इति शेषः। अर्थान्तरमाह। रत्नेति। वसुविदित्यस्यार्थमाह। वसुन इति। इहेति व्यवहारदशोक्तिः॥१२२॥१२३॥१२४॥

देवादीनि वराणि1600 त्वं सर्वैर्भोगैः प्रपुष्यसि॥१२५॥

पानाय मम पुत्रस्य स्त्रीस्तने संनिवेशय॥
यथोक्तगुणकं देवि स्वस्तनं सर्वकामदम्॥१२६॥

वार्याणीत्यस्यार्थं वदन्वाक्यं योजयति। देवादीनीति। येन पुष्यसीति संबन्धतमित्यादि व्याचष्टे। पानायेति। ममेत्युभयत्र संबन्धः॥१२५॥१२६॥

इलाऽसीत्यथ मन्त्रेण सूनोर्मातरमादरात्॥
अभिमन्त्रयते साधुकर्मावा1601प्त्यैस्वयं पतिः॥१२७॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके षष्ठाध्यायस्य
चतुर्थं ब्राह्मणम्॥४॥

अथास्येत्यादेरर्थमाह। इलाऽसीति। स्तनदानादभिमन्त्रणस्याऽऽनन्तर्यमथशब्दार्थः। इलाऽसीति पत्न्याः स्तुत्यर्हतोक्तिः। मित्रावरुणयोरपत्यभूता देवतात्मिकाजीवभर्तृका च मम सत्पुत्रं संपादितवती। जीवपुत्रकत्वं तस्याः प्रार्थयते सा त्वमितिस्वस्यापि लोक्यपुत्रसाहित्ये पत्नी निमित्तमित्याह याऽस्मानिति। सा त्वमिलाऽसीतिसंबन्धः। उक्तार्थमन्त्रेण भार्याभिमन्त्रणफलमाह। साध्विति। प्रशस्तपुत्रपालनं साधुकर्म॥१२७॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिकटीकायां षष्ठाध्यायस्य
चतुर्थं ब्राह्मणम्॥४॥

श्लोकानामादितः समष्ट्यङ्काः—१११२५
————

अथ पञ्चमं ब्राह्मणम्।
__________

संभावितं न यत्पूर्वं कृत्स्नेऽस्मिन्ब्राह्मणेऽपि तत्॥
खिलकाण्डे तदखिलं पुत्रमन्थान्तमीरितम्॥१॥

वंशब्राह्मणार्थकथनार्थं वृत्तं संकीर्तयति। संभावितमिति। यत्तत्पूर्वं काण्डxxxx सर्वत्रापि ब्राह्मणे वक्तुंन संभावनोपनीतं वक्तव्यत्वेन शिष्टं तत्सर्वमस्मिन्काण्डे पुत्रxxxx न्थावसानमुक्तमित्यर्थः॥१॥

पूर्वकाण्डैकदेशत्वात्खिलकाण्डं न वंशभाक्॥
पूर्वत्र विद्यासंभेदाद्भिन्नौ वंशाविहोदितौ॥२॥

प्रत्येकं मधुमुनिकाण्डयोर्वंशभाक्त्ववदस्यैवायं वंशः संनिधानात्तथाच कथं समस्तxxxxवचनवंश इति भाष्यमित्याशङ्क्याऽऽह। पूर्वेति। तदेकदेशत्वं तत्रानुक्तस्य वक्तव्यत्वेxxxxवशिष्टस्यात्रोक्तेरिति द्रष्टव्यम्। कथं पूर्वोक्तयोरपि प्रत्येकं वंशभाक्त्वं तत्राऽऽह।पूर्वत्रेति। इहेति चतुर्थान्तं षष्ठान्तं चाऽऽह॥२॥

पूर्वैश्चतुर्भिरध्यायैस्त्वाष्ट्रं कक्ष्यं च यन्मधु॥
व्याख्यातं तदशेषेण वंशस्तत्र तदर्थभाक्॥३॥

कथं काण्डद्वयस्य भिन्नविद्याविषयत्वं न हि ब्रह्मविद्योभयत्र भिद्यते भेदकाभावाxxxxत्याशङ्क्यमधुकाण्डार्थं दर्शयन्वंशस्य तत्रार्थवत्तामाह। पूर्वैरिति। द्वितीयस्तच्छब्दxxxxस्मादर्थः। अर्थभाक्चतुर्थान्ते वंशो निर्दिश्यमानो मधुद्वयस्याऽऽगमसंप्रदायप्रतिपादनार्थत्वात्फलवानित्यर्थः॥३॥

मधुकाण्डागमार्थस्य यथावत्प्रतिपत्तये॥
काण्डं स्याद्याज्ञवल्कीयं वंशस्तद्विषयस्तथा॥४॥

मुनिकाण्डप्रवृत्तिप्रदर्शनपूर्वकं वंशान्तरस्यार्थवत्त्वमाह। मध्विति। यथावत्प्रतिपत्तिन्यायद्वयेन विप्रतिपत्तिनिरासेनावगतिस्तथा सति तद्विषयकस्य ज्ञानस्य तर्कसंप्रदायxxxxतिपादको द्वितीयो वंशो भवत्यर्थवानित्यर्थः॥४॥

अयं तु वंशो विज्ञेयः कृत्स्नप्रवचनाश्रयः॥
समाप्तौ ब्राह्मणस्योक्तेरयमर्थोऽवसीयते॥५॥

तृतीयोऽपि वंशस्तृतीयकाण्डस्यैव किं न स्यादित्याशङ्क्यापूर्वकाण्डैकदेशत्वादित्यxxxxक्ततमुपजीव्याऽऽह। अयं त्विति। तत्र गमकमाह। समाप्ताविति। प्रवचनसमाxxxxवस्य वंशब्राह्मणस्योक्तेरयं वंशः सर्वप्रवचनशेषो भातीत्यर्थः॥५॥

उक्तवेदार्थविज्ञानसाकल्यप्रतिपत्तये॥
जपो वंशस्य येनातः श्रुत्या वंश इहोदितः॥६॥

पूर्ववदस्य फलवत्त्वाभावादवक्तव्यत्वमाशङ्क्याऽऽह। उक्तेति। इहेति प्रवचनसमाप्तावित्यर्थः॥६॥

सर्वज्ञानां यतो वंशास्त्रयोऽप्येते यथोदिताः॥
अतस्तत्स्मृतितः सम्यग्ज्ञानभानूदयो भवेत्॥७॥

इतश्च वंशत्रयसंकीर्तनं कर्तव्यमित्याह। सर्वज्ञानामिति। यस्य देवे परा भक्तिरित्यादिश्रुतेः॥७॥

पुत्रमन्थेन संस्कारः स्त्रीणामेवेह वर्णितः।
यतोऽतः स्त्रीप्रधानोऽयं पुत्राणां वंश उच्यते॥८॥

पूर्वौवंशौ पुरुषविशेषितौ तृतीयः स्त्रीविशेषितस्तत्र किं कारणमित्याशङ्क्य स्त्रीप्राधान्यादित्यादिभाष्यतात्पर्यमाह। पुत्रेति। इहेत्यनन्तरब्राह्मणोक्तिः॥८॥

अन्यतोऽन्यत एवायं संप्रदायो यथाऽभवत्॥
न तथा ब्रह्मणस्तस्मात्तत्स्वयंभ्विति शब्द्यते॥९॥

ब्रह्म स्वयंभ्विति ब्रह्मणि स्वयंभुशब्दप्रयोगे निमित्तमाह। अन्यत इति॥९॥

अन्येषां वेदतो ज्ञानं भूरिसाधनसंश्रयात्॥
स्वतो वेदात्मनस्तस्मात्सर्वज्ञानमयो हि सः॥१०॥

ब्रह्मशब्दार्थं व्याचक्षाणस्तस्याऽऽचार्यानपेक्षत्वं साधयति। अन्येषामिति।भूरिसाधनं प्रभूतं श्रवणादि। परमात्मा वेदोपाधिब्रह्म न च तस्याऽऽचार्यापेक्षासर्वज्ञानमयत्वादित्यर्थः॥१०॥

सर्वस्यैष वशीत्यादि तथाऽपि प्रागवादिषम्॥
परैव देवता वेदो यच्च किंचिच्चराचरम्॥११॥

परस्य तन्मयत्वे लिङ्गमाह। सर्वस्येति। न हि वशित्वादि सर्वज्ञानमयत्वं विनासिध्यतीत्यर्थः। तस्य सर्वज्ञत्वं यः सर्वज्ञः सर्वविदित्यादिश्रुत्यन्तरेऽपि प्रसिद्धमित्यपेरर्थः।परस्य वेदोपाधेर्ब्रह्मशब्दत्वं चेदुपाधितद्भावेन भेदादद्वैतहानिरित्याशङ्क्याऽऽह।परैवेति॥११॥

प्रतिपाद्याऽऽत्मनाऽऽत्मानं नामरूपादिसाधनः॥
एति पूर्णात्मतां साक्षाद्धियां वाचामगोचरम्॥१२॥

कथं तर्हि प्रतिपाद्यप्रतिपादकत्वमुपाधितद्वत्त्वं च वेदब्रह्मणोरिष्टं तत्राऽऽह। प्रतिपाद्येति। कल्पितभेदेन तत्संभवान्न वास्तवाद्वैतहतिरिति भावः। निष्प्रपञ्चत्वं साक्षादितिविवक्षितमत एव धियामित्यादि विशेषणम्॥१२॥

त्रय्यैव ब्राह्मणो विद्वानात्मनैवाद्वयं परम्॥
विदित्वा निर्वृतिं याति कार्यकारणयोः पराम्॥१३॥

वेदस्य कल्पितभेदस्याऽऽत्मप्रतिपादकत्वे प्रमाणान्तरस्यापि तत्संभवादन्ययोगव्यवच्छेदासिद्धिरित्याशङ्क्याऽऽह। त्रय्येति। न हि प्रत्यक्षादिना तद्धीस्तदयोग्यत्वादतोमुमुक्षुर्वेदेनैनाऽऽत्मतयोक्तेन स्वस्वरूपं विदित्वैव निर्वृणोति तमेव विदित्वेत्यादिश्रुतेरित्यर्थः। अद्वयत्वं विशदयितुं निर्वृतिं विशिनष्टि। कार्येति॥१३॥

वेदोऽसीत्यत एवास्य नाम जातस्य कुर्वते॥
वेदात्मना क1602थं नाम परं ब्रह्म प्रपत्स्यते॥१४॥

स्वरूपभूतवेदेन परस्य प्रतिपत्तिरित्यत्र युक्त्यन्तरमाह। वेदोऽसीति। आत्मभूतवेदस्य स्वरूपबोधकत्वमतःशब्दार्थः। जातस्य शिशोर्वेदोऽसीति नाम कुर्वतामभिप्रायमाह। वेदात्मनेति॥१४॥

वाजिशाखासु सर्वासु ह्यासुरायणपूर्वकाः॥
समाना वंशर्षयोऽमी ह्या समाप्तेरितीक्ष्यताम्॥१५॥

ब्रह्म स्वयंभ्वित्यत्र ब्रह्मशब्दार्थमुक्त्वा पूर्ववंशद्वयस्थमवान्तरविशेषमाह। वाजिशाखास्विति। पञ्चदशसंख्याकासु सर्वास्वेव तासु वंशद्वयस्यर्षयः पाठक्रमेणाऽऽसुरायणपुरःसरा वेदाख्यब्रह्मपर्यन्तास्तुल्या आसुरायणात्पूर्वे तु प्रतिशाखमुभयत्र मनुष्यान्तास्ते भिद्यन्ते तद्भेदश्रुतेरित्यर्थः। वंशर्षीणां तुल्यत्वमध्यापकप्रसिद्धमित्याद्यो हिशब्दः।तत्सामान्यस्य पाठानुसारेणानुभवयोग्यत्वमिति द्वितीयो हिशब्दः॥१५॥

आदित्येन हि प्रोक्तानि यजूंष्येतानि यानि तु॥
आदित्यानीत्यतस्तानि सम्यगाचक्षते बुधाः॥१६॥

आदित्यानीमानीत्यत्र यजुषामादित्यत्वं श्रुतं तत्साधयति। आदित्येनेति। तेनवाजिशाखावच्छिन्नं यजुषां प्रोक्तत्वं याज्ञवल्क्येन प्राप्तत्वं च पुराणेषु प्रसिद्धमितिहिशब्दार्थः॥१६॥

वेदात्मनो रवेरेवं संप्रदायोऽयमागतः॥
परमेष्ठ्यादिकान्सर्वान्पारंपर्येण मानुषान्॥१७॥

इतश्च तेषामादित्यात्मत्वमित्याह। वेदेति। स हि वेदात्मा हिरण्यगर्भस्ततः परमेष्ठिनो विद्यासंप्रदायोऽतस्तदादिकान्सर्वानेव प्रति पारंपर्येणाऽऽगतोऽयं संप्रदायस्तस्मादेवाऽऽदित्यत्वं यजुषामित्यर्थः। एवमिति वंशब्राह्मणाधीतक्रमकथनम्॥१७॥

असंसृष्टं परं ब्रह्म सर्वदोषविवर्जितम्॥
एतदादित्यगं भाति तद्वेदानां परं वपुः॥१८॥

न केवलं तेषामेवाऽऽदित्यत्वं किंतु सर्वस्यैव वेदस्य तस्य त्रयीमयत्वप्रसिद्धेरित्याह।

असंसृष्टमिति। स यश्चायं पुरुषे यश्चासावादित्ये स एक इत्यादिश्रुतेर्वेदरूपस्य परस्याऽऽदित्ये प्रतिष्ठितत्वात्तस्य सर्वस्याऽऽदित्यता युक्तेति भावः॥१८॥

उत्सन्नमपि यद्ब्रह्म तदादित्ये न नश्यति॥
तदार्षेणैव विन्दन्ति तपस्तप्त्वा महर्षयः॥१९॥

तत्रैव हेत्वन्तरमाह। उत्सन्नमिति। तस्माद्यज्ञात्सर्वहुत इत्यादिश्रुतेर्निःश्वासवत्परस्मात्प्रवृत्तमपि वेदाख्यं ब्रह्माऽऽदित्यात्मनि तस्मिन्प्रलयावस्थायामस्तीत्यत्र प्रमाणमाह। तदार्षेणेति

‘युगान्तेऽन्तर्हितान्वेदान्सेतिहासान्महर्षयः।
लेभिरे तपसा पूर्वमनुज्ञाताः स्वयंभुवा’॥

इत्यादिवाक्यमत्र मानमित्यर्थः॥१९॥

वेदब्रह्मण आरभ्य सर्वेषामपि शाखिनाम्।
सांजीवीसूनुपर्यन्तो वंश एको न भिद्यते॥२०॥

वंशद्वयस्थं विशेषं यजुषामादित्यत्वं चोक्त्त्वा समानमित्यादि व्याकरोति। वेदेति।सर्वेषां प्रकृतपञ्चदशसंख्याकवाजिशाखाध्येतॄणामिति यावत्॥२०॥

सांजीवीपुत्रतस्त्वर्वाक्प्रतिशाखं पृथक्पृथक्॥
आचार्यभेदाद्भिद्यन्ते वंशा वाजसनेयिनाम्॥२१॥

वंशस्तृतीय आ सांजीवीपुत्रादितिविशेषणसामर्थ्यलभ्यमर्थमाह। सांजीवीति।वाजसनेयिनां प्रतिशाखं सांजीवीपुत्रादुपक्रम्य मनुष्यपर्यन्तमन्तिमा वंशाः पृथग्भिद्यन्तआचार्यभेदोपलम्भादिति योजना॥२१॥

इत्युक्तैकात्म्यवाक्यप्रविकचकमला प्राज्यसन्न्यायगन्धा
काण्डैश्चित्रा षडर्धैर्मधुमुनिखिलकैर्मस्करीन्द्रालिजुष्टा॥
श्लोकग्रन्थिप्रबद्धाऽविषयमितिफला प्रेमसत्सूत्रसूत्रा
मालागङ्गेव शंभुं पदममलमजं वैष्णवं साऽनुयाता॥२२॥

अथेदं वार्तिकं ख्यातिलाभपूजार्थमाचरितत्वादनाप्तप्रणीतं विद्वद्भिर्नाऽऽदेयं तथाचास्यशिष्टपरिग्रहद्वारा प्रचयगमनाभावाद्वार्तिककृतः श्रमो वृथेत्याशङ्क्यवार्तिकप्रणयनव्याजेन भगवतो वासुदेवस्यानुसंधानमभिप्रेतं न ख्यात्यादीति कुतो यथोक्तदोषाशङ्केत्याह।इत्युक्तेति। अस्य हि वार्तिकस्य भगवत्पादपूजासाधनीभूतमालात्वमत्र संपाद्यते तत्रषड्भिरध्यायैरुक्तनीत्या व्याख्यातान्यैक्यवाक्यान्येव प्रविकचानि कमलानि यस्यां सातथा न हि विना पुष्पैर्माला युक्ता न चात्र पुष्पान्तराणि सन्ति सा च प्रचुरनिर्दोषन्यायात्मकसौरभ्यभागिनी न हि सौगन्ध्यविधुरां मालामुपाददते न च वाक्यात्मकसरसीरुहविरचितायां स्रजि तदुपकरणन्यायातिरेकेण सौरभ्यान्तरमस्ति मधुमुनिखिलसंज्ञैश्च काण्डै-

