बृहदारण्यकोपनिषद्भाष्यवार्तिकम् (प्रथमो भागः)

[[बृहदारण्यकोपनिषद्भाष्यवार्तिकम् (प्रथमो भागः) Source: EB]]

[

[TABLE]

[TABLE]

आदर्शपुस्तकोल्लेखपत्रिका।
<MISSING_FIG href="../books_images/U-IMG-1731416077Screenshot2024-11-12181824.png"/>

अथास्य सटीकबृहदारण्यकोपनिषद्भाष्यवार्तिकस्य पुस्तकानि यैः परहितैकपरतया संस्करणार्थं प्रदत्तानि तेषां नामादीनि पुस्तकानां संज्ञाश्च कृतज्ञतया प्रकाश्यन्ते।

(क.) इति संज्ञितम् —मूलं सटीकं, वटोदरनगरनिवासिनां पटवर्धनोपाह्वानां श्री० रा० रा० कृष्णराव भीमाशंकर इत्येतेषाम्। पत्राणि ८३८। एकपत्रस्थाः पङ्क्तयः १६। एकपङ्क्तिस्थान्यक्षराणि ५०। लेखनकालः शालिवाहनशके १७७२।

(ख.) इति संज्ञितम् — मूलं सटीकं, दक्षिणापथवर्तिविद्यालयग्रन्थसंग्रहालयस्थं ‘डॉक्टर’ इत्युपपदधारिभिर्भाण्डारकरोपाह्वैःरामकृष्ण गोपाल इत्येतैर्दत्तम्। पत्राणि ६७२। पङ्क्तयः २१। अक्षराणि ५०। लेखनकालः, विक्रमसंवत् १८९४।

(ग.) इति संज्ञितम् —केवलं मूलम्, अलीबागग्रामनिवासिनां श्री० रा० रा० ‘रावसाहेब बिवलकर’ इत्येतेषाम्। पत्राणि ३७०। पङ्क्तयः १०।अक्षराणि ५५। लेखनकालस्तु पञ्चाशद्वर्षात्मकोऽस्तीत्यनुमीयते।

(घ.) इति संज्ञितम् — केवला टीका चतुर्थाध्यायस्य, एतदपि दक्षिणापथवर्तिविद्याभवनग्रन्थसंग्रहालयस्थं भाण्डरकरोपाह्वैरामकृष्ण गोपाल इत्येतैरेव दत्तम्। पत्राणि ४०९। पङ्क्तयः १०। अक्षराणि ३५। लेखनकालः विक्रमसंवत् १७७१।

समाप्तमिदं संज्ञापत्रकम्।

<MISSING_FIG href="../books_images/U-IMG-173064416613.png"/>

संबन्धवार्तिकश्लोकाद्यचरणवर्णानुक्रमः

<MISSING_FIG href="../books_images/U-IMG-1731416440Screenshot2024-11-12183031.png"/>

श्लोकाद्यचरणानि श्लोकाद्यचरणानि
अतः प्रैषादितुल्योऽयं
अकर्मकत्वादस्यादेः अतः समीहितोपाय
अकस्माद्भवतः सक्तेः अतः सर्वोऽपि वेदोऽयं
अक्रियाकर्तृसंबन्धे अतः संन्यस्य कर्माणि
अग्निवत्फलभोक्तृत्वात् अथ निश्चयसिद्ध्यर्थं
अज्ञातत्वक्षतिकुर्वन् अथ मानान्तरापेक्षं
अज्ञातत्वस्यमाव्याप्तेः अथ मेयप्रभेदेऽपि
अज्ञातत्वाविशेषेऽपि अथ येशतमित्यादि
अज्ञातत्वंविनामानं अथवस्तुपृथक्त्वेन
अज्ञातावगमेयद्वत् अथवस्त्वन्तरज्ञानं
अज्ञानान्तरितत्वेन अथशास्त्रप्रमाणत्वात्
अतएवचरागादि अथश्रवणभावार्थ
अतएव सभागत्वं अथ सोमादिसंबद्धे
अत ऐकात्म्ययाथात्म्य अथातोधर्म इत्युक्ते
अतोऽज्ञस्यैव निःशेष अथानधिगताभावात्
अतोऽत्र विध्यभावोऽयं अथानन्दः श्रुतः साक्षात्
अतोऽनधिगतावेशात् अथापिकार्यविरहात्
अतोऽनभ्युपगच्छद्भिः अथाप्यवगमोमेये
अतोऽनुभव एकैको अथाभावोऽपिवस्त्वेव
अतोऽनुभवतोलब्ध अथाविशेषणोऽभावो
अतोऽनुभवमुल्लङ्घ्य अथासाधारणज्ञान
अतोयदेवसाध्यार्थ अथैकात्म्यार्थनिष्ठंसत्
अतोऽवबोधकत्वेन अथैतयोरिति तथा
अतोऽशेषमहानर्थ अथोपच्छन्दनार्थानि
अत्यन्ताननुभूतेषु अथोभयात्मकं कार्यं
अत्यन्ताप्राप्तमर्थं हि अदुःखिनोऽपिदृश्यन्ते
अत्रचोपनिषच्छब्दो अदृष्टफलतावाऽपि
अत्राप्यनर्थकं कर्म अदृष्टार्थाहिदृष्टार्था
अत्रोच्यतेह्यभिप्रेतं अधिकारप्रवेशित्वं
अतः कृताधिकारोऽपि अधिकारविचारोहि
अतः प्रजापतौतत्त्वं अधिकारस्य सौलभ्य
अतः प्रमाणतोऽशक्या अधिकारोऽपितस्यांच
श्लोकाद्यचरणानि श्लोकाद्यचरणानि
अधिकारःस्वसिद्ध्यर्थ अन्वयव्यतिरेकाभ्यां
अधिक्रियन्ते येनैते अन्वयव्यतिरेकौतु
अधीतवेदवेदार्थो अपविद्धद्वयोऽप्येवं
अनन्यायत्तसंसिद्धेः अपसर्प्यस्य सर्पादेः.
अनभीष्टफलानांच अपिकाम्यंकृतंसर्वं
अनर्थकोविधिस्तस्मात् अपिदृष्टार्थतैकात्म्ये
अनात्मनीवनेच्छेयं अपिभेदेनयाबुद्धिः
अनात्मनिप्रमेयेर्थे अपिशास्त्रात्प्रपन्नेऽस्मिन्
अनादिकालमज्ञानं अपिसर्वप्रमाणानि
अनादिवृद्धव्यवहृत् अपुमर्थेनियोगेच
अनादृत्य यथोक्तार्थं अपूर्वदेवतास्वर्ग
अनारभ्योक्तितश्चापि अप्यज्ञातफलंसाक्षात्
अनावृत्तिश्चकर्मभ्यो अप्यज्ञानादिनिःशेष
अनित्यत्वस्य धर्मस्य अप्यनर्थाय कर्मस्यात्
अनुन्मृदितकामो हि अप्युपादीयमानंच
अनुपादीयमानश्च अप्रवृत्तप्रवृत्तेश्च
अनुबन्धाभिसंबन्धात् अप्रामाण्यप्रसक्तिश्च
अनेकजन्मोपात्तस्य अब्रह्मानात्मते यद्वत्
अन्तरङ्गं हि विज्ञानं अभावयोगंभावश्चेत्
अन्तरेणापिवचनं अभितोऽनुभवाक्रान्ता
अन्य आहुःपदार्थत्वात् अभिधीयत इत्यादि
अन्यच्छ्रेयोऽन्यदुतैव अभिन्नस्यात्मनोमोहात्
अन्यतो भवने मानं अभिप्रायवतो भावात्
अन्यत्रेव न चाप्यत्र अभिप्रेताऽपि न तदा
अन्यधर्मेत्वभिन्नं स्यात् अभिभूतस्वरूपाणां
अन्यापेक्षं पृथक्त्वं चेत् अभिमानश्च यत्रायं
अन्याभावस्यभावत्वे अभिव्यक्तोऽथसिद्धोऽयं
अन्यार्थानुपपत्तेश्च अभेदेनैववर्तेत
अन्येतु मन्वते केचित् अभ्युपेताव्यभिव्यक्तिः
अन्येत्वाद्दुर्नशक्नोति अमात्वाशङ्कासद्भावा
अन्येनान्यस्य संबन्धः अमानकंकथंचस्यात्
अन्योन्याश्रयताचस्यात् अमीमांसकमित्युच्चैः
अन्योऽप्यनुभवोपायो अयथावस्तुसर्पादि
अन्वयव्यतिरेकाभ्यां अरण्याध्ययनाच्चैत
श्लोकाद्यचरणानि श्लोकाद्यचरणानि
अर्थवादोक्तितो याऽपि आत्मनस्तत्त्वमेतच्च
अर्थाक्षेपोऽपि योग्यस्य आत्मनोऽहंधियः सिद्धिः
अर्थादपि न तात्पर्यं आत्मनः कर्त्रवस्थाऽपि
अलौकिकार्थवादित्वा आत्मनः कर्मशेषत्वात्
अवबुद्धेतुशब्दार्थे आत्मप्रत्ययमागम्य
अविज्ञातःप्रमाणानां आत्मलाभेनशास्त्रंच
अविद्याघस्मरज्ञान आत्माज्ञाननिमित्तस्य
अविद्यातिमिरोच्छित्तौ आत्मानुभवपूर्वत्वात्
अविद्याया अविद्यात्व आत्मानुभवमाश्रित्य
अविद्यावानविद्यांतां आत्माऽपिसदिदं ब्रह्म
अविद्याव्यवधानस्य आत्माब्रह्मेतिपारोक्ष्य
अविरोधः क्रमेणस्यात् आत्माब्रह्मेतिविज्ञानं
अविवक्षितनुत्त्यर्थ आत्यन्तिकसुखानर्थ
अविवक्षितमप्येवं आत्यन्तिकसुखेच्छायां
अविशिष्टश्चवाक्यार्थः आधाराधेययोगेषु
अव्युत्पन्नेऽपि संबन्धे आनन्दैकस्वभावत्वात्
अशेषानर्थविच्छेदं आनर्थक्यभयादेव
अश्रुतामनभिप्रेतां आप्ताशेषपुमर्थत्वात्
असंकुचितचित्पद्मः आभासते मृषैवातो
असह्यदुःखफलतः आम्नायस्य क्रियार्थत्वात्
असारफलसंप्राप्तिः आम्रेनिमित इत्यादि
असिद्धार्थस्य वा सिद्धिः आरभ्येकारकत्वेन
असिर्द्धशास्त्रयुक्तिभ्यां आरादेवोपकुर्वन्ति
असंवेद्यंसुखंनापि आरुह्याप्यथवादूरं
असंसृष्टात्मबोधित्वात् आवृत्तिश्चप्रसंख्यानं
अस्मत्पक्षेहिकर्तव्य आशङ्क्येततदैवैतत्
अस्मत्प्रत्ययसंभिन्नंं आस्तांवेदान्तमानत्वं
अहंधीरात्मनः कार्यं आह मानान्तरेणासौ
आक्षिप्यते वा संबन्धः इतश्चाभ्युपगन्तव्यं
आक्षेप्तृत्वं नशब्दोत्थं इतिकर्तव्यतादानं
आगन्त्वनात्मरूपंतत् इतिभाल्लविशाखायां
आज्ञापितार्थनिष्पत्तौ इतोऽन्यथाकल्प्यमाने
आज्ञार्थमात्रसिद्ध्यर्थं इच्छादीनां स्वहेतुत्वे
श्लोकाद्यचरणानि श्लोकाद्यचरणानि
इच्छाद्वेषादिरप्येवं उपोपसर्गः सामीप्ये
इच्छाम्येवार्थवादत्वं
इज्येते स्वर्गलोकाय एकदेशो विकारोवा
इत्यादिनाऽपि विज्ञानं एकरूपस्य मोक्षस्य
इत्यादिनामव्युत्पत्ति एकरूपंच विज्ञान
इत्यादिवर्त्मनाशास्त्रं एकवाक्यत्वतो यद्वा
इत्यादिश्रुतिवाक्यानि एकवाक्यावशीभावात्
इत्युक्तप्रतिपत्त्यर्थ एकस्यामपिसत्तायां
इत्युक्तमभिसंधाय एकार्थोपनिपावातत्वात्
इत्युक्ते परिहाराय एको देवः सर्वभूतेषु गूढः
इत्येवमभिसंबन्धः एकं चेद्भिन्नतानास्ति
इत्येवमादिभाष्यार्थः एतमेवेति च तथा
इष्टपूर्वादिहेतूना एवमत्रैकवाक्यत्वं
इहत्वैकात्म्यधीयोगः एवमैकात्म्यतात्पर्ये
इहत्वैकात्म्यवाक्येषु एवंकार्यमुखेनैव
एवंकेचिद्व्यवस्थाप्य
उक्तमेवतु संशीता एवंच लोकतः सिद्धो
उक्ताधिकारविषय एवं चसति वेदान्त-
उक्तोऽत्र परिहारःप्रा- एवंचसति वेदान्ता
उक्तं यदपिवेदेऽस्मिन् एवंचाज्ञातपारार्थ्ये
उच्यते लोकतः सिद्धं एवं तर्हि नकर्माङ्गं
उच्यते विधिशब्दोहि एवंते कर्मकाण्डेऽपि
उत्थितस्य पुनर्भावात् एवंनिषिद्धवाक्येषु
उत्पत्तिराप्तिः संस्कारो एवंपदात्परिज्ञाते
उत्पत्त्याद्यर्थनिष्ठानां एवंभूतोऽप्ययं प्रत्यक्
उत्पाद्यापि मितिशास्त्रं एवं रागादिहेतुत्थ-
उद्विजेताथवाऽज्ञानात् एवंविधिमिहेच्छन्ति
उपग्वादिर्हिपित्रादिः एवंसतिविधिः कस्मात्
उपचारार्थतः शास्त्रं
उपनीयेममात्मानं ऐकात्म्यज्ञानतश्चेत्स्यात्
उपासनं च यत्किंचित् ऐकात्म्यप्रतिपत्तेःप्राक्
उपासीतस्वमात्मान- ऐकात्म्यवस्तुनिष्ठेतु
उपास्तेरपिकर्मत्वात् ऐकात्म्यवस्तुयाथात्म्य
उपेयबोधनं मुक्त्वा ऐकात्म्यवस्तुयाथात्म्य
ऐकात्म्यविषयान्नान्यो

[TABLE]

[TABLE]

श्लोकाद्यचरणानि श्लोकाद्यचरणानि
तज्ज्ञानं यस्य संजातं तद्वशान्नतु शब्दार्थः
तत उक्तेन मार्गेण तद्वासनानिरोधेऽतः
ततश्च कार्यनिष्ठत्वं तद्विरुद्धफलेबाह्य
ततश्च प्रतिभामात्रं तद्विशेषेऽङ्गभूयस्त्वात्
ततश्च प्रातिलोम्येन तद्विशेषैकनिष्ठत्वात्
ततश्च स्वर्गकामोयः तन्निषेधात्तु यासिद्धिः
ततश्चाऽऽरोग्यकामस्य तन्मूलज्ञानघातित्वात्
ततश्चैवं समूहस्य तमेतमित्यतश्चोच्चैः
ततोऽपि बाह्योदेहश्च तमेतमिति वाक्यात्तु
ततः शब्दस्य सामर्थ्यं तमोमात्रान्तरायत्वात्
ततः शेषेणवचनात् तयोरव्यतिरेकत्वात्
तत्रात्मा किंस्वरूपेप्राक् तस्मात्कर्तव्यतावेशात्
तत्रापिनैवशब्दस्य तस्मात्कर्मफलं नाना
तत्राऽऽम्नायाभिधानस्य तस्मात्सर्वपदार्थानां
तत्रेहतावन्नोपाये तस्मात्सिद्धोऽधिकारोऽत्र
तत्साधनेन चावश्यं तस्मात्संसारसंबन्ध
तत्त्वमस्यादितस्तस्मात् तस्मादकारकः कामी
तत्त्वमस्यादिवाक्यस्य तस्मादितरतुल्यत्वात्
तत्त्वमस्यादिवाक्योत्थ तस्मान्नसिद्ध इत्येव
तथाच वस्तुयाथात्म्य तस्यापिशब्दपूर्वत्वात्
तथा तयोरमानत्वे तस्याप्यनुभवात्सिद्धिः
तथा परनिमित्तत्वे तस्यास्य कर्मकाण्डेन
तथाऽविद्योत्थकर्त्रादि तिर्यञ्चोप्यत एवेह
तथा संशयमिध्यात्व तेन निःशेषवेदोक्त
तथाऽहमेव जानामि तेन निःसारतां बुद्ध्वा
तथा ह्यकारकः कामी तेनागमस्यतत्रस्यात्
तथैव शक्त्यतन्त्रत्वे तेनानुभवसिद्धानां
तथैव शास्त्रतद्युक्ती तैलवर्त्यग्नयोयस्मात्
तदेतत्प्रेय इत्यादि त्यक्ताशेषक्रियस्यैव
तदेतरत्तदर्थमि त्यक्त्वा कर्माण्यतोऽसङ्गाः
तद्ग्राहीणिचमानानि त्याग एव हि सर्वेषां
तद्भावभावतोलिङ्गात् त्वत्पक्षे बहुकल्प्यं स्यात्
तद्वर्जनस्य संसिद्धेः त्वदुक्तं नैतदेवं स्यात्

[TABLE]

श्लोकाद्यचरणानि श्लोकाद्यचरणानि
न तावत्संभवेत्स्वर्गो नव्यापारान्तरं यस्मात्
न तु यादृच्छिकीसिद्धिः न शौक्ल्ये शुक्लतापत्तिः
न तु वेदान्तवचसां न संभूययतःपादा
न तूपनिषदां न्याय्यं न स्वरूपं लिङादीनां
न त्वात्मनो निरंशत्वात् न हि तस्यानपेक्षत्वं
ननुकर्तृत्वभोक्तृत्व नहिभावातिरेकेण
ननु कर्मणि कृत्योऽयं नहिस्वभावो भावानां
ननुकालोपबन्धोऽत्र नह्यदृश्यनिषेधःस्यात्
ननु चात्मावबोधस्य नह्यात्मज्ञानविरहात्
ननु दानादिसंबद्ध न ह्युत्सर्गेणसर्वेषां
ननु दुर्वारसंसार नाकामितत्वाद्ग्रामादि
ननु दोषः समानोऽयं नाऽऽकाशस्य विशेषोऽस्ति
ननु निर्धूतशोकादि नाकुर्वत्कारणंदृष्टं
ननु प्रमाणविरहात् नाक्षादिपञ्चकं तस्य
ननु भेदाश्रितैर्वाक्यैः नाज्ञासिषमहंपूर्व
ननु सिद्धेयथोक्तार्थे नातोऽवतारो मानानां
ननुश्रुतौ पुरोक्तानि नातोवस्तुनिसंभेदो
ननूक्तं कर्मशेषत्व नात्मन्येवात्मशब्दस्य
ननुत्पत्तिविधिर्यद्वत् नानन्तरफलाभावे
नन्वप्रयुक्तमप्येतत् नानन्तरफलोयागो
नन्वभ्युदयवत्साध्या नानाविधपुमर्थाप्तिः
नन्वभ्युदयवन्मुक्तिं नानिष्पन्नस्वभावोऽपि
नन्वेवमपिमानत्व नानेकस्यैकतान्याय्या
नन्वेवमपिसिद्धःस्यात् नान्वयव्यतिरेकाभ्यां
न पदार्थो न वाक्यार्थः नापि चाऽऽत्मातिरेकेण
न प्रत्येमियतःसाक्षात् नापिचाव्यभिचारित्व
न प्रमाता प्रमाणं वा नापितल्लक्षितावृत्तिः
न प्रवृत्तिनिवृत्तिभ्यां नापि निःशेषवेदार्थ
नयुक्तं कामनामुक्तौ नापि वाक्येन संबन्धो
योगोऽभावयोर्दृष्टो नापिसांख्यप्रमासिद्ध
नवसंख्याहुतज्ञानो नापेक्षापूरणाशक्तेः
नवा अरे पत्युरिति नाभावयोर्मिथोयोगो
नवायोःक्षिप्रकारित्वात् नाभ्युदयस्य मुक्तेश्च
न विधिर्दर्शनेऽपिस्यात् नाम्नोरेवं च संबन्ध
श्लोकाद्यचरणानि श्लोकाद्यचरणानि
नालं विमुक्तये काम्यं निःशेषवाङ्मनःकाय
नाविद्यामन्तरेणैषां निःशेषसुखसंप्राप्तेः
नाविद्याऽस्येत्यविद्यायाः निःशेषाह्लादसंप्राप्तिः
नाविनश्यन्यतोवह्निः नीलादिवदभावस्य
नाविरतो दुश्चरितात् नीलोत्पलेतुनामार्था
नित्यनैमित्तिकानीह नृविवक्षाव्यवायेन
नित्य प्राप्तं च विज्ञानं नेतिनेत्यादिवाक्येभ्यो
नित्यमुक्तत्वविज्ञानं नेहान्यत्राऽऽत्मनोब्रह्म
नित्यस्याकरणेदोषः नैतत्साधुप्रमाणानां
नित्यादिकरणान्नापि नैतत्साध्वभ्यधाय्युच्चैः
नित्यादेः फलमिष्टंचेत् नैतदेवमविज्ञात
नित्येषुशुद्धेः प्राधान्यात् नैतदेवं यतोऽशेष
निदाघेशीतवद्यस्मात् नैतदेवंयतोऽशेषा
नियतोपायसाध्यत्वात् नैतदेवं सुखेप्साया
नियोगपक्षमाश्रित्य नैतावताऽपराधेन
नियोगवर्त्मनाचेयं नैवकार्यैकनिष्ठानि
नियोगं शब्दतो बुद्ध्वा नैवमुत्सर्गतोयस्मात्
नियोगस्यापिकार्यत्वं नैवाविद्याकृतैवासौ
नियोगेलौकिकेचापि नैवंकर्त्रादिदेहान्तान्
नियोगोऽथप्रमारूपो नैवं क्रियाभ्य एवास्या
नियोगोनप्रतीयेत नैवं तद्धेतुतद्रूप
नियोगोऽपिनियोज्यस्य नैवं न कामसंप्राप्त्या
निरन्तरायतोऽशेष नैवं नियोगनिष्ठत्वात्
निरंशस्यनचाप्यंश नैवं भेदेन संसिद्धे
निवर्तेतापि कामेभ्यः नैवं मान्तरतः सिद्धेः
निवृत्तावेवनिःशेष नैवं शब्दार्थयोरैक्यं
निषिद्धकाम्यकर्मादि नैवं सत्यनपेक्षत्वं
निषिद्धकाम्ययोस्त्यागात् नैषदोषोनरज्ञान
निष्पादितनियोगस्य नौष्ण्यात्मको मितोवह्निः
निहत्यानर्थमूलंस्वा न्यायेन वक्ष्यमाणेन
निःसामान्यविशेषेषु न्याय्यो नियोगस्तत्रैव
निःशेषकरणग्राम
निःशेषकर्मसंन्यासो पटसंवेदनेऽप्येवं
निःशेषमातृतद्वृत्ति पदार्थमात्रसंसर्गे
श्लोकाद्यचरणानि श्लोकाद्यचरणानि
पदार्थसंगतेःकस्मात् प्रत्यक्षश्रुतिविध्यन्त
परआहाऽऽत्मनःस्वास्थ्यं प्रत्यक्षादिनिवृत्तिश्चेत्
पराभिप्रायानियमा प्रत्यक्षादिविरोधश्च
परायत्तात्मलाभत्वं प्रत्यक्षादिविरोधः स्यात्
परार्थतैव सर्वत्र प्रत्यक्षाद्यभिधानेन
परार्थसंहतानात्म प्रत्यक्षेणघटेबुद्धे
परिच्छेदफलत्वं हि प्रत्यक्षोपनिषद्वाक्य
परिहार्यं तथाऽनिष्टं प्रत्यक्षं चयथाऽऽसन्नं
परीक्ष्यलोकान्कर्मचितान्ब्राह्मणो प्रत्यग्बोधातिरेकेण
परोक्षमपिसद्वस्तु प्रत्यग्याथात्म्यधीरेव
परोक्षवृत्त्याशब्दोहि प्रत्यग्विविदिषासिद्ध्यै
पश्येदितिप्रयत्नश्चेत् प्रत्यर्थीनिचशब्देऽस्मिन
पश्चादावेवमेव स्यात् प्रत्येकं नीलपीतादि
पुत्राद्यप्राप्तिरूपं च प्रथमश्रवणे यत्र
पुमर्थमभिसंधाय प्रमाणसंप्लवोऽप्युक्तो
पुमर्थं प्रतिपाद्यापि प्रमाणायत्तमे तावत्
पुमानिष्टस्य संप्राप्तिं प्रमातरिचमेये स्यात्
पुमान्सुप्तोत्थितोऽप्येवं प्रमातात्मानमानांशो
पुरुषार्थाभिसंबन्धात् प्रमातृमानतन्मेये
पुरुषार्थोपदेष्टृत्वात् प्रमात्रादित्रयंयस्मात्
पुंबुद्धिविषयोह्यर्थो प्रमितेश्चप्रमेयस्य
पुंव्यापारप्रसिद्ध्याऽथ प्रमेयविषयंमानं
पुंस्प्रवृत्तेः फलकार्यं प्रमेयादित्रयंयस्मात्
पूर्णंनिःश्रेयसं तस्मात् प्रपञ्चनाशनेनाथ
पूर्वेणनिश्चितेचेत्स्यात् प्रपञ्चविलयेनैव
पूर्वं वस्त्वितिविज्ञानं प्रपञ्चाभिनिवेशित्व
पौनरुक्त्यभयाच्चात्र प्रयोगविधिशेषत्वात्
प्रतिपत्तिविधिस्तावत् प्रयोजनंतत्सुकरं
प्रतिपन्नात्मयाथात्म्य प्रवर्तकत्वं मन्त्रस्य
प्रतीतेर्माफलत्वाच्च प्रवर्तनांवदञ्शब्दः
प्रत्यक्त्वमद्वितीयत्वं प्रवृत्तिलक्षणोयोगो
प्रत्यक्षगम्यकार्येण प्रवृत्तिहेतुप्रध्वस्तेः
प्रत्यक्षत्वं पृथक्त्वस्य प्रवृत्तिहेतुमात्रं च
प्रत्यक्षवेदवचन प्रवृत्तिहेतून्निःशेषान्
श्लोकाद्यचरणानि श्लोकाद्यचरणानि
प्रवृत्तिंवा निवृत्तिंवा ब्रह्मवा इदमित्यादि
प्रवृत्तेः प्रतिकूलत्वात् ब्रह्मात्मतत्त्वव्युत्पत्ति
प्रवृत्तं विषयेमान ब्रह्माविद्यावदिष्टंचेत्
प्रसंख्यानेचशास्त्रार्थे ब्राह्मणत्वादिविज्ञान
प्रसाध्य वा प्रमाणत्वं
प्राक्प्रयोक्त्रभिसंसिद्धौ भल्लातकाङ्कवद्वस्त्रे
प्राग्बाधकागमात्सिद्धिः भवद्भिरपिचैवैतत्
प्राथम्यंचात्रदुर्लक्ष्यं भविष्यद्देहसंबन्धी
प्रीतेः श्रुतः प्रकर्षोऽपि भागान्तरप्रवेशेन
प्रेरणाऽपीहनैवस्यात् भावनातोनचान्यत्र
प्रैषादिष्वपिकृत्यानां भावनावर्त्मनैकात्म्ये
प्रैषादिभ्यो यथैवेयं भावस्याभाव इत्यत्र
प्लवाह्येते परीक्ष्येति भावाभावपृथक्ताऽपि
प्लवाह्येते परीक्ष्येति भावाभावाख्यपदयोः
भावार्थविषयं कार्यं
फलवत्त्वेहिनित्यानां भावार्थाः कर्मशब्दाये
फलसाधनशक्तिश्चेत् भाव्युच्छेत्तुमशक्यस्ते
फलोक्तेरर्थवादत्वं भिद्यते हृदयग्रन्थिः
फलोक्तेः पर्णमय्यांतु भिन्नप्रकरणं ज्ञानं
फलं नित्यस्यनापीह भिन्नाभिन्नं नवोवस्तु
भिन्नार्थयोर्न संबन्धो
बहुशोऽसङ्गवचसा भेदस्यचापुमर्थत्वात्
बाष्पवन्नापिमिथ्यात्वा भेदाभेदात्मकत्वाच्चेत्
बाह्येष्वर्थेष्वनामत्वात् भेदाभेदाश्रयत्वेन
बुद्धितद्वृत्तिभावोऽयं भेदेवा यदिवाऽभेदे
बुध्यते योऽनुमानेन
बुभुत्सोच्छेदिनैवास्य मतं कार्यानभिव्यक्तिः
बोधकं यदबुद्धस्य मतं पुमर्थसिद्ध्यर्थं
बोधयित्वाऽपि चैकात्म्यं मतं विषयसंसिद्ध्या
बोधादेवप्रसिध्यन्ति मनसोवानिरोधेऽसौ
बोधेऽस्मिञ्शब्दतो जाते मन्त्रार्थवादनाम्नांच
बोधावोधौ यतोदृष्टौ मन्त्रोक्तेरिवलोडादेः
ब्रह्मणोऽनात्मतारूप मम शास्त्रप्रमाणत्वात्
ब्रह्मण्यविदिते बोधात् महत्तायद्वदाकाशे
श्लोकाद्यचरणानि श्लोकाद्यचरणानि
महावाक्यप्रयोगेऽपि मैवं मानान्तरावेशात्
मातोनधिगतत्वस्य
मात्रादित्रयहानेऽपि यच्च न ज्ञायते वेदे
मात्रादिबोधकं मानं यच्चाप्युक्तं श्रुतिस्मृत्योः
मात्रादिसव्यपेक्षंसत् यच्चाप्यैकात्म्यविज्ञानं
मानव्याप्तिक्षमं चेत्स्यात् यच्चाभाणिविनाकार्यं
मानस्वभावमाश्रित्य यच्चास्यासति कर्तव्ये
मानादनुभवः सिद्धः यच्चोक्तं न पुमर्थोऽस्ति
मानान्तरप्रसिद्धार्थ यजेतेति विधिज्ञानं
मानान्तरानधिगतं यजतेयोऽश्वमेधेन
मानान्तरानपेक्षं चेत् यत आत्मतयैवैतैः
मानान्तरेणसंप्राप्तां यत एवमतो नात्र
मानाभावस्य मानत्वं यत एवमतः प्रत्यक्
मानेन विषयासिद्धौ यतोऽनुभवतो विद्या
मानं हिव्यञ्जकं लोके यतो मानानिसिध्यन्ति
मान्तरानुप्रवेशित्वं यतो वस्त्वनुरोध्येतत्
मान्तरेणापि संबद्ध यतो वाचो निवर्तन्ते
माभैषीरिति चोक्तेऽपि यतोऽसिद्धानि सिध्यन्ति
मायोगेऽपिनमानत्व यत्त्वचोदि त्वयाऽपीय
मिथोविरोधसिद्ध्यर्थं यत्त्वसाधारणं तस्य
मीमांसान्यायवत्त्वाभ्यां यत्नतो न्यायतः किंचित्
मुक्तेश्चविभ्यतो देवाः यत्रापि च प्रतीयते
मुक्त्यर्थीन हि काम्यादि यत्रापि चान्धकारादि
मुख्यकर्तृत्वपक्षेऽपि यथा कटं करोतीति
मुण्डोऽपरिग्रहोऽसङ्गो यथा च कार्ये तात्पर्यं
मुमुक्षवः प्रवर्तेरन् यथा चास्य विरुद्धत्वं
मूर्तामूर्तत्वहीनस्य यथावस्त्वात्मविज्ञानं
मृदापत्तिर्घटस्येव यथैवनगराध्वस्त
मृदद्व्योमघटीकुर्यात् यथैवमात्मनोऽज्ञस्य
मेयाभावःप्रमाणानां यथैवविश्वजिद्याग
मैवमप्रतिपन्नत्वात् यथोक्तपुरुषार्थस्य
मैवं न वक्त्रभिप्रायात् यथोक्तफलसिद्ध्यर्थ
मैवं प्रक्रमसंहार यथोक्तविद्याबोधित्वा
मैवं भिन्नैकवाक्यत्वे यदात्वविद्ययाध्वस्तं
श्लोकाद्यचरणानि श्लोकाद्यचरणानि
यदाऽनुभवकामस्य योगोऽयं वस्तुनोर्दृष्टः
यदाऽपिमातरिफलं
यदाऽपि मानयोग्यत्वं रचना च पदार्थानां
यदाऽपिवस्तुवृत्तेन रज्जुज्ञानाद्धिसर्पादि
यदाऽवगम्यते नान्यत् रागाद्याक्षिप्तदृष्टार्थ
यदासर्वेप्रमुच्यन्ते रागाद्युत्थप्रवृत्तीनां
यदितद्वस्तुयाथात्म्यं रागाद्युत्थप्रवृत्तीनां
यद्धेतुकं प्रमाणत्वं राजादिषु प्रसिद्धश्च
यद्भागस्याऽऽगमाद्योऽर्थः रामोराजाबभूवेति
यद्यनिर्ज्ञातसंबन्धो
यद्यप्यैकात्म्यधीः साक्षात् लब्धेहिभूतलेऽलब्धो
यद्यर्थं कारकाधीनं लभ्यते लौकिकोऽपीह
यद्वा तत्रैव तात्पर्यं लयनिष्ठे प्रमाणेनो
यद्वाऽनवगतोऽतोऽन्यः लिङर्थे युज्यमानस्य
यद्वाऽनुमानमेवात्र लिङादयोनकोपादेः
यद्वा विविदिषार्थत्वं लिङादिश्रवणात्पुंसः
यन्निमित्ताप्रवृत्तिः स्यात् लिङादिःप्रेरणावाची
यमप्रमीयमाणानि लोकतः सिद्धमादाय
यस्तुजन्मान्तराभ्यासात् लोकवन्ननुवेदेऽपि
यस्मादसतिकार्येऽसौ लोकेदर्शनसंबद्धं
यस्यानुभवसिद्ध्यैव लोके दृष्टं विनाऽविद्यां
यस्याप्रसिद्धिर्नाज्ञानात् लोकेऽपि चानभिप्रेतात्
यागादिविषयासिद्ध्या लोकेऽपि व्याधिसंताप
यागादिः सचनोकार्यं लोडादेरेवश्रवणात्
यागाद्यनुष्ठितेरस्य लौकिको वैदिकः सर्वो
यागः कार्याभिसंबन्धो
याथात्म्यावगमेऽशक्त वक्तव्यंचकथंत्वेते
यावञ्च सम्यग्विज्ञान वचसामक्रियार्थानां
यावत्किंचिज्जगत्यस्मिन् वर्णादिग्रहणोपायो
यां काण्वोपनिषच्छलेन वस्तुतत्त्वानपेक्षत्वात्
यियासतिसुधीः कश्चित् वस्तुनोऽन्यत्रमानानां
युक्त्यादिमान्तरं नो चेत् वस्तुनोवगतिर्नापि
येषामनधिकारोऽत्र वस्तुमात्रावसायित्वात्
येषामपिहिसामान्य वस्तुमान्तरयोग्यंचेत्
श्लोकाद्यचरणानि श्लोकाद्यचरणानि
वस्तुस्वरूपसंस्पर्शि विनाऽपि प्रक्रियांतेन
वस्तूनीह प्रमीयन्ते विपर्ययेणयेऽप्याहुः
वस्त्वन्तरमभावश्चेत् विभिन्नाकार्यकर्त्रीणां
वस्त्वात्मना विरोधश्चेत् विमुच्यमान इत्युक्तेः
वाक्यस्यचप्रमाणत्वं वियद्वस्तुस्वभावानु
वाक्यार्थायैववाक्यंहि विरक्तस्यतुजिज्ञासो
वाक्येनैवाभिसंबन्धः विरुद्धं मानभावेऽपि
वामदेवस्य मैत्रेय्या विरोधेगुणवादः स्यात्
वाय्वग्निवद्विकारोन विशेषणं नियोज्यस्य
वारिपथ्यदनोपेतं विशेषोऽस्तिप्रवृत्तेश्च
वासनानामभावेऽपि विश्वंसदेव यस्येष्टं
वासनामात्रहेतुत्वात् विषयस्यापिकार्यत्वं
विकारेऽवयवे चैव विषयाभ्यासजास्वास्थ्य
विकारोऽत्यन्तनिर्भिन्नो विसंवादोऽपिनाशङ्क्यो
विचार्यमाणे यत्नेन वेदस्यसिद्धे प्रामाण्ये
विज्ञानकर्मणोस्त्रेधा वेदान्तवचसांस्वार्थे
विज्ञानमानन्दमित वेदानुवचनादीना
विज्ञानात्मविकारस्य वेदानुवचनादीनां
विद्यात्ममोहतत्कार्य वेदान्तानामतोवाच्यं
विधयस्तु कथं रागं वेदान्तानाममानत्वं
विधावसति वाक्यस्य वेदान्तार्थापवादाय
विधिनात्वेकवाक्यत्वात् वेदान्तोक्तेः प्रमाणत्वे
विधिनिन्दासमावेशो वेदोऽपि शुद्धमात्मानं
विधिनिष्ठेऽपिशास्त्रेस्यात् वेदोहिसर्वएवाय
विधिनैवैकवाक्यत्वं वेदे तु सकलाक्षादि
विधिमार्गेऽधिकारस्य वेदेऽनुष्ठानतात्पर्यात्
विधिशेषोऽपियद्यथ वैदिकत्वेऽपियुक्तीनां
विधिस्वातन्त्र्यपक्षेहि व्यञ्जकस्य समायोगो
विधिंविनाश्रुतैकात्म्यः व्यञ्जकं विरहय्यान्यत्
विधीनांचापिसर्वेषां व्यतीतानेकजन्मोत्थ
विधेर्विध्यन्तरेऽभीष्टे व्यपास्तानर्थसंदर्भ
विध्यर्थशेषभावश्च व्याकृतंनामरूपाभ्यां
विध्यर्थाङ्गीकृतौत्वेतत् व्युत्पत्त्यानचसंबन्धः
विध्यर्थाधीनसंसर्गाः व्रीहिशब्दस्यहिव्रीहि
श्लोकाद्यचरणानि श्लोकाद्यचरणानि
व्रीह्यादिविषयं यद्वत्
सत्तत्त्वापेक्षयाभेदो
शक्तितत्कार्ययोर्यस्मात् सत्तातोऽपिनभेदः स्यात्
शक्तिरूपेण संबन्धो सत्तावगुण्ठिताश्चैते
शक्तेरनभिधेयत्वात् सत्यन्तरङ्गे विज्ञाने
शतानिदशचैकंच सत्यानृते इति तथा
शब्दसामर्थ्यनियमो सदात्मतैवं सर्वस्य
शब्दात्प्रवर्तनाबुद्धौ सदेवेत्यादिवाक्येभ्यः
शब्दादात्मनिसंसिद्धे सदेवेदमितिस्पष्टं
शब्दाद्यगोचरोऽर्थोऽतो सद्रूपत्वापरित्यागात्
शब्दाद्यदितदेवेद समवायाच्चसंबन्धे
शब्दार्थत्वे हि सर्वेषां सम्यग्धीमृदिताशेष
शब्दार्थोपाधयो ह्येते सर्वकर्मनिरासेऽतो
शब्देन ज्ञाप्यतेयद्वत् सर्वकार्माशनेनाऽथ
शमाद्यङ्गान्वितः सर्व सर्वमात्मेतिवाक्यस्य
शरीरारम्भकस्यैवं सर्ववादाविरोधीच
शान्तोदान्त इति तथा सर्ववेदान्तविषय
शास्त्रमावर्त्यमानं हि सर्वानर्थविनिर्मुक्ते
शास्त्राच्छ्रवणमात्रेण सर्वानर्थाभिसंबन्धे
शास्त्रात्कथंचतत्सिद्धिः सर्वेषामपिचनृणां
शास्त्रेणानभिधानेतु सर्वेषांदुष्टताचेत्स्यात्
शास्त्रेऽस्मिन्वस्तुनिष्ठेऽपि सर्वोऽपिवेद इत्यादि
शुक्लांगामानयेत्युक्ते सर्वोऽप्यनुभवात्सिद्धां
श्रवणादेर्नचप्राप्तिः सहकर्त्री भवेच्छक्तिः
श्रुतेऽपि स्वर्गतात्पर्ये साक्षादसतिसंबन्धे
श्रुतेरैकात्म्यसंवित्तौ साक्षादात्मावबोधेन
श्रुतेर्ज्ञातात्मवृत्तान्तो साक्षादेवं च संबन्धः
श्रुतेर्विलयतात्पर्ये साक्षाद्धस्तिनिदृष्टेऽपि
श्रुतौ स्मृतौ च विहितं साक्षिसाक्ष्याभि संबन्धः
श्रुत्याक्रयाभि संबन्धो साक्ष्यसंबन्धतः साक्षी
श्रुत्यादिमानप्रमित साधनादित्रयाद्बाह्यं
श्रुत्यादिमानप्रमित साधनं चाधिकारीच
श्रुत्यानैकात्म्यविज्ञानं साध्यमानं प्रसंख्यानं
श्रुत्यैव तस्यचोक्तत्वात् साध्यसाधनसंबन्ध
श्लोकाद्यचरणानि श्लोकाद्यचरणानि
सापराधत्वतोमुक्तिः संसर्गधर्मतानापि
सामान्येनौषधं यद्वत् संसर्गश्चेत्पदार्थानां
सिद्धत्वहेतुकोयोऽपि संसारकारणाविद्या
सिद्धसाध्यादिभेदेन संसारफलताकाम
सिद्धस्यव्यञ्जकं मानं संस्कारमात्रकारित्वं
सिद्धिर्विषयसिद्धौ चेत् स्थाणुं संभावयत्यज्ञो
सिद्धेऽनवगते यस्मात् स्वकार्योपक्षयादेव
सिद्धेऽसति विशिष्टेन स्वत एव प्रवृत्तत्वात्
सिद्धे सामान्यतो लिङ्गात् स्वतोऽनवस्थितो यत्र
सिद्धेऽसिद्धेऽथवैकात्म्ये स्वतोनुभवतः सिद्धेः
सिद्धंचेद्दर्शयेद्वेदः स्वतो मुक्तान्तरायस्य
सुखाद्युत्पत्तिहेतूनि स्वतःसिद्धस्य मोक्षस्य
सुषुप्तादेश्चसंसिद्धिः स्वधर्मंच पदं जह्यात्
सेवासांग्रहणीहावत् स्वपरोभयहेतुत्वे
सोऽपि ज्ञानेन संयुक्तो स्वप्नादियुक्तिभिश्चेत्तत्
सोऽरोदीत्यादिवाक्यानां स्वमहिम्नैव यः सिद्धः
संगतावविरोधी चेत् स्वमेयमात्रशूरत्वात्
संदिग्धनिश्चयाद्येवं स्वयंज्योतिःस्वभावत्वात्
संनिकृष्टार्थसंसृष्ट स्वयंप्रबोधितेऽप्यर्थे
संपदां चार्थवादत्वं स्वरूप आत्मनः स्थान
संबन्धकरणाशक्तेः स्वरूपपररूपाभ्यां
संबन्धावगमोनापि स्वरूपलाभःसिद्धश्चेत्
संबन्धिविरहेऽसिद्धौ स्वरूपेऽवस्थितिर्मुक्तिः
संबन्धं मन्यते योऽपि स्वरूपं यद्यसाध्यं तत्
संभाव्यतेऽनपेक्षत्वं स्वर्गशब्दाभिधश्चायं
संभाव्यमानसिद्धेर्हि स्वर्गादिकाम्यपियतो
संभाव्यं नानपेक्षत्वं स्वर्गादिकार्यमार्गेण
संभूयफलकारित्व स्वर्गादौ यदितात्पर्यं
संभूय यदि सर्वाणि स्वर्गं पुमर्थमुद्दिश्य
संवित्सैवेह मेयोर्थो स्वव्यापारतिरोधानं
संविदेका स्वतःसिद्धा स्वव्यापारमुखेनैव
संविद्रूपे प्रमेये च स्वसामर्थ्याद्यथाकार्यं
संशयस्तु भवत्येव स्वात्मसाध्यातिरेकेण
संसर्गकल्पनाशून्य स्वानन्दाभिमुखःस्वापे
श्लोकाद्यचरणानि श्लोकाद्यचरणानि
स्वातिबलादेव स्वामिकोपप्रसादादि
स्वाकःप्रपञ्चश्चेत् स्वामी सन्न हि भृत्येन
स्वाक्यप्यविद्येय स्वार्थमात्रावसायित्वे
स्वतनयस्यैव स्वाविद्याविभवप्रसूत

समाप्तमिदं सूचीपत्रकम्।

<MISSING_FIG href="../books_images/U-IMG-173071427813.png"/>

ॐ तत्सद्ब्रह्मणे नमः।

श्रीमत्सुरेश्वराचार्यविरचितं बृहदारण्यकोपनिषद्भाष्यवार्तिकम्।
<MISSING_FIG href="../books_images/U-IMG-173077696514.png"/>

आनन्दगिरिकृतशास्त्रप्रकाशिकाख्यटीकासंवलितम्।
<MISSING_FIG href="../books_images/U-IMG-173077700980.png"/>

स्वाज्ञानोद्भूतभूतप्रमुखबहुमुखद्वैतदेहद्वयोद्य-
न्मातृत्वादिप्रपञ्चप्रचयपरिचयप्राप्तसंसारयन्त्रम्॥
नेत्यभ्यासप्रसूतप्रबलमतिबलप्रास्तमोहप्रभाव-
प्रोत्थप्रत्यर्थिसार्थद्युतिकथमकथं धाम कामं प्रपद्ये॥१॥

कारुण्यामृतवारिपूरलहरीदूरीकृतस्वाश्रित-
स्वान्तध्वान्तनिरन्तरान्तररजोराशिर्यशःशेवधिः॥
भास्वद्भानुसहस्रभानुगहनोऽवज्ञाततिग्मद्युति-
र्देवः श्रीपुरुषोत्तमो विजयते नीलाद्रिचूडामणिः॥२॥

त्वङ्गत्तुङ्गभुजंगसङ्गगहनप्रत्युद्यदङ्गद्युति-
भ्रश्यद्विश्वदिगन्तरालबहुलप्रौढान्धकाराङ्कुरः॥
सोमः सोमकलाकलापकलितो लावण्यकारुण्यभू-
र्भूयान्नो निरवद्यबोधविधये देवो भवानीपतिः॥३॥

बन्धुकबन्धुरुचये रचये नमस्यां
हेरम्बनाम वहते महते गजाय॥
प्रत्यूहभङ्गविधये निधये गुणानां
शोभामतीव भजते सृजते जगन्ति॥४॥

मातर्नतोऽस्मि भवतीमथ वाऽर्थये त्वां
चेतः सरस्वति सुरेश्वरवार्तिके मे॥
वाचा सहैव सदनुग्रहसंप्रसन्न-
मेकाग्रमस्तु परिहाय पराञ्चमर्थम्॥५॥

श्रीमद्व्यासपयोनिधिर्निधिरसौ सत्सूक्तिपङ्क्तिस्फुर-
न्मुक्तानामनवद्यहृद्यविपुलप्रद्योति1विद्यामणिः॥
शान्तिः क्षान्तिधृती दयेतिसरितामेकान्तविश्रान्तिभू-
र्भूयान्नः सततं मुनीन्द्रमकरश्रेणीश्रयः श्रेयसे॥६॥

यद्भाष्याम्बुजजातजातमधुरप्रेयोमधुप्रार्थना-
सार्थव्यग्रधियःसमग्रमरुतः स्वर्गेऽपि निर्वेदिनः॥
यस्मिन्मुक्तिपथः पथीनमुनिभिः संप्रार्थितः संबभौ
तस्मै भाष्यकृते नमोऽस्तु भगवत्पादाभिधां बिभ्रते॥७॥

संसाराम्भोधिपारप्रकटनपटुतागाढमूढागमान्त-
व्याख्याव्याख्यातविद्वन्निवहमहिमसंव्याप्तसर्वावकाशः॥
शश्वद्विश्वात्ममोहप्रवहहुतवहः संदुहानः सुधानां
धारां गीर्भिः सुरेशः स जयति यमिनामग्रिमग्रामणीन्द्रः॥८॥

यत्पादाम्बुजचञ्चरीकधिषणा निर्वाणमार्गाधिगा
पङ्क्तिर्मुक्तनिसर्गदुर्गदुरिता वाचंयमानामियम्॥
यस्मिन्नित्यमिदं शमादि समभूद्बोधाङ्कुरो मे यतः
शुद्धानन्दमुनीश्वराय गुरवे तस्मै परस्मै नमः॥९॥

कारुण्याम्भोनिधिम्यो विधिशतवशगान्प्राणिनो मोचयद्भ्यो
विद्यापारंगतेभ्यो गतवितततमस्तोमवद्भ्योमहद्भ्यः॥
आ भूमेरा च सत्यात्प्रथितपृथुयशःश्रेणिनिश्रेणिभाग्म्य-
स्तेभ्यः सद्भ्यो गुरुभ्यस्त्रिविधमपि नमः संततं संविदध्मः॥१०॥

संप्रदायविदामुक्तीरनुसृत्य प्रणीयते॥
शास्त्रप्रकाशिका सेयं सुरेश्वरवचोनुगा॥११॥

स्वाविद्याविभवप्रसूतविपुलद्वैतप्रपञ्चाहित-
स्पष्टभ्रान्तितिरोहितात्ममतयो यं भागशो मन्वते॥
निर्भागं सकलाभिधानमननव्यापारदूरस्थितं
वन्दे नन्दितविश्वमव्ययमजं भक्त्या तमेकं विभुम्॥१॥

इह खलु निखिलाम्नायार्थपरिशोधनार्थं काण्वोपनिषद्भाष्यं व्याचिकीर्षुराचार्यश्चिकीर्षितपरिसमाप्त्यादिपरिपन्थिदुरितनिबर्हणसिद्धये वृद्धाचारप्रमाणकमिष्टदेवताप्रणतिलक्षणं मङ्गलाचरणं मुखतः समाचरन्नर्थाच्च व्याचिख्यासितभाष्यार्थं सुखप्रतिपत्त्यर्थं संक्षिपति।स्वाविद्येत्यादिना। तं विभुं वन्दे भक्त्येति संबन्धः। तच्छब्देन परस्य लोकवादिप्रसिद्धिरुक्ता। ननु परश्चेत्प्रसिद्धिविषयो न तर्हि शास्त्रप्रतिपाद्योऽनन्यलभ्यत्वाभावात्तत्र विशेष्यं व्यपदिशन्नुत्तरमाह। विभुमिति। सामान्येन प्रसिद्धोऽप्यनतिशयैश्वर्यशाली परो नानन्तसच्चिदानन्दात्मकविशेषाकारेण शास्त्रादृते सिध्यति तथा च धर्मवत्तस्य शास्त्रगम्यतोचितेति भावः। आराध्यानां हि परा काष्ठेश्वरोऽतस्तत्राभिवादनं युक्तमिति मत्वा वन्दनं प्रायुङ्क्तः। भक्तिश्रद्धानिबन्धनमभिवादनमभिमतफलवदित्यभिप्रेत्याऽऽह। भक्त्येति

मीमांसकास्तु भोक्तृभोग्यविभागमनुभवन्तोऽतिरेकिणं प्रेरयितारमपश्यन्तस्तस्य शास्त्रप्रतिपाद्यत्वाद्यसत्यां भित्तौ चित्रकर्मेतिवद्वर्णयन्ति तान्प्रत्याह। स्वाविद्येति। स्वशब्दः स्वीयविषयो मैत्रस्य स्वमितिवत्स च मीमांस्यात्मगतोऽविद्यास्व्योविभवस्तेनोपादानेन प्रसूता विपुलेन च भोक्तृभोग्यात्मकद्वैतप्रपञ्चेन प्रतीतेन निमित्तेनाऽऽहिताऽऽपादिता या स्पष्टा सुदृढा भ्रान्तिरीश्वरो नास्तीत्येवमात्मिका तया तिरोहिता प्रतिबद्धा परस्मिन्नस्तित्वधीर्येषां ते मीमांसका यमीश्वरं भोक्त्रादिविभागेनैव कल्पयन्ति तं वन्दे भक्त्येति योजना। अयं भावः। न तावदीश्वरो नास्ति तस्य श्रुत्या2द्यधिगतत्वादतस्तस्य शास्त्रीयता युक्तेति। केचित्तु तस्य परिणामित्वं क्षीरवदाचक्षते तान्प्रत्याह। निर्भागमिति। सावयवं हि क्षीरादि परिणमते न तु परो निरवयवत्वश्रुतेस्तथेति भावः। अन्ये तु सकर्तृकत्वानुमानादत्यतिष्ठदित्यादिश्रुतेश्च तटस्थमीश्वरमाहुस्तान्दूषयति। सकलेति। न हि वाचां मनसां चागोचरं परमनुमानागमाभ्यां तटस्थमातिष्ठामहे। अनुमानं हि तत्र संभावनाहेतुर्न स्वतन्त्रं मानं जन्मादिसूत्रविरोधात्। आगमोऽपि तमगोचरयन्नेवतस्यासङ्गत्वमुद्गिरति न तु साक्षादेव तत्राऽऽगमानुमाने क्रमेते वाङ्मनसातीतत्वश्रुतेः। तन्नेश्वरस्य ताटस्थ्यमित्यर्थः। ननु क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वर इति पतञ्जलिना भगवताऽभिधानात्तस्मिन्दुःखादिवन्न सुखमपीति कुतस्तस्य शास्त्रार्थता न हि3त्वन्मते परानन्दतया पुरुषार्थताभावे शास्त्रीयता तत्राऽऽह। नन्दितविश्वमिति। यो हि धनवतोऽन्यान्करोति स स्वयमनवधिकधन इति प्रसिद्धम्। तत्र परोऽपि विश्वमानन्दयन्ननतिशयानन्दः स्वयमिति गम्यते। एष ह्येवाऽऽनन्दयातीति च श्नुतेः। अतोऽस्य योगसूत्राद्दुःखादिवद्वैषयिकसुखाभावेऽपि शास्त्रार्थता युक्तेति भावः। अथ यथाऽन्यं धनिनं कुर्वतः स्वस्यापि तद्वत्त्वमेव न धनत्वं तथा परस्य सर्व सुखयतः सुखित्वमेव न सुखत्वं तथा च परानन्दयो रूपरूपिणोरिव गुणगुणित्वमत आह। एकमिति। एकमेवेति सर्वभेदासहत्वश्रुतेर्न परस्मिन्गुणगुणित्वम्। आनन्दो ब्रह्मेति व्यजानादित्यादावभेदश्रवणाच्च सुखस्वरूपस्यापि तत्तद्वृत्त्यवच्छिन्नत्वेन सुखहेतुतेति भावः। सौगतास्तु सर्वज्ञमीश्वरं स्वरसनिर्वाणमविरतोदयं शास्त्रप्रणयनादिव्यवहारनिर्वाहकमाहुस्तान्प्रत्याह।अव्ययमजमिति। न हि परस्य स्वतो जनिविनाशौ हेतुपादानस्याम्यत्रापि वैयर्थ्यापातात्सत्ताकाले तदभावात्तत्काले च स्वयमभावात्। स्वतः सिध्यतोश्च तयोः स्वप्रकाशवस्तुमात्रत्वापत्तेः। न च तौ परतः सिध्यतः परेणासंबन्धात्। आद्यन्तविकारव्यासेधेन तदन्तर्वर्तिसर्वविकारव्यासेधः। तथा च नित्यकूटस्थस्य परस्य यथावदप्रतिपन्नस्य युक्ता शास्त्रीयतेति भावः।अथवा तमिति प्रतीचः स्वतःसिद्धतया4सिद्धिरुक्ताऽन्यथा घटवदनात्मत्वापत्तेरत्रायं पुरुषः स्वयं ज्योतिरिति श्रुतेः। तस्याणुत्वमेकदेशिनो दिगम्बराश्च मध्यमपरिमाणत्वमाहुस्तदपनुदति। विभुमिति। अणुत्वे सर्वदेहव्यापिकार्यायोगा-

न्मध्यमपरिमाणत्वे घटवदनित्यत्वापत्तेरनन्तपरिमाणं प्रत्यञ्चंप्रतीमः स पर्यगादित्याद्या5 श्रुतिरित्याशयः। पूर्णे च प्रतीचि स्तोतव्यान्तराभावात्तस्यैवाभिवादनं योग्यमितिमत्वा वन्दतिः प्रयुज्यते न च तदभिवादनं भक्तिश्रद्धे विना फलवदिति भक्त्येत्युक्तम्। ननु प्रतीचो न पूर्णत्वमध्यात्मादिषु तद्भेदप्रतीतेस्तत्राऽऽह। स्वाविद्येति। स्वशब्देन प्रत्यगात्मोच्यते बलवत्यसति बाधके तस्य तस्मिन्मुख्यत्वात्तस्याविद्यैव विभवः। न हि तस्याविद्यातिरिक्तं6 सामर्थ्यम्। वक्ष्यति चाऽऽत्माऽविद्यैव नः शक्तिरिति। तेन प्रसूतो विपुलोऽध्यात्मादिभावेन विस्तीर्णो द्वैतप्रपञ्चस्तेन निमित्तेनाऽऽहिता स्पष्टा भ्रान्तिरात्मभेदावगाहिनी तया तिरोहिता प्रतीचि पूर्णा मतिर्येषां ते जीवाः सूत्रं हिरण्यगर्भो विराडित्यादिना भेदेन यं प्रत्यञ्चंचिन्तयन्ति तं वन्दे भक्त्येति संबन्धः। अयमाशयः। न तावत्प्रतीचो वास्तवो भेदो मानाभावात्प्रतीतेराविद्यत्वात्तथा च न तस्य पूर्णताहतिरिति। ननु यथाप्रतिभासं विभागो7 वास्तवो लौकिकपरीक्षक- सिद्धविभागबुद्धेरपहस्तयितुमशक्यत्वात्तत्राऽऽह। निर्भागमिति। न तावत्तत्र देशादिकृतोविभागो विभुत्वान्नित्यत्वादद्वयत्वाच्च यतश्चाऽऽत्मा व्यावर्तते8तस्य निःस्वरूपत्वमात्मस्वरूपस्य ततो व्यावृत्तेस्तस्मात्तस्मिन्भेदधीरविद्यैवेत्यर्थः। आत्मा निर्विभागश्चेत्तथैव सर्वेषां प्रथेतेत्याशङ्क्याऽऽह।सकलेति। यद्वाऽऽत्मा सर्वमानाविषयः स्वप्रकाशस्तस्मिन्भेदो न प्रामाणिको न खल्वमेये तद्भेदस्य9प्रमेयतेत्याह। सकलेति। अव्यवहार्यश्चेदात्मा न तर्हि शास्त्रार्थः प्रवृत्तिनिवृत्तिभ्यामपरामृष्टस्यापुरुषार्थत्वादिति नेत्याह। नन्दितेति। आत्मना हि सर्वं जगदापादितप्रहर्षं निरानन्दात्मकस्य तदयोगादेतस्यैवाऽऽनन्दस्यान्यानि भूतानि मात्रामुपजीवन्तीति च श्रुतिः। अतो युक्तमानन्दतया पुमर्थस्य प्रवृत्तिनिवृत्तिभ्यामपरामर्शेऽपि प्रतीचः शास्त्रार्थत्वमिति भावः। यद्वा सुख्यहं दुःख्यहमिति प्रतीतेः संसारी न शास्त्रार्थः स्यादित्याशङ्क्याऽऽह। नन्दितेति। साभासमन्तःकरणं सुखाद्याश्रयो न प्रत्यगात्मा तत्साक्षित्वात्परानन्दत्वाच्चातो युक्ता तस्य शास्त्रगम्यतेत्यर्थः। आत्मा चेदानन्दस्तस्य जम्मादिभावादात्मनोऽपि तत्प्रसक्तिरित्याशङ्क्याऽऽह। अव्ययमजमिति। न जायते म्रियते वेत्यादिना सर्वविक्रियानिषेधेन कौटस्थ्यमस्योच्यते तत्कुतोऽयं जन्मादिभागी न चाऽऽनन्दस्यापि तदस्त्युपाध्यपरामर्शे तदप्रतीतेर्दुःखादौ त्वात्मत्वाप्रमितेस्तस्य स्वाभाविकत्वेऽप्यदोषतेत्यर्थः। अभिवाद्याभिवादित्रोर्भेदस्य गुरुशिष्यादौ दृष्टेर्न प्रत्यगभिवादनमिति चेत्तत्राऽऽह। एकमिति। प्रतीचि10 वस्तुतो भेदाभावेऽपि भेदं कल्पयित्वा तदभिवादनमिति भावः। अपरा योजना। सदेव सोम्येदमित्यादिश्रुतिदर्शितं सत्यज्ञानादिलक्षणं तत्पदलक्ष्यं निरूपयति। तमिति। कार्यकारणस्वामिनं तत्साक्षिणं त्वं-

पदलक्ष्यं योऽयं विज्ञानमयः प्राणोष्वित्यादिश्रुतिसिद्धं दर्शयति। विभुमिति। पदद्वयसामानाधिकरण्यात्तत्त्वमर्थयोरैक्यं वाक्यार्थमावेदयति। एकमिति। कल्पितकर्मत्वमेव प्रत्यग्भूतं परं तत्त्वमभिवाद्यमित्यभिप्रेत्य द्वितीयाप्रयोगः। तत्र वाक्कायचेतसामेकाग्रतयाऽवस्थानमभिवादनम्।भक्तिश्रद्धाभ्यामेव क्रियमाणं तदभिवादनं फलवदिति भक्त्येत्युक्तम्। नन्वात्मा भोक्ता। तयोरन्यः पिप्पलं स्वाद्वत्तीति श्रुतेः। ईशस्तु नैवम्। अनश्नन्नन्यो अभिचाकशीतीति च श्रुतेः। अतो मिथो विरुद्धयोस्तयोर्नाभेदस्तत्राऽऽह। स्वाविद्येति। स्वशब्देन प्रत्यग्ब्रह्मोच्यते। स्वमपीतो भवतीति श्रुतेःतदाश्रया तद्विषया चाविद्याऽन्यस्याऽऽविद्यत्वेन तदाश्रयत्वाद्ययोगात्। यथाऽऽहुः। आश्रयत्वविषयत्वभागिनी निर्विभागचितिरेव केवलेति। तस्या विभवः समाच्छादनशक्तिरन्या विक्षेपशक्तिः। न चाऽऽत्माऽविद्यैव नः शक्तिरित्युक्तेरविद्याया न शक्त्यन्तरमनवस्थानादिति वाच्यम्। कार्यैकसमधिगम्या हि शक्तिः। अविद्यायाश्चाऽऽच्छादनविक्षेपाख्यं कार्यद्वयं लक्ष्यते। **उक्तं च—**आच्छाद्य विक्षिपति सस्फुरदात्मरूपमिति। तस्मात्तदनुरोधिशक्तिद्वयं तस्याः शक्तेरपीष्टम्। न चानवस्था शक्त्यन्तरकल्पकाभावात्। तेन प्रसूतो विपुलः समष्टिरूपः सूक्ष्मस्थूलभेदेन द्विधागतो योऽयमुपाधिरपञ्चीकृतपञ्चमहाभूततत्कार्यात्मकं सप्तदशकं लिङ्गं सूक्ष्मं शरीरं पञ्चीकृतपञ्चमहाभूततत्कार्यात्मकं च वैराजं स्थूलं शरीरं तद्भावेन द्वैतेनोपाधिना प्रपञ्चेन च व्यष्टिरूपेणाऽऽहिता देहद्वयोपहितास्तदैक्याध्यासादेव कर्ता भोक्तेतिस्पष्टभ्रान्तयो भ्रान्तत्वादेव तन्निदानाज्ञानावृतस्वरूपस्फुरणाश्चिदाभासा यं जीवो जगत्परमात्मेति भेदेन कल्पयन्ति तं वन्दे भक्त्येत्यन्वयः। उक्तं च— स्वाज्ञानकल्पितजगत्परमेश्वरत्वजीवत्वभेदकलुषीकृतभूमभावेति। स्वस्य स्वस्मि11न्वाऽविद्या स्वाविद्या तस्या विभवस्तेन प्रसूतश्च विपुलश्च द्वेधागतश्च स च प्रपञ्चश्च ताभ्यामाहिता स्पष्टा भ्रान्तिर्येषां ते स्पष्टभ्रान्तयः। आत्मैव मतिरात्ममतिः सा तिरोहिता येषां ते तथा स्वाविद्याविभवप्रभूतविपुलद्वैतप्रपञ्चाहिताश्च ते स्पष्टभ्रान्तयश्च ते तिरोहितात्ममतयश्चेति विग्रहः। तत्र स्वाविद्येत्येकरसे वस्तुनि मूलाविद्याध्यासो दर्शितो विभवशब्देन तस्याः शक्तिद्वयमुक्तम्। प्रसूतेत्यादिना भ्रान्तीत्यन्तेन विक्षेपशक्तेर्विकारो विक्षेपो व्याख्यातः। तिरोहितेत्यादिनाऽऽच्छादनशक्तिकार्यमुक्तमिति विभागः। अविद्योत्थपुरद्वयवेष्टनलब्धभेदप्रत्ययस्याऽऽत्मनो भेदभ्रान्तिमनुभाषते। यं भागशो मन्वतइति। इमामेव भेदभ्रान्तिमादाय बहुवचनमुन्नेयम्। अयमभिसंधिः। आत्मनि भोक्तृत्वादिभानस्याऽऽविद्यत्वात्तस्य विपरीतरूपेण परेणाऽऽत्मना वाक्यीयमैक्यमविरुद्धमिति। अथ मिथो ब्रह्मात्मानौ भिन्नौ विरुद्धधर्मवत्त्वात्पयःपावकवदित्यनुमानस्य किमुत्तरं तत्राऽऽह। निर्भागमिति। न तावदिह वास्तवो भेदः साध्योऽप्रसिद्धविशेषणत्वान्नापि प्रातिभासिकः सिद्धसाध्यत्वाद्विरुद्धधर्मवत्त्वं च प्रामाणिकमसिद्धमितरद्विम्बप्रतिबिम्बयो-

रनैकान्तमतो नानुमानादपि भेदो जीवपरयोरित्यर्थः। किंच वाङ्मनसातीतं ब्रह्म श्रुतं प्रत्यगात्मा च तथाऽन्यथा घटवदनात्मत्वापातात्तथा च नासौ परस्मात्तत्त्वतोऽतिरिच्यते वाङ्मनसातीतत्वात्तद्वदिति प्रत्यनुमानमाह। सकलेति। किंचाऽऽनन्दो ब्रह्मेति व्यजानादित्यादिश्रुतेरानन्दो ब्रह्म। एतस्यैवाऽऽनन्दस्येत्यादिश्रवणात्परप्रेमास्पदत्वाच्चाऽऽत्माऽपि तथाऽतो नायं परस्मात्तत्त्वतो भिन्नः परमानन्दत्वात्तद्वदित्यनुमानान्तरमाह।नन्दितेति। किंच श्रुतिस्मृतिभ्यां परस्तावत्कूटस्थो, जीवोऽपि ताभ्यामेव तथा, तेन स परस्मात्तत्त्वतो न भिन्नः कूटस्थत्वात्तद्वदित्याह। अव्ययमजमिति। किंचेशोऽनपेक्षोऽन्यथा तत्त्वायोगाज्ज़ीवोऽपि तथाऽऽत्मत्वात्तद्वत्परतन्त्रताश्रुतिस्मृतिवादास्तु जीवशब्दितविशिष्टविषया अतस्त्वंशब्दलक्षितं प्रत्यक्चैतन्यं परस्मादभिन्नं स्वतन्त्रत्वात्तद्वन्न च साधनवैकल्यं दृष्टान्तेऽपि तल्लक्ष्यस्य विवक्षितत्वादित्याह। एकमिति। यद्वा भेदानुमानस्य श्रुतिविरोधमाह। एकमिति। तत्र तं विभुमेकमिति शास्त्रीयं तत्त्वमर्थयोरैक्यं विषयः श्रुत्योक्तो विषयविषयीभावः संबन्धोऽपि सूचितो नन्दितविश्वमित्यनतिशया12नन्दाप्तिः फलमधिकारी च तत्कामो ध्वनितः। अतोऽनुबन्धचतुष्टयसिद्धेरिदमारम्यमिति द्रष्टव्यम्॥१॥

यो काण्वोपनिषच्छलेन सकलान्नायार्थसंशोधिनीं
संचक्रुर्गुरवोऽनुवृत्तगुरवो वृत्तिं सतां शान्तये॥
अर्थाविष्करणं कुतार्किककृताशङ्कासमुच्छित्तये
तस्या न्यायसमाश्रितेन वचसा प्रक्रम्यते लेशतः॥२॥

एवं देवतानमस्कारव्याजेन स्वाविद्यया प्रतीच्यनात्मवर्गोऽध्यस्तो न वास्तवः स तु नित्यशुद्धबुद्धमुक्तस्वभावो ब्रह्मैवेति भाष्यार्थः संक्षिप्तः संप्रति व्याचिख्यासितभाष्यस्य सर्वदोषराहित्योक्त्या तदर्थप्रकटीकरणात्मनो वार्तिकस्यापि निर्दोषत्वं निर्दिशन्नुद्देश्यं प्रतिजानीते। यामित्यादिना। यां वृत्तिं गुरवः संचक्रुस्तस्या लेशतोऽर्थाविष्करणं प्रक्रम्यते न्यायसमाश्रितेन वचसेति संबन्धः। वृत्तिशब्दितस्य भाष्यस्यातिरोहितार्थत्वादव्याख्येयत्वमाशङ्क्यप्रसन्नगम्भीरत्वमाह। काण्वेति। तस्या व्याख्यानव्याजेनाध्ययनविध्युपात्तस्वाध्यायमात्रस्य ब्रह्मात्मन्यैदंपर्यं वक्तुं वृत्तिः प्रवृत्ता कर्मकाण्डं हि कर्मानुष्ठानप्रयुक्तशुद्धिद्वारा ब्रह्माधिगतावारादुपकारकं विविदिषन्ति यज्ञेनेति श्रुतेः सर्वापेक्षाधिकरणन्यायाच्च; ज्ञानकाण्डं तु साक्षादेव तत्रोपयुक्तं परस्यौपनिषदत्वश्रुतेः समन्वयाधिकरणन्यायाच्च। सर्वे वेदा यत्पदमामनन्तीति च श्रुतिः। तदापातेन प्रसन्नाऽपि वृत्तिराम्नायमात्रस्य ब्रह्मपरत्वावेदकत्वादतिगम्भीरा व्याख्यानार्हति भावः। एतेन विषयसंबन्धौ वृत्तेरुक्तौ। आप्तप्रणीतत्वादपि वृत्तेरस्ति व्याख्येयत्वमित्याह।

गुरवइति। सांप्रदायिकप्रणीतत्वादपि सा व्याख्येयेत्याह। अनुवृत्तेति। शुश्रूषादिद्वारा गुरवोऽनुवृत्ता यैस्तेऽनुवृत्तगुरवस्ततो लब्धविद्या वृत्तिं चक्रुरतः सा व्याख्येयेत्यर्थः। साधनचतुष्टयसंपन्नाधिकारिणां सत्त्वादपि तानुद्दिश्य प्रवृत्ता वृत्तिर्व्याख्येयेत्याह। सतामिति। तेभ्यो वृत्तिरेषा कथमुपकारमुपनयेदित्याशङ्क्य फलमाह।शान्तय इति। शान्तिः सनिदानसंसारनिरासस्तत्प्राप्तये तेषामेषा वृत्तिरित्यर्थः। वृत्तेरव्याख्येयत्वे हेत्वभावात्तदर्थाविष्करणे वार्तिकस्य प्रवृत्तिर्युक्तेति प्रतिजानीते। अर्थेति। ननु वृत्तिफलमेव तद्वार्तिकफलं फलान्तरं वाऽऽद्ये वृत्तिमात्रलब्धफलानां प्रेक्षावतामुपेक्षा तद्वार्तिके स्याद्द्वितीये तद्वाच्यं तत्राऽऽह। कुतार्किकेति। श्रौतं तदनुग्राहकं तर्कं हित्वा स्वधीप्रभवं तर्कमास्थाय तत्त्वं व्यवस्थापयितुकामा भेदवादिनः कुतार्किकास्तेषामौत्प्रेक्षिकतर्कोत्थासंभावनादिनिवृत्तिवर्तिका-वान्तरफलं, परमफलं तु शान्तिरेवेति भावः। ननु भाष्याक्षरैरेव स्वार्थधीसमर्थैरवान्तरफलस्यापि सिद्धेर्वृथा वार्तिकमिति चेन्नेत्याह।न्यायेति। मन्दमध्यमयोर्भाष्यार्थेऽपि विपरीतधीसंभवात्तन्निरासिन्यायापेक्षायां भाष्यस्थन्यायविशदीकरणात्मनो वार्तिकस्याऽऽरम्भा-त्तत्साफल्यमित्यर्थः। वचसेत्युक्तानुक्तद्विरुक्तादिचिन्तात्मकेनेति यावत्। उक्तं च—

“उक्तानुक्तद्विरुक्तादिचिन्ता यत्र प्रवर्तते।
तं ग्रन्थं वार्तिकं प्राहुर्वार्तिकज्ञा मनीषिणः” इति।

यथोक्ताया वृत्तेः सर्वार्थ13प्रकटनमशक्यमि14त्यतिगम्भीरतां द्रढयन्ननौद्धत्यं15 सूचयति।लेशत इति। काण्वोपनिषद्भाष्यस्य व्याख्येयत्वोक्त्या तदीयवार्तिकस्याप्यारम्यत्वमुक्तम्॥२॥

ननु ग्रन्थारम्भे प्रवृत्त्यङ्गत्वेनाधिकार्यादि वक्तव्यम्। तदभावे प्रेक्षावतामप्रवृत्तेः। यथाऽऽहुः—

“सिद्धार्थं सिद्धसंबन्धं श्रोतुं श्रोता प्रवर्तते।
शास्त्रादौ तेन वक्तव्यः संबन्धः सप्रयोजनः" इति।

यद्यपि संसारव्याविवृत्सुभ्य इत्यादिभाष्याम्यामधिकारिविषयावुच्येते तथाऽपि फलानुक्तेर्न प्रवृत्तिविश्रम्भः। उक्तं हि

“सर्वस्यैव हि शास्त्रस्य कर्मणो वाऽपि कस्य चित्।
यावत्प्रयोजनं नोक्तं तावत्तत्केन गृह्यते" इति।

न च भाष्यद्वयं तदप्यर्पयति वाक्यभेदान्न चार्थात्तदर्पणाददोषः। आर्थिकस्याशाब्दत्वेनानास्थापत्तेः। न च नामभाष्यं फलविषयं तस्य तन्निरुक्त्यैवावसानान्न च तदेव

फलमिष्टत्वाभावात्तन्16न व्याख्येयं भाव्यमिति तत्र सर्वव्यापाराणां फलार्थत्वात्तत्प्राधान्यादधिकार्याद्यर्पकभाष्ययोश्च वाच्यबाहुल्यात्तत्त्यागेनाऽऽदौ नामभाष्यस्य फलपरत्वमर्थक्रमबलीयस्त्वन्यायेन दर्शयति। अत्र चेत्यादिना मुक्तिमात्रं प्रयोजनमित्यन्तेन।

अत्र चोपनिषच्छन्दो ब्रह्मविद्यैकगोचरः॥
तत्रैव चास्य सद्भावादभिधार्थस्य तत्कुतः॥३॥

सेयमित्यादिभाष्यं विभजते। अत्रेति। अस्मिन्भाष्ये चशब्दाद्ग्रन्थांतरे चाऽऽध्यात्मिके वृत्तमुपनिषत्पदं ब्रह्मविद्यामात्रमाहेति प्रतिज्ञातम्। तत्पराणामित्यादिभाष्योक्तं हेतुमाह। तत्रेति। उपसर्गद्वयं क्विवन्तः सदिरित्यभिधानामर्थस्य वक्ष्यमाणरीत्या ब्रह्मविद्यायामेव संभवादुपनिपूर्वस्य सदेः क्विपि निष्पन्नमुपनिषत्पदं तामेव स्वार्थवतीमधिकरोतीत्यर्थः। उपनिषदं भो ब्रूहीत्यादौ ब्रह्मविद्यायां तच्छब्दप्रयोगसमुच्चयार्थश्चकारः। तच्छब्दस्याऽऽम्नायविशेषे रूढेस्तामतिलङ्घ्यावयवार्थेन कुतोऽर्थान्तरे वृत्तिः?" रूढिर्योगमपहरतीतिन्यायादपरित्यज्यैव रूढिं श्येनादिशब्दानामन्यत्र वृत्तेरङ्गीकारादिति चोदयति। तत्कुत इति॥३॥

उपोपसर्गः सामीप्ये तत्प्रतीचि समाप्यते॥
त्रिविधस्य सदर्थस्य निशब्दोऽपि विशेषणम्॥४॥

तद्व्यपदेशश्चेत्यत्राभिधावृत्तेस्तात्पर्यवृत्तिर्बलीयसीतिन्यायेन तात्पर्यालोचनया रूढिमत्यक्त्वा यथा ह वै श्येनो निपत्याऽऽदत्त एवमनेन द्विषन्तं भ्रातृव्यमित्याद्यार्थवादिकसादृश्येन श्येनादिशब्दानां कर्मनामत्वमुक्तं न तथाऽत्राभिधावृत्तिः समुदायशक्तेरसत्त्वात्प्रसिद्धेस्तु गतिर्वक्ष्यते तन्नेह न्यायोऽवतरतीत्यभिप्रेत्योपनिपूर्वस्येत्यादिभाष्यं वार्तिकचतुष्टयेन व्याकुर्वन्नुपेत्युपसर्गवाच्यमाह। उपेति। तस्यैव लक्ष्यमर्थमाह। तत्प्रतीचीति। सामीप्यमव्यवहितत्वमन्तर्बहिर्विभागशून्ये प्रतीचि पर्यवस्यति। अनन्तरोऽबाह्य इति श्रुतेः। **उक्तं च—**आत्मत्वादात्मनः केन व्यवधानमिति। विद्यासूत्रे चैतद्व्यक्तीकरिष्यते। अतः सर्वतोव्यवधानाभावोपलक्षितं चैतन्यमुपोपसर्गलक्ष्यमित्यर्थः। उपसर्गान्तरस्य धातोश्चार्थमाह। त्रिविधस्येति। क्विप्प्रत्ययान्तस्य सदेर्धातोर्विशरणादिकर्तृत्वाख्यस्त्रिविधोऽर्थः। षद्लृ विशरणगत्यवसादनेष्वितिस्मृतेः। तस्योपशब्दवन्निशब्दोऽपि वक्ष्यमाणरीत्या त्रिविधस्वार्थार्पणद्वारा विशेषणमित्यर्थः॥४॥

उपनीयेममात्मानं ब्रह्मापास्तद्वयं यतः॥
निहन्त्यविद्यां तज्जं च तस्मादुपनिषद्भवेत्॥५॥

कथमित्थमवयवार्थेऽपि विद्यायामेवोपनिषत्पदमित्याशङ्क्योपसर्गयोर्धातोश्चार्थावनुवदन्विशेषणविशेष्ययोर्विद्यागतत्वात्सैवोपनिष-दित्याह। उपनीयेति। त्वमर्थं शुद्धमुपोपस-

र्गलक्षितमप्रपञ्चं ब्रह्म ग्राहयित्वा विद्या सकार्यामविद्यां पूर्वावस्थातः शिथिलयति।**उक्तं च—**तत्समीपात्मनां विशातनी17 गर्भादीनामिति18। अतोऽवयवार्थस्य तस्यां पौष्कल्यात्सैवोपनिषदित्यर्थः। अत्रेममित्यादिपदचतुष्टयेनोपोपसर्गार्थ उक्त उपनीयेति निशब्दार्थो निहन्तीति विशरणकर्तृत्वमिति भेदः॥९॥

निहत्यानर्थमूलं स्वाविद्यां प्रत्यक्तया परम्॥
गमयत्यस्तसंभेदमतो वोपनिषद्भवेत्॥६॥

उपसर्गार्थं धात्वर्थं च गतिहेतुत्वमनुवदन्विद्यायामेवोपनिषच्छब्दप्रवृत्तौ प्रकारान्तरमाह। निहत्येति। प्रमातृत्वादिरनर्थः। **उक्तं हि—**अनर्थश्च प्रमातृताप्रमुखं कर्तृत्वभोक्तृत्वमिति। तस्य मूलमविद्या तामात्माब्रह्मत्वधीहेतुं निरस्य विद्या परमात्मानं भेदाभावोपलक्षितं प्रत्यक्त्वेन प्रापयति। **यथोक्तम्—**निगमनाद्गमनाद्वोपरिष्टात्सर्वविद्यानां कार्यवैशेष्यादिति। तस्मादभिधात्रयार्थस्य तस्यां पूर्तेः सैवोपनिषदित्यर्थः॥६॥

प्रवृत्तिहेतुन्निःशेषांस्तन्मूलोच्छेदकत्वतः॥
यतोऽवसादयेद्विद्या तस्मादुपनिषन्मता॥७॥

संप्रत्युपसर्गार्थं धात्वर्थं चावसादकत्वमनुवदन्नस्यामेवोपनिषच्छब्दप्रवृत्तौ प्रकारान्तरमालम्बते। प्रवृत्तीति। शुभाशुभव्यामिश्रप्रवृत्तीनां हेतवो रागादयस्तानशेषेण तद्धेत्वज्ञानस्य प्रत्यङ्मात्रतया निरासद्वारा विद्या नाशयति। उक्तं हि— अवसादनार्थस्य चावसादादिति। तस्मादवयवार्थस्यास्यां पूर्तेः सैवोपनिषदित्यर्थः॥७॥

यथोक्तविद्याबोधित्वाद्ग्रन्थोऽपि तदभेदतः॥
भवेदुपनिषन्नामा लाङ्गलं जीवनं यथा॥८॥

विद्यैव चेदुपनिषदिष्टा कथं तर्हि ग्रन्थे तच्छब्दोऽन्यायश्चानेकार्थत्वमित्याशङ्क्य तादर्थ्यादित्यादिभाष्यं योजयति। यथोक्तेति। सा हि विशरणादिहेतुर्ब्रह्मात्मधीस्तद्बोधित्वं ग्रन्थस्य तद्व्युत्पादकत्वमतो व्युत्पाद्यव्युत्पादकयोरभेदोपचारादुपनिषदमधीमह इत्यादौ ग्रन्थेऽपि तच्छब्दो युक्तः। एतेनोभयत्र तच्छक्तिकल्पना प्रत्युक्तेत्यर्थः। साध्यसाधनयोरभेदोपचारेण साध्यशब्दस्य साधने प्रयोगे दृष्टान्तमाह। लाङ्गलमिति॥८॥

अरण्याध्ययनाच्चैतदारण्यकमितीर्यते॥
बृहत्त्वाद्ग्रन्थतोऽर्थाच्च बृहदारण्यकं मतम्॥९॥

यथोक्तविद्याजनकत्वे ग्रन्थस्य तदध्येतॄणां सर्वेषां किमिति सा न भवतीत्याशङ्क्य श्रवणादिपराणामेवारण्यानुवचनादि-नियमाधीताक्षरेभ्यस्तज्जन्मेत्याशयेन सेयं षडध्यायीत्यादिभाष्यार्थमाह। अरण्येति। न केवलमुक्तनियमाधीतः स्वाध्यायो विद्याहेतुर्वेदव्र-

तादिनियमाधीतश्चेति चार्थः। एतदिति ग्रन्थजातोक्तिः। अथारण्यानुवचनादिनियमाधीतवेदान्तानामपि केषांचित्तत्त्वाज्ञानात्कुतो यथोक्ताक्षरेभ्यो विद्याजन्मेत्याशङ्क्य बृहत्त्वादित्यादिभाष्यार्थमाह। बृहत्त्वादिति। उपनिषदन्तरेभ्यो ग्रन्थाधिक्याद्ग्रन्थतोऽस्य बृहत्त्वमर्थतस्त्वखण्डस्य ब्रह्मणोऽत्र प्रतिपाद्यत्वात्तज्ज्ञानहेतूनां चान्तरङ्गबहिरङ्गाणां भूयसां प्रतिपादनादतो बृहत्त्वादारण्यकत्वाच्च बृहदारण्यकम्। तस्मादनेकजन्मसुकृतक्षालितचेतसो नियमाधीतस्वाध्यायस्याऽऽपादितश्रवणादेराचार्यादिष्टो वेदान्तो विद्याहेतुर्न त्वशुद्धबुद्धेरित्यर्थः॥९॥

इत्यादिनामव्युत्पत्तिच्छद्मना प्रकृतोचितम्॥
सर्वोपनिषदामाह मुक्तिमात्रं प्रयोजनम्॥१०॥

नाममाप्यतात्पर्यमुपसंहरति। इत्यादीति। इत्थं ग्रन्थादावुपनिषद्बृहदारण्यकनाम्नोर्व्युत्पादनव्याजेन प्रकृतशास्त्रारम्भौपयिकं सर्वोपनिषदुत्पाद्यब्रह्म19विद्यायाः सहेतुबन्धध्वस्तिरनतिशयानन्दावाप्तिश्चेति फलं न साध्य20फलान्तरमित्येतदाह भगवान्भाष्यकारः। उपनिषद्ग्रहणं विद्याग्रन्थयोरेकफलत्वं दर्शयितुमित्याशयः॥१०॥

मिथोविरोधसिद्ध्यर्थं कर्मज्ञानाधिकारिणोः॥
संसार21व्याविवृत्सुभ्य इत्युक्तिं भाष्यकृज्जगौ॥११॥

ननु नामभाष्येण फलमुक्तं वेत्तत्कामोऽर्थादधिकारी सिद्धोऽतो व्यर्थमधिकारिभाष्यमित्याशङ्क्य तस्य तात्पर्यमाह। मिथ इति। कर्माधिकारी ज्ञानाधिकारी च तयोरन्योन्यं विरोधो वैलक्षण्यं तत्सिद्धयेऽधिकारिभाप्यमित्यक्षरार्थः। यद्यपि फलभाष्येऽर्थादधिकारी सिद्धस्तथाऽपि कर्माधिकारिणो ज्ञानाधिकारिणं भेत्तुमधिकारिभाप्यमिति भावः॥११॥

त्यक्ताशेषक्रियस्यैव संसारं प्रजिहासतः॥
जिज्ञासोरेव चैकात्म्यं त्रय्यन्तेष्वधिकारिता॥१२॥

अथ ज्ञानकर्मणोर्नाधिकारिभेदः शास्त्रार्थत्वादग्निहोत्रदर्शादिवदेकाधिकारिनिर्वर्त्यत्वसंभवात्तत्राऽऽह। त्यक्तेति। अनेकजन्मार्जितशुभकर्मवशादुपजातबुद्धिशुद्धेर्नित्यानित्यविवेकिनः संसारमैहिकमामुष्मिकं च भोगं प्रकर्षेण हातुमिच्छतो विरक्तस्य कार्याः सर्वाः क्रियाः कृष्णविषाणवद्विधितस्त्यक्त्वा स्थितस्य संन्यासिनः शमादिमतो मुमुक्षोर्मोक्षोपायमपेक्षमाणस्याऽऽत्मरूपमेकरसं ज्ञातुमिच्छतो वेदान्तेष्वाधिकारः। अर्थी समर्थो विद्वानपर्युदस्तश्च विधिष्वधिक्रियते न च ज्ञानकर्मणोः शास्त्रार्थत्वादेकाधिकारित्वं बृहस्पतिसवराजसूयादिषु व्यभिचारात्तद्व्यक्तं ज्ञानकर्मणोरधिकारिवैलक्षण्यमित्यर्थः॥१२॥

एतमेवेति च तथा प्रत्यग्याथात्म्यवित्तये॥
सर्वकर्मत्यजं प्राह श्रुतिर्विद्याधिकारिणम्॥१३॥

उक्त ज्ञानाधिकारिणि मानमाह। एतमिति। प्रतीचो याथात्म्यं तत्त्वं ब्रह्म तन्निश्चयार्थमधिकारिणमर्थयमाना श्रुतिरेतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्तीत्यादिवाक्येन शमादिवाक्येन चोक्ताधिकारिभेदानुरोधेन संन्यासिनमुक्तविशेषणं विद्याप्राप्त्यधिकारिणमाहेत्यर्थः॥१३॥

प्रत्यग्विविदिषासिद्ध्यै वेदानुवचनादयः॥
ब्रह्मावाप्त्यै तु तत्त्याग ईप्सन्तीतिश्रुतेर्बलात्॥१४॥

ननु कर्मत्यनो ज्ञानाधिकारे, धर्मात्सुखं च ज्ञानं चेत्यादिस्मृत्या कथं धर्मशब्दितकर्मणां ज्ञानहेतुत्वमुक्तं तत्राऽऽह। प्रत्यगिति। वेदानुवचनादिधर्माः सत्त्वशुद्धिविविदिषादिद्वारा धीहेतवो विविदिषन्ति यज्ञेनेतिश्रुतेरतः सति विविदिषादौ कृतकार्याणां तेषामकिंचित्करत्वात्तत्त्यागसिद्धिः, स्मृतिस्तु परंपरया तेषां ज्ञानहेतुत्वार्थेति भावः। किं तर्हि साक्षाज्ज्ञानसाधनं तदाह। ब्रह्मेति। ब्रह्मणोऽवाप्तिर्ज्ञानं तदुत्पत्त्यै तेषां कर्मणां त्यागः श्रवणादिसहितः साक्षाद्धेतुः। योगारूढस्य तस्यैव शमः कारणमितिस्मृतेरित्यर्थः। संन्यासस्य साक्षाज्ज्ञानहेतुत्वे मानान्तरमाह। ईप्सन्तीतिश्रुतेरिति। एतमेव प्रव्राजिनो लोकमीप्सन्तः प्रव्रजन्तीति माध्यंदिनश्रुतेः संन्यासस्याऽऽत्मधीप्राप्तौ साक्षाद्धेतुत्वे श्रुतार्थापत्तिर्मानम्। न हि पारिव्राज्यस्य तदनुपायत्वे तदर्थिनस्तदाश्रयणम्। तत्कामिनो तद्धेतावप्रवृत्तेः। न हि ग्रामकामस्यैव तत्कामनानिरोधेनापूर्वकामनया भोजने प्रवृत्तिरिति भावः॥१४॥

उक्ताधिकारविषयप्रतिपत्त्यर्थमीरितम्॥
संसारहेत्वितिवचः स्फुटन्यायोपबृंहितम्॥१५॥

अधिकारिभाष्यंव्याख्याय विषयाद्यर्पकं भाष्यमवतारयति। उक्तेति। वृत्तिरारभ्यत इतिभाष्योक्तोऽधिकारो भाष्यारम्भस्तस्यापेक्षितो विषयो वेदान्तगम्यमैक्यं तज्ज्ञानार्थं भाष्यम्। यद्वा। उक्तोऽधिकारोऽस्येत्युक्ताधिकारोऽनन्तरभाष्यादिष्टः साधनचतुष्टयविशिष्टोऽधिकारी तस्य विषयः साक्षात्प्रतिपत्तिरैक्यधीस्तदर्थं भाष्यम्। अथवोक्तोऽधिकारो नामभाष्योक्तं फलं तस्मै हि ज्ञानमधिक्रियते तस्य फलस्याविद्यानिवृत्तिरूपस्य हेतुर्वेदान्तविषयप्रतिपत्तिरैक्यधीस्तदर्थं भाष्यमिति त्रिविधोऽर्थः। भाष्यस्योक्तार्थोक्तिसामर्थ्यं कथमिति तदाह। स्फुटेति।न्यायस्य स्फुटत्वमनाभासत्वम्॥१५॥

ऐकात्म्यविषयान्नान्यो वेदान्तवचसां यतः॥
लभ्यते विषयः कश्चित्तद्धीस्तस्मात्तमोपनुत्॥१६॥

ननु न वेदान्तानामैक्यं विषयः संपदादिपरत्वात्तथा चैक्यधरिप्रमात्वादफलेति

तत्राऽऽह। ऐकात्म्येति। उपक्रमोपसंहारैकरूप्यादितात्पर्यलिङ्गैरैक्यपरत्वे वेदान्तानामवगम्यमाने संपदादिपरत्वायोगादैक्यज्ञानस्य प्रमात्वेन फलवत्त्वमित्यर्थः॥१६॥

संसारकारणाविद्याध्वंसकृज्ज्ञानलब्धये॥
प्रारब्धेयं प्रयत्नेन वेदान्तोपनिषत्परा॥१७॥

ननु तमोनिवर्तकत्वेऽपि संसारहेत्वनिवर्तकत्वादैक्यधियो विफलता तदवस्था, धर्माधर्मौ हि बन्धहेतू, पुण्यो वै पुण्येनेत्यादिश्रुतेस्तौ च वस्तुत्वान्न ज्ञानावहेयावित्यत आह।संसारेति। न हि धर्माधर्मौ तद्धेतू, असङ्गस्याऽऽत्मनस्ताभ्यां विनाऽविद्यामसंबन्धादतोऽविद्यैव धर्मादिद्वारा तद्धेतुः। अविद्या चाऽऽत्मैक्यविद्यापोद्येति युक्तं तस्या बन्धहेतुध्वंसित्वमिति भावः। ननूत्पन्नज्ञानस्यापि बन्धोपलब्धेर्न तद्धेत्वज्ञानध्वंसकमात्मज्ञानं न हि हेतुध्वंसे कार्यस्थितिरत आह। ध्वंसकृदिति। न हि परोक्षं साधारणं चाऽऽत्मज्ञानं बन्धहेतुध्वंसि किंतु ब्रह्मसाक्षात्कारो, यत्सिद्ध्यर्थं ग्रन्थरूपोपनिषत्तात्पर्येण प्रवृत्ता सति च तस्मिन्बन्धोपलब्धिराभासमात्रमित्यर्थः। साऽपि कथं वाचामगोचरे साक्षात्कारं जनयेत्तत्राऽऽह। परेति। सा खल्वतिशयवती येनागोचरेऽपि मुख्येतरवृत्त्या धियमादध्यादित्यर्थः। यद्वा विषयाद्यर्पकत्वभाष्यस्य तात्पर्यमुक्त्वा वृत्तिरारभ्यत इत्यनेन संबन्धयन्नक्षराणि योजयति। संसारेति॥१७॥

प्रत्यग्याथात्म्यधीरेव प्रत्यगज्ञानहानिकृत्॥
सा चाऽऽत्मोत्पत्तितो नान्यद्ध्वान्तध्वस्तावपेक्षते॥१८॥

कर्मापेक्षात्मधीस्तदज्ञानध्वंसिनीति समुच्चयवादी मन्यते तं प्रत्याह। प्रत्यगिति। अज्ञानाविरोधित्वात्कर्मणो न तद्ध्वंसिज्ञानसहायत्वं, निरसिष्यते च समुच्चयोऽतो न स संभवतीत्यर्थः। ज्ञानस्याज्ञानध्वंसे कर्मासहायत्वेऽपि प्रसंख्यानं सहायो भविष्यतीत्याशङ्क्याऽऽह। सा चेति। अन्यत्प्रसंख्यानम्। न हि मानस्य स्वफले तदितराभ्यासापेक्षेति भावः॥१८॥

साधनं चाधिकारी च कर्मविज्ञानकाण्डयोः॥
मिथो विरोधतः सिद्धावधुना तत्र चोद्यते॥१९॥

भाष्यत्रयार्थमनुवदति। साधनं चेति। अविवेकादिपूर्वकं कर्म कर्मकाण्डे पुमर्थसाधनम्। ज्ञानकाण्डे विवेकादिपूर्वकं ज्ञानमिति काण्डयोर्मिथो वैलक्षण्येन साधनं सिद्धम्। अधिकारिभेदस्तु मिथोविरोधसिद्ध्यर्थमित्यत्रोक्तः। चकाराभ्यां विषयादिभेदमनुकर्षति। एवमुभयत्रापि साधनादीनि विलक्षणानि सिद्धानीत्यर्थः। संप्रति साधनादिभेदमाक्षिपति।अधुनेति। तत्रेति साधनादिनिर्देशः॥१९॥

नन्वभ्युदयवन्मुक्तिं गृह्णीमो विधिलक्षणाम्॥
कार्यं विना नाधिकारी नापीज्याफलसंगमः॥२०॥

स्वर्गादेरभ्युदयस्य कर्मसाध्यत्ववन्मुक्तेरपि शास्त्रीयफलत्वेन तत्साध्यत्वानुमानात्साधनाधिकारिणोरैक्यमिति मन्वानश्चोद्यं प्रपञ्चयति। नन्विति। कर्मव्युत्पत्त्या कर्मविधिलक्षणं लक्षणया साधनमतो विधिलक्षणां कर्मसाधनामित्यर्थः। शास्त्रीयफलत्वेऽपि मुक्तेरकर्मसाध्यत्वे का हानिस्तत्राऽऽह। कार्यमिति। लोके शास्त्रानपेक्षोऽप्यधिकारी कार्यधीविषयमनुष्ठेयं विना न सिध्यतीत्यधिकारिप्रवृत्तेस्तद्विषयत्वात्। इज्याशब्दो यागवाची साधनगोचरः॥२०॥

लभ्यते लौकिकोऽपीह, किमङ्गाऽऽगमसंश्रयः॥२०॥
विधिलक्षणसिद्ध्यर्थं सन्ति वाक्यानि च श्रुतौ॥२१॥

लौकिकसाध्यसाधनसंबन्धोऽपि कार्यं विना न युक्तोऽकार्ये तद्बुद्ध्यभावादतो मुक्तेरकर्मसाध्यत्वे शास्त्रीयफलत्वानुपपत्तिर्बाधिकेत्यर्थः। अपिना सूचितं कैमुतिकं न्यायमाह। किमङ्गेति। अङ्गेति हीनमध्यमयोरन्यतरसंबोधनम्। इदमत्राऽऽकूतम्। यदा लोकेऽपि विना कार्यं नाधिकार्यादिलाभस्तदा वेदाश्रयोऽसौ नान्तरेण कार्यं सेत्स्यति लोकवेदाधिकरणन्यायेन वेदस्य लोकानुसारित्वात्स्वर्गकामचोदनायां स्वर्गस्तदनुगुणश्च नियोगः साध्यो भातीत्युभयाधीनं पुरुषस्य कर्मण्यैश्वर्यं तत्रापि नियोगस्य प्राधान्यं यावज्जीवचोदनायां तु केवलनियोगकृतमिति हि यावज्जीवाधिकरणे स्थितम्। स्वर्गकामवाक्ये च साध्यस्वर्गविशिष्टनियोज्यस्य यागे नियोगो गम्यमानो यागस्य कामिविषयस्वर्गोपायतामनापाद्य न पर्यवस्यतीति नियोगाक्षेपाद्यागस्य फलोपायताऽवगता क्षणिकस्य तस्य कालान्तरभाविफलहेतुत्वायोगादपूर्वाधिकरणन्यायेनापूर्वद्वारा तदिष्टम्। वैदिकी च यागफलसंगतिः कार्याधीनेत्युक्तं बादर्यधिकरणे। अतो मुमुक्षोरपि कर्मानुष्ठानादेव मुक्तिरिति तत्कार्या सेति। न केवलं कैवल्यस्य कर्मकार्यत्वमानुमानिकमागमिकं चेत्याह।विधीति। द्व्येकयोर्द्विवचनैकवचने इतिवद्भावप्रधानो लक्षणशब्दः। मोक्षस्य कर्मसाध्यत्वप्रतिपत्त्यर्थं श्रौतानि वाक्यान्यपि सन्तीत्यर्थः॥२१॥

कुर्वीत क्रतुमित्यादिर्विधिरभ्युदये यथा॥
उपासीतेति च तथा मुक्तावपि समीक्ष्यते॥२२॥

तानि दृष्टान्तद्वारेणाऽऽह। कुर्वीतेति। स्वर्गादावुद्देश्ये यागादिहेतुविषयो विधिर्यथा दृष्टस्तथोद्देश्यायां मुक्तावपि ध्यानादिगोचरः स दृश्यतेऽतो विधितोऽनुष्ठितध्यानादेना मुक्तिरित्यर्थः। प्रज्ञाकरणवाक्यादिसमुच्चयश्चार्थः॥२२॥

नाभ्युदयस्य मुक्तेश्च साध्यासाध्ये22 ध्रुवाध्रुवे॥
वैलक्षण्यान्न युक्तेयं तुल्यसाधनता तयोः॥२३॥

कर्मसाध्यस्य मोक्षस्य तत्फलेषु तारतम्यस्थितेष्वतिशयत्वात्काण्डद्वयेऽपि फलसाधनाधिकारिणामवैलक्षण्ये प्राप्ते प्रत्याह। नेत्यादिना। उक्तनिषेधमुक्तहेतुना व्यक्तीकरोति। अभ्युदयस्येति। अभ्युदयस्य मुक्तेश्चेयं तुल्यसाधनता न युक्ता तयोः साध्यासाध्यादिवैलक्षण्यादित्यन्वयः। न हि शास्त्रीयफलत्वानुमानं युक्तम्। साध्यत्वानित्यत्वोपाधिद्वयोपहतेः। न च साधनव्याप्तिर्मुक्तेरसाध्यत्वात्तदीयसाध्यताया निराकरिष्यमाणत्वान्नित्यत्वाच्च। अतः साधनफलभेदेऽधिकारभेदधीरिति भावः॥२३॥

अन्यच्छ्रेयोऽन्यदुतैव प्रेयस्ते उभे नानार्थे पुरुषं सिनीतः॥
तयोः श्रेय आददानस्य साधु भवति हीयतेऽर्थाद्य उ प्रेयो वृणीते॥२४॥

किंत्र त्वदनुमानमागमबाधितमित्याह। अन्यदिति। श्रेयोऽपवर्गोपायो ज्ञानं तदन्यद्विलक्षणं कर्मणः स्वर्गादिहेतोरित्यर्थः। प्रेयोऽभ्युदयसाधनं कर्म तदपि विलक्षणमेव मोक्षहेतोर्ज्ञानादित्याह। अन्यदुतेति। ते च श्रेयःप्रेयसी ज्ञानकर्मणी पुरुषमेकं क्रमेण सिनीतो बध्नीतस्ते च स्वर्गापवर्गोपायतया भिन्नफले इत्याह। ते उभे इति। तयोर्मध्ये श्रेयो ज्ञानं संपादयतः श्रवणादिपरस्य साधु पुनरावृत्तिहीनं फलं भवति। यस्तु प्रेयःशब्दितं कर्म वृणीते तदनुष्ठानपरो ज्ञानपराङ्मुखः सोऽर्थात्फलाद्भ्रश्यत्यनित्यमेव फलमाप्नोति तदाह। तयोरित्यादिना। पूर्वार्धे हेतुफलभेदोऽन्यत्र फलाधिकारिवैलक्षण्यमुक्तमिति भेदः॥२४॥

परीक्ष्य लोकान्कर्मचितान्ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन॥
तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्॥२५॥

प्रकृतानुमाने श्रुत्यन्तरविरोधमाह। परीक्ष्येति। लोकान्स्वर्गपश्वादिफलभेदान्कर्मोत्थान्यत्कृतकं तदनित्यमित्यनुमानेनानित्या-नालोच्याधीतवेदो विचारितवेदार्थश्च ब्राह्मणस्तेषु विरक्तः स्यादित्यर्थः। न केवलं फलेष्वेव निर्विद्यते किंतु कर्मस्वपि तेषामप्यपेक्षितमोक्षाक्षमत्वादित्याह। नास्तीति। अकृतस्य तर्हि मोक्षस्य साधनं कीदृगित्यपेक्षायां तद्धेतुर्ज्ञानमिति श्रुतेरुपश्रुत्य तदर्थं मुमुक्षुर्देशिकाम्याशं गच्छेदित्याह। तद्विज्ञानार्थमिति। स्वयमेव ग्रन्थनिरीक्षणादिना सफलं ज्ञानं लब्धुमशक्यमाचार्यवानित्यादिश्रुतिविरोधादित्येवकारार्थः। रिक्तहस्तस्तु नोपेयाद्राजानं दैवतं गुरुमितिन्यायाद्योम्यमुपहारमादाय गुरू23पगमनं कार्यमिति नियमयति। समिदिति। अधीतस्वाध्यायस्यैव गुरुत्वं न शूद्रादेरित्याह। श्रोत्रियमिति। श्रोत्रियाणामपि कर्मिणां गुरुत्वं वारयति। ब्रह्मेति॥२५॥

नन्वभ्युदयवत्साध्या मुक्तिरप्राप्तरूपतः॥
मैवं, साध्याऽपि नो मुक्तिर्न त्वभ्युदयवद्यतः॥२६॥

सोपाधिकत्वादागमविरोधाच्चानुमानस्याप्रवृत्तिरुक्ता। अथ विमता मुक्तिः साध्याऽप्राप्तरूपत्वात्स्वर्गवदित्यनुमानात्साध्यत्वोपाधेः साधनव्याप्तिरिति शङ्कते। नन्विति। मुक्तेरप्राप्तरूपत्वं तात्त्विकं भ्रान्तं वा नाऽऽयोऽन्यतरासिद्धेरित्याह। मैवमिति। द्वितीयेऽपि साध्यत्वमभूतप्रादुर्भावो वाऽप्राप्तिभ्रमध्वंसो वेति विकल्प्याऽऽद्यं निरस्यति।साध्याऽपीति। यथाऽभ्युदयो यत्नादेयो24 न तथाऽस्माकमपवर्गोऽपि तस्य स्वरूपत्वादतो भ्रान्तमप्राप्तिरूपत्वं मुक्तेर्न मुख्यसाध्यत्वावहं हस्तन्यस्तविस्मृतसुवर्णादौ व्यभिचारादिति भावः॥२६॥

स्वतोमुक्तान्तरायस्य तमसो विद्यया हतेः॥
तत्कैवल्यमतः साध्यमुपचारात्प्रचक्षते॥२७॥

द्वितीये सिद्धसाध्यत्वमाह। स्वत इति। वस्तुतस्त्यक्तोऽन्तरायो येन तस्य यत्तमस्तस्येति व्यधिकरणे, स्वतो वा मुक्तस्यान्तरायस्तमस्तस्येति समानाधिकरणे षष्ठ्यौ। तस्य वाक्योत्थविद्यया ध्वस्तेः स्वरूपतया नित्याप्तमपि निर्वाणमनाप्तवदुपचाराद्विद्यातः साध्यं विद्वांसो वदन्ति। वयमप्यौपचारिकं तत्साध्यत्वमाचक्ष्महे। तस्मादप्राप्तिभ्रमध्वंसाख्यसाध्यत्वे सिद्धसाध्यतेति भावः॥२७॥

चिकित्सयेव संप्राप्यं स्वास्थ्यं रोगार्दितस्य तु॥
आत्माविद्याहतेर्बोधात्तत्कैवल्यमवाप्यते॥२८॥

मुक्तिर्वस्तुतः साध्या प्रेप्सितत्वात्स्वर्गवदित्याशङ्क्य व्यभिचारमाह। चिकित्सयेति। स्वरूपेऽवस्थानं हि स्वास्थ्यम्। तत्सदातनमेव रोगाभिभूतमौषधविधिना तद्विगमे प्राप्यते।उक्तं हि—

“वायुः पित्तं कफश्चोक्तः शारीरो दोषसंग्रहः।
मानसः पुनरुद्दिष्टो रजश्च तम एव च॥
शाम्यते भेषजैः पूर्वो दैवयुक्तिव्यपाश्रयैः।
मानसो ज्ञानविज्ञानधैर्यस्मृतिसमाधिभिः” इति॥

तद्वद्बोद्धुरात्मत्वेन स्थिताऽपि मुक्तिरविद्यापिहिता तद्बोधात्तद्ध्वस्तेराप्योपचर्यतेऽतो यथोक्तहेतो रोगिप्रेप्सिते स्वास्थ्ये व्यभिचारान्न वास्तवसाध्यत्वसाधकतेत्यर्थः॥२८॥

ब्रह्म वा इदमित्यादिर्ब्रह्मैवेति तथा श्रुतिः॥
सुषुप्तनरवच्छ्रुत्या बोध्योऽतो25ऽयं न कार्यते॥२९॥

मुक्तेरात्मत्वेन नित्याप्तत्वे मानमाह। ब्रह्मेति। ब्रह्म व इदमग्र आसीत्। ब्रह्मैव सन्ब्रह्माप्येति। ब्रह्म वेद ब्रह्मैव भवति। ब्रह्मविदाप्नोति परमित्याद्या श्रुतिर्मुक्तेः साध्यत्वस्यौपचारिकत्वे26न ब्रह्मात्मरूपायास्तस्या नित्यसिद्धतां गमयति तस्मादागमबाधितं मुक्तेर्वस्तुतःसाध्यत्वानुमानमित्यर्थः। मुक्तेरात्मत्वेन नित्याप्तत्वे फलमाह। सुषुप्तेति। यतो नित्यमुक्तोऽयमात्माऽतो यथा पार्श्वस्थेन पाणिपेषादिना27सुप्तो बोध्यते नानुष्ठाप्यते तथा मुमुक्षुरपि तत्त्वमस्यादिश्रुत्या नासि संसारी ब्रह्मैवेति व्युत्पाद्यते न ध्यानादि कार्यतेऽतो बोधादबोधध्वस्त्योच्यते साध्या मुक्तिरित्यर्थः॥२९॥

किमत्र विधिना कार्यमनृतन्त्रत्वहेतुतः॥
श्रुतोऽप्यनर्थकोऽत्र स्याद्विध्यर्थासंभवत्वतः॥३०॥

मुक्तेर्ज्ञानफलत्वेऽपि ज्ञानं प्रज्ञां कुर्वीर्तेत्यादिना विधीयतेऽतो विधेयधात्वर्थसाध्या मुक्तिर्विधिप्रमाणकत्वात्स्वर्गवदित्याशङ्क्यज्ञानस्य कर्मवत्पुरुषतन्त्रत्वाभावान्न तत्र विधिकृत्यमित्याह। किमत्रेति। तर्हि तत्र विधेः श्रूयमाणस्य का गतिस्तत्राऽऽह। श्रुतोऽपीति। ज्ञाने श्रुतोऽपि विधिस्तस्याननुष्ठेयत्वात्तद्धेतुविवेकपरोऽन्यथाऽनर्थकः स्यादयोग्यविषयत्वादुपलादिषु क्षुरतैक्ष्ण्यवत्। एतेन विधिलक्षणसिद्ध्यर्थमित्यादि प्रत्युक्तमिति भावः॥३०॥

यच्चा28स्यासति कर्तव्ये नाधिकारो निरूप्यते॥
तदप्यशेषतश्चोद्यमूर्ध्वमुन्मूलयिष्यते॥३१॥

मुक्तेश्चतुर्विधक्रियाफलवैलक्षण्येनाभ्युदयवन्मुक्तिमित्यादि निराकुर्वता काण्डयोः साधनादिभेद उक्तः संप्रति कार्यं विनेत्यादिनोक्तां युक्तिमनुवदति। यच्चेति। विधिमार्गेऽधिकारस्येत्यादिना भाविनं परिहारं सूचयति। तदपीति॥३१॥

पर आहाऽऽत्मनः स्वास्थ्यं श्रेयो यद्यभिवाञ्छसि॥
कर्मभ्य एव तत्सिध्येच्छ्रतत्वात्कर्मणः श्रुतौ॥३२॥

मुक्तेरुक्तरीत्या कर्मसाध्यत्वे निरस्तेऽपि तादृश्यपि सा कर्मणैव सिध्यति तस्यैव पुमर्थहेतुत्वेन श्रुतत्वादिति शङ्कते। पर इति। श्रेयःशब्द कैवल्यमात्मनः स्वरूपावस्थानात्मकं यदीच्छसि तत्तर्हि तथैवेत्यनुमोदामहे। तथाऽपि तत्कर्मबलादेव सिध्येद्यावज्जीवादिश्रुतौ तस्यैव पुमर्थसापेक्षत्वेन श्रुतत्वान्मुक्तेश्च पुमर्थत्वान्नष्टाश्वदग्धरथवन्मिथः संबन्धादित्यर्थः॥३२॥

श्रुतौ स्मृतौ च विहितं कर्मैव श्रूयते यतः॥
न च कर्मातिरेकेण मुक्त्यभ्युदयसाधनम्॥३२॥

तरति शोकमात्मविदित्यादौ ज्ञानमपि श्रूयते पुमर्थहेतुरिति चेन्नेत्याह। श्रुताविति। विहितं कर्तव्यमनुष्ठेयमिति यावत्। अतस्तस्यैव पुमर्थहेतुतेति शेषः। श्रुतेर्गतिर्वक्ष्यते। श्रुतितात्पर्याज्ञानादेव तत्र पुमर्थहेतोर्ज्ञानस्य तवादृष्टिरित्याशङ्क्याऽऽह। न चेति॥३३॥

यत्नतो न्यायतः किंचित्पश्यामो वेदचक्षुषा॥
निषेधविधिमात्रत्वाद्वेदार्थस्येह सर्वतः29॥३४॥

यत्नः श्रुतितात्पर्यनिर्दिधारयिषया पुरुषव्यापारः। न्यायस्तूपक्रमोपसंहारैकरूप्यादिः श्रुतिलिङ्गादिर्तेति विभागः। ननु श्रुतितदनुगुणन्यायाभ्यां विनाऽपि पुमर्थहेतुस्तथागताद्यागमादेव लब्धुं शक्यते नेत्याह। वेदेति। न हि वैदिका वेदातिरेकिणा मानेन पारलौकिकं हेतुं वदन्तीत्यर्थः। कर्मेतरपुमर्थहेतोरवैदिकत्वे हेतुमाह। निषेधेति इह। व्यवहारभूमौ सर्वस्यापि वेदार्थस्य विधिनिषेधतच्छेषत्वेन समाप्तेः कर्मैव पुमर्थहेतुरतो मुक्तेरपि स्वर्गवत्पुमर्थत्वात्तत्साध्यतेत्यर्थः॥३४॥

ननु श्रुतौ पुरोक्तानि वाक्यानि बहुशो मया॥
अविधायित्वतस्तेषां न न्याय्यं भवतोदितम्॥३५॥

वस्तुबोधीन्यपि वाक्यानि श्रुतौ बहुशो दृश्यन्ते तानि च परीक्ष्येत्यादीनि मयोक्तानि तत्कथं कर्मैव पुमर्थहेतुरिति शङ्कते। नन्विति। तेषां वस्तुबोधित्वाभावात्कर्मैव पुमर्थहेतुर्वेदार्थस्य च विधिनिषेधमात्रता तेन तदतिरिक्तमपि वस्तु तदर्थोऽस्तीत्यनुचितमिति दूषयति। अविधायित्वत इति॥३१॥

आम्नायस्य क्रियार्थत्वाद्विधिनेति च सूत्रणात्॥
विधिशेषतया तेषामेकवाक्यत्वसंभवे॥३६॥

तेषु श्रुतवस्तुपरत्वाभावे किं पराणि तानीत्याशङ्क्यार्थवादाधिकरणन्यायेनाऽऽह।आम्नायस्येति। **अयं भावः—**अस्ति तावदाम्नायस्य सर्वस्य फलवत्कार्यपरत्वं तद्यानि वाक्यानि सोऽरोदीदित्यादीनि क्रियां वा तत्संबन्धं वा किंचिन्नावगमयन्ति तेषां फलवद्धर्माप्रमापकत्वात्फलवदभिधेयवैधुर्यम्। तस्मादेवंजातीयकं वाक्यमनित्यं सिद्धार्थापेक्षितया प्रमाणान्तरसापेक्षमप्रमाणमि-त्याम्नायस्य क्रियार्थत्वादित्यादिसूत्रार्थः। तथाच सार्थवादानां शब्दानामप्रामाण्यमिति पूर्वपक्षितम्। वायुर्वै क्षेपिष्ठा देवतेत्यादिरर्थवादो वायव्यं श्वेतमालभेत भूतिकाम इत्येवमन्तेन विध्युद्देशेनैकवाक्यत्वात्प्रमाणं विधेयस्तुतेश्चैकवाक्यत्वं पदानां साकाङ्क्षत्वात्। यद्यपि वायुर्वै क्षेपिष्ठेत्यादौ क्रिया वा तत्संबन्धो वा किंचिन्नावगम्यते तथाऽपि विधीनामालभेतेत्यादीनामपेक्षितक्रियादिस्तु-तिलक्षणेनार्थेनार्थवन्तः सन्तोऽर्थवादाः प्रमाणं स्युरिति विधिना त्वेकवाक्यत्वादित्यादि-

सिद्धान्तसूत्रस्यार्थः। अतोऽक्रियार्थानामपि विधिनैकवाक्यतयाऽर्थवत्त्वाद्वेदान्तानामपि सोऽरोदीदित्यादिवद्विधिशेषत्वमिति। कर्मप्रकरणस्थानामक्रियार्थानां सोऽरोदीदित्यादीनां विधिशेषतयाऽर्थवत्त्वेऽपि भिन्नप्रकरणस्था वेदान्ता न तादर्थ्येनार्थवन्तः स्युरित्याशङ्क्याऽऽह। विधीति॥३६॥

वचसामक्रियार्थानां वाक्यभेदप्रकल्पना॥
गुर्वी स्यान्ननु कैवल्यं फलं नित्यमिहेष्यते॥३७॥

अस्यार्थः। यथा सोऽरोदीदित्यादिवचसां मुखतोऽक्रियार्थानां स्वार्थे फलमलभमानानां फलाकाङ्क्षिणां विधिनैकवाक्यतयाऽभ्युदये पर्यवसानं तथा वेदान्तानामपि स्वार्थे फलविकलानां तदाकाङ्क्षिणां फलवद्विध्येकवाक्यतामासाद्य पर्यवसानं युक्तं लाघवात्। न हि वेदान्तानामुक्तविधया विधिशेषत्वेन तदेकवाक्यत्वसंभवे वस्तुबोधित्वेन वाक्यान्तरत्वं गौरवात्।" संभवत्येकवाक्यत्वे वाक्यभेदश्चनेष्यत" इति न्यायात्तत्र न तेषां प्रकरणान्तरत्वमिति। वेदान्तानां विधिशेषत्वममृष्यन्नाशङ्कते। नन्विति। तेषां विधिशेषत्वे विधेयक्रियासाध्या मुक्तिरनित्या स्यान्न च मोक्षशास्त्रे तदनित्यतेष्टा। अतो न सा कर्मसाध्या नित्यत्वादात्मवदित्याह। कैवल्यमिति॥३७॥

कथं नित्यं भवेत्तन्नो यदि स्यात्कर्मणः फलम्॥
कर्मोत्थं न यतः किंचिद्ध्रुवं जगति वीक्ष्यते॥३८॥

क्रियासाध्यत्वेऽपि तन्नित्यता किं न स्यादित्याशङ्क्याऽऽह। कथमिति। कर्मसाध्यत्वेऽपि न मुक्तेरनित्यत्वप्रसङ्गः कर्मफलत्वानित्यत्वयोरव्याप्तैर्न हास्य कर्म क्षीयत इति श्रुतेरित्याशङ्क्याऽऽह।कर्मेति। कृष्यादिफलेषु कर्मफलत्वानित्यत्वयोर्व्याप्तेर्यत्कृतकं तदनित्यमितिव्याप्त्यनुगृहीतया “तद्यथेत्यादिश्रुत्योपास्तिस्तुत्यर्थायाः श्रुतेर्बाधाच्च न प्रसङ्गस्य प्रशिथिलमूलतेत्यर्थः॥३८॥

तत्साधनेन चावश्यं भवितव्यमतो भवेत॥
पारिशेष्यादिह ज्ञानं वेदान्ते तत्प्रसिद्धितः॥३९॥

तर्हि हेतुरेव मुक्तेर्मा भून्नित्यत्वादित्याशङ्क्य सा साधनापेक्षा पुमर्थत्वात्स्वर्गवदित्याह।तत्साधनेनेति। तथाऽपि कथं ज्ञानस्य तद्धेतुत्वं तत्राऽऽह। अत इति। इहेति मोक्षोक्तिः। ज्ञानं हेतुरिति शेषः। नित्याऽपि मुक्तिः प्रतिबन्धध्वंसे ज्ञानापेक्षेति भावः।प्रसक्त30प्रतिषेधेऽन्यत्राप्रसङ्गाच्छिष्यमाणे31 संप्रत्ययः परिशेषः। अत्र ज्ञानकर्मणी प्रसक्ते तत्र कर्मनिषेधाज्ज्ञानं मुक्तिहेतुरित्याह। पारिशेष्यादिति। ज्ञानस्याप्रसक्तेर्नैवमित्याशङ्क्य

ब्रह्म वेदेत्यादौ मुक्तिहेतुत्वेन ज्ञानस्य प्रसिद्धत्वाद्युक्तौ प्रसङ्गपरिशेषावित्याह। वेदान्त इति॥३९॥

नैवं क्रियाभ्य एवास्या मुक्तेः सिद्धत्वहेतुतः॥
कुतः क्रियाभ्यः सिद्धिच्छृणु तद्भण्यते यतः॥४०॥

पूर्ववादी पारिशेष्यं दूषयति। नैवमिति। क्रियासाध्यत्वे मुक्तेः स्वर्गवदनित्यत्वापत्तेर्न तत्फलतेत्याक्षिपति। कुत इति। अनित्यत्वं हित्वा तस्या यथा क्रियाफलत्वं ज्ञातुं शक्यं तथोच्यते तत्रावहितेन भाव्यमित्याह। शृण्वति॥४०॥

निषिद्धकाम्ययोस्त्यागात्कर्मणोर्नित्यकर्मणः॥
करणात्प्रत्यवायस्य हतेर्भोगेन च क्षयात्॥४१॥

शरीरारम्भकस्यैवं मुक्तिः सिद्धाऽन्तरात्मनः॥
विनाऽप्यैकात्म्यसंबोधात्कर्मणैवोक्तवर्त्मना॥४२॥

क्रियाफलस्यापि मुक्तेर्नित्यत्वं साधयति। निषिद्धेत्यादिना। पूर्वोपार्जितानि सर्वाणि कर्माणि संभूय देहमेकमारभन्ते तत्र ममाहंबुद्धिभागी यदि कश्चिद्देवयोगान्मुमुक्षुः स्यात्तदा तस्य निषिद्धकर्मत्यागान्नर32कयोनिनिरासः। काम्यकर्मत्यागाद्देवादिदेहाप्राप्तिः। नित्याद्यनुष्ठानादकरणनिमित्तप्रत्यवायहतिः। वर्तमानदेहारम्भककर्मणश्च भोगेन क्षयः। अतो वर्तमानदेहपाते देहान्तरग्रहे हेत्वभावादुक्तचरितस्याऽऽत्यन्तिकदेहोच्छित्तिर्मुक्तिरनायाससिद्धेत्यर्थः। अथ यथोक्तचरितोऽपि विज्ञानमपेक्ष्य मोक्षी संपत्स्यते नेत्याह।विनेति। उक्तरीत्या कर्मणैव मुक्तिर्न ज्ञानाद्भविष्यदेहासंबन्धनिबन्धनाया मुक्तेस्तत्संबन्धनिमित्ताभावमात्राधीनत्वा-न्निमित्ताभावे नैमित्तिकाभावादिति भावः॥४१॥४२॥

ननु चाऽऽत्मावबोधस्य निचाय्येति फलं श्रुतम्॥
ब्रह्म वेदेति च तथा नैवं तस्यार्थवादतः॥४३॥

ननु नैवमपि कर्म निर्वाणहेतुर्ज्ञानस्य तद्धेतुत्वश्रुतिविरोधान्न हि श्रुतं हित्वाऽश्रुतमादेयमिति शङ्कते। नन्वितिनिचाय्य तं मृत्युमुखात्प्रमुच्यते ब्रह्म वेद ब्रह्मैव भवतितरति शोकमात्मविदित्यादौ ज्ञानं मुक्तिहेतुरिति श्रुतमित्येतद्दुषयति। नैवमिति॥४३॥

फलोक्तेरर्थवादत्वं द्रव्यसंस्कारकर्मसु॥
सर्वत्र दर्शनाच्छास्त्रे पर्णमय्यां फलोक्तिवत्॥४४॥

ज्ञानस्य मुक्तिहेतुत्वश्रुतिर्विद्यमानाऽपि न स्वार्थे मानमर्थवादत्वादित्येतत्कथमित्याशङ्क्याऽऽह। फलेति। आत्मज्ञाने फलश्रुतेरर्थवादत्वं शास्त्रे द्रव्यादिषु सर्वेषु तदर्थवा-

दत्वस्य दर्शनादिति योजना। तत्र द्रव्यादिषु फलश्रुतेरर्थवादत्वे दृष्टान्तमाह। पर्णमय्यामितिअयं भावः– “द्रव्यसंस्कारकर्मसु परार्थत्वात्फलश्रुतिरर्थवादः स्यात्” [जै०सू० ४।३।१] यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोति यदाङ्क्तेचक्षुरेव भ्रातृव्यस्य वृङ्क्तेयत्प्रयाजानुयाजा इज्यन्ते वर्म वा एतद्यज्ञस्य क्रियते वर्म यजमानस्य भ्रातृव्याभिभूत्या इति द्रव्यादिषु फलश्रुतयः। किमेते फलविधयः किंवाऽर्थवादा इति संशय्य यस्य पथ्यं भोजनं भवति स कल्पो भवतीत्येवंजातीयकाद्वाक्याल्लोके साध्यसाधनताधीदृष्टेस्तत्सामान्यादत्रापि या क्रत्वर्था जुहूस्तां पर्णमयीं कुर्यादपापश्लोकश्रवणकाम इति साध्यसाधनत्वबुद्ध्युत्पादात्पर्णतासाध्यं स्वतन्त्रमेव कार्यमिति फलविधित्वमासामिति पूर्वपक्षयित्वा लौकिकवाक्यस्य मानान्तर सिद्धार्थत्वात्तदविरोधेन यथाकथंचिदर्थधीसंभवेऽपि वेदे शब्देकनिबन्धनत्वादैदमर्थ्यस्य क्रत्वविनाभूतजुहूद्वारा संनिहितक्रत्वपूर्वार्थतैव पर्णत्वस्येत्यमूषामर्थवादतेति राद्धान्तितं चतुर्थे। तथा च पर्णताद्यवच्छिन्नजुह्वादेःक्रत्वर्थत्वाद्यथा तत्र फलश्रुतिरर्थवादस्तथाऽऽत्मज्ञानेऽपि साऽर्थवादी भवति तस्य प्रोक्षणादिवत्कर्मशेषत्वादिति॥४४॥

आत्मनः कर्मशेषत्वात्तद्धियः कर्मशेषता॥
विधिं त्वयाऽनिच्छताऽपि ह्यभ्युपेयाऽर्थवादता॥४५॥

ननु कर्मसंबन्धिजुह्वादिद्वारा कर्माङ्गत्वात्पर्णतादेस्तत्र फलश्रुतिरर्थवादः स्यादात्मज्ञाने तु द्वाराभावात्कर्माङ्गत्वायोगान्न फलश्रुतेरर्थवादता न चेदं द्वारानपेक्षमेव क्रतावन्वेति पुरोडाशादिवत्तदनिर्वर्तकत्वात्तत्राऽऽह। आत्मन इति। यथा जुहूद्वारा क्रतूपकारि पर्णत्वं तथा कर्तृसंस्कारद्वारा तदुपकारि ज्ञानमपि तच्छेषः। तद्युक्ता तत्र फलश्रुतेरर्थवादतेत्यर्थः। ननु वायुर्वै क्षेपिष्ठेत्यादिरर्थवादो विधिशेषो दृष्टो न चास्ति वेदान्तेषु विधिरतो न ज्ञाने फलश्रुतिरर्थवादस्तत्राऽऽह। विधिमिति। ज्ञानस्याविधेयत्वात्तत्र विध्यभावेऽपि प्रोक्षणवत्कारकसंस्कारतया दुर्वाराऽस्य विधिशेषतेति युक्ता तत्फलश्रुतेरर्थवादतेत्यर्थः॥४५॥

नैवं तद्धेतुतद्रूपविरोधादितरेतरम्॥
मुक्त्यभ्युदययोस्तस्मान्न सम्यग्भवतोदितम्॥४६॥

ऐकभविकन्यायेन परोक्तं मुक्तेः कर्मसाध्यत्वं निराकरोति। नैवमिति। तत्र हेतुस्तद्धेत्विति। तयोर्मुक्त्यभ्युदययोर्हेतू विवेकाविवेकपूर्वके ज्ञानकर्मणी तयोर्मिथो वैलक्षण्यान्न त्वदुक्तन्यायेन मुक्तिः साध्येत्यर्थः। अथ तद्धेत्वोर्विलक्षणत्वहेतुं परो नानुमन्यते स हि द्वयोरपि कर्मसाध्यत्वमिच्छति तत्राऽऽह। तद्रूपेति। तयो रूपे ध्रुवाध्रुवत्वे तद्वैलक्षण्या33त्तद्धेतुवैलक्षण्यमार्थिकमित्यर्थः। किंच तयो रूपहेतुवैलक्षण्यं प्रागेव यस्मा-

दुक्तं तस्माद्यत्कर्मसाध्यत्वं मुक्तेस्त्वयोच्यते तदुक्तहेत्वज्ञानकृतं न सम्यगित्याह।मुक्तीति॥४६॥

स्वरूपेऽवस्थितिर्मुक्तिरात्मनो भवतोच्यते॥
काम्यादिवर्जनादिभ्यस्तस्याः सिद्धि34श्चवर्ण्यते॥४७॥

पूर्वपक्षानुत्थानमुक्त्वा विधान्तरेणापि तद्वक्तुं परोक्तमनुवदति। स्वरूप इति। उपेयमनुभाष्योपायमनुभाषते। काम्यादीति॥४७॥

तत्राऽऽत्मा किं स्वरूपे प्राङ्न स्थितो35 येन तत्स्थितौ॥
हेतुं व्यपेक्षते यत्नात्स्वरूपं हि न तद्भवेत्॥४८॥

उक्तहेत्वनुष्ठानात्प्रागात्मा स्वरूपे स्थितो न वेति विकल्पयति। तत्रेति। द्वितीयमनुवदति। स्वरूप इति। हेत्वनुष्ठानात्प्रागात्मनः स्वरूपानवस्थितत्वे गमकमाह।येनेति। येन हेतुना स्वरूपस्थितावात्मा हेतुमन्वेषते तेन प्रागयं स्वरूपे न स्थितो यदीत्यनुवादार्थः। दूषयति। स्वरूपं हीति॥४८॥

स्वतोऽनवस्थितो यत्र हेतुना स्थाप्यते बलात्॥
अथावस्थित एवायं किमर्थं हेतुमार्गणम्॥४९॥

यत्र स्वतो36 न स्थितो हेतुना चानुष्ठानवशेन स्थापितस्तन्नाऽऽत्मस्वरूपमागन्तुकत्वाद्धर्मादिवदित्यर्थः। आद्यमादत्ते। अथेति। तर्हीष्टहेत्वनुष्ठानं व्यर्थं न हि प्राप्तग्रामो ग्रामं जिगमिषतीति दूषयति। किमर्थमिति॥४९॥

कैवल्येऽपि च तत्सत्क्तेरनिर्मोक्षः प्रसज्यते॥
अतो निषिद्धकाम्यादिवर्जनान्नाऽऽत्ममुक्तता॥५०॥

प्राप्तफलोऽपि स्वभावादेवोक्तं हेतुमनुतिष्ठन्न दुष्यतीत्याशङ्क्याऽऽह। कैवल्येऽपीति। स्वभावस्य यावद्द्रव्यभावित्वान्मुक्तोऽपि तमनुतिष्ठेत्ततो मुक्तिबन्धयोरैकरूप्यं स्यादित्यर्थः। किंच काम्यवर्जनादि देहादियोगाधीनमिति मुक्तस्यापि तदनुष्ठाने तत्संबन्धः स्यात्ततो न मुक्तिरित्याह। अनिर्मोक्ष इति। यतः प्राक्सिद्धत्वे पुनः साधनानुष्ठानवैयर्थ्यमसिद्धत्वे स्वभावत्वायोगोऽतो यथोक्तहेतोरात्मनो न स्वरूपावस्थानरूपमुक्तिसिद्धिरिति फलितमाह। अत इति॥५०॥

विषयाभ्यासजास्वास्थ्यनुत्त्यर्थमिति चेन्मतम्॥
स तु विषयसंपर्कः कस्माद्भवति कारणात्॥५१॥

न स्वरूपावस्थानार्थमुक्तमुपायमुपगच्छामः किंतु संसृष्टेषु विषयेष्वसकृदनुभवजनितपापशमनायेति शङ्कते। विषयेति। नाऽऽत्मन्यसङ्गे विषयसङ्गो हेत्वभावादित्याक्षि-

पति। स त्विति। स्वभावादेवाऽऽत्मनि चैतन्यवद्विषयानुषङ्गमाशङ्क्याऽऽह।कस्मादिति॥५१॥

अकस्माद्भवतः सक्तेर्मुक्तावप्यनिषेधतः॥
अनिर्मोक्षप्रसक्तिर्वस्तथा सति समापते॥५२॥

हेतुंविनाऽऽत्मनि विषयसङ्गे न वो मुक्तिः स्यादित्युत्तरार्धेन प्रतिज्ञातेऽर्थे हेतुरकस्मादित्यादिः। विना हेतुं जायमानार्थयोगस्य मोक्षेऽपि प्रसङ्गधौन्यं हेत्वर्थः। तत्र निवारकाभावं हेतुमाह। अनिषेधत इति॥५२॥

धर्माधर्मनिमित्तश्चेत्किं पुनर्धर्मपातके॥
अप्यसङ्गस्वभावस्य संपर्कं कुरुतो बलात्॥५३॥

विषयसंपर्के हेत्वभावकृतं दोषं धुनीते। धर्मेति। तौ किमसङ्गस्याकर्तुरात्मनोऽर्थयोगं कुर्वते किंवा तद्विपरीतस्येति विकल्प्याऽऽद्यं दूषयति। किं पुनरिति। किंशब्दः क्षेपार्थः॥५३॥

भल्लातकाङ्कवद्वस्त्रे न हि लोके स्फुरन्नपि॥
कुशलोऽपि कुलालः सन्नघटादिस्वभावकम्॥५४॥

मृद्वद्व्योमघटी कुर्यान्मरुद्वाऽग्नेश्च शीतताम्॥
आत्मा कर्त्रादिरूपश्चेन्मा काङ्क्षीस्तर्हि मुक्तताम्॥५५॥

तत्र वैधर्म्यदृष्टान्तमाह। भल्लातकेति। यथा वस्त्रे वस्तुतोऽकलङ्केऽपि भल्लातकफलं संसृज्यमानं तत्कलङ्कयति नैवमात्मनि सङ्गादिहीने धर्माधर्मावर्थयोगविधायकावित्यर्थः। तयोरात्मन्यर्थसंबन्धाधानासामर्थ्यं साधर्म्यदृष्टान्ताभ्यामाह। न हीत्यादिना। स्फुरन्बलान्नेत्युक्तेः स्फुरणं देहबलं कुशलो व्याख्यातेति प्रयोगात्कौशलं37बुद्धिबलमिति भेदः38। यथा कुलालो मृदं घटी करोति तद्वदघटादिस्वभावं नभो घटी न कर्तुमलम्। यथा च वायुः सर्वत्र शैत्यमापादयन्नपि नाग्नेस्तत्करोति तथा धर्मादिः सर्वोत्पत्तिमद्धेतुरपि नोक्तात्मन्यर्थं संबन्धयति न हि स्वभावविपरीतोऽर्थो हेतुशतेनापि कल्पनामर्हतीत्यर्थः। द्वितीयमनुभाषते। आत्मेति। कर्तृत्वादिस्वभावस्तावदात्मा तस्य विषयसंबन्धं धर्माधर्मावाधत्तस्तदभ्यासजास्वास्थ्यनुत्त्यर्थं काम्या39दिवर्जनमित्यर्थः। स किं कर्तृत्वादिकार्यस्वभावः किंवा तच्छक्तिस्वभावः। आद्ये कर्तृत्वादिकार्यध्वस्तावात्मनो मुक्तिस्तदध्वस्तौ वा नाऽऽद्य इत्याह। मा काङ्क्षीरिति॥५४॥५५॥

न हि स्वभावो भावानां व्यावर्त्येतौष्ण्यवद्रवेः॥
स्वभावाद्विनिवृत्तोऽर्थो निःस्वभावः खपुष्पवत्॥५६॥

तत्र हेतुः। न हीति। आत्मस्वभावोऽपि कर्तृत्वादिरनर्थोहेतुविशेषान्निवर्ततामित्याशङ्क्याऽऽह।स्वभावादिति॥५६॥

नाविनश्यन्यतो वह्निर्व्यावर्त्येतौष्ण्यतः क्वचित्॥
न च कर्त्राद्यनिर्मुक्तौ मुक्तिः संभाव्यतेऽन्यतः॥५७॥

अथ मन्त्रादिसंनिधौ स्वभावादप्यौष्ण्याद्वह्निर्व्यावर्तते न चैतावताऽसौ खपुष्पवन्निःस्वभावस्तथाऽऽत्मा यथोक्ताद्धेतोरुक्तस्वभावान्निवृत्तोऽपि न निःस्वभावस्तत्राऽऽह।नेत्यादिना। मन्त्रादिसंनिधिकृतशक्तिप्रतिबन्धान्नाग्निः स्फोटादि करोति न तद्धेतोरौष्ण्यादपि स निवर्तते कालान्तरे तस्मादेव तत्कार्यदृष्टेरतो विद्यमानोऽग्निर्मन्त्रादिसंनिधौ स्वभावादौष्ण्याद्व्यावर्तेतान्यथा नैःस्वाभाव्यापत्तेस्तथाऽऽत्मनोऽपि स्वभावव्यावृत्तौ नैःस्वाभाव्यादमुक्तिरिति भावः। न द्वितीय इत्याह। न चेति। अनर्थध्वस्तिर्हि मुक्तिः कर्तृत्वादिश्चानर्थस्तेन सति तस्मिन्न मुक्तिर्वन्धस्यैव सत्त्वादित्यर्थः॥५७॥

ननु कर्तृत्वभोक्तृत्वकार्यमेवाऽऽत्मसंसृतिः॥
न तु तच्छक्तिरित्येवं शक्तिमात्रतया स्थितौ॥५८॥

कर्तृत्वादिकार्यस्वरूपत्वपक्षं प्रतिक्षिप्य तच्छक्तिस्वभावत्वपक्षमालम्बते। नन्विति। एवकारनिरस्यमाह। न त्विति। तथाऽपि मोक्षानुपपत्तिस्तुल्येति चेन्नेत्याह। इत्येवमिति। शक्तिमात्रतया कर्तृत्वादिकार्यशून्यतच्छक्तिसत्त्वेनेति यावत्॥५८॥

सर्वानर्थविनिर्मुक्तेरुपपन्नाऽऽत्ममुक्तता॥
मैवं40 भेदे तथा भेदे दोषः स्याच्छक्तिकार्ययोः॥५९॥

अनर्थः कर्तृत्वादिकार्यं तच्छक्तौ सत्यामपि स्वापादावनर्थधियोऽभावादित्यर्थः। तच्छक्तिसत्त्वेऽपि न मुक्तिरिति दूषयति41मैवमिति। कथं शक्तिपक्षे मोक्षायोगस्तत्राऽऽह। भेद इति॥५९॥

शक्तितत्कार्ययोर्यस्माद्व्यतिरेको न विद्यते॥
नियमासंभवः प्रापद्व्यतिरेकस्तयोर्यदि॥६०॥

कथमुभयत्र दोषसत्त्वमित्याशङ्क्य शक्तिशक्ययोरुपादानोपादेययोर्भेदे दोषं विशदयति। शक्तीति। इयं शक्तिरिदं कार्यमिति व्यतिरेको यस्मान्नोपलभ्यते विदेरत्र ज्ञानार्थत्वान्नासावस्तीत्यर्थः। अयोग्यत्वाद्विद्यमानोऽपि तद्भेदो न भातीत्याशङ्क्याऽऽह।नियमेति। शक्तितत्कार्ययोर्भेदे शक्तिरियं तत्कार्यमिदमिति नियमो न स्याद्गवाश्वयोरिवात्यन्तभिन्नयोस्तद्भावासंभवादित्यर्थः॥६०॥

कार्यकारणता न स्यात्स्वतो भेदेन सिद्धयोः॥
अभेदे च तयोरैक्यात्कार्यकारणता कुतः॥६१॥

शक्तितत्कार्ययोरिव गवाश्वयोरकार्यकारणत्वान्नानियम इत्याशङ्क्याऽऽह। कार्येति। वास्तवभेदे कार्यकारणत्वस्यैवाश्वम-हिषवदयोगान्न तेनानियमनिराकृतिरित्यर्थः। अभेदपक्षे दोषं प्रकटयति। अभेदे चेति॥६१॥

नाकुर्वत्कारणं दृष्टं कार्यं चाक्रियमाणकम्॥
अथाभेदस्तयोरिष्टः कार्यध्वस्तौ प्रसज्यते॥६२॥

तच्छक्तेरपि विध्वंसस्तयोरव्यतिरेकतः॥
शक्तिस्वरूपहाने च शक्तिमद्रूपनिह्नुतिः॥६३॥

तयोरव्यतिरेकत्वात्स एवाऽऽयात्यनीप्सितः॥
निरात्मवादः पूर्वोक्तस्तस्मान्नैवं42 प्रकल्पयेत्॥६४॥

शक्तितत्कार्ययोरैक्येऽपि वस्तुनि कार्यकारणत्वे का हानिस्तत्राऽऽह। नाकुर्वदिति। न हि वस्तुमात्रं कारणं कार्यं वा तत्र कुर्वत्त्वक्रियमाणत्वविभागाभावादकुर्वत्कारणमक्रियमाणं कार्यमित्यलौकिकं स्यादित्यर्थः। दोषान्तरं वक्तुं पुनरभेदपक्षमनुवदति। अथेति। कार्ये वा शक्तेरन्तर्भावः शक्तौ वा कार्यस्येति विकल्प्याऽऽये दोषमाह। कार्येति। तच्छक्तेः कार्यप्रतियोगिकारणभूतशक्तेरिति यावत्। कर्तृत्वादिकापर्यनाशवत्तच्छक्तिनाशेऽपि का क्षतिस्तत्राऽऽह। शक्तीति। शक्तितत्कार्यशाक्तिमतां नाशेऽपि किं नश्छिन्नं तत्राऽऽह। स एवेति। अप्रस्तुते निरात्मवादे कथं स एवेति परामर्शस्तत्राऽऽह। पूर्वोक्त इति।स्वभावाद्विनिवृत्तोऽर्थइत्यत्रेति यावत्। तथा च फलाभावान्न मोक्ष इति शेषः। कार्यस्य शक्त्यन्तर्भावे शक्तिस्थितौ कार्यानाशात्कर्तृत्वादेस्तच्छक्तिवद्यावदात्मभावित्वादनिर्मुक्तिरेवेत्यभिप्रेत्याभेदनिरासमुपसंहरति। तस्मादिति॥६२॥६३॥६४॥

मतं कार्यानभिव्यक्तिर्निमित्तासंभवाद्यदि43
शक्तेरिति न तद्युक्तं शक्तितद्धेतुसंभवात्॥६५॥

शक्तितत्कार्यस्वभावपक्षयोरुक्तदोषं परिहरन्मतान्तरमाह। मतमिति। न कार्यस्य तच्छक्तेर्वा स्वरूपनाशो मुक्तिः किंतु शक्तेर्यत्कार्यं तदनभिव्यक्तिः सेति यदि मतमिति योजना।कार्याव्यक्तेः स्वापादावपि सत्त्वादतिप्रसक्तिरित्याशङ्क्याऽऽह। निमित्तेति। स्वापादौ पुनर्व्यक्तिनिमित्तान्यदृष्टादीनि सन्ति। अन्यथा ज्ञानानर्थक्यात्। मुक्तौ तु तेषामसंभवस्तथा चाऽऽत्यन्तिककार्यानभिव्यक्तिः सेति नातिप्रसक्तिरित्यर्थः। शक्तिकार्ययोः सतोरेव कार्याव्यक्तिर्मुक्तिरित्येतन्निरस्यति। न तदिति। तत्र हेतुमाह।शक्तीति। शक्तिरुपादानं तद्गतो वाऽतिशयस्तस्य कार्यस्य हेतुर्धर्मादिस्तयोः संभवा-

देति योजना। यानि संसारे कार्यव्यक्तिनिमित्तानि तान्यविकलानि मुक्तावपि, तदविकला तत्रापि कार्यव्यक्तिः स्यादिति44 भावः॥६५॥

शक्तिरूपेण संबन्धो निमित्तानामपीष्यते॥
नैमित्तिकैरिति ततो वह्न्यौष्ण्यादिसमानता॥६६॥

ननु मोक्षे हेतुफलयोरव्यक्तयोः सत्त्वेऽपि मिथोऽसंबन्धान्न45तदा कार्यव्यक्तिरत आह। शक्तीति। निमित्तानां धर्मादीनां शक्त्या समवायिकारणेन तद्गतातिशयेन च संबन्धवन्नैमित्तिकैरपि कर्तृत्वादिभिरसावेष्टव्यः समवायी खल्वात्मा मोक्षेऽप्यस्तीति तदाशयाश्च धर्मादयस्तदा शक्तिवदव्यक्ताः। अतस्तत्राऽऽश्रयाश्रयित्वसंबन्धस्तद्गतातिशयेन तेषामैकाधिकरण्यम्। एतेन नैमित्तिकैरपि शक्तेरुक्तः संबन्धः। तद्धेतूनां कर्तृत्वादेभिर्निमित्तनैमित्तिकत्वं तस्मात्तत्रापि कर्तृत्वादिव्यक्तिः संसारादविशेष इत्यर्थः। मुक्त्यभावं फलितमाह46इति तत इति। यतो धर्मादीनां नैमित्तिकैस्तत्संबन्धस्य च मुक्तौ दुर्वारता ततः सत्यनावप्रतिबद्धे47 तदौष्ण्यप्रकाशव्यक्तिवद्व्यञ्जकसद्भावे तत्रापि कार्यव्यक्तिर्नियतेति तदव्यक्तिर्मुक्तिरिति पक्षो न युक्त इत्यर्थः॥६६॥

कार्यस्य शक्तितन्त्रत्वे सर्वदा कारणस्थितेः॥
कार्योत्पत्तिः सदैव स्यान्निदाघे घर्मवद्यतः॥६७॥

किंच कर्तृत्वादिकार्यस्य पुष्कलकारणतन्त्रत्वमस्ति न वा तत्राऽऽद्यमनूद्य दूषयति।कार्यस्येति। शक्तिः समग्रो हेतुः कारणशब्दस्यापि स एवार्थः। न तद्युक्तमित्याद्युक्तरीत्या पुष्कलहेतोर्मोक्षेऽपि भावात्तत्रापि कार्योत्पत्तिप्राप्तेर्मुक्तिप्रलयसुप्तीनां लयः इत्यादित्यर्थः। पूर्णहेतुतन्त्रत्वे कार्यस्य सति तस्मिन्न मुक्तिरित्यत्र दृष्टान्तमाह।निदाघइति। धर्मपुष्कलहेतौ सति धर्मसातत्यवत्कर्तृत्वादिसामग्र्यां यतस्तद्विलम्बाद्योगोऽतः कर्तृत्वादिसातत्ये सत्यमुक्तिरित्यर्थः॥६७॥

तथैव शक्त्यतन्त्रत्वेऽप्येष दोषो यतो भवेत्॥
सदा कार्यं न जायेत कारणासंभवात्सदा॥६८॥

द्वितीयं निराकरोति। तथेति। यथाऽऽद्ये मोक्षासंभवस्तथैव कर्तृत्वादेः सामग्र्यनधीनत्वेऽपि यतः सोऽनुषज्यतेऽतस्तदतन्त्रत्वमयुक्तमित्यर्थः। तमेव दोषं दर्शयति।सदेति। कार्यं कतृत्वादि सदा कारणासंभवात्कार्यस्य च कदाचिदपि पुष्कलकारणाधीनत्वाभावात्तदभावेन तन्निवृत्तिर्मुक्तिरित्यर्थः॥६८॥

निदाघे शीतवद्यस्माद48तोऽसम्यगिदं वचः॥
निष्कारणस्य चोद्भूतौ कार्यजन्म सदा भवेत्॥६९॥

अमति कारणे कार्यानुत्पत्तौ दृष्टान्तमाह। निदाघ इति। धर्मसामम्यां शैत्यहेत्वभावात्तदनुत्पत्तिवत्कर्तृत्वादेरपि यदधीनत्वं तदभावे कुतो जन्मेत्यर्थः। यस्मात्कारणातन्त्रत्वे कार्यमयुक्तं तस्मात्तदतन्त्रत्ववचोऽयुक्तमिति फलितमाह। यस्मादिति। यत्कारणानधीनं तन्न जायते यथाऽऽत्मेत्ययुक्तं विना हेतुं कार्योत्पत्तौ बाधकाभावादित्याशङ्क्याऽऽह। निष्कारणस्येति॥६९॥

कायर्ता वा कुतोऽस्य स्यान्न चेत्कारणतन्त्रता॥
न च शक्यं प्रतिज्ञातुं जन्माऽऽरभ्याऽऽमृतेर्नृभिः॥७०॥

निषिद्धकाम्यकर्मादिवर्जनं निपुणैरपि॥
सूक्ष्मापराधसंदृष्टेरतियत्नवतामपि॥७१॥

कर्तृत्वादेः स्वतन्त्रत्वे न कादाचित्कतेति बाधकान्तरमाह। कार्यतेति। आत्मनः स्वरूपावस्थानाय विषयाभ्यासजास्वास्थ्यनुत्तये वा परकीयोपायो नोपयोगीत्युक्तमिदानीमुपायमेवापाचिकीर्षुरादौ काम्यवर्जनादिप्रतिज्ञा दुष्करेत्याह। न चेति। जन्माऽऽरभ्याऽऽमृतेर्जन्ममरणान्तरालावस्थायामिति यावत्। निपुणैरपि नृभिरिति संबन्धः। आदिपदेन निषिद्धकाम्यदर्शनवर्जनसंग्रहः। त्वदुक्तहेतुप्रतिज्ञैव मनुष्याणां दुष्करा तदनुष्ठानं पुनर्दूरनिरस्तं देवास्तु कथंचिदेवं प्रतिज्ञातुं तदर्थं49 चानुष्ठातुमलमित्युपहासार्थं नृभिरित्युक्तम्। अथाल्पमेधसामस्मादृशामीदृशप्रतिज्ञातदनुष्ठानयोरशक्यत्वेऽपि महाधियां मनुष्याणामतियत्नत्रतां तयोः शक्यत्वं नेत्याह। सूक्ष्मेति। महत्त्वं नोक्तप्रतिज्ञातदनुष्ठाननिर्वाहकमिति शेषः॥७०॥७१॥

संशयस्तु भवत्येव पक्षासिद्धिस्तु तावता॥
अथ चेन्मोक्ष्यते सोऽत्र यस्य संपत्स्यते तथा॥७२॥

ननु देशकालयोर्निरवधित्वात्कस्यचिदपि मदुक्तोपायप्रतिज्ञा तदनुष्ठानासामर्थ्यप्रतिज्ञा त्वदीया न युक्ता तवासर्वविदस्तदभावनिश्चय50प्रमाणाभावादत आह। संशयस्त्विति। त्वदुक्तहेत्वनुष्ठानासामर्थ्यसाधकमानाभावेऽपि तत्सत्तावेदकप्रमाणाभावाद्भवति श्रोतुरुतौ संशय इत्यर्थः। संशयानस्य संशयितार्थोपसर्पणवन्मदुक्तमपि हेतुं कुतूहलितया संदिहानोऽनुतिष्ठेदित्याशङ्क्याऽऽह। पक्षेति। अल्पायासेष्वर्थेषु संशयात्प्रवृत्तावपि महायासे समुद्रतरणादौ संदेहवतोऽप्रवृत्तेस्त्वदुक्तहेतोश्च बहुलायासत्वान्न तत्र संदेहात्प्रवृत्तिरित्यर्थः। संशयादपि स्वपक्षसिद्धिं शङ्कते। अथेति। दृष्टकोटिद्वयस्यैव संशयदृष्टेरुक्तहेत्वनुष्ठानाधिकारोऽपि संशयवता क्वापि दृश्येतातो यस्य क्षपितकल्मषम्योक्तो हेतुः संपूर्णो भविष्यति स यद्यपि नास्माभिर्विशेषतो गम्यते तथाऽपि तस्य यथोक्तहेत्वनुष्ठानान्मोक्षो भवितेत्यर्थः51। अत्रेति निर्धारणसप्तम्यधिकृतविषया॥७२॥

त्वदुक्तं नैतदेवं स्यादवक्तव्यत्वहेतुतः॥
निश्चितं साधनं वाच्यं ज्ञानं52 निःश्रेयसं प्रति॥७३॥

संशयात्पूर्वपक्षसिद्धिं दूषयति। त्वदुक्तमिति। एतत्काम्यवर्जनादिसाधनं त्वदुक्तं संशयात्पक्षसिद्धिरित्येवमुपगमे न स्यादित्यक्षरार्थः। न तावत्संशयोऽर्थनिश्चायको53ऽर्थापत्त्याऽप्रमाणत्वान्नापि तदनुपपत्त्या त्वत्पक्षसिद्धिरदृष्टकोटिद्वयस्यापि शाब्दसंशयदर्शनात्। अत्यन्तासत्यपि ज्ञानमर्थे शब्दः करोति हीति न्यायात्। अतः संशयात्पक्षसिद्धिं वदता पक्षासिद्धिरेवोक्तेति भावः। ननु विमतं क्वचित्सिद्धं संशयकोटित्वात्संमतवदिति तत्राऽऽह। अवक्तव्यत्वेति। त्वदुक्तेरिति पाठे त्वनेन संबन्धः। अवक्तव्यत्वं साधयति। निश्चितमिति। न च संशयविषयो निश्चितो व्याघातादतः संशयविषयत्वात्क्वचिदस्तीति न वाच्यम्। शाब्द54संशयविषये च व्यभिचारादिति शेषः। संशयविषयोऽपि कृष्यादिवदुपदिश्यतामित्याशङ्क्याऽऽह। निःश्रेयसमिति। संशयितोऽपि कृप्यादिर्दृष्टफलत्वादुपदेष्टुं युक्तस्त्वदुक्तस्तु हेतुर्निःश्रेयसार्थत्वान्मानतो निश्चयं विना नोपदेशमर्हतीत्यर्थः॥७३॥

न तु यादृच्छिकी सिद्धिर्वक्तव्येह विपश्चिता55
दैवगोचर एवैष न तु मानुषगोचरः॥७४॥

अथानिश्चितमपि मानतस्तप्तशिलारोहणादि निःश्रेयसाधनं केचिदुपदिशन्ति तत्राऽऽह। नत्विति। यादृच्छिकी सिद्धिर्मानादृते सिद्धिः सा निरतिशयं फलमाकाङ्क्षन्तं प्रति विवेकिना न वाच्या ये तु मोक्षेऽपि तप्तशिलारोहादिना यादृच्छिकीं सिद्धिमिच्छन्ति ते न विपश्चित इत्यर्थः। संशयात्पक्षसिद्धिं निराकृत्योक्तहेतोरसंभवित्वं साधितं निगमयति। दैवेति56॥७४॥

सहकर्त्री भवेच्छक्तिरिति न्यायाद्भवेद्यदि।
मनुष्यगोचरोऽपीति नाऽऽख्यातासंभवात्तथा॥७५॥

आख्यातानामर्थं बोधयतामधिकारिशक्तिः सहकारिणीति न्यायाद्विधेयार्थानुष्ठानशक्तमधिकारिणं विना विधेर्विधित्वायोगात्काम्यादि मुमुक्षुर्वर्जयेदित्याख्यातस्य मनुष्यं प्रति स्वार्थं बोधयतो मनुष्यशक्तिसापेक्षत्वाद्देवमात्रगोचरत्वमस्यासिद्धमिति शङ्कते। सहकर्त्रीति। यत्राऽऽख्यातमस्ति तत्र तत्सहकर्त्री कर्तृशक्तिरिष्टा न च मोक्षकामी काम्यादि वर्जयेदित्याख्यातं ख्यात्यतो न मनुष्यगोचरतोत्तहेतोरिति समाधत्ते। नाऽऽख्यातेति॥७५॥

मुक्त्यर्थी न हि काम्यादि वर्जयेदिति चोदना॥
अस्ति वेदे क्वचिद्येन शक्तेर्विध्येकदेशता॥७६॥

मोक्षार्थी काम्यादि वर्जयेदित्यस्मद्वचनस्थमाख्यातमस्तीत्याशङ्क्यत्वद्वचनस्य श्रुतिः स्मृतिर्वा मूलमिति विकल्प्याऽऽयं दूषयति57मुक्त्यर्थीति। श्रुतौ क्वचिदपि यथोक्ताख्यातासत्त्वे फलितमाह। येनेति। येन वेदे यथोक्ताख्यातसत्त्वेन कर्तृशक्तेराख्यातसहकारित्वेन तदंशत्वं तथा वेदे नाऽऽख्यातमस्त्यतो न श्रुतिमूलत्वेन त्वद्वाक्यप्रामाण्यमित्यर्थः॥७६॥

काम्यादिवर्जनं त्वेत58त्स्वमतिप्रभवं यतः॥
नातः शक्तेस्तदंशत्वं कथंचिदपि युज्यते॥७७॥

मोक्षार्थी न प्रवर्तेत तत्र काम्यनिषिद्धयोः। नित्यनैमित्तिके कुर्यात्प्रत्यवायजिहासयेत्याप्तवाक्यमस्मद्वचोमूलमिति द्वितीयमाशङ्क्याऽऽह। काम्यादीति। न तावदिदं स्वतो मानं स्मृत्यधिकरणविरोधात्। न च प्रत्यक्षादि तन्मूलम्। पारलौकिकसाध्यसाधनसंबन्धस्य वेदैकगोचरत्वात्। न च वेदे यथोक्तमाख्यातमस्तीत्युक्तम्। तस्मादाप्तवाक्यस्य निर्मूलत्वेनामानत्वात्त्वद्वाक्यस्य तन्मूलत्वेन मानत्वायोगात्काम्यादिवर्जनविषयमाख्यातं त्वदुत्प्रेक्षामात्रं यतो भात्यतो न कर्तृशक्तेस्त्वद्वाक्यस्थाख्यातसहकारित्वेन तदंशतेत्यर्थः। त्वद्वाक्यस्य श्रुतिस्मृतिमूलत्वे निर्मूलत्वे वा तद्गताख्यातसहकारित्वेन तदंशत्वं कर्तृशक्तेर्न सिध्यतीति द्योतयति। कथंचिदपीति॥७७॥

नित्यादिकरणान्नापि काम्यादेश्चापि वर्जनात्॥
श्रेयः संभाव्यते विद्यानिष्फलत्वप्रसङ्गतः॥७८॥

ननु मद्वाक्यस्योक्तमाप्तवाक्यं मूलं तन्मूलत्वेन च यथोक्तमुक्तिसाधनवादिवेदवाक्यमनुमीयते। आचाराच्च स्मृतिं ज्ञात्वा स्मृतेश्च श्रुतिकल्पनमिति न्यायादत आह।नित्यादीति। चकारोऽवधारणार्थो नञा संबध्यते। निचाय्य तं मृत्युमुखात्प्रमुच्यत इत्यादिविद्यामोक्षफलत्वप्रत्यक्षश्रुतिविरोधान्नोक्ता कल्पनाऽविरोधाधिकरणविरोधादिति भावः॥७८॥

काम्यात्स्वर्गादिकं मा भूदक्रियायां तदुद्भवम्॥
अर्थान्तरात्स्वभावाद्वा भवन्न तु निवार्यते॥७९॥

भवतु यथा कथंचित्काम्यादिवर्जनं तथाऽपि न तस्य मोक्षोपायतेत्याह। काम्यादिति। काम्यकर्मनिमित्तं स्वर्गादि तद्भोगकारणं देहादि च तद्धेतुकर्मवर्जनान्मा भूत्। अक्रिया नाम निषिद्धक्रिया तस्यां सत्यां तत्परिपाकजं नरकपतनं तन्निदानं च देहादि निषिद्धवर्जनाद्वर्ज्यतां तथाऽपि न मुक्तिः। इष्टापूर्तादिहेतूनामित्यत्र वक्ष्यमाणादर्थान्तरात्स्वभावाद्वा पुण्यदेशनिवासादिकृतपुण्यादिवशाद्भवतः स्वर्गादेर्दुर्निवारत्वादित्यर्थः॥७९॥

अन्यतो भवने मानं न चेदस्त्विह संशयः॥
एतावताऽपि पक्षस्ते प्रतिबद्धो न सिध्यति॥८०॥

ननूक्तोपायवतो वर्तमानदेहपाते हेत्वन्तराद्देहान्तरभावे मानाभावात्कैवल्यमावश्यकमिति शङ्कते। अन्यत इति। हेत्वन्तराद्देहान्तरस्याभवनेऽपि मानाभावाविशेषाद्भवनविषये संशयः स्यादित्याह। अस्त्विति। संशये च पक्षासिद्धिमुक्तां स्मारयति। एतावतेति। पक्षपदेन परकीयोपायलभ्यो मोक्षो गृह्यते निश्चयाधीनत्वात्पारलौकिकहेत्वनुष्ठानस्य संशयस्तत्प्रतिबन्धकः। अतः संशयेन विवक्षितो हेतुर्यस्मात्प्रतिबद्धस्तस्मात्तेमुक्त्यसिद्धिरिति भावः॥८०॥

