श्रीकण्वोपनिषदर्थसङ्ग्रहः

[[श्रीकण्वोपनिषदर्थसङ्ग्ग्रहः Source: EB]]

[

श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवाय नमः ॥

कल्याणगुणपूर्णाय दोषदूराय विष्णवे । नमः श्रीप्राणनाथाय भक्ताभीष्यप्रादायिने ॥

प्रणस्य श्रीमदानन्दतीर्थादिगुरुशेखरान्‌ । काण्वोपनिषदोर्थानां सङ्ग्रहः क्रियते मया ॥

अस्या उपनिषदो ब्रह्मसूर्ययाज्ञवल्क्यकण्वाः क्रमादृषयः । लक्ष्मशो देवता । वाक्यरूपत्वान्न च्छन्दोन्वेषणं । अस्या उपनिषदोध्यायाष्यात्मकत्वेपि पूर्वाध्यायद्वयस्य विद्याधिकाराथर्ं अश्ऱ्वमेधकर्मनिरूपणपरत्वेन तदव्याख्याय कर्मणा शुद्धान्तःकरणस्य ब्रहमस्वरूपं निरूपयितुं प्रवृत्तं तृतीयाध्यायादिग्रन्थसन्दर्भं व्याचख्यौ भगवान्भाष्यकारः ।

तृतीयोऽध्यायः

तथाहि । आदौ पूवर्प्रकृताश्ऱ्वमेधयागीयाश्ऱ्वानिष्ठां ब्रह्मविद्यामाह ॥ उषा वा इत्यादिना खण्डद्वयेन । यागीयाश्ऱ्वो हि उच्चैश्ऱ्श्रवाः तत्राश्ऱ्वरूपो ब्रह्मा तत्र च तद्रूपो हरिः सन्निहितः । तत्र सन्निहितयोरश्ऱ्वरूपयोः ब्रह्मविष्ण्वोरङ्गेषु जगदाश्रित्यास्तीति शिणःप्रभृत्युत्तमाङ्गक्रमेणाह ॥ उषा वा इति ॥ मेध्यस्य मेघशब्दितयागार्हस्य अश्ऱ्वस्य तत्र सन्निहिताश्ऱ्वरूपब्रह्मगतस्याश्ऱ्वरूपस्याश्ऱ्वनाम्नो हरेः शिरः उषाः उषो देवी ततो जाता । तदाश्रित्यतिष्ठतीत्यर्थः । शिर इत्यादि प्रथमा पञ्चमीसप्तम्योरर्थे ध्येया । तथा तृतीयार्थे चतुर्थ्यर्थे षष्ठयषर्थे च ज्ञेया । उषाः शिरसा सत्ताप्रतीतिप्रवृत्तिमतीति । उषाः शिरसे तदुपिस्त्यर्था । अङ्गेषु यथाश्रयभाव इति सूत्रात्‌ । उषाः शिरसस्तत्सवामिकेति । एवमग्रेऽपि ध्येयम्‌ । वै शब्दः प्रसिद्धयर्थः । सूर्यश्ऱ्चक्षु अश्ऱ्वस्य मेध्यस्येति सर्वनिषज्यते । तदर्थः प्राग्वत्‌ । सूर्यो मण्हलाभिमानी देवश्ऱ्चक्षुषो जातस्तत्र तिष्ठतीत्यादिरर्थः । एवमग्रेऽपि । वातो वाय्वभिमानी प्राणः । वैश्ऱ्वानरनामाग्निः व्यात्तं विवृतमुखम्‌ । संवत्सरः संवत्सराभिमानी ब्रह्मा अश्ऱ्वस्य मेध्यस्यात्मा सर्वदेहः । प्राक्तनस्यैव सर्वनिषङ्गसम्भवे पुनरश्ऱ्व्य मेध्यस्येत्युक्तिः कस्यचिदश्ऱ्वस्यैवं महिमा न किन्तु सर्वस्यापि यागीयाश्ऱ्वस्येति द्योतनाय । द्यौः द्युलोकभिमानी पृष्ठम्‌ । अन्तरिक्षं अन्तरिक्षाभिमानी विघ्नेशसूनुरुदरम्‌ । पृथिवी पृथिव्याभिमानी पाजस्यं पादाः । दिशो दिगभिमानिनश्ऱ्चत्वारः पार्श्ऱ्वे । पूर्वापरविभागेनैकपार्श्ऱ्वस्य द्वित्वेनपार्श्ऱ्वद्वयस्य चतुष्ट्वात्‌ पाश्ऱ्वेभ्यो जातास्तानाश्रित्य तिष्ठन्ति चेत्येवमादिरर्थः । अवान्तरदिशः कोणमानिनः । परिशवः परिशवशब्दितपार्श्ऱ्वस्थास्थिपुच्छानि । ऋतवः वसन्तदिषडृतुमानिनः अङ्गानि शिणःपादमूलचतुष्ययपुच्छभेदेन षडङ्गानि । मासा अर्धमासाश्ऱ्च मासपाक्षाभिमानिनः । पर्वाणि प्रधानसन्दयोऽवान्तरसन्धयः । अहोरात्रमानिनः । प्रतिष्ठा पादाः । नक्षत्राणि नक्षत्राभिमानिनः अस्थीनि । नमःआकाशभिमानी विघ्नेशः मांसानि । सिकताः सिकताभिमानिनः उवध्यं पुरीषम्‌ । मेध्या श्ऱ्वगतभगवदुदरस्थमिति योज्यम्‌ । उवध्याश्रितपृथिवीदेव्यां सिकताभिमानिनस्तिष्ठन्तीत्यादिरर्थो ध्येयः । पृथिव्याः पादा श्रयत्वोक्तावपि उवध्याश्रयत्वं न विरुद्धं ऐश्ऱ्वर्याद्वहुरूपत्वाच्च । सिन्धवो नदीमानिनः गुदाः आन्त्राणि । पर्वताः पर्वताभिमानिनो देवाः । यकृच्च क्लोमानश्ऱ्च यकृत्क्लोमशब्दितमांसविशेषाः ओषधयश्ऱ्च वनस्पतयश्ऱ्च तदभिमानिनो देवाः लोमानि । उद्यन्‌ उदयङ्गतो रविः पूर्वार्धः नाभेः पूर्वभागः । निम्लोचन्‌ अस्तं गच्छन्‌ जघनार्धः नाभेरधोभागः । यत्‌ विद्योतते यो विद्युदभिमानी त्‌ स विजृम्भते । मेध्याश्ऱ्वस्य विजृम्भणं औदरवायुवशेन मुखव्यादानं विजृम्भणम्‌ । यत्तच्छब्दयोर्व्यत्यासेन योजना । यत्‌ स्तनयति मेघगर्जनाभिमानी यः तत्‌ सः विधूनुते गात्रं कम्पयते । गात्रकम्पनाश्रित इत्यादिरर्थः । यद्वार्षति वर्षाभिमानी यः तत्‌ सः मेहति मूत्रयति । मूत्रमणाश्रित इत्यादः । वागेव प्रसिद्धवागभिमानिदेव एव । अस्य मेध्याश्ऱ्वस्थस्य हरेः वाक्‌ ततो जाता तामाश्रित्य तिष्ठतीति ज्ञेयम्‌ । एवं शिरः प्रभृतिप्रथमान्तशब्दानां उषाः शिरो ब्रह्म नामेत्यादिभाष्योक्तस्मृत्या सप्तम्यर्थादिपरत्वमुपेत्य उषोदेवीप्रभृतिदेवानां मेध्याश्ऱ्वगतहरेश्शिरःप्रभृत्यभ्गश्रितत्वादिरूप एकार्थोऽस्य खण्डस्योक्तः । ईशाङ्गवाचिनो वा स्युरित्यादिस्मृत्यनुरोधेन मेध्याश्ऱ्वगतस्य हरेश्शिरः प्रकाशरूपत्वादुषा इत्युच्यते । चक्षुः सूरिप्रप्यत्वादिहेतुना सूर्य इत्यच्यत इत्यादिरूपेण योगवृत्त्या उषस्सूर्यवातवैश्ऱ्वानराग्निसंवत्सरादिशब्दानां शिरः प्रभृतिभगवदवयववाचिपरत्वेनान्योप्यर्थो ध्येयः ।

अस्मिन्पक्षे यथाश्रुतमेव सामानाधिकरण्यम्‌ ॥

3

1

1

मेध्याश्ऱ्वनिष्ठभगवत्सम्बन्धिविद्याविशेषमाह ॥ अहरिति ॥ अश्ऱ्वमेधौ यमेध्याश्ऱ्वस्य पूर्वापरदेशौ होमयोग्यौ महिमशब्दितौ । तदभिमान्युक्तिपूर्वं तयोः जन्मकरणाद्याहात्र खण्डे । अश्ऱ्वं पुरस्तान्मेध्याश्ऱ्वस्य पुरोभागो महिमनामा अहः अहरभिमानिमन्मथाभिमन्यमानः अन्वजायत आसीदित्यर्थः वै प्रसिद्धिद्योतकः । तस्यमहिमाभिमानिनोऽहश्शब्दितस्य मन्मथस्य । पूर्वे अनादौ । मुख्ये इति वा । समुद्रे सम्यग्गुणैरुद्रिक्तत्वादुत्कृष्यत्वाद्धेतोस्समुद्रनामके हरौ योनिरुत्पत्तिः । एनं अस्याश्ऱ्वस्य पश्ऱ्चात्‌ पश्ऱ्चाद्भागो महिमनामा रात्रिः रात्रिदेवतारत्यभिमन्यमानः अन्वजायत अभवत्‌ । तस्य पश्ऱ्चाद्भागाभिमानिनो रात्रिदैवतस्य अपरे अमुख्ये समुद्रे समुद्रिक्ते अमुख्यसमुद्रेकवति चतुर्मुखे योनिरुत्पुत्तिः । विक्षिप्योक्तं बुद्धयारोहाय सङ्गृह्याह ॥ एताविति ॥ एतौ महिमानौ महिमशब्दितावश्ऱ्वदेहपूर्वोत्तरभागौ अहोरात्रशब्दितमन्मथरत्यभिमन्यमानौ अश्ऱ्वमभितः अश्ऱ्वदेहस्य पूर्वापरदेशे सबम्भूवतुः वै इति । न केवलं भगवान्‌ अश्ऱ्वरूपी मेध्याश्ऱ्वे तिष्ठति किन्तु देवादिवाहकेष्वपि स्थित्वा तत्तत्कर्मकर्तृतया तत्तन्नामा वर्तत इत्याह ॥ हयो भूत्वेति ॥ हत्वा शत्रून्‌ यातीति व्युत्पत्त्या हयनामा सन्‌ हयरूपी देवाश्ऱ्वेषु तेषां शत्रुहननाय आविष्यस्सन्‌ देवानवहत्‌ । नित्यं युद्धकर्तृत्वहेतुना वाजिनामा सन्‌ । वाजिरूपी गन्धर्वाश्ऱ्वेषु स्थित्वा गन्धर्वानवहत्‌ । देवप्रेष्यतया गन्धर्वाणां सर्वदा युद्धरतत्वात्तदश्वा वाजिनः वाजं युद्धमस्यास्तीति वाजी । अतिगतिमत्त्वहेतुना अर्वनामा सन्‌ असुराश्ऱ्वेषु स्थित्वा असुरानवहत्‌ । तेषामश्ऱ्वा अतिगतिमन्तः । ईषदाशुगमनहेतुना अश्ऱ्वनामा सन्‌ मनुष्याश्ऱ्वेषु स्थित्वा मनुष्यानवहत्‌ । सॅषद्गतिमन्तो हि मनुष्याश्ऱ्वाः । अस्य शत्रुहननादिव्यापारे कस्सहायः नानाविधरूपजनकश्ऱ्चक इत्यत आह ॥ समुद्र एवेति ॥ समुद्रेकहेतुना समुद्रनामा हरिरेवास्य हरेः बन्धुः । समुद्रअ एवास्य योनिः कारणम्‌ । स्वस्मादेव स्वयं नानारूपाण्याविर्भावयति ऐश्ऱ्वर्यातिशयादिति भावः ॥ इति प्रथममश्ऱ्वब्राह्मणम्‌ ॥

3

1

2

॥ प्रकृताश्ऱ्वमेधयज्ञो भगवदाराधनत्वेन ब्रह्मादिभिरप्यनुष्ठित इति सोकामयत मेध्यमिति तं संवत्सरस्य परस्तादात्मन आलभत इत्यादिना वक्तुं तदुपयुक्तां काञ्चन कथामाह ॥ नैवेहेति ॥ इह अवकाशे अग्रे विश्ऱ्वजनेः प्राक्‌ प्रलय इति यावत्‌ । किञ्चन वस्तु नैवासीत्‌ । प्रकृत्यादेः कारणजतस्य सत्त्वान्नैव किञ्चनासीदित्युक्तिः कथमित्यत आह ॥ मृत्युनैवेति ॥ अश्यते भुज्यत इत्यशं आहारभूतं जगत्‌ नयति प्रेरयतीति अशनाया तया अशनायता मृत्युना सर्वसंहारकेण हरिणा इदं सर्वं नित्यजातमावृतमासीत्‌ । अभिभूतं सुप्तशक्तिकमासीत्‌ । तदधीनमेवासीत्‌ । न स्वतन्त्रं अतो नासीदित्युक्तिरिति भावः । तथाहि श्रुत्यन्तरं नान्यत्किञ्चनमिषदिति । जगन्नेतृत्वस्य श्रीतत्वादौ सत्त्वेपि मुख्यतो मृत्युनामा हरिरेव नेतेति स एवात्र ग्राह्य इति भावेनाह ॥ अशनाया हि मृत्युरिति ॥ हि शब्दः एकः पुरस्ताद्य इदं पुरस्ताद्य इदं बभूव यतो ब

1

भूव भुवनस्य गोपाः। यमप्येति भुवनं साम्पराये स नो हरिर्धृतमिहायुषेत्तु देव इत्यादिश्रुतिप्रसिद्धिद्योतकः । तत्‌ तस्मात्स्वस्मादन्यस्याभावात्‌ । मनोकुरुत ऐच्छत्‌ । अप्सृष्ययर्थमिति शेषः । इच्छाप्रकारमाह ॥ आत्मन्वति ॥ आत्मवान्‌ जगदाख्यगौणदेहवान्‌ स्यां भवेयमिति । विश्ऱ्वसृजं विरिञ्चं सृष्ट्वा तद्द्वारा स्वधीनं जगत्सृजेयं ततः प्रागपस्सृजेयमित्यैच्छदिति तात्पर्यार्थः । अपां पाणिसुखहेतुत्वात्पूजासाधनत्वाच्चादौ तत्सृष्यिमाह ॥ स इति ॥ स मृत्युनामा हरिः । अप्सृष्ययर्थमात्मानमर्चन्नचरत्‌ । तस्यार्चतः स्वात्मानं पूजयतस्सकाशादापोजायन्त । अर्चतो जातत्वादुदकस्यार्कनाहेतुतया पम्पदवाच्यमुदकं अभूदिति यत्तदेवार्कस्यार्कपदवाच्यस्यार्कपदप्रवृत्तिनिमित्तम्‌ । अनेन निमित्तेनोदकस्यार्कनाम प्रप्तमिति प्रसिद्धिद्योतको वै शब्दः तात्पर्यज्ञापनायैतज्ज्ञानिनः फलमाह ॥ कमिति ॥ योधिकारी एवं विष्णुजातत्वपूजासाधनत्वसुखसाधनत्वप्रकारेणैतदर्कत्वं अर्कपदप्रवृत्तिनिमित्तं अर्कस्य अर्कपदवाच्यस्योदकस्य वेद अस्मै कं सुखं भवति ह वा इति । अर्चतो जातं कमर्कमिति व्युत्पत्तिः ।

निरुक्तिबलादरित्येतावत एवोपपदस्य शेषः ॥

3

2

1

॥ अर्कनाम्नस्सूर्ये प्रसिद्धत्वात्तद्बलादप्‌ शब्दोपि तत्पर एव किं न स्यादिति शङ्कामपाकर्तुं प्रागुक्तमपामर्कनामत्वमनुवदन्तस्ताभ्यः पृथिवीसृष्ययादिकमाह ॥ आपो वा अर्क इति ॥ वै शब्दोवधारणे । आप एवात्रार्को नादित्य इत्रत लोकरूढितोपि वाचनिकयोगस्य निरवकाशतया प्राबल्येनापामेवार्कनाम अर्चतो वै म इति प्रागुक्तनिरुक्तिबलादिति भावः । उक्तं हि कम्पनादित्यत्र रूढितोपि वाचनिकयोगस्य प्राबल्यम्‌ । तद्यदपां तत्‌ तासां अपां यत्‌ शरः यः शरः मण्ड आसीत्‌ तत्‌ सशरः स महन्यत निबिडोभवत्‌ । सा विधेयापेक्षया स्त्रीलिङ्गनिर्देशः । संहतः शरः पृथिव्यभवत्‌ । तस्यां पृथिव्यां श्ऱ्वेतद्वीपे अश्राम्यत्‌ शिश्ये । मृत्युरित्यनुषङ्गः । अग्निर्मे स्यादित्यतपच्चेति शेषः । तस्य श्रान्तस्य तप्तस्य अग्निर्मे स्यादिति चिन्तयतस्तेजो रसस्तेजस्सामर्थ्यस्य रसः जगत्सामथ्‌र्यसारभूतो बलदेवतारूपोग्निः अग्रजत्वादग्रणीत्वादङ्गिनां नेतृत्वाद्वा अग्निनामा मुख्यवायुः निरवर्तत उदपद्यतेति ॥

3

2

2

॥ तस्याग्निनाम्नो वायोः महिमानमाह ॥ स इति ॥ सोग्निनामा वायुः । आत्मानं त्रेधा व्यकुरुत व्यभजत्‌ । आदित्यं तृतीयं वायुं तृतीयमग्निं तृतीयमिति । त्रयाणां मध्ये एकैकस्योतरद्वयापेक्षया तृतीयत्वमस्तीति सर्वरूपाणां समत्वसिद्धये तृतीयं तृतीयमित्येवोक्तम्‌ । प्रथमं द्वितीयं तृतीयमित्युक्तौ रूपाणां तरतमभावः प्रतीयेत । प्राणिनामायुरादाय यातीति व्युत्पत्त्या आदित्यनामकं जगत्प्रकाशकत्वेनादित्यस्थं रूपमेकं सर्वप्राणिशरीरगं सज्जगत्पालकं वायुरूपमेकम्‌ । प्रागुक्तनिरुक्त्या अग्निनामकं अग्निस्थं सर्वयज्ञप्रवर्तकं रूपमेकं चेति त्रेधा व्यकुरुतेत्यर्थः । प्राङ्‌निरवर्तताग्निरित्युक्त्या अग्नेरेव त्रिरूपेति भ्रमनिरासायोक्तमेव रूपान्तरविवक्षयान्वाह ॥ स एष प्राणस्त्रेधा विहित इति ॥ प्राणो मुख्यवायुस्स च कूर्मरूपेण जगद्धारकः सन्नप्यास्त इति तस्य स्थितिमाह ॥ तस्येति ॥ कूर्मरूपेण स्थितस्य वायोः प्राची दिक्‌ शिरः । प्रथमा सप्तम्यर्थे । प्राच्यां दिशि शिरस्तिष्ठन्तीत्यर्थः । एवमग्रेऽपि ॥ असौ चासौ चेर्मौ ॥ ईर्मौ पादौ । असौ चसौ च आग्न्येय्यैशान्यौ दिशौ । अथेत्यर्थान्तरे पश्ऱ्चिमदिगवस्थिताङ्गानि वच्मीत्यर्थः । अस्य कूर्मरूपस्य वायोः पुच्छं प्रतीचीदिक्‌ । अस्य सक्‌थ्यौ पादौ असौ चासौ च नैर्ऋतवायव्य दिशौ । अय पार्श्ऱ्वे दक्षिणा चोदीची च । द्यौः द्युलोकः पृष्ठम्‌ । कूर्मदेहस्योदर्ध्वभागे अस्योदरमन्तरिक्षम्‌ । आकाशमुदरेस्तीत्यर्थः । अस्य उरः वक्षः । अधोभाग इति यावत्‌ । इयं पृथिवी कूर्मरूपस्य उरः प्भृत्यधोभागाश्रिता इत्यर्थः । सोयं वायुकूर्मः कुत्र तिष्ठतीत्यत आह ॥ स एषोप्सु प्रतिष्ठित इति ॥ अण्डोदके प्रतिष्ठित इत्यर्थः । यद्यप्ययं कूर्मरूपो वायुः पञ्चाशत्कोटिविस्तीर्णायाः पृथिव्याः निखिलमपि प्रदेशमभिव्याप्य तामुरस्संश्ऱ्लिष्यां कृत्वा तस्या उपरि तिष्ठति । अत एव तावत्परिमाणकूर्मदेहस्योपरिभागो द्युलोकपर्यन्तमास्त इति द्युलोकाधात्वं पृष्ठस्यान्तरिक्षाश्रयत्वं मध्यभागस्योदरशब्दितस्य युक्तम्‌ । तथापि वायवीयकूमर्देहस्याप्रतिघत्वात्‌ शिरोवाहुपादपुच्छपार्श्ऱ्वानां लक्षयोजनघनीभूतभूखण्डपाश्ऱ्वेषु अनुप्रविश्यातिरिच्याण्डोदपर्यन्तं गत्वा तदुदके अवस्थितत्वादपतसु प्रतिष्ठित इत्युक्तम्‌ । वायुकूर्मादिज्ञानिनः फलमाह ॥ यत्रेति ॥ य एवं विद्वान्‌ वायोरादित्यादिरूपत्रयं कूर्मरूपं चोक्तप्रकारेण जानन्‌ यत्र क्वच यस्मिन्कस्मिंश्ऱ्चिद्देशे एति गच्छति तिष्ठा सा चेत्तदेव तत्रैव प्रतितिष्ठति संस्थितिमान्‌ भवतीत्यर्थः ॥

3

2

3

॥ वायुरेव ब्रह्मा भवतीति ज्ञापयितुं वायूत्पत्तिं पूर्वमुक्त्वा ब्रह्मणः सृष्यिविषयामश्ऱ्वमेधकरणे साक्षादुपयुक्तां कथामाह ॥ सोकामयतेति ॥ ब्रह्मणोश्ऱ्वमेधकर्तृत्वेन तदुत्पत्तिकथाया अश्ऱ्वमेधकृता वादरजननाय उपयोगवत्‌ । वायूत्पत्त्युक्तेरपि अश्ऱ्वमेधादौ स एवोद्गानदक्षो नान्य इत्यथ हेममासन्य

?R

मित्यादिनोपयोगो व्यक्त इति ज्ञेयम्‌ । आत्मा विरिञ्चः मे द्वितीयो जायेतेति स मृत्युरकामयत । स मृत्युः मनासा स्वेच्छया । वाचं श्रीदेवीं । मिथुनं यथा भवति तथा समभवत्‌ । स इति तच्छशब्दार्थं व्यनक्ति ॥ अशनायां मृत्युरिति ॥ बिन्दुराधिक्यार्थे । सर्वाशननेतृत्वेन अशनायेति । तत्‌ तत्र देव्यां यद्रेतः स्थापितमासीत्‌ । स रेतः । विधेयापेक्षया पुल्लिङ्गत्वम्‌ । संवत्सरोभवत्‌ सम्यक्‌ वत्सभूतान्‌ देवान्‌ रमयतीति व्युत्पत्त्या संवत्सरनामा ब्रह्मा अभवत्‌ रमतेः ञमन्ताडुः । कियत्कालं देवी गर्भं दधारेत्यतो वत्सरपर्यन्तमित्याह ॥ न ह पुरेति ॥ ततः विरिञ्चोत्पत्तेः पुरा पूर्वं संवत्सरः नास ह नाभूत्किल । कोर्थ इत्यतो व्यनक्ति ॥ तमिति ॥ तं विरिञ्चं यावान्द्वादशमासात्मा संवत्सरः एतावन्तं कालमबिभः उदरे धृतवती देवी । तमेतावतः कालस्य संवत्सरस्य परस्तात्‌ पश्ऱ्चात्‌ असृजन असूत । वाणीदृष्यिं वक्तुमुपोद्धतमाह ॥ तमिति ॥ जातं तं विरिञ्चमिमभि प्रति तदाभिमुख्येनेति यावत्‌ । व्याददात्‌ तमत्तुं मुखविवृतिमकरोदित्यर्थः । सतु भीत्या भाणमकरोत्‌ । भाणिति शब्दमकरोत्‌ । सैव भाणिति शब्दस्तदभिमानी विधेयापेक्षया स्त्रीलिङ्गत्वं वाक्‌ सरस्वती अभवत्‌ । भारूपत्वाण्णशब्दितसुखरूपत्वाद्‌जभाणिति भगवान्‌ तद्वयंजकत्वात्सरस्वती भाणभवदित्युच्यते ॥