स्त्रिभिर्विचित्रा न हि काण्डानि विना केवलैरेव कमलैरारचिता माला रुचिरा लक्ष्यतेन चात्र काण्डान्तराणि विद्यन्ते परमहंसपरिव्राजकपरिदृढभृङ्गैश्चप्रीतिपूर्वकं सेविता न हिचञ्चरीकपरिसेवनं विना दूरस्थानां मालामवलोकयतां तद्गतं सौरभ्यमध्यवसातुंशक्यं न चात्र मधुकरान्तराणि संभावितानि प्रकृतद्वादशसहस्रसंख्याकवार्तिकाख्यश्लोकग्रन्थिभिर्विरचिता न हि ग्रन्थिभिर्विना मालानिर्माणंघटते न चात्र प्रकृतश्लोकग्रन्थिव्यतिरेकेण ग्रन्थयः सन्ति सन्ति च प्रकृतेषु श्लोकेषु ग्रन्थयः प्रकृतां व्याख्यां विहायतेषां दुर्भेद्यत्वान्न च माला फलविकला केनचिदुपादीयत इयं तु प्रत्यक्षाद्यविषयप्रत्यग्भूतब्रह्मसाक्षात्कारलक्षणपरमानन्दफलोपेता प्रेक्षावतामुपादानपदवीमधिरोहति परप्रेमास्पदंपरमानन्दात्मकं निरुपाधिकं परं ब्रह्म तदेवाज्ञानशबलं सच्छब्दं सर्वकारणं तदेवापञ्चीकृतभूतपञ्चकोपाधिकं सूत्रं तद्विधसूत्रोपेता या विरचिता माला न खल्वसूत्रा मालासंभावनामर्हति न चात्र सूत्रान्तरं क्रमते सा चेयं भगवतो विष्णोः स्वरूपं मुमुक्षुप्राप्यंतात्पर्येणानुयाता तदलंकारतामाचरति न खलु निखिलगुणवत्यपि माला कस्यचित्पुरुषधौरेयस्यालंकारत्वेनासमर्पिता फलवती भवितुमुत्सहते न च भगवत्पदमन्तरेणान्यत्रालंकर्तव्यमस्तीति योजना। प्रकृतमालायास्तात्पर्येण भगवत्पदानुगतौ दृष्टान्तमाह। गङ्गेवेति।यथा स्वर्धुनी स्वर्गादागता भगवतः शंभोरतिरिक्तमात्मनो धारयितारमपश्यन्तीति योजना।प्रकृतमालायाः प्रदर्शितभगवत्पादादन्यदागन्तुकमनुचिता सती तदेवानुगतेत्यर्थः। वैष्णवेपदे यथोक्तमालार्पणमुचितमिति वक्तुं पदं विशिनष्टि। अमलमिति। अमलत्वं साधयति। अजमिति॥२२॥

यत्प्रज्ञोदधियुक्तिशब्दनखजश्रद्धैकसन्नेत्रक-
स्थैर्यस्तम्भमुमुक्षुदुःखितकृपायत्नोत्थबोधामृतम्॥
पीत्वा जन्ममृतिप्रवाहविधुरा मोक्षं ययुर्मोक्षिण-
स्तं वन्देऽत्रिकुलप्रसूतममलं वेधोभिधं1603 मद्गुरुम्॥२३॥

ननु शास्त्रादौ गुरवो नमस्कृतास्तत्फलं च शास्त्रसमाप्तिलक्षणमतिवृत्तं तथाचान्ते तन्नमस्कारो न कर्तव्योऽफलत्वादित्याशङ्क्याऽऽदाविवान्तेऽपि गुरुनमस्कारो विद्याप्राप्तिहेतुताद्योतनाय विधेय इति मन्वानो गुरुं प्रणमति। यत्प्रज्ञेति। यस्य भगवतो भाष्यकृतः प्रज्ञैव पारविरहादुदधिस्तस्मान्मथ्यमानाद्युक्तिश्चोपकरणं शब्दनं च करणं तदात्मकेन खजेन मुमुक्षूणामपेक्षितमोक्षनिदानज्ञानममृतं मया निर्वर्तनीयमन्यस्य तदशक्तेरित्यास्तिक्यबुद्धिरूपाति-दृढरशनाशालिनाऽस्यैव भगवतः स्थैर्याख्यस्तम्भनिबन्धेन मुमुक्षुषु दुःखितेषु कृतकृपारूपयत्नादुत्पन्नं बोधाभिधानममृतं पीत्वा शुश्रूषादिद्वारा लब्ध्वा जन्मादिप्रवाहशून्यामोक्षिणो बहवो मोक्षं प्राप्तवन्तस्तदशेषदोषशून्यं हिरण्यगर्भमिव साक्षादवस्थितमात्रेय-

गोत्रप्रसूतं शिष्टानामग्रेसरं वन्दे मदीयं गुरुमिति योजना। यस्य प्रज्ञा यत्प्रज्ञा सैवोदधिवदुदधिर्निरवधित्वाद्युक्तिश्च शब्दनं च युक्तिशब्दने ते एव खजो यस्य स तथा श्रद्धैवैकं मुख्यं सदतिदृढं नेत्रं वैशाखबन्धनरज्जुर्यस्य स तथोक्तः स्थैर्यमेव स्तम्भो मथ्याश्रयो यस्य स तथा मुमुक्षवश्च ते दुःखिताश्च तेषु कृपैव यत्नो यस्य स तथा यत्प्रज्ञोदधिश्चासौ युक्तिशब्दनखजश्चासौ श्रद्धैकसन्नत्रकश्चासौ स्थैर्यस्तम्भश्चासौ मुमुक्षुदुःखितकृपायत्नश्च तस्मादुत्थं बोधाख्यममृतमिति विग्रहः। वेधोभिधमिति1604। विदधातीतिवेधाः परमेश्वरस्तस्याभिधा शंकराख्या यस्य तं गरीयांसं वाक्कायचेतोभिर्नम्री भवानीति संबन्धः॥२३॥

यामस्मद्गुरुरेव वेदशिरसामैकात्म्यतात्पर्यतो
वृत्तिं सज्जनशंकरीं सुविमलां नानानयोद्योतिताम्॥
चक्रे काण्वसमाश्रितोपनिषदो दुस्तर्कदोषापहां
श्रद्धामात्रबलेन वार्तिकमिदं तस्याः समासात्कृतम्॥२४॥

अनाप्तप्रणीतत्वमसांप्रदायिकत्वं च परित्यज्य स्वकीयवार्तिकप्रणयनमुपसंहरति।यामित्यादिना। यां काण्वसमाश्रितोपनिषदो वृत्तिमस्मद्गुरुश्चक्रे तस्या वार्तिकमिदंकृतमिति संबन्धः। वेदान्तानामैकात्म्यतात्पर्यपर्यालोचनातः काण्वशाखाश्रितबृहदारण्यकनामधेयोपनिषद्व्याख्यानव्याजेन सर्वासामेवोपनिषदां वृत्तिं गुरुरकरोदतो गम्भीरा सावार्तिकसापेक्षेत्यभिप्रेत्याऽऽह। वेदशिरसामिति। सन्तो जनाः साधनचतुष्टयसंपन्नास्तेषां निरतिशयपुरुषार्थकारित्वाच्च निर्दोषा वृत्तिरित्याह। सज्जनशंकरीमिति।शब्दतोऽर्थतश्च दोषराहित्यं दर्शयति। सुविमलामिति। जल्पवादरूपन्यायोपकरणवत्त्वाच्च निर्दोषा सेत्याह। नानेति। श्रेयोमार्गपरिपन्थिपरपक्षप्रतिक्षेपकत्वाच्चादोषासेत्याह। दुस्तर्केति। एवंविधाया वृत्तेः श्रद्धया वार्तिकमारचितं न तु सामर्थ्यादित्यतौद्धत्यं कथयति। श्रद्धामात्रेति। अस्मिन्वार्तिके श्रोतृप्रवृत्त्यर्थं ग्रन्थलाघवमर्थपुष्टिं व्याऽऽचष्टे। समासादिति। भाष्यकारस्यैव भगवतो यथोक्तवृत्तिकरणे सामर्थ्यंनान्यस्यैवमिति वक्तुमेवेत्युक्तम्। अत्र श्लोके यां काण्वोपनिषच्छलेनेत्यत्रोक्तं सर्वमनुसंधेयम्॥२४॥

आ शैलादुदयात्तथाऽस्तगिरितो भास्वद्यशोरश्मिभि-
र्व्याप्तं विश्वमनन्धकारमभवद्यस्य स्म शिष्यैरिदम्॥
आराज्ज्ञानगभस्तिभिः प्रतिहतश्चन्द्रायते भास्कर-
स्तस्मै शंकरभानवे तनुमनोवाग्भिर्नमस्तात्सदा॥२५॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके षष्ठाध्यायस्य
पञ्चमंब्राह्मणम्॥५॥

xxxxद्वादशसाहस्रवार्तिकामृतमीरितम्॥
xxकाण्वारण्यकभाष्यस्य शांकरस्य समासतः॥१॥

श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरभगवत्पूज्यपादशिष्य-
श्रीमत्सुरेश्वराचार्यकृतौ बृहदारण्यकोपनिषद्भाष्यवार्तिकप्र-
स्थाने षष्ठोऽध्यायः॥६॥

बृहदारण्यकक्रमेणाष्टमोऽध्यायः॥८॥

यस्य देवे परा भक्तिरित्यादिश्रुतेर्निरतिशयगुरुभक्तिभाजो ब्रह्मज्ञानं नेतरस्वेति ज्ञापयितुं पुनर्गुरुं नमस्यति। आ शैलादिति। अत्र च भगवान्भाष्यकारो भानुत्वेन तदन्तेवासिनस्तज्ज्ञानं च भानुत्वेन निरूप्यते। उदयास्तगिरिमध्यस्थतया वर्तमानमशेषमापिजगदधिकृतमुमुक्षुजातं यस्य भगवतः शिष्यैः सनन्दनाचार्यप्रमुखैरतिविशदयशोरश्मिशालिभिर्व्याप्तं सदबोधान्धकारविधुरमभूद्यस्य च गुरोर्ज्ञानाख्यकिरणैरन्तिकमुपसृप्तैः प्रतिहतः सन्भास्करश्चन्द्रवदाचरति स्म भाष्यकृतो हि शिष्याणां यशोरश्मयः सकलमपिमण्डलमश्नुवानास्तत्र तत्राधिकृतं पुरुषधौरेयमुपसन्नमासाद्य तत्तद्गतमबोधं तिरयन्तिभाष्यकारस्य पुनर्भगवतो ज्ञानगभस्तयो भुवमिव द्यामन्तरिक्षं चाधिरुह्य तत्र तत्रान्धकारं ध्वंसयन्ते तस्मै श्रीमच्छंकरनामबिभ्रते भगवते भाष्यकृते भानवे त्रिधा नमस्तादितिसंबन्धः। सदेति भक्तिश्रद्धयोरतिशयं द्योतयति तत्पूर्विका हि नमस्क्रिया फलायते॥२५॥

शब्दान्यथात्वं यत्किंचिदस्मन्मान्द्यादिहेक्ष्यते।
प्रतिनेयं कथंचित्तच्छन्दोवत्तद्विदां स्थितेः॥१॥

विश्वानुभवपादानामवाप पदवीमहम्।
सुरेश्वरगिरां व्याख्यामाख्यातां समचीक्लृपम्॥२॥

नमो जन्मादिसंबन्धबन्धविध्वंसहेतवे।
हरये परमानन्दपरिज्ञानवपुर्भृते॥३॥

नमस्त्रय्यन्तसंदोहसरसीरुहभानवे।
गुरवे परपक्षौघध्वान्तध्वंसपटीयसे॥४॥

व्याख्याऽसंख्याततर्कक्रकचचयरयस्रस्तदुस्तर्कशङ्का-
व्याजप्रश्नप्रकारप्रसरपरमता वस्तुतत्त्वं श्रयन्ती।
शुद्धानन्दाङ्घ्रियुग्मस्मृतिभरनिभृतप्रौढमूढोक्तिगाढाऽऽ-
नन्दज्ञानप्रणीता जगति मुदमियं सद्धियां संविधत्ताम्॥५॥

श्रौतस्मार्तविचारनीरनिवहो नानानयोर्मिर्दृढ-
श्लोकग्रन्थिमहाग्रहस्फुटतरव्याकार1605रत्नाकरः॥
प्रत्यग्बोधसुधाविभूतिविभवप्रोद्दाममुख्यैकभूः
सोऽयं वार्तिकवारिधिर्विजयते त्रय्यन्तचूडामणिः॥६॥

विहिता निहिता सेयं सुरेश्वरवचोनुगा।
शास्त्रप्रकाशिकाऽस्माभिरर्पिता पुरुषोत्तमे॥७॥

इति वार्तिकपीयूषस्वरसास्वादनेच्छवः।
शास्त्रप्रकाशिकां व्याख्यां समुपाध्वं मुमुक्षवः॥८॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिकटीकायां षष्ठाध्यायस्य
पञ्चमं ब्राह्मणम्॥५॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यश्रीम-
द्भगवदानन्दज्ञानकृतायां सुरेश्वरवार्तिकटीकायां शास्त्र-
प्रकाशिकाख्यायां षष्ठोऽध्यायः॥६॥

श्लोकानामादितः समष्ट्यङ्काः—१११५१

<MISSING_FIG href="../books_images/U-IMG-1733239173Capture2.PNG"/>* संपूर्णाचलचारुवर्णवदना निर्दुष्टदृष्टिश्रुति-
र्नानान्यायसमूहसन्मणिगणाकीर्णप्रमाणोज्ज्वला।
सर्वज्ञं परमेश्वरं परिगता सन्मानमुक्ताश्रिता
टीका शास्त्रविभासिकाऽन्यगिरिजेवाऽऽस्तां सतां प्रीतये॥१॥

इति परिसमाप्तिमगमदिदं शास्त्रप्रकाशिकाख्यटीकासंवलितबृहदारण्य-
कोपनिषद्भाष्यवार्तिकम्।
————

_____________________________________________________________

*अयंश्लोकःपुस्तकद्वयेऽपिटीकासमाप्त्यनन्तरं बहिर्लिखितो मिलितोऽस्य च टीकामहत्त्वख्यापकत्वात्समीचीनत्वाट्टीकाकृत्कृतत्वसंभवाच्च संगृहीतः।
_____________________________________________________________

]