अथैतयोरिति तथा चोदनार्थातिलङ्घिनाम्॥
सुखदुःखादिसंदृष्टेर्न चाप्यस्तीह संशयः॥८१॥

वर्तमानदेहपाते मुमुक्षोर्देहान्तरग्रहे संशयमुक्त्वा निश्चायकसद्भावान्निश्चयं दर्शयन्नुक्तं संशयं शिथिलयति। अथेति। यथा केवलकर्मवतां समुच्चयानुष्ठायिनां च देहपातादूर्ध्वं दक्षिणोत्तराध्वसंबन्धः श्रुतस्तथाऽधुनातनसुखदुःखादिदर्शनानुसारेण ये केचिद्विधिनिषेधातिक्रमशीला दृष्टास्तेषां विद्याकर्मबहिर्मुखानां वर्तमानदेहपाते सत्यथै59नयोः पथोर्न कतरेणचनेत्यादिना तृतीयस्थानसंबन्धोऽत्यल्पसुखो बहुतरदुःखमोहात्मकश्च क्षुद्रजन्तुभावः श्रूयतेऽतो मुमुक्षोरपि ज्ञानकर्मशून्यस्य देहान्तरग्रहे न संशयः कर्माधिकारिणो हि मार्गद्वयहेत्वभावे देहान्तरग्रहश्रुतेः। न च सा मुमुक्षुव्यतिरिक्तविषया विहितत्वाच्चाऽऽश्रमकर्मापीति न्यायेन तस्यापि धर्माधिकृतत्वेन संकोचायोगात्। न च तस्य निषिद्धत्यागित्वान्न क्षुद्रजन्तुत्वम्। विहितत्यागितया तत्फलभाक्त्वस्यापि दुःसाधनत्वात्। न च नित्याद्यनुष्ठानान्न तृतीयस्थानसंबन्धस्तस्य विफलत्वोपगमात्तथा च ज्ञानकर्मणोरभावान्मुमुक्षोर्न मोक्षो नापि संसृतिरिति कष्टां बतासौ दशामाविशेत्। निराकरिष्यते चैकभविकत्वम्। अतो वर्णितचरितस्यापि देहान्तरं निश्चितमित्यज्ञस्य न मोक्षाशेति भावः॥८१॥

नित्यस्याकरणे दोषस्तत्क्रियायां न यद्यपि॥
अन्यतोऽसौ स्वभावाद्वा न तु मानेन वार्यते॥८२॥

काम्यादेरस्मिञ्जन्मनि सर्वथा त्यागेऽपि जन्मान्तरीयात्ततो बन्धसिद्धेरमुक्तिरुक्ता यत्तु नित्याद्यनुष्ठानादक60रणनिमित्तप्रत्यवाय-निबर्हणान्न61 तत्कृतमस्य देहान्तरमिति तत्राऽऽह।नित्यस्येति। अस्मिञ्जन्मनि साकल्येन नित्याद्यनुष्ठानाद्वर्तमानतद-करणप्रयुक्तप्रत्यवायप्रसूतदेहान्तरग्रहाभावेऽपि जन्मान्तरीयादकरणाद्वा पापदेशनिवासाभ्यासादेर्वा स्वभावादुद्भवतः प्रत्यवायस्य प्रत्याख्यातुमशक्यत्वात्तत्कृतजन्मान्तरप्राप्तेर्न मुक्तिरित्यर्थः॥८२॥

नित्यादेः फलमिष्टं चेदुपात्तदुरितक्षयः॥
तथाऽप्यागामिदोषेष्वाशङ्का पूर्ववदुद्भवेत्॥८३॥

जन्मान्तरसंचिताकरणादिहेतुकदुरितजातस्यैहिकनित्याद्यनुष्ठानजन्यापूर्वतो नाशान्न मुक्तिविरोधितेत्याशङ्कते। नित्यादेरिति। अतीताकरणादिकृतदुरितादेराधुनिकनित्यादिना निर्हरणेऽपि भविष्यदकरणकारणकदोषाधीनशरीरान्तरग्रहाशङ्का दुर्वारेति परिहरति। तथाऽपीति। अस्त्विह संशय इत्येतल्लक्षयति। पूर्ववदिति॥८३॥

अनभीष्टफलानां च दुरितत्वात्क्षयो भवेत्॥
नत्वाभ्युदयिकानां स्यादभीष्टत्वात्क्षयस्तव॥८४॥

ननु भविष्यदकरणं मुमुक्षोरैहिकमामुष्मिकं वा नाऽऽद्यः प्रत्यहमुपात्तनित्यादेस्तथाविधाकरणाभावान्न द्वितीयो वर्तमानदेहान्ते मुक्तेरावश्यकत्वात्तत्राऽऽह। अनभीष्टेतिधर्मेणपापमपनुदतीति श्रुतेरनिष्टहेतुत्वाद्दुरितानामशेषतो नित्यादिना क्षयेऽपि सुकृतानामभ्युदयौपयिकानामिष्टोपायत्वादविरोधात्तस्मादध्वस्तेरनारब्धातीतागामिसुकृतकृतं देहान्तरमस्य दुर्वारमित्यर्थः॥८४॥

सर्वेषां दुष्टता चेत्स्यान्न विधानाददुष्टता॥
नापि श्येनादितुल्यत्वं फलदोषेण दुष्टता62॥८५॥

सुकृतानामपि दुष्कृतवन्मुमुक्षं प्रत्यनिष्टत्वमविशिष्टमितरस्यापीत्यतिदेशाधिकरणन्यायादिति शङ्कते। सर्वेषामिति। विहितस्य विधिसामर्थ्यान्मुमुक्षं प्रत्यपि न दुष्टतेत्याह। नेति। निषिद्धं हि दुष्टं न विहितं तस्य तु भोगादेवाज्ञं प्रति शान्तिरित्यर्थः। ननु विहितत्वं नादुष्टत्वे प्रयोजकं श्येनादौ व्यभिचारात्तत्राऽऽह। नापीति। आदिपदेन संदशैकत्रिकादिग्रहः। न हि सोमादीनां श्येनादिना तुल्यत्वमनिषिद्धफलत्वात्। श्येनादेस्तु न हिंस्यादिति फलं निषिद्धम्। तथाच फलस्य निषिद्धत्वेन दुष्टत्वादधिकार्यभावान्न साधनांशे विधिः। उक्तं हि—

“उद्देशाच्च फलत्वेन श्येनादौ न विधेयता।
भावनाविधिरप्येष फलांशाद्विनिवर्तते” इति॥

सोमादौ त्वधिकारिसद्भावादविकलो विधिः। यथाऽऽहुः

“फलतोऽपि च यत्कर्म नानर्थेनानुबध्यते।
केवलप्रीतिहेतुत्वात्तद्धर्मत्वेन कीर्त्यते” इति॥

उपपादितं च श्येनाग्नीषोमीयवैषम्यं चोदनासूत्रेऽतः श्येनादेर्विहितत्वमेव नेति कुतो व्यभिचार इत्यर्थः॥८५॥

ऐकात्म्यज्ञानतश्चेत्स्याद्व्यर्था कर्मप्रधानता॥
प्रधानत्वं च विद्यायास्तमेतमिति दर्शितम्॥८६॥

उक्तोपायवतोऽपि न मुक्तिः कर्मान्तरेण देहान्तरसंभवादिति निरुद्धः सिद्धान्तमेवाऽऽदाय चोदयति। ऐकात्म्येति। उक्तोपायानुष्ठातुः शुद्धबुद्धेरैक्यधिया सर्वकर्मध्वस्तेर्मुक्तिरित्यर्थः। तर्हि तद्ध्वंसिनो ज्ञानादेव तत्संभवात्कर्मणां साक्षान्मोक्षहेतु63त्वं मानफलहीनमित्याह। व्यर्थेति। ज्ञानस्यापि साक्षान्मोक्षसाधनत्वमप्रामाणिकमित्याशङ्क्याऽऽह। प्रधानत्वं चेति। विविदिषावाक्येन कर्मणां मुक्तिफलज्ञानेच्छासाधनत्वेन विनियुक्तत्वाज्ज्ञानस्य साक्षान्मोक्षोपायत्वसिद्धिस्तमेव विदित्वेत्यादिश्रुतेश्चेत्यर्थः॥८६॥

तत उक्तेन मार्गेण कर्तृसंस्कारकारिणाम्॥
ऐकात्म्यज्ञानतात्पर्यं कर्मणामिति निश्चितम्॥८७॥

ननु पुरुष64तन्त्रकर्तृत्वाभावादिच्छायास्तत्र कर्मणां न विनियोगोऽत एवेष्यमाणज्ञानेऽपि न तेषां विनियोगः। अतस्तेषां मोक्षोपायत्वमेवात आह। तत इति। यज्ञादीनामिच्छाज्ञानयो65स्त्वनृतन्त्रयोः साक्षादनन्वयाद्येन केन च यजेतेत्यादिशास्त्रोक्तक्रमेण बुद्धिशुद्धिहेतूनां तृतीयाश्रुत्या मोक्षहेतुज्ञाने पर्यवसानं पुरुषार्थपादे निर्णीतमित्यर्थः॥८७॥

तेन निःसारतां बुद्ध्वा कर्मणां वेदतत्त्ववित्॥
ऐकात्म्यज्ञानमन्वेति तपोमुषितकल्मषः॥८८॥

ननु कर्मणां संस्कारद्वारा ज्ञानहेतुत्वे यावज्ज्ञानमनुष्ठानं स्यात्तस्य दृष्टफलत्वादतो विविदिषासंन्यासासिद्धिरत आह। तेनेति। तपसा नित्यादिना निरस्ताशुद्धिरधीतवेदो वेदार्थमापातेन जानन्विवेको नास्त्यकृतः कृतेनेत्यादिना कर्मणामनित्यफलतां बुद्ध्वा ततो विरक्तो मुक्त्युपायं ज्ञानमुद्दिश्य श्रवणादि कर्तुं कर्म संन्यस्यतीति विविदिषासंन्याससिद्धिरित्यक्षरार्थः। नहि कर्माणि साक्षान्मोक्षहेतवः किंतु वैराग्यादिद्वारेणातो विरक्तस्य तैर्न कृत्यमिति न तदनुष्ठानं यानि त्वस्य साक्षादेव साधनानि तानि मोक्षकामो यावज्ज्ञानमनुतिष्ठत्यावृत्त्यधिकरणन्यायादिति भावः॥८८॥

यस्तु जन्मान्तराभ्यासात्क्षपिताशेषकामनः॥
आदावेवाधिकारी स पुनः कर्म न वीक्षते॥८९॥

क्रमसंन्यासेऽपि ब्रह्मचारिणस्तदभावात्कथं ब्रह्मचर्यादेव प्रव्रजेदिति श्रुतिस्तत्राऽऽह।यस्त्विति। जन्मान्तराभ्यासादतीतजन्मसु नित्याद्यनुष्ठानबाहुल्यादिति यावत्। आदाविति प्रथमाश्रमोक्तिः। अधिकारी ज्ञानार्थश्रवणादिशेषे संन्यास इति शेषः। अथ प्रथममेव कर्मत्यजोऽपि पुनः श्रद्धया तदनुष्ठानं स्यादाद्ये वयसि विषयभोगहीनस्यापि यूनस्तदभिलाषप्रवृत्तिवत्तत्राऽऽह। पुनरिति॥८९॥

विरक्तस्य तु जिज्ञासोर्मानान्नान्यव्यपेक्षणम्॥
कर्मापेक्षा हि साध्येऽर्थे सिद्धेऽर्थे तदनर्थकम्॥९०॥

तत्र हेतुमाह। विरक्तस्येति। ज्ञानस्य फलोपकारित्वेन कर्मापेक्षणीयमाग्नेयादीनां प्रयाजाद्यपेक्षावदित्याशङ्क्याऽऽह। कर्मेति॥९०॥

वामदेवस्य मैत्रेय्या गार्ग्याश्चैव समञ्जसम्॥
दर्शनं, ब्रह्मचर्यादेस्तथा प्राव्राज्यशासनात्॥९१॥

दर्शपूर्णमासयोरिव प्रोक्षणादेः शुद्धिद्वारा कर्मणां ज्ञानस्वरूपोपकार्यङ्गत्वमेवेत्यत्र श्रुतार्थापत्तिं प्रमाणयति। वामदेवस्येति। गर्भस्थस्य वामदेवस्य मैत्रेयीगार्ग्योश्चास्मिञ्जन्मन्यनुष्ठितकर्माभावेऽपि तत्त्वज्ञानं तद्वैतत्पश्यन्निति वाक्येन मैत्रेयीगार्गीब्राह्मणाभ्यांच श्राव्यते तदेतज्जन्मान्तरीयकर्मणां परंपरया ज्ञानहेतुत्वमित्येवमभ्युपगमे युक्तं स्यात्।उक्तं हि—

“यान्यतोऽन्यानि जन्मानि तेषु नूनं कृतं भवेत्66
यत्कृत्यं पुरुषेणेह नान्यथा ब्रह्मणि स्थितिः” इति॥

तस्मादैहिककर्माभावेऽपि केषांचित्तत्त्वज्ञानान्मुक्तिदृष्टेर्न तत्फलोपकारित्वं तेषामिति भावः। किंच यदहरेव विरजेत्तदहरेव प्रव्रजेत्। ब्रह्मचर्यादेव प्रव्रजेदित्यादि ब्रह्मचर्यादाश्रमान्तराच्च ज्ञानसाधनत्वेन संन्यासविधानं कर्मणां ज्ञानं प्रति फलोपकारित्वं वारयतीत्यर्थापत्त्यन्तरमाह। ब्रह्मचर्यादेरिति। तथाशब्दः समुच्चयार्थः॥९१॥

इष्टापूर्तादिहेतुनामानन्त्यात्स्वर्गसिद्धये॥
हेत्वन्तरासंभवोऽतो दुर्ज्ञानः संभवाद्भवेत्॥९२॥

परोक्तोपायवतोऽपि न मुक्तिरर्थान्तरात्स्वभावाद्वा जन्मान्तरसंभवादैक्यज्ञानोपगमे च तस्मादेव मुक्तिः कर्माणि तस्मिन्नारादुपकारकाणीत्युक्तं संप्रत्यर्थान्तरं विवृणोति।इष्टेति। इष्टं श्रौतं कर्म पूर्तं स्मार्तमादिपदेन दत्तग्रहः। उक्तं हि

“अग्निहोत्रं तपः सत्यं वेदानां चानुपालनम्।
आतिथ्यं वैश्वदेवं च इष्टमित्यभिधीयते॥
वापीकूपतटा67कादिदेवतायतनानि च।
अन्नप्रदानमारामः पूर्तमित्यभिधीयते॥
शरणागतसंत्राणं भूतानां चाप्यहिंसनम्।
बहिर्वेदि च यद्दानं दत्तमित्यभिधीयते” इति॥

एतेषामनारब्धफलानामागामिदेहनिमित्तानामनन्तानां संभवादस्मिञ्जन्मनि सर्वात्मना काम्यं कर्म वर्जयतोऽपि मुमुक्षोर्वर्तमानदेहपाते देहान्तरे स्वर्गादिभोगार्थं हेत्वन्तरासंभवो दुर्ज्ञानः स्यादुक्तरीत्या तत्संभवादित्यर्थः॥९२॥

एवं निषिद्ध68वाक्येषु यथोक्तं न्यायमादिशेत्॥
नित्यकर्मवचःस्वेवं नातो मुक्तिविनिश्चयः॥९३॥

काम्येष्विव निषिद्धेष्वपि दर्शितं न्यायं दर्शयति। एवमिति। निषिद्धं कर्मेति वाक्यं येषु तानि निषिद्धकर्माणि निषिद्धवाक्यानि तेष्विति यावत्। निषिद्धानि हि कर्माण्यनन्तानि तेषामनारब्धफलानामागामिदेहहेतुत्वसंभवादस्मिञ्जन्मनि सर्वनिषिद्धं त्यजतोऽपि वर्तमानदेहपातादूर्ध्वं नरकपातार्थं69 देहान्तरे हेत्वन्तराभावो ज्ञातुमशक्यः। यथोक्तनिषिद्धकर्मसंभवादित्यर्थः। ननु निषिद्धकर्माणि नित्यनैमित्तिकैरपास्तानि न देहान्तरं प्रयोजयन्त्यत आह। नित्येति। नित्यं कर्मेति वचो येषु तानि नित्यकर्मवचांसि नैमित्तिकसहितानि नित्यकर्माणि तेष्वपि काम्यनिषिद्धेष्विव यथोक्तो न्यायो वक्तव्यः पूर्वापरजन्मसु तेषां साकल्येनानुष्ठानासंभवात्तत्र सर्वात्मना पापानिवृत्तेस्तन्निमित्तदेहान्तरसंभवादिह नित्याद्यनुतिष्ठतोऽपि कुतो मुक्तिरित्यर्थः। यतो दर्शितन्यायादागामिदेहस्य हेतुरस्त्यतो यथोक्तोपायवतोऽपि मुक्तिर्निश्चेतुमशक्येति निगमयति। नात इति॥९३॥

अनेकजन्मोपात्तस्य पुण्यापुण्यस्य कर्मणः॥
अनन्तदेहहेतोश्च विप्रघातस्य संभवात्॥९४॥

यत्तु कर्मणामैकभविकत्वादुक्तहेतुमतो जन्मान्तरहेतुकर्माभावान्मुक्तिरिति तत्राऽऽह।अनेकेति। अनादौ संसारे प्राक्षु जन्मस्वर्जितकर्मणो नानादेहभोग्यफलस्य संभवादैकभविकन्यायानवतारान्न तेन मुक्तिरित्यर्थः। यत्तूपात्तानि सर्वाण्यपि कर्माणि संभूय देहमेकमारभन्ते तद्युक्तमैकभविकत्वमिति तत्राऽऽह। अनन्तेति। न हि कर्माणि सर्वाणि संभूय देहमेकमारभेरन्। एकस्य विप्रघातस्यानेकदेहग्रहहेतोः संभवात्।

“श्वशूकरखरोष्ट्राणां गोजाविमृगपक्षिणाम्।
चाण्डालपुल्कसानां च ब्रह्महा योनिमृच्छति" इति स्मृतेः

न च तदतिरेकिणां कर्मणां प्रायणाभिव्यक्तानामेकदेहारम्भकत्वं तस्य तु तत्कालाभिव्यक्तस्यापर्यायमेवानेकविधदेहारम्भकतेति युक्तमैकभविकत्वस्याप्रामाणिकत्वादित्यर्थः॥९४॥

ततः शेषेण वचनात्तथा तय इहेत्यतः॥
अनारब्धफलेहानां गम्यते संस्थितिस्ततः॥९५॥

अनेकजन्मार्जितानारब्धकर्मस्थितिनिश्वये श्रुतिस्मृती प्रमाणयति। तत इति। वर्णा आश्रमाश्च स्वकर्मनिष्ठाः प्रेत्य कर्मफलमनुभूय ततः शेषेण विशिष्टदेशजातिकुलरूपायुःश्रुतवृत्तवित्तसुखमेधसो जन्म प्रतिपद्यन्ते विष्वञ्चो70 विपरीता नश्यन्तीति स्मृतेस्तद्य इह रमणीयचरणा रमणीयां योनिमापद्येरन्नित्यादिश्रुतेश्वानारब्धफलानां कर्मणां स्थितिः सिद्धा ततो न कर्मणामैकभविकत्वेन यथेोक्ताधिकारिणो मुक्तिरित्यर्थः॥९५॥

फलं नित्यस्य नापीह दुरितक्षयमात्रकम्॥
फलान्तरश्रुतेः साक्षात्तद्यथाऽऽम्रस्मृतेस्तथा॥९६॥

यत्तु नित्यानामकरणनिमित्तप्रत्यवायनिवृत्तिमात्रफलानां मुमुक्षुभिरनुष्ठितानामपि न देहान्तरारम्भकेति तत्राऽऽह। फलमिति। इहेति शास्त्रस्याधिकारिणो वा निर्देशः। तत्र हेतुमाह। फलान्तरेति। नित्यादिकरणेऽकरणे च संसारो दुर्वारः करणे पितृलोकाप्तेर्वक्त71व्यत्वात्कर्मणा पितृलोक इति श्रुतेरकरणेच प्रत्यवायोपहतेर्नरकपातादिति भावः। नित्यादीनां फलान्तरसत्त्वे स्मृतिरपि मानमित्याह। तद्यथेति॥९६॥

आम्रे निमित्त इत्यादि ह्यापस्तम्बस्मृतेर्वचः॥
फलवत्त्वंसमाचष्टे नित्यानामपि कर्मणाम्॥९७॥

तद्यथा – “आम्रे फलार्थे निमित्ते छायागन्धावनूत्पद्येते। एवं धर्मं चर्यमाणमथ अनूत्पद्यन्ते नो चेदनृत्पद्यन्ते न धर्महानिर्भवति" इति स्मृतिं विवेचयति। आम्र इति। निमित्ते निहिते रोपित इत्यर्थः। विविच्योक्तस्मृतितात्पर्यमाह। फलवत्त्वमिति। अपिशब्दो नैमित्तिकसमुच्चयार्थः काम्यादिदृष्टान्तार्थो वा॥९७॥

उक्तमेव तु संशीतावियं त्वत्र विनिश्चितिः॥
कार्यमारभते शक्तिर्यत्किचेह व्यवस्थिता॥९८॥

नित्यादिकर्मणां श्रुतिस्मृतिभ्यां फलवत्त्वे सिद्धे फलितमाह। उक्तमिति। अन्यतो भवने मानं न चेदित्यत्रोक्तोपायत्रतः शरीरपातानन्तरं मुक्तिर्न वेति संशये निश्चायकासत्त्वं कारणमुक्तम्। अत्र तु नित्यादिकर्मणां फलवत्त्वे श्रुत्यादिसिद्धे यथोक्तसाधनस्यापि पुंसो मुक्तिर्नेति निश्चयः। नित्यादिकर्मणा पितृलोकादिश्रुतेरित्यर्थः। किंच यस्य त्वदुक्तहेत्वनुष्ठानान्मुक्तिस्तस्य तदनुष्ठाने शक्तिरस्ति न वा, नास्ति चेदशक्तस्य कुतस्तदनुष्ठानं कुतो वा मुक्तिरिति मत्वाऽऽद्यं दूषयति। कार्यमिति। इहेत्यात्मोक्तिः। शक्तेर्यावद्द्रव्यभावित्वात्संसारवन्मोक्षेऽपि हेत्वनुष्ठानारम्भकत्वादनिर्मोक्षः साधनानुष्ठानशक्तितुल्या हि कर्तृत्वादिशक्तिरित्यसावपि मुक्तौ कर्तृत्वाद्यारभेतेत्यर्थः॥९८॥

यस्मादसति कार्येऽसौ शक्तिरेव न सिध्यति॥
कार्यकारणयोः सिद्धिरन्योन्याव्यतिरेकतः॥९९॥

ननु शक्तेरात्मनि सत्त्वेऽपि न कार्यारम्भकत्वं कार्यमनारभ्यापि कारणस्थितिसंभवादत आह। यस्मादिति। कार्यगम्यत्वाच्छक्तेर्मुक्तौ तदभावे शक्तिरेव न सिध्येत्तस्माच्छक्त्तिसत्त्वे कार्यसत्त्वमित्यर्थः। यत्तु कार्यमनारम्यापि कारणं तिष्ठतीति तत्राऽऽह।कार्येति। अन्योन्याधीनसिद्धिके कार्यकारणे तयोरन्यतराभावे न सिध्यतस्तथा च कार्याभावे हेत्वस्थितेर्मुक्तौ शक्तितद्वतोरवस्थाने कार्यमपि तिष्ठेदित्यर्थः॥९९॥

कर्तृभोक्तृस्वरूपेऽतो ह्यभ्युपेतेऽन्तरात्मनि॥
न मुक्त्याशाऽस्ति पूर्वोक्तन्यायमार्गसमाश्रयात्॥१००॥

कर्तृत्वादिशक्तिमतो यतस्तत्कार्यप्रवाहाविच्छेदोऽतः कर्तृभोक्तरूपे प्रतीच्युपगते मोक्षेच्छा तुच्छेति मत्वोपसंहरति। कर्त्रिति। मा काङ्क्षीस्तर्हीत्यादिनोक्तं स्मारयति।पूर्वोक्तेति॥१००॥

सापराधत्वतो मुक्तिः संदिग्धैव प्रसज्यते॥
द्विजातीनां खरादेस्तु त्वदुक्त्या स्यादसंशयात्॥१०१॥

उक्तहेत्वनुष्ठाने मुमुक्षुः शक्तोऽशक्तो वेति कल्पौ निरस्य कल्पितोपाये दोषान्तरमाह। सापराधत्वत इति। त्रैवर्णिकानां कर्माधिकृता72नामिह यथोक्तं हेतुमनुतिष्ठतामपि किंचिद्विहिताकरणनिषिद्धसेवारूपप्रामादिकापराधसाहित्यसंभवात्ततो जन्मान्तरस्य संभावितत्वान्मुक्तिस्तेषां संदिग्धैव स्यादित्यर्थः। किं चानधिकृतस्य रासभादेर्निश्चितैव सा स्यात्। कर्मणामैकभविकत्वादेतद्देहपाते देहान्तरग्रहे हेत्वभावादित्याह। खरादेरिति। त्वदुक्त्येत्यैकभविकत्वविषया परोक्तिरुच्यते॥१०१॥

ननूक्तं कर्मशेषत्वमात्मनो यागकर्तृता73
नैतदेवं यतो नैतत्कर्माङ्गं ज्ञानमिष्यते॥१०२॥

परोक्तमुक्तिहेतुनिरासेन ज्ञानस्यैव तद्धेतुत्वमुक्त्वा काण्डयोरधिकार्यादिभेद उक्त इदानीमात्मनः कर्मशेषत्वादित्यत्रोक्तमनुवदति। नन्विति। आत्मज्ञानस्येति शेषः। केन द्वारेणास्य तच्छेषत्वं तत्राऽऽह। आत्मन इति। लौकिकं वैदिकं वाऽऽत्मज्ञानं कर्माङ्गमिति विकल्प्याद्यमपाकरोति। नैतदिति। लौकिकात्मज्ञानस्य कर्माङ्गत्वान्न तन्मुक्तिहेतुरित्येतदेव नेति प्रतिज्ञायां हेतुमाह। यत इति। एतच्छब्दो लौकिकमात्मज्ञानमाह। अतस्त्वदुक्तमसदिति शेषः॥१०२॥

कर्तृत्वमात्मनः सिद्धं यतोऽन्यत्रापि यागतः॥
निःशेषकर्मकारित्वात्तस्मादुक्तमपेशलम्॥१०३॥

यत्तु यागकर्तृत्वादात्मनस्तद्वारा तज्ज्ञानस्य कर्माङ्गतेति तत्राऽऽह।कर्तृत्वमिति। व्यावहारिकात्मनो लौकिकवैदिकक्रिया-साधारण्याद्यागादेरन्यत्रापि कर्तृत्वं यतो दृष्टमत-

स्तस्य जुह्वादिवदव्यभिचरितक्रतुसंबन्धद्वारत्वाभावान्न तद्वारा तद्धियस्तदङ्गताऽनन्यसाधारणत्वे सत्युपकारकमङ्गमित्यङ्गीकारादतो लौकिकात्मज्ञानस्य कर्माङ्गत्वमयुक्तमित्यर्थः॥१०३॥

न ह्यात्मज्ञानविरहात्कर्म कर्तुं न शक्यते॥
पर्णज्ञानमृते यद्वज्जुहूर्लातुं न शक्यते॥१०४॥

अथ वैदिकात्मज्ञानस्य कर्माङ्गत्वं तदाऽपि किमशनायाद्यतीतात्मज्ञानं तदङ्गं किंवा देहातिरिक्तात्ममात्रज्ञानं? नाऽऽद्य इत्याह। न हीति। आत्मशब्देनाशनायाद्यतीतमपेतब्रह्मक्षन्त्रादिभेदमसंसारिवस्तु वेदान्तवेद्यं निगद्यते। प्रत्युत कर्त्राद्युपमर्दित्वेन विरोधित्वादिति शेषः। उक्तात्मज्ञानं विना कर्म कर्तुं नाशक्यमित्यत्र वैधर्म्यदृष्टान्तमाह।पर्णेति। लातुमादातुमिति यावत्॥१०४॥

देहान्तराभिसंबन्धी नत्वात्माऽस्तीत्यजानतः॥
विवेकिनो न युक्तेयं प्रवृत्तिः पारलौकिकी॥१०५॥

द्वितीयं व्यतिरेकमुखेनोत्थापयति। देहान्तरेति। अस्यार्थः। देवदेहोपभोगार्हस्वर्गफले कर्मणि तद्देहयोग्यमात्मानमविदित्वा प्रेक्षावतो न प्रवृत्तिः सा चेयमनुपपत्तिर्व्यतिरेकज्ञानस्य तस्मिन्नङ्गत्वं गमयतीति॥१०५॥

एवं तर्हि न कर्माङ्गं कर्तुश्चेष्टैकहेतुतः॥
फलार्थिवन्न च ज्ञानं क्रियाङ्गत्वेन चोदितम्॥१०६॥

देहातिरिक्तोऽप्यात्मा कर्ताऽकर्ता वाऽऽद्ये तज्ज्ञानं न कर्माङ्गं निःशेषकर्मकारित्वादित्यत्र कर्तुः साधारणत्वोक्तेस्तद्वारा तस्य तदङ्गत्वानुपपत्तेरित्यभिप्रेत्याऽऽह। एवं तर्हीति। द्वितीयेऽपि तद्धीर्न कर्माङ्गं न ह्यात्मज्ञानविरहादित्युक्तन्यायात्कर्तुरेव कर्ममात्रहेतुत्वादित्याह। एवं तर्हीति। सर्वप्रवृत्तिसाधारणस्याक्रियाङ्गत्वे दृष्टान्तमाह।फलेति। फलार्थी रागी फलमर्थो विषयोऽस्येति व्युत्पत्तेः। स हि कर्तुः सर्वप्रवृत्तिहेतुरपि न कर्माङ्गं साधारणत्वात्तथा कर्तृज्ञानमित्यर्थः। यद्वा फलार्थी भोक्ता तस्य सर्वप्रवृत्तिहेतोर्ज्ञानं वैदिके कर्मण्यनङ्गं तस्य तदुपकारित्वेऽप्याधानवदमङ्गत्वसंभवात्तथा कर्तृज्ञानमपीत्यर्थः। किंच देहातिरिक्तात्मज्ञानस्य कर्माङ्गत्वे श्रुतिरर्थापत्तिर्वा मानं नाऽऽद्य इत्याह। न चेतिविद्वान्यजत इत्यादौ तु हेत्वादिज्ञानानुवादेन यागविधिविवक्षितो नाऽऽत्मज्ञानस्य कर्माङ्गत्वविधिर्वाक्यस्य कर्मप्रकरणस्थस्याऽऽत्मज्ञानाविषयत्वादिति भावः॥१०६॥

नन्वेवमपि सिद्धः स्यात्प्रवेशः सर्वकर्मसु॥
आत्मज्ञानस्य सामर्थ्यान्न नाम विधिसंश्रयात्॥१०७॥

देहेतरात्मधियं विना पारलौकिकप्रवृत्त्यनुपपत्त्या तज्ज्ञानस्य तदङ्गतेति द्वितीयं

शङ्कते। नन्विति। देहान्तराभिसंबन्धीत्यत्रोक्तमेव चोद्यं प्रसङ्गादिहाऽऽनीतम्। विध्यभावात्तदवष्टम्भादात्मज्ञानस्य यदि नाङ्गत्वं मा नाम भूदेवमपि पारलौकिकप्रवृत्त्यनुपपत्त्या सर्वेषु कर्मसु तस्य प्रवेशः सिद्धः स्यादिति योजना। उक्तानुपपत्तिः सामर्थ्यम्॥१०७॥

नैतदेवमविज्ञाततस्वस्यैवेह कर्मसु॥
अनात्मार्थविशिष्टस्य ह्यधिकारित्वहेतुतः॥१०८॥

अर्थापत्त्या हि व्यतिरिक्तात्मधियोऽङ्गत्वं साध्यते। सा च विशिष्टविषया केवलविषया वाऽऽद्ये विशिष्टस्य कल्पितत्वान्न साऽऽत्मधीः स्यात्तेन तस्याः कर्माङ्गत्वेऽपि नाऽऽत्मधियस्तदङ्गतेत्याह। नैतदिति। द्वितीयं दूषयति। अविज्ञातेति। अज्ञानविशिष्टो हि कर्मस्वधिकारी न केवलो मुक्तवदतो विशिष्टात्मधियस्तदङ्गत्वेऽपि न केवलात्मधीस्तदङ्गं मानाभावात्सा तु मुक्तिहेतुरिति भावः। अज्ञस्य कर्माधिकारे गमकमाह।अनात्मेति। आत्मा हि देहाभ्यामवच्छिद्यतेऽनवच्छिन्नस्याधिकारायोगात्तदवच्छेदस्य चाज्ञानाधीनत्वं वक्ष्यते। तथा चाज्ञस्यैव कर्माधिकार इति भावः॥१०८॥

स्वरूपे आत्मनः स्थानमाहुर्निःश्रेयसं बुधाः॥
ततोऽन्येनाभिसंबन्ध आत्मनोऽज्ञानहेतुकः॥१०९॥

इतश्च केवलात्मधियो मुक्तिफलत्वान्न कर्माङ्गतेत्याह। स्वरूप इति। आत्मनो निःश्रेयसं स्वरूपावस्थानम्। तच्चाऽऽत्मज्ञानेनापाकृताज्ञानस्य सिध्यति। अतो ज्ञानस्याज्ञाननिरासद्वारा मुक्तिहेतुत्वान्न कर्माङ्गतेत्यर्थः। ज्ञानस्यापवर्गोपायत्वेऽप्यनात्मार्थविशिष्टस्येत्यात्मनः स्वाज्ञानकृतमनात्मवैशिष्ट्यमुक्तमयुक्तम्। तस्याविद्यासंबन्धवत्तत्प्रयुक्तिं विनोपपत्तेरिति चेत्तत्राऽऽह। तत इति। अविद्यातोऽन्येनानात्मनाऽऽत्मनः संबन्धोऽविद्यानिबन्धनोऽसङ्गस्य स्वतस्तदयोगादविद्यासंबन्धस्तु न निमित्तमपेक्षतेऽविद्यावदनादित्वात्स्वपरनिर्वाहकत्वाच्चेति भावः॥१०९॥

आगन्त्वनात्मरूपं तत्स्वसंवित्त्यैव गम्यताम्॥
नातोऽवाप्तपुमर्थस्य स्वरूपावस्थितस्य तु॥११०॥

किंचानात्माऽविद्याधीनः कार्यत्वात्सर्पवदित्यनुमानात्तत्संबन्धस्यापि तदधीनत्वमित्याह। आगन्त्विति। किंचानात्मस्वरूपं साक्षिवेद्यम्। न च तत्संबन्धं विना तद्वेद्यत्वम्। न च विना विद्यां संगतिरित्यविद्याधीनत्वमनात्मतत्संबन्धयोरित्यभिप्रेत्याऽऽह।तदिति। तयोरविद्याधीनत्वोक्तिफलमाह। नात इति। हेत्वनुष्ठानादृते कुतोऽवाप्तपुमर्थत्वमत आह। स्वरूपेति॥११०॥

कर्तृभोक्त्रादिरूपत्वं प्रत्यगज्ञानतोऽन्यतः॥
कर्म तत्फलभोगश्च बाह्यानि करणानि च॥१११॥

कूटस्थानन्दे स्वरूपे चेदेष स्थितस्तत्कथमस्यान्यथा प्रथेत्याशङ्क्याऽऽह। कर्त्रिति। अन्यतो नेत्यन्वयः। नन्वज्ञानकृतं कर्तृ74त्वादीत्ययुक्तं चेतनत्वादात्मा स्वारस्येनैव कर्मण्यैश्वर्यं प्रतिपद्य कर्ता भोक्ता च भविष्यति तत्किमज्ञानेनेत्याशङ्क्याधिकारित्वादीनां तदधीनत्वसिद्ध्यर्थमधिकारकारणान्यनुक्रामति। कर्मेत्यादिना। कर्म तावत्कर्मण्यधिकारे निमित्तं पुण्यो वै पुण्येनेत्यादिश्रुतेः कर्मफलभोगश्च तत्कारणमनुपभुक्ततत्फलस्य तद्रागद्वारा तत्रानधिकारात्स्वर्गकामो यजेतेत्यादिना सकामस्यैव तद्विधानाद्वागादिकर्मेन्द्रियाणि श्रोत्रादिज्ञानेन्द्रियाणि च तद्धेतवस्तेषामन्यतमस्यापि वैकल्ये कर्माधिकारानङ्गीकारादन्धपवादयो नरा गृहस्थत्वं न शक्ष्यन्ति कर्तुमित्युक्तत्वादित्याह। बाह्यानीति। मनोऽपि तन्निदानम्। यस्यै देवतायै हविर्गृहीतं स्यात्तां मनसा ध्यायेदितिश्रुतेरिति चकारार्थः॥१११॥

ततोऽपि बाह्य देहश्चजातिस्तत्समवायिनी॥
जरामरणजन्मानि देहाधिकरणानि च॥११२॥

न च तान्यनाश्रयाणि कर्मणि व्याप्रियन्ते तेन तदाश्रयस्य देहस्यापि तत्र हेतुत्वमित्याह। ततोऽपीति। ब्राह्मणत्वादिजातिरपि तद्धेतुर्ब्राह्मणो यजेतेत्यादिश्रुतेरित्याह।जातिरिति। जन्मजरामरणान्यपि तन्निमित्तानि तान्यधिकृत्य जातकर्मादिविधेरित्याह।जरेति॥११२॥

दारपुत्रधनादीनि देहवाह्यानि यानि च॥
कर्माधिकारहेतुनि स्वतोऽस्यानधिकारिणः॥११३॥

दारपुत्रधनान्यपि देहबाह्यानि तत्प्रयोजकानि सभार्यस्य जातपुत्रस्य धनवतोऽग्न्याधानादित्याह। दारेति। अधिकारोपयुक्तानुक्त-संभावितसमस्तवस्तुसंग्रहार्थमादिपदम्। अनुक्रान्तान्यधिकारकारणानि निगमयति। कर्मेति। भावप्रधानो हेतुशब्दः कर्मण्यधिकारे हेतुत्वं येषां कर्मादीनां तानि तथेति यावत्। चेतनत्वादात्मनः स्वत एवाधिकारसिद्धेरुक्तानि75तत्कारणानि व्यर्थानीत्याशङ्क्याऽऽह। स्वत इति। असङ्गाविक्रियानवच्छिन्नस्य स्वतोऽनधिकारादनात्मसंबन्धादेवास्याधिकारादुक्तानि75 तत्कारणानि युक्तानीति भावः॥११३॥

अभिन्नस्याऽऽत्मनो मोहाद्भेदकानीति मन्वते॥
विशेषणं स्वरूपं वा नान्योन्यस्य स्वतो यतः॥११४॥

लोके दृष्टं विनाऽविद्यां मोहादृष्टं तु सर्वतः॥
चोरोऽसौ मामभिप्रैतीत्येवं चोरविशेषणम्॥११५॥

स्थाणुं संभावयत्यज्ञो न तु दृष्टं तमो विना॥
नन्वविद्यामृतेऽप्यन्यद्दृष्टमन्यविशेषणम्॥११३॥

स्वतश्चेदात्माऽनधिकारी कथमन्यतोऽपि तथा। न हि वह्निर्वायुसंबन्धादनुष्णो भवतीत्याशङ्क्याऽऽह। अभिन्नस्येति। प्रतीचो निर्विशेषस्य स्वतोऽनधिकृतस्यापि यथोक्तानि साधनानि कर्तृत्वादिविशेषापादकानीति वादिनो मन्यन्ते न हि स्वतोऽप्रकाशस्य घटस्य दीपवशात्प्रकाशीभवतोऽस्ति काचिदनुपपत्तिरित्यर्थः। वस्तुतः सविशेषत्वं व्यावर्तयति। मोहादिति। विरोधोऽप्येतेन निरस्तः। कर्मादीनामात्मनि स्वतो भेदकत्वसंभवे किं मोहेनेत्याशङ्क्याऽऽह। विशेषणमिति। अन्यस्तावदन्यस्य। स्वतो न विशेषणं स्वरूपं वा चैत्रमैत्रादिष्वदृष्टेर्न खल्वविद्यां विनाऽन्यदन्यस्य विशेषणादि लोके दृष्टं तस्मात्कर्माद्यपि मोहादेवाऽऽत्मनो विशेषणमित्यर्थः। अन्यदन्यस्य विशेषणं मोहादपि न दृष्टमित्याशङ्क्याऽऽह।मोहादिति। सर्वतः सर्वत्र रजतमित्यादाविति यावत्। दृष्टमन्यदन्यस्य विशेषणमिति शेषः। मोहादन्यदन्यस्य विशेषणमित्युक्तं दृष्टान्तेन स्पष्टयति। चोरोऽसाविति। यो हि पुरुषः पुरः स्थितं स्थाणुं याथातथ्येन न बुध्यते स पुनरसौ चोरो मामभिप्रत्यागच्छतीति चोरेण तं विशिनष्टि। यस्तु पुरोवर्तिनं स्थाणुं स्थाणुत्वेन वेद स तत्त्वेन न तु विशिनष्टि। अतोऽन्वयव्यतिरेकाभ्यां स्थाणोर्मोहादेव पुरुषविशेषणत्वं तथाऽन्यत्रापीत्यर्थः। न तु दृष्टं तमो विनेत्यत्र व्यभिचारं चोदयति। नन्विति॥ ११४॥११५॥११६॥

औपगवो नृपहयस्तथा श्येनचिदादयः॥
नैतदेवं यतस्तत्र नैवं प्रत्यक्तयेष्यते॥
अन्येनान्यस्य संबन्धः कृशोऽहमितिवत्क्वचित्॥११७॥

तामेव दृष्टिं व्याचष्टे। औपगव इति। उपगोरपत्यमित्यत्रोपगुः प्रकृत्यर्थोऽपत्यप्रत्ययार्थस्य विशेषणम्। न च तत्र श्रोतुर्वक्तुश्चाज्ञानं हेतुरस्ति नृपहय इत्यत्रापि हयस्य नृपो विशेषणम्। न चात्राज्ञानं प्रयोजकमेवं श्येनचिदग्निचिद्दण्डीत्यादयो विशेषणविशेप्यभावा विनाऽप्यविद्यामुपलभ्यन्तेऽतो नाज्ञानाद्यतेऽन्यदन्यस्य विशेषणं दृष्टमिति न श्लिष्टमित्यर्थः। त्वदुक्तमुदाहरणं न मदुक्तपक्षसदृशं किंतु विसदृशमिति दूषयति। नैतदेवमिति। वैसादृश्यमेव विशदयति। यत इति। यथा कृशोऽहमित्यात्मनोऽगृहीतभेदं कार्यं तद्विशेषणं तथा त्वदुक्तप्रकृत्यर्थप्रभृतीनि विशेषणानि विशेष्याददृष्टभेदानि न तस्य विशेषणानि न हि त्वदिष्टे दृष्टान्ते क्वचिदपि विशेषणं प्रत्यक्तया विशेष्यादभेदेन दृष्टम्। किंतु भिन्नेनैव विशेष्येण भिन्नस्य विशेषणस्य संबन्धस्तत्रेष्टोऽतो वैषम्यमित्य76र्थः॥११७॥

उपग्वादिर्हिपित्रादिः प्रकृत्यर्थो विशेषणम्॥
भिन्नस्यौपगवापत्यप्रत्ययार्थस्य गम्यते॥११८॥

नन्वौपगवादिष्वदृष्टभेदयोरेव तद्भावः। विमतो विशेषणविशेष्यभावो भेदाग्रहपूर्वको विशेषणविशेष्यभावत्वात्कृशोऽहमिति-वदित्यनुमानादत आह। उपग्वादिर्हीति। औषगव इत्यत्र प्रकृत्यर्थः प्रत्ययार्थस्य विशेषणम्। न च तावददृष्टभेदौ प्रकृतिप्रत्ययाभ्यां तद्भेददृष्टेः समासेऽप्यपुनरुक्तानेकशब्दार्थभेदावगमात्। चयनचेत्रोरपि कर्मकर्त्रोःस्फुटो भेदो दण्डीत्यादौ तु प्रत्यक्षो भेदः। अतस्त्वदिष्टदृष्टान्तेषु दृष्टभेदयोरेव विशेषणविशेष्यत्वधीरिति भेदग्रहबाधिताऽनुमेत्यर्थः॥११८॥

नैवं कर्त्रादिदेहान्ताञ्जात्यादीन्देहगांस्तथा॥
व्यतिरेकतया कश्चिद्विशिनष्टीह मानवः॥११९॥

अपत्यादेरुपग्वादिवदात्मविशेषणान्यपि ततो दृष्टभेदानीति कुतो वैषम्यमित्याशङ्क्याऽऽह।नैवमिति। कर्ताऽहंकारः स येषामादिस्ते कर्त्रादयस्तान्देहावसानान्भावानिति यावत्। तेष्वात्मनि च भेदधीपूर्वकं विशेषणविशेष्यत्वं मनुष्यगोचरो नेति सूचयति। मानव इति। इहेत्यविद्यादशोक्तिः॥११९॥

यत आत्मतयैवैतैर्विशिनष्ट्यविशेषणम्॥
करोम्यन्धो द्विजो बालो दग्धश्छिन्नोऽहमित्यपि॥१२०॥

अज्ञातभेदस्य देहादेरात्मनश्च विशेषणविशेष्यत्वमित्यत्र स्वानुभवं प्रमाणयति।यत इति। एतैर्देहादिभिरनात्मभिः स्वतो निर्विशेषणमात्मानमभेदेन यतो लोको विशिनष्ट्यतो विशेष्याददृष्टभेदं विशेषणं तत्र युक्तमित्यर्थः। तदेवाभिनयति। करोमीति। देहेन्द्रियाहंकाराणामात्मनोऽदृष्टभेदानां तद्विशेषणत्वदृष्टेस्तेष्वात्मा च तत्त्वं भेदाग्रहपूर्वकमन्यथाऽनुभवविरोधादिति भावः॥१२०॥

नाविद्यामन्तरेणैषां विशेषणविशेष्यता॥
इयमेवाऽऽत्मनो ज्ञेया कर्माधिकृतिकारणम्॥१२१॥

उक्तरीत्या कर्त्रादीनामात्मविशेषणत्वे सिद्धमर्थमाह। नाविद्यामिति। कर्त्रादीनामज्ञातभेदानां पुंसः स्थाणुविशेषणत्ववदात्म-विशेषणत्वस्याविद्याकृतत्वेऽपि प्रकृते कर्माधिकारे किमायातमिति तत्राऽऽह। इयमेवेति। यस्माददृष्टभेदयोरात्मानात्मनोरविद्याधीना विशेषणविशेष्यतैवाऽऽत्मनोऽधिकारे हेतुस्तस्मादविद्यावतस्तत्राधिकारिता ज्ञेयेत्यर्थः॥१२१॥

अधिक्रियन्ते येनैते बृहस्पतिसवादिषु॥
अतोऽनवगतैकात्म्यकर्माधिकृतिहेतुतः॥१२२॥

इतश्चाविद्यावान्कर्माधिकारीत्याह। अधिक्रियन्त इति। येन हेतुनैते ब्राह्मणादयो

बृहस्पतिसवादिषु स्वामित्वेन संबध्यन्ते तदधिकृतिकारणमियमेवाविद्याकृता विशेषणविशेष्यतेति योजना। ब्राह्मण्याद्यभिमाननिबन्धनो हि कर्माधिकारोऽन्यथा सर्वः सर्वाधिकारीति ब्रह्मणो बृहस्पतिसवेन यजेतेत्यादिविशेषोपदेशो न स्यात्। आविद्यश्चाभिमानस्तस्मादविद्वान्कर्माधिकारीति भावः। तत्र फलितमाह। अत इति। अनवगतमैकात्म्यं येन तस्याज्ञस्य कर्मस्वधिकाराद्धेतोस्तज्ज्ञानस्य कर्माङ्गत्वेऽपि न शुद्धात्मज्ञानस्य तदङ्गतेत्यर्थः॥१२२॥

श्रुत्यादिमानप्रमितप्रत्यग्याथात्म्यनिष्ठितम्॥
सर्वकर्मसमुच्छेदि ज्ञानं वेदान्तमानजम्॥१२३॥

ननु तदपि कर्माङ्गमात्मज्ञानत्वादितरवत्तत्राऽऽह। श्रुत्यादीति। आदिशब्देन स्मृतीतिहासपुराणविद्वदनुभवानुमानादि गृह्यते यद्वा लिङ्गवाक्यप्रकरणस्थानसमाख्याः श्रुतिलिङ्गादिसूत्रोक्तास्तैः प्रमितं यत्प्रतीचो याथात्म्यमुत्खाताखिलदुःखमनतिशयानन्दैकतानं तन्निष्ठितं तद्विषयं यद्वेदान्तवाक्यजं ज्ञानं तन्न कर्माङ्गं तन्निवर्तकत्वात्। क्षीयन्ते चास्य कर्माणीति श्रुतेर्ज्ञानाग्निः सर्वकर्माणीत्यादिस्मृतेश्चेत्यर्थः॥१२३॥

तन्मूलाज्ञानघातित्वाज्ज्ञानस्येह प्रसिद्धितः॥१२४॥

न तु प्रवर्तकं तस्मान्नार्थवादत्वसंभवः॥
फलोक्तेः पर्णमय्यां तु युज्यते कर्मशेषतः॥१२५॥

ननु वाक्यीयमपि ज्ञानमज्ञानमेवापमार्ष्टुमीष्टे न कर्म ज्ञानाज्ञानयोरेव विरोधप्रसिद्धेस्तत्राऽऽह। तन्मूलेति। अज्ञानं कर्तृत्वाद्यभिमानमुपनयत्कर्माणि निर्वर्तयत्यतो ज्ञानं तदपनुदत्तन्मूलान्यपि तानि निरुणद्धीत्यर्थः। ननु तदुत्पन्नमज्ञानं निवर्तयत्यनुत्पन्नं वा नाऽऽद्योऽविरोधेनोत्पन्नत्वाद्विरोधे चानुत्पत्तेः। नेतरोऽनुत्पन्नस्यासतो निवर्तकत्वायोगादत आह। ज्ञानस्येति। लोकवेदयोर्ज्ञानस्य स्वोत्पत्तिनान्तरीयकत्वेनाज्ञाननिवर्तकत्वप्रसिद्धेर्दीपस्य च तमोनिवर्तकत्वदृष्टेर्नास्ति चोद्यमित्यर्थः। ज्ञानस्याज्ञाननिवर्तकत्वो-पपादनोपयोगमाह। नत्विति। सर्वकर्मप्रवृत्तिनिमित्तनिवर्तकत्वान्न केवलात्मज्ञानस्य कर्माङ्गतेति भावः। यस्मात्तस्य न कर्माङ्गता तस्मादनन्यशेषत्वान्नार्थवादस्तत्फलश्रुतिरिति फलितमाह। तस्मादिति। यत्तु पर्णमय्यां फलोक्तिवदिति तत्राऽऽह। पर्णमय्यां त्विति। युज्यते फलोक्तेरर्थवाद77त्वमिति शेषः। तत्र हेतुमाह। कर्मेति। पर्णताया जुहूद्वारा कर्मानुप्रवेशात्तत्फलेनैव फलवत्त्वसंभवात्पृथक्फलश्रुतेरर्थवादता युक्तेत्यर्थः॥१२४॥१२५॥

यत्त्वचोदि त्वयाऽपीयमभ्युपेयाऽर्थवादता॥
अनिच्छताऽपि विध्यर्थमत्र प्रतिविधीयते॥१२६॥

निरस्तमेवाऽऽधिक्याभिधित्सयाऽनुद्रवति। यत्त्विति। मयेवेतिदृष्टान्तार्थोऽपिशब्दः। वेदान्तेषु शेषविध्यभावे कुतो ज्ञाने फलश्रुतेरर्थवादतेत्याशङ्क्याऽऽह। अनिच्छताऽपीति। अधिकं समाधिं प्रतिजानीते।अत्रेति॥१२६॥

इच्छाम्येवार्थवादत्वं वचसोऽन्यपरत्वतः॥
यथाश्रुतार्थवादित्वान्न त्वभूतार्थवादता॥१२७॥

ज्ञाने फलश्रुतेरर्थवादत्वमात्रं वा साध्यतेऽभूतार्थवादत्वं वा तत्राऽऽद्यमङ्गीकरोति।इच्छामीति। ब्रह्म वेदेत्यादिफल-श्रुतेरर्थवादत्वाङ्गीकारे हेतुमाह। अन्येति। महावाक्यं हि प्रधानं परापरयोरैक्यविषयतया फलवत्त्वादितरत्तत्संनिधावाम्नातं तदङ्गं तज्ज्ञानहेतुप्रवृत्तिशेषत्वादित्यर्थः। द्वितीयं दूषयति। यथेति॥१२७॥

इज्येते स्वर्गलोकाय दर्शादर्शौयथा तथा॥
न त्वभूतार्थवादित्वं पापश्लोकाश्रुतेर्यथा॥१२८॥

भूतार्थवादित्वं चेन्नार्थवादत्वमेव स्यादतिप्रसङ्गादित्याशङ्क्याऽऽह। इज्येते इतिस्वर्गाय हि लोकाय दर्शपूर्णमासाविज्येते इति दर्शपूर्णमासप्रकरणाम्नातस्य तच्छेषतयाऽर्थवादस्यापि भूतार्थत्ववद्ब्रह्म वेदेत्यादेरपि भूतार्थत्वमर्थवादत्वं च स्यादित्यर्थः। अपापश्लोकश्रुतिवदभूतार्थत्वमेव कुतो ब्रह्म वेदेत्यादेर्न स्याद्विपरीतोदाहरणसंभवादित्याशङ्क्याऽऽह। नत्विति। श्रौतस्य फलस्य ज्ञानानन्तरमनुभूयमानस्याविरुद्धत्वादिति भावः॥१२८॥

कुतः प्राप्तं फलमिति प्रत्यक्षं ह्यात्मधीफलम्॥
यतोऽवगम्यते तेन ज्ञानं कर्म न ढौकते॥१२९॥

ब्रह्म वेदेत्यादीनां विद्यमानार्थत्वे मानान्तरं वाच्यं दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेतिप्रधानवाक्यसिद्धस्य स्वर्गाय हीत्याद्यर्थवादेनानुवादान्न चात्र मानान्तरमित्यनुवादासिद्धिरित्याक्षिपति। कुत इति। विद्वत्प्रत्यक्षसिद्धं फलं फलश्रुतिभिरनूद्यत इत्याह। प्रत्यक्षं हीति। तासामनुवादित्वमुपेत्य फले मानान्तरमुक्तम्। संप्रत्युक्तहेतोरपि ज्ञानस्य न कर्माङ्गतेत्याह। यत इति। ज्ञानफलं विद्वत्प्रत्यक्षेण यतोऽवगम्यतेऽतः शुद्धात्मधीर्न कर्म स्पृशति। न हि फलवतो दर्शादेरन्यशेषतेत्यर्थः॥१२९॥

प्रवृत्तेः प्रतिकूलत्वान्मुक्तिं प्रति विरोधतः॥
मुमुक्षोरधिकारोऽतो निवृत्तौ सर्वकर्मणाम्॥२२०॥

केवलात्मधीर्मुक्तेरभ्युदयस्य च कर्म हेतुरित्युक्ते साधनभेदे काण्डयोरार्थिकोऽधिकारिभेद78उक्तस्तत्रैव युक्त्यन्तरमाह। प्रवृत्तेरिति। या मुमुक्षोः श्रवणाद्यावृत्तिस्तस्या विरोधीनि कर्त्राद्यभिमानपूर्वाणि कर्माण्यतो न तेभ्योमुमुक्षुः स्पृहयतीत्यर्थः। किंच

तस्येष्टमुक्तिविरुद्धानि कर्माणि बन्धफलत्वात् “धर्मरज्ज्वा ब्रजेदूर्ध्वं पापरज्ज्वा ब्रजेदधः” इति स्मृतेरतो न तेषु तस्य प्रवृत्तिरित्याह। मुक्तिमिति। कुत्र तर्हि तस्य प्रवृत्तिस्तत्राऽऽह। मुमुक्षोरिति। कर्मस्वधिकारायोगात्तत्त्यागद्वारा ज्ञानमुद्दिश्य श्रवणादिष्वधिकार इत्यर्थः॥१३०॥

प्रवृत्तिहेतुप्रध्वस्तेर्न प्रवृत्तौ कथंचन॥
नाभिप्रेतपुरप्राप्तिसमर्थ सुगमं शिवम्॥१३१॥

ननु तान्यनुतिष्ठन्नेवान्तराऽन्तरा कर्माण्यपि सोऽनुतिष्ठतु तन्नास्य संन्यासिता नेत्याह।प्रवृत्तीति। रागादिः प्रवृत्तिहेतुः स मुमुक्षोर्निःशेषतो ध्वस्तो निरस्तरागादिमलस्य तथात्वादतो नास्यान्तरालेऽपि कर्मप्रवृत्तिरित्यर्थः। अथ कृतश्रवणाद्युत्पन्नज्ञानोऽपि पूर्ववासनया कर्माणि करोति तन्नात्य79न्तं भिन्नाधिकारित्वं काण्डयोरित्याशङ्क्य दृष्टान्तेन परिहरति। नेत्यादिना। अभिप्रेतं प्राप्तुमिष्टं पुरं तस्य प्राप्तिसमर्थं तत्प्राप्तौ योग्यमिति यावत्। उपेक्षानिमित्तपर्वतादिव्यवधानशून्यत्वमाह। सुगममिति। चोरादिपथिकोपद्रवराहित्यमाह। शिवमिति॥१३१॥

बारिपथ्यदनोपेतं सर्वानर्थविवर्जितम्॥
प्राप्तं मार्गंसमुत्सृज्य तद्विरुद्धेन वर्त्मना॥
यियासति सुधीः कश्चिद्यथा भ्रान्तोऽध्वगस्तथा॥१३२॥

वापीप्रपादिमत्त्वेनाऽऽदेयत्वमाह। वारीति। पथ्यदनं पाथेयं वारिणा तेन च सहितमिति यावत्। अतिवातादिपरिहीणत्वमाह। सर्वेति। यथोक्तस्यापि पथो मेरुशिखरोपरिविसारिकैलासासादनसरणिवदप्राप्तिलक्षणोपेक्षाकारणमाशङ्क्याऽऽह। प्राप्तमिति। न हि कश्चिदपि विपश्चिदुक्तमध्वानमवधीर्याध्वान्तरेणोक्तविपरीतेनाभिप्रेतं देशमाप्नुमभिलषतीत्याह। मार्गमित्यादिना। इममेवार्थं वैधर्म्यदृष्टान्तेनाऽऽह। यथेति॥१३२॥

तथाऽविद्योत्थकर्त्रादिधर्मशून्यमविक्रियम्॥
अक्रियाकारकं ज्ञात्वा निःशेषपुरुषार्थदम्॥१३३॥

दार्ष्टान्तिकमाह। तथेत्यादिना। आत्मानं ज्ञात्वा कर्मणि कथं मनो दध्यादिति संबन्धः। विदुषो हि कर्माधिकारोऽनात्मसंबन्धात्स्वतो वा नाऽऽद्य इत्याह। अविद्येति। न हि तस्य स्वतोऽनात्मसंबन्धोऽसङ्गत्वान्नाप्यविद्यातो ध्वस्ताविद्यत्वादिति भावः। द्वितीयं दूषयति। अविक्रियमिति। न हि व्यापिनोऽनवयवस्य परिस्पन्दपरिणामाविति भावः। किंच क्रियाकारकस्पर्शशून्यमात्मानमाकलयतो न कर्माधिकार इत्याह। अक्रियेति। किंच कर्मविदुषोऽभ्युदयसिद्धये वा परमात्मप्रतिपत्तये वा प्रतिपन्न परमात्मप्राप्तये वातज्ज्ञानस्य पुमर्थतालब्धये वा तत्साक्षात्कृतये वाऽपवृक्तये वा तद्भूयस्त्वभूतये वा प्रथमं

प्रत्यादिशति। निःशेषेति। न हि विदुषोऽभ्युदयार्थं कर्मानुपाधेरनतिशयानन्दस्य तस्याप्राप्ताभ्युदयाभावादिति भावः॥ १३३॥

आत्मप्रत्ययमागम्यमात्मानं देवमञ्जसा॥
तत्स्थितौ च फलेऽभीष्टे नित्ये साधनवर्जिते॥१३४॥

द्वितीयमपनुदति। आत्मेति। न हि विदुषो निरविद्यस्य परप्रतिपत्तये कर्मापेक्ष्यते स्वाभाविक्यास्तस्याः कारकानपेक्षत्वादित्यर्थः। तृतीयं निराकरोति। आत्मानमिति। न हि ज्ञानस्वरूप80प्राप्तये विद्वान्कर्माऽऽश्रयते तस्य स्वरूपत्वेन सदाप्तत्वादित्यर्थः। चतुर्थं निरस्यति। देवमिति। न हि ज्ञानस्य पुमर्थतायै कर्मापेक्षा ज्ञानस्य परस्यापरिच्छिन्नानन्दतनोः स्वतस्तथात्वादित्यर्थः। पञ्चमं प्रत्याचष्टे। अञ्जसेति। न हि ज्ञानस्य चिद्धातोः साक्षात्कारार्थं कर्म ज्ञानेतरसाक्षात्काराभावात्। ज्ञानेन हि प्रमाणेनावगन्तुमिष्टं ब्रह्मेति भाष्यात्तद्भेदेऽपि न कर्म तद्धेतुर्ज्ञानस्य स्वफले निरपेक्षत्वादिति भावः। षष्ठं प्रत्याख्याति। तत्स्थितौ चेति। नहि विदुषोऽपवर्गार्थं कर्म तस्य स्वात्मावस्थानत्वात्सकार्याविद्याध्वस्तेश्च विद्यामात्रायत्तत्वादित्यर्थः। सप्तमं प्रत्याह।नित्य इति। न हि साधनभूयस्त्वात्फलभूयस्त्वमिति न्यायेन ज्ञानादाप्तमुक्तेर्भूयस्त्वार्थं कर्मेति युक्तम्। स्वर्गवत्तत्र भूयस्त्वस्य दुःसाधनत्वान्नित्यत्वानित्यत्वभेदादिति भावः। मुक्तेः साधनानपेक्षत्वात्तु81 विदुषो न कर्मेत्याह। साधनेति। यद्वा नित्यत्वमनेन साध्यते॥१३४॥

तद्विरुद्धफले बाह्यसाधनेऽनेककारके॥
कथं कर्मणि सर्वज्ञो मनो दध्याद्धसन्नपि॥१३५॥

स्वर्गापवर्गेतरफलार्थं विद्वान्कर्मानुष्ठास्यतीत्याशङ्क्याऽऽह। तद्विरुद्धेति। मोक्षविरुद्धफलं कर्म कर्मणा बध्यते जन्तुरिति स्मृतेर्न तस्मिन्फलान्तरेच्छया विद्वत्प्रवृत्तिस्तस्यैव तदपेक्षस्याभावादिति भावः। किंचोत्पन्नज्ञानस्य प्रध्वस्ताज्ञानतज्जस्य बाह्योपकरणानां कर्मनिमित्तानामभावान्न कर्मसु प्रवृत्तिरित्याह। बाह्येति। अविदुषो बाह्यसाधनापेक्षायामपि विदुषस्तदपेक्षां विना कर्मानुष्ठानमाशङ्क्याऽऽह। अनेकेति। कारकाधीनं कर्म तच्च पश्वादि तेन तेन विना न कस्यापि कर्मप्रवृत्तिरित्यर्थः। किंचाविवेकपूर्विका तत्प्रवृत्तिर्न चोत्पन्नविद्यस्य सा युक्ता निरस्ताविद्यातज्जस्यानावृतस्वरूपसंवेदनस्यानुपलम्यार्थाभावादित्याह। सर्वज्ञ इति। ननु कृतकृत्योऽपि विद्वानात्मक्रीडार्थं कर्म करिष्यति नेत्याह। हसन्नपीति। न हि लीलार्थमपि विद्वान्कर्म कर्तुमर्हत्यनुप-करणत्वादाप्तकामत्वाच्चेति भावः॥१३५॥

सम्यग्धी82मृदिताशेषध्वान्तस्य च न पूर्ववत्॥
अज्ञानादि पुनः कर्तुं शक्यतेऽकारकत्वतः॥१३६॥

तत्त्वज्ञानध्वस्ताज्ञानस्यापि भूयो भवतोऽज्ञानान्तरात्कारकयोगद्वारा कर्माधिकारः स्यादिति चेन्नेत्याह। सम्यगिति। तत्र हेतुरकारकत्वत इति। आत्मनः कूटस्थत्वादज्ञानादिहेतुत्वायोगाद्धेत्वन्तरस्याभावादहेतुकस्य च कार्यस्योत्पत्तिव्याघातादित्यर्थः॥१३६॥

श्रुत्यादिमानप्रमितयाथात्म्यज्ञानतत्फलः83
प्रतिकूलत्वतो विद्वान्यतः कर्मसु नेहते॥१३७॥

आत्मज्ञस्य कर्माधिकारनिरासेन विरक्तो विधितस्त्यक्तसर्वकर्मा मोक्षाधिकारीत्युक्त्वा विपरीतोऽभ्युदयाधिकारीत्याह। श्रुत्यादीति॥१३७॥

अतोऽज्ञस्यैव निःशेषमुमुक्षुप्रजिहासितः॥
कर्त्राद्यनात्मधर्मस्य कर्माधिकृतिरात्मनः॥१३८॥

अज्ञानविशिष्टोऽपि न कर्माधिकारी सुप्तस्यापि तत्प्रसङ्गादित्याशङ्क्याऽऽह। निःशेषेति। कर्त्रादिदेहान्तानात्मविशिष्टस्य कर्माधिकारो नाज्ञानमात्रविशिष्टस्येति नातिप्रसङ्गः सुप्तस्याहंकाराद्यवैशिष्ट्यादित्यर्थः। तर्हि विदुषोऽप्यारब्धकर्मणा देहाथभिमानात्कर्माधिकारस्तत्राऽऽह। मुमुक्ष्विति। मुमुक्षोरप्यनात्मा हातुमिष्टः किं पुनर्विदुषो जीवन्मुक्तस्य तस्मात्तस्य देहादिभानेऽपि न कर्माधिकारस्तद्धेतुदेहाभिमानाभावादिति भावः॥१३८॥

विद्यात्ममोहतत्कार्यविरोधाच्च परस्परम्॥
रोगादिवदनर्थत्वात्कर्त्रादिः प्रजिहासितः॥१३९॥

विदुषा कर्त्रादेरव84हेयत्वे हेतुमाह। विद्येति। विद्या चाऽऽत्ममोहश्च तयोरन्योन्यं रूपतः कार्यतश्च विरोधात्कर्त्राद्यात्मविद्यया हातव्यमित्यर्थः। तच्छब्दः स्वरूपविषयः। संप्रति कर्त्रादेर्मुमुक्षुणा जिहासितत्वे हेतुमाह। रोगादिवदिति। आदिपदेनाहिकण्टकादिग्रहः॥१३९॥

जिहासितुः स्वभावोऽसावित्युक्तिः शिशुवक्तृका॥
कर्त्रादिश्चेत्स्वभावः स्यात्प्रत्यक्षाकर्तृरूपिणः॥१४०॥

प्रत्यक्षादिविरोधः स्यादनिर्मोक्षस्तथैव च॥
अस्तु काममनिर्मोक्षो विक्रियावत्त्वतो दृशेः॥१४१॥

अग्निवत्फलभोक्तृत्वान्नो चेदाकाशकल्पता॥
इति चेन्नाऽऽत्मनो ध्रौव्याद्विक्रियानुपपत्तितः॥१४२॥

कर्त्रादेरात्मस्वरूपत्वान्न केनचिज्जिहासेत्याशङ्क्याऽऽह। जिहासितुरिति। कर्त्रादिरात्मस्वभावस्तत्र प्रतीयमानत्वाच्चैतन्यवदित्या-शङ्क्याऽऽह। कर्त्रादिरिति। आत्मा विद्वत्प्रत्यक्षेणाकर्त्रादिरूपोऽनुभूयते तस्य वैपरीत्ये विद्वत्प्रत्यक्षेण वक्ष्यमाणानुमानेनकृत्स्नः प्रज्ञानघन एवेति श्रुत्या च विरोधः स्यादित्यर्थः। विद्वत्प्रत्यक्षस्य विप्रतिपत्तेर्न बाधकतेत्याशङ्क्य दोषान्तरमाह। अनिर्मोक्ष इति। कर्त्रादिस्वभावनिवृत्तावनिवृत्तौ च मोक्षासंभवः। आद्ये मोक्षिणोऽभावाद्द्वितीयेऽनर्थसद्भावादतश्चाऽऽत्मा कर्त्रादिरूपश्चेदित्यत्रोक्तं तथैव स्थितमित्यर्थः। तत्र लोकायतश्चोदयति। अस्त्विति। अनिर्मोक्षप्रसञ्जनस्येष्टापादनत्वे हेतुमाह। विक्रियेति। यथाऽग्नेर्दाहपाकादिविक्रिया तथाऽऽत्मनोऽपि जन्मादिविक्रियावत्त्वेनानित्यत्वान्न नित्यसिद्धा मुक्तिरित्यर्थः। जन्मादिविक्रियाया देहस्थत्वान्नाऽऽत्मनि सेत्याशङ्क्य देहादन्यात्माभावान्नैवमित्यभिप्रेत्य तदभ्युपगमेऽपि तस्य भोक्तृत्वमस्ति न वेति विकल्प्याऽऽद्यं प्रत्याह। फलेति। भोगश्च न विक्रियां विनेति तद्वत्त्वं भोक्तुरवश्यंभावीति शेषः। द्वितीयमनुद्रवति। नो चेदिति। तर्हि चेतनस्याऽऽत्मनोऽसत्त्वमेव भोक्तृत्वाभावे भोग्यभागनिवेशादित्याह। आकाशेति। आकाशस्य मूर्तभावत्वात्तत्तुल्यताऽस्यासत्त्वमे85वेति द्रष्टव्यम्। आत्मनो विक्रियावत्त्वं दूषयन्प्रसङ्गस्येष्टत्वं निराचष्टे। नेति। विक्रियावत्त्वमनित्यत्वव्याप्तमण्वादेरपि तद्वतो नित्यत्वासंप्रतिपत्तेः। नित्यश्चाऽऽत्मा वक्ष्यते। तद्व्यापकमात्मनो व्यावर्तमानं स्वव्याप्यं विक्रियावत्त्वमपि ततो व्यावर्तयतीति भावः॥१४०॥१४१॥१४२॥

मूर्तामूर्तत्वहीनस्य प्रतीचो विक्रिया कुतः॥
प्रमायोगो हि भोक्तृत्वंप्रमा चैवाऽऽत्मनः सदा॥१४३॥

किंच भूतभौतिकात्मके मूर्तामूर्तप्रपञ्चे विक्रिया दृष्टा। आत्मा तु तत्साक्षी तदन्योऽतो न तद्वानित्याह। मूर्तेति। यद्वा नित्यत्वमात्मनोऽनेन साध्यते। नित्यत्वे सिद्धे फलितमाह। विक्रियेति। यत्त्वात्मनोऽविकारस्याभोक्तुराकाशतुल्यतेति तत्राऽऽह। प्रमेति। भोगो नाम सुखाद्यनुभवस्तद्धेतुविषयानुभवश्च तद्योगो दृशो भोक्तृत्वं तदक्रियस्यापि स्यादिति नास्याऽऽकाशतुल्यतेत्यर्थः। अक्रियस्य न प्रमायोगोऽप्याकाशेऽनुपलब्धेरित्याशङ्क्याऽऽह। प्रमा चेति। आत्मा हि स्वरूपं परापेक्षां विनाऽनुभवति विषयांश्च तत्तदाकारान्तःकरणवृत्त्यवच्छिन्नत्वेन जानीते तस्मादात्मनोऽनुभवात्मनो बुद्ध्यादिसंबन्धाद्भोक्तृत्वम्। उक्तं हि—अविक्रियस्य भोक्तृत्वं स्यादहंबुद्धिविभ्रमात्” इति तन्नाऽऽकाशसादृश्यमिति भावः॥१४३॥

वाय्वग्निवद्विकारो न प्रागभावाद्यसंभवात्॥
अग्न्यादीनां तु सांशत्वाद्बलवद्भिस्तदिन्धनैः॥१४४॥

अभिभूतस्वरूपाणां काष्ठनिर्मथनादिना॥
युक्तैवाऽऽविष्कृतिर्नित्यं तेषां कार्यात्मकत्वतः॥१४५॥

किंचप्रागभावादिमत्येव विक्रिया यथा पावकादौ प्रागभावादिमत्त्वं चाऽऽत्मनोः व्यावर्तमानं विक्रियावत्त्वमपि ततो व्यावर्तयतीति विधान्तरेणाऽऽत्मनोऽविक्रियत्वमाह।वाय्वग्निवदिति। आत्मप्रागभावादि नाऽऽत्मप्रत्यक्षं तयोः समसमयत्वायोगान्नाप्यात्मान्तरस्य तद्भेदासिद्धेः। नापि स्वस्यैव स्वप्रागभावाद्यनुमेयम्। विमतः कालो मत्सत्तावान्कालत्वात्संमतवदिति वैपरीत्यानुमानात्। तस्मादात्मा प्रागभावाद्यभावादविक्रिय इति भावः। यद्वा नित्यत्वमेवानेनापि साध्यते। नन्वात्मा विक्रियावानाविर्भावतिरोभावभाक्त्वादग्न्या-दिवदित्यनुमानात्तस्य विक्रियावत्त्वमत आह। अग्न्यादीनामिति। सावयवानां तेषामभिभवनसमर्थैः सावयवैरिन्धनादिभि-रभिभूतस्वभावानां काष्ठनिर्मथनव्यजनाभिघातादिनिमित्तेन केनचिदेकदेशेनाभिव्यक्तिर्युक्ता तथाऽपि न तेषामाविर्भावादिभाक्त्व-प्रयुक्तं विक्रियावत्त्वं किंतु सावयवत्वकृतमिति सोपाधिको हेतुरित्यर्थः। कथमग्न्यादीनां सावयवत्वं कार्यत्वे सति द्रव्यत्वादित्याह। नित्यमिति॥१४४॥१४५॥

न त्वात्मनो निरंशत्वान्मुख्यौ संभवतः क्वचित्॥
आविर्भावतिरोभावौ स्वतः सिद्धेश्चकारणात्॥१४६॥

साधनव्याप्तिं निरस्यति। न त्विति। किंच कल्पितावाविर्भावतिरोभावौ हेतुकृतावकल्पितौ वा। आद्ये साध्यं विक्रियावत्त्वमपि कल्पितमकल्पितं वा नाऽऽद्यः सिद्धसाध्यत्वान्नेतरो गन्धर्वनगराद्याविर्भावतिरोभावाभ्यां व्यभिचारादिति मत्वा कल्पान्तरं निराकर्तुमाह। मुख्याविति। पूर्वस्य नञोऽनुषङ्गः। अथ निरंशस्यापि यावन्ना86ऽऽविर्भावसामग्री तावद्वास्तवस्तिरोभावः। पश्चात्त्वाविर्भावस्तथा स्यात्तत्राऽऽह।स्वतःसिद्धेरिति। चकारः शङ्कापनुत्त्यर्थः॥१४६॥

अभ्युपेताऽप्यभिव्यक्तिर्नाभिव्यङ्ग्यस्य विक्रिया॥
यथा तथाऽनभिव्यक्तिः सर्वेषामपि वादिनाम्॥१४७॥

आविर्भावतिरोभावयारात्मनि विक्रियाहेतुत्वाभावेऽपि विक्रियात्वमित्यपि न तयोरकल्पितयोर्युगपदेकत्रायोगात्क्रमेणापि स्वप्रकाशात्मन्यसंभवात्संभवेऽपि तयोरात्मनि न विक्रियात्वमित्याह। अभ्युपेताऽपीति। अभिव्यक्त्यादेरभिव्यङ्ग्यादि-विक्रियात्वाभावस्य सर्वतन्त्रसिद्धान्ततामाह। सर्वेषामिति॥१४७॥

अतोऽनभ्युपगच्छद्भिर्मुक्तौ कर्त्रादिरात्मनः॥
अविद्याकल्पितो ज्ञेयो न ह्यसौ परमार्थतः॥१४८॥

आत्मनो विक्रियाभावे तस्मिन्प्रतीयमानकर्तृत्वादिविकारस्य का गतिस्तामाह। अत इति। दृशो विक्रियावत्त्वस्योक्तन्याय-विरोधात्तत्कर्त्रादिर्विकारो भासमानोऽप्यज्ञानकृत इति प्रतिज्ञायां हेतुमाह। अनभ्युपगच्छद्भिरिति। न हि मोक्षवादिनो मोक्षे कर्तृत्वाद्यभ्युपयन्त्यतो व्यभिचारित्वादस्य शुक्तिरूप्यवत्कल्पितत्वमिति भावः। जडत्वाच्च कर्तृत्वादि सर्पादिवत्कल्पितमित्याह। न हीति॥१४८॥

कर्त्राद्यात्मस्वभावस्य87 प्रात्यक्ष्यान्न तदात्मनि॥१४९॥

मात्रादिबोधकं मानं88 प्रत्यगात्मनि साक्षिणि॥
न व्यापारयितुं शक्यं वह्निंदग्धुमिवोल्मुकम्॥१५०॥

नन्वात्मधर्मत्वात्कर्तृत्वादिश्चैतन्यवन्नाविद्याकृतस्तथा च धर्मिणि तस्याऽऽगमापायाभ्यां बन्धमोक्षौ, नेत्याह। कर्त्रादीति। तत्कर्त्राद्यात्मनि धर्मिणि धर्मो नेत्यत्र हेतुमाह।आत्मेति। आत्मस्वभावश्चैतन्यं तदधीनत्वेनास्य दृश्यत्वादिति यावत्। किं कर्तृत्वादिरात्मदृश्यो न वा। आद्ये नासावात्मधर्मस्तद्दृश्यत्वाद्घटवत्। द्वितीये साधकाभावादसिद्धिरिति भावः। कर्तृत्वादेरात्मधर्मत्वाभावानुमानं तस्य तद्धर्मत्वग्राहकाहंप्रत्ययबाधितमित्याशङ्क्य मात्रादि वा स विषयीकरोति तत्साक्षिणं वेति विकल्प्याऽऽद्यं प्रत्याह।मात्रादीति। त्वदुत्प्रेक्षितं प्रत्यक्षं मात्रादिबोधकं चेन्न प्रकृतानुमानबाधकम्। कर्तृत्वादेर्मात्रादिधर्मत्वस्य तेनानिरासादिति भावः। कल्पान्तरं निराह। प्रत्यगिति। तद्धि मात्रादिकर्तृकं साक्षिकर्तृकं वा नाऽऽद्यः, प्रतीचः स्वविषयमात्रादिकर्तृकक्रियाव्याप्यत्वानुपपत्तेः। न हि वह्निः स्वदाह्योल्मुकक्रियाव्याप्यः। नेतरः, साक्षिणो निर्विकारस्य तत्कर्तृत्वायोगात्। अतो नाहंधीबाधितमनुमानमिति भावः॥१४९॥१५०॥

साक्षिसाक्ष्याभिसंबन्धः प्रमात्रादौ यथा तथा॥
साक्षिवस्तुनि नैव स्यात्केवलानुभवात्मनि॥१५१॥

ननु मात्रादिसाक्षी द्रष्टाऽद्रष्टा वा। आद्ये सोऽपि साक्षिवेद्यो द्रष्टृत्वान्मातृवत्तथा च कर्तृत्वादेः साक्षिणि तेनैव सिद्धे साक्षिप्रत्यक्षप्रहतमनुमानम्। द्वितीये घटादिवदचेतनत्वादसाक्षितेति तत्राऽऽह। साक्षीति। मात्रादौ जडे नियमेन स्वेतरप्रकाशापेक्षिणि साक्ष्यत्वं चिदात्मनि साक्षित्वमित्यनयोः साक्षिसाक्ष्ययोगो यथोपपद्यते न तथाऽऽत्मन्यसौ संभवति शुद्धचित्प्रकाशरूपत्वात्साक्ष्यपेक्षत्वाभावात्साक्ष्यन्तरस्य च जडत्वे तत्त्वायोगादजडत्वे ततो भेदानुपपत्तेः साक्ष्येव चिदात्मा तस्य चाऽऽदित्यस्य प्रकाशयितृत्ववद्द्रष्टृत्वमित्यर्थः॥१११॥

परार्थसंहतानात्मभोग्यकर्त्रादिबोधिना॥
विरोधातद्विरुद्धोऽर्थः प्रत्ययेनेक्ष्यते कथम्॥१५२॥

नन्वात्मा मात्रादिग्राहकग्राह्यो मात्रादेरविलक्षणत्वात्तद्वदित्यनुमानान्मात्रादिबोधकमेव मानमनुमानबाधकमित्यत आह। परार्थेति। मात्रादेः साक्षी न मात्रादिमानविषयस्ततोविलक्षणत्वात्। यो यतो विलक्षणो न स तन्मानविषयो यथा घटविलक्षणं नभो न तन्मानविषयो न च हेत्वसिद्धिः साक्षी मात्रादेर्विलक्षणोऽपरार्थत्वात्तद्वदिति व्यतिरेक्यनुमानादतो मात्राद्यविलक्षणत्वहेत्वसिद्धिरित्यर्थः। मात्रादिदृष्टान्तस्य साधनाव्यावृत्तत्वं परिहर्तुं परार्थत्वं साधयति। संहतेति। विमतं परार्थं संहतत्वाद्गृहवदित्यर्थः। किंच साक्षी मात्रादिविलक्षण आत्मत्वात्तद्वत्। न च साधनाव्यावृत्तो दृष्टान्तस्तस्य संहतत्वेनानात्मत्वसिद्धेरित्याह। अनात्मेति। किंच साक्षी तद्विलक्षणो भोक्तृत्वात्तद्वन्न च मात्रादेरपि भोक्तृत्वात्साधनाव्यावृत्तिस्तस्य प्रमायोगो हीत्युक्तन्यायेन भोग्यान्तर्भावादित्याह।भोग्येति। अकर्तृत्वाच्च साक्षी मात्रादेर्विलक्षणो न च तस्यापि तुल्यमकर्तृत्वं कर्तृत्वानुभवादित्याह। कर्त्रादीति। उक्तरूपमात्रादिबोधिना प्रत्ययेन तद्विलक्षणः साक्षी न विषयीकर्तुं शक्यः पराङ्मानस्य प्रतीचि प्रवृत्तिविरोधादित्याह। बोधिनेत्यादिना॥१५२॥

इच्छाद्वेषादिरप्येवं नाऽऽत्मनो धर्म इष्यताम्॥
कामः संकल्प इत्येवं मनोधर्मत्वसंश्रयात्॥१५३॥

इच्छादयः क्वचिदाश्रिता गुणत्वाद्रूपांदिवदित्यनुमानात्परिशेषात्तदधिकरणमात्मा सिध्यति। तथा चेच्छाद्यधीनं कर्तृत्वाद्यपि तस्य भविष्यतीति केचित्तान्प्रत्याह।इच्छेति। ते हि स्वतन्त्राः परतन्त्रा वा नाऽऽद्योहेत्वसिद्धेः। नेतरः। आश्रयस्यानिरूप्य-माणत्वेनाऽऽश्रयासिद्धेः। न च ते स्वतः सिद्धा जडत्वान्नापि परतस्तस्यानात्मत्वे साधकत्वायोगादात्मत्वे तद्दृश्यानामिच्छादीनां रूपादिवत्तद्धर्मत्वासिद्धेस्तद्वत्कर्तृत्वादिरपि नाऽऽत्मधर्म इत्यर्थः। अथेच्छादयोऽष्टद्रव्यातिरिक्तद्रव्याश्रितास्तेष्वसंभावितत्वे सति गुणत्वाच्छब्दवदित्यनुमानात्तेषामात्मगुणतेत्याशङ्क्य श्रुतिविरोधान्नैवमित्याह।काम इति॥ १५३ ॥

स्वपरोभयहेतुत्वे ह्यनिर्मोक्षप्रसङ्गतः॥
सम्यग्निरूपणे चैषामविद्याकार्यतैव हि॥१५४॥

किंच तेषां कार्यत्वमकार्यत्वं वा न तावदकार्यत्वं तथा सति तेषां सदाभावादनिर्मोक्षापत्तेः। कार्यत्वेऽपि तेषां हेतुरस्ति न वा नास्तिचेत्सदासत्त्वमसत्त्वं वा स्यादाद्ये मोक्षानुपपत्तिरुक्ता द्वितीये बन्धासिद्धिः। हेतुरस्ति चेत्स किमिच्छादिरेव, किंवाऽन्योऽथ वोभयंनाऽऽद्यः, सिद्धस्येच्छादेः स्वसिद्धिहेतुत्वे स्वाश्रयत्वप्रसङ्गादसिद्धस्य जनकत्वे मोक्षेऽपि संभवादनिर्मोक्षः। न द्वितीयोऽन्यस्य हेतोरदृष्टेर्दृष्टौ वा तस्य कादाचित्कत्वे हेत्वन्वेषणायामनवस्थानित्यत्वे सदेच्छादिजनकत्वादनिर्मोक्षः। न तृतीयः। तत्र हि

द्वितीयोऽचेतनश्चेतनो वाऽऽद्ये तस्येच्छादिजनकत्वं स्वभावोऽस्वभावो वा। नाग्रिमोऽनिर्मोक्षप्रसक्तेः। न पश्चिमस्तस्य कदाचिदप्यजनकत्वापत्तेर्न हि स्वतोऽसती शक्तिः कर्तुमन्येन शक्यत इति न्यायात्। तस्मादिच्छादेराविद्यत्वमुपेयुमिति मत्वाऽऽह।स्वपरेति। किंच न तावदेतेषामात्मनो भिन्नत्वं धर्मधर्मित्वानुपपत्तेः। अत एव नाभिन्नत्वं, नापि भिन्नाभिन्नत्वं विरोधान्नाप्यपरोक्षत्वात्तुच्छत्वमतो विचारासहत्वे सत्यपरोक्षत्वान्नभोनैल्यवत्तेषामाविद्यत्वमित्याह। सम्यगिति॥१५४॥

इच्छादीनां स्वहेतुत्वेऽनर्थं कुर्यात्कथं स्वयम्॥
आत्मा जानन्यथा शत्रोरात्मनोऽतो न युज्यते॥१५५॥

इच्छादीनामुभयहेतुत्वे द्वितीयश्चेतनश्चेत्सोऽपि जीवो वा परो वा द्वौ वा जीवश्चेत्स किमिच्छादेरनर्थत्वं बुध्यते न वा तत्राऽऽद्यं दूषयति। इच्छादीनामिति। स्वयं स्वस्येति यावत्। बुद्धिपूर्वकारी नाऽऽत्मनोऽनर्थं करोतीत्यत्र वैधर्म्यदृष्टान्तमाह। यथेति। द्वितीयं दूषयति। आत्मन इति। तेषामनर्थत्वं जीवो न वेद चेत्प्राप्तमज्ञानकार्यत्वमतश्चाऽऽत्मनः सकाशान्न तज्जन्म युक्तमित्यर्थः॥१५५॥

तथा परनिमित्तत्वेऽनर्थस्यापरिहारतः॥
नैकान्तिकफलत्वं स्याद्रोगादिपरिहारवत्॥१५६॥

यदि परश्चेतनस्तत्राऽऽह। तथेति। परश्चेदिच्छाद्यनर्थमुत्पादयेत्स तहिं स्वस्यान्यस्य वा तं कुर्यान्नाऽऽद्यः सर्वज्ञत्वादिविरोधाद्द्वितीये यथाऽसौ संसारिणामनर्थमाधत्ते तथा मुक्तानामप्यादध्यात्तथाच तेषां तत्परिहारस्य नित्यफलत्वानुपपत्तिरित्यर्थः। ननु परः सर्वज्ञो मुक्तान्प्रत्यनर्थं नाऽऽधास्यति तन्मुक्त्युपायप्रतिबन्धादत आह। नेति। न हि मुक्तिहेतुज्ञानं कर्म वा मुक्तावस्त्यतस्तदप्रतिबन्धादनर्थाधाने परस्य वारकाभावाल्लौकिकप्रतिकूलध्वस्तिवदनर्थध्वस्तिरपि नाऽऽत्यन्तिकी स्यादिति भावः॥१९६॥

करणैः संहति चर्ते परिहारः कुतो दृशेः॥
तोभयनिमित्तत्वे नैकान्तिकफलोदयः॥१५७॥

मुक्तात्मा परेणाऽऽपाद्यमानमनर्थं परिहरिष्यति तेन तुल्यत्वादिति चेनेत्याह। करणैरिति। मुक्तस्याऽऽत्मनः परेण क्रियमाणानर्थस्य तद्धेतोश्च परिहारो न सिध्यति कार्यकरणसंहतिविरहित्वादन्यथा संसारित्वप्रसङ्गादीश्वरस्य च मायावित्वादित्यर्थः। अथेच्छादेर्न परो जीवो वा केवलो हेतुः किंतुभावप्यतो न मुक्तिदशायां तदुत्पतिर्जीवस्य मुक्तत्वात्तदननुकूलत्वादत आह। तथेति। यथेच्छादेः परात्मजन्यत्वेऽनिर्मोक्षस्तथा तस्योभयजन्यत्वपक्षेऽपि। ईश्वरस्य स्वातन्त्र्याज्जीवस्य स्वानुकूलत्वमापाद्यैवानर्थमसौ संपादयिष्यत्यतो न मुक्तिरित्यर्थः॥१९७॥

पराभिप्रायानियमान्नैव स्यान्मोक्षनिश्चितिः॥
निर्हेत्वविद्याक्लृप्तौ तु दोषः कश्चिन्न विद्यते॥१५८॥

नन्वीश्वरो मुक्तमुपलभ्य माऽस्य भूयो बन्धो भूदिति मन्वानो न तस्मिन्ननर्थमाधास्यतीति मुक्तिनिश्चयस्तत्राऽऽह। परेति। त्वत्पक्षेऽपि समाविमौ विकल्पदोषावित्याशयाऽऽविद्यमिच्छादीति पक्षे नानिर्मोक्षादिदूषणमित्याह। निर्हेत्विति॥१५८॥

तद्वर्जनस्य संसिद्धेः प्रसिद्धोपायसंश्रयात्॥
परागर्थप्रमेयेषु या फलत्वेन संमता॥
संवित्सैवेह मेयोऽर्थो वेदान्तोक्तिप्रमाणतः॥१५९॥

कथमिच्छादेराविद्यस्य मुक्तावसंभवो येनानिर्मोक्षप्रसङ्गसमाधिस्तत्राऽऽह। तद्वर्जनस्येति। अविद्यावर्जनस्य मोक्षे विद्यमानत्वात्तत्कार्यस्येच्छादेस्तत्रासंभवो विनोपादानमुपादेयाभावादिति भावः। नन्वविद्यावर्जनमविद्यातो वा तत्कार्याद्वा प्रतीचो वा हेत्वन्तराद्वा नाऽऽद्योऽविद्यायाः स्वव्याघातकत्वव्याघातान्न द्वितीयस्तत्कार्यस्य तन्निवर्तकत्वायोगान्न हि घटो मृदं निवर्तयति। न तृतीयः। आत्मनोऽविद्यानिवर्तकत्वे तत्र तदुपलम्भासंभवात्। नान्त्यो हेत्वन्तरस्याप्रतीते89रत आह। प्रसिद्धेति। प्रत्यगात्मा स्वप्रकाशत्वेन प्रसिद्धः स एवोपायस्तस्य संश्रयादविद्यावर्जने90, साधनचतुष्टयवतः कृतान्वयव्यतिरेकस्य श्रवणाधिकारिणः श्रुताद्वाक्यादैक्यज्ञाने तस्मिन्नभिव्यक्तो हगात्मा स्वाविद्यां सकार्यां दग्ध्वा स्वस्थो भवतीत्यर्थः। नन्वविद्यानिवृत्तेरात्ममात्रत्वान्न तत्र तस्योपायत्वम्। उपायोपेयत्वस्य भेदापेक्षत्वात्तत्राऽऽह। परागिति। अस्यार्थः। पराञ्चः शब्दादयोऽर्था येषां प्रमेयास्तानि प्रत्यक्षादिप्रमाणानि परागर्थप्रमेयाणि तेषु फलत्वेन संमता या संवित्। वस्तुतस्तु न फलं जन्माभावात्सैव परात्मरूपा वेदान्तोक्तिलक्षणप्रमाणस्य प्रमेयस्तात्पर्यगम्योऽर्थः। तथा चाविद्याविरोध्याकारेणोपायत्वं, तन्निवृत्त्यात्मना च फलत्वादुपेयतेत्येकत्रैवाऽऽत्मन्याकार भेदादुभयथात्वमिति॥११९॥

अप्रामाण्यप्रसक्तिश्चस्यादितोऽन्यार्थकल्पने॥
वेदान्तानामतस्तस्मान्नान्यमर्थंप्रकल्पयेत्॥१६०॥

प्रत्यक्षादीनां परागर्थविषयत्वमुपेत्य तत्फलभूताखण्डसंविदो वेदान्तमेयत्वमुक्तम्। संप्रति तेषां परागर्थत्वं नास्तीत्याह। अप्रामाण्येति। यदि प्रत्यक्षादीनि पराञ्चमर्थं गोचरयेयुस्तदा वेदान्ता निखिलभेदाभावोपलक्षिते ब्रह्मणि न प्रमाणं स्युः। तस्मादितोऽद्वितीयानुभवात्मनो वेदान्तवेद्यादन्यस्य पराचोऽर्थस्य प्रत्यक्षादिमेयत्वकल्पने वेदान्तानामप्रामाण्यं स्यात्तथा चातो वेदान्तवेद्यादन्यमर्थं प्रत्यक्षादिविषयत्वेन न कल्पयेत्। किंतु सोपाधिकं ब्रह्म तेषां विषयो निरुपाधिकं वेदान्तानामित्यर्थः॥१६०॥

नन्वेवमपि मानत्वव्याघातः स्यात्क्रियाविधेः॥
वेदान्तेष्वप्यनाश्वासस्तथा च प्रसजेद्ध्रुवम्॥१६१॥

अद्वयानुभवविषयत्वं वेदान्तानाममृष्यन्नाशङ्कते। नन्विति। ब्रह्मण्यद्वयानुभवात्मनि वेदान्तप्रामाण्येऽपि कर्मकाण्डस्याप्रामाण्यं स्यात्तस्य कारकादिभेदावलम्बित्वाद्भेदस्य चाभेदवादिवेदान्तैरपहृतत्वादित्यर्थः। कर्मकाण्डाप्रामाण्यमद्वैतवादिनो वेदान्तमात्र-प्रामाण्यमिच्छतो नानिष्टमित्याशङ्क्याऽऽह। वेदान्तेष्विति। तदप्रामाण्ये वेदैकदेशत्वाद्वेदान्तेष्वपि तदनाश्वासान्न कर्मकाण्डाप्रामाण्यमिष्टमित्यर्थः॥१६१॥

नैतदेवं यतोऽशेषमानानामपि मानता॥
आ परात्मावबोधात्स्यात्तत्र सर्वसमाप्तितः॥१६२॥

किं तस्य तात्त्विकं प्रामाण्यं व्याहन्यते किंवा व्यावहारिकं तत्राऽऽद्यमभ्युपेत्य द्वितीयं दूषयति। नैतदिति। तस्य व्यावहारिकं प्रामाण्यं ज्ञानात्पूर्वं वा विहन्यते पश्चाद्वा नाऽऽद्य इत्याह। यत इति। अतो ज्ञानात्प्राचि काले तदव्याहतिरिति शेषः। द्वितीयं दूषयति। तत्रेति। परविद्योदये सर्वानात्मध्वस्तेर्ज्ञानादूर्ध्वं विध्याद्यप्रामाण्यमिष्टमेव न च तस्य व्यावहारिके प्रामाण्ये वेदान्तानामपि तथात्वं तेषां तत्त्वविषयत्वस्य श्रौतत्वात्तात्त्विकप्रामाण्यादिति भावः॥१६२॥

नातोऽवतारो मानानामैकात्म्येनैव संक्षयात्॥
श्येनादिविधिबाधः स्यादहिंसाविधिना यथा॥१६३॥

अथ विद्वानपि यथापूर्वं यावद्देहं मानतो व्यवहरति तत्कथं ज्ञानादूर्ध्वं विध्याद्यप्रामाण्यं तत्राऽऽह। नात इति। ज्ञानादूर्ध्वमध्यक्षादिप्रवृत्तिहेत्वज्ञानस्य प्रत्यङ्मात्रतया क्षीणत्वान्न तत्प्रवृत्तिः। न च विदुषो मानं विना तदनुपपत्तिर्बाधितानुवृत्त्याऽपि तत्संभवादित्यर्थः। नन्वैक्यज्ञानं न मानबाधकं मानत्वान्मानान्तरवदिति तत्र व्यभिचारमाह।श्येनादीति। आदिशब्दो गवादिविषयः। तथा तत्त्वमस्यादिवाक्योत्थज्ञानेन पूर्वप्रवृत्तं विध्यादि बाध्यते, पौर्वापर्ये पूर्वदौर्बल्यं प्रकृतिवदिति न्यायादिति शेषः॥१६३॥

कर्माण्यतो विधीयन्तेऽविद्यावन्तं नरं प्रति॥
न तु विध्वस्तसकलकर्महेतुं द्विजं प्रति॥१६४॥

किंचाविद्यावन्तं नराभिमानिनं प्रति कर्माणि यतो विधीयन्तेऽतो व्यावहारिकं कर्मकाण्डप्रामाण्यं,यावज्ज्ञानं तत्प्रामाण्ये विसंवादाभावादित्याह। कर्माणीति। विमतं तत्त्वावेदकं मानत्वात्संमतवदित्याशङ्क्याऽऽह। नत्विति। कारणेन सह ध्वस्तः समस्तः कर्महेतुब्रह्मण्याद्यभिमानो यस्य तं विद्यावन्तं भूतपूर्वगत्या द्विजं प्रति कर्माणि न विधीयन्ते तस्यानियोज्यत्वात्। मानत्वं च तत्त्वावेदकत्वं चेत्साध्याविशिष्टता, व्यवहाराङ्गत्वं चेत्स्वप्नादिबोधे व्यभिचारोऽतो न विध्यादेस्तात्त्विकं प्रामाण्यमित्यर्थः॥१६४॥

सर्वकर्मनिरासेऽतो ह्यधिकारो विवेकिनः॥
यथोक्तन्यायतः सिद्धो न तु कर्मसु कर्हिचित्॥१६५॥

ननु कर्मणां विद्यावन्तं प्रत्यविधानेऽपि विविदिषावन्तं प्रति विधानाद्वेदान्तवद्विध्यादेरपि तत्त्वावेदकतेति नेत्याह। सर्वकर्मेति। विवेकवैराग्यविविदिषाद्युपेतस्य संन्यासपूर्वके श्रवणादावेवाधिकारस्तस्यैव मोक्षहेतुसम्यग्धीहेतुत्वान्न कदाचिदपि कर्मसु यथोक्त्ताधिकारिणोऽधिकारः प्रवृत्तेः प्रतिकूलत्वादित्यादिन्यायेन तेषामभिलषिताननुकूलत्वात्तस्मादविवेकिनं प्रत्येव कर्मविधेर्न तस्य तत्त्वावेदकतेति भावः॥१६५॥

कारकव्यवहारे हि शुद्धं वस्तु न वीक्ष्यते॥
शुद्धे वस्तुनि सिद्धे च कारकव्यापृतिस्तथा॥१६६॥

ननु विवेकिनो विरक्तस्यापि यावज्ज्ञानं कर्मत्यागायोगो यज्ञदानतपः कर्म न त्याज्यं कार्यमेव तदिति स्मृतेरतो विविदिषेोरपि कर्माधिकारीनेत्याह। कारकेति। कर्त्रादिकारकाणां व्यवहारो नाम कर्म, तस्मिन्सत्यात्मजिज्ञासैव न जायते, सत्यामपि तस्यां जिज्ञासमानः शुद्धं वस्तु वीक्षितुं न क्षमः कर्मापहृतधीत्वादतो यावद्विवेकं कर्मानुष्ठानम्। विवेके तु तत्त्यागः। आरुरुक्षोर्मुनेर्योगमित्यादि स्मृतेः। तथाच जिज्ञासोर्न कर्माधिकारः। यज्ञदानतपःकर्मेत्यादि तु नित्यकर्मस्तावकमित्यर्थः। जिज्ञासोर्विरक्तस्य कर्मानधिकारे हेत्वन्तरमाह। शुद्ध इति। तथाशब्दो नञनुकर्षणार्थः। निष्प्रपञ्चे तत्त्वे विवेकविषयीकृते कर्मनिमित्ताभिमानशैथिल्यान्न तस्मिन्नधिकार इत्यर्थः॥१६६॥

कारकाकारकधियोर्नैकदैकत्र वस्तुनि॥
विरोधात्संभवोऽस्तीह प्रकाशतमसोरिव॥१६७॥

किंच विवेकिनस्तावदकारकात्मधीरस्ति तस्य कर्माधिकारे कारकधर्वाच्या तयोश्च यौगपद्यं क्रमो वा नाऽऽद्यइत्याह। कारकेति॥१६७॥

अविरोधः क्रमेण स्यात्स्थितिगत्योरिवेति चेत्॥
नाऽऽत्मज्ञानस्य कूटस्थवस्तुतत्वहेतुतः॥१६८॥

द्वितीयमुत्थापयति। अविरोध इति। पूर्वं कारकधीः पश्चादितरेति वा क्रमः, प्रथममकारकधीः कालान्तरे त्वन्येति वा, तत्राऽऽद्यमङ्गीकृत्यान्त्यं निराह। नेत्यादिना। अकारकधियोऽविकारिब्रह्मविषयत्वात्तस्यां कर्मप्रवृत्तिनिमित्तं कारकधीर्नोत्पत्तुं पारयति। तन्निमित्तजात्याद्यभिमानभङ्गादित्यर्थः॥१६८॥

नौष्ण्यात्मको मितो वह्निः क्रमशोऽक्रमशोऽथ वा॥
वस्तुतः शीततामेति, कर्तृतन्त्रं तथा भवेत्॥१६९॥

किं चाऽऽत्मन्यकारके मिते कारकत्वं मीयमानं कल्पितमकल्पितं वा, नाऽऽद्यः

कल्पितकारकत्वाधीनाधिकारस्यापि तत्त्वप्रसङ्गादिति मन्वानो द्वितीयं दृष्टान्तेन निराचष्टे। नेत्यादिना। अथ यथाऽतिरात्रे मिथोविरुद्धे षोडशिग्रहणाग्रहणे वस्तुभूते91स्तस्तथाऽऽत्मनोऽपि कारकत्वाकारकत्वे वास्तवे स्यातामत आह। कर्त्रिति। कर्तुमकर्तुमन्यथा कर्तुं शक्यत्वात्कर्म कर्तृतन्त्रं तस्य युक्तं वैकल्पिकं ग्रहणाद्यङ्गम्। आत्मा तु नैवं तद्व्यवस्थितरूपे वस्तुनि विकल्पायोगादित्यर्थः॥१६९॥

भेदाभेदात्मकत्वाच्चैदेकस्यापीह वस्तुनः॥
अविरोधो, न तन्न्याय्यं त्वदुक्तार्थविरोधतः॥१७०॥

भेदाभेदवादी शङ्कते। भेदेति। इह हि शास्त्रे परिणामि ब्रह्म न चैवं मृदादिवदनित्यं यस्मिन्विक्रियमाणे तदेवेदमिति धीर्न विहन्यते तदपि नित्यमिति स्थितेस्तथा चाप्रच्युतस्वभावत्वादकारकधियः स्वपरिणामभेदेन नानात्वाच्च कारकधियो गोचरस्तस्मादेकस्यापि ब्रह्मणो नानात्वाद्भेदाभेदाभ्यां कारकत्वाकारकत्वयोर कल्पितयोरुपपत्तिरित्यर्थः। एकस्य कारकत्वमकारकत्वं च तत्त्वमित्येतन्यायापेतमिति दूषयति। न तदिति। तत्र हेतुस्त्वदुक्तेति। एकस्य भेदाभेदात्मकत्वादिति यस्त्वदुक्तो हेतुस्तदर्थस्य भिन्नमेवाभिन्नमित्यस्य विरुद्धत्वादिति हेत्वर्थः॥१७०॥

नानेकस्यैकता न्याय्या तथैकस्याप्यनेकता॥
वस्तुतन्त्रत्वतो बुद्धेर्न चेदेवं मृषा मतिः॥१७१॥

कथमस्य विरुद्धतेति तत्र किमेकस्य भिन्नत्वमभिन्नत्वं च वास्तवं न वा नाऽऽद्य इत्याह। नेति। तत्र हेतुर्वस्त्विति। भिन्नत्वं द्वस्तुनो वस्तुतोऽस्ति तदा भेदबुद्धेर्वस्तुतन्त्रत्वेन प्रमाणत्वात्तद्विरोधादभेदधीर्नोत्पद्येत। अभिन्नत्वस्य वस्तुत्वेऽपि तद्धियस्तत्तन्त्रतया मानत्वात्तद्विरुद्धा भेदधीन जायेतातो भिन्नमभिन्नमेव वा वस्तु नोभयात्मकमित्यर्थः। एकस्य भिन्नाभिन्नत्वमवास्तवमिति पक्षं प्रत्याह। न चेदिति। भिन्नाभिन्नत्वधीरेकस्य मिथ्याधी श्वेत्तर्हि भिन्नाभिन्नमेकमित्युपगमेऽप्यदोषः। न चेदेषा मृषा धीस्तर्हि न स्यादेवोक्तविरोधस्य दुर्वारत्वादित्यर्थः। यद्वा बुद्धेरवस्तुतन्त्रत्वे दोषमाह।न चेदिति। द्वितीयस्तु कल्पो बहिरेव निरस्य आत्मनि भिन्नाभिन्नत्वं कल्पितं चेन्न क्षतिरभिन्नत्वस्यैव तत्र वस्तुत्वादिति॥१७१॥

यथा चास्य विरुद्धत्वं तथोदर्के प्रवक्ष्यते॥
ऐकात्म्यस्यैव मेयत्वं तस्यैवाप्रतिबोधतः॥१७२॥

किं चैकरसमेवाऽऽत्मतत्त्वं तदेतत्त्रयं सदेकमित्यादिवाक्यव्याख्यानप्रसङ्गेन भेदाभेदवादस्य निरस्यत्वादित्याह। यथा चेति। नन्वध्वगस्याऽऽतपोपहतस्य दूरतरनिरन्तरतरुष्वेकत्वमविद्यातो भाति तथाऽस्यैक्यमाविद्यं नानात्वं तत्त्वमित्याशङ्क्याऽऽह। ऐका-

त्म्यस्येति। एकरसात्मरूपस्यैव प्रामाणिकत्या वस्तुत्वं न प्रपञ्चस्य तस्य ब्रह्मवदज्ञातत्वायोगादतः स तस्मिन्नारोपितो। निरूपयिप्यते चैतदव्याकृतप्रक्रियायामित्यर्थः॥१७२॥

वस्तूनीह प्रमीयन्ते92 व्यावृत्तानि परस्परम्॥
अभावेन प्रमाणेन तेनोक्तं ते विरुध्यते॥१७३॥

ननु किमैकात्म्यं प्रत्यक्षादेरागमस्य वा द्वयोर्वा मेयं नाऽऽद्य इत्याह। वस्तूनीति। इहेति व्यवहारभूमिरुक्ता। अभावेन तद93न्येनाध्यक्षादिनेति यावत्। न द्वितीयो द्वैतग्राहिमानविरोधे श्रुतेरैक्यगोचरत्वायोगात्। अत एव न तृतीय इत्याह। तेनेति॥१७३॥

भेदे वा यदि वाऽभेदे संसृतेर्ब्रह्मणा सह॥
ब्रह्मणोऽब्रह्मता तद्वद्विद्यानर्थक्यसांशते॥१७४॥

यत्तु प्रपञ्चस्याज्ञातत्वाभावेनामेयस्याऽऽत्मन्यारोपिततेति, तत्र तस्य ब्रह्मणा भेदोऽभेदो वेति विकल्प्याऽऽद्यं दूषयति। भेदे वेति। उभयत्रापि दोषोऽस्तीति शेषः। भेदपक्षे तं विशदयति। ब्रह्मण इति। संसारप्रपञ्च ब्रह्मणोऽन्यश्चेत्तस्य वस्तुपरिच्छेदादब्रह्मतेत्यर्थः। अभेदपक्षे प्रपञ्चस्य ब्रह्मणोऽभेदो वा ब्रह्मणस्तस्मादभेदो वा। आद्ये विद्यानर्थक्यं ब्रह्माभिन्नसंसारस्य ब्रह्मवद्विद्यानिवर्त्यत्वायोगात्। द्वितीये ब्रह्मणोऽनेकरसत्वं तादृक्प्रपञ्चाभेदात्प्रपञ्चवदित्याह। तद्वदिति॥९७४॥

ब्रह्मविद्यावदिष्टं चेन्ननु दोषो महानयम्॥
निरविद्ये च विद्याया आनर्थक्यं प्रसज्यते॥१७५॥

ननु संसारस्य ब्रह्मणोऽन्यत्वान्न विद्यानर्थक्यं नापि वस्तुपरिच्छेदस्तस्याऽऽविद्यस्यावस्तुत्वात्तत्र किमविद्या ब्रह्माऽऽश्रयते किंवा जीवमुत स्वतन्त्रेति विकल्प्याऽऽद्यमादत्ते। ब्रह्मेति। ज्ञानस्वभावं सर्वज्ञं च ब्रह्म तन्नाज्ञानमास्कन्दति व्याघातादिति दूषयति। नन्विति। ब्रह्मणि निरविद्ये जीवोऽपि नाविद्याश्रयस्तस्य ब्रह्मानन्यत्वादन्यथा ब्रह्मणो निरविद्यत्वायोगादिति द्वितीयं निराह। निरविद्ये चेति। चकारेण दोषो महानित्यन्वयः सूचितः। स्वतन्त्रत्वे ब्रह्मवद्विद्यापोद्यत्वायोगात्तदानर्थक्यमिति तृतीयं प्रत्याह। विद्याया इति॥१७५॥

नाविद्याऽस्येत्यविद्यायामेवा94ऽऽसित्वा प्रकल्प्यते95
ब्रह्मदृष्ट्या त्वविद्येयं न कथंचन युज्यते॥१७६॥

ऐकात्म्यपक्षायोगाज्जगद्ब्रह्मणोर्भेदाभेदावगमादेकत्राविरुद्धे कारकाकारकधियाविति प्राप्ते परिहरति। नेति। न तावदैकात्म्यस्यामेयत्वं वक्ष्यमाणत्वान्नापि संसारमधिकृत्य भेदाभेदविकल्पावनिर्वाच्याविद्यातज्जात्मकस्य तस्य विकल्पानर्हत्वा-दित्यर्थः। यत्तु ब्रह्मणः

सर्वज्ञत्वाद्विद्यास्वभावत्वाच्च नाविद्येति तत्राऽऽह। अस्येति। न हि सा स्वतन्त्रा ब्रह्मवदविद्यात्वव्याघातान्नापि जीवस्तदाश्रयो ब्रह्मानतिरेकात्तस्मादविद्यास्वभावालोचनया96 तस्या ब्रह्मसंबन्धधौव्याद्वस्तुतश्च तत्स्वभावस्यैवाभावाद्ब्रह्मणस्तात्त्विकविद्यारूपत्वे-नातात्त्विकाविद्यावत्त्वमविरुद्धम्। सर्वज्ञत्वं तु तद्वत्तोपपादकं शास्त्रयोनित्वाधिकरणन्यायादिति भावः। नन्वविद्याब्रह्मणोः संबन्धस्तात्त्विको ब्रह्माविद्यासंबन्धयोरन्यतरत्वाद्ब्रह्मवत्तत्राऽऽह। ब्रह्मेति। ब्रह्मरूपालोचनया न तस्याविद्या तस्यासङ्गानवच्छिन्न-चिद्धातुत्वात्तत्त्वज्ञानानपोह्यत्वो97पाधिना विमतोऽतात्त्विकोऽविद्याब्रह्मसंबन्धयोरन्यतरत्वादविद्यावदित्यनुमानेन चोपहतमनुमानमिति भावः॥१७६॥

यतोऽनुभवतोऽविद्या ब्रह्मास्मीत्यनुभूतिवत्॥
अतो मानोत्थविज्ञानध्वस्ता साऽप्येत्यथाऽऽत्मताम्॥१७७॥

ननु कीदृग्ज्ञानमविद्यामपनुदति स्वरूपज्ञानं प्रमाणज्ञानं वा नाऽऽद्यस्तस्याज्ञानसाधकस्य तदनिवर्तकत्वान्न द्वितीय आगमादिमानविषयत्वाद्ब्रह्मवत्तस्यास्तन्निवर्त्यत्वा98योगादतः साधनव्याप्तिरत आह। यत इति। न तावदविद्या मानविषयो यतो न सा ततो निवर्तेत किंतु ब्रह्मरूपानुभवगोचरः स च प्रमाणाप्रमाणसाधारणश्चित्प्रकाशः श्रुत्यादिमानं तु तस्यां विप्रतिपन्नं प्रत्यभावत्र्यावृत्तिमात्रं बोधयति। तथोक्तम्— “अत्र च साक्षिवेद्यस्याज्ञानस्य प्रमाणैरभावव्यावृत्तिः प्रदर्श्यत इति न तस्य प्रमाणवेद्यत्वप्रसङ्ग इति। तथाच प्रमाणज्ञाननिवर्त्यत्वादज्ञानतत्संबन्धयोर्न साधनव्याप्तिरुपाधेरित्यर्थः। आत्माज्ञानं नित्यानुभवसिद्धमित्यत्र दृष्टान्तमाह। ब्रह्मेति। वाक्योत्थं ज्ञानं ब्रह्मानुभूतिः सा जाड्यान्न स्वतः सिद्धा नापि मानतोऽनवस्थानादतो ब्रह्मस्वभावचित्प्रकाशात्सिद्धा तद्वदज्ञानमपीत्यर्थः। तस्य99 नित्यानुभवमात्रसिद्धत्वे फलितमाह। अत इति। यतो नाविद्या मानविषयः किंतु नित्यानुभवगोचरोऽतो वाक्योत्थबुद्धिवृत्तिध्वस्ता न सा तात्त्विकीत्यविद्यातत्संबन्धावतात्त्विकाविति भावः। ननु ज्ञानादज्ञानध्वस्तिर्भवन्ती ब्रह्मणोऽन्या न वा। आद्ये द्वैतापातो द्वितीये ब्रह्म नाज्ञानाश्रयः स्यात्तद्ध्वंसकत्वान्नहि निवृत्तिर्निवृत्तिमदाश्रयस्तत्राऽऽह। साऽप्येतीति। अविद्या हि प्रमाणप्रहता ब्रह्मात्मतां प्राप्य प्रलीयते। अविभागो वचनादितिन्यायात्। अतोऽज्ञानध्वंसस्य ब्रह्मानतिरेकान्न द्वैतापातः। न च ब्रह्मणोऽज्ञानानाश्रयत्वं तद्ध्वंसात्प्राक्तदाश्रयत्वात्। घटध्वंसस्य मृदात्मत्वेऽपि तद्ध्वंसात्पूर्वं मृदो घटाश्रयत्वदृष्टरित्याशयवानाह। अप्येतीति॥१७७॥

ब्रह्मण्यविदिते बोधान्नाविद्येत्युपपद्यते॥
नितरां चापि विज्ञाते मृषाधीर्नास्त्यबाधिता॥१७८॥

किंच ब्रह्मण्यज्ञाते तत्राज्ञानतत्संबन्धौ मीयेते ज्ञाते वा तत्राऽऽद्यं प्रत्याह। ब्रह्मणीति। अज्ञाते ब्रह्मणि तत्राविद्येत्यविद्यातत्संबन्धयोधर्न मानात्सिध्यत्याश्रयधियं विनाऽऽश्रितधियोऽयोगादित्यर्थः। द्वितीयं निरस्यति। नितरां चेति। ज्ञाते ब्रह्मणि मृषाधीरज्ञानं तत्संबन्धश्च ज्ञानध्वस्तत्वान्न सिध्यति मानात्तयोधस्तु दूरनिरस्तेत्यर्थः॥१७८॥

अविद्यावानविद्यां तां न निरूपयितुं क्षमः॥
वस्तुवृत्तमतोऽपेक्ष्य नाविद्येति निरूप्यते॥१७९॥

किंच ब्रह्मण्यविद्यातद्योगावविद्वान्मिनोति विद्वान्वा तत्राऽऽद्यं दूषयति। अविद्यावानिति। मानाभावात्तद्भावे वाऽविद्यावत्त्वव्याघातादित्यर्थः। न द्वितीय इत्याह।वस्त्विति। माता मानं च वस्तु तस्य वृत्तं स्वरूपं तदपेक्ष्य ब्रह्मण्यविद्यातत्संबन्धावयुक्तौ तस्मात्तौ साक्षिमात्रसिद्धावित्यर्थः॥१७९॥

वस्तुनोऽन्यत्र मानानां व्यापृतिर्न हि युज्यते॥
अविद्या च न वस्त्विष्टं मानाघातासहिष्णुतः॥१८०॥

अज्ञानस्याप्रामाणिकत्वमनुमातुं व्याप्तिमाह। वस्तुन इति। यदवस्तु तन्मानायोग्यं यथा शशविषाणमित्युक्त्वा विमतं मानायोग्यमवस्तुत्वात्तद्वदित्याह। अविद्या चेति। वस्तुशब्दादूर्ध्वमितिशब्दस्येष्टशब्दस्य परस्तात्पञ्चम्या100ज्ञाननिवर्त्यत्वादिति पदस्य चाध्याहारः॥१८०॥

अविद्याया अविद्यात्व इदमेव तु लक्षणम्॥
मानाघातासहिष्णुत्वमसाधारणमिष्यते॥१८१॥

ननु विमतं मानयोग्यं शास्त्रार्थत्वाद्ब्रह्मवदिति प्रत्यनुमानमाशङ्क्य हेत्वसिद्धिमभिसंधाऽऽयाह। अविद्याया इति। नित्यानुभवमात्रसिद्धाविद्याध्यस्तः संसारो ब्रह्मात्मनि भात्यतो नासौ भेदाभेदविकल्पावर्हतीत्युक्तम्॥१८९॥

त्वत्पक्षे बहु कल्प्यं स्यात्सर्वं मानविरोधि च॥
कल्प्याऽविद्यैव मत्पक्षे सा चानुभवसंश्रया॥१८२॥

ननु त्वन्मते तावदविद्या तस्याः संसारहेतुत्वं च कल्प्यते। मन्मते तु क्लृप्तयोः संसारब्रह्मणोर्भेदाभेदाविष्टौ तस्मात्कल्पनाविशेषान्मन्मतमेव किं नेष्यते तत्राऽऽह। त्वत्पक्ष इति। जगद्ब्रह्मणोर्भेदाभेदावनादेर्बन्धस्य सत्यस्यैव ध्वंसः कर्मफलं कैवल्यं तच्च नित्यमिति बहु त्वत्पक्षे कल्प्यमतो गौरवात्तदनङ्गीकरणमित्यर्थः। प्रमाणवन्त्यदृष्टानि कल्प्यानि
सुबहून्यपीति न्यायाद्गौरवमदूषणमिति चेत्तत्राऽऽह। सर्वमिति। न तावत्कल्प्यानि

मानवन्ति किंतु तद्विरुद्धानि। एकस्य भिन्नाभिन्नत्वे101 सर्वमानविरोधो भावाभावयोरेकोपाधावुपगमात्। अनादेर्वस्तुनः संसारस्य निवृत्तिमत्त्वमपि वस्तुत्वे सत्यनादित्वादनिवृत्तिरित्यनुमानविरुद्धम्। मोक्षस्य कर्मफलत्वं ज्ञानैकफलत्वश्रुतिस्मृतिविरुद्धम्। कर्मफलस्य तस्य नित्यत्वं यत्कृतकं तदनित्यमितिव्याप्तिपूर्वकानुमानागमविरुद्धमिति भावः। ननु त्वत्पक्षेऽप्यविद्या तदनादित्वं तस्या बन्धकत्वं विद्यापोद्यत्वं चेति बहुकल्पनादावयोस्तुल्यता नेत्याह। कल्प्येति। अविद्यानादित्वानिर्वाच्यत्वबन्धकत्वज्ञानापोद्यत्वानाम्-

“अनादिमायया सुप्तो यदा जीवः प्रबुध्यते”।
“प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि”।

“नासदासीन्नो सदासीत्” “आसीदिदं तमोभूतम्" “मायां तु प्रकृतिं विद्यात्” “माया ह्येषा मया सृष्टा” “भूयश्चान्ते विश्वमायानिवृत्तिः” “मायामेतां तरन्ति ते” इति श्रुतिस्मृतिभिरेव सिद्धेर्न तान्यविद्यायाः कल्प्यत्वेऽपि कल्प्यानीति भावः। किं चाविद्याऽपि न कल्प्या नित्यानुभवसिद्धत्वादित्याह। सा चेति॥१८२॥

तत्त्वमस्यादिवाक्योत्थसम्यग्धीजन्ममात्रतः॥
अविद्या सह कार्येण नाऽऽसीदस्ति भविष्यति॥१८३॥

अविद्यातत्कार्याख्यत्रन्धस्याध्यस्तत्वे सिद्धमर्थमाह। तत्त्वमस्यादीति ॥ १८३ ॥

अतः प्रमाणतोऽशक्याऽविद्या102ऽस्येति निरीक्षितुम्॥
कीदृशी वा कुतो वाऽसावनुभूत्येकरूपतः॥१८४॥

ननु मुक्तिकालोऽप्यविद्यादिस्पर्शी कालत्वात्पूर्वकालवन्नेत्याह। अत इति। यतो वाक्योत्था विद्या सकार्याविद्यायास्त्रिकाल-वर्तिनीमपि सत्तां न मृप्यत्यतो मुक्तस्य सकार्याऽविद्याऽस्तीति न मानतः शक्यं निश्चेतुम्। अयोग्या हि सा मुक्तिकालेऽस्तीति वक्तुं तत्कालत्वव्याघातादित्यर्थः। ब्रह्मसंसृष्टाकारेण मेयत्वादविद्यायाः स्वरूपेणापि तत्संभवात्कुतः सा मानतो निरीक्षितुम-शक्येत्याशङ्क्याऽऽह। कीदृशीति। किंरूपेयमविद्या कुतश्च ब्रह्मणीति बुभुत्सापनेतृ किमपि मानमत्र नान्वेप्यम्। तद्विना स्वानुभवतोऽविद्यासिद्धौ बुभुत्साशान्तेरित्यर्थः।१८४॥

देवताद्रव्यकर्त्रादि ननु वस्त्वस्तु नाद्वयम्॥
सर्वलोकप्रसिद्धत्वादद्वयस्याप्यसिद्धितः॥१८५॥

अविद्या सह कार्येणेत्यादिना द्वैतस्य कल्पितत्वमनुभूत्येकरूपत इति च ब्रह्मस्वभावानुभूतेरद्वयत्वमुक्तम्। तदेतदसहमानश्चोदयति। देवतेति। स्वर्गापूर्वादिद्वैतस्य वस्तुत्वे हेतुमाह। सर्वेति। अद्वयस्यावस्तुत्वे हेतुरद्वयस्येति। अप्यर्थो द्वैतवदिति वैधर्म्यदृष्टान्तः॥१८५॥

नैतत्साधु, प्रमाणानां सर्वलोकाभिधं न हि॥
प्रमाणमस्ति यत्प्राणाद्भवानेवं प्रभाषते॥१८६॥

यद्बलाद्देवताद्येव वस्तु, नाद्वयमित्युच्यते तत्किं सर्वलोकाख्यमानमध्यक्षाद्व्यतिरिक्तं तेष्वन्तर्भूतं वेति विकल्प्याऽऽद्यं दूषयति। नैतदिति। निर्धारणे षष्ठी। यत्प्राणाद्यद्बलादिति यावत्॥१८६॥

अभिमानश्च यत्रायं सर्वलोकस्य गम्यते॥
प्रत्यक्षोऽर्थोऽयमित्येवं मिथ्यात्वं तस्य चोदितम्॥१८७॥

द्वितीयं प्रत्याह। अभिमानश्चेति। यस्मिञ्जगति प्रत्यक्षोऽयमर्थो लैङ्गिकश्चायमित्यभिमानो लोकस्य गम्यते तस्याऽऽत्मयाथात्म्य-ज्ञानबाध्यत्वान्मिथ्यात्वं रजतादिवद्वाचारम्भणादिशास्त्रेणोक्तम्। तथाच तद्विषयाध्यक्षाद्यन्तर्भूतसर्वलोकाख्यमानस्य देवतादिसत्यार्थ-बोधित्वमसिद्धम्। प्रत्यक्षादीनामेवाऽऽरम्भणाधिकरणन्यायेनातद्बोधित्वादित्यर्थः॥१८७॥

प्रत्यक्षं च यथाऽऽसन्नं परोक्षाद्वस्तुनो मतम्॥
सर्वप्रत्यक्तमस्तद्वद्बोधो वाक्योत्थ आत्मनि॥१८८॥

ननु श्रौतात्मधीर्नाध्यक्षबाधिकाऽप्रत्यक्षत्वानुमानवदित्यनुमानात्प्रत्यक्षसिद्धबन्धस्याबाध्यत्वम्। तत्र श्रौतात्मधियोऽप्रत्यक्षत्वं संनिहिता-र्थाबोधित्वं वाऽपरोक्षार्थाबोधित्वं वाऽपरोक्षत्वानधिकरणत्वं वा निरपेक्षत्वराहित्यं वा नाऽऽद्य इत्याह। प्रत्यक्षं चेति। परोक्षादनुमेयाद्वस्तुनः सकाशात्प्रत्यक्षविषयभूतं वस्तु यथा संनिहितमिष्टं तथा ब्रह्मात्मनि वेदान्तवाक्यजो बोधः सर्वतः संनिहितं विषयीकरोति तद्विषयात्मनः प्रत्यक्तमत्वात्तथा च तद्धियः संनिहिताबोधित्वा103प्रत्यक्षत्वाभावाद्युक्तं द्वैतधीबाधकत्वमिति भावः॥१८८॥

आत्मानुभवमाश्रित्य प्रत्यक्षादि प्रसिध्यति॥
अनुभूतेः स्वतः सिद्धेः काऽपेक्षा ह्यात्मसिद्धये॥१८९॥

न द्वितीय इत्याह। आत्मानुभवमिति। न तावत्प्रत्यक्षादि स्वतः सिध्यति जडत्वान्नापि मानतोऽनवस्थानान्न104चासिद्धं विषयासाधकत्वापत्तेस्तस्मादात्मस्वभावमनुभवमालम्ब्य तत्सिद्धिरित्यर्थः। प्रत्यक्षादिवदात्मानुभवस्यापि स्फूर्तिरन्याधीनेत्या-शङ्क्याऽऽह।अनुभूतेरिति। आत्मनो हि स्वरूपानुभूतेः सर्वसिद्धिहेतोरन्यतः सिद्ध्ययोगात्स्वतोऽपरोक्षतेतितद्विषयवाक्योत्थधियो नापरोक्षार्थाबोधित्वमप्रत्यक्षत्वमित्यर्थः॥१८९॥

आत्मानुभवपूर्वत्वात्प्रत्यक्षत्वस्य न स्वतः॥
आत्मैकगम्यमैकात्म्यं वेदान्तेष्ववगम्यते॥१९०॥

न तृतीय इत्याह। आत्मानुभवेति। प्रत्यक्षमपि जाड्यान्न स्वतोऽपरोक्षम्। किंतु नित्यापरोक्षस्वरूपानुभवसंबन्धात्। तथा च तद्गतापरोक्षत्वस्य स्वतः सिद्धात्मानुभवाधीनत्वात्तद्विषयश्रौतधियोऽपि तदधीनत्वान्नापरोक्षत्वानधिकरणतेत्यर्थः। न चतुर्थ इत्याह। आत्मैकगम्यमिति। स्थितं हि चोदनासूत्रे प्रामाण्यस्वतस्त्वम्। तथा चोक्तार्थबोधि105वेदान्तानां सापेक्षत्वायोगात्तदीयात्मधियो नैरपेक्ष्य106मतिव्यक्तमिति भावः॥१९०॥

यच्चाप्युक्तं श्रुतिस्मृत्योः क्रियाया एव सिद्धितः॥
अतः क्रियातिरेकेण नास्त्यन्यन्मुक्तिसाधनम्॥१९१॥

श्रौताद्वैतधियोऽनपेक्षत्वे सत्युक्तो107त्तरमानत्वेन बलीयस्त्वाद्द्वैतगाध्यक्षादिबाधकत्वसिद्धेरज्ञानोत्थप्रपञ्चस्य ज्ञानैकापनोद्यत्वसंभवा-ज्ज्ञानं मुक्तिहेतुः साधनचतुष्टयवानधिकारी कर्माभ्युदयहेतुरविवेकी चाधिकारीति काण्डयोः साधनादिभेद उक्तः। संप्रति प्रतिपत्तिकर्मन्यायेन परोक्तान्पूर्वपक्षलेशाननुभाष्यदूषयितुं श्रुतत्वात्कर्मणः श्रुतावित्यत्रोक्तमनुवदति। यच्चेति॥१९१॥

केन चोक्तं क्रिया मुक्तेः108 साधनत्वं न गच्छति॥
तमेतमिति नाश्रौषीः संस्कारा इति च स्मृतिम्॥१९२॥

तत्र किं कर्म साक्षान्मोक्षत्य हेतुरुत परंपरया नाऽऽद्यः प्रापकाभावात्कर्मणैव हि संसिद्धिमित्यादेस्तु न कर्मणेत्यादिश्रुति-विरोधेऽन्यपरत्वादिति मत्वा कल्पान्तरमङ्गीकरोति। केनेति। विविदिषाद्वारा संस्कारद्वारा वा कर्म मुक्तिहेतुरित्युपगतम्। तत्राऽऽद्ये विविदिषावाक्यं प्रमाणयति। तमेतमितीति। गर्भाधानपुंसवनसीमन्तोन्नयन109जातकर्मनामकरणान्नप्राशनचौलोपनयनं चत्वारि वेदव्रतानि स्नानं सहधर्मचारिणीसंयोगः पञ्चानां यज्ञानामनुष्ठानं देवपितृमनुष्यभूतब्रह्मणामेतेषां त्वष्टका पार्वणश्राद्धं श्रावण्याग्रहायणी प्रोष्ठपदी चैत्र्याश्वयुजीति सप्त पाकयज्ञसंस्थाः। अग्न्याधेयमग्निहोत्रं दर्शपूर्णमासावाग्रयणं चातुर्मास्यानि निरूढपशुबन्धः सौत्रामणीति सप्त हविर्यज्ञसंस्थाः। अग्निष्टोमोऽत्यग्निष्टोम उक्थः षोडशी वाजपेयोऽतिरात्रोऽप्तोर्याम इति सप्त सोमसंस्था इत्येतेचत्वारिंशत्संस्कारा यस्य स ब्रह्मणः110 सायुज्यं जयतीत्यादिस्मृतिं संस्कारपक्षे दर्शयति। संस्कारा इति चेति॥९९२॥

यद्यप्यैकात्म्यधीः साक्षाच्छ्रुतिस्मृत्योर्न चोद्यते॥
तथाऽप्यसौ न तद्बाह्या ताभ्यामेवाऽऽत्मबोधनात्॥१९३॥

कर्मभ्य एव तत्सिद्धेरित्यादि निरस्य श्रुतौ स्मृतौ च विहितं कर्मैवेत्यत्रोक्तं दूष-

यति। यद्यपीति। आत्मज्ञानमचोदितमपि नावैदिकं श्रुतिस्मृत्युक्तत्वात्कर्मज्ञानवदतस्तस्य पुमर्थोपायत्वमविरुद्धमित्यर्थः॥१९३॥

यच्च न ज्ञाप्यते वेदे वस्त्वित्येतदचूचुदः॥
तच्चापहस्तितं चोद्यं वक्ष्यते च निराकृतिः॥१९४॥

कथं श्रुतिस्मृतिभ्यामात्मा बोध्यते तयोः कार्यार्थत्वात्तच्छेषत्वेनैव भूतभव्यन्यायेन सिद्धार्थोपदेशादित्याशङ्क्य न च कर्मातिरेकेणे-त्यादिनोक्तमनुवदति। यच्चेति। श्रुत्यादिमानप्रमितप्रत्यग्याथात्म्यनिष्ठितमित्यादिना निरस्तमेतदित्याह। तच्चेति। श्रुत्यादेरैक्ये मानत्वोक्तिमात्रेण तत्साधनं विना कथमेतदपास्तमित्याशङ्क्य सर्वोऽप्ययमित्यादौ वक्ष्यमाणमप्यत्रानुसंधेयमित्याह। वक्ष्यते चेति॥१९४॥

विधावसति वाक्यस्य यच्चावोचोऽप्रमाणताम्॥
स्फुटन्यायोक्तिभिस्तच्च यत्नात्परिहरिष्यति॥१९५॥

निषेधविधिमात्रत्वाद्वेदार्थस्येत्यत्रोक्तमनुभाषते। विधाविति। क्रियापदादूर्ध्वमितिशब्दमध्यात्दृत्य यच्चेति योज्यम्। तदपि वस्तुन्यैकात्म्ये श्रुत्यादिमानत्वोक्त्या परास्तम्। अबाधितासंदिग्धन्यायसंदर्भोक्तिभिश्च सर्वोऽप्ययमित्यादावेव पराकरिष्यत इत्याह।स्फुटेति॥१९५॥

यच्चोक्तं न पुमर्थोऽस्ति वस्तुमात्रावबोधनात्॥
आख्यानप्रचुरा यस्मात्त्रय्यन्ता इह लक्षिताः॥१९६॥

आम्नायस्य क्रियार्थत्वादित्यत्र विवक्षितं चोद्यमादत्ते। यच्चोक्तमिति। तन्न वेदान्तानां वस्तुमात्रपरत्वमिति शेषः। तन्मात्रपराणामपि तेषां सुखादिफलत्वेन प्रामाण्यमाशङ्क्याऽऽह। आख्यानेति। तेषां तत्प्राचुर्ये देवासुरसंग्रामाद्यर्थवाददर्शनं हेतुः। तस्मादेषां न प्रवृत्त्यादिसाध्यसुखादिफलवत्तया मानत्वमिति शेषः। इहेत्याम्नायोक्तिः॥१९६॥

रामो राजा बभूवेति न ह्येतावत्प्रबोधतः॥
संभाव्यते पुमर्थोऽतो विध्यर्थविरहात्क्वचित्॥१९७॥

ननु वेदान्तेभ्यो वस्तुमात्रधीस्ततश्चेच्छा ततः प्रवृत्तिरिति तत्पराणामपि तेषां प्रवृत्तिसाध्यफलत्वेन मानत्वसिद्धिरत आह। राम इति। यथोक्तदृष्टान्ताद्वेदान्तानां तन्मात्रपराणामपि फलवैकल्ये कुतो मानतेति शेषः। यस्मादविधिपरस्य न पुमर्थत्वलाभस्तस्मात्तदर्थं वेदान्तानामपि विधिपरत्वं वाच्यमिति फलितमाह। अत इति। क्वापि वाक्ये नियोगं विना पुमर्थाभावाद्वेदान्तेष्वपि फलवत्त्वेन प्रामाण्यार्थमेष्टव्यो विधिरित्यर्थः॥१९७॥

परार्थतैव सर्वत्र ज्ञानस्येहोपलक्ष्यते॥
ज्ञात्वाऽनुष्ठानवचनाद्विद्वान्यजत इत्यपि॥१९८॥

तेषु विध्यश्रवणात्कुतस्तत्परत्वेन पुमर्थावसायितया मानत्वमित्याशङ्क्याऽऽह। परार्थतेति। इहेति शास्त्रोक्तिः। आज्यावेक्षण-वदात्मज्ञानस्य कर्मशेषत्वात्तद्वारा तद्विधिपरत्वं वेदान्तानां युक्तमित्यर्थः। दर्शपूर्णमासप्रकरणे पत्न्यवेक्षितमाज्यं भवतीति श्रुतेरवेक्षणस्य कर्माङ्गत्वेन प्रकरणं प्रमाणम्। आत्मज्ञानस्य तदङ्गत्वे तु किं प्रमाणमित्याशङ्क्याऽऽह। ज्ञात्वेति॥१९८॥

उक्तोऽत्र परिहारः प्रागूर्ध्वं चापि प्रवक्ष्यते॥
विद्याफलस्य111 प्रात्यक्ष्यादितिहेतुसमाश्रयात्॥१९९॥

काण्डयोरुक्तरीत्या साधनाधिकार्याद्यभेदे प्राप्ते प्रत्यादिशति। उक्तोऽत्रेति। विद्वत्प्रत्यक्षश्रुत्यवष्टम्भेनाऽऽत्मधियोऽशेषानर्थध्वस्ति-रनतिशयानन्दाभिव्यक्तिश्चेत्येवंविधं फलं प्रत्यक्षं ह्यात्मधीफलमित्यत्रोक्तं तन्न कर्मविधिशेषत्वं वेदान्तानामित्यर्थः। तत्राऽऽम्नायाभिधानस्येत्यादिना भाविनमपि समाधिं सूचयति। ऊर्ध्वं चेति॥ १९९॥

ननु निर्धूतशोकादि फलं यच्छ्रूयते श्रुतौ॥
आत्मस्तुतिरसौ तस्मात्त्वन्मनोरथकल्पितम्॥२००॥

विद्याफलविषयमागमं तरति शोकमात्मविदित्यादिकमुक्तमपाकुर्वनाशङ्कते।नन्विति। फलं ज्ञानस्येति शेषः। महानुभावः खल्वयमात्मा यदस्य ज्ञानमशेषशोकादिनाशकमिति कर्माधिकृतात्मस्तुतिस्तस्मान्नाऽऽगमो विद्याफले मानमित्यर्थः। यत्तु तत्र विद्वत्प्रत्यक्षमुक्तं तत्प्रत्याह। त्वदिति। न हि यथोक्तं फलमाकलयितुं त्वदुत्प्रेक्षितं प्रत्यक्षं क्षमते तस्य त्वन्मनोरथसिद्धतया तस्मिन्नस्माकमसंमतेरित्यर्थः॥२००॥

अत्रोच्यते ह्यभिप्रेतं गम्यमानं प्रमाणतः॥२०१॥

फलं तत्संपरित्यज्य कस्माल्लक्षणया स्तुतिम्॥
अश्रुतामनभिप्रेतां कल्पयस्यबुधो यथा॥२०२॥

श्रुतेः शोकादिनाशपरतात्यागे तस्यानभिप्रेतत्वं वा हेतुर्वाक्यादाहत्यानवगम्यमानत्वं वा मानान्तरेणामीयमानत्वं वेति विकल्पयति। अत्रेति। सुखं मे स्याद्दुःखं मा भूदित्यर्थ्यमानफलस्यानभिप्रेतत्वायोगान्नाऽऽद्य इत्याह। अभिप्रेतमिति। न द्वितीय इत्याह। गम्यमानमिति। प्रकृते फलश्रुतेर्झटिति दृश्यमानमित्यर्थः। न तृतीय इत्याह। प्रमाणत इति। विद्वदनुभवाद्भासमानस्य मानान्तरेणागम्यमानत्वमसिद्धमिति भावः। किंच कथं फलश्रुतेरभूतार्थवादत्वेनाऽऽत्मस्तुतिपरत्वं किं वाक्यान्मुखतः स्तुतेरवगतत्वादुताभिसंहितत्वात्किंवा मानान्तरसिद्धत्वान्नाऽऽद्य इत्याह। फलमिति। न तावद्वाक्यादाहत्याऽऽत्मस्तुतिधीः किंतु लक्षणया सा कल्प्या; न च श्रुतिदृष्टं

विद्वद्दृष्टं च फलं हित्वा लाक्षणिकीं तां कल्पयन्प्रेक्षापूर्वकारी स्यादित्यर्थः। आत्मस्तुतिरिहाऽऽहत्य न भातीत्यत्र हेतुमाह। अश्रुतामिति। स्तुतिवाचिपदादृष्टेरित्यर्थः। न द्वितीय इत्याह। अनभिप्रेतामिति। सुखाप्तिदुःखहानितद्धेत्वन्यत्वान्नाभिसंहिता स्तुतिरित्यर्थः। न तृतीय इत्याह। कल्पयसीति। आत्मस्तुतित्वं शोकादिनाशस्य न मानान्तरसिद्धम्। त्वं पुनरज्ञवद्वर्तसेऽप्रामाणिकस्य कल्पनादित्यर्थः॥२०१॥२०२॥

न चास्त्येकविषयत्वं प्रत्यक्षवचसोर्यतः॥
श्रुत्यैव परिहारोक्तेः स्वप्नादिस्थानसंचरात्॥२०३॥

श्रुतहान्यश्रुतकल्पनाप्रसङ्गात्फलश्रुतिरात्मस्तुतिपरा नेत्युक्तम्। अथाहं दुःखीत्यध्यक्षविरोधादात्मनः शोकादिनाशपरत्वं फलश्रुतेर्ना-स्तीति तत्र भिन्नविषययोर्वा प्रत्यक्षश्रुत्योर्विरोध, एकविषययोर्वा, तत्राऽऽद्यमतिप्रसञ्जितं मन्वानो द्वितीयं प्रत्याह। न चेति। न हि तयोरेकविषयत्वं विशिष्टस्वरूपविषयत्वेन व्यवस्थोक्तेस्तन्न विरोधस्तयोरित्यर्थः। आत्मा कर्तृत्वादिधर्मकोऽहंधीविषयस्तत्कथं प्रत्यक्षश्रुत्योर्भिन्नविषयतेत्याशङ्क्याऽऽह।श्रुत्येति। स्थानत्रयसंचारोक्त्याऽऽगमापायिभ्यः स्थानतदभिमानिभ्योऽन्यं तत्साक्षिणं सदानन्दानुभूतिस्वभावं प्रत्यञ्चमुक्त्वा तस्यावस्थात्रयासंवन्धात्तत्संबन्धाधीनदुःखाद्यभावमाह वेदः। अतः प्रत्यक्षश्रुत्योर्भिन्नविषयतया विरोधसमाधेःश्रुत्यैवोक्तत्वान्न तत्र विरोधाशङ्केत्यर्थः॥२०३॥

बहुशोऽसङ्गवचसा निःसङ्गत्वं ब्रुवाणया॥
मनोराज्यसमं मन्ये सर्वमेतत्त्वयोदितम्॥२०४॥

उक्तात्मोक्तौ श्रुतेस्तात्पर्यमाह। बहुश इति। फलश्रुतेरुक्तरीत्या फलपरत्वमापाद्य त्वन्मनोरथकल्पितमित्युक्तं चोद्यमादत्ते।मनोराज्येति। एतच्छब्देन चिदानन्दैकतानं ब्रह्म तत्र कर्तृत्वादिरारोपितस्तस्याऽऽत्यन्तिकी ध्वस्तिर्धीफलं विद्वत्प्रत्यक्षाच्च तद्धीरित्येतदाह॥२०४॥

न प्रत्येमि यतः साक्षात्प्रत्यक्षं ज्ञानतः फलम्॥
श्रुतादपि न चेद्वाक्याज्जायेत फलवन्मतिः॥
आशङ्क्येत तदैवैतद्यदेतद्भवतोदितम्॥२०५॥

तत्र हेतुः। नेति। प्रत्यक्षस्या112स्य योग्यानुपलब्धिवाधान्न विद्याफले प्रामाण्यमिति भावः। प्रत्यक्षं विद्याफलमित्यादि न मनोरथमात्रमिति परिहरति। श्रुतादिति। श्रुतात्तत्त्वमादिवाक्यादधिकारिणोऽपि फलवज्ज्ञानं यदि नोत्पद्येत तदा त्वदुक्तमाशङ्क्येत। न चैतदस्ति। अधिकारिणः प्रमितिजनको वेद इति हि न्यायोऽतस्तस्य वाक्यीयधीसंभवात्तत्फलो-

पलब्धेस्तदनुपलम्भो ज्ञानफलाध्यक्षं न बाधते113 स्वयमभावादज्ञस्य त्वनधिकारिणस्तदनुपलम्भो न फलाध्यक्षं क्षेप्तुं क्षमते। अयोग्यानुपलम्भत्वादिति भावः॥२०९॥

नित्यमुक्तत्वविज्ञानं वाक्याद्भवति नान्यतः॥
वाक्यार्थस्यापि विज्ञानं पदार्थस्मृतिपूर्वकम्॥२०६॥

अधिकारिणः श्रुताद्वाक्याज्ज्ञानमुक्त्वा तस्य तस्मादृतेऽपि मानान्तरादेव यथोक्ता धीः स्यादित्याशङ्क्य वस्तुनो मानान्तरायोग्यत्वान्मैवमित्याह। नित्येति। ननु वाक्यमपि यथोक्तेऽर्थे ज्ञानं न जनयेत्सर्वेषामेव श्रुतवाक्यानां तदुत्पत्तिप्रसक्तेरित्याशङ्क्य पदार्थशुद्धिशून्यानां वाक्यश्राविणामपि बधिरेषु गानवद्वाक्यमकिंचित्करमित्याह। वाक्यार्थस्येति॥२०६॥

अन्वयव्यतिरेकाभ्यां पदार्थः स्मर्यते ध्रुवम्॥
एवं निर्दुःखमात्मानमक्रियं प्रतिपद्यते॥२०७॥

सदेवेत्यादिवाक्येभ्यः प्रमा स्फुटतरा भवेत्॥
दशमस्त्वमसीत्यस्माद्यथैवं प्रत्यगात्मनि॥२०८॥

तर्हि पदार्थस्मृतिरपि सर्वेषां स्यात्तत्राऽऽह। अन्वयेति। तन्न सर्वेषां पदार्थशुद्धिरिति शेषः। तर्हि ताभ्यामेव वाक्यार्थधीरस्तु कृतं वाक्येनेत्याशङ्क्य तयोरमानत्वान्नैवमित्याह। एवमिति। ननु सदेवेत्यादि वाक्यं न वस्तुमात्रे मानं वाक्यत्वाद्विधिवाक्यवत्तत्र तदप्रामाण्यं प्रमानुत्पादकत्वं वा दुष्टसामग्रीत्वं वा मानान्तरेणापत्दृतविषयत्वं वाऽपरोक्षज्ञानाजनकत्वं वा तत्राऽऽद्यमनुभवविरोधेन धुनीते। प्रमेति। वाक्यत्वहेतोरनैकान्तिकत्वमाह। दशमस्त्वमिति॥२०७॥२०८॥

अमात्वा114शङ्कासद्भावान्मान्तरैश्चाविरोधतः॥
वक्ष्यत्येतच्च यत्नेन लोकसिद्धोपपत्तिभिः॥२०९॥

द्वितीयं दूषयति। अमात्वेति। अपौरुषेये वेदे दुष्टसामग्रीत्व115शङ्कानवकाशादत्राप्यमानत्वं दुष्टसामग्रीत्व115मशक्यशङ्कमित्यर्थः। तृतीयं प्रत्याह। मान्तरैश्चेति। विशिष्टस्वरूपविषयत्वेन व्यवस्थितयोर्न विरोधाशङ्का तत्कथं प्रत्यक्षादिभिः श्रुतेरपहृतविषयतेत्यर्थः। चतुर्थं निराह। वक्ष्यतीति। मानं हि यथा मेयं ज्ञानं जनयत्यन्यथा प्रामाण्ययोगात्तथा च परोक्षे परोक्षमपरोक्षे116 चापरोक्षं ज्ञानं मानानुसारि वाच्यम्। आत्मा च यत्साक्षादित्यादिश्रुतेर्नित्यापरोक्षोऽतस्तत्रापरोक्षमेव ज्ञानं वाक्यं जनयेदित्यादिलोकसिद्धयुक्त्यवष्टम्भात्तस्मि-न्वाक्यादपरोक्षं ज्ञानं भवतीति भाष्यकारो वक्ष्यतीत्यर्थः॥२०९॥

चतुष्पान्मानिरासेन साक्षाज्ज्ञानफलं ततः॥२१०॥

नवसंख्याहृतज्ञानो दशमो विभ्रमाद्यथा॥
न वेत्ति दशमोऽस्मीति वीक्षमाणोऽपि तान्नव॥२११॥

कथं वक्ष्यतीति वीक्षायामाह। चतुष्पादिति। शब्दयुक्तिप्रसंख्यानात्मानश्चत्वारः पादा यस्याः प्रमायास्ततोऽपरोक्षज्ञानं न शब्दादित्येके तन्निरासप्रसङ्गेन ततो वाक्यादेव साक्षान्मानफलमपरोक्षज्ञानमिति वक्ष्यतीत्यर्थः। नन्वज्ञातज्ञापकं मानमात्मा च नाज्ञातोऽपरोक्षसंविदात्मत्वादतो न स वेदप्रमाणकः स्यादित्याशङ्क्य प्रागुक्तं दृष्टान्तं विवृणोति। 117वेत्तीति। यथा वस्तुतो दशमो माणवकः स्वात्मानममुप्य पुत्रो मैत्रोऽस्मीत्यपरोक्षं संविदानः स्वान्यान्माणवकान्वीक्षमाणोऽपि नवमाणवकगणनमुषितशेमुषीको दशमस्त्वमिति वाक्यादृते दशमोऽस्मीति न वेत्ति तत्त्वधीप्रतिबन्धकज्ञानभावादित्यर्थः॥२१०॥२११॥

अपविद्धद्वयोऽप्येवं तत्त्वमित्यादिना विना॥
वेत्ति नैकलमात्मानं प्रत्यङ्मोहाप्रबोधतः॥२१२॥

एवमित्यादिदार्ष्टान्तिकं प्रपञ्चयति। अपविद्धेति। अतः सामान्येनापरोक्षीकृतस्यापि विशेषेणाज्ञातत्वादात्मनो वेदप्रमाणकतेति शेषः। ननु दशमस्य स्वविषयज्ञानाभाववत्त्वमज्ञातत्वमात्मनस्तु स्वप्रकाशस्य न तादृगज्ञातत्वं युक्तं तत्कुतस्तत्र वेदप्रामाण्यमत आह। प्रत्यगिति। आत्मविषयस्तदाश्रयश्च मोहः प्रत्यङ्मोहः स एव विद्यापोद्यत्वादप्रबोधस्तस्मादात्मानमेष न वेत्तीत्यन्वयः। न हि स्वज्ञानाभाववत्त्वमज्ञातत्वं तत्खल्वज्ञानविषयत्वमज्ञानं च न ज्ञानाभावो जगद्विभ्रमहेतुत्वात्तथा चाभावान्याज्ञानविषयत्वं मां न जानामीत्यात्मन्यनुभूयते। अतो युक्तमात्मनो वैदिकत्वमिति भावः। प्रत्यङ्मोहाप्रबाधत इति पाठे तु न वेत्तीत्यत्र हेतुः॥२१२॥

वुभुत्सोच्छेदिनैवास्य सदसीत्यादिना दृढा॥
प्रतीचि प्रतिपत्तिः स्यात्प्रत्यगज्ञानबाधया॥२१३॥

बुभुत्सितस्य शब्दबोध्यत्वादात्मनश्चापरोक्षत्वेनातथात्वादशाब्दत्वमित्याशङ्क्याऽऽह।बुभुत्सेति। अपरोक्षचित्स्वभावोऽपि सदानन्दमात्मानं बुभुत्सते तस्य साङ्गाध्ययनवतः प्रतिवेदान्तेष्वापाततो दृष्टत्वेऽपि विशेषतोऽदृष्टत्वात्तस्मादाकाङ्क्षानिवर्तक-वाक्येनाऽऽत्मन्यबाधितासंदिग्धावबोधः स्यादेवेत्यर्थः। ननु सदादिवाक्यमज्ञातमात्मानं विषयीकरोतीत्ययुक्तमज्ञानस्यापि तद्विषयत्वप्रसङ्गात्। न हि दण्डिन्यानीयमाने दण्डो नाऽऽनीयते तत्राऽऽह। प्रत्यगिति। आत्मोपलक्षणाज्ञानबाधेनाऽऽत्मन्युपलक्षिते वाक्योत्थं ज्ञानमिष्टं तन्नाज्ञानस्य मेयतेत्यर्थः॥२१३॥

निःशेषकर्मसंन्यासो वाक्यार्थज्ञानजन्मने॥
तस्याऽऽरादुपकारित्वात्सहायत्वाय कल्प्यते118॥२१४॥

ननु शोधितपदार्थस्य वाक्यार्थं जिज्ञासमानस्य वाक्यात्तद्धीरिति ब्रुवता संन्यासस्य ज्ञानाङ्गत्वमुपेक्षितम्। तथाच ब्रह्मावाप्त्यै तु तत्त्याग़ इति प्रतिज्ञाहानिस्तत्राऽऽह।निःशेषेति। संन्यासस्य ज्ञानसाधनश्रवणादिसहायत्वे हेतुमाह। तस्येति। विहितसंन्यासस्य शमादिवज्ज्ञानं प्रति संनिपत्योपकारकत्वादित्यर्थः॥२१४॥

त्याग एव हि119 सर्वेषां मोक्षसाधनमुत्तमम्॥
त्यजतैव हि तज्ज्ञेयं त्यक्तुः प्रत्यक्परं पदम्॥२१५॥

तस्य संनिकृष्टोपायत्वे120 हेतुमाह। त्याग इति। मोक्षशब्देन तद्धेतुर्ज्ञानं लक्ष्यते। उत्तममिति संनिकृष्टत्वोक्तिः। किमिति सर्वकर्मत्यागो ज्ञानं प्रति संनिकृष्टं साधनं कर्माण्येव तद्धेतवः किं न स्युरत आह। त्यजतेति। न हि कर्माण्यनुतिष्ठन्कर्ता भोक्ताऽहमिति मन्यमानः क्रियादिसंबन्धविकलमात्मानमाकलयितुमलं विरोधादिति भावः॥२१५॥

शान्तो दान्त इति तथा सर्वत्यागपुरःसरम्॥
उपायमात्मविज्ञाने श्रुतिरेवाब्रवीत्स्वयम्॥२१६॥

कर्मत्यागस्य ज्ञानहेतुत्वे वक्ष्यमाणश्रुतिसंवादं दर्शयति। शान्त इति। तत्र तावदुपरतपदेन नित्यनैमित्तिकत्यागमुक्त्वा तत्पूर्वकमात्मानं पश्येदिति ज्ञानं वदन्ती श्रुतिः स्वयमेव तत्र कर्मत्यागमुपायमुक्तवती। शमादिसमभिव्याहारादुपरते-र्ज्ञानोपायत्वप्रत्ययापरतश्रुत्या चाऽऽग्नेयोऽष्टाकपाल इत्यादिवज्ज्ञानसाधनसंन्यासे विवक्षित उत्पत्तिविधिरित्यर्थः॥२१६॥

प्रवृत्तिलक्षणो योगो ज्ञानं संन्यासलक्षणम्॥
तस्माज्ज्ञानं पुरस्कृत्य संन्यसेदिह121 बुद्धिमान्॥२१७॥

तत्रैव वाक्यान्तरमाह। प्रवृत्तीति। युज्यतेऽनेनेति योगः कर्म तेन हि पुमान्फलेन संबध्यते स प्रवृत्तिलक्षणः प्रवृत्ती रागादिपूर्वको व्यापारः स तस्य लक्षणं हेतुरिति यावत्। ज्ञानस्य विशेषमाह। ज्ञानमिति। कर्मज्ञानविभागे फलितमाह। तस्मादिति॥२१७॥

मुक्तेश्चबिभ्यतो देवा मोहेनापिदधुर्नरान्॥
ततस्ते कर्मसूद्युक्ताः प्रावर्तन्ताविचक्षणाः॥२१८॥

तर्हिमुक्तिकारणं ज्ञानमुद्दिश्य सर्वे प्रव्रजेयुरित्याशङ्क्याऽऽह।मुक्तेश्चेति। देवा हि मनुष्यान्पशुवदुपभुञ्जते यथा पशुरेवं स देवानामिति श्रुतेः। अतो मनुष्या ज्ञान-

वन्तश्चेन्मुच्येरन्निति तन्मुक्तिं निमित्तीकृत्य पशुभावान्निवृत्तिं तेषामालोचयन्तो भयभागिनस्ते मोहेन कर्ताऽहमित्यादिना तानाच्छादितवन्तस्ते च तेनाऽऽच्छन्नत्वादेव कर्मसु संसारफलेषु तात्पर्यतो विवेकरहिता देवपशुत्वमत्यजन्तः प्रवृत्तिं चक्रुस्तथाच पारिव्राज्यं नाप्रयत्नप्राप्यमित्यर्थः॥२१८॥

अतः संन्यस्य कर्माणि सर्वाण्यात्मावबोधतः॥
हत्वाऽविद्यां धियैवेयात्तद्विष्णोः परमं पदम्॥२१९॥

तर्हि सुलभानि कर्माण्येव मुक्तेर्हेतवः सन्तु कृतं पारिव्राज्यपूर्वकज्ञानेनेत्याशङ्क्याऽऽह।अत इति। यतो देवमायानिमित्ता नराणां कर्मसु प्रवृत्तिरतस्तदुपासनासाधितमोक्षाभिलाषो विवेकी सर्वाण्यपि कर्माण्यविवेकपूर्वकाणि त्यक्त्वा तिष्ठेदित्यर्थः। अयमपि भवत्युत्पत्तिविधिः। संन्यासानन्तरमात्मज्ञानोद्देशेन श्रवणादि कार्यमित्याह। आत्मावबोधत इति। श्रवणादिपरिपाकलब्धात्म-साक्षात्कारेणाशेषानर्थमूलमज्ञानमपनुद्याऽऽरब्धकर्मभोगप्रतिबन्धलब्धप्राणं तदुपकरणदेहाभासं तन्निमित्तमज्ञानलेशश्चाऽऽरब्ध-क्षयान्तमनुमाय तदवसानापगतप्रतिबन्धेन ज्ञानाग्निनाऽज्ञानं निःशेषतो दग्ध्वाऽऽत्मनो ज्ञानानन्दसदेकतानम122नवच्छिन्नं यत्परं पदं तत्प्राप्नुयादित्याह। हत्वेति॥२१९॥

इति भाल्लविशाखायां श्रुतिवाक्यमधीयते॥
सर्वकर्मनिरासेन तस्मादात्मधियो जनिः॥२२०॥

नन्वेतानि वाक्यानि न क्वचिदपि कण्डिकास्थानेषु पठ्यन्ते किंतु स्वाभिप्रायानुसारेण स्वयमेव लिखितानीत्याशङ्क्याऽऽह। इति भाल्लवीति। यथोक्तश्रुतिस्मृतीनां तात्पर्यमाह। सर्वेति। श्रुतिस्मृतिवाक्यानां संन्यासस्य ज्ञानहेतुतावादित्वं तच्छब्दार्थः॥२२०॥

सत्यानृते इति तथा सर्वसंन्यासपूर्वकम्॥
आत्मनोऽन्वेषणं साक्षादापस्तम्बोऽब्रवीन्मुनिः॥२२१॥

तस्य ज्ञानोपायत्वे स्मृत्यन्तरमाह। सत्येति। सत्यानृते सुखदुःखे वेदानिमं लोकममुं च परित्यज्याऽऽत्मानमन्विच्छेदिति वाक्येनाऽऽत्मज्ञानमुद्दिश्य संन्यासपूर्वकं श्रवणाद्यनुष्ठेयमापस्तम्बो भगवानूचिवानित्यर्थः। तथाशब्दः समुच्चयार्थः। श्रुतार्थानुपपत्त्याऽयमर्थो न कल्प्यते किंतु वचोवृत्त्यैव भातीत्याह। साक्षादिति। तदुक्तेऽर्थे विश्वासार्थं तस्य ज्ञानातिशयवत्त्वं दर्शयति। मुनिरिति॥२२१॥

नाविरतो दुश्चरितान्नाशान्तो नासमाहितः॥
नाशान्तमानसो वाऽपि प्रज्ञानेनैनमामुयात्॥२२२॥

ननु काम्यानां कर्मणां न्यासमित्युपक्रम्य नियतस्य तु संन्यासः कर्मणो नोपपद्यत

इति वदता भगवता काम्यादित्यागेऽपि नित्यादित्यागो नानुमतस्तथा च काम्यादित्यागस्य ज्ञानहेतुत्वेऽपि न नित्यादित्यागस्य तद्धेतुतेत्याशङ्क्य श्रुत्यन्तरमाह। नेत्यादिना। दुश्चरितं निषिद्धं कर्म तस्मादनुपरतो न श्रवणादावधिक्रियते। अशान्तः काम्यानुष्ठानशीलः सोऽपि न तत्राधिकारी। असमाहितो विधितोऽत्यक्तनित्यादिकर्मा सोऽपि न तस्मिन्नधिकारी। अशान्तमानसो बाह्यविषयेष्वव्यावृत्तचित्तव्यापारः सोऽपि श्रवणाद्यनधिकारी तस्मिन्ननधिकृतञ्चाकृतश्रवणादिरात्मैकत्वज्ञानेन नित्यमुक्तमात्मानं नाऽऽप्नोति हेत्वभावेन ज्ञानाभावादित्यर्थः। कर्मशीलानां ज्ञाना123नधिकारोक्तिमुखेन त्यक्ताशेषक्रियस्य संन्यासिनस्तदधिकारोऽनन्तरवाक्येषु दर्शितो भगवता तु शुद्धिहेतोर्नित्याद्यनुष्ठानस्य स्तुतिरिष्टा॥२२२॥

वेदानुवचनादीनां विनियोगोक्तियत्नतः॥
भिन्नाधिकारितालिङ्गं कर्मविज्ञानकाण्डयोः॥२२३॥

ननु विविदिषावाक्येन कर्मणां ज्ञानहेतुत्वेन विनियोगाद्गोदोहनन्यायेन कर्माधिकार्येव ज्ञानाधिकारी न त्यक्तकर्मेत्यत आह। वेदेति। कर्मणां ज्ञानसाधनत्वेन विनियोगोक्तौ विविदिषावाक्यस्य तात्पर्यदृष्टेन कर्माधिकृतस्य ज्ञानाधिकारः। किंतु काण्डयोरेष विनियोगो भिन्नाधिकारत्वं गमयति। न हि दर्शाद्यधिकृतस्याप्प्रणयनाधिकारे दर्शपूर्णमासयोस्तत्र विनियोगः। एवं कर्माधिकृतस्य ज्ञानाधिकारे कर्मणां तस्मिन्विनियोगो न स्यात्। अथाप्प्रणयनाधिकृतस्य दर्शाद्यधिकृतत्वेऽपि तस्य तस्मिन्विनियोगवत्कर्माधिकृतस्य ज्ञानाधिकारेऽपि तेषां तस्मिन्विनियोगः स्यादिति चेन्न। तस्य पृथक्फलाभावात्कर्मणां तु फलवतामेव संयोगपृथक्त्वेन ज्ञाने विनियोगादतो विविदिषावाक्यीयो विनियोगो भिन्नाधिकारित्वं काण्डयोः सूचयतीति भावः॥२२३॥