3

2

4

॥ ततः किं जातमित्यतोऽदनान्निवृतो भगवान्‌ (मृत्युः)वाणीवाणीश्ऱ्वराभ्यां जगत्सृष्ट्वा पश्ऱ्चात्समहरदित्याह ॥ स इति ॥ सः मृत्युनामा हरिः । इमं संवत्सराख्यं विरिञ्चम्‌ । अभिमंस्ये लीनं करिष्ये संहरिष्यामि यदि तर्हीति शेषः । कनीयः अल्पमन्नं करिष्ये कृतवान्‌ भवेयमित्यैक्षतालोचितवान्‌ । एवमालोच्य स मृत्युः अदनान्निवृत्तस्सन्‌ तया वाचा सरस्वत्या तेनात्मना विरिञ्चेन मिथुनीभूताभ्यां ताभ्यामिति यावत्‌ । इदं सर्वमसृजतेत्युक्तं व्यनक्ति ॥ ऋच इति ॥ ऋच इति ॥ ऋगाद्यभिमानिनः । गायत्ऱ्यादिछन्दोभिमानिनः यज्ञाभिमानिनः । असृजतेत्यन्वयः । अजनयदित्यथर्ः । सष्यिमुक्त्वा संहृतिमाह ॥ स इति ॥ स आत्मा विरिञ्चः । यद्यदेवासृजत तत्तदत्तुमध्रियत मनोकुरुत मृत्युरित्यर्थः । आदच्चेत्यपि ध्येयम्‌ । कुतः सर्वमादन्मृत्युरित्यतः स्वस्यादितिनामवात्त्वहेतोरित्याह ॥ सर्वमिति ॥ मृत्युः सर्वमत्तीति यत्‌ तत्‌ सर्वादनं अदितेरदितिपदवाच्यस्य मृत्योरदितित्त्वं अदितिपदप्रवृत्तिनिमित्तम्‌ । अन्यथा सर्वादनाभावे सवर्ात्तृत्वनिमित्तकं यत्‌ स्वस्यादितिनाम आदितिर्देवतामयी इत्यादि श्रुत्यन्तरेस्ति तन्न स्यादतः सर्वमाददिति देवमातरि प्रसिद्धादिति नाम्नो निमित्तोक्तिपरमिति त्ययुक्तम्‌ । तस्यास्सर्वादनस्य बाधात्‌ । मृत्युपदोक्तब्रह्मप्रकरणविरोधाच्च । तथाच सूत्रम्‌ । अत्ताचराचर ग्रहणात्‌ । प्रकरणाच्चेति । तात्पर्यद्योतनायैतज्ज्ञानिनः फलमाह ॥ सर्वस्येति ॥ योधिकारी अदितेरदितिपदवात्त्यस्य मृत्युनाम्नो हरेरेतददितित्वं अदितिपदप्रवृत्तिनिमित्तमेवं वेद स इति शेषः । सर्वस्य स्वयोग्यस्यात्ता भक्षकः भवति । नेदं स्तुतिमात्रं किन्तु वास्तवमेवेति भावेनाह ॥ सर्वमस्यान्नं भवतीति ॥

3

2

5

॥ अश्ऱ्वमेधकर्तृजनिमुक्त्वा तत्साधनाश्ऱ्वरूपपशूत्पत्तिं वक्तुं कथामाह ॥ स इति ॥ स चतुर्मुखः । भूयसा यज्ञेन श्रेष्ठेनाश्ऱ्वमेधक्रतुना । भूयः परिपूर्णं ब्रह्म । यजेय पूजयेयमित्यकामयत । एवं कामयमानस्स साधनास्मृतेरश्राम्यात्‌ श्रान्तोभवत्‌ । स तपोतप्यत अतपदित्यर्थः । तापवानभूदिति यावत्‌ । तस्य श्रान्तस्य तप्तस्य देहत्यागेच्छायां सत्यां देहादुदक्रामात्‌ । तस्मिन्नुत्क्रान्ते सति तेनैव सह यशो वीर्यमुदक्रामदिति कांक्षितपूर्त्या वाक्ययोजना ज्ञेया । यशोवीर्यशब्दाथर्ं व्यनक्ति ॥ प्राणा वैयशो वीर्यमिति ॥ यशेवीर्यहेतुत्वात्प्राणा इन्द्रियाभिमानिनः ॥ प्राणेषूत्क्रान्तेष्विति ॥ विरिञ्चेन सहेति योज्यम्‌ । श्ऱ्वयितुं स्थूलभावं प्राप्तुंह अधि्रयत अभूत्‌ । स्थूलमभवदित्यर्थः । तस्य विरिञ्चस्य शरीरे एवं स्थूलतां प्राप्ते सति शरीर एव प्रवेष्युं मन आसीत्‌ ॥

3

2

6

॥ ततः किमासीदित्यत आह ॥ स इति ॥ इदं शवरूपं स्थूलतां प्राप्तं शरीरं मेध्यं पवित्रं स्यात्‌ । अनेन शरीरेण आत्मन्वी देहवान्‌ स्यां भवेयमिति स चतुर्मुखोकामयत ऐच्छत्‌ । प्रविवेश चेत्यपि ध्येयम्‌ । ततः प्रवेशानन्तरं देहस्य श्ऱ्वेतीभावानन्तरमिति वा स्थूलाद्देहादिति वा अश्ऱ्वमेधसाधनं दृष्ट्वा अश्ऱ्वोभवत्‌ । अश्ऱ्वाकारं देहान्तरमेकेनांशेन धृतवानित्यर्थः । ततोश्ऱ्वमेधमकारोदिति शेषः । प्राक्तनपुन्देहस्य अश्ऱ्वदेदेहस्य यागस्य च त्रयाणामश्ऱ्वमेधनामनिर्वचनेनाह ॥ यदिति ॥ तच्छरीरमश्ऱ्वत्‌ स्थूलमभवत्‌ । मेध्यं चाभूदिति यत्‌ तदेव स्थूलताभवनं मेध्यताभवनमेव अश्ऱ्वमेधस्य अश्ऱ्वमेधनाम्नश्शरीरस्य तच्छरीरकस्य चतुर्मुखस्याश्ऱ्वमेधत्वं अश्ऱ्वमेधनामनिमित्तम्‌ । श्ऱ्वेतीभावं मेध्यातां पवित्रतां च गते शरीरे स्थितत्वात्‌ ब्रह्म अश्ऱ्वेमेधनामकोमवदित्यथर्ः । तथा तत्पुंशरीरं अश्ऱ्वत्‌ द्वितीयं मेध्यम्‌ । यागसाधनं चाभूदिति यत्‌ तदेवाश्ऱ्वमेधनाम्नो यागीयाश्ऱ्वस्याश्ऱ्वमेधत्वम्‌ । पुन्देहस्थो ब्रह्म स्थूलभावं गतात्पुन्देहादश्ऱ्वाकरं देहान्तरं सृष्ट्वा अंशेन तदधिष्ठाय फलविशेषसिद्धयर्थं यज्ञसाधनं चाभूदित्यश्ऱ्वरूपोप्यश्ऱ्वमेधीयत्वहेतुना अश्ऱ्वमेधनामा भवदित्यर्थः । तथा यत्‌ यदर्थं अवाख्यसाधनद्वरा यत्कर्मानुष्ठानार्थमिति यावत्‌ । अश्ऱ्वत्‌ स्थूलमभवत्‌ मेध्यं शुद्धं च तदिच्छयाभवदिति यत्‌ तदेव श्ऱ्वेतीभूतमेध्यपुन्देहस्थब्रह्मणा अश्ऱ्वमेधनामकाश्ऱ्वरूपसाधनद्वारानुष्ठितत्वमेवाश्ऱ्वमेधनाम्नो श्ऱ्वमेधत्वं अश्ऱ्वमेधनामनिमित्तमिति त्रेधास्य वाक्यस्यार्थो ध्येयः । योधिकारी एवं उक्तप्रवृत्तिनिमित्तेनाश्ऱ्वमेधशब्दवाच्यतया एनं पुन्दोहिनं अश्ऱ्वदेहिनं विरिञ्च यागं च वेद जानाति । एष पुमान्‌ ह वै एष पुमानेवाश्ऱ्वमेधमश्ऱ्वमेधशब्दार्थं वेद नान्य इत्यर्थः ॥

3

2

7

॥ पूर्वं शेषोक्त्या अश्ऱ्वमेधमकरोदित्युक्तम्‌ । तं प्रकारं दर्शयति ॥ तमिति ॥ स इत्यनुवर्तते सः विरिञ्चः तं अश्ऱ्वरूपमात्मानमनवरुध्येव निरोधमकृत्ववामन्यत

अवरोधहीतनया भूमण्डलं चारयिष्यामीत्यमन्यर्तत्येथः । अश्ऱ्वरूपः स्वयमेवेतीच्छया सञ्चारसम्भवेपि लोक इव निरोध्यनिरोधकभेदमुपेत्येयमुक्तिरितीव शब्दः । संवत्सरं चारयित्वा संवत्सरस्य परस्तात्‌ । आत्मने स्वान्तर्यामिणे भगवते आलभत विशस्तवान्‌ । विशस्य । तस्य वपामङ्गानि च हरये दत्तवानित्यर्थः । अश्ऱ्वमेधीयाश्ऱ्वस्य प्रजापतिदेवताकत्वात्प्रजापतीतरकर्तृकयागे सदेहमानिहरये प्रणमेत्केवलाय वेत्युक्तन्येयेन प्रजापतिसहितहरये हविर्दानम्‌ । प्रजापतिकर्तृके तु यज्ञे अधिष्ठानविनाकृतकेवलहरये दानमिति कृत्वा केवलस्वान्तर्यामिणे हविर्दत्तवानिति ज्ञेयम्‌ । पशून्‌ अजादीन्‌ देवताभ्यः अन्यदेवतास्थपरमात्मरूपेभ्यः उक्तन्यायात्‌ । प्रत्यौहत्‌ तत्तवान्‌ । कुतो ब्रह्मा स्वात्मस्थायाश्ऱ्वं देवतास्थरूपेभ्योन्यपशूनालब्धवानित्यत आह ॥ तस्मादिति ॥ तस्मात्स्वात्मस्थाय देवतास्थाय तत्तत्वकारणात्‌ इन्द्रदयः पृथुप्रभृतिराजानश्ऱ्च प्रोक्षितं पशुं जात्येकवचनम्‌ । अजादिपशुजातं सर्वं सर्वदैवत्यं सर्वदेवतासम्बन्धि । अश्ऱ्वं च प्रजापतिसम्बन्धिनं आलभन्ते । न केवलं ब्रह्मादिरश्ऱ्वमेधाख्योपि त्वश्ऱ्वमेधनामकब्रह्माधिष्ठानत्वात्सूर्योप्यश्ऱ्वमेधनामेत्याह ॥ एष ह वा इति ॥ एष इत्युक्तं व्यनक्ति ॥ य एष तपतीति ॥ कुतः यतस्तस्य तसिन्मन्सूर्ये संवत्सरो ब्रह्माऽश्ऱ्वमेधनामा सन्निति शेषः । आत्मा आततो व्याप्तोस्त्यत इति तस्य महिमानमाह ॥ अयमिति ॥ अयं संवत्सराख्यो ब्रह्मा अर्कोर्कस्थोर्कनामा अग्निरग्निस्थतयाग्निनामा । तस्य ब्रह्मणः इमे लोका आत्मानः तेन आतताः व्याप्ता इति कृत्वा तस्यात्मान इत्युच्यन्ते । एवं सूर्यादौ सर्वत्र व्प्तश्ऱ्चेत्तर्हि किं स एव सर्वोत्तमः नेत्याह ॥ ताविति ॥ उपलक्षणम्‌ । अर्काग्निलोकाश्ऱ्वमेधास्तेषु स्थितो ब्रह्मेति यावत्‌ । सो पुनरेकैव देवता भवतीत्यत सा उ इति पदविभागः । प्रसिद्धविष्ण्वाख्यैकदेवताधीन एव भवति उ भवत्येवेति सेत्युक्तदेवता केत्यत आह ॥ मृत्युरेव । नृसिंह एव । तं जानान्निति शेषः । तं मृत्युनामकं नृसिंह जानन्ब्रह्मा पुनर्मृत्युमृतिः पुनर्मृत्युर्मृतिः स्मृतेत्युक्तेः । अपपुनर्मृत्युं अकालमृतिं जयति । मृत्युः मृतिरूपो मृत्युरेनं ब्रह्माणं नाप्नोति । कुत मृत्युः नृसिंहः अस्य ब्रह्मण आत्मा स्वामी भवति । एतासां देवतानां रुद्रादीनां पूर्वप्रकृतार्कादीनां वा एको मुख्यो भवति स्वामी भवति ईशत्वेन वर्तत इत्यर्थः । यतोत इति योजना । यद्वा मृत्युरस्यात्मेत्येतत्‌ नैनमित्युक्तार्थे एतासामित्युक्तार्थे च हेतुरिति ज्ञेयम्‌ ॥ द्वितीयमश्ऱ्वज्ञेधब्राह्मणम्‌ ॥

3

2

॥ अश्ऱ्वमेधादिषु वायुरेवोद्गाता कार्यस्तस्यैव तत्र प्राप्तविघ्नविघातक्षमत्वादित्यथ हेममासन्यं प्राणमित्यादिना विवक्षुरुपोद्घातमाह ॥ द्वया इति ॥ प्राजापत्याः ब्रह्मसुताः । देवाश्ऱ्च असुराश्ऱ्चेति द्वयाः द्विवर्गाः । ह प्रसिद्धम्‌ । इति शब्दोत्र योज्यः । ततः तत्र वर्गद्वयमध्ये । देवाः कनीयासः कनीयांसः । सङ्खयया अल्पा एव । असुराः ज्यासाः ज्यायांसो बहव इत्यर्थः। ते उभये । एषु लोकेषु त्रिलोकाधिपत्यविषये अस्पर्धन्त । स्पर्धया युद्धे जाते बहुत्वाच्छङ्करवरोत्सिक्तत्वाच्चासुरैर्जिताः ते देवाः परस्परमूचुर्ह । आलोचितवन्तः स्म । कथं हन्त हर्षे । यज्ञे उद्गीथेन उद्गानेन । उद्गानप्रसन्नेन हरिणा असुरानत्ययाम अतिक्रामामेति ॥

3

2

1

॥ ते एवमालोचितवन्तो देवाः यज्ञमारभ्य तत्र वाचं वागभिमानिनं वह्निमूचुर्ह । त्वं नोस्मदर्थे । उद्गाय ऋगारूपढसामगानं कुर्विति । तैरुक्तो वाग्वह्निस्तथास्त्वित्युक्त्वा तेभ्यो देवेभ्यः । देवानामर्थे । उदगायत्‌ । यो वाचि भोगः उद्गानजं फलं शत्रुजयादि तं देवेभ्य आगायत्‌ । यत्‌ कल्याणं उद्गानादन्यदृगादिना भगवत्स्तवनादिरूपं वदति । तदात्मने स्वस्मै आगायदित्यनुषङ्गः । ते असुराः । अनेनोद्गात्रा नोस्मान्‌ । अत्येष्यन्ति देवा इति विदुर्वै । एवं विदित्वा ते तं वह्निम्‌ । अभिद्रुत्य आभिमुख्येन गत्वा । पाप्मनाऽविध्यन्‌ । सम्यगुद्गानं यथा न भवति तथाऽकुर्वन्निति । वेधमेव व्यनक्ति ॥ स य इति ॥ योसुरकृतः पाप्मा स सः प्रसिद्धः । एकस्तच्छब्दः प्रसिद्धार्थकः । प्रसिद्धः पाप्मा क इत्यत आह ॥ यदेवेति ॥ अपअतिरूपं व्यत्यस्तस्वरवर्णादिकम्‌ । वदतीति यत्‌ इदमेव प्रसिद्धं पापवेधनमिति । कथमिदं पापमित्यत आह ॥ स एव स पाप्मेति ॥ मन्त्रो हीनः स्वरतो वर्णतो वेत्देरिति ज्ञेयम्‌ ॥

3

3

2

॥ अथ वह्नेः पापविद्धत्वकारणात्‌ घ्राणं नासिक्यवायुम्‌ । प्राग्वेदतदादिखण्डचतुष्ययस्यार्थो ध्येयः । घ्राणे भोगः । भगवन्निर्माल्याघ्राणजमदृष्यफलम्‌ । तदन्यशुभगन्धघ्राणजं दृष्यं फलं कल्याणम्‌ । अप्रतिरूपमशुभगन्धम्‌ ॥

3

3

3

॥ अथेत्युक्तार्थे । चक्षुश्‌चक्षुदिवन्तं सूर्यम्‌ । चक्षुषि भोगः पुण्यतीर्थक्षेत्रादिदर्शनजमदृष्यं फलम्‌ । तदन्यसुरूपादिकं कल्याणम्‌ । अप्रतिरूपं दुर्दशम्‌ ॥

3

3

4

॥ श्रोत्रं दिग्देवताः । श्रोत्रे भोगो हरिकथाश्रवणादिजमदृष्यफलम्‌ । तदन्यसुखहेतुशब्दं कल्याणम्‌ । अप्रतिरूपं दुःश्रावशब्दम्‌ ॥

3

3

5

॥ मनः मनोदैवतमिन्द्रं रुद्रं शेषं च । मनसि भोगो हरिध्यानादिजं श्रेयः । तदन्यसुखहेत्वर्थजातं कल्याणम्‌ । अप्रतिरूपं स्वाननुगूलम्‌ । उक्तमुपलक्षणं अन्ये च देवा उद्गाने प्रवृत्ताः पापविद्धा अभूवन्निति वदन्नुपसंहरति ॥ एवमुखल्वेता देवा इति ॥ एताः देवताः वह्नयादीनन्यांश्ऱ्च देवान्पाप्मभिरुपासृजन्सम्बद्धानकुवर्न्नसुरा एवमेना वह्यादिदेवता इत्यर्थः ॥

3

3

6

॥ अथ सर्वासां देवतानां पापविद्धत्वात्‌ । इमं प्रसिद्धम्‌ । आसन्यं आस्ये भवम्‌ । आस्य शब्दाद्भवार्थेन्यप्रत्ययः यकाररूपव्यञ्जनलोपश्ऱ्च । आस्ये अन्तरित्यग्रेनिर्वचनात्‌ । प्राणं मुख्यवायुं । ऊचुर्देवाः । त्वं न इत्यादि प्राग्वत्‌ । अविव्यत्सन्‌ वेद्धुमैच्छन्‌ । इच्छन्तः किमासन्नित्यत आह ॥ विध्वंसमाना इति ॥ प्राग्वत्‌ सन्धीभूय वेधितुं प्राप्ता एते विशकलितास्सन्तः विष्वञ्चः वक्रगतयः । भिननभिन्नमार्गगतिमन्तो विनेशुः अलक्षिता अभूवन्‌ । तत्र दृष्यान्तः ॥ स यथेति ॥ स विध्वंसनेन विष्वग्गतिप्रकारः यथा स्पष्यं तथोच्यत इत्यर्थः । अश्मानं वज्रशिलाम्‌ । ऋत्वा प्राप्य । लोष्यः पांसुपिण्डः । विध्वंसेत तथा विशकलितावयवो भवेत्‌ । एवं है व एवमेवेति । ततोनन्तरं तेषां पलायितत्वाद्वा । देवा अभवन्‌ लोकाधिपत्यादिभूतिमन्त आसन्‌ । असुराः पराभवन्‌ भूतिविहीना आसन्‌ । योधिकारी । एवं सर्वासुरविध्वंसनहेतुतया प्राणं वेद । अस्य प्राणवेदिनः द्विषन्‌ भ्रातृव्यः शत्रुः पाप्मा । आत्मना परमात्मना । तत्प्रसादेनेति यावत्‌ । पराभवति पराभूतो भवति ॥

3

3

7

॥ ततः किमासीदित्यत आ ॥ ते हेति ॥ ते देवाः । यः इत्थं शत्रुविनाशद्वाराऽस्मद्भूतिहेतुत्वेन । नोऽस्मान्‌ । असक्त प्राप्नोत्‌ । सः कनु कुत्राभूत्‌ । ह आश्ऱ्चर्यम्‌ । इत्यूचुरन्योन्यमालोचितवन्तः । आलोच्यायमास्येन्तः मुखान्तरेऽस्तीति निश्ऱ्चक्रुरित्यर्थः । अत एव आस्येऽयत इत्ययास्यनाम वायोरित्याह ॥ सोयास्य इति ॥ नामान्तरं चाह ॥ आङ्गिरस इति ॥

B-K-1

?R

तन्नाम निर्वक्ति । अङ्गानां प्राणिदेहानां रसो नियन्ता हि यतोत इति । अङजगपदस्येकारान्तादेशे अङ्गिरस इति सिद्धेः । स एवाङ्गिरसः । एतेनास्यास्यन्तरवस्थाने प्रयोजनमुक्तं भवति ॥

3

3

8

॥ वायोर्महिमान्तरमाह ॥ सेति ॥ सैषा वायुरूपा देवता । दूर्नाम वै । कुतः । अस्याः देवतायाः मृत्युर्दूरं हि यस्मात्तस्मादिति । दूरं करोतीत्यर्थे क्विप्यन्तलोपे दूरिति रूपसिद्धेः । दूरमित्यादि फलवाक्यं स्पष्यार्थम्‌ ॥

3

3

9

॥ देवानामसुरिकृतपापसत्त्वात्कथं ततो देवा अभवन्निति भूतिमत्त्वोक्तिरित्यत आह ॥ सा वा इति ॥ सैषा वायुरूपा देवता । एतासां देवतानां पाप्मानं पापरूपं मथृयुमपहत्य

?R

वियोज्य । आसां दिशां प्राणिसञ्चारानुकूलदिशामन्तो यत्र समुद्रप्रान्त इति यावत्‌ । गमयाञ्चकार तत्र नीतवान्‌ । आसां पाप्मनस्तत्‌ तत्र । जनसङ्घेषु च विन्यदधात्‌ प्राक्षिपत्‌ । तस्मात्‌ पाप्मनस्तत्र प्रक्षिप्तत्वादेव । जनं जनसङ्घम्‌ । अन्तं दिशामन्तम्‌ । कुतो नेयादित्यत उक्तम्‌ ॥ नेदिति ॥ पाप्मानं मृत्युं नेत्‌ नैवान्ववायानि प्राप्नवानीति भावेन नेयादित्यर्थः । तत्र गतौ पापान्वयः स्यादिति भावः ॥

3

3

10

॥ तासां पापं मृत्युपहत्य किमकरोद्वायुरित्यत आह ॥ सा वा इति ॥ सैषा वायुरूपा देवता । एतासां देवतानां पाप्मानं पापरूपं मृत्युमपहत्य वियोज्य । आसां दिशां प्राणिसञ्चारानुकूलदिशामन्तो यत्र समुद्रप्रान्त इति यावत्‌ । तत्‌ तत्र । गमयाञ्चकार तत्र नीतवान्‌ । आसां पाप्मनस्तत्‌ तत्र । जनसङ्घेषु च विन्यदधात्‌ प्राक्षिपत्‌ । तस्मात्‌ पाप्मनस्तत्र प्रक्षिप्तत्वादेव । जनं जनसङ्घम्‌ । अन्तं दिशामन्तम्‌ । कुतो नेयादित्यत उक्तम्‌ ॥ नेदिति ॥ पाप्मानं मृत्युं नेत्‌ नैवान्वयायानि प्रापनवानीति भावेन नेयादित्यर्थः । तत्र गतौ पापान्वयः स्यादिति भावः ॥

3

3

10

॥ तासां पापं मृत्युमपहत्य किमकरोद्वायुरित्यत आह ॥ सा वा इति ॥ अथेति ॥ तस्मादिति पापापहत्यनन्तरमिति वा । एनाः देवताः । मृत्युमति । अतिक्रम्य स्थितं ऊर्ध्वलोकमवहत्‌ प्रापितवान्‌ ॥

3

3

11

॥ एतदेव प्रत्येकं प्रत्येकं व्यनक्ति ॥ स वा इति ॥ सः वायुः । प्रथमां पूर्वमुद्गातृतया विनियुक्तां वाचमेव वाङ्मानिनमभ्निमेवात्यवहत्‌ । मृत्युमिति शेषः । मृत्युमत्यमुच्यत । पापमृत्युमुक्ता सा वाक्‌ । यदा तदा सोग्निरभवत्‌ अग्निलोकाधिपतिरभवत्‌ । स्वपदे स्थितः स्वव्यापारं करोतीत्याह ॥ सोयमिति ॥ परेण मुख्यवायुना ॥

3

3

12

॥ एवमेवाग्रेतनखण्डचतुष्ययेप्यर्थो ध्येयः । प्राणं नासिक्यवायुम्‌ ॥

3

3

13-14

॥ अतिक्रान्ता इत्यत्र स्वस्वव्यापारात्‌ कुवन्तीति शेषः ॥

3

3

15

॥ एव ह वा एनमिति फलवाक्यं व्यक्तार्थम्‌ ॥

3

3

16

॥ अथ देवतानामभीष्यप्रपणानन्तरं आत्मनं स्वस्मै । अन्नाद्यं अन्नख्यमद्यमदनीयमुद्दिश्य तत्प्राप्तये आगायत्‌ । गानं सफलमासीदित्याह ॥ यद्धि किञ्चेति ॥ यत्किञ्च प्राणिभिरन्नमद्यते अनेनैव प्राणेनैव । तदन्नमद्यते कथं इह प्राणिषु । प्रतितिष्ठति प्राणो यत इति योज्यम्‌ ॥