  1. “ख. °क्तिप्राधान्ययो°।” ↩︎

  2. “ख. °क्षादीननु°।” ↩︎

  3. “ख. नाश्यत्वे°।” ↩︎

  4. “क. तु।” ↩︎

  5. “ख. च।” ↩︎ ↩︎ ↩︎

  6. “ख. ग. °भूद्ब्रह्मर्त्विग्योऽधि°।” ↩︎ ↩︎

  7. “ख. °दिनी श्रु°।” ↩︎ ↩︎

  8. “ख. पृच्छति।” ↩︎ ↩︎

  9. “क. ख. तमाह।” ↩︎

  10. “ख. ग. °नं चेत्य°।” ↩︎

  11. “क. कारणात्।” ↩︎

  12. “ग.°दीनां पु°।” ↩︎

  13. " ख. °व्योऽज्ञानहानितः’।" ↩︎

  14. “क. त।” ↩︎

  15. " ख. °बन्धने सू°।" ↩︎

  16. “ख. °णादीनत°।” ↩︎

  17. “ख तत्पदे।” ↩︎

  18. “ग.°त्वा त्वपृ°।” ↩︎

  19. “ख. यदैवं।” ↩︎

  20. “ख. °तैव स्यान्नाऽऽत्मनो व्य°।” ↩︎

  21. “क. ख. बन्धपक्षस्यैव।” ↩︎

  22. “ख. °मिहोच्यते°।” ↩︎

  23. “क. °दन्विद्या°।” ↩︎

  24. “क. °दकाज्ञा°।” ↩︎

  25. “ग. ॰वाऽस्ति ते।” ↩︎

  26. “ख. °वृत्तौ का°।” ↩︎

  27. " क. तदाह।" ↩︎

  28. " क. °वैशिष्ट्याद°।" ↩︎

  29. “ख. दृष्टौ।” ↩︎

  30. “ख. °ता॥ प्रागस्य।” ↩︎

  31. “ख. ॰याद्यनु॰।” ↩︎

  32. " ख. तत्त्वज्ञाना॰।" ↩︎

  33. “ख. ग. ॰धित्वं परि॰।” ↩︎

  34. “ख. ॰यानु॰।” ↩︎

  35. “ख. तदयोगा॰।” ↩︎

  36. “क. नेत्यभिधीयते।” ↩︎

  37. “क. ॰दृष्टौ च व्यासदृ॰।” ↩︎

  38. “ख. ॰व व्यासदृ॰।” ↩︎

  39. “क. ॰कश्येन। ख. ॰कत्वेन।” ↩︎

  40. “ख. ॰स्तुतः प॰।” ↩︎

  41. “ग. ॰पनोक्ति॰।” ↩︎

  42. “ख. कर्मनिर्वर्तिता॰।” ↩︎

  43. “क. ख. ॰त्तमः॥१३०॥” ↩︎

  44. “ख. व्याकरोति।” ↩︎

  45. “क. वपेत्।” ↩︎

  46. “ख. ॰या वि॰।” ↩︎

  47. “ख. देशं समेत्य।” ↩︎

  48. “अत्र गुणश्चिन्त्यः।” ↩︎

  49. “ख. तु।” ↩︎

  50. “क. ख. ॰र्वाक्यं।” ↩︎

  51. “ख. कस्येति।” ↩︎

  52. “ख. ॰श्रयात्संस॰।” ↩︎

  53. “क. न केवलस्ये॰।” ↩︎

  54. “क. ॰तानी विज्ञा॰।” ↩︎

  55. “ख. ॰स्य पक्षद्व॰।” ↩︎

  56. “क. ॰न्तरमाह।” ↩︎

  57. “ख. ॰न्यदर्शनात्।” ↩︎

  58. “क. ॰र्यकार॰।” ↩︎

  59. “क. ॰र्यकर॰।” ↩︎

  60. “ख. ॰णस्त्वस्य।” ↩︎

  61. “ख. ॰न क॰।” ↩︎

  62. “क. ॰द्धे व्यञ्ज॰।” ↩︎

  63. “ख. ॰कान्वित॰।” ↩︎

  64. “क. ख. ॰ह। न त्विति॥३५॥” ↩︎

  65. " क. ॰द्यमनु॰।" ↩︎

  66. “ख. दक्षिणया।” ↩︎

  67. “क. ॰वणवदि॰।” ↩︎

  68. “ख. ॰मध्येया॰।” ↩︎

  69. “ख. ॰नेत्यवबो॰।” ↩︎

  70. " ख. ॰तदर्थं।" ↩︎

  71. “क. विधेः प्र॰।” ↩︎

  72. “ख. ॰विरोधित्वा॰।” ↩︎

  73. “क. ख. ॰मस्मिन्नार॰।” ↩︎

  74. “ख. ॰ति हि स्प°।” ↩︎

  75. “ग. ॰पूर्वदे॰।” ↩︎

  76. “ख. ॰रिह च।” ↩︎

  77. “ख. तदीक्ष्यताम्।” ↩︎

  78. “ख. ॰सतत्त्व॰।” ↩︎

  79. “क. ख. ॰क्षाभ्यां ब्र॰।” ↩︎

  80. “ख. ब्रह्मैवेह। क. ब्रह्म चेह।” ↩︎

  81. “ख. ॰रभे॰।” ↩︎

  82. “ख. ॰मित्य॰।” ↩︎

  83. “ग. ॰क्षादप॰।” ↩︎

  84. “क. ॰याभ्यां वै का॰।” ↩︎

  85. “क. ग. ॰कात्मधी॰।” ↩︎

  86. “ख. ॰न्तश्च त॰।” ↩︎

  87. “ख. ॰देत एते॰।” ↩︎

  88. “क. ॰संगत।” ↩︎

  89. “ख. ॰तुश्चाऽऽत्मा।” ↩︎

  90. “क. ख. नेत्याह।” ↩︎

  91. “क. ख. नोऽचितेः।” ↩︎

  92. “ख. ॰नः ॥ ष॰।” ↩︎

  93. “क. ॰त्॥१००॥ तद्व्यापिका त्वियं दृष्टिर्नित्या जन्मादिवर्जनात्॥ परमार्थदृशाऽतोऽन्या सदा व्याप्तैव जायते॥ ध॰।” ↩︎

  94. “ख. ॰द्यन्नेत्युक्तं क्षि॰।” ↩︎

  95. “क. ग. ॰च्चिति॥१३१॥” ↩︎

  96. “क. ग. ॰द्या बुद्धिमिवोषरे॥ त॰। ख. ॰द्याऽद्बुद्धिमिवोषरे॥ त॰।” ↩︎

  97. “क. कारकात्।” ↩︎

  98. “क. ख. ग. ॰न्तरव्य॰।” ↩︎

  99. “क. ख. ॰न्तरेति।” ↩︎

  100. “क. ग. मानं।” ↩︎

  101. “ख. तन्न तस्य।” ↩︎

  102. “क. ग. द्रष्टुं।” ↩︎

  103. “ख. ॰कल्पता॰।” ↩︎

  104. “क. ॰द्द्रष्टृदृष्टे॰।” ↩︎

  105. “क. च।” ↩︎

  106. “ख. ॰राकरोति। त॰।” ↩︎

  107. “क. जिज्ञासोरिति।” ↩︎

  108. “ख. पृष्टः। " ↩︎

  109. “क. ॰दोऽस्ति यतो।” ↩︎

  110. “ख. ॰स्य शब्दभे॰।” ↩︎

  111. “ख. स्तस्मात्तयोः।” ↩︎

  112. “ख. ॰गौणव्य॰।” ↩︎

  113. “ख. ग. ॰दि भित्तिर्भवे॰।” ↩︎

  114. “क. ग. ॰र्ऋषिः॥२९॥” ↩︎

  115. “ख. तदाह।” ↩︎

  116. “ख. ॰न्मुनिर्विद्वा।” ↩︎

  117. “ख. चापरः।” ↩︎

  118. “ख. ॰सिद्धमो॰।” ↩︎

  119. “ख. ॰दायाऽऽहे॰।” ↩︎

  120. “ख. ॰न्विशेषतः।” ↩︎

  121. “ख. ॰ह्यतिर्धियः।” ↩︎

  122. “क. ॰त्वाद्वाक्यमैक॰। ख. ॰त्वाद्वाक्यमैक्यम्॰।” ↩︎

  123. “क. ॰ति हि नि॰।” ↩︎

  124. “क. ॰ती हिश॰।” ↩︎

  125. “ख. ॰कदुष्टत्वा॰। ग. ॰कदृष्टत्वा॰।” ↩︎

  126. “ख. ग. ॰मृत्यु वि॰।” ↩︎

  127. “क. ग. ॰हृतेः ॥८०॥” ↩︎

  128. “ख. ॰त्याशङ्क्याऽऽह।” ↩︎

  129. “ग. ॰वदित्युक्तं न च। " ↩︎

  130. " ख. ॰त्तस्मिन्नस॰।” ↩︎

  131. “इदमर्धं क. ग. पुस्तकयोर्न विद्यते।” ↩︎

  132. “क. ॰त्थानम॰।” ↩︎

  133. “ख. ॰न्तरायो॰। " ↩︎

  134. “ख. ॰त्पर्यग॰। " ↩︎

  135. “ख. ग. ॰दितः प्र॰।” ↩︎

  136. “ख. ग. ॰रा ह्यत्र।” ↩︎

  137. “क. ॰रः स॰।” ↩︎

  138. “क. ॰स्य क॰।” ↩︎

  139. “क. ग. राज्ञो।” ↩︎

  140. " क. ग. ॰त्वादुक्तवि॰।” ↩︎

  141. “ग. ॰त्रजा त॰।” ↩︎

  142. “ग. ॰षणा प्र॰।” ↩︎

  143. “ख. ग. ॰हं हित्वाऽऽत्म॰।” ↩︎

  144. “ख. ग. संत्यज्याऽऽत्मा॰।” ↩︎

  145. “क. ग. ॰नेऽप्येवं। " ↩︎

  146. “ख. ॰कुण्डादि॰। ग. ॰कुण्ठादि॰” ↩︎

  147. “क. ॰सज्ञप्ति॰।” ↩︎

  148. “ख. वाक्यार्थो।” ↩︎

  149. “ख. ॰स्यार्थमाह। य॰।” ↩︎

  150. “ख. ॰ति। न भवति वा॰।” ↩︎

  151. “ख. ग. भाष्यते।” ↩︎

  152. “क. ॰क्याख॰।” ↩︎

  153. “ख. ॰नात्मा मा॰।” ↩︎

  154. “ख. ग. ॰र्थः स्वे म॰।” ↩︎

  155. “ख. संप्राप्तः।” ↩︎

  156. “ख. ॰यिनस्ततः।” ↩︎

  157. “ख. ॰संबन्धात्त॰।” ↩︎

  158. “ख. ग. न्याय्यल°।” ↩︎

  159. “ख. त्विति।” ↩︎

  160. “ग. ॰धनम्। क्षि॰।” ↩︎

  161. “ख. ॰हेतोर्जले प॰। " ↩︎

  162. “ख. ॰न्त्र्यात्स्वातन्त्र्येण।” ↩︎

  163. “क. ॰पर्वतलो॰।” ↩︎

  164. “क. ॰त्तरोत्त॰।” ↩︎

  165. “ख. ॰र्व्यापकेन व्याप्त॰।” ↩︎

  166. “ख. ॰नप्रकृ॰।” ↩︎

  167. “ख. ॰दाश्चापि प्र॰।” ↩︎

  168. “ख. ॰र्मात्ममा॰।” ↩︎

  169. “ख. सन्पुंसां वायुः।” ↩︎

  170. “ख. ॰रात्माऽऽत्मी॰।” ↩︎

  171. “ख. ॰त्यपि लो ̐।” ↩︎

  172. “ख स स पृथिवीदे°।” ↩︎

  173. “ग. °वाऽन्तर्निय°” ↩︎

  174. “ख. °र्यकर°” ↩︎

  175. " क. °प्रह्णीभा°” ↩︎

  176. " ख. °श्वाख्यं वि°” ↩︎

  177. “ख. °श्वसंभव°” ↩︎

  178. “क. ग. °र्शनोऽन्त°” ↩︎

  179. “ख °र्वान्तरेऽन्त°” ↩︎

  180. “ख. म. °न परिपृ°” ↩︎

  181. “ख. ग. °गार्ग्युक्त°” ↩︎

  182. “क. ग. °प्रोतार्थतां” ↩︎

  183. “ख. ग. तिष्ठति” ↩︎

  184. “ख. तेषां” ↩︎

  185. “ग. °रकात्म°” ↩︎

  186. “ख. °तोऽस्ति सं°” ↩︎

  187. “ख. ग. नंष्ट्वा” ↩︎

  188. “ख. °विषयस्य” ↩︎

  189. " ख. °शब्दितम्” ↩︎

  190. “क. ग. °षणाः पद°” ↩︎

  191. “ख. °ष्टुमपि सो°” ↩︎

  192. “क. °प्राणानामन्व°” ↩︎

  193. “ख °त्पर्यमाह। प°।” ↩︎

  194. " क. °यो ह्यनि°”

     ↩︎
  195. “क. ग. °त्रता°॥७९॥” ↩︎

  196. “क. ग. ‘त्रता’ ॥७९॥” ↩︎

  197. “क. ग. न तु।” ↩︎

  198. “ख. °लक्षणमा°” ↩︎

  199. “ग. °तच्चान°” ↩︎

  200. “ख. °रूपविव°” ↩︎

  201. “ख. ग. वक्ष्यते” ↩︎

  202. “ख. साधयति” ↩︎ ↩︎

  203. “क. °थैवाक्रि°”

     ↩︎
  204. “ग. वीक्षते” ↩︎

  205. " क. ख. °भावाच्च त°" ↩︎

  206. “ख. °चेत्यप्ययु°” ↩︎

  207. “ख. °पेक्ष्यते” ↩︎

  208. “क. न बाह्यादि°” ↩︎

  209. " ख. ग. °नोऽन्यतः॥१२२॥" ↩︎

  210. “स्व. °लक्षितम्।” ↩︎

  211. “ख. °णत्वस्यैवोप°” ↩︎

  212. “क. °स्य चाक्ष°” ↩︎

  213. “ग. वाऽक्ष°” ↩︎

  214. “क. ग. °रस्येति प्र°” ↩︎

  215. “क. °स्थितम°” ↩︎

  216. “ख. ग. °रेवं व्य°” ↩︎

  217. “ख. ग. °योर्वीक्ष्य°” ↩︎

  218. “ख. °त्यागे नु°” ↩︎

  219. “ख. तथेह।” ↩︎

  220. “क. ग. °नापि यु°” ↩︎

  221. “ख. ग. °तिः।” ↩︎

  222. " आप्ता°" ↩︎

  223. “क. ग. °वस्थं प्रा°” ↩︎

  224. “क. °स्तथाऽग्न्या°” ↩︎

  225. “ख. व्याकरोति” ↩︎

  226. “क. °प यतः” ↩︎

  227. " क. वायुं प्राप्य च°" ↩︎

  228. " ख. °के तस्याग्निरर्कोऽन्नमशीत य इति प्रा°।" ↩︎

  229. “ख. °त्सर्वदे°।” ↩︎

  230. “क.वेदेत्यु°” ↩︎

  231. “क. ख. ग. °तिस्तस्य।” ↩︎

  232. “क. °विधः॥३८॥ या°।” ↩︎

  233. “ख. ग. ‘यातं’” ↩︎

  234. “ख. °वः सावित्रम°” ↩︎

  235. “ख. ग. °त्रैष त्रि°” ↩︎

  236. “क. ख. °स्तत्राऽऽका°” ↩︎

  237. “ख. °येष्विति सा°” ↩︎

  238. “ख. तत्राऽऽह” ↩︎ ↩︎

  239. “क. तु” ↩︎

  240. “ख. अत्यर्थं”

     ↩︎
  241. “क. रूपग्रा” ↩︎

  242. “ख. °नं संबो°।” ↩︎

  243. “ख. °षस्य रे°।” ↩︎

  244. “ग. °यते॥१३८॥” ↩︎

  245. “ख. ‘पुनर्जनि’ " ↩︎

  246. “ख.‘थ्यैवभा’” ↩︎

  247. “ग. °निष्ठित°।” ↩︎

  248. “क. °यम°।” ↩︎

  249. “ख. तत्राऽऽह।”