ज्ञानोत्पत्त्यदिकाल्लिङ्गाद्यतस्तद्धेतुमात्रकम्॥
गम्यते न विशेषोऽतः कर्मैवेति न गम्यते॥२२४॥

ननु कर्मणां ज्ञानहेतुत्वेन विनियोगान्न तत्त्यागस्य तद्धेतुत्वम्। न खल्वेकस्य भावाभावावेकस्मिन्फले हेतुतया संबध्यते तत्राऽऽह। ज्ञानेति। धर्मात्सुखं च ज्ञानं चेति ज्ञानोत्पादकत्वं कर्मणां गम्यते। विविदिषावाक्ये तु विविदिषाहेतुत्वम्। यस्यैते चत्वारिंशत्संस्कारा इति संस्कारत्वम्। अनुपहतमना एव भवति पावनानि मनीषिणामिति मनःशुद्धिकरत्वम्। एवं कर्मणो ज्ञानोत्पत्तिविविदिषासंस्कारशुद्धिलिङ्गदृष्टेस्तस्य ज्ञानं प्रति हेतुत्व124मात्रं गम्यते न विशेषः। न हि कर्मैव ज्ञानहेतुरिति विशेषधीस्तत्त्यागस्यापि तद्धेतुत्षगमकश्रुत्यादिकोपप्रसङ्गात्तस्मात्कर्माणि शुद्धिद्वारा ज्ञानहेतवः।

संन्यासस्तु श्रवणादीतिकर्तव्यतया साक्षादिति विभागे द्वयोः साधनत्वोपपत्तिरित्यर्थः। न विशेषइत्यस्य व्याख्या कर्मैवेति न गम्यत इति॥२२४॥

मुण्डोऽपरिग्रहोऽसङ्गो बहिरन्तःशुचिः सदा॥
ब्रह्मभूयाय भवति परिव्राडिति च श्रुतिः॥२२५॥

उभयप्रमाणानुरोधादुभयोरपि कर्मतत्त्यागयोर्ज्ञानहेतुत्वमुक्त्वा त्यागस्य तद्धेतुत्वे श्रुत्यन्तरमाह। मुण्ड इति। शिखाराहित्य-वद्यज्ञोपवीताद्यभावमाह। अपरिग्रह इति। “सशिखं वपनं कृत्वा बहिः सूत्रं त्यजेद्बुधः" इति हि श्रुत्यन्तरे125। गृहक्षेत्रादिपरिग्रहाभावेऽपि तद्विषयासक्तिः संभवति तन्निरासार्थमाह। असङ्ग इति। यथेष्टचेष्टाप्राप्तिं प्रत्याह। बहिरिति। उक्तः संन्यासी श्रवणादिद्वारा ब्रह्मसाक्षात्कारयोग्यो भवतीत्याह। ब्रह्मेतिअथ परिव्राड्विवर्णवासा मुण्डोऽपरिग्रहः शुचिरद्रोही भैक्षाणो ब्रह्मभूयाय भवतीति जाबालश्रुतिरुक्ताऽत्र चाथ परिव्राडिति पारिव्राज्योत्पत्तिविधिरितस्तद्धर्मविधिरिति विभागः॥२२५॥

इत्यादिश्रुतिवाक्यानि स्मृतिभिः सह कोटिशः॥
ज्ञानाय विदधत्युच्चैः संन्यासं सर्वकर्मणाम्॥२२६॥

दर्शितश्रुतिस्मृतीनां विविदिषासंन्यासविषयत्वं दर्शयन्मानमेये निगमयति। इत्यादीति। श्रुतिस्मृतीनां संन्यासविधौ तात्पर्यं सूचयति। उच्चैरिति। अत्र च चतुर्विधो विधिर्मिथोऽव्यभिचारादुच्यते॥२२६॥

यच्चाभाणि विना कार्यं नाधिकारो निरूप्यते॥
दोषोऽयमपि नैव स्याज्ज्ञानोपाये यथोदिते॥२२७॥

मुमुक्षोर्मोक्षसाधनं ज्ञानमपेक्षमाणस्य संन्यासो विहितः श्रुतिस्मृतिभ्यामिति वदता काण्डयोः साधनादिभेद उक्तः। इदानीं तदप्यशेषतश्चोद्यमित्यादि विशदयितुं चोद्यमनुवदति। यच्चेति। कार्याभावेऽधिकार्यभावान्मुमुक्षोरपि तेन भाव्यं कर्मण्यैश्वर्यस्य तदधीनत्वात्तदुपगमे च साधनाद्यैक्यमित्यर्थः। ज्ञानोपाये वा मुमुक्षोरधिकारसिद्धये कार्यमिष्यते ज्ञाने वा तत्राऽऽद्यं दूषयति। दोषोऽयमिति। ज्ञानस्योपाये संन्यासपूर्वके श्रवणादौ पूर्वोक्ते126 कार्य विना नाधिकारोऽस्तीत्येष दोषो न संभवति। तत्र श्रोतव्य इत्यादिकार्योपलम्भात्। न चैवं वेदान्तानां कार्यपरत्वं दर्शादिप्रकरणे वाक्यभेदं कृत्वा मलवद्वाससो व्रतकलापविधानवदत्रापि वाक्यभेदोपगमान्न च संभवत्येकवाक्यत्वे वाक्यभेदायोगान्नास्ति श्रवणादावपि विधिरिति वाच्यम्। तदभावे मुमुक्षुप्रवृत्तेरवैधत्वेन यादृच्छिकत्वप्रसङ्गाद्वेदान्तविचारकर्तव्यतापरस्य चाऽऽद्यसूत्रस्यानुपपत्त्यापातादित्यर्थः॥२२७॥

विधिमार्गेऽधिकारस्य परीक्षा वर्तते127 यतः॥
फलभूते तु विज्ञाने नाधिकारो निरूप्यते॥२२८॥

न द्वितीय इत्याह। विधीति। विधेर्मार्गो विषयस्तस्मिन्नधिकारस्य विधिपुरुषसंबन्धस्य तन्निमित्तस्य वा परीक्षा शास्त्रे वर्तते। विधिविषयस्यादृष्टफलत्वात्। वक्ष्यति हि—"कामिनाऽप्यग्निहोत्रादि शूद्रेणानधिकारिणा" इत्यादि। न तु ज्ञानेऽधिकारचिन्ता तस्य विध्ययोग्यत्वाद्दृष्टफलत्वाच्चातो ज्ञाने कार्याभावकृतोऽधिकार्यभावो नेति भावः। भवतु विधिमार्गेऽधिकारपरिक्षा ज्ञानमपि तन्मार्गः किं न स्यादित्याशङ्क्याऽऽह। फलेति। विमतं न विधेयं फलत्वात्स्वर्गवदित्यनुमानान्न तस्मिन्नधिकारचिन्तेत्यर्थः॥२२८॥

अधिकारविचारो हि नृतन्त्रे वस्तुनीष्यते॥
वस्तुतन्त्रे न युक्तोऽसौ स्वयं चैव पुमर्थतः॥२२९॥

विमतं विधेयं ज्ञानतद्धेत्वोरन्यतरत्वात्तद्धेतुवदिति प्रत्यनुमानमाशङ्क्याऽऽह। अधिकारेति। विमतं विधेयं स्वर्गतद्धेत्वोरन्यतर-त्वात्तद्धेतुवदित्याभाससमानत्वाद्यत्नार्हत्वोपाधेश्च नैवमिति भावः। उपाधेः साधनव्याप्तिमाशङ्क्याऽऽह। वस्त्विति। प्रत्यनुमानाभावेऽपि फलत्वहेतोरसिद्धिमाशङ्क्याऽऽह। स्वयं चेति। वाक्योत्थबुद्धिव्यक्तमात्मरूपं सकार्याविद्याध्वंसित्वाज्ज्ञानं न च तद्ध्वंसस्ततोऽतिरिच्यते। आत्मैवाज्ञानहानिरिति तत्र तत्र साधनात्तस्माज्ज्ञानस्य पुमर्थत्वान्नासिद्धिरित्यर्थः॥२२९॥

अनात्मनि प्रमेयेऽर्थे या फलत्वेन संमता॥
प्रमेया सैव वेदान्तेष्वनुभूतिरिहाऽऽत्मनः॥२३०॥

उक्तरूपात्मनोऽविद्यादिनिवर्तकत्वमप्रसिद्धमित्याशङ्क्य प्रसिद्धोपायसंश्रयादित्यत्रोक्तं स्मारयति। अनात्मनीति। शब्दादौ विषये प्रत्यक्षादिप्रमेये फलत्वेन प्रसिद्धा याऽऽत्मस्वरूपभूताऽनुभूतिः सैव वाक्यजायां बुद्धौ व्यज्यते। तथाच शब्दाद्याकारबुद्धिव्यक्तानुभूतेस्तदविद्यानिवर्तकत्ववदात्माकारवृत्तिव्यक्ततद्भूतानुभूतेः स्वाविद्यादिध्वंसित्वं प्रसिद्धमित्यर्थः॥२३०॥

विज्ञानमानन्दमिति ह्यात्मैवेति श्रुतेस्तथा॥
पुमर्थस्यैव मेयत्वं मातृत्वाद्यनपेक्षिणः॥२३१॥

ननु परो वेदान्तानां विषयः सचानन्तचिदेकतानः शब्दाद्यनुभवस्तु मानफलं परिच्छिद्यते। न च तयोरैक्यं परिच्छेदा-परिच्छेदवतोस्तदभावादत आह। विज्ञानमिति। तत्तद्वृत्तिमदन्तःकरणावच्छिन्नश्चिदात्मा मातृदुशामाविशति तत्तद्वृत्त्यवच्छिन्नश्च मानावस्थां तत्तद्वृत्तिद्वारा तत्तद्विषयावच्छिन्नस्तु फलतामज्ञानद्वारा च तत्तदवच्छेदेन मेयताम्। यथोक्तं जागरणेऽपि प्रमाणज्ञानादन्तरपरोक्षानुभवान्न विषयस्थाऽपरोक्षता भिद्यत एक-

रूपप्रकाशनादिति। स च विज्ञानमानन्दं ब्रह्माऽऽत्मैवाऽऽनन्द इत्यादिश्रुतेरानन्दज्ञानस्वभावस्तस्य च ज्ञानत्वान्मातृत्वादिष्वनपेक्षस्य परानन्दतया परमपुरुषार्थस्याज्ञानद्वारा तत्र तत्र मेयादिभावः। तथाच परिच्छेदस्य कल्पितत्वाद्वाक्योत्थबुद्धिव्यक्तचिद्धातोर्विज्ञानस्य फलत्वसंभवान्न हेत्वसिद्धिरिति भावः॥२३१॥

तज्ज्ञानं यस्य संजातं जातमेवास्य नान्यथा॥
कुक्षिस्थस्यापि हि सतो वामदेवस्य तद्यथा॥२३२॥

किं चाऽऽत्मज्ञान128विधिपक्षे तस्याबाधे वा विधिः फलसंबन्धे वा तत्प्रतिबन्धध्वंसे वा नाऽऽद्य इत्याह। तज्ज्ञानमिति। यथा वामदेवस्य सुनेर्मूत्रपुरीषाद्यनेकदोषदूषिते गर्भाशये शयानस्यापि पूर्वजन्मानुष्ठितश्रवणादिसंस्कृतस्य सम्यग्ज्ञानं जातं गर्भ एवैतच्छयानो वामदेव एवमुवाचेति गर्भस्थस्यापि तस्य ज्ञानित्वश्रुतेः। तद्धैतत्पश्यन्निति च वक्ष्यति। न च तत्कुतश्चिद्बाध्यते तथाऽन्यस्यापि यस्य शुद्धबुद्धेः श्रवणादिवशाज्ज्ञानं जातं तत्तस्य नान्यथा भवति। न हि विपर्यासेन सम्यग्धीर्बाध्याऽवैपरीत्यान्न च सम्यग्ज्ञानान्तरं बाधकमस्तीत्यर्थः॥२३२॥

तच्चाविद्यानिरास्येव व्याधभावनयाऽञ्जितः॥
राजसूनोः स्मृतिप्राप्तौ व्याधभावो निवर्तते॥२३३॥

यथैवमात्मनोऽज्ञस्य तत्त्वमस्यादिवाक्यतः॥
लब्धैकात्म्यस्मृतेर्येति सर्वाऽविद्या सकार्यका॥२३४॥

न द्वितीय इत्याह। तच्चेति। विधेयत्वं विनाऽपीति चकारार्थः। न खल्वात्मज्ञानस्य तदज्ञानध्वस्तिफलसंबन्धे विधिः प्रमाणज्ञानत्वाच्छुक्तिज्ञानवदिति भावः। न तृतीयइत्याह। व्याधेति। कश्चित्किल राजसूनुर्जन्ममात्रेण त्याजितराजसदनो निमित्तत्वशात्प्रवेशितविपिनो व्याधेन केनचिदपुत्रेण पुत्रतया गृहीतो गृहे तस्य वर्धमानोऽपि व्याधोऽस्मीतिभावित-चेताश्चिरकाल129मतिवाहयामास। स च कदाचिन्नासि व्याधसूनू राजकुमारस्त्वमित्याप्तेनोक्तः स्वीयराजसूनुत्वं सस्मार। तस्य पुना राजपुत्रोऽहमितिस्मृतिप्राप्तौ चिरगृहीतोऽपि व्याधभावो विरोधिस्मृत्या निवर्तते। तथाऽज्ञस्याज्ञानारोपितमनुष्यत्वादिधर्मवतः स्वाराज्याद्भ्रष्टस्य कष्टां दशां दृष्ट्वा कारुणिकेन गुरुणा दिष्टवाक्योत्थस्वात्मस्मृतेः सर्वप्रकाराऽविद्या कार्यसहिता नश्यति। तथा च सच्चिदानन्दं ब्रह्माऽऽत्मानमध्यवस्यतो ज्ञानफलप्रतिबन्धस्य तेनैवापहस्तितत्वान्न तद्ध्वंसेऽपि विधिरित्यर्थः॥२३३॥२३४॥

यत एवमतो नात्र विधिः कल्प्यः कथंचन॥
अनर्थकः कल्पितोऽपि तस्येहानुपयोगतः॥२३५॥

किंचाऽऽत्मज्ञाने विधिः श्रुतो वा कल्पितो वा नाऽऽद्य इत्याह। यत इति। द्रष्ट-

व्यादिशब्दस्य विधायकत्वं नेति यतो वक्ष्यतेऽतो नाऽऽत्मज्ञाने विधिः श्रुतोऽस्ति। उक्तन्यायेन तत्र तदुपयोगाभावाच्चेत्यर्थः। पूषा प्रपिष्टभाग इतिवदश्रुतोऽपि विधिरात्मज्ञाने कल्प्यतेऽन्यथा वाक्याप्रामाण्यादिति द्वितीयमादत्ते। कल्प्य इति। मैवं कल्पकाभावान्न च वाक्यप्रामाण्यायोगस्तथा वस्तुमात्रावेदनेऽपि तद्योगान्मानं विना विधिं कल्पयतश्च तद्वैयर्थ्यमिति परिहरति। अनर्थक इति। कल्पितविध्यानर्थक्ये हेतुमाह।तस्येति। आत्मज्ञाने कल्पितविधेर्नोपयोगस्तत्र प्रवृत्तिनिवृत्त्योरयोगादतस्तत्कल्पना व्यर्थेत्यर्थः॥ २३५॥

उत्पत्तिराप्तिः संस्कारो विकारश्च विधेः फलम्॥
मुक्तिर्विलक्षणैतेभ्यस्तेनेहानर्थको विधिः॥२३६॥

ज्ञाने कल्पितस्य विधेर्मुक्तावुपयोगो नेत्याह। उत्पत्तिरिति। पुरोडाशोत्पत्तिः130 संयवनविधिफलम्। पयसोऽवाप्तिर्दोहनविधिफलम्। प्रोक्षणविधिफलमुलूखलादिसंस्कारः।व्रीह्यादिविकारोऽवघातविधिफलमिति चतुर्विधमेव क्रियाफलं प्रसिद्धमित्यर्थः। क्रियाफलस्य चातुर्विध्येऽपि कथं नैयोगिकत्वं मुक्तेरपनुद्यते तत्राऽऽह। मुक्तिरिति। न तावन्मुक्तिरुत्पत्तिरुत्पाद्या वा। अक्रियात्वादनादित्वाच्च। न चाऽऽप्तिराप्या वाऽसंबन्धत्वात्प्राप्तस्वरूपत्वाच्च। नापि संस्कारः संस्कार्या वा। निर्गुणत्वादनाधेयातिशयत्वाच्च। नापि विकारो विकार्या वाऽकार्यत्वादपरिणामित्वाच्च। तस्मान्न विधिफलं मुक्तिरित्यर्थः। तस्यास्तदफलत्वे फलितमाह। तेनेति। इहेति ज्ञानोक्तिः॥२३६॥

अनन्यायत्तसंसिद्धेर्निरविद्यात्मवस्तुनः॥
न क्रियात्वं फलत्वं वा नापि कारकरूपता॥२३७॥

ज्ञाने विध्यसंभवाद्ब्रह्मणस्तदशेषत्वेऽप्युपास्तिविधिसंभवात्तच्छेषतेत्याशङ्क्याऽऽह।अनन्येति। न हि ब्रह्मोपास्तिविधिशेषस्त-च्छेषत्वप्रयोजकीभूतक्रियाद्यन्यतमत्वस्य तस्मिन्दुःसाधनत्वान्न तावत्कारकाधीनात्मलाभत्वं क्रियात्वं ब्रह्मणोऽस्त्यनन्याधीन-सिद्धिकत्वान्नाप्यविद्यावन्निष्ठकारकत्वं निरविद्यत्वान्नापि फलत्वं क्रियाजन्यत्वाभावात्तस्माद्ब्रह्मणो नोपासनाविधिशेषत्वमपीत्यर्थः॥२३७॥

अतोऽत्र विध्यभावोऽयं न कथंचन दूषणम्॥
अलंकृतिरियं साध्वी वेदान्तेषु प्रशस्यते॥२३८॥

विधिशेषत्वाभावे वेदान्ताप्रामाण्यं मन्यमाना वेदोषरा वेदान्ता इति केचित्तान्प्रत्याह। अत इति। यतो विधिं विनाऽपि नदीतीरफलसंबन्धवद्ब्रह्मणो वेदान्तप्रमाणकत्वमतस्तेषु विध्यभावो नाप्रामाण्यहेतुरित्यर्थः। न केवलं तेषु विध्यभावस्याप्रामाण्याहे-

तुत्वं प्रामाण्यहेतुत्वं चास्तीत्याह। अलंकृतिरिति। सति विधौ शुद्धे ब्रह्मणि वेदान्तप्रामाण्यायोगात्तदभावे पुमर्थब्रह्मात्मावबोधाद्युक्ता प्रशंसेति भावः॥२३८॥

चोदनाभिर्नियुक्तोऽहं तथा ब्रह्माहमित्यपि॥
परस्परविरुद्धत्वादेकदैकत्र न द्वयम्॥२३९॥

किंच ज्ञानादिविधिषु विद्वान्विविदिषुर्वा नियोज्यो नाऽऽद्य इत्याह। चोदनाभिरिति॥२३९॥

स्वामी सन्न हि भृत्येन स्वामिनेव नियज्यते॥
संबोधनीय एवासौ सुप्तो राजेव बन्दिभिः॥२४०॥

न द्वितीय इत्याह। स्वामीति। विविदिषुरपि संसारमार्गादुत्तीर्णत्वाद्वेदस्य स्वामी तन्नासौ तेन प्रेर्यते न हि स्वामिना भृत्यवत्तेन स्वामी नियुज्यते किंतु यथा सुप्तो राजा कार्यकालात्ययं मन्यमानैः सुतादिभिर्बोध्यते तद्वद्देहादिसाक्षित्वं जगत्कारणत्वोपलक्षितं ब्रह्मैवासीति वेदेनासौ बोधनीयस्तस्मान्नियोज्याभावादपि वेदान्तेषु न विधिरिति भावः। यद्वा विदुषो नियोज्यत्वाभावं पूर्वार्धेनोपपाद्य द्वितीयार्धेन विविदिषोरनियोज्यत्वं साध्यते। तस्य च श्रवणादौ नियोज्यत्वेऽपि न ज्ञाने तथात्वमिति मन्यते॥२४०॥

चोदनालक्षणत्वादि धर्मं प्रत्येव गृह्यताम्॥
धर्मस्यैव प्रतिज्ञोक्तेर्न तु ब्रह्म प्रतीष्यते॥२४१॥

ननु वेदान्तनिरूपणायां ब्रह्मणो विध्यशेषत्वेऽपि कर्ममीमांसासूत्रसंदर्भालोचनायां तत्र तस्य विधिशेषत्वं स्यात्। स हि वेदार्थमात्रोपाधौ प्रवृत्तस्तस्य चोदनालक्षणत्वमाचष्टे। विधिवचनश्च चोदनाशब्दश्चोदनेति क्रियायाः प्रवर्तकं वचनमिति स्थितेरतो ब्रह्मणोऽपि वेदार्थत्वाद्विधिस्पृष्टत्वमत आह। चोदनेति। विधिप्रमाणकत्वं भिन्नत्वमित्यादि धर्मं प्रत्येव न ब्रह्म प्रतीत्यत्र हेतुमाह। धर्मस्येति। वेदार्थैकदेशस्य धर्मस्यैव विचार्यत्वेनाऽऽद्ये सूत्रे प्रतिज्ञातत्वादित्यर्थः। ननु साङ्गाध्ययनवतः स्वाध्यायादापातप्रतिपन्नोऽर्थो बाधितोऽबाधितो वेति संदिहानस्य न्यायेन निर्णयार्थमथातो धर्मजिज्ञासेतिसूत्रितम्। तेन चाध्यापनविधिसत्त्वमुपनयनस्य तदङ्गत्वमध्ययनस्य तत्प्रयुक्तत्वं तदशेषतया स्वतन्त्राधिकारश्चेति चत्वारोऽर्थाः समर्थ्यन्ते। तत्र वेदार्थविचारोपायभूतन्यायनिबन्धनरूपं मीमांसाशास्त्रं विषयस्तत्किमनारम्यमुताऽऽरम्यमिति संदेहः। तत्र स्वाध्यायोऽध्येतव्य इति विधीयमानाध्ययनस्याष्टवर्षं ब्राह्मणमुपनयीत तमध्यापयीतेति श्रुतेरुपनीय तु यः शिष्यमित्यादिस्मृतेश्चप्राप्तोपनयनाङ्गकाचार्यकरणविध्यधिकारनिष्पत्तिफलत्वा-त्स्वाध्यायस्य च तदर्थत्वादन्यपरत्वे सत्यविवक्षितस्वार्थः स इति विषयाद्यभावादनारम्यं शास्त्रमिति पूर्वः पक्षः। उपनयनाङ्गकाध्यापनविधिप्रयुक्तत्वेऽप्यध्ययनस्य न तन्निष्पत्तिरेव फलं पुरुषान्तरस्थत्वेन बहिरङ्गत्वादर्थज्ञानं त्वध्ययनोत्तरभावित्वेऽप्यध्ये-

तृप्तमवेतत्वेनान्तरङ्गत्वात्तत्फलम्। तथा चाध्ययनस्य स्वनियोगोऽर्थधीश्चेति शब्दतोऽर्थतश्च फलद्वयम्। न चैवमर्थज्ञानकामस्य नियोज्यत्वं प्रागध्ययनाद्वेदार्थाज्ञानात्कामायोगात्परप्रयुक्त्या चानुष्ठाने नियोज्यापेक्षाभावादर्थधीरधिकारहेतुः। अतः स्वाध्यायस्य विवक्षितार्थत्वाद्विषयादिभावादारम्यं शास्त्रमिति राद्धान्तः। तदेवं वेदार्थोपाधौ विचारस्य प्रवृत्तत्वाद्ब्रह्मणोऽपि वेदार्थत्वात्तत्र विचार्यत्वेन प्रतिज्ञातत्वमिति नेत्याह। नत्विति। ब्रह्म प्रति विचार्यत्वप्रतिज्ञोक्तिर्नेष्यते। धर्मशब्दविरोधादित्यर्थः॥२४१॥

अथातो धर्म इत्युक्तेश्चोदनालक्षणोक्तितः॥
तद्भूतानां क्रियार्थेन ह्याम्नायस्य क्रियार्थतः॥२४२॥

ननु तेन131 वेदार्थमात्रमुपलक्ष्य तस्य विचार्यत्वमभिमतम्। अतो ब्रह्मापि धर्मवद्विधिस्पृष्टतया विचारितमित्यत आह। अथात इति। इदमर्थतः सूत्रोपादानम्। साङ्गाध्ययनानन्तरं तस्य विचारपुष्कलकारणत्वाद्धर्मो जिज्ञास्य इति कथनाद्वेदार्थमात्रविवक्षया विचारकार्यता न सूत्रिता। अन्यथाऽथातो वेदार्थजिज्ञासेतिसूत्रप्रसङ्गात्। न च धर्मशब्देन वेदार्थमात्र लक्ष्यते। गौणमुख्ययोर्मुख्ये संप्रत्ययात्। न च तर्हि ब्रह्मवदधर्मोऽपि न लक्षणीयस्तन्निरूपणस्य तत्त्यागेन धर्मानुष्ठानानुगुणत्वात्। ब्रह्मनिरूपणस्य तु तद्वैपरीत्यात्। न च वेदार्थैकदेशस्यैव विचार्यत्वे विचारस्य132 वेदमात्राध्ययनानन्तर्यविरोधः कर्मज्ञानाधिकृतस्याध्ययनविध्यधिकारित्वाद्वेदमात्रा-ध्ययनानन्तरं स्वर्गादिकामस्य कर्मविचारे मोक्षकामस्य ब्रह्मजिज्ञासायां च प्रवृत्तेः। अतो धर्मविशेषणसामर्थ्याद्वेदार्थैकदेशोपाधावेव विचारकार्यताऽत एव भाष्यकारः सर्वत्राऽऽद्यसूत्रभाष्ये धर्मो जिज्ञासितव्यो धर्म133ज्ञातुमिच्छेदित्यादौ धर्मशब्दमेवोक्तवानिति भावः। ननु चोदनासूत्रे ब्रह्मणोऽपि विधिशेषत्वं गम्यते तद्विजिज्ञास्यत्वेन प्रतिज्ञातवेदार्थरूपं तत्र प्रमाणं शब्दस्यार्थस्पर्शित्वं कार्यस्यैव तदर्थत्वमित्यर्थचतुष्टयमादेष्टुमारब्धम्। तत्र वेदार्थो विषयः स किं सिद्धरूपः किंवा कार्यरूप एवेति संशये सत्यं ज्ञानमनन्तं ब्रह्मेत्यादिषु सिद्धार्थदृष्टेस्तदस्फूर्तेश्च हेत्वभावात्कार्या134ध्यवसानासिद्धेर्व्यवहारं विनाऽपि सिद्धार्थेषु पुत्रजन्मादिवाक्येषु प्रथमव्युत्पत्तिसंभवात्तदनुसारित्वाच्च तात्पर्यस्य सिद्धरूपोऽपि वेदार्थः संभवतीतिपूर्वपक्षे व्यवहारस्यैव व्युत्पत्तावादिमार्गत्वात्पुत्रजन्मवाक्ये च तज्जन्माख्यहर्षहेतुप्रतिपादकताया दुरवधारणत्वाद्बहुषु हर्षहेतुषु संभावितेषु पारिशेप्यायोगाद्व्यवहारस्य च विशिष्टार्थविषयतया दृष्टस्य शक्तिकल्पकत्वसंभवात्तस्य च कार्याव्यभिचारात्तत्र शक्तिग्रहादावापोद्वापाभ्यां च विशेषे तत्सिद्धेः शक्त्यनुसारित्वाच्च तात्पर्यस्यार्थस्पर्शिनः शब्दात्कार्यस्यैव सिद्धेरदृष्टकार्येष्वपि वाक्येष्वध्याहारलक्षणयोरन्यतरस्याऽऽवश्यकत्वाद्वेदान्तानामपि यथाकथंचिद्विधिशेषत्वेन कार्यपरत्वात्कार्यरूप एव वेदार्थ इति राद्धान्ति-

तम्। तथाच वेदार्थत्वाद्ब्रह्मणोऽपि कार्यशेषतया विध्यनुप्रवेश इति तत्राऽऽह। चोदनेति। प्रवर्तकं वचनं चोदना तल्लक्षणस्तद्गम्यो योऽर्थः श्रेयस्करः श्येनाद्यतिरिक्तः स धर्म इति सूत्रार्थः। तत्र चोदनाधर्मविशेषणाभ्यां वेदार्थैकदेशस्यैव श्रुत्यर्थाभ्यां स्वरूपप्रमाणे प्रदर्श्यते। अन्यथा वेदप्रमाणको वेदार्थ इति सूत्रं स्यादर्थशब्दस्य च श्येनादिव्यावर्तकस्यायोगस्तस्यापि वेदार्थत्वात्। **यथाऽऽहुः—**तत्रानर्थो धर्म उक्तो मा भूदित्येवमर्थमर्थग्रहणमिति। अतो द्वितीयसूत्रमपि न ब्रह्मसृगिति भावः। ननु तद्भूताधिकरणन्यायेन ब्रह्म विधिस्पृष्टमेष्टव्यम्। **तथा हि—**वेदवाक्यानि विषयः। तानि मानान्तरसापेक्षाणि तन्निरपेक्षाणि वेति संशयः। तत्र वृद्धव्यवहारे वाक्यात्तदर्थावगमेऽपि वेदे135 वाक्यस्य समुदायान्तरत्वात्तस्य चार्थेनागृहीतसंबन्धत्वात्तत्कल्पनायां च संकेतस्य स्वीकर्तव्यत्वाद्वेद-वाक्यानां मानान्तरसापेक्षत्वादप्रामाण्यमिति पूर्वपक्षयित्वालोके वेदे च पदपदार्थयोरनन्यत्वाद्वेदेऽपि वाक्यार्थावगतेर्लोक-व्युत्पत्तिमूलत्वात्कार्यान्विते ज्ञातशक्तीनामेव पदानां विशिष्टार्थावच्छेदकानां वाक्यत्वात्संकेतानपेक्षाणां वैदिकवाक्यानां स्वार्थधीहेतुत्वादपौरुषेयाणां तेषामनपेक्षतया प्रामाण्यमिति सिद्धान्तितम्। अतो लोकावसितकार्यसंगतिद्वारा ब्रह्मण्यपि वाक्यं बोधकमिति तस्य कार्यसंबन्धाद्विधिशेषतेति नेत्याह। तद्भूतानामिति। तद्भूतानां क्रियार्थेन समाम्नायोऽर्थस्य तन्निमित्तत्वात्। तेषु पदार्थेषु भूतानां वर्तमानानां पदानां कार्यरूपेण वाक्यार्थेन तत्प्रतिपत्त्यर्थत्वेन समास्नायः संभय वाक्यत्वेनोच्चारणमेकैकपदस्मृतार्थस्य मिलितस्य वाक्यार्थप्रतिपत्तिनिमित्तत्वात्पदानामेव हि पदार्थस्मृत्यवान्तरव्यापाराणां वाक्यार्थप्रत्यायकत्वमिति सूत्रार्थः। न च ब्रह्मणो विधिशेषत्वमत्र भाति ब्रह्मप्रतिपादकं च वाक्यं लोकसिद्धशक्त्यनुरोध्यपि न कार्यमपेक्षते। सिद्धेऽप्यर्थे सामर्थ्यस्य सुग्रहत्वात्। न हि प्रीतिशोकाद्युत्पादकवाक्येषु वदनविकसनादिना विना कार्याध्याहारं बालाः शक्तिं नाऽऽकलयन्ति। तस्मान्न तद्भूताधिकरणादपि ब्रह्मणो विधिशेषतेति भावः। अथार्थवादाधि- करणन्यायेन विधिशेषो ब्रह्म। तथा हि— सोऽरोदीदित्याद्यर्थवादयुक्ताश्चोदना विषयः। ताः किमप्रमाणं प्रमाणं वेति संशयः। तत्र रुद्ररोदनादेरर्थ-वादार्थस्यासाध्यत्वात्कार्येणेतिकर्तव्यतया फलतया वाऽनन्वयात्पुरुषविशेषणत्वाभावाच्च जीवनादिवन्नियोज्याविशेषणत्वान्मलिनः स्नायादिति मलिनतायाः स्नानकर्तव्यताहेतुत्ववदिहापि हेतुत्वेनान्वयासिद्धेः स्तुत्या चान्वये लक्षणाप्रसङ्घाद्विध्युद्देशे च कर्तव्यतावगमात्प्रवृत्तिसिद्धौ स्तुत्यपेक्षाभावाद्धेतुत्वेन चान्वये तदधीनकार्यप्रतिपादनादर्थवादयुक्तसर्वचोदनानामप्रामाण्यमिति पूर्वपक्षे सर्वशब्दानां कार्यपरतया प्रामाण्याद्विधिशब्दस्य साक्षात्तद्वाचित्वात्पादान्तराणां तदन्वितस्वार्थवाचितया तत्परत्वादर्थवादार्थस्य च विध्युदेशोक्तापूर्वकार्ये हेतुत्वे-

नान्वये मानाभावादर्थवादपदानां प्राशस्त्यार्पणद्वारा कार्यावगत्युपयोगित्वादर्थवादयुक्तादेव विध्युद्देशात्तद्धीसिद्धे136 रक्तपटवद्युक्तं सार्थवादसर्वचोदनानां प्रामाण्यमिति राद्धान्तः। अतः सिद्धार्थवाक्यानां विधिनैकवाक्यतया प्रामाण्ये वेदान्तानामपि तदेकवाक्यत्वेनैव तत्प्रामाण्यात्प्राप्ता ब्रह्मणो विधिशेषतेति तत्राऽऽह। आम्नायस्येति। तत्र137 हि सार्थवादचोदनानामप्रामाण्यमाशङ्क्य स्तावकत्वेनार्थवादानां विध्युद्देशेनैकवाक्यत्वात्तद्युक्तसर्वचोदनानां प्रामाण्यमिति स्थितम्। वेदान्तास्तु विधिप्रकरणलङ्घनजङ्घालाः स्वार्थज्ञानमात्रेणार्थवन्तो न विध्येकवाक्यत्वमपेक्षन्ते। तस्मान्नार्थवादाधिकरणादपि विधिशेषो ब्रह्मेति भावः॥२४२॥

भावार्थाः कर्मशब्दा ये प्रतीयेत क्रिया ततः॥
इत्येवं नरतन्त्रेऽर्थे ज्ञेया द्वादशलक्षणी॥२४३॥

ननु भावार्थाधिकरणेन ब्रह्म विधिशेषः। तथा हि—चित्रया यजेत पशुकाम इत्यादौ किं तद्गतपदानां प्रत्येकं नियोगा138पकत्वमेकस्मिन्वाक्ये पदमेकमेव वा नियोगा139र्पकमितरत्तदर्थमिति संशये सर्वपदार्थानां कार्यार्थत्वात्साक्षात्तत्संबन्धसंभवे पारंपर्यायोगाद्दृश्यमानान्योन्यान्वयस्य पार्ष्णिकत्वात्प्रतिपदं नियोगार्पणमिति पूर्वपक्षे प्रतिपदं नियोगा138र्पकत्वे दृश्यमानक्रिया-कारकान्वयभङ्गात्कार्यभेदे चारुणैकहायनीन्यायानवताराद्विनियोगभङ्गे तदधीननियोगस्यापि भङ्गादेकमेव पदमेकस्मिन्वाक्ये नियोगार्पकमितरत्तदर्थमिति प्रतिपदाधिकरणे स्थिते तत्र द्रव्यगुणशब्दानामपि तदर्पकत्वं भावशब्दानामेव वेति संदेहे विनियोगाविरोधाद्विशेषाग्रहादनियमे प्राप्ते द्रव्यगुणयोर्विधिविषयत्वे क्रियां प्रति तयोरीप्सितत्वेन कर्मत्वात्तां प्रत्येत्र कारकत्वायोगाद्विनियोगभङ्गधौव्याद्भावार्थस्यैव स्वतः साध्यस्य तद्विषयताया न्याय्यत्वात्प्रत्ययार्थमपूर्वं प्रति समानपदोपात्तस्य तस्य विषयत्वसंभवे पदान्तरोपात्तद्रव्यादेस्तदयोगाद्भावार्थानां कर्मशब्दानामेव नियोगार्पकत्वमितरेषां तादर्थ्यमिति राद्धान्तः। तथाच वेदान्तानामपि सिद्धार्थ140मर्पयतां विधिशेषत्वाद्ब्रह्मणोऽपि तच्छेषतेति तत्राऽऽह।भावार्था इति। “भावार्थाः कर्मशब्दास्तेभ्यः क्रिया प्रतीयेतैष ह्यर्थो विधीयते” [पू०मी० २।१।१] सन्ति केचित्केवला भावार्थाः शब्दा भावो भवनमित्यादयो न ते नियोगवाचिनः सन्ति च केचित्केवलाः कर्मशब्दा यागो दानमित्यादयस्तेऽपि न नियोगवाचिनः। ये तु भावार्थाः कर्मशब्दा यजेतेत्यादयस्तेभ्यः क्रियाशब्दितः साध्यैकरूपो नियोगो गम्यते। यस्मादेष नियोगाख्योऽर्थो विधिना विषयीक्रियते तस्माद्यथोक्तेभ्यः शब्देभ्यो नियोगप्रतीतेस्तादर्थ्यं क्रियाकारकपदानामिति सूत्रे प्रतीयते। ब्रह्म चाक्रियाकारकमर्पयन्ति वेदान्तास्ते कथं विधिशेषतां मृष्येरन्नतो न

भावार्थाधिकरणादपि विधिशेषो ब्रह्मेत्यर्थः। ननु प्राच्यां मीमांसायां सन्ति सहस्रमधिकरणानि तेष्वालोच्यमानेषु ब्रह्मणो विधिशेषत्वप्रापकोऽपि कश्चिन्यायो भविष्यति नेत्याह। इत्येवमिति। द्वादशाध्यायी मीमांसा धर्मप्रक्रमानुसारेण पुरुषेच्छाप्रयत्नसाध्यं धर्ममेव विषयीकरोति न ब्रह्म तथा हि—प्रथमेऽध्याये विध्यर्थवादमन्त्रनामधेयस्मृतीनां वा चोदनानामेव वा प्रामाण्यमुक्तम्। द्वितीये शब्दान्तरादिना कर्मभेदः शास्त्रभेदो वा चिन्तितः। तृतीये वैनियोगिकः शेषशेषिभावो निरूपितः। चतुर्थे त्वौपादानिकमुत्पत्त्यधिकारप्रयुक्तिविनियोगरूपमर्थचतुष्टयं वा क्रत्वर्थपुरुषार्थप्रयुक्तानुष्ठानपरिमाणं वा परीक्षितम्। तत्र साङ्गे कर्मण्यनुष्ठानात्मप्रयुक्तिः श्रौतीत्येके सा पुनर्विधिसामर्थ्यलभ्येत्यपरे तन्मते प्रयुक्तिसामर्थ्यलभ्यं चोत्पत्त्यादित्रितयमित्यौपादानिकमेव चतुष्टयमपीष्टमिति द्रष्टव्यम्। पञ्चमे क्त्वाश्रुतिप्रमाणकोऽनुष्ठानक्रमो विचारितः। षष्ठे कर्तुरधिकारो वा नियोज्यत्वं वा पुंसो निर्धारितम्। नियोज्यान्वयपुरःसरो हि कर्त्रन्वयो गुरुमतानुसारिभिरिष्यते। एवं पूर्वषट्कादुपदेशापेक्षितो विचारः सिद्धः। उत्तरषट्कात्त्वतिदेशापेक्षितो विचारः। तत्र सप्तमाष्टमयोर्विध्यन्तन्यायानपेक्षितस्तदपेक्षितो वा सामान्य141विशेषरूपो वाऽतिदेशो विशदीकृतः। नवमे प्रकृत्युपदिष्टमन्त्रसामसंस्कारकर्मणां विकृतावतिदिष्टानां प्रकृतिविकृत्योर्द्रव्यदेवताभेदे प्रकृतिस्थद्रव्यादिशब्दं हित्वा विकृतिस्थतच्छब्दाध्याहार उह उक्तः। यथाऽग्नये जुष्टमिति मन्त्रस्य विकृतौ सूर्याय जुष्टमिति पदप्रक्षेपः। दशमे विकृत्यतिदिष्टाङ्गानां प्रकृतौ सावकाशानां विकृतिस्थविशेषाङ्गो-पदेशद्वारलोपप्रतिषेधैर्बाध उक्तः। यथा प्राकृतानां कुशानां विकृतावतिदिष्टानां प्रत्याम्नातैः शरबर्हिर्भिर्बाधः। कृष्णलेषु तुषकणविमोकद्वारलोपादवघातो बाध्यते तौ न पशौ करोतीति निषेधेनाऽऽज्यभागौ बाध्येते। एकादशे नैकशेषिविधिप्रयुक्तशेषस्य सकृदनुष्ठानादेव प्रयोजकसर्वशेप्युपकारसामान्यं तन्त्रं नामोक्तम्। यथा दर्शत्रयेण पौर्णमासत्रयेण वा प्रयुक्तस्य प्रयाजादेः सकृदनुष्ठानादेव प्रयोजकसर्वशेप्युपकारः। द्वादशेपुनरेकशेषिप्रयुक्तशेषानुष्ठानस्य प्रयोजकसामर्थ्यप्रयुक्तशेष्यन्तरेऽप्युपकारः प्रसङ्गो नामोक्तः। यथा पशुविधिप्रयुक्ताङ्गानां पशुपुरोडाशेषूपकारस्तदेवं द्वादशलक्षणीमीमांसा पुंस्तन्त्रेऽर्थे स्थिता न ब्रह्म स्पृशति। न हि तत्प्रामाण्यादीनां प्रसङ्गान्तानामन्यतममपेक्ष्य प्रविशतीति भावः॥२४३॥

वेदान्तार्थापवादाय नालं साऽतत्प्रमाणतः॥
मानं नालं निराकर्तुं वस्तु यन्मान्तरैर्मितम्॥२४४॥

ननु कर्ममीमांसाया ब्रह्माविषयत्वेऽपि सा तद्रूपं निषेधति तस्यास्तद्विपरीतधर्मविषयत्वादित्याशङ्क्य सा हि न्यायसंघातात्मकः सूत्रसमुदायो वा तदनुग्राह्यः कर्मविधिर्वेति

विकल्प्याऽऽद्यं दूषयति। वेदान्तेति। सा हि मीमांसा न्यायसंघातात्मकसूत्रसमुदायरूपा वेदान्तार्थं बाधितुं नोत्सहतेऽतत्प्रमाणत्वात्। न हि धर्मे ब्रह्मविपरीते सूत्रसंदर्भो मानं तस्य न्यायात्मनो142 मानानुग्राहकस्य स्वार्थे संभावनामात्र हेतुत्वात्। न चासौ ब्रह्मण्यसंभावनामपि करोति तस्मिन्नुदासीनत्वादित्यर्थः। यद्वा तत्प्रमाणत इति च्छेदः। तस्मिन्धर्मे मानभूत चोदनानुग्राहकत्वान्न सा ब्रह्म निषेद्धुमलमित्यर्थः। द्वितीयं निराह।मानमिति। न हि कर्मविधिर्वेदान्तप्रमेयं पराकर्तुं पारयति प्रमाणत्वात्प्रत्यक्षवदित्यर्थः॥२४४॥

स्वमेयमात्रशूरत्वान्पितेर्नान्यत्र मानता॥
अथातो ब्रह्मजिज्ञासा इत्याद्युक्तं नयान्वितम्॥२४५॥

किंच कर्मविधिः स्वविषयं बोधयितुमन्यन्निषेद्धं च क्रमाक्रमाभ्यां न प्रभवति शब्दादीनां विरम्य व्यापाराभावात्क्रमायोगाद्विधिनिषेध-योरेकस्मिन्मानेऽनुपलम्भाच्चाक्रमासिद्धेरित्याह। स्वमेयेति। मान्तरैर्मितमिति वेदान्तानां प्रामाण्यमङ्गीकृतं तदयुक्तं तेषामनुग्राहक न्यायाभावेनाऽऽभासत्वादित्याशङ्क्याऽऽह। अथात इति। साधनचतुष्टयसंपत्त्यनन्तरस्य ब्रह्मजिज्ञासापुष्कलहेतुत्वाद्ब्रह्मणो जिज्ञासा कर्तव्या। सूत्रे बहूक्त्यभावेऽपि तां वदन्बन्धस्याध्यासत्वं धर्ममीमांसया ब्रह्ममीमांसाया गतार्थत्वाभावो विशिष्टाधिकारिसंभवो विषयादिसद्भावश्चेत्यर्थचतुष्टयमत्र शास्त्रारम्भार्थं समर्थितमिति दर्शयति। यद्वा बहूक्त्या ब्रह्मसंवन्धिजिज्ञासापञ्चकमत्र कार्यत्वेन प्रतिज्ञातमिति सूचयति। यद्वा विसंधिं कुर्वन्ननित्यत्वं संधेराह। आदिपदेन जन्मादिसूत्रप्रभृतीनि सूत्राणि गृह्यन्तेतैरनावृत्तिः शब्दादित्यन्तैन्ययात्मकैरुक्तं ब्रह्म न्यायोपेतं प्रतिभाति। अतो न वेदान्तानां मानाभासत्वमित्यर्थः॥२४५॥

मीमांसान्यायवत्त्वाभ्यां धर्ममीमांसनोक्तिवत्॥
एवं सत्यनुकूलार्थं तत्त्वमित्यादिकं वचः॥२४६॥

किंच ब्रह्मशास्त्रमपि कर्मशास्त्रवन्यायवत्त्वेन शास्त्रत्वेन च प्रसिद्धं तद्धर्ममीमांसाख्यशास्त्रोक्तिविषयधर्मवद्ब्रह्मापि न्यायवदेवेति कुतस्तत्प्रतिपादकवेदान्तानामाभासतेत्याह।मीमांसेति। कथं तर्हि मिथोविरुद्धार्थं काण्डद्वयमव्याहतं सन्मानमित्याशङ्क्याऽऽह।एवमिति। कर्मविचारवद्ब्रह्मविचारस्यापि न्यायवत्त्वे सति तदनुग्राह्यं तत्त्वमादिवाक्यं तत्त्वबोधकं सत्कर्मकाण्डानुगुणमित्यर्थः॥२४६॥

सर्ववेदान्तविषयमन्यथा तद्विरुध्यते॥२४७॥

न तत्र करणापेक्षा नेतिकर्तव्यता तथा॥
यत्र यत्राऽऽत्मभावेन श्रुत्या ब्रह्मावबोध्यते॥२४८॥

तस्य तत्त्वबोधित्वे हेतुं वदन्नानुगुण्यं स्फुटयति। सर्वेति। सर्वेषां वेदानामन्तस्तात्पर्यनिर्णयावसानभूमि143रद्वयं ब्रह्म तद्विषयं तत्त्वमादिवाक्यम्। यद्वा सर्वेषां वेदान्तानां विषय एव विषयो यस्य तत्तथोक्तं तच्च तत्त्वावेदकमारोपित क्रियादिभेदालम्बनं कर्मकाण्डं त्वतत्त्वावेदकं तथाचोभयोर्व्यवस्थितविषयत्वादव्याहतं प्रामाण्यमित्यर्थः। उक्तां व्यवस्थामनिच्छन्तं प्रत्याह। अन्यथेति। काण्डद्वयमुक्तरीत्या मानमित्यनभ्युपगमे तन्मानत्वं सुन्दोपसुन्दन्यायेन मिथो विरोधान्न सिध्यत्यतस्तत्कृतव्यवहारासिद्धिरित्यर्थः॥ वेदान्तेषु नियोगाख्यविधिनिरासेन ब्रह्मणस्तच्छेपत्वमपाकृत्य तेषु भावनाख्यविधिसंभवात्तस्य तच्छेषत्वं तदवस्थमित्याशङ्क्याऽऽह। न तत्रेति। यत्र यत्राऽऽम्नाये तत्पदलक्ष्यं ब्रह्म त्वंपदलक्ष्यप्रत्यकत्वेन तत्त्वमादिश्रुत्या प्रत्याय्यते तत्र तत्र ज्ञातब्रह्मात्मतत्त्वस्यापेक्ष्यमाणफलांशाभावान्न करणेतिकर्तव्यतापेक्षा युक्ता। तन्न वेदान्तेष्वंशत्रयवती भावनेत्यर्थः॥२४७॥२४८॥

इतिकर्तव्यतादानं करणादानमेव च॥
तत्र तत्र विधिः स्थाने प्रहितस्य फलेच्छया॥२४९॥

ननु तेषु नास्तिचेदंशत्रयवती भावना कुत्र तर्हि तस्याः संभावनेति तत्राऽऽह।इतिकर्तव्यतेति। ज्ञातविध्यर्थस्य पुंसः स्वर्गादीच्छया प्रेरितस्य करणेतिकर्तव्यतयोरादानं यत्र यत्र भाति तत्र तत्रांशत्रयसंभवात्तद्वान्भावनाख्यो विधिःस्थाने युक्त इत्यर्थः ॥ २४९ ॥

आप्ताशेषपुमर्थत्वात्यक्तानर्थस्य च स्वतः॥
अनात्मनीव नेच्छेयं कथंचित्स्यादिहाऽऽत्मनि॥
तन्निवृत्तौ निवर्तेते इतिकर्तव्यसाधने ॥२५०॥

तत्त्वमादिवाक्यार्थधियोऽपि कर्मवाक्यार्थधीवत्पुमर्थहेतुत्वात्तदिच्छया प्रवृत्तेरितिकर्तव्यताद्यादानद्वारा वेदान्तेष्वंशत्रयवती भावना स्यादित्याशङ्क्याऽऽह। आप्तेति। महावाक्याज्ज्ञातात्मयाथात्म्यस्याऽऽप्तानन्दत्वात्त्यक्तानर्थत्वाञ्चानात्मनि स्वर्गादाविवापवर्गे नेच्छा संगच्छते। तस्याऽऽत्मत्वेनाऽऽप्तत्वादित्यर्थः। ज्ञातवाक्यार्थस्य ज्ञाननान्तरीयकत्वेन तत्फलस्याऽऽप्तत्वात्फलेच्छायोगाद्भाव्यांशाभाव-मभिधायावशिष्टावंशौ निराचष्टे। तन्निवृत्ताविति। फलाकाङ्क्षाविनाभूता हि करणाद्याकाङ्क्षा सा च तत्त्वमादेर्व्यावर्तमाना करणाद्याकाङ्क्षामपि ततो व्यावर्तयतीत्यर्थः॥२५०॥

निरन्तरायतोऽशेषपुमर्थस्याऽऽत्मरूपतः॥
न चांशत्रयशून्येह भावनेष्टा परीक्षकैः॥२५१॥

मुमुक्षोर्मोक्षे कथमाकाङ्क्षाभावो मुमुक्षुत्वव्याघातादित्याशङ्क्याऽऽह। निरन्तरायत

इति। तस्य तदाकाङ्क्षायामपि ज्ञातात्मतत्त्वो जीवन्मुक्तो न किंचिदपेक्षते। ज्ञानविधिश्चात्र निराचिकीर्षितस्तस्मात्फलाकाङ्क्षा-निवृत्त्येतरनिवृत्तिरित्यर्थः। अंशत्रयाभावे फलितमाह। न चेति॥२५१॥

भावनातो न चान्यत्र विधिरभ्युपगम्यते॥
मोहमात्रान्तरायायां मुक्तावस्तु यथोदितम्॥२५२॥

वेदान्तेषु भावनाभावे सिद्धमर्थमाह। भावनात इति। वेदान्तेषु द्विविधस्य विधेरसंभवादविधिस्पृष्टं ब्रह्म तत्त्वमादिवाक्यगम्यमिति तद्धीरेव केवला मुक्तिहेतुर्न कर्मेति काण्डयोर्भिन्नौ साधनाधिकारिणावित्युक्तम्। संप्रत्युक्तमसहमानश्चोदयति। मोहमात्रेति। उक्तायां मुक्तौ ज्ञानादेवान्तरायनिराससिद्धेस्तन्मात्रं तद्धेतुरिति यथा त्वयोक्तं तथाऽस्तु न च मोहमात्रव्यवहिता सा किंतु साध्येत्यर्थः॥२५२॥

एकदेशो विकारो वा संसारी त्वात्मनो यदा॥
किं तदाऽप्युक्तमार्गेण मुक्तिः किंवा क्रियाश्रयात्144॥२५३॥

कथं साध्यत्वमित्याशङ्क्य तदर्थमादौ पक्षद्वयं करोति। एकदेश इति। यदा मतद्वयं तदा विज्ञानादेव मुक्तिः क्रियातो वेति विशये ज्ञानस्याकारकत्वाज्जीवस्य परैक्यं कैवल्यं क्रियासाध्यं निश्चीयते तन्न साधनादिवैलक्षण्यं काण्डयोरिति मत्वाऽऽह।यदेति॥२९३॥

निवृत्तावेव निःशेपसंसारस्य तदाऽपि तु॥
आगन्तोरधिकारः स्यान्न प्रवृत्तौ कथंचन॥२५४॥

ब्रह्मांशस्य जीवस्य ब्रह्माप्तिर्वा भेदध्वस्तिर्वा मुक्तिरिति विकल्प्याऽऽयं दूषयन्परिहरति। निवृत्ताविति। अंशांशिनोरभेदो न कर्मसाध्यस्तस्य स्वतः सिद्धत्वादतोंऽशपक्षेऽपि निःशेषस्य कर्मादिबन्धस्याऽऽगन्तुकस्य ध्वस्तावेव मुमुक्षोरधिकारो न कर्मानुष्ठाने तस्यापेक्षितब्रह्मावाप्तावनुपयोगात्तन्न कथंचिदपि कर्मसाध्या मुक्तिरित्यर्थः॥२५४॥

आत्माज्ञाननिमित्तस्य ह्यन्य145त्वानुपपत्तितः॥
तदाऽप्यविद्याविध्वस्तावधिकारो न कर्मणि॥२५५॥

द्वितीयं निराह। आत्मेति। ब्रह्माभिन्नस्य जीवस्य तत्त्वतस्ततो भेदायोगादुभयोरेकत्र विरोधादभेदस्योभयसिद्धत्वादविद्यया भेदोऽभ्युपेयो न चाज्ञानाधीनभेदस्य जीवस्य वास्तवमन्यत्वं व्याघातादतो न कर्मणा तद्द्ध्वंससिद्धिस्तस्याविद्यानिवर्तकत्वायोगात्तथा च भेदध्वस्तिमुक्तिपक्षेऽपि तन्मूलाविद्याध्वस्तिहेतुज्ञानोपाये मुमुक्षोरधिकारो न कर्मणीति भावः॥२५५॥

कर्तव्याभावत146स्त्वेवं विकारेऽपि न कर्मणि॥
कारणैकत्वसंपत्तेः स्वतः सिद्धत्वहेतुतः॥२५६॥

अंशपक्षं निराकृत्य ब्रह्मविकारस्यापि जीवस्य विकारिब्रह्माप्तिस्तद्भेदध्वंसो वा मुक्तिरिति विकल्प्याऽऽद्यमतिदेशेन दूषयति। कर्तव्येति। यथा ब्रह्मांशे जीवे न कर्मण्यधिकारो मुमुक्षोरित्युक्तं तथा तद्विकारेऽपि जीवे तत्कार्यस्य कारणब्रह्माभेदो न कर्मसाध्यः कार्यकारणयोरभेदस्य स्वाभाविकत्वात्कर्मणा कर्तव्यत्वायोगादतो न कर्मण्यधिकारो मुमुक्षोरित्यर्थः॥२९६॥

मृदापत्तिर्घटस्येव विकारस्याऽऽत्मनो ध्रुवम्॥
अविकारात्मसंपत्तिः सा च तत्त्वावबोधतः॥२५७॥

कल्पान्तरं दृष्टान्तेन निराचष्टे। मृदिति। यथा घटस्य मृदभेदः स्वाभाविकस्तद्भेदोऽविद्याकृतस्तथा जीवस्यापि ब्रह्मविकारस्य स्वतो विकारिब्रह्माभेद, आविद्यो भेदस्तत्त्वतोऽसंभवान्न च तादृग्भेदध्वंसः कर्मसाध्यस्तस्याविद्यानिवर्तकत्वानुपपत्तेरुक्तत्वात्। किंतु स सम्यग्धीमात्रलभ्योऽतोंऽशविकारपक्षयोरपि काण्डयोः साधनादिभेद इति भावः॥२५७॥

कार्यकारणयोर्भित्तौ कार्यकारणता कुतः॥
अभित्तौ च तयोरैक्यात्कार्यकारणता कुतः॥२५८॥

एवं जीवस्यांशत्वं विकारत्वं चोपेत्य काण्डयोः साधनादिभेदमुक्त्वा तस्यांशत्वाद्येव दुर्वचमिति मन्वानो ब्रूते। कार्येति। अत्र कार्यकारणग्रहणमंशांशिनोरुपलक्षणम्॥२१८॥

विज्ञानात्मविकारस्य कारणैक्यं विमुक्तता॥२५९॥

स्वतस्तस्य च संसिद्धेः कार्यता नोपपद्यते॥
कर्मातोऽनर्थकं मुक्तावेकदेशविकारयोः॥२६०॥

अभेदे दोषान्तरं वक्तुमुक्तं स्मारयति। विज्ञानेति। विज्ञप्तिरूपं ब्रह्म तद्विकारस्य तदंशस्य वा तदभेदमिच्छता कारणेनांशिना वा तदैक्यं मुक्तत्वमिष्टम्। तस्य स्वतःसिद्धस्यासाध्यत्वाद्द्वयोरपि पक्षयोर्मोक्षस्य कर्म न हेतुरिति भावः॥२१९॥२६०॥

अप्यनर्थाय कर्म स्यात्क्रियमाणं न मुक्तये॥
प्रतिकूलं विमुक्तेश्चक्रियमाणमसंशयम् ॥
कर्माऽऽरभेत तेनैतन्मुक्तौ कर्म निरर्थकम्॥२६१॥

न केवलमभेदे व्यर्थं कर्म किंत्वनर्थकरं चेत्यभिप्रेतं दोषान्तरमाह। अप्यनर्थायेति। सर्वमपि कर्म न मुक्त्यर्थमित्येव न किंतु तद्विपरीतानर्थसाधनं च स्यादित्यर्थः। तदेव प्रपञ्चयति। प्रतिकूलमिति। क्रियमाणं कर्म स्वर्गादि मुक्तिप्रतिकूलमप्रतिबन्धेनाऽऽ-

रमेत। नाभुक्तं क्षीयते कर्मेति स्मृतेः। अतो मोक्षं प्रति कर्म व्यर्थमनर्थकरं चेत्यर्थः॥२६१॥

विकारोऽत्यन्तनिर्भिन्नो147 यदा तु स्याद्विकारिणः॥
तदाऽपि विकृतेर्नाशो मुक्तिरित्यभिधीयते॥२६२॥

विकारस्य जीवस्य विकारिणो ब्रह्मणोऽत्यन्तभेदमधिकदोषविवक्षयाऽनुभाषते।विकार इति। तस्यात्यन्तभिन्नस्य स्वरूपावस्थाने विकारिब्रह्मैक्यायोगादैक्यार्थं विकारनाशो वाच्यस्तथा च जीवनाशो मुक्तिः स्यादिति दूषयति। तदेति॥२६२॥

अत्राप्यनर्थकं कर्म तत्फलासंभवत्वतः॥
कर्मेव ज्ञानमप्यत्र फलाभावादनर्थकम्॥२६३॥

अस्तु तन्नाशो मुक्तिरिति शाक्यमतमाशङ्क्याऽऽह। अत्रापीति। जीवरूपनाशो मुक्तिरिति पक्षेऽपि कर्मानर्थक्यं148 फल्यभावात्तत्फलाभावाच्चेत्यर्थः। कर्मानर्थक्येऽपि ज्ञानस्यार्थवत्त्वे मत्पक्षः सिध्यतीत्याशङ्क्याऽऽह। कर्मेति। अत्रेति जीवनाशपक्षोक्तिः। जीवनाशवादिनो ज्ञानकर्मानर्थक्ये निःश्रेयसार्थं शास्त्रारम्भासिद्धिरिति भावः॥२६३॥

नैवाविद्याकृतैवासौ वास्तवी यदि संसृतिः॥
स्वरूपनाशदोषः स्यादेकदेशेऽपि पूर्ववत्॥२६४॥

किंच ब्रह्मविकारस्य जीवस्य बन्धः स्वाभाविको वा स्यादविद्याकृतो वा तत्राऽऽद्यं प्रत्याह। नैवेति। यद्येषा संसृतिर्वास्तवी नासौ ब्रह्मविद्ययाऽपनुद्येताविद्याकृतत्वाभावान्न हि वस्तु विद्यापोद्यं वस्तुत्वादात्मवन्न च कर्माणि बन्धं नुदन्ति तेषां तद्धेतुत्वादतो ज्ञानकर्मानर्थक्यमित्यर्थः। जीवे ब्रह्मैकदेशेऽपि पूर्ववद्विकल्प्याऽऽद्ये दोषमाह। स्वरूपेति। ब्रह्मैकदेशे जीवे स्वीकृतेऽपि तदीयो बन्धो वस्तुत्वान्न नश्यति चेदनिर्मोक्षस्तनाशे तद्विशिष्टजीवनाशाद्विकारपक्षवदत्रापि ज्ञानाद्यानर्थक्यमित्यर्थः॥२६४॥

यदा त्वविद्ययाऽध्यस्तं संसारित्वं न वस्तुतः॥२६५॥

विकारेऽवयवे चैव तदा पूर्वोक्त एव तु॥
पक्ष निर्वहणीयः स्यादस्माभिरपि संमतः॥२६६॥

बन्धस्याऽऽविद्यत्वपक्षं पक्षद्वयेऽपि कक्षीकरोति। यदा त्विति। विकारत्वमंशत्वं बन्धो बद्धत्वमित्येतत्सर्वमाविद्यमेवाऽऽत्मनो मतद्वयेऽपि यदेष्टं तदा काण्डयोर्भिन्नमधिकार्यादीति पूर्वोक्तः पक्षो भवद्भिरपि निर्वाह्यः स्यादिति यावत्। यथा वयमुक्तपक्षनिर्वाहे यतामहे तथाऽन्येऽपि यतेरन्नित्याह। अस्माभिरिति॥२६१॥२६६॥

सर्ववादा149विरोधी च नातो विधिरिष्यते॥
तदा हि कल्पनाः सर्वा विकारावयवादिकाः॥

वृथैवेमा ह्यविधैव सर्वाः संपादयिष्यति॥२६७॥

न चैवं पक्षमिच्छतां लोकवेदविरोध इत्याह। सर्वेति। मोक्षवादिनः सर्वे सर्वंसंसारित्वादिकमाविद्यमिच्छन्तो ज्ञानान्मोक्षमातिष्ठन्तां तथाऽपि तव किं सिद्धं तदाह। नात इति। यतो ज्ञानादेव मोक्षोऽतो वेदान्तेषु न विधिसंभवो विधेयाभावान्न हि मोक्षस्तथा स्वर्गवत्फलत्वान्नापि ज्ञानमपुंस्तन्त्रत्वात्तस्माद्वेदान्ता वस्तुमात्रे पर्यवस्यन्तीत्यर्थः। ननु यदि ब्रह्मांशत्वं तद्विकारत्वं च त्यक्त्वा जीवस्याखण्डवस्तुमात्रत्वं तदा “पादोऽस्य सर्वा भूतानि**”** “ममैवांशो जीवलोके”अंशो नानाव्यपदेशात्” “सर्वंजनयति प्राणश्चेतोंऽशून्पुरुषः पृथक्” “सर्व एत आत्मानो व्युच्चरन्ति” इति वाक्यानां का गतिस्तत्राऽऽह। तदा हीति। यदा वेदान्तेषु विध्यभावस्तदा कल्पनाः सर्वा यथोक्ता व्यर्थाः सत्यो न युज्यन्ते। यदा ज्ञानान्मोक्षस्तदा पूर्वकल्पना वास्तव्यो न भवन्ति त्वत्पक्षे150 मोक्षानुपपत्तेरुक्तत्वात्किंत्वेताः सर्वा भवन्त्यविद्यामय्यस्ताश्च श्रुत्यादयो भेदाभावाभिधित्सया व्यपदिशन्तीति भावः॥२६७॥

पूर्णं निःश्रेयसं तस्मात्तदपूर्णमविद्यया॥२६८॥

आभासते मृषैवातो यथाभूतात्मविद्यया॥
प्रध्वस्तायामविद्यायां पूर्णमेवावशिष्यते151॥२६९॥

अथ यदतः परो दिवो ज्योतिरित्यादिश्रुतेर्देशान्तरगत्यायत्ता कर्मसाध्या मुक्तिरिति काण्डयोरधिकार्याद्यभेदो जीवस्य चांशत्वादि दुर्वारमित्याशङ्क्याऽऽह। पूर्णमितिपूर्णमेवावशिष्यते सत्यं ज्ञानमनन्तमित्यादिश्रुतेरव्यावृत्ताननुगतं वस्तु ब्रह्मगिरोच्यत इति वक्ष्यमाणत्वाच्च पूर्णं ब्रह्म, तदेव निःश्रेयसं, ब्रह्मविदाप्नोति परमित्यादिश्रुतेरतो न कर्मायत्ता मुक्तिः। अथ यदित्यादिवाक्यं तूपास्तिप्रकरणस्थं न देशान्तरगत्त्यायत्तां मुक्तिं वक्ति। तत्कुतो जीवस्यांशत्वादिसिद्धिरित्यर्थः। कथं तर्हि ब्रह्मणि परिच्छिन्नत्वधीरित्यत आह। तदपूर्णमिति। अथ ब्रह्मणः स्वरूपावस्थानमध्वस्तपरिच्छेदस्य ध्वस्तपरिच्छेदस्य वा नाऽऽद्यः संसारमोक्षयोरविशेषप्रसङ्गात्। द्वितीये स्वापमोक्षयोरविशेषापत्तिरत आह। अत इति। ध्वस्तपरिच्छेदस्य ब्रह्मणः स्वरूपावस्थानं मुक्तिः। स्वापादौ। तु कार्यध्वस्तावपि कारणाध्वस्तेर्न मुक्तितुल्यत्वमतो विद्यया ध्वस्तहेतुफलभेदं ब्रह्मैव निःश्रेयसमित्यर्थः॥२६८॥२६९॥

अनर्थको विधिस्तस्मात्सर्वो निःश्रेयसं प्रति॥
इत्येतन्न्यायतः सिद्धं यत्तु प्राक्चोदितं त्वया॥
आम्नायस्य क्रियार्थत्वादित्यत्राप्यभिधीयते॥२७०॥

उक्तविधमपि निःश्रेयसं विधिफलं स्यादिति चेन्नेत्याह। अनर्थक इति

यस्मात्पूर्णं ब्रह्म निःश्रेयसं तस्मात्तस्य चतुर्विधक्रियाफलविलक्षणत्वादिति यावत्। सर्वशब्देनोत्पत्तिविनियोगाधिकारप्रयोगविधिप्रकारा गृह्यन्ते। मुक्तितद्धेत्वोर्विध्यभावमुपसंहरति। इत्येतदिति। न्यायतः “फलभूते तु विज्ञान इत्याद्युक्तन्यायादिति यावत्। कार्यं विना नाधिकारीत्येतन्निरासेन वेदान्तानां न विधिशेषतेति स्वसिद्धान्तमुपसंहृत्योर्ध्वं चापि प्रवक्ष्यत इत्युक्तं व्यक्तीकर्तुं प्रत्युक्तमेव चोद्यमनु152वदति। यत्त्विति। अर्थवादाधिकरणस्य नोपनिषद्विषयत्वं भाष्यवार्तिकटीकासु तासामनुदाहृतेरित्याह। अत्रेति। प्रागपि परिहृतमेतदिति द्योतनायापीत्युक्तम्॥२७०॥

तत्राऽऽम्नायाभिधानस्य ह्याम्नायांशाभिधानतः॥
विध्युक्तीनां क्रियार्थत्वं सिद्धं हेतुतयोच्यते॥२७१॥

किंचाऽऽम्नायस्य क्रियार्थत्वादित्यादिसूत्रे किमाम्नायशब्दसामर्थ्याद्वेदान्तानां विधिशेषत्वं किंवा तद्गतातदर्थपदसामर्थ्यादिति विकल्प्याऽऽद्यं दूषयति। तत्रेति। तत्र सूत्रे ग्रामो दग्ध इतिवदाम्नायपदस्य तदेकदेशविधिमात्रविषयत्वान्न तत्सामर्थ्यादुपनिषदां विधिशेषतेत्यर्थः। क्रिया कथमनुष्ठीयेतेति तां वेदितुं समाम्नातारो वाक्यानि समामनेयुरिति भाय्यादावाम्नायशब्दस्य संकोचकाभावे153 कथमेकदेशविषयतेत्याशङ्क्याऽऽह।विधीति। चोदनासूत्रे विधिवाक्यानां क्रियार्थत्वं सिद्धं नाऽऽम्नायमात्रस्य चोदनाधर्मशब्दविरोधात्प्रक्रमभङ्गाच्च तदेवास्मिन्नधिकरणे वाक्यानामतदर्थानामानर्थक्ये हेतुत्वेनोच्यते। अतो युक्तमाम्नायशब्दस्य विधिमात्रविषयत्वमन्यथा क्रियार्थत्वहेतोर्भागासिद्धेः न च विधीनां क्रियार्थत्वमक्रियार्थानामानर्थक्ये व्यधिकरणत्वादहेतुश्चोदनानां कार्यार्थत्वात्तत्प्रकरणस्थानामपि तदर्थत्वं वाच्यम्। अन्यथा तेषामानर्थक्यात्तद्युक्तचोदनानामपि नार्थवत्त्वमिति हि पूर्वपक्षो विवक्षितः। तस्मादाम्नायपदस्य तदेकदेशविषयत्वान्न तद्वशाद्वेदान्तानां विधिशेषतेति भावः॥२७१॥

क्रियामकरणस्थानां विधिशेषात्मनां सताम्॥
वचसामक्रियार्थानामानर्थक्याय तद्वचः॥२७२॥

द्वितीयं प्रत्याह। क्रियेति। कर्मप्रकरणस्थानां दैवगत्या क्रियार्थानां मुखतस्तथाप्रथाविरहिणां शब्दानामेवातदर्थशब्देनाभिधानात्तेषां फलवदर्थवैधुर्योक्तिद्वारा तद्युक्तचोदनाभागस्याप्रामाण्योक्त्यर्थत्वादस्य सूत्रस्य तद्गतातदर्थपदसामर्थ्यादपि नोपनिषदां विधिशेषतेत्यर्थः॥२७२॥

न तूपनिषदां न्याय्यं पार्थगर्थ्यस्य संभवात्॥
पूर्वोक्तेनैव न्यायेन नातस्तद्विधिशेषता॥२७३॥

अक्रियार्थत्वाविशेषात्तासामपि सोऽरोदीदित्यादिवदानर्थक्यं किमिति न सूत्रितमित्या-

शङ्क्याऽऽह। न त्विति। तासामक्रियार्थत्वेऽप्यानर्थक्यमन्याय्यमित्यत्र हेतुमाह। पार्थगर्थ्यस्येति। पृथगर्थस्य भावः पार्थगर्थ्यं तस्य संभवादुपनिषत्सु नाऽऽनर्थक्यमिति यावत्। हेत्वसिद्धिं धुनीते। पूर्वेति। श्रौतत्वाद्विद्वत्प्रत्यक्षत्वाच्च वाक्यीयं फलं दुरपह्नवमिति न्यायः। पूर्वपक्षसूत्रमन्यथाऽपि यतो निर्वहत्यतस्तेनोपनिषदां न विधिनिष्ठतेत्युपसंहरति। नात इति॥२७३॥

विधिना त्वेकवाक्यत्वादिति यच्चापि चोदितम्154
तेषामेव तदप्यस्तु तदानर्थक्यचोदनात्॥२७४॥

ननु विधिनेति सिद्धान्तसूत्रादुपनिषदां विधिशेषत्वं यद्यपि क्रिया नावगम्यते क्रियासंबद्धं वा किंचित्तथाऽपि विध्युद्देशेनैकवाक्यत्वात्प्रमाणमिति भाष्यान्नेत्याह।विधिना त्विति। येषां क्रियाप्रकरणस्थानां वाक्यानामक्रियार्थत्वेनाऽऽनर्थक्यं शङ्कितं तेषामेव विध्यपेक्षितदेवतादिस्तुत्यर्थेन विधिनैकवाक्यत्वादर्थवत्त्वमु155क्तम्। प्रश्नोत्तरयोरैकार्ध्याभावे सूत्रकृतोऽनाप्तत्वप्रसङ्गात्। भाष्यकारश्च वायुर्वै क्षेपिष्ठा देवतेत्याद्यर्थवादानांवायव्यं श्वेतमालभेतेत्यादिविधिनैकवाक्यतां ब्रुवन्प्रकरणान्तरवर्तिनो वेदान्तान्व्यावर्तयति। एवमिमानि सर्वाण्येव पदानि कंचिदर्थं स्तुवन्ति निन्दन्ति वाऽतः प्रमाणमेवंजातीयकानि वायुर्वै क्षेपिष्ठा देवतेत्येवमादीनीति वदन्वेदान्तानप्युपलक्षयतीति चेन्मैवमित्याह।तदिति। एव156मिमान्येवंजातीयकानीति च प्रकृततज्जातीयपरामर्शाद्वायुर्वै क्षेपिष्ठा देवतेत्यादीनि157 च वाक्यशेषविरोधादिति भावः॥२७४॥

न तु वेदान्तवचसां दृष्टार्थत्वेन हेतुना॥
तद्बुद्धेः पृथगर्थत्वमुक्तमेवातिविस्तरात्॥२७५॥

स्वर्गादिफलवद्विधिवाक्यसंनिधानादतत्फलानां वेदान्तानामपि तच्छेषत्वं फलवत्संनिधावफलं तदङ्गमिति न्यायादित्येवं पार्थगर्थ्यस्य158 संभवादित्युक्तं प्रस्मृत्य प्रत्यवतिष्ठमानं प्रत्याह। न त्विति। फलविकलानां फलवत्संनिध्याम्नातानां तच्छेषत्वेऽपि वेदान्तानां प्रकरणान्तरस्थानां दृष्टफलानां दृष्टे सत्यदृष्टकल्पना न युक्तेति न्यायाददृष्टस्वर्गादिविमुखानां कुतो विधिशेषतेत्यर्थः। वेदान्तानां न दृष्टार्थत्वम्। दृष्टतत्त्वस्यापि यथापूर्वं संसारदृष्टेरित्याशङ्क्याऽऽह। तद्बुद्धेरिति। वाक्यार्थज्ञानस्य कर्मफलाद्विलक्षणफलत्वं नाभ्युदयस्येत्यादिना प्रपश्चितम्। तन्न वेदान्तानां पार्थगर्थ्ये विवादः पूर्ववद्बन्धधीस्तु बाधितानुवृत्तिरित्यर्थः॥२७५॥

अन्यार्थानुपपत्तेश्च वेदान्तवचसां तथा॥
अर्थैकत्वगतौ सत्यां वाक्यभेदप्रकल्पना॥
न न्याय्या सेति दृष्टत्वाद्देवस्य त्वादिवाक्यवत्॥२७६॥

किंच प्रयाजादीनां दर्शपूर्णमासफलोपकारित्वात्तद्वाक्यानां तद्वाक्यशेषत्वं युक्तम्। वेदान्तवेद्यात्मवस्तुनस्तु कर्मानुपकारित्वान्न तेषां तद्विधिशेषतेत्याह। अन्यार्थेति। वेदान्तानामन्यार्थत्वं कर्मोपकारकार्थवत्त्वं तस्यानुपपत्तेस्तथाच न कर्मविधिशेषता तेषामित्यर्थः। एवं काण्डद्वयस्य भिन्नवाक्यत्वे साधिते संभवत्येकवाक्यत्वे वाक्यभेदश्च नेष्यत इति न्यायेन विधिशेषतयेत्यादिनोक्तमाशङ्कते। अर्थेति। प्रयाजदर्शादिवाक्ययोरिव काण्डयोरेकफलत्वेनैकवाक्यत्वसिद्धौ न फलभेदेन वाक्यभेदकल्पना युक्तेत्यर्थः। एकार्थत्वेनैकवाक्यत्वे दृष्टान्तमाह। इति दृष्टत्वादिति। अयं भावः– “अर्थैकत्वादेकं वाक्यं साकाङ्क्षं चेद्विभागे स्यात्” [पू०मी० २।१।४२] यजुषां परिमाणं ज्ञातुमशक्यं शक्यं वेति संशये छन्दोबलादृचां छान्दसोपदेशाच्च साम्नां परिमाणस्य सुज्ञातत्वाद्यजुषां च प्रश्लेषपाठात्तन्निर्णयहेत्वभावान्न शक्यं तत्परिमाणं ज्ञातुमिति पूर्वपक्षे सत्येकफलप्रतिपादकं विभज्यमाने साकाङ्कं पदजातमेकं वाक्यं तच्चैकं यजुरिति शक्यं तत्परिमाणं ज्ञातुमिति द्वितीये स्थितम्। तदनेन न्यायेनदेवस्य त्वा सवितुरित्यादिमन्त्रस्थपदजातस्य निर्वपामीत्यस्माद्विभागे साकाङ्क्षस्य तेन सहैकफलप्रतिपादकस्यैकवाक्यत्वमिति दृष्टत्वाद्वेदान्तानामपि कर्मकाण्डेनैकार्थतयैक-वाक्यत्वसंभवे वाक्यभेदायोगादधिकार्याद्यभेद इति॥२७६॥

तथैव पृथगर्थत्वगतौ भिन्नवचस्त्वतः॥
इषे त्वादिषु दृष्टत्वान्न न्याय्यैकार्थकल्पना॥२७७॥

काण्डयोरेकवाक्यत्वं प्रत्यादिशति। तथैवेति। अर्थैकत्वे वाक्यानेकत्वं यथा न युक्तं तथा भिन्नार्थत्वदृष्टौ भिन्नवाक्यत्वदृष्टेरेकार्थत्वे-नैकवाक्यत्वकल्पना न युक्तेत्यर्थः। अर्थभेदाद्वाक्यभेदे दृष्टान्तमाह। इषे त्वादिष्वितिअस्यार्थः— स्थितं भेदलक्षणे “समेषु वाक्यभेदः स्यात्” इषे त्वोर्जे त्वादिष्वेकमनेकं वा यजुरिति संशये प्रश्लेषपाठानुग्रहादिषे त्वोर्जे त्वेत्यनयोरन्योन्यसंनिहितयोरेव शाखाछेदने चानुमार्जने च विनियोगादेकार्थतया वाक्यैक्यादेकं यजुरिति पूर्वपक्षयित्वेषे त्वेति शाखामाच्छिनत्त्यूर्जे त्वेत्यनुमार्ष्टीति च्छेदनानुमार्जनयोर्भेदेन विनियोगादर्थभेदभानात्प्रश्लेषपाठस्य चादृष्टार्थत्वेनापि संभवात्तद्बलाद्विधिवाक्यस्थशब्दस्य प्रतीकग्रहणेन लक्षणानुपपत्तेर्वाक्यभेदस्य न्याय्यत्वादनेकं यजुरिति राद्धान्तितम्। तदेवामिषे त्वेत्यादावर्थभेदे वाक्यभेदस्य दृष्टत्वात्काण्डयोरपि भिन्नफलयोर्वाक्यभेदस्य युक्तत्वान्नाधिकार्याद्यैक्यमिति॥२७७॥

ज्ञानकाण्डार्थशेषत्वं कर्मकाण्डस्य यत्पुनः॥
विनियोजकहेत्वेतत्तयोर्वाक्यैकवाक्यतः॥२७८॥

ननु कर्मवाक्यानां ज्ञानवाक्यशेषतया तदेकवाक्यत्वं सिद्धान्तेऽपि संमतमित्याशङ्क्याऽऽह। ज्ञानेति। यत्पुनः कर्मकाण्डस्य ज्ञानकाण्डार्थे ज्ञाने शुद्धिद्वारा शेषत्वं

तद्विनियोजकविविदिषावाक्यप्रमाणकं तयोर्भिन्नार्थतया भिन्नवाक्ययोरेवोपकार्योपकारकत्वेनैकवाक्यत्वाभ्युपगमादित्यक्षरार्थः। मन्त्रार्थवादानां पृथगर्थशून्यानां विधिनैकवाक्यत्ववत्कर्मकाण्डस्य ज्ञानकाण्डशेषत्वेन न तदेकवाक्यत्वं किंतु द्रव्यार्जनविधेः क्रतुविधिभिर्वाक्यैकवाक्यत्ववद्विविदिषावाक्येन कर्मणां ज्ञानहेतुतया विनियोगात्काण्डयोर्वाक्यैकवाक्यत्वमतो रागप्राप्तद्रव्यवद्वि-धिप्राप्तस्यापि तस्य क्रतूपकारित्वाद्द्रव्यार्जनक्रतुविध्योरिव तयोर्वाक्यैक्येऽपि साधनादि भिन्नमिति भावः॥२७८॥

न्यायेन वक्ष्यमाणेन भूयोऽप्येतत्प्रवक्ष्यते॥२७९॥

पार्थगर्थ्यमतः सिद्धमपास्तविधिलक्षणम्॥
सर्वोपनिषदां चाऽऽत्मज्ञानं कैवल्यसाधनम्॥२८०॥

विविदिषावाक्यस्य कुतो विनियोजकत्वं तत्राऽऽह। न्यायेनेति। विविदिषावाक्यस्य विनियोजकत्वमिति शेषः। फलवतो वाक्यस्य फलवता वाक्यान्तरेण वाक्यैकवाक्यत्वं द्रव्यार्जनक्रतुविध्योस्तथात्वादुपनिषदां तु फलवत्त्वमस्माकमसिद्धमित्याशङ्क्याऽऽह।भूयोऽपीति। उक्तं तासां फलवत्त्वं वक्ष्यते च तन्नामूषां फलवत्त्वासिद्धिरित्यर्थः। उपनिषदां पृथगर्थवत्त्वमुपसंहरति। पार्थगर्थ्यमिति। उक्तवक्ष्यमाणन्यायोऽतःशब्देनोच्यते। तमेवार्थं स्पष्टयति। अपास्तेति॥२७९॥२८०॥

निःशेषवाङ्मनःकायप्रवृत्त्युपरमात्मिका॥
तन्निष्ठा चेह विज्ञेया यथोक्तन्यायवर्त्मना॥२८१॥

अथोक्तं ज्ञानमुपनिषद्भ्यो न सिध्यति। अधीतोपनिषदामपि केषां चित्तदनुपलम्भात्तस्मादुक्तमुपनिषत्फलमसंभावितमिति तत्राऽऽह। निःशेषेति। तस्य ज्ञानस्य निष्ठा श्रवणाद्या सा च स्वाभाविकाशेषव्यापारोपरमरूपा प्रकृते ज्ञाने साधनत्वेन शास्त्रादन्वयव्यतिरेकाभ्यां चावगन्तव्या तथाच यस्य शमादिसहितं श्रवणादि तस्यैवोपनिषद्भ्यो यथोक्तं ज्ञानं नेतरेषामधीतोपनिषदामपीत्यर्थः। शान्तो दान्त इत्यत्रोक्तं स्मारयति।यथोक्तेति॥२८९॥

अधिकारोऽपि तस्यां च सिद्धोऽशेषक्रियात्यजः॥
जिज्ञासोरेव, कर्तुस्तु न सिषाधयिषोः सदा॥२८२॥

ननु श्रवणादावधिकारिणा भाव्यमन्यथा तदनिष्पत्तेर्नियोगाधीनश्चाधिकाराधिगमः स च भावार्थाविषयस्तत्कथं ज्ञानहेतोः श्रवणादेरशेषव्यापारोपरमरूपता तत्राऽऽह। अधिकारोऽपीति। शमादिवाक्यादिति शेषः। नियोगं विनेति चार्थः। ज्ञाननिष्ठायां संन्यासी चेदधिकारी तस्य किंनिमित्तस्तत्राधिकारस्तत्राऽऽह। जिज्ञासोरिति। ज्ञानेच्छावतो ज्ञानसाधनेष्वधिकारो न कर्तुः सदा चिकीर्षोर्न च संन्यासिनोऽधिकारो नियोगकृतो विवेकादिपूर्वकज्ञानेच्छाकृतत्वात्कर्मणि कर्तुरधिकारो नियोगनिमित्त इति भावः॥२८२॥

ब्रह्मात्मतत्त्वव्युत्पत्तिमात्रेणा159प्यधिकारिता॥
भवत्येवात्र जिज्ञासोरठज्ञस्यापि मुमुक्षुतः॥२८३॥

नन्वज्ञातब्रह्मभावो वा तज्ज्ञानहेतुष्वधिक्रियते ज्ञाततद्भावो वा नाऽऽद्यस्तस्य तज्जिज्ञासायोगाद्विशिष्टधियो विशेषणधीपूर्वकत्वान्न द्वितीयस्तस्य जिज्ञासोपरमादतोऽधिकार्यभावान्न श्रवणादि कर्तव्यं तत्राऽऽह। ब्रह्मेति। मुमुक्षोस्तद्धेतुमिच्छतोऽधीतस्वाध्यायस्य ज्ञातपदतदर्थसंगतेर्वेदान्तेष्वापातनं ज्ञानं ब्रह्मात्मगोचरं विचारप्रयोजकं व्युत्पत्तिशब्दितमुत्पद्यते। तन्मात्रेणापि श्रवणादावधिकारिता सिध्यत्यतोऽसाक्षात्कारवतोऽपि यथोक्ताधिकारिणस्तत्कर्तव्यत्वसिद्धेः सिद्धं भिन्नमधिकार्यादिकाण्डयोरित्यर्थः॥२८३॥

मैवं प्रक्रमसंहारपर्यालोचनया पुरा॥
वेदस्यैकार्थ्य160तात्पर्यमेकवाक्यतयोदितम्॥२८४॥

उक्तमधिकार्यादिभेदं विधान्तरेणाऽऽक्षिपति। मैवमिति। अग्निमीलेपुरोहितम्। इषे त्वोर्जे त्वा। अग्न आयाहीत्यादेरुपक्रमस्य यावज्जीवमग्निहोत्रं जुहुयात्कुर्वन्नेवेह कर्माणि कुटुम्बे शुचौ देशे स्वाध्यायमधीयान इत्यादेरुपसंहारस्य चाऽऽलोचनया वेदस्य कार्यैकार्थत्वं निश्चित्यैकवाक्यताऽधिगता। तथाच काण्डयोर्यत्पुरोक्तमधिकार्यादि भिन्नमिति तन्मैवमित्यर्थः। अथ वाऽर्थैकत्व-गतावित्युक्तं चोद्यं सोपस्कारमिहोपस्थाप्यते तत्र च व्यक्तैवाक्षरयोजना॥२८४॥

तेन निःशेषवेदोक्तकारिणोऽत्राधिकारिता॥
सिद्धे ह्यनेकवाक्यत्वे कल्प्या भिन्नाधिकारिता॥२८५॥

काण्डयोरेकवाक्यत्वेऽपि भिन्नाधिकारित्वमुक्तमित्याशङ्क्याऽऽह। तेनेति। एकवाक्यत्वेन हेतुना दर्वीहोममारभ्य यावत्सत्रं कर्मानुष्ठितवतो ज्ञानेऽधिकारिता तन्निःशेषकर्मानुष्ठानानन्तरं ज्ञाननियोगमनुतिष्ठतो मुक्तिरित्येकाधिकारित्वं काण्डयोरित्यर्थः। एकवाक्यत्वादेकाधिकारित्वमुक्त्वा विपक्षे दोषमाह। सिद्धे हीति। भिन्नाधिकारित्वे काण्डयोरेकवाक्यत्वासिद्धिरित्यर्थः॥२८५॥

मैवं भिन्नैकवाक्यत्वेप्रागस्माभिः समर्थिते॥
ततश्च भवदुक्तस्य चोद्यस्येह न संभवः॥२८६॥

काण्डयोरेकार्थयोरेकवाक्यत्वादेकाधिकारित्वमित्येतन्निरस्यति। मैवमिति। स्वतन्त्रफलावसितव्यापारयोरपि काण्डयोरर्थ-द्वारोपकार्योपकारकत्वमात्रेण द्रव्यार्जनक्रतुविध्योरिव भिन्नाधिकारयोरेवैकवाक्यत्वं ज्ञानकाण्डार्थशेषत्वमित्यादिनोक्तमतो नानयोरेकार्थत्वेनैकवाक्यतेति कथमेकाधिकारितेत्यर्थः॥२८६॥

नापि निःशेषवेदार्थमनुष्ठातुं क्षमो नरः॥
पुमायुषाऽपि येन स्यादात्मज्ञानेऽधिकारिता॥२८७॥

प्रक्रमसंहारौ तु कर्मैकार्थौन व्यक्तावित्युपेक्षितौ। तत्र तत्र वाक्यभेदेन ज्ञानार्थयोरपि तयोर्भावात्। यत्तु वेदोक्तसर्वकर्मकारिणो ज्ञानाधिकारितेति तत्राऽऽह। नापीति। वर्षशतेनापि सर्वकर्मानुष्ठानासंभवेन ज्ञानाधिकार्यसिद्धेस्तन्नियोगो निरधिकारः स्यादिति फलितमाह। येनेति॥२८७॥

संपदां चार्थवादत्वं तेन वेदान्तगोचरे॥
ज्ञानेऽधिकारिणोऽभावात्प्रामाण्यं क्षिप्यते स्वतः॥२८८॥

किंच काण्डयोरेकाधिकारित्वे काण्डद्वयं स्वर्गादिकामस्य वा ज्ञानकामस्य वा मानं नाऽऽद्यइत्याह। संपदां चेति। यागादीनां ज्ञानशेषत्वात्तत्फलानां स्वर्गादीनामविवक्षितत्वात्तत्तत्कामाधिकार्ययोगान्न तस्य प्रमापकं काण्डद्वयमित्यर्थः। न द्वितीय इत्याह। तेनेति। एकस्य सर्वकर्मानुष्ठानायोगेनोक्तहेतुना वाक्यजैक्यज्ञानेऽधिकार्यभावान्न तस्य काण्डद्वयं प्रमाणमतो यत्तस्य स्वतःप्रामाण्यं तद्भज्येतेति चोदनासूत्रविरोधइत्यर्थः॥२८८॥

किंच मानादविज्ञाता विमुक्तिः काम्यते न च॥
ज्ञातायां स्वात्म161रूपत्वात्सुतरां नास्ति कामना॥२८९॥

इतश्च ज्ञानाधिकारिणं प्रति न तत्प्रामाण्यमित्याह। किं चेति। ज्ञानाधिकारिणो मोक्षकामना विशेषणं सा चाज्ञाते मोक्षे वा स्याज्ज्ञाते वा नाऽऽद्य इत्याह। मानादिति। अनुभूते कामनेति स्थितेरित्यर्थः। द्वितीयं प्रत्याह। ज्ञातायामिति। मुक्तौ ज्ञातायां नास्ति कामनेति संबन्धः। सा किमनात्मत्वेनाऽऽत्मत्वेन वा ज्ञायते नाऽऽद्यो मुक्तेरनात्मत्वधियो भ्रान्तित्वात्। द्वितीयं निराह। स्वात्मेति। आत्मत्वेन ज्ञाता मुक्तिराप्तत्वान्न कामनामर्हत्यप्राप्ते स्मरणविपरिवर्तिनि कामनासंभवादिति भावः। प्राप्ते त्वस्या निवृत्तिरेवानुभवा-नुसारिणीत्यतिशयमाह। सुतरामिति। अतोऽधिकारिविशेषणस्य मोक्षकामनायाः परपक्षे दुःसाधत्वाद्विशिष्टज्ञानाधिकार्यभावान्न वेदप्रामाण्यमिति समुदायार्थः॥२८९॥

न युक्तं कामना मुक्तौ पुंसां नास्तीति भाषितुम्॥
देशकालानवच्छिन्नसुखाद्यर्थित्वदर्शनात्॥२९०॥

ननु तवापि मोक्षकामना ज्ञानाधिकारिविशेषणं सा चाज्ञाते ज्ञाते वा मोक्षे त्वदुक्तरीत्या न युक्तेति कुतो वेदान्तप्रामाण्यं तत्राऽऽह। न युक्तमिति। तत्र हेतुः।देशेति। सुखं मे स्याद्दुःखं मा भूदिति सर्वप्राणभृतां प्रार्थनाप्रतीतेस्तदनुसारेणानवच्छि-

न्नानन्दाशेषानर्थोच्छेदात्मनि मुक्ताविच्छासंभवात्तन्न कामना नेति मां प्रति युक्तं वक्तुम्। न खल्वात्मनो ब्रह्मत्वलक्षणा मुक्तिरज्ञाता स्वप्रकाशत्वान्नापि ज्ञानोदयात्प्राङ्मानतो ज्ञाता तस्या मानान्तराविषयत्वादतः स्वरूपेण ज्ञाते मानतश्चाज्ञाते मोक्षे मत्पक्षे कामनासंभवाद्विशिष्टज्ञानाधिकारिसिद्धेर्न वेदान्ताप्रामाण्यं न च विरोधात्तं प्रत्येव कर्मकाण्डप्रामाण्यमिति भावः॥२९०॥

किंच ज्ञानमदृष्टार्थमग्निहोत्रादिवद्यदि॥
ततोऽधिकारिचिन्ता स्यात्कृतेऽप्यफलशङ्क्या॥२९१॥

इतश्चास्मन्मते ज्ञानाधिकारिलाभान्न तदप्रामाण्यमित्याह। किंचेति। त्वन्मते ज्ञानस्याग्निहोत्रवददृष्टार्थत्वात्तस्मिन्कृतेऽपि फलं स्यान्न वेति संशयादनिश्चिताधिकारः पुमान्न प्रवर्तेत। अधिकारनिश्चयश्च मोक्षकामनामपेक्षते। सा च तस्मिञ्ज्ञातेऽज्ञाते162वाऽयुक्तेति युक्तस्त्वां प्रति ज्ञानाधिकार्यभावपर्यनुयोगः। अस्मन्मते तु नादृष्टार्थं ज्ञान मन्वयव्यतिरेकसिद्धफलवत्तया कृप्यादिवद्दृष्टफलत्वस्येष्टत्वादतः शुक्त्यादिज्ञानवदात्मज्ञानेऽपि फलसत्त्वं निश्चित्य तत्कामस्याधिकारसिद्धेस्तद्विचारस्यानवसरत्वादधिकारिणि सुलभे प्रमापका वेदान्ता भवन्ति प्रमाणमित्यर्थः॥२९१॥

कामिनाऽप्यग्निहोत्रादि शूद्रेणानधिकारिणा॥
कृतमप्यफलं तेन यत्नात्तत्र निरूप्यते॥२९२॥

ज्ञाने चेन्नाधिकारिचिन्ता हन्त वेदोक्तसाधनत्वाविशेषादग्निहोत्रेऽपि नासौ चिन्त्येत। तथाच सर्वमधिकारिनिरूपणमसत्स्यात्। न चाग्निहोत्रादेरननुष्ठानापत्तिः स्वर्गदिकामिनस्तत्सिद्धेरित्याशङ्क्याऽऽह। कामिनेति। स्वर्गादिकामिनाऽपि शूद्रेणानधिकारि-णाऽनुष्ठितस्याग्निहोत्रादेः फलादृष्टेरदृष्टफलेष्वधिकारचिन्तां विना प्रेक्षावतां प्रवृत्तिर्दुर्घटेति तत्र तच्चिन्ता युक्तेत्यर्थः॥२९२॥

अविद्याघस्मरज्ञानजन्ममात्रावलम्बिनः॥
पुमर्थस्याधिकं शास्त्रात्किंचिदत्र तु नार्थ्यते॥२९३॥

आत्मज्ञानमप्यदृष्टार्थं वेदोक्तसाधनत्वादग्निहोत्रवदतस्तत्राप्यधिकारचिन्ता स्यादित्याशङ्क्य परोक्षमपरोक्षं वा ज्ञानमदृष्टार्थमिति विकल्प्याऽऽधे सिद्धसाध्यत्वं मत्वा द्वितीयं प्रत्याह। अविद्येति। शास्त्रादविद्याध्वंसिज्ञानलाभमात्राधीनपुमर्थस्य सद्भावे नाधिकमदृष्टं फलमर्थ्यते। अतो ज्ञाने कुतोऽधिकारचिन्तेत्यर्थः॥ २९३ ॥

कुतस्तज्ज्ञानमिति चेत्तद्धि बन्धपरिक्षयात्॥
असावपि च भूतो वा भावी वा वर्ततेऽथवा॥२९४॥

शास्त्रादुक्तं ज्ञानं नोत्पद्यते श्रुतशास्त्रस्याप्यनुपलम्भान्न च हेत्वन्तरं तदुत्पादकमि-

त्याक्षिपति। कुत इति। क्षीणपापस्य श्रवणादिवशात्तत्त्वज्ञानमिति समाधत्ते।तद्धीति। अथायं प्रतिबन्धो भूतो भावी भवन्वात्, नाऽऽद्यस्तस्य वर्तमानज्ञानोदयाप्रतिबन्धकत्वादसतस्तदयोगात्। न द्वितीयः। तस्याप्राप्तस्य प्रतिबन्धकत्वानुपपत्तेः। न तृतीयोऽनुष्ठितज्ञानहेतोर्वर्तमानप्रतिबन्धसत्त्वे मानाभावादिति चोदयति। असाविति॥२९४॥

अधीतवेदवेदार्थोऽप्यत एव न मुच्यते॥
हिरण्यनिधिदृष्टान्तादिदमेव च दर्शितम्॥२९५॥

ब्रह्मज्ञानोदयप्रतिबन्धे वर्तमाने मानं वदन्नुत्तरमाह। अधीतेति। सत्यामपि सामग्र्यां क्वचिज्ज्ञानाभावो दृश्यमानस्तस्मादेव प्रस्तुतात्प्रतिबन्धादित्यैहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनादितिन्यायात्तत्सिद्धिरित्यर्थः। यथोक्तप्रतिबन्धके पूर्वोपार्जितपापविशेषे प्रमाणमर्थापत्तिमुक्त्वा श्रुतिमाह। हिरण्येति। कृतश्रवणादेर्ज्ञाने प्रतिबन्धकं पापमिदमोच्यते। तद्यथाऽपि हिरण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरि संचरन्तो न विन्देयुरेवमेवेमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्तीति श्रुतिरुक्तदृष्टान्तात्प्रतिबन्धास्तित्वं दर्शयतीत्यर्थः॥२९५॥

भिद्यते हृदयग्रन्थिश्छद्यन्ते सर्वसंशयाः॥
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे॥२९६॥

एवं ज्ञानस्य दृष्टफलत्वादग्निहोत्रवदधिकारचिन्ता तस्मिन्नावतरतीति वदता तस्य दृष्टफलत्वे विद्वत्प्रत्यक्षसत्त्वमुक्तम्। संप्रति तत्रैव श्रुतिमाह। भिद्यत इति। परो हिरण्यगर्भः सोऽवरो यस्मात्परमव्याकृतं तद्वाऽवरं यस्माद्बिम्बरूपेण वा परोऽवरश्च प्रतिबिम्बात्मना तस्मिन्साक्षात्कृते सतीत्यर्थः॥२९६॥

इत्यादिनाऽपि विज्ञानं नादृष्टार्थमितीरितम्॥
तथा स ब्रह्मणः केन स्याद्येनेति प्रदर्शितम्॥२९७॥

उक्तश्रुतितात्पर्यमाह। इत्यादिनेति। आदिपदेन तरति शोकमात्मविज्ज्ञानाग्निःसर्वकर्माणीत्यादि गृह्यते। पूर्वत्र सूचितं विद्वत्प्रत्यक्षमपिना समुच्चिनोति। ज्ञानस्य दृष्टार्थत्वे वाक्यान्तरमाह। तथेति। स विद्वानिमामवस्थां प्राप्तो मुख्यो ब्राह्मणो भवतीति विद्याफलोक्तिः। स च केन लक्षणेन स्यादिति पृच्छति। केनेति। येन लक्षणेन लक्षितः स्यात्तेनेदृश एव ज्ञाननिष्ठः सन्नेकरूपश्चिद्धातुरिति साध्यफलराहित्येन दृष्टफलत्वं ज्ञानस्याऽऽचष्टे येन स्यात्तेनेदृश एवेति। अनेन वाक्येन भिद्यते हृदयग्रन्थिरितिवज्ज्ञानस्य दर्शितं दृष्टफलत्वमित्याह। इति प्रदर्शितमिति॥२९७॥

आत्यन्तिकसुखानर्थप्राप्तिविच्छेदकाङ्क्षिणः॥
प्रीत्युत्कर्षोऽपि लोकेऽस्मिन्दृष्टः स163किं न काम्यते॥२९८॥

आत्मज्ञानस्य दृष्टार्थत्वेऽपि तस्मिन्मोक्षकामस्याधिकारोऽनिश्चितो निश्चितो वाऽनिश्चितश्चेत्स्वर्गादिकामस्यापि ज्ञाने प्रवृत्तिः स्यान्निश्चितश्चेद्येन न्यायेन त्वत्पक्षे तस्य तन्निश्चयस्तेनैवास्मन्मतेऽपि तन्निश्चयात्तं प्रति काण्डद्वयप्रामाण्यमविरुद्धमिति चोदयति।आत्यन्तिकेति। आत्यन्तिकी सुखप्राप्तिस्तादृग्दुःखोच्छेदश्च तदुभयाकाङ्क्षावतः प्रीत्युत्कर्षो योऽपि लोके दृष्टः स मोक्षः। न हि प्रार्थ्यमानसुखाप्त्यनर्थहानियां मुक्तिरर्थान्तरमतः सुखं मे स्यादित्यादिप्रार्थनायास्त्वत्पक्षवदस्मत्पक्षेऽपि मोक्षविषयत्वात्त-त्कामस्याधिकारिणः संभवात्तं प्रति काण्डद्वयप्रामाण्यसिद्धिरिति भावः॥२९८॥

दृष्टादृष्टार्थसंबन्धिमीत्युत्कर्षाविशेषतः॥
नाऽऽनन्दादन्यतो मुख्यात्पण्डितः पर्यवस्यति॥२९९॥

ननु प्रीत्युत्कर्षो न मोक्षः किंतु स्वर्गस्तत्कथं तत्कामो मोक्षकामः स्यात्कथं वा तं प्रति काण्डद्वयप्रामाण्यं तत्राऽऽह। दृष्टेति। पुत्रादिना दृष्टहेतुना यागादिना वाऽदृष्टहेतुना संबद्ध164प्रीत्युत्कर्षेणाविशेषितत्वात्सुखं मे स्यादिति प्रार्थ्यमानः प्रीत्युत्कर्षो निर्विशेषोऽतो नायं स्वर्गस्तस्य सविशेषत्वादित्यालोचयन्प्रेक्षावान्मुख्यानन्दादपवर्गादन्यत्र प्रार्थनाविषये न पर्यवस्यति किंतु मुख्यमानन्दमपवर्गमेव सुखं मे स्यादित्यर्थयते न स्वर्गमित्यर्थः॥२९९॥

किंतु साधनसाध्यत्वादनित्यं कर्मजं सुखम्॥
अभिव्यञ्जकतन्त्रस्तु मोक्षस्तेनाक्षयो मतः॥३००॥

प्रेक्षावत्प्रार्थनायाः स्वर्गाद्यविषयत्वे युक्त्यन्तरमाह। किंत्विति। तुशब्दश्चार्थः। कर्मजं सुखं साध्यत्वात्कृष्यादिफलवदनित्यमित्य-नुमानान्न प्रेक्षावत्प्रार्थना मोक्षादन्यत्र पर्यवस्यतीत्यर्थः। साध्यत्वहेतोर्मोक्षे व्यभिचारमाशङ्क्याऽऽह। अभिव्यञ्जकेति। मोक्षो न साध्यः किंत्वभिव्यङ्ग्यस्तथा चाभिव्यञ्जकतन्त्रो न साधनाधीनो नित्योऽतस्तत्र न व्यभिचार इत्यर्थः॥३००॥

संस्कारमात्रकारित्वं सर्वेषामपि कर्मणाम्॥
ज्ञानकाण्डे165 प्रवेशो वा तेषां नार्थान्तरं ततः॥३०१॥

ननु काण्डयोर्भिन्नवाक्यत्वमेकवाक्यत्वं वा नाऽऽद्यो मिथोविरुद्धार्थतया द्वयोरमानत्वापत्तेर्द्वितीये ज्ञानकाण्डार्थस्य कर्मकाण्डार्था-नुपकारकत्वात्तस्यैवान्यशेषतया तदेकवाक्यत्वे वेदोक्ताशेषक्रियानुष्ठानवतो ज्ञानाधिकारोऽतो नापि निःशेषवेदार्थमनुष्ठातुं क्षमोनर इत्युक्तदोषापत्तिस्तत्राऽऽह। संस्कारेति। कर्मणां पुरुषसंस्कारद्वारोपकारकत्वा-

त्तत्काण्डस्येतरशेषत्वं न च तत्रोक्तो दोषो जन्मान्तरानुष्ठितानामपि तेषां संस्कारद्वाराऽऽत्मज्ञानाधिकारहेतुत्वस्वीकारान्न च तेषामदृष्टत्वादधिकारानिश्चायकत्वं तादृशानामेव कर्मणां कार्यकरत्वादित्यर्थः। कर्मणां संस्कारार्थत्वेन ज्ञानानुप्रवेशे सिद्धान्तादविशेषमाशङ्क्यापरितोषात्पक्षान्तरमाह। ज्ञानेति। तस्मिन्कर्मणां प्रवेशो नाम कीदृशस्तत्राऽऽह।तेषामिति। ततो ज्ञानफलान्मुक्तेरर्थान्तरं तेषां मोक्षोद्देशिनां कर्मणां नास्त्यतो ज्ञानफलं प्रति हेतुत्वं तेषां ज्ञानकाण्डे प्रवेशो नाम तत्र ज्ञानं प्रधानं तदुपसर्जनं कर्मेति भावः॥३०१॥

एवमत्रैकवाक्यत्वं नानुष्ठेयसमाप्तितः॥३०२॥

असारफलसंप्राप्तिः पुमर्थो नेष्यते यतः॥
तृष्णया साधयन्प्रीतिं न प्रीतिलवमिच्छति॥३०३॥

एवं ज्ञानकर्मसमुच्चयस्य मोक्षहेतुत्वावष्टम्भेन काण्डयोरेकवाक्यतेति फलितमाह।एवमिति। प्रकारान्तरेणैकवाक्यत्वं व्यावर्तयति। नेति। सर्वस्यैव वेदार्थस्यानुष्ठानेन समाप्तितो ज्ञाने प्रवृत्तिरित्येकवाक्यता तयोर्नेष्टेत्यर्थः। तेषां ततो नार्थान्तरमित्ययुक्तं मोक्षार्थं कर्मानुतिष्ठतोऽपि स्वर्गादेरानुषङ्गिकत्वात्तथा चोपभुक्तसर्वकर्मफलस्य पुंसो ज्ञानाधिकार इत्याशङ्क्याऽऽह। असारेति। मुमुक्षुर्मोक्षार्थं कर्माण्यनुतिष्ठति ज्ञानं चाऽऽद्रियते न च तेनामोक्षः स्वर्गोमृग्यते तस्याल्पीयस्त्वेनानीप्सितत्वादतो मोक्षस्योद्दिष्टत्वात्तमेव कर्मभिर्ज्ञानसहितैरसावाप्नोतीत्यर्थः। मोक्षेतरस्वर्गादेरप्रेप्सितत्वे हेतुमाह। यत इति। तृष्णया प्रेरितो दृष्टां प्रीतिं सं166पादयन्नल्पामापादयितुं यतो नेच्छत्यतः स्वल्पप्रीतेः स्वर्गादेर्न प्रार्थ्यमानतेत्यर्थः॥३०२॥३०३॥

प्रीतेः श्रुतः प्रकर्षोऽपि स्वर्गस्वाराज्यभेदतः॥
नापि प्रीतेरियत्तायाः स्वर्गशब्दोऽस्ति वाचकः॥३०४॥

समुच्चयानुष्ठानान्मुक्तिपक्षे सिद्धान्तवज्ज्ञानाधिकारनिश्चयान्न वेदाप्रामाण्यं नापि काण्डयोरधिकार्यादिभेदसिद्धिरिति प्रसाध्य तयोः साधनादिभेदाभावे हेत्वन्तरमाह।प्रीतेरिति। प्रीतेः प्रकर्षो मोक्षः स च स्वर्गकामो यजेत स्वाराज्यकामो यजेतेति कर्मसाध्यत्वेनापि श्रुतोऽतो न काण्डयोः साधनादिभेद इत्यर्थः। स्वर्गकामवाक्ये स्वर्गशब्दो न मोक्षवाची किं त्वल्पतरं सुखविशेषमाह तत्कथं तद्वाक्यान्मोक्षस्य कर्मसाध्यत्वधीरित्याशङ्क्याऽऽह। नापीति। प्रीतेरियत्ता परिमाणं तस्याः स्वर्गशब्दो न वाचक इयत्तापरिच्छिन्नानां प्रीतिविशेषाणामानन्त्यात्तत्र शक्तेरयोगात्सामान्येन गृहीतशक्तेरविशेषितसुखमात्रवाचकत्वादपवर्गस्य च तावन्मात्रत्वाद्युक्तं स्वर्गशब्दस्यापवर्गैकवाचित्वमतः स्वर्गकामवाक्यान्मोक्षस्य कर्मसाध्यत्वसिद्धिरिति भावः॥३०४॥

न चाजानन्स्वसाध्यार्थं विद्वान्कश्चित्प्रवर्तते॥
प्रीतिर्या काचिदिष्टा चेत्स्वर्गशब्देन भण्यते॥३०५॥

यद्यपि मोक्षे ज्ञातशक्तिः स्वर्गशब्दस्तथाऽपि प्रतिपत्ता स्वल्पमेव सुखं तेन प्रतिपद्य प्रवर्तत इत्याशङ्क्याऽऽह। न चेति। यद्यपि स्वर्गशब्देन स्वल्पमेव सुखं गृहीत्वा कश्चिद्यागादौ प्रवर्तते तथाऽपि विवेकी मोक्षमाणस्तच्छब्दार्थं विचार्य मोक्षवाचित्वं तस्य निश्चित्य तत्साधनानि कर्माण्यनुतिष्ठति। अनभिलषितक्षुद्रसुखविशेषविषयत्वे तच्छन्दत्य प्रेक्षावतो मुमुक्षोर्न कर्मानुष्ठानं स्यान्न167वाऽमुमुक्षोरेव तदनुष्ठानम्। यद्वा विविदिषार्थत्वं सर्वेषामपि कर्मणामिति वक्ष्यमाणन्यायविरोधादिति भावः। स्वर्गकामादिवाक्येष्वेव कर्मणां मोक्षसाधनत्वाधिगमात्काण्डयोः साधनादिभेदाप्राप्तिरिति पूर्वपक्षं निराकर्तुमुक्तमनुवदति। प्रीतिरिति। या काचिदविवक्षितविशेषणा फलभूता प्रीतिस्तन्मात्रं स्वर्गशब्दितं चेदित्यनुवादार्थः॥३०५॥

चित्राग्निष्टोमयागादेः पश्वादिफलसंकरः॥
विशेषो वाञ्छितश्चेत्स्यात्पुत्रपश्वाद्युपाधितः॥३०६॥

तत्र दूषणमाह। चित्रेति। चित्रायागफलभूतपशुप्राप्तिप्राप्तक्षीरपानेऽपि सुखमात्रस्य भावादग्निष्टोमफलस्वर्गस्य मुक्तत्वप्राप्तेर-नुष्ठितचित्रायागो ज्योतिष्टोमं नानुतिष्ठेत्तन्न सुखमात्रं स्वर्ग इत्यर्थः। प्रीतिविशेषस्य स्वर्गत्वाद्वक्तदोषाप्राप्तिरिति शङ्कते। विशेष इति। पुत्रादिहेतुकप्रीतेः सकाशाद्विशिष्टा प्रीतिः स्वर्गशब्देनेष्टा तथाच तन्मात्रस्य स्वर्गत्वकृतदोषाप्राप्तिरित्यर्थः॥३०६॥

न तावत्संभवेत्स्वर्गो ज्ञातोपाधिवियोगतः॥
मुक्तौ काम्यफलेऽभीष्टे सकृत्करण एव च168
अनवच्छिन्नरूपायाः प्रीतेराप्तौ कृतार्थता॥३०७॥

स किं केनचिदुपाधिनोपरक्तः किंवा निरस्तसर्वोपाधिर्नाऽऽद्यस्तस्योपाध्यवच्छिन्नस्यामोक्षत्वादिति मत्वा द्वितीयं निराह। न तावदिति। स निरुपाधिकः सुखविशेषः स्वर्गो न स्यादित्यत्र हेतुमाह। **ज्ञातेति।**न हि निरुपाधिके सुखविशेषे स्वर्गशब्दप्रवृत्तौ निमित्तं ज्ञातमस्ति नापि तस्य ज्ञापकं न च तस्य स्वप्रकाशत्वं तथा सति तदुद्देशेन यागाननुष्ठानप्रसङ्गात्तस्य स्वतःसिद्धस्याज्ञानमात्रव्यवहितस्य ज्ञानेतरहेत्वनपेक्षत्वादतः स्वर्गशब्दस्य मोक्षाविषयत्वेन लोकविशेषविषयत्वाद्यन्न दुःखेन संभिन्नमित्यादेश्च तदीयस्तुतिपरत्वात्तस्यैव स्वर्गकामवाक्ये कर्मसाध्यत्वावगमान्न काण्डद्वयस्य साधनाद्यैक्यमिति भावः। स्वर्गकामवाक्ये स्वर्गशब्दस्य यथाकथंचिन्मोक्षविषयत्वेऽपि तस्य न कर्मसाध्यतेत्याह। मुक्ताविति। काम्यकर्मफलं मुक्तिरिति पक्षे सायंप्रातराहुतिद्वयेन

काम्यकर्मणः सिद्धेस्तन्मात्रेण मुक्तिलाभान्नाग्निहोत्रमावर्त्येत। न च फलभूयस्त्वार्था तदावृत्तिर्मुक्तेर्निरतिशयब्रह्मरूपत्वादतः सकृदनुष्ठिताग्निहोत्रादेव मुक्तेस्तदानर्थक्यं कर्मान्तराणां चानुपयोगात्तद्विध्यप्रामाण्यमिति न काम्यकर्मफलं मुक्तिरित्यर्थः॥३०७॥

प्लवा ह्येते परीक्ष्येति तथा तद्य इहेति च॥
कर्मभ्यो निर्वृतिर्नास्तीत्यादिवाक्यैः प्रदर्शितम्॥३०८॥

अक्षय्यमित्यादिवाक्यसिद्धं तर्हि नित्यकर्मफलत्वं मुक्तेरित्याशङ्क्य स्तुतिपरं वाक्यं वाक्यान्तरविरोधान्न स्वार्थे मानमिति मत्वाऽऽह। प्लवा हीति। एते यज्ञनिर्वर्तका यजमानादयः प्लवन्ते गच्छन्ति नश्यन्त्यतो नाक्षय्यफलहेतव इत्यर्थः। परीक्ष्य लोकानित्यत्र नास्त्यकृतः कृतेनेत्युपजीव्यम्। तत्तत्र जन्तूनां मध्ये ये केचिदिह जगति रमणीयकर्माणस्ते रमणीयां ब्राह्मणादियोनिं प्राप्नुवन्तीति वदद्वाक्यं कर्मणां निर्वाणफलत्वमर्थान्निषेधति। चशब्दाद्यथेह कर्मजित इत्यादि गृह्यते। उक्तश्रुतितात्पर्यमाह। कर्मभ्य इति। इत्यादिवाक्यैः कर्मभ्यो निर्वृतिर्नेति दर्शितमित्यन्वयः। आदिपदेन न कर्मणेत्यादि गृह्यते॥३०८॥

प्रत्यक्षश्रुतिविध्यन्तविहितानामकारणात्॥
त्यागोऽतिसाहसं मन्ये ननु यागादिकर्मणाम्॥३०९॥

अर्थवादवाक्येभ्यो विधिवाक्यस्य बलीयस्त्वात्तदालम्ब्य कैवल्यस्य कर्मफलत्वावगमात्काण्डयोरेकाधिकारित्वं तदवस्थमिति शङ्कते। प्रत्यक्षेति। स्वप्नान्तादिशब्दवद्विधिरेव विध्यन्तो यावज्जीवमग्निहोत्रं जुहुयादित्यादिः स चापौरुषेयत्वेन मूलप्रमाणानपेक्षत्वात्प्रत्यक्ष-श्रुतिषु दृष्टस्तेन विहितानामग्निहोत्रादीनां विना हेतुं त्यागस्य साहसमात्रत्वादग्निहोत्राद्यपि ज्ञानशेषतया मुक्तिहेतुः। **उक्तं च—**कर्तुर्वा श्रुतिसंयोगादित्यत्राग्निहोत्रादेर्यावज्जीवमनुष्ठेयत्वम्। यथाऽऽहुः— एवं श्रुतिपरिच्छिन्नोऽर्थोभविष्यतीतरथा लक्षणा स्यादिति। तस्मात्कर्मधर्मस्य नियमस्य चोद्यमानत्वात्कर्मसमुच्चितज्ञानाधीनत्वान्मोक्षस्य काण्डयोः साधनादिभेदासिद्धिरित्यर्थः॥३०९॥

प्रत्यक्षोपनिषद्वाक्यविहितायास्ततोऽपि तु॥
ऐकात्म्यज्ञाननिष्ठायास्त्यागोऽतीव हि साहसम्॥३१०॥

शान्तादिवाक्येन विरक्तस्य संन्यासो विहितः। तस्यैव श्रोतव्यादिवाक्येन श्रवणाद्या वस्तुनिष्ठोक्ता तस्यास्त्यागः समुच्चयपक्षे स्यान्न चानेकोपनिषत्प्रसिद्धत्यागो युक्तः कर्मत्यागादपि तत्त्यागस्यातिसाहसत्वात्तस्मादैकात्म्यज्ञानमात्रस्य मोक्षसाधनत्वावेदकानेकवाक्य-विरुद्धं कर्मणां तद्धेतुत्वसाधनमिति काण्डयोरेकाधिकारित्वासिद्धिर्यावज्जीवश्रुतिस्त्वविरक्तविषयेति सिद्धान्तयति। प्रत्यक्षेति॥३१०॥

विचार्यमाणे यत्नेन त्वधिकारे यथाश्रुति॥३११॥

न किंचित्साहसं त्वत्र प्रत्यक्षश्रुतिवाक्यतः॥
अधिकारविभागस्य प्रसिद्धेरेव कारणात्॥३१२॥

तर्हि मिथो विरोधाद्द्वयोरपि काण्डयोरप्रामाण्यमिति कृतमधिकारचिन्तयेत्याशङ्क्याऽऽह। विचार्यमाण इति। अत्र काण्डद्वये श्रुतिमनुसृत्य कस्याधिकारः कस्मिन्नित्यधिकारे तात्पर्येणाऽऽलोच्यमाने विरक्तस्य नित्यादिकर्मत्यागे न साहसप्रसङ्गः। अनालोचिताधिकारस्य हि काण्डयोर्विरोधो भाति न श्रुतिस्वभावमनतिक्रम्याधिकारं विचारयत इत्यर्थः। तत्र हेतुः। प्रत्यक्षेतिएतावान्वै काम इति श्रुतेरविरक्तस्यात्यक्तक्रियस्य कर्मकाण्डे, ब्राह्मणो निर्वेदमायादिति श्रुतेर्विरक्तस्य संन्यासिनो ज्ञानकाण्डेऽधिकारः । एवमधिकारविभागस्य श्रुतत्वादेव काण्डयोर्न विरोधगन्धोऽपीत्यर्थः॥३११॥३१२॥

तस्मात्सिद्धोऽधिकारोऽत्र ब्रह्मरूपं विविक्षिताम्॥
तस्यास्य कर्मकाण्डेन संबन्ध इति भाष्यकृत्॥
प्रतिज्ञायापि संबन्धं कस्मात्तन्नोक्तवान्स्फुटम्॥३१३॥

भाष्यत्रयार्थमाक्षेपसमाधिभ्यामुक्तमुपसंहरति। तस्मादिति। काण्डयोरधिकार्यादिभेदस्य दुर्वारत्वाद्ब्रह्मरूपं सदानन्दसंवित्स्वभावं प्रवेष्टुमिच्छतां मुमुक्षूणां ज्ञानकाण्डेऽधिकारः काण्डान्तरे तु रागिणामित्यधिकारिभेदः। ऐकात्म्यज्ञानमेव मुक्तेर्हेतुः कर्माभ्युदयस्येति साधनभेदो भाष्याम्यां सिद्धः सेयं ब्रह्मविद्येत्यादिभाष्येण काण्डयोः प्रयोजभेदः साधित इति भावः। भाष्यत्रयं काण्डद्वयस्याधिकार्यादिभेदसाधकं संक्षेपविस्तराभ्यांव्याख्याय संबन्धप्रतिज्ञाभाष्यमवतार्य तदर्थं चोद्यसमाधिम्यामा-विश्चिकीर्षुश्चोदयति। तस्येति। प्रतिज्ञातसंबन्धमात्रस्यापर्यवसानात्तद्विशेषमपि भाष्यकृदुक्तवानित्याशङ्क्य तन्मात्रसिद्धावप्ययम-साविति स्पष्टो विशेषो न सिध्यतीत्याह। स्फुटमिति। अपेक्ष्यमाणसंबन्धविशेषानुक्तौ हेतुरन्विष्यत इति भावः॥३१३॥

अभिधीयत इत्यादिवचसाऽपि स नोच्यते॥
सिद्धे वस्तुनि वेदस्य मानत्वं तेन भण्यते॥३१४॥

सर्वोऽप्ययमित्यनन्तरभाष्ये संबन्धविशेषस्य वक्ष्यमाणत्वात्तदनुत्तिकारणं नान्वेष्यमित्याशङ्क्याऽऽह। अभिधीयत इत्यादीतिअभिधीयत इति भाष्यमादिर्यस्य सर्वोऽप्ययमित्यादिभाष्यस्य तदभिधीयत इत्यादि तेनापि वचसा संबन्धविशेषो नोच्यतेऽतस्तदनुक्तौ निमित्तं वाच्यमित्यर्थः। अनन्तरभाष्ये संबन्धविशेषाकथनं कथमवगतमित्याशङ्क्य तस्मिन्नर्थान्तरप्रतीतेरित्याह।सिद्ध इति॥ ३१४ ॥

वेदान्तोक्तेः प्रमाणत्वे सति संबन्ध उच्यते॥
प्रामाण्यायैव तेनाऽऽदौ सर्वोऽपीत्यादि भण्यते॥३१५॥

तस्येत्यादिभाष्याक्षेपं प्राप्तं प्रत्याह। वेदान्तेति। संबन्धं प्रतिज्ञाय तद्विशेषमपेक्षितमपि हेतुविशेषमालक्ष्य भाष्यकारो नाभिदधाति। स्थितं हि चोदनासूत्रे प्रवर्तकवेदभागस्य प्रामाण्यं न वेदान्तानामक्रियार्थत्वात्प्रवृत्तिनिवृत्त्यनर्हवस्तुमात्रनिष्ठत्वादौत्पत्तिकसूत्रे वेदमात्रस्यानपेक्षत्वहेत्ववष्टम्भात्प्रामाण्ये सिद्धेऽपि प्रक्रमवशात्प्रवर्तकवेदभागस्यैव तदित्याशङ्कोन्मेषादुपनिषदामप्रामाण्यमाशङ्क्ये-तातोऽसिद्धप्रमाणभावस्य ज्ञानकाण्डस्य न केनापि संगतिरिति मन्वानो वेदान्तप्रामाण्यं प्रतिपाद्य पश्चात्तेषां कर्मकाण्डेन संगतिर्वक्तुं युक्तेति मत्वा तत्प्रामाण्यमनन्तरभाष्ये प्रतिपादयति। ततः संबन्धोक्तिः सुकरेति भावः॥३९५॥

आक्षिप्यते वा संबन्धः संबन्धो नाभिधीयते॥
सप्तम्यन्तपदच्छेदात्कथं चेदिति भण्यते॥३१६॥

तर्हि प्रथमं तत्प्रामाण्यं प्रतिपाद्य संबन्धाकाङ्क्षायां तत्प्रतिज्ञाभाष्यं प्रणेतव्यमित्याशङ्क्य पक्षान्तरमाह। आक्षिप्यते वेति। तदाक्षेपो भाष्ये न भाति तदर्थस्य नञादेरदृष्टेरित्याशङ्क्याऽऽह। संबन्धो नेति। ज्ञानकाण्डस्य धर्मकाण्डे संबन्धो नोच्यत इति सप्तम्यन्तं पदं छित्त्वा नञमुद्भाव्याऽऽक्षेपो द्रष्टव्य इत्यर्थः। तदाक्षेपस्य निमित्तं पृच्छति। कथमिति। तदुक्तिं169 प्रतिजानीते। भण्यत इति॥३१६॥

भिन्नार्थयोर्न संबन्धो ह्यन्योन्यार्थानपेक्षतः॥
ऐकार्थ्येचैकवाक्यत्वात्कर्मविज्ञानकाण्डयोः॥३१७॥

किमेते काण्डे भिन्नार्थे किंवाऽभिन्नार्थे। आद्येऽनपेक्षार्थयोरुभयाकाङ्क्ष्याऽन्यतराकाङ्क्ष्या वा न संगतिरित्याह। भिन्नेति। द्वितीयं प्रत्याह। ऐकार्थ्ये चेति। चशब्दान्न संगतिरित्याकर्षः। काण्डयोरेकविषयत्वे न वाक्यभेद एकार्थत्वादेकं वाक्यमिति न्यायात्। एकवाक्यत्वे न संबन्धो द्वयोर्हि सः। नैकस्यैवेत्यर्थः॥३१७॥

तथा तयोरमानत्वे संबन्धोक्तिर्न युज्यते॥
द्वयोरेकस्य वा मात्वे न संबन्धादि शस्यते॥३१८॥

किंच काण्डयोर मानत्वं मानत्वं वा। आद्ये विप्रलम्भकोक्त्योरिव न संगतिर्वाच्येत्याह। तथेति। मानत्वेऽपि द्वयोरन्यतरस्य वा तत्त्वं नोभयथाऽपि संबन्धः। मानत्वे द्वयोर्मिथोवार्तानभिज्ञत्वान्मानामानयोश्च संगतेरवाच्यत्वात्। द्वयोर्मानत्वे च न तत्त्वातत्त्वमानव्यवस्थाऽन्यतरस्यैव मानत्वे च साधनादिभेदासिद्धिरित्याह। द्वयोरिति॥३१८॥

श्रुत्यैव तस्य चोक्तत्वात्तमेतमिति यत्नतः॥
इति चेतसि संधाय संबन्धं नोक्तवान्गुरुः॥३१९॥

काण्डयोर्नियतपौर्वापर्यानुपपत्तिलम्यसंबन्धस्य वाच्यत्वान्न तदाक्षेप इति विवक्षन्ननन्तर170संबन्धानुक्तौ हेत्वन्तरमाह। श्रुत्येति। तस्येत्यादिना संबन्धमात्रं प्रतिज्ञाय तद्विशेषं विवक्षुर्विविदिषावाक्ये तमतिरोहितमुपलभ्य भाष्यकारोऽधीतस्वाध्यायस्य ज्ञातपदपदार्थसंबन्धस्य वेदान्तेष्वापातज्ञानवतः स्वयमेवासौ बुद्धिमारोक्ष्यतीति न तत्प्रतिपाद्यतेति मत्वा नानन्तरं कथयतीत्यर्थः॥३१९॥

प्रसाध्य वा प्रमाणत्वं वेदान्तानां प्रयत्नतः॥
संबन्धं कर्मकाण्डेन पश्चात्सम्यक्प्रवक्ष्यते॥३२०॥

विविदिषावाक्ये काण्डयोः संवन्धधीस्तद्विशेषोक्तेरिव तत्प्रतिज्ञातस्यापि प्रतिबन्धिका स्यादित्याशङ्क्य वेदान्तोक्तेरित्युक्तं प्रपञ्चयति। प्रसाध्येति। अस्यार्थः। उपोद्धातप्रक्रियया भाष्यकारस्तस्येत्यादिना संबन्धं प्रत्यज्ञासीत्। ततो न तत्प्रतिज्ञा वेदान्तानामप्रामाण्यादिति चोद्यं तत्प्रामाण्योक्त्या प्रत्याख्याय विविदिषाश्रुतिसिद्धं कर्मणां विविदिषाहेतुत्वं नाम संबन्धविशेषमाह स्म। तस्मान्नास्मिन्भाष्ये किंचिदपि दूषणमिति॥३२०॥

वेदानुवचनादीनामैकात्म्यज्ञानजन्मने॥
तमेतमति वाक्येन नित्यानां वक्ष्यते विधिः॥३२९॥

काण्डद्वयस्य विविदिषावाक्योक्तं संबन्धविशेषं भाष्ये विवक्षितमाक्षिपति। वेदेति। नित्यनैमित्तिकानामेव विविदिषावाक्येन ज्ञानोत्पत्तये साधनत्वप्रकारो निर्दिश्यते न सर्वकर्मणां काम्यानां फलान्तरहेतुतया विविदिषोपायत्वायोगात्। तथाच कर्मकाण्डैकदेशस्य ज्ञानकाण्डसंबन्धेऽपि न कृत्स्नस्य तेन संगतिरित्यर्थः। वक्ष्यत इत्यविवक्षितमुच्यत इति यावत्। पाठक्रममपेक्ष्य वाऽयं निर्देशः॥३२१॥

यद्वा विविदिषार्थत्वं सर्वेपामपि कर्मणाम्॥
तमेतमिति वाक्येन संयोगस्य पृथक्त्वतः॥३२२॥

नित्यनैमित्तिकानामेव ज्ञानहेतुत्वमित्यशक्यं नियन्तुं नियामकाभावाद्यज्ञेनेति चाविशेषश्रुतेरतो विविदिषाद्वारा ज्ञानहेतुत्वं विविदिषावाक्येन सर्वकर्मणामुक्तमिति समाधत्ते।यद्वेति। काम्यानां फलान्तरे विध्युद्देशेन विनियुक्तानां न पुनर्विविदिषायां विनियोगो विनियुक्तविनियोगायोगादित्याशङ्क्याऽऽह। संयोगस्येति। अस्यार्थः। एकस्य तूभयत्वे संयोगपृथक्त्वम्। अग्निहोत्रे दध्नाजुहोति दध्नेन्द्रियकामस्य जुहुयादित्यत्र दध्नः पुमर्थतैत्र वा क्रत्वर्थताऽपि वेति संदेहे गोदोहनादिवद्दध्नेन्द्रियकामस्येति फलान्व-

यश्रुतेरधिकारविधुरस्य च वाक्यस्याधिकारवाक्येनैकवाक्यत्वात्पुरुषार्थतैव तस्येति पूर्वपक्षेलौकिकदधिहोमानुवादेनाप्यधिकार-वाक्योपपत्तेर्वाक्यान्तरानपेक्षत्वाद्दध्ना जुहोतीत्यत्रापि प्रकृतहोमानुवादेन दधिविधानात्तत्प्रयुक्त्यैवानुष्ठानसिद्धेरधिकाराकाङ्क्षा-भावात्संयोगभेदादुभयार्थतेति चतुर्थे सिद्धान्तितम्। एकस्य दध्नो नित्यत्वे नैमित्तिकत्वे च संयोगपृथक्त्वं हेतुरेको हि दध्ना जुहोतीति संयोगो दध्नेन्द्रियकामस्येति चापरमिति सूत्रार्थः। तथाच स्वर्गादियुक्तानां कर्मणां स्वर्गादिफलं परित्यज्य विविदिषायोगेन ज्ञानहेतुत्वात्कृत्स्नस्यापि कर्मकाण्डस्य ज्ञानकाण्डेन संबन्ध इति॥३२२॥

लोकतः सिद्धमादाय पशुव्रीह्यादिसाधनम्॥
इदं कार्यमिदं नेति कर्मकाण्डश्रुतेर्गतिः॥३२३॥

ननु पश्वादिकारकभेदं ब्रूते कर्मकाण्डश्रुतिर्ज्ञानकाण्डश्रुतिस्त्वद्वयं ब्रह्मातो मिथो विरोधात्कुतः संबन्धितेत्यत आह। लोकत इति। लोकसिद्धं पश्वादि तद्भेदं च कर्मकाण्डश्रुतिश्चेदनुवदेत्तर्हि न तत्प्रामाण्यमनुवादकत्वादित्याशङ्क्याऽऽह। इदमिति॥३२३॥

मानान्तरेण संप्राप्तां साध्यसाधनसंगतिम्॥
कर्मशास्त्रं व्यनक्तीति न तु वस्त्ववबोधकृत्॥३२४॥

तथाऽपि कथमुक्तचोद्यप्रत्युक्तिरित्याशङ्क्योत्तरार्धं प्रपञ्चयति। मानान्तरेणेति। क्रियादिरूपे तद्भेदे वाऽनुवादित्वेऽपि कर्मकाण्डस्य नाप्रामाण्यमज्ञातसंबन्धबोधित्वादित्यर्थः। व्यक्तीति नाप्रमाणतेति शेषः। ननु तेन संबन्धवदात्माऽपि देहव्यतिरिक्तो ज्ञेयस्तदज्ञाने पारलौकिके कर्मण्यप्रवृत्तेस्तत्कृतं गतार्थेन काण्डान्तरेणेति नेत्याह। न त्विति। अबुद्धसंबन्धबोधि शास्त्रं न वस्तु बोधयति वाक्यभेदादार्थिकी त्वतिरिक्तात्मधीर्न शाब्दी, यश्चार्थादर्थो न स चोदनार्थ इति न्यायादित्यर्थः॥३२४॥

वेद सर्व एवायमैकात्म्यज्ञानसिद्धये॥
अतो नान्योऽभिसंबन्धः कर्मविज्ञानकाण्डयोः॥३२५॥

तथाऽपि मिथो विलक्षणयोर्विविदिषाज्ञानकार्ययो171रपर्यवसानान्न काण्डयोः संगतिरित्याशङ्क्याऽऽह। वेदो हीति। सर्वोऽप्ययं वेदो ब्रह्मात्मैक्यधीहेतुस्तत्र साक्षात्पारंपर्याभ्यां काण्डयोरेकधीनिष्ठयोरस्ति संगतिरित्यर्थः। रज्जुघटयोरिव तयोः संबन्धे संभवति किमप्रसिद्धेनैक्यधीहेतुत्वसंबन्धेनेत्याशङ्क्याऽऽह। अत इति। उक्तादैक्यधीहेतुत्वादन्यः संबन्धो नानयोर्युक्तः संयोगादेर्दुर्भणत्वादित्यर्थः॥३२५॥

नित्यनैमित्तिकानीह कर्तृसंस्कारतो यतः॥
नान्यत्र पर्यवस्यन्ति ज्ञानादैकात्म्यगोचरात्॥३२६॥

वेदशब्दसमानाधिकृत सर्वशब्दमसहमानो वेदानुवचनादीनामित्यत्रानुक्रान्तं चोद्यमा-

दत्ते। नित्येति। नानाविधेषु कर्मसु मध्ये नित्यनैमित्तिकानि कर्तरि संस्काराख्यशुद्ध्याधानद्वारा धीहेतवो न काम्यान्यतः सर्वस्य वेदस्य तद्धेतुत्वमसिद्धमित्यर्थः॥३२६॥

प्लवाह्येते परीक्ष्येति तथा तद्य इहेति च॥
निन्दाश्रुतेर्नकाम्यानां कार्यताऽध्यवसीयते॥३२७॥

यद्वा विविदिषार्थत्वमित्यत्र काम्यानामपि धीहेतुत्वस्योक्तत्वात्कथं न सर्वो वेदस्तद्धेतुरित्याशङ्क्याऽऽह। प्लवा हीति। निन्दाश्रुत्या कार्यतैव तेषां नास्ति कुतस्तद्धीहेतुत्वमित्यर्थः॥३२७॥

विधिनिन्दासमावेशो नैवमप्युपपद्यते॥
फलाभिसंधिमात्रे तु निन्दायामेव युज्यते॥३२८॥

काम्यानामकार्यत्वमयुक्तं विहितत्वादनिषेधाच्चेति परिहरति। विधीति। यद्यपि च काम्येषु कर्मसु विधिनिन्दयोरस्ति समावेशस्तथाऽपि नैव तेषामकार्यत्वमुपपद्यते विधिवन्निषेधाभावादिति योजना। अथ निन्दाश्रुत्या निषेधोऽपि तेषां कल्प्यते, तत्र स्वरूपे, फलाभिसंधौ वा निन्दा? नाऽऽद्यश्चित्रया यजेतेत्यादिना काम्यानां कार्यत्वोक्तेस्तत्रैव निन्दाप्रवेशायोगादन्यथा तत्कल्पितनिषेधस्यापि तत्रैव प्रवेशे विधिनिषेधयोरेकत्राऽऽवेशात्प्रवृत्तिनिवृत्तिसंकरः स्यादित्यर्थः। द्वितीयमनुकूलयति। फलेति। फलासङ्गमात्रे निन्दायामिष्टायां स्वरूपे विधिः संभवत्येव। तथाच विना फलाभिलाषमनुष्ठितं चित्राद्यपि ज्ञानहेतुरिति पारंपर्येण सर्वकर्मणां तद्धेतुत्वसिद्धिः। न च फलाभिलाषाभावे चित्रादीनां न काम्यत्वं मुमुक्षोर्विध्युद्देशस्थफलाभिसंध्यभावेऽपि तस्याधिकार्यन्तरासङ्गविषयत्वात्। न च तर्हि मुमुक्षं प्रत्यकाम्यत्वं तस्यापि मोक्षोपायशेषत्वेन तदनुष्ठानान्नित्यादिष्वपिमुमुक्ष्व-नुष्ठानस्यैवंप्रकारत्वेऽपि तेषां विध्युद्देशे फलान्तरश्रुतेरवान्तरवैषम्यमिति भावः॥३२८॥

उपासनं च यत्किंचिद्विद्याप्रकरणे श्रुतम्॥
तदप्यैकात्म्यविज्ञानयोग्यत्वायैव कल्प्यते95॥३२९॥

प्रकरणान्तरस्थानां कर्मणां शुद्ध्यादिद्वारा धीहेतुत्वे वाक्यीयेऽपि विद्याप्रकरणस्थोपास्तीनां विद्यया सह मोक्षहेतुत्वं प्राकरणिकमित्याशङ्क्याऽऽह। उपासनं चेति। कर्मसमृद्ध्यर्थमभ्युदयार्थं क्रममुक्त्यर्थं चेति त्रिविधामुपास्तिं संगृह्णाति। यत्किंचिदिति। योग्यत्वं ज्ञानस्य जन्माभिमुख्यमनुष्ठितकर्मणामप्यनुत्पन्नविद्याभिलाषाणां तदुत्पत्ति172प्रतिबन्धकपापापनोदनद्वारा तदिच्छोदयहेतुत्वमुपास्तीनामिष्टं; न च विनियोजकाभावः, प्रकरणस्यैव तत्त्वान्न च फलान्तरश्रुत्या कुतो विद्याशेषत्व173मभूषामिति वाच्यं श्रुतमपि फलमपहायानतिशयफला174न्वयार्थं कर्मणामिव तच्छेषत्वान्वेषणात्175। विविदिषावाक्यस्य चोभ-

यत्र तुल्यतया संयोगपृथक्त्वन्यायावतारादुपास्तीनामपि तपःशब्देनोपादानादिति भावः॥३२९॥

विमुच्यमान इत्युक्तेरर्चिराद्युक्तितस्तथा॥
स्वार्थमात्रावसायित्वं नोपास्तीनां प्रतीयते॥३३०॥

अथोपासनानि विद्यावन्मोक्षस्यैव किमिति हेतवो न स्युरित्याशङ्क्याऽऽह। विमुच्यमान इतीति। उपास्तीनां साक्षात्परंपरया वा मोक्षहेतुत्वं, नाऽऽद्य, इतो विमुच्यमानः क्व गमिष्यसीत्युपास्तीनां परंपरया गन्तव्यस्य पृष्टत्वादुपासकस्यार्चिरादिमार्गसंबन्धश्रुतेश्च। न च साक्षान्मोक्षे मार्गादि संभवति, तस्य कार्यविषयतया बादर्यधिकरणेराद्धान्तितत्वादिति भावः। द्वितीयं दूषयति। स्वार्थेति। सत्यलोकाप्त्यादिद्वारा चेदुपारतीनां मुक्तिहेतुत्वं तदा श्रुतिस्मृत्यविरोधः। स्वार्थो मोक्षस्तन्मात्रे पारंपर्यं विना न तासां पर्यवसितत्वं मानाभावादित्यर्थः॥३३०॥

इत्येवमभिसंबन्धः कर्मकाण्डस्य युज्यते॥
इतोऽन्यथाऽभिसंबन्धे न किंचिन्मानमीक्ष्यते॥३३१॥

कर्मणां शुद्धिद्वारा धीहेतुत्वमुपनिषदां तु साक्षादेवेति भाष्याभीष्टं काण्डयोः संबन्धमुपपादितमुपसंहरति। इत्येवमिति। ये तु ब्रह्मज्ञानस्य कर्तृसंस्कारतया कर्माङ्गत्वाज्ज्ञानकाण्डं कर्मकाण्डोपकारकमित्याहुस्तान्प्रत्याह। इतोऽन्यथेति॥३३१॥

न चोद्गीथादिविषयज्ञानवत्कर्मसंगतिः॥
ऐकात्म्यबुद्धेस्तद्बुद्धिद्वारं नैव निरीक्ष्यते॥३३२॥

नन्वात्मज्ञानं कर्मानुप्रवेशि वैदिकज्ञानत्वादुद्गीथादिज्ञानवत्तत्राऽऽह। न चेति। तत्र हेतुमाह। तद्बुद्धीति। युक्तमुद्गीथादिज्ञानस्य तन्निर्धारणानियमन्यायेन कर्मानङ्गत्वेऽपि तदनुप्रवेशित्वमङ्गावबद्धत्वादात्मधियस्तु तदनुप्रवेशे द्वारादर्शनान्न कर्मानुप्रवेशितेत्यर्थः ॥ ३३२ ॥

श्रुत्या नैकात्म्यविज्ञानं विनियुक्तं श्रुतौ कचित्॥
उपस्थानं यथैन्द्र्या स्यान्नापि लिङ्गेन संगतिः॥
बर्हिर्देवसदनं दामीत्यादौ च यथा तथा॥३३३॥

ननु विना द्वारापेक्षामैन्द्यधिकरणन्यायेन श्रुतिरेवा176ऽऽत्मज्ञानं कर्मणि विनियुङ्क्ते। तथा स्थितं शेषलक्षणे “वचनात्त्वयथार्थमैन्द्री स्यात्” [पू० मी० ३।२।३] अग्निप्रकरणेनिवेशनः संगमनो वसूनामित्यैन्द्य्रागार्हपत्यमुपतिष्ठत इत्यत्रेन्द्रोपस्थानार्थो वाऽयं मन्त्रो गार्हपत्योपस्थानार्थो वेति संशये गार्हपत्यमितिद्वितीयाश्रुत्या गार्हपत्यस्य शेषित्वप्रती-

तावपि मन्त्रस्य तदुक्यसामर्थ्याद्विनियोगस्य च विनियोज्यानुसारित्वादिन्द्रशब्दस्य च संभावितमुख्यार्थस्य गौणत्वायोगा-द्गार्हपत्यमुपेत्येत्यध्याहारादिन्द्रोपस्थानार्थो मन्त्र इतिपूर्वपक्षे द्वितीयया गार्हपत्यस्य प्राधान्यदृष्टस्तृतीयया च मन्त्रस्य तद्गुणत्वप्रतीतेस्तस्य च गौण्या वृत्त्या तदुक्तिशक्तेरिन्द्रवद्गार्हपत्यस्यापि यज्ञसाधनत्वाद्विनियोगाच्च मन्त्रस्य तात्पर्यावगमात्तस्य च पदसामर्थ्यनिर्वाह्यत्वात्प्रतिपदं शक्तिविमर्शे सतीन्द्रशब्दस्यैव गौणत्वसंभवाद्गार्हपत्यस्यापि स्वकार्यं प्रत्यैश्वर्यात्तस्मिन्निन्द्रशब्दस्य यौगिकत्वादध्याहारं हित्वा गार्हपत्योपस्थानार्थो मन्त्र इति राद्धान्तः। ऐन्द्रीतिपदमयथार्थममुख्यार्थं गार्हपत्यविषयं स्याद्गार्हपत्यमुपतिष्ठत इति वचनाद्द्वितीयया गार्हपत्यस्य प्राधान्याधिगतेरिति सूत्रार्थः। तथाच प्रकृतेऽपि यदेव विद्यया करोतीति तृतीयाश्रुत्या कर्मण्यात्मधीर्विनियुक्तेत्यत आह। श्रुत्येति। यथैन्द्य्रानिवेशनः संगमनो वसूनामित्याद्यया कदाचन स्तरीरसीत्याद्यया चर्चा गार्हपत्योपस्थानं स्यात्तथा श्रुत्याऽऽत्मधीः श्रुतिषु क्वचिदपि प्रकरणे कस्मिंश्चित्कर्मणि न विनियुक्ता विद्ययेति श्रुतेश्चाङ्गावबद्धोपास्तिविषयत्वादित्यर्थः। ननु गौणमुख्याधिकरणन्यायेनाऽऽत्मज्ञानस्य कर्तृसंस्कारतया श्रुतस्य कर्मानुप्रवेश-मन्तरेणानुपपत्तिरूपसामर्थ्यलिङ्गेन कर्मसंगतिः। तथा हि—“अर्थाभिधानसंयोगान्मन्त्रेषु शेषभावः स्यात्तस्मा-दुत्पत्तिसंबन्धोऽर्थेन नित्यसंयोगात्” [पू० मी० ३।२।१] बर्हिर्देवसदनमित्यादिमन्त्राणांमुख्ये गौणे चार्थे विनियोगो मुख्य एव वेति संशये शब्दादेव यत्रार्थधीः स मुख्यो यत्र तु वाक्यार्थसंबन्धिगुणयोगेनार्थान्तरे धीः स गौण इति भेदादुभयत्र च शक्यविशेषादुभयत्र विनियोग इति पूर्वपक्षे गौणेऽर्थे शक्तिसत्त्वेऽपि तन्मात्रादविनियोगात्तदुपस्थापिते कार्ये विधेरेव विनियोजकत्वाद्गौणधियश्च मुख्यधीपूर्वकत्वादादौ मुख्येऽर्थे विनियोगे तावतैव विधेः कृतार्थत्वाद्गौणेऽपि विनियोगकल्पनानवकाशामुख्यासंभवे च गौणाङ्गीकारान्मुख्य एवार्थे लैङ्गिको विनियोगो मन्त्राणामितितृतीये स्थितम्। मुख्यस्यार्थस्याभिधाने मन्त्राणां तत्र संयोगात्तेषु प्रकरणाम्नातेषु प्रकरणिनि प्रधाने शेषत्वं गौणे त्वर्थे मन्त्रा न नियोक्तव्या मुख्यनियोगेनैव तदानर्थक्यपरिहारात्तत्राप्य177विनियोगे प्रधानानुपकारितया तदुत्पत्तिरनर्थिका स्यात्तस्मान्मुख्येनार्थेन नित्यसंबन्धादेषां तत्प्रकरणोत्पत्तिलक्षणसंबन्धोऽर्थवानिति सूत्रार्थः। एवमात्मज्ञानमपि लिङ्गेन यथोक्ते कर्मणि विनियुज्यतामिति तत्राऽऽह। नापीति। यथा बर्हिरित्यादौ बर्हिर्लवनप्रकाशनसामर्थ्यादिलिङ्गेनायं मन्त्रो बर्हिर्लवनादौ विनियुज्यते तथाऽऽत्मज्ञानस्य कर्माङ्गभावप्रकाशनसामर्थ्याख्यलिङ्गादृष्टेर्न तेन तस्य कर्मणि संगतिस्तस्य कर्तृसंस्कारत्वेन कर्मप्रवेशस्तु निरस्तो निरसिष्यते चेत्यर्थः। आदिपदेनो178रु प्रथस्वोरु ते यज्ञपतिरित्यादि गृह्यते॥३३३॥

न चापि वाक्याद्विज्ञानं कर्तृद्वारेण गच्छति॥
कर्मण्यप्रक्रियास्थं सज्जुहूपर्णमयीत्ववत्॥३३४॥

अस्तु तर्हि वाक्याधिकरणन्यायादात्मा ज्ञातव्य इत्यादिवाक्यात्तद्धियः कर्मणि शेषता। तथा हि स्थितं तृतीये “तत्सर्वार्थमप्रकरणात्" [पू० मी० २।६।१] यस्य पर्णमयीजुहूर्भवति न स पापं श्लोकं शृणोति यस्य खादिरः स्रुवो भवति च्छन्दसामेव रसेनावद्यतीत्यादावनारभ्याधीतस्यापि पर्णतादेः क्रत्वव्यभिचरितजुह्वादिसंबन्धेन क्रतुनियोगप्रत्यभिज्ञानात्तदङ्गत्वे सिद्धे प्रकृतिविकृत्यर्थमेतद्विधानं प्रकृत्यर्थमेव वेति संशये व्यवस्थापकप्रकरणा179भावाज्जुह्वाद्युद्देशेन विधाना180त्तत्तद्द्वारै181तत्साध्यापूर्वशेषत्वा-ज्जुह्वादिसंबन्धस्योभयत्रोपदेशातिदेशाभ्यामविशेषादुभयार्थमेतद्विधानमिति पूर्वपक्षे182 विकृतिषु चोदकप्राप्तजुह्वाद्युद्दिश्य पर्णतादेर्विधेयत्वात्तन्मुखेन183 जुह्वादिषु प्राप्यमाणेषु पूर्णतादेरपि प्राप्तेस्तत्र विधाने द्विरुक्तेर्दुरुत्तरत्वादुपदेशावगतजुह्वाद्युद्देशेन च प्रकृत्यर्थतया विधौ चरितार्थे चोदकापेक्षया पुनर्विकृत्यन्वये विरम्यव्यापाराभावात्प्रकृत्यर्थमेव पर्णतादिविधानमिति राद्धान्तः। प्रकरणस्यानियामकत्वात्पर्णतादिविधानं प्रकृतिविकृत्यर्थमितिपूर्वपक्षसूत्रार्थः। प्रकृतौ वाऽद्विरुक्तत्वादिति सिद्धान्तसूत्रं प्रकृतावेव निविशेरन्ननारभ्याधीतानि वाक्यान्येवं खल्वद्विरुक्तता भविष्यतीत्यर्थः। एवमात्मधीरपि वाक्यात्कर्मणि विनियुक्तेति नेत्याह। न चेतियस्य पर्णमयीत्यादिवात्येन पर्णत्वं ऋतुप्रकरणानधिगतमपि जुहूगतं सत्तद्वारा कर्मशेषत्वं गच्छति नैवं ज्ञानं वाक्यादपि कर्तृद्वारा कर्मणि प्रविशतीत्यर्थः। वाक्यस्यात्र प्रसङ्गार्थं ज्ञानं विशिनष्टि। अप्रक्रियेति॥३३४॥

जुह्वाद्याकृतिसंपत्तिव्यपेक्षापूरणक्षमम्॥
विशेत्पर्णमयीत्वादि प्रकृत्युपनयात्क्रतुम्॥३३५॥

पर्णमयीत्वादेर्वैधर्म्यदृष्टान्तत्वं विवृणोति। जुह्वादीति। जुह्वादीनां स्वरूपोत्पत्तौ प्रकृतिद्रव्यापेक्षायां तद्विषयार्पणसमर्थं पर्णत्वादि प्रकृत्युपस्थापनाज्जुह्वादिद्वारा पर्णमयी जुहूरित्यादिवाक्यात्क्रतुं प्रविशेदित्यर्थः॥३३५॥

कर्मापेक्षितकर्त्रादिरूपविध्वंसकृन्न तु॥
ऐकात्म्यज्ञानमन्वेति स्वातन्त्र्येऽप्यर्थवत्त्वतः॥३३६॥

सोपस्कारं दार्ष्टान्तिकमाह। कर्मेति। ऐकात्म्यज्ञानं नान्वेति कर्मेति संबन्धः। आत्मज्ञानस्य कर्माप्रवेशे युक्त्यन्तरमाह। स्वातन्त्र्येऽपीति॥३३६॥

जुह्वाद्यव्यभिचारित्वात्प्रत्युपस्थापयेत्क्रतुम्॥
कर्ताऽन्यत्रापि सद्भावान्नाऽऽक्षेप्ता व्यभिचारतः॥३३७॥

क्रत्वपेक्षितसाधकत्वबाधकत्वाभ्यां पर्णत्वादेरात्मधियश्च वैषम्यमुक्त्वा क्रतुप्रवेशे द्वारत्वाभिमतयोर्जुह्वाद्यात्मनोरपि वैषम्यमाह। जुह्वादीति। क्रत्वव्यभिचारित्वाज्जुह्लादि स्वापेक्षितप्रकृत्युपनायकं पर्णत्वादि प्रति शेषित्वेन क्रतुमुपस्थापयेत्कर्ता तु ज्ञानस्य शेषित्वेन कर्म नाऽऽक्षिपति लौकिकेऽपि कर्मणि भावाद्वैदिककर्मणा नियतसंबन्धाभावादित्यर्थः॥३३७॥

अनारभ्योक्तितश्चापि नेह प्रकरणग्रहः॥३३८॥

सिद्धे सामान्यतो लिङ्गात्संबन्धे कर्मभिस्ततः॥
विशेषावगतिर्नाम्नः क्रमाच्चेति व्यवस्थितम्॥३३९॥

ननु प्रकरणाधिकरणन्यायेन प्रकरणादात्मज्ञानस्य कर्मणि शेषत्वं तथा हि - “असंयुक्तं प्रकरणादितिकर्तव्यतार्थित्वात्” [पू० मी० ३।३।११] दर्शपूर्णमासादेप्वारादुपकारकप्रयाजाद्यङ्गेषु श्रुत्याद्यतिरिक्तं प्रकरणं नाम विनियोजकं प्रमाणमस्ति न वेति संशयेऽधिकारवाक्यस्थलिङ्पदस्य संनिहितपदार्थैरैदमर्थ्येनान्वित परमापूर्वाभिधायित्वादैदमर्थ्यस्य च करणत्वेन तदनुग्राहकत्वेन184 वा नियतत्वादुत्पत्तिशिष्टाग्नेयाद्यवरुद्धे कार्ये तदुपकारकतयैव प्रयाजाद्यन्वयाद्विशेषस्याप्यन्विताभिधानदशानुप्रवेशेन श्रौतत्वादेषविनियोगः श्रौत एवेति पूर्वपक्षे सप्रयोजनाप्रयोजनसंनिपाते प्रयोजनवदर्थमितरदित्यादौ सामान्येनैदमर्थ्यं बुद्ध्वा कथमिति विशेषजिज्ञासायां किंचित्करणतया किंचिदितिकर्तव्यतयेति विशेषान्वयार्थं मानान्तरालोचनायामाग्नेयादीनां करणत्वमौपादानिकं प्रयाजादीनामिति-कर्तव्यतात्वं प्राकरणिकमिति भेदाद्दर्शादिषु प्राकरणिकः प्रयाजाद्यन्वय इति तृतीये राद्धान्तितम्। यदसंयुक्तं श्रुत्यादिना तदिति कर्तव्यतार्थित्वात्प्रकरणात्संयुज्यते यद्धीतिकर्तव्यताकाङ्क्षिणः संनिधावाकाङ्क्षापूरकं वाक्यं तत्तेनैकवाक्यतां यातीति सूत्रार्थः। तथाऽऽत्मधीरपि प्रकरणेन कर्मणि विनियुक्तेत्यत आह। अनारभ्येति। प्रकरणभेदस्योक्तत्वात्कर्माऽऽरम्य तत्रैवाऽऽत्मधियोऽपाठान्न तस्याः कर्मपत्वे प्रयाजादेरिव प्रकरणपरिग्रह इत्यर्थः। ज्ञानस्य कर्माङ्गत्वे स्थानसमाख्ययोरप्यप्रामाण्यमिति वक्तुं तयोर्विषयमाह। सिद्ध इति। उक्तं **शेषलक्षणे—**लिङ्गक्रमसमाख्यानात्काम्ययुक्तं समाम्नातम्। ऐन्द्राग्नमेकादशकपालं निर्वपेद्रातृव्यवानैन्द्राग्नमेका-दशकपालं निर्वपेद्यस्य सजाता वीयुरित्यादीन्येकदैवत्यानि बहूनि काम्यकर्माणि क्रमेणोत्पन्नानि तथा काम्ययाज्यानुवाक्याकाण्डमिति समाख्याते काण्डे तत्क्रमेण तद्दैवत्यानि बहूनि याज्यानुवाक्यायुगलान्याम्नातानीन्द्राग्नी रोचना दिवः प्रचर्षणिभ्य इन्द्राग्नी नवतिं पुरः श्लथद्वृत्रमित्यादीनि तेषां यावल्लिङ्गं विनियोगः क्रमसमाख्याम्यां नियमो वेति संशयेलिङ्गाविशेषात्सर्वत्र विनियोग इति पूर्वपक्षमाह। सिद्ध इत्यादिना। अस्यार्थः।

यान्यैन्द्राग्नादीनि काम्यानि कर्माणि क्रमेणोत्पन्नानि तैः सर्वैः सहेन्द्राग्न्यादीनां याज्यानुवाक्यायुगलानां सामर्थ्याविशेषादविशेषतः संबन्धे प्राप्ते सतीति राद्धान्तमाहतत इत्यादिना। एषोऽर्थः। सिद्धे सामान्येन ग्राहकसंबन्धे तन्निवहाय विशेषमपेक्षमाणस्य विधेरेव मन्त्रसामर्थ्यमनुसंधाय तदनुगुणे कार्ये विनियोगकल्पकत्वात्सामर्थ्यस्य विशेषोपदर्शनेन तत्सहायत्वात्सर्वत्र सामान्यसंबन्धापेक्षस्य लिङ्गस्य विनियोजकत्वात्प्रकरणाभावे तदर्थं क्रमसमाख्ययोरन्वेष्यत्वात्ताभ्यां सामान्यद्वारा विशेषव्यवस्थेति सामान्यसंबन्धबुद्ध्य-नन्तरमस्य याज्यानुवाक्यायुगलस्यास्मिन्कर्मणि विनियोग इति विशेषधीः काम्यमितिसमाख्यासामान्यात्क्रमवशाच्चेति लिङ्गक्रमाधिकरणे स्थितमित्यक्षरार्थः। लिङ्गयुक्तेन क्रमेण समाख्यानाच्च काम्यमित्युच्यमानमाम्नातं मन्त्रजातमिष्टिजातं च नियमेन संबध्नातीति सूत्रार्थः॥३३८॥३३९॥

इह त्वैकात्म्यधीयोगः काम्ययाज्येष्टिवन्न हि॥
तस्मात्कर्माभिसंबन्धो नैवैकात्म्यधियोऽमितेः॥३४०॥

अस्तु तर्हि प्रकृतेऽपि क्रमाधिकरणन्यायेन क्रमादेवाऽऽत्मधीः कर्मशेषः। तथा हितृतीये स्थितम्। क्रमश्च देशसामान्यात्। दर्शपूर्णमासयोः प्रधानानुमन्त्रणमन्त्रेष्वाम्नायमानेषूपांशुयाजक्रमे दधिर्नामासीति मन्त्रः सर्वप्रधानार्थः किंवोपांशुयाजार्थ इति संशयेनियोगैदमर्थ्येनान्वयस्य शाब्दत्वात्तस्य चाविशेषेण सर्वप्रधानार्थिताहेतुत्वाद्देशसामान्या-दृवयभेदस्याशाब्दत्वात्सर्वप्रधानार्थो मन्त्रो न क्रमादुपांशुयाजनिवेशीति पूर्वपक्षयित्वा नियोगैदमर्थ्येनान्वयस्य शाब्दत्वेऽपि तस्यैवं स्थानाख्यसंनिधिभेदा-द्व्यवस्थाप्यमानत्वाद्दधिमन्त्रः क्रमादुपांशुयाजार्थं एवेति राद्धान्तितम्। क्रमश्च श्रुत्यादिवद्विनियोजकः क्रमवतां प्रधानानामनु-मन्त्रणमन्त्रेष्वानुपूर्व्येणोपदिश्यमानेषु यस्य पर्याये यो धर्म उच्यते तस्य तं प्रत्याकाङ्क्षायाः सत्त्वात्संनिधिवशादेकवाक्यतेति सूत्रार्थः। एवं क्रमादात्मज्ञानस्यापि कर्मशेषता। यद्वा समाख्याधिकरणन्यायेन समाख्यया तस्य तत्र विनियोगः। तथा हि तत्रैव स्थितम्। आख्या चैवं तदर्थत्वात्। आध्वर्यवं हौत्रमौद्गात्रमित्यादिसमाख्यानेषु185 कर्मस्वनियमो वा यद्येन समाख्यायते तत्तेनैव वा कार्यमिति संदेहे समाख्याया लौकिकत्वाद्वेदार्थविषयमङ्गाङ्गिभावं नियन्तुमसामर्थ्यादनियमे प्राप्ते तस्या लौकिकत्वेऽपि वेदार्थविषयत्वाद्वैदिकविधेः समाख्यादृष्टविनियोग कल्पकत्वात्तया नियम इति सिद्धान्तः। यथा लोके पाचकादिशब्दमुपलभ्य पचत्यादिना संबन्धधीरेवं वेदेऽप्यकृतकार्यसंबन्धवाचिनं शब्दं दृष्ट्रा भवति संबन्धे तस्मिन्प्रत्ययस्तस्मादाख्या च विनियोक्त्र्यर्थधीहेतुत्वात्तस्या इति सूत्रार्थः। एवं प्रकृतेऽपि समाख्यया ज्ञानं कर्मणि विनियुक्तमिति नेत्याह। इह त्विति। न हि काम्ययाज्यानुवाक्याकाण्डवाच्यमन्त्रेष्टी-