3

3

17

॥ ते देवाः वागादयः । भो प्राण यदन्नं प्राणिभिरद्यमानम्‌ । इदमेतावद्वै एतावदेव । नातोन्यदस्ति । तत्सर्वमात्मन आगासीः । अस्मिन्नन्ने अनु पश्ऱ्चात्‌ । नोऽस्मान्‌ । आभजस्व भागिनः कुर्वित्यब्रुवन्‌ । इति तैरुक्तः प्राणोब्रवीत्‌ । ते अन्नकांक्षिणो यूयम्‌ । मा माम्‌ । अभि अभितः । संविशत प्राणिदेहेषु प्रविशतेति । तथेत्युक्त्वा समन्तं समन्ततः परिण्यविशन्त । तस्मादन्नभागितया प्राणिषु निविष्यत्वादेवानेन प्राणेन । प्रेरितः प्राणी यदन्नमत्ति । तेनान्नेन । एता वागादयो देवता स्तृप्यन्ति । एतद्वेदितुः फलमाह ॥ एवमिति ॥ योधिकारी । एवमुक्तगुणकम्‌ । प्राणं वेद जानाति । एनं प्राणज्ञानिनम्‌ । स्वाः ज्ञातयः । अभितः संविशन्ति उपजीवकत्वेन तं परिवार्य तिश्ठन्तीत्यर्थः । कथमेवं ह वै यथा प्राणं वागादयोभिविठन्त्येवमेवेति । स्वानां ज्ञातीनाम्‌ । भर्ता रक्षक इति यावत्‌ । श्रेष्ठः पुर एता अग्रेसरोऽन्नादोधिपतिश्ऱ्च भवतीति । प्राणज्ञानिप्रतीपकारिणोनिष्यमाह ॥ य इति ॥ य उ । यः कश्ऱ्चित्‌ । एवं विदं प्राणज्ञानिनं प्रति । स्वेषु धनविषये । प्रतिबुभूषति प्रतिकूलो भवितुमिच्छति । स भार्येभ्यो भर्तव्यजनपोषणायेति यावत्‌ । नैवालं ह नैव समर्थो भवति । दरिद्रो भवतीत्यर्थः । प्राणज्ञानिन्यनुकूलस्येष्यमाह ॥ अथेति ॥ अथर्ान्तरेऽयमथ शब्दः । य एनं प्राणविदमन्वेव भवति तस्यानुकूल एव भवति यस्तं वै तमेवानु अनुसृत्य । भार्यान्बुभूषति मत्पोष्या एते भवन्त्वितीच्छति । स एव भार्येभ्योलं समर्थो भवति । पोषणशक्तो भवति खल्विति ॥

3

3

18

॥ उद्गाने वायोरलाभे किं कार्यमित्यतोऽयास्दशब्दमुख्याथर्वाय्वधिष्ठानभूतानयास्यादिऋषीनुद्गातृत्वेन कुर्यादिति भावेन महिमाधिक्याय च तान्‌ शब्दान्वायी निर्वक्ति ॥ स इति ॥ सोयास्यः अङ्गिरसः कुतः । हि यतोङ्गानां प्राणिदेहानां रसो नियन्ता । स इति कः योङ्गानां रसत्वहेतुनाङ्गिरस इत्युच्यत इत्यत आह ॥ प्राणो वा इति ॥ प्रसिद्धमेतदित्याह ॥ प्राणो हि वा इति ॥ तदुपपादयति ॥ तस्मादिति ॥ अङ्गानां सारभूतत्वात्‌ । उत्क्रामति ऊर्ध्वं गच्छति । तदेव तदैव । तत्‌ अङ्गम्‌ । निगमयति ॥ एष हीति ॥

3

3

19

॥ एष वायुरेव बृहस्पतिः उ बृहस्पतिनामा खलु । कुतः । वागेव बृहती वाग्देवता भारती सर्वस्त्रीगुणबृंहितत्वाद्बृहती । तस्याः एष वायुः पतिर्यस्मात्तस्मादु तस्मादेव । बृहस्पतिः । तद्बृहतोः करपत्योश्ऱ्चोरदेवतयोस्सुट्‌तलोपश्ऱ्चेति शब्दिकोक्तेः ॥

3

3

20

॥ महिमाधिक्यार्थं शब्दान्तराण्यपि प्रतिज्ञापूर्वं वायौ निर्वक्ति ॥ एष उ एवेत्यादिना ॥ अनन्तवेदमानित्वाद्वा ब्रह्मणा विष्णुना बृंहितत्वात्पूर्णत्वाद्वा वाग्वै ब्रह्मेत्युक्तिः । शिष्यं प्राग्वत्‌ ॥

3

3

21

॥ भारत्याधर्नारीपुमात्मना कालविशेषे स्थितस्य वायोः सामोद्गीथपदवाच्यताप्यस्तीति भावेन तच्छब्दद्वयं प्रतिज्ञापूर्वकं निवर्क्ति ॥ एष उ एव सामेत्यादिना ॥ स्त्रीषु सारत्वाद्वाग्वै सेत्युक्ता । एष वायुरप्रमेयत्वादम इत्युच्यत इत्यर्थः । सा चामश्ऱ्चेति यदिति शेषः । भात्या सह वायुः सामेति

?R

पदद्वयवाच्यार्धनारीपुमात्मकैकदेहतया वर्तत इति यदिति यावत्‌ । तत्‌ भारत्याऽधदेवहात्मना वर्तनम्‌ । साम्नः सामपदवाच्यस्य वायोः । सामत्वं सामपदप्रवृत्तिनिमित्तमित्यर्थः । प्रकारान्तरेण सामनामनिर्वक्ति वायौ ॥ यद्वेति ॥ यद्वेति पक्षान्तरवाचपदं समः प्लुषिणेत्यादिवाक्यपञ्चकेनाप्यन्वेति । इव शब्दस्सम इवेत्यन्वेति । तन्मात्रपरिमाणत्वाभावादिव शब्दः । प्लुषिणा बिन्दुना । नागेन गजेन । किं बहुनोक्तेनेति भावेनाह ॥ समोनेन सर्वेणेति ॥ यद्यद्वस्तु लोके यद्यत्परिमाणतया प्रमितं अनेन प्रमितेन सर्वेण समस्तस्मात्तत्तद्वस्तु समत्वादेव । साम उसामनामकः खल्विति । ज्ञानिनः फलमाह ॥ अश्ऱ्नुत इति ॥ योधिकारी । एवं निरुक्तप्रकारेण । एतत्‌ एतस्मादुक्तनिमित्तात्समा सामनामकं वायुम्‌

। वेद स इति शेषः । साम्नो वायोस्सायुज्यमश्ऱ्नुते प्राप्नोति । सलोकतां समानलोकतां जयति प्राप्नोति । अधिकारिभेदेन फलभेदः ॥

3

3

22

॥ प्राण उदिति कस्मादुच्यत इत्यत आह ॥ प्राणेन हीति ॥ उत्तब्धं घृतम्‌ । वर्तत इत्यर्थः । देवादिभिर्गीयमानत्वाद्वागेव गीयेत्थुच्यत इति ज्ञेयम्‌ । शिष्यं प्राग्वात्‌ ॥

3

3

23

॥ अयास्यादिषु स्थित्वोद्गानकर्ता वायुरिति भावेन ते शब्दास्तत्र निरुक्ताः तत्र स्थित्वा वायुरेवोद्गातेति कुत इत्यतः केनाचिच्छपथेन तस्य मर्थनादित्याह ॥ तद्धापीति ॥ तत्‌ अयास्यादिषु स्थित्वोद्गता वायुरित्येतत्‌ । हापि प्रसिद्धमपि । शपथेन स्थापितवानित्याह वेदपुरुषः । कथं चैकितानेयः चिकितानापत्यम्‌ । ब्रह्मदत्तनामा मुनिः । राजानं सोमरसम्‌ । भक्षयन्नुवाच । किमिति । विश्ऱ्वसृजां यज्ञे इतः प्राणादन्येन प्रेरितोऽयास्याङ्गिरस उदगायदिति यदि तर्हि । त्यस्य तस्य । सोमरसं भक्षयतो म इति शेषः । अयं राजा सोमाभिमानी चन्द्रः । मूर्धानं विपातयतात्‌ पातयेदित्युवाचेत्यर्थः । तर्हि केनाविष्य उदगायदित्यत आह ॥ वाचा च ह्येवेति ॥

3

3

24

॥ अयास्यादीनामभावे सामेत्यादिनोक्तस्य सामनाम्नो वायोः स्वं वायुस्वामिकं गृहकोशादिवित्तम्‌ । वेद । अस्य तद्वेदिनः । स्वं वित्तम्‌ । भवति । ह खलु । किं तस्य स्वमित्यत आह ॥ तस्य वै स्वर स्वामिति ॥ गृहकोशाद्यभिमानिरूपमुद्गातृस्वरे सन्निहितं भवतीत्यर्थः । तस्मात्‌ स्वरस्य प्राणस्वत्वात्तदभिमानितया तदधिष्ठानत्वादिति यावत्‌ । आर्त्विज्यं उद्गातृरूपऋत्विक्कर्म । करिष्यन्‌ वाचि स्वरमिच्छेत इच्छेत्‌ । ततः किमित्यत आह ॥ तया वाचेति ॥ तस्मात्‌ स्वरवत एवऋत्विक्त्वात्‌ । स्वरवन्तमेव दिदृक्षन्ते याजका इति योजना । स्वरवत ऋत्विक्त्वेपि तद्दिदृक्षा कुत इत्यत उक्तम्‌ ॥ अथो यस्येति ॥ यस्य स्वरवत ऋत्विजस्सकाशात्‌ । स्वं गृहकोशादिवित्तम्‌ । अस्य यजमानस्य । भवति । अथो तस्मादिति । प्रागुक्तं फलं पुनर्वचनेन । निर्धारयति ॥ भवति ह्रास्यस्वमिति ॥

3

3

25

॥ वायोगर्ृहकोशादिवित्तमानिरूपं स्वरे सन्निहितम्‌ । भूषणस्वर्णमानि च तदित्याह ॥ तस्य हैतस्येति ॥ सुवर्णं भूषणस्वर्णमानिरूपं वेदेत्यर्थः । स्वर एव सुवर्णमिति ॥ सुवर्णमानी स्वरमानी चेत्यर्थः । पुनः फलोक्तिर्नियमा ॥

3

3

26

॥ गानकाले प्राणः क्व तिष्ठतीत्यतः फलोक्तिपूर्वकं स्थानमाह ॥ तस्येति ॥ प्रतिष्ठां पीठम्‌ ॥ वागेवेति ॥ वागिन्द्रियमेव प्रतिष्ठा गानकाले पीठमित्यर्थः । एतत्प्राणः एष प्राणः अन्यदा त्वन्ने प्रतिष्ठित इत्येक आहुः । उ हेति निपातः कालविशेषार्थः ॥

3

3

27

॥ अथेति महिमान्तरोक्तिप्राम्भे । अतः उद्गानेन निर्विघ्नं यज्ञसमापकत्वात्‌ । पवमानानामेव मुख्यवायुत्वयोग्यानामेव । अभ्यारोहः मुक्तौ सर्वाधिक्यारोहणम्‌ । स्वसहमुक्तसर्वपूज्यत्वं भवतीति यावत्‌ । सर्वेस्मै देवा बलिमावहन्तीति श्रुतेः । वायुपदयोग्यस्य प्रस्तोतुर्जप्यानाह ॥ स वै स्वल्विति ॥ स वायुपदयोग्यः खलु । प्रस्तोता साम्न आद्यक्षरोच्चारणकर्ता । साम प्रस्तौति उपक्रमते । स यत्र यदा । प्रस्तुयात्तत्तदा एतानि यजींषि जपेत्‌ । तान्याह ॥ असत इति ॥ प्रथमवाक्यगतपदयोरर्थमाह ॥ मृत्युर्वा इति ॥ वाक्यार्थमाह ॥ मृत्योर्मामृतमिति ॥ मृत्योर्दुःखात्मकात्‌ । अमृतमानन्दम्‌ । मा मां गमय प्रापय फलितमाह ॥ अमृतं मेति ॥ मामित्यर्थः । इत्येवैतत्‌ असतो मा सदिति वाक्यमाहेत्यर्थः । द्वितीयं यजुरिपि प्रतीकत उपादाय पदार्थं वाक्यार्थं चाह ॥ तमस इति ॥ अज्ञानाख्यमृत्युस्तमः वै प्रसिद्धम्‌ । ज्यातिर्ज्ञानम्‌ । मृत्योरज्ञानात्‌ । मा माम्‌ । अमृतं ज्ञानं गमय अमृतं ज्ञानिनम्‌ ॥ मा माम्‌ । कुरु । तृतीयवाक्ये मृत्युशब्दामृतशब्दयोः प्रसिद्धमरणतदभावार्थकतया मृत्योः मरणादमृतं मृतिहीनं मुक्तं कुवित्यर्थस्य स्पष्यत्वादाह ॥ नात्र तिरोतिमिवास्तीति ॥ तिरोहितमिव नास्ति । अतिरोहितमेवेत्यर्थः । अथेत्यर्थान्तरे । तदाह ॥ यानीति ॥ स वै खलु प्रस्तोतेत्यनुषज्यते । प्रागुक्तयजुर्मन्त्रत्रयादितराणि । स्तोत्राणि प्रस्तावेतराणीति वा । सामयुक्त ऋक्‌शंसनरूपाणि । तेषु तैः । आत्मने यजमानाय । अन्नाद्यमुद्दिश्यागायेत्‌ । यजमानो वायुत्वयोग्येनोद्गाने कृत आत्मनोन्नाद्यमभीप्सेदित्यर्थः । तस्मादु वायुपदयोग्यस्य समर्थत्वादेव । एवं वित्‌ वायुपदयोग्यमाहत्म्यविद्यजमानः । यं कामं काम्यं कामयेत इच्छति । तं कामं प्रति । तेषु वायुपदयोग्येषूद्गातृषु सत्सु । वरं वृणीत वृङ्‌ सम्भक्तौ सम्भजेत्‌ । तेषु कामवरणममोघमेवेत्याह ॥ स एषः मुख्यवायुत्वयोग्यः । उद्गाता सन्‌ आत्मने यजमानाय वा यं कामं कामयते तमागायति

?R

तं प्राप्नोत्येवेति । न केवलमैहिकं किन्तु तद्धैतल्लोकजिदेव तस्मादुद्गातुस्सकाशात्प्रसिद्धपरलोकप्रप्तिमानेव भवतीत्यर्थः । योधिकारी । एवं उक्तदिशा । एतत्‌ अर्धनारी पुमात्मत्वादिमहिमयुक्तम्‌ । साम सामनामकं वायुम्‌ । वेद तस्योगोक्यतायाः लोकराहित्यतायाः । आशा नैवास्ति । ह । तस्येष्यलोकराहित्यायाशा शत्रुणा ना कार्येत्यर्थः ॥

3

3

28

॥ तृतीयमुद्गीथब्राह्मणम्‌ ॥ सोकामयत भूयस यज्ञेनेत्यत्र प्रकृतस्य ब्रह्मणो महिमानमाह ॥ आत्मेत्यादिना ॥ इदमग्रे अस्य जगतोग्रे । आत्मैव परमात्मैवासीत्‌ । नैवेह किञ्चनेत्यवित्रैवकाराभिप्रायो ज्ञेयः । तत आत्मनः परुषविधः पुरुषो विष्णुस्तद्विधः तत्प्रकारो ब्रह्मऽऽसीदित्यनुषङ्गः । पुरुषविधत्वं तु श्रीब्रह्मादितो विष्णोराधिक्यमिव रुद्रादितोप्याधिक्यमस्तीति भावेनेति ज्ञेयम्‌ । सः ब्रह्मा । सर्वा दिशोनुवीक्ष्य दृष्ट्वा । आत्म

?R

नः स्वस्मादन्यन्नापश्यत्‌ । सः अन्यदपश्यन्‌ ब्रह्मा । अन्यस्य सर्वस्य हातुं शक्यत्वेपि न स्वरूपस्य तथात्वमिति स्वस्वरूपस्य स्वाहेयत्वं स्मरन्नहमस्मीत्यग्रे व्याहरत्‌ । ततस्तथाव्याहरणाद्धेतोः । अहं नामाभवत्‌ । स इत्यर्थः । तस्मात्‌ ब्रह्मणाग्रेऽहमिति व्याहरणादेव । एतर्ह्यपि इदानीमपि । आमन्त्रितः कस्त्वमरे इति सम्बोधितः । अहमयमित्यादावुक्त्वा । अथ अनन्तरं । यदस्य भवति तत्‌ डित्थादिनाम प्रब्रूते । न केवलमहं नामाभूद्ब्रह्मा किन्तु पुरुषनामा चाभूदिति भावेन तन्नाम तस्मिन्निर्वक्ति ॥ स इति ॥ स ब्रह्मा । अस्मात्सर्वस्मात्‌ । सवर्जगतो यद्यस्मात्पूर्वस्सन्‌ सर्वन्‌ पाप्मन औषत्‌ अदहत्‌ । तस्मात्पुरुषनामाभवदित्यर्थः । उष दाहे । पुरुणि पापानि ओषति दहतीति पुरुषः । य एवं पुरुषविधं ब्रह्मणं वेद । सः ज्ञानी । अस्मात्‌ ज्ञानिजनात्‌ । यः पूर्वस्सन्बुभूषति स्वाभिमतं पूर्वं प्राप्तुमिच्छति । तं ओषति दहतीत्यर्थः ॥

3

4

1

॥ सः ब्रह्मा । एकाकित्वादबिभेत्‌ भीतिमानभवत्‌ । तस्मादिदानीन्तनोप्येकाकी बिभेति । सोयं भीतो ब्रह्मा । ईक्षां विमर्शं चक्रे । ह किल । विमर्शप्रकारमेवाह ॥ यदिति ॥ यस्मात्‌ मदन्यत्‌ । मम विरोधिभूतमन्वत्‌ । नास्ति । हरेस्सत्त्वेपि तस्यातिप्रियत्वात्‌ । रुद्रादिजगत इतः परं मयैव सृज्यत्वात्‌ । अतः कस्माद्धेतोर्नु इदानीं बिभेमीति । तत एव विमर्शादेव भयं वीयाय अपजगाम । वेदपुरुषस्तत्र युक्तिमाह ॥ कस्मादिति ॥ कुतः कारणादभेष्यत्‌ अबिभेत्‌ । द्वितीयात्‌ विरोधिनोन्यस्माद्भयं भवति । वै खलु । न ह्यस्य विरोध्यस्तीति ॥

3

4

2

॥ वाण्युत्पत्तिमुपोद्धातपूर्वकमाह ॥ स इति ॥ सः ब्रह्मा एकाकित्वान्नैव रेमे । तस्मात्‌ एकाकिनो रमणाभावात्‌ । स ब्रह्मा । द्वितीयं पत्न्नयाख्यं वस्तु । स्त्रीपुमांसौ ब्रहकमाणीब्रह्माणौ । सम्परिष्वक्तौ आलिङ्गितौ । यथा यावत्परिमाणौ भवतः । एतावान्‌ तादृशपरिमाण देहवानास

। ह किल । स ब्रह्मा । इममेवात्मानं स्थूलतां प्राप्तमेव देहं । द्वेधाऽपातयत्‌ द्विधा कृत्वा पतितमकरोत्‌ । ततः पातनाद्धेतोः ब्रह्मब्रह्माण्यौ पतिश्ऱ्च पत्नी चेति नामानावभवताम्‌ । तस्मात्‌ अनयोरेकदेहविभक्तनदेहवत्वात्‌ इदं देहद्ववजन्यं स्यः सुखम्‌ । अर्धबृगलमिव एकपात्रार्धद्वयस्थितघृतवत्‌ । इति याज्ञवल्क्य आह स्मेति कण्वो वक्तीति ज्ञेयम्‌ । तस्मादित्युक्त्या यस्मादिति ज्ञेयम्‌ । यस्मादयमाकाशोवकाशः । स्त्रिया पूर्यते । अनेकप्रजाननेनेति भावः । तस्मात्तां प्रजोत्पत्तये समभवत्‌ तया सम्भोगमकरोत्‌ ततः सम्भोगानन्तरम्‌ । मनुष्याः मनु अवबोधने । तत उष्यप्रत्ययः । बोधप्रधाना देवाद्या अजायन्त ॥

3

4

3

॥ आख्यायिपूर्वं तिर्यगादिसृष्यिमाह ॥ सो हेति ॥ सा उ ह इयमिति विभागः । सेयं ब्रह्मसृष्या ब्रह्मानुभूता वाणी ईक्षाञ्चक्रे व्यचारयद्ध । कथं मा माम्‌ । आत्मन एव(स्वस्मादेव)जनयित्वा ब्रह्मा कथमिदानीं सम्भवति अनुभवति हन्त

आश्ऱ्चर्यम्‌ । तिरोसानि तिरोभवानीतीक्षाञ्चक्र इत्यन्वयः । अत्र तात्पर्यं सर्वज्ञापि तु सा देवीत्यादिना स्त्रीस्वभावं दर्शयन्ती साऽधर्ममिव चैक्षत । नानासृष्यिप्रसिद्धयर्थमित्यन्तेन भाष्येण व्यक्तम्‌ । सा गौरभवदित्यादि तु व्यक्तम्‌ । इतरो ब्रह्मा । तां समेव तामेव । समभवदित्यर्थः । अश्ऱ्ववृषोश्ऱ्वश्रेष्ठः तां समेवाभवदित्यनुषज्यते । एकशफत्वैकजात्याक्रान्तसृष्ययुक्त्यै द्वयोक्त्यनन्तरं तां समेवेत्युक्तिः । एवमजेत्यत्रापि ज्ञेयम्‌ । आपिपीलिकाभ्यो मिथुनं मिथुनीभावयोग्यम्‌ । यदिदं किञ्च जगदस्ति । तत्सर्वं एवमुक्तप्रकारेण । तत्तदिन्मथुनभावोपगमेनासृजनत ॥

3

4

4

॥ सः ब्रह्मा । अवेत्‌ व्यजानात्‌ । कथं अहं वाव अहं खलु । सृष्यिः सृष्यिनामास्मि । हि यस्मात्‌ । इदं सर्वमापिपीलिकान्तम्‌ । अहं सवर्मसृक्षि सृष्यवानिति योजना । सृजतेः क्तिच्‌ क्तौ च संज्ञायामिति कर्तरि क्तिच्‌ प्रत्यये सृष्यिरिति सिद्धेः इति हेतोः सृष्यिरस्मीत्यवेत्‌ । यत एवमवेत्‌ ततस्सृष्यिनामाभवदिति वेदपुरुषवचनम्‌ । योधिकारी एवं सर्वसर्जनहेतुना सृष्यिनामानं ब्रह्माणम्‌ । वेद जानाति । सः अस्य ब्रह्मणः एतस्यां सृष्ययां रुद्रादिपिपीलिकान्तसृष्यौ । भवति । साक्षाद्ब्रह्मसृष्यानां मध्ये स्वयोग्यतानुरोधेन तत्पुत्रो भवतीत्यथर्ः ॥

3

4

5

॥ भोक्तृसृष्यिमुक्त्वा पाचकाग्निसृष्यिमाह ॥ अथेति ॥ भोक्तृसृष्ययनन्तरं इति अन्नादमन्नं च सृजामीत्यचिन्तयदितीति शब्दार्थः । ततः किमकरोदित्यत आह ॥ अभ्यमन्थदिति ॥ ओष्ठद्वयं हस्तद्वयं च परस्परं मथितमकरोदिति योज्यम्‌ । स ब्रह्मा मुखात्‌

?R

मुखरूपाद्योनेः कारणात्‌ मथितहस्ताभ्यां चाग्निमसृजत । ततोग्निजन्मयोनित्वादेवदुभयं ओष्ठद्वयं हस्तद्वयं च । अन्तरतोऽलोमकम्‌ । तावताऽलोमकता कुतः । हि यतो यानिरन्तरतो लोमकालोके दृष्या अत इति । ब्रह्मणो जगत्स्रष्युत्वं न स्वसामर्थ्यात्‌ किन्तु भगवत्प्रसादादित्याह ॥ तद्यदिदमिति ॥ एकैकं देवमुद्दिश्यामुं रुद्रं यजामुमिन्द्रं यजेति यत्‌ सा विसृष्यिः प्रेषोक्तिस्तस्यैव ब्रह्मण एव । कुतः । हि यस्मादेव ब्रह्मैव सर्वे देवाः सर्वदेवानां हेतुतया स्वामित्वेन च सर्वे देवा इत्युक्त इति यदाहुवर्ेदविदः इदं तत्‌ तस्मादीश्ऱ्वरप्रसादादिति योजना । अन्नसृष्यिमाह ॥ अथेति ॥ अथ पाचकाग्निसृष्ययनन्तरं यत्किञ्चेदमार्द्रं द्रवात्मकमन्नम्‌ । तद्रेतसोसृजत तदार्द्रम्‌ । सोम उ । सोमाभिमन्यमानमेव । पाच्यपाचकप्रजानां सृष्ययुक्त्या सर्वं सृष्यमासीदित्याह ॥ एतावदिति ॥ अन्नं चान्नादश्ऱ्च प्रजाश्ऱ्चेत्युपलक्ष्यत इति यत्‌ इदमेतावद्वै एतावदेव खलु सृज्यमित्यर्थः । अन्नमन्नादः क इत्यत आह ॥ सोम एवान्नमग्निरन्नाद इति ॥ अन्नशब्दितार्द्रवस्तुनो नार्द्रतया पचनकर्तेत्यर्थः । जाठराग्न्यभिप्रायेण वेयमुक्तिः । ब्रह्मकर्तृका देवादिसृष्यिर्न केवलं सृष्यिमात्रं किन्त्वतिसृष्यिरपीत्याह ॥ सैषेति ॥ ब्रह्मणो ब्रह्मसम्बन्धिनी सैषा सृष्यिरतिसृष्यिः । स्वस्वरूपातिक्रन्तसृष्यिः । कथम्‌ । यद्यस्माच्छ्रेयसस्स्वस्मादुत्तमान्देवानसृजत अत इति योज्यम्‌ । देवानां विरिञ्चादुत्तमत्वं तस्मावमत्वं वा कथमिति पृच्छति ॥ अथेति ॥ उत्तरमाह ॥ यदिति ॥ यद्यस्मान्मर्त्यः सन्‌ अल्पायुष्ट्वादिमर्त्यधर्मोपेतस्सन्‌ । वयोमात्राधिकान्‌ अमृतान्‌ देवानसृजत । तस्मादतिसृष्यिरासीदित्यर्थः । पुरुषाकारतानन्तरमल्पकालेनैव वृषभाद्याकारत्वमाप्तवानिति कृत्वा मर्त्यधर्मत्वमस्य ज्ञेयम्‌ । योग्यतया देवापेक्षया श्रेयानेवेति भावः । ज्ञातुः फलमाह ॥ अतीति ॥ योधिकारी एवमुक्तरीत्या अतिसृष्यिं वेद सोस्य ब्रह्मण एतस्यामतिसृष्ययां देवसम्बन्धिसृष्ययां भवति देवलोके जायत इत्यर्थः ॥