     ↩︎
  250. " ख. °त्यक्षवि°” ↩︎

  251. “क.°पेक्षस्य न च।” ↩︎

  252. " क. °र्यकारणं" ↩︎

  253. “ख. °ज्ञत्वम°” ↩︎

  254. “ख. ̐पद्यते।” ↩︎

  255. “ख. ̐भूतपि ̐।” ↩︎

  256. “क. घ. ̐रूपसं ̐।” ↩︎

  257. “घ. ̐त्मकज्ञा ̐।” ↩︎

  258. “ख. ̐देशत ̐। घ. ̐देशे त ̐।” ↩︎

  259. “ग. ̐लभ्यते।” ↩︎

  260. “घ. ̐ब्दार्थौ तयो ̐।” ↩︎

  261. “व. ̐च्छामिप ̐।” ↩︎

  262. “ख. ॰पास्त्याऽत्र।” ↩︎

  263. “घ. ॰र्यकार॰।” ↩︎

  264. “क. घ. ॰ग्वै ब्रह्म चक्षुर्वै ब्र॰।” ↩︎

  265. “क. ॰दिश्रुता॰।” ↩︎

  266. “घ. ॰त्याद्यक्ष॰।” ↩︎

  267. “ग. ॰नुभूय॰।” ↩︎

  268. “ख. व्याचष्टे।” ↩︎

  269. “क. ॰पि त॰।” ↩︎

  270. “ग. ॰मानानुपा॰।” ↩︎

  271. “क. ख. ॰रिञ्च्यादि॰।” ↩︎

  272. “क. परिशेषेण।” ↩︎

  273. “प. तद्वाच्यमि॰।” ↩︎

  274. “ख. तत्प्र॰।” ↩︎

  275. “क. ग. ॰थं चेत्य॰।” ↩︎

  276. “क. मतिं।” ↩︎

  277. “घ. ॰षये ग॰।” ↩︎

  278. “क. ख. ग. ॰णेऽक्षिणि।” ↩︎

  279. “क. ख. ॰णेऽक्षिणि।” ↩︎

  280. “ग. परोक्षेणैव।” ↩︎

  281. “घ. ॰योरेतदित्या॰।” ↩︎

  282. “ग. भण्यते।” ↩︎ ↩︎

  283. “घ. ॰ख्यातम॰।” ↩︎

  284. “ख. पठति।” ↩︎

  285. “क. घ. ॰रते॰।” ↩︎

  286. “घ. ॰थाऽस्या॰।” ↩︎

  287. “घ. ॰त्राख्या दे॰।” ↩︎

  288. “घ. ॰ङ्गेनाऽऽस्व॰।” ↩︎

  289. “क. ग. ˚न धिष्ठि॰।” ↩︎

  290. “घ. ॰धिभूताधिदैवतात्म॰।” ↩︎

  291. “ख. ॰णस्य ना॰।” ↩︎

  292. “क. ख. ॰र्थमाह।” ↩︎

  293. “क. ख. ॰हे। हैर॰।” ↩︎

  294. “ख. ॰राहृतः।” ↩︎

  295. “ख. ॰श्वस्यैव वै॰।” ↩︎

  296. “घ. ॰वेकं बुद्ध्वा म॰।” ↩︎

  297. “घ. ॰त्मा ग॰।” ↩︎

  298. “क. ॰त्तमात्मा॰।” ↩︎

  299. “ग. लभ्यते।” ↩︎

  300. “ख. ॰पेक्ष्यते।” ↩︎

  301. “घ. ॰थाऽत्र त॰। " ↩︎

  302. “क. ख. ॰यमात्मानं भ॰।” ↩︎

  303. “ख. ॰यत्तन्नास्ति।” ↩︎

  304. “घ. मुक्तेर्ज्ञानस्या॰।” ↩︎

  305. “ख. ॰न्यत्तल्ल॰।” ↩︎

  306. “क. ग. ॰लिङ्गिन॰।” ↩︎

  307. “ग. भण्यताम्।” ↩︎

  308. “घ. योऽविकृ॰।” ↩︎

  309. “ख. घ. ॰श्यन्तीत्या॰। " ↩︎

  310. “क. ॰देतेन॰।” ↩︎

  311. “घ. ॰ति स ऋ॰।” ↩︎

  312. “ख. उच्यते।” ↩︎

  313. “क. पूर्वः। " ↩︎

  314. “ख. ॰मभि॰।” ↩︎

  315. “ग. ॰क्षे तु त॰।” ↩︎

  316. “क. तथा।” ↩︎

  317. “ख. ॰ले लिङ्गसं॰।” ↩︎

  318. “क. घ. ॰तिरेकज्यो॰।” ↩︎

  319. “क. घ. शक्तेस्ते॰।” ↩︎

  320. “क. ख. ग. ‘षो वर्त” ↩︎

  321. “ख.‘बिम्बतः’” ↩︎

  322. “ग. ‘षो मोह’ " ↩︎

  323. “क. ख. ‘दृष्टान्तत्वा’” ↩︎

  324. “ख. ‘घातव्यव’” ↩︎

  325. " घ. ‘कप्रत्यग्ज्योतिः’” ↩︎

  326. “ख. ॰नादि कु॰।” ↩︎

  327. “घ. ॰कान्तराप्र॰।” ↩︎

  328. “ग. सदैव प्रतिप॰।” ↩︎

  329. “ख. तद्दृष्टे॰।” ↩︎

  330. “ग.॰पायज्यो॰।” ↩︎

  331. “ख. ॰र्यकर॰।” ↩︎

  332. “क. घ. विमतं।” ↩︎

  333. “क. ॰क्षणः॥ वि॰।” ↩︎

  334. “ख. घ. स्फुट्यते। " ↩︎

  335. “क. ग. ॰देव मि॰।” ↩︎

  336. “ख. ॰ष्वपि दे॰।” ↩︎

  337. “ख. ॰माह। स॰।” ↩︎

  338. “क. ख. ॰त्वव्या॰।” ↩︎

  339. “घ. चक्षु॰।” ↩︎

  340. “घ. ॰नुत्पत्ते॰।” ↩︎

  341. “ख. ॰लब्धो यो।” ↩︎

  342. “ख. घ. ॰द्भूतस्वा॰।” ↩︎

  343. “ख.॰रिवेहाऽऽप्ति॰।” ↩︎

  344. “क. ख. ॰त्वं बु॰।” ↩︎

  345. “ग. ॰पायरू॰।” ↩︎

  346. “घ. ॰त्मसा॰।” ↩︎

  347. “घ. °स्य गौणबु°।” ↩︎

  348. “घ. घ. °शव॰।” ↩︎

  349. “क. ॰त्प्रयुक्तत्वात्त॰। ख ॰त्प्रत्यक्तत्वात्त॰।” ↩︎

  350. “ख. ॰त्वेनान॰। " ↩︎

  351. “क. ॰प्रदीपव॰। ग. ॰प्रवृत्तिव॰।” ↩︎

  352. “घ. °र्यकार°।” ↩︎

  353. “घ. ॰णसंघा॰।” ↩︎

  354. “क. ग. ॰न्यत्प्रत्य॰।” ↩︎

  355. “ख. ॰पर्यासास्पृ॰।” ↩︎

  356. “घ. ॰पि तत्किं न” ↩︎

  357. “ख युक्तं।” ↩︎

  358. “ख. घ. ॰पं धर्म॰।” ↩︎

  359. “घ. ॰याल॰। " ↩︎

  360. “घ ॰वदा॰।” ↩︎

  361. “ख. ॰ता चावि॰।” ↩︎

  362. " ख. ॰न्यधर्मदे॰।” ↩︎

  363. “क. ॰यकप्र॰।” ↩︎

  364. “ख. ॰तिकत्वं च त॰। " ↩︎

  365. “क. ख. ॰त्मेति शङ्कते। य॰।” ↩︎ ↩︎

  366. “ख.॰कत्वमि॰।” ↩︎

  367. “ख.॰र्हि प्राणा॰।” ↩︎

  368. “क. ॰त्वात्स्याच्चक्षु॰।” ↩︎

  369. “क. ॰गात्मस्व॰।” ↩︎

  370. “॰स्ततः प॰।” ↩︎

  371. “ग. ॰पि तद्दोषप्र॰।” ↩︎

  372. “ग.ततः।” ↩︎

  373. “ग. ॰ता नर॰।” ↩︎

  374. “ख.॰यन्भवे॰।” ↩︎

  375. “क. ग. ॰पोऽस्य नानुभूतघटा॰।” ↩︎

  376. “ख. ॰राक्॥” ↩︎

  377. " क॰। " ↩︎

  378. “क. ग. प्रतीचो।” ↩︎

  379. “घ. ॰त्स्वसंवे॰।” ↩︎

  380. “क. ॰मातृत्वफ॰।” ↩︎

  381. “क. ख. ॰स्मिन्स्वे म॰। " ↩︎

  382. “॰ष्यत्वसं॰।” ↩︎

  383. “ग. ॰दिकं हे॰।” ↩︎

  384. " ख. ॰योरेव स॰।” ↩︎

  385. “ग. °होऽप्युपे°।” ↩︎

  386. “क. ख. ॰त्तथा र॰।” ↩︎

  387. “ग. ॰र्नेक्ष्यते।” ↩︎

  388. “ख. ॰पि न चै॰।” ↩︎

  389. “क मार्गे।” ↩︎

  390. “ख. तस्यान॰।” ↩︎

  391. “घ. संबोधो।” ↩︎

  392. “ग. अथ भा॰। " ↩︎

  393. “ग. ॰पि न ग्राह्य॰। " ↩︎

  394. “ग. ॰वे तु त॰” ↩︎

  395. “ख. घ. स्ववृ॰।” ↩︎

  396. “ख. ॰दपि दु॰।” ↩︎

  397. “ग. क्रियते। " ↩︎

  398. “घ. क्रियत।” ↩︎

  399. “ख. ॰दित्यादिना। " ↩︎

  400. “क. ख. ॰रिक्तं द्र॰।” ↩︎

  401. “क. द्रष्टृभा॰।” ↩︎

  402. “ग. ॰णतः॥ " ↩︎

  403. “प्र॰।” ↩︎

  404. “ख. घ. ॰पा ये क्षे॰।” ↩︎

  405. “ख. घ. हि।” ↩︎

  406. “क. ज्योतिःशब्देना॰।” ↩︎

  407. “क. ख. घ. पिण्डेति।” ↩︎

  408. “ग. ॰नोधीभ्यो व्य॰।” ↩︎

  409. “क. घ. ॰न्यस्थि॰।” ↩︎

  410. “ख. संनिधेः। न. संनिधौ।” ↩︎

  411. “क. ततः।” ↩︎

  412. “ख. ॰वर्त्यते।” ↩︎

  413. “ख.॰र्वार्थं कार॰।” ↩︎

  414. “क. ग.॰वृत्तसा॰। " ↩︎

  415. “ग. ॰त्मना॥३१६॥ " ↩︎

  416. “क. ॰हणात्तस्मा॰।” ↩︎

  417. “ख. ॰रार्थंम॰।” ↩︎

  418. “घ. मनःस॰।” ↩︎

  419. “क. ख. अजातोऽ॰।” ↩︎

  420. “क. ग. ॰वर्तन्ते।” ↩︎

  421. " ख.॰त्याह।” ↩︎

  422. “घ. ॰क्तेर्भेद॰।” ↩︎

  423. “घ.॰णात्प्राकृ॰।” ↩︎

  424. “ख. ॰रणम्।” ↩︎

  425. “घ. ॰त्तिस्तदा॰।” ↩︎

  426. “घ. ॰त्वात्तत्कृ॰।” ↩︎

  427. “घ.॰स्मात्प्रती॰।” ↩︎

  428. “ग. ॰र्वमुपजा॰।” ↩︎

  429. “क. ख. ॰वधेः। " ↩︎

  430. “आ॰।” ↩︎

  431. “ख. ॰न्वादयोऽपि।” ↩︎

  432. “घ. तत्रैव।” ↩︎

  433. “अत्र समासान्तश्चिन्त्यः।” ↩︎

  434. “ख. ॰तं स्यात्स्व॰।” ↩︎

  435. “क. ग. ॰द्याविधिः।” ↩︎

  436. “ख. ॰स्याज्ञा॰।” ↩︎

  437. “ख. चितेः।” ↩︎

  438. “ख. घ. साक्षाद्दुः॰।” ↩︎

  439. “ख.॰घातचि॰।” ↩︎

  440. “ख. हि सन्सर्वका॰।” ↩︎

  441. “ख. ‘दिविशे॰।” ↩︎

  442. “ख.घ. संचरणं।” ↩︎

  443. “ख. ॰दिस्वभावस्यो॰।” ↩︎

  444. “घ. ॰र्वस्य प्र॰।” ↩︎

  445. “क.॰दित्यर्थः॰॥४१३॥” ↩︎

  446. “ग. ॰थाऽजानञ्शश॰।” ↩︎

  447. “घ. अजानन्निति।” ↩︎

  448. “ख. न्धाद्यथा।” ↩︎

  449. “घ. ॰त्वमिति न तद्व्यति॰।” ↩︎

  450. “ख. ॰रगेषु।” ↩︎

  451. “ख. घ.॰त्मनि तद्ग॰।” ↩︎

  452. “ख. ॰धर्मवत्॥ धि॰।” ↩︎

  453. “क. ग.॰युक्त्यति॰।” ↩︎

  454. “क. किंचाऽऽत्म॰। " ↩︎

  455. “ख, ॰ल्पनम्। " ↩︎

  456. “नौः।” ↩︎

  457. “ग. ॰र्यन्तसा॰।” ↩︎

  458. “ख. ज्ञातं।” ↩︎

  459. “ख.॰त्साक्षात्स्व॰।” ↩︎

  460. “ख.॰त्साक्षादि॰।” ↩︎

  461. “ख.ग.॰ता। " ↩︎

  462. “याऽऽत्म॰।” ↩︎

  463. “ख. ग. ॰स्यैषभो॰।” ↩︎

  464. “क. ख. ॰वान्॥४५२ ॥” ↩︎

  465. “क. ॰कृतवा॰।” ↩︎

  466. “घ. ॰पक्षे वि॰।” ↩︎

  467. “क. ग. ॰दृश्यं भ्र॰।” ↩︎

  468. “ख.॰रोधमाह।” ↩︎

  469. “घ.॰भावेन फ॰।” ↩︎

  470. “ग. नश्चापि।” ↩︎

  471. “क. ख.॰त्रमवति॰।” ↩︎

  472. “क. घ. ॰त्र ज्ञा॰।” ↩︎

  473. “घ. ॰कतेति ने॰।” ↩︎

  474. “घ.॰णलक्ष॰।” ↩︎

  475. “घ.॰दिति सा॰।” ↩︎

  476. “क. घ.॰स्यैव च।” ↩︎

  477. “घ. ॰न मानभा॰।” ↩︎

  478. “ख. ॰क्षं सविकल्पकं क॰।” ↩︎

  479. “क. ख. ॰ल्पके भा॰।” ↩︎

  480. “क. ॰शस्व॰।” ↩︎

  481. “ख. स्वयं।” ↩︎

  482. “घ. विकल्पे।” ↩︎

  483. “ख. स्थिरत्वे।” ↩︎

  484. “क. ख.॰र्थबाधको।” ↩︎

  485. “क. घ. ॰स्तस्मिन्मि॰।” ↩︎

  486. “ख.॰स्यैवेह मि॰।” ↩︎

  487. “क. ख.॰त्वभागिज्ञा॰।” ↩︎

  488. “घ. ॰ने मि॰।” ↩︎

  489. “ख. ग.॰भास्यते।” ↩︎

  490. “ख. ग. ॰भास्यते।” ↩︎

  491. “ख. ग. विभागे।” ↩︎

  492. “क. ॰कत्वसि॰।” ↩︎

  493. “घ. ॰णं व॰।” ↩︎

  494. “ग.॰भिन्नदी॰।” ↩︎

  495. “क. ख. ॰वादनि॰।” ↩︎

  496. “क. ख. तुल्यनि॰।” ↩︎

  497. “घ. ॰मेव चेदं।” ↩︎

  498. “घ. च।” ↩︎

  499. “घ. ॰दप्यतिरिक्तश्च क॰।” ↩︎

  500. “क. ग. शङ्क्यते।” ↩︎

  501. “घ. न स प॰।” ↩︎