नामिवाऽऽत्मधीकर्मणोः समाख्यासाम्यं क्रमसाम्यं वाऽस्ति तन्न ताभ्यां तस्यास्तस्मिन्नङ्गत्वेन संगतिरित्यर्थः। अस्तु तर्हि मानान्तरादात्मज्ञानस्य कर्मशेषता नेत्याह।तस्मादिति। श्रुत्याद्यतिरिक्तशेषशेोषित्वावेदकमानस्यालोकवेदसिद्धत्वादिति तत्पदोक्तं हेतुमाह। अमितेरिति॥३४०॥

न चाप्यस्यार्थवादत्वं विधिना वाक्यभेदतः॥
दृष्टार्थत्वाच्च तद्बुद्धेः पाठान्नादृष्टकल्पना॥३४१॥

नन्वात्मविद्याफलश्रुतिरर्थवादः प्रत्यक्षविरुद्धत्वादपाप श्लोकश्रुतिवदित्यनुमानात्पर्णमयीत्ववदात्मधियोऽपि कर्मशेषत्वसंभवाद-मितिरसिद्धेत्यत आह। न चेति। विध्येकवाक्यत्वव्याप्तमभूतार्थवादत्वं तदितो व्यावर्तमानं स्वव्याप्यमभूतार्थवादत्वमपि व्यावर्तयतीत्यर्थः। अस्येति फलवाक्योक्तिः। न चात्र फलश्रुतौ प्रत्यक्षविरोध उत्पन्नविद्यस्य दुःखानुभवाभावात्तद्वतश्वाविद्यावत्त्वादतो दुःखध्वस्तिश्रुतेरभूतार्थवादत्वाभावात्फलापेक्षयाऽपि विज्ञानस्य न कर्मशेषतेत्यपेरर्थः। ये तु जरद्गवादिवाक्यवद्विरुद्धार्थतया वेदान्ताप्रामाण्यात्तदध्ययनं ब्राह्मणस्य राजसूयाध्ययनवददृष्टार्थमिति ब्रुवन्तस्तेभ्यो नैक्यधीरित्याहुस्तान्प्रत्याह। दृष्टार्थत्वादिति। वेदान्ताप्रामाण्ये हेत्वभावात्तज्जन्यधियोऽशेषदुःखहानिफलस्य दृष्टत्वात्तदध्ययनं नादृष्टार्थमतस्तज्जधियः शेषत्वे मानाभावादप्रामाणिकः काण्डयोर्विपरीतः शेषशेषिभाव इत्यर्थः॥३४१॥

तमेतमिति वाक्यात्तुयागादेः प्रत्युताङ्गता॥३४२॥

अन्ये त्वाहुर्नशक्नोति कामसंदूषिताशयः॥
द्रष्टुं तत्परमद्वैतं सर्वकामासमाप्तितः॥३४३॥

न केवलमात्मधियः शेषत्वे मानाभावः प्रत्युत कर्मणां तच्छेषत्वे विविदिषावाक्यस्य मानत्वान्न विपरीतं शेषशेषित्वमित्याह। तमिति। ऐक्यधियः कर्मशेषत्वेन संबन्धं निराकृत्य कर्मणस्तच्छेषतया संबन्धः स्वाभीष्ट उक्तः। इदानीं कर्मणो ज्ञानशेषत्वेऽपि कामबिलयद्वारा तस्य तच्छेषत्वं न विविदिषाद्वारेति मतमाह। अन्ये त्विति। कामध्वस्तेर्ज्ञानाधिकारहेतुत्वं साधयति। नेत्यादिना। अन्वयव्यतिरेकाम्यां कामध्वस्तेरात्मधीहेतुत्वसिद्धिरित्यर्थः। अस्तु तर्हि प्रथममेव कामध्वस्त्या ज्ञानाधिकार इत्याशङ्क्याऽऽह।सर्वेति। सर्वे कामाः स्वर्गादयस्तत्समाप्तौ तेम्यो रागपरावृत्तिर्न त्वादावेव तदप्राप्तेस्तद्भोगस्य तेभ्यो रागध्वस्तिहेतोरसत्त्वादित्यर्थः॥३४२॥३४३॥

द्वैतैकत्वमतीहाभिः सूत्रान्तं फलमाप्य ना॥
प्राजापत्यं पदं भुक्त्वा तदैकात्म्यं प्रपद्यते॥३४४॥

तर्हि स्वर्गादीनामादावेवाऽऽप्तिद्वारा कामध्वंसोऽपि स्यादित्याशङ्क्याऽऽह। द्वैतेति। द्वैतैकत्त्रमतिः सूत्रात्मनो ध्यानमीहास्तु दर्विहोममारभ्य सत्रान्तानि कर्माणि तैस्तैर्मनुष्य -

त्वमारम्य सूत्रान्तं फलं क्रमेण प्राप्य सौत्रान्भोगान्मुक्त्वा तद्देहमानी तदन्यानुपभुक्तकामयितव्यकर्मफलाभावात्सर्वतोनिवृत्तकामः प्रजापतिरात्मरूपमनुभवत्येवं कर्मणां कामविलयमुखेन धीहेतुत्वे द्वारं प्राजापत्यं पदमित्यर्थः॥३४४॥

नैवं न कामसंप्राप्त्या तन्नाशोऽब्दशतैरपि॥
तत्सेवातोऽतिवृद्धिः स्यान्निवृत्तिर्दोषदर्शनात्॥३४५॥

कामध्वंसद्वारा कर्मणां धीशेषत्वं दूषयति। नैवमिति। यत्तु भोगात्कामध्वस्तिरिति तत्राऽऽह। नेति। भोगिषु कामध्वंसादृष्टेर्योग्या-नुपलब्धिबाधितमेतदिति भावः। किं तर्हि कामोपभोगाद्भवति तदाह। तदिति। कस्तर्हि186 कामध्वस्तिहेतुस्तत्राऽऽह। निष्टत्तिरिति॥३४९॥

न जातु कामः कामानामुपभोगेन शाम्यति॥
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते॥३४६॥

कामसेवारागातिशयहेतुर्न तद्ध्वस्तिनिमित्तमित्यत्र मन्वादिवाक्यं प्रमाणयति। न जात्विति॥३४६॥

निवर्तेतापि कामेभ्यस्तदुपायाप्रसिद्धितः॥
सर्वक्लेशोपशान्त्यात्मज्ञानं चापि समाश्रयेत्॥३४७॥

भोगस्य कामाध्वस्तित्वेऽपि कर्माण्यनुष्ठितानि तं निरुन्धन्ति न हि सुकृतेषु कामः स्थातुमलं न तु विषयदोषधीस्तद्ध्वंसिनीत्या-शङ्क्याऽऽह। निवर्तेतेति। कर्मधीतदनुष्ठानयोरभावे स्वर्गादेर्दुष्प्रापकत्वात्कथंचित्ततो विरागोऽपि स्यात्तज्ज्ञाने तदनुष्ठाने च तत्फलभोगस्याऽऽवश्यकत्वात्तेन रागोद्रेकात्कर्मद्वारा तत्फलाप्तिरिति न कदाचिदपि संसारचक्रातिक्रमोऽतो विषयसेवावत्कर्माण्यपि न कामं निवर्तयन्तीति भावः। किंच कर्मधीतदनुष्ठानाभावे कथंचित्तत्फलेच्छाध्वस्तावनवच्छिन्नब्रह्मानन्देच्छ्या तत्प्राप्तिहेतुं ज्ञानं संपिपादयिषुस्तद्धेतुषु श्रवणादिषु कदाचित्प्रवर्तेत। कर्मज्ञानादिभावे तु नैवमतोऽपि न कर्माणि रागध्वस्तिहेतव इत्याह। सर्वेति॥३४७॥

अथाऽऽनन्दः श्रुतः साक्षान्मानेनाविषयीकृतः॥
दृष्टानन्दाभिलाषं स न मन्दीकर्तुमप्यलम्॥३४८॥

मा तर्हि कर्माणि रागविरोधीनि भूवन्ब्रह्मानन्दस्तु श्रुतस्तदितररागं निरुन्ध्यादित्याशङ्क्याऽऽह। अथाऽऽनन्द इति। न तावत्प्राजापत्ये पदे स्थितो ब्रह्मानन्दं शृणोति शास्त्रस्य मनुष्याधिकारत्वाच्छ्रतोऽपि कथंचिदननुभूतो नानुभूतसजातीयफलरागप्रसरं मन्दीकर्तुमपि पारयति प्रागेव प्रत्याख्यातुमतः श्रुतोऽपि नासौ विषयरागध्वस्तिहेतुरित्यर्थः॥३४८॥

कामप्रविलयायातस्तद्विपक्षार्थभावनम्॥
विधयस्तत्क्रियाणां स्युस्तद्विपर्ययहेतवः॥३४९॥

यतो भोगकर्मब्रह्मानन्दा न कामध्वंसका अतो विषयदोषदर्शनाभ्यासप्रकर्षस्यैव तथात्वमित्युपसंहरति। कामेति। तस्य कामस्य विपक्षो विषयेषु दोषधीस्तस्या भावनमभ्यासः स विषयरागध्वस्ति फलयतीत्यर्थः। काम्यानां फलरागप्रकर्षहेतुत्वेऽपि नित्यानामफलत्वादतद्धेतुत्वात्तानि विषयाभिलाषनिरासीनीत्याशङ्क्याऽऽह। विधय इतिकर्मणा पितृलोक इत्यविशेष**श्रुते-**र्नित्यानामपि फलवत्त्वात्तान्यपि काम्यानीव स्वफलेषु रागोद्रेकहेतवो ऽतस्तेषां याः क्रियास्तासां विधयोऽनुष्ठानानि तानि तस्य कामध्वंसस्य विपर्ययस्तत्प्रकर्षस्तस्य हेतवस्तथा च दोषदर्शनाभ्यासादन्यो न तद्ध्वंसकृदित्यर्थः॥३४९॥

द्वारं न नियतं मुक्तेः प्राजापत्यं पदं भवेत्॥
नह्युपाधिषु तत्त्वस्य विशेषः कश्चिदीक्ष्यते॥३५०॥

यत्तु प्राजापत्यं पदं भुक्त्वेत्यादि तत्र तत्पदं तत्त्वज्ञानहेतुर्वा तत्त्वोत्कर्ष हेतुर्वा नाऽऽद्य इत्याह। द्वारमिति। मुक्तेस्तद्धेतुज्ञानस्येति यावत्। तद्यो यो देवानामित्यविशेषश्रुतेरित्यर्थः। द्वितीयं दूषयति। न हीति॥३५०॥

नाऽऽकाशस्य विशेषोऽस्ति कुम्भद्रोण्याद्युपाधिषु॥
दूरान्तिकादिभिन्नेषु कल्पिताकल्पितेष्वपि॥३५१॥

तत्र दृष्टान्तमाह। नेति। तत्रोपाधीनामेकरूपत्वादविशेषेऽपि मनुष्यादिसूत्रान्तोपाधीनां नानारूपत्वादत्र सविशेषतेत्याशङ्क्याऽऽह। कुम्भेति। संनिहितोपाधिष्वविशेषेऽपि व्यवहितेषु सविशेषत्वमाशङ्क्याऽऽह। दूरेति। उत्पन्नोत्पद्यमानोत्पत्स्यमानोपाधिषु सविशेषत्वमाशङ्क्याऽऽह।कल्पितेति॥३५१॥

सत्त्वा187पेक्षयाऽभेदो भावानां नाभ्युपेयते॥
स्वभावहानादन्योन्यं विशेषो बाह्य एव सः॥३५२॥

आकाशवन्निर्विशेषं ब्रह्मेत्ययुक्तं तस्य सत्तासामान्यरूपस्य सविशेषत्वादित्याशङ्क्य मनुष्यादयस्तद्विशेषाः सत्तत्त्वा187द्ब्रह्मणोऽभिन्ना भिन्ना वेति विकल्प्याऽऽये दोषमाह।सत्तत्त्वेति188। भावा मनुष्यादयो विशेषास्तेषां सद्रूपब्रह्मापेक्षया नाभेदस्तस्मादभिन्नत्वे तद्वत्तेषां विशेषत्व189भङ्गादित्यर्थः। भेदपक्षं प्रत्याह। सदिति। भावानां सतो भेदः सत्त्वेनासत्त्वेन वा नाऽऽद्यः प्रतियोगिनोऽसत्त्वप्राप्तेरिति मत्वा द्वितीयं निराह। स्वभावेति। असत्त्वेन सत्त्वाद्भिद्यमानविशेषणांन्निःस्वरूपत्वादसामान्यविशेषं विश्वं स्यादित्यर्थः। किंच विशेषा मिथोऽभिन्ना भिन्ना वा नाऽऽद्यो विशेषाद्वैतापातादुक्तदोषान्नेतरः सत्त्वेन भेदे प्रतियोग्यसत्त्वापत्तेरुक्तत्वादसत्त्वेन भेदे धर्मिणोऽसत्त्वापातात्तथा चोभय-

थाऽप्येक एव निःसामान्यविशेषो भावः स्यादित्याह। अन्योन्यमिति। अन्योन्यं भेदेऽभेदेऽपि स्वभावानादित्यन्वयः। का तर्हि भासमानविशेषस्य गतिस्तत्राऽऽहविशेष इति। स ब्रह्मण्यारोपितो मनुष्यादिविंशेष इत्युपादेयरूपवहिर्भूतः स इत्यर्थः॥३५२॥

कार्यकारणपक्षेऽपि कार्यं नान्यत्र कारणात्॥
न च तत्त्वे विशेषोऽस्ति कटकादीव हेमनि॥३५३॥

ब्रह्म सविशेषं कारणत्वात्सुवर्णवदित्याशङ्कय कार्याणि ततोऽभिन्नानि भिन्नानि वेति विकल्प्याऽऽद्ये तानि न तत्कार्याणि तदभिन्नत्वात्तद्वद्विति मत्वा द्वितीयं निराह। कार्येति। जगद्ब्रह्मणोः कार्यकारणत्वेऽपि नात्यन्तभेदस्तथाभूतयोरश्वमहिषवदत-द्भावादित्यर्थः। किं च कार्याणि कारणे ब्रह्मणि विशेषहेतवः स्वयमेव वा विशेषाः? नाऽऽद्य इत्याह।न चेति। तत्त्वे कारणे ब्रह्मणि न कार्यकृतो विशेषो मानाभावादित्यर्थः। विमतं कार्यकृतविशेषवत्कारणत्वात्सुवर्णवदित्याशङ्क्याऽऽह। कटकेति। नञ्पदमिहानुषज्यते। कटकादिकार्यकृतविशेषवत्त्वं न हेम्न्यस्ति190 तेषु वर्तुलत्वादिविशेषोपलम्भेऽपि हेम्नस्तदभावादतः साध्यविकलतेत्यर्थः। नापि कार्याण्येव तद्विशेषास्तेषामागमापायिनां सर्पवत्कल्पितानां तात्त्विकविशेषत्वायोगान्न हि कटकादयोऽपि हाटके स्वरूपातिरिक्तास्तात्त्विका विशेषा इत्याशयेनाऽऽह।कटकादीति॥३५३॥

अतः प्रजापतौ तत्त्वं कृमौ वा न विशिष्यते॥
तर्कादागमतश्चापि तद्यो य इति हीदृशात्॥३५४॥

ब्रह्मणि निर्विशेषत्वं निगमयति। अत इति। अतस्तर्कादिति संबन्धः। सामान्यविशेषभावायोगादिरनन्तरोक्तो यस्तर्कस्तस्य विपर्यये पर्यवसानाभावादाभासत्वमाशङ्क्याऽऽह।आगमतश्चेति। अत्र हि देवादिष्वविशेषतो ज्ञानोदयोक्तिसामर्थ्यादविशिष्टत्वं तेषु ब्रह्मणो दृष्टमित्यर्थः॥३५४॥

यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः॥
अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते॥३५५॥

सर्वोपाधिषु ब्रह्मणो निर्विशेषत्वे श्रौतलिङ्गान्तरमाह। यदेति। अत्र हि मर्त्यस्यामृतत्वोक्तेर्मर्त्यदेहस्थस्यैव ब्रह्मत्वोक्तेः कामानां हृदयाश्रितत्ववचनाच्च ब्रह्मणः सर्वोपाधिष्वविशेषतेति द्रष्टव्यम्॥३५५॥

एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा॥
कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च॥३५६॥

ब्रह्मणो निर्विशेषत्वे श्रौतं लिङ्गमुक्त्वा श्रुतिमुदाहरति। एक इति। मूर्तित्रयात्मना

पुराणादिसिद्धभेदवारणार्थमेकपदम्। वक्ष्यति च“हरिर्ब्रह्मा पिनाकीति बहुधैकोऽपि गीयते” इति। अखण्डं।जाड्यं निरस्यति। देव इति। सवितृवत्ताटस्थ्यं वारयति।सर्वभूतेष्विति। किमिति तर्हि सर्वैरात्मत्वेन न गृह्यते तत्राऽऽह। गूढ इति। आधाराधेयत्वेन भेदं शङ्कित्वाऽऽह। सर्वव्यापीति। सर्वमेतत्सत्तया सदेतत्प्रतीत्या च स्फूर्तिमदतः सदन्तराऽस्फूर्तेर्न वस्तुतः परिच्छेद इत्यर्थः। भूतानामन्तरात्मा नियम्योऽयं नियन्तेति कथं वस्तुतोऽपरिच्छेदस्तत्राऽऽह। सर्वभूतेति। सर्वेषां ब्रह्मादिस्तम्बान्तभूतानामयमेवा-न्तरात्मा सृष्टेषु भूतेष्वस्यैव प्रवेशश्रुतेरित्यर्थः। तस्य तर्हि कर्तृत्वादिशक्तिरन्तरात्मनस्तथात्वान्नेत्याह। कर्मेति। तर्हि जगद्व्यापारसाक्षित्वेन ततोऽर्थान्तरत्वाद्भेदतादवस्थ्यं नेत्याह। सर्वेति। सर्वेषां भूतानामयमधिवासोऽधिष्ठानत्वान्न च तद्विनाऽऽरोपितस्वरूपमिति न वस्तुतः परिच्छेद इत्यर्थः। तस्य वस्तुत्वाद्धवद्दृश्यत्वानुमानाद्द्रष्टन्तरापेक्षायां परिच्छिन्नतेति चेन्न जडत्वोपाधेरित्याह। साक्षीति। ईक्षणकर्तृत्वात्परिच्छिन्नतेत्याशङ्क्याऽऽह। चेतेति। द्रष्टृत्वात्सविकारित्वं लौकिकद्रष्टृवदित्या-शङ्क्याऽऽह। केवल इति। संनिधिमात्रेण विश्वव्यवहारहेतुतया चिन्मात्रत्वमस्य द्रष्टुत्वं न विकारितेत्यर्थः। ज्ञानानन्दौ ब्रह्मणो गुणावित्येके तान्निरस्यति। निर्गुण इति। किं बहुना सर्वविशेषशून्यमेकरसं ब्रह्मेति चार्थः॥३१६॥

विज्ञानकर्मणोस्रेधायद्युच्येत समुच्चयः॥
पूर्वोक्तैकात्म्यतात्पर्याद्वेदस्यासौ न युज्यते॥३५७॥

सर्वोपाधिषु ब्रह्मणो निर्विशेषत्वात्तत्प्राप्तौ प्राजापत्यं पदं न नियतं द्वारमिति कामध्वंसमुखेन कर्मणां धीहेतुत्वमप्रामाणिकमित्युक्तं संप्रति न तानि ज्ञानहेतवः किंतु तत्समुच्चितानि मुक्तेरेवेति मतमाह। विज्ञानेति। ज्ञानं प्रधानं कर्म गुणो विपरीतं वा तयोः समप्रधानत्वं वेति, त्रैविध्यं; तत्र कर्मभागो ज्ञानभागो वा मानं? नाऽऽद्यस्तस्य केवलकर्मणां स्वर्गादिहेतुत्वबोधने तात्पर्यादिति मत्वा द्वितीयं दूषयति। पूर्वेति। ऐकात्म्यविषयान्नान्यो वेदान्तवचसामित्यादिः पूर्वशब्दार्थः। वेदस्योपनिषद्भागस्येति यावत्। स त्वपवर्जिताखिलोपाधावेकरसे ब्रह्मात्मनि पर्यवस्यत्युपक्रमादीनां तात्पर्यलिङ्गानां तत्रैवोपलम्भात्तस्मादसौ समुच्चयोऽप्रामाणिकत्वाद-युक्त इत्यर्थः॥३५७॥

एकवाक्यावशीभावात्साध्यैक्यायोगतस्तथा॥
समुच्चयः कुतो द्रव्यगुणवज्ज्ञानकर्मणोः॥३५८॥

त्रिविधसमुच्चये साधारणदोषमुक्त्वा समसमुच्चये विशेषतस्तमाह। एकेति। अस्यार्थः। दर्शपूर्णमासयोर्यदाग्नेयोऽष्टाकपालोऽमा-वास्यायां पौर्णमास्यां चेत्यादिवाक्यैराग्नेयादिकर्माणि कालद्वयसंयुक्तान्युत्पन्नानि य एवं विद्वान्पौर्णमासीं यजते य एवं विद्वानमावास्यां यजत इति च श्रुतम्। तत्र किं यजती कर्मणोरपूर्वयोर्विधायको किंवा प्रकृताग्नेयादि-

समुदायद्वयानुवादकाविति संशये समिधो यजतीत्यादिवदभ्यासात्कर्मान्तरविधौ प्राप्ते प्रकृतानि कर्माणि पौर्णमास्य-मावात्यायुक्तवाक्ययोरालम्बनं रूपभेदानुक्तेरिति राद्धातितं द्वितीये प्रकरणं तु पौर्णमास्यां रूपावचनादित्यत्र। अतो यथा यजतिम्यां समुदायानुवादाद्दर्शपूर्णमासाभ्यामित्याधिकारिकद्वित्वोपपत्तावाग्नेयादीनामेकाधकारवाक्यसंबन्धात्समप्रधानानामपूर्वादौ समुच्चयो न तथा ज्ञानकर्मणोरिति । तत्रैव हेत्वन्तरमाह। साध्येति। एषोऽर्थः। आग्नेयादीनां प्रत्येकं फलसंबन्धः किंवा तत्रमेषां फलमिति संदेहे मिथोनपेक्षोत्पत्तिविध्युत्पन्नप्रधानानां पृथक्फलाकाङ्क्षत्वात्ततत्संनिधौ श्रुतं फलमेकं प्रत्येकमेति संबन्धमिति प्राप्ते तेषां समुदायवाचिदर्शपूर्णमासशब्देनोक्त्या191 फले विधानात्तन्त्रं फलमित्येकादशे प्रयोजनाभिसंबन्धात्पृथक्त्वमित्यादिना चिन्तितं न तथा ज्ञानकर्मणोर्धुवाध्रुवफलयोः साध्यैक्यं तत्कुतः समुच्चय इति। तयोर्गुणप्रधानत्वेनासमुच्चये वैधर्म्यदृष्टान्तमाह। द्रव्येति। अस्यार्थः। अर्थैकत्वे द्रव्यगुणयोरैककर्म्यान्नियमः स्यात्। ज्योतिष्टोमेऽरुणयैकहायन्या सोमं क्रीणाति तत्राऽऽरुण्यं कृत्स्ने प्रकरणे निविशते क्रय एव वैकहायन्यामिति संशय्यारुणया क्रीणातीति तृतीयानिर्देशाद्वाक्येन क्रयसंबन्धावगमेऽपि गुणस्यामूर्ततया साक्षात्क्रिया-न्वथायोगाद्वाक्यं भित्त्वा सामर्थ्येन प्राकरणिकद्रव्यमात्रशेषतया निवेश इति प्राप्ते गवा यजेतेत्यत्राऽऽकृतिवदमूर्तस्यापि गुणस्य क्रयसाधनद्रव्यपरिच्छेदेन क्रयान्वयसंभवाद्वाक्यभेदाप्रसङ्गादरुणैकहायन्योरितरेतरनियमाद्वाक्यवशात्क्रय एवैकहायन्याम-रुणिनो निवेश इति तृतीये स्थितम्। यत्र द्रव्यगुणयोरर्थैक्यं श्रुतं तत्र तावेकस्मिन्पदार्थे नियम्येयातामैककर्म्यादेककार्यत्वादेकं हि क्रयसंबन्धाख्यं कार्यमत्र श्रुतमिति सूत्रार्थः। तथा चारुणैकहायन्योर्गुणप्रधानतया क्रये समुच्चयवन्न ज्ञानकर्मणोरेकत्र साधनत्वेनानवगतयोरङ्गाङ्गितया समुच्चय इति त्रिधा समुच्चयासंभवं फलितमाह। समुच्चयः कुतो ज्ञानकर्मणोरिति॥३५८॥

भेदाभेदाश्रयत्वेन ह्यैकात्म्यज्ञानकर्मणोः॥
परस्परोपकारित्वहानात्कीदृक्समुच्चयः॥३५९॥

तत्रैव युक्त्यन्तरमाह। भेदेति। उपकार्योपकारकत्वाविनाभूतः समुच्चयः। इह च कर्तृत्वादिविभागाश्रितकर्मणस्तद्रहिताद्वितीयात्म-धियश्च मिथो नोपकार्योपकारकत्वमतो व्यापकाभावात्तद्व्याप्तः समुच्चयोऽपि नास्तीत्यर्थः॥३५९॥

देवताद्रव्ययाथात्म्यज्ञानं कर्माङ्गतां गतम्॥
तावदेव हि तत्कर्म नाज्ञातद्रव्यदैवतम्॥३६०॥

विमतं ज्ञानं कर्मसमुच्चयार्हं ज्ञानत्वाद्देवतादिज्ञानवदित्याशङ्क्याऽऽह। देवतेति

कर्माङ्गतां तदन्तर्भूतत्वेन तद्देहतामित्येतत्। देवतादिज्ञानस्य कर्मान्तर्भूतत्वेन तदात्मकस्य तेनासमुच्चयात्साध्यविकलतेति भावः। ननु देवतादिज्ञानं न कर्मान्तर्भूतं तद्धीनस्यापि कर्मानुष्ठानात्तेनोभौ कुरुत इति श्रुतेरतोऽर्थान्तरत्वात्तस्य कर्मणा समुच्चयो नेत्याह। तावदितितद्धि कर्म यज्ज्ञातद्रव्यदेवताकं विद्वान्यजते ज्ञात्वा कर्म समारभेतेति श्रुतेर्ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसीति च स्मृतेर्न तु तदज्ञातद्रव्यदेवताकं यो ह वा अविदितार्षेयच्छन्दोदैवतब्राह्मणेन मन्त्रेण याजयति वाऽध्यापयति वा स्थाणुं चर्छति गर्त वा पद्यत इति निन्दाश्रुतेरतो देवतादिज्ञानं कर्मान्तर्भूतमित्यर्थः॥३६०॥

तद्विशेषेऽङ्गभूयस्त्वात्फलभूयस्त्वमित्यतः॥
समुच्चयो न तस्य स्यान्नाङ्गेनाङ्गिसमुच्चयः॥३६१॥

यद्यज्ञातदेवतादियाथात्म्य, य कर्माननुष्ठानं तर्हि तेनोभौ कुरुत इत्यत्र कथमिष्टं तत्राऽऽह। तद्विशेष इति। देवतादियाथात्म्यधी-रूपाङ्गविशेषयोगे कर्मणो भूयस्त्वात्तत्फलस्यापि भूयस्त्वं यदेव विद्यया करोतीत्यादिश्रुतेरतो देवतोपास्तिहीनस्यापि कर्मानुष्ठानं स्यान्न फलभूयस्त्वं यदेव विद्ययेति हीति न्यायादित्यर्थः। फलातिशयवति कर्मव्यङ्गस्यापि भूयस्त्वाद्देवतादिज्ञानस्य तेन समुच्चयात्तदेकफलत्वात्कुतो दृष्टान्तस्य साध्यविकलतेत्याशङ्क्याऽऽह। समुच्चय इति। देवतादिज्ञानं तस्येत्युच्यते। अङ्गशब्दः स्वरूपविषयः। अङ्गिपदं तदभिन्नस्वरूपिपरम्। तथाच पृथगेव सिद्धस्वरूपाणां प्रयाजादीनां फलोपकारितया दर्शादिना समुच्चयसिद्धिरिति द्रष्टव्यम्। अथवा प्रयाजादीनामपि दर्शपूर्णमासाद्यङ्गानां नाङ्गिना दर्शपूर्णमासादिना समुच्चयस्तद्विशिष्टस्यैव दर्शपूर्णमासादेः स्वर्गादौ साधकतमत्वात्सेतिकर्तव्यताकस्यैव करणत्वात्तथा देवतादिज्ञानस्य कर्मशेषत्वेऽपि तद्विशिष्टस्यैव तस्य फलभूयस्त्वे साधकतमत्वान्न तेनैव तस्य समुच्चयसिद्धिः॥३६१॥

यच्चाप्यैकात्म्यविज्ञानं तदज्ञानैकघस्मरम्॥
तस्मिन्सति कुतः कर्म का वाऽपेक्षाऽस्य गोचरे॥३६२॥

देवतादिज्ञानदृष्टान्तस्य साध्यवैकल्यमुक्त्वा ज्ञानत्वहेतोः प्रत्यनुमानमाह। यच्चेति। विमतं न कर्मणा समुच्चीयते तद्विरोधित्वाद्यद्यद्विरोधि न तत्तेन समुच्चीयते यथा प्रकाशस्तमसेत्यर्थः। प्रकाशः स्वकार्ये तमो नापेक्षते ज्ञानं तु तस्मिन्कर्मापेक्षमतो न तदुपमृगातीति हेत्वसिद्धिमाशङ्क्याऽऽह। का वेति। अस्य ज्ञानस्य गोचरो ब्रह्मात्मत्वाख्योऽपवर्गस्तत्र तस्य नान्यापेक्षा सम्यग्धियः स्वफले नैरपेक्ष्यस्य शुक्त्यादिज्ञाने दृष्टत्वादित्यर्थः॥३६२॥

ब्राह्मणत्वादिविज्ञानमग्निहोत्रादिकर्मणाम्॥
यदृष्टं साध्यसिद्ध्यै तु कर्मानुगुणमेव तत्॥३६३॥

ननु कर्तुरात्मनो ज्ञानस्य पक्षत्वात्कथं प्रत्यनुमानं तर्हि सिद्धसाध्यतेत्याह। ब्राह्मण-

त्वादीतिशुद्रो यज्ञेऽनवक्लृप्त इति श्रुतेः शूद्रेणानधिकारिणाऽनुष्ठितानामप्यग्निहोत्रादीनां नैष्फल्यात्तत्फलमुद्दिश्य ब्राह्मणादिज्ञानं ब्राह्मणो बृहस्पतिसवेनेत्यादिना यद्वृष्टंतत्कर्मोपकारकमतस्तस्य कर्मसमुच्चयेऽपि न क्षतिरित्यर्थः॥३६३॥

ऐकात्म्यवस्तुयाथात्म्यबोधे जात्यादिबाधनात्॥
न केवलं क्रिया न स्यात्कर्मणां प्रत्युताक्रिया॥३६४॥

किंच ज्ञानोत्पत्त्युत्तरकालैर्वा कर्मभिः समुच्चयः प्राक्तनजन्मार्जितैर्वा प्राग्ज्ञानोत्पत्तेरस्मिन्नेव जन्मन्यापादितै192र्वा तत्राऽऽद्ये दोषमाह। ऐकात्म्येति। क्रियेत्यनुष्ठानोक्तिः। ऐकात्म्यमेव वस्तुयाथात्म्यमतिरिक्तस्याऽऽरोपितत्वात्तस्य बोधे वाक्यीये सत्यबोधनाधया तन्निमित्तदेशजात्यादिबाधात्तत्प्रयुक्तकर्मणामनुष्ठानं न सिध्येत्तथा च कथं ज्ञानात्पराचीनकर्मभिस्तत्समुच्चयः। द्वितीयं निरस्यति। प्रत्युतेति। न केवलं तदसिद्धिः प्रत्युतानुष्ठानविपरीतमक्रियाशब्दितं कर्मणामसत्त्वमेवेति योजना।आत्मापरोक्षज्ञानेनाज्ञानस्य निरस्तत्वात्तन्मूलजन्मान्तरार्जितकर्माभावात्तैरपि ज्ञानस्य समुच्चयायोगादित्यर्थः॥३६४॥

अयथावस्तुसर्पादिज्ञानं हेतुः पलायने॥
रज्जुज्ञानेऽहिधीध्वस्तौ कृतमप्यनुशोचति॥३६५॥

अज्ञानकार्याणां तन्निवृत्तौ निवृत्तिर्न कर्मणामतत्कार्यत्वादित्याशङ्क्याऽऽह। अयथेति। रज्जुसर्पादि तावदयथावस्तु तज्ज्ञानं ज्ञानविरुद्धत्वादज्ञानं तत्पलायनादौ हेतुत्वेन लोकसिद्धमेवं कर्माण्यप्यज्ञानमूलानि। अज्ञोहि कामयमानस्तानि करोत्यतो ज्ञानादज्ञानध्वस्तौ तद्ध्वस्तिरित्यर्थः। यस्मिञ्जन्मनि ज्ञानं तस्मिन्नेव ज्ञानोदयात्प्राक्कालीनकर्मभिः समुच्चयो ज्ञानस्येति तृतीयमाशङ्क्याऽऽह। रज्ज्विति। यथा लोके रज्जुरेवेति ज्ञाने सति विद्वान्निमित्तनिवृत्तेः पूर्वकृतानि पलायनादीन्यनुशोचति तथा ज्ञाततत्त्वो बन्धध्वस्तावेतावन्तं कालं वृथैव कर्माकार्षमित्यनुशोचति तस्मादैहिकैरपि ज्ञानात्प्राक्कालीनकर्मभिर्न समुच्चयस्तदधिगमाधिकरणन्यायादिति भावः॥३६५॥

न कर्मव्यापृतिर्मुक्तावाप्त्यादीनामभावतः॥
न च श्रुत्यादयस्तत्र तेन स्यान्न समुच्चयः॥३६६॥

ज्ञानकर्मणोः सर्वप्रकारसमुच्चयाभावे युक्त्यन्तरमाह। न कर्मेति। विद्यां चाविद्यां चेत्यादिश्रुतेर्यथाऽन्नं मधुसंयुक्तमित्यादिस्मृतेश्च समुच्चयमाशङ्क्याऽऽह। न चेतिश्रुतिस्मृतीनां समुच्चयवादिनीनां क्रमसमुच्चयपतेति भावः। मानाभावफलमाह।तेनेति॥३६६॥

अन्तरङ्गं हि विज्ञानं प्रत्यङ्मात्रैकसंश्रयात्॥
बहिरङ्गं तु कर्म स्याद्बाह्यद्रव्याश्रयत्वतः॥३६७॥

अन्तरङ्गबहिरङ्गयोरन्तरङ्गं बलवदिति न्यायात्प्रचलदुर्बलयोर्ज्ञानकर्मणोर्न समुच्चय इत्याह। अन्तरङ्गं हीति॥३६७॥

सत्यन्तरङ्गे विज्ञाने बहिरङ्गं न सिध्यति॥
संस्कारकं तु कर्म स्याज्ज्ञानात्त्वज्ञाननिह्नुतिः॥३६८॥

अन्तरङ्गस्यापि बहिरङ्गापेक्षा कार्यवशादविरुद्धा राजान्तरङ्गस्यैव प्रधानस्य शिविकोद्वाहकादिष्वपेक्षादर्शनादित्याशङ्क्याऽऽह। सतीति। मुक्त्यन्तरङ्गे ज्ञाने सति तद्बहिरङ्गं कर्म न भवति तद्धेत्वज्ञानध्वंसादसति कर्मणि ज्ञानस्य नापेक्षेत्यर्थः। अस्तु तर्हि बहिरङ्गस्य कर्मणोऽन्तरङ्गज्ञानापेक्षा मोक्षार्थश्च समुच्चय इति नेत्याह। संस्कारकमिति। कर्मणां मोक्षोपायत्वे ज्ञानापेक्षया193 समुच्चयो न च तदस्ति तेषां कार्यान्तरे विनियोगस्य प्रागुक्तत्वादित्यर्थः। ज्ञानमपि पुरुषसंस्कारकं वैदिकोपायत्वात्कर्मवदित्याशङ्क्याऽऽह। ज्ञानादिति। विमतमज्ञाननिवर्तकं तत्त्वज्ञानत्वाद्रज्जुज्ञानवदित्यर्थः॥३६८॥

यथावस्त्वात्मविज्ञानं, मोहमात्राश्रयाः क्रियाः॥
सम्यग्ज्ञाने कुतः कर्म कर्महेतूपमर्दनात्॥३६९॥

तर्हिकर्माप्यज्ञाननिवर्तकं पुमर्थोपायत्वाज्ज्ञानवदित्याशङ्क्य तत्त्वज्ञानत्वमुपाधिरित्याह। यथेति। किंच कर्म नाज्ञाननिवर्तकम-यथावस्त्वनुरोधित्वाद्रूप्यधीवदित्याह।मोहेति। केवलकर्मणोऽज्ञानानिवर्तकत्वेऽपि समुच्चितस्य तन्निवर्तकत्वमित्याशङ्क्याऽऽह।सम्यगिति । ज्ञानस्य कर्मनिवर्तकत्वानुपलम्भात्कथं तत्काले कर्माभावस्तत्राऽऽह।कर्मेति॥३६९॥

नित्यप्राप्तं च विज्ञानं प्रतीचः संनिधेः सदा॥
कर्मानित्यं पृथग्रूपं नित्यं चानित्यबाधकम्॥३७०॥

कर्मवज्ज्ञानस्याप्यज्ञानजत्वात्तत्समानयोगक्षेमत्वमित्याशङ्क्याऽऽह। नित्येति। ज्ञानमात्मस्वभावश्चित्प्रकाशस्तस्य नित्यत्वान्न कर्मतुल्यतेत्यर्थः। तन्नित्यत्वे हेतुमाह। प्रतीच इति। सर्वत्र सर्वदा प्रतीचः स्वरूपत्वेन सत्त्वात्तदात्मकचित्प्रकाशाख्यं ज्ञानं नित्यमपि वाक्योत्थबुद्धिसध्रीचीनमेव सहेतुं बन्धं धुनोतीति भावः। ज्ञानवत्कर्मापि नित्यमन्यथा संसारसादित्वापत्तेरित्याशङ्क्याऽऽह। कर्मेति। नहि कर्तव्यतया विधीयमानं कर्म नित्यं न च संसारस्येदंप्रथमता तद्धेत्वज्ञानस्यानादित्वादित्यर्थः। कर्मानित्यत्वे हेतुमाह।पृथगिति। नानाकारकतन्त्रत्वान्नानाकर्मातोऽनित्यमित्यर्थः। ज्ञानकर्मणोर्नित्यत्वानित्य-

त्वाभ्यां सिद्धमर्थमाह। नित्यं चेति। निष्प्रपञ्चब्रह्माकारधीवृत्तिविशेषसमेतो दृगात्मा स्वविपरीतावभासनिमित्तमज्ञानं सकार्य-मुच्छिनत्त्यतो विलक्षणस्वभावयोर्ज्ञानकर्मणोर्न समुच्चितिरिति भावः॥३७०॥

क्षयी कर्मार्जितो लोकः, स्वराडब्रह्मावबोधतः॥
लब्धे त्रैलोक्यराज्ये ना भिक्षामाद्रियते तु कः॥३७१॥

तत्रैव हेत्वन्तरमाह। क्षयीति। विरुद्धफलत्वाद्धीकर्मणोश्चित्रादर्शादिवन्न समुच्चय इत्यर्थः। ननु मोक्षमाणस्य ज्ञाने सति मोक्षकामना-निवृत्तावपि कर्मफलाभिलाषानिवृत्तेस्तदर्थं कर्मानुष्ठाने समुच्चयसिद्धिस्तत्राऽऽह। लब्ध इति॥३७१॥

भिन्नप्रकरणं ज्ञानं काङ्क्षितं न च कर्मणा॥
विरोधाच्च स्वतन्त्रं तद्गुणभूतं न कस्यचित्॥३७२॥

ज्ञानकर्मणोर्गुणप्रधानत्वेन समप्रधानत्वेन वा समुच्चयमुक्त्वा कर्म प्रधानं गुणो ज्ञानमिति यः समुच्चयः स प्राकरणिको वा श्रुत्यादिगम्यो वेति विकल्प्याऽऽद्यं प्रत्याह।भिन्नेति। द्वितीयं दूषयति। काङ्क्षितमिति। कर्मणा ज्ञानस्यानाकाङ्क्षितत्वात्तयोः सामान्यसंबन्धासिद्धौ न श्रुत्यादिभिस्तद्विशेषसिद्धिरित्यर्थः। किं चोपकार्यस्योपकारकेऽपेक्षा न चानयोस्तद्भावो विरुद्धस्वभावत्वात्तन्न समुच्चय इत्याह। विरोधाच्चेति। ज्ञानस्य कर्मागुणत्वेऽपि स्वफलं प्रति गुणत्वान्न स्वातन्त्र्यमित्याशङ्क्याऽऽह।गुणेति। ज्ञानफलं कैवल्यं तदभिन्नमिति भावः॥३७२॥

यतो वस्त्वनुरोध्येत ज्ञातृवशवर्त्यतः॥
अज्ञानोच्छित्तये ज्ञानं स्वतन्त्रं तेन भण्यते॥३७३॥

यथा कर्म कर्तृतन्त्रं तथा ज्ञानमपि ज्ञातृतन्त्रं तन्न स्वातन्त्र्यमित्याशङ्क्याऽऽह। यत इति। तथाऽपि वस्तुतन्त्रं कथं स्वतन्त्रमित्या-शङ्क्याह। अज्ञानेति। वस्तुतन्त्रत्वं तेनेति परामृश्यते। स्वतन्त्रं स्वफले हेत्वन्तरानपेक्षमिति यावत्॥३७३॥

अनावृत्तिश्च कर्मभ्यो न क्वचिच्छ्रूयते स्फुटम्॥
ज्ञानादेव त्वनावृत्तिः श्रूयते बहुशः श्रुतौ॥३७४॥

कर्म प्रधानं गुणो ज्ञानमिति समुच्चयो मा भूत्तद्विपरीतस्तु स भविष्यतीत्याशङ्क्याऽऽह।अनावृत्तिश्चेति। मुक्तिहेतोर्ज्ञानस्य तदहेतुषु कर्मसु नापेक्षात्तन्न194 विपरीतसमुच्चयोप्यमानत्वादित्यर्थः। न च पुनरावर्तत इत्यादौ कर्मभ्यो मुक्तिः श्रुतेत्याशङ्क्याऽऽह।स्फुटमिति। न हि तत्र कर्मणामनावृत्तिहेतुत्वं स्पष्टमुपासीनस्य क्रममुक्तिप्रति-पादनात्कार्यात्यये तदध्यक्षेण सहेत्यादिन्यायादिति भावः। कर्मवज्ज्ञानमपि नानावृत्तिहेतुर्वेदिकसाधनत्वादित्याशङ्क्याऽऽह। ज्ञानादिति। ज्ञानस्यानावृत्तिसाधनत्वं फला-

ध्याये साधितमिति तुशब्दार्थः। तत्र श्रुतेरन्यपरत्वमाशङ्क्याऽऽह। बहुश इतिनिचाय्य तं मृत्युमुखात्प्रमुच्यत इत्याद्या श्रुतिः॥३७४॥

एकरूपं च विज्ञानमेकरूपात्ममेयतः॥
भिन्नरूपाणि कर्माणि बहुकारकसंश्रयात्॥३७५॥

ज्ञानकर्मणोर्गुणप्रधानत्वेन समुच्चयं निरस्य समप्रधानतया तमेव युक्त्यन्तरेण विघटयति। एकरूपं चेति। कर्मणामपि ज्ञानवदेकरूपत्वमाशङ्क्याऽऽह। भिन्नेति॥३७१॥

एकरूपस्य मोक्षस्य भिन्नरूपं न साधनम्॥
एकरूपस्य मोक्षस्य ह्येकरूपं हि साधनम्॥३७६॥

अनेकरूपाण्येव तानि ज्ञानस्य मुक्तौ सह कुर्वन्तीत्याशङ्क्याऽऽह। एकरूपस्येति। नित्यस्य मोक्षस्य ज्ञानमपि न साधनं नित्यत्वव्याघातादित्याशङ्क्याऽऽह। एकरूपस्पेति। योग्यं योग्येन संबध्यत इति न्यायमेकेन हिशब्देन द्योतयति। द्वितीयेन नित्यस्यापि मोक्षस्य प्रतिबन्धध्वस्तौ ज्ञानापेक्षेति सूचयति॥३७६॥

तस्मात्कर्मफलं नाना नानाकर्मसमुद्भवम्॥
देवमानुषतिर्यक्षु कर्तुः शास्त्रैर्निदर्शितम्॥३७७॥

तर्हि किंफलानि कर्माणीत्याशङ्क्याऽऽह। तस्मादिति। एकरूपस्य मोक्षस्याकर्मफलत्वं तच्छब्दार्थः। संसारसुखस्य नानात्वे हेतुमाह। नानेति। कस्येदं कर्मफलमिति तत्राऽऽह। देवेति। नानायोनिषु वर्तमानस्य कर्तुस्तत्फलं न ब्रह्मजिज्ञासोरिति शास्त्रैरिति नु कामयमान इत्यादिभिरुक्तमित्यर्थः॥३७७॥

अन्ये तु मन्वते केचिद्गम्भीरन्यायवादिनः॥
भेदस्य विलयो वेदे गम्यते कस्यचित्क्वचित्॥३७८॥

कामध्वंससमुच्चयपक्षप्रत्युक्त्या कर्मकाण्डस्य विविदिषाद्वारा ब्रह्मकाण्डशेषतेति पारिशेष्यादुक्तम्। अथ प्रपञ्चविलयद्वारा कर्मकाण्डस्येतरशेषत्वात्पारिशेष्यासिद्धिरिति मतमुत्थापयति। अन्ये त्विति। वक्ष्यमाणपक्षस्य सुकरं निरसनमिति सूचयितुमुपहसति। गम्भीरेति। न्यायाभासवादिन इति यावत्। प्रपञ्चाभावपरत्वे शास्त्रस्य न प्रपञ्चोऽस्तीत्येतावताऽलं किं बहुप्रपञ्चेन वेदेनेत्याशङ्क्याऽऽह। भेदस्येति। निषेध्यबाहुल्यान्निषेधकवेदस्यापि युक्तं तथात्वमित्यर्थः॥३७८॥

देहात्मभावविलयः स्वर्गकामपदे यथा॥
देहाद्भिन्नोऽधिकार्यत्र स्वर्गभोग्यवगम्यते॥३७९॥

कर्मविधयस्तत्कार्यत्वं बोधयन्ति न प्रपञ्चाभावमित्याशङ्क्याऽऽह। देहेति। यथा काण्डयोरुक्तरीत्या शेषशेषित्वं तथा दृष्टान्तः स्वर्गकामपदोपेतवाक्ये देहात्मत्वस्य लयो गम्यते तेन तल्लयपरत्वमित्यर्थः। ननु यागस्य स्वर्गसाधनत्वपरमिदं न कस्यचिल्लयपरमित्याश-

ङ्क्याऽऽह। देहादिति। अत्र हि कालान्तरादिगतस्वर्ग भोगशक्तोऽधिकारी सिद्धः स च देहाद्भिन्नो देहस्यात्रैव भस्मीभूतस्य तद्भोगायोगादतो देहात्मत्वलये प्रमातव्ये तत्रैव वाक्यतात्पर्यं साधनपरत्वे देहातिरेकोऽशक्यप्रमो मनुष्योऽहमित्यध्यक्षनाधालयपरत्वे तु न तद्बाधस्तत्परस्य तद्विरोधेऽपि नायं सर्प इत्याप्तोक्तिवद्बलवत्त्वाद्यागस्य च स्वर्गसाधनत्वमन्यपरेणापि वाक्येन शक्यं देवताधिकरणन्यायेन प्रमातुमिति स्वर्गकामवाक्यं लयपरमेवेति भावः॥३७९॥

गोदोहनेनेत्यत्रापि विलयोऽन्याधिकारिणः॥
अधिकृताधिकारित्वान्नान्योऽधिक्रियते यतः॥३८०॥

तथाऽपि वाक्यान्तरस्य तत्परत्वाभावात्काकतालीयमेतदित्याशङ्क्याऽऽह। गोदोहनेनेति। गोदोहनेन पशुकामस्य प्रणयेदित्यत्र दर्शाद्यधिकारिणः सकाशादन्यस्य स्वतन्त्रस्याधिकारिणो लयधीरित्यत्र हेतुमाह। अधिकृतेति। यः स्वर्गकामः स दर्शाद्यधिकृतस्तस्यैव पशुकामस्य सतो गोदोहनेऽधिकारित्वान्न स्वतन्त्रोऽत्राधिकारीति युक्तं गोदोहनवाक्यस्यापि विलयपरत्वमित्यर्थः॥३८०॥

रागाद्युत्थमवृत्तीनां निषेधेषु लयोऽञ्जसा॥
विधिष्वपि लयस्तासां195 कार्यान्तरनियोगतः॥३८१॥

काम्यविधीनां लये तात्पर्यमुक्त्वा निषेधवाक्यानामपि तत्रैव तात्पर्यमाह। रागादीति। नित्यनैमित्तिकविधीनां तत्परत्वमाह। विधिष्विति। नित्यनैमित्तिकविधिष्वपि स्वाभाविकप्रवृत्तीनामभावो भातीत्यर्थः। कथं तर्हि विधिनिषेधयोर्भेदस्तत्राऽऽह। कार्यान्तरेति। सायंप्रातरग्निहोत्रं जुहुयादिति व्यापारान्तरनियोगमुखेन तत्काले कार्यान्तरस्यानवसरमापादयन्तस्तदभावे नित्यादिविधयः पर्यवस्यन्तीत्यर्थः॥३८१॥

लोकेऽपि चानभिप्रेतात्पथः साक्षान्निवारणम्॥
मार्गान्तरोपदेशाद्वा वेदेऽप्येवं प्रतीयताम्॥३८२॥

कल्पनालाघवात्तेऽपि कस्मादभावमेव नाभिदधीरन्नित्याशङ्क्याऽऽह। लोकेऽपीति। लोकवेदयोरेकप्रस्थानतया लोकानुसारिणि वेदे गौरवं नावतरतीत्यर्थः॥३८२॥

एवं रागादिहेतूत्थप्रवृत्तिलयवर्त्मना॥
आत्मज्ञानाधिकारार्था निःशेषा विधयः स्थिताः॥३८३॥

कर्मकाण्डस्य प्रपञ्चलयद्वारा ज्ञाननियोगशेषत्वमुपसंहरति। एवमिति। प्रवृत्तिलयो देहादिलयस्याप्युपलक्षणम्। अधिकारो नियोगः। विधिशब्दो निषेधानामप्युपलक्षणम्॥३८३॥

नैतदेवं यतोऽशेषा न कर्मविधयः श्रुतौ ॥
स्ववाक्यावगतात्कार्यादपेक्षन्ते फलान्तरम् ॥ ३८४ ॥

कर्मकाण्डस्य भेदलयद्वारा ज्ञाननियोगशेषत्वं दूषयति। नैतदिति। कर्मविधयो मोक्षार्थिनो वा स्वर्गार्थिनो वा प्रपञ्चाभावमात्रार्थिनो वा ज्ञाननियोगविषयं प्रतिपित्समानस्य वा प्रपञ्चाभावमाहुस्तत्राऽऽद्यं निरस्यति। यत इति। सर्वे कर्मविधयः श्रुतौ श्रुताः स्ववाक्यावगतात्स्वर्गादिफलात्फलान्तरं मोक्षाख्यं नापेक्षन्तेऽतस्तदर्थं प्रपञ्चाभावं नाभिदध्युरित्यर्थः॥३८४॥

वेदेऽनुष्ठानतात्पर्यान्न लयो गम्यते क्वचित्॥
फलश्रुतेरभावो हि साध्यः स्यादफलः कथम्॥३८५॥

द्वितीयं निराकरोति। वेद इति। न हि कर्मकाण्डे क्वचिदपि भेदस्य कस्यचिदपि लयो गम्यते तस्यानुष्ठाने तात्पर्यान्न च प्रपञ्चाभावः स्वर्गहेतुः किंतु कर्मैव तन्न स्वर्गार्थिनस्तदभावं कर्मविधयो ब्रूयुरित्यर्थः। अनुष्ठाने तात्पर्ये हेतुमाह। फलेति। स्वर्गादिश्रवणात्तद्धेतुयागाद्यनुष्ठानपरं कर्मकाण्डमित्येतत्। तृतीयं प्रत्याह। अभावो हीति। प्रपञ्चाभावो न साध्योऽभावत्वात्कूर्मरोमवत्पुत्राद्यभाववदपुमर्थत्वाच्चातस्तन्मात्रेच्छायोगात्तदर्थिनो,न प्रपञ्चाभावबोधिनो विधय इत्यर्थः॥३८९॥

वस्तुनोऽवगतिर्नापि लयाद्भवति कुत्रचित्॥
अभावेऽप्युपपन्नत्वात्सुषुप्ते चाप्यनीक्षणात्॥३८६॥

चतुर्थं दूषयति। वस्तुन इति। ज्ञाननियोगस्य ज्ञानसाधनं विषयो यथा स्वर्गनियोगस्य तत्साधनं कर्म न चाऽऽत्मज्ञाने प्रपञ्चाभावो हेतुर्न हि क्वचिदपि वस्तुनोऽवगतिर्भवति लयादित्य196धिगतिरतो ज्ञाननियोगस्य नासौ विषय इत्यर्थः। प्रपञ्चाभावस्याऽऽत्मज्ञानाहेतुत्वं स्फुटयति। अभावेऽपीति। चन्द्रद्वित्वप्रत्यये सत्येवाऽऽप्तवाक्यादिना चन्द्रैक्यधीवत्प्रपञ्चलयस्याभावे दे॒हादेर्भावेऽपि श्रुत्यादिना ब्रह्मावगतेरुपपन्नत्वात्प्रपञ्चाभावो न तद्धेतुरित्यर्थः। तस्य तेन व्यतिरेकाभावमुक्त्वाऽन्वयोऽपि नास्तीत्याह। सुषुप्ते चेति। सत्यपि प्रपञ्चाभावे प्रलयमूर्द्धादौ ब्रह्मज्ञानादर्शनान्नान्वय इत्यर्थः॥३८६॥

स्वाभाविकः प्रपञ्चश्चेत्स निरोद्धुं न शक्यते॥
कार्यश्चे197त्कारणोच्छेदे कार्योच्छेदः स्वतो न हि॥३८७॥

प्रपञ्चाभावस्य ज्ञानासाधनत्वान्न तन्नियोगविषयतेत्युक्तम्। संप्रत्यनादेः सादेर्वा प्रपञ्चस्याभावो ज्ञाननियोगविषय इति विकल्प्याऽऽद्यमादाय दूषयति। स्वाभाविक इति। चैतन्यवदिति शेषः। द्वितीयं प्रत्यादिशति। कार्यश्चेदिति198। कारणं प्रपञ्चस्या-

ज्ञानं न च ज्ञानं विना तद्ध्वंसस्ततश्च ज्ञानात्प्रपञ्चध्वंसस्ततो ज्ञानमित्यन्योन्याश्रयान्न प्रपञ्चाभावो ज्ञाननियोगविषय इति शेषः॥३८७॥

कृत्स्नमपञ्चविलयः कर्तुं शक्यो न केनचित्॥
स्वेन्द्रियादिलयः स्वापे स्वत एव न शास्त्रतः॥३८८॥

किंच सकारणस्य प्रपञ्चस्य ध्वंसो वा तद्विषयस्तदेकदेशस्य वा नाऽऽद्य इत्याह।कृत्स्नेति। आत्मज्ञानं विनेति शेषः। ईश्वरस्तु निःशेषं प्रपञ्चं नाशयितुमीशोऽपि न ज्ञाननियोगे नियोज्यतया प्रविशतीति भावः। द्वितीये तदेकदेशस्य199यस्य कस्यचिद्ध्वंसो वा तद्विषय आध्यात्मिकस्येन्द्रियादेर्वा नाऽऽद्यो घटप्रहर्तुरपि ज्ञानोदयप्रसक्तेरिति मत्वा कल्पान्तरं निराह। स्वेन्द्रियादीति। स्वापादौ200 स्वेन्द्रियादिलयस्य स्वाभाविकत्वेन शास्त्रीयपुंव्यापारानपेक्षत्वान्न नियोगविषयतेत्यर्थः॥३८८॥

उत्थितस्य पुनर्भावादनुच्छेदोऽथ शङ्क्यते॥
आयातस्तर्ह्यनाश्वासस्त्वदभ्युपगतावपि॥३८९॥

तत्रेन्द्रियादिलयेऽपि नासावात्यन्तिको, जाग्रतो यथापूर्वं तद्भावादतस्तस्याऽऽत्यन्तिकनाशसिद्धये विध्यधीनत्वान्नियोगविषयतेति शङ्कते। उत्थितस्येति। उत्थितस्येन्द्रियादिदृष्ट्या तस्यैव वा सत्त्वमिन्द्रियादेः स्वापादौ कल्प्यते तद्धेतोर्वा प्रथमे तस्याभिव्यक्तरूपेणानभिव्यक्तरूपेण वा सत्त्वमाद्ये स्वापादिव्याहतिरिति मन्वानो द्वितीयं प्रत्याह।आयात इति। यदि स्वापादाविन्द्रियादेरनभिव्यक्तात्मना सत्त्वं तर्हि त्वदभ्युपगतज्ञाननियोगविषयेन्द्रियादिलयेऽपि स्वापादाविव तस्यानभिव्यक्तस्य सत्त्वसंभवात्तदनुच्छेदशङ्क्या मोक्षासिद्धिरित्यर्थः॥३८९॥

प्रपञ्चनाशनेनाथ नाश्यते भेदकारणम्॥
नैवं न कार्यनाशेन कारणं नश्यति क्वचित्॥३९०॥

स्वापादौ हेतुलयाभावात्पुनरिन्द्रियाद्युत्थानं युक्तं ज्ञाननियोगाधीनप्रपञ्चलये तु तद्धेतुनाशान्नैवमित्यनाश्वासं समादधानो द्वितीयमालम्बते। प्रपञ्चेति। प्रपञ्चनाशो वा तद्धेतुनाशे हेतुर्ज्ञाननियोगो वा नाऽऽद्य इत्याह। नैवमिति। नहि क्वचिदपि कार्यनाशेन कारणं नश्यद्दृश्यते तेन प्रपञ्चनाशो न तद्धेतुनाशे हेतुरित्यर्थः॥३९०॥

कारणस्याप्यविद्याया वस्तुबोधाद्विनाशतः॥
यतोऽतोऽविद्यानाशार्थं प्रपञ्चविलयोऽफलः॥३९१॥

द्वितीयं निराचष्टे201 । कारणस्येति । न ज्ञाननियोगस्तत्कारणं नाशयतीति शेषः। न च वस्त्वेव किंचित्प्रपञ्चकारणं स्यात्तस्य नियोगतोऽपि चैतन्यवदनिवृत्तेरित्यपिशब्दार्थः। ननु प्रपञ्चलयद्वारा ज्ञाननियोगस्याज्ञाननिवृत्त्यर्थत्वादपेक्षितत्वमित्याश-

ङ्क्याऽऽह। यत इति। अविद्यानाशार्थं वस्तुबोधस्यैव यतोऽपेक्षितत्वमतः प्रपञ्चलयो निष्फलो न साध्यतामर्हतीति कुतस्तद्वारा नियोगापेक्षेत्यर्थः॥३९१॥

रज्जुज्ञानादि सर्पादिप्रपश्चविलयो यतः॥
सर्पाभासलयेऽपीयं रज्जुस्तमसि नेक्ष्यते॥३९२॥

ज्ञाननियोगवत्तत्त्वज्ञानमपि नाज्ञानध्वंसे हेतुर्ज्ञातरज्जुतत्त्वस्यापि पुनस्तत्र सर्पभ्रमोपलम्भादित्याशङ्क्याऽऽह। रज्ज्विति। यतो यथोक्तज्ञानात्तल्लयोऽवगतोऽतस्तत्त्वज्ञानादज्ञानध्वस्तिः संमतेति शेषः। कथं तर्हि कालान्तरे तत्र सर्वधीरित्याशङ्क्याज्ञानान्तरादिति मत्वा तत्र मानमाह। सर्पेति। रज्जावारोपितसर्पाभासलयेऽपि कालान्तरे तमसि सत्येव सा नोपलभ्यते तेन विपर्यासान्तरवशात्तस्यां प्राचीन सर्पाभासहेतोरज्ञानाज्ज्ञानाभावाच्चान्यज्ज्ञानं गम्यते। न चैकस्मिन्ननेकाज्ञानस्वीकारेऽपराद्धान्तो यावन्ति ज्ञानानि तावन्त्यज्ञानानीत्युपगमात्। न च ब्रह्मण्यपि रज्जुवदनेकाज्ञानप्रसक्तावमुक्तिः सविशेषत्वनिर्विशेषत्वाभ्यां तयोर्भेदात्तस्मिन्नपि तदाकारभेदाङ्गीकाराच्च भूयश्चान्ते विश्वमायानिवृत्तिरिति श्रुतेश्चेति भावः॥३९२॥

लयनिष्ठे प्रमाणे नो वस्तुगोचरभेदतः॥
अथ वस्तुनि तन्मानं न लये स्यान्न च द्वये॥३९३॥

अनादेः सादेर्भागस्य कृत्स्नस्य वा प्रपञ्चस्य लयो न नियोगविषय इत्युक्तम्। किं च प्रपञ्चलयमात्रं वा शास्त्रीयं वस्तुमात्रं वा द्वयं वा? नाऽऽद्य इत्याह। लयेति। शास्त्रे प्रपञ्चलयमात्रविषये वस्तु न सिध्यति, तस्य तद्विषयादन्यत्वान्मानान्तरस्य चातत्साधकत्वादित्यर्थः। द्वितीयमनूद्य दूषयति। अथेति। तृतीयं निरस्यति। न चेति। एकवाक्यत्वमेकार्थत्वेन व्याप्तमिह व्यापकं व्यावर्तमानमेकवाक्यत्वमपि व्यावर्तयतीति भावः॥३९३॥

भाव्यच्छेत्तुमशक्यस्तेभूतोऽप्युपरतः स्वतः॥
प्रपञ्चोवर्तमानस्तु कार्यत्वान्नश्यति स्वतः॥३९४॥

किंच ज्ञाननियोगविषयो भाविनो भूतस्य भवतो वा प्रपञ्चस्य ध्वंसोऽनाऽऽद्य इत्याह। भावीति। अप्राप्तरिति शेषः। न द्वितीय इत्याह। भूतोऽपीति। न तृतीय इत्याह। प्रपञ्च इति। स्वतो नियोगं विनेति यावत्॥३९४॥

श्रुतेर्विलयतात्पर्ये फलमाकस्मिकं भवेत्॥
फलार्था चेल्लये न स्यान्नोभयं वाक्यभेदतः॥३९५॥

यत्तु कर्मश्रुतीनां प्रपञ्चाभावे तात्पर्यमिति तत्र किं तदभावमात्रे तासां तात्पर्यं, स्वर्गादिफले वोभयत्र वा नाऽऽद्य इत्याह। श्रुतेरिति। कर्म श्रुतीनां प्रपञ्चाभावमात्रपरत्वे कर्मण्यतात्पर्यादज्ञातहेतुभावस्य तस्याननुष्ठानादकृतकर्मणश्च पुंसः स्वर्गादि भव-

दाकस्मिकं स्यादित्यर्थः। द्वितीयमनुभाष्य दूषयति। फलेति। कर्मश्रुतिः स्वर्गादेर्यागादेश्चसाध्यसाधनसंबन्धपरा चेन्न लये तात्पर्यवती स्यात्तथा च ज्ञानकामस्य प्रपञ्चध्वंसे नियोग इति कल्पनाविहतिरित्यर्थः। तृतीयं प्रत्याह। नेति॥३९९॥

प्रपञ्चविलयेनैव सर्वानर्थप्रहाणतः॥
पुरुषार्थस्य संसिद्धेर्विद्या नैष्फल्यमापतेत्॥३९६॥

कर्मश्रुतीनां प्रपञ्चध्वंसपरत्वे दोषान्तरमाह। प्रपञ्चेति। तथाच ब्रह्मविदाप्नोति परमित्यादिब्रह्मकाण्डाप्रामाण्यमिति भावः॥३९६॥

अत ऐकात्म्ययाथात्म्यज्ञानादज्ञानहानतः॥
सिद्धे पुमर्थे विलयकल्पना निष्प्रयोजना॥३९७॥

ज्ञानादज्ञानहानान्न तद्वैफल्यमित्याशङ्क्याऽऽह। अत इति। यतो ज्ञानावैफल्यार्थं ज्ञानादज्ञानहानिरिष्टाऽतस्तेनैव सर्वानर्थहानादनौपाधिकस्वरूपावस्थानलाभादफलः प्रपञ्चध्वंसो ज्ञानहेतुत्वं च तस्यान्योन्याश्रयतया निरस्तमित्यर्थः॥३९७॥

स्वकार्योपक्षयादेव विधीनां च परस्परम्॥
कुत एकाधिकारत्वमपेक्षाभावतो वद॥३९८॥

यत्तु कर्मविधीनां ज्ञानाधिकारहेतुत्वादेकाधिकारत्वमिति तत्राऽऽह। स्वकार्येति। कर्मज्ञानविधीनामेकाधिकारत्वं कुतो हेतोस्त्वं वद तेषां स्वकार्योपक्षयादेवान्योन्यमपेक्षाभावादित्यन्वयः। अङ्गप्रधानविधीनामन्योन्याकाङ्क्षाणामेकाधिकारता न मिथोनपेक्षाणामधिकार-विधीनामेते चाधिकारविधयोऽतो मिथोनपेक्षाः स्वस्वफले पर्यवस्यन्तः कथमेकाधिकाराः स्युरित्यर्थः॥३९८॥

विधीनां चापि सर्वेषां निषेधवचसां तथा॥
नामादिलयनिष्ठत्वे ह्यभ्युपेतेऽप्रमाणके॥
अनिमित्तोऽपवर्गोऽपि शास्त्रं चैवमनर्थकम्॥३९९॥

लयपरत्वे दोषान्तरमाह। विधीनां चेति। विधिनिषेधानां नामरूपकर्म्मत्मकप्रपञ्चाभावपरत्वे वेदत्वाविशेषात्तत्त्वमादेरपि तत्परत्वा-न्मोक्षोपायश्रवणादिविधायकाभावादविहितस्याननुष्ठानात्तत्त्वज्ञानासिद्धौ स्वर्गवदपवर्गस्याप्याकस्मिकत्वप्राप्तिरित्यर्थः। अस्तु। स्वर्गापवर्गयोराकस्मिकत्वं तत्राऽऽह। शास्त्रं चेति॥३९९॥

स्वर्गादिकार्यमार्गेण मन्यसे यदि कर्मणाम्॥
सोपानपङ्क्तिगत्येव हर्म्यपृष्ठाधिरोहणम्॥
आत्मज्ञानाधिकारानुप्रवेशित्वं भविष्यति॥४००॥

काण्डयोर्मुक्तिफलत्वान्नाफलत्वं न च स्वर्गादेराकस्मिकत्वं मुक्तिद्वारत्वादिति शङ्कते।स्वर्गादीति। यदि मन्यसेऽग्निहोत्रादीनां देहादिलयद्वारा स्वर्गादिप्रापणेन ज्ञाननि-

योगशेषत्वमिति संबन्धः। कर्माणि स्वर्गादिद्वारा ज्ञानाधिकार हेतवश्चेत्तेषां स्वर्गादिष्वेवावसानसंभवात्कुतोऽन्यशेषतेत्याशङ्क्याऽऽह। सोपानेति। यथा प्रासादशिखरमारुरुक्षुः सोपानपर्वक्रमेण तदारोहत्येवं मुमुक्षुरपि स्वर्गादिद्वारा मोक्षमारोक्ष्यत्यतः सोपानगमनस्य प्रासादारोहशेषत्ववत्स्वर्गादिफलकर्मणां ज्ञाननियोगशेषतेत्यर्थः॥४००॥

यथैव नगराध्वस्थग्रामगत्युपदेशनम्॥
नगराध्वोपदेशस्य शेषत्वं प्रतिपद्यते॥४०१॥

सोपानगमनस्य हर्म्यारोहणशेषत्वं प्रत्यक्षं नैवं स्वर्गादिफलकर्मणां ज्ञाननियोगशेषत्वं प्रामाणिकमित्याशङ्क्याऽऽह। यथेति। तथा कर्मविधयोऽपि देहादिलयबोधनपूर्वकं स्वफलद्वारा ज्ञाननियोगशेषा इति शेषः। विमता ज्ञान202नियोग शेषा ज्ञानार्थिनं प्रत्युपदिश्यमानत्वाद्यो यदर्थिनं प्रत्युपदिश्यते स तच्छेषो यथा नगरं जिगमिषुं प्रति मार्गग्रामगत्युपदेशो नगरगतिशेष इति भावः॥४०१॥

नाकामितत्वाद्ग्रामादिगतेर्युक्तैव शेषता॥
स्वर्गादेर्न तु शेषत्वं पुरुषार्थत्वहेतुतः॥४०२॥

हेत्वसिद्धिं मत्वा ब्रूते। नेति। स्वार्थे फलवैकल्योपाधेश्च नानुमानमित्याह। अकामितत्वादिति। नगरमार्गस्थग्रामादिगतेर्नगरं जिगमिषोरनर्थित्वात्तदुक्तेः स्वार्थे विफलत्वात्फलवन्नगरगत्युक्तिशेषता युक्तैवेत्यर्थः। साधनव्याप्तिं धुनीते। स्वर्गादेरिति। कर्मविधीनां न ज्ञाननियोगशेषत्वं स्वर्गादेः पुमर्थस्य विध्युद्देशे श्रवणात्तन्न साधनव्याप्तिरित्यर्थः॥४०२॥

अथोपच्छन्दनार्थानि स्वर्गादीनि विमुक्तये॥
नगराप्तौ तदध्वस्थग्रामादिगुणगीरिव॥४०३॥

स्वर्गादेरविवक्षितत्वात्तत्र कर्मविध्यपर्यवसानात्तेषां ज्ञाननियोगशेषतेति साधनव्याप्तिमेव मन्वानः शङ्कते। अथेति। ये सांसारिकमुखविलक्षणं मोक्षं न कामयन्ते तेषां तदर्थप्रवृत्ते प्ररोचनार्थानि स्वर्गादीन्यतस्तदर्थकर्मवाक्यानि न स्वार्थनिष्ठानीत्यर्थः। स्वर्गादीन्यविद्यमानानि चेन्न शशविषाणवत्प्ररोचनार्थानि विद्यमानानि चेन्न कर्मविधीनामन्यशेषतेत्याशङ्क्याऽऽह। नगरेति। यथोपच्छन्दनेन बालं नगरं निनीषुस्तन्मार्गस्थग्रामादिष्वन्नादि भोगोपकरणान्यादिशति तथा मोक्षप्ररोचनाय कर्मविधयोऽपि स्वर्गादीन्यादिश्य तद्भोगोत्थवैराग्यभाजो ज्ञाननियोगमापद्य मोक्षे पर्यवस्यन्तीत्यर्थः॥४०३॥

नैवं मान्तरतः सिद्धेर्नृवाक्ये तत्समञ्जसम्॥
वेदे तु वक्त्रभावत्वादभिप्रायाद्यसंभवः॥४०४॥

कर्मविधीनां ज्ञाननियोगशेषत्वं मानान्तराद्गम्यते शब्दाद्वा नाऽऽद्यो दृष्टान्तवैषम्या-

दित्याह। नैवमिति। पौरुषेयवाक्ये प्रलोभनार्थं फलोक्तिर्युक्ता पुरुषाभिप्रायस्य मानान्तरेण ज्ञातुं शक्यत्वादतो नगरमार्गस्थग्रामादिगुणोक्तीनां नगराप्तिशेषतोचिता वेदे त्वपौरुषेये विप्रलम्भाद्यभावान्न फलश्रवणं प्रलोभनार्थं तथाच मानान्तरागोचरार्थे वेदे कुतः श्रुत्यादिना विना शेषशेषितेति भावः। वक्त्रभावत्वाद्वक्तुरसत्त्वादिति यावत्॥४०४॥

यद्वा तत्रैव तात्पर्य यत्रोपच्छन्द्य नीयते॥
नगराप्तौ तु माभावात्प्रयतेत पुमान्कुतः॥४०५॥

द्वितीयेऽप्यध्वग्रामोक्तेर्नगराप्तिशेषत्वमुपच्छन्दकोऽवगच्छति प्रतिपत्ता वा प्रतिषित्सुर्वा नाऽऽद्यः शब्दप्रयोगस्य परार्थत्वाद्दान्तिके च वक्तुरभावादित्यभिप्रेत्य कल्पान्तरं प्रत्याह। यद्वेति। यद्वेत्यवशिष्टपक्षनिषेधार्थं प्रतिपत्ता हि मार्गग्रामोक्तेस्तत्रैव तात्पर्यं प्रत्येति नान्यत्र शब्दान्मानान्तराद्वा नेतुर्नगरप्राप्त्यभिप्रायस्याज्ञातत्वान्न च ज्ञाताज्ञातयोः शेषशेषिता तन्नगराध्वग्रामोक्तेस्तस्मिन्नेव तात्पर्यं श्रोतृगोचरस्तथा च तत्प्रवृत्त्यधीनव्युत्पत्तिर्बालोऽपि मार्गग्रामगत्युक्तेर्नगरगतिशेषत्वं नाऽऽकलयति तथा कर्मविधीनामपि न ज्ञानाधिकारशेषता शाब्दीति भावः॥४०५॥

यदाऽपि वस्तुवृत्तेन नगरावाप्तिसाधनम्॥
ग्रामाप्तिर्नगरमाप्तिस्तदाऽप्यर्थान्न मानतः॥४०६॥

मार्गग्रामगतेर्नगरगतिशेषतायाः श्रोत्राद्यविषयत्वेऽपि वस्तुतस्तस्यास्तच्छेषत्वाद्वह्नामगत्युक्तेर्नगरप्राप्तौ तात्पर्यवत्कर्मविधीनामपि ज्ञाननियोगे तात्पर्यमतो न दृष्टान्तवैषम्यमित्याशङ्क्याऽऽह। यदाऽपीति। वस्तुवृत्तं वस्तुसामर्थ्यं तेन नगराप्तिसाधनं ग्रामाप्तिर्यदाऽपि गम्यते तदाऽपि वाक्याज्ज्ञातस्यार्थस्यापर्यवसानेनाध्वग्रामगतेर्नगरगतिशेषत्वं न शब्दात्कर्मविधीनां तु ज्ञाननियोगशेषत्वं शब्दादिष्टमित्यस्त्येव वैषम्यमित्यर्थः॥४०६॥

अर्थादपि न तात्पर्यं द्रव्यार्जनविधेरिव॥
शब्दमात्रानुसारेण वेदे तात्पर्यधीर्यतः॥४०७॥

अस्तु तर्हि दृष्टान्तसाम्यार्थं कर्मविधीनामप्यर्थाज्ज्ञाननियोगशेषतेत्याशङ्क्याऽऽह।अर्थादिति। विधिनिषेधानामर्थादपि न ज्ञाननियोगे तात्पर्यधीस्तदवगतार्थस्य तामन्तरेणानुपपत्त्यभावादित्यर्थः। कर्मकाण्डस्य ज्ञाननियोगार्थत्वाभावे दृष्टान्तमाह। द्रव्येति। अस्यार्थः। चतुर्थे स्थितम्। यस्मिन्प्रीतिः पुरुषस्य तस्य लिप्साऽर्थलक्षणाऽविभक्तत्वात्। ब्राह्मणस्य प्रतिग्रहादिना राजन्यस्य जयादिना वैश्यस्य कृष्यादिनेति तैस्तैर्न-यमैर्द्रव्यार्जनमुच्यमानं क्रत्वर्थं पुरुषार्थं वेति संदेहे द्रव्यार्जने कस्यचिदधिकाराश्रवणाद्द्रव्यकामस्य तत्कल्पने रागादेव प्रवृत्तिसिद्धेर्विध्यानर्थक्यान्नियमार्थत्वे चोपायान्तरे प्रवर्तमानस्य शास्त्रातिक्रमप्रसङ्गात्क्रत्वपेक्षितद्रव्याप्ति-मुखेनोपादानतः क्रत्वर्थताया युक्तत्वात्त-

दर्थं तदिति पूर्वपक्षे तादर्थ्ये प्रकरणाद्यभावात्क्रतुसंबन्धव्यभिचारितया पर्णतावद्द्रव्यमुखेन तच्छेषत्वायोगाद्विषयसामर्थ्यावगतस्य ब्राह्मणादेरधिकारेण निरधिकारत्वाभावाद्धनकामस्य सामान्येनोपायान्वेषणं कुर्वतस्तदर्जने प्रवृत्तस्यैव नियमविधेरिष्टत्वात्स्वाधिकार-स्वतन्त्रविधिप्रयुक्तद्रव्यार्जनस्य नियतभोजनवत्पुरुषार्थत्वेऽपि न्यायापादितधनस्यैव क्रतुरिति तच्छेषत्वस्यापि संभवाद्द्रव्यार्जनं पुरुषार्थमेव क्रतूपकारकमिति सिद्धान्तः। यस्मिन्कृतेऽर्थे प्रीतिः पुंसो भवति तस्यार्थस्य लब्धुमिच्छा शरीरधारणार्था यस्य शरीरं धियते व्यक्तं तस्यास्ति द्रव्यमतो द्रव्यार्जनं पुरुषार्थं प्रीत्या हि तदविभक्तमिति सूत्रार्थः। एवं कर्मकाण्डस्य ज्ञाननियोगार्थत्वाभावेऽपि कथंचिज्ज्ञानोपकारकत्वमस्तीत्यार्थिकमपि तात्पर्यं कर्मकाण्डस्य ज्ञाननियोगे नेष्यते चेत्कुत्र तर्हि तात्पर्यमित्याशङ्क्याऽऽह। शब्देति। उपक्रमादिभ्यः श्रुत्यादिभ्यो वा वेदे तात्पर्यधीस्तथाच कर्मकाण्डेऽप्यज्ञाते संबन्धविशेषे तात्पर्यं श्रुत्यादिगम्यमित्यर्थः॥४०७॥

स्वर्गादौ यदि तात्पर्यं न स्यादैकात्म्यबोधने॥
मुक्तौ चेन्न भवेत्स्वर्गे वाक्यभेदान्न च द्वये॥४०८॥

किंच कर्मकाण्डस्य ज्ञाननियोगशेषत्वे स्वर्गादौ वा मुक्तौ वोभयत्र वा तात्पर्यमाद्ये ज्ञाननियोगशेषत्वासिद्धिरित्याह। स्वर्गादाविति। द्वितीये त्वज्ञातसंबन्धधीविरोधः स्यादित्याह। मुक्तौ चेदिति। तृतीयं दूषयति। वाक्यभेदादिति॥४०८॥

न च स्वर्गादिकार्याणां प्रयाजार्थसमानता॥
अनुप्रवेशः कल्प्येत येन कार्यान्तरं प्रति॥४०९॥

स्वर्गादिफलश्रुतेरर्थवादत्वेनाविवक्षितत्वाद्युक्तं कर्मकाण्डस्य फलवज्ज्ञाननियोगशेषत्वमित्याशङ्क्याऽऽह। न चेति। विध्युद्देशस्य फलस्याऽऽर्थवादिकफलवदविवक्षितत्वाभावान्न फलवद्विधिकाण्डस्यान्यशेषतेत्यर्थः॥४०९॥

वक्तव्यं च कथं त्वेते दृष्टेनैवोपकारिणः॥
आत्मज्ञानाधिकारस्य यदि तावदिदं मतम्॥४१०॥

रागाद्याक्षिप्तदृष्टार्थमवृत्तिप्रतिषेधतः॥
अस्त्वेवं प्रतिषेधेषु निवृत्तेरुपकारतः॥४११॥

यत्तु विधिनिषेधानां दृष्टेनैवोपकारेणाऽऽत्मज्ञानाधिकारहेतुत्वमिति तत्राऽऽह।वक्तव्यं चेति। परेष्टं दृष्टं द्वारमनुभाषते। यदीति। विशिष्टप्रवृत्तिनिषेधास्क्षदृष्टद्वारा विधिनिषेधा ज्ञाननियोगस्योपकुर्वन्त्यतो ज्ञानाधिकारप्रवेशद्वारस्य प्रसिद्धत्वान्न किंचिद्वाच्यमित्यर्थः। निषेधेषूक्तनीत्या ज्ञाननियोगं प्रत्युपकारोऽस्तु तदधीननिवृत्तेस्तदुषयोगित्वादित्यङ्गीकरोति। अस्त्वेवमिति॥४१०॥४११॥

विधयस्तु कथं रागं निरुन्धन्तीति भण्यताम्॥
न हि ते परिसंख्यार्था नापि चैते नियामकाः॥४१२॥

निषेधबद्विधीनामपि रागादिवारणेन तन्निमित्तप्रवृत्तिवारकत्वाज्ज्ञाननियोगशेषतेत्याशङ्क्याऽऽह।विधयस्त्विति। तेऽपि प्रवृत्ति-विशेषोक्तिद्वारा रागाद्यधीनां प्रवृत्तिं निरुन्धन्तीत्याशङ्क्याऽऽह। न हीति। परिसंख्यानियमापूर्वैस्त्रिविधो विधिस्तत्रोभयत्र प्राप्तौ परिसंख्याविधिः। इमामगृभ्णनशनामृतस्येत्यश्वाभिधानीमादत्त इतिवत्। न चोभयत्र प्राप्तौ कर्मविधयोऽतो न मुखतोऽन्यनिवृत्तिं फलयन्ति। पक्षे प्राप्तौ नियमविधिः स्वाध्यायोऽध्येतव्य इतिवत्। न तथैते नियमविधयः पाक्षिकप्राप्तिमाश्रित्याप्रवृत्तेः। तन्नार्थादप्यन्यनिवर्तका इत्यर्थः॥४१२॥

अत्यन्ताप्राप्तमर्थं हि विधयो बोधयन्ति नः॥
प्राप्तार्थो यो विधिः सोऽन्यनिवृत्तिफल इष्यते203॥४१३॥

किमात्मकास्तर्ह्येते विधयस्तत्राऽऽह। अत्यन्तेतिउक्तं च—

“विधिरत्यन्तमप्राप्ते नियमः पाक्षिके सति।
तत्र चान्यत्र च प्राप्तौ परिसंख्येति गीयते” इति।

कर्मविधीनामपूर्वविधिपरत्वेऽपि विधित्वादन्यनिवृत्तिफलत्वमितरवदित्याशङ्क्यात्यन्ताप्राप्तार्थाविषयत्वमुपाधिरिति मत्वाऽऽह। प्राप्तेति॥४१३॥

सेवासांग्रहणीहावत्तुल्यकार्यतया न च॥
यतोऽनियतकालीनफला वैधी कियेष्यते॥४१४॥

कर्मविधीनामपूर्वार्थत्वेऽप्यन्यनिवृत्तिफलत्वं शङ्कते। सेवेति। सेवायाः सांग्रहण्याश्रेष्टेर्ग्रामफलत्वादेकत्र प्रवृत्तस्यार्थादन्यत्र निवृत्तिवदत्रापि रागाद्युत्थप्रवृत्तेः शास्त्रीयव्यवहारस्य च संसारफलत्वाच्छास्त्रीयव्यवहारे प्रवृत्तस्यार्थादन्यत्र निवृत्तिरतोऽत्यन्ता-प्राप्तार्थानामपि कर्मविधीनां स्वाभाविकप्रवृत्तिनिरोधित्वमस्तीत्यर्थः। दूषयति। न चेति। दृष्टान्तदार्ष्टान्तिकवैषम्यं हेतुमाह। यत इति। वैषम्यमेव स्फुटयति। अनियतेति। शास्त्रीया प्रवृत्तिर्नियमेनानन्तरफला न भवत्युभयथाऽपि तत्फलोपपत्तेरित्यर्थः॥४१४॥

अदृष्टार्था हि दृष्टार्था रागाद्युत्थाः204 प्रवृत्तयः॥
ग्रामोपायेन सेवायाः सांग्रहण्याऽविरुद्धता॥४१५॥

तत्र हेतुः। अदृष्टार्थेति। शास्त्रीयप्रवृत्तेरदृष्टार्थत्वाददृष्टवशाद्व्यवहितमव्यवहितं च तत्फलं संभवतीत्यर्थः। स्वाभाविकप्रवृत्तीनां वैपरीत्यमाह। दृष्टार्था इति। शास्त्रीयस्वाभाविकप्रवृत्तीनां संसारफलत्वेऽप्यवान्तरफलवैलक्षण्यान्न सेवादिवत्तुल्यफलतेति समुदायार्थः। सेवासांग्रहण्योरेकफलत्वमुपेत्य शास्त्रीयान्यप्रवृत्त्योस्तन्नास्तीत्युक्तमिदानीं

तयोरपि न तुल्यफलत्वनियमो ग्रामकामः सांग्रहणीं निर्षपोदितिवत्सेवाया ग्रामफलत्वस्य मानाभावेनानियतत्वात्तयोरेकफलत्व-नियमेऽपि वैषम्यं दुर्वारामित्याह। ग्रामेति। ग्रामोपायेन सांग्रहण्या सहाविरोधः सेवाया निश्चितो नचाविरुद्धयोर्निवर्त्यनिवर्तकतेत्यर्थः॥४१९॥

क्रियातः फलमित्येव॑ शास्त्रमेतावति प्रमा॥
क्रमेण युगपद्वाऽतः सेवासांग्रहणीहयोः॥
नानुष्ठाने विरोधोऽस्ति फलमभूमाथिनः क्वचित्‌॥४१६॥

किंच ग्रामकामः सांग्रहणीमित्यादिशास्त्रंवा सेवाया निवर्तकं सेवासांग्रहण्योर्युगपदेकपुरुषानुष्ठानानर्हत्वाद्वा सांग्रहणी सेवां निवर्तयति तदनुष्ठानादिष्टग्रामाप्तेरनुपयोगादर्थाद्वासेवाननुष्टानं नाऽऽद्य इत्याह। क्रियात इति। सांग्रहण्याः समग्राङ्गोपसंहाश्वत्या ग्रामहेतुत्वमात्रं शास्त्राद्गम्यते न सेवायास्तद्धेतुत्वाभाव एकस्य वाक्यस्योभयत्रातात्पर्यात्।उक्तं हि—“काम्येषु चेवमर्थित्वात्‌” [पू० मी० ६।३।८] वैश्वदेवीं सांग्रहणीं निर्वयेद्ग्रामकाम इत्यत्र विगुणाऽपि सा प्रयोक्तव्या सर्वाङ्गसंयुक्ता वेति संशये विकृतिषु प्रधानमात्रोपदेशादुपदिष्टविषयत्वादधिकारस्याऽऽतिदेरिकाङ्गानपेक्षया नित्येष्विव विगुणाऽपि सा प्रयोक्तव्येति प्राप्ते प्रकृतावितिकर्तव्यतान्वितस्य करणत्वादिहापि फलश्रवणादवश्यं करणीभूतस्य विषयत्वादनितिकर्तव्यताकस्य तदयोगात्प्रकृति-वत्काम्यविकृतावपि सर्वाङ्गोपसंहार इति स्थितं षष्ठे“असंयोगात्तु नै205वंस्यात्‌"इत्यत्र तस्मान्नसांग्रहणीशास्त्रंनिवर्तकमित्यर्थः। न द्वितीय इत्याह। क्रमेणेति। पूर्वापरसागरगतिवदपर्यायमेकपुरुषानुष्ठानानहैत्वंन सेवासांग्रहण्योरस्त्येकस्मिन्नेवाहनि तयोरनुष्ठानेऽप्या-विरोधाद्यद्वाकतिपयेष्वहःसु सेवामपरेषु सांग्रहणीमप्यनुतिष्ठत्यविरोधात्‌। अतः सांग्रहणी सेवां न निवर्तयतीत्यर्थः। न तृतीय इत्याह। फलेति। सांग्रहणी ग्राममात्रं साधयति सेवासहिता तु महान्तं ग्राममतश्च कालविशेषे फलातिशयं काङ्क्षतः साधनद्वयानुष्ठानयोगादर्थादपि न सेवाननुष्ठानमित्यर्थः॥४१६॥

रागाद्युत्थप्रवृत्तीनां कार्त्स्न्येन च विरोधतः॥
नैयोगिक्योऽपि नैव स्युर्द्रव्याभावात्प्रवृत्तयः॥४१७॥

किंच वैध्यःप्रवृत्तयो याः काश्चिद्वास्वाभाविकीः प्रवृत्तीरुन्मूलयन्ति सर्वा वाऽऽद्ये पुंव्यापारवैयर्थ्यं कतिपयाशास्त्रीयप्रवृत्तेरनायासेन निराससंभवादिति मत्वा द्वितीयं दूषयति। रागादीति। सर्वास्ता रागाद्युत्थप्रवृत्तीर्वैध्यः प्रवृत्तयो यदि निराकुर्युस्तर्हि द्रव्यार्जनविधिरपि निराकृतः स्यात्तस्यापि रागाक्षिप्तप्रवृत्तिनियामकत्वात्‌। यथाऽऽहुः-

नियमवचनात्काममदृष्टं कल्प्येत206न तु दृष्टहानत इति। तन्निरोधे च द्रव्याभावान्नियोगाधीनप्रवृत्तयो न स्युरिति कर्मकाण्डा-प्रामाण्यमित्यर्थः॥४१७॥

दृष्टादृष्टप्रवृत्त्योश्चन विशेषोऽस्ति कश्चन॥
उपायत्वेन काम्यानां रागाद्याक्षिप्तहेतुतः॥४१८॥

शास्त्रीयप्रवृत्त्येतरप्रवृत्त्यनिरोधे हेत्वन्तरमाह। दृष्टेति। अदृष्टप्रवृत्तीनां वैधीनां मुक्त्यनुरोधित्वं दृष्टप्रवृत्तीनां तु स्वाभाविकीनां नैवमिति विशेषमाशङ्क्याऽऽह। उपायत्वेनेति। स्वाभाविकीभिः प्रवृत्तिभिर्वैध्यः प्रवृत्तयोऽपि काम्यमानफलोपायत्वेन तुल्या इत्यर्थः। स्वाभाविक्यो रागाद्याक्षिप्ता वैध्यस्त नैवमित्याशङ्क्याऽऽह। रागादीति। उभयीनामपि प्रवृत्तीनां रागादिनिमित्तत्वाविशेषो नहि स्वर्गादिकामनां विना वैध्यः प्रवृत्तयः सिध्यन्तीत्यर्थः॥४१८॥

प्रपञ्चाभिनिवेशित्वहेतौ तुल्येऽपि चानयोः॥
कं विशेषमपेक्ष्यैका चेष्टा मुक्त्यनुरोधिनी॥४१९॥

प्रपञ्चाभिनिवेशपूर्विकाः स्वाभाविक्यः प्रवृत्तयोऽन्यास्तु मोक्षाभिनिवेशनिमित्ता इति विशेषमाशङ्क्याऽह। प्रपञ्चेति। गृहक्षेत्राद्यभि-निवेशपूर्वकस्वाभाविकप्रवृत्तिवत्स्वर्गाद्यभिनिवेशपूर्विका वैध्यः प्रवृत्तयस्तथा चैको राशिर्मोक्षहेतुर्नापर इति विशेषासिद्धिरित्यर्थः॥४१९॥

कामोपायत्वमेवाथ नेष्टं यदि च कर्मणाम्॥
उक्तो न्यायः प्रहीयेत फलं चाऽऽकस्मिकं भवेत्॥४२०॥

कर्मणां स्वर्गादिफलत्वानङ्गीकारान्न प्रपञ्चाभिनिवेशपूर्वकत्वं तद्युक्तं वैधप्रवृत्तीनां मोक्षहेतुत्वमिति स्वर्गकामाधिकरणपूर्वपक्ष-न्यायेन शङ्कते। कामेति। षष्ठाद्यराद्धान्तन्यायेन परिहरति। उक्त इतिअयं भावः— दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेत्यादिवाक्येषु स्वर्गयागयोः साध्यसाधनत्वे ज्ञाते स्वर्गोगुणो यागः प्रधानं विपरीतं वेति विशये देवदत्तः पचतीतिवत्स्वर्गकामपदस्य कर्तृसमर्पकत्वमङ्गीकृत्य यागस्य प्राधान्येन स्वर्गस्य गुणत्वेनासाध्यत्वादविवक्षितार्थत्वेन कर्मविधयो ज्ञाननियोगशेषा इति पूर्वपक्षयित्वा देवदत्त गामभ्याजेतिवत्स्वर्गकामपदस्य नियोज्यार्पकत्वमुपेत्य स्वर्गस्य प्राधान्येन यागस्य गुणत्वेन साध्यत्वाद्विवक्षितार्थाः कर्मविधयो नान्यशेषा इति राद्धान्तितम्तदुक्तम्। असाधकं तु तादर्थ्यादिति। प्रीतिर्हि स्वर्गस्तच्छब्दस्य तदव्यभिचारात्तदर्थं कर्मान्यथा साधयितारं नाधिगच्छेत्तस्मात्प्रीत्यर्थत्वात्कर्मणो यागो गुणः स्वर्गः प्रधानमिति सूत्रार्थः। सोऽयमुक्तो न्यायः कर्मणां स्वर्गादिसाधनत्वानभ्युपगमे प्रहतः स्या-

दिति। किंच कर्मणां स्वर्गादिफलत्वाभावे स्वर्गादि निर्निमित्तं स्यात्तथा चाकृतागमकृतनाशौ स्यातामित्याह। फलं चेति॥४२०॥

सर्वकामाशनेनाथ कृत्स्नकामलयाध्वना॥
यान्ति मुक्त्यानुगुण्यं चेद्विधयो वार्त्तमेव तत्॥४२१॥

उक्तदोषपरिजिहीर्षया कामध्वंसपक्षमाश्रित्य शङ्कते। सर्वेति। कर्मविधयस्तावत्कर्मणि पुरुषं प्रेरयन्ति तं च प्रवृत्तं फलानि भोजयन्ति भोगेन च तस्य फलकामनामपनयन्ति। तद्द्वारा च ते मुक्तिहेतुज्ञानाधिकारे पर्यवस्यन्त्यतो न न्यायविरोधो नापि स्वर्गादेकस्मिकतेत्यर्थः। निराकरोति। वार्त्तमिति॥४२१॥

यन्निमित्ता प्रवृत्तिः स्यात्सा कथं तन्निवर्तिका॥
प्रवृत्तोऽपि निवर्तेतन कामोपायकर्मतः॥४२२॥

उद्विजेताथवा ज्ञानात्सर्वपुंभोगघस्मरात्॥
अपि वृन्दावने शून्य इति कामिवचस्तथा॥४२३॥

कर्मसु प्रवृत्तिर्वा फलरागं निरुणद्धि तत्फलभोगो वा नाऽऽद्य इत्याह। यन्निमित्तेति। फलरागनिमित्ता हि कर्मसु प्रवृत्तिर्नासौ तमेव निरोद्धुमर्हत्युद्देश्यविरोधादित्यर्थः।द्वितीयेऽपि फलभोगः स्वकाले वा स्वप्रागभावकाले वा स्वध्वंसकाले वा फलरागं निवर्तयेत्तत्राऽऽद्यं दूषयति। यन्निमित्तेति। फलरागादनुष्ठानद्वारा भोगस्य प्रवृत्तिः सती न तमेव निवर्तयितुमलं भोगस्य तद्वृद्धिहेतुताया दर्शितत्वादित्यर्थः। द्वितीयं प्रत्याह।प्रवृत्तोऽपीति। फलभोगः स्वप्रागभावकाले फलरागं वारयेच्चेद्वर्तमानकाले कर्मसु प्रवृत्तोऽपि काम्यमानफलोपायकर्मभ्यो निवर्तेत तत्प्रवृत्तिनिमित्तफलरागस्याऽऽगामिफलभोगेनापहस्तितत्वादतो न कदाचित्कर्मसु प्रवृत्तिरित्यर्थः। तृतीयं निराचष्टे। उद्विजेतेति। कर्मफलभोगवासितधीर्भोगावसानकालेऽपि तत्फलमभिलषंस्तद्भोगोच्छेदिकायामात्मज्ञानवार्तायामुद्विजतेऽतः स्वध्वंसकाले फलभोगस्तद्रागानिवर्तक इत्यर्थः। अथेति तृतीयपक्षानुवादः। वाशब्दस्तन्निषेधः। इतरत्तदुपपादनमिति विभागः। यद्वा फलभुक्तिनिमित्ता कर्मप्रवृत्तिर्न सा कर्मादि निवर्तयति स्वव्याघातादित्याह। यन्निमित्तेति। किंच भोगे प्रवृत्तोऽपि पुरुषस्तदपेक्षया तदुपायकर्मणो न निवर्तेत तुल्यभोगार्थं तदुपाये कर्मणि प्रवृत्तिध्रौव्यादित्याह। प्रवृत्तोऽपीति। आत्मज्ञानात्ततो निवृत्तिमाशङ्क्य बुभुक्षोस्तदास्थायोगात्प्रत्युत तस्मादुद्वेगान्नेत्याह। उद्विजेतेति। रागान्धानामात्मज्ञानवार्तायामुद्वेगे मानमाह। अपीति

“अपि वृन्दावने शून्ये शृगालत्वं स इच्छति।
न तु निर्विषयं मोक्षं कदाचिदपि गौतम”

इति कामिगीतं वचो भोगादिनिवर्तकज्ञानोद्वेगगमकमित्यर्थः॥४२२॥४२३॥

उक्तं यदपि वेदेऽस्मिन्कस्यचिद्विलयः क्वचित्॥
तन्नातत्परतस्तूक्तेर्न देहादिलयस्ततः॥४२४॥

प्रपञ्चध्वंसवादिनः स्वयूथ्यानित्थं निरस्य तदुक्तमनुवदति। उक्तमिति। दूषयति।तन्नेति। तत्र हेतुः। अतत्परतस्त्विति। न तावत्कर्मकाण्डं भेदध्वंसपरमज्ञातसंबन्धमात्रपरत्वान्नापि ज्ञानकाण्डं तत्परं निर्भेदवस्तुपरत्वात्ततो न द्वैतलयपरो वेदोऽस्तीत्यर्थः। यत्तु सर्वस्य वेदस्य भेदाभावार्थत्वे स्वर्गकामादिवाक्यं दृष्टान्तितं तत्राऽऽह। नेति। न हि स्वर्गकामादिवाक्याद्देहादिलयो गम्यते किंतु स्वर्गादेर्यागादेश्च संबन्धमात्रमित्यर्थः॥४२४॥

श्रुतेऽपि स्वर्गतात्पर्ये कल्पना चेल्लयेऽर्थतः॥
तन्न प्रत्यक्षवचनाद्देहादिलयसिद्धितः॥४२५॥

तस्य संबन्धे तात्पर्यप्रतीतावपि देहादिलये तत्कल्पते207ऽन्यथाऽऽमुष्मिके कर्मणि पुरुषं प्रवर्तयितुमसामर्थ्यादिति शङ्कते। श्रुतेऽपीति। अनन्यथासिद्धो ह्यर्थः कल्पनां प्रसूते देहात्मत्वलयश्च मानान्तरसिद्धस्तन्निबन्धना पारलौकिकी प्रवृत्तिरतो नात्र कल्पनेति दूषयति। तन्नेति॥४२५॥

साक्षाद्धस्तिनि दृष्टेऽपि नहि हस्तिपदानुमा॥
अस्थूलादिवचः साक्षाद्देहादिप्रतिषेधकृत्॥४२६॥

देहादिलयस्य शाब्दत्वे संभवत्यार्थिकत्वं न कल्प्यमित्यत्र दृष्टान्तमाह। साक्षादिति। किं तद्वचो मुखतो भेदादिलयसाधकं तदाह। अस्थूलादीति॥४२६॥

विपर्ययेण येऽप्याहुर्यथोक्तज्ञानकर्मणोः॥
एकाधिकारितां वाच्यं मानं तैर्ज्ञानसंगतौ॥४२७॥

प्रपञ्चध्वंसद्वारा काण्डद्वयसंबन्धं निरस्येतोऽन्यथेत्यारभ्य निरस्तमपि विपर्ययसंबन्धं प्रकरणवाक्यलिङ्गाभावविवरणद्वारा निरसितुं पुनरनुवदति। विपर्ययेणेति। कर्मणः शेषित्वं ज्ञानस्य शेषत्वमिति विपर्ययः। एकाधिकारितामेकनियोगप्रयुक्तैकपुरुष-निर्वर्त्यतामित्यर्थः। ज्ञानस्य कर्मशेषत्वे मानं वाच्यमुक्तिमात्रात्तदसिद्धेरिति दूषयति। वाच्यमिति॥४२७॥

न तावत्प्रक्रियेहास्ति व्रीह्यादिप्रोक्षणे यथा॥
प्रकृतापूर्वसंबन्धलक्षणापरतः स्थितेः॥४२८॥

प्रोक्षणस्य दर्शादिशेषत्ववज्ज्ञानस्यापि कर्मशेषत्वं प्राकरणिकमित्याशङ्क्याऽऽह।न तावदिति। वैधर्म्यदृष्टान्तं विवृणोति। प्रकृतेति। अपूर्वेण सह प्रदेयद्रव्यस्य प्रकृतित्वेन संबन्धो यस्य व्रीहिसमुदायस्य सोऽपूर्वसंबन्धः स च दर्शादिप्रकरणे चतुरो

मुष्टीन्निर्वपेदित्यत्र प्रकृतस्तल्लक्षणापरत्वेन तद्गमकत्वेन व्रीहीन्प्रोक्षतीत्यत्र व्रीहिशब्दस्य स्थितेर्युक्तं व्रीहिप्रोक्षणस्य प्रकरणात्प्रधानापूर्वशेषत्वमित्यर्थः॥४२८॥

व्रीहिशब्दस्य हि व्रीहिस्वरूपे तु निरर्थकम्॥
प्रकृतापूर्वसंबन्धं बोधयेदिति युज्यते॥४२९॥

किमित्यपूर्वीयप्रदेयप्रकृतिद्रव्यतया प्रकृतव्रीहिसमुदायलक्षणत्वं व्रीहिशब्दस्येष्यते व्रीहिस्वरूपमात्रपरत्वमेव किं न स्यादित्या-शङ्क्य व्रीहिमात्रे प्रोक्षणस्याशक्यत्वादानर्थक्याच्च लक्षकत्वमेवेत्याह। व्रीहीति। यस्मात्प्रकृतमपूर्वसंबन्धं व्रीहिसमुदायं व्रीहिशब्दो लक्षयति तस्माद्युज्यते तत्प्रोक्षणस्य दर्शादिशेषतेति निगमयति। प्रकृतेति। बोधयेत्प्रकरणमिति शेषः॥४२९॥

नापि वाक्येन संबन्धो जुहूपर्णमयीत्ववत्॥४३०॥

जुह्वाद्यव्यभिचारित्वकर्मसंगतिकारणात्॥
विनाऽपि प्रक्रियां तेन कर्मोपस्थापयेद्ध्रुवम्॥४३१॥

ज्ञानस्य प्रकरणात्कर्माशेषत्वेऽपि पर्णमयीत्वस्येव वाक्यात्तच्छेषता स्यादित्याशङ्क्याऽऽह। नापीति। वैधर्म्यदृष्टान्तं विवृणोति। जुह्वादीति। जुह्वादि द्रव्यं कर्मसंबन्धाव्यभिचारि तदुद्दिश्य पर्णमयीत्वादि यस्य पर्णमयीत्यादिना विधीयतेऽतस्तस्य कर्मसंबन्धे जुह्वादि कारणमिति प्रकरणेन विनाऽपि वाक्यादेव कर्मशेषतेत्यर्थः। तेनेति वाक्योक्तिः। अव्यभिचारित्वेन वैदिककर्मसंबन्धाद्धेतोरेतज्जुह्वादि प्रक्रियां विनाऽपि वाक्यादेव स्वप्रकृतिभूतं पर्णतादि प्रति क्रतुमवश्यमुपनयेदिति योजना॥४३०॥४३१॥

वाक्येनैवाभिसंबन्धस्तत्र तस्येति वर्णितम्॥
आत्मज्ञानं तु नैवं स्यान्नतत्प्रकरणे श्रुतम्॥४३२॥

अनारभ्याधीतस्यापि पर्णतादेर्वाक्यादेव क्रतौ संगतिरित्येतत्तृतीये चिन्तितमित्याह।वाक्येनेति। अधिकरणं त्वनुक्रान्तम्। प्रकरणवाक्याम्यां प्रोक्षणस्य पर्णतादेश्च कर्मशेषत्वमुक्त्वा ज्ञानस्य ताभ्यामतच्छेपत्वं वदन्न तावत्प्रक्रियेत्यादिदार्ष्टान्तिकं स्पष्टयति।आत्मेति। प्रोक्षणवज्ज्ञानं न कर्मशेषस्तत्प्रकरणे श्रुतत्वाभावात्कर्तव्यस्येतिकर्तव्यताकाङ्क्षा208दि प्रकरणं न च तज्ज्ञानस्य कर्मशेषत्वेऽस्तीत्यर्थः॥४३२॥

नापि चाव्यभिचारित्वमात्मनः कर्मणे209क्ष्यते॥
तेनास्य कर्मसंबन्धो न मानेनोपपद्यते॥४३३॥

नापि वाक्येनेत्यादिदार्ष्टान्तिकं प्रपञ्चयति। नापीति। लौकिकवैदिककर्मसाधारण्यादिति शेषः। तथाऽपि श्रुत्यादिना ज्ञानस्य कर्मशेषतेत्याशङ्क्याऽऽह। तेनेति। तेन श्रुत्यादिना मानेनेति संबन्धः। ज्ञानं षष्ठ्यर्थः श्रुत्यादेनिरस्तत्वादिति भावः॥४३३॥

एवं चाज्ञातपारार्थ्येनार्थवादः फलश्रुतिः॥
पृथगेवाधिकारोऽतो यथोक्तज्ञानकर्मणोः॥४३४॥

ज्ञानस्याकर्मशेषत्वे फलितमाह। एवं चेति। आत्मज्ञाने पूर्वोक्तनीत्या प्रमितान्यशेषत्वरहिते स्वतन्त्रे सति तस्मिन्फलश्रुति-र्नाभूतार्थवादः—

“विज्ञाते चास्य पारार्थ्ये याऽपि नाम फलश्रुतिः।
साऽर्थवादी भवेदेव न विज्ञानात्फलान्तरम्"

इति निरस्तत्वाज्ज्ञानं मोक्षहेतुर्न कर्मेति काण्डयोरधिकार्यादिभेदाद्विपर्ययसंबन्धासिद्धिरित्यर्थः। ज्ञानस्य विवक्षितफलत्वे फलितमाह। पृथगिति। कर्मवज्ज्ञानस्य फलवत्त्वात्प्रस्तुतयोस्तयोः पृथगेव स्वाभिसंबन्धाद्भिन्नोऽधिकारी काण्डयोरित्युक्तं स्थितमित्यर्थः॥४३४॥

अर्थाक्षेपोऽपि योग्यस्य कर्तुर्भोक्तुश्च युज्यते॥
न तु विध्वस्तभेदस्य स्यादौपनिषदस्य सः॥४३५॥

नन्वात्मधियो नास्ति कर्मशेषत्वे मानमित्ययुक्तमनिर्ज्ञातात्मस्वभावस्याऽऽमुष्मिकेषु कर्मसु प्रवृत्त्यनुपपत्त्या ज्ञानस्य कर्मशेषत्वाक्षेपादर्थापत्तेरत्र लिङ्गात्मनो मानत्वादिति तत्र लिङ्गाभावं प्रपञ्चयन्नाऽऽह।अर्थेत्यादिना। अर्थापत्तिः कर्त्रात्मज्ञानस्य कर्मशेषत्वमुपस्थापयत्यकर्त्रात्मज्ञानस्य वाऽऽद्यं प्रत्याह। अर्थेति। कर्ता भोक्ता वाऽऽत्मा कर्मणि योग्यस्तज्ज्ञानं विना तत्प्रवृत्त्ययोगादतस्तज्ज्ञानस्यार्थापत्त्या तच्छेषत्वेनाऽऽक्षेपो युक्त इष्टा च तद्धियस्तच्छेषतेत्यर्थः। द्वितीयं दूषयति। न त्विति। उपनिषदेकगम्यस्याऽऽत्मनो निरस्तकर्त्रादिभेदस्य कर्मायोग्यत्वात्तज्ज्ञानस्य तत्रानुपयोगाद्विरोधाच्च न तच्छेषत्वेनाऽऽक्षेप इत्यर्थः॥४३५॥

प्रत्यक्षवेदवचनप्रामाण्या210द्याश्रयत्वतः॥
आदौ संन्याससंसिद्धेर्ऋणानीति ह्यपस्मृतिः॥४३६॥

ज्ञानस्य कर्मशेषत्वेन काण्डयोरसंबन्धेऽपि जायमानो वै ब्राह्मणस्त्रिभिरृणवाञ्जायते211ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेदिति श्रुतिस्मृतिभ्यामृणापाकरणद्वारा कर्मणां ज्ञाननियोगशेषतेति मतान्तरमाशङ्क्याऽऽह। प्रत्यक्षेतिब्रह्मचर्यादेव प्रव्रजेदित्यादिस्पष्टविधिश्रुतिप्रामाण्यावष्टम्भाद्ब्रह्मचर्याश्रमे स्थितस्यैव संन्याससिद्धिर्यस्मिञ्जन्मनि ज्ञानेऽधिक्रियते तस्मिन्नेव भाव्यमृणापाकरणेनेत्यनियमाद्यदा कदाचित्तत्कर्तव्यतामात्रं श्रुतिस्मृत्योरिष्टमिति भावः। यदि त्वस्मिन्नेव जन्मनि कार्यमृणापाकरणमिति श्रुत्यादेरिष्टोऽर्थस्तदा नार्थवादो विधिविरोधे मानं प्रत्यक्षश्रुतिविरोधे च स्मृतिरमानमित्याह। ऋणानीति हीति॥४३६॥

न च केवलकर्मभ्यो मुक्तिर्युक्त्योपपद्यते॥
तथाच वक्ष्यते स्पष्टमतो मुक्तिर्न कर्मतः॥४३७॥

ननु ज्ञानस्य मोक्षहेतुत्वे कर्मणां ज्ञाननियोगशेषत्वमृणनिरासद्वारा विधान्तरेण वेति चिन्ता न च ज्ञानं मोक्षहेतुर्मानाभावाच्छूतिस्तु वर्तमानापदेशित्वादपापश्लोकश्रुतिवन्न मानं कर्म पुनस्तद्धेतुः कर्मणैव हि संसिद्धिमित्यादिस्मृतेस्तत्राऽऽह। न चेति। वर्तमानापदेशित्वेऽपि ज्ञानान्मोक्षश्रुतिर्नामानं भूतार्थवादित्वात्सुवर्गीय हीत्यादिवत्तदर्थस्य विद्वदनुभवसिद्धतया योग्यानुपलम्भाभावाच्च स्मृतिस्तु शुद्धिद्वारा ज्ञानप्राप्तिविषया मोक्षविषयत्वे न कर्मणेत्यादिश्रुतिविरोधादिति भावः। का सा युक्तिर्या केवलकर्मभ्योमुक्तिं न मृष्यति तत्राऽऽह। तथा चेति। भुज्युविचारादौ वक्ष्यमाणा युक्तिः। फलितमाह। अत इति॥४३७॥

न चैकात्म्यपरिज्ञानमभ्यासापेक्षमिष्यते॥
मुक्तये भावनार्थं वा तथा चोर्ध्वं प्रवक्ष्यते॥४३८॥

कर्मभ्योमोक्षाभावेऽपि ज्ञानमभ्यासापेक्षं तद्धेतुर्न केवलमित्याशङ्क्य तमेव विदित्वेत्यादिविरोधान्नैवमित्याह। न चेति। ये तु ज्ञानाभ्यासं मुक्तिहेतुमिच्छन्तो ज्ञानं तदर्थं मन्यन्ते तान्प्रत्याह। भावनेति। भावनार्थं वा ज्ञानं नेष्यत इति संबन्धः। ज्ञानस्य स्वातन्त्र्येण पुमर्थहेतुत्वश्रुत्यादिविरोधादित्यर्थः। ज्ञानमन्यानपेक्षं मोक्षहेतुरित्यत्र भुज्युविचारादौ वक्ष्यमाणामुपपत्तिं सूचयति। तथा चेति॥४३८॥

स्वतोऽनुभवतः सिद्धेरैकात्म्याख्यस्य वस्तुनः॥
न स्यात्सांपादिकं ज्ञानमित्येतच्चापि वक्ष्यते॥४३९॥

अथाऽऽत्मज्ञानममानमुपनिषज्जन्यत्वाद्योषाग्निज्ञानवदित्यनुमानात्कुतोऽस्य मोक्षोपायत्वं तत्राऽऽह। स्वत इति। अध्यस्तविषय-त्वोपाधेरनुमानायोगाद्युक्ता यथोक्तधियो मुक्तिहेतुतेति भावः। साधनव्याप्तिमाशङ्क्यानध्यस्तविषयत्वेनाऽऽत्मधियो मानत्वं सर्वोऽपीत्यादिभाष्यावसरे ज्ञेयमित्याह। इत्येतच्चेति॥४३९॥

अन्य आहुः पदार्थत्वात्प्रमाणान्तरगम्यताम्॥
आत्मनो नाऽऽगमात्सिद्धिर्व्रीह्याद्यन्यपदार्थवत्॥४१०॥

ऋणापाकरणपक्षनिरासप्रसङ्गेन केवलकर्मणामभ्यासस्य च मुक्तिहेतुत्वं प्रत्युक्तम्। संप्रति वेदान्तेषु जागरादिवासनानिरोधस्य मनोनिरोधस्य वा विधीयमानत्वात्तच्छेषास्ते कर्मविधयश्चेति काण्डयोः संगतिरिति मतमाह। अन्य इति। ननु वेदान्ता न निरोधविधिशेषाः स्वार्थनिष्ठत्वात्प्रत्यक्षवन्नेत्याह। पदार्थत्वादिति। आत्मनो व्रीह्मादिवत्सिद्धार्थत्वान्मानान्तरयोग्यत्वात्तत्संवादवि-संवादाभ्यां न वेदान्तगम्यतेत्यर्थः॥४४०॥

अन्वयव्यतिरेकाभ्यां जाग्रत्स्वप्नसुषुप्तितः॥
विविच्यातः स्वमात्मानं प्रत्यभिज्ञानतस्तथा॥
माव्यापारसमाप्तत्वान्न भूयस्तदपेक्षिता॥४४१॥

ननु जन्मादिसूत्रे भाष्यकृता नेन्द्रियाविषयत्वे संबन्धाग्रहणादित्यादिना दूषितमात्मनो मानान्तरविषयत्वमित्याशङ्क्य तद्विवेचनपूर्वकमाह। अन्वयेति। अवस्थात्रयं व्यभिचारि साक्ष्यं चाऽऽत्मा त्वव्यभिचारी साक्षी चेत्यादिरूपावन्वयव्यतिरेकौ ताभ्यामतो जागरितादेर्देहाद्यतिरिक्तमात्मानं विविच्य जानन्यः सुप्तः सोऽहं जागर्मीत्यादिप्रत्यभिज्ञानतश्चैक्येन तं प्रतिपद्यमानो न पुनस्तस्मिन्मानमागमाख्यमपेक्षते तद्व्यापारस्याऽऽत्मस्फुरणस्य तदज्ञानहानेर्वा प्रत्यभिज्ञादिना प्रतिपादितत्वादतः प्रतीचो मानान्तरगम्यताया दुर्वारत्वाज्जन्मादिसूत्रमपि चिन्त्यमिति भावः॥४४१॥

तद्वासनानिरोधेऽतः पुमाञ्श्रुत्या नियुज्यते॥४४२॥

मनसो वा निरोधेऽसौ न तु वस्त्ववबोधने॥
मानान्तरेण तत्सिद्धेर्नात्र व्याप्रियते वचः॥४४३॥

मानान्तरयोग्यप्रतीचि वेदान्तामानत्वे तेषामध्ययनविध्युपात्तानां कथं प्रामाण्यमित्याशङ्क्याऽऽह। तद्वासनेति। तच्छब्देना-वस्थात्रयमुच्यते। श्रुत्या यच्छेद्वाङ्मनसी इत्याद्ययेति यावत्। नत्वसौ पुमान्वस्तुनोऽवबोधने नियुज्यते श्रुत्येत्युक्तेऽर्थे पूर्वोक्तं हेतुं स्मारयति। मानान्तरेणेति। प्रागुक्तप्रत्यभिज्ञाद्यत्र मानान्तरं तच्छब्देन सप्तम्या चावबोधो गृह्यते॥४४२॥४४३॥

स्वयंज्योतिःस्वभावत्वान्निरुद्धस्वान्तवासनः।
प्रमान्तरानपेक्षोऽपि स्वयमात्मा प्रकाशते॥४४४॥

नन्वात्मनो मानान्तरगम्यत्वे घटवदनात्मत्वापत्तेः प्रत्यभिज्ञाद्यगम्यत्वाद्वेदान्तवेद्यतैवेति नेत्याह। स्वयमिति। आत्मनो युक्त्या प्रत्यभिज्ञाद्यनपेक्षत्वेऽपि न स्वप्रतीतावागमापेक्षाऽन्यथा धर्मवदनात्मत्वापातादतो विवेकादिनिरस्तसर्वमनोवासनो निष्प्रत्यनीकतया स्वयमेव प्रकाशते चित्स्वभावत्वात्तथा च नास्य वेदान्तवेद्यतेत्यर्थः॥४४४॥

एवं कार्यमुखेनैव ज्योतिष्टोमादिवाक्यवत्॥
वेदान्तानां प्रमाणत्वं नाक्षवद्वस्तुनीष्यते॥४४५॥

ननु तेषु निरोधविध्यप्रतीतेर्न तत्परत्वेन तत्प्रामाण्यं न चाप्रामाण्यमेव तेषामध्ययनविध्युपात्तत्वाद्विधिवाक्यवत्तस्मात्प्रत्यक्षवद्वस्तुनिष्ठं तन्मानत्वं तत्राऽऽह। एवमिति। न तावद्वेदान्तानां चक्षुर्वद्वस्तुनि मानत्वं पदार्थत्वात्प्रमाणान्तरगम्यतेत्युक्तत्वात्स्वप्रकाशत्वाभ्युपगमाच्च वस्तुनस्तस्मिन्प्रमाणीकृत्याभावात्तथा च कर्मवाक्यवत्समाहितो भूत्वेत्यादिवाक्यसिद्धनिरोधनियोगद्वारैव प्रामाण्यात्तेषामध्ययन-विध्युपात्ततेत्यर्थः॥४४९॥

वासनामात्रहेतुत्वादात्मनोऽनर्थसंगतेः॥
अन्योपाये सत्यसति निरोधादेव मुक्तता॥४४६॥

निरोधनियोगस्य ज्ञानं मुक्तिर्वा फलं नाऽऽद्यः श्रवणादेरेव तत्सिद्धेर्न च निरोधनियोगस्यापि तच्छेषतया ज्ञानार्थत्वं त्वदिष्टशेषशेषित्वे वैपरीत्यापत्तेर्न द्वितीयो ज्ञानस्यैव मुक्तिहेतुताया श्रुतिस्मृतिसिद्धत्वात्तत्कथं निरोधनियोगशेषतया वेदान्तप्रामाण्यमित्याशङ्क्याऽऽह। वासनेति। आत्मनोऽनर्थसंगतेर्वासनामात्रकृतत्वस्यान्वयव्यतिरेकलभ्यत्वात्तासां निरोधादेव विधीयमानान्मुक्ततेत्यन्वयः। ज्ञानस्यैव मुक्तिहेतुत्वे प्रमिते कथमित्थमिति तत्राऽऽह। अन्येति। ज्ञानिनोऽपि संसारदृष्टेर्वासनानिरोधे च ज्ञानशब्दस्य नेतुं शक्यत्वात्तद्विषयतया श्रुतिस्मृतीनां चरितार्थत्वात्तस्यैव मोक्षोपायतेति भावः॥४४६॥

संभाव्यं नानपेक्षत्वं नियोगविरहात्क्वचित्॥
शब्दप्रवृत्तेः सिद्धे च न नियोगस्य संभवः॥४४७॥

निरोधविधिशेषत्वेनैव वेदान्तप्रामाण्ये हेत्वन्तरमाह। संभाव्यमिति। लोकवेदयोः शब्दस्य प्रयुज्यमानस्यानपेक्षत्वं मानत्वं नियोगं विना न संभवति तन्निष्ठस्यैव तस्य तद्दर्शनादतस्तच्छेषत्वं प्रामाण्यार्थमेव वेदान्तानामित्यर्थः। तच्छेषत्वेन तत्प्रामाण्येऽपि सिद्धार्थबोधित्वसिद्धेरस्मदपेक्षितमक्षतमिति चेन्नेत्याह। सिद्धे चेति। भावार्थकरणकस्तद्विषयश्च नियोगः सिद्धे न सिध्यत्यतो नियोगशेषा वेदान्ता न सिद्धमर्थं बोधयेयुरित्यर्थः॥४४७॥

न च वस्तुनि मानत्व उदाहरणमिष्यते॥
विधिर्गुणार्थस्तस्यापि व्यापारविषयत्वतः॥४४८॥

ननु दध्नेन्द्रियकामस्य जुहुयादित्यत्र प्रकृते कर्मणि फलार्थं गुणमात्रस्योच्यमानत्वान्नियोगपरस्यापि तस्य सिद्धार्थविषयत्ववद्वेदान्ता-नामपि तच्छेषाणामेव सिद्धार्थतेत्याशङ्क्य दध्नेन्द्रियकामाधिकरणन्यायेनाऽऽह। न चेति। अस्यार्थः। “फलश्रुतेस्तु कर्म स्यात्फलस्य कर्मयोगित्वात्” [पू० मी० २।२।२५] अग्निहोत्रं प्रकृत्य दध्नेन्द्रियकामस्य जुहुयादिति श्रुतं तत्र किं गुणविशिष्टं कर्मान्तरं विधीयते किंवा प्रकृते कर्मणि फलाय गुणविधिरिति संशयः। तत्राग्निहोत्रहोमाद्दधिहोमः कर्मान्तरमेव स्यात्फलं हीह श्रूयते तच्च कर्मणो न्याय्यं होमस्य हि श्रौतं फलं दध्नः फलमिति तु वाक्येन गम्यते श्रुतिश्च वाक्याद्बलीयसी तस्मात्फलस्य कर्मयोगित्वात्फलश्रुत्या कर्मान्तरमेव तन्न वाक्यात्प्रकृते कर्मणि फलाय गुणविधिरिति पूर्वपक्षः। नेदं कर्मान्तरं किंतु गुणात्फलं स्वर्गकामोऽग्निहोत्रं जुहुयाद्दन्धेन्द्रियकामस्य जुहुयादिति वाक्ययोरतुल्यत्वात्क्वचित्कर्मसमभिव्यात्दृतं फलमन्यत्र गुणसमभिव्यात्दृतं तस्मादिन्द्रियकामवाक्ये गुणनिमित्ततया फलधीरिति

प्रकृते कर्मणि फलाय गुणविधिरिति राद्धान्तः। तदुक्तं **भेदलक्षणे—**अतुल्यत्वात्तु वाक्ययोर्गुणे तत्र प्रतीयेतेति। तथा च गुणविधेरपि व्यापाराविष्टगुणविषयत्वान्न वेदान्तानां212 श्रुतिसिद्धसिद्धार्थबोधित्वे दृष्टान्ततेति॥४४८॥

किंचानुभूयमानस्य ह्यर्थस्य पुरुषार्थता॥
सर्वत्र गम्यते वेदे नानुभूतेः कथंचन॥४४९॥

वेदान्तानां शुद्धे सिद्धे मानत्वाभावे हेत्वन्तरमाह। किंचेति। लोके सर्वत्रानुभाव्यस्यैव पुमर्थता दृष्टा सुखमपि स्वनिष्ठतया सं213वित्तमेव तथा वेदश्च लोकानुसारी। अतस्तत्रापि वेद्यस्यैव पुमर्थता न स्वप्रकाशात्मावगतेर्न चाफले वेदप्रामाण्यं तस्य फलानुबन्धित्वात्तथाच फलवन्नियोगशेषतयैव वेदान्ताः प्रमाणमिति भावः॥४४९॥

ततश्च प्रतिभामात्रं शब्दादिति न मानतः॥
प्रतीयमान एवातः पुरुषार्थः प्रसिद्धितः॥४५०॥

स्वप्रकाशवस्त्वनुभूतेरपुरुषार्थत्वे तत्पुमर्थतावद्योतिविज्ञानानन्दादिवाक्यानां का गतिस्तत्राऽऽह। ततश्चेति। अनुभाव्यस्यैव पुमर्थत्वदृष्टेर्विज्ञानादिशब्दात्प्रतिभामात्रमुद्भवति न मानतस्तसिप्रयोगस्य सार्वविभक्तिकत्वाङ्गीकारान्मानं तु न भवति लोकविरोधादित्यर्थः। इतिशब्दो विज्ञानादिवाक्यपरामर्शार्थः। अनुभवस्यापुमर्थत्वे नियोगादेरेव तदर्थतेति फलितमाह। प्रतीयमान इति। अनुभूयमानस्यैव सर्वत्र पुमर्थतायाः सिद्धत्वादिति हेतुमाह। प्रसिद्धित इति॥ ४१०॥

अप्युपादीयमानं च सिद्धं वस्तु न कर्मणि॥
पुमर्थं साधयद्दृष्टमनिर्ज्ञाताङ्गभावकम्॥४५१॥

नियोगादेरनुभाव्यस्य पुमर्थत्वे शब्दाधिगतसिद्धवस्तुनोऽपि पुमर्थत्वसिद्धेः शब्दस्य साध्यार्थत्वनियमो न स्यादित्याशङ्क्याऽऽह। अपीति। सिद्धं वस्तु वेदादवगम्यमानमपि श्रुत्यादिना कर्मशेषत्वेनानवगतं पुमर्थं साधयन्न दृष्टमतो न शब्दस्य शुद्धसिद्धार्थतेति योजना॥४५१॥

अनुपादीयमानश्च न च ज्ञाताङ्गभावकः॥
आत्मा चेन्नास्य शेषत्वं विधिं प्रत्युपपद्यते॥४५२॥

आत्मनोऽपि तर्हि विधिशेषत्वेन पुरुषार्थतया शब्दप्रमाणकत्वं तत्राऽऽह। अनुपादीयमानश्चेति। आत्मा हि वेदेन न बोध्यते स्वप्रकाशानुभवस्वभावत्वान्नापि श्रुत्यादिना ज्ञातकर्मशेषभावः। एवं चेन्न तस्य विधिशेषत्वेन पुमर्थत्वं मानाभावादित्यर्थः॥४५२॥

उपासीत स्वमात्मानमिति साक्षाद्वचःश्रवात्॥
तत्राङ्गभाव इति चेन्मत्पन्थानं भवानितः॥४५३॥

आत्मनः कर्मशेषत्वे वाक्यं प्रमाणमिति शङ्कते। उपासीतेति। वाक्यस्य कल्प्यत्वं साक्षादिति व्यावर्त्यतेऽत एवं वचःश्रवादित्युक्तम्। तत्रेत्युपासनानियोगोक्तिः।आत्मनो नियोगशेषत्वेन पुमर्थत्वं तत्र च वेदान्तप्रामाण्यमिति पक्षे शुद्धे सिद्धे तत्प्रामाण्यमिति त्वत्पक्षक्षतिर्नियोगशेषत्वेनैव तत्प्रामाण्यमिति मत्पक्षप्राप्तिश्चेति नियोगवाद्याह। मत्पन्थानमिति। मां नियोगवादिनं निमित्तीकृत्य पन्थानं गतो भवानिति यावत्। अनित्यो वा समासान्तो विधिः॥४५३॥

क्रियाविधिपरत्वेन प्रामाण्यं वचसः214 स्थितम्॥
इति व्याचक्षते केचिन्नियोगार्थैकरागिणः॥४५४॥

स्वकीयं पन्थानं विशिनष्टि। क्रियेति। वेदान्तानां निरोधविधिशेषत्वात्कर्मणामपि तत्रैव तद्भावात्काण्डयोः सिद्धा संगतिरित्यु-पसंहरति। इति व्याचक्षत इति। अस्य पक्षस्य रागमूलत्वेन निरस्यत्वं सूचयति। नियोगेति॥४५४॥

नैतत्साध्वभ्यधाय्युच्चैर्नियोगविरहादपि॥
कामितार्थस्य संसिद्धेर्लौकिकादेव मानतः॥४५५॥

निरोधादेव मुक्ततेत्ययुक्तमिति प्रतिजानीते। नैतदिति। यदेतदुच्चैस्तात्पर्येणाभ्यधायि निरोधविधिवादिना तन्न साध्विति संबन्धः। वासनानिरोधान्मोक्षपक्षे नियोगं विनाऽपि लौकिकमानादेवानर्थतद्धेतुपुरुषार्थतद्धेतुरूपेष्टार्थसिद्धेर्वेदवचोवैयर्थ्यमित्यसाधु-तामेव215साधयति। नियोगेति॥४५५॥

तद्भावभावतो लिङ्गाद्वासनैकसमाश्रयात्॥
ज्ञातोऽनर्थेन संबन्ध आत्मनो न तु वास्तवः216॥४५६॥

कथमनर्थस्य तद्धेतोश्च लौकिकमानसिद्धतेत्याशङ्क्याऽऽह। तद्भावेति। आत्मनोऽनर्थेन मातृत्वादिना संबन्धो भासमानः समुद्भूतजागरादिवासनानां भावे भावादभावे चाभावादित्यन्वयव्यतिरेकाख्याल्लिङ्गाद्वासनामात्रावष्टम्भाद्भवति ज्ञातोऽनात्मस्वभावा-नुसारी स्वापादावनवभासादतोऽनुभवलिङ्गाभ्यामनर्थतद्धेतुधीरित्यर्थः॥४५६॥

तस्मात्संसारसंबन्धनिदानस्य प्रसिद्धितः॥
लिङ्गादेव ततस्तस्य ध्वंसेऽनर्थो निवर्तते॥४५७॥

तथाऽपि कथं वेदवचोवैयर्थ्यप्रतिज्ञेति तत्राऽऽह। तस्मादिति। प्रकृतादनुभवादात्मनो बन्धसंबन्धस्य तन्निमित्तस्य च वासनाख्यस्यान्वयादिरूपलिङ्गादेव सिद्धेर्वचो विफलमित्युत्तरेण संबन्धः। नहि लिङ्गादिसिद्धेऽर्थे वचोऽर्थवदज्ञातविषयाभावादिति भावः।

नन्वनर्थतद्धेतुविषयत्वेन वचसोऽर्थवत्त्वाभावेऽपि पुरुषार्थतद्धेतुविषयतया तदर्थवत्ता तत्राऽऽह। तत इति। समाधिना मनोनिरोधे जागरादिवासना निरुध्यन्ते नान्यथेत्यन्वयव्यतिरेकाभ्यां मनोनिरोधादेवोपायात्तस्य वासनाख्यबन्धहेतोर्ध्वसे हेत्वभावे फलाभावन्यायेनानर्थो बन्धसंज्ञो निवर्तते। तथाच शास्त्रादृतेऽपि पुरुषार्थतद्धेतुसिद्धेः शास्त्रानर्थक्यं परस्य दुर्वारमित्यर्थः॥४५७॥

अन्तरेणापि वचनं बौद्धादेरिव सिद्धितः॥
मोक्षस्य पुरुषार्थस्य वचोऽतो निष्फलं भवेत्॥४५८॥

वैदिकं वचो विनैव मोक्षाख्यपुमर्थस्य तद्धेतोर्मनोवासनानिरोधस्य च लिङ्गादिना सिद्धत्वाद्बोद्धादेरिव तवापि वेदानर्थक्यमिति फलितमाह। अन्तरेणेति। अतः सिद्धित इति संबन्धः॥४५८॥

व्यतीतानेकजन्मोत्थवासनानामनन्ततः॥
तासां निरोधोऽसंभाव्यो जन्मन्येकत्र मानवैः॥४५९

यत्तु तद्वासनानिरोधेऽतः पुमाञ्श्रुत्या नियुज्यत इति तत्रातीता वा वर्तमाना वा भाविन्यो वा वासना निरोद्धव्या नाऽऽद्य इत्याह। व्यतीतेति। अतीतजन्मार्जितवासनानामनन्तत्वादतिवृत्तत्वाच्च दुःसाध्यो निरोधः। देवादयों हि कथंचिद्यथोक्तवासना निरोद्धुमर्हन्ति मनुष्यास्तु शास्त्राधिकृता नैवमित्यर्थः। न द्वितीयो वर्तमानवासनानां कादाचित्कत्वान्नियोगं विना निरोधसिद्धेः। न तृतीयः। आगामिनीनां वासनानामप्राप्तत्वेन निरोधस्य दुःसाधत्वादिति217 द्रष्टव्यम्॥४५९॥

साक्षादात्मावबोधेन प्रत्यग्ध्वान्तच्छिदा न चेत्॥
दुःखादिभावना ध्वस्ता कथं तद्भावना नुदेत्॥४६०॥

किंच वासनानिरोधे ज्ञानं वा तदभ्यासो वा तद्विषयनियोगो वा हेतुराद्यं प्रत्याह।साक्षादिति। अपरोक्षेणाऽऽत्मावबोधेनाऽऽत्माज्ञानध्वस्तिद्वारा वासनानिरोधेन मुक्तिश्चेदस्मन्मतमेव त्वयाऽपीष्टमिति भावः। द्वितीयं निरस्यति। न चेदिति। ज्ञानमज्ञानं वासनां वा नापनुदति ज्ञानभावना तदुभयं नुदति चेत्तदा चिरकालनिरूढातिनिबिडदुःखादिभावनाभिर्ध्वस्ता स्वल्पीयोज्ञानाभ्यासवासना कथं सकार्यमज्ञानं नुदेन्नहि स्वयंबाधिता भावनाऽन्वाधे पर्याप्तेत्यर्थः॥४६०॥

नियोगवर्त्मना चेयं यथा मुक्तिर्न सिध्यति॥
स्पष्टेन न्यायमार्गेण वक्ष्यामोऽवसरे तथा॥४६१॥

ज्ञानाभ्यासनियोगोऽज्ञानादिनिरासद्वारा मुक्तिहेतुरिति तृतीयं दूषयति। नियोगेति

नियोगवशान्नमुक्तिरित्येतदन्योऽप्यनुभवोपाय इत्यारम्याभिधास्यत इत्याह। वक्ष्याम इति॥४६१॥

न पदार्थो न वाक्यार्थ आत्माऽयं वस्तुतो यतः॥
तत्प्रत्याख्यानश्रुत्यैव तद्याथात्म्यावबोधनात्॥४६२॥

निरोधादेव मुक्ततेत्यादि निरस्तम्। यत्तु पदार्थत्वादात्मनो व्रीह्यादिवन्मानान्तरगम्यतेति तत्राऽऽह। नेत्यादिना। संसृष्टानां पदार्थानां तत्संसर्गस्य वा वाक्यार्थत्वात्कथमात्मनो वाक्यार्थस्यापदार्थत्वमत आह। नेति। तर्हि कथमस्य वेदार्थत्वं तत्राऽऽह।तदिति। पदार्थत्वादिः सर्वो विशेषस्तच्छब्दार्थः। आत्मविषयो द्वितीयस्तच्छब्दः। समारोपितसमस्तविशेषनिषेधद्वारा तस्य चिदेकतानस्य वेदार्थतेत्यर्थः॥४६२॥

वासनानामभावेऽपि सुषुप्त्यादौ न मुक्तता॥
मानव्यापारविरहात्प्रथनं वा दृगात्मनः॥४६३॥

पदार्थत्वेनाऽऽत्मनो मानान्तरगम्यत्वशङ्कां निरस्य निरोधादेव मुक्ततेत्यत्र दोषान्तरमाह। वासनानामिति। न च तत्र पुनरुत्थानाज्जागरादिवासनाः सन्तीति वाच्यम्। स्वापादित्वभङ्गप्रसङ्गात्। न च तत्र कारणात्मना सत्त्वं विशेषोऽवस्थान्तरेऽपि तद्रूपेणैव सत्त्वान्न चैवमपि स्वापादौ न मुक्तिर्वासनाहेतुसत्त्वादिति युक्तम्। तथा सति तद्धेतुध्वंसादेव मुक्तिर्न वासनाध्वंसाद्धेतुध्वंसश्च ज्ञानादित्यस्मत्पक्षप्राप्तेरिति भावः। यत्तु स्वयंज्योतिस्वभावत्वादित्यत्र वासनासु निरुद्धासु प्रथनमात्मनोऽवश्यंभावीति तदपि स्वापादौ व्यभिचारीत्याह। मानेति। वाशब्देन नञ्पदमनुकृष्यते। सत्यपि स्वरूपप्रथने तद्व्यवहारो मानं विना न संभवतीति भावः॥४६३॥

सर्वानर्थाभिसंबन्धे ह्यविद्यैवास्य कारणम्॥
वासनानामपि युतौ सैव यस्मादपेक्ष्यते॥४६४॥

वासनामात्रहेतुत्वादात्मनोऽनर्थसंगतेरित्यत्र वासनाऽनर्थहेतुरित्युक्तं तत्राऽऽह।सर्वेति। अविद्यावद्वासनानामपि हेतुत्वसंभवे कुतोऽवधारणमित्याशङ्क्याऽऽह। वासनानामिति। तासां कार्यत्वेनानन्वयानवस्थाभ्यामुपादानत्वायोगात्सवासनानर्थहेतुर-विद्यैवेत्यर्थः। विनाऽविद्यामसङ्गस्याऽऽत्मनो न वासनासंगतिरिति द्योतयितुं सैवेत्युक्तम्॥४६४॥

संभाव्यतेऽनपेक्षत्वं नियोगविरहादपि॥
यथा तथा च वक्ष्यामः स्पष्टेन न्यायवर्त्मना॥४६५॥

यच्च संभाव्यं नानपेक्षत्वमित्यत्र नियोगानुप्रवेशं विना शब्दस्य नानपेक्षं प्रामाण्यमित्युक्तं तत्राऽऽह।संभाव्यत इति। वक्ष्यामः सर्वोऽपीत्यादाविति शेषः॥४६५॥

स्वानुभूतिबलादेव भवताऽपि विभाव्यते॥
नियोगादिः प्रमाणार्थो नानुभूतिर्नियोगतः॥४६६॥

यत्तु सिद्धे च न नियोगस्य संभव इति तत्राऽऽह। स्वानुभूतीति। नियोगवादिना चिदात्मवशादेव नियोगादिर्जडोऽर्थो गम्यते तथाच तत्साधकश्चिद्धातुः स्वसिद्धौ न नियोगाद्यपेक्षते नहि सविता रूपादिप्रकाशकस्तदपेक्षया प्रकाशते तन्न चिदात्मनि सिद्धेऽर्थे नियोगासंभवो दोषोऽभ्युपेतत्वादित्यर्थः॥४६६॥

यस्याप्रसिद्धिर्नाज्ञानात्प्रसिद्धिर्नापि मानतः॥
तस्यानुभवतत्त्वस्य कुतः सापेक्षतोच्यते॥४६७॥

ननु मानाधीना मेयसिद्धिर्न चाऽऽत्मनि मानान्तरमिष्टमागमश्च नियोगनिष्ठो न विध्यस्पृष्टमात्मानं गोचरयति तस्मादात्मसिद्धौ नियोगापेक्षा दुर्वारा नेत्याह। यस्येति। ज्ञानाज्ञानाभ्यां प्रसिद्ध्यप्रसिद्ध्योरभावे हेतुमाह। अनुभवतत्त्वस्येति। अनुदितानस्तमित-कूटस्थबोधैकरसस्य सिद्धौ न नियोगाद्यपेक्षाशङ्काऽपीत्याह। **कुत इति॥**४६७॥

स्वप्रधानात्मबुद्ध्यैव तदन्यस्य प्रसिद्धितः॥
कार्यबुद्धिव्यपेक्षातो नानुभूत्यात्म218वस्तुनः॥४६८॥

तत्रैव हेत्वन्तरमाह। स्वप्रधानेति। स्वप्रधानमनन्याधीनं स्वतन्त्रमात्मवस्तु तद्रूपा बुद्धिश्चैतन्यं तदात्मनैव स्वातिरिक्तानात्मवर्गस्य लब्धसत्ताकत्वाञ्चिद्रूपस्य वस्तुनः स्वसिद्ध्यर्थं न नियोगादिबुद्ध्यपेक्षा न हि भुजंगधियमपेक्षते रज्जुधीरतो नाऽऽत्मसिद्धि-र्नियोगापेक्षेत्यर्थः॥४६८॥

क्व नु प्रतीयमानस्य पुमर्थत्वं समीक्षितम्॥
मानान्मानफलस्यैव पुमर्थत्वसमन्वयात्॥४६९॥

किं चानुभूयमानस्येत्यत्रानुभाव्यस्यैव पुमर्थत्वमित्युक्तं तत्राऽऽह। क्वेति। अर्थस्य हि निष्कृष्टानुभवस्य पुमर्थत्वं न क्वचिदपि मानादधिगतमित्यर्थः। कस्य तर्हि पुमर्थत्वं तत्राऽऽह। मानफलस्येति। पुमर्थत्वेनेष्टार्थविशेषणत्वेनानुभवस्य संबन्धात्तस्यैवानुगतस्य तदर्थत्वं नहि तत्त्वेनेष्टस्रगादिरनुभवानारूढस्तथा तदव्यभिचारिणोऽनुभवस्यैव पुमर्थता न मिथोव्यभिचारिणोऽर्थस्येत्यर्थः॥४६९॥

प्रतीतेर्माफलत्वाच्च कथं मेयैकनिष्ठता॥
माक्रियाफलयोगोऽयं यतो मातरि भोक्तरि॥४७०॥

अनुभाव्याश्रितत्वादनुभुतिरपि तद्गतरूपादिवदनुभाव्यैवेत्यर्थस्यैव पुमर्थतेति चेन्नेत्याह।प्रतीतेरिति। अनुभवो मानफलं न च मेयोऽर्थस्तदाश्रयो, जडत्वान्नहि जडाजडयोराश्रयाश्रयित्वमतो हेत्वसिद्धिरित्यर्थः। ननु फलस्यास्वातन्त्र्यादाश्रयो वाच्यस्तत्र परिशेषान्मेयाश्रितत्वं नेत्याह। माक्रियेति। मानस्य हि फलं मातारमाश्रयते, क्रियाफलं तु भोक्तारं न च तौ भिद्येते; अतो मानक्रियाया यदनुभवाख्यमुपचरितं फलं तत्संबन्धस्तस्मिन्नात्म-

न्युपचर्यते; तस्मान्मानफलस्य मेयनिष्ठत्वासिद्धेः सिद्धा हेत्वसिद्धिरित्यर्थः॥४७०॥

न चाऽऽत्मानुभवादन्यो विषयः कश्चिदिष्यते219
अपि सर्वप्रमाणानां किमु वेदान्तशासने॥४७१॥

यत्तु वेदान्तानां प्रमाणत्वं नाक्षवद्वस्तुनीति तत्राऽऽह। न चेति। अन्यस्याज्ञातत्वाभावादिति शेषः। अपिना सूचितमाह। किम्विति। वेदान्तेषु पुरुषार्थरूपानुभवस्वभावात्मनोऽन्यो विषयो नेति किमु वाच्यं तस्यैवाज्ञातत्वादित्यर्थः॥४७१॥

लौकिको वैदिकः सर्वो व्यवहारो जगत्यपि॥
भोक्त्रर्थ एव नान्योऽतः प्रधानं भोक्तुरिष्यते॥४७२॥

नियोगास्पृष्टे परमपुरुषार्थे परस्मिन्नेव चिदात्मनि वेदान्तमानतेत्यत्रैव हेत्वन्तरमाह।लौकिक इति। सर्वत्र जगति सर्वोऽपि व्यवहारो भोक्त्रर्थो, नान्यार्थः स्वतन्त्रो काऽतो भोक्तृरूपानुभवस्य शेषित्वेन प्राधान्यात्तस्यैव परप्रेमास्पदस्य पुरुषार्थत्वं पुरुषार्थे चापूर्वे शब्दस्य तात्पर्यम्। तथा चाऽऽनन्दरूपे प्रतीचि वेदान्तप्रामाण्यमित्यर्थः॥४७२॥

न वा अरे पत्युरिति तदेतत्प्रेय इत्यपि॥
निखिलेऽपि जगत्यस्मिन्प्रधानं नाऽऽत्मनोऽपरः॥४७३॥

प्रतीचो निरतिशयसुखत्वे मानमाह। न वा इति। अस्मिञ्जगति जायापुत्रादौ निखिलेऽपि प्रधानमात्मा न तस्मादन्यो जायादिस्तस्याऽऽत्मशेषत्वेन प्रियत्वस्य न वा अरे पत्युरित्यादिना श्रवणात्प्रधानं चाऽऽत्माऽनुपाधिप्रेमगोचरः कथं परमानन्दो न स्यात्तदेतत्प्रेयः पुत्रादित्यादिश्रुतिश्चास्यानतिशयप्रीत्यास्पदत्वेन परमसुखतामाहेत्यर्थः॥४७३॥

न प्रमाता प्रमाणं वा क्रियामेयफलानि वा220
प्राधान्यायेह कल्पन्ते भोक्तुरेव प्रधानतः॥४७४॥

मात्रादौ प्रधाने सति कथं भोक्तृप्राधान्यं तत्राऽऽह। नेति। इहेति व्यवहारभूमिः। तत्र हेतुः। भोक्तुरिति। तस्य सर्वशेषित्वेनेष्यमाणत्वात्प्राधान्यस्य युक्तत्वादितरस्य शेषतया तदयोगादित्यर्थः॥४७४॥

आत्मनः कर्त्रवस्थाऽपि भोक्त्रर्थमिति निश्चयः॥
यतोऽतोऽपरमप्येतद्भोक्त्रर्थंविनियुज्यते॥४७५॥

ननु कर्त्रवस्था क्रियाश्रयत्वात्प्रधानं तत्कथं भोक्तुरेव प्राधान्यं तत्राऽऽह। आत्मन इति। ननु विषयाभिनिवेशवान्पुमान्पुत्राद्येव प्रधानं मन्यते तत्राऽऽह। यत इति। कर्तृत्वस्य भोक्त्रर्थत्वे यदन्यत्पुत्रादि तत्सर्वं तदर्थमिति नाऽऽत्मनो भोक्तुरर्थान्तरं प्रधानमन्यत्र तदभिनिवेशस्तु भ्रान्तिरिति भावः॥ ४७५॥

नापि चाऽऽत्मातिरेकेण वस्त्वन्यन्मानभूमिगम्॥
संभाव्यते यथा चैतत्तथोदर्के प्रवक्ष्यते॥४७६॥

किंचाऽऽत्मनोऽर्थान्तरं न प्रामाणिकमस्ति यस्य प्राधान्यादि शङ्क्येतेत्याह।नापीति। कथमात्मातिरिक्तं वस्तु कल्पितमिति तत्राऽऽह। यथा चेति। उदर्कशब्दोऽव्याकृतविचारादिपरः॥४७६॥

अनादृत्य यथोक्तार्थं नियोगार्थैकरागतः॥
केचित्कार्यैकनिष्ठत्वं वेदान्तानां प्रचक्षते॥४७७॥

एवं पुरुषार्थे कूटस्थानुभवे प्रत्यग्ब्रह्मणि वेदान्तप्रामाण्यात्तेषां निरोधविधिशेषत्वायोगात्काण्डद्वये संबन्धानां परोक्तानामयुक्तत्वा-त्कर्मणां शुद्धिद्वारा ज्ञानहेतुत्वमुपनिषदां साक्षादिति विविदिषावाक्यीयं संबन्धमुपेत्य तस्येत्यादिभाष्यं व्याख्यातम्। संप्रतिसर्वोऽपीत्यादिभाष्यनिरस्यं पूर्वपक्षमाह। अनादृत्येत्यादिना। काण्डयोरधिकार्यादिभेदं संबन्धविशेषमेकात्म्याख्यं वस्तु चोक्तं सर्वमप्रामाणिकं कृत्वा वेदान्तानां कार्यमात्रपर्यवसायित्वमेके वदन्तीत्यर्थः। वक्ष्यमाणपूर्वपक्षस्याऽऽभासत्वं सूचयति। नियोगेति॥४७७॥

कार्यैकमात्रनिष्ठत्वात्प्रमाणस्या221ऽऽगमात्मनः॥
कुत ऐकात्म्यनिष्ठत्वं त्वया यदुदितं पुरा॥४७८॥

तत्त्वमादिवाक्यमैक्यपरमुक्तं न च तदनादरे हेतुरस्तीत्याशङ्क्याऽऽह। कार्येति। तदपि कार्यनिष्ठं प्रमाणवाक्यत्वाद्विधिवाक्यव-दित्यर्थः। वेदस्य सर्वस्यापि कार्यनिष्ठत्ववद्वस्तुनिष्ठत्वमपि स्यादित्याशङ्क्याऽऽह। एकेति। न खल्वेकं वाक्यमुभयार्थमर्थभेदे वाक्यभेदादिति भावः। भूतभव्यन्यायेन कार्यशेषतया भूतोपदेशोऽपि स्यादित्याशङ्क्य कार्यशेषस्य भूतस्यापि कार्यत्वमेवेति मत्वाऽऽह। मात्रेति

४७८॥

नहि तस्यानपेक्षत्वं सिद्धवस्त्ववबोधनात्॥
यतो मानान्तरमितं सिद्धं वस्त्विति भण्यते॥४७९॥

आगमस्य सिद्धार्थनिष्ठत्वाभावं साधयति। न हीति। सिद्धार्थत्वेनेष्टागमस्य तत्प्रकाशनान्नानपेक्षं प्रामाण्यं तस्य मानान्तरयोग्यत्वा-त्तन्निष्ठस्यानपेक्षत्वायोगादित्यर्थः। नन्वागमस्य कार्यनिष्ठत्वेऽपि निरपेक्षप्रामाण्यहानिस्तुल्येति नेत्याह। यत इति। यत्सिद्धं वस्तु तन्मानान्तरयोग्यमित्युच्यते न कार्यं तद्योग्यमतो मानान्तरापूर्वमपूर्वमित्थम्युपगमादतस्तन्निष्ठस्यानपेक्ष्यं प्रामाण्यमित्यर्थः॥४७९॥

शब्दसामर्थ्यनियमो लोकादेवावगम्यते॥
लोके मान्तरसिद्धोऽर्थः कार्यायैवाभिधीयते॥४८०॥

वेदः सर्वोऽपि कार्यनिष्ठो न सिद्धार्थे मानमित्यत्रैव हेत्वन्तरमाह। शब्देति। ज्ञातशक्तिशब्दो बोधकोऽस्यास्मिन्नर्थे शक्तिरिति नियता सा वृद्धव्यवहारादेव गम्यते ततश्चेयं कार्ये पर्यवस्यतीत्यर्थः। वृद्धव्यवहारलिङ्गतः सिद्धार्थेऽपि शक्तिः शब्दस्य गृह्यतामित्याशङ्क्य लिङ्गस्य प्रवर्तकबोधाधीनत्वान्मैवमिति मत्वाऽऽह। लोक इति। व्यवहारभूमावध्यक्षादिसिद्धस्य सिद्धार्थस्य कार्यशेषत्वेनैवोक्तेस्तदन्विते शक्तिग्रहा222त्तत्पर एव वेद इत्यर्थः॥४८०॥

न प्रवृत्तिनिवृत्तिभ्यां शून्यस्य वचसो यतः॥
कश्चिदर्थोऽत्रदृष्टोऽतो वस्तुनि स्यान्न मानता॥४८१॥

किंच तात्पर्याधीनं शब्दप्रमाण्यं तच्च पुरुषार्थे स च प्रवृत्तिनिवृत्तिसाध्यस्ते च विधिनिषेधाधीने तौ च कार्ये भवतोऽतोऽपि न वेदस्य सिद्धार्थपरतेत्याह। नेत्यादिना। शक्तितात्पर्ययोः कार्ये नियमो दर्शितः॥४८१॥

संबन्धावगमो नापि शब्दाद्भूतार्थवाचिनः॥
प्रवर्तकात्प्रवृत्त्याऽर्थे प्रत्ययो ह्यनुमीयते॥४८२॥

ततः शब्दस्य सामर्थ्यं प्रतीतेरवधार्यते॥
कार्यैकविषयै223वेयं वाक्यस्यातः प्रमाणतः॥४८३॥

ननु शक्तिर्न कार्यमेवाधिकरोति प्रवर्तकादेव वाक्यात्तग्रहानियमात्सिद्धार्थादपि पुत्रस्ते जात इत्यादेस्तद्ग्रहसंभवादिति तत्रापि कार्याध्याहारो लक्षणा वेति विवक्षन्नाह।संबन्धेति। प्रवृत्त्यभावेन लिङ्गाभावादिति शेषः। कथं तर्हि शक्तिधीस्तत्राऽऽह।प्रवर्तका-दिति। उत्तमवृद्धोक्तप्रवर्तकवाक्यश्रुत्यनन्तरभाविमध्यमवृद्धप्रवृत्त्या प्रवर्तकार्थधीर्बालेनानुमीयते। विमता प्रवृत्तिः प्रवर्तकधीपूर्विका बुद्धिपूर्वप्रवृत्तित्वात्संमतवत्सा च प्रवर्तकधीः शब्दान्वयव्यतिरेकवत्तया प्रतीतेस्ततः शब्दादुत्पन्ना निश्चीयते। एवं प्रवर्तकार्थे सामर्थ्यं शब्दस्य सामान्यतोऽवधार्याऽऽवापोद्धाराभ्यां224 लिङ्ङादिपदं प्रवर्तकवाचीतराणि तदन्वितस्वार्थवाचीनीत्यवगम्यते तस्मात्कार्ये शक्तिधीरित्यर्थः। पदानां कार्ये ज्ञातशक्तित्वेऽपि वाक्यस्य सिद्धेऽर्थे प्रामाण्यं स्यादित्याशङ्क्याऽऽह। कार्येति। ज्ञातशक्तीनां पदानां स्वार्थबोधकत्वात्कार्ये च शक्तिज्ञानादित्यतः शब्दार्थः॥४८२॥॥४८३॥

क्रियाकारकसंबन्धो वाक्यार्थो यैरपीष्यते॥
अनुवादविसंवादात्तेषामुक्तेरमानता॥४८४॥

ननु वाक्यं वाक्यार्थे क्रियाकारकसंबन्धे मानं तत्कथं कार्यैकविषयं वाक्यप्रामाण्यं

तत्राऽऽह। क्रियेति। ओदनं पचतीत्यादौ क्रियाकारकान्वयस्य मानान्तरयोग्यत्वात्तत्संवादविसंवादाभ्यां तत्र वाक्याप्रामाण्यान्नियोगे तत्प्रामाण्यमित्यर्थः॥४८४॥

मान्तरानुप्रवेशित्वं कार्यस्य तु न शङ्क्यते225
शब्दादेव हि कार्यार्थ226प्रतिपत्तिर्न लोकतः॥४८५॥

ननु तस्मिन्नपि कार्यात्मनि लौकिककार्यवन्मानान्तरसंभवादुक्तदोषसाम्यमिति नेत्याह।मान्तरेति। तत्र हेतुमाह। शब्दादितिक्रियादिभिन्नं यत्कार्यं वेद्यं मानान्तरैर्न तदिति न्यायेन मानान्तरापूर्वनियोगे वाक्यं मानं नहि कार्यत्वेऽपि लौकिककार्यवदस्य मानान्तरगोचरत्वं क्रियात्वस्यापि तद्वदेव प्रसङ्गात्तदन्यत्वं च नियोगस्य वक्ष्यतेऽतो लिङादिशब्दात्प्रवर्तककार्यप्रतीतेस्तत्र वाक्यप्रामाण्यमिति भावः॥४८५॥

प्रवर्तनां वदञ्शब्दः प्रवर्तक इतीर्यते॥
ज्ञापकत्वात्प्रमाणस्य प्रेरयन्कारको भवेत्॥४८६॥

ननु लिङादिशब्दात्प्रवर्तकधीश्चोदनेति क्रियाया वचनमाहुरिति भाष्याल्लिङादेरेव प्रवर्तकत्वादत आह। प्रवर्तनामिति। लिङादिप्रवर्तनां बोधयन्प्रवर्तक इत्युच्यते भाष्यकृतेति किमिति कल्प्यते साक्षादेव प्रवर्तकत्वं तस्याभीष्टं किं न स्यात्तत्राऽऽह। ज्ञापकत्वादिति। प्रमाणस्य ज्ञापकत्वान्न रागादिवत्कारकत्वं लिङादिश्चेत्प्रवर्तकः कारकं स्यान्न मानं मानं चेष्यतेऽतः प्रवर्तकवाचित्वेनैव भाष्ये तत्प्रवर्तकत्वोक्तिरित्यर्थः॥४८६॥

शब्दात्प्रवर्तनाबुद्धौ रागादिर्न च शङ्क्यते॥
रागादिः प्रेरणाकारी प्रेरणाज्ञापको ध्वनिः॥४८७॥

लिङादेः प्रवर्तकवाचित्वेऽपि वाच्यः प्रवर्तको रागादिरस्तु न कार्यमिति चेन्नेत्याह।शब्दादिति। लिङादिशब्दात्प्रवर्तकबुद्धाविष्टायां प्रवर्तकत्वेन रागादिर्न शङ्कामर्हतीत्यत्र हेतुमाह। रागादिरिति। रागादेः प्रवर्तकनिर्वर्तनेनाप्रवर्तकत्वेऽपि प्रवृत्त्यनुविधायिनो लिङादेस्तथात्वं नहि तस्य रागादिवद्धेतुहेतुत्वादन्वयव्यतिरेकावन्यथा सिद्धावकारकत्वादित्याशङ्क्य प्रवर्तकत्वे कारकत्वप्रसङ्गान्मैवमित्याह। प्रेरणेति। ध्वनिर्नाम लिङादिशब्दः स च न स्वयं प्रवर्तकः किंतु प्रेरणार्थप्रवर्तकज्ञापनेन प्रवृत्त्यनुविधायीत्युक्तमित्यर्थः227॥ ४८७ ॥

आज्ञापितार्थनिष्पत्तौ कृतिमत्त्वेक्षणात्प्रभोः॥
रागाद्यर्थस्य चासिद्धौ228 कर्तृवृत्तिर्न रागतः॥४८८॥

रागादेः शब्दस्य च प्रवर्तकत्वानुपपत्त्या कार्यस्यैव तदित्युक्तम्। अथवा लोके रागादेरेव प्रवर्तकत्वेऽपि शब्दार्थभूततन्निरूपणे न तस्य तथात्वमित्याह। आज्ञापितेति। आचार्यादेराज्ञाविषयगवानयनादिसंपादने शिष्यादेरागाद्यभावेऽप्याज्ञाप्रभावादेव कृतिश-

ब्दितयत्नपूर्वकप्रवृत्तिमत्त्वस्य दर्शनात्कर्तृभृत्यादेः शब्दानन्तरभाविनी प्रवृत्ती रागादेर्न भवतीत्यर्थः॥४८८॥

स्वामिकोपप्रसादादिहृदयाकूतवेदनात्॥
नापि श्रोतुः प्रवृत्तिः स्याच्छब्दात्कोपाद्यवेदनात्॥४८९॥

श्रोतृगतरागद्वेषयोरप्रवर्तकत्वेऽप्युत्तमवृद्धस्यकोपादेर्लिङादिसिद्धस्य तद्भावान्न कार्यस्य प्रवर्तकत्वमित्याशङ्क्याऽऽह। स्वामीति। आदिशब्दो229 हर्षशोकादिविषयस्तदेव तस्य हृदयगतमाकूतमभिप्रायस्तस्य वेदनादपि न प्रवृत्तिरित्यर्थः। तत्र हेतुमाह। शब्दादिति। लिङादेर्नियोगवत्स्वामिकोपाद्यप्रतीतेरिति हेत्वर्थः॥४८९॥

लिङादयो न कोपादेः स्मर्यन्ते प्रतिपादकाः॥
मानान्तरमिताः सन्तस्ते हि पुंसां प्रवर्तकाः॥४९०॥

हेतुं साधयति। लिङादय इति। विध्यादिमात्रप्रतिपादकत्वस्मरणादित्यर्थः। स्वामिकोपादेरपि प्रवर्तकत्वप्रसिद्धेस्तस्याशाब्दत्वे केनावगतिर्न खल्वज्ञातस्यैव प्रवर्तकत्वं सुप्तस्यापि स्वामिकोपादिना तत्प्रसङ्गादित्याशङ्क्याऽऽह। मानान्तरेति। तथाचानन्यलभ्यत्वाभावान्न शब्दार्थीभूतप्रवर्तकता तेषामिति भावः॥४९०॥

धिगङ्गाद्यभिधानैस्तु लिङ्गभूतैरिहेङ्गिताः॥
रागादयो नियोगस्य सिद्ध्यै विषयसाधनाः॥४९१॥

किं तन्मानान्तरं तदाह। धिगिति। आदिशब्देन कोपप्रसादहर्षशोकादिसूचकान्युच्यन्ते। इहेति वाक्यश्रुत्युक्तिः। इङ्गितत्वमनुमितत्वम्। तन्न ते शब्दार्थीभूता इति शेषः। ननु लिङादेर्वारागादेर्वाकोपादेर्वा प्रवर्तकत्वाभावे कार्यस्यैव प्रवर्तकत्वं परिशेषतो लब्धं तथाच प्रेरणाकारी रागादिरित्युक्तमयुक्तं प्रेरणाख्यनियोगस्य धात्वर्थाधीनतया रागाद्यजन्यत्वात्तत्राऽऽह। रागादय इति। नियोगसिद्ध्यर्थं धात्वर्थं साधयन्तस्ते प्रेरणाख्यं तमपि साधयत्यतो रागादिः प्रेरणाकारीति युक्तमित्यर्थः॥४९१॥

अत एव च रागादिसंसृष्टोऽपि विविच्यते॥
लोडाद्यर्थो व्रजेत्युक्तो याति स्वार्थं विना यतः॥४९२॥