3

4

6

॥ इति प्रजापत्यब्रह्मणम्‌ ॥ आत्मैवेदमग्र आसीदित्यादिना प्रकृतस्यात्मन उपास्तिप्रकारमाह ॥ तद्धेदं तर्हीत्यादिना ॥ तर्हि तदा प्रलयाकाले । तदिदं प्रकृतं ब्रह्म । अव्याकृतं विकारशून्यभासीदित्येकोर्थः । अन्यस्तु । नदिदं जगदव्याकृतं कारणशत्मकमसीत्‌ । ह प्रसिद्धमिति । तद्ब्रह्म तदव्याकृतं जगत्‌ । नामरूपाभ्यामेव व्याक्रियत विकृतमकरोत्‌ । एव शब्देन तृतीयप्रकारं वारयति ॥ कार्यात्मकमकरोत्‌ । कथम्‌ । असौ नामा एतन्नामकः । इदं रूपः एतदाकरः इति । पदद्वयमपि ब्रहुव्रीहिः । असौ नामेत्यलुक्‌ । अयं महदादिपदार्थ इति विशष्यं ध्येयम्‌ । कथमेतज्ज्ञायत इत्यत आह ॥ तदिति ॥ भगवताऽऽदिकाले नामरूपाभ्यामेव महदादिजगतदभिमानिचेतनवर्गस्य च नामरूपाभ्यामेव व्याकृतत्वाद्धेतोः एतर्हि इदानीमपि इदं घटादि वस्तु पुत्रादिकं वा नामरूपाभ्यामेव व्याक्रियते । असौ नामेत्यादि प्रग्वत्‌ । एतेन हरेरुपास्यत्वे सर्वजगद्धेतुत्वरूपहेतुरुक्तो ध्येयः । आत्मत्वोपासनाप्रशंसार्थं प्राणनाद्युपासनानिन्दारूपमर्थवादमुपोद्धातपूर्वकमाह ॥ स इति ॥ स एष जगत्कर्ता हरिः । इह स्वसृष्यब्रह्मादिदेहेषु । आनखाग्रेभ्यः केशादारभ्य नखाग्रपर्यन्तम्‌ । प्रविष्यः । तत्र दृष्यान्तः । यथा क्षुरः क्षुरधाने क्षुरकेशे । विश्ऱ्वम्भरो वायुः । विश्ऱ्वम्भरकुलाये वाय्वावासस्थानभूते देहादाववहितः प्रविष्यस्स्यात्तथेति योज्यम्‌ । तं स्वदेहे प्रविष्यमपि । न पश्यन्ति पामरा इति योज्यम्‌ । स प्रविष्यो हरिः । अकृत्स्नः अल्पगुणः हि भवति खलु । कुतोस्य प्रविष्यस्याकृत्स्नत्वमित्यतो व्यनक्ति ॥ प्राणन्नेवेत्यादिना ॥ प्राणन्नेव श्ऱ्वासव्यापारं कुर्वन्नेव । प्राणः प्राणनामा । भवति । नाम प्रसिद्धम्‌ । एवमग्रेऽपि वचनादिव्यापारं कुर्वन्वागादिनामको भवतीति ज्ञेयम्‌ । एतानि प्राणादिनामानि । अस्य देहं प्रविष्यस्य हरेः । कर्मनामानि एकैकक्रियानिमित्तकानि । तन्मात्रप्रत्यायकानि । न त्वशेषगुणवाचीनीति यावत्‌ । तावता कुतो कत्स्नत्वमित्यतः स्वस्वाभिमतज्ञानानन्दादिकृत्स्नफलादात्रुपास्तिविषयत्वादकृत्स्नविषयत्वमित्याह ॥ स योत इति ॥ अत इति सप्तम्यर्थे तसिः । एतेषु प्राणनादिषु । स प्रसिद्धो योधिकारी । एकैकमुपास्ते स न वेद न जानाति । सर्वगुणपूणर्त्वाज्ञानादित्याह ॥ अकृत्स्नो हीति ॥ एष उपासकः । अतः एषु प्राणनादिषु । एकैकेनो पासितेन । अकृत्स्नो भवति स्वाभिमतसच्चिदानन्दत्वादिरूपफलावाप्तिमान्न भवति । हि यस्मात्‌ । तस्मादिति योज्यम्‌ । कथं तर्ह्युपास्यमित्यत आह ॥ आत्मेत्येवेति । तत्र हेतुः ॥ अत्र ह्येते सर्व एकं भवन्तीति ॥ अत्र आत्मशब्दार्थे । एते बुद्धिस्थाः ज्ञानानन्दादयः । प्रागुक्तप्राणानदयश्ऱ्च एकं भवन्ति । अन्तर्भवन्ति हि । यतोत इति । अत्रावधारणयुक्तात्मशब्दार्थोपासनाविधिसर्वगुणोपसंहारकारः आत्मेत्युपासीतैवेति आत्मत्वायोगव्यवच्छेदपरो ध्येयः । यथोक्तं सर्वोपसंहारनये अन्यथात्वं शब्ददिति चेदिति सूत्रभाष्ये । आत्मेत्येवेत्यवधारणमनात्मत्वनिवृत्त्यर्थमिति । यद्वा यथाश्रुत एवैवकारोऽन्ययोगव्यवच्छेदपरस्सन्नात्मशब्दार्थो सर्वगुणान्तर्भावे युक्तिसूचकः । अन्ययोगव्यवच्छेदावधारणयुक्तात्मशब्दार्थोपासनाविधिः सर्वगुणोपसंहर्तृब्रह्मादीनप्यधिकरोतीति तैरप्यात्मपदोक्तमेवोपास्यम्‌ ।

?R

तथाच यद्यसौ न तान्प्रति सर्वगुणानभिधत्ते तर्हि । गुणैस्सर्वैरुपास्योसौ ब्रह्मणेत्यादिसर्वगुणोपसंहारवचनाविरोधस्स्यात्‌ । अतोसौ तेषां सर्वगुणाभिधायक इति । तदुक्तं सूत्रे अन्वयादितिचेत्स्यादवधारणादिति । तथा सच्चिदानन्दादिचतुर्गणोपासनाधिकारिणः प्रति तावत एव गुणान्वक्ति नेतरान्‌ । तदाह आत्मगृहीतिरितरवदुत्तरादि सूत्रे । यस्त्वात्मत्वरूपैकगुणोपासनाधिकारी तं प्रति तावन्मात्रमेव ततः प्रतिभाति नान्यत्‌ इत्यन्ययोगव्यवच्छेदार्थं एवैवकारः । तदप्याह आत्मशब्दाच्चेति सूत्रे । आत्मशब्दस्य सर्वगुणाभिधायित्वेप्यात्मनस्सर्वगुणाभावे कतं तथोपास्तिरित्यत आह ॥ तदेतदिति ॥ यदयमात्मा योयमात्मोपास्यत्वेनोक्तस्तदेतदात्मनो रूपं अस्यात्मशब्दार्थस्य गुणजातस्य । पदनीयम्‌ । आश्रयः । सर्वगुणवत्त्वं तस्य कुतस्सिद्धमित्यत आह ॥ अनेनेति ॥ हि यस्मादनेनोपासितेन हरिणा एतत्स्वयोग्यं सर्वं वेद आनन्दादिकं च प्राप्नोतीत्यपि ग्राह्मय्‌ । तस्मात्सर्वगुणाश्रय इति तदुपासनादेव सर्वज्ञत्वादयो गुणा भवन्ति किमु तस्येति भावः । ननूपासनाविधावात्मपदोक्तगुणजाते च तात्पर्ये गौरवं अन्यतरत्र तात्पर्येऽन्यतरासिद्धिरिति चेत्‌ । उपासनायाः कार्यत्वे विष्णोरात्मत्व एव च । उभयत्रापि तात्पर्यमात्मोपासादिके विधाविति हरिवंशवाक्यसिद्धतया गौरवस्यादोषत्वात्‌ आत्मपदोक्तगुणजातविशिष्यात्मोपासनाविधानादवाक्यभेदाद्वेति । एतज्ज्ञानिनः फलमाह ॥ यथेति ॥ पद्यते प्राप्यते फलमनेनेति पदं साधनम्‌ । तेन यथा तत्तत्साधनेन तत्तत्फलमनुविन्देत्‌ प्रप्नुयात्‌ । एवं विद्योधिकारी एवं सर्वगुणयुक्तमात्मानं वेद उपास्ते । स कीर्ति यशः । श्ऱ्लोकं शं च लोकं च श्ऱ्लोकम्‌ । एकवद्भावः । सुखं ज्ञानं च । लुक्‌ प्रकाश इति धातोः । विन्दते प्राप्नुयात्‌ ॥

3

5

1

॥ आत्मोपासनं प्रेमशब्दितभक्तियुक्तं चेत्पुमर्थहेतुरिति वक्तुं तस्मिन्‌ प्रेमोत्पत्तये तस्य दाररापत्यादितोपि सुखसाधनत्वेनातिप्रेमास्पदतामाह ॥ तदेतदिति ॥ यदयमात्मा योयमात्मा आप्तगुणः । अन्तरतरं सर्वान्तविर्द्यमानम्‌ । तदेतदात्मनो रूपं पुत्रादितः सर्वस्मात्प्रेयः निरुपाधिकप्रेमास्पदमुत्तमानाम्‌ । अन्येषां तु सुखसाधनत्वादिति भावः । आत्मनः प्रियतमत्वं समर्थयते ॥ स य इति ॥ स यः यः कोपि विष्णुभक्तः आत्मनो हरेरन्यं प्रियं ब्रुवाणं दुर्जनं प्रति तव प्रियं सुखं रोत्स्यति नाशयति भगवानिति ब्रूयात्‌ । एवं ब्रुवन्‌ ईश्ऱ्वरो ह । तत्सुखरोधने समर्थो ह निश्ऱ्चयस्तस्मात्तथैव स्यात्‌ । निरुद्धसुखवानेव स भवतीत्यर्थः । यदर्थं हरेः प्रियत्वमुक्तं तदाह ॥ आत्मानमेवेति ॥ भगवन्तमेव प्रियं उत्तमानां निरुपाधीष्यम्‌ । अन्येषामिष्यहेतुत्वेन प्रियं प्रीतिविषयोयमित्युपासीतेत्यर्थः । दारपत्यादेस्तत्सम्पर्कप्रयुक्तप्रियत्वकत्वेन स एव मुख्यप्रिय इत्यात्मानमेव प्रियमित्येवकारः । स प्रसिद्धो योधिकारीत्यर्थः । प्रमायुक्तं विनाशयुक्तं न भवतीत्यर्थः ॥

3

5

2

॥ भगवज्ज्ञानादेव नित्यप्रियप्राप्तिभर्वतीत्युक्तम्‌ । तदाक्षेपसमाधिभ्यां महद्भिः समर्थितमित्याह ॥ तदाहुरित्यादिना ॥

B-K-2

?R

ब्रह्मविद्यया सर्वमात्मयोग्यतापूर्ति । भविष्यन्तः प्राप्नुवन्तो महान्तः । ब्रह्मविद्ययैव स्वयोग्यं सर्वं प्राप्यत इति यदाहुः नित्यनिर्दुःखानन्दानुभवात्मकमुत्तमजीवस्वरूपमज्ञानतिरोहितं ब्रह्म विद्ययाऽभिव्यज्यत एवेति । पुंस्त्वादिवत्त्वस्य सतोभिव्यक्तियोगात्‌ विद्यैव तु निर्धारणादित्यादिना व्यासादयो महान्तो यदाहुरित्यर्थः । तत्‌ तत्र । तस्मिन्नर्थे । केचिन्मनुष्या मन्यन्ते । कथम्‌ । स्वरूपमपि ब्रह्मविद्ययाभिव्यज्यते चेत्‌ । तद्ब्रह्म । यस्मात्सर्वं पूर्णमभवत्‌ । तत्‌ तस्माद्ब्रह्मापि स्वस्वरूपमवेत्किमु । इति मन्यन्त इत्यन्वयः ॥

3

5

3

॥ त्वया पृष्यं सत्यं ब्रह्माप्यनादिनित्यापरोक्षज्ञानेन स्वस्वरूपं सदा जानात्येवेति हेतोस्सदापरिपूर्णमभवदिति भावेन परिहरति ॥ ब्रह्म वा इति ॥ इदमग्रे अस्य जगतः पूर्वम्‌ । ब्रह्मैवासीत्‌ । तद्ब्रह्म । अहेयं सर्वनियन्तृतया सर्वगतत्वेन च केनापि हातुमशक्यं ब्रह्म पूर्णं अस्मि अस्तीति मेयं ज्ञेयम्‌ । इत्यात्मानमेवावेत्‌ व्यजानात्‌ । स्वस्मादन्यस्य पूर्णस्य ब्रह्मणोऽभावेन स्वस्यैव पूर्णब्रह्मत्वादिति भावेन स्वात्मनमेवेत्येव शब्दः । तस्माद्ब्रह्मस्वरूपज्ञत्वादेव । तद्ब्रह्म । र्स्व पूर्णमभवत्‌ । अत्रासीदवेद भवदित्यनद्यतनरूपकालविशेषवाचि लङ्‌प्रयोगेपि आत्म वा इदमेक एवाग्र आसीत्‌ । सदेव सोम्दमग्र आसीदित्यादौ यथा सत्त्वमनाद्यनन्तकालीनमित्युपेयते त्रिकालवाचिनो लकारस्य कस्यचिदभावेन येन केनचिल्लकारेण निर्देशेपि न तत्र विवक्षेति । एवं स्वरूपवेदनपूर्णताभवनयोरप्यनाद्यनन्तकालीनत्वमेवेति भावः । अत एव तदात्मानमेवेत्यादिनैव परिहारप्राप्तावासीदित्यन्तोक्तिः । यद्वा ब्रह्म अग्रे अनादिकाल एव । आत्मानं स्वस्वरूपमवेदित्यपि योजनया अनादिकालतस्सत्वमिवात्मनः स्थितिमपि जानातीत्यर्थसूचनाय ब्रह्म वा इत्याद्यंशोक्तिः । अन्येप्येवं ज्ञात्वा स्वयोग्यपूर्तिमन्तोभवन्नित्याह ॥ तद्य इति ॥ देवानां मध्ये यो यो देवः । तत्‌ अहेयत्वादिगुणं ब्रह्म । यथा प्रत्यबुध्यत । स एव तज्ज्ञानानुसारेण तत्सर्वं समग्रं स्वयोग्यनन्दादिपूर्णत्वमभवत्‌ । प्राप्नोत्‌ । तथेति समुच्चये । ऋषीणां मध्ये तद्यो यः प्रत्यबुध्यत मनुष्याणां मध्ये च यो यस्तत्प्रत्यबुध्यत स एव तदभवदिति योजना । प्राग्वदस्यार्थः । उपनिषत्‌ स्वोक्तार्थे प्रमाणामाह ॥ तद्धेति ॥ तदेतद्ब्रह्म

?R

पश्यन्वामदेव ऋषिः मन्त्रदर्शी । अहं मनुरभवं सूर्यश्ऱ्चेत्यादिमन्त्रं प्रतिपेदे । मनुसूर्यादिभिः ब्रह्मणोहेत्वमहं मनुरित्यादिमन्त्रतात्पर्यार्थतया व्यजानादित्यर्थः । मन्त्राक्षरार्थस्तु । वामदेवः स्वात्मनो ब्रह्मचित्संवलनेन चिद्द्वयं संपिण्डितं अहं पदं मुख्यामुख्यवृत्त्या वक्तीति मुख्यार्थमन्तर्यामिणमह पदार्थमुद्दिश्य मन्वाद्यन्तर्यामित्वेन मन्वादिभिरहेयो मन्वादिशब्दवाच्यो योस्ति सोस्मीति मत्वा । तदन्तर्यामिणः स्यान्तर्यामिणश्ऱ्चाभेदविवक्षया अहं मनुरभवमित्यादिरूपेणाहेति ध्येयः । तदाह सूत्रे । शास्त्रदृष्यया तूपदेशो वामदेववदिति । ब्रह्मविद्यया स्वयोग्यफलप्राप्तिरद्यतनानामप्यस्तीत्याह ॥ तदिदमिति ॥ तदिदं ब्रह्म । एतर्ह्यपि इदानीमपि । योधिकारी । अहं ब्रह्मास्मीत्येवमहेयत्वपूर्णत्वास्तीति मेयत्वगुणकमित्येवं प्रकारेण वेद । तथा एवमित्यस्य तु अहं ब्रह्मास्मीति तदात्मानमवेदित्येवं प्रकारेण च यो वेदेत्यर्थः । सः ज्ञानी इदं स्वयोग्यम्‌ । सर्वं समग्रम्‌ । आनन्दादिपूर्णो भवतीति । तस्य ज्ञानिनो देवादिभिरपि श्रेयःप्रतिबन्धो नेति महिमानमाह ॥ तस्य हेति ॥ तस्य ज्ञानिनो देवाश्ऱ्च न देवा अपि । अभूत्यै विद्याफलविघाताय । नेशते तद्विघातं न कुर्वन्तीत्यर्थः । अशक्त्या न कुर्वन्ति किमित्यतो नेत्याह ॥ आत्मेति ॥ सः ज्ञानिप्रियो हरिः । एषां देवानामात्मा कार्येषु नियोक्तृत्वेन तेषु व्याप्ततया स्थितत्वेन स्वामी । भवति यस्मात्तस्माद्भगवत्प्रिये ज्ञानिनि विघातं श्रेयसो न कुर्वन्ति । तत्प्रियस्यात्मनोपि प्रियत्वादिति भावः । तदिदमिति निर्दिष्यस्यापि भगवतो विधेययात्मपेक्षया स इति पुल्लिङ्गनिर्देशः । एवं सम्यक्‌ ज्ञानिमहात्म्यमुक्त्वाऽन्यथाज्ञानिनो निन्दामाह ॥ अथेति ॥ अर्थान्तरे । यः । अन्यां सर्वजीवविलक्षणां अहेयत्वादिगुणैः भिन्नां वा । विष्णुरूपदेवतां अन्योसौ विष्णुः । अहमस्मीति पदद्वयोक्तगुणविशिष्योन्यो न विष्णुरित्युपास्ते । स न वेद न जानातीशस्वरूपं यथा मनुष्योपभोजकः पशुरिति । यद्वा अहंमस्मीति पदद्वयोक्तगुणविशिष्योन्यः अन्यश्ऱ्चासौ विष्णुरिति मत्वा योऽन्यां विष्णुभिन्नां देवतामुपास्ते स न वेदेति । आत्मा ह्येषामित्युक्तं देवप्रियत्वं ज्ञानिनो व्यक्तमाह ॥ एवमिति ॥ सः तदिदमप्येतर्हि य एवं वेदेति पूर्वर्त्र प्रकृतो ज्ञानी । एवं देवानां पशुः । देवोपभोजकपशुरिव तेषां पि्रय इत्यर्थः । तदेव व्यनक्ति ॥ यथेति ॥ यथा बहवो गोरूपाः पशवः क्षीरादिना मनुष्यं भुंज्युः भोजयेयुः । ह वै प्रसिद्धम्‌ । एवमेकैको ज्ञानिपुरुषः देवान्भुनक्ति भोजयति । प्रीणयतीति यावत्‌ । देवप्रीतिकरत्वं ज्ञानिनः कुत इत्यत आह ॥ एकस्मिन्निति ॥ लोके एकस्मिन्‌ भोजके पशावादीयमाने प्रियं भवति । किमु बहुषु । तस्माद्बहुगोपशुतुल्यतया भोजको ज्ञानी देवानां प्रीतिविषयो भवतीति किमु वाच्यमिति भावः । अथ योन्यामित्यादिनोक्तार्थज्ञानिनो निन्द्यत्वादेव तथा न ज्ञेयं न । किन्तु तथा ज्ञानस्य देवापि्रयत्वाच्चेत्याह ॥ तस्मादिति ॥ तत्त्वज्ञानस्यैव देवानां प्रियत्वात्‌ । एषां देवानाम्‌ । तन्न प्रियम्‌ । मनुष्याः विष्णोरन्यां देवतामहेयत्वादिगुणविशिष्यां विद्युरिति यदेतत्‌ तदिति योजना ॥

3

5

4

॥ पूर्वं सा गौरभवत्‌ वृषभ इतर इत्यादिना ब्रह्मा सर्वमसृजदित्युक्तं इदानीं वर्णसृष्यिमाह ॥ ब्रह्मा वा इति ॥ इदमस्य जगतः अग्रे । ब्रह्म चतुर्मुख आसीत्‌ । चतुर्मुखो ब्रह्मह्मणजातिस्सन्‌ विष्णोरुदपद्यत पूर्वमित्यर्थः । तत्‌ चतुर्मुखाख्यं ब्रह्म । एकमसहायं सत्‌ न व्यभवत्‌ । परिवारविशिष्यं नाभवत्‌ । तचतुर्मुखाख्यं ब्रह्म आत्मनः परिवारमिच्छत्‌ श्रेयोरूपं सर्वजात्युत्तमरूपम्‌ । क्षत्रं क्षत्रजातिं । अत्यसृजत ससर्ज । तद्वयनक्ति ॥ यानीति ॥ देवत्रा देवानां मध्ये । यान्येतानि क्षत्राणि । इन्द्रः इन्द्रशब्दितो गरुडः । सोमपदेन तत्समस्मूर्योपि ग्रह्यः । रुद्रः सदाशिवः । पर्जन्यशब्दितोत्र शक्रः । कामश्ऱ्चाप्युपालक्ष्यते । मृत्युपदेन शेषो ग्राह्यः । ईशानो वायुः । इति शब्दस्य इत्येतानि यानि तत्क्षत्रं श्रेयोरूपमसृजतेत्यन्वयः । तस्मात्‌ त्रक्षस्य श्रेयोरूपत्वात्‌ । क्षत्रात्‌ क्षत्रजातेः । परमुत्तमम्‌ । नास्ति । तस्मात्क्षत्रजातेरुत्तमत्वादेव । ब्राह्मणः अधस्तादधोदेशे स्थितस्सन्‌ राजसूये क्षत्रियं सिंहासनस्थं राजानमुपास्ते । किमर्थमित्यत आह । क्षत्र एवेति ॥ ब्राह्मण इत्यनुषज्यते । ब्राह्मणस्तत्‌ तेनाधस्तादुपासनेन यशः क्षत्रिय एव दधाति स्थापयतीति । तस्मिन्यशो दातुं स्वयमुत्तमोपि संस्तथोपास्त इत्यर्थः । उत्तमस्सन्निति कुतः । नीचत्वादेव तथोपास्त इति किं नेत्यत आह ॥ सैषेति ॥ यद्यपि राजा राजसूयकर्तृत्वनिमित्तेन परमातं गच्छति । तथापि यद्ब्रह्म यो ब्राह्मणः । सैषा स एष ब्राह्मणः । क्षत्रियस्य योनिः तत्त्वोपदेशादिना कारणम्‌ । गुरुरिति यावत्‌ । तस्मात्‌ ब्राह्मणस्य गुरुत्वादेव । अन्ततो राजसूयान्ते राजा स्वां योनिं स्वगुरुभूतम्‌ । ब्रह्मैव ब्राह्मणमेव । उपनिःश्रयति वन्दयीत । हेत्वन्तरेणापि ब्राह्मणः क्षत्रियादुत्तम इत्याह ॥ य इति ॥ य उ य एव क्षत्रियः । एनं ब्राह्मणं । हिनस्ति हन्त । स स्वां योनिं स्वपितरम्‌ । ऋच्छति विनाशयति । (ऋच्छ गतीन्द्रियप्रलयेष्विति धातुः) साक्षात्पतरि जीवति कथं पितृहन्तेत्यतस्तत्समदोषवान्भवतीति भावेनाह ॥ स पापीयान्भवतीति ॥ यथा श्रेयांसं गुणाधिकं स्वपितरम्‌ । हिंसित्वा पापीयान्भवति तादृशपापवान्भवतीत्यर्थः ॥

3

5

5

॥ क्षत्रियदेवात्पत्त्यनन्तरमुपोद्घतपूर्वं विशां सृष्यिमाह ॥ स इत्यादिना ॥ स चतुर्मुखः । नैव व्यभवत्‌ कांक्षितपरिवारविशिष्यो नाभवत्‌ । सोनेकपरिवारेच्छावान्‌ ब्रह्मा । विशमसृजत ।