  502. “घ. ॰न्तरसिद्धिर्ज्ञान॰।” ↩︎

  503. “क. ख. स्वयंवे॰।” ↩︎

  504. “क. ख. ॰त्मसं॰। " ↩︎

  505. " ख. घ. ॰यत्वं स॰।” ↩︎

  506. “॰मेये न। " ↩︎

  507. “घ. ॰शित्वादिक॰।” ↩︎

  508. “ख.॰त्स्वप्नदृ॰।” ↩︎

  509. “घ. निरस्यति।” ↩︎

  510. “ग. ॰भूते स नास्ती॰।” ↩︎

  511. “ख.घ. ॰चमि॰।” ↩︎

  512. “ख.॰देर्भेदो ज्ञान॰।” ↩︎

  513. “ख. घ. ॰णिकत्वादे॰।” ↩︎

  514. “ख. नाशव॰। " ↩︎

  515. “घ.॰नाशप॰।” ↩︎

  516. “ख. ॰ज्ञातार्थः।” ↩︎

  517. “ग. ॰श्यादन्य॰।” ↩︎

  518. “म. ॰ख्यस्य सं॰।” ↩︎

  519. “घ.॰त्यक्षतः सर्वक्ष॰।” ↩︎

  520. “क. तथाऽपि। " ↩︎

  521. “क. ॰ह। तथा॰।” ↩︎ ↩︎

  522. “घ. सदा।” ↩︎

  523. “ख. घ. ॰मानं हि।” ↩︎

  524. “घ. सत्तायां।” ↩︎

  525. " घ. तथेदमपी॰।” ↩︎

  526. “घ. ॰क्तार्थहृे॰। " ↩︎

  527. “क. ॰न्पूर्वे क्ष॰।” ↩︎

  528. “ख. ०स्स्याऽऽदि०” ↩︎

  529. “घ.०न्धः कर०” ↩︎

  530. " घ. ०स्तवद्ध्वंसे०” ↩︎

  531. " क. ग. ०न्मिथोऽसं०” ↩︎

  532. “क. ख.०संहति०” ↩︎

  533. “क. ०वान्न त०।” ↩︎

  534. “ग. लक्ष्यस्य” ↩︎

  535. “ख. ०नादिः स्या०। " ↩︎

  536. “क. ग. ०याऽनुमा०।” ↩︎

  537. " ख.०स्तत्राऽऽह।” ↩︎

  538. “क. ख. घ. द्वित्रिक्ष०” ↩︎

  539. " ख. ०क्तरीत्या” ↩︎

  540. “क. ग. ०न्न चाधि०” ↩︎

  541. “ख. जनिः।” ↩︎

  542. “ग. ०न्नाद्भिन्न०। " ↩︎

  543. “ख. ०ताहा०।” ↩︎

  544. “क. ग. ०यते॥ प०।” ↩︎

  545. “घ, तदाह।” ↩︎

  546. “क.०ते॥ संतानसं०” ↩︎

  547. " क. ०क्तलक्ष०” ↩︎

  548. “क. ग. ०देस्तेन” ↩︎

  549. “घ. ०ति। तेना०” ↩︎

  550. “क. संवृत्ते” ↩︎

  551. “क. संवृत्तेः” ↩︎

  552. " घ. वा करणकारकभे०। " ↩︎

  553. “क. ग. न वा” ↩︎

  554. " ग. न वाऽऽर०” ↩︎

  555. “ख. ०निर्गतोऽर्थ०” ↩︎

  556. “क. स स्रोतो०। ख सन्स्रोतो०।” ↩︎

  557. " घ. ०त एव का०” ↩︎

  558. “क.०त्वाद्व्रह्म०।” ↩︎

  559. “घ. ०र्यकर०” ↩︎

  560. “घ. ०त्वभे०” ↩︎

  561. “ख. ०स्य चाभा०” ↩︎

  562. “घ. स्थितस्यैव।” ↩︎

  563. “ख. °मेतस्मादा°” ↩︎

  564. " ग. °कस्मादा°।” ↩︎

  565. " क. ख. °त्। श्रीमी°” ↩︎

  566. “क. एकस्मा°” ↩︎

  567. “ख. °त्तरं चि°” ↩︎

  568. " ख. कल्प्यते।” ↩︎

  569. “घ. तज्ज्ञानो°” ↩︎

  570. " ख. °पस्थित°” ↩︎

  571. “घ. ज्ञानं स्वप्रभवत्वा०” ↩︎

  572. " क. ख. ०मन्यावि०” ↩︎

  573. " ख. ०रोक्षानु०” ↩︎

  574. “ख. ०क्षितस्यैक्यं।” ↩︎

  575. “क. वेद्द” ↩︎

  576. “क वो” ↩︎

  577. " क. ०संस्थेव” ↩︎

  578. “ख. ग ०कृत्स्नैव।” ↩︎

  579. “घ. चोक्तं” ↩︎

  580. “घ. °ब्दनिरूपित°” ↩︎

  581. “ख. कल्पय°” ↩︎

  582. “ख यत्रादृष्ट°। क. यन्नादृ°” ↩︎

  583. “ग. इष्टा” ↩︎

  584. “क. ग. ०सर्गभा०” ↩︎

  585. " क. ०शस्य स्व०। ख. ०शश्चस्व०” ↩︎

  586. “घ. ०स्तुतोऽद्व०” ↩︎

  587. “क. ०त्स्वभावतः” ↩︎

  588. “ख. ग. तद्धानौ” ↩︎

  589. “ख. तद्धानात्रिं०” ↩︎

  590. “ख. घ. ०पेक्षाभा०” ↩︎

  591. “ख. ०दृक्च व०” ↩︎

  592. “क. ग. ०मानदो०” ↩︎

  593. “घ. ०षोऽनुपग०” ↩︎

  594. “ख. नु " ↩︎

  595. “ग. ‘यो विषयशङ्का या व्य’” ↩︎

  596. “क. ग. ‘रस्थसा” ↩︎

  597. “अवसितुमिति च्छान्दसमवसातुमित्येतत्।” ↩︎

  598. “घ. ‘दिदेश’” ↩︎

  599. “क. ख. ‘मकभा’” ↩︎

  600. “ख. ग. क. ‘तीक्ष्यते” ↩︎

  601. “क. ख. तबाº” ↩︎

  602. “ख. घ. ‘णमा’” ↩︎

  603. “ख. ‘वोऽप्यवि’” ↩︎

  604. “घ ‘दन्याति’” ↩︎

  605. “क. ‘दित्युक्तं” ↩︎

  606. “ख. ग. सज्यते” ↩︎

  607. " क. ख. ग. ‘वक्षितः” ↩︎

  608. “क. यतः” ↩︎

  609. “ख. घ. ‘त्वेन तद्विशेषण’” ↩︎

  610. " घ. ‘दये रो’।” ↩︎

  611. “घ. नुवदति” ↩︎

  612. “ख. ग. विवक्ष्यते” ↩︎

  613. “घ. चोच्यते” ↩︎

  614. “ख. ‘श्चैवं स’” ↩︎

  615. “घ. ‘कत्वव्य’” ↩︎

  616. “क. घ. कथमत्र।” ↩︎

  617. “क. ‘श्रयात् ॥७७६॥” ↩︎

  618. " ख. ‘मानवै’।” ↩︎

  619. “क. ‘वैद्यतः।” ↩︎

  620. “ख. ‘स्यार्थे सं” ↩︎

  621. " घ. ‘त्तिरि’” ↩︎

  622. “क. ख. तस्य लि°।” ↩︎

  623. “क. ख. नादिभा°” ↩︎

  624. “क. ख. घ. °योर्यथे°” ↩︎

  625. " घ.‘त्वेन नि’” ↩︎

  626. “घ.‘तकार’” ↩︎

  627. “घ. किंचोप’ " ↩︎

  628. “ख. ‘द्भिरपि व’” ↩︎

  629. “ख. ‘णोऽस्मज्झा’” ↩︎

  630. “क. ‘तिपाद्य’ " ↩︎

  631. “ख ‘वर्तते” ↩︎

  632. “ख. ‘क्तरीत्या” ↩︎

  633. " क. घ. ‘व सौम्ये’” ↩︎

  634. “ग. ‘ति विस्प’” ↩︎

  635. " ख. मुदाहरति” ↩︎

  636. “ग. मृत्युस्व” ↩︎

  637. " ख. ‘दिप्राकृ’” ↩︎

  638. " ग. मृतिज।” ↩︎

  639. “ख. ‘ति। यथो।” ↩︎

  640. “ख. ग. ‘वीक्ष्यते।” ↩︎

  641. “ख. नु।” ↩︎

  642. “घ.‘मर्थान्तरमा’” ↩︎

  643. " घ. ‘धहे’।" ↩︎

  644. “क. ग. ‘दिकार’” ↩︎

  645. “ख. प्रकृतायाः” ↩︎

  646. “ख. ग. ‘त्स्वार्थज्यो’” ↩︎

  647. “क. ग. ‘धीनृत्त्सा’” ↩︎

  648. “ख. ‘रिणा। प्र’” ↩︎

  649. “ख. ‘दिकं ज्यो’” ↩︎

  650. “ख. ˚र्यताम्॥८८३॥” ↩︎

  651. “ख. ग. ‘बन्धं जा’” ↩︎

  652. “क. ख. ‘त्यक्सर्व’” ↩︎

  653. “क.‘दि तत्रा’” ↩︎

  654. “ख. ‘पपद्यते” ↩︎

  655. “क. ख. ‘व स्वप्र’” ↩︎

  656. “क. ‘र्यकर’” ↩︎

  657. “घ. ‘रूपत्वा’” ↩︎

  658. " क. ‘कल्प्यते" ↩︎

  659. " ख. स्वयंज्यों’" ↩︎

  660. “ग. ‘स्वप्नरि’” ↩︎

  661. “क. ग. ‘दानन्दाद्वयात्म’” ↩︎

  662. “ख. कल्पते” ↩︎

  663. “ख. ‘तुतः॥स्व’” ↩︎

  664. “क. ख. घ. ‘व्यक्तावा’” ↩︎

  665. “क. ‘त्मनः क’” ↩︎

  666. “ख. ‘तिर्ज्ज्योतिष्म’” ↩︎

  667. “ख. ग. ‘यं स्वतः। अ’” ↩︎

  668. “क. ग. यामः” ↩︎

  669. " क. ‘धस्तं न" ↩︎

  670. “ख. पूर्वंगº” ↩︎

  671. “ख. घ. ºशान्तº” ↩︎

  672. “ग. ºश्चैव प्रº " ↩︎

  673. “क. दर्शनादौ” ↩︎

  674. “ख. °न्तरवा°” ↩︎

  675. “क °न्नात्ममा°” ↩︎

  676. “क. ख. °लमात्म°” ↩︎

  677. “ग. °त्रं प्राप्यते°” ↩︎

  678. “ख. °र्थमाह। प्र°।” ↩︎

  679. “घ °नुवदति” ↩︎

  680. “घ. °नकार°” ↩︎

  681. “ख. °त्ताद्रूपा°” ↩︎

  682. “क. ख. ग. °मीक्ष्यते” ↩︎

  683. “ख. ग. °मीक्षते” ↩︎

  684. " ख. °मीक्ष्यते” ↩︎

  685. “ख. °तीक्ष्यते” ↩︎

  686. “ख. °तो नास्त्यसौ काम” ↩︎

  687. “क. ग. °याशेष°।” ↩︎

  688. “ख. °ककृतत्वा°।” ↩︎

  689. “क. ख. प्रलयकाले।” ↩︎

  690. “ग. °तीष्यते” ↩︎

  691. “क. ख. °त्र न द्वितीयदृ°” ↩︎

  692. " ख. रत्वादि" ↩︎

  693. “ख. °त्यसंगीतेर्ने°” ↩︎

  694. “क. ख. °गात्प°” ↩︎

  695. “क. °मीक्षते ।” ↩︎

  696. “क. ख. °मीक्ष्यते” ↩︎

  697. “ख. यानादि°” ↩︎

  698. “ख. ˚र्यकार˚” ↩︎

  699. “ख. ˚त्वादि स˚” ↩︎

  700. “ख. तु " ↩︎

  701. “क. घ. ˚र्यकार˚” ↩︎

  702. “घ. ˚नुवदति” ↩︎

  703. “ख. °त्र स योग्यो वि°” ↩︎

  704. “ख. °स्तदा। क°।” ↩︎

  705. " क. ख. °नि न का° " ↩︎

  706. " ख. ग. °तियायिनः” ↩︎

  707. " घ. °रात्रि°" ↩︎

  708. “घ. स्वत°।” ↩︎

  709. “ख. ग. संचारान्म°” ↩︎

  710. “क. ननु” ↩︎

  711. “घ.°ध्यास्ते सा” ↩︎

  712. “क. ग. °षयं दृष्टं” ↩︎

  713. “ख. °वाऽऽश्रित्य” ↩︎

  714. “घ. यदाहुः” ↩︎

  715. “घ. °प्ते हि श्ये°” ↩︎

  716. “क. ग. °यैः समीक्ष्य°” ↩︎

  717. “घ. °द्यादिवि°” ↩︎

  718. " ग. °कल्पते" ↩︎

  719. " ख. ग. °क्तैवं ना°" ↩︎

  720. “क.घ. °हिष्ठः का°। ख. °दिष्ठा का°” ↩︎

  721. " क. ख. घ. °रे य°" ↩︎

  722. “ग. क्रम°” ↩︎

  723. “ख. ग. °न्मतः॥य°” ↩︎

  724. “क. यदुक्तं।” ↩︎

  725. " क. घ. °र्ज्ञानायौ°।" ↩︎

  726. “ख. ज्ञानयौ°” ↩︎

  727. “क. °ति । प्र°” ↩︎

  728. " घ. °पद्याहे° " ↩︎

  729. “ख. घ. °भवे प्र°” ↩︎

  730. “घ. °दिसिद्धिरि°” ↩︎

  731. “घ. साधनाभि°” ↩︎

  732. “ख. प्रतिपाद्यते” ↩︎

  733. " घ. °वादापो°" ↩︎

  734. “ख. °स्तुतोऽस°” ↩︎

  735. “ख. °क्व्यादृष्टान्तस्य प्र°” ↩︎

  736. " घ. °र्णशब्दयो°" ↩︎

  737. “क. ख. घ. °स्या इति” ↩︎

  738. “ख. °म्बस्थोप°” ↩︎

  739. “क. ख. घ. सा तन्निर°” ↩︎

  740. “क. ‘तस्वरू’” ↩︎

  741. " ख. भण्यते" ↩︎

  742. “ख. ‘तेर्भर्तृ’” ↩︎

  743. “क. घ. ‘त्वासि’ " ↩︎

  744. “ख. विद्यमाना’” ↩︎

  745. “‘क. ग. ‘यं वासना” ↩︎

  746. “क. ग. स्वप्ने। ख. स्वप्नक्षु°” ↩︎

  747. " ख. कामः " ↩︎

  748. “बाह्योऽस्येति स्यात् " ↩︎

  749. " ख. चास्य” ↩︎

  750. " क. ग. ग्रहो यस्मान्नान्य’ " ↩︎

  751. “ख.स्यान्नान्य’ " ↩︎

  752. “अविद्ययेति च्छेदोऽपेक्षितो न वेति विचारणीयं विद्वद्भिः” ↩︎

  753. “स्व पुस्तकेऽविद्ययेति च्छेदः” ↩︎