ननु लौकिकवाक्ये रागादिसंसृष्टस्यैव नियोगस्य दृष्टत्वात्सर्वत्र शब्दानन्तरप्रवृत्तौ तत्संसृष्टस्यैव तस्य प्रवर्तकत्व230प्रतीतेर्नियोगस्यैव प्रवर्तकत्वं न रागादेरिति विवेक्तुमशक्यमत आह। अत एवेति। नहि लौकिकवाक्येषु रागादिसंसृष्टनियोगदृष्टिनियमो व्रजेति प्रभुणोक्तः श्रोता स्वार्थं फलरागं विनाऽपि यतो यात्यतो यत्र शाब्दप्रवृत्तौ रागादिः संभवति तत्रापि तत्संसृष्टो नियोगस्ततोऽपि विविच्यते तस्मादनुगतनियोग231 एव प्रवर्तको न रागादिरिति निश्चयसिद्धिरित्यर्थः॥४९२॥

ननु दानादिसंबद्धमहावाक्यानुमानतः॥
गच्छेत्याद्येकदेशोक्तौ लोभादेव प्रवर्तते॥४९३॥

फलरागं विना कस्यचिदप्रवृत्ते रागसंसृष्टस्यैव नियोगस्य प्रवर्तकत्वादुक्तप्रवर्तकत्वविवेकासिद्धिरिति शङ्कते। नन्विति। उत्तमवृद्धेन गच्छ तिष्ठेत्यादिवाक्यैकदेशोक्तौ गच्छ ग्रामं द्रव्यं दास्यामि तिष्ठात्र वस्त्रादिलाभस्ते भवितेत्यादिरूपं दानादिसंबद्धं महावाक्यं मध्यमवृद्धेनानुमीयते विमता वाक्प्रवृत्तिः श्रोतृफलावसायिनी विशिष्टवाक्प्रवृत्तित्वात्संप्रतिपन्नवत्ततो द्रव्यादिरागसहितादेव नियोगात्प्रवृत्तिरिति न प्रवर्तकनिष्कर्ष इत्यर्थः॥४९३॥

महावाक्यप्रयोगेऽपि पदार्थप्रविवेचने॥
पुंस्प्रवृत्तिस्तु दृष्टेयं लोडादेरेव नान्यतः॥४९४॥

परिहरति। महावाक्येति। यत्र वाक्यैकदेशोक्तिं विना महावाक्यमेव प्रयुक्तं तत्रापि पुंसो मध्यमवृद्धस्य प्रवृत्तिरुपलब्धा सा नियोगाद्वा रागाद्वेति प्रवर्तकविवेके लोडाद्यर्थान्नियोगादेव न रागादिति निश्चीयते तत्र श्रोतृरागस्य दुःसंपादनादतो वाक्यैकदेशोक्तौ महावाक्यानुमानेऽपि प्रवर्तकनिरूपणे निकृष्टनियोगस्य तत्सिद्धिरित्यर्थः॥४९४॥

लोडादेरेव श्रवणाद्यत्र रागाद्यसंभवः॥
बालः प्रवर्तते तत्र ज्ञायते प्रेरणार्थता॥४९५॥

उक्तमेव व्यनक्ति। लोडादेरिति। यत्र दण्डादौ बालस्याभिलाषाद्यसंभवस्तत्रापि लोडादेरानयेत्यादिरूपस्य श्रवणात्तदर्थ-ज्ञानादेवासौ प्रवर्ततेऽतो लोडादिशब्दस्य प्रेरणाख्यप्रवर्तकनियोगार्थत्वावगमात्तस्यैव सर्वत्र प्रवर्तकत्वं निश्चितमित्यर्थः॥४९५॥

आह मानान्तरेणासौ किल नार्थोऽवगम्यते॥
शब्दाच्च232ज्ञायतेऽज्ञातसंबन्धादिति चित्रता॥४९६॥

अथ नियोगो मानान्तरगम्यो न वा। आद्ये मानान्तरानुप्रवेशित्वं कार्यस्य तु न शक्यत इत्युक्तिव्याघातः। द्वितीये त्वज्ञातसंबन्धस्य लिङादेर्न नियोगबोधितेति चोदयति। आहेति। नियोगश्चेन्मानान्तरागोचरो न तर्हि तत्र लिङादेः शक्तिर्गृह्येत न ह्यज्ञाते संबन्धधीर्न चाज्ञातशक्तेर्लिङादेर्नियोगावगतिर्बालस्यापि तत्प्रसङ्गादतो न शब्दार्थीभूतः प्रवर्तको नियोग इत्यर्थः॥४९६॥

यद्यनिर्ज्ञातसंबन्धोऽप्यर्थं शब्दः प्रबोधयेत्॥
को द्वेषोऽस्मासु भवतो येनोपालम्भ ईर्यते॥४९७॥

लिङादेरेष महिमा यदयमज्ञातशक्तिरपि नियोगं गमयतीति शङ्कते। यदीति। तदा पदधर्मव्युत्क्रान्तिरिति मत्वाऽऽह। को द्वेष इति। नियोगवादिनो ब्रह्मवादिषु द्वेषो न युक्तो ब्रह्मादिपदस्याज्ञातशक्तेरेव बोधकत्वात्तच्छक्तिग्रहे ब्रह्मणि मानान्तरप्रवेशात्तत्संवादविसंवादाभ्यां वेदान्ताप्रामाण्यमित्याक्षेपो येन निक्षिप्यते ब्रह्मादिपदस्यापि लिङादिवदुक्तमहिम-संभवादित्यर्थः॥४९७॥

यदाऽवगम्यते नान्यत्मवृत्तेः कारणान्तरम्॥
शब्दश्च गम्यते स्पष्टस्तदाऽर्थः प्रविविच्यते॥४९८॥

पूर्ववादी परिहरति। यदेति। यदा कारणान्तरं शब्दानन्तरभा विप्रवृत्तिहेतुगमकं लिङादिशब्दादन्यन्नावगम्यते लिङादिशब्दश्च प्रवृत्तिहेतुज्ञापको ज्ञायते तदा लिङादेरर्थोनियोगो मानान्तरायोग्यत्वेन नामपदार्थेभ्यो विविच्यते स च निष्कृष्टः स्पष्टः शब्दार्थीभूतः प्रवृत्तिहेतुरित्यर्थः॥४९८॥

अन्वयव्यतिरेकौ तु वाक्यार्थज्ञानपूर्वकौ॥
वाक्यार्थस्तु तदायत्तो नेत्यन्येभ्यो विशिष्टता॥४९९॥

कार्यमात्रे लिङादेः शक्तिग्रहेऽपि तन्मात्रस्यानियोगत्वान्मानान्तरायोग्ये नियोगे कथमसावनवसितसंगतिस्तमवगमयेदित्या-शङ्क्याऽऽह। अन्वयेति। उत्तमवृद्धोक्तवाक्यात्तदर्थे नियोगे मध्यमवृद्धस्य ज्ञानपूर्वकप्रवृत्तिलिङ्गेन बालस्यान्वय-व्यतिरेकाख्यमनुमानमुदेति विमता प्रवृत्तिः प्रवृत्त्यभावविरोधिधीपूर्विका विशिष्टप्रवृत्तित्वान्मदीयप्रवृत्तिवत्स च प्रवृत्त्यभावविरोध्यर्थः शब्दान्वयव्यतिरेकवत्तया233 शब्दादेव प्रतिपन्न इति निश्चिनोति। एवं मध्यमवृद्धेन शब्दावगते प्रवर्तके बाले न लिङ्गदेः शक्तिग्रहान्न प्रवर्तकनियोगस्य मानान्तरगम्यत्वम् । नाप्यज्ञातशक्तेः शब्दस्य बोधकत्वमित्यर्थः। प्रवर्तककमनुमाय तत्र लिङादेःशक्तिग्रहे कथं प्रवर्तकनियोगस्य मानान्तरागम्यतेत्याशङ्क्याऽऽह। वाक्यार्थस्त्विति। चन्द्रादिसंपृक्तराहोरध्यक्षत्ववदाज्ञाद्युपहितस्यैव नियोगम्यानुमानादिगोचरत्वान्न स्वरूपेण वाक्यार्थो नियोगो मानान्तराधीनाधिगतिरित्यन्येभ्यः स्वरूपेण तद्योग्येभ्यो नामार्थेभ्यस्तस्य विलक्षणता तथा चोपाधिद्वारा नियोगे मानान्तरप्रवेशात्तत्र लिङादेः शक्तिग्रहात्स्वरूपेण मानान्तराप्रवेशाद्वैदिकत्वसिद्धेर्नियोगपक्षो युक्तिमानिति भावः॥४९९॥

कर्तव्यताविवक्षैव वाक्येभ्योऽपि गम्यते॥
विवक्षाया न कार्यत्वं शब्दार्थविषया हि सा॥५००॥

ननु रागादेर्लिङाद्यर्थत्वाभावेऽपि नियोगस्य न तदर्थत्वं विवक्षायास्तदर्थत्वात्। उक्तं हि कीर्तिना—

“नान्तरीयकताभावाच्छब्दानां वस्तुभिः सह।
नार्थसिद्धिस्ततस्ते हि वक्त्रभिप्रायसूचकाः" इति।

तत्राऽऽह। कर्तव्यतेति। किं विवक्षामात्रं लिङाद्यर्थः किंवा कर्तव्यताविशेषिता विवक्षा नाऽऽद्योऽपौरुषेये वेदे तदभावात्तस्या लिङाद्यर्थत्वायोगात्पौरुषेयवाक्येषु तत्प्रतीतावपि कर्तव्यताविशेषितैव सा प्रतीयतेऽतो न तन्मात्रं लिङाद्यर्थः। न द्वितीयो विशिष्टविवक्षासंभवस्याप्यपौरुषेये वेदे तुल्यत्वात्तस्याश्च तदर्थत्वे प्राप्ताप्राप्तविवेकेन कर्तव्यतैव शब्दार्थः स्यादिति भावः। विवक्षाकर्तव्यतयोरैक्यान्न विशेषणविशेष्यता तेन कर्तव्यतायाः शब्दार्थत्वे विवक्षैव तदर्थः स्यादित्याशङ्क्याऽऽह। विवक्षाया इति। तयोरभेदाभावे हेतुमाह। शब्दार्थेति॥५००॥

तद्वशान्न तु शब्दार्थः स हि पूर्वं प्रतीयते॥
अतः प्रैषादिसंसृष्टोऽप्यर्थः सिद्धो विवेकतः॥५०१॥

वक्तुर्विवक्षितपूर्विका शब्दस्य प्रवृत्तिरिति न्यायाद्विवक्षावशाल्लोके शब्दप्रवृत्तेस्तदर्थकर्तव्यता234विवक्षैवेति विशेषमाशङ्क्याऽऽह। तद्वशादिति। नहि विवक्षावशात्प्रवृत्तिः शब्दानां नियन्तुं शक्याऽतिप्रसङ्गान्न च विवक्षाधीनः शब्दार्थनिश्चयः विवक्षा नियमे हेतुः संकेतस्तत्प्रकाशनेइति न्यायादिति वाच्यं तस्य सामर्थ्याधीनत्वाद्वेदे च विवक्षासंभवस्योक्तत्वादतोऽन्या कर्तव्यताऽन्या च विवक्षा। यथाऽऽह कीर्तिः — “विवक्षया हि सर्वत्र शब्दोऽर्थेषु नियम्यते” इति। तन्नाभेदशङ्केति भावः। विवक्षाकर्तव्यतयोर्भेदे हेत्वन्तरमाह। स हीति। कर्तव्यताख्यः शब्दार्थो विवक्षाप्रतीतेः पूर्वमेव शब्दश्रवणमात्रेण प्रतीयतेऽतो भेदस्तयोरित्यर्थः। विवक्षाया लिङाद्यर्थत्वाभावेऽपि प्रैषादीनां तदर्थत्वान्न नियोगस्य प्रत्ययार्थतेत्याशङ्क्याऽऽह। अत इति। प्रैषादिष्वपि कार्यमेवानुवर्तमानं प्रवर्तकम्। उक्तं हि–

“कार्यमेव च वक्तॄणां ज्यायः समकनीयसाम्।
प्रवर्त्यपेक्षया भेदात्प्रैषादिव्यपदेशभाक्" इति।

न ते मिथो व्यावृत्तास्तद्धेतवोऽतस्तैः संसृष्टो लिङाद्यर्थस्तेभ्यो विविक्तः सिद्धस्तन्न प्रैषादीनां तदर्थतेत्यर्थः॥१०१॥

शब्दार्थोपाधयो ह्येते पुरुषाशयपातिनः॥
प्रैषादयो न शब्दार्था न चानेकार्थता मता॥५०२॥

तेषां लिङाद्यर्थत्वाभावे कथं तेभ्यस्तद्धीरिति तत्राऽऽह। शब्दार्थेति। लिङाद्यर्थनियोगोपाधित्वेन लौकिकलिङ्गादिषु प्रैषादिधीर्न तदर्थ235तयेत्यर्थः। वेदे प्रैषाद्याशङ्कैव

नास्ति तद्व्याप्ताभिप्रायाभावादित्याह। पुरुषेति। तेषां लिङाद्यर्थत्वे दोषान्तरमाह। न चेति। सर्वत्र लिङादिष्वेकस्यैव नियोगस्य शक्तिप्रतियोगित्वसंभवे प्रैषादिष्वनेकेषु न सा कल्प्या गौरवादिति भावः॥१०२॥

अभिप्रायवतोऽभावादभिप्रायानुपातिनः॥
शङ्क्यतेऽपि न वेदे तु कार्य वाच्यमिति स्थितम्॥५०३॥

किंच पौरुषेये वाक्ये तेषां शब्दार्थत्वेऽप्यपौरुषेये न तदर्थत्वशङ्काऽपीति पुरुषाशयपातिन इत्यत्रोक्तं व्यनक्ति। अभिप्रायवत इति। तर्हि लोके प्रैषादीनां लिङाद्यर्थत्वं वेदे नियोगस्येति व्यवस्थेति नेत्याह। कार्यमिति। लोकवेदयोरर्थैक्यस्य न्याय्यत्वाल्लाघवाच्च कार्यमेव सर्वत्र लिङादिवाच्यमित्यर्थः॥५०३॥

प्रयोगविधिशेषत्वात्तन्मूला एव नाऽऽशयात्॥
वेदे प्रैषास्तु ये दृष्टा अग्नीदग्नीनितीदृशाः॥५०४॥

नन्वग्नीदग्ग्रीन्विहर बर्हिस्तृणीहि पुरोडाशानलंकुरु प्रतिप्रस्थातविहरेत्यादयो वेदेऽपिप्रैषाः श्रूयन्ते तत्कथमभिप्राय-वतोऽभावादित्यादि तत्राऽऽह।प्रयोगेति। साङ्गे प्रधाने कर्मणि प्रवर्तको नियोगः प्रयोगविधिस्तच्छेषत्वात्तन्मूलास्तस्य नियोगस्य व्यापारा वेदे दृश्यमानाः प्रैषा न पुरुषाभिप्रायानुवर्तिनोऽतोऽभिप्रायवतोऽभावादित्यादि युक्तमित्यर्थः॥५०४॥

प्रैषादिभ्यो यथैवेयं भिन्ना कर्तव्यतेक्ष्यते॥
शब्दशक्तिवशात्तद्वत्क्रियादेरपि वीक्ष्यताम्॥५०५॥

ननु प्रैषादयो लिङादिवाच्या मा भूवन्क्रिया वा तत्फलं वा तदर्थोऽस्तु तत्कुतो नियोगस्तदर्थस्तत्राऽऽह। प्रैषादिभ्य इति। यथा शब्दार्थीभूतनियोगाख्यकर्तव्यता तेभ्यो भिन्नोक्ता तथा क्रियादेरपि सा भिन्नैव तस्मिन्ननेकत्र लिङादिशक्तिकल्पनादेकत्रैव पनस्य न्याय्यत्वादित्यर्थः॥ ५०५॥

नानिष्पन्नस्वभावोऽपि भावः कर्तव्यता यतः॥
लडादिश्रवणात्तस्या अप्रतीतिर्लिङादिवत्॥५०६॥

क्रियानियोगयोः साध्यत्वाविशेषादैक्यान्नियोगस्य शब्दार्थत्वे क्रियायास्तदर्थत्वं स्यान्न च क्रियातिरिक्तो नियोगोऽस्तीत्याशङ्क्यापूर्वाधिकरणन्यायेनाऽऽह। नेत्यादिना। भावः क्रिया सा न नियोगारख्या कर्तव्यता यद्यप्यनिष्पन्नस्वभावः साध्यो भावः कर्तव्यताऽपि तथा तथाऽपि नानयोरभेद इत्यर्थः। तत्र हेतुमाह। यत इति। लिङादिश्रवणे कर्तव्यताधीवत्पचतीत्यादिश्रवणात्क्रियाप्रतीतावपि कर्तव्यताया यतो न प्रतीतिरतः क्रियातिरिक्तो लिङगद्यर्थः। उक्तं हि भेदलक्षणे - “चोदना पुनरारम्भः” [पू० मी० २।१।१] स्वर्गकामो यजेतेत्यादिसाधिकारचोदनासु क्रियैव कार्यतया लिङादि-

वाच्या तदन्यद्वा कार्यमिति संशये शब्दार्थधियो व्युत्पत्तिनिमित्तत्वात्तस्याश्च कार्यनियमादपूर्वे तदयोगात्क्रियैव कार्यतया वेदे लिङादिवाच्येति प्राप्ते स्वर्गानुगुणकार्यवादिलिङादीनां नियोज्यार्पकस्वर्गकामपदेनान्विताभिधायित्वात्क्षणापवर्गिकर्मणस्तदानुगण्या-योगात्कार्यमात्रे व्युत्पन्नलिङादेर्वेदे पदान्तरसमभिव्याहारात्क्रियातिरिक्ते व्युत्पत्तेरपूर्वस्य स्थायित्वादव्यवहितस्य स्वर्गसाधनत्व-संभवात्तस्य स्थायिनस्तद्विपरीतक्रियावान्तरव्यापारत्वायोगादपूर्वमेव क्रियातिरिक्तं वेदे लिङ्गदिवाच्यमिति236 सिद्धान्तितम्यथाऽऽहुः- अपूर्वं पुनरस्ति यत आरम्भः शिष्यते स्वर्गकामो यजेतेति। इतरथा विधानमनर्थकं स्याद्भङ्गित्वाद्यागस्येति। तथाच क्रियैव कार्यतेत्यङ्गीकारे तद्विरोधः स्यादित्यर्थः॥५०६॥

ननु कालोपबन्धोऽत्र कार्यबुद्धिविघातकृत्॥
नैतत्संदेह एवात्र विवेकाभावतस्तव॥५०७॥

क्रियाकर्तव्यतयोरभेदेऽपि पचतीत्यत्र क्रियाप्रतीतावेव वर्तमानकालस्य पचत्यर्थे विशेषणत्वेन संबन्धस्तत्र कर्तव्यताबुद्धिं निरुणद्धीति क्रियाकर्तव्यतयोरभेदवादी शङ्कते।नन्विति। तयोर्भेदवाद्याह। नैतदिति। अत्र लडादिश्रवणे क्रियाप्रतीतौ सत्यां कर्तव्यताबुद्ध्यभावः कालप्रतिबन्धादिति न निश्चयः किं त्वस्मिन्विषये संशयस्तव विवेकाभावादित्यर्थः॥५

०७॥

कालोपबन्धः किंत्वत्र कार्यबुद्धिविघातकृत्॥
किं भावात्कार्यता भिन्ना लडादिर्यांन भाषते॥५०८॥

** विवेका**भावकृतं संशयं विशदयति। कालेति। पचतीत्यादौ क्रियाप्रतीतावेव कर्तव्यताबुद्ध्यभावः कालप्रतिबन्धकृतो वा लडादिर्याकार्यतां न वदति तस्या भावशब्दितक्रियातो भेदकृतो वेत्यनिर्णयेन संदेहस्य दुर्वारतेत्यर्थः॥५०८॥

कर्तव्यः कट इत्यादावव्यापारेऽपि कार्यता॥
वीक्ष्यतेऽतः पृथग्भावात्फलाच्च प्राक्प्रतीतितः॥५०९॥

तर्हि संदेहादेव क्रियातो नियोगस्य भेदोऽपि न स्यान्नेत्याह। कर्तव्य इति। कटः कर्तव्यो ग्रामो गन्तव्य इत्यादौ व्यापारविलक्षणेऽपि कटादौ प्रत्ययस्य सामर्थ्यान्नियोगाख्या कर्तव्यता भात्यतः क्रियातो भावशब्दार्थात्पृथगेव सा न च तत्रापि कटकरणादिक्रियाऽस्ति तद्भावेऽपि प्रत्ययस्य कर्मप्रधानस्यातदर्थत्वात्तस्मात्प्रकृतिप्रत्ययार्थौक्रियानियोगौ भिन्नाविति भावः। क्रियाया लिङाद्यर्थत्वाभावेऽपि तत्फलं तदर्थः कर्तव्यताफलयोः साध्यत्वेनाभेदादित्याशङ्क्याऽऽह। फलाच्चेति। कार्यता पृथगिति संबन्धः। गच्छ ग्राममित्यादौ फलप्रतीतेः प्रागेव कर्तव्यतात्रुद्धेरिति हेतुमाह। प्रागिति॥५

०९॥

ननु कर्मणि कृत्योऽयं तयोरेवेति शासनात्॥
मैवं प्रैषादिवद्यस्मादुपाधित्वादवाच्यता॥५१०॥

कर्तव्यः कट इत्यादौ क्रियाभावेऽपि प्रत्ययान्नियोगधियमुक्तमाक्षिपति। नन्विति। तयोरेव कृत्यक्तखलर्था इति सूत्रेण भावकर्मणोरेव कृत्यानां नियमान्न प्रत्ययसामर्थ्यान्नियोगधीरित्याक्षेपः। तयोरेव कृत्यानां नियमं दूषयति।मैवमिति। कथं तर्हि तयोरेवेत्यादि सावधारणं सूत्रं तत्राऽऽह। प्रैषादिवदिति। यथा प्रैषादेः प्रत्ययार्थोपाधित्वात्तदर्थ-त्वोपचारस्तथा भावकर्मणोरपि कृत्यार्थनियोगोपाधित्वात्तदर्थतोपचर्यते तस्मान्न तयोः साक्षात्कृत्यार्थतेत्यर्थः॥११०॥

प्रैषादिष्वपि कृत्यानां तथाच स्मरणं मुनेः॥
कृत्यानां युक्तितोऽपि स्यान्नैव कर्माभिधायिता॥५११॥

किंच प्रपातिसर्गप्राप्तकालेषु कृत्याश्चेति प्रपादिष्वपि भावकर्मणोरिव कृत्याः स्मर्यन्ते। प्रेषणं प्रैषः कामचाराभ्यनुज्ञानमतिसर्गे निमित्तभूतस्य कालस्यावसरः प्राप्तकालता। एतेष्वर्थेषु गम्यमानेषु कृत्या भवन्ति चकाराल्लोद्वेति सूत्रार्थः। ततो भावकर्मणोरेवेतिनियमासिद्धिरित्याह। प्रैषादिष्विति। किंच कृत्यानां कर्मवाचिता नैव स्याद्युक्तितस्तेषां कर्मानुपपत्तेरित्याह। कृत्यानामिति॥१११॥

यथा कटं करोतीति कर्ममात्रावबोधनम्॥
कर्तव्यः कट इत्यत्र तथैव स्यान्न चेक्ष्यते॥५१२॥

काऽसौ युक्तिस्तामाह। यथेति। अस्यार्थः। कटं करोतीत्यत्र कटमिति द्वितीयया कर्मवाचिन्या तन्मात्रं बोध्यते न कर्तृकरणादिकारकान्तरं तथैव कटः कर्तव्य इत्यादावपि तव्यस्य कर्मवाचित्वेन तन्मात्रबोधनं स्यान्न प्रैषाद्यर्थान्तरबोधनं सत्यां गतावेकस्यानेकार्थतायोगान्न चैवमिष्यते प्रपादावपि कृत्यस्मरणदर्शनात्तस्मान्न कर्मवाचिता कृत्यानामिति॥५१२॥

कर्तव्यत्वादभीष्टत्वसिद्धौ कर्मार्थलाभतः॥
साक्षादनभिधानेऽपि न द्वितीया प्रसज्यते॥५१३॥

यदि कटः कर्तव्य इत्यत्र तव्यस्य कर्मावाचितया नियोगवाचित्वं तदा कटं कर्तव्य इति स्यात्तिङ्कृत्तद्धितसमासैरनभिहिते कर्मणि द्वितीया विभक्तिर्भवतीति न्यायाद्विवक्षातः कारकाणि भवन्तीति कर्मत्वस्य कटे विवक्षितत्वात्तस्य चानभिधाने कर्मणि द्वितीयेति साधिकारसूत्राद्वितीयाया दुर्वारत्वादित्याशङ्क्याऽऽह।कर्तव्यत्वादिति। कर्तुरीप्सिततमं कर्मेति स्मरणादिष्टत्वं कर्मत्वं कटः कर्तव्य इत्यत्र तव्यस्य नियोगार्थत्वात्कटस्थकर्मत्वस्य तेन साक्षादनभिधानेऽप्यनभीष्टस्य कर्तव्यतानुपपत्त्या कर्तव्यत्वादेव

कटस्येष्टत्वसिद्धौ तद्गतकर्मत्वरूपार्थस्य तव्यसामर्थ्येन लाभान्न कटे द्वितीयाप्राप्तिरर्थादभिहितत्वादनभिहित इत्यधिकारानवतारादित्यर्थः॥११३॥

न चाभीष्टत्वकार्यत्वमभिन्नं व्यतिरेकतः॥
इच्छेदेष्टव्यमित्येवं तत्रापि प्रत्ययो यतः॥५१४॥

ननु कर्तव्यत्वादभीष्टत्वासिद्धिरिति हेतुहेतुमद्भावो न युक्तस्तयोरेकत्वेन साध्यावैशिष्ट्यादित्याशङ्क्य फलाच्चेत्यादि प्रपञ्चयति। न चेति। व्यतिरेकं विशदयति। इच्छेदिति। इष्टत्वादर्थान्तरेऽपि कार्यार्थस्य तव्यादिप्रत्ययस्य दृष्टत्वात्प्रत्ययार्थस्येष्टत्वस्य च भेदो न हि धर्म जिज्ञासितुमिच्छेद्धर्मजिज्ञासनमेष्टव्यमित्यादाविष्टत्वं प्रत्ययार्थ इच्छाविषयत्वं हीष्टत्वं न चेच्छायास्तद्विषयत्वं स्वविषयत्वे वृत्तिविरोधादन्यविषयत्वे चानवस्थानात्कर्तव्यताविषयत्वं तु तस्या दृष्टं तस्मादन्यदिष्टत्वमन्यच्च कर्तव्यत्वमिति न साध्याविशिष्टतेति भावः ॥ ११४ ॥

तस्मात्कर्तव्यतावेशात्क्रिया वा यदि वा फलम्॥
कारकं वाऽपि कार्यत्वं लभते न स्वतन्त्रतः॥५१५॥

कर्तव्यता क्रियादिभ्यो भिन्ना चेत्कथं तर्हि तेषु तद्धीरित्याशङ्क्याऽऽह। तस्मादिति॥११५॥

लोकवन्ननु वेदेऽपि कार्यमात्रं न गम्यते॥
साधनेहानुबन्धस्य वेदे कार्यस्य बोधनात्॥५१६॥

क्रियादिविलक्षणं कार्यं लिङादिवाच्यमिति स्थिते चोदयति। लोकवदिति। यथा लोके मानान्तरसिद्धधात्वर्थसंबद्धं कार्यं गृह्यते न तन्मात्रं तथा वेदेऽपि कार्यमात्रं न प्रतीयते यजेतेत्यादौ मानान्तरसिद्धयागादिरूपसाधनभूतचेष्टासंसृष्टस्य कार्यस्य प्रतिपादनादित्यर्थः॥११६॥

ततश्चाऽऽरोग्यकामस्य पथ्यभोजनवाक्यवत्॥
मानान्तरप्रवेशेन सापेक्षत्वं प्रसज्यते॥५१७॥

मानान्तरगम्यभावार्थस्पृष्टकार्यस्य वैदिकले प्राप्ते दोषमाह। ततश्चेति। आरोग्यकामः पथ्यमश्नीयादिति वाक्यस्य स्वार्थे मानान्तरप्रवेशात्तत्सापेक्षत्ववद्वेदेऽपि यजेतेत्यादौ मानान्तरसिद्धसाध्यसाधनसंबन्धविषयत्वान्नियोगस्य प्रमाणान्तरप्रवेशोपपत्तेः सापेक्षत्वापत्तिरित्यर्थः॥५१७॥

अतः प्रैषादितुल्योऽयं क्रियाफलनिबन्धनः॥
नियोगस्तदसंवादाच्चित्रादौ ते विहन्यते॥५१८॥

भवतु सापेक्षत्वं नेत्याह। अत इति। यतो मानान्तर सिद्धसाध्यसाधनसंबन्धविषयो नियोगो हरीतकीं भक्षयेदित्यादिना प्रपादिनियोगेन समोऽतस्तेन मानान्तरेण फलसाध-

तत्वोपरक्तकार्यगोचरेण विरोधादुपरोधाद्वा चित्रया यजेत पशुकाम इत्यादौ वेदमात्रे प्रामाण्यं हीयते लोके हि फलसाधनतावच्छिन्ने कार्ये दृष्टो लिङादिर्वेदेऽपि न स्वतन्त्रकार्यार्थः किंतु विनियोगाधीनमेत्र नियोगमाहेति फलसाधनात्मकविनियोगे मानान्तरापेक्षयाऽनपेक्षत्वक्षतिश्चित्रादेश्च पश्वादिविद्यमानोपलम्भनं यद्धि क्रियानन्तरं भवनार्हं तस्य मानान्तरोपलम्भनार्हताऽस्ति तेन तदपेक्षफलसाधनतया चित्रादौ कार्यता व्यक्ता न चात्रानन्तरोपलब्ध्यर्हमपि फलमुपलभ्यते तस्मान्मानान्तरगोचर-विनियोगावच्छिन्ननियोगविषयत्वेन सापेक्षत्वाद्योग्यत्वे सत्यनन्तरं फलादर्शनविरोधाच्च न चित्रादिवाक्ये प्रामाण्यमित्यर्थः॥५१८॥

मैवं मानान्तरावेशाल्लोके प्रैषाद्युपाधिकम्॥
कार्यं प्रयोजनार्था च प्रवृत्तिरिति युज्यते॥५१९॥

कार्यवादोलौकिक वाक्येषु गतिं दर्शयन्परिहरति। मैवमिति। लोके वाक्यानां पौरुषेयत्वात्तदर्थे मानान्तरावेशात्प्रेषाद्युपाधिकं लिङादिवाच्यं कार्यं मानान्तरगम्यविनियोगप्रधानमित्यङ्गीकरोति। मानान्तरेति। यत्तु लोके मानान्तरसिद्धफलसाधनत्वावच्छिन्न-लिङाद्यर्थनियोगनिमित्ता शाब्दी प्रवृत्तिरिति तत्राऽऽह।प्रयोजनेति॥५१९॥

साध्यसाधनसंबन्धविषयत्वं पुमर्थतः॥
नियोगस्यात एवात्र कर्तृत्वेन नियुज्यते॥५२०॥

इतश्च लौकिकनियोगस्य मानान्तर सिद्धविनियोगविषयत्वमित्याह237साध्येति। तदेव हेत्वन्तरं स्फुटयति। पुमर्थत इति। हरीतकीभक्षणादौ फलोपायत्वस्य मानान्तरगम्यत्वात्तदवच्छिन्नो नियोगस्तद्गम्य विनियोगविषयो युक्त इत्यर्थः। लौकिकनियोगस्य मानान्तरगम्यविनियोगविषयत्वे गमकमाह। स्वत इति। हरीतकी भक्षणनियोगस्य मानान्तरगम्यविनियोगविषयत्वादिति यावत्। अत्रेति हरीतकीभक्षणोक्तिः॥५२०॥

स्वत एव प्रवृत्तत्वात्कर्तुरेवाधिकारिता॥
पदं चाऽऽरोग्यकामादि भवेत्कर्तृविशेषणम्॥५२१॥

ननु विरेचनकामो हरीतकीं भक्षयेदित्यत्र यजेतेतिवन्नियोज्यान्वयपूर्वकेऽधिकारान्वये सति कर्त्रन्त्रयो वाच्योऽन्यथा वेदेऽपि कर्त्रन्वयप्राथम्यापातात्तत्राऽऽह। स्वत इति। आरोग्यकामो हरीतकीं भक्षयेदित्यत्र नियोगस्य मानान्तर योग्य विनियोगविषयत्वाद्वाक्यापेक्षां विना मानान्तरादेव हरीतकीभक्षणे पुंस्प्रवृत्तेस्तत्र गुणभूतस्याऽऽदावेव कर्तृत्वेनान्वितस्य पश्चालिङादिश्राविणो नियोज्यत्वाधिकारित्वान्वयः। वेदे त्वन्यथात्वं वक्ष्यत इत्यर्थः। ननु स्वर्गका मपदवदारोग्यकामपदे नियोज्यार्प के सति कथं कर्त्रन्वय-

प्राथम्यं तत्राऽऽह। पदं चेति। देवदत्तः पचतीत्यत्र देवदत्तपदवदिदमपि कर्तुरर्पकं मानान्तरवशादत्र पुरुषप्रवृत्तेरुक्तत्वान्न तु नियोज्यस्येत्यर्थः॥१२१॥

वेदे तु सकलाक्षादिप्रमाणागोचरत्वतः॥
साध्यसाधनताज्ञानं नियोगादेव नान्यतः॥५२२॥

लौकिकवाक्यानां गतिमुक्त्वा वैदिकप्रवर्तकवाक्यानां गतिमाह। वेदे त्विति। अपौरुषेये वेदे प्रतीतोऽपिं नियोगो न मानान्तरगोचरो न च यागादेः स्वर्गाद्यसाधकत्वे तत्कामस्य तस्मिन्नियोगो युक्तोऽतो नियोगवशादेव तत्र साध्यसाधनताधीर्न मानान्तरादित्यर्थः॥५२२॥

तथा ह्यकारकः कामी स्वर्गकामपदार्पितः॥
नियोगात्कर्मसंबन्धे पश्चाद्यातीह कर्तृताम्॥५२३॥

वेदे साध्यसाधनताधियो नियोगाधीनत्वेऽपि कामस्य कर्तृविशेषणत्वं लोकवदित्याशङ्क्याऽऽह। तथा हीति। वेदे साध्यसाधनत्वस्य मानान्तरासिद्धत्वात्तद्विषयनियोगस्यातत्सापेक्षत्वाद्वेदादेव तत्सिद्धिरिति सिद्धे तस्मिन्कार्यात्मनि ममायमिति स्वामित्वबोद्धुर्नियोज्यस्य स्वर्गकामपदेनार्पणादादौ नियोज्यान्वयः स च पश्चान्नियोगविषये तत्करणे च कर्मण्यैश्वर्यमधिकारं प्रतिपद्यते। एवं स्वर्गकामशब्दितः कामी नियोज्यश्चाधिकारी च न कारकः कर्तेति कामो न कर्तृविशेषणमित्यर्थः। नियोज्यान्वयपूर्वकोऽधिकारान्वयोऽस्तु कर्त्रन्वयस्तु कथमिति तत्राऽऽह। नियोगादिति। नियोगेन नियोज्यतयाऽन्वयस्तद्वारा कर्मण्यधिकारान्वयस्तस्मिन्सति मदयनियोगसाधकं चेत्कर्म तत्तर्हि निर्वर्तयिष्यामीति धात्वर्थे गुणतया कर्तृत्वेनान्वेतीत्यर्थः॥१२३॥

कामस्य च प्रधानत्वात्तत्प्राधान्यानपायतः॥
पुंविशेषणता तस्माद्भोगी कामी न कारकः॥५२४॥

स्वर्गकामादिवाक्ये कामो न कर्तृविशेषणमित्यत्रैव हेत्वन्तरमाह। कामस्येति। तस्य फलविषयत्वेन प्राधान्यात्तत्प्रधानत्वात्यागेन पुंविशेषणता वाच्या क्रियां प्रति कर्तुर्गुणत्वात्तद्विशेषणत्वे तस्योपसर्जनोपसर्जनत्वात्प्राधान्याञ्च्युतिरधिकारिविशेषणत्वे तु तस्य स्वामित्वेन प्राधान्यान्न कामप्राधान्यहानिरित्यर्थः। वेदे कामस्याधिकारिविशेषणत्वं निगमयति। तस्मादिति। भोगः फलं नियोगस्तद्वान्नियोज्योऽधिकारी वेदे कामविशेषित इति यावत्। तत्र कामो न कर्तृविशेषणमित्येतन्निगमयति। न कारक इति॥१२४॥

अप्रवृत्तप्रवृत्तेश्चकारकत्वं न युज्यते॥
प्रवृत्तस्य णिचोक्तिः स्यात्पचन्तं पाचयेद्यथा॥५२५॥

वेदे नियोज्यान्वयपूर्वकाधिकारान्वये कर्त्रन्वय इत्यत्रैव हेत्वन्तरमाह। अप्रवृत्तेति। हरीतकीभक्षणे साध्यसाधनत्वस्य मानान्तरगम्यत्वात्तद्वशात्प्रवृत्तस्य न नियोगाधीना

प्रवृत्तिर्न च प्रवृत्तप्रवृत्तौ णित्रोऽवकाशः पौरुषेयवाक्यानां हि वक्तृधीरर्थ एवमयं पुरुषो वेदेति भवति प्रत्यय इति स्थितेस्तन्मानान्तरात्प्रवृत्तस्य लौकिकवाक्याद्वक्तृज्ञानमवगच्छतस्तद्वारा प्रवृत्तौ णिचो नावकाशो वेदे तु यागादौ मानान्तरादप्रवृत्तेरप्रवृत्तस्यैव शास्त्रात्प्रवृत्तिरतो धात्वर्थे पुरुषस्याऽऽदावेव वेदे कर्तृत्वायोगान्नियोज्यान्वयपूर्वकमधिकारित्वं प्राथमिकमित्यर्थः। नन्वादौ कर्त्रन्वयार्थं यागादावपि प्रवृत्तप्रवृत्तिरिष्टा तत्राऽऽह।प्रवृत्तस्येति। प्रवृत्तस्यैव यागादौ शब्दात्प्रवृत्तिश्चेत्प्रयोजकीभूतनियोगस्य याजयेदिति णिचावचनं स्याद्यथा पाके प्रवृत्तस्य प्रवर्तने पाचयेदिति णित्रोक्तिर्न तथाऽत्र साऽस्ति न चापौरुषेये वेदे पौरुषेयवाक्यतुल्यत्वमतोऽप्रवृत्तप्रवर्तनादधिकारिणो विशेषणं वेदे कामो न कर्तुरित्यर्थः॥१२५॥

अक्रियाकर्तृसंबन्धे नतु षष्ठी प्रसज्जते238
नैवं नाम्नोः सदा योगे षष्ठीयं शैषिकी यतः॥५२६॥

क्रियाकर्तृभावेन नियोगस्वर्गकामयोः संबन्धं हित्वा स्वस्वामित्वेन संबन्धे चैत्रस्य स्वमितिवन्नियोगः स्वर्गकामस्येति कृत्वा स्वर्गकामे षष्ठी प्राप्नोतीति शङ्कते। अक्रियेति। परिहरति। नैवमिति। शेषे षष्ठीति संबन्धमात्रविषया सा सूत्रिता सा चेयं नाम्नोः संबन्धे नियताऽतो यजेतेत्यम्यानामत्वात्तद्योगे स्वर्गकामपदस्य तस्य यजेतेति न षष्ठीत्यर्थः ॥९२६॥

क्रियाकारकयोगे च द्वितीयादिर्लडादि तु॥
स्यात्प्रातिपदिकार्थस्य भावार्थेनेत्यसंकरः॥५२७॥

नाम्नोर्मियो योगे षष्ठीति प्रसङ्गेनेतरविभक्तीनां विषयव्यवस्थामाह। क्रियेति। वृक्षस्तिष्ठति तं पश्येत्यादिप्रयोगेषु क्रियाकारकयोगे गम्यमाने तदवद्योती प्रथमा द्वितीयेत्यादिर्विभक्तिविशेषः स्यात्तत्रापि क्रियायाः कर्तृकर्मकरणसंप्रदानापादानाधिकरणसंबन्धे विभक्तिविशेषा भवन्तीत्यर्थः। कारकविभक्तीनां विषयमुक्त्वा क्रियापदविषयमाह। लडादीति । आदिपदेन लिडादयो नव लकारा गृह्यन्ते। “अर्थवदधातुरप्रत्ययः प्रातिपदिकम्" इति सूत्रितप्रातिपदिकार्थस्य पचत्यादिधात्वर्थेन योगे गम्यमाने लडादिवि भक्तिः स्यात्तत्रापि वर्तमानत्वानद्यतनत्वादिविशेषेषु क्रियायोगे लकारविशेषा भवन्तीत्यर्थः। सुपांतिङां च विभक्तीनामित्थं व्यवस्थितावसांकर्यं फलमाह। इत्यसंकर इति॥१२७॥

नीलोत्पले तु नामार्थावपहाय परस्परम्॥
भेदमेकान्मतां याताविति षष्ठी न संमता॥५२८॥

नाम्नोर्मिगो योगे षष्ठीत्युक्तं तर्हिनीलोत्पलयोरपि तथात्वान्मिथोयोगे नीलमुत्पल-

स्येति षष्ठी स्यान्न सामानाधिकरण्यमित्याशङ्क्याऽऽह। नीलेति। यद्यपि नीलोत्पले नामार्थौ तथाऽपि तौ मिथो भेदं हित्वा प्राप्तावेकात्मतां नीलस्योत्पलमुत्पलस्य वा नीलमिति षष्ठी तद्विदां नेष्टेति योजना। युतसिद्धयोनीमार्थयोर्योगे षष्ठी नीलोत्पलयोस्त्वयूतसिद्धयोः सामानाधिकरण्यमेवेत्यर्थः॥५२८॥

लिङथे युज्यमानस्य कर्मत्वं न च कामिनः॥
अक्रियात्वान्नियोगस्य द्वितीया चेद्भवेत्तथा॥५२९॥

स्वर्गकामिनि षष्ठ्यभावेऽपि द्वितीया स्यात्स हि नियोगेन प्रेयते ग्रामं गच्छतीत्यादौ च क्रियाव्याप्ये द्वितीया दृष्टाऽतः स्वर्गकामं यजेतेति239 वाक्यं स्यादिति चेनेत्याह।लिङर्थ इति। नियोगे प्रेर्यत्वेन संबध्यमानस्य स्वर्गकामस्य कर्मत्वाप्राप्तेर्न तस्मिन्द्वितीयेत्यर्थः। कामिनो नियोगे युज्यमानस्याकर्मत्वे हेतुमाह। अक्रियात्वादिति। क्रियाविशेषो हि कर्मापेक्षो नियोगो न क्रिया तत्साध्यत्वादतस्तस्मिन्युज्यमाने कामिनि न द्वितीयापत्तिः स्वामित्वेन हि तस्य संगतिरित्यर्थः। एतदेव व्यतिरेकमुखेनाऽऽह। द्वितीयेति। गमनादिवत्क्रिया चेन्नियोगस्तर्हि तत्प्रेर्ये कामिनि ग्रामवदद्वितीया स्यान्नासौ क्रिया तदन्यत्वस्योक्तत्वादित्यर्थः॥१२९॥

तस्मादकारकः कामी स्वनियोगप्रसिद्धये॥
नियुज्यमान एवेह विषयं साध्यमीक्षते॥५३०॥

नियोज्यान्वयपूर्वकेऽधिकारान्वये कर्त्रन्वय इत्युक्तमुपसंहरति। तस्मादिति। यस्मात्कामी नियोगेन नियोज्यतयाऽन्वेति तस्मात्प्रथमं कर्तृत्वधीरहितः स्वामित्वेन संबध्यमानः स्वीयत्वेन ज्ञातनियोगस्य विषयकरणविरहिणः स्फुरणसत्तानुपपत्तेस्तादर्थ्येन विषयाद्यपेक्षमाणो लिङादिना धात्वर्थे प्रेर्यमाणस्तदेव240 प्रतीत्यनुवन्धितया विषयमुत्पत्ति-प्रयोजकतया च करणं स्वानुष्ठेयं पश्यतीत्यर्थः॥५३०॥

राजादिषु प्रसिद्धश्चनियोगः साध्यगोचरः॥
भावार्थस्य च साध्यत्वमिति तेनापि युज्यते॥५३१॥

ननु नियोगविषयस्य साध्यत्वमनियतं दध्नेन्द्रियकामस्येत्यादौ सिद्धेऽपि दध्यादौ नियोगदर्शनादत आह। राजादिष्विति। दध्यादेरपि धात्वर्थाविष्टतया साध्यस्यैव नियोगविषयता दृष्टेति भावः। नियोगस्य साध्यविषयत्वेऽपि दध्यादेः स्वरूपेणैव साध्यतया तद्विषयत्वसंभवे कृतं क्रियानुप्रवेशेनेत्याशङ्क्याऽऽह। भावार्थस्येति। क्रियैव साक्षात्साध्या तद्द्द्वारा द्रव्यादीति स्वसाक्षिकमित्यर्थः। ननु स्वर्गकामः स्वाभिलषितस्वर्गोपाये संबध्येत न चैकस्यैव स्वर्गस्य नियोगो यागश्चेति द्वावुपायावेकेनैवेष्टसिद्धावपरानर्थक्याद्विकल्पापत्तेरतो नियोगयागयोरन्यतरस्मिन्नेव स्वर्गकामस्य संगतिर्नेत्याह।

इति तेनेति। नियोज्यत्वाधिकारित्वपूर्वकं कर्तृत्वमित्युक्तन्यायेन स्वर्गकामो नियोगेनाऽऽदौ संबध्य धात्वर्थेनापि संबध्यते न खल्वाशुतरविनाशिधात्वर्थो विना नियोगमिष्टमुपनयति नापि स भावार्थादृते भवति न च सोऽनिष्पन्नः स्वर्गमुपनयेत्तस्मादुभयत्र कामिनः संगतिरिति भावः॥५३१॥

अविवक्षितमप्येवं लिङ्गसंख्यं विवक्ष्यते॥
पश्चाद्विषयसिद्ध्यर्थं कारकादि च यच्छ्रुतम्॥५३२॥

स्वर्गकामस्योभयत्र योगेऽपि वाक्यस्य नियोगपरत्वे स्वर्गकामपदे लिङ्गसंख्ययोरविवक्षितत्वादनुष्ठात्रनियमादनुष्ठानमनियतं स्यादित्याशङ्क्य पश्वेकत्वाधिकरणन्यायेनाऽऽह।अविवक्षितमिति। उक्तन्यायाद्वाक्यस्य नियोगपरत्वाद्यद्यपि स्वर्गकामपदे लिङ्गं च संख्या चेत्येतदप्रतिपाद्यं तथाऽपि श्रुतलिङ्गादित्यागेनाश्रुतकल्पनायोगाद्यथाश्रुतं तद्ग्राह्यमित्यक्षरार्थः। अयं भावः - स्थितं चतुर्थे– “तत्रैकत्वमयज्ञाङ्गभूतमर्थस्य गुणभूतत्वात्" [पू० मी० ४।१।११] ज्योतिष्टोमे यो दीक्षितो यदग्नीषोमीयं पशुमालभत इत्यनड्वाहौ युनक्तीति च श्रुतमश्वमेधेऽपि वसन्ताय कपिञ्जलानालभत इति। तत्रैकत्वाद्यविवक्षितं विवक्षितं वेति संशये पशुना यजेतेति वाक्यार्थे सति करणत्वेन पशोर्नियोगान्वयादेकत्वादेश्चतदभावात्तत्र पशावनडुहोः कपिञ्जलेषु चैकत्वाद्ययज्ञाङ्गभूतमविवक्षितमर्थस्य पश्चादेर्गुणभूतत्वेन नियोगायोगित्वादिति पूर्वपक्षे राद्धान्तितम्। “शब्दवत्तूपलभ्यते241 तदागमे हि दृश्यते तस्य ज्ञानं यथाऽन्येषाम्” [पू० मी० ४।१।१९] इति । लोके पशुमानयेत्यादिप्रयोगे सत्येकत्वादिविशिष्टपश्वानयनं प्रतीयते तस्यैकवचनादेरागमे तस्यैकत्वादेर्ज्ञानं दृश्यते यदागमने यदुपजायते स तस्यार्थ इति गम्यते यथाऽन्येषां शब्दानामश्वमानयेत्युक्ते सत्यश्वानयनं गामानयेति तदानयनं चार्थो भाति तस्मात्पशुना यजेतेति वाक्येन संख्या यज्ञे विधीयत इति सूत्रार्थः। तथाच प्रकृतेऽपि स्वर्गकामपदे संख्या विवक्षिता। न चोपादेयविशेषणतया पश्वेकत्वस्य विवक्षितत्वेऽपि स्वर्गकामैकत्वं ग्रहैकत्ववदनुपादेयविशेषणत्वादविवक्षितमिति युक्तं तत्र हि वाक्यभेदादविवक्षितत्वम्। स्वर्गकामस्य तु नियोज्यत्वेनोपादेयत्वात्तद्विशेषणमेकत्वं कुतो न विवक्ष्यते। न चैवमपि लिङ्गमविवक्षितम्। पशुना यजेतेत्यत्र लिङ्गमविवक्षितं विवक्षितं वेति संशय्यानुष्ठानविशेषानापादकत्वादविवक्षितमिति प्रापय्यानुष्ठाने भेदाभावेऽपि तस्य विशेषनिष्ठत्वादुपादेयद्रव्यविशेषनिश्चयं विना तदयोगात्तन्निश्चयहेतुत्वाल्लिङ्गस्य संख्यावद्विवक्षितं तदित्युक्तम् “तथा च लिङ्गम्” [पू० मी० ४।१।१७] इत्यत्र। अतः स्वर्गकामपदे लिङ्गमपि विवक्षितमिति तथाऽपि फलादेरविवक्षितत्वे कथमनुष्ठानं न हि विहाय क्रियाकारकफलाद्यनुष्ठानं नाम न चैकस्मिन्नेव वाक्ये नियोगस्य फलादेश्चविवक्षितत्वं वाक्यभेदापातादि-

त्याशङ्क्याऽऽहं। पश्चादिति। प्रत्ययार्थप्रतीत्यनन्तरं तद्विषयधात्वर्थनिष्पत्त्यर्थं संनिधौ श्रुतं यत्कर्ता फलमितिकर्तव्यतेति तदपि ग्राह्यं न चार्थभेदाद्वाक्यभेदः साक्षान्नियोगपरस्यार्थादर्थान्तरेऽपि कारकादौ पर्यवसानादित्यर्थः॥५३२॥

ततश्च स्वर्गकामो यः स्वनियोगं स साधयेत्॥
केन यागादिनिर्वृस्येत्येतच्छास्त्रात्प्रतीयते॥५३३॥

लिङ्गसंख्याकर्तृफलानां विवक्षितत्वे फलमाह। ततश्चेति। फलस्य विवक्षितत्वात्स्वर्गकामोऽधिकारी न यत्किंचित्कामो लिङ्गस्य विवक्षितत्वात्तत्कामः पुरुषोऽधिकारी न स्वातन्त्र्यात्काऽपि242 स्त्री तत्कामा संख्याया विवक्षितत्वात्तत्काम एवाधिकारी न तत्कामौ तत्कामाश्च कर्तुर्विवक्षितत्वात्स एव क्रियाद्वारा स्वनियोगं साधयेन्नान्य इत्यर्थः। इतिकर्तव्यतादेर्विवक्षितत्वे फलोक्त्यर्थं केन स स्वनियोगं साधयेदित्याकाङ्क्षते। केनेति। करणेतिकर्तव्यतयोर्विवक्षितत्वाद्यागस्य साङ्गस्य संपादनेन नियोज्यः स्वनियोगं साधयेदित्याह। यागेति। साङ्गयागानुष्ठानान्नियोगसिद्धौ मानमाह। इत्येतदिति॥५३३॥

न चानपनयन्यागः कामिनः स्वर्गकामिताम्॥
साधनं स्वाधिकारस्य भवतीह कथंचन॥५३४॥

ननु नियोगपरे वाक्ये लिङ्गादेरप्रतिपाद्यस्यैव फलवशादादानेऽपि यागादेर्नियोगसाधनत्वादसाधनं स्वर्गादि स्यान्नियोगस्य तत्साधनत्वे चाप्राधान्यमत आह। न चेति। इह स्वर्गे कामिनो विहितो यागः कामिनः स्वर्गोत्पादनेन तत्कामितां पुंसो नापनयेच्चेत्स्वसाध्या243धिकाराख्यनियोगस्य न कथंचिदपि साधनं स्यान्नहि पुरुषेष्टं स्वर्गमनुपनन्यागो नियोगं जनयेदतो नियोगद्वारा स्वर्गोत्पादनेन तदिच्छां यागोऽपनयेदित्यर्थः॥५३४॥

अनुन्मृदितकामो हि पूर्वावस्थाविशेषतः॥
निष्पादिताधिकारोऽपि नियोगार्हःपुनर्भवेत्॥५३५॥

ननु यागो नियोगमेव साधयति तस्य तत्सिद्धिप्रयोजनत्वान्नियोगसिद्धेः किमन्यत्प्रयोजनं सर्वविधीनामिति हि टीकाकृतः स्वर्गकामना पुनरपि स्थास्यति नेत्याह। अनुन्मृदितेति। यागेनानपाकृतस्वर्गकामनश्चेत्पुरुषस्तदा तेनाऽऽपादित नियोगोऽपि पुनस्तयोग्यः स्यान्नियोगनिष्पत्तेः प्रागिवोर्ध्वमपि कामित्वाविशेषादतो यागो नियोगद्वारा स्वर्गमुत्पाद्य तत्कामितां पुंसो निवर्तयति नियोगसिद्धिस्तु नित्यविधीनामेव फलं विध्यन्तरेषु तद्द्वारा फलान्तरोपगमादित्यर्थः॥५३१॥

अधिकारः स्वसिद्ध्यर्थमतः कामस्य साध्यताम्॥
यागेनाऽऽपाद्य संसिध्यन्विषयस्यैति साध्यताम्॥५३६॥

यागः स्वर्गद्वारा तत्कामितापनायकश्चेत्तेनैवालं कृतं नियोगेनेत्याशङ्क्याऽऽह।अधिकार इति। यागस्याऽऽशुनाशित्वात्कालान्तर-भाविस्वर्गाहेतुत्वात्तद्धेतुतया नियोगाङ्गीकारादधिकारो नियोगः स्वसिद्ध्यनुकूलनियोज्यलाभार्थं स्वर्गस्य साध्यतां स्वविषय-धात्वर्थेनाऽऽपाद्य नियोज्यानुष्ठितस्वविषयद्वारा स्वयं सिध्यन्विषयस्यैव करणत्वात्तत्साध्यतां गच्छति। तथा चास्य प्राधान्यमपि न च्यवते स्वानुकूलनियोज्यलाभार्थमेव फला-नुकूलतावलम्बनादित्यर्थः॥१३६॥

नानन्तरफलाभावे विसंवादोऽत्र शङ्क्यते॥
क्रियासाध्ये फले स स्याल्लिङर्थस्त्वक्रियात्मकः॥५३७॥

ननु भोजनादिवद्यागादेरनन्तरफलानुपलम्भादमानत्वं स्वर्गकामादिवाक्ये शङ्क्यते फलसाधनतावच्छिन्नो हि नियोगो लिङर्थोऽतो मानान्तरसापेक्षविनियोगविषयनियोगवाचित्वाल्लिङादेस्तद्युक्तं वाक्यं सापेक्षत्वादमानं यथाऽऽह कालान्तरफले स्वर्गादौ मानान्तरानर्हेऽपि तदपेक्षविनियोगाधीनो नियोगोऽनुगम्यत एवेति फले योग्यानुपलब्धिविरोधाच्च वेदाप्रामाण्यशङ्काऽवतरति नेत्याह। नानन्तरेति। अत्र चित्रादिवाक्ये चित्राद्यनन्तरमुपलम्भाऽपि फले पश्वादौ तदनुपलम्भान्मानान्तरेण विसंवादस्ततश्चाप्रामाण्यमित्य-युक्तमित्यत्र हेतुमाह। क्रियेति। फले क्रियासाध्ये सति क्रियानन्तरं तदनुपलम्भाद्विसंवादादमानत्वं वाक्यस्य शङ्क्येत न चात्र सा युक्ता नियोगस्याक्रियात्वात्तत्साध्ये फलेऽनन्तरानुपलम्भाधीनाप्रामाण्यशङ्कानवतारान्निरस्ता च वैदिकनियोगस्य सापेक्षतेत्यर्थः॥५३७॥

प्रत्यर्थिनि च शब्देऽस्मिन्नाभावोऽनुपलब्धितः॥
मानाभावे ह्यसौ मानमानन्तर्यं त्वचोदितम्॥५३८॥

यागाद्यनुष्ठानान्नियोगसिद्धौ तस्य मानान्तरानपेक्षत्वेऽप्यनन्तरानुपलम्भे योग्यानुपलम्भात्फलाभावनिश्चयान्न वाक्यमानतेत्या-शङ्क्याऽऽह। प्रत्यर्थिनीति। फलसत्त्वग्राहिणि शब्दे तदसत्त्वविरोधिनि सति योग्यानुपलब्ध्या न फलाभावः सिध्यति फलभावप्रमाणविरोधात्तदभावमानानुदयादिति भावः। अभावमानविरोधाद्भावमानस्यैवानुत्थानमाशङ्क्याऽऽह।मानेति। भावमानाभावे सति तद्रूपानुपलब्धिरभावे मानं शब्दे चानादौ भावमानेऽनुपलब्धेरेवाभावान्न तद्विरोधाद्भावमानानुत्थानमित्यर्थः। तर्हि फलं प्रतिपादयता शब्देन यागादेस्तज्जन्यनियोगस्य वाऽनन्तरफलत्वं वाच्यं नेत्याह। आनन्तर्यंत्विति। यागाद्युत्थनियोगस्य फलमावश्यकमित्येतावान्फलश्रुतेरर्थो न तस्याऽऽनन्तर्य-मप्यतोऽपूर्वद्वारा फलसिद्धिध्रौव्यादानन्तर्यमशाब्दमित्यर्थः॥५३८॥

अतः कृताधिकारोऽपि यो विद्यादकृतार्थताम्॥
तस्य शास्त्रानभिज्ञत्वान्नाधिकारोऽत्र वैदिके॥५३९॥

फलवाक्यमालोचयतो यागानुष्ठायिनो निष्पादितनियोगस्यानन्तरानुपलम्भेऽपि फलत्वाभिमानो युक्तस्तदालोचनाविकलस्त्वापादित-नियोगोऽपि स्वस्याफलित्वमनन्तरानुपलम्भा244दित्यवश्यं वाक्याप्रामण्य245संशयी स्यादित्याशङ्क्याऽऽह। अत इति। कृतनियोगस्य पुंसोऽवश्यंभावि फलमित्यतः शब्दार्थः। तथाऽपि शास्त्रालोचनविकलत्वाद्विधितो निष्पादितनियोगोऽपि स्वस्याफलित्वं यो मन्यते तस्य वैदिके कर्मणि नाधिकारो विदुषस्तद्भावात्तेन तदीयः संशयो न प्रामाण्यविघातीत्यर्थः॥१३९॥

मन्त्रार्थवादनाम्नां च कार्यार्थानुप्रवेशतः॥
प्रामाण्यं न स्वतस्तस्मात्कार्ये वेदस्य मानता॥५४०॥

स्वर्गकामादिवाक्यस्य नियोगपरस्य प्रामाण्येऽपि मन्त्रादेरविवक्षितार्थत्वान्न सर्वस्य वेदस्यकार्यनिष्ठतेत्याशङ्क्य मन्त्राधिकरणा-दिन्यायेनाऽऽह। मन्त्रेति। अस्यार्थः। स्थितं प्रमाणलक्षणे—“तदर्थशास्त्रात्” [पू० मी० १।२।३१] श्रुत्यादिविनियुक्तार्थप्रकाशनसमर्था मन्त्राः किमविवक्षितार्थाः किंवा विवक्षितार्था इति संशये मन्त्राणामुरुप्रथस्वेत्यादीनां विवक्षितार्थत्वे तत्सामर्थ्यादेव पुरोडाशप्रथनादौ तद्विनियोगात्तदर्थशास्त्रस्योरु प्रथस्वेति पुरोडाशं प्रथयतीत्यादेरानर्थक्याद्यदभिधान246समर्थास्ते तेष्वेवैतान्निबध्नाति शास्त्रमि-त्युच्चारणमात्रोपकारिणो मन्त्रा इत्युभयाप्रामाण्यात्तदुपेतं प्रयोगशास्त्रमप्यप्रमाणमिति प्राप्ते सिद्धान्तितम् “अविशिष्टस्तु वाक्यार्थः” [पू० मी० १ ।२।३०] इति। सर्वशब्दानामर्थपरतया लोके व्युत्पन्नत्वान्मन्त्रेषु च प्रयुज्यमानानां स्वतोऽर्थपरत्वा-वगमान्मन्त्रलिङ्गालोचनया प्राप्तविनियोगानुवादेनापि तदर्थशास्त्राणामुपपत्तेर्लोकवेदयोर्वाक्यार्थाविशेषादुभयत्र प्रामाण्यात्तदेकवाक्यं प्रयोगशास्त्रं प्रमाणमिति सूत्रार्थः। तदेवं मन्त्राणां कार्यशेषत्वेन प्रामाण्यमर्थवादानां च तच्छेषत्वेन तत्त्वमुक्तमर्थवादाधिकरणे न तु तेषां कार्यसंबन्धं विना स्वार्थे मानता तत्र फलाभावान्नामधेयानामपि विध्युद्देशान्तर्भावेन कार्यपरत्वमेव। तथा हि— संभवदाख्यातसामानाधिकरण्यानुद्भिदभिजिच्चित्राज्यपृष्ठबहिष्पवमानाग्निहोत्राज्याघारश्येनेत्यादि-शब्दानुदाहृत्य किं ते धर्मे प्रमाणं नेति संशय्यविध्यर्थवादमत्रांर्वेदस्य धर्मप्रतिपादकत्वादुद्भिदादिशब्दानां तेष्वनन्तर्भावात्तेषां च फलकरणेतिकर्तव्य-तान्यतमविषयत्वाभावादेवंजातीयकं धर्मे न प्रमाणमिति पूर्वपक्षयित्वासमस्तस्यैवाऽऽम्नायस्याध्ययनं विध्युपात्ततया पुरुषार्था-वसायित्वादुद्भिदादिशब्दानामपि पुमर्थावसायिताया वक्तव्यत्वाद्विध्यद्देशान्तर्भावस्य च प्रत्यक्षत्वात्तत्रैव गुणत्वेन नामधेयत्वेन वा प्रामाण्यमध्ययनविध्यनुरोधादध्यवसातव्यमिति राद्धान्तितम् “उक्तं समाम्नायैदमर्थ्यं तस्मात्” [पू० मी० १।४।१] इत्यत्र। तदेवं विध्युद्देशान्तर्भावेन नामधेयानां परत्वे स्थिते गुणविधानेन नामधेयत्वेन वा तेषां तत्परत्वमिति संदिह्यापि वा नामधेयं

स्यादित्यारभ्यतत्र तत्र गुणविधित्वनिराकरणेन नामधेयत्वेन तत्परत्वं प्रतिपाद्य नामधेययुक्तो वेदो धर्मे प्रमाणमिति नामधेयपादे निर्धारितम्। तस्मात्कार्ये सर्वस्य वेदस्य मानतेति॥९४०॥

वेदान्तानामतो वाच्यं कार्यार्थानुप्रवेशनम्॥
प्रामाण्यं वा निषेद्धव्यमत्र प्रतिविधीयते॥५४२॥

तथाऽपि न कार्ये वेदस्य मानता वेदान्तानामकार्ये तात्पर्यादित्याशङ्क्याऽऽह। वेदान्तानामिति। कार्यशेषत्वेन तत्प्रामाण्यं न मृप्यते चेदप्रामाण्यमेव तेषामित्याह। प्रामाण्यं वेति। हेत्वाभासप्राप्तं पूर्वपक्षमनूद्य सिद्धान्तमाहअत्रेति॥१४१॥

निःशेषमातृतद्वृत्तिजन्मनां तद्विलक्षण-
स्वतःसिद्धात्मसंबोधव्याप्तिर्वस्त्वनुरोधतः॥५४२॥

कार्यानुप्रवेशाभावे वेदान्तानामप्रामाण्यं विषयाभावाद्वा सिद्धार्थे247 शब्दसामर्थ्याद्यदर्शनाद्वेति विकल्प्याऽऽद्यं दूषयति। निःशेषेति। मातृशब्देन साभासा बुद्ध्यो गृह्यन्ते तद्गता वृत्तयो रागादयो निःशेषाणां मातृणां तद्वृत्तीनां च यानि जन्मानि तेषां बुद्धितद्वृत्तितद्धर्मविलक्षणः स्वतः सिद्धत्वादात्मरूपो यः संबोधश्चिद्धातुस्तेन व्याप्तिरस्त्यनवच्छिन्नात्मरूपानुविधानान्नहि जन्मादिविक्रियावद्वच्ज्यादावात्मनो व्याप्त्यभावोऽनवच्छिन्नत्वान्न च तद्व्याप्तिं विना जडं बुद्ध्यादि सिध्यत्यतो विक्रियावद्वद्धितद्वृत्तीनां कूटस्थचिदात्मव्याप्तत्वाद्बुद्ध्यादिसाक्ष्यात्मनो वेदान्तप्रमेयस्य संभवान्न तेषां विषयाभावादप्रामाण्यमित्यर्थः॥९४२॥

वियद्वस्तुस्वभावानुरोधादेव न कारकात्॥
वियत्संपूर्णतोत्पत्तौ कुम्भस्यैव दृशा धियाम्॥५४३॥

ग्रामस्य चैत्रेण व्याप्तौ व्याप्तुश्चैत्रस्य स्वगतविकारवबुच्या देश्चिदात्मव्याप्तावात्मनोऽपि विकारप्रसङ्गान्न वेदान्तवेद्यस्य कूटस्थतेत्याशङ्क्याऽऽह। वियदिति। यथा कुम्भस्योत्पत्तौ वियता पूर्णता वियतः सर्वगतत्वस्वरूपानुरोधादेव न क्रियावत्त्वात्तथा धियां तद्वृतीनां तद्धर्माणां च दृगात्मना व्याप्तिस्तद्गतक्रियां विना पूर्णचित्स्वरूपवशादेवातो युक्ता वेदान्तवेद्यस्य कूटस्थतेत्यर्थः॥१४३॥

घटदुःखादिरूपत्वं धियां धर्मादिहेतुतः॥
निर्हेतुत्वात्मसंबोधरूपित्वं वस्तुरूपतः॥५४४॥

आत्मनो विकारादृते बुद्ध्यादिव्याप्तौ बुद्ध्यादेरपि विना विकारं बाह्यान्तरविषयाकारभजनं स्याद्बोद्धृत्वाविशेषादन्यथाऽऽत्मनोऽपि विकारद्वारैव बुद्ध्यादिव्याप्तेरकूटस्थतेति

चेन्नेत्याह। घटेति। बुद्धेर्जडाकारभजनमदृष्टकृतं न स्वारसिकं, बुद्धिबोध्ययोरुभयोरपि परिच्छिन्नत्वाद्ध-र्मादेश्चसाभासबुद्धिविक्रियात्वाद्युक्तं बुद्धेर्विकारद्वारा विषयाकारत्वमित्यर्थः। बुद्धेर्बोध्याकारवत्प्रत्यगाकार भजनमपि धर्मादिकृतमतो न प्रतीचः स्वतो बुद्ध्यादिव्याप्तिरित्याशङ्क्याऽऽह। निर्हेत्विति। बुद्धेश्चिदाकारत्वं नादृष्टकृतमनवच्छिन्नात्मरूपस्य बुद्ध्यादौ सदा व्याप्तस्यानुरोधादेव तत्सिद्धेरित्यर्थः॥५४४॥

बुद्धितदृत्तिभावोऽयमभावश्चाप्यनन्यमात्॥
यतः सिद्धायते सोऽर्थो ज्ञेयः सिद्धः स्वतः सदा॥५४५॥

प्रतीचो वेदान्तवेद्यस्य कूटस्थत्वेऽपि घटादिसाधकस्य मातुः साधकान्तरापेक्षावदस्यापि तत्प्राप्तेर्न स्वतः सिद्धतेत्याशङ्क्याऽऽह। बुद्धीति। बुद्धितद्वृत्तिभावाभावौ यतो मानाभ्रासमनुभवतः सोऽर्थः सदा स्वतः सिद्धो ज्ञेय इति संबन्धः। तस्य स्वप्रकाशत्वेनान्यानपेक्षत्वे हेतुमाह। अनन्यमादिति। स्वविषयमानं विना भानादित्यर्थः। यद्वा यत इत्यस्य विशेषणमनन्यमादिति नास्त्यन्या मा यस्य सोऽनन्यमस्तस्मादिति यावत् ॥५४५॥

ननुप्रमाणविरहात्स्वतः सिद्धो यदीष्यते॥
वचसो बुद्धबोधित्वादप्रामाण्यं प्रसज्यते॥५४६॥

कूटस्थे बुद्ध्यादिसाक्षिणि स्वप्रकाशे वेदान्ता न प्रमाणं तत्र तेषामनुवादकत्वेमाप्रामाण्यस्य दुर्वारत्वादिति शङ्कते। नन्विति। प्रमाणविरहात्तद्विना भानादिति यावत्॥५४६॥

मैतवमप्रतिपन्नत्वादनुभूत्यैव वस्तुनः॥
तद्द्वयुत्पत्तेः पुरा साक्षाद्बोधो व्युत्पत्तिमात्रतः॥५४७॥

बुद्धबोधित्वेन स्वप्रकाशे प्रतीचि वेदान्तामानत्वं निरस्यति। मैवमिति। तस्मिन्वस्तुनि व्युत्पत्तेर्वाक्योत्थज्ञानात्पूर्वमज्ञोऽहं मां न जानामीति सर्वजनीनानुभवेनैव स्वप्रकाशस्याप्यज्ञातत्वाद्वेदान्तविचारादिरूपव्युत्पत्तिशब्दितश्रवणादिमात्रेण तत्रापरोक्षबोधोत्पत्तेर्युक्तं तस्मिन्वेदान्तप्रामाण्यमित्यर्थः॥५४७॥

बोधाबोधौ यतो दृष्टौ स्वानुभूत्यनुसारतः॥
दृष्टे चानुपपन्नत्वं किंवलादभिधीयते॥५४८॥

स्वप्रकाशे कादाचित्को बोधोऽनाद्यबोधश्च तस्मादेवायुक्तावित्याशङ्क्याऽऽह। बोधेति। अन्वयव्यतिरेकाभ्यां विद्वदनुभवाच्च प्रतीचि कादाचित्को बोधो दृष्टोऽज्ञोऽहमित्यनुभवादनायबोधश्च तेन तत्र घटते वेदान्तमानतेत्यर्थः। दृष्टोऽप्यबोधादिः स्वप्रकाशेऽनुपपन्नत्वात्यज्यतामित्याशङ्क्याऽऽह। दृष्टे चेति। आत्मन्यबोधादी दृष्टे यदनुपपन्नत्वं तत्किंबलादिति वाच्यं न तावदनुभवबलादात्मन्यबोधाद्यसत्त्वे तदभावाद्युक्तिबलादयुक्तत्वमिष्टमेव कूटस्थे चिद्रूपे प्रतीचि बोधाबोधयोर्विनाऽनुभवं युक्तितोऽनभ्युपगमादिति भावः ॥१४८॥

सुषुप्तादेश्चसंसिद्धिर्मात्रादिविरहेऽपि या॥
साऽपीहान्तरसंबुद्धमेयमात्रव्यपाश्रयात्॥५४९॥

ज्ञानविरोध्यज्ञानमनुभवमाश्रित्य तत्प्रसादात्कथं सिध्यति? न हि विरोधिनः साधकस्वमाश्रयत्वं चेत्याशङ्क्याऽऽह। सुषुप्तादेरिति। मात्राद्यभावेऽपि या स्वापमूर्छादेः स्फूर्तिः साऽपीह व्यवहारभूमौ भवन्ती प्रत्यग्भूताज्ञातानुभवात्मकवस्त्ववष्टम्भाद्भवति। तथाच ज्ञानविरोधिस्वापादिसिद्धिवत्तद्विरोध्यज्ञान-सिद्धिरप्यनुभवादेवेत्यर्थः॥५४९॥

न चाभावप्रमाणात्सा सति मातर्यभावमा॥
मात्राद्यभावसंसिद्धिः कथं मात्रादिपूर्विका॥५५०॥

ननु स्वापादिसिद्धिर्नानुभवात्किं तु मात्रादिसत्त्वे विषयोपलब्धिध्रौव्याद्योग्यानुपलब्धेरत आह। न चेति। तत्र हेतुः सतीति। उत्थितस्य न किंचिदवेदिषमिति स्वापादिपरामर्शो दृष्टो, स च परामृश्यमानानुभवपूर्वको, न च स्वापादिकाले तद्विषययोग्यानुपलम्भादि-संभवस्तदा मातुरभावान्न च तं विना मानप्रवृत्तिरतोऽनुभवादेव स्वापादिकाले तत्सिद्धिवत्तस्मादेवाज्ञान सिद्धिरपि न च निवर्तकस्यानुभवस्य साधकत्वाश्रयत्वायोगो, वाक्योत्थबोधस्याज्ञानध्वंसिनः प्रकृतानुभवादर्थान्तरत्वादिति भावः। किंच मात्राद्यभावः स्वापादिस्तस्य स्फूर्तिर्न मात्रादिनिमित्ता स्वस्य स्वाभावासाधकत्वादन्यस्य च तत्साधकत्वेऽनवस्थानादतोऽनुभवादुक्तस्वापादि-सिद्धिवदज्ञानसिद्धिरपीत्याह। मात्रादीति॥५५०॥

यमप्रमीयमाणानि नानात्मानं प्रमिण्वते॥
वस्तुवृत्तानुरोधेन कथं तत्राप्रमा वचः॥५५१॥

स्वप्रकाशेऽपि प्रतीचि बोधाबोधयोरानुभविकत्वाद्युक्तं तत्र वेदान्तमानत्वमित्युक्त्वा तत्रैव कैमुतिकन्यायमाह। यमिति। प्रत्यक्षादीनां तद्विषयाणां च जाड्यान्न स्वतस्फूर्तिर्नाप्यन्यसाधकत्वमात्मनस्त्वजयचिद्वस्तुनः स्वतः स्फुरतः सर्वसाधकत्वमेवंविधवस्तु-स्वरूपानुसारेण प्रत्यक्षादीनि यस्मिन्नात्मनि प्रमामनुत्पाद्य शब्दादिकं विषयं प्रमापयितुं248 न प्रभवन्ति तस्मिन्वेदान्तवत्रो न कथंचिदप्यमानं, यदा हि शब्दादिबोधनेन चरितार्थमप्यध्यक्षाद्युक्तनीत्याऽऽत्मनि मानं तदा तत्त्वमादेरनन्यविषयत्वेनाचरितार्थस्य प्रतीचि प्रामाण्यमवश्यंभावीत्यर्थः ॥ १५१ ॥

अमीमांसक इत्युच्चैरमीमांसक इत्यतः॥
आक्षिपन्ति यदज्ञानात्तच्छान्त्या उत्तरं वचः॥५५२॥

अकार्यानुप्रवेशित्वे वेदान्तानां विषयाभावेन प्रामाण्याक्षेपं परिहृत्य सिद्धेऽर्थे शब्दसामर्थ्यादृष्टस्तत्प्रामाण्याक्षेपं परिहर्तुं सर्वोऽपीत्यादिभाष्यमवतारयति। अमीमांसक

इति। अमी कार्यवादिनः सिद्धेऽर्थे वेदप्रामाण्यमिति ब्रुवन्तं मांसको न्याग्रहीनमर्थं वदन्नमीमांसको विचारपराङ्मुख इत्युच्चैराक्षिपन्ति। अमीमांसक इति वा वीप्सया मामुपालभन्ते। उपालम्भे हेतुमनूद्य तन्निषेधं प्रतिजानीते। अत इति। अस्मादनुभवसिद्धानास्ति सिद्धेऽर्थे शब्दशक्तिरित्यादिरूपाद्यस्मात्प्रत्यगज्ञानादाक्षेपस्तस्य शान्त्यर्थं सर्वोऽपीत्यादि भाष्यमित्यर्थः॥५५२॥

सर्वोऽपि वेद इत्यादि यथोक्तपरिहारकृत्॥
गुरुराह वचः स्पष्टं दृढन्यायोपबृंहितम्॥५५३॥

उत्तरं वच इति साधारण्येनोक्तं भाष्यंविशेषेणावलम्बते। सर्वोऽपीति। तस्योक्ताक्षेपसमाधौ तात्पर्यमाह। यथोक्तेति। तस्य नाबोधकत्वमाप्तोक्तत्वादित्याह। गुरुरिति। संदिग्धबोधित्वं विपर्यस्तबोधित्वं वा नास्तीत्याह। स्पष्टमिति। उपकरणन्यायाभासत्वकृतं दोषं धुनीते। दृढेति॥५५३॥

मानस्वभावमाश्रित्य सर्वोऽपीत्याद्युदीरणम्॥
काण्डद्वयसमाख्या हि तत्प्रमेयानुरोधतः॥५५४॥

ननु कथमस्मिन्भाष्ये मिथो विलक्षणार्थं काण्डद्वयमेकराशित्वेनोपदिश्यते तत्राऽऽह।मानेति। अज्ञातार्थज्ञापकत्वं वेदमात्रस्य स्वभावस्तमाश्रित्य सर्वोऽपीत्येकराशित्वेन काण्डयोर्ग्रहणमित्यर्थः। कथं तर्हि तद्भेदप्रसिद्धिस्तत्राऽऽह। काण्डेति। अतीन्द्रियेऽर्थे मानत्वमेकोपाधिमाश्रित्य वेदमात्रस्यैकराशित्वेन ग्रहेऽपि काण्डभेदप्रसिद्धिर्युक्ता सिद्धसाध्यत्वेन विषयभेदादित्यर्थः॥५५४॥

मानं हि व्यञ्जकं लोके सिद्धे तच्च स्वकारणात्॥
स्वतः सिद्धेऽथ वा नित्यं मेयमात्रं विशिष्यते॥५५५॥

मानस्वभावमाश्रित्येति बोधकत्वं मानस्योक्तं तदयुक्तं चक्षुरादौ माने कारकत्वप्रसिद्धेरित्याशङ्क्याऽऽह। मानं हीति। न चक्षुरादि मानं तदुत्थज्ञानस्यैव तद्भावादिति249 भावः। व्यञ्जकत्वमेव कारकत्वमित्याशङ्क्याऽऽह।सिद्ध इति। स्वतोऽन्यतो वा सति व्यञ्जकत्वुमसति तु कारकत्वमिति भेदोऽस्तीत्यर्थः। स्वतः सति व्यञ्जकत्वमन्यादृशं, परतः सति चान्यादृशमित्याशङ्क्याऽऽह। मेयमात्रमिति। विषये स्वतस्त्वपरतस्त्वविशेषेऽपि न मानस्य व्यञ्जकत्वे कश्चिद्विशेषस्तत्साधकाभावादित्यर्थः॥५५५॥

अतः सर्वोऽपि वेदोऽयं प्रमाणत्वैकहेतुतः॥
प्रकाशनपरो ज्ञेयः सिद्धसाध्यात्मवस्तुनः॥५५६॥

लौकिक250मानवृत्तं वेदेऽपि वदन्भाष्यार्थमुपसंहरति। अत इति। लोके मानस्य व्यञ्ज-

कत्वनियमाद्वेदेऽपि लोकानुसारात्काण्डद्वयात्मा सर्वो वेदो मानत्वादज्ञार्तज्ञापकस्तत्रापि ज्ञानकाण्डं सिद्धार्थस्य, साध्यार्थस्य च काण्डान्तरं, प्रकाशकमित्यर्थः॥५५६॥

एकवाक्यत्वतो यद्वा सर्वोऽपीत्यादि भण्यते॥
पुरुषार्थावसायित्वाद्वेदाधीतिविधेरिति॥५५७॥

मानस्वभावस्याध्यक्षादिष्वपि तुल्यत्वात्काण्डद्वयासाधारण्याभावान्न तदाश्रित्य तदेकराशीकरणमित्याशङ्क्य भाष्यस्यार्थान्तरमाह। एकवाक्यत्वत इति। सिद्धसाध्यार्थभेदान्नैकवाक्यतेत्याशङ्क्याऽऽह। पुरुषार्थेति। अध्ययनविधेरक्षराप्तिद्वाराऽर्थबोधद्वारा वा फलान्तत्वात्तेनोपात्तकाण्डयोरेकपुमर्थावसायितया प्रयाजदर्शादिवाक्यवदेकवाक्यतेत्यर्थः। एकवाक्यत्वे काण्डयोरेकराशीकरणं युक्तमितीतिशब्दार्थः॥५१७॥

निःशेषसुखसंप्राप्तेः सर्वानर्थहनुतेस्तथा॥
मुक्तेरर्वाक्मर्थोऽन्यो नेह कश्चित्समीक्ष्यते॥५५८॥

कर्मकाण्डस्य स्वर्गाद्यर्थत्वाज्ज्ञानकाण्डस्य च मोक्षार्थत्वादेकफलत्वाभावान्नैकवाक्यतेति चेन्नेत्याह। निःशेषेति। शास्त्रे द्विरूपाया मुक्तेरधस्तादन्यो न कश्चित्पुमर्थः, स्वर्गादेराद्यन्तवत्त्वेन फलाभासत्वात्तत्राध्ययनविधेरवान्तरविधीनां चापर्यवसानान्मोक्षार्थतया युक्ता काण्डयोरेकवाक्यतेत्यर्थः॥५५८॥

असिद्धार्थस्य वा सिद्धिरनुभूत्येकमात्रतः॥
सर्वोऽपीति वचः सिद्धिः सर्वा ह्यात्मैकसंविदः॥५५९॥

स्ववाक्यावगतात्कार्यान्नापेक्षन्ते फलान्तरमित्युक्तत्वान्न मोक्षफलतया काण्डयोरेकवाक्यतेत्याशङ्क्य व्याख्यान्तरमाह। असिद्धार्थस्येति। स्वतः सत्तास्फूर्तिशून्यजडप्रपञ्चस्य सत्त्वं स्फूर्तिश्च याऽनुभूतिरेकाऽद्वितीया तावन्मात्ररूपेण भवतीत्यस्मिन्नर्थे भाष्यमवतारयति। सर्वोऽपीति वच इति। अस्यार्थः। वेदनं वेदोऽनुभवः स च शब्देतरमानायोग्यो रूपादिहीनत्वात्स चेष्टानिष्टप्राप्तिपरिहारोपायस्तस्यैव तत्तदात्मनाऽवस्थानात्स च प्रकाशन; सर्वप्रकाशनत्वात्स च परोऽविद्यातज्जातीतत्वादेवंरूपो वेदश्चिदेकरसः प्रत्यग्धातुरेव सर्वोऽपि प्रपञ्च इति। तस्यानुभवमात्रत्वे युक्तिमाह। सिद्धिरिति। आत्मरूपा यैकाऽद्वया संवित्ततः सर्वस्य जडस्य सिद्धिर्जाड्य्यादेव स्वतः सिद्ध्ययोगात्संविदितरसाधकाभावाच्च सा च सिद्धिः सर्वा सर्वं जडं स्वात्मन्यन्तर्भावयत्यनुभाव्यस्यानुभवाद्भेदेनानुपलम्भाज्जडसिद्धिश्वोक्तसंविदतिरेकेण नास्ति विशिष्टसिद्धेः स्वरूपाव्यतिरेकादुतः सर्व वेदशब्दितानुभवमात्रमैतदात्म्यमिदं सर्वमिति श्रुतेरारम्भणाधिकरणन्यायाच्चेति भावः॥५५९॥

यद्वाऽनवगतोऽन्यःसंभाव्यो नाऽऽत्मनस्ततः॥
सर्वोऽपीति वचः प्राह तथा चोर्ध्वं प्रवक्ष्यते॥५६०॥

ननु वेदपदस्य रूढिं त्यक्त्वा योगेन कृतं व्याख्यानमयुक्तं रूढिर्योगमपहरतीति न्यायादित्याशङ्क्य व्याख्यान्तरमाह। यद्वेति। अस्मादात्मनोऽन्यो नानवगतः संभाव्यतेऽन्यस्याज्ञानमयत्वेनाज्ञातत्वायोगात्तस्मादात्मन एवाज्ञातत्वात्तत्रैव सर्वो वेदो मानमित्यर्थः। अस्मिन्नर्थे भाष्यमादत्ते। सर्वोऽपीति। प्रत्यक्षादिनाऽनवगतो योऽसाविष्ट- प्राप्त्याद्युपायो ब्रह्मात्मा तस्य प्रकाशनपरः सर्वोऽप्ययं वेद इत्येतमर्थमाह भाष्यमित्यर्थः। कथं प्रत्यग्धातोरेवाज्ञातत्वं तत्राऽऽह। तथा चेति। ऊर्ध्वमित्यव्याकृतविचारोक्तिः॥५६०॥

यद्धेतुकं प्रमाणत्वं वेदान्तानां समर्थ्यते॥
तेनैव हेतुना कर्मकाण्डस्यापि प्रमाणता॥५६१॥

इत्थं भाष्यार्थे बहुमुखे संभवत्यपि कथं सिद्धेऽर्थे वेदान्तप्रामाण्यं तदुक्त्यर्थमिदं भाष्यमिति प्रक्रान्तं तत्राऽऽह। यद्धेतुकमिति। प्रामाण्यहेतोरज्ञातज्ञापकत्वस्य तुल्यत्वात्तदपि तयोस्तुल्यमेवेत्यर्थः। यद्धेतुकं कर्मकाण्डस्य प्रमाणत्वं तेनैव हेतुना वेदान्तानामपि समर्थ्यते प्रमाणतेति संबन्धः॥५६९॥

वेदान्तानाममानत्वं येन वा हेतुनोच्यते॥
तेनैव हेतुना कर्मकाण्डस्यापि प्रसज्यते॥५६२

कर्मकाण्डविरोधाज्ज्ञानकाण्डाप्रामाण्यमाशङ्क्य वैपरीत्योपपत्तेर्मैवमित्याह। वेदान्तानामिति॥५६२॥

अपि सर्वप्रमाणानि स्वप्रमेयाभिसंगतेः॥
प्रमामेवेह कुर्वन्ति प्रामाण्यं यान्ति नान्यथा॥५६३॥

किंच वेदान्ताः स्वार्थे मानमज्ञातज्ञापकत्वादध्यक्षवदित्याह। अपि सर्वेति। सर्वाण्येवाध्यक्षादीनि मानान्यज्ञातार्थयोगात्तत्र प्रमां कुर्वन्त्येव मानत्वं यान्ति फलवन्निश्चिताबाधितधीजनकत्वमेव हि मानत्वमतो वेदान्तानामपि तद्वदज्ञातं ज्ञापयतां मानतेत्यर्थः। स्वार्थे मानत्वाभावेऽज्ञातज्ञापकत्वस्यैव हानिरिति विपक्षे बाधकमाह। नेति॥५६३॥

विधिनैवैकवाक्यत्वं यतो मन्त्रार्थवादयोः॥
ततो दर्शननिष्ठत्वं न तयोरुपपद्यते॥५६४॥

अथ वेदान्ता न स्वार्थे मानं विधिरहितवाक्यत्वान्मन्त्रादिवत्तत्राऽऽह। विधिनेति। मन्त्रादेस्तत्र तत्र प्रस्तुतविध्येकवाक्यतायाः श्रुत्यादिसिद्धत्वान्न स्वार्थे विफले धीहेतुत्वेन मानत्वमतः स्वार्थे विफलत्वमुपाधिरित्यर्थः॥५६४॥

अर्थवादोक्तितो याऽपि प्रतिष्ठाकामिकल्पना॥
विध्यर्थसंगतावेव साऽपि नैव ततोऽन्यतः॥५६५॥

ननु स्वार्थे पुमर्थराहित्यादर्थवादादेस्तन्निष्ठत्वेनाप्रामाण्ये रात्रिसत्राधिकरणविरोधः ।

तथा हि चतुर्थे स्थितम्। “क्रतौ फलार्थवादमङ्गवत्कार्णाजिनिः” [पू० मी० ४।३।१७]रात्रिसत्रे प्रतितिष्ठन्ति ह वा एते य एता रात्रीरुपयन्तीत्यत्र स्वर्गकामस्यैवाधिकारः किं वाऽऽर्थवादिकफलकामस्येति संशये प्रतितिष्ठन्तीति वर्तमानापदेशात्पर्णता-दिष्विवाङ्गेषु साध्यफलानवगमात्क्रतौ प्रतिष्ठारूपफलवचनमर्थवादतया स्तुतिमात्रमिति स्वर्गकामस्यैवाधिकारे प्राप्ते राद्धान्तः फलमात्रेयो निर्देशादश्रुतौ ह्यनुमानं स्यात्" [पू०मी० ४।३।१८] इति। प्रतिष्ठावाक्यस्यार्थवादत्वेऽपि संनिहितत्यागेनात्यन्ता-संनिहितस्वर्गकल्पनायोगात्क्लृप्तं प्रतिष्ठारूपं फलमत्रास्तीत्यर्थवादे फलनिर्देशात्तत्कामस्यैवात्राधिकारः फलाश्रुतौ हि तत्कल्पनया तत्कामस्याधिकारः स्यादिति सूत्रार्थः। तथाचार्थवाद251निष्ठं प्रतिष्ठा252ख्यफलं गृहीत्वा तत्कामिनो रात्रिसत्रेऽधिकारकल्पना ते विरुध्यते न खल्वर्धजरतीयं लभ्यमत आह। अर्थवादेति। प्रतितिष्ठन्तीत्यर्थवादवशात्प्रतिष्ठाख्यं फलमादाय तत्कामिनोऽधिकारकल्पना या सत्रे कृता साऽपि तस्य विधिसंबन्धद्वारा मानत्वे सत्येव न ततो विधिसंगतेरन्यतः स्वातन्त्र्येणार्थवादस्य मानत्वादेषा कल्पना। यथाऽऽहुः— प्रयोगवचनेन स्तुतिर्वा सह प्रतिष्ठादिभिर्विधात्री भविष्यतीति। तन्न प्रतिष्ठावाक्यवन्मन्त्रादेः253 स्वार्थे मानतेत्यर्थः॥५६५॥

विध्यर्थशेषभावश्च ततश्चार्थान्तरोक्तिता॥
ऐकार्थ्याद्वचसोऽशक्या विरुद्धद्व्यर्थकल्पना॥५६६॥

ननु विध्यर्थशेषभावात्स्वार्थे च तात्पर्यादर्थवादस्योभयत्र मानत्वाद्विधिद्वारैव तस्मान्न फलकल्पना तत्राऽऽह। विध्यर्थेति। एकस्य वाक्यस्यैकस्मिन्नर्थे तात्पर्याद्विध्यर्थशेषभावस्तत्र तात्पर्यं ततो विधेरर्थान्तरं स्वार्थस्तदुक्तिता तत्र तात्पर्यमिति विरुद्धार्थयोस्तात्पर्यकल्पनायोगादेकमेव वाक्यमुभयपरमिति वाक्यविदामसंगतेरर्थवादस्य विध्यर्थे महातात्पर्यद्वारा स्वार्थेऽवान्तरता-त्पर्यमिति भावः ॥ १६६॥

विरोधे गुणवादः स्यादनुवादोऽवधारिते॥
भूतार्थवादस्तद्धानादर्थवादस्त्रिधा मतः॥५६७॥

ननु स्वार्थे चेदर्थवादस्यावान्तरतात्पर्यं तर्हि यजमानः प्रस्तर इत्याद्यर्थवादानां स्वार्थेऽवान्तरतात्पर्यान्मानत्वे सर्वमपि वाक्यं स्वार्थे मानं स्यादित्याशङ्क्यार्थवादस्थमवान्तरभेदमाह। विरोध इति। अस्यार्थः। अर्थवादो द्विविधो भूतार्थवादोऽभूतार्थवादश्च। आद्योऽपि द्वेधा संवादविसंवादहीनः संवादपूर्वकश्च। तत्राऽऽदित्यो ग्रूप इत्यादिरभूतार्थवादः। स च स्वार्थेऽध्यक्षादिर्विरोधे सत्यमानत्वाद्विभ्यतो गुणवादो भवति। उक्तं हि—“सारूप्यात्" [पू० मी० १।४।२१] इति। आदित्यो यूपो यजमानो ग्रूप इत्यत्रानध्यवसायोऽर्थवादो वेति संशये विरोधान्मुख्यार्थत्वायोगाद्गुणासंबन्धेनार्थवादत्वस्यायुक्तत्वादनध्यवसाये प्राप्ते

तेजस्वित्वोर्ध्वत्वाभ्यां यूपस्याऽऽदित्ययजमानसादृश्याद्गौण्या वृत्त्या सामानाधिकरण्योपपत्तेरर्थवादतेति राद्धान्तितमिति। प्रतिपन्ने स्वार्थे प्रवृत्तोऽर्थवादो भूतस्यैव तस्यानुवादः सन्प्रशंसापरो भवतीत्याह। अनुवाद इति। यथाऽऽह—" प्रशंसा " [पू० मी० १।४। २६ ] इति। अपशवो वाऽन्ये गोअश्वेभ्यः पशवो गोअश्वा इत्यत्रानध्यवसायोऽर्थवादो वेति संशय्य प्रशंसानवगमादर्थवादत्वायोगादनध्यवसाये प्राप्तेऽन्येषामपि पशुजातीयत्वेनापशवोऽन्वे गोअश्वेभ्य इतिजातिनिषेधायोगात्कार्यनिषेधे पर्यवसानादपशव इत्यादिना गवादीनां पशुत्वस्य प्रतिपन्नस्य पशवो गोअश्वा इत्यनुवादाद्गवाश्वेषु पशुकार्यकरताया अगौणत्वात्प्रशंसासिद्धेरर्थवाद इति राद्धान्तितमित्यर्थः। क्वचित्पुनर्मा-नान्तरसंवादाद्यभावाद्विद्यमानस्यैवाज्ञातार्थस्योक्तिरित्याह। भूतेतिउक्तं च—“भूम्ना" [पू०मी० १।४।२७] इति। सृष्टीरुपदधातीत्यत्रानध्यवसायोऽर्थवादो वेति संशये सृष्ट्यसृष्टिषु बह्वीष्विष्टकासु प्राप्तासु सृष्टिशब्दस्यानुवादित्वायोगादनध्यवसाये प्राप्ते सृष्टीनां भूयस्त्वात्ताभिः सहैकोपधानक्रियायोगादन्यासामपि लक्षणयाऽनुवादसंभवात्सृष्टिस्तुत्यर्थत्वेनार्थवादतेति सिद्धान्तः। तदिदमर्थवादत्रैविध्यं प्रमाणलक्षणे प्रसिद्धमित्याह।अर्थवाद इति॥५६७॥

विधिशेषोऽपि यद्यर्थमर्थवादः समर्पयेत्॥
अद्वैतविधिनाऽऽक्षिप्ता वेदान्ता नेति का मितिः॥५६८॥

ननु संवादविसंवादयोरसतोरर्थवादस्य स्वार्थेऽपि देवताधिकरणन्यायेनावान्तरतात्पयमानत्वमिष्यतां तथाऽपि वेदान्तेषु किमायातं तदाह। विधीति। अद्वैतविधिस्तत्त्वावबोधस्तेन हेतुत्वेनाऽऽक्षिप्ता वेदान्ता न स्वार्थमर्पयन्तीत्यत्र मानाभावात्तेषां सिद्धेऽर्थे मानता सिद्धेत्युत्तरार्धार्थः॥५६८॥

प्रत्यक्षाद्यभिधानेन सर्वमानोपलक्षणम्॥
मान्तरं नाऽऽगमादन्यद्यदैकात्म्यावबोधकृत्॥५६९॥

सर्वोऽपीत्यादिभाष्यव्याख्याद्वारा वेदान्तानां ब्रह्मात्मनि प्रामाण्यमुक्तं संप्रति प्रत्यक्षानुमानाभ्यामिति भाष्ये विशेषणादुपमानादि-विषयत्वाद्ब्रह्मणस्तत्र वेदान्तानां तत्संवादविसंवादाभ्याममानतेत्याशङ्क्याऽऽह। प्रत्यक्षादीति। आगमस्यापि तर्हि सर्वपदोषात्तस्य प्रत्यक्षादिनोपलक्षणात्तद्गोचरत्वमैकात्म्यस्योक्त्वा तत्प्रकाशपरत्वं वेदस्य वदतो व्याहतिरित्याशङ्क्य प्रत्यक्षानुमानाभ्या-मनवगतेत्यस्यार्थमाह। मान्तरमिति॥५६९॥

सिद्धेऽनवगते यस्मात्पुरस्ताद्व्यापृतिर्मितेः॥
मानादज्ञातता254सिद्धौ स्यादन्योन्यसमाश्रयः॥५७०॥

प्रत्यक्षादौ255 मान्तरपदप्रयोगात्तस्य मानत्वे तद्विरोधाद्वेदो न ब्रह्मणि मानमित्याशङ्क्य

प्रत्यक्षादेर्व्यावहारिकमेव मानत्वं न तात्त्विकमज्ञातार्थाभावादिति वक्तुं सामान्यं न्यायमाह। सिद्ध इति256 प्रमाणप्रवृत्तेः प्रागेवाज्ञातेऽर्थे सिद्धे पश्चात्तत्प्रवृत्तिरिष्टा तस्मात्प्रागेवाध्यक्षादिप्रवृत्तेस्तद्विषयाज्ञातत्वं ज्ञेयमित्यर्थः। प्रागेव ज्ञायतां तदिति चेत्तत्र मानात्तत्सिद्धिरनुभवाद्वेति विकल्प्याऽऽद्यं दूषयति। मानादिति। नाप्यनुभवात्तत्सिद्धिरनङ्गीकारादन्यथा स्वातिरिक्तस्य स्वाध्यस्तस्यैव साधकत्वात्तस्य जडतदज्ञातत्वयो रज्जुसर्पवत्तस्मिन्नध्यासप्रसङ्गान्न तद्विषयाध्यक्षादेस्तात्त्विकमानतेति द्रष्टव्यम् ॥५७०॥

तत्त्वमस्यादिवाक्यस्य विरोधोऽतो न केनचित्॥
सर्वाश्रयत्वात्संवित्तेस्तथाऽऽत्मन्यप्रवृत्तितः॥५७१॥

प्रत्यक्षादेरतात्त्विकमानत्वे फलितमाह। तत्त्वमिति। आगमस्याध्यक्षाद्यविरोधे हेत्वन्तरमाह। सर्वेति। अनुभवस्य सर्वाधिष्ठानत्वा-त्प्रत्यक्षादेः सविषयस्य तन्निष्ठत्वात्तद्विषयागमस्य तैरविरोधोऽधिष्ठानमानस्याऽऽरोपितेनाचाधादिति भावः। अविरोधे हेत्वन्तरमाह। तथेति। रूपादिमद्विषयाध्यक्षादेस्तद्धीनात्मन्यप्रवृत्तेस्तद्विषयागमस्य न तद्विरोधो भिन्नार्थत्वादित्यर्थः॥५७१॥

कृत्स्नेष्टार्थस्य संप्राप्तिः कृत्स्नानर्थहनुतिस्तथा॥
आत्मस्वरूपान्नान्यत्र संभाव्या सा हि मानतः॥५७२॥

अथैकात्म्यवाक्यस्य मानान्तरविरोधाधीनामानत्वनिवृत्तये विध्यननुप्रवेशेऽपि स्वार्थे फलाभावकृतामानत्वाशङ्कां निरसितुं तत्प्रवेशेन भाव्यम्। तथाच स्वार्थे पुमर्थराहित्यमित्युक्तोषाधेः साधनव्याप्तिस्तत्राऽऽह। कृत्स्नेति। ज्ञातमात्मतत्त्वं परः पुरुषार्थ आत्मलाभात्परलाभाभावात्तत्कथं तद्विषयागमस्य स्वार्थे फलाभावादमानत्वं कथंतरामुपाधेः साधनव्याप्तिरित्यर्थः। द्विविधं फलमात्मरूपमपि विध्यायत्तं फलत्वात्स्वर्गवदिति चेन्नेत्याह।सा हीति। फलाप्तिः सर्वनाम्ना परामृश्यते। आत्मज्ञानादेवेष्टानिष्ट-प्राप्तिपरिहारौ न च तावात्मत्वादेव विध्यायत्तौ न चोक्तानुमानसंभवो रज्जुज्ञानाधीने फले व्यभिचारादिति भावः॥५७२॥

इत्येवमादिभाष्यार्थः क्रमेणैकात्म्यवस्तुनि॥
यत्नेन वक्ष्यते न्यायात्पूर्वपक्षनिरासतः॥५७३॥

ननु सर्वोऽपीत्यादिभाष्येण वेदान्तानां ब्रह्मात्मन्युक्तमपि मानत्वं तावन्न स्थैर्यमवलम्बते यावन्न पूर्वोक्ताः पूर्वमक्ष हेतवः प्रतिक्षिप्यन्ते तत आह। इत्येवमादीति। इतिशब्दो मानान्तराविरोधपरामर्शी। एवंशब्दस्तेन संवादाभावपरः। आदिपदं फलतात्पर्ययोर-भावव्यासेधार्थम्। अनेन विधिना सर्वोऽपीत्यादिभाष्यार्थो ब्रह्मणि वेदान्तमानत्वाख्यो यो व्याख्यातः स क्रमेण न्यायावष्टम्भात्पूर्वपक्षहेतुनिरासद्वारा मानतात्पर्यालोच-

नया स्थिरी करिष्यते तत्र भाष्यार्थीभूतसिद्धार्थवेदमानत्वस्यास्थैर्याशङ्केत्यर्थः॥५७३॥

वेदान्तवचसां स्वार्थे प्रामाण्यं न विहन्यते॥
मानलक्षणसद्भावाज्ज्योतिष्टोमादिवाक्यवत्॥५७४॥

कथं तर्हि पूर्वपक्षहेतुनिरसनमित्याशङ्क्य तस्यानपेक्षत्वमित्यत्र सिद्धस्य मानान्तरयोग्यत्वात्तत्र वेदान्तानां न मानतेत्युक्तं प्रत्याह। वेदान्तेति। आत्मनो मानान्तरयोग्यताया निरस्तत्वान्निरसिष्यमाणत्वाच्चतस्मिन्वेदान्तप्रामाण्यं युक्तमज्ञातज्ञापकत्वात्संमतवदित्यर्थः॥५७४॥

नैव कार्यैकनिष्ठानि व्यवहारे वचांसि हि॥
नियमेन प्रयुज्यन्त इत्यत्र मितिरस्ति ते॥५७५॥

यत्तुशब्दसामर्थ्यनियमो लोकादेवेत्यादौ शब्दप्रयोगस्य कार्यपरत्वात्तत्परत्वे शब्दस्य सिद्धे, सिद्धेऽर्थे न प्रामाण्यमिति तत्राऽऽह। नैवेति। वृद्धव्यवहारे हि वचांसि प्रयुज्यमानानि कार्यार्थान्येव नियमेन प्रयुज्यन्त इत्यत्र नैत्र ते मितिरस्तीति योजना॥५७९॥

दिष्ट्या त्वं वर्धसे भद्र जातः पुत्रस्तवर्धिमान्॥
इति नेदं प्रवृत्त्यर्थं वचो नापि निवृत्तये॥५७६॥

नियमे प्रमित्यभावं सिद्धार्थपरतया वाक्यप्रयोगप्रदर्शनेन साधयति। दिष्ट्येति। अथ पुत्रजन्मवाक्यमपि प्रवृत्त्यादौ पर्यवस्यन्न सिद्धार्थनिष्ठं नेत्याह। इति नेदमिति। प्रवर्तकनिवर्तकशब्दाश्रवणादित्यर्थः॥५७६॥

सुखाद्युत्पत्तिहेतूनि दृश्यन्तेऽकार्यवन्त्यपि॥
वचनानि व्रज ग्राममित्यादीनि यथा तथा॥५७७॥

तर्हि नप्रवृत्तिनिवृत्तिभ्यां शून्यस्येत्युक्तन्यायात्पुत्रजन्मवाक्यस्याफलत्वादप्रामाण्यमित्याशङ्क्याऽऽह। सुखादीति। तदुत्पत्तौ हेतुत्वयुक्तानीति यावत्। यथा विधिवाक्यं सफलमेवमकार्यवन्ति विधिहीनान्यपि पुत्रजन्मादिवाक्यानि सुखाद्युत्पत्तिहेतुत्वभाञ्जि फलवन्ति दृश्यन्ते तद्विधिवाक्यवत्तद्धीनमपि वाक्यं स्वार्थे मानमित्यर्थः॥५७७॥

सुख्येधीति न चानेन प्रवृत्तिरूपदिश्यते॥
सुखीभवनमस्यार्थानोपदेशव्यपेक्षया॥५७८॥

पुत्रजन्मवाक्येऽपि सुखी भवेति विधिरस्तीत्याशङ्क्य तेनोपाये प्रवृत्तिरुपदिश्यते सुखीभवने वेति विकल्प्याऽऽद्ये दोषमाह। सुखीति। पुत्रजन्मोपायस्य सिद्धत्वान्न तत्र प्रवर्तको विधिरित्यर्थः। द्वितीयं दूषयति। सुखीभवनमिति। अस्येति षष्ठी पितरमधिकरोति। उपदेशो विधिः। अर्थात्पुत्रजन्मश्रुतिसामर्थ्यादिति यावत्॥५७८॥

विशेषोऽस्ति प्रवृतेश्चेत्तात्पर्यं वचसोऽपि च।
नैवं सुखादिसंभूतावर्थवत्त्वोपपत्तितः ॥५७९॥

पुत्रजन्मवाक्यश्रवणानन्तरं जातकर्मादिरूपो विशेषः प्रवृत्तेर्दृश्यते तत्र चापूर्वे फलवति वाक्यतात्पर्यमिति प्रवृत्तिनिष्ठमेव तदिति शङ्कते। विशेषोऽस्तीति। वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जातेऽग्निमुपसमाधायेत्यादिविध्यन्तराधीनत्वाज्जातकर्मादिप्रवृर्तेर्न तत्परत्वं पुत्रजन्मवाक्यस्येति दूषयति। नैवमिति। कथं तर्हि फलवत्त्वेन मानतेत्याशङ्क्य सुखाद्युत्पत्तिहेतूनीत्यत्रोक्तं स्मारयति। सुखादीति। सुखस्य दुःखनिवृ-त्तेश्चोपायभूतपुत्रजन्मज्ञानोत्पत्तौ वाक्यस्यार्थवत्त्वेन मानत्वसिद्धेर्न तस्य प्रवृत्तिनिष्ठतेत्यर्थः॥१७९॥

आनर्थक्यभयादेव श्रुतादन्यत्र कल्प्यते॥
तात्पर्यं प्रोक्षणाद्युक्तेर्न स्वतन्त्रेऽधिकारवत्॥५८०॥

पुत्रजन्मवाक्यस्य स्वार्थनिष्ठत्वेऽपि तद्दृष्टान्तात्तत्त्वमादिवाक्यं न स्वार्थे पर्यवस्यति प्रोक्षणादिवाक्यवत्तस्य स्वार्थादन्यत्रतात्पर्यसंभवादित्याशङ्क्याऽऽह। आनर्थक्येति। अस्यार्थः। प्रोक्षणादिवाक्यस्य स्वार्थे फलराहित्याच्छ्रुतादन्यत्र परमापूर्वे प्रकरणात्तात्पर्यं कल्प्यते। तदुक्तं नवमे—“संस्कारे257 युज्यमानानां तादर्थ्यात्तत्प्रयुक्तं स्यात्" [पू० मी० ९।१।२ ] इति। प्रोक्षिताभ्यामुलूखलमुसलाभ्यामवहन्ति प्रोक्षिताभ्यां दृषदुपलाभ्यां पिनष्टीत्यत्र प्रोक्षणमवघातादिकृतमपूर्वकृतं वेति संशये संस्कारेऽवहन्त्यादौ संबध्यमानानां प्रोक्षणादीनां तदर्थत्वात्प्रोक्षणं तेनावहन्त्यादिना प्रयुक्तं प्रकरणादपूर्वं कर्तव्यं गम्यते वाक्यादवहन्त्यादिप्रकरणाच्च बलीयो वाक्यमिति पूर्वपक्षयित्वोक्तम्—“तेन त्वर्थेन यज्ञस्य संयोगाद्धर्मसंबन्धस्तस्माद्यज्ञप्रयुक्तं स्यात्संस्कारस्य तदर्थत्वात्” [पू० मी० ९। १।३] इति। तेनावहन्त्यादिना यस्माद्यज्ञस्यापूर्वस्य संयोगस्तस्मात्तस्य प्रोक्षणधर्मसंबन्धोऽतो यज्ञेनापूर्वेण सफलेन प्रयुक्तं प्रोक्षणं संस्कारेण संबध्यते तस्य चापूर्वार्थत्वान्निष्फलावहन्त्याद्यर्थत्वाभावादपूर्वप्रयुक्तमेव प्रोक्षणमिति सूत्रार्थः। न चैवं स्वार्थे फलवति प्रयुक्त्यन्तरानपेक्षतत्त्वमादावन्यत्र तात्पर्यं कल्प्यमिति। नन्ववघातादेर्भावार्थत्वादपूर्वप्रयुक्तविषयत्वव-त्तत्त्वमादिवाक्योत्थज्ञानस्यापि भावार्थत्वेन तद्विषयत्वाद्वाक्यमपूर्वशेषत्वेनैव मानं नेत्याह। न स्वतंत्र इति। न खल्वत्रघातादिः स्वतन्त्रेऽपूर्वे साक्षादन्वेति किंतु संस्कारकर्मतया। तदुक्तं द्वितीये—“तानि द्वैधं गुणप्रधानभूतानि” [पू० मी० २।१।६] इति। व्रीहीनवहन्ति तण्डुलान्पिनष्ट्याज्यं विलापयतीत्यत्रावघातादीनामपि नियोगविषयत्वं संस्कारकर्मत्वं वेतिसंशये साक्षात्संबन्धसंभवे द्रव्यसंस्कारमुखेनान्वयस्यायोगाद्भावार्थत्वाविशेषाच्च यागवदवघातादीनामपि नियोगविषयतेति प्राप्ते व्रीहीनित्यादिद्वितीयाश्रुत्या द्रव्यस्य प्राधान्याव-

गमाल्लोकतश्चांवघातादीनां तण्डुलाद्युत्पत्त्यर्थत्वनिश्चयाद्द्रव्यस्य चिकीर्यमाणत्वात्पदार्थसामर्थ्यानुरोधेनापूर्वाय258 द्रव्यसंस्कार259कर्मद्वारा कार्यान्वयसंभवे स्वभावबाधेन साक्षात्संचन्धलोभादपूर्वविषयत्वायोगात्संस्कारकर्मत्वं तेषामिति सिद्धान्तः। तानि यजेत पिनष्टीत्यादिपदानि द्विप्रकाराणि कानिचित्प्रधानकर्मणो वाचकानि संस्कारकर्मणश्च कानिचिदिति सूत्रार्थः। न चैवं तत्त्वमादिवाक्योत्थज्ञानस्य संस्कारकर्मतया कार्यान्वयस्तस्य स्वातन्त्र्येण फलहेतुत्वात्तद्विषये नियोगायोगस्य पूर्ववद्वक्ष्यमाणत्वादिति भावः। नन्ववघातादेर्द्रव्यगतस्य दृष्टकार्यस्य दृष्टत्वात्संस्कारहेतुकर्मत्वेऽपि प्रोक्षणादिषु तदभावाद्यागादिवन्नियोगविषयत्वं तथा तत्त्वमादिवाक्यीयज्ञानस्यापि तद्विषयत्वं सत्यपि तस्मिन्संसारदृष्टेरत आह। अधिकारवदिति। अस्यार्थः। न तावत्प्रोक्षणादिवज्ज्ञानस्य नियोगविषयत्वं तेषामपि संस्कारकर्मतया साक्षादन्वयाभावात्। तदुक्तं भेदलक्षणे—“धर्ममात्रे तु कर्म स्यादनिवृत्तेः प्रयाजादिवत्" [पू० मी० २। १।९] इति। व्रीहीन्प्रोक्षति स्रुचः संमार्ष्टीत्यादौ किमस्य नियोगविषयत्वं किंवा संस्कारकर्मतेति संशयेयद्दृष्टस्य प्रयोजनस्यापर्याप्तं प्रोक्षणादि तस्मिन्धर्ममात्रे नियोगविषयत्वं स्यात्तेन द्रव्यस्योपकारानिष्पत्तेरतो द्रव्यं तन्निर्वर्तयत्तस्य प्रयाजादिवद्गुणभूतमिदं तु प्रधानकर्मेति प्रापय्योक्तम्— “तुल्यश्रुतित्वाद्वेतरैः स धर्मः स्यात्" [पू० मी० २।१।१०] इति। इतरैर्गुणकर्मभिरवघातादिभिः स धर्मस्तुल्यस्वभावः स्यात्प्रोक्षणादिद्रव्येषु द्वितीयाश्रुतेरुभयत्र तुल्यत्वादिति सूत्रार्थः। न चैवं ज्ञाने संस्कारकर्मतया कार्यान्वयोऽतः स्वर्गकामो यजेतेत्यधिकारवाक्यवत्तत्त्वमादिवाक्यस्यापि स्वार्थे तात्पर्यमिति॥१८०॥

किंचोपायेऽप्रवृत्तः सन्पुरुषोऽयं प्रवर्त्यते॥
ज्ञातोपायत्वतो यद्वा विधिनोपेयसिद्धये॥५८१॥

अधिकारवाक्यवत्तत्त्वमादिवाक्यस्य स्वार्थनिष्ठत्वे तद्वदेव विधिनिष्ठत्वमपि स्यादित्याशङ्क्य पुत्रजन्मवाक्यवदस्याविधिनिष्ठत्वं वक्तुं तस्य विध्यनिष्ठत्वं सुख्येधीत्यादावुक्तं260 प्रपञ्चयति। किंचेति। नहि प्रवर्तकमेव वाक्यमिति नियमः पुत्रजन्मवाक्ये व्यभिचारादित्यर्थः। तत्र प्रवर्तकत्वव्यभिचारं दर्शयितुं विकल्पयति। उपाय इति। सुख्येधीति विधिना पुत्रजन्मोपाये पूर्वमप्रवृत्तः श्रोता प्रवर्त्यते किंवा विधिं विनोपायस्य ज्ञातत्वादुपेयसिद्धये तत्रेति विकल्पार्थः॥५८१॥

तह तावन्नोपाये पुत्रजन्मादिलक्षणे॥
तस्य निष्पन्नरूपत्वान्नाप्युपेये सुखे तथा॥५८२॥

पुत्रजन्मनः सिद्धत्वान्न तत्र विधिना पुरुषस्य प्रवर्त्यतेत्याद्यं दूषयति। तत्रेति

द्वितीयं निरस्यति। नापीति। पुत्रजन्मश्रुतिसामर्थ्यादेव सुखोत्पत्तेरुक्तत्वादिति हेतुमाह। तथेति॥९८२॥

न व्यापारान्तरं यस्मात्सुखार्थं किंचिदीक्ष्यते॥
पुत्रजन्मोक्तिमात्रेण पुरुषार्थावसानतः॥५८३॥

सुखी भवेति विधिना पुत्रजन्मनो व्यापारान्तरे सुखसाधने पुमान्प्रवर्त्यतामित्याशङ्क्याऽऽह। नेति। तस्मात्तत्रापि पुरुषो विधिना प्रवर्त्यो न भवतीति शेषः। प्रामाणिकव्यापारान्तराभावे हेतुमाह। पुत्रेति। पुत्रजन्मवाक्यात्तदर्थधीमात्रेण सुखोत्पत्तेर्न प्रकृते व्यापारान्तरं तत्साधनं प्रामाणिकमस्ति प्रियासुखप्रसवादेः सतोऽपि पुत्रजन्मवद्विध्यनर्हत्वादित्यर्थः॥ ५८३॥

किं चाध्यस्तारिष्टस्य तद्विपव्याप्तचेतसः॥
स्रगियं न फणीत्युक्ते261 दृष्टा विषनिराक्रिया॥५८४॥

वाक्यस्य प्रवर्तकत्वनियमाभावे हेत्वन्तरमाह। किं चेति। सिद्धार्थानि सुखोत्पत्तिफलानि वाक्यान्युदाहृत्य दुःखनिवृत्तिफलानि तादृग्वाक्यान्युदाहरन्प्रतिज्ञातं हेत्वन्तरं स्फुटयति। अध्यस्तेति॥१८४॥

मा भैषीरिति चोक्तेऽपि न नियोगः प्रतीयते॥
स्रगुक्तेरेव निःशेषसाध्वसध्वंसलाभतः॥५८५॥

स्त्रगेषेत्यादिवाक्यस्यापि मा भैषीरिति नियोगनिष्ठत्वान्न वस्तुपर्यवसायितेत्याशङ्क्याऽऽह। मा भैषीरिति चेति। नियोगाप्रतीतौ हेतुमाह। स्रगुक्तेरिति। सफलो262नियोगो न भातीति शेषः॥९८५॥

न्याय्यो नियोगस्तत्रैव यत्र बुद्धाऽस्य कार्यताम्॥
अनन्तरं प्रवृत्तिः स्याद्विषये तस्य सिद्धये॥५८६॥

इतश्चास्मिन्वाक्ये नियोगो नास्तीत्याह। न्याय्य इति। यत्तच्छब्दाभ्यां वाक्योक्तिः। षष्ठीभ्यां नियोगोपादानम्। कार्यतां साध्यतामिति यावत्। विषयो धात्वर्थः। न चात्राऽऽनयेत्यादाविव नियोगविषयप्रवृत्तिरिति कुतस्तदवकाश इत्यर्थः॥५८६॥

इह त्वैकात्म्यवाक्येषु तत्त्वमात्रावबोधतः263
सद्यः पुमर्थसंसिद्धेः कार्यसिद्धिर्न वीक्ष्यते॥५८७॥

लौकिकवाक्यानां सिद्धार्थानामपि फलवत्ता दृष्टत्वादुपपन्ना, वेदान्तानां तु विधिविधुराणां सोऽरोदीदितिवन्न फलान्ततोपलभ्यते, तेन तेषु विधिना भाव्यमित्याशङ्क्याऽऽह।इह त्विति॥५८७॥

कुतूहलवतां तद्वन्निर्वृत्ताख्यानमात्रतः॥
दृष्टा नराणां निःशेषकुतूहल निराक्रिया॥५८८॥

वेदान्तानां सिद्धार्थानामेव फलवत्त्वार्थं श्रौतस्मार्तोपाख्यानरूपवाक्यमुदाहरति।कुतूहलेति। कुतूहलशब्देनाऽऽकुलतावाचिना दुःखं लक्ष्यते। स्रगियमित्यादौवस्तुज्ञानादेव दुःखनिवृत्तिवदित्याह। तद्वदिति। निर्वृत्ताख्यानमात्रतो निष्पन्नस्य सिद्धार्थस्य यदाख्यानं लौकिकं वैदिकं वा ततो वस्तुमात्रज्ञानादिति यावत्॥५८८॥

वस्तुमात्रावसायित्वात्तद्वचांसि न कानिचित्॥
उपादानाय वाऽलं स्युर्नापि हानाय तद्विदः॥५८९॥

ननु कुतूहलनिवृत्तिफलान्यपि लौकिकवैदिकवाक्यानि प्रवृत्तिनिवृत्त्यन्यतरार्थत्वान्नियोगनिष्ठान्येवेत्याशङ्क्याऽऽह। वस्तुमात्रेति। उक्तवाक्यानामर्थज्ञानवतस्तेषां स्वार्थे फलवत्यवसाने वेदनान्न प्रवृत्त्यादिसाध्यनियोगनिष्ठतेत्यर्थः॥५८९॥

यत्रापि च प्रतीयेते हानादाने वचःश्रवात॥
अयं चोराकुलः पन्था देशोऽयं निधिमानिति॥५९०॥

तत्रापि नैव शब्दस्य व्यापारः सिद्धवेदनात्॥
कृतार्थत्वान्नरस्यापि रागादेव प्रवृत्तितः॥५९१॥

पुत्रजन्मादिवाक्यानां सिद्धार्थत्वेऽपि ‘प्रतिरोधकवान्पन्था’, ‘भूभागो निधिमानिति वाक्ययोः श्रवणे प्रवृत्त्यादिदृष्टेस्तयोर्विधिनिषेध-विषयत्ववत्तत्त्वमादेरपि विधिनिष्ठत्वभित्याशङ्कामनुभाष्यदूषयति। यत्रेत्यादिना। दृष्टान्तेऽपि शब्दस्य प्रवृत्त्यादौ व्यापाराभावे हेतुमाह। सिद्धेति। अकार्यरूपनिध्यादिसंबन्धबोधनेनैव वाक्ययोरुपक्षयादित्यर्थः। कथं तर्हि वाक्ययोः श्रवणे श्रोता प्रवृत्तिनिवृत्ती प्रतिपद्यते तत्राऽऽह। नरस्येति। अपिशब्दो द्वेषान्निवृत्तिसमुच्चयार्थः॥५९०॥५९१॥

कामैकपाशाकृष्टः सन्निच्छयैव प्रवर्तते॥
निवर्तते च तद्द्वेषान्न शब्दव्यापृतेर्नरः॥५९२॥

रागद्वेषाभ्यामेव प्रवृत्तिनिवृत्ती, न विधिनिषेधाभ्यामित्येतत्प्रपञ्चयति। कामेति। प्रतिरोधकचोरादिविषयस्तच्छब्दः। विधेर्नियोगबोधनं व्याष्टतिर्निषेधस्य निवृत्तिबोधनं तस्य प्रसक्तक्रियानिवृत्त्यौदासीन्ये पर्यवसानस्वीकारादिति भेदः॥५९२॥

नन्वप्रयुक्तमप्येतद्वक्त्रा वाक्यं विवक्षितम्॥
न गन्तव्यं पथाऽनेन गृहाणेमं निधिं तथा॥५९३॥

प्रतिरोधकवानध्वेति वदता निषेधस्येष्टत्वात्तन्निष्ठं वाक्यं भूभागो निधिमानिति च वदता विधेरिष्टत्वात्तदपि तन्निष्ठं; न वाक्यद्वयं वस्तुमात्रावसितमिति शङ्कते। न न्विति॥५९३॥

मैवं40, न वक्त्रभिप्रायाच्छब्दार्थत्वं प्रकल्पते॥
शब्दसामर्थ्यतो यस्मात्तादर्थ्य, नान्यहेतुकम्॥५९४॥

विवक्षितस्य विध्यादेर्न शब्दार्थतेत्याह264मैवमिति। प्रतिज्ञामेव प्रकटयति।नेत्यादिना। तत्र हेतुमाह। शब्देति। शब्दसामर्थ्या-त्प्रतीयमानस्य शब्दार्थत्वं न विवक्षाकृतमित्युक्तमतो विवक्षितयोरपि विधिनिषेधयोर्न शब्दार्थतेत्यर्थः॥५९४॥

भवद्भिरपि चैवैतदभ्युपेयं प्रयत्नतः॥
वक्तृतन्त्रे हि शब्दार्थे न विश्वासः भुतेर्भवेत्॥५९५॥

भवन्मते शब्दशक्तिप्रतीतस्य शब्दार्थत्वेऽपि विवक्षितस्यैवास्मत्पक्षे तदर्थतेत्याशङ्क्याऽऽह।भवद्भिरिति। शब्दशक्तिमनपेक्ष्या विवक्षितस्यैव शब्दार्थत्वे दोषं दर्शयन्नुक्तमम्युपगमयति। वक्त्रिति। विवक्षाधीने शब्दार्थे वेदे वक्तुरभावात्तस्मादर्थनिश्चयो न स्यादित्यर्थः॥५९५॥

नानाविधमर्थातिरपि वक्तुः समीहिता॥
तस्या अपि त्वदुक्त्यैवं शब्दार्थत्वं प्रसज्यते॥५९६॥

तथाऽपि लोके विवक्षितस्य शब्दार्थतेत्याशङ्क्याऽऽह। नानेति। विवक्षाया नियमाभावात्त्वदुक्त्या शब्दार्थोऽपि विवक्षानुसारी-त्येवंरूपायां शब्दार्थव्यवस्थायामव्यवस्था स्यादतो लोकेऽपि तस्या अशब्दार्थत्वात्तच्छक्त्या प्रतीयमानस्यैव तदर्थतेत्यर्थः॥५९६॥

प्रवृत्तिं वा निवृत्तिं वा यदाऽभिप्रेत्य चेतसा॥
किंचिज्जिज्ञास्यते ज्ञात्रा प्रत्यक्षादिप्रमाणतः॥५९७॥

अभिप्रेताऽपि न तदा प्रवृत्तिर्यदि वेतरा॥
प्रत्यक्षादिप्रमेयेति शक्या वकुं विपश्चिता॥५९८॥

विवक्षितः शब्दार्थों नेत्यत्र दृष्टान्तमाह। प्रवृत्तिमिति। यथा प्रत्यक्षादेर्न विवक्षितोऽर्थो विषयस्तथा शब्दप्रमेयोऽपि न विवक्षितोऽर्थ इत्यर्थः॥५९७॥५९८॥

इतश्चाभ्युपगन्तव्यमेतत्तुल्येऽपि वस्तुनि॥
एकस्य हानधीस्तस्मिन्नुपादित्सा परस्य च॥५९९॥

शब्दार्थत्वे हि सर्वेषामादानायैव धीर्भवेत्॥
नोपेक्षायां, प्रहाणे वा न चानेकार्यता मता॥६००॥

विवक्षितः शब्दार्थो नेत्येतद्वक्ष्यमाणहेतोरपि स्वीकार्यमित्याह। इतश्चेति। हेत्वन्तरमेव स्फोरयति। तुल्येऽपीति। अयं देशो निधिमानित्युक्ते तुल्येऽपि निधिबोधे विरक्तस्य हानधीरायासासहिष्णोरुपेक्षा रागिणस्त्वादित्सा तत्राऽऽदानस्य विवक्षितत्वे शब्दार्थत्वे

च विरक्तादीनामपि तदर्थमेव धीः स्यान्न हानादौ, हानस्योपेक्षाया वा विवक्षितत्वे शब्दार्थत्वे च सर्वेऽपि श्रोतारो हानमुपेक्षां वा प्रतिपद्येरन्नतः शब्दार्थवित्तेरैकरूप्येऽपि विवक्षित्मदानादौ बुद्धिवैषम्यान्न विवक्षितः शब्दार्थ इत्यर्थः। हानादीनां त्रयाणामपि श्रोतृभेदेन विवक्षिततया शब्दार्थत्वमाशङ्क्याऽऽह। न चेति॥ ५

९९॥६००॥

न च प्रवर्तकत्वेऽपि वाक्यस्याङ्गीकृते त्वया॥
शक्यो विधायिनोऽन्येषां पदानां वक्तुमन्वयः॥६०१॥

विध्यादिवाक्ये विध्यादेरशब्दार्थत्वाद्वस्तुनिष्ठत्वे स्थिते प्रवर्तकमेव वाक्यमिति नियमो नेत्युक्तमिदानीं नियममङ्गीकृत्यापि दोषं वक्तुं भूमिकामाह। न चेति॥६०१॥

किं स्वार्थमात्रनिष्ठत्वमुत कार्यैकनिष्ठता॥
पदार्थमात्रसंसर्गपरता किं त्वितीर्यताम्॥६०२॥

आख्यातातिरिक्तपदानामन्वयस्य वक्तुमशक्यत्वं व्यक्तीकर्तुं विकल्पयति। किमिति। उत्तमवृद्धोक्तप्रवर्तकवाक्यश्रुतौ मध्यमवृद्धप्रवृत्तिं दृष्ट्वा बालः शब्दानामनन्विते स्वार्थे शक्तिमाकलयत्यतो ऽसंसृष्टस्वार्थविषयं सामर्थ्यमित्यभिहितान्वयेनाऽऽद्यो विकल्पः। एकस्मिन्नन्विते कार्ये पदानां शक्तिग्रहात्तन्निष्ठता तेषामिति द्वितीयः। कार्येणान्विते स्वार्थे सामर्थ्यात्तन्निष्ठानि पदानीति तृतीयः। कार्यान्वयान्वयिनि सामर्थ्य पदानामिति चतुर्थः। कार्येणाकार्येण वा योग्येन संसर्गे यस्य स्वार्थस्य तत्र तेषां शक्तिग्रहाद्येोग्यान्वितस्वार्थपरता पदानामिति पञ्चम इति विकल्पार्थः॥६०२॥

स्वार्थमात्रावसायित्वे वाक्यार्थप्रत्ययः कुतः॥
वैयर्थ्यं च प्रयोगस्य व्यवहाराक्षमत्वतः॥६०३॥

तत्राऽऽद्यमनुभाष्य दूषयति। स्वार्थेति। पदानामनन्वितपदार्थमात्रे सामर्थ्यमङ्गीकृत्य तन्निष्ठत्वे श्रोतुर्वाक्यार्थधर्न स्यात्तद्धेत्वभावान्न च पदार्थास्तद्धेतवस्तदशाब्दत्वापत्तेर्न च शब्दबोधितपदार्थकृततया शाब्दत्वं चाक्षुषलिङ्गोत्थानुमितेरपि चाक्षुषत्वापत्तेरिति भावः। वाक्यमेव वाक्यार्थधीहेतुरित्याशङ्क्य तस्य पदसामर्थ्यसापेक्षत्वे विशिष्टविषयत्वायोगात्तदनपेक्षत्वे च सामर्थ्यग्रहवैयर्थ्यादन्वितस्य सामर्थ्यप्रतियोगित्वपक्षे च विशेषान्वयवतो वाक्यतात्पर्यगम्यतया तदवैयर्थ्यान्मैवमित्यभिप्रेत्याऽऽह। वैयर्थ्यमिति। तत्र हेतुमाह। व्यवहारेति। अनन्वितार्थे वचने विशिष्टविषयव्यवहारे पदानामशक्तेरन्वितपदप्रयोगायोगः समन्वितपदसमुदायात्मनो वाक्यस्य पदशक्त्यपेक्षत्वात्ततो विशिष्टव्यवहारासिद्धिर्विशिष्टार्थप्रयुक्ता हि समभिव्याहृतिर्जन इति न्यायादित्यर्थः॥६०३॥

पदार्थमात्रसंसर्गे कार्यार्थविरहेऽपि ते॥
व्यवहारस्य संसिद्धेर्व्यर्था कार्यप्रकल्पना॥६०४॥

योग्येतरासंसृष्टे पदसामर्थ्यमित्यन्त्यं पक्षमनूद्य साधारण्येन परमतं निरस्यति।पदार्थेति। मात्रचा कार्यमकायं वा योग्यं गृह्यते योग्यान्विते शक्तिरित्यङ्गीकारे प्रयोगकलाघवाच्छक्तिविषयतया कार्याभावेऽपि शाब्दव्यवहारसंभवादस्मत्पक्षसिद्धिर्योग्यकार्यान्विते शक्तिरित्यत्र प्रयोजकगौरवाद्यर्था ते शक्तिप्रतियोगित्वेन कार्यकल्पनेति त्वत्पक्षक्षतिरित्यर्थः॥६०४॥

कार्यैकव्यतिषङ्गे च वाक्याद्भूतानुवादकात्॥
प्रतीतिः स्यान्न वाक्यार्थे स्यादुक्तेर्व्यर्थताऽपि च॥६०५॥

कार्ये त्वेकस्मिन्नन्विते पदानां सामर्थ्ये तेषां पर्यायतेति मत्वा द्वितीयं प्रत्याह।कार्यैकेति। तेन व्यतिषङ्गवति शक्तिरिति तृतीयमनूद्य दूषयति। व्यतिषङ्ग इति। कार्यान्वितेऽर्थे शक्तिपक्षे लिङ्गादिशून्याद्वाक्याद्वाक्यार्थधीः श्रोतुर्न स्याद्वक्तुश्च तथाविध-प्रयोगवैयर्थ्यंपरप्रत्यायनाय हि प्रयोगः परद्रतार्थवाक्यात्तदर्थं न वेत्ति कृतं प्रयोगेणेत्यर्थः॥६०५॥

कार्यान्तरस्य चाभावात्कार्यार्थैकाभिधायिनः॥
संबन्धो न भवेदन्यैः साधनाग्रभिधायिभिः॥६०६॥

किंच कार्यपदस्य कार्यान्विते शक्तिरनन्विते वा, सिद्धान्विते वा नाऽऽद्य इत्याह।कार्यान्तरस्येति। गामानयेत्यादौ कार्यवाचिपदस्य कार्यान्वितेऽर्थे संबन्धो न सिध्येदेकस्मिन्वाक्ये कार्यद्वयाभावादित्यर्थः। अनन्वितस्वार्थमात्रेऽपि कार्यपदस्य न संबन्धो भवेदभिहितान्वयानभ्युपगमादित्याह। संबन्धो न भवेदिति। सिद्धार्थान्विते स्वार्थेऽपि कार्यपदस्य न संबन्धोऽनङ्गीकारादित्याह। संबन्धो नेति। नापि तस्य कार्यान्वयान्वयिनि संबन्धोऽन्वयस्य विशेषणत्वेनोपलक्षणत्वेन च दुर्वचत्वादित्याह। संबन्धो नेति। एतेन चतुर्थोविकल्पो निरस्तः। विधायकपदस्य संबन्धाग्रहे तस्य नामपदैः संबन्धो न सिध्यतीति फलितमाह। संबन्धो नेत्यादिना। कार्यपदस्यान्यान्विते शक्तिरित्यावश्यकं तथेतरपदानामिति समुदायार्थः॥६०६॥

कार्यान्वयित्वे सर्वेषामपि चेह परस्परम्॥
पदार्थानामसंबन्धोऽनपेक्षत्वाद्भवेद्ध्रुवम्॥६०७॥

कार्यान्वितार्थस्य शक्तिप्रतियोगित्वे दोषान्तरमाह। कार्येति। इहेति प्रयुक्तवाक्योक्तिः। सर्वेषामपि पदानां कार्यान्वितेऽर्थे सामर्थ्य पदानां मिथः संबन्धः शाब्दो न स्यात्तेषां कार्यान्वयेन चरितार्थानां मिथोऽनपेक्षत्वादित्यर्थः॥६०७॥

नियोगो न प्रतीयेत विशिष्टविषयस्तथा॥
तदा चैकपदार्थस्य नियोगः साध्यतामियात्॥६०८॥

तेषां मिथोऽनन्तयेऽपि कार्यान्वयेनैव विशिष्टव्यवहारसिद्धिरित्याशङ्क्याऽऽह।

नियोग इति। पदार्थानां मिथोऽनन्वये सति सोमेन यजेतेत्यत्र सोमविशिष्टयागविषयो नियोगो न भायादित्यर्थः। कार्यान्विते सर्वपदशक्तिरित्यत्रैव दोषान्तरमाह। तदा चेति। यदा सर्वाणि पदानि कार्यान्विते शक्तिमन्ति तदा सोमस्य यागस्य च प्रत्येकं नियोगान्वयात्तस्यैकैकस्यासौ साध्यतां गच्छेत्तथा च विशिष्टयागसाध्यत्वं तस्येष्टं नष्टं स्यादित्यर्थः॥६०८॥

अथ सोमादिसंबद्धे265 यागादौ विषये मतः266
नियोगः कस्ततः पूर्व संबन्धे हेतुरुच्यताम्॥६०९॥

सोममात्रेण यागमात्रेण वा साध्यनियोगाभावात्तस्य विशिष्टविषयतेति पार्ष्णिकं पदार्थानां मिथोऽन्वयमङ्गीकृत्य शङ्कते। अथेति। न तावदादौ प्रत्येकं नियोगान्वयो योग्यतादिकृतपरस्परान्वयस्यैव प्राथम्यात्त्वतन्मते च नियोगान्वयात्पूर्वं सोमादेर्यागादेश्चान्योन्यान्वये हेतुरस्ति न वाऽस्ति चेत्किमसौ योग्यतादिरन्यो वा नाऽऽद्यो योग्यतादिकृतेऽन्वये नियोगाभिनिवेशस्याफलत्वान्न द्वितीयः स हि क्रियातिरिक्तो वा क्रिया वाऽऽद्ये तस्य कारकफलान्यतरत्वात्तदधीनेऽन्वये नियोगवैयर्थ्यं न च कारकफलातिरिक्तं क्रियातोऽन्यन्नियोगान्वयात्पूर्वं संबन्धकारणं प्रसिद्धमिति मत्वाऽऽक्षिपति।कस्तत इति॥६०९॥

सिद्धेऽसति विशिष्टे न विषये कार्यमिष्यते267
अथ क्रियैव प्राक्कार्यात्सिद्धं नो यत्समीहितम् ॥६१०॥

संबन्धहेतोरभावपक्षे संबन्धासिद्धेर्विशिष्टो यो नियोगविषयः सिद्धस्तस्मिन्नसति नियोगो निर्विषयो न सिध्यतीत्याह। सिद्ध इति। नियोगानुप्रवेशात्पूर्वं क्रियैव सोमादिसंबन्धे हेतुरिति कल्पान्तरमाह। अथेति। क्रियाकारकान्वये कार्यमवधीर्याङ्गीकृतेऽन्यान्विते शक्तिरिति यदस्माकमिष्टं तत्सिद्धमित्याह। सिद्धमिति॥६१०॥

तदेतरत्तदर्थमित्येवं चैतत्समञ्जसम्॥
विषये यदि कार्यत्वं कार्यावगमपूर्वकम्॥६११॥

कार्ये कार्यान्तराभावात्कार्यबुद्धिः कुतो भवेत्॥
तदभावादनुष्ठेयो विषयोऽपि न ते भवेत्॥६१२॥

अन्यान्विते शक्तिरित्यत्र प्रतिपदाधिकरणगतं भाष्यंप्रमाणयति। तदेति। तत्र किं पदेन पदेन धर्म उच्यत उत सर्वैरेक इति संदि प्रतिपदं धर्मभेद इति प्रापय्य यदैकस्मादपूर्वं तदेतरत्तदर्थं भविष्यतीति भाष्यकारो राद्धान्तयति स्म तदपीतरान्विते शक्तिरित्यङ्गीकारे युक्तं स्यान्नहि पदानि योग्यान्वितार्थार्षकतां विनाऽन्यशेषतां गच्छन्तीत्यर्थः। कारकान्वयेऽपि क्रियायाः स्वगतकर्तव्यताया नियोगाधीनत्वं तस्मात्कर्तव्यतावे-

शादित्यत्रोक्तं तन्न कार्यमवधीर्यान्विते शक्तिरित्याशङ्क्याऽऽह। विषय इति। नियोगविषये यागादौ कार्यत्वं नियोगधीपूर्वकं चेन्नियोगेऽपि तद्धीस्तद्बुद्धिकृता स्यादविशेषान्न च नियोगे नियोगान्तरमतस्तत्र कर्तव्यत्वबुद्ध्यसिद्धिरित्यर्थः। नियोगकार्यत्वबुद्ध्यभावे लब्धं दोषमाह। तदभावादिति। नियोगकार्यताबुद्ध्यधीनत्वाद्धात्वर्थानुष्ठानस्येत्यर्थः॥६११॥६१२॥

कार्यार्थता ततश्रेष्ठा हीयेतानुष्ठितिंविना॥
अथ कार्यान्तराभावेऽप्यस्य कार्यत्वमिष्यते॥६१३॥

विषयस्यापि कार्यत्वाभावे प्राप्तं दोषमाह। कार्यार्थतेति। ततस्तस्य यागादेरनुष्ठानाभावात्तदनुष्ठानं विना नियोगार्थता तस्य तवेष्टा हीयेतैवेत्यर्थः। नियोगस्य यागादौ कार्यत्वे हेतोः स्वस्मिन्नपि तद्धेतुत्वसिद्धेर्नोक्तदोषपरंपरेति शङ्कते। अथेति॥६१३॥

विषयस्यापि कार्यत्वं स्वत एव भवेत्तथा॥
विषयोऽकार्यरूपत्वात्स्वसिद्धयै यद्यपेक्षते॥६१४॥

कार्यं तदपि विषयमीक्षेतासाध्यरूपतः॥
कार्येऽपि कार्यतैवं च भवेद्विषयहेतुका॥६१५॥

यथा स्वतो नियोगस्य कार्यत्वं तथा यागादेरपि तदस्तु कृतं नियोगेनेति दूषयति।विषयस्येति। धात्वर्थस्य शात्मनः स्वतोऽकार्यत्वात्तत्कार्यतायै नियोगापेक्षेति शङ्कते।विषय इति। कार्यमपि स्वतोऽकार्यत्वाद्धात्वर्थमपेक्षेतान्यथा धात्वर्थवैयर्थ्यात्तदपेक्षत्वेऽपि कार्यस्य स्वतश्चेत्कार्यत्वं कार्यापेक्षत्वेऽपीतरस्य स्वतस्तत्किं न स्यादिति साम्यं मत्वाऽऽह। तदपीति। नियोगस्य विषयापेक्षत्वे फलितमाह। कार्येऽपीति॥६१४॥६१५॥

अन्योन्याश्रयता च स्यान्नच कार्यप्रधानता॥
पुंव्यापारव्यपेक्षायां स्वसिद्धौ कार्यमुच्यते॥६१६॥

नियोगस्य विषयाधीनकार्यत्वेऽपि विषयस्य कार्यत्वं नियोगाधीनमित्येतत्तावदुपगतमित्याशङ्क्याऽऽह। अन्योन्येति। नियोगकार्यत्ववशाद्विषयकार्यत्वं ततश्चनियोगकार्यत्वमित्यन्योन्याश्रयतेत्यर्थः। चकारसूचितं दोषान्तरमाह। न चेति। विषयस्य नियोगाधीनकार्यतावत्तस्यापि विषयाधनिकार्यत्वे प्रधानता न स्याद्यागादेरविशेषादित्यर्थः। नियोगयागयोः साम्यमुक्त्वा यागस्यैव कार्यत्वमिति विशेषं वक्तुं कार्यलक्षणमाह। पुंव्यापारेति। स्वोत्पत्तौ व्यापार पेक्षायां सत्यां यद्भवति तत्कार्यमित्यर्थः॥६१६॥

यागादिः स च नो कार्यं स्वतःकार्यैकरूपतः॥
कार्यस्यैव न कार्यत्वमकार्थे कार्यतेष्यते॥६१७॥

उक्तलक्षणस्य यागादौ भावात्तस्यैव कार्यनेत्याह। यागादिरिति। अवधारणार्थेन

चकारेण भिन्नक्रमेण सूचितं व्यावर्त्यमाह। नो कार्यमिति। नियोगे कार्यलक्षणाभावे हेतुमाह। स्वत इति। नियोगस्य कार्यत्वं स्वतस्तद्वादिनामिष्टं न पुंव्यापाराधीनमन्यथा घटतुल्यत्वापातादतो नियोगस्योत्तलक्षणाभावान्न कार्यतेति भावः। तस्य कार्यत्वाभावे हेत्वन्तरमाह। नेति। नियोगो नाम कार्यत्वं न च तस्य तदेव कार्यत्वं स्वाश्रयापत्तेर्नापि कार्यत्वान्तरमनवस्थितेरित्यर्थः। कस्य तर्हि कार्यत्वं तदाह। अकार्य इति। स्वतोऽकार्यतारूपे यागादौ विधिना कार्यतेत्यर्थः॥६१७॥

न शौक्ल्येशुक्लतापत्तिः पटादेः सा विधीयते॥
घटकार्ययजत्यादि स्वस्वभावतया स्थितम्॥६१८॥

सिद्धसाध्यादिभेदेन स्वशब्देनाभिधीयते।
यदा तदा ध्वनेर्न स्यादज्ञातार्थावबोधने॥
विशेषः कश्चिदित्येवं न प्रवृत्तिर्विधेर्भवेत्॥६१९॥

कार्यत्वाधारे कार्यत्वायोगे दृष्टान्तमाह। न शौक्ल्य इति। अकार्ये कार्यत्वमित्यत्र दृष्टान्तः पटादेरिति। कार्यस्य कार्यत्वासंभवाद्यागादेरेव तद्योगात्तस्मात्कर्तव्यतावेशादिति पक्षस्यायुक्तत्वात्क्रियाकारकान्वयस्य नियोगानधीनत्वात्कार्यमनपेक्ष्यान्विते शक्तिरिति स्थिते फलितमाह। घटेति। कार्यं नियोगो यजतिः क्रिया गुणांशावस्थादि ग्रहीतुमादिपदम्। तत्र घटो वा नियोगो वा क्रिया वा गुणादिर्वा मृदात्मत्वनित्यसा-ध्यत्वचलनरूपत्वद्रव्यतन्त्रत्वाद्यसाधारणरूपेण स्थितः स्ववाचकशब्देन सिद्धेन साध्येन तच्छेषेण वा योग्येनान्वितो यदोच्यते तदा भूतार्थस्य कार्यार्थस्य च वाक्यस्याज्ञातज्ञापने विशेषो न कश्चिदित्येवं स्थिते नियोगाधीना प्रवृत्तिरित्येतन्न स्यादित्यर्थः॥६१८॥६१९॥

अवबुद्धे तु शब्दार्थे पुरुषार्थानुरोधतः॥
स्वत एव प्रवृत्तिः स्यान्न शब्दान्नार्थतस्तथा॥६२०॥

कथं तर्हि शब्दानन्तरभाविनी प्रवृत्तिरित्याशङ्क्य नरस्यापि रामादेवेत्यत्रोक्तं स्मारयति। अवबुद्धे त्विति। अज्ञातेऽर्थे शब्दाज्ज्ञाते तदनुषक्तपुरुषार्थाभिलाषादेव परनिरपेक्षात्पुरुषस्य प्रवृत्तिर्न लिङादिशब्दान्नहि तच्छ्राविणामपि तदर्थधीविधुराणां प्रवृत्तिर्दृष्टा नापि सा तदर्थान्नियोगात्तस्यैवासंमतेरित्यर्थः॥६२०॥

साधनादित्रयाद्वाक्यं पुरुषार्थवहिष्कृतम्॥
क एतत्साधयेद्धीमान्किं वा रूपमितीर्यताम्॥६२१॥

साध्यस्वभावनियोगमङ्गीकृत्य तस्य प्रवर्तकत्वाभाव उक्त इदानीं साध्यत्वमेव तस्यासिद्धमित्याह। साधनादीति। करणेतिकर्तव्यताभाव्यातिरिक्तं कार्यं न कृतिव्याप्यमित्यर्थः। भाव्यादन्यत्वं साधयति। पुरुषार्थेति। सुखं दुःखनिवृत्तिर्वा पुमर्थस्ततोऽन्य-

त्वान्नियोगस्य न भाव्यतेत्यर्थः। फलादिविलक्षणं कार्यं बुद्धिपूर्वकारिणो ‘निष्पादनायोग्यमिति फलितमाह। क इति। नियोगस्वरूपमपि दुर्निरूपमिति मन्वानो विकल्पयति। किं वेति। प्रेरणा वा नियोग आन्तरः प्रयत्नो वा क्रिया वा फलं वा कारकं वाऽन्यदेव वा किंचित्कालत्रयासंबन्धित्वेन वाच्यो वाऽतीन्द्रियो वा कश्चिदिति विमर्शार्थः॥६२१॥

न तावत्प्रेरणा कार्यं, कार्यार्थविषया हि सा॥
नाऽऽन्तरोऽपि प्रयत्नः स्यान्मानान्तरगतेस्तथा॥६२२॥

तत्राऽऽद्यं दूषयति। न तावदिति। शब्दव्यापारः प्रेरणा तस्या नियोगविषयत्वाद्विषयविषयिणोश्च भेदप्रसिद्धेरिति हेतुमाह। कार्येति। यजेतेत्युक्ते श्रोतुरान्तरो यत्नः स्वास्थ्यप्रच्युतिरूपो जायते स नियोग इति द्वितीयं प्रत्याह। नेति। यत्नस्य मानसत्वात्तद्रूपत्वे नियोगस्यापि तदापत्तेरपूर्वत्वायोगादनन्यलभ्यत्वाभावाच्चाशब्दार्थत्वापत्तेरिति हेतुमाह। मानान्तरेति॥६२२॥

न क्रिया कर्तृसंबन्धात्फलं नानिष्टरूपतः॥
कारकं नाप्यसिद्धत्वान्नाप्यन्यदनिरूपणात्॥६२३॥

** तृतीयं** निराह। न क्रियेति। क्रियायाः कर्तृसंबन्धित्वान्नियोगस्य च नियोज्यान्वयात्तयोर्वैलक्षण्यादिति हेतुमाह। कर्त्रितिचतुर्थंशिथिलयति। फलं नेति। नियोगस्यापुमर्थत्वे हेतुमाह। अनिष्टेतिपञ्चमं प्रत्याह। कारकं नेति। नियोगस्य साध्यत्वात्कारकस्य च सिद्धत्वादिति हेतुमाह। असिद्धत्वादितिषष्ठं मानाभावेन प्रत्याचष्टे। नापीति॥६२३॥

न च कालत्रयास्पर्शवाच्यत्वं कार्यलक्षणम्॥
घटशब्दाद्धटे मा भूत्कालास्पर्शेन कार्यता॥६२४॥

सप्तमं निराह। न चेति। कालत्रयासंबन्धो हि नियोगस्य शब्दतोऽर्थतो वा नाऽऽद्यइत्याह। घटेति। घट इत्युक्ते तस्यापि शब्दतः कालायोगान्नियोगता स्यात्सा मा भूदिति कृत्वा शब्दतो न तदस्पर्शो नियोगत्वोपयोगी नहि घटशब्दाद्धटे कालविशेषयोगो भात्यन्यथा घटोऽस्तीत्यादौ पौनरुक्त्यान्न च घटशब्दाद्घटस्य कालमात्रसंसर्गे भात्यपि तद्विशेषसंसर्गार्थमस्तीत्यादि पदमिति युक्तं, घटशब्दस्य पृथुबुध्नोदराकारार्थत्वात्कालमात्रसंसर्गे वृत्त्यभावादन्यथैकस्य शब्दस्यानेकार्थत्वप्रसङ्गादाकृतेः शब्दार्थत्वेऽपि व्यक्तेर्लक्ष्यत्वान्नेतरः कालेतरस्य कालायोगिनो जडस्यासत्त्वान्न च नियोगेतरस्येत्यपि प्रयोक्तव्यं तस्यैवासंमतत्वादिति भावः॥६२४॥

नियोगोऽपि नियोज्यस्य व्यापारः स कथं भवेत्॥
अतीन्द्रियोः लिङाद्यर्थः। सिद्धिश्चास्य कथं भवेत्॥६२५॥

अष्टमं निराचष्टे। नियोगोऽपीति। कर्तृव्यापारयागादिवन्नियोगोऽपि नियोज्यव्या पारः सन्नातीन्द्रियः, पुंव्यापारत्वाद्यागवन्न च साध्यवैकल्यं विष्णुक्रमणहविष्प्रक्षेपादेरध्यक्षत्वादित्यर्थः। किं तर्हि लिङाद्यालम्बनमित्याशङ्क्य परिशेपान्नियोगादन्यो लिङाद्यर्थोऽभ्युपेय इत्याह। लिङाद्यर्थ इति। नियोगस्वरूपं निरस्य साधकं निरस्यति। सिद्धिश्चेति॥६२९॥

सिद्धिर्विषयसिद्धौ चेन्नैवं स्यात्कर्मणा न हि॥
आप्त्युत्पत्त्यादिकं शक्यमनारोप्यस्वभावतः॥६२६॥

नियोगनिष्पादकं नेत्ययुक्तं निष्पन्नस्य यागादेरेव तथात्वादिति शङ्कते। सिद्धिरिति। परिहरति। नैवमिति। न हि पुंव्यापारेण नियोगस्योत्पत्त्याप्तिसंस्कारविकाराः शक्याः संपादयितुं तस्य नियोगवादिभिरनाधेयातिशय-त्वाङ्गीकारादन्यथा नित्यसाध्यत्वव्याघातादिति परिहारमेव स्फोरयति। कर्मणेति॥६२६॥

कार्यं स्वेनाऽऽत्मना सिद्धं पुमर्थं साधयेद्यदि॥
सर्वदा तस्य तादृक्त्वात्पुमर्थः सर्वदा भवेत्॥६२७॥

साधकाभावमुक्त्वा नियोगस्य साधकत्वाभावं वक्तुमुपक्रमते। तत्र क्रियासाध्ये फले स स्यादित्यत्र नियोगस्य स्वर्गादिसाधकत्वोक्तेर्न पुमर्थवहिष्कृततेत्याशङ्क्य कार्यं स्वरूपेण विद्यमानं स्वर्गादि साधयति पुंव्यापाराधीनलब्धसत्ताकं वेति विकल्प्याऽऽद्यमनुवदति। कार्यमिति। तदा स्वर्गादिः सदा स्यात्तद्धेतुनियोगस्य स्वरूपेण सदासत्त्वादिति दूषयति। सर्वदेति। न च स्वर्गादेः सामग्रीसापेक्षत्वान्न सदातनत्वं नियोगस्य स्वानुकूलनियोज्यलाभाय फलमुपनयतस्तदपेक्षितसामग्रीमाक्षिप्यैव तदाक्षेपकत्वादिति द्रष्टव्यम्॥६२७॥

पुंव्यापारप्रसिद्ध्याऽथ सिद्धं स्वार्थकरं मतम्॥
तस्यानाधेयरूपत्वान्न कदाचित्फलं भवेत्॥६२८॥

कल्पान्तरमादत्ते268पुंव्यापारेति। नियोगस्यानाधेयातिशयतायाः कर्मणा नहीत्यादावुक्तत्वात्तस्य पुंव्यापारादसिद्धेर्न कदाचिदपि तदधीनं स्वर्गादि स्यादित्याह। तस्येति॥६२८॥

संभाव्यमानसिद्धेर्हि यागादेः कार्यता मता॥
व्योमतत्पुष्पयोर्न स्यात्सिद्धात्यन्ताप्रसिद्धयोः॥६२९॥

नियोगस्यानाधेयातिशयत्वे हेत्वन्तरमाह। संभाव्यमानेति। पुंव्यापारात्संभावितोत्पत्तेर्भावस्यैव कार्यता न नियोगस्य तदसाध्यत्वादित्यर्थः। कथं नियोगस्य पुंव्यापारा-

साध्यत्वेनाकार्यतेत्याशङ्क्य सिद्धस्य व्योमवदकार्यतावदत्यन्तासिद्धत्वेनेष्टनियोगस्यापि तत्पुष्पवदकार्यता युक्तेत्याह। व्योमेति॥६२९॥

कर्तव्यो याग इत्येवं यागाद्भिन्ना यथेक्ष्यते॥
कर्तव्यं कार्यमित्येवं ततोऽपि व्यतिरिच्यते॥६३०॥

संभाव्यमानसिद्धेरपि यागादेर्न कार्यता स्वरूपं यागः कार्योपादानं कार्यमिति भेदप्रतीतेरतो नियोगस्यैव तत्स्वरूपमित्याशङ्क्याऽऽह। कर्तव्य इति। भिन्ना कार्यतेति शेषः॥६३०॥

कार्यकर्तव्यता कार्येत्येवमेवातिरिच्यते॥
तस्मान्न वस्तुधर्मोऽयं शब्दादेव प्रकर्षतः॥६३१॥

ननु यद्यपि नियोगस्य कार्यता न स्वरूपं तथाऽपि धर्मोयागादेस्तु दुःखात्मनो नासौ धर्मोऽपि तत्प्रतीतिस्तत्साध्यनियोगविषयेति तर्हि कार्यात्मनो नियोगस्य कार्यता कार्या न वेति विकल्प्याऽऽयं दूषयति। कार्येति। नियोगकार्यता कार्येत्युपगमे यागादेरिवनियोगादपि सा भिद्येत तदीया कार्यतेति भेदव्यपदेशात्तस्याश्च कार्यान्तरमित्यनवस्थेत्यर्थः। द्वितीये निषिद्धतुल्या नियोगकार्यता स्यादतो नियोगे कार्यतायाः स्वरूपत्वेन धर्मत्वेन वा योगात्काल्पनिकत्वमेवेति मत्वाऽऽह। तस्मादिति। नायं वस्तुनः स्वभावो धर्मो वेत्यत्र तमेव हेतुं स्पष्टयति। शब्दादिति। यागः कार्यः कार्यं कार्यमित्यादिशब्दादेव कार्यताया वस्तुनः सकाशात्पृथक्करणादित्यर्थः॥६३१॥

अतो यदेव साध्यार्थसाधनत्वेन गम्यते॥
वेदात्तदेव साध्यत्वात्कार्यं नान्यत्ततः पृथक्॥६३२॥

ननु स्वर्गादेः साधनत्वेन स्वर्गकामादिवाक्यादनुष्ठेयं गम्यमानं कार्यं कथं युक्त्याऽपास्यते तस्या वाक्याद्दौर्बल्यादित्याशङ्क्य नियोगस्वरूपसाधकाद्यभावाद्वैदिकं कार्यं यागाद्येव तस्यावान्तरापूर्वद्वारा फलित्वोपपत्तेः साध्यत्वान्न ततोऽन्यत्कार्यमित्याह। अत इति। यागादिस्वरूपत्वेन ततोऽन्यत्वेन वा तस्य दुर्निरूपत्वं मत्वा पृथगित्युक्तम्॥६३२॥

लिङादिः प्रेरणावाची कुतः कार्यमितीर्यताम्॥
विषयत्वेन नाऽऽक्षेपो भावार्थो विषयो मतः269॥६३३॥

वैदिकलिङादिगम्यो नियोगो न युक्तिशतेनापि शक्योऽपह्नोतुं नहि निर्विषयं लिङादि न च यागादेरेव तदालम्बनं तस्य प्रकृत्यर्थत्वेऽपि प्रत्ययार्थत्वाभावादित्याशङ्क्यभाट्टमतेनाऽऽह। लिङादिरिति। ननु प्रेरणायाः सविषयत्वात्तद्वाचिना लिङा-

दिना नियोगः स्ववाच्यविषयत्वेनाऽऽक्षिप्यते नेत्याह। विषयत्वेनेति। क्रियाविषयत्वात्प्रेरणाया न नियोगविषयतेत्यर्थः॥६३३॥

प्रेरणाऽपीह नैव स्यादज्ञातज्ञापनात्पृथक्॥
समस्तकार्यदोषोक्तिप्रसङ्गान्मित्यभावतः॥६३४॥

वार्तिककारमतेन नियोगे मानाभावमुक्त्वा समीहितोपायताया लिङाद्यर्थत्वं स्वमतं वक्तुं प्रेरणायास्तदर्थत्वं दुदूषयिषुः सा किमज्ञातज्ञापनादन्याऽनन्या वेति विकल्प्याऽऽद्यं दूषयति। प्रेरणेति। लिङादौ नियोगवत्साऽपि नाज्ञातज्ञापनादन्या वाच्याऽस्तीत्यत्र हेतुमाह। समस्तेति। साधनादित्रयाद्बाह्यमित्यादीनां सर्वेषां कार्ये दर्शितदोषाणामज्ञातज्ञापनादन्यप्रेरणायामपि कथनप्रसङ्गात्त्वदिष्टप्रेरणायां प्रमाणाभावाच्च न सास्तीत्यर्थः॥६३४॥

न स्वरूपं लिङादीनां प्रेरणाज्ञापकत्वतः॥
अन्योन्यरूपभेदेऽपि प्रेरणानुगमात्तथा॥६३५॥

किं चान्याऽपि सा लिङादीनां स्वरूपं वा या काचिच्छक्तिर्वा व्यापारविशेषो वा नाऽऽद्य इत्याह। नेति। लिङादीनां ज्ञापकत्वात्प्रेरणायाश्च तदभावान्न सा तत्स्वरूपमित्यर्थः। यजेत जुहोतीति लिङ्लेडादीनामन्योन्यं रूपभेदेऽपि प्रेरणायास्तदभावादेकत्वेन सर्वत्रानुगतेरेकस्य बहूनां च भेदान्न लिङादिस्वरूपं प्रेरणेति युक्त्यन्तरमाह। अन्योन्यमिति। लिङादीनां न स्वरूपं प्रेरणेत्येतत्तथेत्युच्यते॥६३५॥

शक्तेरनभिधेयत्वात्तव्द्यापारोऽपि नेष्यते॥
प्रेरकभावतो वेदे तव्द्यापारोऽपि नेरणा॥६३६॥

प्रेरणा लिङादिशक्तिरिति द्वितीयं निरस्यति। शक्तेरिति। लिङादिवाच्या प्रेरणा तद्वादिभिरिष्टा तच्छक्तित्वे च तस्याः शक्तिशक्तिमतोरभेदे न वाच्यत्वमेकत्र वाच्यवाचकत्वायोगाद्भेदेऽपि प्रयोजकत्वान्न वाच्यता नहि दाहप्रयोजकीभूता शक्तिर्दहनशब्देनोच्यते तन्न प्रेरणा लिङादिशक्तिरिति भावः। तृतीयेऽपि व्यापारविशेषो लिङादीनां वा प्रेरकस्य वा नाऽऽद्य इत्याह। तव्द्यापारोऽपीति। लिङादिव्यापारो हि स्पन्दो वा यत्नो वा नाऽऽयस्तेषां विभुत्वेन तद्गुणत्वेन वा मूर्तत्वाभावात्तदनुविधायिस्पन्दायोगान्नेतरो यत्नस्य चेतनगुणस्याचेतनेषु तेष्वसंभवान्नापि तेषां व्यापारान्तरं तज्जन्यस्तज्जन्यजनको व्यापार इति लक्षणाक्रान्तस्य तस्यानिरूपणादिति भावः। प्रेरकोऽपि पुरुषो वेदो वाऽऽद्ये वेदस्यापौरुषेयत्वात्तत्र प्रेरकाभावात्तदीयव्यापारविशेषासिद्धिस्तथा च तत्र प्रेरणाभावान्निर्विषयो लिङादिः स्यादित्याह। प्रेरकेति॥६३६॥

अतः समीहितोपायतया वस्त्ववबोधयन्॥
अबुद्धं प्रेरको वेदो ज्ञापना प्रेरणा मता॥६३७॥

अज्ञातज्ञापनादन्या प्रेरणेत्यसंभवात्ततोऽनन्या सा प्रेरकश्च वेद इति पक्षावङ्गीकरोति। अत इति॥६३७॥