?R

तदेव व्यक्तिनिदेंशन दर्शयति ॥ यान्येतानीति ॥ यान्येतानि देवजातानि । गणशः सघंशः । आख्यायन्ते । वह्वल्पार्थाच्छस्कारकादन्यतरस्यामिति शस्‌ । तान्‌ गणानाह ॥ वसव इत्यादिना ॥ वसवोग्निव्यतिरिक्तास्सप्त ज्ञेयाः । अग्नेः ब्राह्मणत्वात्‌ । सदाशिवस्य क्षत्रियत्वात्तदन्ये दश रुद्रा रुद्रपदेनात्र ग्राह्याः । विवस्वदिन्द्रवरुणविष्णुभिन्ना अष्यावादित्या ग्राह्याः । विवस्वदादित्रयस्य क्षत्रियत्वात्‌ विष्णोस्त्ववर्णत्वात्‌ । विश्ऱ्वे देवा दश । मरुतो मुख्यवायुभिन्ना एकोनपञ्चाशत्‌ । तस्य क्षत्रत्वात्‌ । इति गणश आख्यायन्ते । तद्रूपविशमसृजतेति योजना ॥

3

5

6

॥ उपोद्धातपूर्वं शूद्रसृष्यिमाह ॥ स इति ॥ सः जातित्रयाक्रान्तदेवस्रष्या चतुर्मुखः । न व्यभवत्‌ विवक्षितपरिवारविशिष्यो नाभवत्‌ । स एवम्भूतो ब्रह्म शौद्रं शूद्रसम्बन्धि । वर्णमसृजत । तत्किमित्यत उक्तम्‌ ॥ पूषणमिति ॥ तद्वयनक्ति ॥ इयं वै पूषेति ॥ पृथिवी पूषेत्यर्थः । केन हेतुनेत्यत आह ॥ इयं हीति ॥ इयं पृथिवी । यदिदं किञ्च इदं सर्वं पुष्यति पोषयति । हि यतोत इति योजना । अश्ऱ्विनौ पृथिवी चैव कालामृत्यव एव च । शूद्रदेवा इति भाष्यदिशाऽन्येप्यत्र ग्राह्याः ॥

3

5

7

॥ जगद्धारकर्मोचकाख्यवायुरूपान्तरसृष्यिमाह ॥ स इत्यादिना ॥ स चतुर्वर्णस्रष्या ब्रह्मा । न व्यभवत्‌ विवक्षितजनविशिष्यो नाभवत्‌ । स्वस्य स्रष्यृत्वात्सृष्यानां चतुर्वर्णदेवानां पालकत्वात्‌ सृष्यजगतो धाणमोचनदक्षेण युक्तो नाभवत्‌ । ततश्ऱ्च तादृशेन भाव्यमित्यालोच्य तत्‌ चतुर्मुखाख्यं ब्रह्म । श्रेयोरूपं सर्वश्रेष्ठम्‌ । धर्मं जगद्धारकम्‌ । श्रेयोरूपं मोक्षसाधनभूतम्‌ । धर्मं भक्त्यादिभगवद्धर्माभिमानिनमिति वा । वोयो रूपान्तरम्‌ । अत्यसृजत । शेषादावविद्यमानं धारकत्वादिकं वायोरेव कुत इत्यतो धरकत्वं तावदुपपादयति ॥ तदेतदिदिति ॥ वायो रूपं क्षत्रस्य शेषादेः । क्षत्रं स्वामि । यद्यस्मात्त्माद्वायोः परं विष्णुमृते नास्ति । अतो युक्तं धारकत्वं तस्येति । इदानीं मोचकत्वं तस्योपपादयति ॥ अथो इति ॥ अथो तस्मात्‌ । अबलीयान्‌ स्वयमेव विष्णुं प्रतिगन्तुमसमर्थो धर्मेण विष्णुभक्त्यादिधर्ताभिमानिना वायुरूपेण बलीयांसं विष्णुं प्राप्तुमाशंसते इच्छति । तत्र दृष्यान्तः ॥ यथेति ॥ यथैतद्वयक्तं तथोच्यत इत्यर्थः । तदाह ॥ राज्ञेति ॥ लोके कश्ऱ्चिदबलीयान्महाराजं गन्तुमसमर्थो । राज्ञा युवराजेन बलीयांसम्‌ । महारजं गन्तुमाशंसते एवमिति । धर्ममानिनो वायो रूपान्तरमाह ॥ यो वै स धर्मस्सत्यं वै तदिति ॥ एतद्रूपं सत्यं वै सत्याभिमानि वै । तस्मात्‌ उभयाभिमानिनोरेकत्वात्‌ । सत्यं वदन्तं धर्मं वदीतीत्याहुर्लौकिका वैदिकाश्ऱ्च । धर्मं वा वदन्तं सत्यं वदतीति । एतद्धयेव वायो रूपं एतदुभयं धर्मसत्यरूपोभमानि भवतीत्यर्थः ॥

3

5

8

॥ प्रागुक्तब्राह्मणादिवर्णेषु श्रेष्ठानां ब्रह्मादीनामग्न्यादिष्वाविष्यत्वरूपमहिमानं वक्त६ु प्रागुक्तमनुवदति ॥ तदेतदिति ॥ ब्रह्मक्षत्रंविटशूद्र इति यत्तदेतत्प्रागुक्तमित्यर्थः । तत्तत्र ब्रह्म ब्राह्मणजात्यभिमानी ब्रह्मा । देवेषु योग्निस्तेन सहाभवत्‌ । तदन्तर्गतभवदिति यावत्‌ । मनुष्येषु यो ब्राह्मणस्तेन सहास्ते । तदन्तर्गतोवर्तत इत्यर्थः । क्षत्रियः क्षत्रियजात्यभिमानी वायुः । देवेषु यः क्षत्रियः सुपर्णशेषादिः नृषु यः क्षत्रियो राजादिस्तेन च सहास्ते तदन्तर्गत इत्यर्थः । वैश्यो वैश्यजात्यभिमानी नासिक्यो वायुः । देवेषु यो वैश्यो वस्वादिस्तेन नृषु यो वैश्यस्तेन च सहास्ते । तत्स्थ इत्यर्थः । शूद्रः शूद्रमानी निर्ऋतिः । देवेषु यश्शूद्रोश्ऱ्विप्रभृतिः तेन सहास्ते । तथा नृषु यश्शूद्रस्तेन च सहास्ते । तदन्तस्थ इत्यर्थः । अग्नौ ब्राह्मणे च ब्रह्मा तिष्ठतीति कुत इत्यत आह ॥ तस्मादिति ॥ यस्मादेताभ्यां रूपाभ्यां ब्रह्माभवत्‌ । तयोराविष्योभूदिति यावत्‌ । तस्माद्धेतोः देवेषु मध्येऽग्रावेव मनुष्येषु ब्राह्मज्ञण एव हुत्वा लोकमिच्छन्ते इच्छन्ति । प्रार्थयन्ते । अग्निब्राह्मणयोः सन्तर्पणेनैव लोकावाप्तिर्भवेत्किमित्यतो नेति भावेनाह ॥ अथेति ॥ अन्यच्चेश्ऱ्वरज्ञानरूपमपेक्षितमित्यथ शब्दार्थः । तदेव व्यतिरेकमुखेनाह य इति ॥ यो ह वै अग्निविप्रार्चकोपि यः कश्ऱ्चित्‌ स्वं स्वकीयम्‌ । लोकमाश्रयम्‌ । स्वश्रयमिति यावत्‌ । हरिमदृष्ट्वा अविज्ञाय । अस्माल्लोकात्‌ देहात्‌ । प्रैति निर्गच्छति । एनमग्निविप्रार्चकम्‌ । स हरिरविदितोऽज्ञातो न भुनक्ति । न पालयति । यथा अननूक्तोऽनधीतो वेदो वा । अकृतं अन्यत्‌ कर्म वा न भुनक्ति तथेति योज्यम्‌ । तथाप्यश्ऱ्वमेधादिमहाकर्मानुष्ठानत्स्यान्महाफलमित्यत आह ॥ यदि ह वा इति ॥ यद्यनेवं वित्‌ परमात्माज्ञानीमहदपि पुण्यं पुण्यसाधनम्‌

?R

| ह वै प्रसिद्धम्‌ | हयमेधादिकर्म | करोति तत्कर्म | अस्य हर्यज्ञानिनः | अन्ततः क्षीयत एव क्षयिष्णुफलकमेव भवति हेति | तदाह सूत्रे | भाक्तं वाऽनात्मवित्त्वादित्यादि | एवं हर्यज्ञानिनो न फलावाप्तिः कर्मणेत्युक्तं तर्हि किं कार्यमित्यत आत्मज्ञानं सम्पाद्यमिति भावेन तज्ज्ञानसाधनमुपासनं विधत्ते | आत्मानमेवेति ॥ आप्तकामतयाज्ञऽऽत्मपदवाच्यमेव लोकं सर्वाश्रयम्‌ | सर्वाश्रयत्वेन हरिमुपासीत | अस्योपासकस्य ज्ञानानन्तरभावि कर्म न क्षीयते क्षयिष्णु फलकं न भवति | कर्मणो क्षयत्वं व्यनक्ति ॥ अस्मादिति ॥ स ज्ञानी यद्यत्कामयते तत्तत्काम्यं वस्तुजातमस्माद्धयेव प्रसन्नादात्मनो हरेस्सकाशादेव | सृजते | कर्मेत्यनुषज्यते | अत्रायं विवेकः | परोक्षज्ञानिना कृतमकाम्यं कर्माक्षयफलकज्ञानाय |

?R

अपरोक्षज्ञानिना कृतं तु कर्माक्षयमोक्षैकदेशायेति । तथा चोपास्त इत्यस्य परोक्षापरोक्षसाधारण्येन जानातीत्यर्थो ध्येयः । तथाच सूत्रम्‌ । अग्निहोत्रादिति तु तत्कार्यायैव तद्दर्शनादिति ॥

3

5

9

॥ आत्मानमेव लोकमिति यद्धरेः सर्वाश्रयत्वमुक्तं तत्साधयितुं प्रतिजानीते ॥ अथो इति ॥ प्रागुक्तोपपादनारम्भार्थोयमथो इति निपातः । अयं सर्वजीवेषु नियामकतया स्थितः । आप्तकामतयाऽऽत्मेत्युक्तः । सवर्ेषां भूतानां देवादिपिपीलिकान्तप्राणिनाम्‌ । लोको वै आश्रयः प्रसिद्धः । कथमित्यतो विविच्य व्यनक्ति ॥ स इति ॥ सः सर्व जीवेषु नियन्तृतया स्थितां हरिः । यज्जुहोति वैश्ऱ्वदेवादिकं करोतीति यद्यद्यजते यज्ञानीन्करोतीति यत्‌ । होमकर्त्रादिषु स्थित्वा वा रामकृष्णादिरूपेण वा द्वेधापि देवेषु दयया देवतोद्देशेन होमादिकं कुरुत इति यत्‌ । तेन होमादिना । देवानां लोक आश्रयः । अथेत्यर्थान्तरे । एवमग्रेऽपि ज्ञेयम्‌ । अनुब्रूते अध्येतृषु स्थितस्सन्पृथग्वाध्ययनं कुरुत इति यत्‌ । तेन ऋषीणां लोक इत्यनुषङ्गः । अध्ययनकाले तत्तद्द्रष्यृऋषिस्मृतिपूर्वमध्ययनकृतौ तेषां तृप्तिर्भवतीति तदाश्रया इति भावः । अथ पितृभ्यो निमृणाति पिण्डं प्रयच्छतीति यत्‌ । प्रजां पुत्रम्‌ । इच्छते इच्छति । उत्पादयतीति यत्‌ तेन पितॄणां लोकः । अथ मनुष्यान्‌ गृहभूम्यादिदानेन वासयते निवासयतीति यत्‌ । एभ्योर्थिभ्यो । दानं देयमन्नम्‌ । (एभ्योशनमिति क्वचित्पाठः।) ददातीति च यत्‌ तेन मनुष्याणां लोकः । अथ पशुभ्यः तृणोदकम्‌ । द्वन्द्वैकवद्भावः । विन्दति ददातीति यत्‌ तेन पशूनां लोकः । अस्य पूर्वोक्तद्विरूपस्य हरेः । गृहेषु श्ऱ्वापदाः मार्जारादयः । वायांसि पक्षिणः । किंबहुना । आपिपीलिकाभ्यः पिपीलिकापर्यन्तं वर्तमानाः सर्वेपि प्राणिनः । बल्यादिकमुपजीवन्तीति यत्‌ तेन तेडषां लोकः । एवं सर्वान्तर्यामितया रामकृष्णादिरूपेण वा सर्वाश्रयतया स्थितस्य हरेरुक्तरीत्या सर्वाश्रयत्वं जानतः फलं सदृष्यान्तमाह ॥ यथा ह वा इति ॥ यथा लोके स्वाय स्वकीयाय । लोकाय आश्रयाय । राजदेररिष्यिमविनाशमिच्छेदिच्छति । एवं ह । एवं विदे द्विरूपस्य हरेस्सर्वाश्रयत्वविदे । सर्वाणि भूतानि देवादीनि । अरिष्यिमविनाशमिच्छन्ति प्राथर्यन्त इत्यर्थः । एवं हरेः सर्वाश्रयत्वमुपपाद्य तत्र प्रमाणमाहोपनिषत्‌ ॥ तद्वा एतदिति ॥ तदेतद्विष्णोः सर्वाधारत्वम्‌ । सर्ववेदैर्विदितं प्रतिपादितम्‌ । मीमांसाभिश्ऱ्च निश्ऱ्चितं ऋषिभिर्विचारितमिति वार्थः ॥

3

5

10

॥ गृहस्थे स्थित्वा यज्ञादिकरणेन सर्वाश्रय इत्युक्त्या भगवता रामादिरूपेण गार्हस्थस्यानुष्ठानाच्च गार्हस्थ्यं श्रेष्ठमिति भावेन हरेः गार्हस्थ्यमाह ॥ आत्मैवेदमिति ॥ इदमस्य जगतः । अग्रे प्रलये । आत्मा परिपूर्णो नारायण एवासीत्‌ । एक एव स आत्मा । अकामयत ऐच्छत्‌ । कथमित्यत आह ॥ जाया मे स्यादित्यादिना ॥ कुर्वीयेत्यन्तेन ॥ विद्यमानमेव जायां भोगार्थमैच्छदित्यर्थोस्य ध्येयः । एक एवेत्युक्तिस्तु अवियुक्तस्तया यदा । एक इत्युच्यत इति स्मृतेरवियुक्तत्वाभिप्राया । अथ तद्रमणानन्तरम्‌ । प्रजायेय प्रजनयेय । पुत्रं जनयेयेत्यर्थः । अथ अनन्तरम्‌ । वित्तं द्रविणं । कर्म यज्ञादि । कुर्वीयेत्यकामयतेति प्रत्येकमन्वयः । न केवलमकामयत । ब्रह्मादिदेवरूपान्‌ पुत्रान्‌ पञ्चमहाभूतब्रह्माण्डतदन्तस्थलोकरूपवित्तं स्वात्मोद्देशेन यज्ञादिकर्म च कृतवांश्‌चेत्यपि ध्येयम्‌ । इच्छोक्त्यैव इच्छामात्रं प्रभोः सृष्यिरित्युक्तेः सृष्येरपि लाभात्तदनुक्तिः । उक्तचतुष्ययातिरिक्तं कुतो न कामितवानित्यत आह ॥ एतावानिति ॥ एतावान्‌ खलु काम्यमानोर्थः । कुतः । अत उक्तचतुष्ययाद्भूयः अधिकमिच्छन्नपि न विन्देत्‌ नाप्नुयात्‌ । तस्मात्‌ काम्यस्यैतावत्त्वाद्भगवता कामितत्वाद्वा । एतर्ह्यपीदानीमपि एकाकी लोकिको जनः । कुर्वीयेतीति पदस्य प्रत्येकमन्वयः । वित्तं दैवं मानुषं चेति द्विविधम्‌ । दैवं सुखज्ञानादिकम्‌ । मानुषमित्यत्र भार्यादिचतुष्ययादन्यत्काम्यं नेत्युक्तचतुष्ययस्य काम्यत्वं व्यनक्ति ॥ स इति ॥ स एवं कामनावानपि । एतेषां चतुर्णां मध्ये । एकैकं यावद्यदा । न प्राप्नोति तावत्तदा । स्वात्मानं अकृत्स्नोऽपूर्णोहमिति मन्यते । जायाद्यप्राप्तिमतः कृत्स्नतावाप्तिप्रकारमाह ॥ तस्यो कृत्स्नतेति ॥ तस्य उ तद्यापि जायाद्यलाभिनोपि । कृत्स्नता उच्यते इति योज्यम्‌ । कथमित्यतस्तदाह ॥ मनएवेत्यादिना ॥ मनः स्वरूपभूतं मनः । अस्यात्मा स्वात्मेति चिन्तयेत्‌ । वाक्‌ स्वरूपभूतवागिन्द्रियम्‌ । जायेति चिन्तयेत्‌ । प्राणः स्वरूपभूतं बलम्‌ । पुत्र इति चिन्तयेत्‌ । चक्षुर्मानुषं वित्तमिति चिन्तयेत्‌ । कुतः । यस्माच्चक्षुषा हि तत्‌ मानुषं वित्तं हिरण्यादिकम्‌ । विन्दते प्राप्नोति । श्रोत्रं दैवं वित्तमिति चिन्तयेत्‌ । कुतः । हि यस्मात्‌ । श्रोत्रेण तदविद्यारूपं ृणोति । अस्य एवं चिन्तयतः । आत्मैव एवं भूतचिन्तनमेव । कर्मेति चिन्तयेत्‌ । कुतः । आत्मना चिन्तनेनैव कमर् करोति । कुतो मन आदीनामात्मत्वादिनानुचिन्तनं कायर्मिति चेत्‌ प्रसिद्धयज्ञास्याप्यात्मादिपञ्चकसाध्यत्वादिति भावेनाह ॥ स इति ॥ स एष प्रसिद्धो यज्ञः । पाङ्‌तः आत्मपि्रयापुत्रद्विविधवित्तरूपपञ्चकसाध्यः । न केवलं यज्ञ एव पाङ्‌तः किन्तु यज्ञांगं पशुः ऋत्विगादिपुरुषश्ऱ्चेति प्रसंगादाह ॥ पाङ्‌तः इति ॥ पशुपुरुषयोः पाङ्‌तत्वं मातापितृभ्यामन्नेन तयोः कर्मणा स्वकर्मणा च साध्यत्वरूपं ध्येयम्‌ । न केवलं यज्ञपशुपुरुषा एव पांतः किं तर्हि यदिदं किञ्च प्राणिजातं सर्वं पांत मात्रादिपञ्चकसाध्यम्‌ । इति भावयेदिति सर्वत्र

?R

योज्यम्‌ । पश्ऱ्वादेः पांतत्वज्ञानिः फलमाह ॥ तदिदमिति ॥ योधिकारी ब्रह्मपदयोग्यः । एवं मन आदीनां स्वात्मत्वादिकम्‌ । वेद चिन्तयति । स यदिदं जगत्तत्सर्वमापनोति । सर्वस्यास्य पतिर्भवतीत्यर्थः । ब्रह्मपदायोग्यश्ऱ्चेद्देवपदमाप्नोति । तस्याप्ययोग्यास्स्वयोग्यफलमाप्नुयुरित्यथर्ः ॥ भाष्ये आत्मैवेदमग्र आसीदित्यादि खण्डं एको नारायणः पूर्वमासीदित्यादि प्रमाणानुसारेण परमेश्ऱ्वरपरतया व्याख्याय आत्मा तु जगतां ब्रह्मा तस्यात्मा भगवान्‌ हरिरित्यादि प्रमाणानुरोधेन चतुर्मुखपरतयापि व्याचख्यौ । तथाहि । इदं अस्य चगतः । आत्मा स्वामीचतुर्मुखः । अग्रे प्रथमम्‌ । एक एवासीत्‌ वासुदेवाज्जातोभूत्‌ । स एकाकी चतुर्मुखः । अकामयतेत्यादेस्स यावदिति पर्यन्तस्य प्रगिवार्थो ध्येयः । स एवं कामयमानोपि ब्रह्मा एतेषां जायादीनां मध्ये । एकैकं यावन्नप्नोति यदा न प्राप । तावत्तदा । अकृत्स्न एव अपूर्ण एवेत्यात्मानं मन्यते अमन्यत । तस्य । उ । अकृत्स्नत्वमात्मनो मन्वानस्य । कृत्स्नता उपूर्णतैव यथा स्यात्तथोच्यत इत्यर्थः । मानसयज्ञेन भगवन्तमाराध्य जायादिकं लब्धवानिति भावेन मानसयज्ञप्रकारमाह ॥ मन एवेति ॥ अस्यात्मा स्वरूपभूतं मन एवासीदित्यर्थः । उपलक्षणमेतत्‌ । वागाद्यात्मान्तपञ्चकं मनश्ऱ्चेति षट्‌कमेवासीत्‌ । न बाह्मजायादिकमित्येवकारार्थः । वाक्‌ वागिन्द्रियं । जाया इत्यकल्पयादिति सर्वत्र योजना । प्राणो बलम्‌ । प्रजापुत्र इति । चक्षुर्मानुषं वित्तमिति । तत्र हेतुः चक्षुषाहीति । श्रोत्रं देवं वित्तमिति । तत्र हेतुः श्रोत्रेणेति । जात्मैव देह एव । इत्थं चिन्तनम्‌ वा । कर्मेत्यकल्पयत्‌ । तत्र हेतुः आत्मनेति । देहेन वा एवं रूपचिन्तनेन वेत्यर्थः । एवं मानसयज्ञेन भगवदारांधने कृते सति तत्प्रसादेनैव वागादिभ्यो जायादिकमासीदित्यर्थतया वाग्जायेत्यादि वाक्यमेव योज्यम्‌ । प्राणात्प्रजापुत्रोवायुः चक्षुषो मानुषवित्तपदोकतहिरण्मयलोकाः । श्रोत्रम्‌ । तृतीयार्थेत्र प्रथमा । श्रोत्रेण दैववित्तशब्दिताशेषविद्याः भगवत्प्रोक्ताः जगृहे इत्यर्थः । आत्मैव आत्मना देहेन चिन्तनेन वा कर्मजातमिति कुतवानशेषकर्माणीति यावत्‌ । न केवलं वागादीनां विष्णुपूजोपकरणत्वेन चिन्तनामात्रादेव जायादिप्राप्तिरन्ते मुक्तिरिति तदिदमित्यादिना वक्ष्यमाणं फलम्‌ । किन्तु यज्ञादेः पांतत्वज्ञानादपीति भावेनाह ॥ स एष इति ॥ स प्रसिद्ध एष यज्ञः पांतः सवनत्रयतत्पूवार्लेत्तरकर्मभेदेन पञ्चदेवताभिः नारायणशद्यनिरुद्धन्तैः पञ्चभिरुपेतः । यज्ञांगं पशुः मध्यशिरः पार्श्ऱ्वद्वयपुच्छरूपपञ्चकेन तद्देवताभूतनारायणादिरूपपञ्चके नोपेतः । यज्ञांगऋत्विगादिपुरुषः पांतः दिक्‌चतुष्यमध्यरूपपञ्चकेन तद्देवताभूतनारायणशदिरूपपञ्चकेन चोपेतः । यदिदं किञ्च प्राणिजातं इदं सर्वं पांत दिक्‌चतुष्ययमध्यरूपपञ्चकेन तद्देवताभूतनारायणादिपञ्चकेन चोपेतम्‌ । इत्यचिन्तयद्ब्रह्मेति योज्यम्‌ । तत्तस्मादद्यापि यः कश्ऱ्चिदेवमुक्तप्रकारेण वागादेर्विष्णुपूजोपकरणत्वं यज्ञादेरुक्तरूपपांतत्वं च । वेद उपास्ते । स इदं सर्वं जायादिपञ्चकमाप्नोति । अन्ततो मुक्तिं चेत्यर्थः ॥

3

5

11

॥ अव्याकृतब्राह्मणम्‌ ॥ विष्णुब्रह्माणावपि गृहिणावतिष्ठतामतो गृही उत्तम इत्युक्तमात्मैवेत्यादिना । तस्य गृहिणो भगवत्सृष्यं यत्साधारणमन्नं तन्न स्वकीयमेवेति मन्तव्यमिति भावेन प्रकृतहरेस्सप्तान्नस्रष्यृत्वमहिमानमाह ॥ यत्सप्तान्नानीति ॥ पिता सर्वजगज्जनको विष्णुः । सप्तान्नानि सप्तविधान्यन्नानि । तृप्तिहेतुतया अन्ननामानि । प्राणिभिरद्यमानमेकम्‌ । वैश्ऱ्वदेवबलिहरणरूपे द्वे । प्राणिनां मनोवाक्‌पञ्चवायुरूपाणि त्रीणि पयश्ऱ्चैकं इत्येवं सप्तान्नानि । मेधया स्वेच्छया । तपसा प्राणिसम्बन्धिकर्मजातेन । अजनयत्‌ असृजत । सप्तानां मध्ये एकमन्नमस्य जगतः साधारणम्‌ । द्वे वैश्ऱ्वदेवबलिहरणे । देवानभाजयत्‌ । सप्तान्नमध्ये अन्नद्वयभागिनो देवानकरोदित्यर्थः त्रीणि मनोवाक्‌ प्राणरूपाणि । आत्मने स्वस्मै । पशुभ्यः । पश्वादिभ्यः । एकं पयोरूपम्‌ । तस्मिन्पयसि । सर्वं जगत्‌ । प्रतिष्ठितं तदुपजीव्यवर्तत इत्यर्थः । सर्वमित्युक्तं व्यनक्ति ॥ यच्चेति ॥ जंगमस्थावररूपमित्यर्थः । सृष्यान्नानां क्षये कथं तदुपजीविनां जीवनमित्यत आह ॥ कस्मादिति ॥ सुखरूपाद्धरेस्तानि सर्वदाद्यमानान्यपि न क्षीयन्ते । यो वै अधिकारी । अक्षिन्ति सृष्यान्नाक्षयहेतुं हरिम्‌ । वेद स वेदी । अन्नं उपलक्षणम्‌ । स्वयोग्यसर्वभोगान्‌ । प्रतीकेन सवमुखेन । अप्रयत्नेनेति यावत्‌ । अत्ति अनुभवति । स ज्ञानी । देवान्‌ देवत्वं गच्छति । स ऊर्जं देवभोज्यमन्नम्‌ । उपजीवति । इति श्ऱ्लोकाः ध्याख्येयार्थकवाक्यानीत्यर्थः ॥