  754. " घ. ‘र्थस्य हे’” ↩︎

  755. " घ. ‘न्थे क’” ↩︎

  756. “क. ग. नाडीय°” ↩︎

  757. “ख. °द्धज्ञानस्य वि°” ↩︎

  758. " घ. °त्र द्वा°" ↩︎

  759. “घ. °रन्यथेत्या°” ↩︎

  760. “घ. °णवत्त्वाद्भि°” ↩︎

  761. “क. ख. भजते” ↩︎

  762. “घ. °ष्ठते त°” ↩︎

  763. “घ. °धिक°” ↩︎

  764. “ख. °सिद्धः स्याल्लोके " ↩︎

  765. “ख. °त्रादेर्नि°” ↩︎

  766. “क. ग. वर्णा” ↩︎

  767. “क. ख. घ. °मनील° " ↩︎

  768. “ख. घ. भवन्ति” ↩︎

  769. “घ. °द्याभू°” ↩︎

  770. “क. ख. °ति शे°” ↩︎

  771. “क. °द्येत्यवग°” ↩︎

  772. “घ. °दोऽभ्युप°” ↩︎ ↩︎

  773. “क. तदित्यर्थः” ↩︎

  774. “क. ग. °क्षणः । ना°। ख. °क्षणम् । ना°” ↩︎

  775. “क. ख. ग. °द्यात्मा ह्या°” ↩︎

  776. “घ. °द्भोगाददृ°” ↩︎

  777. “क. °ह्यैकं नाडीना°” ↩︎

  778. “घ. °व्दार्थज्ञा°” ↩︎

  779. “घ. °भासद°” ↩︎

  780. “क. °र्मभोगहे°” ↩︎

  781. “क. घ. वा” ↩︎

  782. “क. ख. °त्वाद्येत°” ↩︎

  783. " घ. ‘र्वविक्रि’” ↩︎

  784. “ख. ग. ‘तेऽन्यतः” ↩︎

  785. “घ. ‘नोत्थं स्वा’” ↩︎

  786. “क. ग. ‘णचिदा’” ↩︎

  787. “क. ग. ‘नाशय’” ↩︎

  788. “क. ‘त्यग्जङ’” ↩︎

  789. “क. ‘दिरु’” ↩︎

  790. “ख तदेत’” ↩︎

  791. “ख. ग.‘व यः स्वप्ने " ↩︎

  792. " न. ‘क्षादेवाऽऽत्म’” ↩︎

  793. “ख. घ. ‘पस्कर’” ↩︎

  794. “ख. ‘द्विशिष्य” ↩︎

  795. “ख. °वाऽनु°” ↩︎

  796. “ख. ग. °णागमनात्पु°” ↩︎

  797. “क. ख. °दृङ्नसि°” ↩︎

  798. “क. किं " ↩︎

  799. “क. ख. प्राग्भूते°” ↩︎

  800. “घ. °न्त्रस्वभ्°” ↩︎

  801. “क. ख. °रकता " ↩︎

  802. “घ. °रप्रनृ°” ↩︎

  803. “घ. °त्माक्षेपकत्व°” ↩︎

  804. " ख. °क्षकत्व°” ↩︎

  805. " घ. °स्तुत्वेऽवस्तुनो°” ↩︎

  806. " क. ख. °नात्मका°” ↩︎

  807. “क. ग. °मिदं त्व°” ↩︎

  808. “ख. °नात्मेति।” ↩︎

  809. “घ. इदं” ↩︎

  810. “ख °चैवं प्°” ↩︎

  811. “क. घ. ज्ञेयं का° । ख. ज्ञेये का°” ↩︎

  812. “क. ग. °समाश्रया°” ↩︎

  813. “ख. °त्। स्त्री°” ↩︎

  814. " ख. ग. °तोपहारसि°" ↩︎

  815. “ख. °ते ॥ ३११ ॥ तत्र दृ°” ↩︎

  816.  ↩︎
  817. “घ. °त्वं त्वौप°” ↩︎

  818. “ख. ग. °त्प्रेक्षते°” ↩︎

  819. “घ. हेतुमाह” ↩︎

  820. “क. ग. रवद्यं” ↩︎

  821. “क. ख. थ. °दात्मका°” ↩︎

  822. “घ. °षार्थतोक्तिः” ↩︎

  823. “घ. आत्मका°” ↩︎

  824. “.घ °र्यकर°” ↩︎

  825. “ख. कस्वरू” ↩︎

  826. “घ. °मस्या°” ↩︎

  827. “घ. °दृश्यवि°” ↩︎

  828. “क. °प्लुतः " ↩︎

  829. " ख. ‘ख्यातुमश’” ↩︎

  830. “ख. घ. °बन्धत्व°” ↩︎

  831. “क. °तं क°” ↩︎

  832. “क. ख. शोकादिश°” ↩︎

  833. “ख. मेव स्फुटं” ↩︎

  834. “घ. त्वयैवोक्तं” ↩︎

  835. “क. ख. ‘वत्वेत’ " ↩︎

  836. “ख तत्स्वरूपं” ↩︎

  837. “ख. °र्णये” ↩︎

  838. “क. °नसाहित्यं यु° । ख. °नराहित्यं यु°” ↩︎

  839. “घ. °षाद्यदृ°” ↩︎

  840. “ख. °त्स्वप्ने सु°” ↩︎

  841. “क. °न्वगोक्ति°” ↩︎

  842. " घ.°ता चेत्या°” ↩︎

  843. “ग. °शाभिसं°” ↩︎

  844. " घ. °मानमि°" ↩︎

  845. “ख. सन्” ↩︎

  846. “क. ग. °कार्थ्यान्न” ↩︎

  847. “घ. °तिषिद्धम°” ↩︎

  848. “क. ग. श्रुत्यैव” ↩︎

  849. “घ.यत्तच्छ°” ↩︎

  850. “घ.ं°ब्दोक्तस्य” ↩︎

  851. “ख. वीक्ष्यते” ↩︎

  852. “घ. °पीति शेष.” ↩︎

  853. “क. व्यपेक्षन्ते” ↩︎

  854. “ख. अलुप्तः स्वप्नानि°” ↩︎

  855. “ख. दृष्टया” ↩︎

  856. “क. °क्षिणः” ↩︎

  857. “घ. °दित्याद्यस्या°” ↩︎

  858. " घ. °स्तत्सिद्धे°" ↩︎

  859. “ग. न हि न°” ↩︎

  860. “ख. मैवं” ↩︎

  861. “ख. घ. °ह। मैव°” ↩︎

  862. “क. °रणम्” ↩︎

  863. “ख. ग. °ग्दृष्ट्यैक°” ↩︎

  864. “घ. °हितत्वा°” ↩︎

  865. “ग. ह्येव " ↩︎

  866. “ख. ग. मैवं " ↩︎

  867. “घ. °याक्षेपक°” ↩︎

  868. “ख. मैवमिति” ↩︎

  869. “क. घ. °रण°” ↩︎

  870. “ग. °क्तिमत्स°” ↩︎

  871. “क. सनात°” ↩︎

  872. “ग. शक्ये प्र°” ↩︎

  873. “ख. °पेक्षित्वा°” ↩︎

  874. “घ. °त्वात्तत्पौ° " ↩︎

  875. " क. °चारतः” ↩︎

  876. “क.सर्वानात्मै°” ↩︎

  877. “ख. घ. प्रतीचि” ↩︎

  878. “ग. °था॥ अतो° " ↩︎

  879. “क. ग. °लप्यः स्यान्नित्या” ↩︎

  880. “ख. °शयति स°” ↩︎

  881. " क. ग. °यित्रिति सदा ब्याप्तृ व्यापि " ↩︎

  882. “°यद्यथा” ↩︎

  883. “ग. °केऽप्येवं” ↩︎

  884. “व. °त्मनो लो°” ↩︎

  885. “क. ग. °के दृष्टाव्य°” ↩︎

  886. " ग.°भूतप्र°” ↩︎

  887. “ग. °सिद्धित्वा°” ↩︎

  888. “ख. घ. °यन्नाह। प°” ↩︎ ↩︎

  889. “ख, ग.°ग्दृष्ट्यैक°” ↩︎

  890. “क. ख. घ. °धकत्वं चो” ↩︎

  891. " घ. °ति। एवं स्व°” ↩︎ ↩︎

  892. “ख. घ. °क्तरीत्या” ↩︎

  893. “ख. °त्वंनित्य°” ↩︎

  894. " क. ग. यद्विक्रि°” ↩︎

  895. “ख. साध्यं” ↩︎

  896. “घ. न तत्कौट°” ↩︎

  897. “घ. °यात्मत्व°” ↩︎

  898. “ग. इष्यते” ↩︎

  899. “ख. °क्षिकः” ↩︎

  900. “ख त्वागमं” ↩︎

  901. “ख. °पं तत्का°” ↩︎

  902. “घ. °यज्ञानं वि°” ↩︎

  903. “ग. °हेतोः सु°” ↩︎

  904. “ख. तु” ↩︎

  905. “क. ख. °धाद्देश°” ↩︎

  906. “घ.°त्वपक्षे वा°” ↩︎

  907. “क. ख. °धात्तत्का°” ↩︎

  908. “घ. ॰द्वयं चिन्मा°” ↩︎

  909. “घ. °मान्त°” ↩︎

  910. “ख °मन्यदस्ती°” ↩︎

  911. “ख निषेध्य°” ↩︎

  912. “घ. निषिद्धः” ↩︎

  913. “घ. °भासमन्तः°” ↩︎

  914. “घ. °रं च न " ↩︎

  915. “ख चास्ति” ↩︎

  916. “ग. °शता” ↩︎

  917. " क. ग. ‘च्यते। स°” ↩︎

  918. “घ. आशङ्कयते " ↩︎

  919. “घ. तदाह” ↩︎ ↩︎

  920. “ख. भण्यते” ↩︎

  921. “घ. °त्वात्तस्य” ↩︎

  922. “ख. °ति वक्तुं” ↩︎

  923. “ख. द्रष्टुः क्रि°” ↩︎

  924. “क. ख. °र्मचित” ↩︎

  925. “ग. °दपि दु° " ↩︎

  926. “ख. °त्वा चाभ°” ↩︎

  927. “ग. च” ↩︎ ↩︎

  928. “घ. °रकत्व°” ↩︎

  929. “ख. ग. नेक्ष्यते” ↩︎

  930. “क. प्रत्यक्षं” ↩︎

  931. " क. ग. °स्थितः प°” ↩︎

  932. “ख. °स्यानात्य°” ↩︎

  933. “ख. °त्यन्तं वि°” ↩︎

  934. “घ. °दानामर्थ°” ↩︎

  935. “घ. कस्या” ↩︎

  936. “घ. फलप्र°” ↩︎

  937. " कः ख. °र्तृकत्व°” ↩︎

  938. “ख. °बन्धाद्द्द्दृष्टि°” ↩︎

  939. “घ. °दिना” ↩︎

  940. “क. °मनूद्य” ↩︎

  941. “घ. °न्ना दृष्टास्त°” ↩︎

  942. “क. ख. घ. °न्नाश्च” ↩︎

  943. “क. ख. तद्वतो " ↩︎

  944. “ख. °यितुं त°” ↩︎

  945. “घ. °मान्यमपि वि°” ↩︎

  946. “ख. ग. °स्था च जायते” ↩︎

  947. “घ. °कं वाऽनन्तरभे” ↩︎

  948. “क. °त्वं तत्त°” ↩︎

  949. “ग. °तथाऽऽत्म°” ↩︎

  950. " ख. °रितम्” ↩︎

  951. “क. ग. सजते " ↩︎

  952. “घ. आत्मैव” ↩︎

  953. “घ. °त्तदाह” ↩︎

  954. “ग. °देष्यते” ↩︎

  955. “घ °च्च धर्मि°” ↩︎

  956. “ख. मिथः पृथगपृथग्वे” ↩︎

  957. " क. ख. °यतयैव” ↩︎

  958. “ख. °गुणं” ↩︎

  959. “क.घ. अथ पृ° " ↩︎

  960. “.क. क्त्वेचापृ°। घ. क्त्वेवाऽपृ°” ↩︎

  961.  ↩︎
  962. “क.घ. °क्त्वे च स°” ↩︎

  963. “घ.वा” ↩︎

  964. " ख. घ. न्त्र्यस्वाभाव्यादि°” ↩︎

  965. “ख. ईक्ष्यते” ↩︎

  966. “ख. घ. °स्तत्तद्वा°” ↩︎

  967. “ग. °स्ति त्वेकै°” ↩︎

  968. “१ क. ख. वो " ↩︎

  969. “ख. °क्षादिसं°” ↩︎

  970. “घ. °षां सद्व्या°” ↩︎

  971. “ख भिन्नानामादिमत्त्वतः” ↩︎

  972. “क. °दिवत्सु तत् " ↩︎

  973. “क. सत्वात्तस्य। ख. सतत्त्वस्य " ↩︎

  974. “क.°वाऽऽत्मव°” ↩︎

  975. “ख.घ. ॰न्तरं पर॰” ↩︎

  976. “घ. कुम्भव्या॰” ↩︎

  977. “ख. घ. ॰वृत्तेः स॰” ↩︎

  978. “ख. घ. कुम्भादिवि॰” ↩︎

  979. “ख. ॰ष्टान्तमाह। न” ↩︎ ↩︎

  980. “ग. त्वियं " ↩︎

  981. “क. घ. भेद०” ↩︎

  982. “०घ स्य च भे०” ↩︎

  983. “क. घ. ०तेरर्थः” ↩︎

  984. " क. ख. ०मानः प्र०” ↩︎

  985. “ख. स च वा०” ↩︎

  986. " क. ग. ०चारितः” ↩︎

  987. “क. तन्मा°” ↩︎

  988. “ख.०ख्येया त०” ↩︎

  989. “क०ख. ग. ०स्य भैषज्यमि०” ↩︎ ↩︎

  990. “घ ०दितिप्रकृतश्रु०” ↩︎

  991. “ख. °टस्थात्मैकल°” ↩︎

  992. “क. °त्मिकेव” ↩︎

  993. “ख. पाठको। क. पावको” ↩︎

  994. “ख. स्वतो " ↩︎

  995. “ग. ०न्नातः का०” ↩︎

  996. “घ. ०द्गम्यतां ता०” ↩︎

  997. “ख. घ. ०भागभागी” ↩︎

  998. “क. ख. अतो” ↩︎

  999. “क. ग. स्तुना। स्व” ↩︎

  1000. “ख च " ↩︎

  1001. " क. ०णं तद्भ०” ↩︎

  1002. “ख. श्रुतेः” ↩︎

  1003. “क. नापराः” ↩︎

  1004. “ख. °न्याय्यंचाने°” ↩︎

  1005. “ग. विपुष०” ↩︎

  1006. “क. ०षबसंबन्धदुःखव० " ↩︎

  1007. “क. कथमु० " ↩︎

  1008. “घ. ०पायानां ता०” ↩︎

  1009. “क. ख. एव” ↩︎

  1010. “घ. ०या न न्यू०” ↩︎ ↩︎