तथा च वस्तुयाथात्म्यज्ञापनेन प्रमाणता॥
न प्रेरकतया सा स्यात्प्रत्यक्षादेरनीक्षणात्॥६३८॥

अज्ञातज्ञापना प्रेरणा वेदश्व तद्धेतुरिति सिद्धेऽपि प्रवर्तकतया वेदप्रमाण्यात्कथं। त्वत्पक्षसिद्धिरित्याशङ्क्याऽऽह। तथा चेति। प्रत्यक्षादेः प्रेरकत्वादर्शनादज्ञातज्ञापकत्वेनैव प्रामाण्यवद्वेदस्यापि प्रामाण्यं न प्रेरकत्वेनेत्यर्थः॥६३८॥

निष्पादितनियोगस्य वेदप्रामाण्यतो यथा॥
नियमेन फलं तद्वत्साधनानुष्ठितेर्भवेत्॥६३९॥

नियोगप्रेरणयोर्लिङाद्यर्थत्वाभावेऽपि कथं समीहितसाधनतायास्तदर्थतेत्याशङ्क्याऽऽह। निष्पादितेति। यथा नियोगवादे धात्वर्थानुष्ठानादुत्पादितनियोगस्य स्वर्गकामादिवाक्यात्फलमावश्यकं तथाऽनुष्ठितस्य यागादेरपि तद्बलादेवापूर्वावान्तरव्यापारद्वारा फलनियमः। अतो लिङाद्यर्थो यागादेरिष्टोपायतेति शक्यं वक्तुमित्यर्थः॥६३९॥

विसंवादोऽपि नाऽऽशङ्क्यो नियोगार्थे यथा तथा॥
वैदिकत्वादुपायेऽपि नृतन्त्रे व्यभिचारिता॥६४०॥

ननु यागादेः स्वर्गाद्युपायत्वं लिङाद्यर्थश्चेत्तदनुष्ठानानन्तरं स्वर्गादिना भाव्यं भुजिफलस्य तृप्तेरानन्तर्योपलम्भा270त्तत्र चानन्तरफलादर्शनात्फलोपायतायास्तदर्थत्वायोगादन्यस्य च तदर्थस्यानिष्टत्वादप्रामाण्यं स्वर्गकामादिवाक्यस्य स्यात्तत्राऽऽह। विसंवादोऽपीति। यथा नियोगे लिङाद्यर्थेऽनन्तरफलानुपलम्भेऽपि वैफल्यं वाक्यस्यामानत्वं वा न शङ्क्यते तथा यागादावपि तदर्थे समीहितोपाये विसंवादो नाऽऽशङ्कामर्हति तत्रोपायत्वस्य वेदैकगम्यत्वात्तस्मात्फलोपायत्वमेवार्थो लिङादेरित्यर्थः। यागादेरुपायत्वस्य वैदिकत्वेऽपि कथं न विसंवादशङ्केत्याशङ्क्याऽऽह। नृतन्त्र इति। पौरुषेये वाक्ये फलादिव्यभिचारदृष्टेर्लोके विसंवादशङ्कायामपि न सा वेदे युक्ता तस्यापौरुषेयस्यादोषत्वादित्यर्थः॥६४०॥

नानन्तरफलो यागो दृष्टो लोकेऽपि हि क्वचित्॥
अतः सामान्यतो दृष्टं क्रियात्वादित्यदूषणम्॥

६४१॥

ननु यागादिक्रियाऽनन्तरफला क्रियात्वान्मर्दनवदित्यानन्तर्यं फलस्यानुमीयते तथाच तदनुपलम्भे कथं विसंवादशङ्का नावतरेन्नेत्याह। नेति। यागशब्देन क्रियोच्यते। मर्दनादौ फलानन्तर्येऽपि न सर्वा क्रियाऽनन्तरफला लोके दृष्टा सेवादावदृष्टेोरित्यर्थः। तथाऽपि किमनुमानदूषणमनैकान्त्यमित्याह। अत इति। यागादौ क्रियात्वं दृष्ट्वा क्रियात्वादिति यदनुमानं तन्न दोषावहं सेवादौ व्यभिचारादित्यर्थः॥ ६४१॥

स्वसामर्थ्याद्यथा कार्यं कालास्पृष्टं प्रभाषते॥
लिङादिर्यागमप्येवं वक्ष्यतीत्यविशिष्टता॥६४२॥

ननु यागादिः स्वर्गाद्युपायो लिङादिवाच्यश्चेत्तस्य कालसंबन्धोऽस्ति न वा। आये भूतादिकालयोगिनो नानुष्ठेयता द्वितीये शब्दतः कालास्पर्शे घटादितुल्यताऽर्थतस्तदस्पर्शे त्वसत्त्वमुक्तमत आह। स्वसामर्थ्यादिति। अस्ति तावन्नियोगयागयोस्तुल्यता लिङादिना स्वशक्त्या नियोगवद्यागस्यापि कालास्पर्शिनो वचनान्न च कालायोगे यागस्यासत्त्वमिष्टोपायत्वाकारेण तदयोगेऽपि स्वरूपेण तद्योगान्नियोगस्य तु स्वरूपेणापि कालायोगितेति विशेषो न चेष्टोपायताविशिष्टयागस्य कालेतरजडस्य कालायोगादसत्त्वं तस्य स्वर्गकामादिवाक्यीयत्वान्न च नियोग एव तदीयस्तस्मिन्नलौकिके लिङादेरशक्यसंगति- त्वान्न च केवलस्य वाक्यीयत्वं विशिष्टस्य पदशक्तिविषयत्वं वैपरीत्यप्रसङ्गालक्षणायाश्चानिष्टत्वाल्लौकिकी तु समीहितोपायता लिङादिशक्तिविषयोऽर्थान्तरस्पृष्टा लौकिकात्मना सैव वाक्यतात्पर्यगम्येति भावः॥६४२॥

साक्षादेवं च संबन्धः साध्यसाधनयोर्भवेत्॥
नातिरिक्तलिङाद्यर्थव्यवधानविडम्बना॥६४३॥

यागादेरिष्टोपायत्वस्य लिङाद्यर्थत्वे हेत्वन्तरमाह। साक्षादिति। यागादेरिष्टोपायत्वस्य लिङाद्यर्थत्वे सति साध्यसाधनयोरव्यवहितः संबन्धः सिध्यति नियोगस्य तदर्थत्वे तेन यागस्वर्गयोर्व्यवधानरूपा विडम्बना स्यात्सा चायुक्ता न ह्यव्यवहिते संबन्धे व्यवहितं रोचयते गौरवादित्यर्थः॥६४३॥

साक्षादसति संबन्धे पारंपर्यं, न तु क्वचित्॥
गतौ सत्यां, तदप्यत्र नान्यत्रेवोपलभ्यते॥६४४॥

अरुणया क्रीणातीत्यत्र व्यवहितोऽपि संबन्धः स्वीकृतस्तथा स्वर्गकामवाक्येऽपि स्यादित्याशङ्क्याऽऽह।साक्षादिति। अव्यवधानेन संबन्धेऽनुपपन्ने व्यवधानमिष्यते नाव्यवहितसंबन्धसंभवे क्वचिदपि पारंपर्यमिष्टं तदपि स्वर्गकामादिवाक्ये न शक्यमुपगन्तुमरुणया क्रीणातीतिवदप्रतीतेरित्यर्थः॥६४४॥

श्रुत्या271क्रयाभिसंबन्धो272 व्यवच्छिद्यैव साधनम्॥
अरुणः साधको दृष्टो नानपेक्षो वृथा च सः॥६४५॥

वैधर्म्यदृष्टान्तं प्रपञ्चयति। श्रुत्येति। अरुणया क्रीणातीत्यत्र तृतीययाऽरुणो गुणः क्रयणसंबन्धोऽपि साधनं पशुं विशेष्यैव सोमक्रयस्य साधकोऽवगतो न द्रव्यानपेक्षो गुणः क्रयणं साधयत्यन्यथा गुणो वृथा स्यात्तन्मात्रस्य सर्वत्रासाधकत्वात्समुच्चयः कुतो

द्रव्यगुणवदित्यत्र चारुणाधिकरणमवतार्यैतत्प्रतिपादितं न चैवं स्वर्गकामादिवाक्ये व्यवधानधीरव्यवहितसंबन्धसंभवस्योक्तत्वादित्यर्थः॥ ६४५॥

यागः कार्याभिसंबन्धो273ऽप्यनुत्पाद्य फलं न ते॥
कथंचित्साधयेत्कार्यं तच्च नास्तीत्यसाधकः॥६४६॥

यागादेः स्वर्गादिनाऽन्वयो न नियोगेनेत्युक्तमिदानीं नियोगेनान्वयमुपेत्यापि दोषमाह। याग इति। यागो नियोगान्वितोऽपि तमुत्पादयन्नवान्तरव्यापारेण रहितः सहितो वा नाऽऽयो निर्व्यापारकरणानङ्गीकाराद्वितीये फलोत्पत्तिर्वा व्यापारान्तरं वाऽवान्तरव्यापारः। आद्ये स्वर्गमनुत्पाद्य यागो न कथंचिदपि त्वदिष्टं नियोगं साधयेन्नहि निर्व्यापारं करणं कार्याय पर्याप्तं न च स्वर्गे यागानन्तरं कस्यचिदृष्टोऽतो यागो नियोगस्यासाधकः स्यादित्यर्थः॥ ६४६॥

नचान्या274 व्यापृतिस्तस्य कार्यसिद्धौ त्वयेष्यते॥
फलानुत्पत्तितस्तस्मान्न कार्येणापि संगतिः॥६४७॥

द्वितीयमाशङ्क्याऽऽह। न चेति। स्वर्गादिसिद्ध्यतिरेकेण नियोगसिद्धिमुद्दिश्य यागादेर्व्यापारान्तरं त्वया नेष्यतेऽन्यथा स्वर्गादेरेव ततः संभवान्नियोगवैयर्थ्यादित्यर्थः। अस्तु तर्हि फलोदयद्वारा यागादेर्नियोगसिद्धिरित्याशङ्क्य तच्च नास्तीत्युक्तं व्यनक्ति।फलेति। नहि तस्माद्यागादेरनन्तरं फलमुपलब्धमतस्तद्वाराऽपि नियोगेन यागादिः साधकतया नान्वेतीत्यर्थः॥६४७॥

अथ शास्त्रप्रमाणत्वाददृष्टाऽप्यभ्युपेयते॥
फलोत्पत्तिर्ममाप्येवं तथा सति भविष्यति॥६४८॥

यागादेरनन्तरमदृष्टाऽपि फलोत्पत्तिः स्वर्गकामादिवाक्यप्रामाण्यादिष्टा तेन तद्द्वारा नियोगजनकत्वमपि तस्य युक्तमिति चोदयति। अथेति। शास्त्रप्रामाण्यावष्टम्भे समीहितसाधनतावादिनोऽपि तद्बलादनन्तरमदृष्टाऽपि फलोत्पत्तिर्भविष्यतीति नियोगवैयर्थ्यमित्याह। ममेति॥६४८॥

मम शास्त्रप्रमाणत्वात्पश्चादपि भवेत्फलम्॥
पूर्वं तु भवतो न्याय्यं तदभावे ह्यसाधकम्275॥६४९॥

स्वपक्षे विशेषं दर्शयन्नियोगकल्पनावैयर्थ्यं समर्थयते। ममेति। इष्टोपायतावादे यागादिव्यवहितकालेऽपि स्वर्गादिः276 स्यात्स्वर्गकामादिवाक्यप्रामाण्यादित्यर्थः। नियोगवादेऽपि तत्प्रामाण्यस्य तुल्यत्वान्न विशेषसिद्धिरित्याशङ्क्याऽऽह। पूर्वं त्विति। नियोगोत्पत्तेरर्वाग्यागादेरनन्तरमेव फलं नियोगवादे युक्तं स्वर्गाद्यभावे यागादेरवान्तरव्यापारशून्यस्य नियोगासाधकत्वादवान्तरव्यापारान्तराङ्गीकारे च नियोगवैयर्थ्यस्योक्तत्वान्न

साधकहीनः सं सिध्यति धात्वर्थवैयर्थ्याच्छास्त्रप्रामाण्यलम्बने च यागादेरेव फलसिद्धेर्व्यर्था नियोगकल्पनेति भावः॥६४९॥

कार्यसिद्ध्या फलावाप्तावशेषफलसंभवः॥
सकृत्करण एव स्यात्कार्यस्याभेदतस्तव॥६५०॥

यागादिसिद्ध्या नियोगसिद्धिस्ततः स्वर्गादीति निरस्तमतमङ्गीकृत्य दोषमाह। कार्येति। यदा यागादिर्नियोगमुत्पादयति स च स्वर्गं तदा सकृत्करणे नियोगसिद्धेस्तस्य चैक्यादपर्यायमेव सर्वफलसिद्धिः स्यादतो बहुकर्मानुष्ठानमेकस्याऽऽवृत्तिश्चव्यर्थेत्यर्थः॥६५०॥

अनुबन्धाभिसंबन्धात्फलं चेत्स्याद्व्यवस्थया॥
तत एव न कार्यात्स्यात्तदा तद्भावभावतः॥६५१॥

नियोगस्य स्वरूपेणैक्येऽपि यागाद्युपाधिभेदेन भेदात्फलव्यवस्थासंभवान्नोक्तं दूषणमिति शङ्कते। अनुबन्धेति। यतो नियोगभेदस्तत एव फलं तद्व्यवस्था च स्यादनुबन्धभेदे तद्भावादन्यथा चाभावादतस्तस्मिन्पक्षे नियोगवैयर्थ्यमित्याह। तत इति॥६५१॥

औपाधिकश्च मिथ्या स्यात्साध्यसाधनलक्षणः॥
व्यवहारः श्रुतेर्ज्ञातः परमार्थैकवादिनः॥६५२॥

उपाधिभेदान्नियोगं भिन्दानस्य दोषान्तरमाह। औपाधिकश्चेति। उपहितो नियोगः साधनं तेन स्वर्गादि साध्यमित्युक्ते स्फटिकलौहित्यवदुपहितस्य मिथ्यात्वात्तदायत्तस्वर्गादेरपि तथात्वं परमार्थमेव सर्वमिति वादिनश्च श्रौतो व्यवहारः साध्यसाधनात्मा मृषेत्यनिष्टमित्यर्थः॥६५२॥

एवं ते कर्मकाण्डेऽपि कार्यं तावन्न युज्यते॥
ऐकात्म्ये तु यथा नास्ति विशेषेणोच्यते तथा॥६५३॥

कर्मकाण्डे नियोगाभावेऽपि ज्ञानकाण्डे स्यादित्याशङ्कय वृत्तं कीर्तयति। एवमिति। अपिस्तत्र नियोगासंभावनार्थः। वर्तिष्यमाणमर्थं सौकर्यार्थं संगृह्णाति। ऐकात्म्येत्विति। यथा ज्ञानकाण्डे नियोगो न घटते तथा विशेषहेतुनोच्यतेऽनन्तरसंदर्भेणेत्यर्थः॥६५३॥

प्रतिपत्तिविधिस्तावन्नाऽऽत्मा द्रष्टव्य इत्ययम्॥
तस्य भावार्थनिष्ठत्वाद्वस्तुन्यनुपपत्तितः॥६५४॥

आत्मा द्रष्टव्य इति श्रुतेर्न ज्ञानकाण्डे नियोगः शक्यो निरसितुमिति चेत्तत्र वस्तुनि वा नियोगस्तज्ज्ञाने वेति विकल्प्याऽऽद्यं दूषयति। प्रतिपत्तीति। आत्मा द्रष्टव्य इत्ययं विधिरपि प्रतिपत्तिविषयो न वस्तुविषय इति। अत्र हेतुमाह। तस्येति। तत्रैव हेत्वन्तरमाह। वस्तुनीति॥६१४॥

सिद्धेऽसिद्धेऽथ वैकात्म्ये विधिर्नैवोपपद्यते॥
नाकाशे नापि तत्पुष्पे पुंव्यापारानपेक्षता277॥६५५॥

अनुपपत्तिं साधयति। सिद्ध इति। ऐकात्म्ये नित्यसिद्धे विध्यसंभवे दृष्टान्तमाह। नेति। विधिरिति पूर्वेणान्वयः। ऐकात्म्यं चेदसिद्धं तथाऽपि न तत्र विधिरित्यत्र दृष्टान्तमाह। नापीति। उभयत्र हेतुमाह। पुंव्यापारेति। सतोऽसतो वा पुरुषव्यापारायोग्यत्वान्नोभयत्रापि विधिस्तद्योग्ये तदुपगतेरित्यर्थः॥६५९॥

न विधिर्दर्शनेऽपि स्यादन्योन्याश्रयदोषतः॥
दर्शनाद्विधिसंसिद्धेर्विधेर्दर्शनसिद्धितः॥६५६॥

वस्तुन्यसाध्ये विध्यभावेऽपि दर्शने भावार्थे विधिरिति विकल्पान्तरमाशङ्क्य तन्मात्रे ब्रह्मविशेषिते वेति विकल्प्याऽऽद्यं प्रत्याह। न विधिरिति। दर्शनेऽपि तन्मात्रे न विधिर्घटादिज्ञानेऽपि प्रसङ्गादित्यर्थः। न ब्रह्मविशेषितेऽपि तस्मिन्विधिरित्यपिना प्रतिज्ञाय हेतुमाह। अन्योन्येति। तमेव दोषं दर्शयति। दर्शनादिति। ब्रह्मविशेषितदर्शनस्य विधेयत्वे ब्रह्म प्रतिपन्नं वाच्यं विशेषणाग्रहे विशिष्टादृष्टेस्तामन्तरेण तत्र विध्यसिद्धेरतो ब्रह्मणि ज्ञाते तज्ज्ञाने विधिस्ततस्तज्ज्ञानमित्यन्योन्याश्रयान्न विशिष्टज्ञाने विधिर्न च वेदान्तेषु विध्युपगमे वस्तुनि मानतोभयपरत्वे वाक्यभेदादिति भावः॥६५६॥

न च यूपादिवच्छक्यं वेदेनैव समर्पणम्॥
ऐकात्म्यस्य स्वतः सिद्धेः साध्यत्वाद्यूपवस्तुनः॥६५७॥

अथ यथा यूपादि278र्लौकिकोऽर्थो यूपे पशुं बनातीत्यादिविधिशेषतया यूपं तक्षतीत्यादिनाऽर्प्यते तथा ब्रह्मणोऽपि द्रष्टव्यविधिशेषत्वेन सत्यज्ञानादिवाक्येनार्पणमिति विधिपरत्वे वेदान्तानां वस्तुमानता न च वाक्यभेदो वस्तुन्यवान्तरतात्पर्यात्तत्राऽऽह। न चेति। ब्रह्मणो विधिशेषत्वेनासमर्पणे हेतुमाह। ऐकात्म्यस्येति। यूपादेस्तच्छेषतयाऽर्पणे हेतुमाह। साध्यत्वादिति॥६५७॥

सिद्धं चेद्दर्शयेद्वेदः प्रसिद्धं दर्शनं तथा॥
तन्निष्ठंच भवेद्वाक्यं व्यर्थता च विधेस्तदा॥६५८॥

कूटस्थनित्यं ब्रह्म विधिशेषतया वेदो नार्पयतीत्युक्तं विपक्षे स्वपक्षसिद्धिमाह। सिद्धं चेति। दर्शनं वेदः सिद्धमप्यर्पयतीति स्वमतमिति यावत्। यथोक्तार्थस्य विधिपरवाक्यादेव सिद्धौ कथं स्वपक्षासिद्धिस्तत्राऽऽह। तन्निष्ठंचेति। षड्विधलिङ्गेभ्यो ब्रह्मपरमेव सत्यादिवाक्यं न विधिपरमतो वेदान्तानामवान्तरतात्पर्यं वस्तुनत्यियुक्तमिति भावः। वाक्यस्य वस्तुपरत्वे तज्ज्ञाने विधिवैयर्थ्यामिति फलितमाह। व्यर्थतेति॥६५८

सर्वमात्मेति वाक्यस्य न च वस्तुन्यसंभवः॥
येनार्थस्यासमाप्तत्वात्क्रियेताध्याहृतिः पदे॥६५९॥

विधिं विना वाक्यस्य वस्तुबोधित्वायोगान्न तद्वैयर्थ्यमित्याशङ्क्याऽऽह। सर्वमिति। वाक्यस्य विधिं विहाय न वस्तुनि बोधकत्वासंभवो व्युत्पन्नस्य वाक्यश्रवणे तदर्थबुद्धेरित्यर्थः। तत्रापि विधिपदमध्याहर्तव्यं तद्वतो वाक्यस्यार्थबोधकत्वदर्शनादिति चेन्नेत्याह। येनेति। येन वस्तुबोधित्वासामर्थ्येन विधिविधुराद्वाक्याद्वस्तुनोऽप्रतिपत्तेरध्याहारो विधिपदे क्रियेत न तथा विधिशून्यवाक्यस्य वस्तुबोधित्वासामर्थ्यमधिकारिणो वाक्यात्तद्धीदर्शनादतोऽध्याहारासिद्धिरित्यर्थः॥६५९॥

आत्मा ब्रह्मेति विज्ञानं विधिं नैव व्यपेक्षते॥
यस्मात्तच्छ्रुतवाक्यस्य स्वयमेवोपजायते॥६६०॥

किंच ब्रह्मज्ञानं शाब्दं वा विधीयते भावनारूपं वा साक्षात्कारलक्षणं वाऽऽद्येऽपि तदुत्पत्तये वा विधिरुत्पन्नस्य विषयनिश्चयाय वा वाक्यतात्पर्याय वा ज्ञानस्य पुरुषार्थत्वाय वा ब्रह्मणो मानान्तरायोग्यत्वाय वा पदार्थसंसर्गाय वेति विकल्प्य प्रथमं प्रत्याह। आत्मेति॥ ६६०॥

यजेतेतिविधिज्ञानं न विध्यन्तरमीक्षते॥
विध्यन्तरेऽनवस्था स्यान्न चायं कर्मणि स्थितेः॥६६१॥

अधीतवेदस्य विध्यनपेक्षाद्वाक्यादेवाऽऽत्मा ब्रह्मेति ज्ञानमुत्पद्यते तत्र नार्थवान्विधिरित्यत्र दृष्टान्तमाह। यजेतेति। स्वर्गकामवाक्ये यागकार्यताज्ञानमेतद्वाक्यातिरेकेण स्वोत्पत्त्यर्थं विध्यन्तरं नापेक्षते तस्मिन्नपेक्ष्यमाणे तदर्थज्ञानार्थमपि विध्यन्तरापेक्षायामनवस्थानान्न चायमेव यागकार्यताविधिस्तेनापेक्ष्यते तस्य कर्मविषयत्वादतो वाक्यादेव यागकार्यताज्ञानं तथा ब्रह्मज्ञानमपीत्यर्थः॥६६१॥

प्रतिपन्ने विधेयार्थे प्रवृत्तिः फलमिष्यते॥
प्रवृत्तेश्चविधिज्ञानमेवमन्योन्यसंश्रयः॥६६२॥

शाब्दं ब्रह्मज्ञानमुत्पत्तये विधेयमित्यत्र दोषान्तरमाह। प्रतिपन्न इति। यागादौ धात्वर्थेऽधिगते प्रवृत्तिर्विधिफलमित्युत्सर्गः। अस्तु ब्रह्मज्ञानेऽपि तथेत्याशङ्क्याऽऽह। प्रवृत्तेश्चेति। ब्रह्मणि ज्ञाते तद्विशेषिते ज्ञाने प्रतिपन्ने विधिस्ततश्च प्रवृत्तेर्विधेयज्ञानविशेषणं ब्रह्मज्ञानमित्येवमन्योन्याश्रयान्न तत्र विधिर्न विधिर्दर्शनेऽपि स्यादित्यत्रान्योन्याश्रयत्वमुत्पत्तावुक्तमिह तु ज्ञप्ताविति विशेष इत्यर्थः॥ ६६२॥

बोधेऽस्मिञ्शब्दतो जाते न प्रवर्त्योऽफलत्वतः।
अनुत्पन्नेच नितरां प्रवृत्तेर्हेत्वसंभवात्॥६६३॥

किंच ब्रह्मणि ज्ञानं शब्दाज्जायते न वाऽऽद्ये तत्र विधिना पुरुषो न प्रवर्त्योविधि-

कृत्याभावादित्याह। बोधेऽस्मिन्निति। द्वितीये सुतरामेव विधिना पुरुषो न प्रवर्त्यो विषयाभावादित्याह। अनुत्पन्ने चेति। नितरामित्युक्तमतिशयमेवाऽऽह। प्रवृत्तेरिति। ज्ञानस्य प्रवृत्तिहेतुत्वात्तस्याभावान्न प्रवृत्तिर्नहि विधिरपि ज्ञानं विना प्रवर्तयतीत्यर्थः॥६६३॥

अथ निश्चयसिद्ध्यर्थमुत्पत्रेऽपि प्रवर्त्यते॥
स निश्चयो वः किं शब्दादथान्यस्मादितीर्यताम्॥६६४॥

शब्दाद्ब्रह्मणि ज्ञाने जातेऽपि विषयनिश्चयाय विधिना तत्र प्रवर्त्यते पुमानिति द्वितीयमादत्ते। अथेति। ज्ञानफलं निश्चयो युष्माकं शब्दादेव जायते मानान्तराद्वेति वाच्यमित्याह। स इति॥६६४॥

शब्दाद्यदि तदेवेदमायातं पूर्वदूषणम्॥
अन्यस्मिन्निष्यमाणे च सापेक्षत्वं प्रसज्यते॥६६५॥

तत्राऽऽद्यमनूद्य विधिवैयर्थ्यं स्मारयति। शब्दादिति। निश्चयजनके मानान्तरे तत्सापेक्षत्वं वेदस्य पुंवचोवदापतेत्तथा चानपेक्षत्वकृतमस्य स्वतः प्रामाण्यं हीयेतेति द्वितीयं दूषयति। अन्यस्मिन्निति॥६६१॥

अविवक्षितनुत्त्यर्थमथात्र विधिरिष्यते॥
अयं ज्ञेयोऽर्थ इत्युक्तौ स्याद्विवक्षितधीर्यतः॥६६६॥

वाक्यस्य वस्तुनि तात्पर्यार्थं तज्जन्यज्ञाने विधिरिति तृतीयं निरस्यति। अविवक्षितेति। ज्ञाने विध्यम्युपगमेऽपि कथमर्थे वाक्यस्य तात्पर्यधीस्तत्राऽऽह। अयमिति। ज्ञातव्योऽयमर्थ इत्यर्थे ज्ञानकर्तव्यत्वोक्तौ सत्यां वाक्यस्यार्थे तात्पर्यधीर्यतो भवत्यतो वाक्यीये ज्ञाने तत्तात्पर्यसिद्धये विधिरित्यर्थः॥६६६॥

नैवमुत्सर्गतो यस्माच्छब्दानां लोकवेदयोः॥
विशिष्टार्थैकनिष्ठत्वं स्वतो न विधिहेतुतः॥६६७॥

विधिबलादर्थपरत्वं शब्दस्येत्येतन्निरस्यति। नैवमिति। पदस्य वा विधितोऽर्थपरत्वं वाक्यस्य वा नाऽऽद्य इत्याह। उत्सर्गत इति। पदमात्रस्य बाधकाभावे स्वारसिकमन्वितविषयत्वं न विधिकृतमित्यर्थः॥६६७॥

अविशिष्टश्च वाक्यार्थस्तथा लौकिकवैदिक—
वाक्ययोर्गम्यते यस्माद्विधिर्नातो विवक्षितः॥६६८॥

मन्त्राधिकरणसिद्धान्तन्यायेन द्वितीयं प्रत्याह। अविशिष्टश्चेति। पदमात्रस्यान्वितविषयत्ववद्वाक्यमात्रस्यापि स्वभावतो विशिष्टार्थपरत्वान्न विधितस्तात्पर्यमित्यर्थः॥६६८॥

अपि दृष्टार्थतैकात्म्ये कर्मस्विव न भिद्यते॥
वेदाधीतिविधेस्तस्माद्विधिरत्र निरर्थकः॥६६९॥

किं चाध्ययनविधेर्दृष्टफलता कर्मकाण्डवज्ज्ञानकाण्डेऽपि तुल्या तथा च ततो वेदमात्रस्यार्थपरत्वे संभवति ब्रह्मज्ञाने विधिर्नोपयुज्यते तं विनैव वेदान्तानामध्ययनविधितः स्वार्थे तात्पर्यादित्याह। अपीति॥६६९॥

विधेर्विध्यन्तरेऽभीष्टे कृत्स्नोऽर्थोऽप्यविवक्षितः॥
पूर्वोक्तेनैव न्यायेन नैव कल्प्यो विधिस्ततः॥६७०॥

अध्ययनविधेर्वेदस्य स्वार्थपरत्वे तत्परत्वमौत्सर्गिकमित्युक्तं त्यक्तं स्यादित्याशङ्क्याम्युपगमं त्यजति। विधेरिति। अध्ययनविधेः स्वार्थपरत्वं विध्यन्तराद्वा स्वतो वाऽऽद्येऽनवस्थानादधीतिविधेस्तात्पर्यासिद्धौ स्वाध्यायमात्रं न स्वार्थपरं स्याद्द्वितीये वेदस्यैव स्वतस्तात्पर्यमस्तु व्यर्थोऽध्ययनविधिस्ततो नैवमुत्सर्गत इत्यादावुक्तन्यायेन शब्दमात्रस्यार्थपरत्वसिद्धेर्न तात्पर्यार्थं कल्प्यो ब्रह्मज्ञाने विधिरित्यर्थः॥६७०॥

मतं पुमर्थसिद्ध्यर्थं ज्ञानस्य विधिरिष्यते॥
फलस्य विध्यधीनत्वादुपेक्षाफलताऽन्यथा॥६७१॥

चतुर्थमुत्थापयति। मतमिति। यागादौ फलस्य विध्यधीनत्वाद्ब्रह्मज्ञानस्यापि फलवत्त्वोपगमात्पुमर्थसिद्धये तद्विषयो विधिस्तदनभ्युपगमे तस्याविवक्षितफलतेत्यर्थः॥६७१॥

ज्ञेयव्याप्त्यतिरेकेण न विज्ञानात्फलान्तरम्॥
इष्यते कर्मवन्नातस्तदर्थंविधिकल्पना॥६७२॥

ज्ञानफलं विषयनिश्चयो वाऽन्यद्वा नाऽऽद्यो निश्चयाय विधिरित्यत्रोक्तदोषान्न द्वितीय इत्याह। ज्ञेयेति। किंच फलान्तरं ज्ञेये ज्ञातरि वा नाऽऽद्यः कर्मफलस्य कर्तृगामित्ववज्ज्ञानफलस्यापि ज्ञातृनिष्ठत्वादतो ज्ञेयगतज्ञानफलाय न विधिकल्पनेत्याह। कर्मवदिति॥६७२॥

यदाऽपि मातरि फलं तदाऽपि विधिनाऽत्र किम्॥
मातृमानप्रमेयादौ तत्सिद्धेर्विधिना विना॥६७३॥

द्वितीयमनूद्य विधिवैयर्थ्यमाह। यदाऽपीति। तं विना ज्ञानफलस्य स्फुरणस्य मातरि साधकत्वेन सदा सिद्धेरित्यर्थः। मातृगतस्यैव फलस्य मेयादिसंबन्धार्थं ज्ञाने विधिरित्याशङ्क्याऽऽह। मात्रिति। यथा संवेदनं मानफलं मातृसाधकत्वेन विधिं विना भाति तथा मानमेयकर्तृकर्मादावपि तं विना स्वतस्तस्य सिद्धेर्व्यर्था विधिकल्पनेत्यर्थः॥६७३॥

अथापि कार्यविरहात्सिद्धार्थमनुवादकम्॥
वचो नैव प्रमाणं स्यात्तस्य मान्तरसंगतेः॥६७४॥

** पञ्चम**मवतारयति। अथापीति। उक्तविधचतुष्टयासंभवेऽपि विधान्तरेण विधिर्भविप्यतीति यावत्। नियोगादृते केवलं भूतार्थवचोऽनुवादकं सत्प्रमाणं नैव स्यादिति

योजना। कथं सिद्धार्थे वचोऽनुवादकं तत्राऽऽह। तस्येति। कार्यास्पृष्टभूतार्थस्याऽऽगमेतरमानयोग्यत्वात्तद्वाचि वचः स्यादनुवादकमित्यर्थः॥६७४॥

विध्यर्थाङ्गीकृतौ त्वेतदनपेक्षं प्रमाणताम्॥
अश्नुते मान्तराभावाज्ज्योतिष्टोमादिवाक्यवत्॥६७५॥

कथं तर्हि परित्दृत्यानुवादकतां भूतवाचिनो वचसो मानता तत्राऽऽह।विधीति। नियोगे मानान्तराभावात्तस्य लिङाद्यर्थस्य सिद्धार्थवाक्ये शेषत्वेना279ङ्गीकारे स्वरूपेण मानान्तरयोग्यस्यापि सिद्धार्थस्य नियोगस्पर्शित्वेन तदयोग्यत्वात्तदर्थं वचः स्वर्गकामादिवचोवदनपेक्षं मानं तस्माद्ब्रह्मणो मानान्तरायोग्यत्वाय तज्ज्ञाने विधिरित्यर्थः॥६७५॥

वस्तु मान्तरयोग्यं चेद्विधौ सत्यपि तत्तथा॥
अथ तन्मान्तरायोग्यं विध्यभावेऽपि तत्तथा॥६७६॥

ब्रह्म स्वरूपेण मानान्तरयोग्यं न वेति विकल्प्याऽऽद्यमनूद्य दूषयति। वस्त्विति। विधिना वस्तुनोऽन्यथयितुमशक्यत्वाद्विधिपक्षेऽपि वस्तुवाक्यस्यानुवादित्वेनाप्रामाण्याव्द्यर्थो विभिरित्यर्थः। द्वितीयमनुभाष्य विधिवैयर्थ्येन दूषयति। अथेति। तथाच विध्यस्पृष्टवस्तुवाद्यपि वचनमनपेक्षं मानमिति शेषः॥६७६॥

किं वाक्यस्यानुवादत्वं सिद्धेऽर्थे मान्तरेण वा॥
मिते तत्र न पूर्वस्मिन्सिद्धेऽप्यर्थेऽनुवादता॥६७७॥

यत्तु सिद्धार्थं वचोऽनुवादकमिति तन्निराकर्तुं विकल्पयति। किमिति। सत्यर्थे बोधकत्वेन प्रवृत्तवाक्यस्यानुवादकत्वं मानान्तरेण ज्ञाते वेति विकल्पार्थः। तयोर्मध्ये प्रथमे कल्पे विद्यमानेऽर्थे बोधकस्यापि वाक्यस्य नानुवादकतेत्याह। तत्रेति॥६७७॥

मानान्तरानधिगतं सिद्धं वस्त्ववबोधयत्॥
मानं किं नानपेक्षं स्यात्पुमर्थश्च स्वरूपतः॥६७८॥

सदर्थवादिवचसोऽनुवादकत्वा280योगमभिनयति। मानान्तरेति। आगमेतरमानास्पृष्टं सद्वस्तु बोधयद्वचोऽध्यक्षादिवदनपेक्षं मानं स्यादेवेत्यर्थः। सप्तद्वीपा वसुमतीत्यादाविवसिद्धार्थज्ञानात्पुमर्थाभावाद्विशुद्धं सिद्धं बोधयद्वाक्यं न प्रमेति चेनेत्याह। पुमर्थश्चेति॥ प्रत्यग्वस्तुनोऽनतिशयसुखत्वात्परमपुरुषार्थरूपं तन्न तद्विषयं वाक्यमप्रमेत्यर्थः॥६७८॥

पुंबुद्धिविषयो ह्यर्थो मानान्तरमपेक्षते॥
अभावात्पुरुषस्येह न तु सिद्धोऽपि वैदिकः॥६७९॥

विमतमनुवादकं सिद्धार्थवाक्यत्वान्नदीतीरफलसत्तावाक्यवदित्यनुमानाद्वेदान्तानामनुवादतेत्याशङ्क्याऽऽह।पुंबुद्धीति। दार्ष्टान्तिकवाक्यस्य पौरुषेयत्वाद्बुद्धिगम्यस्तदर्थो मानान्तरयोग्यत्वात्तदपेक्षते, तन्मानान्तरापेक्षया स्वार्थबोधकत्वमुपाधिरिति भावः। साधन-

व्याप्तिं निरस्यति। अभावादिति। अपौरुषेये वेदे प्रणेतुरभावाद्वैदिकोऽर्थः सिद्धोऽपि मानान्तरायोग्योऽतो न वेदान्तेषु तदपेक्षया स्वार्थबोधकत्वमित्यर्थः॥६७९॥

न च सिद्धत्वमात्रेण शङ्क्यते मान्तरं क्वचित्॥
शङ्ख्यमानस्य मानस्य तुल्या सापेक्षता यतः॥६८०॥

ब्रह्म मानान्तरगम्यं सिद्धत्वाद्धटवदित्यनुमानादुपाधेः साधनव्याप्तिरिति चेन्नेत्याह। न चेति। न हि घटादौ क्वचिदपि सिद्धत्वादेव प्रमान्तरं प्रविशति जडत्वस्य तत्र प्रयोजकत्वान्न च समव्याप्तिपक्षे कार्ये साध्याव्याप्तिस्तत्रापि मानान्तरप्रवेशस्य वक्ष्यमाणत्वादिति भावः। यद्यपि ब्रह्मणि मानान्तरप्रवेशोऽप्रमितस्तथापि शङ्क्यते281 शङ्काया निरङ्कुशत्वादतः संदिग्धा साधनव्याप्तिरित्याशङ्क्याऽऽह। शङ्क्यमानस्येति। शब्दस्य स्वार्थे शङ्क्यमानमानसापेक्षतावत्तस्यापि शब्दसापेक्षता तुल्या तथाच शङ्क्यमानमानान्तरापेक्षया किमिति शब्दोऽप्रमाणं शब्दापेक्षया तदेवामानं किं न स्यात्प्रत्यक्षस्य शब्दस्याशङ्कितस्य शङ्कितमानतो बलीयस्त्वादित्यर्थः॥६८०॥

न च सापेक्षताऽप्यस्ति मितेर्मानत्वतः क्वचित्॥
मान्तरानवबुद्धं हि बोधयन्मानमुच्यते॥६८१॥

किंच सिद्धार्थं वेदवाक्यं स्वार्थे मानं न वाऽऽद्ये सापेक्षताक्षतिर्मानत्वादेव क्वचिदपि तस्य तदभावादित्याह। न चेति। न द्वितीयोऽज्ञातं ज्ञापयतो वाक्यस्यामानत्वायोगादित्याह। मान्तरेति॥६८१॥

मानान्तरानपेक्षं चेन्मानं मेयंप्रबोधयेत्॥
मानमेव तदा तत्स्यान्नातोऽन्यन्मानलक्षणम्॥६८२॥

अज्ञातज्ञापकत्वेऽपि मानत्वं मा भूदिति चेन्नेत्याह। मानान्तरेति। यथोक्तं वाक्यं मानमेव तल्लक्षणवत्त्वादित्यर्थः॥६८२॥

अथ मानान्तरापेक्षं282 तन्मानं मेयबोधकम्॥
द्वयोरेकक्रियावेशात्तथाऽप्यन्यानपेक्षता॥६८३॥

सदर्थबोधि वाक्यमनुवादकमित्येतन्निरस्य मानान्तरेण मितेऽर्थे बोधकं वाक्यं तद- पेक्षया मेयबोधित्वादनुवादकमिति द्वितीयमनुवदति। अथेति। ब्रह्मणि मानान्तरासंभवस्योक्तत्वाद्वक्ष्यमाणत्वाच्च न मानान्तरमिते तस्मिन्वाक्यं बोधकं कथंचित्तत्र मानान्तरावेशेऽपि शब्दतदितरमानयोरेकस्यां वस्तुबोधनक्रियायां प्रवृत्तेः शब्दस्य स्वार्थमितौ मानान्तरानपेक्षता नहि दहने प्रवृत्ताध्यक्षानुमानयोरितरेतरापेक्षेति परिहरति। द्वयोरिति॥६८३॥

अथानधिगताभावादुत्तरस्याप्रमाणता॥
तत्सद्भावात्तुपूर्वस्य ज्ञानस्यास्तु प्रमाणता॥६८४॥

द्वयोरेकक्रियांवेशममृष्यमाणः शङ्कते। अथेति। अज्ञातार्थाभावादुत्तरस्य शब्दस्यामानता चेत्तर्हि तद्विषये प्रवृत्तप्रमाणान्तरस्यापि कथं प्रमाणतेत्याशङ्क्याऽऽह। तत्सद्भावादिति। भाविना शब्देन पूर्वभाविनो ज्ञानस्य ज्ञातार्थताया दुर्ज्ञानत्वादज्ञातासद्भावात्तम्यमानतोचितेत्यर्थः॥६८४॥

मातोऽधिगतत्वस्य सिद्धिः स्यादथवाऽन्यतः॥
स्वतो वा ज्ञाततायाश्च कुतः सिद्धिरितीर्यताम्॥६८५॥

ज्ञातत्वाज्ञातत्वयोस्त्वन्मते सेद्धुमशक्यत्वान्नायं विभाग इति वक्तुं विकल्पयति। मात इति। प्राक्प्रमाणप्रवृत्तेर्वस्तुन्यज्ञातत्वस्य मानतो वा नित्यानुभवाद्वा स्वप्रकाशत्वेन वा सिद्धिरिति विकल्पार्थः। ज्ञाततासाधकमेव तत्पूर्वभाविनीमज्ञाततां साधयति किमत्र विकल्पैरिति चेत्तत्राऽऽह। ज्ञाततायाश्चेति। नहि तत्साधकमपि सुबोधं पूर्ववद्विकल्पोपपत्तेरित्यर्थः॥६८५॥

अज्ञातत्वस्य माव्याप्तेः पूर्वमेव प्रसिद्धितः॥
ततश्च मानतः सिद्धिर्नाज्ञातत्वस्य कुत्रचित्॥६८६॥

अज्ञातत्वस्य त्रिधाऽपि सिद्धिं दूषयति। अज्ञातत्वस्येति। न तावत्तस्याऽऽत्मन्यनात्मनि वा मानात्सिद्धिस्तत्प्रवृत्तेः प्रागेव सिद्धत्वादज्ञातेऽर्थे सिद्धे तत्र प्रमाणप्रवृत्तेरिष्टत्वात्ततो नित्यानुभवादपि न तत्सिद्धिस्त्वयाऽनभ्युपगमादन्यथा तस्य कल्पितत्वापत्तेरुक्तत्वान्नं च स्वतस्तत्सिद्धिरावाभ्यामनभ्युपगमादित्यर्थः॥६८६॥

मानव्याप्तिक्षमं चेत्स्यादज्ञातत्वं घटादिवत्॥
वास्तवं स्यात्तदा रूपमज्ञातं च सदा भवेत्॥६८७॥

तस्य मानासिद्धत्वे युक्त्यन्तरमाह। मानेति। तच्चेन्मानेन विषयीकर्तुं योग्यं तदा घटवन्माननिरस्यं न स्यात्तथा च वस्तुस्वरूपं मानात्प्रागिवोर्ध्वमप्यज्ञातमेव स्यादित्यर्थः। एतेन ज्ञातत्वस्यापि वा सिद्धिर्निरस्ता॥६८७॥

तथा संशयमिथ्यात्वबुद्ध्योरेष यथोदितः॥
न्यायो वाच्यस्ततः सर्वो व्यवहारो न सिध्यति॥६८८॥

संशयादिवदज्ञातत्वादिसिद्धिमाशङ्क्यातिदिशति। तथेति। नहि संशयादि साक्षिणा स्वतोवा सिद्धमनभ्युपगमान्मेयत्वे च माननिरस्यत्वायोगस्तस्यापीत्यर्थः। मा भूदज्ञातत्वादेर्मानमेयत्वाद्धटवन्निवृत्तिरिति चेन्नेत्याह। तत इति। सम्यग्धीकृतो व्यवहारो वस्तुनि नाज्ञातत्वादिषु संप्लवमानेषु संभवतीत्यर्थः॥६८८॥

अज्ञातत्वाविशेषेऽपि मानानां यदि मानता।
ज्ञातस्याज्ञाततोऽन्यत्वात्तत्र स्यात्किं न मानता॥६८९॥

वस्तुन्यज्ञातत्वस्य मानात्प्रागूर्ध्वं चाविशेषेऽपि मानगतमानत्वस्याविरोधादज्ञातत्वानिवृत्तावेव मानमेयव्यवहारः सिध्यतीति शङ्कते। अज्ञातत्वेति। ज्ञातत्वविशिष्टाकारस्याज्ञातत्वविशिष्टाकारादर्थान्तरत्वादज्ञातेऽर्थे मानमतिशंयमकुर्वन्मानतां भजते चेन्मानान्तरेण ज्ञातेऽपि शब्दस्यातिशयमकुर्वतो मानता किं न स्यान्न च विशेषानाधायिनो मानत्वायोगोऽज्ञातमानवदुपपत्तेरिति दूषयति। ज्ञातस्येति॥६८९॥

एकार्थोपनिपातित्वात्सापेक्षत्वं यदीष्यते॥
तथाच सर्वमानानां सापेक्षत्वं प्रसज्यते॥६९०॥

प्रमाणान्तरेण ज्ञाते शब्दस्य मानत्वे दोषमाशङ्कते। एकार्थेति। शब्दवन्मानान्तरेष्वपि सापेक्षत्वापत्तिरित्याह। तथाचेति॥६९०॥

एकस्यामपि सत्तायां सर्वाक्षाणां प्रमाणता॥
द्रव्ये त्वक्चक्षुषोस्तद्वत्प्रसज्येताप्रमाणता॥६९१॥

तेषामेकविषयत्वाभावे कथं सापेक्षतेत्याशङ्कय शब्देन सिद्धार्थेन तेषामेकविषयत्वमिष्टमिति मत्वा चक्षुरादीनामेकविषयत्वमाह। एकस्यामिति। त्वगादेरेकद्रव्यविषयतया सापेक्षत्वं शब्दवदित्यतिप्रसङ्गान्तरमाह। द्रव्य इति। सापेक्षत्वफलमाह। प्रसज्येतेति। चक्षुरादीनामेकविषयत्वेऽपि न सापेक्षत्वेनामानत्वं तथा ब्रह्मणि मानान्तरावेशेऽपि न शब्दस्य सापेक्षत्वेनामानतेति भावः॥६९१॥

नियोगे लौकिके चाऽपि हरीतक्यादिभक्षणे॥
मानान्तरासंभवेन प्रसज्येतानपेक्षता॥६९२॥

ब्रह्मणः सिद्धतया तन्निष्ठं वाक्यं नानपेक्षं मानमित्येतत्प्रत्युक्तम्। यत्तु नियोगस्य मानान्तरायोग्यत्वात्तद्वाक्यं निरपेक्षमानमिति तत्र किं नियोगत्वादेव मानान्तरायोग्यत्वं किंवा वैदिकनियोगत्वादिति विकल्प्याऽऽधे दोषमाह। नियोग इति। हरीतक्यादिभक्षणे लौकिको नियोगस्तत्रापि नियोगत्वादेव मानान्तरासंभवेनानपेक्षता प्रसज्येतेति योजना। तथाच तद्विषयं पौरुषेयमपि वाक्यमनपेक्षं मानं स्यादिति शेषः॥६९२॥

नैष दोषो नरज्ञानपूर्विका विनियोगधीः॥
ये लोकेऽस्त्यतोऽपेक्षा वेदे तु स्याद्विपर्ययः॥६९३॥

द्वितीयमवतारयन्पौरुषेयवाक्यस्य नानपेक्षतेति शङ्कते। नैष इति। वक्ता हि विनियोगशब्दितं साध्यसाधनसंबन्धं ज्ञात्वा हरीतकीमारोग्यकामो भक्षयेदित्यादिवाक्यं विरचयत्यतो लौकिकवाक्ये श्रोतुरवगम्यमाननियोगविषयविनियोगरूपसाध्यसाधनसंबन्धधीस्तत्रवक्तृज्ञानपूर्विका येनोपेता तेन मानान्तरसिद्धसंबन्धविषयत्वाल्लौकिकनियोगस्य

तदर्थवाक्यस्यास्त्येव मानान्तरापेक्षा। वेदे तु तदगोचरसंबन्धविषयत्वान्नियोगस्य तदर्थवाक्यस्य मानान्तरानपेक्षता तथाच वैदिकनियोगकृतमनपेक्षत्वमित्यर्थः॥६९३॥

नैवं सत्यनपेक्षत्वं वचसः कार्यसंश्रयात्॥
बुद्धिपूर्वकत्वेन यतः सापेक्षतोच्यते॥६९४॥

प्रतिज्ञाहान्या परिहरति। नैवमिति। मानान्तरगम्यविनियोगविषयलौकिकनियोगार्थवाक्यस्य सापेक्षत्वे कार्यविषयत्वाद्वचसोऽनपेक्षत्वं सिद्धार्थत्वाच्च सापेक्षतेति प्रतिज्ञाहानिः पुंधीपूर्वकत्वस्य सापेक्षता हेतुत्ववचनादतो वेदान्तेषु तत्पूर्वकत्वाभावाद्भूतार्थेष्वपि न सापेक्षतेत्यर्थः॥६९४॥

नैवं नियोगनिष्ठत्वाद्वेदे तेनानपेक्षता॥
सापेक्षत्वं च लोके स्याद्विनियोगप्रधानतः॥६९५॥

प्रतिज्ञाहानिममृप्यन्नियोगवाद्याह। नैवमिति। वेदे लिङादेर्नियोगविषयत्वात्तेन नियोगेन मानान्तरस्यानपेक्षणाद्युक्तमनपेक्षत्वं लोके तु पौरुषेयवाक्येषु लिङादेर्विनियोगविषयत्वात्तस्य च मानान्तरयोग्यत्वात्सापेक्षत्वमतो लोकवेदयोर्मानान्तरयोग्यार्थत्वमेव सापेक्षत्वप्रयोजकमित्यर्थः॥६९९॥

नैवं शब्दार्थयोरैक्यं यदा स्याल्लोकवेदयोः॥
तदा न शक्यते वक्तुं वैलक्षण्यं तयोरिति॥६९६॥

वैदिकस्य लिङादेर्नियोगविषयता लौकिकस्य विनियोगविषयतेत्येतल्लोकवेदाधिकरण- विरुद्धमिति समाधत्ते। नैवमिति। अस्यार्थः। स्थितं प्रमाणलक्षणे “प्रयोगचोदनाभावादर्थैकत्वमविभागात्” [पू०मी० १। ३। २७] किं य एव लौकिकाः शब्दास्त एव वैदिकास्त एव चैषामर्था उतान्य इति संशये लौकिका वैदिकाश्चेति व्यपदेशभेदादुभयत्र शब्दार्थभेद इति प्राप्ते लोकवेदयोर्व्यपदेशभेदस्य सापेक्षत्वानपेक्षत्वनिमित्तत्वाल्लोके ज्ञातसामर्थ्यस्यैव शब्दस्य वेदेऽपि बोधकत्वादुभयत्र शब्दार्थैक्यं तथा सति प्रयोगचोदनानां संभवादन्यथा शब्दभेदादेकोऽर्थो न प्रमीयेत न चोभयत्र विभागमेषामुपलभामहे तस्मादेकतेति सिद्धान्तः। तदेवं शब्दार्थयोरैक्यस्य लोकवेदयोः स्थितत्वादुक्तरीत्या तद्वैलक्षण्यं वक्तुमशक्यमिति॥६९६॥

स्वरूपलाभः सिद्धश्चेत्स्वतो वा यदि वाऽन्यतः॥
स्वरूपेऽनुपयोगित्वान्न प्रमाणव्यपेक्षणम्॥६९७॥

कार्यस्य मानान्तरायोग्यत्वात्तद्वाक्यमनपेक्षमित्येतन्निरस्य सिद्धं सापेक्षमित्यत्र स्वतः परतो वा सत्तासिद्धिस्तादृशी धीर्वेति विकल्प्याऽऽद्यमादत्ते। स्वरूपेति। न तावद्विद्यमाने वस्तुनि मानं सत्तायामुपयुज्यते सत्त्वस्य पूर्वमेव लब्धत्वान्नापि ज्ञप्तौ शब्दस्यैव तत्र ज्ञापकत्वाभ्युपगमात्ततो मानान्तरमनुपयुक्तमित्याह। स्वरूप इति॥ १९७॥

अभिव्यक्तोऽथ सिद्धोऽयं स्वतो वा यदि वाऽन्यतः॥
अभिव्यक्तस्य भूयोऽपि निष्फलं मान्तरेक्षणम्॥६९८॥

द्वितीयमालम्बते। अभिव्यक्तोऽथेति। न तावदभिव्यक्तस्य पुनरभिव्यक्त्यर्थं मानान्तरापेक्षणमनवस्थानान्न च मानान्तरसाध्यं फलान्तरमस्त्यतोऽफलत्वात्तदपेक्षा नाभिव्यक्तस्यापि युक्तेत्याह। अभिव्यक्तस्येति॥६९८॥

तस्मान्न सिद्ध इत्येव संभाव्येत प्रमान्तरम्॥
नरोक्तौ मान्तरापेक्षा तेन मान्तरसंभवः॥६९९॥

सिद्धं सापेक्षमित्येतद्दुर्निरूपमित्युक्तमुपसंहरति। तस्मादिति। सिद्धार्थमपि वैदिकं वचोऽनपेक्षं चेत्कस्य सापेक्षत्वं तत्राऽऽह। नरेति। पौरुषेयवाक्यार्थे यतो मानान्तरसंभवस्तेन ज्ञातेऽर्थे परप्रत्यायनार्थं वाक्यविरचनात्तेन नरविरचिने वचसि तदपेक्षेत्यर्थः॥६९९॥

क्रियां विना न संसर्गः पदार्थानामथोच्यते॥
क्रियैवापेक्ष्यतां तर्हि किं न सिद्धं विधिं विना॥७००॥

ब्रह्मणो मानान्तरायोग्यत्वाय तज्ज्ञाने विधिरिति पक्षं प्रतिक्षिप्य षष्ठमुत्थापयति। क्रियामिति। पदार्थसंसर्गार्थं क्रियास्वीक्रियायां तद्विषयो विधिरपि समुन्मिषेदिति प्रतिपत्तिविधिसिद्धिरिति भावः। क्रियां विना पदार्थासंसर्गश्चेत्तत्प्रयोजकत्वेन साऽपेक्ष्यतामित्यङ्गीकरोति। क्रियेति। प्रतिपत्तिविधेरपि क्रियावदपेक्ष्यत्वमेव कारवारितं स्फोरयति। किं नेति॥७००॥

क्रिया चापेक्ष्यमाणाऽपि न या काचिदपेक्ष्यते॥
योग्यत्वहेतुतस्तर्हि साऽस्त्येवास्यादिका श्रुतौ॥७०१॥

प्रतिपत्तिविध्यभावेऽपि संसर्गप्रयोजिका क्रिया स्वीकृता चेत्तर्हि सैव विधेया स्वीकार्या नहि तन्मात्रमपेक्ष्यतेऽपेक्षाया योग्यत्वादिकृतत्वादिति शङ्कते। क्रिया चेति। योग्या चेत्क्रियाऽपेक्ष्यते तर्हि सा तत्त्वमादिश्रुतावस्यस्मीत्यादिकाऽस्ति मैव वेदान्तेष्व- पेक्ष्यतामित्याह। तर्हीति॥ ७०१॥

अकर्मकत्वादस्यादेर्न तावत्कर्म विद्यते॥
अभूतभवनं चार्थे नित्यत्वादात्मनश्च न॥७०२॥

ननु साऽपि क्रिया विधीयतां विधेयक्रियाधीनत्वात्फलस्येति चेत्किं तत्फलं कर्मकारकस्यातिशयः किंस्विदभूतभवनं किंवा जीवब्रह्मणोः संसर्गबोधनं नाऽऽद्योऽस्यादिक्रियायाः कर्माभावात्तद्गतातिशयायोगादित्याह। अकर्मकत्वादिति। न तावत्कर्म विद्यतेऽतस्तद्गतोऽतिशयो न संभवतीत्यर्थः। ब्रह्मरूपेणासतो जीवस्य तद्रूपेण भवनं विधेयक्रियाफलमिति द्वितीयं दूषयति। अभूतेति। ब्रह्मैव सन्नित्यादिश्रुतेरात्मनो ब्रह्मात्मना

सदा स्थितेरिति हेतुमाह। नित्यत्वादिति। आद्यश्चकारः समुच्चये द्वितीयोऽवधारणे॥७०२॥

असंसृष्टात्मबोधित्वान्नापि संसर्गधीरतः॥
स आत्मेत्यभिसंबन्धान्नापि सत्तां सतोच्यते॥७०३॥

तृतीयं निरस्यति। असंसृष्टेति। एकरसार्थपरत्वाद्वाक्यस्य विधेयास्यादिक्रियावशान्नजीवब्रह्मणोः संसर्गधीरित्यर्थः। सदेव सोम्येत्यादिवाक्येन सत्ता सामान्यं ब्रह्मोच्यते तच्चनिर्विशेषं न सामान्यमतो यथोक्तब्रह्मणो विशेषसंसर्गार्थमस्यादिक्रिया विधेयेत्याशङ्क्याऽऽह। स इति। आत्मा निःसामान्यविशेषोऽन्यथाऽनात्मत्वापत्तेः सामान्यविशेषत्वस्य तद्व्याप्तेस्तेनाऽऽत्मना स आत्मेति सतो ब्रह्मणः संबन्धात्तदपि निःसामान्यविशेषमतः सत्ता सामान्यं सता सदेवेत्यादिना नोच्यते। तथा च न सामान्यस्य ब्रह्मणो विशेषसंसर्गार्थं विधिरित्यर्थः॥७०३॥

शब्दाद्यगोचरोऽर्थोऽतो लक्षणापाश्रयाच्छ्रुतौ॥
सदित्यादिपदैरात्मा साक्षान्नः प्रतिपाद्यते॥७०४॥

यदि वाक्यस्थानि सदादिपदानि सामान्यं विशेषं च नाऽऽचक्षीरन्किं तर्हि तान्यभिदधीरन्नित्याशङ्क्याऽऽह। शब्दादीति। कथं पुनरस्मान्प्रति श्रुतिपदान्यपोढसामान्यविशेषमात्मानमपरोक्षत्वेनाऽऽवेदयितुमुत्सहेरज्जात्याद्यभावे वाच्यत्वासंभवादत आह। अतो लक्षणेति। अयोग्यत्वपरामर्शार्थोऽतः शब्दः॥७०४॥

यदाऽपि मानयोग्यत्वं सत्त्वं तच्च प्रतीयते॥
तदाऽपि वस्तुपरता नाऽऽगमस्य विहन्यते॥७०५॥

वस्तुस्वरूपं283 सत्त्वमुपेत्य सच्चिदानन्दात्मनि ब्रह्मणि वेदान्तानामनपेक्षं मानत्वमुक्तमिदानीं मानयोग्यत्वं सत्त्वं तदेव वेदान्तवेद्यमित्यङ्गीकारेऽपि तेषामनपेक्षमानतोपपत्तिरिति प्रौढिमारूढो ब्रूते। यदाऽपीति। मानयोग्यत्वे सत्त्वे वेदान्तवेद्ये कथं तेषां वस्तुपरतेत्याशङ्क्य मानान्तरं मेयाद्बहिर्न वेति विकल्प्याऽऽद्यं प्रत्याह। तदाऽपीति। यदा मानान्तरं मेयाद्बहिस्तदा योग्यत्वस्य वस्तुरूपत्वादुक्तवस्तुपरता वेदान्तानामुपपद्यते नहि ते यथोक्तार्थार्पणे मानान्तरमपेक्षन्ते स्वयमेव शक्तत्वात्तत्तु योग्यत्वोपलक्षणतया तटस्थमित्यर्थः॥७०५॥

मान्तरेणापि संबद्धमर्थं वाक्यं प्रबोधयत्॥
मानतां न जहात्येव जगत्याप्तवचो यथा॥७०६॥

द्वितीयेऽपि वाक्यमानत्वं सिध्यत्येवेत्याह। मान्तरेणेति। वेदान्तवाक्यं मानान्त-

रविशिष्टमप्यर्थं बोधयत्कथं मानत्वं न जहातीत्युक्तं तत्र दृष्टान्तमाह। जगतीति। यथाऽऽवाक्यं प्रमितमर्थं बोधयदपि लोके मानमेवमिदमपीत्यर्थः॥७०६॥

ज्ञातः सोऽर्थो मयेत्यत्र नाऽऽप्तवाक्यं विहन्यते॥
मानान्तरव्यपेक्षत्वाद्विहन्येतार्थनिश्चितौ॥ ७०७॥

दृष्टान्तेऽपि विप्रतिपत्तिमाशङ्कयाऽऽप्तवाक्यं वक्तृज्ञानेऽनपेक्षं मानमिति परस्य संमत साधयति। ज्ञात इति। अथास्यानपेक्षं मानत्वं वक्तृधीवदर्थेऽपि किं न स्यादत आह। मानान्तरेति। अर्थनिश्वये वक्तज्ञानापेक्षत्वादाप्तवाक्यस्य नार्थे निरपेक्षमानता। यथाऽऽहुः—तज्ज्ञानान्तरितत्वाच्च शब्दास्तावदुदासत इति॥७०७॥

मायोगेऽपि न मानत्वमनाप्तवचसः क्वचित्॥
तेनाऽऽप्तवाक्यं मायोगे मानादर्थेऽपि निष्ठितम्॥७०८॥

तस्यार्थे मानत्वाभावश्वेदनाप्तवाक्यादविशेषः स्यादित्याशङ्कयाऽऽह। मायोगेऽपीति। नहि क्वचिदनाप्तवाक्यस्याऽऽप्तवाक्यद्वक्तृ284 प्रमाणसंबन्धेऽपि प्रमाणतेत्युभयं मिथो विलक्षणमित्यर्थः। अनाप्तवाक्यादाप्तवाक्यस्य वैलक्षण्यमुक्तमुपजीव्य स्वमतमाह। तेनेति। यस्मादाप्तवाक्यं वक्तृधीसंबन्धे मानं तस्मात्तद्वाराऽर्थेऽपि नहि तेन वक्तृधीमात्रं गम्यते विशिष्टधीज्ञाने त्वर्थेऽपि मानत्वं दुर्वारम्। यथाऽऽहुः—“प्रामाण्यस्थापनं तु स्याद्वक्तृधीहेतुसंभवात्" इति। अतो वक्तृधीद्वाराऽर्थे मानमाप्तवाक्यमित्यर्थः॥७०८॥

एवं च सति वेदान्ता यदि मानमलौकिकम्॥
प्रबोधयन्ति विध्वस्तनिखिलद्वैतगोचरम्॥७०९॥

कथं तेषाममानत्वं तदा स्यादाप्तवाक्यवत्॥
अर्थसिद्धिश्चमासिद्धौ सिद्धैवेति न साध्यते॥७१०॥

दृष्टान्ते स्थिते दाष्टन्तिकं प्रपञ्चयति। एवं चेति। द्विविधा वेदान्ता मानं मनोवृत्तिमुत्पादयन्ति चेन्नैषाममानत्वशङ्केत्यर्थः। लोकप्रसिद्धां मनोवृत्तिमुत्पादयतां तेषामग्निहिंमस्येत्यादिवदमानतेत्याशङ्क्याऽऽह। अलौकिकमिति। प्रबोधयन्ति विकासयन्ति जनयन्तीति यावत्। अलौकिकत्वं साधयति। विध्वस्तेति। विध्वस्तं निखिलं द्वैतं यस्मिंस्तदेव गोचरो यस्येति विग्रहः। यदा स्वरूपज्ञानं वा मानं तदा प्रबोधयन्तीति सुबोधम्। विध्वस्तो निखिलो द्वैताख्यो गोरो यस्मिन्निति निष्प्रपञ्चत्वमुच्यते। विवक्षितमंशं दर्शयितुं पुनर्दृष्टान्तमादत्ते। आप्तेति। यथाऽऽप्तवाक्याद्वक्तृधीसिद्धिकाले तद्विशेषणार्थसिद्धिस्तथा वेदान्तेभ्यो मानसिद्धिकाले तद्विशेषणं ब्रह्मापि सिध्यतीत्यर्थः। ब्रह्मणो मानविशेषणत्वेन वेदान्तमेयत्वे कथं तेषां तत्रानपेक्षं प्रामाण्यमिति तत्राऽऽह। अर्थेति। यदोक्तं मानं वेदान्तेभ्यो जायते ज्ञायते वा तदा ब्रह्मज्ञप्तिरापे जातैवेति न

पुनर्ब्रह्म प्रकाशयितुं मानमर्थ्यते तस्माद्ब्रह्मण्युक्तमानजनकत्वं तज्ज्ञापकत्वमेव वा वेदान्तानामनपेक्षं मानत्वमित्यर्थः॥७०९॥७१०॥

किंच सिद्धत्वसंबन्धादैकात्म्ये मान्तरानुमा॥
यथैवं कार्यतायोगात्रियोगेऽप्यनुमा न किम्॥७११॥

अङ्गीकारवादं त्यक्त्वा प्रस्तुतं वस्तुरूपं सत्त्वमाश्रित्योक्तलक्षणे ब्रह्मणि वेदान्तानामनपेक्षं मानत्वं वक्ष्यमाणहेतोरपि ग्राह्यमित्याह। किंचेति। सत्त्वस्य वस्तुरूपत्वे वस्तुनो विद्यमानत्वाद्धटवन्मानान्तरविषयतेत्याशङ्क्य हेत्वन्तरं स्फुटयति। सिद्धत्वेति। ऐकात्म्यं मानान्तरगम्यं सिद्धत्वात्संमतवदित्यनुमानवन्नियोगस्तद्गम्यः कार्यत्वात्प्रैषादिवदित्यपि संभवे नियोगवाक्यस्यानपेक्षमानत्वे वस्तुवाक्यानामपि तत्किं न स्यादित्यर्थः॥७११॥

नियोगस्यापि कार्यत्वं प्रेषणाध्येषणादिभिः॥
समं तद्वर्त्मनैवास्य संबन्धग्रहणं यतः॥७१२॥

नियोगे285 कार्यत्वहेतुं साधयति। नियोगस्येति। तत्रैव हेत्वन्तरमाह। तद्वर्त्मनेति। लोके कार्यमात्रे लिङादेः संगतिर्न तदग्रहो वेदे पृथगस्त्यतो नियोगस्य लिङादिना शक्तिज्ञानं कार्यत्वद्वारैवेति हेतुसिद्धिरित्यर्थः॥७१२॥

परायत्तात्मलाभत्वं नियोगस्येह कार्यता॥
कार्यमन्तरगम्यैः सा न कथंचिद्विशिष्यते॥७१३॥

किं नियोगो मानान्तरगम्योऽन्या वीनसत्ता कत्वाद्धटवदित्याह। परायत्तेति। लोकवेदयोनिंयोगस्योत्पाद्यताप्रतीतेरपि कार्यत्वसिद्धिरित्याह। नियोगस्येति। घटदृष्टान्ते साधनवैकल्यं निरस्यति। कार्यैरिति। साध्यवैकल्यं धुनीते। मान्तरेति। हेतुमिद्ध्यर्थमुक्तां कार्यतां धर्मिणि निर्धारयति। सा नेति॥७१३॥

यत्त्वसाधारणं तस्य कार्यत्वमिति भण्यते॥
लौकिकेष्वपि कार्येषु तन्नैव विनिवार्यते॥७१४॥

कृतिसाध्यत्वोपहितं कृत्युद्देश्यत्वं286 कार्यत्वं नियोगस्यासाधारणं तन्न प्रैषादिष्विति पूर्वोक्तानुमाने दृष्टान्तस्य साधनविकलत्वं शङ्कते। यत्त्विति। कृत्युद्देश्यत्वं तावन्नियोगस्यापि न प्रामाणिकं कृतिसाध्यत्वं प्रैषादिष्वपि तुल्यमित्याह।लौकिकेष्विति॥७१४॥

अथासाधारणज्ञानपरिच्छेद्यत्वमिष्यते॥
तच्च सर्वपदार्थानां न दण्डविनिवार्यते॥७१५॥

कार्यताभीविषयत्वं नियोगस्य कार्यत्वं तन्न क्लेशात्मसु प्रैषादिष्विति शङ्कते। अथेति। कार्यमेव त्रैषादिव्यपदेश्यमित्यभ्युपगमात्तेषामपि कार्यताधीविषयत्वं तुल्यमित्याह। तच्चेति

प्रमाणायत्तमेतावत्स्वप्रमेयावभासनम्॥
कार्यताऽकार्यता वाऽत्र मेयायत्ता, न मानतः॥७१६॥

किंच कार्यताधीविषयत्वे नियोगस्य मानान्तरगम्यतेत्याह। प्रमाणेति। प्रतिपन्नो विषयः सप्तम्यर्थः। न मानतो न शास्त्रायत्तेति यावत्। एतावन्मात्रं शास्त्रायत्तं यत्स्वविषयस्येष्टसाधनमेतदित्यनिष्टसाधनमिदमिति वा प्रकाशनं न त्विदं कार्यमिदं नेति धियौ शास्त्रायत्ते ते तु विषये समीहितोपायत्वतद्विपर्ययधीकृते मानस्यौ हितसाधनं चेत्कार्य विपरीतं चेदकार्यमिति तस्मात्कार्यताकार्यता बुद्ध्योः शास्त्रीयत्वाभावान्नियोगस्य मानसकार्यताधीविषयत्वे मानान्तरगम्यतेति भावः॥७१६॥

सिद्धत्वहेतुको योऽपि दोष ऐकात्म्य उच्यते॥
नियोगस्यापि संसिद्धौ स दोषो नापनुद्यते॥७१७॥

ब्रह्मणि सिद्धत्वहेतुना मानान्तरगम्यत्वं वदतो नियोगेऽपि हेत्वन्तरेण तदुक्तिः सुकरेत्युक्तम्। इदानीं येन हेतुना ब्रह्मणि मानान्तरगम्यतोच्यते तेनैव हि नियोगेऽपि सा प्राप्नोतीत्याह। सिद्धत्वेति। साध्यैकस्वभावे नियोगे सिद्धत्वहेतुको दोषो नेति चेत्तत्र किं क्रियानुष्ठाने स सिध्यत्युत नाऽऽद्ये सिद्धत्वसिद्धेस्तन्निमित्तो दोषः स्यादित्याह। संसिद्धाविति॥ ७१७॥

यागादिविषयासिद्ध्या न चासौ न प्रसिध्यति॥
विध्युक्तेस्तदसंसिद्धौ निष्फलत्वं प्रसज्यते॥७१८॥

द्वितीयं दूषयति। यागादीति। तत्र हेतुमाह। विधीति। यागाद्यनुष्ठानान्नियोगासिद्धावनुष्ठानवैयर्थ्याद्विधिवाक्यानर्थक्यं न च तदनुष्ठानस्य स्वर्गादिसाधकत्वेनार्थवत्वात्तदर्थत्वं नियोगसिद्धिं त्रिना तदनभ्युपगमादित्यर्थः॥७१८॥

ऐकात्म्यवस्तुयाथात्म्यप्रकाशनपटीयसः॥
वचसस्त्वतिरेकेण किं मानं तद्धरं वहेतु॥७१९॥

ब्रह्मणि मानान्तरावेशमाश्रित्य नियोगेऽपि तत्साम्यमित्युक्तम्। इदानीं तत्र तदावेशसंभावनैव नास्तीत्याह। ऐकात्म्येति। ऐकात्म्यमेव वस्तुयाथात्म्यं तस्य प्रकाशन उपक्रमसंहारैकरूप्यादिना पटुतरं वचस्तत्त्वमादि ततोऽतिरेकेण नान्यत्किंचिदपि मानान्तरं तत्प्रकाशनसमर्थमस्ति। अस्मिन्मानान्तरप्रवेशे मानाभावादित्यर्थः॥७१९॥

मात्रादिसव्यपेक्षं सद्यत्र ज्ञानं प्रजायते॥
तत्रैव मान्तरापेक्षा न तु विध्वस्तभेदके॥७२०॥

विमतं मानान्तरगम्यमकार्यत्वाद्धटवदित्याशङ्क्य मात्रादिमापेक्षत्वमुपाधिरित्याह।

मात्रादीति। साधनव्याप्तिमाशङ्क्याऽऽह। नत्विति। विध्वस्तो मात्रादिभेदो यस्मिन्ब्रह्मणि तस्मिन्न ज्ञानं तदपेक्षामित्यर्थः॥७२०॥

विध्यर्थाधीनसंसर्गाः पदार्था वैदिकोक्तिषु॥
लोके मान्तरसंसिद्धसंसर्गा रचनाबलात्॥७२१॥

ब्रह्मणि मानान्तरावेशनिषेधेऽपि वेदान्तानां नानपेक्षं मानत्वं तेषु लौकिकवैदिकसंसर्गप्रपोजकाभावात्तज्जन्यवाक्यार्थबुद्धेर्भ्रान्ति-त्वादिति मत्वा तेषु वैदिकसंसर्गप्रयोजकाभावं वक्तुं तत्प्रयोजकं दर्शयन्नाशङ्कते। विध्यर्थेति। विधिरर्थोऽस्येति विध्यर्थो लिङादिरुव्यते। तेषु लौकिकसंसर्गप्रयोजकाभावाभिधित्सया तत्प्रयोजकमाह। लोक इति। पदार्था विशेष्यत्वेनानुषज्यते॥७२१॥

रचना च पदार्थानां विवक्षापूर्विकैव तु॥
प्रमाणान्तरगम्येऽर्थे विवक्षा च व्यवस्थिता॥७२२॥

कथं रचनानुपपत्त्या लौकिकसंसर्गस्य मानान्तराधीनत्वं तत्राऽऽह। रचनेति। तहिं तद्वशाद्विवक्षैव कल्प्यतां मानान्तरकल्पना तु कथमित्याशङ्कयाऽऽह। प्रमाणान्तरेति। अज्ञाते विवक्षायोगान्मानान्तरेण ज्ञात्वा विवक्षित्वा परस्मै वाक्यरचनालोके संसर्गस्य मानान्तराधीनतेत्यर्थः॥७२२॥

एवं च सति वेदान्तवाक्यार्थप्रत्ययो भ्रमः॥
उत्खातविधिको लोके तोयबुद्धिरिवोषरे॥७२३॥

लोकवेदयोरुक्ते संसर्गप्रयोजके भवेतां तथाऽपि वेदान्तेषु किमायातमत आह। एवं चेति। वेदसंसर्गप्रयोजको विधिलके मानान्तरमिति स्थिते वेदान्तेष्वपौरुषेयेषु मानान्तरासंभवाद्विवे श्वानभ्युपगमात्तेभ्यो वाक्यार्थधीर्भ्रान्तिर्मरुमरीचिकासु जलबुद्धिवदित्यर्थः। उत्खातविधिको निरस्तविधिकस्तदप्रयुक्त इति यावत्॥७२३॥

इत्युक्ते परिहाराय शृणु यद्भण्यतेऽधुना॥७२४॥
पदार्थसंगतेः कस्माद्विध्यधीनत्वमादृतम्॥
पदार्थान्तरतन्त्रत्वं कस्माद्धेतोर्न कल्प्यते॥७२५॥

वेदान्तानाममानत्वाद्ब्रह्मणि तन्मानत्वं दुरापास्तमिति प्राप्ते वैदिकसंसर्गप्रयोजकस्य तेषु संभवात्तेभ्यो वाक्यार्थ बुद्धेर भ्रान्तित्वात्तन्मानत्वोपपत्तेर्युक्ता तेषां ब्रह्मणि मानतेत्याह। इत्युक्त इति। यदधुना भण्यते तत्त्वं शृण्वति संबन्धः। कथं वैदिकसंसर्गप्रयोजकस्य वेदान्तेषु सत्ता? नहि तेषु विधिरस्तीत्याशङ्क्य, परिहारं विवृणोति। पदार्थेति। लिडादिशब्दो विधिस्तदधीनत्वं संसर्गस्य किमिति स्वीकृतं? योग्यमाकाङ्क्षितं संनिहितं च यत्पदार्थान्तरं तन्निमित्तत्वं किमिति नेष्टं नहि विधिस्तत्प्र287योजको वषट्कर्तुः

प्रथमभक्ष इत्यादौ व्यभिचारात्तस्मादाकाङ्क्षादिषयं प्रयोजकं तदस्ति वेदान्तेष्वपीति तेभ्योऽर्थधीर्न भ्रान्तिरित्यर्थः॥७२४॥७२५॥

संसर्गश्चेत्पदार्थानां विनाऽपि विधिना भवेत्॥
अनर्थको भवेदेवं विधिर्निर्विषयत्वतः॥७२६॥

विधिवादी शङ्कते। संसर्गश्चेदिति। लिङादिना विनाऽपि संनिधानादिना पदार्थामां संसर्गश्चेदेवं सति विध्यानर्थक्यं स्यात्स्वविषयसंसर्गस्यान्यतोलब्धतया स्वस्याकिंचित्करत्वादतो विधेरर्थवत्त्वाय तन्निमित्तो वैदिकः संसर्ग इत्यर्थः॥७२६॥

ननु दोषः समानोऽयं विधेरन्यपदेष्वपि॥
विशिष्टार्थावगत्यर्थं प्रयुज्यन्तेऽपराण्यपि॥७२७॥

विध्यधीने संसर्गे नामपदेषु वैयर्थ्यदोषः समः स्यादिति दूषयति। नन्विति। संसर्गस्यान्यनिमित्तत्वे विधिवैयर्थ्यवदितिदृष्टान्तार्थोऽपिशब्दः। नामपदानां संसर्गज्ञानाजनकत्वेऽपि पदार्थमात्रवीजनकतया साफल्यमित्याशङ्क्याऽऽह। विशिष्टेति। विधिपदवदित्यपेरर्थः॥ ७२७॥

एवं सति विधिः कस्मान्नानर्थक इतीर्यताम्॥
योगक्षेमसमानत्वादविध्यर्थपदान्तरैः॥७२८॥

विधितदितरपदानां संसर्गसिद्ध्यर्थे प्रयोगे फलितमाह। एवमिति। विधेरितरपदैर्योगक्षेमस्य समत्वाद्विधिं विना संसर्गसिद्धौ विधेरेव कस्मादनर्थकः पदान्तराण्यन्तरेण तत्सिद्धौ तान्यपि कस्मान्नानर्थकानीति वाच्यमेवमुभयत्रापि सममानर्थक्यमित्यर्थः॥७२८॥

उच्यते विधिशब्दो288 हि मान्तराज्ञातगोचरः॥
न तस्य विषयाक्षेपं मुक्त्वाऽन्यत्र कृतार्थता॥७२९॥

विधितदितरपदेषु वैषम्यं विधिवादी प्रतिजानीते। उच्यत इति। तदेव व्यक्तीकर्तुं लिङादिस्वरूपमाह। विधीति। तस्य यथोक्तनियोगगोचरत्वेऽपि कथं संसर्गस्य तदधीनतेति तत्राऽऽह। न तस्येति। नियोगस्य विषयः संसर्गस्तस्योपस्थापनं विना निर्विषये नियोगे लिङादेरपर्यवसानाद्विध्यायत्तः संसर्ग इत्यर्थः॥७२९॥

मानान्तरप्रसिद्धार्थवादित्वादनुवादकम्॥
विधेरन्यपदं यस्मान्नाऽऽक्षेपोऽतः प्रतीयते॥७३०॥

विधिपदवन्नामपदान्यपि संसर्गाक्षेपमन्तरेणापर्यवसितव्यापाराणि तमाक्षिपेयुरित्याशङ्क्याऽऽह। मानान्तरेति। नामपदान्यनुवादित्वान्नाऽऽक्षेपकाणीत्यर्थः॥७३०॥

अव्युत्पन्नेऽपि संबन्धे विध्यर्थावगमस्तथा॥
अथ विज्ञातसंबन्धं सिद्धार्थं स्याद्विधायकम्॥७३१॥

लिङादेर्मानान्तरागोचरनियोगार्थत्वे तस्य तेन संबन्धेऽनवगतेऽपि स तं गमयेन्न वा नाऽऽद्यस्तथा सत्यन्युत्पन्नस्यापि लिङादिश्राविणो नियोगधीपूर्वकप्रवृत्तिप्रसङ्गादिति दूषयति। अव्युत्पन्नेऽपीति। द्वितीयं शङ्कते। अथेति। ज्ञातसंबन्धस्य लिङादेर्बोधकत्वे तदपि मानान्तराधिगतार्थमनधिगते संबन्धिनि संबन्धबुद्ध्यसिद्धेरतो नामपदषद्विधिपदस्यापि नाऽऽक्षेपकतेत्याह। सिद्धार्थमिति॥७३१॥

स्वधर्मंच पदं जह्यात्संबन्धज्ञाननितौ॥
तस्माद्विज्ञातसंबन्धं पदं सर्वत्र बोधकम्॥७३२॥

लिङादेरज्ञातशक्तेर्बोधकत्वे दोषान्तरमाह। स्वधर्मं चेति। संबन्धग्रहापेक्षया स्वार्थबोधित्वं पदधर्मस्तन्निरपेक्षतया बोधकत्वे पदं स्वधर्मं त्यजेच्छक्तिज्ञानमनपेक्ष्य बोधकत्वं वाक्यधर्मं चाऽऽश्रयेदित्यर्थः। लोके ज्ञातसंबन्धस्य पदस्य बोधकत्वेऽपि वेदे नैवमित्याशङ्क्य लोकवेदाधिकरणविरोधान्मैवमित्याह। तस्मादिति॥७३२॥

इतोऽन्यथा कल्प्यमाने सर्वं स्यादसमञ्जसम्॥
वाक्यवाक्यार्थयोगश्चेद्वाच्यवाचकलक्षणः॥७३३॥

विपक्षे दोषमाह। इत इति। लोके शक्तिग्रहेऽपि वेदे तदभावे पदधर्मातिक्रमो वाक्यधर्माश्रयणं लोकावगतसामर्थ्यः शब्दो वेदेऽपि बोधक इति न्यायविरोधश्चेत्यनेकमयुक्तं स्यादित्यर्थः। पदधर्मातिक्रमपरिजिहीर्षया मीमांसकमुद्रां भिन्दानः शङ्कते। वाक्येति। योऽयं वाच्यवाचकलक्षणः संबन्धो लोके शब्दार्थयोः सिद्धः स वाक्यस्य वाक्यार्थेन योगो न पदस्य पदार्थेन तयोर्मिथुनीभावेन लोकसिद्धत्वाद्वाक्यार्थस्तु मानान्तरागोचरो नियोगोऽतो नोक्तदोष इत्यर्थः॥७३३॥

तद्विशेषैकनिष्ठत्वान्नवः संवन्धधीर्भवेत्॥
न विशेषान्तरे वृत्तिर्विशेषस्यास्ति गोत्ववत्॥
नैराकाङ्क्ष्येण तत्सिद्धेः संबन्धोऽतो न गृह्यते॥७३४॥

वाक्यस्य स्वार्थे संबन्धग्रहं दूषयति। तद्विशेषेति। तस्य वाक्यस्य गवानयनादावेकस्मिन्नर्थविशेषे स्थितत्वात्तस्य विशेषान्तरे वृत्त्ययोगाद्गोबन्धनादौ गवानयनानुपलम्भात्प्रतिवाक्यं शक्तिग्रहापातात्तस्य वर्षशतेनापि दुःसाधनत्वान्न स युष्माकं सिध्येदित्यर्थः। सत्ताद्यपेक्षया विशेषस्यापि गोत्वस्य विशेषान्तरे खण्डादौ वृत्तिवद्वाक्यार्थस्य वाक्यार्थान्तरे वृत्तेर्वाक्यस्य स्वार्थे शक्तिः सुग्रहेत्याशङ्क्याऽऽह। नेति। तत्र हेतुर्नैराकाङ्क्ष्येणेति। गवानयनादिवाक्यार्थस्य गोबन्धनाद्यनपेक्षत्वेन सिद्धेर्न तस्य गोत्वेन तुल्यता; न हि गोत्वं खण्डाद्यनपेक्षं, गवानयनं तु वाक्यार्थान्तरानपेक्ष दृष्टमित्यर्थः। न वः संबन्ध-

धीरित्युक्तं निगमयति। संबन्ध इति। वाक्यस्य स्वार्थे संबन्धग्रहे तस्यापि मानान्तरगम्यताया वाच्यत्वाद्वाक्यार्थस्यापूर्वत्वानुपपत्तिस्तुल्येति वाक्यस्य संबन्धज्ञानायोगात्पदस्यैव तद्ब्राह्यं लोके पदतदर्थयोर्मिथुनीकृत्य दृष्टत्वेऽपि नाज्ञातसंबन्धं पदं स्वार्थं बोधयेदर्थान्तरेऽपि प्रसङ्गादित्यर्थः॥७३४॥

संबन्धं मन्यते योऽपि शाब्दबोधानुसारिणीम्॥७३५॥
दृष्ट्वेहां श्रोतृगांसोऽपि न सम्यगभिमन्यते॥
श्रोतृस्थकार्यलिङ्गत्वात्कथं शब्देकगोचरः॥७३६॥

वाक्यस्य शक्तिग्रहं निरस्य पदस्यैव तं ब्रुवता लिङादेर्नियोगे तर हे तस्य मानान्तरगोचरता तस्य तत्राव्युत्पन्नत्वे तदबोधिताऽन्यथा पदधर्मातिक्रमादिः स्यादित्युक्तमिदानीं शब्दादेव ज्ञाते नियोगे लिङादेः शक्तिग्रहान्न दोष इत्येतद्यदाऽवगम्यते नान्यदित्यादिवार्तिकाभ्यामुक्तमाशङ्क्याऽऽह।संबन्धमिति। उत्तमवृद्धोक्तशब्दोत्थबोधानुरोधिनीं मध्यमवृद्धे श्रोतरि चेष्टां दृष्ट्वा तया तेन शब्दाधिगते नियोगे लिङादेः शक्ति बालो वेत्तीति योऽपि नियोगरागातुरो मन्यते सोऽपि न सम्यगवबुध्यते ज्ञातसंबन्धाद्धि शब्दान्नियोगधस्तितस्तत्र तज्ज्ञानमित्यन्योन्याश्रयादित्यर्थः। मध्यमवृद्धेन शब्दाधिगते प्रवर्तके नियोगे बालेन प्रवृत्तिलिङ्गावगते शक्तिग्रहान्नैवमिति चेत्तत्राऽऽह। श्रोतृस्थेति। मध्यमवृद्धगतप्रवृत्तिलिङ्गगम्यत्वान्न प्रवर्तकनियोगस्य शब्दैकगोचरता तथाच कथंचिद- न्योन्याश्रयनिरासेऽपि न तस्यापूर्वतेत्यर्थः॥७३५॥७३६॥

तस्यापि शब्दपूर्वत्वादिति चेल्लिङ्गपूर्वतः॥
कस्मान्न शब्दबोधोऽपि ह्यनुमानपुरःसरः॥७३७॥

प्रवृत्तिलिङ्गकानुमानस्यापि शब्दावगतनियोगे प्रवृत्तेः शब्दैकगम्यत्वं तस्य सेत्स्यतीति शङ्कते। तस्यापीति। श्रोतुः शब्दान्नियोगबोधोऽनुमानपूर्वकस्तस्य तस्मिन्पूर्वमनुमानप्रवृत्तेरतः शब्दान्नियोगबोधोऽपि किमिति लिङ्गपूर्वको न स्यादिति शब्दानुमानयोः साम्यमाह। लिङ्गेति॥७३७॥

नियोग शब्दतो बुद्ध्वा योऽपि श्रोता प्रवर्तते॥
तस्याप्यनुमितेरेव शब्दार्थप्रत्ययो भवेत्॥७३८॥

इदानीमनुमानस्य विशेषं दर्शयति। नियोगमिति। व्युत्पन्नस्य प्रवृत्तिकाले लिङादिना नियोगधीर्व्युत्पत्तिकाले लिङाद्यर्थे प्रवृत्त्य289नुमानापेक्षा तद्दुर्वारं तत्प्राथम्यमित्यर्थः॥७३८॥

प्रत्यक्षगम्यकार्येण नियोगस्यानुमेयतः॥
प्रत्यक्षकार्यवत्तस्य लौकिकत्वं प्रसज्यते॥७३९॥

नियोगविषयत्वेनानुमानस्य प्राथम्ये फलितमाह। प्रत्यक्षेति। प्रत्यक्षं लिङ्गं प्रवृ त्त्याख्यं कार्यं तेनानुमेयत्वान्नियोगस्य घटादिवन्न शब्दकगम्यतेत्यर्थः॥७३९॥

न चेत्कार्यंनियोगः स्यात्कोऽर्थो यागादिसिद्धितः॥
सिद्धवस्त्ववबोधित्वं विधेरपि तदा भवेत् ॥७४०॥

नियोगस्य कालत्रयास्पर्शिनो घटादिवदनुत्पाद्यत्वादलौकिकत्वमित्याशङ्क्यते। न चेदिति। तस्यानुत्पाद्यत्वे यागाद्यनुष्ठानवैयर्थ्यमिति दूषयति। कोऽर्थ इति। न चानुष्ठानं स्वर्गार्थं नियोगं विना तादर्थ्यासिद्धेरिति भावः। किंच नियोगस्यानुत्पाद्यत्वे तस्यासत्त्वानङ्गीकारादवश्यंभाविनि नित्यसिद्धत्वे तद्बोधिलिङादेः सिद्धबोधित्वं तन्न पक्षभेद इत्याह। सिद्धेति॥७४०॥

प्राथम्यं चात्र दुर्लक्ष्यं बीजतत्कार्ययोरिव॥
शब्दानुमानयोर्नातः शब्दमथमतेष्यते॥७४१॥

अस्तु तर्हि नियोगस्योत्पाद्यत्वं न च घटवलौकिकत्वं तत्र चक्षुरादेरशब्दपूर्वत्वान्नियोगे मानान्तरस्य तत्पूर्वत्वादित्याशङ्क्य तस्यापि शब्दपूर्वत्वादित्यादि प्रपञ्चयति। प्राथम्यं चेति। अत्रेति नियोगोक्तिः। शब्दानुमानयोरन्यतरस्येति द्रष्टव्यम्। न हि बीजाङ्करयोरन्यतरस्य प्राथम्यं गम्यते। अनुमानस्यापि तस्मिन्प्राथम्यसंभवोऽतःशब्दार्थः। तत्कुतस्तस्य शब्दैकगम्यतेति शेषः॥७४१॥

यद्वाऽनुमानमेवात्र शब्दात्पूर्वं हि युज्यते॥
नावित्तसंगतिः शब्दो गमकोऽतोऽनुवादकः॥७४२॥

यदा शब्दप्राथम्यस्य संभवस्तदा नियोगस्य शब्दकगम्यत्वमपि संभावितमित्याशङ्क्य नियोगं शब्दतो बुद्ध्वेत्यादि प्रपञ्चयति। यद्वेति। नियोगे प्राथम्यमनुमानस्यैवेत्यत्र हेतुमाह। नावित्तेति। अलब्धशक्तिः शब्दो न बोधकस्तद्धीश्च लिङादेर्नियोगे तद्ग्रहापेक्षा न च शब्दादेव तद्धीरन्योन्याश्रयादित्युक्तमतोऽनुमानप्राथम्यमित्यर्थः।भवतु नियोगस्यानुमेयतेति तर्हि लिङादेस्तत्रानुवादतेत्याह। अत इति॥७४२॥

बुध्यते योऽनुमानेन शब्दबुद्धं न वेत्ति सः।
भन्ने भन्नेऽपि मेये धीर्नानुवादोऽन्यबोद्धरि॥७४३॥

ननु शब्दो यस्मिन्नियोगे प्रविशति तस्मिन्प्रविशदनुमानं किमित्यनुवादकं न स्यादत आह। बुध्यत इति। बालो हि स्वेन शब्दादज्ञातमनुमानादवगच्छन्नानुमानमनुवादी करोतीति भावः। अथ श्रोत्रा शब्दतो ज्ञातं290 लिङ्गादाकलयतो बालस्य कुतोऽनुमानं नानुवादकं तत्राऽऽह। भिन्न इति। एकस्य बोद्धर्बुद्धेरनन्तरमन्यस्मिन्बोद्धरि तस्मिन्न-

न्यस्मिन्वाऽर्थे या बुद्धिः सा नानुवादी भवति। नहि चैत्रदृष्टे घटे तंत्रान्यत्र वा मैत्रज्ञानमनुवादोऽतो ज्ञातृभेदस्थज्ञानयोरन्यतरस्य नान्यतरदनुवादकमित्यर्थः॥७४३॥

प्रवृत्तिहेतुमात्रं च प्रवृत्त्याऽत्रानुमीयते॥
लौकिकेनापि तत्सिद्धेर्नास्ति मानमलौकिके॥७४४॥

नियोगस्य प्रवृत्त्यनुमेयत्वमुपेत्य पदार्थान्तरतुल्यत्वमुक्तमिदानीं तस्य प्रवृत्त्यनुमेयत्वमेव नास्तीत्याह। प्रवृत्तीति। श्रोता सप्तम्यर्थः। व्युत्पत्तिकाले श्रोतुः प्रवृत्त्या तद्धे291तुरनुमीयमानो नियोगान्नार्थान्तरमित्याशङ्क्याऽऽह। लौकिकेनेति। लोके स्तनपानादिस्वप्रवृत्तिसंतती ज्ञातहेतुत्वेन हितसाधनत्वेनैव श्रोतृप्रवृत्तिसिद्धेस्तस्मिन्नेव कृतियोग्यत्वोपलक्षिते लिङादिशक्तिग्रहादलौकिक नियोगे मानाभावात्तदसिद्धिरित्यर्थः॥७४४॥

कार्यबुद्ध्यैव संव्याप्तिः प्रवृत्तेर्न च गम्यते॥
सर्पादिवस्तुबोधेऽपि वृत्तिर्वीक्ष्यते यतः॥७४५॥

या प्रेक्षापूर्विका प्रवृत्तिः सा कार्यधीकृतेति व्याप्तेः स्वप्रवृत्तावपीष्टोपायताधियो न हेतुतेति चेत्तत्राऽऽह। कार्येति। उक्तव्याप्तिभङ्गे हेतुमाह। सर्पादीति। न च या धीपूर्वा प्रवृत्तिः साहितसाधनत्वधीकृतेति पक्षेऽपि व्याप्तिभङ्गस्तुल्योऽस्मादपसर्पणमनर्थध्वंसीति बुद्ध्वैव प्रवृत्तेर्न च तत्कार्यमिति श्रिया प्रवृत्तिस्तद्धेतुत्वेनापि विशिष्टेष्टसाधनत्वज्ञानादेव प्रवृत्तेरिति भावः॥ ७४९॥

पुंस्वृत्तेः फलं कार्यं विध्यर्थश्चापि कारणम्॥
प्रवृत्तिहेतुर्न फलं भवतैवाभिधीयते॥७४६॥

इतश्च नियोगस्य न प्रवर्तकतेत्याह। पुंस्प्रवृत्तेरिति। कार्यमेव प्रवर्तकं न फलमिति ते मतं तच्च विरुद्धं कार्यं हि प्रवृत्तिफलमिष्टतया साध्यत्वाद्विध्यर्थभूतं कार्यमेव प्रवृत्तिहेतुरिति चोपेतमेत्रमपि फलं प्रवर्तकं नेति भवतैव वक्तुं शक्यं न हि त्वत्तोऽन्यस्य विरुद्धमर्थं वक्तुं कौशलमतो भवतो विरुद्धवादित्वयो292गान्न नियोगस्य प्रवर्तकतेत्यर्थः॥७४६॥

अपसर्प्यस्य सर्पादेर्न च कार्यं फलं मतम्॥
अनर्थाभावमात्रत्वान्नचाभावः फलं क्वचित्॥७४७॥

पुंव्यापारस्य कार्यं फलमित्यङ्गीकृत्य नियोगस्याप्रवर्तकतोक्ता। इदानीं तस्य प्रवृत्तिफलतैव नास्तीत्याह। अपसर्प्यस्येति। सर्पादेः सकाशादपसृप्तिरूपपुंव्यापारस्य न कार्य फलमित्यत्र हेतुमाह। अनर्थेति। दुःखनिवृत्तिमात्रस्य तत्रेष्टत्वादित्यर्थः। कथमभावस्य फलत्वं नभोनलिनवदित्याशङ्क्याऽऽह। न चेति। नहि दुःखाभावः स्वरूपेण फलं किंतु मुखस्य व्यञ्जकत्वेन तत्त्वं नभोनलिनस्य त्वत्यन्तासतो न तद्व्यञ्जकत्वं दुःखनिवृत्तेस्तथात्वमग्रे व्यक्ती भविष्यतीति भावः॥७४७॥

नियोगोऽथ प्रमारूपो विधिशब्दप्रकाशितः॥
मानान्तरानपेक्षः सन्नाक्षेपकतया प्रमा॥७४८॥

विधिपदस्य मानान्तरायोग्यनियोगार्थस्य तद्विषयसंसर्गाक्षेपकत्वेऽपास्ते नियोगस्यैव तदाक्षेपकत्वमाशङ्कते। नियोगोऽथेति। लिङादिप्रतिपाद्यनियोगस्य प्रमात्वेऽपि कथं तत्र लिङादिर्नानुवादस्तत्राऽऽह। मानान्तरेति। नियोगस्य मानत्वे मानान्तरानपेक्षा युक्ता तत्तु कथमित्याशङ्क्याऽऽह। आक्षेपकतयेति। करणादिसंसर्गं विनाऽयुक्तो नियोगस्तदाक्षेपकत्वेन तत्र प्रमेत्यर्थः॥७४८॥

आक्षेप्तृत्वं न शब्दोत्थं न च मानान्तरात्तथा॥
अव्युत्पन्नमवृत्तिश्वेत्युक्तदोषप्रसङ्गतः॥७४९॥

तस्य तदाक्षेपकत्वं शब्दादन्यतो वा सिद्धं नाऽऽद्य इत्याह। आक्षेप्तृत्वमिति। नहीदं लिङादिवशात्प्रतीतं तस्य नियोगबोधनेनोपक्षयादित्यर्थः। न द्वितीयो मानान्तरस्य नियोगसंसर्गाक्षेपकत्वसाधकस्यादृष्टेरन्यथा नियोगस्यापि तद्गोचरत्वप्रसङ्गादित्याह। चेति। तथेति नियोगस्याऽऽक्षेपकत्वपरामर्शः। यत्तु मानान्तरानपेक्षः सन्निति तत्र नियोगस्य मानान्तरागम्यत्वे लिङादेस्तत्र शक्त्यग्रहादज्ञातशक्तिरपि पुरुषो लिङादिश्रवणात्प्रवर्तेतेत्याह। अव्युत्पन्नेति। चकारेण पदधर्मातिक्रमादिग्रहः। उक्तदोषसमाधित्सया नियोगो मानान्तररापेक्षश्चेत्तस्यापूर्वत्वहानिरित्याह। इत्युक्तेति॥७४९॥

स्वाभ्युपेतनयस्यैव त्यागः प्राप्नोत्यनीप्सितः॥
प्रामाण्यं चास्य यत्रेष्टं श्रुतेस्तत्रास्त्वनेन किम्॥७५०॥

अव्युत्पन्नप्रवृत्त्यभ्युपगमे का हानिस्तत्राऽऽह।स्वाभ्युपेतेति। श्रुतलिङादेरव्युत्पन्नस्यैव प्रवृत्त्याश्रयणे शाब्दो व्यवहारो व्युत्पन्नस्यैवेति सर्वतन्त्रसिद्धान्तो विरुध्येतेत्यर्थः। नियोगस्य मानत्वमुपेत्याऽऽक्षेपकत्वाद्यपास्य प्रामाण्यमेव प्रत्याचष्टे। प्रामाण्यं चेति॥७९०॥

क्व चेष्टमस्य मानत्वं न यागादौ स्वशब्दमे॥
लौकिकोऽपि न संसर्गो विध्यायत्तः स्थितो यतः॥
विध्यभावे293 हि संसर्गः श्रीतरस्त्यविधावपि॥७५१॥

किंच तस्य मानत्वं यागादौ वा संसर्गे वा यागादेरिष्टोपायत्वे वेति विमृशति। क्व चेति। आद्यं निरस्यति। नेति। यागादिपदादेव तत्प्रतीतेरिति हेतुमाह। स्वशब्दम्इति। यागादिवाचकः शब्द एव मा यस्य तस्मिन्निति यावत्। द्वितीयं निराह। लौकिकोऽपीति। यागादिपदार्थसंसर्गोऽपि न नियोगाधीनस्तस्य लौकिकत्वादित्यर्थः।

संसर्गस्य लौकिकत्वं साधयति। यत इति। राज्ञः पुमानित्यादिविधिहीनवाक्येऽपि। श्रोतुःसंसर्गे दृश्यतेऽतो नियोगाभावेऽपि संसर्गदृष्टस्तस्य लौकिकत्वं न च संसर्गविशे- षस्यालौकिकत्वं तस्य शब्दादेव सिद्धौ नियोगवैयर्थ्यादित्यर्थः॥७११॥

फलसाधनशक्तिश्चेद्विध्यायत्ता भविष्यति॥
नैवं तत्रापि शब्दस्य सामर्थ्यं केन वार्यते॥७५२॥

तृतीयमादत्ते। फलेति। धात्वर्थस्य फलं प्रति साधनशक्तिः साधनता सा नियोगकृत्वायदि यागादिःस्वर्गं न साधयेत्तदा तत्कामस्य तस्मिन्नियोगो न स्यादतो यागादेः स्वर्गादिसाधकत्वे नियोगो मानमित्यर्थः। तत्रापि तस्य न मानतेत्याह। नैवमिति। तत्रेति फलसाधनत्वोक्तिः। नियोगं दृष्टान्तयितुमपिशब्दः॥७९२॥

तस्मादितरतुल्यत्वान्न विध्यर्थनिबन्धनः॥
संसर्गः स्यात्पदार्थानां सुस्थमेवं विधिं विना॥७५३॥

प्रकृत्यर्थस्येष्टसाधनत्वे प्रत्ययस्य शक्तिग्रहान्न नियोगो विधिशब्दप्रकाशितो नापि प्रमाविषयाभावादित्युक्त्वा पदार्थसंगतेः कस्मादित्यत्रोक्तमुपसंहरति। तस्मादिति। शाब्दे ज्ञाने पोढाऽपि विधेरपोढत्वादात्मा ब्रह्मेति शाब्दं ज्ञानं विधिं विनैव सिद्धमिति फलितमाह। सुस्थमिति॥७९३॥

तस्मात्सर्वपदार्थानामाकाङ्क्षायोग्य294संनिधेः॥
परस्पराभिसंबन्धाद्विशिष्टार्थावबोधिता॥७५४॥

संसर्गस्य विध्यनधीनत्वे निर्निमित्तस्य तस्यासिद्धेर्न पदानां विशिष्टधीहेतुतेत्याशङ्क्य पदार्थान्तरतन्त्रत्वमित्यत्रोक्तमुपसंहरति। तस्मात्सर्वेति। नियोगस्य संसर्गनिमित्तत्वाभावात्कार्याकार्यात्मनां सर्वपदार्थानामाकाङ्क्षादिवशान्मिथः संबन्धाद्युक्ता पदानां विशिष्टधीहेतुतेत्यर्थः॥७५४॥

ननुत्पत्तिविधिर्यद्वत्कर्मबोधे व्यवस्थितः॥
आत्मज्ञानविधिस्तद्वदात्मबोधेऽवतिष्ठताम्॥७५५॥

कर्माधिकारवच्चात्र प्रवृत्तिरपि सेत्स्यति॥
अप्रवृत्तप्रवृत्तिश्चतथा बुद्धार्थबोधनम्295॥७५६॥

सुस्थमेवं विधिं विनेत्युक्तममृष्यन्वेदान्तेषु विधिद्वयमस्तीति शङ्कते। नन्विति। तत्राऽऽदौ दृष्टान्तेनोत्पत्तिविधिं तेषु साधयति। उत्पत्तीति। उत्पत्तिविधिरग्निहोत्रं जुहोतीत्यादिविधिरात्मज्ञानविधिरात्मा द्रष्टव्य इत्यादिविधिः। अधुना तेष्वधिकारविधिमाह। कर्मेति। यथोत्पन्ने कर्मणि फलशिरस्कनियोगवाक्यात्प्रवृत्तिरेवं मोक्षकामः296 प्रज्ञां

कुर्वीतेत्यधिकारविधेर्विहिते ज्ञाने प्रवृत्तिरित्यर्थः। अधिकारोत्पत्तिविध्योः स्वरूपं क्रमेण दर्शयति। अप्रवृत्तेति॥७५५॥७९६॥

एवं विधिमिहेच्छन्ति विध्ययोग्येऽपि वस्तुनि॥
विधिरागवशात्केचित्तान्प्रतीदमथोच्यते॥७५७॥

कर्मणि प्रवृत्तियोग्ये विधियुक्तौ तदयोग्ये स्वात्मज्ञाने कथं स्यातामित्याशङ्क्याऽऽह। एवमिति। आत्मज्ञाने विध्यनभ्युपगमे मुमुक्षुप्रवृत्त्यनुपपत्तिस्तत्र विध्योः साधिकेत्यर्थः। तत्र विध्यभ्युपगमे हेत्वन्तरमाह। विधीति। उत्पत्त्याधिकारौ तु विनियोगप्रयोगाविनानाविति तावपि वेदान्तेषु संभाविताविति भावः। प्रवृत्त्यनुपपत्त्या वेदान्तेषु विधिद्वयमिति चोद्यं समाधत्ते। तान्प्रतीति॥७५७॥

कर्मस्वरूपबोधे हि व्यापारो नेष्यते विधेः॥
किं तुत्पन्नस्य सापेक्ष्यादधिकारेण संगतिः॥७५८॥

यत्तत्पत्तिविधिर्यद्वदित्यादि तद्दूपयति। कर्मेति। कर्मोत्पत्तिविधेर्न तत्स्वरूपबोधने व्यापारो विश्राम्यति तद्बोधमात्रस्याफलत्वादित्यर्थः। कथं तहिं तव्यापारविश्रान्तिरित्याह। किं त्विति। उत्पत्तिविध्यधिगतकर्मस्वरूपस्य फलाकाङ्क्षत्वात्फलशिरस्कनियोगसंगतिद्वारा प्रयोगे तद्व्यापारसमाप्तिरित्याह। उत्पन्नस्येति॥७५८॥

अधिकारप्रवेशित्वं नाऽऽत्मज्ञानस्य युज्यते॥
यस्याधिकारसंबन्धः स आत्मा न विधीयते॥७५९॥

आत्मज्ञानस्यापि द्रष्टव्यविध्युत्पन्नस्य स्यादधिकारसंगतिरित्याशङ्क्याऽऽह। अधिकारेति। न तावद्विधेयत्वेनेष्टात्मज्ञानस्याधिकारविध्यनुप्रवेशित्वं तस्य मानाद्यधीनत्वादपुरुषतन्त्रस्याधिकार संबन्धायोग्यत्वादित्यर्थः। आत्मनः स्वामित्वेनाधिकारसंबन्धातद्वारा तज्ज्ञानस्यापि स्यात्तत्संगतिरिति चेन्नेत्याह। यस्येति। आत्मा संसारी परो वा तत्र संसारिणोऽधिकारसंबन्धेऽपि न स विधेयः सिद्धत्वान्नापि विधेयधी विषयो द्रष्टव्यादिवाक्यस्य तदविषयत्वात्परस्तु नाधिकारयोगी कुतस्तद्धियस्तद्वारा तत्संगतिरित्यर्थः॥७५९॥

व्रीह्यादिविषयं यद्वद्यत्नेनापि निरूपितम्॥
प्रत्यक्षं नाधिकारानुप्रवेशं प्रतिपद्यते॥७६०॥

परात्मज्ञानस्योत्पत्तिविधिविषयत्वेनेष्टस्याधिकारविध्यसंबन्धं दृष्टान्तेन स्पष्टयति। व्रीह्यादीति। यथा हि श्रीह्यादिविषयं प्रत्यक्षं सुपरीक्षितमपि न दर्शपूर्णमासाधिकारानुप्रवेशं व्रीह्यादिद्वारा प्रतिलभते तथाऽऽत्मज्ञानमपि नाऽऽत्मद्वाराऽधिकारमनुप्रविशति। तथाच वेदान्तेषूत्पत्तिविधिसंभवेऽपि नाधिकारादिविधिसंभवोऽज्ञातज्ञापनेनैव पुमर्थसिद्ध्या तत्पर्यवसानादविनाभावासंप्रतिपत्तेरिति भावः॥ ७६०॥

अन्योऽप्यनुभवोपायो मननध्यानलक्षणः॥
सोपायो विहितोऽस्त्येव प्रतिपत्तिविधिं विना॥७६१॥

आत्मज्ञाने विध्यभावेऽपि तदुपायविध्यनुरोधतो मुमुक्षुप्रवृत्तिरित्यभिप्रेत्य शाब्दे ज्ञाने विधिर्निराकृत इदानीमभ्यासे विधिरिति पक्षमुत्थापयति। अन्योऽपीति। या शाब्दी प्रतिपत्तिस्तद्विषयो यो विधिर्दूषितस्तं विनाऽपि कश्चिदनुभवस्योपायोऽन्यो विहितोऽस्तीति संबन्धः। अनुभवः साक्षात्कारः। विहितः समाहितः पश्येदित्यादाविति शेषः। उपायस्वरूपमाह। मननेति। शब्दयुक्त्याम्रेडनात्मक इति यावत्। इतिकर्तव्यतारहितकरणस्य विधानेऽपि वैफल्यमाशङ्क्याऽऽह। सोपाय इति। शमदमादिभिरुपायैरुपेतमात्मसाक्षात्कारसाधनं प्रसंख्यानं मननादिशब्दितं पश्येदिति विहितभित्यर्थः॥७६१॥

दर्शनस्य विधेयत्वात्तत्संबन्धोपलक्षितः॥
प्रसंख्यानात्मकोऽत्रापि प्रयत्नोऽनुभवं प्रति॥७६२॥

ननु पश्येदिति साक्षात्कारो विधीयते पश्यतेस्तत्कर्मणो विधिसंबन्धान्न प्रसंख्यानं तद्वाचकाभावादित्याशङ्कय तृतीयं कल्पं प्रसंख्यानवादिमुखेन प्रतिपादयन्नाह। दर्शनस्येति। न तावदात्मरूपं दर्शनं विधेयं नित्यत्वान्नापि तदाकारमनोवृत्त्यात्मकं सुखसा क्षात्कारत्वेन फलत्वादतोऽस्याविधेयत्वात्तेन साध्यसाधनलक्षणसंबन्धादुपलक्षितः प्रसंख्यानाख्यो यत्नः साक्षात्कारं प्रत्युपायत्वेन “पश्येदित्यत्रापि प्रज्ञां कुर्वीतेतिवद्विवीयत इत्यर्थः। अनुभवं प्रति विहित इति संबन्धः॥७६२॥

शमाद्यङ्गान्वितः सर्वमात्मेतिस्तुतिभूषणः॥
मननाद्यर्थवत्त्वाय पश्येदिति विधीयते॥७६३॥

सोपाय इत्युक्तं व्यनक्ति। शमादीति। प्रयत्नो विशेष्यत्वेन संबन्धनीयः। यद्विधीयते तत्स्तूयत इति न्यायं सूचयति। सर्वमिति। नहीदं सर्वं यदयमात्मेति मुख्य मध्यक्षादिविरोधादतस्तादृशस्तुतिमत्त्वादुक्तयत्नो दर्शादिवद्विधिमर्हतीत्यर्थः। मन्तव्यादिवाक्ये मननादेर्विधानात्किमत्र तद्विधिनेत्याशङ्क्याऽऽह। मननादीति। नहि मैत्रेयीब्राह्मणे तद्विधिस्तस्य वस्तुपरत्वान्न च वाक्यभेदेन विधिर्वाक्यैक्यसंभवे तदयोगान्न चाविहितं मननादि फलवदतस्तत्फलवत्त्वार्थमत्र विधिरित्यर्थः। अस्तु वा तत्रोत्पत्तिविविस्तथाऽप्यधिकारविधिरत्रेति मत्वा पश्येदित्यत्र प्रकृत्यर्थदर्शनोपलक्षितं प्रसंख्यानं प्रत्ययेन विधीयत इति निगमयति। पश्येदितीति॥७६३॥

पश्येदिति प्रयत्नश्चेत्फलं स्यादर्शनं तदा॥
लक्षणं न प्रयत्नस्य लक्षणं चेत्कथं फलम्॥७६४॥

नानेन प्रसंख्यानं विधातुं शक्यमिति सिद्धान्ती शङ्कते। पश्येदिति प्रयत्नश्चेदिति। यद्यत्र प्रसंख्यानात्मा यत्नो दर्शनोद्देशेन विधीयते। तदा दर्शनं विधीयमानयत्नसाध्यत्वात्तत्फलं स्यान्न तु तस्य विशेषणत्वेन लक्षणमसिद्धत्वात्सिद्धस्यैव तद्भावाद्दर्शनस्य यत्नलक्षणत्वे सिद्धत्वात्तत्फलत्वासिद्धिरतस्तस्य विधेययत्नफलत्वं तल्लक्षणत्वं चायुक्तमिति प्रसंख्यानविधिरत्र नावकाशवानित्यर्थः॥७६४॥

लोके दर्शनसंबद्धं प्रसंख्यानं समीक्षितम्॥
वेदेऽपि किं तथा तत्स्यान्न वातस्तद्विधीयते॥७६५॥

प्रसंख्यानवाद्याह। लोक इति। लोके शास्त्रपाठादौ दर्शनफलेन साधनतया संबद्धं प्रसंख्यानं दृष्टं तद्वद्वेदेऽपि तत्प्रसंख्यानं तथा दर्शनसाधनं न वेति विशये दर्शनादतोऽस्मात्प्रसंख्यानमुपलक्ष्य विधीयतेऽतस्तयोः संबन्धस्य लोकसिद्धत्वादुपलक्षणं तत्काले सदिति चानियमात्तथा च दर्शनफलत्वेन तदुपलक्षिते297ऽस्मिन्विंधिरित्यर्थः॥७६५॥

सामान्येनौषधं यद्वज्ज्वरनाशोपलक्षितम्॥
दृष्टं कष्टज्वरेऽप्येवं विशेषेणोपदिश्यते॥७६६॥

उक्तमर्थं दृष्टान्तेन स्पष्टयति। सामान्येनेति। यथौषधं कषायपानादि साधारण्येन ज्वरनिरासि लोके दृष्टं तदेव कष्टज्वरेऽपि संनिपातादिरूपे निवर्तकं न वेति संशये विवक्षितज्वरनिरासोपलक्षितं तद्धेतुतया सिद्धं विषमज्वरनाशहेतुत्वेनं विधीयते। उक्तं हि—

“पाचनं शमनीयं वा कषायं पाययेत्तनुम्।
ज्वरितं षडहेऽतीते लध्वन्नप्रतिभोजनम्॥

स्तभ्यन्ते न विपच्यन्ते कुर्वते विषमज्वरम्।
ततः साम्यबलापेक्षी भोजयेज्जीर्णतर्पणम्॥

क्रियाभिराभिः प्रशमं न प्रयाति यदि ज्वरः।
अक्षीणबलमांसस्य शमयेत्तं विरेचनैः” इति॥

तथा लोके साक्षात्कारसाधनत्वेन प्रसंख्यानस्य दीर्घप्रपाठकादौ दृष्टत्वाद्वेदेऽप्येवं स्यान्नेति संदेहे स्यादेवेति विशेषेण प्रविधीयते प्रसंख्यानमित्यर्थः॥७६६॥

अप्यज्ञातफलं साक्षान्मान्तरैर्विधिसंश्रयात्॥
अभावनिश्चयाभावात्प्रसंख्यानं फलाय नः॥७६७॥

अथ प्रसंख्यानं न साक्षात्कारफलं प्रसंख्यानत्वाल्लौकिकप्रसंख्यानवन्तत्राऽऽह। अप्यङ्गातेति। यद्यपि लोकेऽपि मानान्तरैरागमेतरैरज्ञातसाक्षात्कारफलं प्रसंख्यानं नहि

तत्फलं साक्षात्कारो दृश्यते तथाऽपि वेदे विधिबलात्फलकल्पनात्साक्षात्कारो न प्रसंख्यानादित्यभावानिश्चयाच्च तदस्माकमभ्यासिनां तं प्रसूते ततस्तत्फलकप्रसंख्यानविधिविरुद्धमनुमानं प्रसंख्यानविधेरपौरुषेयतया पुरुषोत्प्रेक्षितानुमानतो बलीयस्त्वान वैपरीत्यमिति भावः॥ ७६७॥

पश्वादावेवमेव स्यात्संदिग्धेऽपि विनिश्चयः॥
खपुष्पे त्वनुपायत्वान्निश्चयोऽस्ति विपर्यये॥७६८॥

ननु प्रसंख्यानं दृष्टफलमिष्टं तथाच कृष्यादाविवानन्तरफलादृष्टौ तदभावनिश्वयाभावादित्यसिद्धं नेत्याह। पश्वादाविति। चित्रादिफले पश्वादावनन्तरमदृष्टेऽपि किं तज्जन्मान्तरे भवति न वेति वीक्षायां नेत्यभावानिश्चयाद्विधेव भवत्येवेति कल्प्यत एवं प्रसंख्यानफले साक्षात्कारेऽनन्तरमदृष्टेऽपि कालान्तरे तस्मात्तद्भवति न वेति चिन्तायां कृष्यांदिफलवदभावा-निर्धारणाद्विधेश्चकालान्तरीयफलनिश्चयोऽतो न कारर्यादितुल्यं प्रसंख्यानं किंतु चित्रादिसममित्यर्थः। संदिग्धमपि फलं विध्यनुरोधेन सिध्यति चेदाकाशकुसुमादावपि तदनुरोधेन सत्त्वं स्यादित्याशङ्क्याऽऽह। खपुष्पे त्विति। तत्र तुच्छत्वादेवोपायासाध्यत्वान्न भवत्येवेति सत्त्वविपर्यये निश्चयोऽस्त्यतो न विधिबलान्नभोनलिनादेः सत्ता नापि तदीयां सत्तामुद्दिश्य कश्चिदस्ति विधिरित्यर्थः॥ ७६८॥

एवं केचिव्द्यवस्थाप्य प्रसंख्यानविधिं पुनः॥
ऐकात्म्यज्ञानतात्पर्यं तस्यापीच्छन्ति युक्तिभिः॥७६९॥

ननु प्रसंख्याननियोगमङ्गीकुर्वता वेदान्तानां तन्निष्ठत्वमिष्टं ततो मानाभावाद्वस्त्वसिद्धौ न प्रसंख्यानविधिर्नहि वस्तुनोऽसिद्धौ शाब्दज्ञानावृत्तिस्तत्राऽऽह। एवमिति। तत्त्वमाद्यभिधाश्रुतेर्वस्तुपरत्वात्प्रसंख्यानविधेश्च वक्ष्यमाणोपपत्तिभिस्तच्छेषत्वान्न वस्त्वसिद्ध्या प्रसंख्यानविध्यसिद्धिरित्यर्थः। उक्तरीत्या प्रसंख्यानविषयं विधिं स्थापयित्वा पुनर्वस्त्वसिद्धिशङ्कायामभिधाश्रुतेर्वस्तुपरत्वात्तज्जन्ये वस्तुज्ञाने तात्पर्यं प्रसंख्यानविधेरपि वक्ष्यमाणोपपत्तिभिरिच्छन्ति केचिदिति योजना॥ ७६९॥

विधिस्वातन्त्रयपक्षे हि किलैकात्म्यं न सिध्यति॥
तच्छास्त्रं विधिनिष्ठत्वान्न स्वरूपेऽर्थवादतः॥७७०॥

ननु विधेः शेोषित्वमभिधाश्रुतेः शेषत्वमिति स्थितेर्विपरीतं कुतो गुणप्रधानत्वं तत्राऽह।विधीति। यद्यपि वेदान्तेभ्योऽन्यत्र विधेः शेषित्वमभिधाश्रुतेः शेषत्वमित्युत्सर्गस्तथाऽपीह तस्या एव प्राधान्यं तस्य गुणत्वमन्यथा वस्त्वसिद्धेरित्यर्थः। त्वयाऽपि विधिप्राधान्ये वस्त्वसिद्धिरुक्तेति मत्वाऽऽह। किलेति। न च विधिप्रधानं वाक्यं वस्तुबोधकं वाक्यभेदादिति हिशब्दार्थः। कथं विधिस्वातन्त्र्ये वस्त्वसिद्धिस्तत्राऽऽह। तच्छास्त्रमिति। विधिप्राधान्ये तत्त्वमादिवाक्यमैक्ये न पर्यवस्यति विधिपरत्वेनार्थवाद-

स्याध्यक्षादिविरोधे स्वार्थे मानत्वायोगादतो वस्तुसिद्धिमिच्छता विधेर्गुणत्वमभिधाश्रुतेश्चप्राधान्यं वेदान्तेषु मन्तव्यमिति भावः॥७७०॥

अपि शास्त्रात्प्रपन्नेऽस्मिन्पारोक्ष्यानपहारतः॥
तत्साक्षात्करणायैव प्रसंख्यानं विधीयते॥७७१॥

ननु तात्पर्यवतो वाक्यादैक्यसिद्धौ कृतं प्रसंख्यानविधिनेति तत्राऽऽह। अपीति। तत्त्वमादिवाक्यादैक्ये प्रतीतेऽपि तद्गतपारोक्ष्यस्य विना साक्षात्कारमध्वस्तेस्तद्ध्वंसिसाक्षात्कारसिद्धये प्रसंख्यानविधिरित्यर्थः॥७७१॥

मानेन विषयासिद्धौ तदिदृक्षावियोगतः॥
प्रसंख्यानविधिर्न स्यात्सहापि मननादिभिः॥७७२॥

वस्तुसाक्षात्कारस्य प्रसंख्यान विध्यधीनत्वे किं शास्त्रेणेत्याशङ्क्याऽऽह। मानेनेति। शास्त्रेण वस्त्वसिद्धौ तत्साक्षात्कारेच्छायोगात्प्रतिपन्ने तन्नियमादन्यतश्च तदसिद्धेः साक्षात्कारमुद्दिश्य प्रसंख्यानविधिः सोपायो न स्यादतः शास्त्रेण वस्तु ज्ञातव्यमित्यर्थः॥७७२॥

श्रुतेर्ज्ञातात्मवृत्तान्तोऽननुभूतमपि स्वकम्॥
स्थानकं वाञ्छतः शास्त्रात्मसंख्यानं विधीयते॥७७३॥

ननु शास्त्रेण तज्ज्ञानं चेदनुभूतमेव ज्ञानानुभवयोरेकत्वादन्यथा तदज्ञानमेवेति साक्षात्कारमुद्दिश्य न प्रसंख्यानविधिरत आह। श्रुतेरिति। यो हि पुरुषो व्युत्पन्नस्तखमादिवाक्यात्प्रतिपन्नस्वरूपविषयवार्ताप्रवृत्तिस्तेन यद्यपि स्वरूपभूतं पदं नानुभूतं तथाऽपि शास्त्रप्रामाण्यात्प्रसंख्यानात्तत्त्वानुभवो भवितेति निश्चयात्तत्कामस्य पश्येदित्यादिना प्रसंख्यानविधिर्बोध्यत इत्यर्थः॥७७३॥

स्वव्यापारमुखेनैव शास्त्रं स्वार्थावबोधकृत्॥
न तु व्यापारविरहान्नातो द्विकरता श्रुतेः॥७७४॥

शास्त्रस्य वस्तुबोधित्वे प्रसंख्यानविधायित्वे च भिन्नार्थत्वाद्वाक्यभेदः स्यादित्याशङ्क्याऽऽह। स्वव्यापारेति। शास्त्रस्य प्रसंख्यानं व्यापारस्तद्वारा तस्य स्वार्थबोधित्वादद्वयाभावान्न वाक्यभेद इत्यर्थः। प्रसंख्यानाख्यं व्यापारं विना न स्वार्थबोधितेति शास्त्रस्योक्तव्यापारवत्त्वं व्यतिरेकद्वारा साधयति। न त्विति। विधिद्वारा वस्तुबोधिनो वाक्यस्य न द्विकरतेति फलितमाह। नात इति। द्विकरता स्वप्रधानार्थद्वयबोधितेति यावत्॥७७४॥

स्वव्यापारतिरोधानं कारकाणां न च स्थितम्॥
तस्मादैकात्म्यतात्पर्ये प्रसंख्यानादि सुस्थितम्॥७७५॥

प्रसंख्यानस्य शास्त्रव्यापारत्वे तेन व्यवहितं शास्त्रं न स्वार्थं बोधयेदित्याशङ्क्य

स्वाङ्गमव्यवधायकमिति न्यायेनाऽऽह। स्वव्यापारेति। प्रसंख्यानविधिं विना वस्तुसाक्षात्कारासिद्धेः शास्त्रीयां च वस्तुधियं मुक्त्वा तद्विध्ययोगात्तत्त्वमादेर्वस्तुपरत्वेऽपि प्रसंख्यानं तद्विधिस्तस्य च शेषत्वमित्यादि युक्तमित्युपसंहरति। तस्मादिति॥७७५॥

बोधयित्वाऽपि चैकात्म्यं नान्तरा पर्यवस्यति॥
आ पुमर्थावधेः शास्त्रमप्रामाण्यभयात्स्फुटम्॥७७६॥

शास्त्रादैकात्म्यबोधे पुमर्थसिद्धेः साक्षात्कारस्याकिंचित्करत्वात्किं तदर्थेन प्रसंख्यानेत्याशङ्क्याऽऽह। बोधयित्वेति। तत्त्वमादिवाक्यमैक्यं ज्ञापयित्वा मोक्षोपायसाक्षात्कारान्ततामन्तरेणान्तराले नोपरन्तुमुत्सहते वाक्योत्थपरोक्षधीमात्रेण पुरुषार्थपरिसमाप्त्यभावात्पुमर्थावसायिताभावे च प्रामाण्यायोगान्न च स्फुटं प्रामाण्यं विना हेतुं शक्यमपह्नोतुमतो मोक्षहेतुसाक्षात्कारस्यापेक्षितत्वात्तदर्थं प्रसंख्यानविधानमित्यर्थः॥७७६॥

परोक्षवृत्त्या शब्दो हि वदन्स्वार्थं स्वभावतः॥
संभावयन्प्रमाणत्वं युक्तिं स्वीकृत्य वर्तते॥७७७॥

तर्हि शास्त्रं प्रस्तुतं नियोगापेक्षया साक्षात्कारं जनयिष्यति नार्थो युक्त्येत्याशङक्याऽऽह। परोक्षेति। संसृष्टपरोक्षबोधित्वं शब्दस्वभावः स्वर्गकामादिविधिषु तद्वशादयमपि संसृष्टे परोक्षे चार्थे शब्दो वर्तते स च तया वृत्त्या स्वार्थं तादृशं वदन्नपौरुषेयत्वेनासंभावितदोषतया स्वस्य मानतां च संभावयन्फलान्ततायै विधिवद्युक्तिमपि सहायीकृत्य वस्तु साक्षात्कारयति युक्तेरपि मानाङ्गत्वादित्यर्थः॥७७७॥

याथात्म्यावगमेऽशक्ता धूमोऽनाविव साऽपि च॥
स्वीकृत्यैव प्रसंख्यानं युक्तिर्वस्तुनि वर्तते॥७७८॥

तर्हि शास्त्रसहकारिणी युक्तिरेवास्तु शास्त्रसहकृतयुक्तेरेव तत्त्वधीसमुन्मेषात्कृतं विधिनेत्याशङ्क्याऽऽह।याथात्म्येति। सा युक्तिः शास्त्रसहिताऽपि वस्तुसाक्षात्कारे न क्षमते द्वयोरपि परोक्षवृत्तित्वाविशेषाद्यथा धूमो वाक्यसहायोऽपि साक्षाद्दहनं न बोधयत्येवमेव युक्तिरुक्तसहायवत्यपि न तत्त्वं साक्षात्कारयेत्तथा चैषा प्रसंख्यानविधि- मपि सहकारित्वेनाऽऽदाय वस्तु बोधयतीत्यर्थः॥७७८॥

इत्यादिवर्त्मना शास्त्रं साक्षाद्वस्तु प्रसाधयत्॥
विधिं प्रति प्रधानत्वं स्वीकृत्याभ्येति मानताम्॥७७९॥

शास्त्रस्य प्रसंख्यानयुक्तिवदात्माख्यपादान्तरेऽपि सापेक्षत्वं विवक्षित्वा चतुष्पात्मानं निगमयति। इत्यादीति। शास्त्रमितिशब्दोक्ते युक्तिप्रसंख्याने आदिपदगृहीतश्चाऽऽत्मेत्यनेनत्मेत्यनेन सहायत्रयेण वस्तु साक्षाज्ज्ञापयद्विध्यादि प्रति प्राधान्यमादाय चतुष्पान्मानत्वमाप्नोतीत्यर्थः॥७७९॥

संसर्गकल्पनाशून्यमप्यैकात्म्यं प्रबोधयेत्॥
अनयैव दिशा शास्त्रं संसृष्टार्थाभिधाय्यपि॥७८०॥

शाखं साक्षाद्वस्तु न बोधयति संसृष्टपरोक्षबोधित्वस्वरूपविरोधात्सहकारिवशादपि स्वभावत्यागायोगादित्याशङ्क्याऽऽह। संसर्गेति। यद्यपि शास्त्रं संसृष्टपरोक्षाभिधायकं तथाऽपि तथाविधकल्पनाहीनमसंसृष्टमपरोक्षं च तत्त्वं प्रसंख्यानादिसहायभेदेन साक्षात्कारयेत्सहकारिसंपत्त्या दधिविषादिवदस्य कार्यान्तरारम्भकत्वाविरोधादिति भावः॥७८०॥

यतो वाचो निवर्तन्त इति श्रुत्यैव दर्शितम्॥
व्यपास्ताशेषसंसर्गकल्पनं ब्रह्म निर्भयम्॥७८१॥

संसर्गकल्पनाशून्यमैकात्म्यमित्यत्र मानमाह। यत इति। संबन्धग्रहणं पारोक्ष्योपलक्षणार्थम्। उक्तब्रह्मज्ञानस्य पुमर्थहेतुत्वमाह। निर्भयमिति॥७८१॥

शास्त्रेणानभिधाने तु नियोगेऽपि न युज्यते॥
प्रवेशो विषयत्वेन तुल्यं चोद्यमतो द्वयोः॥७८२॥

नन्वनया श्रुत्या वस्तुनो याथात्म्यप्रतिपादने वस्तुनो न प्रसंख्यानविध्यनुप्रवेशस्तद्विदो विधिं विना कृतकृत्यत्वादत आह। शास्त्रेणेति। यत इत्यादिना शास्त्रेण वस्तुनोऽनभिधाने विधेयप्रसंख्यानविषयशाब्दधीविषयत्वेन तस्य विधिप्रवेशो न युक्तः शब्दादज्ञातस्य शाब्दधीविषयत्वव्याघातादतः शास्त्रेण वस्तुनो वचनावचनयोर्द्वयोरपि तस्य विध्यनुप्रवेशायोगे चोद्यं तुल्यं न हि शास्त्रप्रकाशितं वस्तु पुमर्थरूपं विधिमनुप्रविशति नापि तदप्रकाशितस्य तदनुप्रवेशोऽज्ञातस्य विध्यङ्गत्वज्ञानायोगान्न च शास्त्रादन्यद्वस्तुप्रत्यायकमित्यर्थः। अपिशब्दो द्वयोरित्यस्मादुपरिष्टाद्योज्यः॥७८२॥

विधिं विना श्रुतैकात्म्यस्तदर्थानुभवादृते॥
उपायाज्ञतया कुर्यात्तच्छास्त्रस्यार्थवादताम्॥७८३॥

तर्हि वस्तुनो माऽस्तु विध्यनुप्रवेशित्वं तद्विनाऽपि श्रौताद्वस्तुज्ञानात्फलसिद्धेरित्याशङ्क्याऽऽह।विधिमिति। प्रसंख्यानविध्यनभ्युपगमे श्रुततत्त्वोऽपि वस्तुवादिशास्त्रस्यामानतामापादयेत्प्रसंख्यानाख्यानुभवोपायस्यानभ्युपगमा-दितरतदु298पायानभिज्ञत्वाच्छास्त्रमात्रात्तदर्थानुभवाभावाच्च तस्मात्प्रसंख्यानविधिरेवैष्टव्यस्तं विना फलासिद्धेः शास्त्रामानत्वापतेस्तथा च शास्त्रादापातज्ञातवस्तुनो विध्यनुप्रवेशितेति भावः॥७८३॥

विधिनिष्ठेऽपि शास्त्रे स्यादसिद्धेर्वस्तुनो मितेः॥
देवताध्यानवत्कल्प्यं फलमैकात्म्यवेदनम्॥७८४॥

उक्तविध्यधीने फले तस्य प्राधान्यादभिधाश्रुतिशेषत्वं कथमुक्तमित्याशङ्क्य विधिस्वातन्त्र्यपक्षे हीत्युक्तं प्रपञ्चयति। विधीति। प्रधानत्वे प्रसंख्यानविधेस्तत्त्वमादिशास्त्रे

च तच्छेषे तस्यान्यपरत्वात्प्रत्यक्षादिविरोधे ततो वस्तुनो मितेरसिद्धेर्विधेरैकात्म्यवेदनं फलं कल्प्यम्। यथा देवतोपास्तेस्तद्भावः फलं कल्प्यते नहि देवो भूत्वेत्यादिश्रुत्या तद्भावाधिगतिस्तस्यास्तदुपास्तिप्रधानत्वात्तद्बलादेव तद्भावानुवादित्वादतो वस्तुशास्त्रस्य प्रधानताविधेस्तद्गुणता यद्यपि फलहेतुतया विधिप्राधान्यं तथाऽपि तत्फलस्य वस्तुवेदनत्वाद्वस्तुविषयशास्त्रप्राधान्यं तत्क्रतुन्यायात्तु देवताध्यानस्य स्वप्राधान्यं299 न च प्रसंख्यानस्याप्रमाणस्य विहितस्यापि वस्तुवेदननिदानतेति नास्ति वस्तुशास्त्रस्यानुवादकत्वमित्यर्थः॥७८४॥

प्रतिपन्नात्मयाथात्म्यःप्रसंख्यानादि नेक्षते॥
अज्ञस्तु श्रावितोऽप्यस्माद्विना नाऽऽप्नोति तत्फलम्॥७८५॥

शास्त्रावगतब्रह्मात्मभावस्यापि प्रसंख्यानाद्यपेक्षायां तेन ज्ञाततत्त्वोऽपि तदपेक्षेतेत्यनवस्थामाशङ्क्याऽऽह। प्रतिपन्नेति। प्रसंख्यानादिना ज्ञाततत्त्वो न पुनस्तदपेक्षते चेत्तर्हि शास्त्राज्ज्ञाततत्त्वोऽपि न तदपेक्षेताविशेषादित्याशङ्क्याऽऽह। अज्ञस्त्विति। असाक्षात्कृततत्त्वस्तत्त्वमसीति नवकृत्वः श्राविततत्त्वोऽपि प्रसंख्यानादेविना श्रवणफलं साक्षात्कारं नाऽऽनोति श्रुतवाक्यस्यापि तद्धीनस्य तदभावादिति भावः॥७८५॥

शास्त्रेऽस्मिन्वस्तुनिष्ठेऽपि प्रसंख्यानविधिं विना॥
पुमर्थो लभ्यते300 नैवेत्यसावपि समाश्रितः॥७८६॥

नान्वयव्यतिरेकाभ्यामैकात्म्यानुभवो भवेत्॥
तत्सिद्धावेव तौ स्यातां स च ताभ्यामिति श्रयः॥७८७॥

वेदान्तेषु प्रसंख्यानविध्यपेक्षामुपसंहरति। शास्त्रेऽस्मिन्निति। अन्वयव्यतिरेकाम्यामेव वस्तुसाक्षात्कारसिद्धौ किं प्रसंख्यानादिनेत्याशङ्क्य याथात्म्यावगमेऽशक्तेत्यत्रोक्तं विवृणोति। नान्वयेति। द्रष्टृदृश्यविवेकादिरूपावन्वयव्यतिरेकौ शास्त्रानपेक्षा स्वतन्त्रा युक्तिर्वस्तु नानुभावयतीत्यत्र हेतुमाह। तत्सिद्धाविति। तौ हि ज्ञाते भवतो न चान्यतो वस्तुज्ञानं स्वतन्त्राया युक्तेस्तद्धेतुत्वापगमादतो वस्त्वनुभवे सत्यन्वयव्यतिरेकौ ताभ्यां चासाविति व्यक्तमन्योन्याश्रयत्वमित्यर्थः॥७८६॥७८७॥

यथैव विश्वजिद्यागपदे स्वार्थानुपालनम्॥
कुर्वती स्वर्गकामेन गच्छतः सह मानताम्॥७८८॥

तर्हि शास्त्रयुक्तिभ्यामेव तत्त्वानुभवादनर्थकं प्रसंख्यानमित्याशङ्क्य तदपेक्षया ते बोधयतः स्वार्थमित्यत्र दृष्टान्तमाह। यथेति। अस्यार्थः। विश्वजिता यजेतेत्यत्र विश्वजिच्छब्दो गुणविधिः कर्मनाम वेति संशये कर्मविधाने गुणश्रुत्याऽऽनर्थक्यात्तद्विधौ तदपेक्षाश्रयविशेषार्पकतया कर्मश्रुतेरर्थवत्त्वात्तत्कर्तव्यताया मानान्तरापेक्षत्वाद्वाक्याप्रामाण्ये

प्राप्ते विधेर्भावार्थविषयतया स्वतस्तद्विधानप्रतीतेर्विश्वजिच्छब्दस्य तन्नामत्वाद्वाक्यस्यानपेक्षं प्रामाण्यमिति प्रमाणलक्षणे स्थितम्। तथा चैते पदे स्वार्थकर्मानुसारिणी स्वर्गकामपदेन संबध्यमाने मानतां नियोगेऽनुवाते निरधिकारो हि विधिरिह श्रुतस्तत्र किं नियोज्योऽध्याह्रियतां न वेति संदेहे विषयेण कार्यस्यान्विताभिधानपर्यवसानादनध्याहारे कार्यस्य कृतिसाध्यत्वेन तन्निरूप्यत्वात्तस्याश्च स्वसाध्यधात्वर्थनिरूप्यत्ववत्स्वाश्रयनरनिरूप्यताया दुर्वारत्वात्तद्वारा कर्तुरपि तस्मिन्नन्वयात्तस्य च स्वसंबन्धितया तद्बोद्धुरेव तत्संबन्धादभिधेयावसानार्थं नियोज्योऽध्याहार्य इति सिद्धे सर्वेषामेकस्य वाऽध्याहार इति वीक्षायामविशेषात्सर्वेषामिति प्राप्तावेकेनाऽऽकाङ्क्षाशान्तेरेकस्येति स्थिते यस्य कस्यचिद्वा स्वर्गकामस्य वेति विशयेऽविशेषादनियमे स स्वर्गः स्यात्सर्वान्प्रत्यविशिष्टत्वादित्यत्र स्वर्गकाम एवाध्याहार्यश्चतुर्थे निर्धारितस्तथा चानयोस्तत्संबन्धयोर्मानतेति॥ ७८८॥

तथैव शास्त्रतयुक्ती स्वाभिधेयार्थपालनम्॥
कुर्वत्यौ मानतां यातः प्रसंख्यानेन नान्यथा॥७८९॥

दृष्टान्तस्थमर्थं दार्ष्टान्तिके योजयति। तथेति। यथोक्तदृष्टान्तेन शास्त्रयुक्ती वस्त्वनुसारिण्यौ प्रसंख्यानेन सह प्रतिपद्येते मानत्वमित्यर्थः। प्रसंख्यानेन सहैव शास्त्रयुक्त्योर्वस्तुनि मानता तत्साहित्याभावे परोक्षमर्थमावेदयन्त्यौ शब्दयुक्ती साङ्क्षत्वान्नानुवाते मानत्वमित्याह। नान्यथेति॥७८९॥

एवमैकात्म्यतात्पर्ये शास्त्रस्येष्ठेऽपि युक्तिभिः॥
केचित्कार्यमपीच्छन्ति तदर्थे, तन्न युज्यते॥७००॥

प्रसंख्यानवादमुपसंहरति। एवमिति। शास्त्रस्य वस्तुनि तात्पर्ये स्वीकृतेऽपि पूर्वोक्तप्रकाराभिर्मुक्तिभिर्वेदान्तेषु कार्यमपि प्रसंख्यानविषयं केचिदिच्छन्तीति योजना। तदर्थमित्यैकात्म्यानुभवार्थमित्यर्थः। प्रसंख्यानवादे दोषं संभावयति। तन्नेति॥७९०॥

प्रमात्रादित्रयं यस्मात्संविन्मात्रवपुर्भृतः॥
सिद्धायतेऽप्रसिद्धं सत्तत्सिद्धौ किमपेक्षते॥७९१॥

कथमिदमयुक्तमिति चेत्तत्र वस्तुसिद्ध्यर्थं वा तद्गतपारोक्ष्यनिवृत्त्यर्थं वा तदसिद्धिनिगमार्थं वा तत्तमोव्यपोहार्थं वा तदापरोक्ष्यार्थं वा तस्यैव मोक्षार्थं वा प्रसंख्यानविधानमिति विकल्प्याऽऽयं दूषयति। प्रमात्रादीति। तत्साधकस्यान्यानपेक्षत्वे हेतुमाह। संविदिति। मात्रादौ सत्तास्फूत्यराभासत्वं सूचयति। सिद्धायत इति। तस्य स्वतःस्फूर्त्याद्यभावे जाड्यंहेतुमाह। अप्रसिद्धमिति॥ ७९१॥

परोक्षमपि सद्वस्तु यत्साक्ष्यात्म301स्वरूपतः॥
साक्षादात्मेव चाऽऽभाति तस्मिन्पारोक्ष्यधीः कथम्॥७९२॥

** द्वितीयं** निरस्यति201परोक्षमिति। अहंकाराद्यनात्मवस्तु परोक्षमपि येनानुभूयमानत्वाद्यस्य च तदात्मत्वात्साक्षादिवाऽऽत्मेव च स्फुरति तस्मिन्पारोक्ष्यबुद्धेरयुक्तत्वान्न तद्गतपारोक्ष्यध्वंसार्थमपि प्रसंख्यानविधानमित्यर्थः॥७९२॥

अप्यज्ञानादि निःशेषप्रमेयव्यवधानकृत्॥
स्वतः प्रसिद्धात्संसिध्येत्तदसिद्धिः कुतो भवेत्॥७९३॥

तृतीयं निराह। अपीति। आदिशब्देन संशयमिथ्याज्ञाने कथ्येते। अज्ञानादेः सर्वमेयावरणस्यापि स्वप्रकाशवस्तवशादेव सिद्धेः साधकवस्त्वसिद्धेरयोगान्न तन्निरासार्थमपि प्रसंख्यानं विधेयमित्यर्थः॥७९३॥

स्वमहिम्नैव यः सिद्धः सर्वप्रत्यक्तमश्च यः॥
तत्तमोहतितः कार्यं किमन्यत्तत्प्रमाणजम्॥७९४॥

चतुर्थंप्रत्याह। स्वमहिम्नेति। देहादेः स्वप्रत्यगधीनतया सिद्धिवदात्मनोऽपि स्वान्तरवस्तुनिबन्धनसिद्धित्वान्न स्वमहिमसिद्धिरित्याशङ्कयाऽऽह। सर्वेति। तत्र प्रवृत्तमानजं फलं तद्गताज्ञानहानिरेवातो वस्तुगततमोध्वस्तेर्मान कार्यत्वान्न तदर्थमपि प्रसंख्यानविधानमित्याह। तत्तम इति॥७९४॥

मात्रादित्रयहानेऽपि हानसाक्षितयेक्ष्यते॥
येनासावविलुप्ताक्षस्तत्पारोक्ष्यं कथं भवेत्॥७९५॥

** पञ्चमं** प्रत्याह। मात्रादीति। मात्रादेर्भोक्त्रादेः कर्त्रादेश्व भावाभावसाक्षित्वेन नित्यचित्प्रकाशः प्रत्यगात्मा येन हेतुना श्रुत्यादौ गम्यते तेन तस्य परोक्षत्वायोगादापरो॒क्ष्यस्य स्वरूपत्वा॒न्न तदर्थमपि विधिरित्यर्थः॥७९५॥

भावनावर्त्मनैकात्म्ये विध्यर्थासंभवो यथा॥
अधिकारपरीक्षायां तथा प्राक्प्रतिपादितम्॥७९६॥

नन्वभ्युदयवन्मुक्तिमित्यारम्य विधिमार्गेऽधिकारस्य परीक्षा वर्तते न चांशत्रयशून्येह भावनेष्टा परीक्षकैरित्यधिकारवार्तिकेषु शाब्दबुद्ध्युत्तरभाव्यभ्यासस्य विधेयत्वमाशङ्क्य समाधिरुक्तोऽतस्तद्विधेरिहापि निरासे पुनरुक्तिरत आह। भावनेतिवार्तिककारमतेन वेदान्तेषु विधिमाशङ्क्य तत्कृत्याभावमधिकारवार्तिकेष्वनर्थको विधिस्तस्मादित्यादाववोचमित्यर्थः॥७९६॥

नियोगपक्षमाश्रित्य विध्यर्थासंभवो यथा॥
ऐकात्म्यसिद्धौ यत्नेन तथाऽत्र प्रतिपाद्यते॥७९७॥

इह तु ब्रह्मदत्तादिमतेन ज्ञानाभ्यासे विधिमाशङ्कय निरस्यते तन्न पुनरुक्तिरित्याह। नियोगेति॥ ७९७॥

ऐकात्म्यस्य स्वतो मुक्तेरज्ञानात्तस्य बद्धता॥
साध्येऽर्थे साधनापेक्षा सिद्धे तन्न व्यपेक्षते॥७९८॥

षष्ठं दूषयति। ऐकात्म्यस्येति। न विध्यपेक्षेति शेषः। आत्मनो बद्धत्वबुद्धिस्तर्हि कथं तत्राऽऽह। अज्ञानादिति। आद्ये पादे फलितमाह। साध्य इति॥७९८॥

तमोमात्रान्तरायत्वादैकात्म्याख्यस्य वस्तुनः॥
असाध्यसाधने तस्मिन्काऽपेक्षा भावनां प्रति॥७९९॥

स्वतःसिद्धतया मुक्तेः साधनानधीनत्वे ज्ञानस्यापि वैयर्थ्यमित्याशङ्क्याज्ञानादित्यादावभिप्रेतमर्थमाह। तमोमात्रेति। साध्यसाधनविभागशून्ये वस्तुनि विधेयाभ्यासापेक्षाभावेऽपि विरोधीभूतं तमस्तिरयितुं ज्ञानमिति भावः॥७९९॥

यदाऽनुभवकामस्य कार्यं साध्यं प्रतीयते॥
प्रसंख्याने तदैकात्म्यतात्पर्य कथमुच्यते॥८००॥

साक्षान्मोक्षोपायत्वेन प्रसंख्यानविध्यभावेऽपि तस्य ज्ञानशेषत्वात्तद्वारा तदुपायतेति युक्तं मोक्षार्थं विधानमिति चेन्नेत्याह। यदेति। साक्षात्कारमाकाङ्क्षतो यदा प्रसंख्याने विधिर्निश्चितस्तदा वेदान्तानामैकात्म्ये न तात्पर्यं तेषामुक्तविधिपरत्वादित्यर्थः॥८००॥

कार्यं चान्यपरं चेति द्वयमेतद्विरुध्यते॥
साध्यं हि सर्वदा कार्यमन्यत्तस्य प्रसिद्धये॥८०१॥

प्रसंख्यानविधेर्वस्तुनिष्ठवाक्यशेषत्वात्तदैकवाक्यानामपि वेदान्तानामैक्ये पर्यवसानमुक्तमित्याशङ्क्याऽऽह। कार्यं चेति। भूतभव्यन्यायेन विरोधं साधयति। साध्यं हीति॥८०१॥

विशेषणं नियोज्यस्य भवन्ननुभवः फलम्॥
विषयः302 सत्प्रसंख्यानमनुभूतेन साधनम्॥८०२॥

ननु श्रवणादिवन्निदिध्यासनमपि प्रसंख्यानाख्यमनुभवसाधनत्वेन विधीयते तथाच तद्विधे303स्तत्परत्वमावश्यकमित्याशङ्क्याभ्युपेत्य दूषयति। विशेषणमिति। अनुभवकामः प्रसंख्यानं कुर्यादिति स्वीयत्वेन कार्यं जानतो नियोज्यस्य व्यावर्तको भवन्ननुभवो विहितप्रसंख्यानफलमिति त्वयोच्यते। न च नियोगस्य प्रतीत्यनुबन्धितया विषयभूतं प्रसंरख्यानं वस्तु साक्षात्कारयति तस्य मानफलत्वात्प्रसंख्यानस्य चामानत्वादित्यर्थः॥८०२॥

भावार्थविषयं कार्यं प्रसंख्याने कथं भवेत्॥
आवृत्तिर्हि प्रसंख्यानं शब्दयुक्त्योरिति स्थितम्॥८०३॥

प्रसंख्यानं विषयो नियोगस्येत्यङ्गीकृत्य तस्यानुभवोपायत्वमपास्तमिदानीं तस्य तद्विषयत्वमेव नास्तीत्याह। भावार्थेति। तस्यापि भावार्थत्वाद्यागवत्तद्विषयतेति चेनेत्याह। आवृत्तिरिति। श्रवणमननयोरावृत्तिस्त्वया प्रसंख्यानमित्युपेतमतस्तस्य क्रियावृत्तित्वान्न क्रियात्वमित्यर्थः॥८०३॥

अथ श्रवणभावार्थविषयं कार्यमिष्यते॥
तदा श्रवणमेव स्याद्विशिष्टो विषयस्तव॥८०४॥

मा तर्हि वेदान्तेषु प्रसंख्याने विधिर्भूत्तथाऽपि श्रवणमननयोर्भावार्थत्वात्तद्विषयः स भविष्यति। तथाच कथं ते विधिमतिक्रमेरन्निति शङ्कते। अथेति। तत्र प्रतिज्ञाक्षतिरित्याह। तदेति। त्वया हि श्रवणमननयोरावृत्तिर्विधेयत्वेनेष्टा तत्त्यागेन श्रवणाद्येव विधेर्विशिष्टविषयतया यदेष्टं तदा ते प्रतिज्ञाहानिरिष्यते चास्माभिः श्रवणादौ विधिर्वस्तुप्रकरणेऽपि वाक्यभेदादुक्तं च मुमुक्षुप्रवृत्तेः शास्त्रीयत्वाय श्रवणादेर्विधेयत्वमिति भावः॥८०४॥

दाक्षायणादाबावृत्तेर्यत्रापि फलमुच्यते॥
सगुणात्पौर्णमासादेः फलं तत्रापि नो गुणात्॥८०५॥

ननु दाक्षायणादौ गुणात्फलमिष्टं यथाऽऽहुः — प्रकृतयोर्दर्शपूर्णमासयोर्गुणात्फलमुच्यते न यागान्तरं विधीयत इति तथा च प्रकृतेऽपि श्रवणाद्यावृत्तिगुणाद्विधिद्वारा साक्षात्कारलाभान्न प्रतिज्ञाहानिस्तत्राऽऽह। दाक्षायणादाविति। यत्रापि दाक्षायणाग्निहोत्रादौ विहिता वृत्तिवशात्फलमिष्यते तत्राप्यावृत्तिगुणकाद्दाक्षायणादिशब्दितदर्शादिभावार्थादेव विधीयमानादिष्टस्वर्गादिलाभो न गुणमात्रादित्यक्षरार्थः। अयं भावः—“अयनेषु चोदनान्तरं संज्ञोपबन्धात्” [पू० मी० २। ३। ५] दर्शपूर्णमासयोर्दाक्षायणयज्ञेन सुवर्गकामो यजेत साकंप्रस्थायीयेन यजेत पशुकामः संक्रमणयज्ञेन प्रजाकामो यजेतेति श्रुतं तत्र कार्यान्तरं विधीयते प्रकृतयोरेव वा दर्शपूर्णमासयोर्गुणविधिरिति संशय्यायनेष्वावृतिगुणकेषु कर्मसु श्रुतेषु सत्सु संज्ञाभेदात्कर्मान्तरविधिरिति पूर्वपक्षयित्वा दक्षस्योत्साहवतो यजमानस्येमे दाक्षास्तेषामयनमावृत्तिरित्यावृत्तिगुणयोगात्प्रकृतदर्शादावेव दाक्षायणशब्दस्य वृत्तेः स वै दक्षो नाम तद्यदनेन सोऽग्रेऽयजत तस्माद्दाक्षायणयज्ञ इत्याख्या - यत इति च श्रुतेः साकंप्रस्थायीयशब्दस्य च सहप्रस्थानगुणयोगात्तत्रैव वृत्तेर्न कर्मान्तरविधिरिति भेदलक्षणे राद्धान्तितम्उक्तं हि—“विकारो वा प्रकरणात्” [पू० मी० २। ३। ८] इति। दाक्षायणयज्ञादिर्दर्शादेरेव विकारस्तथा हि प्रकरणमनुगृहीतं स्यादिति

सूत्रार्थः। तदेवं प्रकृतात्कर्मणः सगुणात्फलमिति स्थिते श्रवणाद्यावृत्तिरपि केवला वस्तुसाक्षात्काराय न विधिमर्हतीति॥८०५॥

गुणो यत्रापि दध्यादिः कार्यावच्छेदको मतः॥
धात्वर्थावेशतः सोऽपि प्राप्ते चास्मिन्न तु स्वतः॥८०६॥

अथ दध्ना जुहोतीत्यादौ दध्यादिगुणस्य भावार्थत्वाभावेऽपि विधेयत्ववदावृत्तेरपि भावार्थत्वं विना विधिरिष्यतामत आह। गुण इति। यत्रापि वाक्ये दध्यादिर्गुणो विधेयत्वेनेष्टस्तत्रापि स धात्वर्थोपरागादेव कार्यमवच्छिनत्ति तदनुपरक्तस्य तस्य विध्यनुपलम्भादतोऽत्रापि नाक्रिया304वृत्तिमात्रं विशिष्टफलार्थं विधेयमित्यर्थः। श्रवणाद्यावृत्तिविधेर्दध्यादिविधेश्च वैषम्यान्तरमाह। प्राप्ते चेति। अग्निहोत्रं जुहोतीति प्राप्ते जुहोत्यर्थे दध्यादिवाक्यस्थाख्यातेनानूद्यमाने तदवच्छेदकत्वेन दध्यादिर्विधीयते न त्वप्राप्ते जुहोत्यर्थे स्वतो भावार्थस्पर्शनं विना तद्विधिरित्यर्थः। स्थितं हि द्वितीये—“आघाराग्निहोत्रमरूपत्वात्’’ [पु० मी० २।२।१३] अग्निहोत्रं जुहोतीत्युक्त्वा दना जुहोतीत्यादि श्रुतमाघारमाघारयतीति चोक्त्वा संततमाघारयतीत्यादि तत्र दना जुहोतीति संततमाघारयतीत्यादिभिर्गुणविशिष्टानि कर्माणि विधीयन्ते तेषां चाग्निहोत्राघारशब्दौ समुदायानुवादौ किं वाऽऽभ्यामपूर्वे कर्मणी विधीयेते इति तत्रेतरे गुणविधय इति संशये सत्यग्निहोत्राघारयोरग्निहोत्रादिवाक्ये द्रव्यदेवताविशिष्टरूपादृष्टेर्गुणवाक्येषु च तद्दृष्टेस्तेष्वेव तद्विधिसिद्धेरग्निहोत्राघारशब्दौ समुदायानुवादाविति प्राप्ते होमाघारौ प्रयोक्तव्याविति जुहोतीत्यादिशब्दार्थस्य प्रयोगरूपत्वात्कर्मान्तरचोदनैवात्र विवक्षिता तत्संनिधानाद्गुणार्थेन दना जुहोतीत्यादिना पुनः श्रुतिर्जुहोतेरुच्चारणं वाऽनुवादो गुणसंबन्धार्थः। तस्मादग्निहोत्रं जुहोत्याघारमाघारयतीति कर्मविधिस्तत्रैव दध्यादिवाक्यैर्गुणविधिरिति राद्धान्तःउक्तं च —“चोदना वा शब्दार्थस्य प्रयोगभूतत्वात्संनिधेर्गुणार्थत्वेन पुनः श्रुतिः” [पू०मी० २। २। १६] इति। तथाच प्राप्तभावार्थोपरागमन्तरेणाऽऽवृत्तिमात्रे कुतो विधिरिति भावः॥८०६॥

श्रवणादेर्न च प्राप्तिर्गुणान्न च फलं श्रुतम्॥
पश्येदिति हि धात्वर्थः केवलो विषयः श्रुतः॥८०७॥

अस्तु तर्हि समाहितो भूत्वा पश्येदित्यत्रापि प्राप्तश्रवणाद्यनुवादेन तदावृत्तिविधिस्तत्राऽऽह।श्रवणादेरिति। शान्तादिवाक्ये श्रवणादेर्न प्राप्तिस्तद्वाचिपदाभावान्न च श्रोतव्यादिवाक्ये वा पाण्डित्यादिवाक्ये वा पण्डितो मेधावीत्यादौ वा तद्विजिज्ञासस्वेत्यादौ वा प्रसिद्धश्रवणाद्यनुवादेन तद्विशिष्टावृत्तिविधिरनुवादकपदस्याऽऽवृत्तिवाचिशब्दस्य चात्राभावादित्यर्थः। आवृत्तिगुणात्फलाश्रवणादपि न तस्य विधेयत्वं दध्यादेस्तु

विशिष्टफलश्रुतेर्भावेोपरक्तस्य विधेयत्वं दतेन्द्रियकामाधिकरणे सिद्धमित्याह। गुणादिति। न च विश्वजिन्यायेन फलकल्पना संप्रतिपन्ने गुणविधावसति न्यायानवतारान्न च दर्शनं गुणफलं तस्य श्रवणादिफलत्वान्नापि मुक्तिस्तत्फलं ज्ञानफलत्वादिति भावः। कस्य तर्हि पश्येदिति विधिः। नहि श्रवणादेरेष विधिस्तस्यान्वयव्यतिरेक सिद्धदर्शनसाधनत्वस्य विध्यनपेक्षत्वात्तदपेक्षत्वेऽपि तस्यान्यत्रैव विहितत्वान्न च शमादेरयं विधिः पश्यतेरुपरिष्टांत्त्वदृष्टेर्न च दर्शनस्यैव तस्य त्वया विधेयत्वानुपगमात्तत्पारिशेष्यादावृत्तिविधिर्नेत्याह। पश्येदिति हीति। दर्शनस्यैव विधिविषयत्वश्रुतेरावृत्तेर्नात्र विधेयतेत्यर्थः॥८०७॥

नापि तल्लक्षितावृत्तिर्विधेया श्रुतहानतः॥
कार्यं यन्नापि भावार्थात्तदावृत्तिगुणात्कथम्॥८०८॥

यंत्तु दर्शनस्याविधेयत्वात्तदुपलक्षिताऽऽवृत्तिर्विधेयेति तद्दूषयति। नापीति। दर्शने श्रुतं विधिं विहायाश्रुतावृत्तिविधिर्न युक्तः श्रुतहान्यश्रुतकल्पनापत्तेरित्यर्थः। नन्वश्रुतमपि श्रुतस्यासंभवे स्यान्न चात्र श्रुतो दृष्टिविधिर्युक्तस्तस्याः स्वरूपत्वेन फलत्वेन च विध्यनर्हत्वस्योक्तत्वादतो नात्र श्रुतहान्यादिदूषणमत आह। कार्यमिति। यत्फलं क्रियातो न क्रियते तन्न तादृक् क्रियावृत्तिरूपाद्गुणाद्भवति नहि शीतभीतः शिशिरतरसलिलावगाहनतो दुःखनिवृत्तिमप्रतिपद्यमानस्तदावृत्त्या तद्भवस्तिं प्रतिलभतेऽतः शाब्दज्ञानादनुत्पन्नः साक्षात्कारस्तदावृत्तेर्भवतीत्यमानत्वाद्दृष्टिविधेः श्रुतस्य त्यागेऽपि नाश्रुतावृत्तिः साक्षात्काराय विधेयेति भावः॥८०८॥

स्वयं प्रबोधितेऽप्यर्थे यदि युक्त्याद्यपेक्षते॥
शास्त्रं सापेक्षमेत्रं स्यात्स्वतः प्रामाण्यवर्जनात्॥८०९॥

प्रसंख्यानस्य साक्षात्कारोपायतया विधेयत्वं निराकृत्य श्रुतेर्ज्ञातत्मिवृत्तन्ति इत्यादिना शास्त्रं स्वबोधितेऽप्यर्थे युक्त्याद्यपेक्षमित्युक्तमनुवदति। स्वयमिति। शास्त्रस्य स्वार्थे युक्त्याद्यपेक्षत्वे स्वतः प्रामाण्यहानात्पौरुषेयवाक्यवद्वेदवाक्यं सापेक्षं सदप्रमाणं स्यादिति दूषयति। सापेक्षमिति॥८०९॥

युक्त्यादि मान्तरं नो चेन्मानांशत्वेन तत्स्थितेः॥
संभूय पादाः सर्वेऽपि कात्म्यं बोधयन्ति नः॥८१०॥

युक्त्यादेर्मानान्तरत्वाभावात्तदपेक्षणेऽपि तत्त्वमादेर्नाप्रामाण्यमिति शङ्कते। युक्त्यादीति। तस्य मानान्तरत्वाभावे हेतुमाह। मानेति। चतुष्पात्त्वं मानांशत्वेन युक्त्यादेः स्थितं साधयति। संभूयेति। शब्दयुक्तिप्रसंख्यानात्मानश्चत्वारोंऽशा मिलित्वैव जिज्ञासूनां वस्तु ज्ञापयन्ति। यथोक्तम्

“शब्दयुक्तिप्रसंख्यानैरात्मना च मुमुक्षवः।
पश्यन्ति मुक्तमात्मानं प्रमाणेन चतुष्पदा” इति॥