3

6

1

॥ तानि वाक्यानि प्रतीकेनोपादाय व्याचष्ये उपनिषत्‌ ॥ यत्सप्तान्नानीत्यादिना ॥ मेधयाहीति हि शब्दस्तस्य हरेः पितुः सप्तान्नस्रष्यृत्वप्रसिद्धिद्योतकः (

1)

द्वितीयवाक्यमुपादाय व्याचष्ये ॥ एकमस्येति ॥ इदमेवास्येति ॥ मनुष्यवर्गस्येत्यर्थः । सर्वसाधारणमन्नमात्मीयत्वेन मन्वानस्य दोषमाह ॥ स इति ॥ उपास्तइत्यप शब्दस्यावृत्तिः । य एतदन्नमप स्वसमीप एव वर्तमानम्‌ । स्वात्मीयमेवेति यावत्‌ । उपास्ते मन्येत । स पाप्मनो न व्यावर्तते अक्षयपापवान्स्यादित्यर्थः । कुतः । हि यस्मादेतदद्यमानमन्नं मिश्रं देवब्राह्मणसाधारणमत इत्यर्थः (

2)

तृतीयं वाक्यमुपादाय व्याचष्ये ॥ द्वे देवानभाजयदितीति ॥ हुतं वैश्ऱ्वदेवम्‌ । प्रहुतं बलिहरणम्‌ । हुतप्रहुते कुतो देवानामन्ने इत्यत आह ॥ तस्मादिति ॥ हुतप्रहुतयोर्देवान्नत्वहेतोरद्यतना अपि देवेभ्यो जुह्वति प्रजुह्वति च । न केवलं हुतप्रहुते एव

?R

देवानामन्ने किं तर्हीत्यतोऽन्यदपीत्याह ॥ अथो इति ॥ पक्षान्तरे अयमथो शब्दः । दर्शपूर्णमासावपि देवानामन्ने इत्याहुरार्या इत्यर्थः । तस्माद्धुतप्रहुतयोर्देवान्नत्वाद्यज्ञमनुतिष्ठन्‌ पुमान्‌ नेष्यि याजुकस्स्यात्‌ फलेच्छया यज्ञकारी न भवेत्‌ । परस्वेनात्मफलार्थं विनियोगे परस्वापहारदोषापत्तेरिति भावः (

3)

त्रीण्यात्मने कुरुत इतिवाक्यव्याख्यानस्य बहुत्वात्तदग्रे व्याकरिष्यन्तो श्रुतिः चतुर्थवाक्यं तावदुपादाय व्यनक्ति ॥ पशुभ्य इति ॥ तत्पय इति पशुभ्यो दत्तमन्नं पयः पीयमानं क्षीरप्रभृतिद्रवद्‌द्रव्यमित्यर्थः । तत्कथमित्यत उपपादयति ॥ पयो हीति ॥ अग्रे आदा । शैशव इति यावत्‌ । मनुष्याश्ऱ्चेत्युक्त्या श्ऱ्लोके पशुपदं पशुप्रभृतिपरमिति सूचितम्‌ । मनुष्या उपजीन्तीत्येतावत्‌ व्यनक्ति ॥ तस्मादिति ॥ उपजीवित्वात्‌ । प्रतिलेहयन्ति । आस्वादयन्ति । लिह आस्वादने । स्तनं वानुधापयन्ति । पाययन्ति । धेट्‌ पाने । वै प्रसिद्धमेतदिति । पशव उपजीवन्तीत्येतद्वयनक्ति ॥ अथेति ॥ पशूनामग्रे पय उपजीवित्वहेतोर्जतं वत्सम्‌ । अतृणादः तृणभक्षको नेत्याहुः (

4)

पञ्चमम्‌ वाक्यमुपादाय तच्छब्दार्थं व्यनक्ति ॥ तस्मिन्निति ॥ पयसीति ॥ पीयमानतया पयश्शब्दिते क्षीरप्रभृतिद्रवद्‌द्रव्य इत्यर्थः । न केवलं जीवनहेतुत्वात्पयसि प्राणिजातं प्रतिष्ठितम्‌ किन्तु पयसः पारलौकिकफलहेतुत्वादपीत्याह ॥ तद्यदिदमित्यादिना ॥

B-K-3

?R

ंवत्सरं पयसा जुह्वत्‌ । होमं कुर्वन्‌ पुमान्‌ ज्ञानी चेदपपुनर्मृत्युं संसारं जयति मुक्तो भवति अज्ञश्ऱ्चेदपपुनर्मृत्यं भगवदज्ञानं जयति निहन्ति । ज्ञानी भवतीति । ज्ञानिनो यदिदमाहुस्तत्तथा न विद्यात्‌ न जानीयात्‌ । कुतः । एवं विद्वान्‌ सप्तान्नसृष्यितत्त्वज्ञानी । यदहः यस्मिन्नहनि । पयसा जुहोति । तदहरेवापपुनर्मृत्युं जयति मुक्तो भवति । एकाहहोमेनैव मुक्तो भवतीति यावत्‌ । यतोत इति योज्यम्‌ । कुत एवं तस्य महिमहेत्यत आह ॥ सर्वं हीति ॥ यस्मात्सप्तान्नस्रष्यृत्वज्ञानी पयोहोमेनैव देवेभ्यः सर्वमन्नाद्यं प्रयच्छति । गोपयसः प्रशस्ततया सर्वान्नस्थानीयत्वादिति भावः (

5)

षष्ठं वाक्यमुपादाय व्याचष्ये ॥ कस्मादित्यादिना ॥ पुरुषो वै विष्णुर्वै । अक्षितिः अन्नाक्षयहेतुः । ततः किमित्यत आह ॥ स हीति ॥ इदं सप्तविधमन्नम्‌ । एतेन कस्मादित्येतस्य सुखरूपात्पुरुषादित्यर्थ उक्तो भवति (

6)

सपक्तमं वाक्यमुपादाय व्यनक्ति ॥ यौ वैतामिति ॥ अक्षितिः अन्नाक्षयहेतुः । तद

4

व्यनक्ति ॥ स हीति ॥ धिया स्वेच्छया प्राणिकमर्बभिश्ऱ्चेति । पुनः पुनस्सृष्यौ हेतुविशेषोक्त्या सहीदमित्यादि पूर्ववाक्येन न पुनरुक्तिः । धिया कर्मभिरित्युक्त्या श्ऱ्लोकादिवाक्यस्थमेधातपश्शब्दौ विवृतौ ध्येयौ । यत्‌ यदि । एतद्ध पुनः पुनर्जननमन्नं न कुर्यात्‌ । तत्‌ तर्हि क्षीयेत ह । निश्रिचतमेतदिति (

7)

अष्यमं वाक्यमुपादाय व्यनक्ति ॥ सोन्नमत्तीति ॥ अत्त्वेतदिति ॥ एतदन्नमत्तीत्यर्थः । स देवानपीति वाक्यद्वयं फलार्पकमित्याह ॥ स देवानिति ॥ प्रशंसा प्रशस्तफलबोधकमित्यर्थः । अर्थवाद इति वार्थः ॥

3

6

2

॥ त्रीण्यात्मने इत्यादिवाक्यमुपादाय व्याचष्ये ॥ त्रीणीत्यादिना ॥ आत्मने स्वतुष्ययर्थम्‌ । चक्षुरादिज्ञानकरणेषु सत्सु कुतो मन एवात्मतुष्ययर्थमकरोदित्यतो मनसः प्राधान्यं व्यतिरेकेणाह ॥ अन्यत्रेति ॥ अन्यत्र मना इति बहुव्रीहिः । तत्किं वस्तु दृष्यवानिति केनचित्पृष्ये अन्यो वदति । अन्यविषयकमनस्कोहमासं तथेदं वचः श्रुतवान्किमिति पृष्यस्तथैवाह । अन्यत्रेत्यादि । एवमन्येन्द्रियेष्वपि मनोव्यासंगेन तत्तदिन्द्रियज्ञानानुदयो ध्येयः । मनसि व्याकुले चक्षुरासिदभिर्ज्ञानं नोत्पद्यत इत्येतदुपपादयति ॥ मनसा हीति ॥ नापश्यमिति नादर्शं हि यस्मात्‌ मनस्यव्याकुल एव चक्षुषा पश्यति श्रोत्रेण ृणोतीत्यर्थः । न केवलं मनोमात्रमेव स्वतुष्यिहेतुत्वेन स्वस्यान्नं किन्तु स्ववृत्तिकं चेत्याह ॥ काम इति । एक विषयकेच्छा कामः । अनेकगोचरेच्छा विचिकित्सा । इत्येतत्सर्वं मन एव तदुपादानकमेवेत्यर्थः । कामादीनामीशतुष्यिकरत्वेन तदन्नत्वप्रकारश्ऱ्च कामस्य तद्भक्तिकामत्वेन संकल्पस्य तत्पूजाकृतिविषयत्वेन विचिकित्सायास्तद्दनविषयतत्वेन । श्रद्धायास्तद्गुणान्नेति विषयत्वेन अश्रद्धाया अन्यसाम्यादिविषयत्वेन । धृतेरीशादन्यस्योत्कर्थेनिदनादौ । अधृतेरीशनिन्दनादौ । हियस्तत्वमतविसर्जनादिविषयत्वेन । यद्वा भगवन्मतपरित्यागविषयत्वेन । अधृतेर्हरिभक्तित्यागविषयत्वेन । हियाः धियस्तद्विवेकविषयकत्वेन । भियस्तदज्ञानप्राप्तिविषयत्वेनेत्येवं प्रकारेण ध्येयः । मनसश्ऱ्चक्षुरादिभ्यः प्राधान्ये व्यतिरेकः प्रागुक्तः । अधुनान्वयं चाह ॥ तस्मादिति ॥ मनसः प्रधानत्वादेव पृष्यत उपस्पृष्योपि मनसा विजानाति । वाचो भगवदन्नत्वं व्यनक्ति ॥ यः कश्ऱ्चिदिति ॥ यः कश्ऱ्चिच्छब्दो ध्वनि वर्णात्मको वागेव वागिन्द्रियमेव । तेनोच्चार्यमाणत्वहेतुना यः कश्ऱ्चिच्छब्दो वागेवेत्यभेदोक्तिः सर्वशब्दोच्चारणहेतोर्वागिन्द्रियस्य कथं विष्णवन्नत्वमित्यत आह ॥ सैषा हीति ॥ हियस्मात्सैषा सर्वशब्दोच्चारणहेतुभूता वाक्‌ । अन्तं सर्वान्तस्थं विष्णुमायत्ता । तद्विषयिणी । कुतः । सर्वेषां शब्दानां विष्णुनामत्वादतो विष्ण्वन्नत्वमिति भावः । केषां वाक्‌ विष्णुमायत्तेत्यतो वेदद्रष्यृणामित्याह ॥ एषश हि न इति ॥ नोस्माकं वेदद्रष्यृणशमेषा हि वाक्‌ । विष्णुमायत्तेति प्रसिद्धमित्यर्थः । अवान्तरभेदभिन्नस्यापि प्राणस्य भगवदन्नत्वमिति

?R

भावेनाह ॥ प्राण इति प्राण इति ॥ नोस्माकं वेदद्रष्यृऋषीणाम्‌ । इत्येतत्सर्वं प्राण एव । प्राणप्रभेदविरोधिनां निरासे त्वथोदानं योगधारणे ॥ मनोवागादीन्द्रियाणशं समानं नियमे(न)त्र तु ॥ इत्युक्तदिशा ध्येयः । कुतः प्राणमन्नमकुरुत हरिरित्यतो जीवस्य स्वतुष्यिद्वारा श्रेयोहेतुत्वेन प्राधान्यादिति भावेन प्रसंगाद्वाङ्मनसोः प्राणस्य च प्राधान्यमाह ॥ एतन्मयोवाऽयमात्मेति ॥ अयमात्मा स जीवः । एतन्मयः एतत्प्रधानः । एतच्छब्दं व्यनक्ति ॥ वाङ्मय इत्यादिना ॥ प्राधान्ये मयट्‌ वाक्प्राधानः मनःप्रधानः प्राणप्रधान इत्यर्थः । वाङ्मनःप्राणाभिमानिनामुत्तमदेवानां सांनिध्यनिमित्तकोत्कर्षवानित्यर्थः । उत्तमदेवमानिकत्वं वागादेः कुत इत्यतोपि अयमात्मा सरस्वतीब्रह्मवायुरूप एतन्मबयः तद्विवरणं वाङ्मय इत्यादि । क्रमाद्वाङ्मनः प्राणानामभिमानिनस्त्रय इत्यर्थः । एतेनोत्तमदेवैरभिमन्यमानत्वाच्च वागादिकमुत्तममित्युक्तं भवति । सरस्वत्यादयो वागाद्यभिमानिनः कुतोभूवन्नित्यतोपि एतदिति । अयमात्मा सरस्वत्यादिरूपः । एतन्मयः प्रकृतपरमात्ममयः । तदीयवागादिजन्य इत्यर्थः । भगवतो वागादिरस्ति चेत्तज्जन्यत्वं सरस्वत्यादेः स्यात्‌ स एव कुत इत्यतोप्ययमात्मा हरिः एतन्मयः । तद्विवरणं वाङ्मय इत्यादि । वागादीन्द्रियात्मेत्यर्थः ॥

3

6

3

॥ उत्तमदेवताभिमन्यमानकत्वान्मन आदिर्हरेरन्नमित्युक्तम्‌ । तदुत्तमत्वाय तदभिमानिनां महिमानमाह ॥ त्रय इत्यादिना ॥ सर्व एव समा इत्यन्तेन । एत एव प्रकृता एव वाङ्मनः प्राणाभिमानिन एव । त्रयो लोकाः त्रिलोकाभिमानिनः । तदेव व्यनक्ति ॥ वागेवेति ॥ वाक्‌ वाङ्मानिनी सरस्वती अयं लोकः भूलोकमानिनी । मनो मनोमानी ब्रह्मा अन्तरिक्षलोकाभिमानी । प्राणः प्राणमानी वायुः । असौ लोकः स्वर्गलोकाभिमानीत्यर्थः ॥

3

6

4

॥ एवं त्रयो वेदा एत एवेत्यारभ्य प्राणए(नन्तद्भूत्वा)वं भूत्वा वतीत्यन्तग्रन्थस्यार्थो ध्येयः ॥

3

6

5-6-7

॥ यत्किञ्चिद्विज्ञातं विज्ञानविषयः तत्‌ वाचो वाङ्मानिन्या वाण्याः रूपं प्रतिमा हि । यस्माद्वाग्विज्ञाता विज्ञातमानिनी । वाङ्महिमज्ञानिनः फलमाह ॥ वागिति ॥ वाक्‌ सरस्वती एनं स्वमहिमज्ञम्‌ । तद्भूत्वा विज्ञातमानिनी भूत्वा । अवति रक्षतीत्येवमग्रेपि ज्ञेयम्‌ ॥

3

6

8

॥ विजिज्ञास्यं जिज्ञासाविषयः ॥

3

6

9

॥ अविज्ञातं विज्ञाताविषयः ॥

3

6

10

॥ ब्रह्मणीब्रह्मवायूनां भूम्यादिमानित्वरूपमहिमान्तरमाह ॥ तस्या इति ॥ तस्यै तस्याः । वाचो वाण्याः । पृथ्वी शरीरम्‌ । ज्योतीरूपं प्रतिमा । किं ज्योतिरित्यत आह ॥ अयमग्निरिति ॥ पृथिव्यग्नी द्वै वाण्यभिमन्यमानावित्यर्थः । पृथिवीज्योतिषोः वाक्समपरिमाणाभावे कथं तच्छरीरत्वादिकमित्यत आह ॥ तद्यावतीति ॥ तत्तस्मात्पृथिव्यग्न्योः वागभिमानिकत्वाद्यावत्येव वाक्‌ यावद्वयाप्ता वाणी तावती पृथिवी तावानयमग्निः ॥

3

6

11

॥ अथ वाचो भिमन्यमानोक्त्यनन्तरं मनोभिमानिनो ब्रह्मणोभिमन्यमानमुच्यत इत्यथ शब्दार्थः । एतस्य मनसो मनोभिमानिनो ब्रह्मणः द्यौः शरीरम्‌

ज्योतीरूपं प्रतिमा । किं ज्योतिरित्यत उक्तम्‌ ॥ असावादित्य इति ॥ आदित्यो द्यौश्ऱ्च द्वौ मनोभिमानिब्रहमाभिमबानिकावित्यर्थः । तद्यावदित्यादेः प्राग्वद्वयाख्या तौ वाङ्मनसमानिनौ ब्रह्मणीब्रह्माणौ मिथुनौ समेतां प्राप्तवन्तौ । ततो मिथुनीभावात्प्राणो वायुःरूपान्तरेणाजायत । तस्य प्राणस्य महिमानमाह ॥ स इन्द्र इत्यादिना ॥ स प्राणः इन्द्रः परमैश्ऱ्वर्यवान्‌ । स एष प्राणोऽसपत्नः शत्रुहीनः । कल्यादिशत्रुसत्वात्कथमसपत्न इत्यत आह ॥ द्वितीय इति ॥ द्वितीयशब्दितः तमबलो हि सपत्नो भवति । कल्यादयस्त्वसमबला इति भावः । एतद्वेदिनः फलमाह ॥ नास्येति ॥ योधिकारी एवं प्राणोसपत्न इति वेद अस्य सपत्नः शत्रुर्नभवतीत्यर्थः ॥

3

6

12

॥ अथैतस्य प्राणस्येत्यादेः प्रागिवार्थः । त एते मनोवाक्प्राणमानिनः प्रागुक्ता ब्रह्मादयस्सर्वएव गुणतस्तरतमभावा अपि व्याप्त्या समाः । सर्वे रुद्राद्यपेक्षया अनन्ताः । बहुगुणाश्रयाः । स यः कश्ऱ्चिदेतानन्तवतः जीववदल्पगुणानुपास्ते सोन्तवन्तं नाशवन्तं लोकं जयति प्राप्नोति ॥ अथेत्यर्थान्तरे । योधिकारी एतानन्तनन्यजीवेभ्यो बहुगुणानुपास्ते सोनन्तं नाशहीनं विष्णुलोकं जयति प्रापनोतीत्यर्थः ॥

3

6

13

॥ चन्द्राभिमानितया चन्द्रे स्थितस्य वायोर्महिमानमाह ॥ स एष इति ॥ स एषः प्रजापतिवर्ायुः । सम्यक्‌ हरेः वत्सस्सन्‌ रमत इति व्युत्पत्त्या संवत्सरनामा षोषशकलः षोडशकलोपेतचन्द्रे विशेषेण सन्निहितस्तस्य चन्द्रस्थवायोः । पञ्चदशकलाः रात्रय एव रात्रिनामका एव । अस्य चन्द्रस्थस्य वायोः । षोडशी कला ध्रुवैव । पञ्चदशकलानां कथं रात्रिनामतेत्यत आह ॥ स इति ॥ स चन्द्रस्थो वायुः । रात्रिभिः शुक्लपक्षपञ्चदशरात्रिभिरेव पञ्चदशकलाभिरापूर्यतेच । कृष्णपक्षरात्रिभिः पञ्चदशभिरपक्षीयते च । शुक्लकृष्णपक्षयोरेकैकस्यां रात्रौ क्रमेण कलानां पूरणादपक्षयाच्च रात्रि नामिकाः कला इत्यर्थः । स्वयमकलोपि वायुः स्वाधिष्ठनचन्द्रकलाभिरित्थमभिधीयते । स पञ्चदशकलारहितः अभावास्यां रात्रिं अमावास्यायां रात्रौ । एतया ध्रुवया षोडश्या कलया सर्वमिदं प्राणभृत्‌ । प्राणिजातम्‌ । अनुप्रविश्य ततः प्रातः प्रतिपदि जायते द्वितीयकलायुक्तो भवतीत्यर्थः । तस्मादमावास्यायां रात्रौ चन्द्रस्थवायोः प्राणभृत्सु संस्थितत्वादेतां रात्रिं एतस्यां रात्रौ । प्राणभृतो जीवतः ।

?R

प्राणं जीवनम्‌ । न विच्छिन्द्यात्‌ । महापापहेतुः प्राणिवधो न कार्यः । कैमुत्येन एतमेवार्थमाह ॥ अपीति ॥ अल्पदोषहेतुवधस्यापि कृकलासस्य प्राणं न विच्छिन्द्यात्‌ । किमर्थमित्यत आह ॥ एतस्या इति ॥ एतस्यास्सर्वसंनिहिताया वायुदेवता अपचित्यै पूजार्थमेवेत्यर्थः ॥

3

6

14

॥ सोमस्थितस्य प्राणस्य सप्तान्नज्ञानिन्यपि स्थितिमाह ॥ यो वा इति ॥ षोषशकलः षोडशकलचन्द्रान्तस्थः । अयमेव सः । य एवं वित्‌ सप्तान्नसृष्यिज्ञानी । पुरुषः । अयमिति तत्रस्थ इत्यर्थः । ज्ञानिस्थस्यापि वायोः षोडशकलात्वमाह ॥ तस्येति ॥ ज्ञानिस्थितस्य वायोः । वित्तं हिरण्यादिकमेव । पञ्चदशकलाः । अस्य सप्तान्नज्ञानिस्थस्य वायोरात्मा देहः । स्वाधिष्ठितज्ञानिदेहः । षोडशी कला । वित्तस्य पञ्चदशकलात्वं व्यनक्ति ॥ स इति ॥ सः ज्ञानिस्थो वायुः वित्तेनैवागतेनापूर्यते च । अपगतेन क्षीयते । वित्तस्यागमापायित्वात्पञ्चदशलकलात्वं देहस्य ध्रुवकलात्वं चोपपादयति ॥ तदेतदिति ॥ यदयमात्मा योयमात्मा । तदेतन्नाभ्यां रथचक्रस्थानीयम्‌ । वित्तं प्रधिः अरस्थनीयं । एवं सति फलितमाह ॥ तस्मादिति ॥ तस्मादात्मवित्तयोनर्ामिप्राधिस्थानात्वात्‌ यद्यपि सर्वज्यानिं सर्वस्वं(जी)क्षीयते परैरपह्रियते तथाप्यात्मनानाभिस्थानीयेन देहेन । चेद्यदि जीवति । तदा तर्ह्ययं प्रधिना अरस्थानीयेन वित्तेन अगात्‌ । वित्तहीनो जायत इति यावत्‌ । इत्येवाहुः ॥

3

6

15

॥ सप्तान्नवेदिनः फलं वक्तुं तदुपयुक्तमाह ॥ अथेत्यादिना ॥ पुत्रेणैव औरसपुत्रेणैव शिष्येणैव वा । पुनः पुनः कर्मकरणलक्षणो मनुष्यलोकः । जय्यो जेतव्यः प्राप्तव्यः । नान्येन कर्मणेति । यद्यपि पुनः पुनः कर्मकरणरूपो मनुष्यलोकः जय्यः स्वात्मीयकर्मणा जन्मान्तरं प्राप्य सम्पादयितुं शक्यः । तथापि विनैव जन्मान्तरमुक्तरूपमनुष्यलोकजयः पुत्रेणैव पुत्रादिकृतकर्मफलभोक्ता पितेति भावः । पितृलोकः स्वर्गादिः । ज्योतिष्योमादिकर्मणा प्राप्यः । देवलोको विद्यया तत्त्वज्ञानेन । ज्ञानेनैव परं पदमित्युक्तेः । को विशेषो देवलोकस्य येन विद्यासाध्यत्वं तस्येत्यत आह ॥ देवलोक इति ॥ तस्माच्छ्रेष्ठलोकसाधनत्वात्‌ । प्राज्ञा इति शेषः ॥