  1011. “घ. सोऽत्र” ↩︎

  1012. “ख. ग. ०रिहेष्यते” ↩︎

  1013. “घ. ०त्कर्षहे०” ↩︎ ↩︎

  1014. “ख. ग. ०रिञ्चतः” ↩︎

  1015. “क. अधरे०” ↩︎

  1016. “क. योत्तमा। ग. चोत्तमं” ↩︎

  1017. “ग. ०त्वाद्गुणि०” ↩︎

  1018. “क. ०त्येवानु०” ↩︎

  1019. “क. ०क्षात्कृता०” ↩︎

  1020. “ख. ०वर्तेत त०” ↩︎ ↩︎

  1021. “पुस्तकत्रयेऽप्यविभ्यादिति वर्तते तत्प्रामादिकम्” ↩︎

  1022. “क. ख. ०राय स०” ↩︎

  1023. “क. ख. घ. विस्तार०” ↩︎

  1024. “ख प्रकृतमि०” ↩︎

  1025. “क. ०नायैत०” ↩︎

  1026. “ख. ०थोक्तः स्व०।ग. ०थोक्तस्व० " ↩︎ ↩︎

  1027. “ख. ०र्वसंसिद्धेर्निग०। ग. ०र्वसंसिद्धे नि०” ↩︎ ↩︎

  1028. “ख. ०र्मार्गं य०” ↩︎

  1029. “ख. ०र्मार्गे य०” ↩︎

  1030. “घ. ०स्य तस्य कु०” ↩︎ ↩︎

  1031. “ख. घ.°त्मैकदेश” ↩︎

  1032. “घ. °त्माऽन्वा” ↩︎ ↩︎

  1033. “ख.°र्यकर°” ↩︎

  1034. “ग. पुंसो” ↩︎

  1035. “.क. ख. °र्जद्याती°” ↩︎

  1036. “ख. ०यां यद्दुः०। घ. ०यां तद्दुः०” ↩︎

  1037. “ख. ०यां यद्दुः०। घ. ०यां तद्दु०” ↩︎

  1038. “घ. ०ति स पु०” ↩︎

  1039. “घ. ०न्धो न प०” ↩︎

  1040. “क. ०तुं न चैवोत्स०। ख. ०तुं न चेहोत्स०” ↩︎ ↩︎

  1041. “क. ख. ग. व्यूह्यैव” ↩︎

  1042. “घ. ०न्तेन प्र०” ↩︎ ↩︎

  1043. “क. राज्ञे " ↩︎

  1044. “ग. ०पं कृत०” ↩︎

  1045. “ख. ०ता नृपं तथा॥ प्र०” ↩︎

  1046. “क. ग. ०सारी स त्ववि०” ↩︎

  1047. “ख. नु” ↩︎

  1048. “ग. गच्छन्तं " ↩︎

  1049. “ग ०तेऽधुना॥ इ०” ↩︎ ↩︎ ↩︎

  1050. “घ. ०शास्त्रपू०” ↩︎ ↩︎

  1051. “क. ०संसर०” ↩︎

  1052. “ग. ०थं चेत्या०” ↩︎ ↩︎

  1053. “घ. ०नि स०” ↩︎ ↩︎

  1054. " क. ०मायान्ती० " ↩︎

  1055. “ग. ०हान्वितमि० " ↩︎

  1056. “क. ग. ०कार्याका०” ↩︎

  1057. “क. ख. ०मायान्ति” ↩︎

  1058. “क. ख. ०कृतास्त्वे०” ↩︎

  1059. “ख. ०कूतिवि०” ↩︎

  1060. “ग. ०मात्राश्च दे०” ↩︎ ↩︎

  1061. “०ता नाऽऽत्मनो मु०” ↩︎

  1062. “ख. घ. ०णतः प्रति०” ↩︎ ↩︎

  1063. “ख. घ. ०राकाराव०” ↩︎

  1064. “ख. घ. ०शकत्वा०” ↩︎

  1065. “०काशकः पु०” ↩︎

  1066. “ख. इष्यते " ↩︎

  1067. " घ. ०ये त्वात्म०” ↩︎

  1068. " घ. °द्ये त्वात्म°” ↩︎

  1069. “ख. ग. °स्ता आभि°” ↩︎

  1070. “ख.० व हि कर०” ↩︎ ↩︎

  1071. “ख.°व हि कर°” ↩︎

  1072. " ख. ०न तात्स्थ्याद्धीर०” ↩︎ ↩︎

  1073. " ख. °न तात्स्थ्याद्धीर°” ↩︎

  1074. “ग. श्रोत्रेभ्यः " ↩︎

  1075. " ख. ०तोऽत्र विशि०” ↩︎

  1076. “क. ख. ०यमेव” ↩︎

  1077. “क. ग. ०मात्रांशयोग० " ↩︎ ↩︎

  1078. “घ.भोक्तृभोग्ये० " ↩︎ ↩︎

  1079. “घ. ०र्यकार०” ↩︎

  1080. “ग. संगतिः” ↩︎

  1081. “क. ग.०तेऽज्ञो न” ↩︎ ↩︎ ↩︎

  1082. “ख. ग. ०स्तदा ज०” ↩︎ ↩︎

  1083. “ख. °न्तराय सं°” ↩︎

  1084. “घ.°न च स्व°” ↩︎ ↩︎

  1085. “क. ग. स्फुटा " ↩︎

  1086. “क. ग. ०थोदित० " ↩︎

  1087. “ख. ०दयाश्रित०” ↩︎

  1088. “ख. लोहं समुद्गतम्” ↩︎

  1089. “ख. ०स्याग्रे द्यो०” ↩︎

  1090. “ख. भावितेऽर्थेऽस्य। ग. भावितार्थस्य।” ↩︎

  1091. " ख.स्वतो " ↩︎

  1092. “घ. यज्ञः " ↩︎

  1093. “घ. ०निव व्य०” ↩︎

  1094. “ख. ग. या वाऽभू०” ↩︎ ↩︎

  1095. “क. ०दात्मज्ञानवि०” ↩︎

  1096. " ख. ०नमत्र जि०” ↩︎ ↩︎

  1097. “क. ग. च्छति” ↩︎

  1098. “ख. ग. भावना” ↩︎

  1099. " ख.°तुजम्” ↩︎

  1100. “ख. °म्॥ इतो°” ↩︎ ↩︎

  1101. “क. ख. ºथोक्तं देº” ↩︎

  1102. “ख. ºन्निर्णीतावशेº” ↩︎

  1103. " क. ग. ºथं त्विति” ↩︎

  1104. “क. ख. ºतुरात्मेº” ↩︎

  1105. “ख. ºत्मनि स्थाº " ↩︎ ↩︎

  1106. “घ. °रेकेऽस्य” ↩︎

  1107. " ग. ºद्धिमनº” ↩︎

  1108. " ख. ºयार्थोऽयं मº” ↩︎

  1109. " ख. रज्ज्वां " ↩︎

  1110. “ग. ºमयः प्राº” ↩︎

  1111. “क. ख. ग. ºयाऽऽत्मेति” ↩︎

  1112. " क. ºत्वात्तत्संक्षेº” ↩︎ ↩︎

  1113. “ख. ग. ºतेक्ष्यते” ↩︎

  1114. “क. ºद्वययोरक्षº। ख. घ. ºद्वयोरक्षº” ↩︎

  1115. “ग. ºर्योगे तथा” ↩︎

  1116. “ख. ºयता चेष्टा तº” ↩︎ ↩︎ ↩︎

  1117. “ख. ग. ºसोऽन्या चरº " ↩︎

  1118. “ख ºभूमिष्टः” ↩︎

  1119. “ख.यत्वेऽस्य” ↩︎

  1120. “ख. ºमित्यभ्युपº” ↩︎

  1121. “ख. घ. तत्र निमिº” ↩︎

  1122. “ख. घ. न प्रº” ↩︎ ↩︎ ↩︎

  1123. “ग. योजिका त्वविº” ↩︎

  1124. “ख. ग. ºतोऽतोऽबोº” ↩︎

  1125. “ख. ग. ºधविº " ↩︎ ↩︎

  1126. “क. ºहकुत्रचिº” ↩︎

  1127. “ग. शक्येतान्येन” ↩︎

  1128. “ख. यं सक्रतुः” ↩︎

  1129. “घ. तत्रापि” ↩︎

  1130. “घ ºव गº” ↩︎ ↩︎ ↩︎

  1131. " घ. °कृतोप°” ↩︎ ↩︎

  1132. “ख. °ने च कि°” ↩︎ ↩︎

  1133. “ख. ग. °मर्शो न्वि°” ↩︎ ↩︎

  1134. " क. ग. °गतिः॥ उक्ता त°” ↩︎

  1135. " क. ख. °समार°” ↩︎

  1136. “क. °प्तता च स्व " ↩︎ ↩︎

  1137. " ख °तेऽन्धधीः " ↩︎

  1138. " क. °द्याशुद्धिमिवखरे॥ त°। ख. °द्याबुद्धिमिवोखरे॥ त°।” ↩︎

  1139. “घ. °यमित्य°” ↩︎ ↩︎

  1140. “क. °त्म्यवस्तुक्°” ↩︎

  1141. “ग. वाऽकामः " ↩︎

  1142. “क. तदुक्तं " ↩︎

  1143. “क. °परिवा°” ↩︎

  1144. " ग. °पोऽथ मो°” ↩︎

  1145. " क. स्वतःसिद्धं” ↩︎

  1146. “ख. °विध्वस्तेस्त्रिर्वः°” ↩︎

  1147. " ख. °त्मनः। आ°” ↩︎ ↩︎

  1148. “ख. °वास्य का°” ↩︎

  1149. “ग. °सिद्धप्र°” ↩︎

  1150. “घ. °न्यस्वभा°” ↩︎

  1151. “क.ग. °यं तद्द्वि°” ↩︎

  1152. “क. °नोऽपि ब्र°” ↩︎ ↩︎

  1153. “ग. नः” ↩︎

  1154. " ख. °श्रयात्॥ न” ↩︎

  1155. " क. ग. °यतः॥ न” ↩︎

  1156. " ख. ध्रुवा” ↩︎

  1157. “ग. °संबोधो मि°” ↩︎ ↩︎

  1158. “क. °क्षण्यं पर°” ↩︎

  1159. “क. ग. °गात्मात्मव°” ↩︎

  1160. “ख. रज्जूषराद्य°” ↩︎

  1161. “ख. °त्तिकृत्” ↩︎

  1162. “ख. °त्मनि " ↩︎

  1163. “एतद्टीकानुरोधेन मूले वानत इति स्यादथवा मूलानुरोधेन टीकायां ततःशब्द इति स्यादिति ज्ञेयम्॥” ↩︎ ↩︎

  1164. “ख. °वेदित्या°” ↩︎

  1165. “ख. घ. °योर्योज°” ↩︎

  1166. “क. कामयते " ↩︎

  1167. “ख. ग. °प्यन्यत्सर्व°” ↩︎ ↩︎

  1168. " घ. या तद्ध्वस्तौ।” ↩︎

  1169. “घ. तदाह।” ↩︎

  1170. “क. ख. मन्त्रे। " ↩︎

  1171. “ख. वृत्त्या मांस।” ↩︎

  1172. “क. ख. ‘नर्महा’।” ↩︎

  1173. " क, ख. तन्महा।” ↩︎

  1174. “क. ख. घ. ‘द्ये महा’।” ↩︎

  1175. " घ. ‘बन्धी दृश्यते ये’” ↩︎

  1176. “.ख. तु।” ↩︎

  1177. " क. ख. तु महा।” ↩︎

  1178. " घ. ‘ण इत्युक्त’।" ↩︎

  1179. " ख. घ. ‘त्मत्व’।" ↩︎

  1180. “ग. हि।” ↩︎

  1181. " घ र्वत्य ना।" ↩︎

  1182. " क. ग. गदीक्ष्य।" ↩︎

  1183. “.घ. चनतो।” ↩︎

  1184. " घ. नसं।" ↩︎

  1185. “क. ख. तत्र।” ↩︎

  1186. “क. न्मताः। मे” ↩︎

  1187. " ख. ग. द्ध्यर्थे है।" ↩︎

  1188. “ग. ‘वा तद्विशे’।” ↩︎

  1189. “ख. घ. ‘ति। प्राप्त’।” ↩︎

  1190. “ग. ‘दत्यितद्विशे’।” ↩︎

  1191. “क. ग. धात्तस्य।” ↩︎

  1192. “क. ख. तत्सं” ↩︎

  1193. “ख. ग. ‘पेक्षि कि’।” ↩︎

  1194. “घ. ‘क्यस्थकामवाक्यस्या’।” ↩︎

  1195. " क. ग. ‘देव फ’।" ↩︎

  1196. “ग. ‘न्दा अति’।” ↩︎

  1197. " ख. ‘मिति परिहरति। त’।" ↩︎

  1198. " ख. ग. ‘श्रयितो’।" ↩︎

  1199. “क. ग. ‘त्सान्वया’।” ↩︎

  1200. “घ. चाऽऽत्मनः।” ↩︎

  1201. “ग. श्रयिता।” ↩︎

  1202. “ख. पेक्ष्य प्रमा।” ↩︎

  1203. " ख. स्योक्त्या निषे।" ↩︎

  1204. “क. ख. घ. तन्महा” ↩︎

  1205. “ख. वतीति।” ↩︎

  1206. “ग. ‘यता त’।” ↩︎

  1207. “क. ख. वेदतः।” ↩︎

  1208. “ख. ‘वारणी’।” ↩︎

  1209. “घ. ‘सर्गं वारयतीति।” ↩︎

  1210. " ख. ‘वारणी।" ↩︎

  1211. “घ यन्निवा।” ↩︎

  1212. “घ.तु न्याय्यमि।” ↩︎

  1213. " ग. क्तार्थवि।" ↩︎

  1214. “ख. कल्प्यते।” ↩︎ ↩︎

  1215. “घ. ‘दिर्विद्या’।” ↩︎

  1216. “क. ख. ‘विद्यस्मा’” ↩︎

  1217. " घ. ‘रस्य तन्मा’। " ↩︎

  1218. “घ. भागीत्य। " ↩︎

  1219. “क. ख. ‘क्तुं तेजःश’।” ↩︎

  1220. “घ. ‘योर्महाभेष’।” ↩︎

  1221. “घ. करोति।” ↩︎

  1222. “ख. ‘कस्य ल’।” ↩︎

  1223. “क. ‘ष्टि स्वयं तमः’।” ↩︎

  1224. " ख. ग. यन्ति।” ↩︎

  1225. " ख. यन्ति। " ↩︎

  1226. “ग. या न त्वैकात्म्यस।” ↩︎

  1227. “ख. क्षणा” ↩︎

  1228. “ख. ग. यन्ति।” ↩︎

  1229. " घ. यां तु त।" ↩︎

  1230. “ग. हेन स कथंचन।” ↩︎

  1231. “ग. ‘र्थाभिसं’।” ↩︎

  1232. " क. ख. ‘ज्ञस्य वि।" ↩︎

  1233. “घ. ‘तोऽस्य व्य’।” ↩︎

  1234. “घ. षः स प।” ↩︎

  1235. " ख ग. ‘वैनमा’। " ↩︎

  1236. “घ. ‘मेनमा’” ↩︎

  1237. “ख. ग. तिश्चास्य।” ↩︎

  1238. “ख. ग. ‘ज्जनान्॥ सं।” ↩︎

  1239. “श्वेताश्वतरोपनिषद्भाष्ये तु कालकार इति मूलप्रतीकं गृहीत्वा व्याख्यातम्।” ↩︎