तन्न स्वतन्त्रमानता तेषामित्यर्थः॥८१०॥

न संभूय यतः पादास्तैलवर्त्यनयो यथा॥
मितेः स्वरूपलाभाय न तु मेयोपलब्धये॥८११॥

चतुर्णां पादानां संभूय वस्तुबोधित्वं दूषयति। न संभूयेति। यथा तैलादयो मिलित्वा दीपहेतवः स चार्थप्रकाशकस्तथा पादाश्चत्वारो मिलिता मितेः स्वरूपं लम्भयन्ति सा च मेयोपलब्धिहेतुरतो न पादा वस्तूपलम्भे कारणानीत्यर्थः॥८११॥

संभूय यदि सर्वाणि फलमेकं प्रतन्वते305
प्रत्येकं प्रमितेर्वृद्धिरित्येतत्स्यात्तदा मृषा॥८१२॥

ननु ते विषयमेवोपलम्भयन्ति तेषामिति स्वरूप हेतुत्वे हेत्वभावादिति शङ्कते। संभूयेति। किमेते विषयोपलब्धिमेव कुर्वन्ति किंवा प्रमाणमपि नाऽऽद्य इत्याह। प्रत्येकमिति। यदा पादानां विषयोपलम्भकत्वमेव तदा प्रमाणस्यैकै कस्मात्पादादभिवृद्धिरिति प्रसंख्यानवादिवचो मृपा स्यादतो भवद्वाक्यमेव पादानां प्रमाणस्वरूपहेतुत्वे हेतुरित्यर्थः॥८१२॥

संभूय फलकारित्वं क्रियाकारकसंगतेः॥
स्वरूपलाभतो नान्यदभिव्यक्तावपेक्षते॥८१३॥

द्वितीयं दूषयति। संभूयेति। क्रिया मानं तदर्थानां कारकाणां मिथःसंगतियोग्यत्वात्तेषां मिलित्वा मानकर्तृत्वं युक्तम्। तथाच पादानां मानकर्तृत्वे नार्थोपलम्भकत्वमपर्यायेण व्यापारद्वयायोगान्न च व्यापारक्रमः शब्दादिष्वनभ्युपगमादिति भावः। ननु पादा यद्यपि मितिं कुर्वन्ति तथाऽपि तेभ्यो भूता सा सहकार्यभावे नार्थ भासयेदतो मानामेयबुद्धावपि पादाः सहकारिणोऽत आह। स्वरूपेति। मानं स्वजन्मातिरेकेण स्वार्थप्रकाशने सहायान्तरं नापेक्षते स्वयंशक्तत्वान्न च पादानां क्रमाक्रमाभ्यां व्यापारद्वयमित्युक्तमित्यर्थः॥८१३॥

तैलवर्त्यग्नयो यस्मात्मदीपोत्पत्तिकारणम्॥
लब्धात्मलाभो दीपोऽर्थं स्वयमेव प्रकाशयेत्॥८१४॥

संभूयेत्यादिपूर्वार्धार्थे दृष्टान्तगर्भ हेतुमाह। तैलेति। ते मिथोयुक्ता दीपहेतवो यतो दृश्यन्तेऽतस्तेनैव न्यायेन मानहेतूनामपि शब्दादीनामन्योन्यं संगतियोग्यानां मिलितानां प्रमाजनकत्वमित्यर्थः। स्वरूपलाभतो नान्यदित्याद्युत्तरार्धे दृष्टान्तमाह। लब्धेति। यथा

स्वहेतुसमासादितस्वभावो दीपोऽन्यनिरपेक्षः सन्विषयं प्रकाशयति तथा शब्दादिभ्यो लब्धात्मकं मानं स्वयमेव स्वार्थ भासयेदित्यर्थः॥ ८१४॥

शब्देन ज्ञाप्यते यद्वत्तथैव यदि युक्तिभिः॥
व्यर्थताऽथ विशेषश्चेत्संप्राप्ता भिन्नमानता॥८१५॥

शब्दादीनामेव मानत्वान्न तदुत्पत्तिहेतुतेति चेत्किं तेषां संभूयमानत्वं प्रत्येकं वाऽऽद्ये यावानर्थः शब्देन भास्यते तावानेव युक्त्यादिभिरपि ततोऽन्यो वा नाऽऽद्य इत्याह। शब्देनेति। शाब्देऽर्थे युक्त्यादीनामकिंचित्करतेत्यर्थः। कक्षान्तरमुत्थाप्य प्रत्याह। अथेत्यादिना। शाब्दादन्यो युक्त्यादीनामर्थश्चेन्मेयभेदात्तेषां भिन्नमानतया संभूयमानत्वासिद्धिरित्यर्थः॥८१५॥

स्वप्नादियुक्तिभिश्चेत्तल्लौकिकीभिः प्रसाध्यते॥
अवैदिकं भवेद्वस्तु स्याच्च शास्त्रानुवादता॥८१६॥

प्रत्येकं तेषां मानत्वेऽपि लोकसिद्धाभिः स्वप्नादिसंबन्धाभिरन्वयव्यतिरेकाख्याभिर्युक्तिभिर्वा ब्रह्म भास्यते वेदैकगम्याभिर्वा नाऽऽद्य इत्याह। स्वमादीति। अवस्थात्रयं व्यभिचारान्मिथ्याऽऽत्मा त्वव्यभिचारादमिथ्येत्यादिलौकिकयुक्तिभिर्ब्रह्म भास्यते वेदवैदिकत्वं तत्सिद्धं ब्रह्मानुवादिले च तत्त्वमादेरनपेक्षप्रामाण्यासिद्धिरित्यर्थः॥८१६॥

वैदिकत्वेऽपि युक्तीनामागमार्थप्रबोधतः306
अनुवादत्वमेव स्यात्स्याच्च शास्त्रादभिन्नता॥८१७॥

द्वितीयं प्रत्याह। वैदिकत्वेऽपीति। वस्तुप्रकाशित्वेनेष्टयुक्तीनां वेदैकगम्यत्वेऽपि तासामागमिकार्थविषयत्वादनुवादत्वान्न मानांशतेत्यर्थः। युक्तीनां वैदिकत्वे शास्त्रादिन्नत्वासिद्धेर्मानस्य त्रिपात्त्वप्रसङ्गाच्चतुष्पात्त्वपक्षक्षतिरिति दोषान्तरमाह। स्याच्चेतिउक्तं हि—

मीमांसासंज्ञकस्तर्कः सर्वो वेदसमुद्भवः।
सोऽतो वेदोरुमाप्राप्तकाष्ठाम्बुलवणाप्तिवत्" इति॥८१७॥

आवृत्तिश्च प्रसंख्यानं कुर्यात्सातिशयं कथम्॥
न ह्यावृत्तौ प्रमाणस्य प्रमेयेऽतिशयो यतः॥८१८॥

युक्तीनां शब्दसहायत्वमपो प्रसंख्यानस्य तदपोहन्नादौ तदीयखरूपमाह। आवृत्तिश्चेति। सा च शब्दस्य सहायत्वेनोच्यमाना तद्विषयेऽतिशयमाधत्ते न वा नाऽऽद्यइत्याह। कुर्यादिति। शब्दावृत्तिः शाब्देऽर्थे नातिशयहेतुरित्यत्र हेतुमाह। न हीति। घटादिष्वदृष्टेरिति शेषः। यतो वैयर्थ्यं प्रसंख्यानस्य स्यादतो न द्वितीय इत्याह। यत इति। न च शब्दे तदावृत्तेरतिशयाधायित्वं तत्राऽऽहितातिशयस्य

तदीयस्पष्टताग्रहानतिरेकात्तस्य च कदाचिदावृत्तिं विनाऽपि संभवात्तत्र चाऽऽवृत्तेरर्थवत्त्वेऽपि मेये तदानर्थक्यमेवेति भावः॥८१८॥

यत्रापि चान्धकारादिदोषात्क्रमविनिश्चयः॥
तत्रापि भिन्नमेयत्वान्नैव संभूयमानता॥८१९॥

ननु मन्दान्धकारे दूरदेशे वाऽवस्थितार्थेषु मानावृत्त्या क्रमेण निश्चयादावृत्तिरर्थवतीत्याशङ्क्याऽऽह। यत्रेति। तस्याः साफल्येऽपि मानान्न संभूयकारिता मेयभेदात्प्रत्येकं मानत्वे307 चेकमानावृत्त्यभावान्न तदर्थवत्तेत्यर्थः॥८१९॥

पूर्वं वस्त्विति विज्ञानं माण्ययं मानुषस्तथा॥
पुरुषोऽयमथ श्यामो डित्थ इत्यर्थभिन्नता॥८२०॥

भिन्नमेयत्वमुदाहरति। पूर्वमिति॥८२०॥

परिच्छेदफलत्वं हि मानत्वं तच्च भिद्यते॥
तदभावे तु308 पूर्वेषामुत्तरस्यैव मानता॥८२१॥

तत्रार्थभेदेऽपि मानाभेदादेकमेव तदावर्त्यमानं निश्चायकमित्यावृत्त्यर्थवत्तेति चेन्नेत्याह। परिच्छेदेति। प्रत्यर्थं परिच्छेदभेदात्तद्धेतुत्वस्य मानत्वस्यापि भेदान्नैकमानावृत्त्या निराकाङ्क्षनिश्चयोत्पत्तिरित्यर्थः। डित्थज्ञानस्यैवान्तिमस्य परिच्छेदफलत्वं न पूर्वेपमिति मानाभेदमाशङ्क्याऽऽह। तदभावे त्विति। प्राचीनज्ञानानां परिच्छेदफलविकलानाममानत्वात्तत्फलवतोऽन्त्यज्ञानस्य तथात्वान्नाऽऽवृत्तिर्नापि मानानां संभूयकारितेत्यर्थः॥८२१॥

अथ प्रभेदेऽपि प्रमाणैकत्वमिष्यते॥
वस्तुग्राहितयाऽक्षादेरैकार्थ्येऽभिन्न309मानता॥८२२॥

वस्त्वादिज्ञानेप्ववान्तरविषयभेदेऽपि सर्वत्र वस्तुमात्रस्याभिन्नस्यानुसंधानान्मानाभेदातच्च भिद्यत इत्ययुक्तमिति शङ्कते। अथेति। तथा चैकस्यैवाऽऽवृत्त्या वस्तु निश्चयसिद्धिरित्यर्थः। अतिप्रसक्त्या परिहरति। वस्त्विति। वस्तुग्राहितयेत्युभयतः संबन्धः। प्रत्यक्षादिमानपञ्चकस्यापि वस्तुविषयत्वादेकार्थत्वे सत्येकमानता स्यादित्यर्थः॥८२२॥

साध्यमानं प्रसंख्यानं यागवत्साधयेत्फलम्॥
कारकं ज्ञापकं शास्त्रं तयोः स्यादेकता कथम्॥८२३॥

प्रतंख्यानस्य शब्दे तद्विषये चातिशयानाधायिनो न शब्दसहायतेत्युक्त्वा तत्रैव हेत्वन्तरमाह। साध्यमानमिति। कारकत्वज्ञापकत्वेन स्थितयोः प्रसंख्यानशास्त्रयोर्नेकवाक्यतेत्याह। तयोरिति॥८२३॥

प्रमाताऽऽत्मा न मानांशो यद्ययं व्यावहारिकः॥
परश्चेत्स प्रमेयः स्यात्कथं चानुभवः फलम्॥८२४॥

युक्तिप्रसंख्यानयोः शब्दसहायत्वं निराकुर्वता मानांशत्वं निरस्तं यत्पुनरात्मा च मानांश इति तत्र किमसौ संसारी किं वाऽसंसारीति विकल्प्याऽऽद्यमन्द्य दूषयति। प्रमातेति। यदि व्यवहारमनुसरन्नात्मा संसारी मानांशो विवक्षितस्तदा तस्य संसारिणो मानाश्रयस्य न तदंशताऽऽश्रयाश्रयिभावस्यात्यन्तभेदापेक्षत्वादंशांशिनोश्च तदभावादित्यर्थः। कल्पान्तरमनुभाष्य दूषयति। परश्चेदिति। नहि मेयस्य मानांशता विषयविपयित्वस्यैकत्रायोगादित्यर्थः। चतुप्पान्मानमपनीय तत्फलमपनयति। कथं चेति॥८२४॥

स्वरूपं यद्यसाध्यं तत्स्वातन्त्र्येण प्रसिद्धितः॥
तज्ज्ञानं चेत्प्रमाणं तत्तच्च शास्त्रान्न कार्यतः॥८२५॥

का पुनरत्रानुपपत्तिस्तत्रानुभवो ब्रह्मस्वरूपं वा तदाकारा वृत्तिर्वा नाऽऽद्य इत्याह। स्वरूपमिति। नातस्तस्य मानफलतेति शेषः। द्वितीयं प्रत्याह। तज्ज्ञानमिति। मानस्यापि ब्रह्मज्ञानस्य चतुष्पान्मानफलतेति चेन्नेत्याह। तच्चेति। तद्धि तवमादिवाक्यादेवोदेति न कर्तव्यप्रसंख्यानादेरित्यर्थः॥८२५॥

शास्त्रमावर्त्यमानं हि स्वभावं नैव मुञ्चति॥
परोक्षवृत्तिर्युक्तिश्चकथं ते मितिवर्धने॥८२६॥

यत्तु पादानां प्रत्येकं प्रमितिवृद्धिहेतुत्वं तत्राऽऽह। शास्त्रमिति। आवर्त्यमाने शास्त्रयुक्ती परोक्षेऽर्थे बोधकत्वेन स्थिते स्वरूपं न मुञ्चतोऽतो न शब्दाद्यावृत्तेरपरोक्षमितिवृद्धिरित्यर्थः॥८२६॥

प्रमितेश्चप्रमेयस्य वृद्धौवृद्धिः स्वतो न हि॥
तस्य वृद्धिर्मितेर्वृद्धावित्यन्योन्यसमाश्रयः॥८२७॥

उक्तावृत्त्या मितिवृद्धिपक्षे दोषान्तरमाह। प्रमितेश्चेति। मेयस्थातिशयसिद्धौमानस्थातिशयसिद्धिरर्थेनैव विशेषो धियां हीतिन्यायान्मानातिशयसिद्धौ च मेयातिशयसिद्धिस्तं विना तस्यामानत्वादित्यन्योन्याश्चयान्नाऽऽवृत्त्या मितिवृद्धिरित्यर्थः॥८२७॥

उत्पाद्यापि मितिं शास्त्रं यदि युक्त्याद्यपेक्षते॥
स्वर्गादावेवमेव स्यात्सापेक्षं च भवेत्तदा॥८२८॥

पादानां प्रत्येकं प्रमितिवृद्धिहेतुत्वं निरस्तं संप्रति शास्त्रं युक्त्याद्यपेक्षमित्युक्तं प्रकारान्तरेण प्रत्युच्यते तत्र शास्त्रं वस्तु ज्ञापयित्वा फलसिद्ध्यर्थमन्यदपेक्षते तज्ज्ञप्तावेव वेति विकल्प्याऽऽद्यं दूषयति। उत्पाद्यापीति। आद्ये हि स्वर्गकामादिवाक्यमपि संबन्धबोधनद्वारा धात्वर्थे पुंस्प्रवृत्तिमापाद्य स्वर्गाद्युद्दिश्य युक्त्याद्यपेक्षं स्यान्न च तद्दृष्टमिष्टं

वेत्यर्थः। द्वितीयं प्रत्याह। सापेक्षं चेति। यदा वाक्यं स्वार्थमितौ युक्त्याद्यपेक्षं तदा सापेक्षत्वादमानं स्यान्न च युक्त्यादेरमानत्वाददोषो मानांशत्वात्तत्त्वसिद्धेर्वाक्यस्य च स्वार्थबोधने स्वयमेव सामर्थ्यादन्यापेक्षानिमित्ताभावादित्यर्थः॥८२८॥

व्यपास्तानर्थसंदर्भमात्मानमवगच्छतः॥
किमाप्यमधिकं शास्त्राद्येन युक्त्याद्यपेक्षते॥८२९॥

शास्त्रस्य वस्तुज्ञानादधिकं फलमङ्गीकृत्य तादर्थ्येन न युक्त्याद्यपेक्षेत्युक्तमिदानीमधिकं फलमेव तस्य नेति कुतस्तदर्थमपेक्षेत्याह। व्यपास्तेति। शास्त्रादुक्तविशेषणमात्मानमवगच्छतो नाधिकमवाप्यमस्तीति कुतो युक्त्याद्यपेक्षेति संबन्धः॥८२९॥

का वा युक्तिः प्रदीपस्य सर्पाद्याकम्पनाशनम्॥
रज्ज्वादितत्त्वविज्ञानं कुर्वतः स्वेन तेजसा॥८३०॥

शास्त्रस्य स्त्रार्थबोधने युक्त्याद्यपेक्षाभावं दृष्टान्तेन साधयति॥ का वेति। यथा दीपस्य सर्पादेस्तन्निमित्तकम्पादेश्चनाशकं रज्ज्वादिज्ञानं स्वतेजोबलादेव जनयतो न काऽपि युक्तिरपेक्ष्यते तथा शास्त्रस्यापि स्वार्थं बोधयतोऽनपेक्षतेत्यर्थः॥८३०॥

गुणप्रधानभावो हि विना नैवैकवाक्यताम्॥
वस्तुकार्यार्थतात्पर्यभेदान्नापीह सा भवेत्॥८३१॥

शास्त्रस्य नैरपेक्ष्यं निरूप्य तत्प्राधान्यं प्रसंख्यानविधेर्गुणतेत्युक्तं निरस्तमेव विधान्तरेण निरस्यति। गुणेति। अस्तु तर्हि तत्त्वमादौ प्रसंख्यानविधौ चैकवाक्यत्वं नेत्याह। वस्त्विति। तत्त्वमादेर्वस्तुपरत्वात्प्रसंख्यानविधेर्नियोगपरत्वान्नैकवाक्यता न चाभिधाश्रुतेरपि नियोगपरत्वं वस्त्वसिद्धिप्रसङ्गान्नापि विधेर्वस्तुपरत्वं स्वप्रधानविरोधात्तदनियमेऽपि न्यायविरोधादतोऽर्थभेदे वाक्यभेदधौव्यमित्यर्थः॥ ८३१॥

न च प्रयोजनैकत्वलक्षणाऽत्रैकवाक्यता॥
अङ्गप्रधानवद्येन कल्पेतात्रैकवाक्यता॥८३२॥

प्रसंख्यानविधिशास्त्रयोरनेकार्थत्वेऽपि प्रयाजदर्शादिवाक्ययोरिव फलैक्यादेकवाक्यतेत्याशङ्क्य तयोरेकस्वर्गफलत्वेन वैकमोक्षफलत्वेन वैकफलतेति विकल्प्याऽऽद्यं निरस्यति। न चेति। प्रसंख्यानविधावभिधाश्रुतौ चैकस्वर्गफलत्वनिमित्ता नैकवाक्यतेत्यत्र व्यतिरेकदृष्टान्तमाह। अङ्गेति। अस्यार्थः — यदाग्नेयोऽष्टाकपालोऽमावास्यायामित्यादिना कालयुक्तान्याग्नेयादिकर्माण्याघारमाघारयतीत्यादिना चाऽऽघारादीनि कालासंयुक्तानि श्रुतानि किं तानि सर्वाणि समप्रधानानि किं वाऽऽग्नेयादीनि प्रधानान्यन्यान्यङ्गानीति संशय्य विद्वद्वाक्याभ्यां कर्मान्तरविधानात्पौर्णमास्यमावास्याशब्दयोः कालवाचित्वेनाप्रवृत्तनामत्वादधिकार-वाक्यस्थोपपदस्य यजिसामानाधिकरण्येन नामत्वकल्पनात्तत्पारतन्ध्याद्यजेश्च प्रकृतरूपवद्यागमात्रवाचित्वात्सर्वेषां प्राधान्यमिति पूर्वपक्षयित्वा द्विव-

द्वाक्ययोर्यजतिभ्यां प्रकृताग्नेयाद्यनुवादात्पौर्णमास्यमावास्याशब्दयोः समुदायद्वयार्थतया प्रसिद्धत्वादाधिकारिकमुपपदं तत्रैवेति तदनुरोधाद्य जेरपि तादर्थ्यादाग्नेयादीनामेवाधिकारसंबन्धात्प्राधान्यमन्येषामङ्गतेति द्वितीये राद्धान्तितम्। पौर्णमासा310धिकरणेऽङ्गेषु फलश्रुतेरर्थवादत्वस्य पर्णमयीत्वाधिकरणे स्थितत्वादङ्गप्रधानयोरेकफल्ता फलवत्संनिधावफलं तदङ्गमितिन्यायसिद्धा न चात्र तथेति प्रयाजदर्शपूर्णमासयोरेकस्वर्गफलत्वेनैकवाक्यत्ववत्तत्त्वमादौ प्रसंख्यानविधौ चैकफलत्वेनैकवाक्यत्वं न कल्प्यमित्यत्र हेतुमाह। येनेति। येन स्वर्गफलैक्येन शास्त्रादावेकवाक्यत्वं कल्प्येत न स्वर्गैकफलत्वमस्यास्ति त्वयैवानिष्ठेरित्यर्थः॥८३२॥

स्वतः सिद्धस्य मोक्षस्य न साध्यमुपकारकम्॥
न चान्यथाऽङ्गता दृष्टा प्रधानानुपकारिणः॥८३३॥

द्वितीयं दूषयति। स्वतःसिद्धस्येति। तन्न प्रसंख्यानादेरे कमोक्षफलत्वेनैकवाक्यतेति शेषः। किंच प्रसंख्यानविधेः शास्त्रशेषत्वे फलोपकार्यङ्गत्वं स्वरूपोपकार्यङ्गत्वं वा नाऽऽद्यःशास्त्रफले मोक्षे प्रसंख्यानविधेरनुपकारित्वस्योक्तत्वादित्याह। न चेति। अन्यथात्वं व्याचष्टे। प्रधानेति। यद्धि प्रसंख्यानं प्रधाने शास्त्रफले मोक्षे नोपकरोति न तस्य शास्त्रं प्रति फलोपकार्यङ्गत्वं फलानुपकारकस्यान्यत्र तथाविधाङ्गत्वस्यादृष्टत्वादित्यर्थः॥८३३॥

आत्मलाभे न शास्त्रं च नित्यत्वात्कार्यमीक्षते311
स्वतोभिधानशक्तत्वान्नापि चैकात्म्यबोधने॥८३४॥

द्वितीयेऽपि शास्त्रस्वरूपलाभे वा प्रसंख्यानविधिरुपकारी तस्यार्थावबोधने वा नाऽऽद्य इत्याह। आत्मलाभ इति। न द्वितीय इत्याह। स्वत इति॥८३४॥

प्रसंख्याने च शास्त्रार्थे सकृदेव कृते भवेत्॥
ऐकात्म्यानुभवो नो चेद्विसंवादादमानता॥८३५॥

किंच शास्त्रस्य प्रसंख्यानं शेषः शेषि वाऽस्तु सर्वथाऽप्यदृष्टार्थं दृष्टार्थं वा नाऽऽद्योऽनभ्युपगमात्। द्वितीयेऽपि सकृदसकृद्वाऽनुष्ठितं फलारम्भकं तत्राऽऽद्यं प्रत्याह। प्रसंख्याने चेति। समाहितः पश्येदित्यादिविधिविषये प्रसंख्याने सकृदेवानुष्ठिते यदि साक्षात्कारः फलति तदा दीर्घकालादरनैरन्तर्यवती भवदिष्टा भावना न स्यादित्यर्थः। असकृदनुष्ठितमेव फलदमिति पक्षं प्रतिक्षिपति। नो चेदिति। यदि सकृदनुष्ठितं प्रसं स्ख्यानमैकात्म्यं नानुभावयति तथा सत्यसकृदनुष्ठितमपि तन्नानुभावयेत्सकृदनुष्ठिते फलानुपलम्भरूपविसंवादसंभवादतस्तद्विधायिशास्त्रस्यामानतेत्यर्थः॥८३५॥

न चात्र चोदितः कालः संख्या वा येन निश्चयः॥
तद्वारेण भवेनापि संदिग्धे स्यात्प्रवर्तनम्॥८३६॥

अग्निहोत्रादाविव चोदितकाला दिबलात्प्रसंख्यानादनुभवलाभान्न विकल्पदोषावित्याशङ्क्याऽऽह। न चेति। न तावदग्निहोत्रे सायंप्रातः कालवत्प्रसंख्याने कश्चित्कालश्चोदितो न चाग्निहोत्रेऽपि मासमग्निहोत्रं जुह्वति यदाग्नेयोऽष्टाकपालोऽमावास्यायामित्यादाविव कालस्याननुष्ठेयत्वादविधेयत्वम्। तत्र हि काले कर्मविधानात्तदविधेयता युक्ता सायं जुहोतीत्यादौ तु होमस्याग्निहोत्रं जुहोतीत्यनेनैव विहितस्यानुवादात्कालो विधीयते तत्रापि काले कर्मविधौ तवैव दृष्टान्तासिद्धिः। नापि सप्तदश प्राजापत्यान्पशूनालभत इतिवदत्र संख्या विहिता। तत्र हि प्रवृत्त्या नियम्यमानक्रमवद्यागेषु विशेषणीभूतपशूनामुपादेयतया तदीया संख्या विधीयते पशुना यजेतेत्यत्रापि पश्वेकत्वं विधेयमिति पश्वेकत्वाधिकरणे व्युत्पादितं न चैवं प्रसंख्याने संख्याविधिरस्ति तस्मात्तद्वारा ततोऽनुभवनिश्चयासिद्धिरित्यर्थः। तथाऽपि ततोऽ भवः स्यान्न वेति संदिग्धेऽपि तस्मिन्ननुभवार्थिनां कृप्यादिवत्प्रवृत्तिरित्याशङ्क्याऽऽह। नापीति। कृष्यादौ फलभावाभावयोर्हष्टत्वात्संदेहेऽपि प्रवृत्तिर्युक्ता प्रसंख्याने तु नैवं ततोऽनुभवस्य क्वचिदप्यदृष्टेर्दीर्घप्रपाठकादौ विशेषणत्रयवत्या भावनायाः साफल्येऽपि प्रमेयार्थसाक्षात्कारप्रमा न ततो दृष्टचरीत्यर्थः॥८३६॥

आरुह्याप्यथवा दूरं विसंवादपराङ्मुखः॥
यत्किचित्कामतः कुर्यादकृतार्थोऽथवापतेत्॥८३७॥

संदिग्धे तस्मिन्प्रवृत्तावपि दोषानिवृत्तिरित्याह। आरुह्येति। प्रसंख्याने संदिग्धे प्रवृत्त्यभावनियमनिरासार्थमथवेत्युक्तम्। असकृत्प्रसंख्यानमनुष्ठायापि तत्त्वानुभवादर्शनरूपविसंवादेन ततो विमुखीकृतो मध्ये निवृत्तो न वा निवृत्तश्चेद्यत्किंचिदिच्छातः संतन्वानो नाभीष्टसिद्धिमधिरोहेदनिवृत्त-श्चेददृष्टमर्थोऽनर्थमृच्छेदन्यस्याकृतत्वादस्माच्चानुभवादृष्टेरित्यर्थः॥८३७॥

अदृष्टफलता वाऽपि कल्प्याऽग्निष्टोमवद्भवेत्॥
कर्माङ्गता वा कल्प्या स्यादुद्गीथ विधिवत्तदा॥८३८॥

ननु यावज्जीवं प्रसंख्यानमनुतिष्ठतो न पतनवचो युक्तं नहि कल्याणकृत्कश्चिदित्यादिस्मृतेस्तत्राऽऽह।अदृष्टेति। यदा सदा प्रसंख्यानं कुर्वतः स्मृत्या पतनाभावोऽभीष्टस्तदा तद्विधानमदृष्टार्थं ज्योतिष्टोमवत्कल्प्येत यथा वा तदङ्गमुद्गीथविधानं तथा तदपि कर्माङ्गं कल्प्यं स्यादित्यर्थः॥८३८॥

ततश्च प्रातिलोम्येन कार्य स्याच्छास्त्रबाधनात्॥
अश्रद्धा च मुमुक्षूणां कार्यबाधोऽपि च स्थितः॥८३९॥

प्रसंख्यानविधेरुद्गीथविधिवत्कर्माङ्गत्वे विवक्षितशास्त्राङ्गत्वासिद्धिरेकस्योभयाङ्गत्वायोगादित्याह। ततश्चेति। संप्रति प्रसंख्यानविधेर्ज्योतिष्टोम वददृष्टार्थत्वमिच्छन्तं प्रत्याह। प्रातिलोम्येनेति। यथोक्तो विधिरदृष्टार्थश्रे ज्ज्योतिष्टोम विधिवत्तस्य शेषित्वात्तत्त्वमादेः शेषत्वात्तत्प्रामाण्यार्थं कल्पितः स वैपरीत्याय भवन्प्रतिकूलत्वेन स्थितः शास्त्रस्यान्यपरस्याध्यक्षादिविरोधे स्वार्थे मानत्वायोगादित्यर्थः। किंच प्रसंख्यानविधेरदृष्टार्थत्वे कर्माङ्गत्वे च मोक्षहेतुं तत्त्वसाक्षात्कारमिच्छतां तस्मिन्नपि ज्योतिष्टोमादिविधिवदश्रद्धा स्यात्ततः साक्षात्कारादृष्टेरतो मुमुक्षूणां तदनुष्ठानानुपपत्तेर्विध्यसिद्धिरित्याह। अश्रद्धेति। न वा मुमुक्षूणामेष विधिः साधनादित्रयाद्वाह्यमित्यादिना नियोगबाधस्य स्थितत्वात्तस्य विशिष्टस्याप्यसंभवादित्याह। कार्येति॥८३९॥

वस्तुतत्त्वानपेक्षत्वात्कार्यमात्रप्रधानता॥
शास्त्राच्च वस्तुनोऽलाभात्कार्यं किंविषयं भवेत्॥८४०॥

किंच प्रसंख्यानवादे तद्विधायकं वाक्यं वस्तु बोधयति तत्त्वमादिवाक्यं वा नाऽऽद्यस्तस्य नियोगमात्रनिष्ठत्वाद्वस्तु बोधित्वायोगादित्याह। वस्त्विति। न द्वितीयस्तत्त्वमादिवाक्यस्य नियोगपरत्वेनाध्यक्षादिविरोधे स्वार्थे मानत्वानुपपत्तेरित्याह। शास्त्राश्चेति। वस्तुज्ञानाभावे तदावृत्त्यनुपपत्तेर्निर्विषयो नियोगो नेति फलितमाह। कार्यमिति॥८४०॥

यदि तद्वस्तुयाथात्म्यं शास्त्रं न प्रतिपादयेत्॥
वस्त्वसिद्धेस्ततः कार्यप्राधान्यादर्थवादता॥८४१॥

किंच प्रसंख्यानवादे किमेकत्वशास्त्रं तत्परं सन्न प्रतिपादयत्युत प्रतिपादयति तत्राऽऽद्यमनुवदति। यदीति। तत्र तस्माद्वाक्यादैक्याप्रतीतेस्तदमानत्वं स्यात्प्रसंख्याननियोगपरस्य मानान्तरविरोधे स्वार्थे प्रमाजनकत्वाभावस्य त्वयेष्टत्वादित्याह। वस्त्विति। अर्थवादतेत्यमानत्वोक्तिः॥८४१॥

अथैकात्म्यार्थनिष्ठं सच्छास्त्रं स्यात्प्रतिपादकम्॥
आपरोक्ष्यात्तदा कार्य व्यर्थं पारोक्ष्यहानिकृत्॥८४२॥

द्वितीयमादत्ते। अथेति। तर्हि वाक्यादेव वस्त्वापरोक्ष्यात्प्रसंख्याननियोगो वस्तुपारोक्ष्यनिवर्तकत्वेनेष्टो व्यर्थः स्यादित्याह। आपरोक्ष्यादिति॥८४२॥

शास्त्रात्कथं च तत्सिद्धिर्याथात्म्यानवबोधकात्॥
नानश्वरूपे सिद्धेऽपि गव्यश्वस्य प्रसिद्धता॥८४३॥

ननु शास्त्रान्न वस्त्वापरोक्ष्यं तस्य संसृष्टपरोक्षयोधनस्वाभाव्यादतस्तत्साक्षात्काराय प्रसंख्यानविधिरित्याशङ्क्य यत्साक्षादपरोक्षादिति श्रुतेर्वस्तुनोऽसंसृष्टापरोक्षत्वात्तद्याथान्म्यानवगाहिनः शास्त्रात्तदसिद्धेस्तदप्रामाण्यप्रसक्ति-रित्यभिप्रेत्याऽऽह। शास्त्रादिति

ननु शास्त्रमसंसृष्टापरोक्षविलक्षणं वस्तु बोधयत्प्रतियोगित्वेनासंसृष्टापरोक्षमपि बोधयियति। अतस्तत्प्रामाण्यमित्याशङ्क्याऽऽह। नानश्वेति। अश्वविलक्षणे गवि प्रत्यक्षसिद्धेऽपि न ततोऽश्वस्य प्रसिद्धत्वमिति तथा संसृष्टपरोक्षेऽर्थे शाब्देऽपि न प्रतियोगिनः शाब्दस्वमतः शास्त्राद्वस्त्वसिद्धेस्तदप्रामाण्यमेवेत्यर्थः॥८४३॥

शास्त्राच्छ्रवणमात्रेण कार्याच्चानुभवो यदि॥
वस्तुन्यनिश्चिते वार्ता साऽर्थवादेऽपि दृश्यते॥८४४॥

अथ शास्त्रादसंसृष्टापरोक्षं वस्तु सिध्यदपि श्रवणमात्रेणानुभवानारूढं सिध्यति प्रसंख्यानंनियोगाच्च तदनुभवोऽतो न नियोगानर्थक्यं नापि शास्त्रस्यामानतेति शङ्कते। शास्त्रादिति। तत्र किं शास्त्राद्वस्तु निश्चितमनिश्चितं वा नाऽऽद्यस्तस्यानुभवानारूढत्वानुपपत्तेरबाधितानधिगतनिश्चयस्यानुभवत्वाद्द्वितीये शब्दात्तत्र ज्ञानं भवतीति वार्तैव स्याज्ज्ञानस्योक्तनिश्चयातिरिक्तस्याऽऽभासत्वात्सा चार्थशून्या सत्यर्थवादेऽपि संभाव्यतेऽतोऽर्थवादाद-विशेषस्तत्त्वमादेरिति दूषयति। वस्तुनीति॥८४४॥

ततश्च कार्यनिष्ठत्वं मुधैव परिवर्जितम्॥
संपत्परं भवेच्छास्त्रं वस्तुतात्पर्यवर्जनात्॥८४५॥

तत्त्वमादेरर्थवाद साम्ये का हानिरत आह। ततश्चेति। अर्थवादादविशेषे तद्वदेव तत्त्वमादेरपि कार्यनिष्ठत्वात्तत्प्रसंख्यानवादिना वृथैव त्यक्तं तत्त्यागेऽप्यर्थवादवद्वस्तुनिष्ठत्वासिद्धेरतः संपत्संज्ञप्रसंख्याननियोगनिष्ठमेव शास्त्रं वस्तुपरत्वस्यार्थ312वादसाम्येन त्यक्तत्वात्तथा च तत्परत्वेन शास्त्रप्रामाण्यमिच्छता ततोऽसंसृष्टापरोक्षार्थनिश्चयस्याभ्युपेयत्वान्न विधिरर्थवानित्यर्थः॥८४५॥

न चाप्याख्यायिकारूपमनुग्राह्यं श्रुतां मतम्॥
आदिमत्त्वादिदुष्टत्वात्पुमर्थत्वेन वयं॥८४६॥

ननु तदनङ्गीकारे कथारूपत्वाद्वेदान्तानामप्रामाण्यं तदङ्गीकारे तु स्वर्गकामादिवाक्यवत्प्रामाण्यमत आह। न चेति। अनेनोक्तमनेन गृहीतमिति कथारूपं श्रुतौ श्रुतमपि न विवक्षितम्। उक्तं हि — न ह्ययं सकलकथाप्रबन्धो विवक्षित इति शक्यं वक्तुं तत्प्रतिपत्तौ पुरुषार्थाभावादिति। अन्यथा वेदस्याऽऽदिमत्त्वादिप्रसङ्गान्न नासावदोषो वाचा विरूपनित्ययाऽनादिनिधना नित्येत्यादिश्रुतिस्मृतिविरोधादौत्पत्तिकसूत्रविरोधाच्चेति भावः। किमर्थं तर्हि श्रुतावाख्यायिकोच्यतेऽत आह। पुमर्थत्वेनेति। पुरुषप्रवृत्त्यङ्गत्वेन स्वर्गापवर्गहेतुस्तावकत्वेन चेत्यर्थः॥८४६॥

पौनरुक्त्यभयाच्चात्र यद्यर्थान्तरकल्पनम्॥
ऐकात्म्योक्त विधिर्व्यर्थ इति द्वैतप्रकल्पनम्॥८४७॥

इतश्च तत्त्वमादौ शास्त्रे न प्रसंख्याननियोगस्तस्यापि कर्मकाण्डवन्नियोगावलम्बित्वे काण्डयोर्नियोगस्यैव प्रतिपाद्यत्वेन पुनरुक्तिप्रसक्तेरित्याह। पौनरुक्त्येति। कर्मकाण्डे स्वतन्त्रो विधिर्ब्रह्मकाण्डे वस्तु प्रतिपाद्यं प्रसंख्यानविधिस्तच्छेष इति न पौनरुक्त्यमिति प्रसंख्यानवाद्याह। अत्रेति। यद्वा बहिःसाधनो नियोगस्तत्रोक्तोऽबहिः साधनस्त्वत्रेति न पुनरुक्तिरित्याह। अत्रेति। यद्वा तत्त्वमादौ प्रसंख्याननियोगानङ्गीसकृच्छ्रताद्वाक्यादुत्पन्नज्ञानान्मुक्तिरिष्टा स्यात्तदा नवकृत्वस्तत्त्वमसीत्युपदेशोऽनर्थकस्तत्परिहारार्थं शास्त्रशेषत्वेन प्रसंख्यानविधिरिति शङ्कते। पौनरुक्त्येति। कर्मशास्त्रं स्वनिष्ठनियोगपरं ब्रह्मशास्त्रं वस्तुशेषत्वेन प्रसंख्याननियोगबोधीति न विभागस्तत्रापि नियोगोपगमे तत्प्राधान्यस्य भूतभव्यन्यायेनोपेयत्वात्तस्मादैक्यवाक्ये न कथमपि विधिः कर्मवाक्ये त्वसाविति काण्डयोर्भेदकल्पनमुचितं न त्वदुत्तरीत्येत्याद्यं चोद्यं परिहरति। ऐकात्म्येति। वहिरचहिः साधननियोगनिष्ठत्वेनापि न तयोर्भेदो द्वितीयतृतीयाध्यायवदेकशास्त्रत्वे सत्येवोक्तविशेषसिद्धेस्तन्न तत्त्वमादौ कोऽपि विधिः स त्वितरति शास्त्रभेदकल्पनं युक्तमिति द्वितीयं प्रत्याह। ऐकात्म्येति। तत्त्वमसीत्यसकृदम्यासाद्विदुषोऽपि प्रसंख्याननियोगः साध्यते चेदैक्यशास्त्रे द्वैतं विना न विधिरिति द्वैतपञ्चोऽपि परमार्थोऽभ्युपेयः स च निरस्तो निरसिप्यते च न च कल्पितद्वैतापेक्षया प्रसंख्याननियोगस्तस्य ज्ञानानन्तर्यात्कल्पितद्वैतापेक्षस्य च नियोगस्याऽऽभासत्वप्रसङ्गादतो ज्ञानादूर्ध्वं स्फुरतो द्वैतस्याविद्याकार्यत्वायोगाद्वस्तुत्वं तच्चायुक्तं बाधितानुवृत्तिमात्रत्वात्तत्त्वमसीत्यभ्यासस्तु तत्तदाशङ्कानिरासितया तत्त्वज्ञानायेति चोद्यान्तरं निराह। ऐकात्म्येति॥८४७॥

न च मानेन विषये बोधितेऽन्वेषणं पुनः॥
कार्यमुक्त्योः क्वचिदृृष्टं स्वतःप्रामाण्यबाधनात्॥८४८॥

ऐक्यवाक्येऽपि विधितिं वदता शास्त्रावगतेऽर्थे प्रसंख्याननियोगो नोपयोगीत्युक्तमिदानीं शास्त्रादापाततो ज्ञाते वा प्रसंख्यानाद्यपेक्षा साक्षान्निश्चिते वेति विकल्प्याऽऽद्यमङ्गीकृत्यान्त्यं दूषयति। न चेति। शास्त्रेण साक्षान्निश्चिते विषये नियोगयुक्त्योर्मध्ये क्वचिन्नियोगे युक्तौ वा न पुनरन्वेषणं प्रामाणिकं वस्तुसाक्षात्कारे कर्तृत्वादिभेदस्योपमर्दितत्वात्प्रमिते च शास्त्रेणान्यापेक्षणे तस्य स्वतः प्रामाण्यभङ्गाद्युक्त्यादीनामपि चतुष्पान्मानप्रवेशेन शब्दवन्मानत्वादित्यर्थः॥८४८॥

प्रत्यक्षेण घटे बुद्धे का युक्तिः कार्यमेव वा॥
अदुष्टकारणत्वं वेत्सिद्धं वेदे नृवर्जनात्॥८४९॥

तत्त्वसाक्षात्कारे युक्त्याद्यपेक्षा शास्त्रस्य नास्तीत्यत्र दृष्टान्तमाह। प्रत्यक्षेणेति। ननु प्रत्यक्षदृष्टेऽपि किमिदं ज्ञानं दुष्टहेतुजमदुष्टहेतुजं वेति निरूप्यादुष्टहेतुजत्वनिर्णयार्थं

निकटोपसर्पणाद्यपेक्षावच्छास्त्रदृष्टेऽपि ज्ञानस्यादुष्टकारणत्वं निश्चेतुं युक्त्याद्येपक्षा युक्तेति चोदयति। अदुष्टेति। लोके काचादिहेतुदोषसंभवात्प्रत्यक्षेऽप्यर्थे ज्ञानस्यादुष्टहेतुत्वं निश्चेतुमन्यापेक्षा युक्ता वेदे त्वपौरुषेये पुरुषद्वारकदोषाभावात्तज्जन्ये ज्ञाने तद्राहित्यस्य सहजत्वान्नान्यापेक्षेति परिहरति। सिद्धमिति॥८४९॥

प्रत्यक्षादिविरोधश्चकार्यपक्षेऽपि तु स्थितः॥
ऐकात्म्यानुभवो हि स्यात्कथमक्षादिबाधनात्॥८५०॥

शास्त्रीये ज्ञाने दोषाभावं निश्चेतुं नियोगाद्यपेक्षाभावेऽपि प्रसंख्याननियोगानङ्गीकारे तत्त्वमादेर्नाद्वयार्थसाक्षात्कारहेतुत्वं प्रत्यक्षादिविरोधात्तदङ्गीकारे तु न तद्विरोधो नियोगम्य सर्वप्रमाणाद्बलवत्त्वादित्याशङ्क्याऽऽह। प्रत्यक्षादीति। न हि तत्त्वमादौ नियोगोऽस्तीति मानान्तरविरोधसमाधिर्नियोगस्य सर्वतो बलवत्त्वस्य प्रतिज्ञामात्रत्वादतो वाक्यस्य नियोगपरत्वेऽप्यादित्ययूपवाक्यवन्न ततो वस्तुधीरध्यक्षादिना विरोधिना वाक्यस्य बाधान्नियोगे त्वसति विरोधेऽपि वाक्याद्वस्तुधीः सिध्यति तस्य तत्परत्वेन बलवत्त्वादित्यर्थः॥८५०॥

तन्निषेधात्तु या सिद्धिर्न सा कार्यप्रसादतः॥
प्रमाणादेव शास्त्रा313त्सा न मेयात्कार्यतो भवेत्॥८५१॥

कार्यपक्षे नाध्यक्षादिविरोधस्तन्निषेधेन नियोगाद्वस्तुसिद्धेस्तत्राऽऽह। तन्निषेधादिति। प्रत्यक्षादिविरोधनिरासद्वारा वस्तुसिद्धिर्न नियोगाधीना तस्यामानत्वादित्यर्थः। कुतस्तर्हि तन्निषेधेन वस्तुसिद्धिस्तत्राऽऽह। प्रमाणादिति। तत्त्वमादिवाक्यादेवाध्यक्षादिविरोधनिषेधेन वस्तुधीस्तस्य मानत्वादित्यर्थः। विरोधनिरासेन वस्तुधीर्न नियोगाधीना तस्य मेयकोटिनिविष्टत्वादित्येवकारार्थमाह। नेति॥८५१॥

का वा कार्येऽस्ति ते युक्तिः शास्त्रं चेदुभयोः समम्॥
अज्ञानज्ञापनादन्यच्छास्त्रान्नेति पुरोदितम्॥८५२॥

शास्त्रदृष्टे न प्रसंख्याननियोगापेक्षेत्यत्र हेत्वन्तरमाह। का वेति। वेदान्तशास्त्रं सिद्धेऽर्थे मानत्वेनाऽऽवयोः समं शास्त्रेणाज्ञातं ज्ञाप्यते नान्यदित्युक्तं यद्धेतुकं प्रमाणत्वमित्यादिना। एवं वेदज्ञाते ब्रह्मणि शास्त्रदृष्टे नियोगापेक्षायां नास्ति युक्तिस्तत्साध्याभावादित्यर्थः॥ ८५२॥

पुमर्थं प्रतिपाद्यापि प्रकृत्यैव श्रुतिः पुनः॥
तमेव युक्तिभिः सार्धं वदन्ती स्वार्थमीक्षते॥८५३॥

तत्त्वमादिश्रुतिरेव स्वारस्यादानन्दमात्मानं बोधयति चेद्युक्त्युपन्यासः श्रुतिषु वृथा स्यान्न च तामां ज्ञानात्प्राक्त्वमज्ञातेऽर्थे युक्त्यनुसंधानासिद्धेरतो नियोगानपेक्षत्वेऽपि

श्रुतेर्युक्त्यपेक्षाऽस्तीत्याशङ्क्याऽऽह। पुमर्थमिति। श्रुतिहिं पुमर्थं स्वार्थ प्रकृत्या प्रतिपाद्यापि पुनरसंभावनादिशङ्कायां युक्तिभिः सह तमेवार्थं लक्षणया वदन्ती प्रतिबन्धध्वंसित्वेन युक्तीरीक्षत इति योजना। शाब्दमपि प्रत्यग्ब्रह्मज्ञानं पुरुषापराधादसंभावनाद्यभिभूतमिति श्रुतिर्युक्तिभिस्तन्निरसनीभिः सह तमेव दृष्टं स्वार्थ लक्षणया बोधयन्ती प्रतिबन्धविधुरमपरोक्षासंसृष्टं बोधयति तत्र च वाक्यीये ज्ञाने स्वोत्पत्तिमात्रेण सर्वाविद्यातत्कार्यनिवर्तके कुतो युक्त्याद्यपेक्षेत्यर्थः॥८५३॥

नैतावताऽपराधेन युक्तो मानकारणम्॥
शब्दमात्रादसंसिद्धेरनपेक्षत्वहानतः॥८५४॥

श्रौतेऽपि ज्ञाने प्रतिबन्धध्वंसित्वेन युक्त्यपेक्षा चेत्तासामनुभवहेतुत्वात्तदपेक्षया श्रुतेः स्वतःप्रामाण्यहानिः314 स्यादित्याशङ्क्याऽऽह। नैतावतेति। श्रुतेयुक्त्यपेक्षाऽस्तीत्येतावन्मात्रेण नोत्पन्नज्ञानस्य स्वार्थनिश्वयहेतवो युक्तयः किंतु तत्प्रतिबन्धध्वस्तिकारणमित्यर्थः। युक्तीनामर्थनिश्चायकत्वे वाक्यादेव तदसिद्धेस्तस्यानपेक्षत्वभङ्गात्पुरुषवचोवत्स्वतो मानत्वायोगात्तन्निश्चयप्रतिबन्धध्वंसित्वमेव तासामिति साधयति। शब्देति॥८५४॥

न वायोः क्षिप्रकारित्वाच्छ्वेतालम्भो विभूतये॥
विध्यद्देशात्तु तत्सिद्धेः शैघ्य्रंतूक्तं प्रवृत्तये॥८५५॥

निश्चयप्रतिबन्धध्वस्तावेव युक्त्यपेक्षेत्यत्र दृष्टान्तमाह। नेत्यादिना। वायुर्वै क्षेपिष्ठा देवतेति वायोः श्रुतात्क्षिप्रकारित्वान्न श्वेतालम्भस्य विभूतिहेतुत्वं ज्ञाप्यते वायव्यं श्वेतमालभेत भूतिकाम इत्यस्मादेव तस्य तद्धेतुत्वसिद्धेरार्थवादिकं तु वायोः शैभ्यं पुंसो भूतिकामस्य श्वेतालम्भे प्रवृत्तिहेतुर्वायुहिं क्षिप्रकारी तेन तद्देवताकपश्वालम्भे शीघ्रमेव फलमित्यालोच्य फलेच्छया प्रवृत्त्युन्मुखो भवत्येवमिहापि वाक्याज्ज्ञानोत्पत्तये न युक्त्युपन्यासो नाप्युत्पन्नज्ञानस्य स्वार्थनिश्वयार्थं किंतु तत्प्रतिबन्धध्वंसार्थमित्यर्थः॥८५५॥

जाग्रत्स्वप्नसुषुप्तेभ्यो315 यदि नामातिरेकतः॥
व्यक्तिभ्यो गोत्ववद्दृष्टं ब्रह्मत्वेऽस्य किमागतम्॥८५६॥

इतश्च युक्तीनां न तत्त्वनिश्चायकतेत्याह। जाग्रदिति। यथा व्यक्तिभ्यो गोत्वमतिरिच्यते व्यावृत्तानुवृत्तभेदस्य मणिसूत्रयोर्दृष्टत्वात्तथाऽवस्थात्रयान्मिथो व्यभिचारिणोऽव्यभिचार्यात्मवस्तु युक्तितो व्यतिरेकतो यदि दृष्टं दृश्यतां नामास्य तु त्वमर्थस्य तदर्थत्वे वाक्यं विना युक्तिभ्यो न किंचिद्भवति नैषा तर्केण मतिरापनेयेति श्रुतेरित्यर्थः॥ ८५६

असिद्धं शास्त्रयुक्तिभ्यामावृत्त्याऽपि न सिध्यति॥
नैव ह्यावर्तनं हेतुः प्रामाण्येऽन्येष्वनीक्षणात्॥८५७॥

श्रुतवाक्यस्यापि ज्ञानादृष्टेर्युक्तिवद्वाक्यस्याप्यतद्धेतुत्वात्तयोरावृत्तिस्तद्धेतुरित्याशङ्क्याऽऽह। असिद्धमिति। आवृत्तेरमानत्वादित्यर्थः। तस्या वाक्यप्रामाण्यहेतुत्वात्तद्वारा निश्चायकत्वमाशङ्क्याऽऽह। नैवेति। न हि शब्दस्य प्रामाण्ये तदावर्तनं कारणी भवति प्रत्यक्षादिष्वावृत्तेः प्रामाण्यहेतुत्वादृष्टेरित्यर्थः॥८५७॥

न चेदृशं प्रमाणत्वं दृष्टमन्यत्र कुत्रचित्॥
अन्यादृक्ष316प्रमाणस्य न च नास्त्यत्र संभवः॥८५८॥

हेतुमेव विवृणोति। न चेति। लौकिकमानेष्वावृत्तेरनिश्चायकत्वादिहापि तस्या न निश्चायकत्वं चेत्तर्हि लौकिकवाक्ये संसृष्टपरोक्षदृष्टिहेतुत्वदृष्टस्तत्त्वमादावपि तथा स्यादित्याशङ्क्याऽऽह। अन्यादृक्षेति317। अत्रासंसृष्टापरोक्षे ब्रह्मात्मनि लौकिकवाक्यविसदृशस्य तत्त्वमादिमानस्य संभवो नास्तीति न शक्यं वक्तुं मानस्य वस्त्वनुसारित्वादित्यर्थः॥८५८॥

अलौकिकार्थवादित्वादात्मब्रह्माभिधानयोः॥
संबन्धाग्रहणादात्मा ब्रह्मेति कथमुच्यते॥८५९॥

तत्त्वमादेर्ब्रह्मात्मनि मानतोक्ता तत्र ब्रह्मात्मानौ मानान्तरादज्ञातौ ज्ञातौ वाऽऽये तयोः शब्दशक्त्यग्रहादगृहीतशक्तिशब्दस्याबोधक-त्वादनुत्पत्तिरूपमप्रामाण्यमिति चोदयति। अलौकिकेति॥८५९॥

ज्ञातार्थसंगतिः शब्दो वाक्यार्थावगमक्षमः318
ब्रह्मात्मार्थप्रसिद्धौ च लोकान्मानप्रवेशिता॥८६०॥

पदानां शक्त्यग्रहादबोधकत्वेऽपि वाक्यस्य तदनपेक्षत्वाद्बोधकत्वमाशङ्क्य समभिव्याहृतपदानामेव वाक्यत्वान्मैवमित्याह। ज्ञातेति। द्वितीये तत्त्वमादेरनुवादित्वेनामानत्वापत्तिरित्याह। ब्रह्मेति। लोकतो ब्रह्माद्यर्थस्य प्रतीतौ न तस्यापूर्वतेत्यर्थः॥८६०॥

नाऽऽत्मन्येवाऽऽत्मशब्दस्य प्रयोगात्स्यादलौकिकः॥
ब्रह्मार्थोऽपि महत्त्वेन प्रसिद्धो व्यवहारतः॥८६१॥

आत्मा तावन्नालौकिको विषयोपलब्धत्वेन प्रसिद्धेस्तस्मिन्वृद्धैरात्मशब्दप्रयोगात्तत्र तस्य शक्तिधीरिति परिहरति। नाऽऽत्मनीति। ब्रह्मार्थोऽपि नाप्रसिद्धो बृंहतिधात्वर्थानुसारेण वृद्धव्यवहारतोऽनतिशयमहत्त्वेन प्रसिद्धत्वात्तस्मिन्नात्मत्वेन च प्रसिद्धे ब्रह्मशब्दस्य शक्तिरित्याह। ब्रह्मेति॥८६१॥

एवं पदात्परिज्ञाते पदार्थे लोकमानतः॥
वाक्यार्थोऽतीन्द्रियो वेदे वाक्यात्केन निवार्यते॥८६२॥

तर्हिब्रह्मात्मनोर्मानान्तरावेशात्तत्त्वमादेरनुवादकत्वं तत्राऽऽह। एवमिति। पदद्वयादर्थद्वये लोकव्यवहारादेव दृष्टे वाक्यार्थोऽखण्डैकरमरूपो मानान्तरागोचरो वाक्यादेव मीयमानो नानुवाद्यतां गन्तुमलमित्यर्थः॥८६२॥

अपूर्वदेवतास्वर्गपदार्थेष्वपि319 लोकतः॥
सिद्धेष्वतीन्द्रियोऽप्यर्थो वाक्यादेवावगम्यते॥८६३॥

पदार्थे लोकसिद्धे वाक्यादेव पूर्ववाक्यार्थवीरित्यत्र दृष्टान्तमाह। अपूर्वेति। कृतिसाध्यं कृतिप्रधानं कार्यमत्रापूर्वं तच्च मानान्तरेणापि वेद्यमिति320 व्यालोकतोऽधिगतमिन्द्रादिरूपा देवताऽपि लोकतः सिद्धा वज्रहस्तमिन्द्रमा लिखन्ति पाशहस्तं वरुणमिति हि प्रसिद्धं स्वर्गेऽपि सुखविशेषो लोकविशेषो वा लोकादेवावगम्यतेऽतो यथा स्वर्गापूर्वादिषु। लोकसिद्धेषु तच्छब्दानां शक्तिधर्ज्ञातशक्तिपदसंहतिरूपवाक्याच्च विशिष्टार्थदृष्टिरेवमात्माद्यर्थे लोकसिद्धेऽपि तदैकरस्यस्वरूपो वाक्यार्थो वाक्यादेव सिध्यतीत्यर्थः। अपिशब्दौ दृष्टान्तदाष्टन्तिकनिविष्टौ लिष्टार्थौ॥८६३॥

नापेक्षापूरणाशक्तेः प्रयोगे321 समवायिता॥
पदानां सपदार्थानां वाक्याद्व्यवहृतिर्यतः॥८६४॥

पदार्थेतरवाक्यार्थाभावात्तद्वियश्चपदेभ्यः संभवात्कृतं वाक्येनेत्याशङ्क्याऽऽह। नापे क्षेति। एकैकस्य पदस्य पदान्तरानपेक्षस्य तदर्थस्य च मध्यमवृद्धप्रवर्तकानाकाङ्क्षज्ञानोत्पादासामर्थ्यात्तदुत्पत्तये न प्रयुज्यमानताऽतो वाक्यार्थमितये वाक्पं प्रयोक्तव्यमि त्यर्थः। किंच वाक्यादेवार्थं बुद्ध्वा मध्यमवृद्धस्य प्रवृत्तिदर्शनात्तदपेक्षितमित्याह। वाक्यादिति॥८६४॥

वाक्यार्थायैव वाक्यं हि सर्वदैव प्रयुज्यते॥
व्यवहारेषु वृद्धानां संबन्धस्तत्र गृह्यते॥८६५॥

ननु पदानि पदार्थान्प्रत्याययन्ति तेभ्यः सांनिध्यादियुक्तेभ्यो वाक्यार्थधीर्न वाक्यादित्याशङ्क्याऽऽह। वाक्यार्थायेति। वाक्यमेव व्युत्पत्त्यवस्थायां व्युत्पन्नावस्थायां च वाक्यार्थप्रतिपत्त्यर्थं प्रयुज्यते नहि कदाचिदपि पदार्था वाक्यार्थप्रत्यायका अप्रमाणत्वाद्वाक्यार्थधियश्चाशाब्दत्वप्रसङ्गादित्युक्तमित्यर्थः। किंच वृद्धानां व्यवहारेषु वाक्यार्थज्ञाने विवक्षितेऽस्य पदस्यास्मिन्नर्थे शक्तिरिति गृह्यते संबन्धग्रहश्च विशिष्टार्थदृष्टानुपयुज्यतेऽतो वाक्यार्थप्रतिपत्त्यर्थमेव प्रयोग इत्याह। व्यवहारेष्विति॥८६१॥

भागान्तरप्रवेशेन भागत्यागेन च स्फुटम्॥
वाक्यवाक्यार्थयोर्भेदे पदार्थानां निमित्तता॥८६६॥

संबन्धग्रहोपायमावापोद्वापं दर्शयति। भागान्तरेति। अनुमानादेः शक्तिग्रहोपायत्वेऽपि ततो विशेषासिद्धेरावापादिना च तत्सिद्धेरनेन स्पष्टं शक्तिज्ञानमित्याह। स्फुटमिति। संबन्धो गृह्यत इति पूर्वेण संबन्धः। आवापोद्वापयोः शक्तिग्रहोपक्षयाद्वाक्यभेदस्तदर्थभेदश्च कथमित्याशङ्क्य सत्यावापादौ पदभेदाद्वाक्यभेदः पदार्थभेदाद्वाक्यार्थभेदश्चेत्याह। वाक्येति। वाक्यभेदे पदानां वाक्यार्थभेदे च पदार्थानां निमित्ततेति योजना॥८६६॥

यद्भागस्याऽऽगमाद्योऽर्थभागः स्यादधिकः कचित्॥
तस्य भागस्य भागोऽसौ निमित्तं स्यान्न तु प्रमा॥८६७॥

ननु यस्य पदस्याऽऽवेशाद्वाक्यं भिद्यते तत्पदं स्वार्थे मानं न वाऽऽद्ये तद्वत्पदान्तराणामपि प्रामाण्याद्वाक्यानुपयोगो द्वितीये तस्याप्रमाणस्य न भेदकत्वमत आह। यद्भागस्येति। क्वचिद्वाक्ये यस्य पदस्य प्रवेशाद्यः पदार्थोऽधिकः स्यात्तस्य पदार्थस्य तत्पदं स्मारकं पदमभ्यधिकाभावात्स्मारकान्न विशिप्यत इति न्यायान्न तु प्रमाणं तथाऽपि भेदकं पदार्थवदन्यथा सांकर्यादिति भावः॥८६७॥

अत एव सभागत्वं वाक्यवाक्यार्थयोर्मतम्॥
वाचकत्वेऽपि वाक्यस्य संसृष्टार्थाभिधानतः॥८६८॥

पदपदार्थयोरिव वाक्यवाक्यार्थयोरपि वाच्यवाचकभावात्पदतदर्थवद्वाक्यतदर्थयोः सभागत्वासंभवात्पदस्य तदर्थे शक्तिधीवद्वाक्यस्यापि स्वार्थे तत्प्रसङ्गात्पदवद्वाक्यमपि न मानमित्याशङ्क्याऽऽह। अत एवेति। अतः शब्दार्थं स्पष्टयति। वाचकत्वेऽपीति। वाक्यस्य वाचकत्वेऽपि संसृष्टार्थविशेषवाचकत्वाद्धेतोर्वाक्यतदर्थयोः सभागत्वमतो वाक्यभागस्य पदस्य वाक्यार्थभागे पदार्थे संगतिराकृत्युपाधौ पदसंगतेःसुग्रहत्वान्न तु पदसमुदायस्य वाक्यस्य पदार्थसमुदाये वाक्यार्थे सा युक्ता विशेषे तद्रहासंभवस्योक्तत्वादित्यर्थः॥८६८॥

ततश्चैवं समूहस्य वाचकत्वमवस्थितम्॥
भागवत्वं च संसिद्धं वाक्यवाक्यार्थयोरतः॥८६९॥

पदस्यैव स्वार्थे योग्यान्विते शक्तिधीर्न वाक्यस्येति स्थिते फलितमाह। ततश्चेति। यतो वाक्यतदर्थयोरुक्तनीत्या भागवत्त्वमेवं पदस्यैव स्वार्थे योग्यान्विते शक्तिश्च स्थिता ततः समूहस्य वाक्यस्य वाचकत्वं प्रामाण्यं प्राप्तमज्ञातविषयत्वान्न पदवदप्रमाणतेत्यर्थः॥८६९॥

एवं च लोकतः सिद्धो वाक्यार्थः स्याच्छ्रुतावपि॥
लौकिका एव शब्दार्था न्यायेनोक्ताः श्रुतौ यतः॥८७०॥

लोके योग्यान्वितेऽर्थे पदसामर्थ्येऽपि वेदे कथं त्वदिष्टाखण्डार्थसिद्धिस्तत्राऽऽह। एवं चेति। व्यवहारतो योग्यान्विते शक्तिग्रहे सति गृहीतशक्तिपदसंहतिवशाद्वाक्यार्थः संसर्गः संसृष्टो वा लौकिकवाक्येषु यः सिद्धः स वेदेऽपि स्यादविशिष्टस्तु वाक्यार्थ इति न्यायेन लोकवेदयोः शब्दतदर्थानामविशेषान्यायस्तु प्रागेवानुक्रान्तत्वान्नेहानुक्रम्यतेऽतो वेदान्तेष्वपि पदानि योग्यान्विते ज्ञातशक्तीनि लक्षणयाऽखण्डमर्थं बोधयन्तीत्यर्थः॥८७०॥

नृविवक्षाव्यवायेन लोके शङ्का भवेदपि॥
वेदे त्वपौरुषेयत्वात्साक्षात्स्वार्थे प्रमाणता॥८७१॥

अथोभयत्र वाक्यार्थाविशेषे लौकिकवाक्यार्थवदितरस्यापि मानान्तरगोचरत्वाद्वेदस्यानपेक्षतालक्षणप्रामाण्यक्षतिरत आह। नृविवक्षेति। लोके पुरुषविवक्षासंबन्धात्तस्याश्च शब्दार्थधीहेतोरनियमाद्दृष्टेऽर्थे शब्दस्यामानत्वमपि शङ्क्येत वेदे त्वपौरुषेये विवक्षाव्यवधानाभावात्तद्वारकदोषाभावात्स्वार्थे मानत्वं साक्षादनपेक्षं सिध्यतीत्यर्थः॥८७१॥

न च कार्यपरत्वेऽपि पदानां संहतिः स्थिता॥
अन्यत्रावगमो न स्यात्संबन्धज्ञानवर्जनात्॥८७२॥

वेदस्यानपेक्षमानत्वेऽपि नाखण्डार्थता संसृष्टकार्यपरत्वादित्याशङ्क्याऽऽह। न चेति। वेदस्य कार्यपरत्वे त्वदिष्टेऽपि पदसंहतिस्तत्परत्वेन न स्थिता पदानां योग्यान्विते शक्तेरुक्तत्वाज्ज्ञातशक्तिपदसमुदायस्य कार्यपरत्वानियमात्कार्यवद कार्येऽपि वाक्यप्रवृत्तेरुक्तत्वाल्लक्षणया च तेषामखण्डार्थत्वस्य दर्शितत्वादिति भावः। अन्वितकार्ये वा तदन्वितस्वार्थे वा कार्यपरपदार्थान्विते वा कार्यान्वयान्वयिनि वा शक्तिनियमात्कार्यपरता वाक्यस्येति चेन्नेत्याह। अन्यत्रेति। अन्विते कार्ये शक्तिनियमे नामपदेभ्यः स्वार्थधोर्न स्यात्तेषां तेषु शक्त्यग्रहात्कार्यान्विते शक्तिनियमे पुत्रजन्मादिवाक्ये पुत्रादिपदेभ्यस्तदर्थेषु न प्रतिपत्तिस्तेषु कार्यान्वितेषु तेषां संबन्धाग्रहात्कार्यपदात्तदर्थे च नावगमः कार्यस्य कार्यान्वयाभावात्तत्र तस्य संगत्ययोगात्कार्यपरपदार्थे शक्तिनियमेऽपि तत्परत्वस्य तच्छेषत्वाव्यतिरेकादुक्तदोषतादवस्थ्यं कार्यान्वयान्वयिनि शक्तिनियमेऽपि कार्यस्येतरस्य द्वयोर्वा शक्तिप्रतियोगित्व प्राप्तेरुक्तदोषतेति भावः॥८७२॥

यथा च कार्ये तात्पर्यं कार्य चापि322 न विद्यते॥
पूर्वमेव तथाऽस्माभिर्युक्तिभिः संप्रसाधितम्॥८७३॥

इतश्च न कार्यपरता वेदस्येत्याह। यथेति॥८७३॥

अनादिवृद्धव्यवहृद्व्युत्पत्त्यैव च तत्स्थितेः॥
शब्दस्यार्थेन संबन्ध आदिमत्ता न शङ्क्यते॥८७४॥

कार्यवादिनि निराकृते केचिदाहुः शब्दार्थसंबन्धस्य सांकेतिकत्वादकार्यपरत्वेऽपि शब्दस्यानपेक्षमानत्वासिद्धिरिति तान्प्रत्याह। अनादीति। उक्तव्यवहारनिमित्तव्युत्पत्तिशब्दितशक्तिरूपेण शब्दार्थसंबन्धस्यौत्पत्तिकसूत्रे स्थितत्वात्तस्मिन्नादिमत्ता संकेतत्वेन न शङ्कनीया तद्वेदस्य संकेतद्वारा न मापेक्षतेत्यर्थः॥८७४॥

प्रथमश्रवणे यत्र न शब्दार्थावधारणम्॥
तत्राव्युत्पन्नता हेतुः शब्दानां न त्वशक्तिता323॥८७५॥

ननु शब्दानां शक्तिसंबन्धे गवादिशब्दश्रात्रिणां सर्वेषामेव कृतो नार्थधीः शब्दशक्तेः सर्वान्प्रत्यविशेषाच पाव्युत्पन्नानां शब्दार्थवीरतस्तयोः संकेत324संबन्धोऽत आह। प्रथमेति। अव्युत्पन्नानां शब्दश्रवणे ततोऽर्थानवधारणं शब्दानामज्ञातशक्तित्वान्न शक्त्यतिरिक्तसंकेताख्यसंबन्धाज्ञानादित्यर्थः॥८७५॥

चक्षुर्द्रष्ट्रपिबाह्यं हि न प्रकाशं विनाऽर्थदृक्॥
नैतावताऽस्य सामर्थ्यं हन्यतेऽन्यस्य वा भवेत्॥८७६॥

संबन्धग्रहे सत्येव शब्दार्थधीश्चेद्बुद्धिसामर्थ्यंशब्दस्य हीयेत संबन्धग्रहस्यैव वा तत्स्यातस्यैव प्राप्ताप्राप्तविवेकेन तद्धेतुत्वादित्याशङ्क्याऽऽह। चक्षुरिति। यथा चक्षुर्दृष्टिशक्तियुक्तमपि बाह्यदीपादिप्रकाशं विना न रूपादिदृष्टौ व्याप्रियते न च दीपाद्यपेक्षामात्रेणास्य दृष्टि दीपादेः सा भवत्येवं शब्दस्य संबन्धग्रहापेक्षा बोधकत्वेऽपि न बुद्धिशक्तिहानिर्नापि सा संबन्धग्रहम्येत्यर्थः॥८७६॥

व्युत्पत्त्या न च संबन्धः क्रियते शब्दयोः॥
अवस्थिते हि संबन्धे वृद्धेभ्योऽसौ प्रजायते॥८७७॥

किंच संकेतपक्षे स व्युत्पत्त्या क्रियते वा केनचिदसर्वज्ञेन वा सर्वज्ञेनेश्वरेण वा नाऽऽद्य इत्याह। व्युत्पत्त्येति। संबन्धग्रहान्न संकेतोत्पत्तिरित्यत्र हेतुमाह। अवस्थिते हीति। शब्दार्थ संबन्धे स्थिते वृद्धव्यवहारवशादमौ व्युत्पत्तिरुत्पद्यते ततः सा पराचीना न प्राचीन325संबन्धमुत्पादयेदित्यर्थः॥८७७॥

संबन्धकरणाशक्तेस्तत्कर्तुचास्मृतेरपि॥
द्विना व्यवहाराच्च सिद्धा संबन्धनित्यता॥८७८॥

न द्वितीय इत्याह। संबन्धेति। न ह्यसर्वज्ञः शब्दार्थसंबन्धं कर्तुमीष्टे तत्संबन्धस्यानन्तत्वात्तन्न तत्कृतः संकेत इत्यर्थः। न तृतीय इत्याह। तत्कर्तुरिति। संबन्धकर्तुरीश्वरस्याननुभवादस्मरणाच्च न सर्वज्ञकृतोऽपि स युक्तः। नहि संकेतकर्तरीश्वरे मानमस्त्य-

नुमानागमयोरतटस्थेश्वरगामित्वादिति भावः। पक्षत्रयसाधारणं दोषमाह। तद्विनेति। अनेनायं संबन्धः कृत इति कर्तृस्मरणमन्तरेण शाब्दव्यवहारदृष्टेश्च न तत्कृतः स इत्यर्थः। विमतः संबन्धो नित्योऽस्मर्यमाणकर्तृकत्वादात्मवदिति फलितमाह। सिद्धेति॥८७८॥

जीर्णकूपादिवत्कर्तुर्यदप्यस्मरणं न तत्॥
अभावगमकं नापि संबन्धेनास्य तुल्यता॥८७९॥

जीर्णकूपादिष्वनैकान्त्यमाशङ्क्याऽऽह। जीर्णेति। तत्र सत्येव कर्तर्यस्मरणं न तस्याभावगमकं संप्रदायविच्छेदादपि तदुपपत्तेरिह तु यत्कर्तुरस्मरणं न तत्तद्वत्कर्त्रभावागमकं संप्रदायाविच्छेदविशेषितकर्त्रस्मरणस्य तदभावाव्यभिचारादित्यर्थः। किंच शब्दार्थसंबन्धेन जीर्णकूपादेर्न तुल्यता संबन्धस्यानन्ततया दुष्करत्वादन्यस्याल्पत्वेन सुकरत्वादतोऽसंभावितकर्तृकत्वेनापि तन्नित्यत्वमनुमेयमित्याह। नापीति॥८७९॥

क्वचिज्ज्ञातेषु दूरादिकारणे संशयोऽपि च॥
नात्यन्तानुपलब्धेषु त्वभावोऽतोऽस्य निश्चितः॥८८०॥

योग्यानुपलब्ध्या कर्तुरभावनिश्वयाच्च संबन्धनित्यतेत्याह। क्वचिदिति। लोके क्वचिद्देशे काले च सामान्यदृष्टेष्वर्थेषु दूरान्धकारादिहेतोर्विशेषाग्रहे च स्थाणुः पुमान्वेत्यादिः संशयो दृष्टो नात्यन्तमदृष्टेषु साधारणग्रहहेत्वभावादिह तु संबन्धकर्तुः सर्वथाऽनुपलम्भान्न तत्संशयोऽपि तन्निश्चयस्तु कुतस्त्योऽतो योग्यानुपलम्भादस्याभावनिश्चयाद्युक्ता संबन्धनित्यतेत्यर्थः॥८८०॥

संनिकृष्टार्थसंसृष्टस्वार्थमात्राभिधानतः॥
तस्मात्सिद्धोऽऽन्न वाक्यार्थो लोके वेदे प्रमाणवान्॥८८१॥

संबन्धस्य संकेतत्वं निरस्य शक्तित्वं व्यवस्थाप्य योग्यान्विते शक्तिमुपेत्येष्टेऽर्थे शब्दप्रामाण्यमुपसंहरति। संनिकृष्टेति। संनिधानादिमताऽर्थेन संसृष्टस्य स्वार्थमात्रस्य कार्याकार्योदासीनस्य पदैरभिधानात्पदार्थसंसर्गः संसृष्टपदार्थो वा वाक्यार्थो लोकवेदयोः प्रामाणिकः सिद्ध इति योजना। समानाधिकरणे पञ्चम्यौ। एवमुत्सर्गे स्थिते वेदान्तेषु तात्पर्यमालोच्याखण्डार्थतासिद्धिरित्यर्थः॥८८१॥

अतोऽवबोधकत्वेन दुष्टकारणवर्जनात्॥
अबाधाच्च प्रमाणत्वं वस्तुन्यक्षादिवच्छ्रुतेः॥८८२॥

किंच वस्तुनि शब्दस्यामनित्वमबोधकत्वाद्वा सांशयिकत्वाद्वा विपर्ययहेतुत्वाद्वा पुमर्थाभावाद्वेति विकल्प्य त्रयं क्रमेण निरस्यति। अत इत्यादिना। अतः श्रुतेरिति संबन्धः। अस्यास्तत्त्वमस्यादिश्रुतेरधिकृतं प्रति बोधकत्वादपौरुषेयत्वाच्च तदुत्थबोधस्यादुष्टकारण-

कत्वेन संशयविपर्ययातिरेकाद्बाधकाभावेन बाधानुपलब्धेश्च विपर्ययत्वायोगाद्युक्तमस्या वस्तुनि चक्षुरादिवत्प्रामाण्यमित्यर्थः॥८८२॥

पुरुषार्थोपदेष्टृत्वाद्यद्वत्कार्ये प्रमाणता॥
तथैकात्म्ये विशेषाद्वा पुमर्थातिशयत्वतः॥८८३॥

चतुर्थ प्रत्याह। पुरुषार्थेति। कार्यसाम्यमैक्यस्योपेत्य शब्दस्योभयत्र प्रामाण्याविशेषमुक्त्वैक्येश्रुतेस्तत्त्वावेदनं प्रामाण्यमित्यतिशयमाह। विशेषाद्वेति। अबाधितपुमर्थत्वादामनो मेयस्योत्तविशेषे हेतुमाह। पुमर्थेति। निरतिशयपुरुषार्थमज्ञातं ज्ञापयतस्तत्वमादेस्तात्त्विकमानतेति भावः॥८८३॥

पुमानिष्टस्य संप्राप्तिमनिष्टस्य च वर्जनम्॥
इच्छन्नपेक्षते योग्यमुपायमपि तत्परः॥८८४॥

प्रतीचो वाक्यार्थीभूतस्य पुमर्थातिशयत्वं विशदीकर्तुं तद्वैविध्यमाह। पुमानिति। इष्टलक्षणं फलमित्युपगमात्फलत्वं तयोः साधयति। इच्छन्निति। साधनाधीनं साध्यमिति न्यायं सूचयति। अपेक्षत इति। योग्यमुपेयोत्पादनशक्तमित्यर्थः। तत्परः फले तद्धेतौ च तात्पर्यवानिति यावत्॥८८४॥

ग्रामादि किंचिदप्राप्तंप्राप्तुमिष्टमिहेच्छति॥
हेमादि विस्मृतं किंचित्करस्थमपि लिप्सते॥८८५॥

तर्हिद्विविधस्यापि पुमर्थस्य साधनसाध्यत्वेनानित्यत्वादात्मनि पुमर्थातिशयासिद्धिरित्याशङ्क्येष्टप्राप्तिं भिनत्ति। ग्रामादीति। इहेति व्यवहारभूमिरुच्यते॥८८५॥

परिहार्यं तथाऽनिष्टं कण्टकादि जिहासति।
रज्ज्वां सर्पादि किंचिच्च त्यक्तमेव जिहासति॥८८६॥

अनिष्टनिवृत्तिमपि विभजते। परिहार्यमिति॥८८६॥

नियतोपायसाध्यत्वादवाप्यपरिहार्ययोः॥
विधितः प्रतिषेधाच्च साधनापेक्षता भवेत॥८८७॥

अप्राप्तस्यापरिहृतस्य च प्राप्तिपरिहारयोरुपायमाह। नियतेति। अप्राप्तप्राप्तेरपरिहृतपरिहारस्य च शास्त्रान्वयव्यतिरेकसिद्धोपायसाध्यत्वाद्विधिनिषेधाभ्यामन्वयव्यतिरेकाम्यां च साधनभेदं ज्ञात्वा तदनुष्ठानेन प्रेप्सितमप्राप्तं प्राप्नोत्यपरिहृतं च परिजिहीर्षितं परिहरतीत्यर्थः॥८८७॥

अज्ञानान्तरितत्वेन संप्राप्तत्यक्तयोः पुनः॥
याथात्म्यज्ञानतो नान्यत्पुरुषार्थाय कल्पते॥८८८॥

अवशिष्टयोराप्तिपरिहारयोरुपायमाह। अज्ञानेति। प्राप्तस्य त्यक्तस्य चाज्ञाना-

च्छन्नत्वेन प्रेप्साजिहासयोर्भावे तत्त्वज्ञानमेव पुरुषार्थाय तयोराप्तिपरिहाराय समर्थी भवतीत्यर्थः॥८८८॥

अशेषानर्थविच्छेदं वाञ्छतः श्रुतितः श्रुतेः॥
त्वं ब्रह्मेति हताशेषक्लेशो मोहप्रहाणतः॥८८९॥

एवं विभागेऽपि कथं वेदान्तवेद्ये पुमर्थातिशयत्वसिद्धिस्तत्राऽऽह। अशेषेति। मोक्षमाणस्य तत्त्वमादिवाक्यात्त्वं ब्रह्मेति ब्रह्मात्मत्वे ज्ञाते ज्ञातब्रह्माप्तनिरस्तसमस्त क्लेशो भवति तद्धेतोर्मोहस्याभावादतोऽनतिशयात्राधितपुमर्थे ब्रह्मात्मनि युक्तं तात्त्विकमानत्वं वेदान्तानामित्यर्थः॥८८९॥

वेदस्य सिद्धे प्रामाण्ये ह्यज्ञातार्थावबोधतः॥
कार्ये यथा प्रमाणत्वमैकात्म्येऽप्येवमिष्यताम्॥८९०॥

इतश्च तस्मिन्मानत्वं तेषामित्याह। वेदस्येति। अज्ञातार्थबोधित्वाद्वेदस्य मानत्वे स्थिते कार्यवाक्यानामज्ञातकार्यबोधिनां स्वार्थे मानत्ववदैक्यवाक्यानामप्यज्ञातं तद्बोधयतां तस्मिन्मानत्वमनधिगतगन्तृत्वाविशेषादित्यसकृदुक्तमित्यर्थः॥८९०॥

कार्याद्यदि तु मानत्वं मानत्वात्कार्यनिष्ठता॥
अन्योन्याश्रयतैवं स्यादेकस्यासिद्धितोऽन्यतः॥८९१॥

ननु तत्त्वमादिवाक्यं स्वार्थे मानमबुद्धबोधित्वात्कार्यवाक्यवदित्ययुक्तं वाक्यप्रामाण्ये कार्यनिष्ठत्वस्य प्रयोजकत्वात्तत्राऽऽह। कार्यादिति। कार्यनिष्ठत्वाद्यदि वेदस्य मानत्वमेवं सत्यन्योन्याश्रयता वेदस्य मानत्वात्कार्यनिष्ठता ततो मानतेति तयोरेकस्याप्यन्यतोऽसिद्धेरित्यर्थः। कार्यनिष्ठत्वं वेदप्रामाण्ये न प्रयोजकं व्यतिरेकासिद्धेरिति तुशब्दार्थः॥८९१॥

औदासीन्यान्निषेधेषु न लभ्येत प्रमाणता॥
औदासीन्यं निवृत्तिर्हि स्वरूपालम्बनं च तत्॥८९२॥

ननु विमतं न स्वार्थे मानमकार्यनिष्ठवाक्यत्वात्संमतवदिति व्यतिरेक सिद्धिमाशङ्क्याऽऽह। औदासीन्यादिति। न हन्तव्यो न पिबेदित्यादिनिषेधेषु कार्यविलक्षणमौदासीन्यमर्थः, कार्यमेव वेदार्थश्चेत्तेष्वमानता, स्वीक्रियते च तेषामपि मानत्वमतो व्यभिचारो हेतोरित्यर्थः। औदासीन्यस्यैव कार्यत्वात्तन्निष्ठनिषेधेषु न व्यभिचार इत्याशयाऽऽह। औदासीन्यमिति। प्राप्तक्रियानिवृत्तिरौदासीन्यं न कार्यमित्यर्थः। नित्तिरेव तर्हि कार्यं नेत्याह। स्वरूपेति। वस्त्वेव निवृत्तिर्नहि कूटस्थाद्वयादन्या साऽस्त्यन्यत्वेऽपि तस्या न कार्यतेति कुतो निषेधानां तन्निष्ठतेत्यर्थः॥८९२॥

सोऽरोदीत्यादिवाक्यानां कार्यावेशात्प्रमाणता॥
अपुमर्थोपदेष्टृत्वात्तच्च नात्रेत्यकारणम्॥८९३॥

प्राप्तक्रियानिवृत्त्युपलक्षितस्वास्थ्याप्रच्युतिरूपौदासीन्याकार्यावसायिनामपि निषेधानां प्रामाण्यवदैक्यवाक्यानामपि स्वार्थे तदित्युक्तम्। ननु तत्त्वमादिवाक्यं कार्यशेषे मानं विधिशून्यवेदवाक्यत्वात्संमतवदित्याशङ्क्य स्वार्थे पुमर्थराहित्यमुपाधिरित्युक्तमेव स्मारयति। सोऽरोदीति326। साधनव्याप्तिं निराह। तच्चेति। नहि तत्त्वमादावपुमर्थोपदेष्टृत्वं तदर्थस्यैक्यस्य परानन्दतया पुरुषार्थत्वोक्तेरित्यर्थः। सोपाधित्वादुक्तं साधनमगमकमिति फलितमाह। इत्यकारणमिति॥८९३॥

न चैकात्म्याभ्युपायस्य मिध्यात्वमिह शङ्क्यते॥
उपेयाप्तौ कृतार्थत्वादुपायं प्रत्यनीक्षणात्॥८९४॥

विधिविधुरवेदवाक्यत्वानुमानायोगेऽपि तस्वमादिवाक्यजा धीर्न प्रमा मिथ्याकारणकत्वाद्धुमाभासोत्थज्ञान-वदित्याशङ्क्याऽऽह। न चेति। तत्त्वज्ञानोपायस्य श्रुत्यादेर्मिथ्यात्वं तज्जन्ये ज्ञाने प्रमात्वाभावे न प्रयोजकत्वेनाऽऽशङ्क्यते तत्र प्रमाफलराहित्यस्योपाधित्वादित्यर्थः। साधनव्याप्तिमाशङ्क्याऽऽह। उपेयेति। उपेयस्य ज्ञानस्याऽऽप्तौ मुक्तिफलतया पुरुषस्य कृतार्थत्वादुपायं श्रुत्यादिं प्रत्यन्वेषणाभावादप्रयोजको हेतुरित्यर्थः॥८९४॥

ऐकात्म्यप्रतिपत्तेः प्राङ्न मिथ्या हेत्वभावतः॥
पुरुषार्थावसायित्वान्नाप्यूर्ध्वमनपेक्षतः॥८९५॥

किंचोपायस्य मिथ्यात्वज्ञानममानत्वहेतुस्वरूपेण वा तज्ज्ञानमपि वस्तुज्ञानात्प्रागूर्ध्व वेति विकल्प्याऽऽद्यं दूषयति। ऐकात्म्येति। वाक्यार्थज्ञानात्प्रागुपायो न मिथ्येति तत्प्रतीतो गमकाभावादतो हेत्वसिद्धिरित्यर्थः। द्वितीयं दूषयति। पुरुषार्थेति। तत्त्वज्ञानादूर्ध्वमुपायमिथ्यात्वं ज्ञातमपि नोपेये ज्ञाने प्रमात्वं विहन्ति तत्फलस्य मोक्षस्याऽऽप्तत्वेन मानापेक्षाभावादुक्तोपाधितादवस्थ्यादित्यर्थः॥८९९॥

उपेयबोधनं मुक्त्वा मितेर्नान्याऽस्ति सत्यता॥
सत्यादप्यनुपायत्वाद्धटान्नानिहिं गम्यते॥८९६॥

किंचोपायस्य मिथ्यात्वे तज्जा धीर्न प्रमेति वदता मिथ्याभूतस्योपायत्वं नेति वा विवक्ष्यते सत्यस्योपायत्वमिति वा नाऽऽद्योमिथ्याभूतस्यापि प्रतिबिम्बादेरुपायतोपगमाद्वितीये तूपायस्य सत्यत्वं कार्यकरत्वं वा बाघवैधुर्यं वा तत्राऽऽद्यमुपेत्य द्वितीयं दूषयति। उपेयेति। मितिशब्देन तदुपायः श्रुत्यादिर्लक्ष्यते तस्योपेयबोधनस्वरूपं कार्यकरत्वमिष्टमेवातस्तादृशसत्यत्वशून्योपायजन्यत्वं विमते ज्ञाने नास्तीत्यसिद्धिः कार्यकरत्वं विना नोपायस्य बाधवैधुर्यरूपा सत्यताऽस्ति नेह नानेत्यादिबाधस्य स्पष्टत्वात्तथा च तथाविधतत्त्वताहीनहेतुजत्वहेतावुक्तोपाधिसत्त्वमिति भावः। किंच सत्यत्वमुपायत्वे न

प्रयोजकं न हि सत्यादपि घटादग्निर्गम्यते तस्य सत्यत्वेऽपि तज्ज्ञानोपायत्वाभावादित्याह। सत्यादिति॥८९६॥

धूमाभासात्तु बाष्पादेर्यदग्निर्नावगम्यते॥
हेतुस्तत्रानुपायत्वमसत्यत्वं पुनर्न तु॥८९७॥

विमतं न मानमसत्यत्वाद्भूमाभासवदिति स्वरूपेणोपायमिथ्यात्वमप्रमात्वे प्रयोजकमिति द्वितीयं पक्षमाशङ्क्याव्यभिचरित-संबन्धराहित्यस्योपाधित्वान्मैवमित्याह। धूमेति॥८९७॥

धूमवत्परमार्थत्वमुपायत्वान्न लभ्यते॥
वेदान्तानां तथैकात्म्यश्रुतिबाधः स्फुटोभवेत्॥८९८॥

तर्हि श्रुत्याद्यपि सत्यमुपायत्वाद्धमवदित्याशङ्क्याऽऽह। धूमवदिति। तत्र हेतुमाह। तथेति। श्रुत्यादेः सत्यत्वे सतीति यावत्॥८९८॥

बाष्पवन्नापि मिथ्यात्वादनुपायत्वमिष्यते॥
ऐकात्म्याबोधबाधेन सिद्धा तूपायसत्यता॥८९९॥

विमतमुपेयेनाव्यभिचरितसंबन्ध रहितमसत्यत्वाद्भाव्यवदिति धूमाभासादित्यत्रोक्तोपाधेः साधनव्याप्तिमाशङ्क्याऽऽह। बाष्पवदिति। तत्र हेत्वसिद्धि हेतुमाह। ऐकात्म्येति। कार्यकरत्वाख्यसत्यत्वस्येष्टत्वाद्धेत्वसिद्धिः परमार्थसत्यताभावस्य धूमादावपि भावादनैकान्तिकतेति भावः॥८९९॥

श्रुतेरैकात्म्यसंवित्तौ चरितार्थत्वतो मितेः॥
वृथोपायपरीक्षा स्यादुत्तीर्णस्य प्लवे327 यथा॥९००॥

ऐकात्म्यबोधित्वे सत्युपायस्य सत्यत्वं तस्मिन्सति तद्बोधित्वमित्यन्योन्याश्रयत्वमाशङ्कयोदासीनश्रुत्यादेर्वस्तुप्रमितौ पुरुषस्य कृतार्थित्वादुपायान्वेषण वैयर्थ्यान्मितेरूर्ध्व तदुपायबाधेऽप्यविरोधान्नान्योन्याश्रयतेत्याह। श्रुतेरिति। प्रमितौ सत्यामुपायान्वेषणं वृथेत्यत्र दृष्टान्तमाह। उत्तीर्णस्येति॥९००॥

बाह्येष्वर्थेष्वनात्मत्वात्पुनः शङ्का भवेदपि॥
अत्राऽऽत्मत्वादुपेयस्य का शङ्का मानतां प्रति॥९०१॥

इतश्च श्रुत्यादेः सत्यत्वाभावेऽपि नाबोधकत्वमित्याह। बाह्येष्विति। अनात्मस्वध्यक्षादिसिद्धेष्वपि तथा न वेति मातुः शङ्का संभाव्यते तेषामनात्मत्वाच्छ्रुत्यादिमेयेऽर्थे तस्याऽऽत्मत्वादुपायमिथ्यात्वेऽपि स्वरूपबोधिनो मानत्वाभावं प्रत्याशङ्केव नोत्तिष्ठेदित्यर्थः। यद्वा श्रुत्यादेर्मिथ्यात्वशक्त्रैव नास्तीत्याह। बाह्येष्विति। वक्मयादिषूपायस्यानात्मत्वान्मिथ्यात्वशक्ताऽपि स्यादेकात्म्ये तु श्रुत्याद्युपायस्याऽऽत्ममात्रत्वात्तदमानत्वं

मिथ्यात्वं प्रत्याशङ्काऽपि नोदेत्यतः श्रुत्यादेः स्वरूपेण सत्यत्वात्कल्पितभेदाचोपायत्वादुपपन्नं ब्रह्मात्मनि वेदान्तप्रामाण्यमिति भावः॥ ९०१॥

अन्यत्रेव न चाप्यत्र वाक्यार्थो भेदलक्षणः॥
संसर्गलक्षणो वाऽपि ब्रह्मात्माभेदतो भवेत्॥९०२॥

तर्हि तस्य परेष्टवाक्यार्थत्वप्रसङ्गादखण्डत्वहानिरित्याशङ्क्याऽऽह। अन्यत्रेति। गामानयेत्यत्र क्रियाकारकसंबन्धभेदो वाक्यार्थो, नीलमुत्पलमित्यत्र समानविभक्तिपदोक्तपदार्थसंसर्गो वाक्यार्थो नैवं तत्त्वमादौ तत्त्वमर्थयोरैक्यार्थत्वादित्यर्थः॥९०२॥

ब्रह्मणोऽनात्मतारूपमब्रह्मत्वं तथाऽऽत्मनः॥
अज्ञानलक्षणं शास्त्राज्ज्ञानं हन्ति समुत्पतत्॥९०३॥

ब्रह्मात्मानौ नाभिन्नौ मिथो विरुद्धत्वाच्छीतोष्णवदित्यनुमानात्कथमखण्डतेत्याशङ्क्य प्रामाणिकविरुद्धत्वस्यासिद्धत्वादितरस्य बिम्बप्रतिबिम्बयोरनैकान्त्यान्नैवमित्याह। ब्रह्मण इति। अब्रह्मत्वादेरज्ञानकृतत्वे फलितमाह। शास्त्रादिति॥९०३॥

नेहान्यत्राऽऽत्मनो ब्रह्म तथाऽऽत्मा ब्रह्मणोऽन्यतः॥
तादात्म्यमनयोस्तस्मान्नीलोत्पलविलक्षणम्॥९०४॥

ब्रह्मात्मनोरभेदवद्भेदस्यापि भावान्नीलोत्पलयोरिव संसर्गोऽत्र वाक्यार्थः स्यादिति चेन्नेत्याह। नेहेति। शास्त्रमिहेत्युच्यते। प्रतीचो ब्रह्मान्यचेद्धटवदब्रह्म स्यात्सोऽपि ब्रह्मणोऽन्यत्तद्वदनात्मा स्यात्तस्मान्नीलोत्पलयोर्भेदसहाभेदवत्तयोर्न तादात्म्यं किंत्येकरस्यमित्यर्थः॥ ९०४॥

अब्रह्मानात्मते यदत्राज्ञाननिबन्धने॥
आत्मताब्रह्मते नैवमन्यस्मादित्यतः स्वतः॥९०५॥

ब्रह्मणोऽनात्मत्वमात्मनश्चाब्रह्मत्वमाविद्यमितिवदात्मत्वं ब्रह्मणो ब्रह्मत्वं चाऽऽत्मनोऽज्ञानकृतं किं न स्यादित्याशङ्क्याऽऽह। अब्रह्मेति। अत्रेत्यात्मादिनिर्देशः। अन्यस्मादित्यज्ञानोक्तिः। भेदस्यान्योन्याश्रयादिदुष्टत्वात्कल्पितत्वं नाभेदस्येति मत्वाऽऽत्मनो ब्रह्मत्वं ब्रह्मणश्चाऽऽत्मत्वं स्वाभाविकमिति फलितमाह। इत्यत इति॥ ९०५॥

नानोरेवं च संबन्ध ऐकात्म्यात्स्यात्क्रियां विना॥
षष्ठीं च न क्रियाषष्ठयोर्विना भेदात्प्रवर्तनम्॥९०६॥

ब्रह्मात्मनोर्भेदलेशाभावे षष्ठीगुणक्रियादिप्रवृत्तिनिमित्ताभावात्तत्त्वंपदयोरैक्ये न प्रवृत्तिरित्याशङ्क्याऽऽह। नाम्नोरिति। भेदगन्धस्याप्यभावे सति क्रियाद्यतिरेकेणैव तयोकार्यप्रवृत्तौ हेतुमाह। ऐकात्म्यादिति। पदार्थस्यैकरस्यात्तस्मिन्भेदस्य दुर्निरूपत्वादित्यर्थः। एकरसेऽपि कथं निमित्ताभावे शब्दप्रवृत्तिरित्याशङ्क्य लक्षणयेति मत्वाऽऽह। न क्रियेति॥९०६॥

महत्ता यद्वदाकाशे घटाकाशव्यपेक्षया॥
पराक्त्वापेक्षया तद्वत्मत्यक्ता नाऽऽत्मनीक्ष्यते328॥९०७॥

प्रत्यग्ब्रह्मणोर्भेदाभावेऽपि प्रत्यगनात्मनोः स वाच्यः प्रत्यक्त्वस्य पराग्रूपापेक्षत्वात्तनाखण्डतेति शङ्कते। महत्तेति। न प्रत्यक्त्वमात्मनि पराक्त्वापेक्षं किंतु स्वाभाविकमिति समाधत्ते। नाऽऽत्मनीति। तत्र विद्वनुभवं प्रमाणयति। ईक्ष्यत329 इति॥ ९०७॥

प्रत्यक्त्वमद्वितीयत्वं बोधवन्नान्यबन्धनम्॥
अपारार्थ्यान्न बोधो हि स्यादबोधनिरासतः॥९०८॥

तथाऽपि द्वयापेक्षत्वादद्वयस्य वस्तुनो नाखण्डतेत्याशङ्क्याऽऽह। प्रत्यक्त्वमिति। प्रत्यक्ताऽस्य स्वतो रूपं निष्क्रियाकारताफलमिति न्यायेन सामानाधिकरण्यमज्ञानहानि मपेक्ष्य ब्रह्मणि बोधोक्तेर्दृष्टान्तस्य साध्यशून्यतेत्याशङ्क्याऽऽह। अपारार्थ्यादितिप्रज्ञानं ब्रह्मेत्यादिश्रुतेर्बोधस्य स्वरूपत्वान्नासौ जडपर्युदासेन ब्रह्मण्युच्यते तथाऽद्वयत्वमपि तस्य पूर्णता पर्यायमनन्यापेक्षं रूपमिति सिद्धा ब्रह्मणोऽखण्डतेत्यर्थः॥९०८॥

आत्माऽपि सदिदं ब्रह्म मोहात्पारोक्ष्यदूषितम्॥
ब्रह्मापि संस्तथैवाऽऽत्मा सद्वितीयतयेक्ष्यते॥९०९॥

वेदान्तानामखण्डैकरसे ब्रह्मात्मनि समन्वयमुपसंहरति। आत्माऽपीत्यादिना॥९०९॥

आत्मा ब्रह्मेति पारोक्ष्यसद्वितीयत्वबाधनात्॥
म निष्ठितं शास्त्रमिति सिद्धं समीहितम्॥९१०॥

ब्रह्मणि परोक्षस्याऽऽत्मनि सद्वयत्वस्य च प्रतीतौ कथमभेदबोधनमत आह। आत्मेति। ब्रह्मण्यात्मसंबन्धात्पारोक्ष्यस्याऽऽत्मनि च ब्रह्मसंबन्धात्सद्वयत्वस्य निरासात्परानन्दतया परमपुरुषार्थे वाक्यमैक्ये तात्पर्येण पर्यवसितमित्यर्थः। समन्वये सिद्धे वाक्यीयैक्यज्ञानादेव मुक्तिरिति फलितमाह। इति सिद्धमिति॥ ९९०॥

ननु भेदाश्रितैर्वाक्यैर्विधायकनिषेधकैः॥
अक्षादिभिश्च नैकात्म्यं बाधितत्वात्प्रमाणवत्॥९११॥

उक्तं समन्वयमसहमानश्वोदयति। नन्विति। विधिनिषेधवाक्यान्यध्यक्षादीनि च भेदविषयाणि तैरैक्यस्य बाधितत्वान्न तस्य वेदान्तगम्यतेत्यर्थः॥९११॥

न चाप्यैकात्म्यशास्त्रस्य तैर्विकल्पसमुच्चयौ॥
प्रामाण्ये नापि बाध्यत्वं तेषां तेन कथंचन॥९१२॥

वेदान्तानामप्यविशेषात्प्रामाण्ये तैरध्यक्षादिभिर्विकल्पः समुच्चयो वा वेदान्तानां

प्रामाण्यं स्यादतो वेदान्तवेद्यं वाऽध्यक्षादिगम्यं वा द्वयमपि वा वस्त्वित्याशङ्क्याऽऽह। न चेति। षोडशिग्रहणाग्रहणवत्प्रामाण्यं शास्त्रस्येतरेषां चेति न विकल्पः। षड्यागवत्तस्य तेषां च मानतेति न समुच्चयोऽपीत्यर्थः। अस्तु तर्हि शास्त्रेणान्येषां बाध्यता नेत्याह। नापीति॥९१२॥

विरुद्धमानभावेऽपि न हि वस्तु विकल्प्यते॥
भेदाभेदौ न च स्यातां विरोधाद्युगपत्कचित्॥९९३॥

तुल्यबलविरुद्धमानसत्त्वं किमिति विकल्पो न भवतीत्याशङ्क्याऽऽह। विरुद्धेति। क्रियायामेव विकल्पो न वस्तुनि प्रामाण्यं च वस्तुत्वान्न विकल्पार्हमन्यथा तद्वारा वस्तुन्यपि तत्प्रसङ्गात्तरय नायोगादित्वर्थ। समुच्चये च भेदाभेदौ स्यातां न च क्वचिदपि युगपत्तौ युक्तौ भावाभावयोरेकत्र विरोधादन्यथा तद्बार्तानवकाशादिति मत्वा प्रामाण्यसमु वयं प्रत्याह। भेदाभेदाविति॥९९३॥

भिन्नाभिन्नंन वो वस्तु येन मानाविरोधिता॥
नेह नानेति भेदानां निषेधात्कनु भेदधीः॥९१४॥

ऐकात्म्यवादिनां भेदापेदाङ्गीकारे सिद्धान्तविरोधदोषान्तरमाह। भिन्नेति। भिन्नाभिन्नार्थाभ्युपगमेनोभयविधमानानां मानत्वादविरोधिता वाच्या सा च तदभावादेव निरस्तेत्याह। येनेति। किंच तादृग्वस्तु त्वया नोपेयमुपेतश्रुतिविरोधादित्याह। नेहेति॥९९४॥

वर्णादिग्रहणोपायो नापीहाक्षादि बाध्यते॥
संस्काराय च यच्छास्त्रमात्मज्ञानोपकारकम्॥९१५॥

शास्त्रस्याध्यक्षादीनां च विकल्पसमुच्चयौ प्रत्यादिश्य नापि बाध्यत्वमित्यत्र हेतुमाह। वर्णादीति। प्रत्यक्षादि तावद्वर्णपदवाक्यादिग्रहोपायो न च शास्त्रेण तद्वाधो युक्तस्तथा सति हेत्वभावाद्वस्तुनि ज्ञानासिद्धेर्मोक्षाभावप्रसङ्गादित्यर्थः। ऐक्यशास्त्रेण कर्मशास्त्रस्याबाधे हेतुमाह। संस्कारायेति। यत्कर्मकाण्डं स्वार्थानुष्ठानद्वारा बुद्धिशुद्धये भवदात्मज्ञानस्य परंपरयोत्पादकं तद्बाधे कर्माभावाज्ज्ञानाभावस्तस्मात्कर्मकाण्डमध्यक्षादि चाचाध्यमित्यर्थः॥९९९॥

उपचारार्थतः शास्त्रं सावकाशं जपेऽथवा॥
अक्षादेरकृतार्थत्वात्कथं स्यात्तेन बाधनम्॥९१६॥

का तर्हि वेदान्तानां गतिस्तामाह। उपचारेति। ग्रामीणप्रधानपुंसोऽद्वयत्वोपचारवदुपचरितं ब्रह्माद्वैतमाश्रित्य शास्त्रं चरितार्थमित्यर्थः। गत्यन्तरमाह। जप इति। किं च सावकाशनिरवकाशयोर्निरवकाशं बलवदिति न्यायाद्वैतमानानामृते द्वैतादनवकाशानां दर्शितरीत्या सावकाशेन शास्त्रेण न बाध्यतेत्याह। अक्षादेरिति॥ ९९६॥

उच्यते, लोकतः सिद्धं भेदमाश्रित्य चोदना॥
प्रवृत्ता पुरुषार्थाय न तु भेदावबुद्धये॥९१७॥

द्वैतग्राहिमानविरोधान्न वेदान्तानामेकरसे ब्रह्मणि प्रामाण्यमिति प्राप्ते सिद्धान्तयति। उच्यत इति। तत्राऽऽदौ कर्मकाण्डविरोधं निरस्यति। लोकत इति। कर्मकाण्डं हि लौकिकं कर्त्रादिभेदमादायाभ्युदयार्थं प्रवृत्तं न भेदं प्रतिपादयितुं तस्यापूर्वत्वाभावात्तत्रातात्पर्यादित्यर्थः॥९१७॥

भेदस्य चापुमर्थत्वात्तादर्थ्ये स्यादमानता॥
पुमर्थत्वेन चास्येष्टं प्रामाण्यं वेदवादिभिः॥९१८॥

भेदे शास्त्रस्यातात्पर्ये हेत्वन्तरमाह। भेदस्येति। द्वितीयाद्वै भयमिति श्रुतेर्भेदस्यानर्थत्वा॒त्तन्निष्ठत्वे कर्मकाण्डस्याप्रामाण्यं स्यादित्यर्थः। किंच शास्त्रस्य पुमर्थापूर्वार्थनिष्ठत्वेन प्रामाण्यमिष्टं तद्विरोधस्ते कर्मशास्त्रस्य भेदनिष्ठत्वे स्यादित्याह। पुमर्थत्वेनेति॥९१८॥

वस्तुस्वरूपसंस्पशिचक्षुरादिभ्य उत्थितम्॥
भेदस्पृङ्नाक्षजाद्येवं न तेनैकात्म्यबाधनम्॥९१९॥

कर्मकाण्डाविरोधेऽपि वेदान्तानामध्यक्षादिविरोधे कः समाधिस्तत्र प्रत्यक्षं विधायकमेव वानिषेधकमेव वा विधिनिषेधव्यापारं वेति विकल्प्याऽऽद्यमादत्ते। वस्त्विति। उत्थितं ज्ञानमिति शेषः। विधिमात्रव्यापारत्वेऽध्यक्षस्य भेदाविषयत्वात्तेन वस्तुविषयवाक्यस्य न बाधनमित्याह। भेदेति॥९९९॥

प्रमेयविषयं मानं वस्तुनश्च प्रमेयता॥
न च भेदस्य वस्तुत्वं वस्तुतत्त्वानपेक्षणात॥९२०॥

प्रत्यक्षं भेदमपि वस्तुवत्किं न स्पृशेदित्याशङ्क्याऽऽह। प्रमेयेति। मानयोग्यत्वमपि भेदस्य किं न स्यात्तत्राऽऽह। वस्तुनश्चेति। वस्तुत्वमपि तस्यास्त्येवेति चेन्नेत्याह। न चेति। तत्र हेतुमाह। वस्त्विति। वस्तुस्वरूपस्य निरपेक्षत्वाद्धर्म्या330दिसापेक्षभेदस्य सर्पादिवत्कल्पितत्वान्न वस्तुतेत्यर्थः॥९२०॥

लब्धे हि भूतलेऽलब्ध घटस्तत्र निषिध्यते॥
मानान्तरेण विज्ञातो. नाज्ञातः शून्यताप्तितः॥९२१॥

निषेधकमेवाध्यक्षमिति पक्षं प्रत्याह। लब्धे हीति। दृष्टे धर्मिण्यदृष्टस्यैव प्रतियोगिनो निषेधो नेदमिति वा नेदमिहेति वा। नहि प्रमितो निषेध्यः प्रमाणविरोधान्नचाज्ञातोऽज्ञातसर्वनिषेधप्रसङ्गात्तन्न निषेधकमेवाध्यक्षामित्यर्थः॥९२१॥

व्यञ्जकस्य समायोगो वस्तुनो वस्तुनैव हि॥
नाभावेन निरात्मत्वाद्द्यावृत्त्या वा मितेर्भवेत्॥९२२॥

किंचनिषेधोऽभावो भेदो वा न तावदभावेऽध्यक्षस्य प्रवृत्तिरित्याह। व्यञ्जकस्येति। प्रत्यक्षस्य वस्तुत्वाद्वस्तुनैव योगो नाभावेनावस्तुना, तस्य निःस्वभावत्वादाधारत्वायोगान्नच्चाध्यक्षासंबद्धस्य तद्वेद्यताऽतिप्रसङ्गादिति भावः। द्वितीयेऽपि व्यावृत्त्यारूयभेदेन मितेरध्यक्षस्य न योगो भेदस्याप्यवस्तुत्वादतो न तस्यापि प्रत्यक्षतेत्याह। व्यातृत्त्येति॥९२२॥

नातो वस्तुनि संभेदो वस्तुनोऽभेदरूपतः॥
न प्रमाणाद्बहिर्वस्तु न मानंवस्तुनो बहिः॥९२३॥

भेदाभावयोरवस्तुत्वेन मानायोग्यत्वे फलितमाह। नात इति। अवस्तुत्वाद्भेदाभावयोर्वस्तुनि स्पर्शाभावान्नोऽस्माकमभेदरूपतो वस्त्वभेदरूपमद्वयं भवतीत्यर्थः। यद्वा वस्तुनि मेदास्पर्शे हेतुमाह। वस्तुन इति। तस्य स्वारस्येनाभेदस्वाभाव्यादित्यर्थः। अथवा तत्र भेदादिस्पर्शे तदेकरूपतायोगादित्यर्थः। भेदाभावयोरन्यत्रावस्तुत्वेऽपि न वस्त्वंद्वयं मानमेयभेदादित्याशङ्क्याऽऽह। नेति। अद्वये तद्भेदोऽपि वास्तवो नास्तीत्यर्थः॥९२३॥

नाभावयोर्मिथो योगोऽवस्तुत्वाभेदतस्तयोः॥
अभावभावयोस्तद्वद्भावरूपेषु का भिदा॥९२४॥

वस्तुनि भेदाभावो निरस्य भेदनिरासे हेत्वन्तरमुच्यते तत्र भेदस्य धर्मिप्रतियोगिनाभावौ वा भावाभावौ वा भावावेव वा नाऽऽद्यो न ह्यभावयोमिथो भेदोऽवस्तुत्वाविशेषादित्याह। नाभावयोरिति। योगशब्देन भेदो लक्ष्यते। द्वितीयं निरस्यति। अभावेतिसद्वदिति। न मिथो भेदोऽभावस्यानाधारत्वादित्यर्थः। तृतीयं निराह। भावेति। नहि मावेषु भेदो, भेदकाभावान्न तावद्भावत्वं भेदकं प्रतियोगिनो भावत्वेन धर्म्यद्वैतापातान्नाप्यभावत्वं, तस्यावस्तुत्वाद्धर्मिणोऽवस्तुत्वेन प्रतियोग्यद्वैतापत्तेश्चेति भावः॥९२४॥

अनित्यत्वस्य धर्मस्य घटादेर्धर्मिणस्तयोः॥
संयोगः समवायो वा तादात्म्यं वेह संगतिः॥९२५॥

भेदनिरासेनार्थादभावं निरस्याभावनिरासेनार्थाद्भेदं निरस्यति। अनित्यत्वस्येति। अनित्यत्वशब्देनाभावो गृह्यते। भावाभावयोः संबन्धोऽस्ति न वा न चेदनादिरनन्तो भावः। स्यादभावश्च स्वतन्त्रः स्यादस्ति चेत्सोऽपि संयोगादीनामन्यतमो व्यवहारभूमौ संबन्धान्तराभावादित्यर्थः॥९२५॥

आधाराधेययोगेषु घटोऽत्रेति यथा मतिः॥
नाभावभावयोगेषु मितेर्धीः कस्यचित्तथा॥९२६॥

अस्तु तयोस्तेषामन्यतमः संबन्धः का हानिरित्याशङ्क्य त्रिविधमपि संबन्धं मानाभावेन दूषयति। आधारेति। भूतलादेर्घटादेश्चसंयोगादिषु सत्सु घटोऽत्रेति सम्यग्वीववाभावस्तेषु न कस्यचिदपि मानाद्भीरुदेतीत्यर्थः॥९२६॥

नहि भावातिरेकेण भावाभावः प्रमाणभाक्॥
भावात्मनाऽप्यतो भावो व्यवहाराय कल्पते॥९२७॥

इतश्च न तयोस्त्रेधाऽपि योगोऽभावो हि भावाद्भिन्नोऽभिन्नो वा नाऽऽथ इत्याह। न हीति। अभावस्य भावातिरेकेऽभावान्तराभ्युपगमादनवस्थानादिति भावः। न द्वितीय इत्याह। भावात्मनेति। भावाभावो न प्रमाणभागिति पूर्वेण संबन्धः। न तावदभावस्य भावान्तर्भावस्तदद्वैतापातान्नापि भावस्याभावान्तर्भावोऽभावाद्वैतप्रसङ्गादिति भावः। भावाद्भेदाभेदाभ्यामभावो दुर्भणश्चेत्कथं तद्व्यवहारस्तत्राऽऽह। अत इति॥९२७॥

अथाभावोऽपि वस्त्वेव नास्तीतिमितिजन्मतः॥
द्वयोर्भावैकरूपत्वात्काऽतिशीतिर्मितेस्तयोः॥९२८॥

भाववदभावोऽपि न कल्पितो बोध्यत्वादिति शङ्कते। अथेति। अभावस्यापि वस्तुत्वे भावाभावयोर्वस्तुत्वेनैकरूप्या-द्भेदकाभावाद्भावाभावमानतो भेदासिद्धेस्तयोर्न संगतिरिति दूषयति। द्वयोरिति॥९२८॥

विश्वं सदेव यस्येष्टं तस्याभावः कुतो मितेः॥
न च भावातिरेकेण भाववत्सिद्धिमनुते॥९२९॥

किं चाभावः सन्नसन्वाऽऽद्ये सर्वस्य सन्मात्रत्वादितराभावोऽविद्यमानः स्यादतो न तस्य भावेन वास्तवी संगतिरित्याह। विश्वमिति। कल्पान्तरं निराह। न चेति। यथा भावो भावादन्यत्वेन न सिध्यति भेदकाभावादेवमभावोऽपि भावादसतो भेदासंभवात्प्रामाणिकप्रतीत्यनुपपत्तेश्चातः सदद्वैतान्न संबन्ध इत्यर्थः॥९२९॥

अभावयोगं भावयेत्सहते नीलयोगवत्॥
अविरोधादभावेन न भावापतिर्भवेत्॥९३०॥

तयोस्त्रिधाऽपि संबन्धे दोषान्तरमाह। अभावेति। यथोत्पलं नीलेन समवायं सहते तथाऽभावेन संबन्धं भावो मृष्यति चेदविरोधाद्भावस्याभावेनानिरासाद्भावोऽनाद्यनन्तः स्यादिति भावः॥९३०॥

योगोऽयं वस्तुनोर्दृष्टः पृथक्सिद्धौ परस्परम्॥
मेषयोर्मल्लयोर्यद्वन्न भावाभावयोस्तथा॥९३१॥

भावाभावयोस्त्रेधाऽप्यसंबन्धे युक्त्यन्तरमाह। योगोऽयमिति। वस्तुनोर्भेदेन सिद्धावयं मिथो योगो दृष्टो यथा मेषादौ न तथाऽनयोः पृथक्सिद्धिरिति योगार्सिद्धिरित्यर्थः॥९३१॥

न योगोऽभावयोर्दृष्टो बन्ध्यासूनुखपुष्पयोः॥
न भावाभावयोरेवं विरोधादितरेतरम्॥९३२॥

इतश्चाभावस्य भावेन त्रिधाऽपि संबन्धोऽस्तीत्याह। न योग इति। असतोरसंबन्धवन्न सदसतोरपि संबन्धो मिथो विरोधादित्यर्थः॥ ९३२॥

क्षितिदेशे घटाभावो घटवन प्रमीयते॥
योगो वा समवायो वा नाभावक्षितिदेशयोः॥९३३॥

किंच भूतले घटश्चक्षुः संयोगाद्भाति न तथा तत्राभावस्तस्यासंप्रयोगात्संयुक्तविशेषणत्वादेरतिप्रसङ्गित्वादतो नाभावस्य भूतले संयोगादीत्याधाराधेययोगेष्वित्यत्रोक्तं प्रपश्चयति। क्षितीति। योगशब्दः संयोगतादात्म्यविषयः॥९३३॥

सदात्मतैवं सर्वस्य नाभावात्मकता सतः॥९३४॥

अप्यभावात्मकत्वेऽपि सतोऽभावात्मकत्वतः॥
कुतो भेदावकाशः स्याद्भेदेऽसति कुतो युतिः॥९३५॥

किंच भावाभावयोस्तादात्म्येऽभावस्य भावान्तर्भावो वा भावस्याभावान्तर्भावो वाऽऽबे सदद्वैतापत्तिरित्याह। सदात्मतेति। न द्वितीय इत्याह। नाभावेति। मिथो विरोधादित्यर्थः। भावस्याभावान्तर्भावमुपेत्यापि दोषमाह। अपीति। विरोधे सत्यपीत्याद्यस्यापेरर्थः। भावस्याभावात्मत्वेऽप्यभावमात्रशेषान्न तयोर्भेदः स्यात्तदभावे च न संबन्धत्रयमतो भावस्याभावत्वं नोपेयमित्यर्थः॥९३४॥९३५॥

यावत्किंचिज्जगत्यस्मिन्भेदकं वस्तु लक्ष्यते331
अनापन्नादिमध्यान्तं सदेव तदितीष्यते332॥९३६॥

भावयोर्धर्मिंप्रतियोगिनोर्मिंथोयोगवद्भावाभावयोरपि स्यादित्याशङ्क्याऽऽह। यावदिति। भेदकत्वेनेष्टस्य सर्वस्यादिमध्यावसानहीन-सन्मात्रतया दृष्टान्तासिद्धेरचोथमेतदिति भावः॥९३६॥

सदेवेदमिति स्पष्टं सन्मूला इति चापरम्॥
श्रुत्योदाहारि नः साक्षात्सदैकात्म्यावबुद्धये॥९३७॥

सर्वस्य सन्मात्रत्वे मानमाह। सदेवेति। स्पष्टमिति श्रुतत्वाभिप्रायेणोक्तमपरमिति श्रुतार्थापत्तित्वविवक्षति विवेक्तव्यम्। वाक्यद्वयोदाहरणतात्पर्यमाह। साक्षादिति॥९३७॥

मानाभावस्य मानत्वं मेयाभावस्य मेयता॥
न्यायं न सहतेऽतीव यथा तदधुनोच्यते॥९३८॥

अभावस्य भावेन संबन्धं निरस्याभावस्याध्यक्षत्वं प्राधान्येन प्रत्युक्तमिदानीं मतान्त रमनुवदन्नेव तस्य न्यायविरुद्धत्वं प्रतिजानीते। मानेति॥९३८॥

बोधकं यदबुद्धस्य तन्मानमिति हि स्थितिः॥
न च प्रमाणनास्तित्वमीदृक्तस्मान्न युज्यते॥९३९॥

मानाभावस्य मानलक्षणाभावान्मानत्वासंभवं वक्तुं तल्लक्षणमाह। बोधकमिति। तदनाक्रान्तत्वं मानाभावस्याऽऽह। न चेति। नहि मेयाभावस्याबुद्धत्वमसत्त्वान्नाप्यत एव मानाभावस्य बोधकतेत्यर्थः। लक्षणाभावे फलितमाह। तस्मादिति। मानतेति शेषः॥९३९॥

मेयाभावः प्रमाणानां यद्यभावेन गम्यते॥
प्रमाणानामभावस्य गमकः को भविष्यति॥९४०॥

किं चामितो वा मानाभावो मेयाभावं मिनोति मितो वा नाऽऽद्यः सभातो निर्गतदेवदत्तस्य॑ तस्यामभावसंदेहासंभवप्रसङ्गादिति मत्वा द्वितीयमादत्ते। मेयेति। प्रमाणानाममावेन मितेनेति शेषः। मितस्य मानाभावस्य मानत्वे तत्प्रमापकं मानपञ्चकं तदभावो वेति विकल्पयति। प्रमाणानामिति॥९४०॥

नाक्षादिपञ्चकं तस्य बोधकं सत्समन्वयात्॥
नयतस्तदभावो वा, मेयत्वेनैव तत्स्थितेः॥९४१॥

नाऽऽद्य इत्याह। नाक्षादीति। न द्वितीय इत्याह। नयत इति। मानपञ्चकस्याभावस्तस्यैव नयतो न्यायतो न बोधको मानमेयत्वस्य भेदापेक्षत्वादित्यर्थः॥९४१॥

नीलादिवदभावस्य यद्यक्षादिविशेषणम्॥
विशेषणेन तद्व्याप्तेस्तदभावः कुतो मितेः॥९४२॥

किंचाभावः सविशेषणो निर्विशेषणो वाऽऽये मानं मेयं वा विशेषणमाद्यमनुवदति। नीलादिवदिति। यथोत्पलादेर्नीलादिविशेषणं दृष्टं तथा प्रमाणमभावस्य विशेषणं चेदित्यनुवादार्थः। तर्हि नीलादिनोत्पलादेवैशिष्ट्यवदक्षादिना विशेषणेनाभावस्य वैशिष्ट्याद्विशिष्टोऽभावो नाक्षादिविषयस्तस्यांशतः स्वविषयत्वापत्तेर्नापि विशिष्टाभावो मानाभावविषयस्तस्य विषयत्वादक्षादेश्व विशेषणत्वे विशेषणेन विशेष्यस्य संबन्धनियमात्तस्य च निरस्तत्वादक्षाद्यभावो न प्रामाणिकः स्यादित्याह। विशेषणेनेति॥९४२॥

अथाविशेषणोऽभावो भवद्भिरभिधीयते॥
मेयाभावस्य मानत्वमविशेषात्मसज्यते॥९४३॥

कल्पान्तरमाह। अथेति। तर्हि मानाभावस्य मानत्वं मेयाभावस्य मेयतेति विभागासद्धिरित्याह। मेयेति। अविशेषादभावगतविशेषानभ्युपगमादित्यर्थः॥९४३॥

घटाद्यभाव इत्युक्तिर्न सम्यगिति मे मतिः॥
पदानामसमर्थत्वाद्विरोधाद्वस्तुनोर्मिथः॥९४४॥

मेयमभावस्य विशेषणमिति पक्षं प्रत्याह। घटादीति। भावाभावपदयोरन्योन्यान्वये

सामर्थ्याभावादिति हेतुमाह। पदानामिति। कुतस्तदसामर्थ्यं तत्राऽऽह। विरोधादिति। भावाभावयोर्वस्त्ववस्तुत्वेन मिथोयोगविरोधात्तत्पदानां संसर्गासामर्थ्यमित्वर्थः॥९४४॥

भावाभावाख्यपदयोः सामर्थ्ये चेत्समासता॥
घटादिनाऽनपेक्षत्वान्न समासः प्रसिध्यति॥९४५॥

भावाभावयोर्विरोधेऽपि तत्पदयोस्तमः प्रकाशपदयोरिव समाससंभवाद्धाद्यभाव इत्युक्तिर्युक्तेत्याशङ्क्याऽऽह। भावेति। समर्थः पदविधिरिति स्मृतेर्घटादिना पदेन पदान्तरस्य सामर्थ्ये सत्येव समासश्चत्तर्हि भावाभावपदयोर्न समासस्तदर्थयोर्मिंथोविरोधित्वेनानपेक्षत्वाद्दृष्टान्तेऽपि तुल्यत्वादनुपपत्तेरित्यर्थः॥९४५॥

भावस्याभावं इत्यत्र षष्ठ्यर्थः कतमो मतः॥
न कश्चिदपि संबन्धो नीरूपस्यासदात्मनः॥९४६॥

मा तर्हिसमासो भूद्भावस्याभाव इति व्यासेनापि विशेषणविशेष्यत्वं निर्वक्ष्यति नेत्याह। भावस्येति। षष्ठी शेष इति स्मरणात्तदर्थः संबन्ध इत्याशङ्क्याऽऽह। न कश्चिदिति। नीरूपत्वं निःस्वभावत्वं तत्र हेतुरसदात्मन इति॥९४६॥

वस्त्वन्तरमभावश्चेदन्यदन्यद्भवेत्कथम्॥
अन्योऽपि चेद्भवेदन्योऽविरोधो नीलवद्भवेत्॥९४७॥

वस्त्वन्तरस्याभावो वस्त्वन्तरमिति स्थितेर्निःस्वभावत्वमसिद्धमिति शङ्कते। वस्त्वन्तरमिति। घटोऽस्तीत्युक्ते घटास्तित्वयोरेकत्ववन्न सोऽस्तीत्युक्तेऽपि घटनास्तित्वयोरैक्थं वाच्यं तथा च घटाभावस्य पटत्वे घटः पट इत्युक्तं स्यान्नचैतद्युक्तमन्यस्य स्थितस्य नष्टस्य वाऽन्यभावायोगादित्याह। अन्यदिति। यद्वा घटविशेषिताभावस्य पटत्वे विशेषणस्यापि घटस्य पटेऽन्तर्भावाद्यथोक्तं दूषणं द्रष्टव्यम्। विपक्षे नीलस्योत्पलात्मत्वदन्यस्यान्यत्मत्वाविरोधादद्वैतापत्तिरित्याह। अन्योऽपीति॥९४७॥

संगता विरोधी चेन संबन्धिनिवृत्तिकृत्॥
स न संबन्धिग्रहाभावे संबन्धोऽयं प्रसिध्यति॥९४८॥

अभावस्य भावेन तादात्म्यविरोधेऽपि संबन्धान्तराविरोधादुपपत्तिः षष्ठ्यर्थस्येति शङ्कते। संगताविति। संबन्धस्य निरस्तत्वान्नैवमित्याह। नेति। किंच येनाभावः संबध्यते तं निरुणद्धि न वा न चेद्भावाभावयोरविरोधाद्विरोधः सर्वत्र न स्यान्निरुणद्धि चेत्संगतावपि विरोधितेत्याह। संबन्धीति। किंचाभावः सप्रतियोगिको निष्प्रतियोगिको वाऽऽद्ये सति प्रतियोगिन्यभावयोगोऽसति वा नाऽऽद्यो विरोधान्नेतरः संबन्धिनो ऽसत्त्वे तदग्रहे तत्राभावस्य संबन्धासिद्धेरित्याह। न संबन्धीति॥९४८॥

संबन्धिविरहेऽसिद्धौ षष्ठयर्थत्वं न सिध्यति॥
विरोधाद्युगपनापि विधानप्रतिषेधनम्॥९४९॥

निष्प्रतियोगिकत्वपक्षे स्वातन्त्र्यमभावस्य स्याद्धमिंसंबन्धस्यापास्तत्वादिति मत्वाऽऽह। संबन्धीति। प्रतियोगी संबन्धी तस्याभावे धर्मिसंबन्धस्य चासिद्धो षष्ठ्यर्थत्वं संबन्धत्वं नाभावस्येत्यक्षरार्थः। निषेधकमेव प्रत्यक्षमित्यत्र निषेधार्थं तन्मानं च निराकार्षीद्यत्तु विधिनिषेधव्यापारं तदिति तत्रापि युगपद्वा विधिनिषेधश्च विधिपूर्वको वा निषेभस्तत्पूर्वको वा विधिनाऽऽद्य इत्याह। विरोधादिति॥ ९४९॥

क्षणिकत्वाद्धियां नापि स्थायिधर्मः क्रमो भवेत्॥
अनीलाभावपृष्टेन नापि नीलस्य वेदनम्॥९५०॥

न द्वितीय इत्याह। क्षणिकत्वादिति। द्वित्रिक्षणावस्थानेऽपि धियां जन्मातिरिक्तव्यापारासत्त्वमित्यपिशब्दार्थः। न तृतीय इत्याह। अनीलेति॥९५०॥

नह्यदृश्यनिषेधः स्याद्धटादेरिव भूतले॥
नान्याभावविशिष्टत्वं कृत्स्नाभावगतौ भवेत्॥९५१॥

पीतादिनिषेधमुखेन न नीलस्य धीरित्यत्र हेतुमाह। नहीति। दर्शनयोग्यस्य घटादेरनुपलम्भे निषेध भूतलादौ दृष्टो न त्वयोग्यस्याण्वादेरेवमयोग्यस्य निषेवायोगादनीमित्ययमेव न निषेधस्तदभावे तन्निषेधो द्वितीयो न स्यात्कुतस्तन्मुखेन नीलविधिर्न च विना तद्विधिमनीलमिति निषेधः प्रतियोगिधियं विना निषेधाप्रतीतेरतश्चक्रकापत्तेर्न निषेधपूर्वो विविरित्यर्थः। किं चानीलस्य पीतादेरभावो नीलस्य विशेषणं स्वरूपं वा नाऽऽद्य इत्याह। नान्येति। सर्वस्यानीलस्य पीतादेस्तदभावस्य चावगतौ सत्यां नीलस्यान्याभाबेन विशिष्टत्वं नान्यथा विशेषणादृष्टौ विशिष्टादृष्टेरतो नीलमालोचयतस्तदितरसवभावाभावदृष्टिप्रसङ्गात्तस्याश्चानीश्वराणामयोगान्नीलविविरेव न स्यादित्यर्थः॥९९९॥

अन्याभावस्य333 भावत्वं स्यादभावः खपुष्पवत्॥
भावान्तरमभावश्चेत्सिद्धं वस्तु ततः स्वतः॥९५२॥

न द्वितीय इत्याह। अन्येति। पीताद्यभावस्य नीलरूपत्वे नीलस्याभावान्तर्भावो वा तस्य नीलान्तर्भावो वाऽऽद्ये नभोनलिनवन्नीलं तुच्छं स्यात्। द्वितीये त्वभावस्तद्वदविद्यमानः स्यादित्यर्थः। अभावस्य तुच्छत्वं परिहर्तुं परिहृतमेव चोद्यमनुद्रवति। भावान्तरमिति। तत्किं भावोऽभावो वोभयथाऽपि भेदाभावयोरभावात्ताभ्यामस्पृष्टं वस्तु स्वतःसिद्धमित्याह। सिद्धमिति॥९५२॥

तद्ग्राहीणि च मानानि व्यावृत्तिः केन गम्यते॥
चित्रेऽपि विषये चित्रमेकं वस्त्वेकमानतः॥९५३॥

ननु भेदाभावयोरपि मानसिद्धत्वात्कथं वस्तु तदस्पृष्टं तत्राऽऽह। तद्ग्राहीणीति। व्यावृत्तिर्भेदोऽभावो वा नोभयथाऽपि सा मेयेत्युक्तमतो मानान्यपि भेदाभावानागन्धितवस्तुप्रकाशकान्येवेत्यर्थः। ननु प्रत्यक्षेण चित्रे चेत्यमाने व्यावृत्तिरपि तेन चेत्यतेऽन्यथा चित्रस्य चित्रत्वानुपपत्तेरतो व्यावृत्तिः केनेत्याक्षेपोऽनवकाशस्तत्राऽऽह। चित्रेऽपीति। नहि तत्रैकस्मा॒त्प्रत्यक्षाव्यावृत्तिर्भाति चित्रस्य वस्तुत्वात्तस्य चैकत्वाद्वस्तुनोऽन्यत्र चेद्यावृत्तिरवस्तु स्यादित्यर्थः॥९५३॥

प्रत्येकं नीलपीतादिग्रहणे चित्रता कुतः॥
वस्तुनो भेदरूपत्वे वस्त्वभावः प्रसज्यते॥९५४॥

चित्रस्यैकत्वे चित्रत्वानुपपत्तिरेकं च तच्च चित्रं चेत्येतच्चित्रतरं महदिति न्यायादित्याशङ्क्यापिना सूचितमरुचिहेतुमाह। प्रत्येकमिति। तत्किमेकैकं मिलितं वा नाऽऽथो नीलपीताद्येकैकग्रहे चित्रत्वाग्रहानेतरो मिलितस्य समुदायात्मनो नीलपीतादिम्यो भेदाभेदाभ्यां दुर्भणत्वादतश्चित्रस्यावस्तुत्वात्तद्गतत्वेन व्यावृत्तिग्रहे साऽपि न वस्तु स्यादित्यर्थः। नीलादिवस्तुस्वरूपत्वाद्व्यावृत्तेर्वस्तुग्राहि मानं तामपि गोचरयति तन्न व्यावृत्तेरवस्तुत्वमप्रामाणिकत्वं चेत्याशङ्क्याऽऽह। वस्तुन इति। तस्य भेदेऽन्तर्भावो, भेदस्य वस्तुन्यन्तर्भावो वा नाऽऽद्यो भेदस्य विदारणात्मत्वात्तदात्मनो वस्तुनः शून्यतापातान्न द्वितीयो भेदस्य वस्तुनोऽनर्थान्तरत्वे सदद्वैतापत्तेरिति भावः॥९९४॥

अन्यधर्मे त्वभिन्नं स्यात्स्वतो वस्तु प्रमाश्रयम्॥
भिन्नाभिन्नं विरुद्धत्वान्नैकमानस्य गोचरः॥९५५॥

ननु भेदः स्वभावो मा भूद्धर्मस्तु भविष्यति नेत्याह। अन्यधर्मे त्विति। स हि वस्तुनोऽवस्तुनो वा धर्मो, नाऽऽद्य धर्मस्यापि वस्तुत्वे धर्मिणो भेदासिद्धेरवस्तुत्वे वस्त्वद्वैतापत्तेर्नेतरो भेदस्यावस्तुधर्मत्वे वस्त्वस्पर्शात्स्वतस्तदद्वयं प्रामाणिकं स्यादित्यर्थः। आश्रयशब्दो विषयवाची भावप्रधानो बहुव्रीहिसमासान्तः। वस्तुनो भिन्नाभिन्नत्वान्नाद्वयत्वमिति मतान्तरमाशङ्क्याऽऽह। भिन्नाभिन्नमिति॥९९५॥

वस्त्वात्मनाऽविरोधश्वेद्वस्त्वेव विषयस्ततः॥
सत्यं वस्तु कथं भिन्द्या334त्पुंव्यपेक्षाविनिर्मितः॥
भेदः पुत्रादिभावे तु जन्यत्वं वस्तुकल्पितम्॥९५६॥

वस्तुरूपेण335 भेदाभेदयोरविरोधान्मानविषयत्वं शङ्कते। वस्त्विति। येन रूपेण तयोरविरोधस्तदेव मेयं न भेदाभेदावित्याह। वस्त्वेवेति। यद्यपि वस्त्वेव मेयं तथापि भेदस्य मेयत्वं वस्तुरूपत्वान्न चैवं वस्त्वभावः स्वापेक्षया वस्तुनो भेदत्वानभ्युपगमादन्यापेक्षयैव तद्रूपत्वादित्याशङ्क्याऽऽह। सत्यमिति। स्वहेत्वासादितरूपमवितथमनपेक्षं वस्तु

वेद्भेदः स तर्हि सापेक्षः सन्वस्तुनि तदभिन्नो भेदव्यवहारं नाऽऽदध्यात्सापेक्षनिरपेक्षयोमित्रत्वात्पुंधर्मश्चापेक्षा नाचेतनेषु युक्ता यदि तद्धर्मेणापेक्षया निर्मितो भेदो न तर्हि सत्यं वस्तु स्यादपेक्षाकृतस्य सर्पवत्कल्पितत्वादित्यर्थः। आपेक्षिकत्वात्कल्पितो भेदः सर्पवदित्यत्र पित्रादौ व्यभिचारमाशङ्क्याऽऽह। पुत्रादीति। पुत्रस्य भावो जन्म पितुर्भावस्तदु336पादानं तन्निमित्तं वा तस्मिन्सति पुत्रदेहस्य कर्मकारकत्वं पितृदेहस्य कर्तृकारकत्वं तदुभयमापेक्षिकत्वाद्वस्तुनि देहविशेषे कल्पितमिति कुतो व्यभिचारो यत्तु वस्तुदेहद्वयमकल्पितं तदनपेक्षमेव पुत्रोत्पत्तेः प्रागपि पितृदेहस्य भावात्पुत्रदेहस्य च पितृसंबन्धात्पूर्वमनुशयिरूपेण सत्त्वादिति भावः॥९९६॥

दाहपाकप्रकाशादिभेदेऽप्यग्रभिन्नता॥
कार्यतोऽपि न भेदः स्याद्वस्त्वभेदव्यवस्थितेः॥९५७॥

प्रत्यक्षाभावमानाभ्यां भेदसिद्धिरुद्धता। इदानीं विमतं भिन्न भिन्नकार्यत्वान्मृदादिवदित्यनुमानाद्वा, कार्यभेदो हेतुभेदं विनाऽनुपपन्नस्तद्भेदं कल्पयतीत्यर्थापत्तेर्वा जगद्धेतुभेदः सिध्यतीत्याशङ्कयानुमाने व्यभिचारमूर्थापत्तौ चान्यथोपपत्तिमाह। दाहेति। एकस्मिन्नेवाग्नौभिन्नकार्यत्वस्य दृष्टत्वान्न मानद्वयाद्धेतुभेदः कार्यभेदेऽपि जगद्धेतोरभेदेन स्थितेरनिवदुपपत्तेरिति फलितमाह। कार्यतोऽपीति। कार्यभेदेऽप्यरुचिमपिना सूचयति॥९५७॥

विभिन्नकार्यकर्त्रीणां शक्तीनां यदाश्रयः॥
न विरुद्धोऽभिरेकोऽपि तद्वत्कार्येऽपि किं न ते॥९५८॥

ननु दहनादिशक्तयो दहने भिद्यन्ते तत्र कारणभेदादेव कार्यभेदस्तत्कुतो भिन्नकार्यत्वहेतोर्व्यभिचारः कुतश्चार्थापत्तेरन्यथाऽप्युपपत्तिस्तत्राऽऽह। विभिन्नेति। न तावच्छक्तीनामेव कारणत्वं तासां केवलानां तद्भावादृष्टेरनेरपि तद्भावे व्यभिचारादितादवस्थ्यं तासामेव कारणत्वेऽपि वरेकस्यानेकशक्त्याश्रयत्ववद्भिन्नेऽपि कार्ये कारणमेकमेव किं न स्यादतोऽनुमानादेर्व्यभिचारादिदुष्टत्वादसाधकतेति भावः॥९५८॥

घटाभावे घटः सिध्येत्पटाभावे पटस्तथा॥
अन्योन्याभावदृष्टेः स्यादन्योन्याश्रयता तव॥९५९॥

कार्ये भेदाभावावङ्गीकृत्य कारणे तदुभयमपास्तम्। संप्रति कार्येऽपि तन्नास्तीत्याह। घटेति। घटस्याभावःपटस्तस्मिन्पटे घटो नेत्येवं घटाभावतया निष्पन्ने तदभावतया घटो निष्पद्येत। पटस्य वाऽभावो घटस्तस्मिन्घटे पटो नेत्येवं पटाभावतया जाते घटाभावतया पटः सिध्येदित्यक्षरार्थः। यद्वा घट एव पटस्याभावस्तस्मिन्नुत्पन्ने सत्यवटः पटो घटाभा-

वत्वेन सिध्यति पट एव घटस्याभावस्तस्मिसिद्धे सत्यपटो घटः पटाभावत्वेन सिध्यतीत्यर्थः। उभयत्र फलितं दोष माह। अन्योन्येति। घटपटयोरन्योन्यमभावरूपेण दृष्टेरिष्टत्वात्तत्पक्षे घटसिद्धौ पटसिद्धिः पटसिद्धौ च घटसिद्धिरित्यन्योन्याश्रयान्न किंचिदपि सिध्येदतो भेदाभावयोरभावादद्वयं वस्तु स्यादित्यर्थः॥९९९॥

प्रत्यक्षत्वं पृथक्त्वस्य गुणत्वाद्यैरपीष्यते॥
तेषामपि गुणे मानं नीलवन्न त्ववस्तुनि॥९६०॥

मीमांसकादिपक्षे भेदाभावयोरसिद्धिमुक्त्वा वैशेषिकादिपक्षेऽपि भेदासिद्धिं षक्तुमारभते। प्रत्यक्षत्वमिति। पृथक्त्वं भेदस्तस्य गुणत्वेन वस्तुत्वात्प्रत्यक्षत्वं यैरपीष्टं तन्मतेऽपि नीलादिष्विव प्रत्यक्षं गुणे मानं तस्य वस्तुत्वात्संप्रयोगयोग्यत्वाद्भेदस्तु न गुणो गुणेऽपि भावादतो नावस्तुनि भेदे तस्य मानतेत्यर्थः॥९६०॥

अथ वस्तु पृथक्त्वेन विशिष्टं गम्यते तदा॥
शुक्लो गौरितिवन्मानं वस्तुन्येव न भेदगम्॥९६१॥

पृथक्त्वाख्यभेदस्य नावस्तुत्वं वस्तुविशेषणत्वाद्रूपवदिति शङ्कते। अथेति। गुणादिषु च तथाविधभेदस्यैकार्थसमवायोपाधिकृतत्वादध्यक्षतेति भावः। अभावेऽपि व्यभिचारं मत्वा दोषान्तरमाह। तदेति। तस्मिन्पक्षे यथा शुक्लो गौरिति धीः शुक्ले गव्येववस्तुनि मानं तथा भिन्नो घट इत्यपि भिन्नवस्तुन्येव मानं न भेदे तस्य वस्तुविशेषणत्वेऽप्यभाववदवस्तुत्वोपपत्तेरतोऽप्रयोजको हेतुः संभवति च भेदस्य मुख्यत्वे किमित्यौपचारिकत्वमित्यर्थः॥९६१॥

अभेदेनैव वर्तेत पृथक्ता यदि वस्तुषु॥
वस्त्वेव तत्ततोऽन्या चेदपृथग्वस्तु तर्हि ते॥९६२॥

शुक्लो गौरिति ज्ञानं गवि मानं भवद्विशेषणे शौक्लयेऽपि मानं तथा भिन्नो घट इत्यपि धीर्घवद्भेदेऽपि मानमित्याशङ्क्य पृथक्त्वभेदस्य वस्तुन्यभेदो भेदो वेति विकरूप्याऽऽद्यमादत्ते। अभेदेनेति। तहिं वस्त्वद्वैतापातस्तदतिरिक्तपृथक्त्वाभावादित्याह। वस्त्वेवेति। द्वितीयमनुभाष्य दूषयति। तत इति। पृथक्ता वस्तुनोऽन्या चेत्तर्हि वस्त्वपृथक्स्यात्तस्या वस्तुनो निष्कृष्टत्वात्संबन्धस्य च भेदाभेदाभ्यां दुर्वचत्वादित्यर्थः ॥९६२॥

भावाभावपृक्ताऽपि यद्यभिन्ना ततोऽपृथक्॥
भावाभावविभिन्ना चेत्पृथक्ता न परस्परम्॥९६३॥

किंचभावाभावयोः पृथक्त्वमस्ति न वाऽऽद्यमनुवदति। भावेति। साऽपि ताम्यामभिन्ना भिन्ना वेति विकल्पयति। अपीति। तत्राऽऽयं गृह्णाति। यदीति। तदा भेदाभावाद्भावाभावयोर्न कुतश्चिद्व्यावृत्तिरिति वस्त्वद्वैतं स्यादित्याह। तत इति। कल्पान्तरमा दायापास्यति। भावेति। प्रयुक्ताया भावाभावाभ्यां भेदे तस्यास्ताम्यां

संबन्धस्य दुःसाध्यत्वा337त्तयोर्मिथोभेदाभावादद्वैतमेव स्याद्भावाभावयोर्न पृथक्तेत्यत्रापि तदेवेति भावः॥९६३॥

अन्यापेक्षं पृथक्त्वं चेत्स्वयं तर्ह्यपृथग्घटः॥
द्विधर्मत्वेऽपि वस्त्वेतदेकं स्यादुत्पलादिवत्॥९६४॥

किंच घटस्य पृथक्त्वं स्वापेक्षमन्यापेक्षं वाऽऽद्ये घटस्य शून्यतेति मन्वानो द्वितीयमनुवदति। अन्यापेक्षमिति। तर्हि घटः स्वयमपृथगद्वितीयः स्यादन्यापेक्षानिर्मितस्य सर्पवन्मिथ्यात्वादित्याह। स्वयमिति। घटः स्वरूपेण पृथक्त्वा पृथक्त्वधर्मेत्युपगमात्कुतो घटाद्वैतमिति तत्राऽऽह। द्विधर्मत्वेऽपीति। पृथक्त्वापृथक्त्वधर्मकत्वेऽपि घटस्य ततो धर्मयोर्भेदाभेदाभ्यां दुर्वचनत्वेन कल्पितत्वादखण्डमेव तत्स्याद्यथोत्पलादेरनेकरूपादिधर्मवत्त्वेऽप्यखण्डत्वं तथाऽस्यापीत्यर्थः। अपिशब्देन राद्धान्तविरोधो भेदाभेदयोर्दूषितत्वं च सूच्यते॥९६४॥

धर्मबुद्धिप्रभेदेऽपि धर्म्यभेदः सदेष्यते॥
अतो गवादेर्भेदेऽपि सन्मात्रमवसीयते॥९६५॥

पृथक्त्वमष्पृथक्त्वमिति धर्मभेदे भाति तदाधारतया धर्मिणोऽपि भेदात्कथमखण्डतेत्याशङ्कयाऽऽह। धर्मेति। धर्मेषु प्रतीतितो भेदेऽपि न धर्मिभेदो दाहादिभेदेऽपि दहने भेदाभावोपलम्भादिति भावः। धर्म्यभेदे फलितमाह। अत इति। गवादेर्विशेषस्य मिथो व्यभिचारेऽपि सन्मात्रमनुगतं न भिद्यते तदेव च मीयते न गवादिर्व्यभिचारादित्यर्थः। यद्वा निरस्तो गोघटादिभेदस्तस्मिन्नङ्गीकृतेऽपि नासौ मेयोऽन्योन्याश्रयादिदोषात्सन्मात्रं तु मेयं तस्मादद्वैतमेव प्रामाणिक मित्याह। अत इति॥९६५॥

गोत्वादिमेयपक्षेऽपि सद्रूपस्यानपायतः॥
वस्त्वेव मेयं गोत्वादि शाबलेयादिवत्स्फुटम्॥९६६॥

न सन्मात्रमेव मेयं गोत्वादेरपि तद्भावादित्याशङ्क्याऽऽह। गोत्वादीति। यदा गोत्वादि मेयं तदा तदेव वा मेयं सद्रूपमपि वा नाऽऽद्यो घटः सन्पटःसन्निति सर्वत्रानुसंधीयमानं सद्रूपं हित्वा गोत्वादेरेव मेयत्वकल्पनानिमित्ताभावात्तस्य च सद्रूपादुद्रितस्यासत्त्वाद्वितीये सदेव मेयं तस्योभयसंमतत्वान्न गोत्वादि व्यभिचारित्वाद्यथा शानलेयादेर्व्यभिचारिणो न गवादिशब्दताऽऽकृतेस्तद्भावात्तथा गोत्वादेरपि मेयत्वायोगान्निः संदिग्धतया सन्मात्रमेव तथेत्यर्थः॥९६६॥

सद्रूपत्वापरित्यागादवान्तरनिबन्धनाः॥
व्यवहाराः प्रतीयन्ते सत्तत्त्वं तेष्ववस्थितम्॥९६७॥

ननु सद्रूपमपि गोत्वादिवन्न मेयमुत्तरत्रिकाद्व्यावृत्तत्वेन व्यभिचारित्वस्य तुल्यत्वाद-

न्यथा जात्यादीनां जातिरहितत्वाङ्गीकारविरोधान्न च तत्रापि स्वरूपसत्त्वस्वीकारात्ततः सद्रूपस्याव्यावृत्तता तस्य खण्डादिवद्व्यभिचारिणः सच्छब्दावाच्यत्वात्तत्राऽऽह। सद्रूपेति। स्तम्भकुम्भाद्यवान्तरपदार्थनिमित्ता ये व्यवहारास्ते सद्रूपात्यागेन प्रतीयन्ते तेन स्तम्भादिषु सद्रूपमवस्थितमास्थेयं ततो निष्कृष्टानामसत्त्वेन दृष्टादृष्टव्यवहारहेतुत्वायोगात्तथा च सन्मात्रं तत्त्वं तस्मादुद्रिक्तं तस्मिन्कल्पितं न च सर्वकल्पनाधिष्ठानात्सन्मात्रादन्यत्सामान्यं नामास्ति यदुत्तरत्रिकं व्यभिचरेन्न च द्रव्यत्वमाकाशवृत्तिजातेर्भिन्नजातित्वादित्याद्यनुमानात्तदस्तित्वं द्रव्यत्वं तद्वृत्तिव्याप्यजातेरन्यजाति-त्वादित्यपि वक्तुं सुकरत्वादिति भावः॥९६७॥

सत्तातोऽपि न भेदः स्याद्द्रव्यत्वादेः कुतोऽन्यतः॥
एकाकारा हि संवित्तिः सद्द्रव्यं सन्गुणस्तथा॥९६८॥

ननु न सन्मात्रेऽतिरिक्तं कल्पितं द्रव्यादिसमवायान्तानां षट्पदार्थानां मिथोव्यावृत्तानां परमार्थतया कैश्चिदिष्टत्वादिति। तत्र किं सामान्यविशेषौ द्वे वस्तुनी, विशेषा एव वा वस्तूनि सामान्यविशेषात्मकमेकं वा वस्तु सामान्यमेव वेति विकल्प्याऽऽद्ये दोषमाह। सत्तातोऽपीति। सत्सामान्यादनुवृत्ताद्व्यावृत्तानां भेदेऽपि नासौ युक्तो व्यावृत्तानां ततो निष्कर्षे तुच्छत्वप्रसङ्गाद्द्रव्यादिभावपदार्थषटूस्य मिथोभेदस्तु कुतस्त्यो भेदकाभावादभिन्नसन्मात्राभेदाच्चातो वस्तुद्वयमित्ययुक्तमित्यर्थः। द्रव्यादेः सत्तासामान्याद्भेदाभावे हेतुमाह। एकाकारेति। विमतं सतो न भिद्यते तदेकाकारधीत्वात्तद्वदित्यर्थः। संवित्तेरेकाकारत्वमुदाहरति। सदिति। सामानाधिकरण्यादेकत्वप्रतीतेर्न द्रव्यादेः सत्सामान्याधीरिति यावत्॥९६८॥

समवायाच्च संबन्धे338 नैकरूप्यं विभिन्नयोः॥
तश्चेत्ततो न विश्वासो जातावप्येकबुद्धितः॥९६९॥

एकत्वधीर्द्रव्यादेः सत्सामान्यस्य च भेदे सत्येव समवायकृतेत्याशङ्क्याऽऽह। समवायाच्चेति। नहि संबन्धकृता भिन्नयोरेकत्वधीर्दण्डीत्यत्रानुपलम्भादित्यर्थः। तत्र समवायाभावादेकत्वास्फूर्तिर्द्रव्यादेः सतश्च तद्भावात्तद्धीरिति शङ्कते। तच्चेति। एकत्वधीः समवायकृता वा स्वरूपैक्यकृता वेति संदेहान्न समवायात्तज्ज्ञानं निश्चेतुं शक्यमिति परिहरति। नेति। संशयबीजमाह। जाताविति। गोत्वमेकमित्येकत्वधीर्गोत्वेऽपि दृष्टा, न च सा समवायकृतैकत्वस्य गोत्वे समवायानुपगमादद्रव्यस्य गुणवत्त्वायोगादतः स्वरूपैक्थकारिता सेति सङ्घव्यमित्यादावपि तदधीना चैक्यधीः समवायाद्वेति संशयप्रसक्तिरिति भावः॥९६९॥

संसर्गधर्मता नापि भेदेनानुपलम्भनात्॥
समवायेन संबन्धे को हेतुरिति नेष्यते339॥९७०॥

सतो गवादेश्चसमवायमुपेत्य न तत्कृता तयोरेकत्वधीरित्युक्तमिदानीं तयोः संसर्गाख़्यसमवायवत्ताऽपि न युक्ता, तयोर्मिथोभेदेनादृष्टेः सत्सामान्यवद्गवादिवच्चेत्याह। संसर्गेति। किंच समवायः स्वतन्त्रः परतन्त्रो वा नाऽऽद्योऽयमनयोरिति षष्ठ्यनुपपत्तेर्द्वितीये समवायेन समवायिनोः संबन्धो वाच्यः स च न संयोगः समवायो वा मानाभावादित्याह। समवायेनेति॥९७०॥

संयोगश्चेद्रियोगोऽपि समवायेऽनवस्थितिः॥
स्वतश्चेत्कल्पना व्यर्था द्रव्यस्याप्येकता स्वतः॥९७१॥

संयोगस्याप्रामाणिकत्वं साधयति। संयोगवेदिति। समवायस्य समवायिनोश्व संयोगे तस्य वियोगावसानत्वात्तयोर्वियोगोऽपि कदाचित्स्यात्तथा च गुणादेः स्वतन्त्रताऽप्यापतेदित्यर्थः। समवायसमवायिनोः समवायस्य विमानत्वमुपपादयति। समवाय इति। नित्यद्रव्यसमवाययोरसमवेतत्वमिति मतव्याहतिश्चेति भावः। समवायस्य समवायितन्त्रत्वं तः सिद्धं न तत्र संबन्धान्तरापेक्षेति शङ्कते। स्वतश्चेदिति। तर्हि समवायकल्पना विफलेत्याह। कल्पनेति। द्रव्यादेः सत्त्वेनैक्यधीप्रयोजकतया समवायकल्पनाऽर्थवतीत्याशङ्क्याऽऽह। द्रव्यस्येति। समवायपारतन्त्र्यस्य स्वाभाविकत्ववद्दन्यादेः सत्त्वेनैक्यधीरपि स्वतोऽस्तु कृतं समवायेनेत्यर्थः॥९७९॥

सत्तावगुण्ठिताश्चैते सर्वे भावाः सदैव हि॥
व्यवहाराय कल्पन्ते भ्रान्तो भेदः सदैव तु॥९७२॥

वस्तु सामान्यविशेषाविति पक्षं प्रतिक्षिप्य विशेषा एव वस्तूनीति पक्षं प्रत्याह। सत्तेति। सर्वे हि विशेषा नियमेन सत्ताव्याप्ता व्यवहारकाले व्यवहारयोग्या भवन्त्यतस्तेषां सन्मात्रत्वाद्भासमानो भेदः सदैव भेदत्वाच्चन्द्रभेदवान्तः स्यान्न चानुगतं सत्त्वमेव नास्ति घटवृत्ति तद्वृत्तिवृत्तिसामान्यस्य प्रत्यक्षत्वान्न च सामान्यं नास्तीत्युक्तिव्याघातः सन्मात्रस्यैवात्र तच्छब्दत्वादिति भावः॥९७२॥

येषामपि हि सामान्यभेदवद्वस्तु गृह्यते॥
तेषामपि कुतो भेदो वस्त्वैक्याद्धर्म्यभेदतः॥९७३॥

सामान्यविशेषात्मकमेकं वस्त्वितिपक्षं प्रत्याह। येषामिति। तन्मते भेदासिद्धौ हेतुमाह। वस्त्विति। तदेव कथं तत्राऽऽह। धर्मीति। धर्मिणः सामान्यविशेषात्मकस्याभेदात्तस्य च वस्तुत्वादित्यर्थः॥९७३॥

अपि भेदेन या बुद्धिः स्यात्सामान्यविशेषयोः॥
साऽपि तन्मात्रनिष्ठत्वान्नैव भेदस्पृगिष्यते340॥९७४॥

सामान्यविशेषयोर्मिथो भेददृष्टेस्तद्भेदो धर्मिण्यनुप्रविशतीत्याशङ्क्याऽऽह। अपीति। सामान्यविशेषयोस्त्वन्मते वस्तुत्वाभावान्न तत्र भेदधीने ह्यवस्तुनि सा युक्ताः तथाऽपि तयोर्भेदेन या धीरिष्टा सा सामान्यधर्वा, विशेषधीर्वोभयधीर्वा, बुद्ध्यन्तरं वा। तत्र पक्षत्रये सामान्यादिमात्रावसायित्वान्न सा भेदनिष्ठा; बुद्ध्यन्तरमपि न भेदविषयं परस्पराश्रयादिदोषादतः सामान्यविशेषयोरपि न भेदः, कुतः स धर्मिणि स्यादित्यर्थः॥९७४॥

एकं चेद्भिन्नता नास्ति भेदवेदेकता कुतः॥
चित्रेऽप्यनुगमाभावान्न सामान्यविशेषता॥९७५॥

किंच सामान्यविशेषं तद्वतोऽभिन्नं भिन्नं वा नाऽऽद्य इत्याह। एकं चेदिति। सामान्यं विशेषश्चेत्युभयं धर्मिणः सकाशादभिन्नं चेन्न सामान्यविशेषभावो धर्मिवदित्यर्थः। द्वितीयमनूद्य वस्तुत्रयप्रसङ्गं दोषमाह। भेदश्चेदिति। एकं वस्तु व्यात्मकमित्युक्ते कुतोऽयं विकल्पो वस्तुनश्चित्रत्वादित्याशङ्क्याऽऽह। चित्रेऽपीति। उभयात्मके वस्तुनीष्टेऽपि विशेषात्मकमेव तत्स्यान्नोभयात्मकं खण्डगोर्मुण्डगव्यन्वयाभावादन्वयिनश्च सामान्यमात्रस्यावस्तुत्वादित्यर्थः॥९७५॥

स्वरूपपररूपाभ्यां यदा सदसदात्मकम्॥
वस्त्वेकं मानविषयमभावस्ते तदा कुतः॥९७६॥

एकं वस्तु यात्मकमित्यत्र भेदनिरासद्वारेणाभावं निरस्य पक्षान्तरमुद्भाव्याभावनिरासद्वारा भेदं निरस्यति। स्वरूपेति। स्वरूपेण सदात्मकं पररूपेणासदात्मकमेकं वस्तु मानविषयत्वाक्रान्तं यदेष्टं तदा वस्तुनो नाभावो मानाभावात्तन्न तदपेक्षो भेदोऽपीत्यर्थः॥९७६॥

प्रत्यक्षादिनिवृत्तिश्वेतस्याः किं रूपमुच्यताम्॥
स्तैमित्यमात्मनश्चेत्स्यात्तद्वस्त्वेवास्मदीहितम्॥९७७॥

वस्त्वभावे मानपञ्चकानुदयो मानमिति शङ्कते। प्रत्यक्षादीति। तदनुत्पत्तेः स्वरूपं विकल्पयति। तस्या इति। आत्मनो निर्व्यापारात्मनाऽवस्थानं वा वस्त्वन्तरज्ञानं वा भावान्तरं वा सेति विकल्पार्थः। आद्यमनूद्य कूटस्थवस्त्वतिरेकेणाभावो नेति स्वपक्षप्राप्तिमभिप्रेत्याऽऽह। स्तैमित्यमिति॥९७७॥

अथ वस्त्वन्तरज्ञानं नितरां तस्य वस्तुता॥
भावान्तरमभावोऽपि निरूपाख्यः341 स नेष्यते॥
तस्माद्वस्त्वेकनिष्ठत्वान्न भेदोऽक्षादिगोचरः॥९७८॥

द्वितीय निराह। अथेत्यादिना। तस्य ज्ञानत्वाद्भावत्वोपगमाच्चेत्यतिशयमाह। नितरामिति। तृतीयं प्रत्याह। भावान्तरमिति। भावान्तरस्य भावत्वेऽन्तरशब्दायोगादन्यत्वासिद्ध्या चान्यस्य भावस्य तद्भावासंभवाद्भावत्वे च भावशब्दानुपपत्तेस्तस्य चातुच्छत्वात्तदात्मनोऽभावस्यापि तदयोगाद्वस्तुत्वमेवेत्यर्थः। त्रिधाऽपि मानपञ्चकानुदयस्य वस्तुत्वात्तद्विषयस्यापि वस्तुत्वमेव नहि वस्तु वस्त्वभावं साधयति स्वाभावसाधकत्वापाताद्वस्तुभेदस्याद्याप्यसिद्धेरिति समुदायार्थः। अभावनिरासेन भेदमपि निरस्य सामान्यमेव वस्त्वितिपक्षमङ्गीकुर्वन्भेदाप्रामाणिकत्वमुपसंहरति। तस्मादिति। वस्तुनस्त्रैविध्यायोगात्परिशेषतः सामान्यमेव तदिति स्थितत्वात्तस्य च सन्मात्रस्य सर्वत्रैक्यान्न प्रमितो भेदोऽस्तीत्यर्थः॥९७८॥

घटोऽयमिति संवित्तेर्घटो मेयः प्रतीयते॥
न व्यावृत्तिः पटादीनामताद्रूप्यात्तथा पढें॥९७९॥

ननु घटादेः सर्वतो व्यावृत्तस्य प्रत्यक्षत्वात्कुतो भेदो नाक्षादिगोचरस्तत्राऽऽह। घट इति। निर्विकल्पकं वा सर्वतो व्यावृत्तं घटं गोचरयेत्सविकल्पकं वा नाऽऽद्य आलोच्यते वस्तुमात्रमित्यादिन्यायविरोधान्नेतरस्तत्रापि घटमात्रस्य विषयत्वदृष्टेरितरव्यावृत्तेरप्रतीते! स्तस्यास्तद्रूपताया निरस्तत्वान्न चेतरसमस्ताग्रहे तद्यावृत्ततया घटः शक्यो ज्ञातुमित्युक्तम्। तस्मान्न प्रत्यक्षं तस्येतरव्यावृत्तिं प्रत्याययतीत्यर्थः। घंटे दर्शितन्यायं पटादावतिदिशति। तथेति। घटवत्पटेऽपि व्यावृत्तिर्नाध्यक्षा पटोऽयमिति संवित्तेः पटो मेयः प्रतीयते न व्यावृत्तिर्घटादीनामताद्रूप्यादित्यस्य सर्वत्र सुवचत्वादित्यर्थः॥९७९॥

घटाभावो विरोधित्वान्न घटेऽर्थान्तरेऽपि न॥
अषष्ठ्यर्थतया तस्माद्विकल्पोऽयं, न वस्तुगः॥९८०॥

भेदस्याध्यक्षत्वनिरासेन तदपेक्षाभावस्यापि तन्निरस्तम्। किंच घटाभावो निराश्रयः साश्रयो वाऽऽद्ये स्वातन्त्र्यं द्वितीये घटं वाऽऽश्रयतेऽर्थान्तरं वा प्रथमं प्रत्याह। घटेति। न हि घटप्रागभावादिर्घटे घटते समसमयसंभवाभावात्। घटान्योन्याभावस्य घटाश्रयत्वेऽपि भेदनिरासात्तद्रूपस्तदपेक्षो वा न सोऽस्तीति भावः। द्वितीयं निराह।अर्थान्तरेऽपीति। अर्थान्तरमभावो भावो वा नाऽऽद्योऽभावस्याभावाश्रयत्वायोगान्न द्वितीयो भावाभावयोः संबन्धाभावस्योक्तत्वादित्याह। अषष्ठीति। अभावप्रतीतेस्तर्हि का गतिस्तत्राऽऽह।तस्मादिति। विकल्पोऽपि प्रत्ययत्वात्संमतवद्वस्तु गोचरयतीत्याशतथाऽऽह। नेति। शब्दज्ञानानुपाती वस्तुशून्यो विकल्प इति लक्षणान्न तस्य वस्तुविषयतेत्यर्थः॥९८०॥

घटो हि संविदं कुर्वन्नात्माकारविशेषणम्॥
आत्मानं लभते तद्वद्व्यावृत्ति न पटादितः॥९८१॥

घटज्ञाने घटवद्भेदाभावयोरपि भानात्तद्धर्न विकल्पमात्रमित्याशङ्क्य घटोऽयमिति संवित्तरित्येतत्प्रपञ्चयति। घटो हीति। यथा घटः स्वविशेषितां संविदं जनयन्भावो भवति नहि स जाड्याद्धित्वा संविदमात्मानमास्कन्दति न तथा पटादिल्यावृत्तिमपि कुर्वन्नात्मानं लभते तस्याः स्वरूपत्वधर्मत्वयोर्निरस्तत्वादित्यर्थः॥९८९॥