3

6

16

॥ पुत्रेणोक्तो मनुष्यलोकजयो न साधारणेन । किन्तु सुशिक्षिते नेत्याह ॥ अथात इति ॥ पुत्रादिसाधनानां साध्यविशेषोक्त्यनन्तरम्‌ । अतः फलवत्त्वात्सम्प्रत्तिः सम्प्रदानमुपदेशः । पित्रापुत्रं प्रति क्रियमाणोपदेशप्रकार उच्यते इत्यर्थः । यदा पिता निमित्तैर्मरिष्यन्तमात्मानं मन्यते । अथ तदा त्वं ब्रह्म त्वं यज्ञस्त्वं लोक इति पुत्रमाह ॥ स एवमुक्तः पुत्रः अहं ब्रह्मा अहं यज्ञोहं लोक इति प्रत्युत्तरमाहेत्यर्थः । अत्र ब्रह्मादिपदानां तिरोहितार्थत्वात्तद्ययाचष्ये ॥ यद्वा इति ॥ यत्किञ्च वै प्रसिद्धं अनूक्तं अनुवचनं तस्य शब्दस्य ब्रह्मेत्येकता ब्रह्मशब्देन ग्रहणमित्यर्थः । ये के च वै प्रसिद्धा द्रव्ययज्ञास्तेषां यज्ञ इत्येकता यज्ञशब्देन ग्रहणमित्यर्थः । ये के च वै प्रसिद्धा लोकाः स्वर्गाद्यास्तेषां लोक इत्येकता लोकशब्देन ग्रहणम्‌ । तथाच त्वं ब्रह्मेत्यादेर्वेदाध्ययनकर्ता भव । तदनन्तरं वेदीक्तरीत्या यज्ञकतर्ा संल्लोको लोकसम्पादको भवेति पित्रोक्तः पुत्रस्तथ

?R

ाध्ययनादिकर्ता भवानीत्युत्तरमुक्तवानितिद । उक्तादन्यदपि कस्मात्पित्रा नोपदिष्यमित्यतस्त्रयातिरिक्तस्याभावामापादयेत्येतावदेवेत्यर्थः । पिता पुत्रं कुत एवानुशास्तीत्याशंकां सप्तान्नविद्याज्ञानिनो देवस्य फलोक्त्या निराह ॥ एतस्मादिति ॥ सन्नयं समीचीनन्यायवन्तम्‌ । सन्मार्गिणमिति यावत्‌ । पुत्रमिति शेषः । इतः प्राप्तः । पुत्रेंशेन स्थित्वेति यावत्‌ । एतस्मादनुशिष्यात्पुत्रात्‌ । सर्वं तत्कृतवेदाध्ययनादिफलम्‌ । अभुनजत्‌ आमुक्तेः भुङ्‌क्ते पितेति यत्तस्मादनुशिष्यं पुत्रं लोक्यं लोकसाधनं आहुर्ज्ञानिनः । तस्माल्लोक्यत्वादेवैनं पुत्रं अनुशासति अनुशास्ति पितेत्यर्थः । एतस्मात्सर्वमित्यत्र मृतः पुत्रे स्थित्वा भुक्तें इत्युक्तमयुक्तम्‌ । मृतस्य तदयोगात्‌ इत्यत आह ॥ स इति ॥ एवं वित्‌ सप्तान्नविद्योपासकस्स देवो मनुष्यत्वमाप्तो यदाऽस्माल्लोकात्प्रैति मृतो भवति । अथ तदा । एभिरेव प्राणैस्स्ववाङ्मनःप्राणाभिमानिभिस्सरस्वत्यादिभिस्सह स्वांठिरूपसामर्थ्याच्च पुत्रमाविशति । सप्तान्नोपासकस्य फलान्तरमाह ॥ स इति ॥ अनेन पित्रा । सप्तान्नविदा यदि कदाचित्‌ अक्ष्णया छिद्रेण पापेन । किञ्चित्‌ कर्म कृतं भवति । तदा स पुत्रस्तस्माच्छिद्रकर्मणा एनं स्वपितरम्‌ । मुञ्चन्ति मोचयति पापकर्मफलानुभवं परिहरतीत्यर्थः । तस्माच्छिद्रकर्मणस्त्राणान्निमित्तात्पुत्रो नाम । पुदिति छिद्रपापं ततस्त्रायत इति पुत्र इति । एवं येन पुत्रतः फलमाप्तं तेनैव मनुष्यलोको जित इत्याह ॥ स इति ॥ पुत्रेणैव पुत्रे स्थित्वैवास्मिन्‌ भूलोक प्रतितिष्ठिति न साक्षात्‌ । न केवलं पुत्रे स्थितिरूपः मनुष्यलोकजयादिस्सप्तान्नविद्नयोपासकस्य फलं अपि तर्हि मोक्षश्ऱ्चेत्याह ॥ अथैनमिति ॥ अथ मुक्त्यनन्तरम्‌ । एनं सप्तान्नविदं मुक्तम्‌ । एते प्राणाः वाङ्मनःप्राणाभिमानिनः सरस्वत्यादयो देवाः । अमृताः मुक्तास्सन्तः स्वरूपभूतवागादिनियामकत्वेन आविशन्ति । अत्र मुक्ते जीवे प्राणप्रवेशोक्तिर्वायोरुच्यमाना विरिञ्चस्यैव रूपान्तरेणेति ज्ञेयम्‌ ॥

3

6

17

॥ ननु वागादेः पृथिव्याद्यभिमानसत्त्वात्कथं मुक्तमाविशेयुरित्यतस्तदानीं तत्त्यागात्प्रवेशो युक्त इति

?R

भावेन वागादेः प्रवेशस्य स्थानफले अप्याह ॥ पृथिव्यै चैनमित्यादिना पर्वत्रयेण ॥ चतुर्थी पञ्चम्यर्थे । सा च ल्यब्लोपे पृथिवीमग्निं च परित्यज्येत्यर्थः । तदमिमानं हित्वेति यावत्‌ । दैवी सप्तान्नविन्मुक्ते विशेषावेशाद्दैवीत्युक्ता वाक्‌ सरस्वती एनं मुक्तं आविशति मुक्स्वरूपवाचमिति योज्यम्‌ । कादैवी वागित्यत आह ॥ सेति ॥ यया आविष्यया सरस्वत्या प्रेरितो मुक्तो यद्यद्वदति तत्तद्भवत्येव न मोघम्‌ । सा दैवी वागित्यर्थः॥

3

6

18

॥ दिवश्ऱ्चैनमिति अद्भयश्ऱ्चैनमिति ॥ च पर्वद्वयमेवमेव योज्यम्‌ । आनन्द्येवेत्येवकारव्यावर्त्योक्तिः अथो न शोचतीति न दुःखी भवतीत्यर्थः ॥

3

6

19

॥ यो यत्प्रेरितो मुक्तः सञ्चरंश्ऱ्चासञ्चरंश्ऱ्च न व्यथते सर्वसामर्थ्ययुक्तत्वात्‌ अथो तस्मादेव न रिष्यति न म्रियते । इति मनुष्याणां सञ्चारे व्यथादि असञ्चारे चाश्ऱ्वा नामतः सञ्चरन्नसञ्चरंश्ऱ्चेत्युक्तम्‌ । न केवलं सप्तान्नविद्याभिज्ञस्स्वपुत्रे तिष्ठति किन्तु सर्वभूतेषु चेत्याह ॥ स य इति ॥ एवं वित्‌ एवं सप्तान्नविद्याभिज्ञो देवः । सर्वेषां भूतानामात्मा व्यापको भवति । तत्र दृष्यान्तो ॥ यथेति ॥ यथैषा प्राणरूपा देवता

सवर्ेषां भूतानामात्मा एवमित्यर्थः । सप्तान्नविदो मुक्तस्य फलान्तरमाह ॥ स इति ॥ स वक्ष्यमाणो दृष्यान्तो यथा एतां देवतां प्राणाख्यां सर्वाणि भूतानि अवन्ति । तज्ज्ञानस्य गोप्यत्वेन अयोग्येषु नोपदिशन्ति । एवं ह एवमेव । एवं विदं सप्तान्नविद्याविदं मुक्तम्‌ । सर्वाणि भूतानि अवन्ति गोपायन्ति । सप्तान्नविद्याभिज्ञस्य सर्वभूतस्थितौ भूतशोकेनास्यापि शोकस्यादित्यत आह ॥ यदिति ॥ इमाः प्रजाः । यदु किञ्च यत्किञ्चित्‌ शोचन्ति । तत्‌ शोकशब्दितं दुःखम्‌ । आसां देवतानां नैव भवति । किन्तु अमा देहनियामकदैत्यैस्सहाऽऽसां प्रजानामेव भवति । न तु तत्रस्थसप्तान्नोपासकानां देवानाम्‌ । कुत एतत्प्रजाकृतं पुण्यमेवामुं सर्वप्रजास्थितं सप्तान्नविदं प्रति गच्छति न पापम्‌ । येन तद्धेतुकश्शोकस्स्यादिति भावः । एतदपि कुत इत्यत आह ॥ न ह वा इति ॥ यतो नियामकतया प्राणिदेहस्थान्‌ देवान्पापं न गच्छति । ह वै प्रसिद्धमेतत्‌ । सप्तान्नविदश्ऱ्च देवा एवेति भावः । तदाह सूत्रे । स्वामिनः फलश्रुतेरित्यात्रेय इति । तत्र प्रजाकृतपुण्यभाक्त्वपापालेपयोर्देवानामुक्तेः ॥

3

6

20

॥ सप्तान्नविद्याविदो वाङ्मनःप्राणान्‌ हरिविषयान्‌ कुर्यात्‌ । साधारणमन्नं च विष्ण्वर्पणबुद्धया भूतेभ्यो दद्यादिति व्रतमुक्तम्‌ । तस्यैव हरिप्राणविषयोच्छ्वासनिःश्ऱ्वासरूपं व्रतान्तरं प्राण्याच्चैवापान्याच्चेति वक्तुं हरिप्राणविषयं तत्कस्मात्कायर्मित्यतस्तयोर्महिमानमाह ॥ अथेति ॥ देवरूपाधिकार्युक्त्यनन्तरं अतः वक्ष्यमाणव्रतस्य फलत्त्ववात्‌ । प्राण्याच्चेत्यादिना वक्ष्यमाणव्रतस्य हरिप्राणविषयतया कार्यत्वमीमांसा क्रियते इत्यर्थः । प्रजापतिर्वासुदेवः । कर्माणि कर्मसाधनानि । अध्यात्मं वचनादिक्रियासाधनवागादीन्द्रियाभिमानिनोऽधिदैवं ज्वलनादिक्रियाकर्त्रग्न्यादिदेवान्‌ ससृजे । ससर्ज । तानि सृष्यान्यग्न्यादीनि अन्योन्येन अन्योन्यमस्पर्धन्त । अहमेव श्रेयानहमेव श्रेयानिति पस्पृधुः । प्राणस्योत्तमतां जानन्तोपि इन्द्रादिदेवाः प्राणोत्तमत्वनिर्णयायैव अध्यात्ममधिदैवं च विवादं कृतवन्त इत्यर्थः । एवं विवादिनो देवान्‌ प्रति यो देवः स्वव्यापारमश्रान्त एव सन्‌ जीवेष्वजस्रं करोति । स एव भवतां मध्ये श्रेष्ठ इति हरिरुवाच । ततस्ते स्वस्वव्यापारं कुर्वन्तः श्रान्ता बभूवुरिति वक्तुं तत्र तावदध्यात्मं तत्प्रकारमाह ॥ वदिष्याम्येवेति ॥ अहं जीवने वचनक्रियां अश्रान्त एव कारयिष्याम्येवेति वाङ्‌नामा अग्निः दध्रे । मनो दधार । मेन इति यावत्‌। इति चक्षुरिति ॥ चक्षुर्माअन्यादित्यो दध्रे । श्रोत्रमानी चन्द्र इति दध्रे इति प्राग्वज्ज्ञेयम्‌ । एवमन्यानि कर्माणि क्रियासाधनानि मनःप्रभृतीनि । यथाकर्म स्वस्वव्यापारमनुसृत्य दध्र इत्यर्थः । तत्र स्थूलमनोभिमानी शक्रः यज्ञादि कर्म अहं करिष्याम्येवेति दध्रे इतित सूक्ष्ममनोभिमानी गरुडः ध्यानं करिष्याम्येवेति दध्र इदि ज्ञेयमित्यर्थः । अश्रान्तास्सन्त एव स्वस्वव्यापारान्‌ करिष्याम एव वयमिति मन्वानावागादीन्द्रियदेवा अग्न्यादयो वचनादिक्रियामनारतं चक्रुरिति सर्वस्य तात्पर्यार्थः । ततः किं जातमित्यत आह ॥ तानीति ॥ प्रजापतिरित्यनुषज्यते । प्रजापतिर्ब्रह्मा । तानि वागादि दैवतानि । श्रमः श्रमकरो भूत्वा । उपयेमे प्राप्तः । ततश्‌च श्रमेण भगवत्कर्माकरणहेतुना मृत्युः पापमानी । तानि आप्नोत्‌ व्याप्नोत्‌ । अवारुन्धत्‌ (भगवदाराध)(वच)नादि क्रियाभ्रंशादिरूपावरोधमकरोत्‌ । तस्मान्मृत्युनावरुद्धत्वादेवाद्यपि वाक्‌ श्राम्यत्वेव । चक्षुः श्राम्यति । श्रोत्रं श्राम्यतिद मनःश्राम्यतीत्यपि ज्ञेयम्‌ । स्वस्वकर्मकृतावशक्ता अभूवन्वागादयो देवा इत्यर्थः । अथेतरदेवानां श्रान्त्यनन्तरं योयं मध्यमः फ्राणो मुख्यवायुरिममेव । प्रजाप्रतिर्ब्रह्मा । श्रमकरो भूत्वा नाप्नोत्‌ । समशक्तिमत्त्वात्‌ । ततश्ऱ्च श्रान्त्यभावेन सदा सर्वभगवत्कर्मकरणाद्धेतोर्मृत्युरपीमं मुख्यवां नाप्नोदित्यर्थः । तानि

3

पापात्मसुरावरुद्धानि अग्न्यादिदैवतानि । तदनवरुद्धं मुख्यवायुं ज्ञातुं दध्रिरे मनश्ऱ्चक्रुः । अहं वै वायुरेव नोस्माकं मध्ये श्रेष्ठ निश्ऱ्चिक्युः । श्रैष्ठयनिश्ऱ्चयहेतुमाह ॥ य इति ॥ ततः किं चक्रुरित्यत उक्तम्‌ ॥ हन्तेति ॥ हन्तेति हर्षे सर्वे देवा अस्यैव वायोरेव रूपं प्रतिमा तद्भृत्याश्ऱ्च असाम भवामेत्युक्त्वेति शेषः । तदाविष्यास्सन्तस्तद्भृत्या अभवन्नित्यर्थः । तस्माद्देवानां प्राणप्रतिमात्वादेते देवा एतेन प्राणनाम्ना आख्यायन्ते प्राण इति । प्राणाधीनत्वमात्रेण तन्नामवत्वेन भाव्यमिति

?R

कुत इत्यतस्तत्र दृष्यान्तेन तदुपपादयति ॥ तेनेति ॥ यस्मिन्कुले यः श्रेष्ठस्तस्य तेन नाम्ना तत्कुलमाचक्षत इति योजना । उक्तश्रेष्ठत्ववेदिनः फलमाह ॥ य एवमिति ॥ य एवं प्राणमहात्म्यं वेद तेन एवं विदा । यः स्पर्धते सोनुशुष्यऽऽन्ततोम्रियत इत्यध्यात्मम्‌ । देहनियामकदेवनिर्णीतवायुश्रैष्ठ.निरूपणं कृतमित्यर्थः ॥

3

6

21

॥ अथ अध्यात्मं प्राणश्रैष्ठयनिर्णयप्रकारोक्त्यनन्तरम्‌ । अधिदैवतं प्राणस्य श्रैष्ठयनिर्णयप्रकारः । उच्यत इत्यर्थः ॥ ज्वलिष्याम्येवेत्यादेस्संगतिरर्थश्ऱ्च वदिष्याम्येवेत्यादेरिव ध्येयः । अन्या देवताश्शक्रशेषरुद्रविपाः । यथा दैवतं तत्तद्देवतासम्बन्धिकर्मानुसृत्य । दध्रिर इति ज्ञेयमित्यर्थः । तत्प्रकारस्तु वृष्यिप्रवर्तकोहमेवेति शक्रो मनो दध्रे पञ्चरात्रप्रवर्तकोहमेवेति शेषः । पञ्चरात्रोक्तक्रिया तात्पर्यवानहमेवेति रुद्रः । वेदप्रवृत्तिकृदहमेवेति विपः इत्येवं ध्येयम्‌ । वागाद्यभिमानिनो देवाः श्रमरूपेण ब्रह्मणा प्राप्ता मृत्युना चावरुद्धाः न तथा प्राण इत्युक्तमात्रप्यतिदिशति ॥ स यथेति ॥ वक्ष्यमाणनिदर्शनं यथेत्यर्थः । वागादीनां देवानां मथ्ये मध्यमः प्राण यथा श्रमररूपेण प्रजापतिना न प्राप्नोदेवं मृत्युनाऽनवरुद्धोऽत एव श्रेष्ठश्ऱ्च । तथैतासां देवतानामग्न्यादीनां मध्ये वायुरित्यर्थः । अन्या देवताः मृत्युनावरुद्धत्वादेव म्लोचन्ति म्लाना भवन्ति । न वायुः म्लोचति । कुतः यद्वायुः यो वायुस्सैषा देवता । नास्तमिता तस्मादिति योज्यम्‌ । अत्र वायोरनस्तमितत्वं ज्ञाननित्यत्वेन ज्ञेयम्‌ । एवं प्रलयकालेपि प्रतिभाति परावर इत्यादेः ॥

3

6

22

॥ अध्यात्ममधिदैवं च वागादिदेवताः प्राणाधीना इत्युक्तार्थे मन्त्रमाह ॥ अथैष श्ऱ्लोक इति ॥ श्ऱ्लोकमर्धश उदाहृत्य व्याचष्ये ॥ यत इत्यादिना ॥ सूर्य इत्युपलक्षणं सूर्यादयो देवा इत्यर्थः । यत इत्यादि यच्छब्दद्वयस्य तमित्युत्तरार्धगतेन तच्छब्देनान्वयः । यच्छशब्दद्वयार्थः प्राणादिति प्राण इति च । यतः प्राणाद्वा एष एते सूर्यादयः उदेति उद्यन्ति । जायन्त इति यावत्‌ । यत्र प्राणे अस्तमेति अदर्शनं यान्तीत्यर्थः । उत्तरार्धमाह ॥ तमिति ॥ देवाः तं प्राणमुद्दिश्य धर्मं हंसोपास्तिलक्षणम्‌ । चक्रिरे इति । स एव धर्मोद्यापि वर्तते स एव श्ऱ्वोपि वर्तिष्यत इत्यर्थः । तमित्यर्धं व्याचष्ये ॥ यद्वा इति ॥ एते देवाः । यत्‌ धर्मसाधनव्रतम्‌ । अमुं हि अमुष्मिन्प्राणश्ऱ्चैष्ठयनिर्णयकाले । अध्रियन्त धृतवन्तः । तदेव व्रतमद्य कुर्वन्ति वै प्रसिद्धम्‌ । अपि पदेन श्ऱ्वोपि कर्तार इति समुच्चीयते । यदर्थं प्राणस्योत्तमत्वं साधितं तदाह ॥ तस्मादिति ॥ प्राणस्य सर्वजीवोत्तमत्वात्‌ । मा माम्‌ । पाप्मा मृत्युर्नेत्‌ नैवाप्नुवदिति मन्वानोधिकारी एकमेव प्राणमात्रविषयकमेव । प्राण्याच्चापान्याच्च श्ऱ्वासोच्छ्वासरूपं हंसोपास्तिलक्षणं व्रतम्‌ । चरेत्‌ कुर्यात्‌ । उपक्रन्तं प्राणव्रतं मध्ये न विसर्जयेदित्याह । यद्यु चरेत्‌ यदि प्राणव्रतं चरेत्‌ प्रारभेत । तर्हीति शेषः । समापिपयिषेत्‌ समापयितुमिच्छेत्‌ समापयेदेवेत्यर्थः । यद्वा यद्यु चरेत्‌ देवतान्तरव्रतमारभेत चेत्‌ समापिपयिषेत्‌ समापयितुमिच्छेदित्यर्थः । उक्तव्रतमनुतिष्ठतः फलम्‌ ॥ तेनेति ॥ तेन उ तेनैव एतद्व्रतानुष्ठनेनैव । एतस्यै देवतायै एतस्या देवतायास्सयुज्यम्‌ । सलोकतां समानलोकतां तेन वायुना । जयति प्राप्नोति । अधिकारिभेदेन प्राप्यद्वयोक्तिः ॥

3

6

23

॥ इति सप्तान्नब्राह्मणम्‌ ॥ सर्वसऽष्यृत्वाद्वायुरुत्तम इत्युक्तम्‌ । तदेवोत्तमत्वं प्रकारान्तरेणाह ॥ त्रयमित्यादि ब्राह्मणेन ॥ इदं जगत्‌ । नामरूपं कर्मेति त्रयं वै त्रिविधं वै । कर्मेत्यनन्तरमिति शब्दो योज्यः । तेषां नामरूपकर्मणां मध्ये नाम्नां वाग्भारतीत्येतद्दैवतम्‌ । तन्महिमानमाह ॥ एतदिति ॥ एषं नाम्नां वागित्येतदुक्थं उत्थापकम्‌ । कथम्‌ ॥ अतो हीति ॥ हि यस्मादतो वाग्देव्याः भारत्याः सर्वाणि नामा न्युत्तिष्ठन्ति उत्पद्यन्ते । वाचो महिमान्तरमाह ॥ एतदिति ॥ वागिकत्येतत्‌ वाग्दैवतं एषां नाम्नां साम । कुतः हि यस्मादेतत्‌ वाग्दैवतम्‌ । सर्वैनर्ामभिः शब्दैः सहैव रूपाणि कर्माणि च माति जानातीति च समम्‌ । वाचो गुणान्तरमाह ॥ एतदिति ॥ वागित्येतत्‌ । वाग्दैवतं एषां नाम्नां ब्रह्म कुतः हि यस्मात्‌ वागित्येतत्‌ सर्वाणि नामानि बिभर्ति तस्माद्ब्रह्मेत्यर्थः ॥

3

7

1

॥ नामाभिमानिदैवतमुक्त्वा रूपाभिमानिदैवतमाह ॥ अथेत्निमाभिमान्युक्त्यनन्तरं रूपमान्युच्यत इति योज्यम्‌ । रूपाणां चक्षुश्ऱ्चक्षुर्नामा रुद्र इत्येतद्दैवतम्‌ । शिष्यं प्राग्वत्‌ । सर्वै रूपैस्सह नामानि कर्माणि च माति जानातीति सममित्यर्थः ॥

3

7

2

॥ कर्ममानिनमाह ॥ अथ कर्मणामिति ॥ आत्मा प्राण इत्येतद्दैवतमित्यर्थः । शिष्यं प्राग्वत्‌ । सर्वैः कर्मभिस्सहैव नामानि रूपाणि च माति जानातीति सममित्यर्थः । भारतीरुद्रवायूनां नामादित्रितयाभिज्ञत्वोक्ता प्रप्तसाम्यशंकां वारयति ॥ तदेतदिति । तदेतद्वागादित्रयं सदेकं द्वयोरेकाधीनत्वादेकमित्युच्यत इत्यर्थः । स एकः कः यदधीनं द्वयमित्यत आह ॥ अयमात्मेति ॥ प्राण इत्यर्थः । एक इत्युक्त्या प्राप्ताभेदभ्रान्ति निराह ॥ उ एकः । उपरितनः श्रेष्ठः सन्नेतत्त्रयमिति । कुतः प्राणस्य श्रेष्ठतेत्यत आह ॥ तदेतदमृतमिति ॥ तद्वयनक्ति ॥ प्राणो वा अमृतमिति ॥ नित्यज्ञान इत्यर्थः । सत्येन छन्नमित्येतद्वयनक्ति ॥ नामरूपे सत्यमिति ॥ वाक्चक्षुः शब्दिते नामरूपदैवते सत्यमित्यर्थः । ताभ्यां नामरूपदैवताभ्यां भारतीरुद्राभ्यां अयममृतं प्राणश्छन्नः तयोर्नियामकत्वेन तावनुप्रविष्य इत्यर्थः ॥