  1240. " क. घ. त्मनः। का॰।" ↩︎

  1241. “ख. कालं। घ. काले।” ↩︎

  1242. “क. ख. घ. पचते।” ↩︎

  1243. “ख. न्सत्ये चि।” ↩︎

  1244. " ख सत्ये।" ↩︎

  1245. “ख. देरर्थमा।” ↩︎

  1246. " घ. ॰णकार॰। " ↩︎

  1247. “ख. घ. ॰णकार॰।” ↩︎

  1248. " ख. ॰निधिः स॰।" ↩︎

  1249. “क. ख. दाऽऽत्म।” ↩︎

  1250. " घ.. र्वप्र।" ↩︎

  1251. “घ क्ततत्त्वाभा।” ↩︎

  1252. “ख. ‘नात्मत्व’।” ↩︎

  1253. " ग. रभिसं। " ↩︎

  1254. " घ. व तव त।" ↩︎

  1255. " ख. तुकम्।" ↩︎

  1256. " ख, गम्यतां। " ↩︎

  1257. “क. प्रमेयं। " ↩︎

  1258. “ख. ग. धतः॥ मृ।” ↩︎

  1259. " घ. फलव्या ।” ↩︎

  1260. " क. फलव्या।" ↩︎

  1261. “घ. दिति भावः॥६८७॥” ↩︎

  1262. “क. ‘नकत्वा’ ।” ↩︎

  1263. “ख. मित्यर्थः॥६९४॥” ↩︎

  1264. “क. ख. त्साक्षित्वा।” ↩︎

  1265. “क. ख. बोध्यस्य। " ↩︎

  1266. “ख. घ, त्साक्षित्वा।” ↩︎

  1267. " ग. थात्म्यज।” ↩︎

  1268. “क. ग. च्छेदनीं।” ↩︎

  1269. “ख. ग. समस्तस्य।” ↩︎

  1270. “क. ख. राद्यैकै। " ↩︎

  1271. “क. ख. त्मनि ज्ञा” ↩︎

  1272. “क. वेत्यर्थः।” ↩︎

  1273. " एतट्टीकानुरोधेन मूले क्रमेणैवेत्यत्र क्रमेणात इति स्यादित्यनुमीयते।” ↩︎

  1274. “ख. णैवं स।” ↩︎

  1275. " घ. ‘ताविज्ञा’। " ↩︎

  1276. " ख. ग. दाऽप्यसौ।" ↩︎

  1277. “घ. ‘ल्पिततत्त्व ल।” ↩︎

  1278. “घ ‘ति। असंप्रज्ञातना’।” ↩︎

  1279. “घ. ‘द्वान्विमुक्तो।” ↩︎

  1280. " ख. ग. ‘नाध्यान’।" ↩︎

  1281. “क. चालनी।” ↩︎

  1282. “क. ख. ग. ‘तु चैक’।” ↩︎

  1283. “क. ख. ग. नीम्॥वा।” ↩︎

  1284. “क. ‘रमा’। " ↩︎

  1285. “ख. ‘वत्येव।” ↩︎

  1286. “घ. षयं ज्ञा।” ↩︎

  1287. " ग. ‘तौ तज्ज्ञानं’।” ↩︎

  1288. “.क. मपग।” ↩︎

  1289. “क. ग. दयात्तथा।” ↩︎

  1290. “क. ‘र्थाप्तेः स’। ग. ‘र्थाप्तेः कृत्स्नदुः’।” ↩︎

  1291. “क. ग. ‘ह्नुतेः॥ य’।” ↩︎

  1292. “ग. येण च।” ↩︎

  1293. " घ. करोति।" ↩︎

  1294. “ग. त्येव य।” ↩︎

  1295. “ख. दिव।” ↩︎

  1296. " घ. स्तदाह।" ↩︎

  1297. “ख. ग. ‘ध्वंसी ज्ञा’।” ↩︎

  1298. " ख. ‘स्त्रीसंगतं य’। ग. स्त्रीसंगतिर्यथा।" ↩︎

  1299. “ग. प्राप्तिः कै।” ↩︎

  1300. “ख. दथध्व।” ↩︎

  1301. " घ. प्रकटयति।" ↩︎

  1302. “ग. न विह।” ↩︎

  1303. " क. ख. न्तरसं।" ↩︎

  1304. “ख. अत्र।” ↩︎

  1305. “ग. हि। पारोक्ष्यवृ।” ↩︎

  1306. “ग.ह्यावग। " ↩︎

  1307. " ख. भण्यते।” ↩︎

  1308. “ख. पेक्षते।” ↩︎

  1309. " ख. मीक्षते।" ↩︎

  1310. “क. ‘यवादि’।” ↩︎

  1311. “क. ‘सर्गिरू’।” ↩︎

  1312. “ख ‘ष्यते’॥८१४॥” ↩︎

  1313. “क. ‘मादाय’।” ↩︎

  1314. “ग. न्तरैर्ज्ञाते।” ↩︎

  1315. “ख. वकम्। न॥” ↩︎

  1316. “ख. रकृता।” ↩︎

  1317. " ख. दादपि।" ↩︎

  1318. " ख. ‘निरपेक्ष’।" ↩︎

  1319. “ख. ‘रकस्यै’।” ↩︎

  1320. “क. ख. घ. चेदित्या।” ↩︎

  1321. “क. ख. च्छेदनी।” ↩︎

  1322. “घ. ‘र्वकमसं” ↩︎

  1323. “घ, ‘र्थोमेयोक्त’।” ↩︎

  1324. “ख, मेनेति।” ↩︎

  1325. “घ.णासंभवा” ↩︎

  1326. “ख. स्य. स्वप्तासि।” ↩︎

  1327. “घ. द्वयापरोक्षे द्वय।” ↩︎

  1328. “क. प्रविवेको वा।” ↩︎

  1329. “घ. क्तं घ।” ↩︎

  1330. “घ. ज्ञां प्रकु।” ↩︎

  1331. “घ. ति। प्रज्ञाश। " ↩︎

  1332. “ख. ‘ति कर्तव्यमिति नियम्यत इत्यर्थः।” ↩︎

  1333. " क. ग. ज्ञातादि।” ↩︎

  1334. " ग. यथा।" ↩︎

  1335. “ख. ‘येहेममा’।” ↩︎

  1336. " ग. ‘ले तु सर्वा’।" ↩︎

  1337. “ख. हेतून्रागा।” ↩︎

  1338. " ख. गन्तृ य।" ↩︎

  1339. “क.घ. सो मिथोवि।” ↩︎

  1340. " ख. कथमस्याः।" ↩︎

  1341. “ख.त्मनः सि।” ↩︎

  1342. “ख. ग. तयैवे” ↩︎

  1343. “ग. यादिव।” ↩︎

  1344. “ख. ज्ञानमे।” ↩︎

  1345. " घ ‘निनिश्चयानु’।" ↩︎

  1346. “क. ग. न तत्प्रत्य।” ↩︎

  1347. “ग. तदा।” ↩︎

  1348. “घ. दृष्टाद्य।” ↩︎

  1349. “घ. यः सदा चिद्व्या।” ↩︎

  1350. “घ. ‘धिसिद्धिरि।” ↩︎

  1351. “ग. नेष्यते।” ↩︎

  1352. “ख. मृषेति।” ↩︎

  1353. “क. न च मि। घ. न वा मि।” ↩︎

  1354. “ख. दित्यर्थः। भा।” ↩︎

  1355. “ग. थङ्मतः।” ↩︎

  1356. “कं. नेऽपि वि।” ↩︎

  1357. " ग. वोऽस्त्यप्र।" ↩︎

  1358. " ख. कालं तु।" ↩︎

  1359. “क. ख. ग. ‘क्ष्यते॥उ’।” ↩︎

  1360. “ख. तस्माद्वा।” ↩︎

  1361. “क. नुसंधानं।” ↩︎

  1362. “क. रमा।” ↩︎

  1363. “क. ख. चोक्ततः।” ↩︎

  1364. “घ. ‘त्र प्र’। " ↩︎

  1365. “घ. ब्रह्मा।” ↩︎

  1366. “क. ख. ष्यभा।” ↩︎

  1367. “ख म्भखं य।” ↩︎

  1368. " घ. द्भागत्या। " ↩︎

  1369. “क. ग. त्वमपि चे।” ↩︎

  1370. “ग.शित्वं श।” ↩︎

  1371. “ग. संभेदान्मै।” ↩︎

  1372. “क. ख. घ. ‘बन्धे कौ’।” ↩︎

  1373. “क. घ. तद्। " ↩︎

  1374. “ग. चास्य। " ↩︎

  1375. " ख चाभावे।” ↩︎

  1376. “घ. ‘ति।तथो।’” ↩︎ ↩︎

  1377. " ख. त्यर्थः।” ↩︎

  1378. " ख. ‘त्त्वकः॥ई’।” ↩︎

  1379. “ख. ‘त्त्वकः॥ई’।” ↩︎

  1380. “घ. ‘दिहेतुर’।” ↩︎

  1381. “ख. स्फुटम्।” ↩︎

  1382. “ख. त्याद्यवतारयति। कि।” ↩︎ ↩︎

  1383. " क. ग. एवं। " ↩︎

  1384. " घ. एवमि। " ↩︎

  1385. “घ मर्थान्तरमा।” ↩︎

  1386. “क. ग. दुष्प्राप्या।” ↩︎

  1387. “क. ग. थाश्रुति।” ↩︎

  1388. “क. इदमङ्ग। " ↩︎

  1389. “ख. वः।” ↩︎

  1390. " ख. घ. पश्यति। " ↩︎

  1391. “ख. स्मृतेः।” ↩︎

  1392. “ख. स्तुतैः।” ↩︎

  1393. “ख. ‘क्षाच्च व’।” ↩︎

  1394. “ग. ‘था॥१०६४॥ अद्धा’।” ↩︎ ↩︎

  1395. “क. ख. ‘ण वि’।” ↩︎

  1396. “क. ख. घ. ‘षन्तीति य’।” ↩︎

  1397. " घ. तमेव।” ↩︎

  1398. “ख. घ. शक्यमि।” ↩︎

  1399. “ग. धृतिर।” ↩︎

  1400. " क.स्तीत्येवम्।" ↩︎

  1401. " ख. रणार्थ।" ↩︎

  1402. “घ. ब्रह्म।” ↩︎

  1403. " ख. हेतुमाह।" ↩︎

  1404. “ख. मू॥ भूलो।” ↩︎

  1405. “ख. घ. अविदु।” ↩︎

  1406. “ग. ‘त्म्यवेदिनः’।” ↩︎

  1407. " घ. ‘न्यासं स’।" ↩︎

  1408. " घ. ‘सस्य सौ’।" ↩︎

  1409. " ख. ‘त्तोयं। ग. ‘त्तोये त’।" ↩︎

  1410. “घ. विदुषां। " ↩︎

  1411. “क. ‘णाऽत्र कि’।” ↩︎

  1412. " ख. ‘त्ता काचि’। " ↩︎

  1413. “क. ग. गवादें।” ↩︎

  1414. " घ. रेकेण ग।” ↩︎

  1415. " ख. ग. त्येवं क्रि।" ↩︎

  1416. “क. ख. घ. र्तृत्व।” ↩︎

  1417. “ग. ते ह्येक। " ↩︎

  1418. " क. ग. वाऽपि।” ↩︎

  1419. “घ. ‘दर्थिनो दु’।” ↩︎

  1420. “ग. ‘पि सत्स्तुत्य।’” ↩︎

  1421. " ख. ‘ताविधिस्तस्य पा।’" ↩︎

  1422. " क. ख. ‘तेऽक्वे चे’।" ↩︎

  1423. “ग. रहे स्यात्प्र।” ↩︎

  1424. “क. ग. पेक्षित्वं।” ↩︎

  1425. " क. ग. ‘तः स्वे म’।" ↩︎

  1426. " ग. ‘वकारणात्’। " ↩︎

  1427. “क. घ. ‘र्ये तथा सति क’।” ↩︎

  1428. “ख, ‘वृत्तिः स्या’।” ↩︎

  1429. " क. ग. ‘निष्ठित’।" ↩︎

  1430. " इदं छान्दसमकार्षमिति यावत्।" ↩︎

  1431. " क. ख. न्तरमेव भो।" ↩︎

  1432. “क. योऽनु।” ↩︎

  1433. " ख. तद्।" ↩︎

  1434. “ख. मुदैरयत्।” ↩︎

  1435. “क. ख. ‘गतः कि’।” ↩︎

  1436. “क. र्थस्तत्पदं। " ↩︎

  1437. “क. ख. घ. ज्ज्ञानात्स्यान्मु।” ↩︎

  1438. “क. ख. विधिः स्मृतः। " ↩︎

  1439. “क. ख. घ. दि विधेः।” ↩︎

  1440. “ख. रेष सा।” ↩︎

  1441. “क. ग. शान्त्यादेः।” ↩︎

  1442. “उपपाद्येत्यर्थकं ज्ञेयम्।” ↩︎

  1443. “ख. तदधि। " ↩︎

  1444. “ख. ग. रनुत्।” ↩︎

  1445. " ख. त्सर्वा भू।” ↩︎

  1446. “घ. वेत्या।” ↩︎

  1447. “ख. घ. ‘त्त्यागे चो’।” ↩︎

  1448. " घ. द्दिश्यातः श’।” ↩︎

  1449. “.क. ग. स्मिन्नात्य।” ↩︎

  1450. “ख. वः। ग. तु।” ↩︎

  1451. “घ. नार्थितानु।” ↩︎

  1452. " घ. यागेन स।” ↩︎

  1453. “घ. न्ये भ। " ↩︎

  1454. “क. द्यन्तीति।” ↩︎

  1455. “ग. भ्युदयः।” ↩︎

  1456. “ख. वेकार्थत्वे। " ↩︎

  1457. “घ. नःसाधन।” ↩︎

  1458. " क. ख. घ. ष्ठेयं सू।” ↩︎

  1459. " ग. भाति। " ↩︎

  1460. " घ. तदाह।” ↩︎

  1461. “ख. ग. पश्यति। " ↩︎

  1462. “ख. निवर्तेत।” ↩︎

  1463. “क. ग. ‘शात्त्वचं रू’।” ↩︎

  1464. “क न भाज। " ↩︎

  1465. “घ. रजस्तमः।” ↩︎

  1466. “ख. रतश्रु ।” ↩︎

  1467. " ख. घ.दम्।” ↩︎

  1468. “क. ग. मर्थवा।” ↩︎

  1469. “ख. वतिष्ठते।” ↩︎

  1470. “घ. सूत्रिता।” ↩︎

  1471. " क. ख. तो नित्यः स।” ↩︎

  1472. " क. प्राणतोऽन्ना।" ↩︎

  1473. “घ. योऽहिं र।” ↩︎

  1474. “ग. निषेध्य। " ↩︎

  1475. " ख. जरामर।” ↩︎

  1476. “क. ख. ग. ‘त्यग्भयं’। " ↩︎

  1477. “क. ख. ‘यम’।” ↩︎

  1478. " क. ‘दिनिषेधोऽय’।” ↩︎

  1479. “क. ग. ‘ख्येयरे’। " ↩︎

  1480. “.ग. ‘ख्येयेव’।” ↩︎

  1481. “ख. ग. प्रतिपद्यते।” ↩︎

  1482. “ख. कादिः॥१३४४॥” ↩︎

  1483. “क. ख. ‘र्थस्या’।” ↩︎

  1484. " घ. निगम्य। " ↩︎

  1485. “क. ‘तः सतत्त्वं प्रतिपादितम्’॥१०॥” ↩︎

  1486. " ख. ‘प्रतीय’।” ↩︎

  1487. " क. सत्त्वं।" ↩︎

  1488. " घ. ‘त्वेन नि’।" ↩︎

  1489. “क. ग. पेक्षते।” ↩︎

  1490. “ख. ‘णि व्यपनु’।” ↩︎

  1491. “क. पविध्याऽऽशु।” ↩︎

  1492. “क. ग. ‘तज्जब्र’।” ↩︎

  1493. “ख. निरस्यति।” ↩︎

  1494. " ख. ‘यमामित’।" ↩︎

  1495. “ख. ग. आपीता” ↩︎

  1496. " ख ह। आपी।" ↩︎ ↩︎

  1497. “ख. वशिष्यते।” ↩︎

  1498. “क. ग. षेधनी।” ↩︎

  1499. " क. त्र त " ↩︎

  1500. “ग. ति नाप। " ↩︎

  1501. “ख. र्थे व्यव।” ↩︎

  1502. " नुवदति।” ↩︎

  1503. “तत्कृता।” ↩︎

  1504. " क. ख. ‘वीर’।" ↩︎

  1505. “ख. दुदच्य।” ↩︎

  1506. “ख. ‘स्य सत्यत्वे’।” ↩︎

  1507. “क. ग. पत्तिश्च।” ↩︎

  1508. “ख.नः॥ न मा। " ↩︎

  1509. “ख. नुद्रवति।” ↩︎

  1510. “क. ग. तत्। " ↩︎

  1511. " क. ग. यते॥८४॥” ↩︎

  1512. “क. ग. गेऽनति।” ↩︎

  1513. “क. ग. थैवमस।” ↩︎

  1514. “क. ग. धान्नाद्व।” ↩︎

  1515. " क. ब्रह्माज्ञा। " ↩︎

  1516. " ख. ‘पि ज्ञान’।” ↩︎

  1517. “ख. तत्राऽऽह। " ↩︎

  1518. " ख. स्य. व्यु।” ↩︎

  1519. “ख. थर्वणेऽप्य।.” ↩︎

  1520. “ख. ‘क उपा’।” ↩︎

  1521. “ख. ‘विदते।’” ↩︎

  1522. “ख. हृदि तत्सदा।” ↩︎

  1523. “ख. प्रकारान्तरेति” ↩︎

  1524. " क. ख. यं तदिति व।" ↩︎

  1525. " क. ग. ‘ताभिव्य’।" ↩︎

  1526. “ख. ‘तोमृत्यु निर्जी’।” ↩︎

  1527. “क. कारक।” ↩︎

  1528. " क॰ ‘दद्वाक्यं’। " ↩︎

  1529. “क. ‘ग. यथ इ’। ख. यथेत्यु’। " ↩︎

  1530. “क. ‘याग्निवपु’। ग. ‘याग्निर्वपु’।” ↩︎

  1531. " क. ख. ‘काष्ठं स’।” ↩︎

  1532. " क. ग. ब्रह्मा।" ↩︎

  1533. “ख. प्रेत्यासौ।” ↩︎

  1534. “ख. चैति।” ↩︎

  1535. “ख मृतं।” ↩︎

  1536. “ख. ग. तो लोके।” ↩︎

  1537. “ख. वत्त्वेफलितमा।” ↩︎

  1538. “ख. ग. ‘णितोः क्षताद्यतः प्राण’।” ↩︎

  1539. “ख.’श्रयात्॥ उ’।” ↩︎

  1540. “ख. परा।” ↩︎

  1541. “क. ख. ’मन्वितः।” ↩︎

  1542. “ख. भवत्यसौ।” ↩︎

  1543. “ख. त्रिपदैषा।” ↩︎

  1544. “क, ‘स्तत्पदमि’।” ↩︎

  1545. “क. तथाऽन्येº। ग. तदाऽन्येº।” ↩︎

  1546. “ख. ºतिदृश्यताº। " ↩︎

  1547. “क. ºदर्शिनाम्।” ↩︎

  1548. “क. ग. °लार्थतः।” ↩︎

  1549. “ख. °मित्थं स।” ↩︎

  1550. “ख. °रङ्गवि°।” ↩︎

  1551. “ख.°त्तस्य दृ°।” ↩︎

  1552. “क. ख. °ष्ठाज्ञान°।” ↩︎

  1553. “क. ख. °तिरित्याद्युपासन°।” ↩︎

  1554. “क. विहिते।” ↩︎

  1555. “ख. तत्।” ↩︎

  1556. “क. ग. ध्यायते।” ↩︎

  1557. “क.°रकृत्यमा°।” ↩︎

  1558. “क. ख. ग. °मेवं स्या°।” ↩︎

  1559. “ख. °भोऽत्ता फ°।” ↩︎

  1560. “क. ख. °त्थितिं या°।” ↩︎

  1561. “क. ख. °क्षदिवादि°।” ↩︎

  1562. “क.ख. °नाता ष°।” ↩︎

  1563. “क. ख. °तिविभागधीस्तत्रा°।” ↩︎

  1564. " ख. °त्यर्थं समीरि°।” ↩︎

  1565. “ख.°स्मीति मे म°।” ↩︎

  1566. “क. °त्कल्प्यते ने°।” ↩︎

  1567. “क. ख. °तीयोऽथ°।” ↩︎

  1568. “ख. °नुषो वरः।” ↩︎

  1569. “क. ख. °तुं चाश°।” ↩︎

  1570. “क. ग. °थ॥ क्षाम°।” ↩︎

  1571. “ग. °मिद्विप°।” ↩︎

  1572. “ख. °ना। त°।” ↩︎ ↩︎

  1573. “ख. गच्छन्तु।” ↩︎

  1574. “ख. एवं यथा°।” ↩︎

  1575. “ख. °दातदनु°।” ↩︎

  1576. “क. ग. रिणः॥१२२॥” ↩︎

  1577. “ख. °षश्रवणा°।” ↩︎

  1578. “क. °ख्यार्थप°।” ↩︎

  1579. “क. ख. °ति। अर्थित्वादिति विशेषणं क°।” ↩︎ ↩︎

  1580. “क. ख. °ता इत्यु°।” ↩︎

  1581. “ख.°प्रयत्नवतामि°।” ↩︎

  1582. “क. ख. °ते न का°। " ↩︎

  1583. “ख. निवर्त°।” ↩︎

  1584. “ख. °मे वि°।” ↩︎

  1585. “क. °ध्योपस्थान°।” ↩︎

  1586. “ख. °रमवतारयति। ए°।” ↩︎ ↩︎

  1587. “ख.विहित°।” ↩︎

  1588. “क. ख.सर्वा°।” ↩︎

  1589. “ख. °र्थित्वमि°।” ↩︎

  1590. “अत्रत्यं पराकाशशब्दस्य स्त्रीलिङ्गत्वं चिन्त्यमुपनिषदि ‘आशापराकाशौ’ इति पुंलिङ्गपाठात्।” ↩︎

  1591. “ख.तथैवा°।” ↩︎

  1592. “ख. योऽतिश°।” ↩︎

  1593. “क. ख. °ज्यादि सं°।” ↩︎

  1594. “क. ख. ग. °नुकूलतः।” ↩︎

  1595. “क. ख. °दिसि°।” ↩︎

  1596. “क. न. °गतो य°।” ↩︎

  1597. “क. ग. दृष्टश्चलन°।” ↩︎

  1598. “ख.°म्यते॥११८॥” ↩︎

  1599. “ख. °तुतः॥१२३॥” ↩︎

  1600. " क. ग. पराणि।” ↩︎

  1601. “क. ख. °धुकामावा°।” ↩︎

  1602. “क. ग. °दात्मा स क°।” ↩︎

  1603. “क. ग. बोधाभिधं। ख. वेधाभिधं।” ↩︎

  1604. “क. बोधाभिषमिति। ख. वेधाभि°।” ↩︎

  1605. “ख. °व्यापार°।” ↩︎