पटसंवेदनेऽप्येवं पटमात्रं विशेषणम्॥
क्षत्राधिकं नान्यदभावादि यदुच्यते॥९८२॥

तथा पट इत्यतिदेशं विशदयति। पटेति। समानाधिकरणे सप्तम्यौ। घटसंविदि घटमात्रवत्पटसंविद्यपि तन्मात्रं विशेषणं दृष्टं यत्पटादधिकमभावादि विशेषणमिष्टं तत्पसंविधमन्यदनन्यद्वा न सिध्यत्यन्यत्वं पटादस्तदस्पर्शात्संबन्धस्य निरस्तत्वादनन्यत्वे तदसिद्धेरित्यर्थः॥९८२॥

संदिग्धनिश्वयाद्येवं ज्ञानधर्मो विशेषयन्॥
संविदं भिद्यते मेयात्प्रत्येकं भेदधीर्न तु॥९८३॥

अथा342ऽऽन्तरेषु ज्ञानादिष्विव बाह्येय्वपि घटादिषु भेदाभावौ नापोतुं शक्याविति तत्राऽऽह। संदिग्धेति। संदिग्धशब्दो निश्वयसांनिध्याद्भावप्रधानस्तथा च यथा संशयादिः करणव्युत्पत्त्या ज्ञानशब्दितान्तः करणधर्मः संशयसंविन्मिथ्यासंविदिति संविदं व्यावर्तयन्मेयान्मिथः संविदश्च न भिद्यते नहि तस्मिन्भेदधीरन्यव्यावृत्तेर्दुर्ज्ञानत्वस्योक्तस्वादेवं घटादिरपि संविदं विशेषयन्न कुतश्विद्भिद्येतेत्यर्थः॥९८३॥

तथाऽहमेव जानामि माता नान्य इतीदृशाः॥
मातृधर्माः प्रसिध्यन्ति विशिषन्तः343 स्वसंविदम्॥९८४॥

मात्रादिभेदवद्धटादिभेदः संशयादिभेदश्च निश्चीयतामित्याशङ्क्याऽऽह। तथेति। माता श्रोता द्रष्टेत्यादयो मातृत्वादिरूपा धर्मा मातृज्ञानमित्यादिना स्वसाधिकां संविदं व्यावर्तयन्तः संविदो मेयान्मिथश्च भेदमलभमानाः संविद्यध्यस्तास्तथा संशयादयो घटादयश्च तत्राऽऽरोपिता वस्तुतो न भिद्येरन्नित्यर्थः॥९८४॥

संविदेका स्वतः सिद्धा प्रत्यग्रपैक लक्षणा॥
भावाभावादिरूपाय व्यवहाराय कल्पते॥९८५॥

ननु संविदं सर्वकल्पनाधिष्ठानं नातिष्ठामहे यतः साऽपि भिन्नत्वाद्वज्जुसर्पवत्कल्पनामर्हति तत्राऽऽह।संविदिति। अधिष्ठानत्वात्तर्हिरज्जुवज्जडा सेति नेत्याह। स्वतः सिद्धेति। तहिं संविदात्मेति वस्तुद्वयस्वीकारादपसिद्धान्तो नेत्याह। प्रत्यगिति। तस्याः सर्वकल्पनाधिष्ठानत्वे सर्वव्यवहारास्पदत्वं फलतीत्याह। भावेति॥९८५॥

अतोऽनुभवमुल्यन भेदो नाप्यभिन्नता॥
तत्पृष्ठेन तु मानानि344 विरोधः किंसमाश्रयः॥९८६॥

प्रत्यक्षादिविषयत्वेनेष्टौ भेदाभावौ सर्वत्र प्रत्याख्याय वेदान्तानां मानान्तराविरोधं प्रकृतमुपसंहरति। अत इति। कूटस्थप्रत्यगनुभवस्य सर्वाधिष्ठानत्वात्तमतिक्रम्य प्रपश्चस्य तद्भेदादेश्वासिद्धेस्तत्त्वमस्यादीनां तादृग्वस्तु बोधयतां न विरोधो मानान्तरैरित्यर्थः। किंचानुभवानुसारेण मानानां मानत्वं तत्कथं तमनुसरन्तो वेदान्ता मानान्तरैर्विरुध्येरन्नित्याह। तत्पृष्ठेनेति॥९८६॥

अविज्ञातः प्रमाणानां विषयो वादिनां मतः॥
न तस्य मानतः सिद्धिस्तत्सिद्धेः प्राक्प्रमागमात्॥९८७॥

किंचानुभवस्यैवाज्ञातत्वात्प्रत्यक्षादीनां तद्विषयत्वात्तत्र प्रवृत्तानां वेदान्तानां तैर्विरोधो नेति वक्तुं संमतमर्थमाह। अविज्ञात इति। अज्ञातत्वस्यापि तहिं मेयत्वादनुभवस्यैव तन्नियमो भज्येत नेत्याह। न तस्येति॥९८७॥

अमानकं कथं च स्यादज्ञातत्वमिहोच्यताम्॥
कथं वा तद्विना मानं विषयासंभवाद्भवेत्॥९८८॥

प्रमाणप्रवृत्तेः प्रागेव तस्य सिद्धत्वान्मेयत्वं नास्ति चेत्तर्हि साधकाभावादसिद्धिरेव स्यात्तद्वा किंचिद्वाच्यमिति शङ्कते। अमानकमिति। इहेति वस्तुनोऽज्ञातत्वस्यैवोक्तिः। अज्ञातत्वस्यासत्त्वंमानगम्यत्वं वा साधकान्तरं वा वाच्यमिति वोच्यते नाऽऽद्य इत्याह। कथं वेति। अज्ञातत्वं विना, मानमेव न संभवेत्तदभावे तदुपलक्षितविषयाभावान्नहि निर्विषयं मानमस्तीत्यर्थः॥९८८॥

अज्ञातत्वक्षतिं कुर्वन्मानं मानत्वमश्रुते॥
मानादज्ञातता चेत्स्यान्न सा तत्फलमिष्यते॥९८९॥

द्वितीयं परास्यति। अज्ञातत्वेति। मानं खल्वज्ञातत्वं निवर्तयन्न तद्विषयीकर्तुमीष्टे न हि दीपस्तमो गोचरयतीति भावः। विपक्षे दोषमाह। मानादिति। अज्ञातता मानाज्ज्ञाता चेन्न तत्क्षतिर्मानफलं स्यात्तद्गम्यस्यातन्निवर्त्यत्वादित्यर्थः॥९८९॥’

तोऽनुभवतो लब्धमज्ञातं ज्ञापयत्सदा॥
प्रत्यक्षादि प्रमाणं’ स्यान्न स्वतो नापि चान्यतः॥९९०॥

तृतीयं प्रत्याह। अत इति। पक्षद्वयासंभवोऽतः शब्दार्थः। अतोऽनुभव सामानाधिकरण्यं सदाऽनुभवतो लब्धमिति संबन्धः। अनुदितानस्त मितानुभवसिद्धाज्ञातत्वोपलक्षितप्रत्यङ्मात्रे प्रत्यक्षादि प्रमाणमिति फलितमाह। अज्ञातमिति। स्वयंप्रभ-

त्त्वानभ्युपगमान्मेयत्वस्य च निरस्तत्वादनुभवसिद्धमज्ञांतत्वमिति स्फुटयति। न स्वत इति॥९९०॥

नाज्ञासिषमहं पूर्वमित्येवं प्रमिते घटे॥
पूर्वाज्ञातत्वविषयो भूयोऽप्यनुभवो यतः॥९९१॥

ननु मेयत्वस्वप्रकाशत्वयोरन्यतरत्वव्याप्तमतुच्छत्वं, तदितो व्यावर्तमानं स्वव्याप्यमतुच्छत्वमपि व्यावर्तयति, तथा चाज्ञातत्वस्य तुच्छता-नेत्याह। नेत्यादिना। घटे प्रमिते सत्येतावन्तं कालमहमिमं न ज्ञातवार्नित्येवं पूर्वं ज्ञानोत्पत्तेरज्ञातत्वेनानुभूतवटावषयोऽनुभवो दृष्टस्तस्मात्परामर्शादज्ञातत्वमनुभवसिद्धं न तुच्छी भवत्यतुच्छत्वस्य व्याप्तिस्तु मेयत्वस्वप्रकाशत्वानुभवसिद्धत्वानामन्यतमेनेत्यास्थेयमित्यर्थः॥९९१॥

प्रवृत्तं विषये मानमवच्छेदफलं मतम्॥
ज्ञाताज्ञाते प्रति त्वस्य न व्यापारोऽप्रमाणतः॥९९२॥

प्रमितेऽर्थे चेदज्ञातत्वधीस्तर्हि घटमानादेव तत्सिद्धेरनुभवसिद्धत्वकथा वृथेत्याशक्याऽऽह। प्रवृत्तमिति। घटादौ प्रवृत्तं मानं तदनुभवावसानं चेत्तस्य स्वकालेऽर्थे ज्ञातत्व345जनकत्ववत्प्राक्काले ज्ञातत्व346ज्ञापकत्वमिति स्यादित्याशङ्क्याऽऽह। ज्ञातेति। नहि मानस्य ज्ञाततायां जननव्यापारः कारकत्वेनामानत्वापत्तेर्न च ज्ञातताजनकं ज्ञापकमेवेति युक्तम्। तथाऽपि तस्य प्रकाशत्वाप्रकाशत्वयोर्वस्तुन्ययुक्तत्वान्नापि पूर्वकालीनाज्ञातत्वज्ञापनव्यापारोऽर्थावग्रहात्मनो मानस्य जन्मातिरिक्तव्यापारानुपगमा-न्मेयत्वे श्वाज्ञातस्त्वस्य मानानिवर्त्यत्वापत्तेरुक्तत्वादिति भावः॥९९२॥

सर्वो347ऽप्यनुभवात्सिद्धं बालोऽप्यज्ञाततां स्वतः॥
न किंचिज्जान इत्येवं348 पृष्टो वक्ति मां विना॥९९३॥

किंचाज्ञातत्वस्यानुभवसिद्धत्वं सर्वजनीनमित्याह। सर्वोऽपीति। किं गवयमाकलयसीति केनचित्पृष्टो बालो मानवृत्तान्ताकुशलत्वात्प्राकृतोऽपि स्वतः स्वानुभवादज्ञातत्वं न जानामीत्यनेन विधिना प्रतिपादयत्यतो मानं विना सर्वोऽप्यनुभवादेव सिद्धां तामवगच्छति तत्कुतो विप्रतिपत्तिरित्यर्थः॥९९३॥

निःशेषकरणग्रामलयेऽप्यनुभवः स्वतः।
अलुप्तदृक्सुषुप्तेऽपि जाग्रोधाविशेषतः॥९९४॥

नन्वज्ञातत्वस्यानुभवसिद्धत्वेऽपि मेयत्वमनुभवस्य मानकरणजत्वेन मानत्वात्तत्राऽऽह। निःशेषेति। स्वापे प्रमासामग्रीविरहेऽपि नित्यसिद्धचिद्धातुरूपोऽज्ञातत्वानुभवः स्वतोऽस्त्यन्यथोत्थितस्य नावेदिषमिति परामर्शायोगादतो जागरितेऽप्यज्ञातताबोधस्य स्वापादविशेषादनुभवसिद्धा सर्वत्र सेत्यर्थः॥९९४॥

अत्यन्ताननुभूतेषु हिमवत्पृष्ठवस्तुषु॥
जाग्रतोऽनुभवोऽप्येवं सुषुप्तान विशिष्यते॥९९५॥

तत्रैव हेत्वन्तरमाह। अत्यन्तेति। हिमवत्पृष्ठनिष्ठानि वस्तूनि किं त्वया दृष्टानीति केनचित्कश्चित्पृष्टो नेति निश्चित्याज्ञाततां ब्रवीति। न च तत्रासौ प्रमिता सर्वथैव तेषामप्रमितेरतो नित्यानुभवादेव तेषु सा सिद्धेत्यर्थः। तथाऽपि जाग्रद्बोधाविशेषत इत्ययुक्तं स्वापे मानकारणाभावादज्ञातत्वस्यामेयत्वेऽपि जाग्रति तद्भावात्तद्गम्यत्वसिद्धेरित्याशङ्क्याऽऽह। जाग्रत इति। उक्तविभागे सत्यपि नोभयत्राज्ञातत्वानुभवस्य विशेषो; नहि जाग्रतोऽज्ञातत्वानुभवः सुषुप्ताज्ञातत्वानुभवाद्भिद्यते तम्य मेयताया निरस्तत्वादित्यर्थः॥९९५॥

ननु न चात्रानुभवो लुप्तो न जानामीति बोधनात्॥
अदृष्टमपि दृष्ट्वाऽस्ति बोधो नाज्ञासिषं त्विति॥९९६॥

ननु क्वचिदनुभवसिद्धमज्ञातत्वमनुभवस्यैवाभावादिति तत्र जाग्रति तदभावः, स्वापे वा? नाऽऽद्य इत्याह। न चेति। जागरे त्वदुक्तमर्थं न जानामीत्यनुभवात्तदभावो नास्तीत्यर्थः। किंचादृष्टं वस्तु दृष्ट्वा नैतावन्तं कालमेतदवेदिषमितिपरामर्शाधीनो बोधोऽस्ति, तम जागरेऽनुभवापलाप इत्याह। अदृष्टमिति॥९९६॥

पुमान्सुप्तोत्थितोऽप्येवं प्रमात्रादिलयं स्वतः॥
अनुभूत्यैव संधत्ते नान्तराऽतोऽस्य लुप्तता॥९९७॥

न द्वितीय इत्याह। पुमानिति। जागरे नाज्ञासिषमितिवत्पुरुषः स्वापादुत्थितोऽपि मात्राद्यभावं तत्कालीनं स्वानुभवादेवानुसंधत्ते। उत्थितो हि न किंचिदवेदिषमिति ब्रूते तत्स्वप्रजागरान्तराले कुतोऽनुभवासत्तेत्यर्थः॥९९७॥

न चेदानीतनाद्बोधाद्बोधाभावगतिर्भवेत्॥
सौषुप्ती, नहि बोधस्य कालभेदेन भिन्नता॥९९८॥

किंच सौषुप्तबोधाभावधीर्जाग्रत्कालीनबोधाद्वा सौषुप्तबोधाद्वा नाऽऽथ इत्याह। न चेति। तत्र हेतुर्नहीति। देशकालावस्थाभेदान्नानुभवस्य भिन्नता तत्प्रागभावाद्यसिद्धेनहि स्वतः परतो वा तत्सिद्धिरतोऽद्वयोऽनुभवः कूटस्थनित्योऽभ्युपेयः। एतेन द्वितीयोऽपि व्याख्यातो व्याघाताच्चेति भावः॥९९८॥

बोधादेव प्रसिध्यन्ति कालावस्थादयो यतः॥
मातृमानादयश्चापि कुतस्तैरस्य विक्रिया॥९९९॥

नन्वनुभवस्य क्षीरादिवत्कालादिवशात्परिणामान्न कूटस्थता तत्राऽऽह। बोधादिति। न तावस्कालादि स्वतः सिध्यति जडत्वादतो बोधाधीनसत्ता स्फूर्तिकात्तस्मादादावेव साध-

कत्वेन सिद्धानुभवस्य न तद्वशात्तद्विकारो नहि पुरा विकारविरही स्वरूपानुभवः पुनर्विकारितां स्वरसतो गन्तुमर्हति स्वरूपविपरिलोपानुपपत्तेरित्यर्थः॥९९९॥

प्रमातृमानतन्मेयेष्वागमापायिषु त्रिषु॥
अलुतानुदितो बोधः प्रथते प्रत्यगेकलः॥१०००॥

आत्मानुभवस्यापरिणामित्वे हेत्वन्तरमाह। प्रमात्रिति। मात्रादीनामागमापायिनां तदागमापाययोश्च साधकत्वेनाऽऽगमापायशून्यः प्रत्यगेकस्वभावोऽनुभवो भात्यतो हेत्वभावान्नास्य विक्रियेत्यर्थः॥१०००॥

अभितोऽनुभवाक्रान्ता ज्ञाताज्ञातत्वभूमिषु॥
नान्यत्रार्थाः प्रसिध्यन्ति लीयन्ते नाप्यनात्मनि॥१००१॥

मात्रादीनामाधारत्वं तेषु सप्तमीप्रयोगात्तद्बोधकस्याऽऽवेयत्वं तत्र प्रथमाप्रयोगात्तत्कथं तस्य प्रत्यगेकत्वमित्याशङ्क्याऽऽह। अभित इति। ज्ञातत्वेनाज्ञातत्वेन चाऽऽक्रान्तार्थगोचरव्यवहारकाले सर्वतोऽनुभवन्याप्ताः स्तम्भादयः सत्तां लभन्ते न चानुभवादन्यत्र ते तिष्ठन्ति नाप्यर्थान्तरे लीयन्तेऽनुभवातिलङ्घिनां जडानां सुषुप्तत्वेनोत्पत्त्यादिव्यापारानुपपत्तेः। अतो मात्राद्यर्थानामनुभवात्मन्येवोत्पत्तिस्थितिलयभावात्तदतिरेकेणासत्त्वं काल्पनिकभेदादाधाराधेयतेत्यर्थः॥१००१॥

अतोऽनुभव एवैको विषयोऽज्ञातलक्षणः॥
अक्षादीनां स्वतः सिद्धो यत्र तेषां प्रमाणता॥१००२॥

अनुभवादर्थान्तराभावे तदद्वयत्वं फलतीत्याह। अत इति। स एव प्रत्यक्षादीनां विषयो विषयान्तराभावादित्याह। विषय इति। तत्र युक्तिमाह। अज्ञातेति। प्रमेयत्वे स्वप्रकाशत्वहानिरित्याशङ्क्याऽऽह। स्वत इति। यत्रानुभवे मानानामज्ञातत्वनिवर्तकत्वेन मानता स स्वतःस्फुरत्स्वरूपो न तत्र स्फूर्तिरन्याधीना नहि स्वप्रकाशस्वप्रमेयत्वयोविप्रतिषेधः संविदेकतानस्यापि स्वगताज्ञानापनयनार्थं मानापेक्षणादित्यर्थः॥१००२॥

तेनानुभवसिद्धानां लोकेऽज्ञानविघातिनः॥
मात्वमक्षादयो यान्ति नाज्ञातज्ञाततोऽन्यथा॥१००३॥

अक्षादीनां नानुभवविषयत्वं घटादिविषयत्वप्रसिद्धेरिति चेत्तत्राऽऽह। तेनेति। लोके खल्वज्ञातेऽनुभवेऽध्यस्तत्वेन सिद्धानां घटादीनामज्ञातत्वं निवर्तयन्तोऽक्षादयो व्यावहारिकं मानत्वमनुभवन्त्यन्यथाऽनुभवेऽध्यासं विना मानादज्ञातत्वेन सिद्धानां तेषां ज्ञापकत्वेन नाक्षादिप्रामाण्यं तेन मानसिद्धस्य मानेन निवृत्त्यसंभवेन हेतुनेत्यर्थः। एतेन प्रत्यक्षादीनां घटादिविषयत्वप्रसिद्धिरपि प्रतिनेतव्या॥१००३॥

घटादयः प्रमासिद्धा मुञ्चन्त्यज्ञाततां न तु॥
स्वतःसिद्धोऽपि वस्तुत्वान्मुञ्चत्यात्मा मां विना॥१००४॥

व्यवहारतस्तेषामनुभवेऽध्यस्तघटाद्यज्ञातत्वनिवर्तकत्वादज्ञातानुभवावष्टम्भात्प्रत्यक्षादिप्रामाण्येऽपि चिदात्मनः स्वप्रकाशत्वादज्ञातत्वं मानं विना निवर्तेत। तथाच न तत्र मानप्रवृत्तेरस्ति कृत्यमित्याशङ्क्याऽऽह। घटादय इति। यथा घटादयो व्यावहारिकमानसिद्धाः स्वगतमज्ञातत्वं त्यजन्ति न मानमनपेक्ष्य तज्जहति तथा प्रत्यगात्मा चित्स्वभावस्वप्रकाशोऽपि वस्तुसामर्थ्यादेव प्रमां विना नाज्ञाततां त्यक्तुमलं मानफलप्रकाशस्यैवाज्ञानविरोधित्वा-त्स्वरूपप्रकाशस्यातथात्वादित्यर्थः॥१००४॥

प्राग्बाधकागमात्सिद्धिलौकिकस्यापि वस्तुनः॥
वस्तुतत्त्वबलादेव तत्तमोव्यवधानतः॥१००५॥

आत्मनो मानं विनाऽज्ञातत्वं न निवर्तते चेन्मानाधीनाऽस्य स्वप्रकाशतेति न स्वरूपमागन्तुकत्वादित्याशङ्क्याऽऽह। प्रागिति। ब्रह्माहमितिबाधकबोधोदयात्पूर्वमज्ञानव्यवहितानुभवत्रलादेव सर्वानात्मसिद्धेर्मानमेयादिप्रपञ्चं प्रकाशयन्नात्मा मानमनपेक्ष्यैव स्वप्रकाश इत्यर्थः। अपिशब्दः समस्तलौकिकवस्त्वभिव्याप्त्यर्थः। वस्तुतत्वबलादात्मस्वभावभूत चैतन्य प्रकाशवशादिति यावत्॥१००१॥

कृत्स्नमात्राद्युपादानतमोबाधस्तु बोधतः॥
तत्त्वमस्यादिवाक्योत्थात्पूर्णैकात्म्यस्वलक्षणात्॥१००६॥

प्रत्यक्षादीनामात्मनि मानत्वे तैरेव तदज्ञाननिवृत्तेरागमवैयर्थ्यमित्याशङ्क्याऽऽह।कृत्स्नेति। समस्तमात्रादिनिदानाज्ञाननिरासि ज्ञानं प्रत्यक्षादिकृतं किं न स्यादित्याशङ्क्य बोधं विशिनष्टि। पूर्णेति॥१००६॥

तेनाऽऽगमस्य तत्र स्यादज्ञातत्वविघातिनः॥
प्रमाणत्वं पुमर्थश्च स एव विदुषां मतः॥१००७॥

सोपाधिके तत्त्वे ज्ञानमध्यक्षादिकृतं तत्र प्रवृत्तिसंभवान्निरुपाधिके तु श्रौतं श्रुतेरेव तत्र प्रवृत्तिक्षमत्वान्न च सोपाधिकं ज्ञानमज्ञानमपनेतुमर्हति तदर्थस्याज्ञानापेक्षत्वान्निरुपाधिकं ज्ञानं तु विषयबलात्तदुन्मूलयेदतो वाक्योत्थज्ञानादे-वानर्थोपादानाज्ञाननिवृत्तेस्तत्त्वमस्यादेरैक्ये सिद्धं प्रामाण्यमिति फलितमाह। तेनेति। श्रौतात्मज्ञानादेव तदज्ञानध्वस्तुरुक्तत्वेनेति यावत्। तत्रेति श्रुतितात्पर्यगम्यब्रह्मात्मोक्तिः। परानन्दतया पुरुषार्थत्वाच्च ब्रह्मात्मनि युक्ता तत्त्वमादेर्मानतेत्याह। पुमर्थश्चेति। स्रक्चन्दनादौ पुमर्थत्वप्रसिद्धेरात्मनस्तथात्वमसंप्रतिपन्नमिति चेत्तत्राऽऽह। विदुषामिति॥१००७॥

ननु दुर्बारसंसारदुःखसंदर्भहानतः॥
किमन्यत्सुखमिष्टं स्याद्यस्याः पुरुषार्थता॥१००८॥

पुमर्थशब्देन ब्रह्मात्मा सुखमित्युक्तं तदयुक्तं दुःखनिवृत्तीतरसुखाभावाद्भावाभावयोरैक्यायोगादिति जरत्तार्किकमतमाशङ्कते। नन्विति। यानि दुर्वाराणि संसारदुःखानि तेषां समूहस्य हानिरेव सुखं ततोऽन्यस्येष्टलक्षणत्वाभावादित्यर्थः। सुखनिरूपणस्याप्रस्तुतत्वं निरस्यति। यस्येति॥१००८॥

लोकेऽपि व्याधिसंतापविच्छित्तौ सुखितेक्ष्यते349
व्यतिरिक्तसुखार्था च न प्रवृत्तिर्विरागिणाम्॥१००९॥

दुःखध्वस्तिरेव सुखमित्यत्र लोकानुभवं प्रमाणयति। लोकेऽपीति। लौकिका हि व्याध्यधीनसंतापवन्तं पुरुषमुपलभ्य बतायमतिदुःखीति वदन्तो दैवयोगादपगतरोगं तमवगच्छन्तो दिष्ट्या जातोऽयं सुखीति वदन्तीत्यर्थः। ननु दुःखध्वस्तीतरसुखार्था विरक्तमुमुक्षुप्रवृत्तिस्तदनुपपत्त्या भावरूपसुखसिद्धिर्नहि तेषां संसारविमुखानामस्ति दुखं यन्निविर्तयिषितं तत्राऽऽह। व्यतिरिक्तेति। मोक्षार्था मुमुक्षुप्रवृत्तिः स च बन्धविश्लेषो बन्धश्वानर्थत्वाद्दुःखमिति तन्निवृत्त्यथैव तत्प्रवृत्तिरित्यर्थः॥१००९॥

असंवेद्यं सुखं नापि पुमर्थो न च कर्मता॥
स्वरूपे वेद्यवेत्तृत्वायोगाद्वैतप्रसङ्गतः॥१०१०॥

किंच भावरूपं सुखमसंवेद्यं संवेद्यं वाऽऽद्ये गृहगुहानिहितागृहीतनिधिवदपुमर्थतेत्याह। असंवेद्यमिति। द्वितीयं दूषयति। न चेति। तत्र हेतुमाह। स्वरूप इति। एकत्र विषयविषयित्वायोगात्तस्य भेदापेक्षत्वादद्वैत विरोधादित्यर्थः॥१०१०॥

नैवं भेदेन संसिद्धे सुखदुःखे कथं तयोः॥
ऐक्यं सुखस्य विच्छेदो दुःखं वा किं न कल्प्यते350॥१०११॥

दुःखध्वस्तिरेव सुखमित्येतन्निराकरोति। नैवमिति। तत्र हेतुर्भेदेनेति। संतापवतः शतह्रदे निमग्नार्धदेहस्य युगपदेवासंकीर्णत्वेन सुखदुःखे दृष्टे तत्कुतो दुःखध्वंससुखयोरैक्यं भावाभावयोरेकत्रोपलम्भासंभवान्न च तत्र सुखदुःखयोर्भावाभावयोरपि प्रदेशभेद्रवर्तिनोर्युगपदविरोध आत्मनोऽप्रदेशत्वाद्देहदेशयोश्चाचेतनत्वात्तद-वच्छिन्नात्मवृत्तित्वे चावच्छेदकभेदेऽपि तद्भेदाभावादेकत्रैव तद्वृत्तेस्तयोर्भाव। भावत्वासंभवादित्यर्थः। किंच दुःखाभावः सुखं चेत्सुखाभावो दुःखं किं न स्यादविशेषादिति वैपरीत्यं प्रसञ्जयति। सुखस्येति॥१०११॥

अदुःखिनोऽपि दृश्यन्ते सुखप्राप्तीच्छया यतः॥
तदुपाये प्रवर्तन्तस्तदभेदे न युज्यते॥१०१२॥

सुखं न दुःखध्वस्तिरित्यत्र हेत्वन्तरमाह। अदुःखिनोऽपीति। दुःखहीना राजादयोऽपि सुखेच्छया तद्धेतौ नृत्यगीतादिप्रभेदे प्रवर्तमाना दृष्टा न च तद्दर्शनं दुःखध्व-

स्तिमुखयोरभेदे युक्तमप्राप्तदुःखेषु तद्ध्वस्तये प्रवृत्त्ययोगात्त351द्दुःखध्वस्तेरतिरिक्तं सुखमित्वर्थः। वर्ततेरात्मनेपदित्वनियमेऽपि च्छन्दोवत्तद्विदां वृत्तिरितिन्यायं द्योतयितुं प्रवर्तन्त इत्युक्तम्। प्रोपसर्गतो वा नियमभङ्गः॥१०१२॥

चन्दनादिसुखोपाय352संपन्नाः सुखिनोऽप्यलम्॥
पुत्रजन्मादिवार्ताभिः प्राप्नुवन्ति सुखान्तरम्॥१०१३॥

सुखोपाये प्रवर्तमानानामदुःखत्वमसिद्धमिति चेत्तत्राऽऽह। चन्दनेति। कथं पुनरुपायसंपत्त्या निरतिशयं सुखमासाद्य स्थितानां तत्रैवोपाये प्राप्ते प्रेप्सया प्रवृत्तिस्तत्राऽऽह।पुत्रजन्मादीति॥१०१३॥

पुत्राद्यप्राप्तिरूपं च दुःखं तत्र न कल्प्यते॥
असंवित्तेरवेद्यं हि न दुःखं वैरिदुःखवत्॥१०१४॥

ननु यत्र पुंसि पुत्रजन्मादिश्रवणकृतं सुखं जायते तत्र पुत्राद्यप्राप्तिनिमित्तदुःखध्वस्तिरेव सुखं नेत्याह। पुत्रादीति। तत्र हेतुरसंवित्तेरिति। अननुभूयमानमपि दुःखं तत्रास्तीत्याशङ्क्याऽऽह। अवेद्यमिति। तस्यादुःखत्वे दृष्टान्तमाह। वैरीति। नो खल्वन्यस्य दुःखमन्यस्य भवति तेनाननुभूयमानत्वात्तथोत्खातदुःखे पुंसि पुत्रादिप्राप्तिप्र युक्तसुखभाजि दुःखपसङ्गाभावेऽपि सुखोपलम्भात्तद्ध्वस्तेरन्यदेव तदित्यर्थः॥१०१४॥

तिर्योऽप्यत एवेह कामयन्ते सुखं तथा॥

अप्रियं विजिहासन्ति न तु जानन्ति साधनम्॥१०१५॥

तत्रैव हेत्वन्तरमाह। तिर्यञ्चोऽपीति। यतो दुःखध्वस्तिमुखे भिद्येते अतो लोके पशुशकुन्तादयोऽपि विभागेन सुखाप्तिं दुःखध्वस्तिं चेच्छन्ति तदन्या दुःखध्वस्तिरन्यच्च सुखमित्यर्थः। तर्हि तिरश्चामस्माकं च सुखप्रेप्सया दुःखजिहासया च साधनानुष्ठानमविशिष्टं स्यात्तत्राऽऽह। न त्विति। शास्त्रीयं साधनमस्माकमेवाधिगतिगोचरो नेतरे- षामित्यनुष्ठानविशेषसिद्धिरित्यर्थः॥१०१॥

वेदोऽपि शुद्धमात्मानं सुखं मुख्यं प्रदर्शयन्॥
अनात्मानं तथा दुःखं पुमर्थत्वेन संमतः॥१०१६॥

लोके भावरूपसुखसत्त्वेऽपि नाऽऽत्मनि तदस्तीत्याशङ्क्याऽऽह। वेदोऽपीति। अशनायाद्यशेषधर्मशन्यमात्मानमलौकिक-सुखात्मकं दुःखं चाऽऽत्मास्पृष्टं ब्रुवन्पुमर्थावसायितया वेदो मानत्वेनेष्टोऽतो लोकानुसारादात्मन्यपि भावरूपमेव सुखमित्यर्थः॥१०१६॥ तदेतत्प्रेय इत्यादिवाक्येभ्योऽनेकधा श्रुतम्॥तथाऽऽत्मनस्तु कामाय तस्मान्नान्यत्सुखं भवेत्॥१०१७॥

कोऽसौ वेदो यः सुखमात्मानमाहेत्याशङ्क्याऽऽत्मनः सुखत्वे वेदवाक्यान्युदाहरति। तदेतदिति। श्रुतमात्मनः सुखत्वमिति शेषः। तत्र वाक्यानां तात्पर्यलिङ्गमम्यासं मूचयति। अनेकधेति। आत्मशेषत्वेन सर्वस्य प्रियत्वाचाऽऽत्मा निरतिशयप्रियत्वेन परमसुखमित्याह। तथेति। इत्यस्मादपि वाक्यादात्मनः श्रुतार्थापत्त्या सुखत्वं दर्शितमिति शेषः। उक्तवाक्यवशादात्मैव सुखं नान्यदिति फलितमाह। तस्मादिति॥१०१७॥

पुरुषार्थाभिसंबन्धाद्विरागित्वं यथाऽऽश्रितम्॥
परानन्दाभिलाषोऽपि तथा चेत्किं निषिध्यते॥१०१८॥

नन्वात्मनः सुखत्वे सुखरागान्मुमुक्षुप्रवृत्तेः संसारानुबन्धः स्याद्रागाधीनप्रवृत्तेस्तद्वीजत्वादत आह। पुरुषार्थेति। अस्यार्थः— यथा विरागित्वं मुमुक्षूणां संसारद्वेषित्वं पुरुषार्थेन मोक्षण हेतुतया योगाद्भवद्भिराश्रितं न तु तद्वेषात्प्रवृत्तेस्ता हगितरप्रवृत्तिवद्वन्धबीजतेष्टा तथा परानन्दरागोऽपि पुमर्थश्चेन्न निषेद्धुं युज्यते। अतः सुखरागान्मुमुक्षुप्रवृत्तावपि न संसारप्रवृत्तिरिति॥१०१८॥

आत्यन्तिकसुखेच्छायां यदि रागित्वमुच्यते॥
विविक्तदेशसेवादाविच्छायां किं न रागिता॥१०१९॥

अथास्मत्पक्षे बन्धद्वेषान्न प्रवृत्तिः किंतु तदुद्वेगान्न च द्वेषोद्वेगयोरैक्यं मिथ्याज्ञा- ननिमित्तत्वाद्वेषस्य संसारासारता तत्त्वदर्शननिमित्तत्वादुद्वेगस्येति तहहापि न रागात्प्रवृत्तिः किंतु परानन्द श्रद्धया न च तयोरभेदो रागस्य मिथ्याज्ञानकृतत्वाच्छ्रद्धायाश्च विवेकपूर्वकत्वादिति मत्वेच्छामात्रस्य रागत्वे दोषमाह। आत्यन्तिकेति। तत्र हि विरागित्वमेव प्रसिद्धमिति भावः। आदिशब्देनाऽऽचार्योपासनादि गृह्यते॥१०१९॥

अथ ये शतमित्यादिवाक्यैरेतत्प्रपञ्चितम्॥
एष ह्येवेति च व्यक्तं तैत्तिरीयश्रुतावपि॥१०२०॥

आत्मनः सुखत्वे बाधकशङ्कामवधूय तत्रैव वाक्यान्तराणि दर्शयति। अथेति। एतदात्मनोऽनतिशय सुखत्वमिति यावत्। एष वाऽऽनन्दयातीत्यादिरात्मन्यानन्दशब्दः स्पष्टोऽतोऽपि तस्य सुखत्वमित्याह। एष हीति॥१०२०॥

स्वानन्दाभिमुखः स्वापे वोध्यमानोऽत एव च॥
पीड्यते रूयादिसंपर्क सुखविच्छेदतो यथा॥१०२१॥

आत्मनः सुखत्वे सौप्तानुभवोऽपि मानमित्याह। स्वानन्देति। तत्र गमकमाह। बोध्यमान इति। अत एव सुखानुभवासक्तत्वादिति यावत्। सौषुप्तं सुखमनुभवतो बोध्यमानस्य पीड्यमानत्वे विषयप्रवणप्राणिसंमतं दृष्टान्तमाह। रूयादीति॥१०२१ ॥

आनन्दैकस्वभावत्वाद्वेद्यता तत्र नार्ध्यते॥
निःसंबोधेऽर्थ्यते सा हि न तु बोधैकलक्षणे॥१०२२॥

यत्तु ब्रह्मानन्दस्य वेद्यत्वे द्वैतमवेद्यत्वे चापुमर्थतेति तत्राऽऽह। आनन्देति। आत्मनः सुखैकरसत्वेऽपि किमिति तत्र वेद्यता नार्थ्यते तत्राऽऽह। निःसंबोध इति। जडे हि वेद्यताऽर्थ्यते तत्र स्वतो वेदनाप्राप्तेर्नाऽऽत्मनि बोधैकरूपत्वात्तस्माद्ब्रह्मात्मनि परानन्दसंवेदने सदेकताने353 वेदान्तप्रामाण्यम प्रत्यूहमिति भावः॥१०२२॥

अधिकारस्य सौलभ्यप्रतिपत्त्यर्थमीरणम्॥
सर्वपुंसामिति तथा पूर्वमेव प्रपञ्चितम्॥१०२३॥

सर्वोऽपीत्यादिभाष्यार्थः संक्षेपविस्तराभ्यां व्याख्यातः संप्रति सर्वपुरुषाणामित्यादिभाष्यतात्पर्यमाह। अधिकारस्येति। सुखं मे स्याद्दुःखं मा भूदिति सर्वेषां स्वभावतोऽभिलाषदर्शनादनवच्छिन्नसुखादिमात्रस्य च मोक्षत्वात्तत्कामिनो विद्याधिकारित्वात्तत्राधिकारिसौलभ्यमतो विद्यायामधिकारस्य विशिष्टपुरुषसंबन्धस्य सुलभत्वज्ञापनार्थं भाष्यमित्यर्थः। मोक्षे ज्ञातेऽज्ञाते च तत्कामनायोगात्कुतस्तत्कामोऽधिकारीत्याशङ्क्य यथा तत्सौलभ्यं तथान युक्तं कामना मुक्तावित्यादिनोक्तमित्याह। तथेति॥१०२३॥

स्वर्गादिकाम्यपि यतो मुक्ति कामयते न तु॥
मुक्ति कामयमानोऽन्यत्कटाक्षेणापि वीक्षते॥१०२४॥

ननु मुमुक्षोरेवान्तराले ग्रामकामस्य भोजनादाविव स्वर्गादावभिलाषसंभवात्तत्परवशस्य विद्यानधिकारात्कथमिहाधिकारिसौलभ्यमत आह। स्वर्गादीति। यः स्वर्गादि काङ्क्षति स कथंचिन्मोक्षमपि काङ्क्षत्तस्य निरतिशयफलत्वाद्यस्तु मुक्तिं कामयते नासौ स्वर्गादि कथमपि कामयते तस्यात्यल्पफलत्वादतो यो मुमुक्षुर्भूत्वा भूयः स्वर्गाद्यभिलपति स पशूनां करभवदपस दो मुमुक्षूणामिति भावः॥१०२४॥

सर्वेषामपि च नृणामधिकारोऽनिवारितः॥
यतोऽतः सर्वतो नृृणामिति भाष्यकृदब्रवीत्॥१०२५॥

प्रकृतभाष्यार्थमुपसंहरति। सर्वेषामिति। न च नामभाष्येण फलोक्तिद्वारा तत्कामस्याधिकारिणो वचनादनर्थकमिदं भाव्यमिति वाच्यम्। अर्थश्रुतिभ्यामुभयत्राप्यधिकारिनिर्देशादर्थभेदसिद्धेः। यद्यपि संसारव्याविवृत्सुभ्य इत्यत्र मुखतोऽप्यधिकारी दर्शितस्तथाऽप्यत्र तत्सौलभ्यस्येष्टत्वान्नास्य वैयर्थ्यम्। न चैवं शास्त्रस्य सर्वाधिकारत्वं साधनचतुष्टयविशिष्टानामेव विद्याधिकारिणां सौलभ्योक्तेरिति द्रष्टव्यम्॥१०२५॥

शुक्लां गामानयेत्युक्ते कांचिगोकर्मिकां क्रियाम्॥
कुर्वाणमभिवीक्ष्याज्ञः कुरुते कारणानुमाम्॥१०२६॥

दृष्टविषयेत्यादेर्नाऽऽगमान्वेषणेत्यन्तस्य भाष्यस्यार्थं वक्तुं पूर्वपक्षयति। शुक्लामिति। गामानयेत्युत्तमवृद्धोक्ते श्रोतारं गोविषयां प्रवृत्तिं कुर्वन्तं मध्यमवृद्धं बुद्ध्वा प्रवृत्तिकारणं कश्चिदज्ञो बालोऽनुमिनोतीत्यर्थः॥१०२६॥

ज्ञातं ध्रुवमनेनैतद्यद्गोकर्मकमीक्ष्यते॥
प्रागज्ञातस्य निर्वृत्तिर्न यतो वीक्ष्यते कचित्॥१०२७॥

कथमनुमानं तदाह। ज्ञातमिति। एतत्प्रवृत्तिकारणमनेन प्रवर्तमानेन नियोगतोवगतं यतो गोविषयमानयनाख्यमनुष्ठानमस्य श्रोतुर्गम्यते। न च कर्तव्यत्वेनानुष्ठानात्प्रागज्ञातस्यानुष्ठेयस्यानुष्ठानं नाम क्वचिदपि लोके दृष्टमतो विमता प्रवृत्तिः प्रवर्तकधीपूर्वा बुद्धिपूर्वप्रवृत्तित्वात्संमतवदिति बालोऽनुमिमीते तस्य च प्रवर्तकज्ञानस्य शब्दान्वयव्यतिरेकवत्तया ततो जन्म निश्चिन्वन्प्रवर्तकमात्रे शब्दमात्रस्य शक्तिं निश्चित्याऽऽवापोद्वापाभ्यां पदविशेषस्य प्रवर्तकान्वितस्वार्थे शक्तिमध्यवस्यतीत्यर्थः॥१०२७॥

यद्यर्थं कारकाधीनं दृष्ट्वा तत्कारणानुमा॥
प्रमाणान्तरगम्यत्वाल्लौकिकत्वं तदाऽऽपतेत्॥१०२८॥

प्रवर्तकं नियोगादर्थान्तरं नियोगो वाऽऽद्येपदानामन्यान्विते शक्तिस्वीकारान्नियोगेकनिष्ठत्वव्याहतिरिति मत्वा द्वितीयं दूषयति। यदीति। कर्त्रादिकारकजन्यं श्रोतृप्रत्रत्तिरूपमर्थं दृष्ट्वा तद्धेतुप्रवर्तकनियोगानुमा चेत्तदा तस्याऽऽनुमानिकत्वाद्धटतुल्यतया वैदिकत्वासिद्धिरित्यर्थः॥१०२८॥

न चेत्कारकतत्रोऽर्थो ज्ञातस्यानुष्ठितिः कथम्॥
न सिद्धो नापि चाभावः कारकापेक्ष ईक्ष्यते॥१०२९॥

किंच लिङादेरर्थो नियोगः कारकैरसाध्यः साध्यो वा तत्राऽऽयमनुद्भवति। न चेदिति। लिङादिना कथंचिज्ज्ञातस्यापि नियोगस्यानुष्ठानासाध्यत्वाद्धात्वर्थानुष्ठानमफलमनवकाशं स्यादित्याह। ज्ञातस्येति। यद्वा नियोगस्य कारकासाध्यत्वे तद्विषयो धात्वर्थोऽपि क्लेशात्मत्वान्न साध्योऽध्यवसीयेत तथाच तदनुष्ठानासिद्धिरित्याह। ज्ञातस्येति। द्वितीयेऽपि स किं सन्नुतासन्नुभयात्मको वा तत्राऽऽयौ दूषयति। न सिद्धइति। नहि सतोऽसतो वा कारकापेक्षत्वं मानाभावादात्मनि नरविषाणे च तदपेक्षानुपलम्भादित्यर्थः॥१०२९॥

आरभ्ये कारकत्वे न बलात्मामाण्यमापते॥
व्यङ्ग्ये तु कार्ये वेदस्य सिद्धेऽर्थे मानता भवेत्॥१०३०॥

किंच सत्त्वपक्षे नियोगः शब्दारभ्यस्तद्व्यङ्ग्यो वाऽऽद्येशब्दस्य कारकत्वान्मानत्वासिद्धिरित्याह। आरभ्य इति। द्वितीये तु विद्यमानस्यैव व्यङ्गयत्वनियमात्तस्मि

न्मानं भवतो वेदस्य सिद्धेऽर्थे मानता स्यान्नियोगस्य व्यङ्ग्यतया विद्यमानत्वेन तथात्वादित्याह। व्यङ्ग्ये त्विति॥१०३०॥

वाक्यस्य च प्रमाणत्वंनाप्यभावैकगोचरम्॥
न चेदभावः कार्योऽर्थः सिद्धेऽर्थे मानता भवेत्॥१०३१॥

किंच नियोगस्यासत्त्वे तत्र वेदस्य प्रामाण्यशङ्कैव नावतरति कस्यचिदपि ज्ञानस्यासति मानत्वादृष्टेरित्याह। वाक्यस्येति। उक्तं दोषं निरसितुं नियोगस्य सत्त्वे व्यङ्ग्यत्वपक्षोक्तं दोषं स्मारयति। न चेदिति॥१०३१॥

अथोभयात्मकं कार्यंसिद्धासिद्धस्वभावकम्॥
उक्तदोषद्वयासक्तिर्न च वस्त्वीदृशं कचित्॥१०३२॥

तृतीयमनुवदति। अथेति। कारकतत्रत्वानुपपत्तिः सिद्धेऽर्थे वेदस्य मानत्वं चेत्युतदोषानुषक्त्या दूषयति। उक्तेति। सदसदात्मकं वस्त्वङ्गीकृत्योक्तं तदेव नास्ति विरोधादित्याह। न चेति॥१०३२॥

सिद्धस्य व्यञ्जकं मानं न मानं कारकं कचित्॥
चोदना मानकं चेत्तत्कथं कार्य तदुच्यताम्॥१०३३॥

किंच नियोगाख्यं कार्यं वैदिकं लौकिकं वाऽऽद्ये तस्य सिद्धार्थत्वापत्तिरित्याह। सिद्धस्येति। प्रत्यक्षादेः सिद्धार्थज्ञापकत्वदृष्टेर्नियोगस्यापि वैदिकत्वे साध्यत्वासिद्धिस्तस्याध्यक्षादिवत्सिद्धार्थज्ञापकत्वापत्तेरित्यर्थः। द्वितीयस्तु राद्धान्तविरोधा-दतिस्थवीयानित्युपेक्षितः॥१०३३॥

मतं विषयसंसिद्ध्या कार्यमित्यभिधीयते॥
यागसिद्धेः पुराऽसिद्धेः कथं चोदनया मितम्॥१०३४॥

किंच धात्वर्थानुष्ठानादूर्ध्वमेव नियोगसिद्धिः प्रागपि वा तत्राऽऽद्यमनुवदति। मतमिति। नियोगाख्यं कार्यं धात्वर्थानुष्ठानद्वारा सिध्यतीत्युच्यत इति मतं यदीति योजना। तर्हि पूर्वं नियोगस्याभावान्न तस्य वेदवेद्यतेत्याह। यागेति। न खल्वसतो वैदिकत्वं नरविषाणवदिति भावः॥१०३४॥

प्राक्प्रयोक्त्रभिसंसिद्धौ किं फलं यागसिद्धितः॥
यागसिद्ध्याऽपि तत्सिद्धौ प्रयोज्यत्वं कुतो यजेः॥१०३५॥

अनुष्ठानात्प्रागपि नियोगस्यानुष्ठानप्रयोक्तुः सिद्धतेति द्वितीयं शङ्कते। प्रागिति। तदनुष्ठानं नियोगासाधकत्वादफलमिति दूषयति। किं फलमिति। सिद्धस्यैव नियोगस्य यागेनापि साध्यत्वादनुष्ठानसाफल्यमिति शङ्कते। यागेति। सिद्धस्य सिद्ध्ययोगान सिद्ध्यर्थमनुष्ठानमित्याह। प्रयोज्यत्वमिति। यज्यर्थस्य प्रयोज्यत्वं नाम नियोगप्रयु-

क्तानुष्ठेयत्वं तन्न सिध्यति सिद्धस्य नियोगस्य सिद्ध्यनपेक्षतया धात्वर्थानुष्ठानं प्रत्यप्रयोजकत्वादित्यर्थः॥१०३५॥

यागाद्यनुष्ठितेरस्य घटादेरिव चेन्मतः॥
उपकारो नियोगस्य कथं न घटतुल्यता॥१०३६॥

किंच यागाद्यनुष्ठानान्नियोगस्य कश्चिदुपकारोऽस्ति न वा न चेदनुष्ठानवैयर्थ्य कल्पान्तरं प्रत्याह। यागादीति। कुलालादिव्यापाराद्घटादेः सत्त्वलाभोपकारवद्धात्वर्थानुष्ठानान्नियोगस्यापि सत्त्वप्राप्तिरूपोपकारश्चेत्तस्य घटादितुल्यता स्यादित्यर्थः॥१०३६॥

अपुमर्थे नियोगे च तात्पर्य स्यात्तथा सति॥
प्रत्यर्थिनि पुमर्थे तत्सुधीभिर्गृह्यते कथम्॥१०३७॥

घटतुल्यत्वं तस्य नानिष्टमिति चेत्तत्राऽऽह।अपुमर्थ इति। घटतुल्यत्वे सति सुखदुःखप्राप्तिपरिहारतदुपायरूपविरहिणि नियोगे वाक्यतात्पर्यमिष्टं स्यादित्यर्थः। तत्र तात्पर्येऽपि नियोगनिष्ठत्वं वेदस्याप्रतिहतमित्याशङ्क्याऽऽह। प्रत्यर्थिनीति। पुमर्थे समीहितसाधनत्वे विधिवाक्यतात्पर्यविषये परिपन्थिनि सत्यमर्थे नियोगे तत्तात्पर्यं विवेकिभिरशक्यं प्रतिपत्तुमित्यर्थः॥१०३७॥

लिङादिश्रवणात्पुंसः कार्य यत्मसमीक्ष्यते॥
उपकाराद्यपेक्षं तद्वक्तकर्त्रीः प्रसिध्यति॥१०३८॥

लोके गामानयेत्यादौ लिङादिश्रवणात्पुरुषस्य कार्यधीदर्शनाद्वेदेऽपि लोकानुसारान्नियोगाख्ये कार्ये तात्पर्यमित्याशङ्क्याऽऽह। लिङादीति। विधिपदश्रवणानन्तरं कार्यं ज्ञानं श्रोतुरुत्पद्यमानं वक्तुः श्रोतुर्वा सुखाप्तिं दुःखध्वस्तिं वाऽपेक्ष्योत्पद्यतेऽतो गवानयनादि मम श्रोतुर्वक्तुर्वा समीहितहेतुरिति वाक्यतात्पर्यादवगमे कार्यमिति मानसबुद्धिरुत्पत्तेर्नियोगाख्यकार्यताया लिङाद्यर्थत्वायोगादिष्टसाधनमेव तदर्थो निषेधवाक्ये तदभावे तात्पर्यमिति भावः॥१०३८॥

न चेत्संभाव्यते कर्त्रा पुमर्थः कस्यचिद्विधेः॥
आज्ञोक्तेरेव न तदा कचिज्जगति चेष्टते॥१०३९॥

आज्ञार्थमात्रसिद्ध्यर्थं न कश्चित्स्ववशो नरः॥
दुःखात्मके मनो धत्ते यागादौ चोदनावशात्॥१०४०॥

सर्वत्र लिङाद्यर्थः समीहितहेतुरित्यत्रोपपत्तिमाह। न चेदिति। गामानयेत्यादौ श्रूयमाणलिङादेः श्रोतुर्वक्तुर्वा पुमर्थहेतुत्वं श्रोत्रा नावगम्यते चेदाज्ञामात्राद्व्यवहारभूमौ बुद्धिपूर्वकारिणोऽप्रवृत्तेः प्रकृत्यर्थस्येष्टोपायत्वं ततो ज्ञात्वा पुंस्प्रवृत्तेर्विधिनिषेधयोः समीहितोपायस्यैव लिङाद्यर्थत्वं नञन्वयान्निषेधे तदभावधीरित्यर्थः। राजाज्ञादौ स्वपर-

फलानुसंधान विकलस्यापि परतन्त्रस्याऽऽज्ञार्थसिद्ध्यर्थं प्रवृत्तिदर्शनानेष्टसाधनत्वस्य लिङाद्यर्यत्वनियतिरिति चेत्तत्राऽऽह। आज्ञेति। भृत्यादेरपि बुद्धिपूर्वकारिणो दुःखध्वस्तिफलानुसंधानपूर्वैव तत्र प्रवृत्तिरितीष्टसाधनताया लिङाद्यर्थत्वसिद्धिरित्यर्थः। क्लेशात्मके यागादौ फलानुसंधानं विना विध्यधीनत्वेन बुद्धिपूर्वकारिणोऽप्रवृत्तेरिष्टोपायतैव वेदेऽपि लिङाद्यर्थ इत्याह। यागादाविति॥१०३९॥१०४०॥

पुमर्थमभिसंधाय यागादावथ चेष्टते॥
फलं प्रवर्तकं प्रापन्न नियोगस्तथा सति॥१०४१॥

तत्र फलमनुसंधाय तस्येदं साधनमिति ज्ञात्वा प्रवृत्तावपि किं ते फलतीति पृच्छति। पुमर्थमिति। फलसाधनं यागादीति ज्ञात्वा प्रवृत्त्युपगमे सति प्रवर्तकमिष्टसाधनमित्यस्मन्मतमायातं नियोगस्तथेति त्वन्मतं च हतमिति फलितमाह। फलमिति। तद्धेतुरिति यावत्॥१०४१॥

मन्त्रोक्तेरिवलोडादेः प्रवृत्तिरिति चेन्मतम्॥
प्रायश्चित्ती भवेन्नैव354 तत्पराधीनवृत्तितः॥१०४२॥

प्रवर्तकत्वेऽपि नियोगस्य फलसाधनताज्ञानापेक्षस्य तन्निरपेक्षस्य वा प्रवर्तकत्वमाद्ये प्राप्ता प्राप्तविवेकेन फलोपायताज्ञानस्यैव प्रवर्तकतेति मत्वा द्वितीयमादत्ते। मन्त्रेति। भूताविष्टं पुरुषं दृष्ट्वा तदावेशाद्यर्थं प्राकृतं संस्कृतं वा मन्त्रमागमिकमन्त्रवित्प्रयुङ्क्ते भौतश्च नरस्तदधीनश्चेष्टते तथा लोडादिवाच्यनियोगादिष्टसाधनत्वज्ञानानपेक्षात्पुरुषस्य परवशस्य प्रवृत्तिरिति यद्युपगतमित्यर्थः। तदा भौतस्य कथंचिन्मन्त्रप्रयोगमतिकामतोऽपि दोषाभाववन्नियोगाधीनतया प्रवर्तमानस्य तदतिक्रमेऽप्यदोषात्प्रायश्चित्तानर्हत्वात्तद्विधिवैयर्थ्यमिति दृष्यति। प्रायश्चित्तीति॥१०४२॥

प्रवर्तकत्वं मत्रस्य न प्रवर्त्यवशाद्यथा॥
स्वत एव न यागादेः कार्यसिद्धिस्तथा355 भवेत॥१०४३॥

तदेव स्पष्टयति। प्रवर्तकत्वमिति। यथा प्राकृतादिमन्त्रस्य प्रवर्त्य356शक्तिमनपेक्ष्य स्वशक्त्या प्रवर्तकत्वं न च तत्र तमतिक्रामन्प्रत्यवैति तथाऽत्रापि नियोगवशोऽनुतिष्ठन्दैबयोगात्तमतिलङ्घयन्नपि न प्रायश्चित्ती भवत्यतस्तद्विध्यानर्थक्यमित्यर्थः। नियोगातिक्रमे दोषाभावे दोषान्तरमाह। नेति। नियोगातिक्रमाद्दोषाभावे तद्विषययागादि न कश्चिदनुतिष्ठेत्तथा च नियोगासिद्धिरित्यर्थः॥१०४३॥

कारकं वा क्रिया वा स्याद्यदि वा स्यात्क्रियाफलम्॥
तस्य लौकिकमासिद्धेलौकिकत्वं प्रसज्यते॥१०४४॥

किंच कारकं वा क्रिया वा तत्फलं वा नियोगः सर्वथाऽपि तस्य मानान्तरगम्यत्वेन घटादितुल्यत्वादवैदिकत्वापत्तिरित्याह। कारकं वेति॥१०४४॥

ऐकात्म्यवस्तुनिष्ठे तु यथोक्तन्यायवर्त्मना॥
न कश्चिदपि दोषः स्याद्वचस्यस्मिन्मनागपि॥१०४५॥

ननु नियोगस्य मानान्तरगम्यतया वेदस्यातन्निष्ठत्वे ब्रह्मणोऽपि सिद्धत्वान्मानान्तरगम्यत्वसंभवात्कुतो वेदप्रमाणता तत्राऽऽह। ऐकात्म्येति। तत्त्वमादौ वचसि वस्तुनिष्ठे सति नाऽऽत्मन्येषाऽऽत्मशब्दस्य प्रयोगादित्याद्युक्तन्यायात्तत्र प्रामाण्ये दोषो न कश्चिदपि स्यादतो नियोगब्रह्मणोर्न मनागपि साम्यमित्यर्थः॥१०४५॥

नेति नेत्यादिवाक्येभ्यो योऽर्थोऽनन्यानुभूतिगः॥
लौकिकत्वं कथं तस्य सर्वमेयातिलङ्घिनः॥१०४६॥

यत्तु सिद्धत्वाद्ब्रह्मणो मानान्तरगम्यत्वं तद्दृषितमपि विधान्तरेण दूषयति। नेत्यादिना। निषेधश्रुत्यनुरोधेन निर्विशेषत्वात्प्रज्ञानादिश्रुत्यनुसारेण स्वप्रकाशत्वाच्च शब्दादिविलक्षणस्य वस्तुनो न लौकिकमानगम्यतेत्यर्थः॥१०४६॥

इत्युक्तमभिसंधाय दृष्टादिवचनं जगौ॥
लौकिकत्वमसिद्ध्यर्थं नियोगस्य घटादिवत्॥१०४७॥

ब्रह्मैव वैदिकं नियोगस्तु नेत्युक्तेऽर्थे भाष्यमवतारयति। इत्युक्तमिति। क्रियाकारकफलकर्तव्यत्वानामन्यतमस्मिन्नियोगे मानान्तर योग्यत्वान्नाऽऽगमोऽनुसंधेयो व्युत्पत्तिकालाधिगत-द्विविधफलोपायत्वाभिमतनियोगावगमस्य मानान्तरेणापि संभवात्तन्न तस्य वैदिकतेत्युक्तम्। हृदि कृत्वा घटवत्तस्य लौकिकत्वसिद्ध्यर्थं दृष्टविषयेत्यादि भाष्यमित्यर्थः॥१०४७॥

आस्तां वेदान्तमानत्वं त्यक्तं तत्कामतस्तव॥
वस्तुन्युक्तेर्न चेन्मात्वं कर्मकाण्डेऽपि तद्भवेत्॥१०४८॥

न चासतीत्यादिभाष्यस्य सर्वथाऽपीत्यस्मात्प्राक्तनस्य तात्पर्यमाह। आस्तामिति। तत्त्वमादेर्वस्तुनि मानत्वं तिष्ठतु तदस्माभिस्त्वदिच्छातस्त्यक्तं, तथाऽपि सिद्धे वेदमानत्वं नेष्टं चेत्कर्मकाण्डेऽपि तदमानत्वं स्वार्थे स्याद्देहेतरात्मादिधियं विना तदप्रामाण्यात्तथा च तन्मानत्वमिच्छता सिद्धे भविष्यद्देहयोगिन्यात्मनि स्वर्गादौ च तत्प्रामाण्योपगमात्कार्ये वेदप्रामाण्यनियमाद्वेदान्तानामपि स्वार्थे प्रामाण्यसिद्धिरित्यर्थः॥१०४८॥

भविष्यद्देहसंबन्धी वाक्यादात्मा न चेन्मितः॥
मानान्तराच्च कः कुर्याददृष्टार्थाः क्रियाः सुधीः॥१०४९॥

ननु भविष्यद्देहसंबन्ध्यात्मज्ञानं विनाऽपि विधेरदृष्टार्थक्रियासु प्रवृत्तेर्न तादृगात्मा शास्त्राद्गम्यत इत्याशङ्क्य न चेत्यादिभाष्यं व्याचष्टे। भविष्यदिति। देहान्तरसंव-

न्ध्यात्मा शास्त्रान्मानान्तराच्चानभ्युपगमाद्वक्ष्यमाणन्यायाच्चाप्रमितश्चेत्तदा भोक्तुरज्ञानान्न बुद्धिपूर्वकारी यागाद्यनुतिष्ठेल्लोकाय तस्य तादृगात्मास्तित्वमजानतो जन्मान्तरेष्टानिष्टाप्तिहानीच्छया वैदिकक्रियास्वप्रवृत्तेरतस्ता-दृगात्मास्तित्वादौ कर्मकाण्डं भाष्योक्तं शास्त्रं च प्रमाणं, तत्प्रामाण्यं चौत्पत्तिकसूत्रे हेत्वविशेषादुपगतमिति भावः॥१०४९॥

नापि सांख्यप्रमासिद्धमात्मानमवगच्छतः॥
देहाद्यनभिसंबन्धात्प्रवृत्तिः स्यात्क्रियास्विह॥१०५०॥

सांख्यास्त्वन्तःकरणे चित्प्रतिबिम्बस्तथाविधबिम्बपुरःसरः, प्रतिबिम्बत्वात्संमतवदित्यनुमानादुक्तात्मानं साधयन्तस्तस्मिन्वेदप्रामाण्यं न मृष्यन्ते तान्प्रत्याह। नापीति। सांख्यानुमानेनाऽऽत्मानं जानतोऽपि न क्रियासु प्रवृत्तिरसङ्गोदासीनस्य तदात्मनो देहाद्यसंबन्धात्तदभावे चाप्रवृत्तेरन्यथा मुक्तस्यापि प्रसङ्गादित्यर्थः॥१०५०॥

कर्मकाण्डेऽधिकार्यस्मिन्यादृक्संभाव्यतेऽञ्जसा॥
तादृक्संप्रतिपत्त्यर्थं न चासतीति भण्यते॥१०५१॥

कर्माधिकारस्तर्हि कस्येत्याशङ्क्य देहाद्यतिरिक्तस्य तेनाध्यासेन संबद्धस्येत्यत्र भाष्यमवतारयति। कर्मेति॥१०५१॥

कर्मभ्यः फलमिच्छद्भिरदृष्टं दृष्टमेव वा॥
देहावस्थान्तरावेशे प्रमाणं वाच्यमात्मनः॥१०५२॥

आत्मनो देहाद्यतिरिक्तस्य देहान्तरयोगिनो मानं विना स्वतः सिद्धेर्न तत्र मानमस्वेप्यं तत्कथमुक्तात्मनि शास्त्रमानतेत्याशङ्क्याऽऽह। कर्मभ्य इति। आत्मनः स्वतःसिद्धस्यापि वर्तमानदेहादि हित्वा देहान्तरादियोगे मानं वाच्यमन्यथा तदसिद्धेर्न च तमन्तरेण वैदिककर्मणां कर्ता भोक्ता चास्ति, न च तज्ज्ञानं विना चतुर्विधचोदनावशादेव प्रवृत्तिः शास्त्रीये तु व्यवहारे यद्यपीत्याद्यनुज्ञाभाप्यविरोधादिति भावः॥१०५२॥

कथं च तस्य कर्तृत्वं व्यापित्वान्निष्क्रियत्वतः॥
न चाकर्तुः फलं गौण्या त्या चेत्सुतरां न तत्॥१०५३॥

वैशेषिकादयस्तु वैदिककर्मणां कर्ताऽऽत्मा वेदादृतेऽकृताभ्यागमप्रसङ्गादितर्कवशादेव सिध्यतीति मन्यन्ते तान्प्रत्याह। कथं चेति। कारकाप्रयोज्यस्य तत्प्रयोक्तृत्वं कर्तृत्वं तदात्मनो नभोवद्विभुत्वादकियस्यायुक्तमित्यर्थः। मा भूदात्मा कर्ता तथाऽपि भोक्तेति सांख्यास्तान्प्रत्याह। न चेति। शास्त्रफलं प्रयोक्तरीति न्यायादित्यर्थः। किं चाऽऽत्मनो भोक्तृत्वं गौणं मुख्यं वा तत्राऽऽद्यमनुवदति। गौण्येति। प्रधानप्रवृत्तेरात्मार्थत्वादुपचारात्सोऽपि भोक्ता चेदित्यर्थः। तर्हि मुख्यभोक्तृत्वस्याभावादात्मनो न तदुपचरितमपि

युक्तं न च तदात्मनो वास्तवं तस्यासङ्गोदासीनत्वादवास्तवं तदिष्टमेवेत्याह। सुतरामिति॥१०६३॥

मुख्यकर्तृत्वपक्षेऽपि ह्यनिर्मोक्षः प्रसज्यते॥
मानेन नाश्यतेऽज्ञानं ज्ञापकं हि न कारकम्॥१०५४॥

मुख्यं चेद्भोक्तृत्वं कर्तृत्वमपि तथा स्यात्ततश्चानिर्मोक्ष इति कल्पान्तरं प्रत्याह। मुख्येति। वास्तवमपि कर्तृत्वादि माननिरस्यमित्याशङ्क्याऽऽह। मानेनेति। तस्य वस्त्वनिवर्तकत्वे युक्तिमाह। ज्ञापकं हीति॥१०५४॥

देहान्तराभिसंबन्धो भावित्वान्नाक्षगोचरः॥
लिङ्गसादृश्यविरहान्नानुमा नोपमा तथा॥१०५५॥

सांख्यादिमतेन देहान्तरयोग्यात्माऽकर्ता भोक्ता चाज्ञातोऽपि विना वेदं मानान्तरादेव सेत्स्यतीति चेत्तत्किं प्रत्यक्षमनुमानं वोपमानं वाऽर्थापत्तिर्वाऽभावो वा नाऽऽद्य इत्याह। देहान्तरेति। तस्य वर्तमानमात्रविषयत्वादित्यर्थः। द्वितीयतृतीयौ निरस्यति। लिङ्गेति। अविनाभूतलिङ्गोत्थानुमानस्य तदभावादनुत्थानं सादृश्यकरणकोपमानस्य च तदभावादप्रवृत्तिरित्यर्थः॥१०५५॥

शब्दादात्मनि संसिद्धे पूर्वोक्तन्यायतो न च॥
श्रुतार्थापत्तिरप्यत्र नाभावो मानभावतः॥१०५६॥

अर्थापत्तिरपि न तावद्दृष्टार्थापत्तिरत्र संभविनी प्रकृतमात्मानं विनाऽनुपपन्नदृष्टाभावान्नापि श्रुतार्थापत्तिर्वस्तुन्युक्तेर्न चेदित्यादिन्यायेन योनिमन्ये प्रपद्यन्ते शरीरत्वायेत्यादिभाष्योक्तशास्त्रादेवोक्तात्मनि सिद्धे सत्यनुपपन्नवाक्यैकदेशस्याप्रतिपन्नत्वादित्याह। शब्दादिति। उक्तात्मनि शब्दस्य भावादभावोऽपि मानानुदयाख्यो न तस्मिन्भावे मानमित्याह। नेति॥१०५६॥

न चाहंप्रत्ययात्सिद्धिरात्मनः स्यात्कदाचन॥
बोधानुभवसंवित्तिवित्तयो ह्यात्मवाचिनः॥१०५७॥

उक्तात्मन्यप्रत्ययो मानमहमित्यत्र देहाकारास्फुरणादतिरिक्तात्मास्तित्वस्य तेनैव स्फूर्त्यपपत्तेरित्याशङ्क्याऽऽह। न चेति कदाचनेत्यवस्थात्रयोक्तिः। आत्मनोऽहंप्रत्ययवेद्यत्वाभावे हेतुमाह। बोधेति। बोधादिशब्दानां स्वसंवेदनगोचराणां विद्वयव- हारेष्वात्मवाचित्वप्रसिद्धेः स्वप्रकाशत्वादात्मनो नाहंधीग्राह्यतेति भावः॥१०५७॥

यस्यानुभवसिद्ध्यैव सिद्धिः स्याद्धटसिद्धिवत्॥
ततोऽहंप्रत्ययात्सिद्धिमीक्षतेऽनुभवः कथम्॥१०५८॥

किंचाहमिति धीर्नाऽऽत्मग्राहिका तद्भाह्यत्वाद्धटधीवादित्याह। यस्येति। यथा घटधीर्वृत्तिरूपा जडत्वेन स्वतोऽसिद्धेरनुभवादेव सिध्यति तथा यस्याहंप्रत्ययस्य

जडत्वाविशेषादनुभवरूपस्फुरणादेव स्फूर्तिर्नासावनुभवस्ततः स्वसिद्धिमपेक्षते, तस्मादनुभवैकतानस्याऽऽत्मनो नाहंप्रत्ययाधीना सिद्धिरित्यर्थः॥१०५८॥

मानादनुभवः सिद्धो जडः स्याद्धटवन्न चेत्॥
नैरपेक्ष्यं चिदात्मत्वे, स्याच्चान्योन्यसमाश्रयः॥१०५९॥

अहंज्ञानस्याऽऽत्मग्राहकत्वे घटवदात्मनो जडतेति विपक्षे दोषमाह। मानादिति। मेयस्यापि जडत्वाभावं शङ्कते। न चेदिति। तर्हि बलादेव चिदात्मत्वे प्राप्ते नाहंधीमाह्यता संविद्रूपत्वात्तद्वदित्यनुमानादित्याह। नैरपेक्ष्यमिति। तस्याहंग्राह्यत्वे बाधकान्तरमाह। स्याच्चेति॥१०५९॥

आत्मनोऽहंधियः सिद्धिरात्मसिद्धिरहंमतेः॥
अन्योन्याश्रयतैवं स्यादहंबुद्ध्यात्मनोर्ध्रुवम्॥१०६०॥

आत्मनश्चक्षुरादिवदज्ञातस्य न ज्ञानहेतुत्वं सुप्तस्य तददर्शनादहंधी कर्तृत्वे चोपकरणान्तरानपेक्षत्वात्सदा तत्करणापत्तिः प्रमितस्याऽऽत्मनो ज्ञानकर्तृत्वे सत्यहंप्रत्ययेनाऽऽत्मप्रमितिस्तेन च प्रमितेनाहंप्रत्ययोत्पत्तिरित्यन्योन्याश्रयतां विशदयति। आत्मन इति॥१०६०॥

अधीरात्मनः कार्यं कारणेनाऽऽप्यते सदा॥
तया तस्य कथं व्याप्तिरव्याप्तौ मेयता कथम्॥१०६१॥

किं चाहंप्रत्ययो नाऽऽत्मग्राहकस्तत्कार्यत्वाद्रागादिवदित्याह। अहंधीरिति। किं चाऽऽत्मा नाहंधीग्राह्यस्तत्प्रकाशकत्वाद्यो यत्प्रकाशको न स तत्प्रकाश्यो यथा घटप्रकाशको दीपो घटाकाश्य इत्याह। कारणेनेति। अहंधिया मा भूदात्मनो व्याप्तिस्तथाऽपि तन्मेयता स्यादित्याशङ्क्याऽऽह। अव्याप्ताविति। नहि तव्याप्तिमन्तरेण तन्मेयत्वं दृष्टचरमित्यर्थः॥१०६१॥

क्रियाकाले गुणीभावात्क्रियासिद्धावसंभवात्॥
कर्तुः प्रमेयता न स्यादहंबुद्ध्या कथंचन॥१०६२॥

किं चाऽऽत्ममात्रस्याहंधीग्राह्यत्वं कर्तृत्वेन क्रियामारूढस्य वा नाऽऽद्यो मोक्षादावपि प्रसङ्गात्तत्र तदभावान्नेति चेत्तर्हि तत्र यथा प्रथा तथाऽन्यत्रापि स्यान्न च तत्र तत्प्रयैव नास्तीति वाच्यं तद्दृष्टेरविपरिलोपश्रवणान्न द्वितीय इत्याह। क्रियेति। अस्यार्थः कर्तुरात्मनोऽहंधीरूपक्रियाकाले वा तत्प्राक्काले वा तदुत्तरकाले वा तत्कर्मत्वं। नाऽऽद्यः क्रियां प्रति कर्तुर्गुणभूतत्वात्क्रियासिद्धौ सत्यां तां प्रति कर्मत्वायोगात्कर्मणः प्रधानत्वादेकस्यैकामेव क्रियां प्रति युगपद्गुणप्रधानत्वासंभवान्नेतरौ क्रियासिद्धिप्रागुत्तरकालयोस्तदभावात्कर्तुरसंभवात्तस्मात्तस्याहंबुद्ध्या न मेयतेति कर्तुरहंतीकर्मत्वे तस्याः स्वकर्मत्वमपि स्यात्तद्विशिष्टस्यैव कर्तृत्वादिति मत्वा कथंननेत्युक्तम्॥१०६२ ॥

संविद्रूपे प्रमेये च संविदन्या फलं भवेत्॥
न च संविद्वयाभासो नानुमेयं फलं क्वचित्॥१०६३॥

किंचाहंधीग्राह्यत्वमसंविदात्मनः संविदात्मनो वा तत्राऽऽद्यमङ्गीकृत्य द्वितीयं दूषयति। संविदिति। अस्तु मेयभूत-प्रत्यगात्मसंविदोऽन्या संवित्फलं का हानिरत आह। न चेति। संविदात्मनि संविदन्तरस्याननुभवेऽपि व्यवहारलिङ्गेन तदनुमेयमित्याशक्यानोपाधिके स्वप्रकाशे तस्मिन्नानुमानमित्याह। नेति। फलस्य स्वतःस्फुरणात्फलान्तराभावादात्मन्यनात्मनि वा नानुमेयं तदा व्यवहारस्त्वात्मनः संविद्रूपत्वादपि सिध्यतीत्यर्थः॥१०६३॥

घटाद्याकारसंविद्वच्छुद्धायामपि संविदि॥
संविद्विशिष्टा संवित्स्यान्न चासावात्मनीक्ष्यते॥१०६४॥

आद्यपादत्रयार्थं दृष्टान्तेन स्पष्टयति। घटादीति। संविदात्मनि संविदाकारसंवित्प्रमङ्गस्येष्टत्वमाशङ्क्याऽऽह। न चेति॥१०६४॥

प्रमातरि च मेये स्यात्फलं कस्येति भण्यताम्॥
न मातुस्तस्य मेयत्वान्नापि मेये फलं कचित्॥१०६५॥

आत्मनि संविदन्तराभावादमेयत्वमुक्त्वा फलाभावप्रसङ्गाच्चैवमिति विवक्षुराक्षिपति।प्रमातरीति। मातुरेव फलित्वात्कथं तदभावस्तत्राऽऽह। न मातुरिति। मेयत्वेऽपि फलित्वं किं न स्यान्मेये घटादौ तस्येष्टत्वादित्याशङ्क्याऽऽह। नापीति। फलं प्रकाशोऽप्रकाशो वाऽऽद्ये नाप्रकाशस्य प्रकाशाश्रयत्वम्। द्वितीये तेन घटादौ नाधिकमाचरितमिति जगदान्ध्यमिति भावः॥१०६५॥

जडत्वात्तत्र मेयस्य फलं मातरि चेन्मतम्॥
मेयतो जडताऽत्रापि संविच्चेन्नप्रमाणजा॥१०६६॥

घटादेर्मेयस्य जाड्यात्तत्र फलाभावो युक्तो मातरि मेयेऽपि तदभावात्फलमिति शङ्कते। जडत्वादिति। मातर्यपि मेयत्वे तस्मादेव घटवज्जाड्यात्तद्वदेव न फलितेति दूषयति। मेयत इति। आत्मनो घटादिवैलक्षण्यार्थं संवित्त्वेष्टेर्न जडतेति शङ्कते। संविच्चेदिति। तर्हि नाऽऽत्मनि मानजा संविदन्या कल्प्या संविद्वयादृष्टेरुक्तत्वादित्याह। नेति॥१०६६॥

धर्मत्वेनाप्यहंवद्धेर्न भेदो धर्मिणाऽऽत्मना॥
रूपं द्रव्यात्मनो नान्यद्द्रसादेस्तद्वि357भिद्यते॥१०६७॥

किं चाहंधियोऽनात्मधर्मत्वमात्मधर्मत्वं वा नाऽऽद्योऽनभ्युपगमाद्भूतचैतन्यवादापाताच्च। द्वितीये धर्मिणोऽभेदे न धर्मधर्मित्वं न चैकत्र तत्त्वमिति मन्वानो भेदपक्षे दोषमाह।

धर्मत्वेनेति। भेदे गवाश्ववद्धर्मधर्मित्वासिद्धिरिति भावः। अहंबद्धेर्धर्मत्वेनाङ्गीकारेऽपि तस्या धर्मिणाऽऽत्मना भेदो नेति योजना।धर्मस्य धर्मिणो भेदाभावे दृष्टान्तमाह। रूपमिति। अन्यथा न रूपरूपितेत्यर्थः। रूपं भिद्यमानं भातीति चेत्सत्यं धर्मान्तराद्धर्म्यन्तराचेत्याह। रसादेरिति। एवमहंज्ञानस्याऽऽत्मधर्मत्वेनेष्टस्य भेदेऽभेदे च। तदग्राहित्वमुभेदे विषयविषयित्वायोगाद्भेदे च संबन्धासिद्धेरिति भावः॥१०६७॥

द्रव्यादि चाऽऽत्मनो रूपं प्रमेयं यदुदीरितम्॥
घटवत्तदहं बुद्धेः प्रत्यग्वृत्तेर्न गोचरः॥१०६८॥

आत्मनो द्रव्यबोधरूपत्वाद्द्रव्यरूपेण मेयत्वं बोधरूपेण मातृत्वमित्येकस्यैव ग्राह्यग्राहकात्मकस्याहंधिया सिद्धिरिति केचित्तान्प्रत्याह। द्रव्यादीति। द्रव्यं बोधश्वाऽऽत्मनो रूपं तत्र यद्द्रव्यं मेयमुक्तं तदहं बुद्धेर्न गोचरः प्रतीच्याश्रये वृत्तिराश्रितत्वेन तस्या यतोऽभीष्टाऽतो न सा प्रत्यग्विषया। एतदात्मनिष्ठमहमितिज्ञानं नैतदात्मविषयमेतदात्मनि-ष्ठसाक्षात्कारत्वात्तादृग्घटसाक्षात्कारवदन्यथा घटवदनात्मतेति भावः॥१०६८॥

अस्मत्प्रत्ययसंभिन्नं प्रत्यक्कर्तरि वेदनम्॥
ज्ञानस्य यदुपन्यस्तं विशेषस्तत्र नेक्ष्यते358॥१०६९॥

यत्तु ग्राह्यग्राहकस्याऽऽत्मनोऽहंधीग्राह्यत्वं तत्राऽऽह। अस्मदिति। अस्यार्थः—एकस्य ग्राह्यग्राहकत्वविरोधेन क्षणिक-ज्ञानस्याऽऽत्मत्वं त्वया निरस्यते स दोषस्तेऽपि तुल्यो यद्धि प्रतीचि ज्ञानस्य कर्तर्यहंरूपितं ज्ञानं मानत्वेन त्वयोक्तं तत्र बौद्धान्न ते विशेष एकस्य ग्राह्यग्राहकत्वायोगस्य तुल्यत्वादतो बौद्धात्ते विशेषो वाञ्छितश्चेदात्मा नाहंधीगम्य इत्येष्टव्यमिति॥१०६९॥

ज्ञानबोधेन नैवाऽऽत्मा मितो नाप्यात्मसंविदा॥
ज्ञानं न च द्वयं भेदादभेदेऽनुभवः स्वतः॥१०७०॥

इतश्च द्विरूपस्याऽऽत्मनो नाहंधीवेद्यतेत्याह। ज्ञानेति। ज्ञानं बोधांशस्तस्य बोधः स्फुरणं तेनैवाऽऽत्मा द्रव्यांशो न स्फुरितस्तयो359रंशयोर्मिथो भेदाद्बोधांशस्फुरणस्यैवांशान्तरस्फुरणत्वे द्रव्यस्य बोधादभेदः स्यान्नापि द्रव्यांशस्याऽऽत्मनः स्फुरणेन बोधांशस्य स्फुरणं, तस्य द्रव्यादभेदापत्तेरतः स्फुरणभेदान्मानभेदे द्विरूपात्मनो नैकयाऽहंधिया सिद्धिरित्यर्थः। द्रव्यबोधाख्यमेकमेवाऽऽत्मरूपं तत्राहंधीकृतमेकं स्फुरणमित्यङ्गीकारे नानुपपत्तिरित्याशङ्क्याऽऽह। न चेति। न हि द्रव्यं बोधश्चेत्युभयमात्मरूपं, मिथो व्यावृत्तयोरात्मत्वे तस्यापि भेदापत्तेरित्यर्थः। ऐकरूप्येऽप्यात्मनो नाहंबुद्धिं विना सिद्धिस्तत्कुतो बौद्धाद्विशेषस्तवापीत्याशङ्क्याऽऽह। अभेद इति॥१०७०॥

किं प्रमाणमहंरूपमुताऽऽत्मैवेति कथ्यताम्॥
प्रत्यक्षत्वान्न तन्मानं नाऽऽत्मास्वार्थजडत्वतः॥१०७१॥

प्रकारान्तरेणाहंधीगम्यत्वमात्मनो निराकर्तुं विकल्पयति। किमिति। न तावत्तदहंरूपं मानं तस्य रागादिवत्प्रत्यक्षत्वान्मानस्य चानुमेयत्वं वदता तदनभ्युपगमादित्याद्यं प्रत्याह। प्रत्यक्षत्वादिति। नाप्यहंरूपमात्मैव पारतन्त्र्यापारतन्त्र्याभ्यां जाड्याजायाभ्यां च भेदादिति द्वितीयं निराह। नाऽऽत्मेति॥१०७१॥

न चाप्यात्मन्यविज्ञातेऽहंबुद्धेः सिद्धता तव॥
येनाऽऽत्मा स्यादहंबुद्धेरनुमेया हि सा स्थिता॥१०७२॥

किं चाहंधियो मानत्वेऽप्युभयांशस्याऽऽत्मनो न तन्मेयता तस्मिन्नदृष्टे नाहंधीहष्टिस्तददृष्टौ नाऽऽत्मधीरिति ज्ञप्तावन्योन्याश्रयत्वापत्तेरित्याह। चेति। अक्षादिवदज्ञातैवाहंधीरात्मानं साधयतीति चेनेत्याह। येनेति। येनाज्ञाताहंबुद्धेरात्मसाधकत्वेनाऽऽत्मा तद्विषयः स्यान्न तथा बुद्धेरबुद्धायाः साधकत्वं प्रकाशो बुद्धिरिति न्यायाद्दीपवद्भाने सत्येव तस्याः साधकत्वसंभवादिति भावः। तथाऽप्यात्मनः सत्तामात्रेण बुद्धिसाधकत्वान्नान्योन्याश्रयतेत्याशङ्क्याऽऽह। अनुमेयेति। सा हि बुद्धिरनुमेया त्वयाऽऽस्थिता नानाकारामेव बुद्धिमनुमिमीमह इति स्थितेरहंबुद्ध्यनुमाने चाऽऽत्मसंविल्लिङ्गं ततो लिङ्गज्ञाने तद्विशिष्टात्मनोऽपि तद्ध्रौव्यादात्मनि ज्ञातेऽहंधीस्ततश्चाऽऽत्मधीरिति व्यक्तैवान्योन्याश्रयतेत्यर्थः। आत्मनोऽहंधियः सिद्धिरित्यत्राऽऽत्मप्रमितेरहंप्रत्ययोत्पत्तेश्चान्योन्याश्रयत्वमुक्तमिह तु द्वयोरपि प्रतीतावेव तदुच्यत इति विशेषः॥१०७२॥

निरंशस्य न चाप्यंशकल्पनाऽप्युपपद्यते॥
स्वात्मतत्रे च विषये मानबोधः सदा भवेत्॥१०७३॥

आत्मनोंऽशद्वयमाश्रित्याहंधी गम्यत्वायोगमुक्त्वा तदेवांशद्वयं न युक्तमित्याह। निरंशस्येति। अपिद्वयाद्दृष्टत्वकल्प्यत्वयोरनुपपत्तिः सूच्यते। न तावदात्मनोंऽशद्वयं दृष्टं नापि कल्पयितुं शक्यं कल्पकाभावान्निष्कलादिश्रुत्या च निरंशत्ववित्तेरित्यर्थः। किं चाऽऽत्मैवाहंधियो हेतुरन्योऽपि वाऽऽद्यं प्रत्याह। स्वात्मेति। आत्ममात्रस्याहंधहेतुत्वे सामग्र्याः सदा भावात्कार्यस्यापि मानाख्यबोधस्याहंप्रत्ययस्य सदा प्रसक्तेः स्वापाद्यसिद्धिरित्यर्थः। कारणान्तरमपि सदाऽस्ति मनः संयोगादीत्युक्तदोषतादवस्थ्यं . चकारार्थः॥१०७३॥

अज्ञातत्वं विना मानं नाहंप्रत्यय आत्मनः॥
अज्ञातत्वमतो वाच्यमात्मनोऽत्र घटादिवत्॥१०७४॥

मातुरात्मत्वाङ्गीकारेणाहंधीग्राह्यत्वं तस्य निरस्तमस्तु वा मातुरहंभीगम्यत्वं नासा-

वात्मा, तन्नाऽऽत्मनस्तद्ब्राह्यतेत्याह। अज्ञातत्वमिति। आत्मनो मातुरज्ञातत्वं विना तत्राहंधीन मानमतो मातरि मानप्रवृत्त्यर्थमज्ञातत्वं वाच्यं तच्च स्वतः परतो वा सिध्यति, नाऽऽद्योऽनभ्युपगमाद्दितीयेऽपि मानाद्वा मातुर्वा नित्यानुभवाद्वा तत्सिद्धिर्नाऽऽथोऽनवस्थानान्मानादनिवृत्त्यापत्तेश्चन द्वितीयो घटवन्मेयस्य घटवन्मेयस्य मातुरसाधकत्वादित्यर्थः॥१०७४॥

तस्याप्यनुभवात्सिद्धिर्यद्युच्येत घटादिवत्॥
सिद्ध आत्मा पृथक्यातुन चेन्माता न सिध्यति॥१०७५॥

तृतीयमालम्बते। तस्येति। ज्ञातत्वस्येवेतिदृष्टान्तार्थोऽपिशब्दः। तर्हि मातुः सकाशाद्धटादेरिवाऽऽत्मनस्तदज्ञातत्वादिसाधकस्यान्यत्वान्मातुरहंधीवेद्यत्वेऽपि नाऽऽत्मनस्तद्वेद्यतेत्याह। घटादिवदिति। मातुरज्ञातत्वादिसाधकसाक्ष्यनभ्युपगमे तत्र मानाप्रवृत्तेर्नासौ सिध्येदिति विपक्षे दोषमाह। नो चेदिति॥१०७५॥

प्रमाणोऽप्युक्तो दूरादेव निवर्तितः॥
अन्यत्रापि हि मानानां नैव संप्लव इष्यते॥१०७६॥

वार्तिककारमतेऽहंप्रत्ययगम्यत्वमात्मनो निरस्तं शब्दादिधीविषयत्वेन शब्दादि, स्वप्रकाशत्वेन स्वरूपमाश्रयत्वेनाऽऽत्मानं च साधयतीति सर्वार्थधीरात्मनि मानमिति गुरुमतमाशङ्क्याऽऽह।प्रमाणेति। योऽपि मानानां शब्दादिज्ञानानामेकत्राऽऽत्मन्यावेशो गुरुमतानुसारिभिरुक्तः सोऽपि दूरतो वारितोऽहंज्ञानस्याऽऽत्मनि संभावितमानत्वस्याप्युक्तनीत्या तन्मानत्वे प्रत्युक्ते शब्दादिधियां तन्मानत्वसंभावनामात्रस्यैवाभावात्तासु चाऽऽत्मनो भानेऽर्थवत्तत्कर्मत्वं तत्र भासमानत्वस्यैव तल्लक्षणत्वादित्यर्थः। आत्मन्यध्यक्षानुमानश्रुतीनां मानत्वान्नास्य वेदैकवेद्यतेति तार्किकास्तान्प्रत्याहअन्यत्रेतितार्किकमतेऽपि नाऽऽत्मनि मानानां संभूय समावेशोऽभ्युपगन्तुं शक्यते योऽहंधियोऽप्युक्तन्यायान्न विषयः स कथमनुमानादेर्विषयः स्यान्न शब्दादिष्वपि संप्लवो दूरादेव प्रतिदेहं भिन्नेष्वात्मसु शब्दादिहीनत्वात्ततोऽपि दवीयान्ब्रह्मात्मनीत्यर्थः॥१०७६॥

अज्ञातावगमे यद्वत्प्रमातर्यर्पितं फलम्॥
नये पूर्वमानेन तद्वन्मानान्तरैरपि॥१०७७॥

कथं शब्दादिषु संप्लवासत्त्वं स किं पूर्वोत्तरमानानामेकस्मिन्नर्थे फलहेतुत्वेनाऽऽवेशाद्वा तन्मात्राद्वा नाऽऽद्य इत्याह। अज्ञातेति। अज्ञातस्य ज्ञाने क्रियमाणे पूर्वप्रमाणेन मातरि फलमर्पितं न मेये भूतचैतन्यवादानभ्युपगमादेवमुत्तरैरपि मानैर्मात्राश्रितमेव फलमर्प्यते पूर्वस्मात्तेषामविशेषादित्यर्थः॥१०७७॥

अतोऽधिगतावेशात्सर्वेषां संप्लवः कुतः॥
मान्तरैरवबुद्धेऽपि ज्ञातेऽप्यज्ञाततोऽन्यतः॥१०७८॥

मानानां मातृस्थफलहेतुत्वेऽपि किं ते जातं तदाह। अत इति। मेये मानानां फलानर्थकत्वात्पूर्ववदुत्तरेषामपि शुद्धे वस्तुन्यज्ञाते प्रवेशादेकस्मिन्मेये फलहेतुत्वेनाप्रवेशान्न संप्लवशङ्केत्यर्थः। कल्पान्तरं निराह। मान्तरैरिति। आद्यमानदृष्टेऽर्थे मानान्तरैर्ज्ञातेऽपि न संप्लवः शक्यशङ्कोऽज्ञातात्पूर्वमानार्थाज्ज्ञातत्वविशिष्टस्योत्तरमानार्थस्या-न्यत्वात्तदुत्तरेष्वपि मानेषूक्तविषयभेदस्य सुवचत्वात्तन्न द्वितीयेऽपि संप्लवोऽस्तीत्यर्थः॥१०७८॥

अथाप्यवगम मेये तथाऽपि स्यान संप्लवः॥
पूर्वोऽधिगते वृत्तः प्रत्ययोऽधिगते परः॥१०७९॥

फलस्य मातृस्थत्वेन मेये मानानामसंप्लवमुक्त्वा मेयस्थत्वेऽपि न संप्लवस्तेषामित्याह। अथापीति। अपिशब्दाभ्यामवगमस्य प्रकाशात्मनोऽर्थे संभवोऽभ्युपगमवादत्वं चास्य द्योत्यते कथमत्र संप्लवराहित्यं तत्राऽऽह। पूर्व इति॥१०७९॥

पूर्वेण निश्चिते चेत्स्यानोत्तरस्य प्रमाणता॥
तथा संदेह एकस्मादन्यस्मद्धि360 विनिश्चयः॥१०८०॥

विशेषणभेदेऽपि विशेष्याभेदाद्दर्वारा संकृतिरिति चेत्तथाऽपि पूर्वमाननिश्चितेऽर्थे मानान्तरस्य मानत्वममानत्वं वाऽऽद्ये न संप्लवोऽर्थाकारभेदादेव तन्निरासादिति मत्वा द्वितीयमनुवदति। पूर्वेणेति। तथा सत्येकस्मादुत्तरमानतः संदेहशब्दितोऽनुवादः स्यादन्यस्माच्चार्थ्यमानादर्थे निश्चयोऽतो न संप्लव इत्याह। तथेति॥१०८०॥

निःसामान्यविशेषेषु नातः संप्लव इष्यते॥
यथाऽन्यत्र तथेहापि वेदान्तेष्वभ्युपेयताम्॥१०८१॥

शब्दादिष्वसंप्लवेऽपि प्रतिदेहं भिन्नेष्वात्मसु स स्यादित्याशङ्क्याऽऽह। निःसामान्येति। यतो दर्शितविधया सामान्यविशेषवत्सु संभावितसंप्लवेष्वपि शब्दादिषु स निरस्तोऽतो निर्गतसामान्यविशेषेषु चिन्मात्रेष्वात्मखसौ दूरोत्सारितस्तेषु स्वप्रकाशचि- मूर्तिष्वेकस्यापि मानस्याप्रवेशा दौपनिषदत्वस्य चानन्तरमेव वेदनान्न चैवमात्मभेदस्तस्य प्रातिभासिकत्वेऽप्यवस्तुत्वादित्यर्थः। तथाऽपि ब्रह्मात्मनि संप्लवादौपनिषदत्वहानिरित्याशङ्क्य संप्लवनिरासस्य प्रकृतोपयोगमाह। यथेति। शब्दादिष्वात्मसु वाऽसंप्लवाद्वेदान्तेषु प्रतिपाद्यब्रह्मात्मन्यपि तदभावोऽभ्युपेयस्तत्र मानान्तरवातीमात्रस्याप्यभावात्तत्प्रवेशस्य च तस्मिन्नपास्तत्वादतो वेदान्तानामेव तत्र मानतेति तदौपनिषदत्वसिद्धिरित्यर्थः॥१०८१॥

यतो मानानि सिध्यन्ति जाग्रदादित्रयं तथा॥
भावाभावविभागश्च स ब्रह्मास्मीति बोध्यते॥१०८२॥

ननु ब्रह्मात्मनि मानान्तरागोचरे कुतो वेदान्तमानता तत्पृष्ठेन तु मानानीत्यादौ प्रत्यक्षादीनां नित्यानुभवब्रह्मात्मविषयत्वस्योक्तत्वादित्याशङ्क्योपाधिद्वारा मानान्तराणांतद्विषयत्वस्य तत्रोक्तत्वात्केवलं ब्रह्म वेदान्तैकवेद्यमिति मत्वाऽऽह। यत इति। जाड्यादध्यक्षादीनां स्वतोऽसिद्धेर्यद्वशात्तानि स्फुरन्ति नासौ तेषां विषयो देस्तदभासित्वादित्यर्थः। मानान्तरागोचरत्वेऽपि प्रतीचो न ब्रह्मत्वम्ह्यैक्यविरोधादित्याशङ्क्य तस्यावस्थासाक्षित्वान्न तद्वत्तेत्याह। जाग्रदादीति।सिध्यन्तीत्यन्वयार्थं तथेत्युक्तम्। तथाऽपि सद्वयस्य नाद्वयब्रह्मैक्यमित्याशङ्क्य द्वैतसाधकस्य वास्तवाद्वयत्वमविरुद्धमित्याह। भावेति। पूर्ववदन्वयार्थश्चकारः।शुद्धमनूद्य स ब्रह्मेति तदर्थत्वं तस्य बोध्यते वाक्येनाहं ब्रह्मास्मीत्यादिनेति वाक्यार्थमाह। स ब्रह्मेति। १०८२॥

यतोऽसिद्धानि सिध्यन्ति भावाभावौ यदाश्रयौ॥
योऽनन्यार्थोयदर्थं च सर्वं, योऽनन्यदृक्सदा॥१०८३॥

त्वमर्थोक्तिद्वारा वाक्यार्थमुक्त्वा तदर्थोक्तिद्वाराऽपि तं कथयति। यत इति। स्वतः- सत्तास्फूर्तिहीनानि जडानि यत्प्रसादात्ते लभन्ते तानि च लब्धात्मकानि भावाभावरूपाणि यत्र तिष्ठन्ति, यश्च सुखलक्षणाक्रान्ततया सुखत्वेन शास्त्रे कथ्यते, योऽपि सदास्फुरद्रयतया साधकान्तरं नापेक्षते, तेन परात्मना साक्ष्यैक्यं वाक्यबोध्यमित्यर्थः॥१०८३॥

प्रमेयादित्रयं यस्मात्परस्परविलक्षणम्॥
आत्मानं लभते सत्यः सोऽध्यक्षोऽत्राभ्यु361पेयताम्॥१०८४॥

उक्तलक्षणः साक्ष्येव नास्ति कथं तस्य ब्रह्मत्वं बोध्यते तत्राऽऽह। प्रमेयेति। मात्रादित्रयं कर्त्रादित्रयं भोक्त्रादित्रयं च मिथो विलक्षणं यतः सत्त्वाद्यश्नुते यश्च स्वस तादौ नान्यदपेक्षतेऽबाधितकूटस्थसत्संविद्रूपत्वात्स कूटस्थो बोधोऽत्र साक्ष्ये साक्षी तस्यनिराकर्तुमशक्यत्वान्नाहि तन्निरासे मात्रादिभावाभावसिद्धिर्विमतमेतद्वाहकेन्द्रियकज्ञाना-तिरिक्तास्मदीयप्रत्यक्षग्राह्यं प्रत्यक्षत्वात्कुम्भवदिति च प्रयोगोपपत्तेरिति भावः॥१०८॥

असंकुचितचित्पद्मः प्राज्ञे स्वप्नप्रबोधवत्॥
तथा प्रफुल्लबोधाब्जः प्राज्ञवत्स्वप्नबोधयोः॥१०८५॥

तथाऽपि स्वापे बोधमूर्तिः साक्षी नास्ति तत्र तदननुभवादित्याशङ्क्य जागरादे स्फुटानुभववत्तत्रापि स वक्तव्यो नहि द्रष्टुरित्यादिश्रुतेरात्मनस्तत्र सवितृसंनिधौ सरोज वत्प्रकटितानुभवत्वदृष्टेरित्याह। असंकुचितेति। तर्हि जागरादाविव स्वापेऽपि सतिशेषः स्यादित्याशङ्क्याऽऽह। तथेति। स्वापे बोधसत्त्ववत्तस्याविशेषत्वमपि मन्तव्यं

मात्रासंसर्गस्त्वस्येति श्रुतेरतः स्वापवदवस्थाद्वयेऽपि विषयेषु वस्तुतोऽप्रसारितप्रबोधः प्रत्यगात्माऽसङ्गो हीत्यादिश्रुतेरित्यर्थः॥१०८५॥

साक्ष्यसंबन्धतः साक्षी न स्वतः साक्षिताऽऽत्मनः॥
प्रत्यमात्रैकदृष्टित्वाद्धियां वाचामगोचरः॥१०८६॥

साक्षित्वाद्बोधस्य सविशेषत्वं लौकिकवदित्याशङ्क्य स्वतोऽन्यतो वा साक्षितेति विकल्प्याऽऽयमसिद्ध्या दूषयति। साक्ष्येति। अन्यतः साक्षित्वे न सविशेषत्वं न ह्यविद्याकृतं तद्वास्तवं निर्विशेषत्वं निहन्तीति द्रष्टव्यम्। तथाऽपि वागादिविषयत्वाद्बोवस्य सविशेषत्वं घटादिवदित्याशङ्क्यासिद्धिमाह। प्रत्यगिति॥१०८६॥

अस्मत्पक्षे हि कर्तव्यमविद्यामात्रकल्पितम्॥
तदभावान्न संसारो भूतो भावी न वर्तते॥१०८७॥

नन्वनुभवात्मा सविशेषः कर्तृत्वाद्राजवन्न चासिद्धिः साक्ष्यसंबन्धतः साक्षीति वदंता संबन्धादिकर्तृत्वाङ्गीकारात्तत्राऽऽह। अस्मदिति। कर्तृत्वादिसंबन्धस्य कल्पितत्वे मोक्षशास्त्रं प्रमाणयति। तदभावादिति। सर्वकल्पना हेतोरज्ञानस्य ज्ञानाद्ध्वस्तेस्तद्धेतुको बन्धः सर्वदा ध्वस्तो भवतीत्यर्थः॥१०८७॥

स्वाभाविक्यप्यविद्येयमनुभूत्याऽवभासिता॥
तमः सूर्योदयेनेव ज्ञानेनोत्कृत्य नाश्यते॥१०८८॥

नन्वज्ञानमनादित्वादनुभवमात्रसिद्धत्वाच्चाऽऽत्मवन्न निवर्तत इत्याशङ्क्यानादिभावत्वमुपाधिरिति मत्वाऽऽह। स्वाभाविकीति। अवभासितेत्यत्रापि पूर्वोऽपिः संबध्यते। उत्कृत्याऽऽत्मनः सकाशादुत्कृप्यावयवशः शिथिलीकृत्येति यावत्॥१०८८॥

अनादिकालमज्ञानं ज्ञानेनाऽऽदिमता क्षणात्॥
दृश्यते नाश्यमानं हि न चास्याऽऽवृत्तिरीक्ष्यते॥१०८९॥

विद्वदनुभवविरुद्धं चानुमानमित्याह। अनादीति। ज्ञानप्रागभावे चानैकान्त्यं प्रसिद्धमिति हिशब्दार्थः। अज्ञानध्वंस्यपि ज्ञानमावृत्त्यपेक्षमित्येके तथाच क्षणादित्ययुक्तमित्याशङ्क्याऽऽह। न चेति॥१०८९॥

एवंभूतोऽप्ययं प्रत्यक्स्वात्मानुभवसंश्रयात्॥
व्युत्पत्तेः प्रागविज्ञातः सर्वा362ज्ञानादिसाक्ष्यपि॥१०९०॥

शुक्त्यादिज्ञानस्याऽऽवृत्त्यनपेक्षस्याज्ञानध्वंसित्वेऽपि नाऽऽत्मन्येवं स्वप्रकाशे तस्मिनज्ञानायोगात्प्रमाणाप्रवृत्तेरिति चेनेत्याह। एवमिति। सर्वबुद्धितद्वत्तिसाक्षित्वादात्मा स्वप्रकाशोऽपि प्राक्तत्त्वज्ञानोत्पत्तेः स्वानुभवादज्ञातः सिद्धो ऽतस्तत्र मानप्रवृत्तिरपि युक्तेत्यर्थः॥१०९०॥

तत्त्वमस्यादितस्तस्मादागमादेव नान्यतः॥
ऐकात्म्य वस्तुनः साक्षाद्वयुत्पत्तिरविचालिनी॥१०९१॥

आत्मनि मानोत्थाज्ज्ञानादज्ञानतत्कार्यध्वंसेऽपि मानमध्यक्षादि स्यादित्याशङ्क्याऽऽह। तत्त्वमिति। यस्माद्वाक्यादहं ब्रह्मेति ज्ञानात्प्रागविज्ञातं वस्तु तस्मात्तत्त्वमादेरागमादेव तस्यापरोक्षप्रमितिर्मानान्तरस्यानौपाधिके-ऽस्मिन्नप्रवृत्तेरुक्तत्वात्सा च प्रमितिः सहेतुसर्वबन्धध्वंसित्वेनापुनरावृत्तिफलत्वादतिदृद्धेत्यर्थः॥१०९१॥

तस्यास्य कर्मकाण्डेन संबन्ध इति यः पुरा॥
प्रश्नस्तनिर्णयार्थाय सर्वथेत्यादिरुत्तरः॥१०९२॥

न चासतीत्यादेरनुमेयश्चाऽऽत्मेत्यन्तस्य भाष्यस्य तात्पर्यं व्याख्याय सर्वथेत्यादिभाष्यतात्पर्यमाह। तस्येति। तस्येत्यादिभाष्येण काण्डयोर्नियतपौर्वापर्यकृतं संबन्धं प्रतिज्ञाय तदर्थमेव सिद्धेऽर्थे वेदान्तप्रामाण्यं सर्वोऽपीत्यादिना प्रसाध्य विद्याधिकारिसौलभ्यं च प्रामाण्योपयोगित्वेन सर्वपुरुषाणामित्यादिनोक्त्वा परकीयकार्ये च वेदप्रामाण्यं दृष्टविषयेत्यादिना निराकृत्य न चासतीत्यादिना परैरपि सिद्धेऽर्थे वेदप्रामाण्यस्यैष्टव्यत्वाद्युक्तं वेदान्तानां स्वार्थनिष्ठत्वमिति प्रतिष्ठाप्य पूर्वत्र कः संबन्धः काण्डयोरिति योऽन्तर्गर्भितः प्रश्नस्तस्य कर्मभिः शुद्धबुद्धेर्वैराग्यादिद्वारा ज्ञानोत्पत्तिः संबन्ध इति निर्णयः कर्तव्यस्तदर्थं सर्वथाऽपीत्यादिभाष्यमित्यर्थः॥१०९२॥

ननु सिद्धे यथोक्तार्थे नाऽऽरम्भे हेतुरीक्ष्यते॥
कृत्स्नप्रयोजनावाप्तेः पूर्वोक्तैरेव कर्मभिः॥१०९३॥

पुमर्थोपायविशेषार्थिनस्तज्ज्ञापनार्थं कर्मकाण्डमारब्धं चेत्तत्रोक्तकर्मभिरेवाभीष्टपुमर्थसिद्धेर्वेदान्तारम्भवैयर्थ्यान्न संबन्धोक्तिः सावकाशेति शङ्कते। नन्विति। इष्टानिष्टाप्तिहानिहेतुविशेषार्थिनस्तज्ज्ञापनाय कर्मकाण्डारम्भो यथोक्तोऽर्थस्तस्मिन्सिद्धे सति वेदान्तारम्भे हेत्वदृष्टेस्तदारम्भो वृथेत्यक्षरार्थः। पूर्णपुरुषार्थलाभार्थं तदारम्भमाशङ्क्याऽऽह। कृत्स्नेति। कर्मकाण्डोक्तकर्मभिरेव पूर्णपुरुषार्थलाभादनारम्यं ज्ञानकाण्डमित्यर्थः॥१०९३॥

नैतदेवं सुखेप्साया जिहासायाश्च दुःखतः॥
निदानस्यानिषिद्धत्वात्पूर्वोक्तैः कर्मभिः पुरा॥१०९४॥

न त्वात्मन इत्यादिभाष्यमुत्तरत्वेन व्याचष्टे। नैतदिति। सुखं मे स्याद्दुःखं मा भूदिति सुखदुःखाप्तिहानीच्छा हेतुरात्माज्ञानं तस्य कर्मकाण्डोक्तकर्मभिरेव पूर्वमनिषिद्धत्वासद्धानार्थं ज्ञानसिद्धये वेदान्तारम्भो युक्तो नहि कर्माण्यज्ञानाविरोधीन्यज्ञानं साक्षादेव क्षपयन्ति। अतो वाच्यः संबन्धोऽपि काण्डयोरित्यर्थः॥१०९४॥

निःशेषाहलादसंप्राप्तिः सर्वानर्थनुतिस्तथा363
सर्वेषां प्राणिनामेतत्स्वत इष्टं प्रयोजनम्॥१०९५॥

ननु कथं सुखाप्त्यादाविच्छा, नहि विना हेतुं कार्यमस्ति न च तत्राज्ञानमेव हेतुः कर्मादेरपि संभवात्तत्राह। निःशेषेति॥१०९९॥

आत्मनस्तत्त्वमेतच्च सिद्धं चैतन्यवद्यतः॥
अथैष, यो वै भूमेतिश्रुतिमानानुभूतितः॥१०९६॥

दर्शितफलाभिलाषित्वस्याशेषजनसाधारण्येऽपि न तत्र प्रत्यगज्ञानं हेतुरन्यस्य शङ्कितत्वादित्याशङ्क्याऽऽह। आत्मन इति। सर्वेष्टमुभयविधं फलमात्मनः स्वरूपत्वेन चैतन्यवन्नित्याप्तं न चाऽऽप्तेः स्वारस्येनेच्छा तेन तत्राज्ञानमेवोपादानं कर्मादिनिमित्तमिति भावः। फलस्य हेत्वधीनत्वात्कथं तदात्मनस्तत्त्वमित्याशङ्क्य साध्यत्वमौपचारिकमिति मत्वोक्तं फलमात्मनस्तत्त्वमित्यत्र मानमाह। अथेति। अथैष एव परम आनन्द ऐषाऽस्य परम आनन्द एष ह्येवाऽऽनन्दयाति यो वै भूमा तत्सुखमित्यादिश्रुतेः सुखमात्मा परप्रेमास्पदत्वाद्धटवदित्यनुमानात्सौषुप्तानुभवतश्चाऽऽत्मनो द्विविधं फलं स्वरूपसिद्धमित्यर्थः॥१०९६॥

स्वर्गशब्दाभिधश्वायं पुमर्थो यो यथोदितः॥
स्वर्गमित्यादिभिर्वाक्यैस्त्रय्यन्तेष्वपि गीयते॥१०९७॥

स्वर्गशब्दोऽप्यात्मनो वाचकस्तस्य यथोक्तफलत्वं गमयतीत्याह। स्वर्गेति। यो हि प्रत्यगात्मा स्वप्रकाशत्वाद्वयत्वाद्युक्तं रूपमनतिक्रम्य स्थितः स स्वर्गशब्दवाच्यत्वादुभयविवफलस्वभाव इत्यर्थः। स्वर्गकामादिवाक्ये स्वर्गशब्दस्यार्थान्तरे प्रयोगवदात्मनि प्रयोगो न भाति तत्कुतोऽस्य स्वर्गशब्दवाच्यतेत्याशङ्क्याऽऽह। स्वर्गमिति। स्वर्गं लोकमित ऊर्ध्वो विमुक्तोऽहरहर्वा एवंवित्स्वर्गं लोकमेत्यनन्ते स्वर्गे लोके ज्येये प्रतितिष्ठन्तीत्यादिवाक्यैर्वेदान्तेष्वात्मा स्वर्गशब्देनानतिशयपुमर्थो विवक्षितस्तदन्यत्रेवाऽऽत्मन्यपि प्रयोगदर्शनादात्मनि प्रयोगादृष्टिरसिद्धेत्यर्थः॥१०९७॥

स्वर्गं पुमर्थमुद्दिश्य सर्वप्राणभृतामियम्॥
वाङ्मनःकायचेष्टा स्याद्याऽपि तत्साधनोपगा॥१०९८॥

द्विविधोऽपि पुमर्थः स्वर्गश्चेत् कर्मभिरेव तत्सिद्धिः स्वर्गोद्देशेन यागादिविधानादतो नार्थो वेदान्तारम्भेणेत्याशङ्कते। स्वर्गमिति। सर्वेषामप्यधिकृतानामुक्तं स्वर्गमुद्दिश्य त्रिविधप्रवृत्तिदर्शनात्प्रवृत्तिसाध्यापूर्ववशादेष तत्सिद्धेर्नार्थो वेदान्तारम्भेणेत्यर्थः। मोक्षहेतुज्ञानयोगश्रवणादिचेष्टया ज्ञानद्वारा मोक्षार्थं वेदान्तारम्भमाशङ्क्य तयाऽपि स्वर्गस्यैव सिद्धेस्तस्य मोक्षत्वात्तस्य च कर्मभिरेव लाभान्न वेदान्तारम्भोऽर्थवानित्याह। याऽपीति॥१०९८॥

उत्पस्याद्यर्थनिष्ठानां सर्वेषामपि कर्मणाम्॥
स्वर्गे नैवाधिकारोऽस्ति तस्य सिद्धत्वतः स्वतः॥१०९९॥

उत्पत्त्याप्तिविकृतिसंस्कृतीनामन्यतमहेतवः सर्वाणि कर्माणि तेषां कूटस्थनित्यानतिशयानन्दात्मनि स्वर्गे न व्यापारस्तस्य स्वतः सिद्धत्वेनासाध्यत्वात्स्वर्गाभासे तु व्यापारस्तेषामिति परिहरति। उत्पत्त्यादीति॥१०९९॥

स्वात्मसाध्यातिरेकेण सर्वमेव हि साधनम्॥
नालं साध्यान्तरायेह किम्वसाध्यार्थसिद्धये॥११००॥

मुख्यस्वर्गस्यासाध्यत्वं कैमुतिकन्यायेनाऽऽह।स्वात्मेति। इहेति साध्यसाधनव्यवहारभूमिरुक्ता। साधनं हि सर्वमेव स्वसाभ्यमर्थं साधयति न तु तदतिरेकेण साध्यान्तरसिद्धये प्रभवत्यसाध्यस्य पुनरर्थस्य मुख्यस्वर्गस्य सिद्धये साधनमशक्तमिति किमु वक्तव्यमित्यर्थः॥११००॥

यथोक्तपुरुषार्थस्य यद्यप्याप्तस्वभावता364
आत्मस्वभावतो नाऽऽप्तिस्तथाऽप्यज्ञानहेतुतः॥११०१॥

कर्मासाध्यत्वेऽपि यथोक्तपुमर्थात्मक स्वर्गस्याऽऽत्मत्वेनाऽऽप्तत्वाद्धेत्वनपेक्षत्वात्कृतं वेदान्तारम्भेणेत्याशङ्क्याऽऽह। यथोक्तेति॥११०१॥

अविद्याव्यवधानस्य नाऽऽत्मज्ञानातिरेकतः॥
मध्वस्तिः कर्मभिः कर्तुं शक्या तेषाममानतः॥११०२॥

अज्ञानादुक्तपुमर्थानाप्तावपि कर्मभिरेव तन्निवृत्तेरलं वेदान्तारम्भेणेति चेनेत्याह। अविद्येति। कर्मणामतद्ध्वंसकत्वे हेतुमाह। तेषामिति॥११०२॥

व्यञ्जकं विरहय्यान्यत्साधनं कारकात्मकम्॥
तदभिव्यक्तये नालं स्वतः सिद्धस्य वस्तुनः॥११०३॥

अमानत्वेऽपि कर्मणां वस्तुव्यञ्जकत्वादालोकवदज्ञानतमोनिवर्तकत्वमित्याशङ्क्य हेत्वसिद्धिमाह। व्यञ्जकमिति। कारकात्मकं कर्म हित्वाऽन्यत्साधनमक्षादिव्यञ्जकं कर्मणि व्यञ्जकत्वादृष्टेरित्यक्षरार्थः। हन्ताक्षादिरेवाऽऽत्मानं व्यञ्जयंस्तदज्ञानं निरसिष्यस्युपनिषदारम्भस्तु वृथेत्याशङ्क्याऽऽह। तदिति। अक्षादि सर्वनामार्थः। नहि तद्वस्तुनोऽभिव्यक्तये शक्तं तस्य स्वतः सिद्धस्य तत्साधकतया तदनपेक्षत्वादित्यर्थः॥११०३५॥

कर्मभिर्नापनीतोऽतः प्रत्यङ्मोहोऽप्रमाणतः॥११०४॥
यावच्च सम्यग्विज्ञानवह्निनाऽसौ न दाते॥
न तावत्किचिदप्याप्तं सुखं दुःखविवर्जितम्॥११०५॥

कर्मणामक्षादीनां चाऽऽत्माव्यज्ञ्जकत्वे तदज्ञानानिवर्तकत्वं फलतीत्याह। कर्मभिरिति। अक्षादीनामुपलक्षणमेतत्। अतः शब्दार्थमाह। अप्रमाणत इति। प्रमाणत्वेऽपि न चक्षुषेत्यादिश्रुतेरक्षादीनामतद्गोचरत्वादित्यर्थः। तर्हि माऽज्ञानं निवर्तिष्ट सत्येव तस्मि-

न्कर्मणा मोक्षः स्यादित्याशङ्क्य यावद्धीत्यादिभाष्यतात्पर्यमाह। यावच्चेति। तत्त्वज्ञानादज्ञाननिवृत्त्यभावे सुखप्राप्तिर्दुः खोच्छित्तिश्चेत्येवंलक्षणो मोक्षो न सिध्यत्यज्ञाननिवृत्त्यनतिरेकात्तस्येत्यर्थः॥११०४॥११०९॥

नालं विमुक्तये काम्यं यदि नाम तथाऽपि तु॥
पुंसो वैराग्यहेतुत्वादुपकार्येव तन्मतम्॥११०६॥

कर्मणामज्ञानाध्वंसित्वेन साक्षान्मोक्षाहेतुत्वे तेषामत्यन्तानुपयोगो मुक्तावित्यननुष्ठेयतेत्याशङ्क्याऽऽह। नालमिति। काम्यशब्देन नित्यादेरपि ग्रहः। एतावान्वै काम इतिश्रुतेः। कर्मणां साक्षान्मोक्षा हेतुत्वेऽपि चित्तशुद्ध्यादिद्वारा तदुपयोगितेत्यर्थः॥११०६॥

असह्यदुःखफलतः स्वकार्यविनिवृत्तिकृत्॥
विरक्तिहेतुतः कर्म प्रतिषिद्धं यथा तथा॥११०७॥

अपि काम्यं कृतं सर्वंदुःखात्मकफलत्वतः॥
आविरिञ्ज्या365त्स्वकार्येभ्यः स्यादेव विनिवृत्तये॥११०८॥

ननु तत्तद्विध्युद्देशस्थं फलं हित्वा कथं कर्मणां वैराग्यहेतुतेत्याशङ्क्याऽऽह। असह्येति। यथा निषिद्धं हननादिकर्म श्वसूकराद्याप्तिरूपमुदुःसहफलत्वान्निषेधशास्त्रार्थज्ञानवतस्ततो वैराग्यहेतुतया स्वयमननुष्ठीयमानं स्वफलात्पुंसो निवर्तकं तथा काम्यादिकमपि कर्म गर्भवासादिदुःखफलत्वात्तस्य पुंसो हिरण्यगर्भान्तफलेभ्यो वैराग्यहेतुत्वेन ससाधनकर्मत्यागद्वारा श्रवणादिपूर्वं सम्यग्ज्ञानमापाद्य मोक्षे पर्यवस्यतीत्यर्थः॥११०७॥॥११०८॥

इत्युक्तप्रतिपत्त्यर्थमाजगामोत्तरं वचः॥
एकवाक्यत्वमेवं च वेदस्य स्यादसंशयम्॥११०९॥

सम्यग्धीरेव साक्षान्मोक्षहेतुर्न कर्म प्रनाड्या तु तदुपयोगीत्युक्तार्थपरं यावद्धीत्यादिभाष्यमिति निगमयति। इत्युक्तेति। कर्मणां शुद्ध्यादिद्वारा ज्ञानहेतुत्वं तस्यैव मुक्तिहेतुतेत्येवं संबन्धे सति काण्डयोरेकवाक्यत्वसिद्धिर्विधान्तरेण तदयोगस्योक्तत्वान्न चैकवाक्यत्वसंभवे तत्त्यागो युक्तोऽतस्तयोरेकवाक्यत्वार्थमुक्ता संगतिरुपेयेत्युक्तसंबन्धे प्रापकान्तरमाह। एकवाक्यत्वमिति॥११०९॥

दक्षिणोदगधगत्या प्रत्यगज्ञानमूढधीः॥
बम्भ्रमीत्यनिशं दुःखी पुमान्कर्मपुरःसरः॥१११०॥

कर्मकाण्डस्य वैराग्यद्वारा मोक्षे प्रवेशं प्रदर्श्य वैराग्यार्थं कर्मफलं प्रपञ्चयन्कर्मफलरागद्वेषादीत्यादिभाष्यार्थमाह। दक्षिणेति। स्वाज्ञानादविवेकी कर्म करोति तेन त्रिविधगत्या सदा संतप्तमनाः संसरतीत्यर्थः॥१११०॥

काम्यैर्दक्षिणमन्वेति ज्ञानयुक्तैस्तथोत्तरम्॥
निषिद्धैश्चाप्यधोजन्म कर्मसंभारसंभृतः॥११११॥

उक्तामेव गतिं विभजमानस्तत्र केवलमित्यादिभाष्यार्थमाह। काम्यैरिति। केवलैरिष्टादिभिरिति यावत्। दक्षिणं धूमाद्युपलक्षितं पितॄणां पन्थानमित्यर्थः। उत्तरमचिराद्युपलक्षितं देवयानमध्वानमित्यर्थः। अन्वेतीत्यन्वयार्थं तथेत्युक्तम्। चकारः समुच्चयार्थः। पूर्ववदन्वयार्थोऽपिशब्दः। कर्मसंभारसंभृत इत्यस्य सर्वत्र संबन्धः॥११११॥

धर्माधर्मांशसाम्ये च मनुष्यत्वं प्रपद्यते॥
ब्रह्माद्या स्थावरान्तैवं प्रत्यगज्ञानहेतुजा॥
नामरूपेऽचित्राऽऽद्या स्वप्रमायेन्द्रजालवत्॥१११२॥

साम्ये चेत्यादिभाष्यं व्याचष्टे। धर्मेति। त्रिविधमपि कर्मफलं वैराग्यार्थं संक्षेपेणोपसंहर्तुमेवमित्यादिभाष्यं तद्विभजते। ब्रह्माद्येति। एषा हि संसारगतिरुक्तरीत्या निष्कृष्यमाणा ब्रह्माद्या स्थावरान्ता सैवोत्कृष्यमाणा स्थावराद्या ब्रह्मान्ता सा च सर्वा स्वाविद्याजन्या नामादिभिर्विचित्रितत्वात्संप्रतिपन्नवदित्यर्थः। ईहनमीश्चेष्टा कर्मेति यावत्। स्वयमेव तर्हि संसारगतिरज्ञान जत्वाद्गन्धर्वनगरवन्नङ्क्ष्यतीत्याशङ्क्य विशिनष्टि। आद्येति। तस्या नानाविधत्वं दर्शयन्नज्ञानजत्वे दृष्टान्तमाह। स्वप्नेति॥१११२॥

धर्माधर्माद्युपादानसाधना नश्वरी गतिः॥१११३॥
व्याकृतं नामरूपाभ्यां यद्यपीदं श्रुतौ श्रुतम्॥
आत्मतत्त्वानभिव्यक्तेर्नाभिव्यक्तं तदुच्यते॥१११४॥

धर्माधर्मसाधनकृतेत्यस्यार्थमाह। धर्मेति। उपादानमनुष्ठानं साधनशब्दो निमित्तपरः। त्रिविधं कर्मफलमनर्थरूपमेवाविद्याकृत-त्वादित्युक्तं तत्रैव हेत्वन्तरमाह। नश्वरीति। ननु संसारगतेराविद्यत्वमयुक्तं प्रत्यक्षादिसिद्धत्वात्तन्नामरूपाभ्यामेव व्याक्रियतेति श्रुतौ च नामरूपात्मना जगतो व्यक्तिश्रवणान्न च प्रामाणिकस्याऽऽविद्यत्वोपपत्तिरित्याशङ्क्य तदेवेदमित्यादिभाष्यतात्पर्यमाह। व्याकृतमिति। प्रत्यक्षादिगम्यत्वमिदमित्यनुज्ञायते। यद्यपीत्युक्तत्वात्तथाऽपीति वक्तव्यम्। जगतः स्वरूपमात्मा तत्रा ध्यस्तत्वात्तस्मादात्मतत्त्वेऽनभिव्यक्ते प्रत्यक्षादिना श्रुत्या च व्यक्तमिव दृश्यमानमपि। तदव्यक्तमेवेति न तस्याऽऽविद्यत्वक्षतिरित्यर्थः॥१११३॥१११४॥

अविद्यातिमिरोच्छित्तौ नानाविष्कृतमण्वपि॥
कार्यकारणद्वस्तु नानपास्तं तमोऽप्यतः॥१११५॥

आत्मन्यव्यक्ते न कस्यचिद्व्यक्तिरित्युक्त्वा तस्मिन्व्यक्ते सर्व व्यक्तं भवतीत्याह। अविद्येति। आत्मज्ञानात्तदज्ञानध्वस्तावपि न समस्तवस्तुव्यक्तिस्तदावरणस्य तमसः सत्त्वादित्याशङ्क्याऽऽत्माज्ञानस्यैव तमस्त्वान्मैवमित्याह। नेत्यादिना। आत्मज्ञानमतः शब्दार्थः॥१११५॥

यत एवमतः प्रत्यग्याथात्म्यप्रतिपत्तये॥
प्रारब्धेयं प्रयत्नेन वेदान्तोपनिषत्परा॥१११६॥

यस्मादात्मनि ज्ञाते सर्वपुरुषार्थसमाप्तिरज्ञाते च सर्वानर्थाप्तिरिह वेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिरिति श्रुतेस्तस्मादात्मज्ञानार्थत्वेन साधनचतुष्टयसंपन्नमधिकारिणमधिकृत्य वेदान्तारम्भः संभवतीत्येतस्माद्विरक्तस्येत्यादिभाष्यार्थमाह। यत इति। प्रारम्भस्य प्रयत्नो नामाधिकार्यादिसाहित्यम्। परेत्युषा वा अश्वस्येत्याद्या व्याचिख्यासितेति यावत्। अस्योपनिषत्पदस्य ब्रह्मविद्यार्थत्वव्यासेधार्थं वेदान्तविशेषणम्॥१११६॥

यथोक्तफलसिद्ध्यर्थमारब्धोपनिषद्यदि॥
ब्रह्म वा इदमित्यादि कस्मान्नाऽऽरभ्यतेऽधुना॥१११७॥

एवमुपनिषदारम्भे समर्थिते सत्युषा वा अवस्येत्यारम्य तदारम्भमाक्षिपति। यथोक्तेति। ब्रह्मज्ञानं यथोक्तं फलं तदर्थमेयोपनिषदारब्धा चेद्ब्रह्म वा इदमग्र आसीदित्यारब्धव्यं तस्मादारम्य ब्रह्मज्ञानोक्तेः। उपा वा अश्वस्येत्यारभ्योपनिषदारम्भस्तु न युक्तः साक्षादत्र ब्रह्मविद्यानुक्तेरित्यर्थः॥१११७॥

येषामनाधिकारोऽत्र ह्यश्वमेधक्रतौ भवेत्॥
इत एव तु विज्ञानात्तेषां तत्फलकीर्तनम्॥१११८॥

अस्मादारम्योपनिषदारम्भेऽभीष्टं फलमभिधित्समानः प्रथममश्वमेधोपासनफलवाचिनोऽस्य त्वित्यादिभाष्यस्यार्थमाह। येषामिति। अश्वमेधानधिकारिणां ब्राह्मणादीनां तत्फलार्थिनामस्मादेवोपासनात्तदाप्तिरिति मत्वा श्रुतौ तदुपासनोक्तिरित्यर्थः॥१११८॥

कर्मगोचरतैवात्र विज्ञानस्यापि चेन्मतम्॥
विकल्पश्रवणान्मैवं कर्मणा विद्ययाऽथवा॥१११९॥

कर्मविषयत्वमित्यादिचोद्यभाष्यं विभजते। कर्मेति। अश्वमेधे यदुपासनं तस्याप्यश्वादिवत्तच्छेषत्वेन पुरुषार्थत्वान्न पृथक्फलत्वमङ्गेषु स्वतन्त्रफलाभावादित्यर्थः। क्रत्वर्थमिदं ज्ञानं न पुमर्थमित्यक्तमश्वमेधेन कर्मणा तदुपास्त्या वा फलमिति विकल्पतेरतस्तुल्यफलत्वात्फलवत्त्वं विद्याकर्मणोः सममिति भाष्यस्थं नञर्थं वदन्नुत्तरमाह। विकल्पेति॥१११९॥

यजते योऽश्वमेधेन यश्चैवं वेद तं क्रतुम्॥
फलं तुल्यं तयोर्युक्तं कर्मिणो विदुषस्तथा॥११२०॥

** सर्वं** पाप्मानं तरति तरति ब्रह्महत्यां योऽश्वमेधेन यजते य उ चैनमेवं वेदेति भाष्योक्तां विकल्पश्रुतिमुदाहरति। यजत इति। एवमित्यनुष्ठानक्रमपरामर्शः। तमित्यश्वमेधोक्तिः। सति विकल्पश्रवणे फलितमाह। फलमिति॥११२०॥

उपास्तेरपि कर्मत्वादश्वमेधकतोरिव॥
नातो धियोऽर्थवादत्वं तद्विधेर्नितरां न च366॥११२१॥

उपास्तिफलश्रुतेरर्थवादत्वमाशङ्क्य विद्याप्रकरणे चेत्यादिभाष्येण परिहरति। उपास्तेरिति। अश्वमेधवदुपास्तेरपि कर्मत्वाद्विहितत्वाच्च फलश्रुतेर्नार्थवादतेत्यर्थः। धियः फलश्रुतेरित्यध्याहारः। न च य एवं वेदेति विहितस्याप्युपासनस्य प्रयाजादिसाम्यं विकल्पश्रुत्या ऋतुतुल्यत्वदृष्टेरित्यतः शब्दार्थः। तद्विधेस्तस्या उपास्तेर्य एवं वेदेति विधानादिति यावत्। हेतुद्वयकृतो विनिश्चयो नितरामित्युक्तः॥११२१॥

एतावदेव चेदत्र भवतैवं विवक्षितम्॥११२२॥
प्रयोजनं तत्सुकरं विभ्युदेशेऽपि भाषितुम्॥
विद्याकरणे तस्य त्वाम्नायः किमितीर्यताम्॥११२३॥

उक्तमश्वमेधोपासनं न क्रत्वर्थं किंतु पुरुषार्थं तत्र चाधिकारोऽश्वमेधकत्वनधिकारिणामपीत्येतावदेव चेदिष्टमेवं सत्यस्मिन्नुपासने कर्मप्रकरणस्थेऽपि त्वदिष्टं सर्वं सुकरमेव वक्तुमतोऽत्र विद्याप्रकरणे नास्याध्ययनं युक्तमिति चोदयति। एतावदिति॥११२२॥॥११२३॥

सोऽपि ज्ञानेन संयुक्तो हयमेधो महाक्रतुः॥
संसारफल एवेति प्रवृत्त्यङ्गतयोच्यते॥११२४॥

सर्वेषां चेत्यादिभाष्येणोत्तरमाह। उच्यत इति। उच्यतेऽशेषयज्ञानां क्रतुराडेष उच्यते। सर्वप्रायश्चित्तत्वं सर्वभेषजत्वं सर्वपापनिवर्तकत्वमित्यादिविभूतिश्रुतेर्ब्रह्महत्याश्वमेधाभ्यां न परं पुण्यपापयोरितिस्मृतेश्चास्य क्रतुमुख्यत्वमवधेयमित्यर्थः। अश्वमेवस्य पुण्यकर्म श्रेष्ठत्वेऽपि प्रकृते किमायातं तदाह। सोऽपीति। उपास्तियुक्तस्याश्वमेघस्य महत्त्व तस्यैव मोक्षहेतत्वमन्यथा महत्त्वानुपपत्तेरित्याशङ्क्याऽऽह। संसारेति। अशनाया हि मृत्युः स वै नैव रेमे सोऽविभेदिति भयारत्यादिश्रवणादुपास्तियुक्तकतु- फलस्य सूत्रस्य बन्धमध्यपातित्वाद्विशिष्टोऽपि ऋतुर्न मुक्तये पर्याप्नोति महत्त्वं च क्रत्वन्तरापेक्षया फलातिरेकादिति भावः। तथाऽपि किमिति विद्यारम्भे बन्धफलत्वमस्योच्यते तत्राऽऽहप्रवृत्तीति॥११२४॥

प्रत्यग्बोधातिरेकेण साधनान्तरनिस्पृहाः॥
निर्ज्ञाताशेषकर्मोत्थफलफल्गुत्वबुद्धयः॥११२५॥

कथमस्य बन्धफलत्वकथनं विद्यायां मुमुक्षुप्रवृत्तावुपयुज्यते तत्राऽऽह। प्रत्यगिति। ननु स्वर्गादिष्वभिलाषसंभवात्तद्धेतुषु वैदिककर्मस्वपि स्पृहाराहित्यायोगात्कथं साधनान्तरनिस्पृहत्वं तत्राऽऽह। निर्ज्ञातेति॥११२५॥

मुमुक्षवः प्रवर्तेरन्कथं नामाऽऽत्मवेदने॥११२६॥
संसारफलता काममस्तु काम्यस्य कर्मणः॥
नित्यानामफलत्वात्तु मुक्तिरेवास्तु तत्फलम्॥११२७॥

तर्हि स्वर्गादाविव मोक्षेऽपि न स्पृहा वैदिकफलत्वाविशेषात्कुतो विद्यायां प्रवृत्तिस्तत्राऽऽहमुमुक्षव इति। निश्वयेन ज्ञातानामशेषवैदिककर्मणां यानि फलानि तेषां फल्गुत्वमल्पीयस्त्वं तद्विषया बुद्धिर्येषां विवेकिनामनुमानागमाभ्यामुत्पद्यते ते यदा क्रतुप्रधानस्याश्वमेधस्योपासनसहितस्यापि संसारफलत्वं तदा स्वल्पीयसामग्निहोत्रादीनां किं वाच्यं संसारफलत्वमित्यभिसंधायास्मिन्कर्मराशौ बन्धहेतावनभिलाषिणः सन्तः साधनचतुष्टयविशिष्टा ज्ञाममपेक्षमाणास्तदुपाये श्रवणादावेव सर्वकर्मसंन्यासपूर्वके कथं प्रवर्तेरनित्याशयवती श्रुतिरुपासनां विद्यारम्भेऽभिदधौ तेनोषा वा अश्वस्येत्यारभ्योपनिषदारम्भः संभाव्यतेऽस्य विशिष्टाधिकारिसमर्पकत्वादिति भावः उक्ते सर्वकर्मणां बन्धफलत्वे नित्यनैमित्तिकानां न तत्फलत्वं तेषां विभ्युद्देशे फलाश्रुतेर्मुक्तिफलत्वभावादिति चोदयति। संसारेति॥११२६॥११२७॥

न ह्युत्सर्गेण सर्वेषां फलवत्त्वस्य संश्रवात्॥
कर्मणा पितृलोकादि नित्यानामेव तत्फलम्॥११२८॥

न सर्वकर्मेत्यादिभाप्यतात्पर्योक्त्या परिहरति। न हीति। एतावान् काम इति सर्वकर्मणामविशेषेण फलश्रवणात्पश्वादेश्च काम्यफलत्वश्रुतेः कर्मणा पितृलोक इति श्रुतं फलं नित्यादिकर्मणामस्त्वतस्तेषां न मोक्षफलत्वाशङ्केत्यर्थः। पितृलोकादीत्यादिपदेन तद्यथाऽऽस्मृतिप्रसिद्धं फलं गृह्यते॥११२८॥

फलवत्त्वे हि नित्यानां काम्यत्वमिति चेन्मतम्॥
नैवं367 शुद्धिप्रमाणत्वाद्भोगनिष्ठस्य काम्यता॥११२९॥

नित्यादेरपि फलवत्त्वे चित्रादिवत्काम्यत्वादकरणे प्रत्यवायो न स्यादिति शङ्कते। फलवत्त्वे हीति। तद्वत्त्वमात्रेण न सांकर्यमित्याह368नैवमिति। फलवत्त्वेऽपि पापक्षयप्रधानं नित्यादि भोगप्रधानं काम्यमिति विभागः। नित्याद्यकरणं तु पूर्वसंचितदुरि तद्योतीति भावः॥११२९॥

काम्येऽपि शुद्धिरस्त्येव भोगसिद्ध्यर्थमेव सा॥
विवराहादिदेहेन न ह्येन्द्रं भुज्यते फलम्॥११३०॥

शुद्धिप्रधानत्वादिति वदता काम्येऽप्यानुषङ्गिकी साऽभ्युपगताऽन्यथा प्रधानपदविरोवात्तदाह। काम्येऽपीति। साऽपि नित्यादिनिमित्तशुद्धिवद्विद्योपयोगिनीत्याशङ्क्याऽऽह। भोगेति। एवकारो भोगप्रतिबन्धकत्वव्यावृत्त्यर्थः। शुद्धेर्भोगार्थत्वमनुभ-

वेन साधयति। विडिति। नहि वराहादिदेहे बुद्धिशुद्धिरस्त्यतो न तेन पुमानिन्द्रादिभोगमनुभवति। दैवेन तु देहेन प्रकृष्टशुद्धिमता तदुपभोगभागितेत्यर्थः। यद्वा विविदिषार्थत्वमित्यत्रोक्तं न प्रस्मर्तव्यम्॥११३०॥

नित्येषु शुद्धेः प्राधान्याद्भोगोऽप्यप्रतिबन्धकः॥
भोगं भङ्गुरमीक्षन्ते बुद्धिशुद्ध्यनुरोधतः॥११३१॥

नित्यादिकर्मणां पापक्षयात्फलान्तरोपगमे तद्भोगस्य शुद्धिप्रतिबन्धकत्वान्न सा ज्ञानमुत्पादयेदित्याशङ्क्याऽऽह। नित्येष्विति। तेषु पितृलोकादिभोगो भवन्नपि शुद्धेर्न प्रतिबन्धकस्तस्यास्तत्र प्राधान्यात्सा हि प्रधानं सती भोगमनुगुणी करोतीत्यर्थः। ननु नित्यादिषु शुद्धिभोगयोरविशेषोऽस्तु शुद्धेः प्राधान्ये हेत्वदृष्टेरतो न तत्र शुद्धिर्भोगं भोगश्च शुद्धिं प्रतिबध्नीयात्तत्राऽऽह। भोगमिति। शुद्धिर्विवेकद्वारा भोग369वैतृष्ण्यहेतुरित्यर्थः॥११३१॥

तमेतमित्यतश्चोच्चैर्वेदानुवचनादिना॥
विरक्ताः सर्वसंसाराज्जिज्ञासन्ते परं पदम्॥११३२॥

ननु विरक्तानां स्वदेहधारणेऽपि निस्पृहाणां श्रवणादिष्वप्रवृत्तेर्न विद्योत्पद्येतातो निःश्रेयसार्थिना वैराग्यं त्याज्यमत आह। तमिति। विविदिषावाक्यात्तात्पर्यतो विहितवेदानुवचनादिकर्मभिः शुद्धबुद्धेर्विवेकद्वारा सर्वतो विरक्तस्य स्वदेहादावप्यात्यन्तिकीमास्थामनास्थातुः शमादिसहितस्य मुमुक्षोर्ब्रह्म जिज्ञासोर्वाह्यार्थवैमुख्यद्वारेण श्रवणाद्युपस्थापयद्वैराग्यं मृम्यमित्यर्थः। नित्यादेः शुद्धिहेतुत्वमतः शब्दार्थः॥११३२॥

आरादेवोपकुर्वन्ति नित्यान्यात्मविशुद्धितः॥
आत्माज्ञानाविरोधित्वात्साक्षान्न त्वात्मबोधवत्॥११३३॥

दर्शितपरिपाट्या ब्रह्मविचारकारणत्वं कर्मणां वैराग्योपहारेणेष्टं चेन्मुक्तिहेतुत्वमेव तेषां किं नेष्यते तत्राऽऽह। आरादिति। आत्मशब्देन मनो गृह्यते। नित्यादीनामज्ञानप्रक्षयलक्षणे मोक्षे साक्षाज्ज्ञानवदुपकारित्वाभावे हेतुमाह। आत्मेति॥११३३॥·

त्यक्त्वा कर्माण्यतोऽसङ्गाः प्रत्यक्मवणबुद्धयः॥
अपास्तरागादिमला ईक्षन्ते ज्ञं स्वमात्मनि॥११३४॥

यतो बुद्धिशुद्धिद्वारा प्रणाड्या कर्मणां मोक्षोपायत्वं न साक्षाज्ज्ञानवदतः शुद्धधियः ससाधनसर्वकर्मत्यागपूर्वके श्रवणादावधिकार इति फलितमाह। त्यक्त्वेति। कर्मत्यागे हेतुर्वैराग्यमिति सूचयति। असङ्गा इति। ये त्वन्तरेण वैराग्यं कर्मत्यजस्तद्विमुखा ज्ञानं चाप्राप्यान्तराले तिष्ठन्ति ते सर्वपुरुषार्थ वहिर्भूताः शिष्टैः स्प्रष्टुमप्ययोग्या इति भावः। विरक्तानां संन्यासिनां विद्योपायश्रवणादिषु यत्नाधेयां निष्ठामाह। प्रत्यं-

गिति। तेषामेव समाधिसाधनसंपन्नतामाह। अपास्तेति। उक्तलक्षणमुमुक्षूणां स्वमहिमप्रतिष्ठकूटस्थ-प्रत्यक्त्वसाक्षात्काराधिकारो न बहिर्मुखानामिति गमयति। ईक्षन्त इति॥११३४॥

अतोऽशेषमहानर्थहेत्वात्माज्ञानहानिकृत्॥
प्रत्यग्याथात्म्यविज्ञानभास्करोदयहेतवे॥

आरब्धेयं प्रयत्नेन वेदान्तोपनिषत्परा॥११३५॥

* शतानि दश चैकं च चत्वारिंशत्तथाऽष्ट च॥
श्लोकाः संबन्धभाष्येऽस्मिन्संख्याताः संख्ययाऽखिलाः॥११३६॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके संबन्धवार्तिकम्॥

यतस्तत्त्वज्ञानमेव केवलं कैवल्य हेतुरतस्तादर्थ्येनोपनिषदारम्भः संभवतीत्यतोऽस्मादि त्यादिभाष्यं व्याख्यास्यन्नुपसंहरति। अत इति। वेदान्तार्थस्य विनोपदेशं दुर्दर्शत्वं दर्शयितुमुपनिषत्पर्यायस्तेषु प्रयुज्यते। नन्वतिरोहितार्था वेदान्ता नोपदेशमपेक्षेरन्मैवमतिगहनार्थत्वेन तेषां व्याख्यानसापेक्षत्वादित्याह। परेति॥११३५॥११३६॥

संबन्धवार्तिकमहाम्बुधिरेष तीर्णः सत्संप्रदायपदवीकृतसेतुबन्धः॥
सत्तर्कमानलहरीगहनावगाहपूर्णेन370 पुण्यनिचयेन पुराचितेन॥१॥

इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिकटीकायां संबन्धवार्तिकम्॥

_____________________________________________________________

_(*)

एतच्छ्लोकनिषद्वसंख्यातो न्यूनाः कतिचिच्छ्लोका विद्यन्ते तत्कुत इति न निश्चीयते। एवमग्रेऽपि ज्ञेयम्।

]


  1. “ख. ºद्योततिº।” ↩︎

  2. “ख. ºत्याऽधिº।” ↩︎

  3. “क. हि ते।” ↩︎

  4. “क. ºया प्रसिº।” ↩︎

  5. “क.ºयाऽत्र श्रुº।” ↩︎

  6. “ख. ºरिक्तसाº।” ↩︎

  7. “ख. ºगोऽस्तु लौº।” ↩︎

  8. “क. ºते तेन तº।” ↩︎

  9. “ख. ºस्य मेº।” ↩︎

  10. “क. ºतीचो वº।” ↩︎

  11. “क. ख. ºस्मिन्नविº।” ↩︎

  12. “ख. ºयामोदाप्तिः।” ↩︎

  13. “ख. सर्वथाऽर्थº।” ↩︎

  14. “ख. ºमिति।” ↩︎

  15. “क. ºत्यं च सूº।” ↩︎

  16. “क. ‘तत्र व्या’।” ↩︎

  17. “क. तनाद्गर्भा।” ↩︎

  18. “क. नामपीति।” ↩︎

  19. “क. ब्रह्मात्मवि।” ↩︎

  20. “क. साध्यं फ।” ↩︎

  21. “क. रनिवि।” ↩︎

  22. " ख. साध्यध्रुवाध्रुववै। " ↩︎

  23. “ख. गुरुमुप।” ↩︎

  24. “क. त्नाधेयो।” ↩︎

  25. “ख. तो यन्न का।” ↩︎

  26. “ख त्वे ब्र।” ↩︎

  27. “क. ‘ना मुगुप्तौ सु।” ↩︎

  28. “क. च्चाप्यस।” ↩︎

  29. “ख. सर्वशः ।” ↩︎

  30. “ख. प्रति।” ↩︎

  31. “क. माणसं।” ↩︎

  32. “क. गान्नार।” ↩︎

  33. “ख. ण्याद्धे।” ↩︎

  34. “क. द्धिस्तु व।” ↩︎

  35. “ख तस्थौ।” ↩︎

  36. “ख तोऽनवस्थि” ↩︎

  37. “ख. शल्यं बु।” ↩︎

  38. “ख. भावः।” ↩︎

  39. “ख. काम्यवर्जनादिरित्य।” ↩︎

  40. “ख. नैवं।” ↩︎ ↩︎

  41. “ख. ति। नैव।” ↩︎

  42. “क. वं विक।” ↩︎

  43. “क. ‘दि॥ मुक्तिरि।” ↩︎

  44. “ख. ‘दित्यर्थः॥६५॥ श।” ↩︎

  45. “ख. न्न क।” ↩︎

  46. “क ह। त।” ↩︎

  47. “ख. बन्धे त।” ↩︎

  48. “ख. ‘स्मात्ततो।” ↩︎

  49. “र्थ वाऽनु।” ↩︎

  50. “ख. श्चयः प्र। " ↩︎

  51. “ख भवतीत्य।” ↩︎

  52. “ख तेन।” ↩︎

  53. “ख. कोऽप्र।” ↩︎

  54. “ख शाब्दे सं। " ↩︎

  55. “क. ता॥ देव।” ↩︎

  56. “क. देवोति।” ↩︎

  57. “ख. प्रत्याह।” ↩︎

  58. “ख. तत्पुंम।” ↩︎

  59. “ख. ‘थैतयोः।” ↩︎

  60. “ख. नाद्यक।” ↩︎

  61. “ख. निर्हरणा।” ↩︎

  62. “क. दुष्टतः।” ↩︎

  63. “क. तुत्वमानं फ” ↩︎

  64. “ख. षक।” ↩︎

  65. “ख. योरनृ।” ↩︎

  66. “ख. त्। तत्कृ।” ↩︎

  67. “क. तडागादि।” ↩︎

  68. “क. निषेधवा।” ↩︎

  69. “ख. ‘तार्थदे’।” ↩︎

  70. " क. ञ्चोऽतिवि।” ↩︎

  71. “ख. प्तेर्व्यक्तत्वा।” ↩︎

  72. “ख. तानां य।” ↩︎

  73. “ख. र्तृतः॥ नै।” ↩︎

  74. “क. कर्त्रादी।” ↩︎

  75. “ख. ‘नि कार’।” ↩︎ ↩︎

  76. " ख. ‘षम्यादित्य।” ↩︎

  77. “ख. दतेति।” ↩︎

  78. “क. दस्त।” ↩︎

  79. “ख. ‘त्यन्तभि’।” ↩︎

  80. “ख. रूपाप्त।” ↩︎

  81. “ख. ‘त्वात्तवि’ ।” ↩︎

  82. “ग्धीमुषिता।” ↩︎

  83. “ख. त्फलम्। प्र।” ↩︎

  84. “ख. देरेव।” ↩︎

  85. “ख. ‘सत्यत्वमे’।” ↩︎

  86. “ख. वदावि।” ↩︎

  87. “क. स्य प्रत्यक्षान्न।” ↩︎

  88. “क. ज्ञानं।” ↩︎

  89. “ख. तेस्तत्राऽऽह।” ↩︎

  90. “ख. र्जनं सा।” ↩︎

  91. “ख. ते तथा।” ↩︎

  92. “ख. प्रतीय।” ↩︎

  93. “ख. ‘दन्तेना’।” ↩︎

  94. “क. वास्तित्वं प्र।” ↩︎

  95. “ख. कल्पते।” ↩︎ ↩︎

  96. “ख. चनायां त।” ↩︎

  97. “ख. पोद्यत्वो।” ↩︎

  98. “ख. ‘वर्तकत्वा’।” ↩︎

  99. “क. तस्यां।” ↩︎

  100. “ख. ºम्या मानº।” ↩︎

  101. “ख. त्वेनस।” ↩︎

  102. “क. द्याऽस्तीति।” ↩︎

  103. “क. °त्वाभा°।” ↩︎

  104. “ख. न्न वाऽसि।” ↩︎

  105. “ख. धिनां वे।” ↩︎

  106. “क. पेक्ष्यं व्य। " ↩︎

  107. “ख. त्युत्त।” ↩︎

  108. “ख. मुक्तौ।” ↩︎

  109. “ख. यनं जा।” ↩︎

  110. “ख. ब्राह्मणः।” ↩︎

  111. “ख. स्य प्रत्यक्षादि।” ↩︎

  112. “ख. क्षस्य।” ↩︎

  113. “ख. बाधेत।” ↩︎

  114. “ख. मात्वश।” ↩︎

  115. “ख. ग्रीजत्व।” ↩︎ ↩︎

  116. “ख. क्षे वाऽप।” ↩︎

  117. “क. नवेति।” ↩︎

  118. " ख. कल्पते।” ↩︎

  119. “क. च। " ↩︎

  120. “ख. ‘त्वेमानमा।” ↩︎

  121. “क. न्यस्येदि।” ↩︎

  122. “ख. तानानव।” ↩︎

  123. “ख. ज्ञानेऽन।” ↩︎

  124. “ख. तुमा।” ↩︎

  125. “ख. न्तरम्। गृ।” ↩︎

  126. “क. ‘र्वोक्तका’।” ↩︎

  127. “ख. विद्यते।” ↩︎

  128. “क. ‘ज्ञाने वि।” ↩︎

  129. “क. ‘श्चिरंका’।” ↩︎

  130. “ख. पिण्डोत्पत्तिः।” ↩︎

  131. “क. तेनैव। " ↩︎

  132. “ख. चार्यस्य।” ↩︎

  133. “क. ख. मेजिज्ञासित।” ↩︎

  134. “ख. र्याध्याहारासि।” ↩︎

  135. “ख. वेदवा।” ↩︎

  136. “क. द्धेस्तद्यु।” ↩︎

  137. " ख.अत्र।” ↩︎

  138. “ख. गार्थक।” ↩︎ ↩︎

  139. " ख. ‘मार्थक’।” ↩︎

  140. “ख. सिद्धमर्थ।” ↩︎

  141. “ख. मान्ये वि।” ↩︎

  142. “ख. याद्यात्म।” ↩︎

  143. “ख. भूर।” ↩︎

  144. “ख. या॥ २५३॥” ↩︎

  145. “क. न्यथाऽनु।” ↩︎

  146. “ख. तश्चैवं।” ↩︎

  147. " ख. न्तसंभिन्नो।" ↩︎

  148. “क. क्यं कल्पकाभा।” ↩︎

  149. “ख. वाद्यवि।” ↩︎

  150. “ख. तत्पक्षे।” ↩︎

  151. “क. वतिष्ठते।” ↩︎

  152. “ख. नुद्रवति।” ↩︎

  153. “ख. ‘कोचाभा।” ↩︎

  154. “क. चोद्यते।” ↩︎

  155. “क. वत्त्वं युक्त। " ↩︎

  156. “क. एवं।” ↩︎

  157. “च. ‘दीनीति च।” ↩︎

  158. “क. गर्थ्यादिसं।” ↩︎

  159. “ख. णास्याधि।” ↩︎

  160. “ख. कार्थता।” ↩︎

  161. “ख. त्मभूतत्वा।” ↩︎

  162. “ख. ते चायु।” ↩︎

  163. “क. सन्किं न।” ↩︎

  164. “क. बद्धः प्री।” ↩︎

  165. “ख. काण्डप्र।” ↩︎

  166. “क. संधारय।” ↩︎

  167. “ख. न्न चामु।” ↩︎

  168. " क. तु।” ↩︎

  169. “क. दुक्तं प्र।” ↩︎

  170. “क. न्तरं सं।” ↩︎

  171. “क. काण्डयोः प°।” ↩︎

  172. “ख. ‘त्पत्तिं प्रति प्र।” ↩︎

  173. " ख ‘द्याविशे।" ↩︎

  174. “क. ‘लाश्रया।” ↩︎

  175. “क. षणत्वात्।” ↩︎

  176. “क. वाऽऽवात्मानं।” ↩︎

  177. “क. त्रापि वि।” ↩︎

  178. “ख. ‘दिशब्देनो’।” ↩︎

  179. “ख. प्रमाणा। " ↩︎

  180. “क विधिना तद्द्वा ।” ↩︎

  181. “क. द्द्वारा त।” ↩︎

  182. “क. क्षे प्रकृतिचो।” ↩︎

  183. “क. न्मुख्येन।” ↩︎

  184. “ख. ‘न चानि’।” ↩︎

  185. “ख. ख्यातेषु।” ↩︎

  186. “क. का तर्हि।” ↩︎

  187. “ख. सतत्त्वा।” ↩︎ ↩︎

  188. “ख. सतत्त्वे।” ↩︎

  189. “ख. षभ।” ↩︎

  190. “ख. हेम्नोऽस्ति।” ↩︎

  191. " क. ख. नोक्त्वा फ।” ↩︎

  192. “ख. ‘तैर्वेति त’।” ↩︎

  193. “ख. पेक्षायां स ।” ↩︎

  194. “ख तन्नायं वि।” ↩︎

  195. “ख. यस्त्वासां।” ↩︎

  196. “क. त्यतो।” ↩︎

  197. “ख. कार्ये चेत्का।” ↩︎

  198. “ख. कार्ये चेदि।” ↩︎

  199. “ख. स्य क।” ↩︎

  200. “ख. ‘दौ स्वीयेन्द्रि’।” ↩︎

  201. “ख. निराह।” ↩︎ ↩︎

  202. “ख. नशे।” ↩︎

  203. “ख. उच्यते।” ↩︎

  204. “ख. ‘द्युत्थप्र।” ↩︎

  205. " क. नैव।" ↩︎

  206. “ख. कल्पेत।” ↩︎

  207. " क. त्कल्प्यते।" ↩︎

  208. “क. ङ्क्षा हि प्र।” ↩︎

  209. “ख. र्मणीक्ष्य।” ↩︎

  210. “ख. ण्यापाश्र।” ↩︎

  211. “क. वा जाय।” ↩︎

  212. “नां शुद्धसिद्धा।” ↩︎

  213. “ख. संचितमे।” ↩︎

  214. “ख. चसस्त्विति। इ।” ↩︎

  215. “ख. वमेव सा।” ↩︎

  216. “ख. वस्तुतः।” ↩︎

  217. “क. साध्यत्वा।” ↩︎

  218. “क. भूतात्म।” ↩︎

  219. “ख. श्चिदीक्ष्यते।” ↩︎

  220. “ख. च।” ↩︎

  221. “ख. त्वात्प्रामाण्यस्या।” ↩︎

  222. “क. ख. ‘क्तिर्ग्रहा।” ↩︎

  223. “षया वे।” ↩︎

  224. “ख. पोद्वापाभ्यां।” ↩︎

  225. “ख. शक्यते।” ↩︎

  226. “ख. र्यार्थे प्र।” ↩︎

  227. “ख ‘मितीत्य।” ↩︎

  228. “ख. द्धौ पुंस्प्रवृ।” ↩︎

  229. “क. ब्दो दर्पशो।” ↩︎

  230. " ख. कत्वे प्र।" ↩︎

  231. “क. गतो नि।” ↩︎

  232. “ख. ‘श्चगम्यते।” ↩︎

  233. “ख. कतया।” ↩︎

  234. “क. ताविवक्षितैवे।” ↩︎

  235. “ख. र्थतेत्य।” ↩︎

  236. “ख. ‘ति राद्धा’।” ↩︎

  237. “क. मिष्टमित्या” ↩︎

  238. “ख प्रयुज्यते।” ↩︎

  239. “क. ‘ति ते वा।” ↩︎

  240. “ख. स्तमेव।” ↩︎

  241. “ख. ब्दतस्तूप।” ↩︎

  242. “ख. न्त्र्यात्क्वापि।” ↩︎

  243. " ख. श्चेत्तत्स्व।" ↩︎

  244. “क. ख. म्भादव’।” ↩︎

  245. “ख. माण्ये सं।” ↩︎

  246. “क. धाने स।” ↩︎

  247. “ख. सिद्धेऽर्थे।” ↩︎

  248. “क. भाणयि।” ↩︎

  249. “ख दित्यर्थः। व्य।” ↩︎

  250. “ख. क्रिकं मां।” ↩︎

  251. “ख. दस्थं प्र.।” ↩︎

  252. “ख. ष्ठाफ।” ↩︎

  253. “क. वन्माफलकान्म।” ↩︎

  254. " क. ज्ञानता।" ↩︎

  255. " क. ‘क्षादेर्मान्त।" ↩︎

  256. “ख ‘ति। मानप्रवृ।” ↩︎

  257. “ख. रे प्रयु।” ↩︎

  258. “ख. पूर्वीय।” ↩︎

  259. “ख. रद्वा।” ↩︎

  260. “ख. धीत्युक्तं।” ↩︎

  261. “ख. क्तेर्दृष्टा।” ↩︎

  262. “ख. सकलो।” ↩︎

  263. “ख धनात्। स।” ↩︎

  264. “ख. ह।नैव।” ↩︎

  265. “क. ‘बन्धे या’” ↩︎

  266. “ख. यतः।” ↩︎

  267. “ख ‘ष्यताम्।अ।” ↩︎

  268. “ख. ºमाह। पुº।” ↩︎

  269. “ख यतः।” ↩︎

  270. “ख. म्भादत्र।” ↩︎

  271. “क. ºत्या क्रियाº।” ↩︎

  272. “ख. ºबद्धो व्यº।” ↩︎

  273. “ख. ºबद्धोऽय०।” ↩︎

  274. “ख. ºचान्यव्या०।” ↩︎

  275. “क. ºधकः॥६४९॥” ↩︎

  276. “क. स्वर्गादि।” ↩︎

  277. “ख. ºक्षतः॥६५५॥” ↩︎

  278. “ख. ºदिरलौकिº।” ↩︎

  279. “ख. ºशेषित्वेº।” ↩︎

  280. “ख. ºदत्वाº।” ↩︎

  281. “ख. शङ्कते।” ↩︎

  282. “ख. ºक्षं मानं।” ↩︎

  283. “क. ºरूपसº।” ↩︎

  284. “ख. ºद्वस्तुप्रº।” ↩︎

  285. “न. ºयोगकाº।” ↩︎

  286. “क. ºत्वं तावन्नियोº।” ↩︎

  287. “ख. ºस्तत्र प्रयोº।” ↩︎

  288. “क. ºदोऽयं माº।” ↩︎

  289. “ख. ºवृत्तानुº।” ↩︎

  290. “क. ज्ञातलि।” ↩︎

  291. “ख. ºद्धेतोरº।” ↩︎

  292. “क. ºदित्वायोº।” ↩︎

  293. “क. ºवेऽपि संº।” ↩︎

  294. “क. ºयोगसंº।” ↩︎

  295. “ख. ºधकम्।” ↩︎

  296. “क. ºकामस्य प्रºI” ↩︎

  297. “ख. ºते तस्मिº।” ↩︎

  298. “क. ºतस्तदुº।” ↩︎

  299. “क. ºधान्यान्न च।” ↩︎

  300. “ख. लक्ष्यते।” ↩︎

  301. “ख. त्साक्षात्त्वात्मरूº।” ↩︎

  302. “क. ग. विषयं।” ↩︎

  303. “ख. ºधेर्वस्तुपरº।” ↩︎

  304. “क. ०यारूपावृº।” ↩︎

  305. “ख. प्रकुर्वते।” ↩︎

  306. “क. ग. ºप्रधानतः।” ↩︎

  307. “ख. त्वेनैकº।” ↩︎

  308. “क. ग. हि।” ↩︎

  309. “क. म. ºन्नता मता।” ↩︎

  310. “क. ºमास्यधिº।” ↩︎

  311. “क. ग. ºमीक्ष्यते।” ↩︎

  312. “क. ºस्याप्यर्थº।” ↩︎

  313. “ख. ºस्त्रात्स्यात्र मेº।” ↩︎

  314. “ख. ºहानिरित्याº।” ↩︎

  315. “ख. ºषुप्तिभ्यो।” ↩︎

  316. “ख. ºदृशप्रº।” ↩︎

  317. “ख. ºदृशेति।” ↩︎

  318. “ख. ºगमे क्षº।” ↩︎

  319. “क. ग. ºर्थेष्विव लोº।” ↩︎

  320. “क. ºति लोकº।” ↩︎

  321. “ख. ºयोगसº।” ↩︎

  322. “ख वाऽपि।” ↩︎

  323. “ख. ºशक्तता।” ↩︎

  324. “ख. ºकेतः सº।” ↩︎

  325. “ख. ºचीनं सº।” ↩︎

  326. “क. ºदीदिति।” ↩︎

  327. “ख. प्लवो।” ↩︎

  328. “ख. नीक्षते।” ↩︎

  329. “ख. ईक्षत।” ↩︎

  330. “क. ºद्धर्मादिº।” ↩︎

  331. “ख. लभ्यते।” ↩︎

  332. “ख. तीक्ष्यताम्॥९३६॥” ↩︎

  333. “क ग. ºवस्वभाº।” ↩︎

  334. “क. ख. भिद्यात्पुंº।” ↩︎

  335. “क. ºस्तुस्वरूº।” ↩︎

  336. “ख. ºदुत्पादनं।” ↩︎

  337. “स्व. ºसाधनत्वाº।” ↩︎

  338. “क. ºबन्धान्नैकº।” ↩︎

  339. “ख. नेक्ष्यते।” ↩︎

  340. “क. ग. ºस्पृगीक्ष्यते।” ↩︎

  341. “ग. निरुपाº।” ↩︎

  342. “क. अर्थान्तº।” ↩︎

  343. “क. ग. ºषन्तश्च संº।” ↩︎

  344. “क. ºनाभिविº।” ↩︎

  345. “ख.ºत्वयº।” ↩︎

  346. “ख. ºतज्ञाº।” ↩︎

  347. “क. ग. ºर्वो ह्यनुº।” ↩︎

  348. “ख. ºत्येव पृº।” ↩︎

  349. “ख. ºतेष्यते।” ↩︎

  350. “क. कल्पते।” ↩︎

  351. “ख. ºगाहुःº।” ↩︎

  352. “ख. ºपायं संº।” ↩︎

  353. “क. सदैकº” ↩︎

  354. “ख. ºन्नैवं तº।” ↩︎

  355. “ग. ºस्तदा भº।” ↩︎

  356. “क. प्रवृत्तिशº।” ↩︎

  357. “ग. ºस्तद्धि भिº।” ↩︎

  358. “ख. नेष्यते।” ↩︎

  359. “ख. ºयोर्मिº।” ↩︎

  360. “ख.ºस्माच्च विº” ↩︎

  361. “ख. ºत्राभिधीयº।” ↩︎

  362. “ग. सर्वज्ञा।” ↩︎

  363. “ख. ºस्तदा॥ सº।” ↩︎

  364. “ख. ºवतः।स्वात्मº।” ↩︎

  365. “ग. ºविराº।” ↩︎

  366. “ख. तत्।” ↩︎

  367. “ख. मैवं।” ↩︎

  368. “ख. ºह। मैवº।” ↩︎

  369. “ख. भोगाद्वैतृº।” ↩︎

  370. “ख. ºपूरेण पुº।” ↩︎