3

7

3

॥ इति

सप्तमब्राह्मणम्‌ ॥

इति श्रीकाण्वोपनिषदर्थसंग्रहे राघवेन्द्रयतिकृते तृतीयोध्यायः ॥

3

***************************************************************

चतुर्थोऽध्यायः।

प्र्वाध्येये अश्ऱ्वमेधब्रह्मणादिभिः प्रायेण बाह्या ब्रह्मव्यि उक्ताः । अत्र त्वध्याये प्रायेणान्तरा ब्रह्मविद्या उच्यन्ते । तत्राद्यब्राह्मणे बाह्या ब्रहमविद्या न साक्षान्मोक्षसाधिका । किन्तु स्वहृदिस्थब्रह्मविद्येत्याह ॥ दृप्त इत्यादिना ॥ बलाकस्यापत्यं बालाकिः । गर्गस्य गोत्रापत्यं गर्ग्यः । अनूचानो वेदाध्ययनसम्पन्नः । अत एव दृप्तः दर्पवान्‌ अहंकारीति यावत्‌ । आस बभूव । हे त्याश्ऱ्चये । सह प्रसिद्धो गार्ग्यः । काश्यं काश्यां भवम्‌ । अजातशत्रुनामानं राजानमभिगम्य । ते तुभ्यम्‌ । ब्रह्म ब्रवाणिवदानत्युवाच । लोडुत्तमपुरुषैकवचनं ब्रवाणीति । स एवमुक्तोऽजातशत्रुरुवाच ह किल । किमिति । एतस्यां वाचि ब्रह्म ते ब्रवाणीत्यस्यां वाचि एतद्वचनविषये । सहस्रं गवामिति वा निष्काणामिति वा योज्यम्‌ । दद्म इत्यपहासवचनमुवाचेत्यर्थः । कस्मादेवं मामपहससत्यतो यदि त्वं ब्रह्म जानीथास्तर्हि समीपस्थं ब्राह्मणं त्वां विहाय जनकराजानं प्रति धावनं ब्रहमजिज्ञासवः कुतः कुर्युरिति भावेनाह ॥ जनको जनक इति ॥ तद्धावनमयुक्तं स्यादित्यर्थः । त्वं तु केवलं दर्पेणैव मामात्थ न वस्तुतः ब्रह्म जानासीति भावः । इति शब्दो हेतौ । इति कृत्वा परिहास इति ॥ 4 ॥ 1 ॥ 1 ॥ एवमपहासलज्जितो गार्ग्यः स्वाभ्यस्तविद्यामाह ॥ स इत्यादिना खण्डद्वादशकेन । किमुवाचेत्यतो ॥ य एवेत्यादि ॥ पुरुषो विष्णुरस्तीति शेषः । एवमग्रेऽपि ज्ञेयम्‌ । राजा त्वया ज्ञातादधिकमप्यहं जानामीत्याह ॥ स होवाचेति ॥ एतस्मिन्‌ विष्णोरादित्यस्थत्वोपासनाविषये । मा माम्‌ । मा संवदिष्ठाः संवादं माकार्षीः । अधिकगुणत्वेन ज्ञातुः पुरतोऽल्पज्ञानेन संवादो न कार्यः । न ह्यादित्यस्थो विष्णुबर्रह्मेत्येव मया ज्ञातं येन मामत्र संवदेः किं त्वित्यत आह ॥ अतिष्ठा इति ॥ जगद्धर्मवर्जितत्वेन सर्वमतीत्य स्थितत्वादतिष्ठाः सर्वेषां भूतानां मूर्धा उत्तमः । राजा दीप्यमानः । राजृ दीप्ताविति धातोः । इति वै इत्येवाहमेतमादित्यस्थपुरुषमुपास इत्युवाचेति वा इति कृत्वा मा संवदिष्ठा इति वा इति पदस्य पूर्वेणान्वयः । अतिष्ठत्वादिगुणवैशिष्यये तात्पर्यद्योतनाय तज्ज्ञानिनः फलमाह ॥ स य इति ॥ योधिकारी । एतमादित्यस्थं पुरुषमेवं उक्तगुणविशिष्यम्‌ । उपास्ते सोऽतिष्ठत्वादिगुणयुक्तो भवतीत्यर्थः । ते च गुणा यथागोग्यं ध्येयाः ॥ 4 ॥ 1 ॥ 1 ॥ स होवाच गार्ग्यो य एवासौ चन्द्र इत्यादिषु द्वादशखण्डेषु योजना ध्येया । तत्रादित्यचन्द्रविद्युदाकाशवाय्वग्न्यवादर्शगच्छत्पाश्ऱ्चात्यशब्ददिक्‌छायात्मरूपेषु द्वादशाधिकारणेषु आदित्यादीनि देवतारूपाणि ध्येयानि । देवतासु भगवन्तमुपास्येत्यादि भाष्योक्तेः । बृहत्‌ पाण्डुरं शुक्लं वासो यस्योसौ तथोक्तः । अस्यैवमुपासकस्य गृह इति शेषः । अहरहः प्रतिदिनम्‌ । सुतः प्रसुतस्सोमयागो भवति । अन्नं भोज्यं च न क्षीयते ॥ 4 ॥ 1 ॥ 3 ॥ तेजस्वी ह भवति इह लोके ॥ 4 ॥ 1 ॥ 4 ॥ न प्रवर्त्यते केनचिदप्रवर्ति । अस्य प्रजासन्ततिनोन्द्वर्तते न विच्छिद्यते ॥ 4 ॥ 1 ॥ 5 ॥ इन्द्रः परमैश्ऱ्वर्ययुक्तः । विगतं कुण्ठनं पराभवो यस्यासौ विकुण्ठः स एव वैकुण्ठः । स्वयमेवापराजितबहुरूपत्वांदपराजि(त)ता सेना । जिष्णुरुत्तमः । अपराजिष्णुरन्यतः पराजयहीनस्वभावः । अन्यतस्त्यजायी अन्येषां जेतेत्यर्थः ॥ 4 ॥ 1 ॥ 6 ॥ शत्रूणशमसह्यत्वाद्विषासहिः ॥ 4 ॥ 1 ॥ 7 ॥ प्रतिरूपोनुकूलः । प्रतिरूपमनुकूलम्‌ । अथो अन्यच्च प्रतिरूपोनुकूलः पुत्रोस्मादुपासकाज्जायते ॥ 4 ॥ 1 ॥ 8 ॥ रोचिष्णुः प्रकाशनशीलः । उ एव । अथो अन्यच्च । फलं यैविर्द्वद्भिस्संनिगच्छति संगतो भवति । तान्‌ सर्वान्‌ अतिरोचते अतिक्रम्य प्रकाशते ॥ 4 ॥ 1 ॥ 9 ॥ यन्तं गच्छन्तम्‌ । अनु पश्ऱ्चात्पृष्ठतः । शब्द उदेति उत्पद्यते । एतं गच्छत्पाश्ऱ्चात्यशब्दस्थं पुरुषमित्यर्थः । असुः आयुष्यप्रदः । सर्वमायुरेतीत्यस्य तात्पर्यमाह ॥ नैनमिति ॥ 4 ॥ 1 ॥ 10 ॥ द्वितीयः द्वितीयवान्‌ । अनपगः नापगच्छतीत्यनपगः । अनपगोद्वितीय इत्यस्य अनपगतपरिवारवानित्यर्थः । अस्मादुपासकात्‌ । गणः परिवारः ॥ 4 ॥ 1 ॥ 11 ॥ छायामयः छायागतः । मृत्युमर्ारकः ॥ 4 ॥ 1 ॥ 12 ॥ आत्मनि हिरण्यगर्भे । आत्मन्वीचित्ताभिमानिविरिञ्चवान्‌ । तत्सेव्य इति यावत्‌ । आत्मन्वी भवति चित्तवान्‌ भवति ॥ 4 ॥ 1 ॥ 13 ॥ गार्ग्यस्य तूष्णीं भावानन्तरं किंजातमित्यत आह ॥ स हेति ॥ सः अजातशत्रुः । तूष्णीमासीनं गार्ग्यम्‌ । एतावन्नू 3 एतावदेव । काकुरयम्‌ । त्वया विदितमेतावदेव किमित्युवाच । स एवमुक्तो गार्ग्यः प्रत्याह ॥ एतावद्धीति ॥ एतावदेव मया विदितं हीति निश्ऱ्चयमाह ॥ एवं गार्ग्येण प्रत्युक्ते राजा प्रत्याह ॥ नैतावता विदितं भवतीति ॥ आदित्यादिदेवतासु भगवदुपासने तत्तद्देवतासामीप्यं भवति न मोक्षप्राप्ति; । अतो मोक्षाय स्वहृदि हरेरुपास्त्या भाव्यमिति भावेन नैतावता विदितमित्युक्तम्‌ । उपासात्रैविध्यादिति सूत्रे केषाञ्चित्सर्वगत्वेन केषाङिञ्चद्धृदये हरिः । केषाञ्चिद्बहिरेवासावुपास्य इति भाष्योक्तेः बहिरुपासकानामपि किञ्चिद्धृद्गतोपास्त्यैव मोक्ष इति भावः । एवमुक्तः स गार्ग्यः । त्वा त्वाम्‌ । उपयानि ।

?Rस्वहृदिस्थोपासनाप्रकारं वेदितुं शिष्यत्वेनोपगच्छामि त्वामित्यजातशत्रुं प्रति उवाचेत्यर्थः ॥ 4 ॥ 1 ॥ 14 ॥ एवमुक्तः सोजातशत्रुरुवाच । क्षत्रियो मह्यं ब्रह्म वक्ष्यतीति ब्राह्मणः क्षत्रियं शिष्यत्वेनोपेयादिति यत्‌ एतत्‌ । प्रतिलोमं वै विपरीतं वै । तस्मात्‌ त्वा त्वां प्रति । ब्रह्म विज्ञापयिष्याम्येव । विज्ञापनमेव करिष्यामि नत्वाचार्य इवोपदेशं करोमीत्यर्थः । न स्थानतोपि परस्योभयलिंगं सर्वत्र हीत्युक्तदिशा सर्वत्र हरेरविशेषेण सत्त्वात्कथं हृद्गतस्योपास्तिरेव मुक्तिहेतुर्न देवतान्तरगतस्येत्यतः । हृद्गतस्य हरेर्देवतान्तस्थरूपापेक्षया स्वस्मिन्‌ विशेषसम्बन्धं ज्ञापयितुकामस्तं गाग्यर्ं पाणशवादायहस्ते गृहीत्वा उत्तस्थौ । तौ गार्ग्याजातशत्रू । क्वचिद्देशे सुप्तं कञ्चित्पुरुषं समाजग्मतुः संगतौ भवतः । हृदिस्थरूपस्य देहे उपकार्यत्वोपकारित्वरूपविशेषसम्बन्धज्ञापनार्थम्‌ । तं सुप्तपुरुषान्तर्गतं हरिम्‌ । बृहत्पाण्डुरवासः सोम राजन्नित्येतैः नामभिरामन्त्रयाञ्चक्रे । सम्बोधयामास । स एवमामन्त्रितरसुप्तस्थो हरिः नोत्तस्थौ । जीवं नोत्थपायामास । तं सुप्तं पाणिना पेषां कृत्वेति शेषः । बोधयांञ्चकार । स सुप्तस्थो हरिरुत्तस्थौ । जीवमुत्थपायामासेत्यर्थः । हेत्याश्ऱ्चर्ये । अतः प्रबोधोस्मादिति सूत्रात्‌ । नामभिराह्वाने कृतेपि नामभिराह्वानमवज्ञाय पाणिपेषणेनोत्थानं शरीरे हरेर्विशेषसम्बन्धोस्तीति ज्ञापनार्थमिति भावः ॥ 4 ॥ 1 ॥ 15 ॥ कुतः स्वहृदिस्थस्योपकारित्वरूपविशेषसम्बन्धः । येन तदुपास्तिरावश्यकीत्यतः सुप्त्याद्यवस्थाप्रवर्तकत्वादित विवक्षुस्तथाविधं त्वं जानासि किमिति पृच्छत्यजातशत्रुर्गार्ग्यम्‌ ॥ स होवाचेत्यादिना ॥ एष जीवः एतत्‌ एतस्मिन्‌ शरीरे यत्र यस्मिन्हरौ । सुप्तः य एष सुप्ताधारः पुरुषो विज्ञानमयः सम्यक्‌ ज्ञानस्वरूपः । एष विज्ञानमयो हरिः तदा सुप्तिकाले । क्वाभूत्‌ कुत्र स्थितः । एतत्‌ एतस्मिन्प्रबोधकाले । कुत आगादित्युवाचेतीति शब्दान्वयः । तदु ह न मेने तत्‌ सुप्तिकालीनं हरेरावासस्थानं तदागमनविधिं च गार्ग्यो न उ मेने नैव व्यजानात्‌ ॥ 4 ॥ 1 ॥ 16 ॥ क्वैतदभूदित्यहं न जाने । त्वं ब्रूहीति पृष्योजातशत्रुस्तदुक्तवानित्याह ॥ स होवाचेति ॥ यत्रैष इत्यादिपुरषान्तोग्रे सुप्तिस्वरूपोक्त्यर्थानुवादः । तदा सुप्तिकाले । एषां प्राणानं इन्द्रियाणाम्‌ । विज्ञानं विज्ञानशक्तिम्‌ । विज्ञानेन बुद्धया । बुद्धिपूर्वं स्वेच्छयेति यावत्‌ । आदाय य एषोन्तर्हृदये आकाशोस्ति तस्मिन्‌ शेते । सुप्तोभूदित्युक्तसुप्तिः केत्यत आह ॥ तानि यदेति ॥ विज्ञानमयः पुरुषो हरिः । तानि विज्ञानजननशक्तिमन्तीन्द्रियाणि । गृह्णाति निर्व्यापाराणि करोति । अथ तदा । एतत्‌ एतस्मिन्हरौ । पुरुषः स्वपिति नाम प्रसिद्धम्‌ । सर्वेन्द्रियव्यापारोपरमः सुप्तिरित्यर्थः । प्राणानां विज्ञानेन विज्ञानमादायेत्युक्तं विशदयति । प्राणो घ्राणः । तेन विज्ञानमयेन गृहीत एव भवतीत्यादि ॥ 4 ॥ 1 ॥ 17 ॥ स्वहृदिस्थः स्वप्नावस्थाप्रेरकत्वाच्च स्वोपकारित्वरूपविशेषसम्बन्धवान्‌ देह इति भावेनाह ॥ स इति ॥ स हरिः । यत्र यदा । एतत्‌ एतस्मिन्‌ शरीरे । स्वप्नया नाख्या । चरति जीवं चारयति च । हरिर्नाड्यां कुतश्ऱ्चरतीत्यत आह ॥ ते हेति ॥ ह यस्मात्ते नाडी विशेषाः । अस्य हरेर्लोकाः तस्मात्तया चरतीत्यन्वयः । जीवेशयोर्द्वयोरपि स्वप्नावस्थागतत्वे को विशेषस्तयोरित्यतः जीवव्यापारं तावदाह ॥ तदुतेवेति ॥ तत्‌ तदा । महाराज इव भवति । तद्वदात्मानं पश्यतीत्यथर्ः । महाब्राह्मण इव भवतीत्यनुषंगः । उतशब्दाः पक्षभेदद्योतकाः । किं बहुना यदुच्चं गजादि यच्चावत्त्वं श्ऱ्वमार्जारादि तद्वदात्मानं निगच्छति पश्यति । एवं जीवस्थितिमुक्त्वा भगवतः स्थितिं सदृष्यान्तमाह ॥ स इति ॥ जानपदान्‌ जनपदस्थान्‌ गृहीत्वा परिवर्तते । सञ्चरति एवमेवैष भगवान्‌ एतत्‌ रस्य जीवस्य प्राणान्‌ बाह्येन्द्रियाणि । स्वे स्वाधीने ॥ 4 ॥ 1 ॥ 18 ॥ तानि यदेत्युक्तसुप्तौ विशेषं वक्तुं सुप्तस्थितिमिह ॥ अथेति ॥ यदा जीवः कस्यचन किञ्चन । व्यत्ययात्‌ । बाह्यविषयान्‌ । न वेद तदा सुषुप्तौ भवतीत्यर्थः । क्व सुप्तो भवति जीव इत्यत आह ॥ हिता इत्यादि ॥ द्वाभ्यामधिकसप्ततिसहस्राणि हिता इति नाम प्रसिद्धा नाड्यः । शिराः हृदयात्‌ ह हृदयमारभ्य स्थितम्‌ । पुरीततं शिरोन्तपर्यन्तं शरीरे व्प्तम्‌ । सुषुमनाख्यनाडीविशेषम्‌ । अभि परितः प्रतिष्ठन्ते । ताभिर्नाडीभिः । प्रत्यवसृप्यचरित्वा । पुरीतति सुषुम्नाख्यनाडीविशेषे । शेते नाडीविशेषस्थे हरावित्यर्थः । तदाह सूत्रे । तदभावो नाडीषु तच्छतेरात्मनि हेति । सुप्तौ ज्ञानरहितश्ऱ्चत्कथं तिष्ठतीत्यतस्सुखमयस्तिष्ठतीति सदृष्यान्तमाह ॥ स यथेति ॥ स प्रसिद्धो दृष्यान्तो यथा । कुमारो रुद्रः । महाराजो वायुः । महाब्राह्मणो विरिञ्चः । आनन्दस्य आनन्दरूपस्य हरेः । अतिध्नीं समीपम्‌ । गत्वा शयीत सुखमास्ते । एवमेवैष जीवः । एतत्‌ एतस्मिन्‌ सुषुम्नास्थे हरौ शेते सुखमास्ते ॥ 4 ॥ 1 ॥ 19 ॥ जाग्रत्प्रवर्तकत्वाच्च स्वोपकारीस्वहृदिस्थ इत्येतत्सदृष्यान्तमाह ॥ स यथेति ॥ प्राग्वदर्थोनयोः पदयोर्ज्ञेयः । ऊणॅनाभिस्स्वोपभुक्तमन्नं तन्तुरूपेणोच्चरेत्‌ उद्गमयेत्‌ । यथा वा क्षुद्रा विस्फुलिंगा अग्नेर्व्युच्चरन्ति उद्गच्छन्ति । एवमेवास्माद्विज्ञानमयादात्मनो हरेस्सुप्तौ गृहीतास्सर्वे प्राणा इन्द्रियाणि । सर्वे लोकाः भूरादयः । सर्वे देवाश्ऱ्चतुर्मुखादयः । सर्वाणि तदन्यानि सर्वाणि । भूतानि प्राणिनः । व्युच्चरन्ति उत्पद्यन्ते । लीयन्ते चेत्यपि ग्राह्यम्‌ । अत्र यथोर्णनाभिस्तन्तुनोच्चरेत्‌ एवमेवास्मादात्मनः सर्वे प्राणा इत्येतावताजाग्रत्प्रवर्तकत्वलाभेपि

?Rयथाग्नेरिति दृष्यान्तपूर्वकं सर्वलोका इत्युक्तिः प्रागुक्तप्राणादिसर्वश्रैष्ठयस्योपपादनाय । अन्तर्यामिणो गोप्यं नामाह ॥ हृदयस्येति ॥ तस्य हृदिस्थस्य हरेरुपनिषत्‌ रहस्यं नाम किमिति ॥ सत्यस्य सत्यमिति ॥ तदर्थं स्वयमेव व्यनक्ति ॥ प्राणा इति ॥ प्रागुक्तप्राणलोकदेवभूतानि प्राणन्तीति व्युत्पत्त्या प्राणपदेन ग्राह्यानि तेषामेष हरिः सत्यं सच्छब्दोत्र जन्मस्थितिप्रलयमोक्षपरः तान्‌ यापयतीति सत्यमिति तदर्थ इत्यर्थः ॥ 4 ॥ 1 ॥ 20 ॥ प्रथममजातशत्रुब्राह्मणम्‌ ॥ 1 ॥ इन्द्रियजयाभावे विद्या न सिद्धयतीत्यतस्तदर्थं काञ्चन विद्यामाह ॥ यो हवा इत्यादिना ॥ वायुर्गोवत्सरूपेण सर्वप्राणिषु वर्तते । लोके वत्सस्य स्थूलगृहमध्ये सूक्ष्मगऽहं कृत्वा तन्मध्ये वत्सबन्धनाय कञ्चन शंकुं स्थापयित्वा दाम्ना वत्सं बध्नन्ति तथा देहेपि गोवत्सरूपेण सर्वप्राणिगतस्य वायोः सूक्ष्मगृहस्थूलगृहस्थानीयानि प्राणिनां सूक्ष्मदेहस्थूलदेहहरिश्रीतत्त्वानि जानतः सर्वेन्द्रियजयरूपफलोक्तिपूर्वमाधानादिस्वरूपाणि व्यनक्ति ॥ यो हवा इति ॥ तथाहि यो ह वै प्रसिद्धोधिकारी । साधनं सप्रत्याधानं सस्थूणं सदा(मानं)मं शिशुं वेद उपास्ते स उपासकः । द्विषतः विषयाभिधावनहेतून्‌ । अत एव भ्रातृव्यान्‌ शत्रून । सप्त मनोबुद्धिसहितज्ञानेन्द्रियरूपान्‌ सप्तगतेरिति सूत्रात्‌ तदभिमान्यसुरान्‌ । अवरुणद्धि वशीकृतेन्द्रियो भवतीत्यर्थः । कः शिशुः किमाधानादिकं यत्साहित्यज्ञानेन इन्द्रियजय इत्यत आह ॥ अयमिति ॥ योयं प्रागुक्तस्सवर्प्राणिषु स्थितो मध्यमः प्राणो वायुरयमेव शिशुः गोवत्सरूपः । तस्य इदमेव प्रमाणसिद्धं जीवसूक्ष्मशरीरमेवाधानं आवासस्थानभूतं सूक्ष्मगृहम्‌ । इदं जीवस्य स्थूलशरीरमेव प्रत्याधानं वितानम्‌ । गृहाश्रयप्रदेशविस्तारः । प्राणो हरिः स्थूणा वत्सबन्धनस्थाणुः । अन्नं श्रीतत्त्वम्‌ । दाम बन्धनरज्जुः ॥ 4 ॥ 2 ॥ 1 ॥ अक्षिस्थवायूपास्तिः कार्येति भावेन आख्यायिका

?Rमाह ॥ तमिति ॥ तं अक्षिस्थं वायुम्‌ । अक्षितयः अक्षीणज्ञानमनसः । एता वक्ष्यमाणा रुद्राद्यास्सप्त देवताः । उपतिष्ठन्ते उपासते । तदेव व्यनक्ति ॥ तद्या इति ॥ तत्‌ । तत्र । सप्तसु मध्ये । रुद्रः । अक्षन्‌ अक्षणि । या इमाः प्रसिद्धाः । लोहिन्यो लोहिताः । राजयः रेखाः । ताभिरधिष्ठानरूपाभिः । ता अधिष्ठायेति यावत्‌ । एनमक्षिस्थवायुम्‌ । अन्वायत्तस्तदधीनस्दतमुपतिष्ठते इत्यर्थः । अथेत्यर्थान्तरे । या अक्षन्नापः । अक्षण्यापः । ताभिः पर्जन्यः एनम्‌ । अन्वायत्त इत्यनुषंगः । पूर्वत्रेवार्थः । या कनीनिका चक्षुषि कृष्णवर्णवर्तुलमण्डलमध्यस्था तया आदित्योन्वयत्तः । यत्कृष्णं चक्षुषि । तेनाग्निरन्वायत्तः । यच्छुक्लं तेनेन्द्रोन्वयत्तः । अधरया । वर्तन्या चक्षुर्गतोदकादिनिर्गमनमार्गेण । तामधिष्ठायेति यावत्‌ । एनं वायुम्‌ । पृथिव धरादेवी । अवायत्ता । द्यौः द्युलोकमानिनी । उत्तरया वर्तन्या । एनमन्वायत्ता । एवं वायुविदः फलमाह ॥ नास्येति ॥ योधिकारी । एवं मोक्षार्थं रुद्राद्युपास्यमक्षिस्थं वायुम्‌ । वेद स्थूणाभूतविष्णुना सह वेद । अस्य वेदितुरन्नं न क्षीयते । मुक्तः सन्‌ अक्षयमेव भोगमनुभवतीत्यर्थः ॥ 4 ॥ 2 ॥ 2 ॥ रुद्रादयः अक्षिस्थं प्राणमुपासत इत्युक्तार्थे मन्त्रं पठति ॥ तदेष श्ऱ्लोक इति ॥ तत्र उक्तार्थे संवादीति शेषः । चमस इव चमसः मन्त्रं पादश उपादाय व्याचष्ये ॥ अर्वागित्यादिना ॥ यदिदं प्रथमपादोक्तं तच्छिरः कुतः सिद्धं अर्वाग्बिलचमसत्वं शिरस इत्यतः तत्प्रसिद्धमित्याह । एष हीति ॥ एष शिरः । चमसशब्दापेक्षया एष इति पुल्लिंगता । चम्यते भक्ष्यतेनेनेति चमसः । चमु अदने इत्यतोऽस प्रत्ययः । तदुक्तं सूत्रे चमसवदविशेषादित्यत्र चमसशब्दो यथा शिरसि मुख्यः इदं तच्छिर इत्याद्युक्तिबलादेवमव्यक्तादिशब्दोपि नामानि सर्वाणीत्युक्तिबलाद्विष्णौ मुख्य इति । द्वितीयं पादमुपादाय व्याचष्ये ॥ तस्मिन्नित्यादिना ॥ तस्मिंच्छिरसि दक्षिणाक्षणि । प्राणा वै यशो विश्ऱ्वरूपं यशो विश्ऱ्वरूपशब्दिताः प्राणा वै प्राणा एवेत्युक्तं व्यक्तमाह ॥ प्राणानेतदिति ॥ तस्मिन्‌ यशो निहितं विश्‌वरूपमित्येतत्प्राणान्‌ विष्णुरमावायुन्‌ आहेत्यर्थः । ज्ञानसुकात्मकत्वात्‌ यशश्शब्देन गुणपूणर्रूपत्वात्‌ स्त्रीषु पूर्णत्वात्‌ क्रमाद्विष्णुरमावायवो विश्ऱ्वरूपशब्देन प्रणेतृत्वहेतुना प्राणशब्देन चोच्यन्त इति भावः । यद्वा एतत्प्राणानाहेति कुत इत्यतः प्राणा वा इति पूर्ववाक्यम्‌ । यशो विश्ऱ्वरूपं यशो विश्ऱ्वरूपशब्दोक्तास्त्रयो दक्षिणाक्षिगाः प्राणा वै प्रणेतारो वै । तस्मादिति योजना । एतत्‌ तस्यासत ऋषय इत्येतत्प्राणानाह । कुतः । प्राणा वा ऋषय इति सप्तऋषयः प्रणेतारो वै अत इति योजना । तथाच वक्ष्यमाणास्सप्तऋषयः तीरे शुक्ललोहितादिरेखारूपस्थानेषु । तस्य वायोरुपासकास्सन्त आसत इति तृतीयपादस्यार्थ इति भावः । न सप्तऋष्युपास्यत्वमेव वायोरपि तु वागुपास्यता चास्तीति भावेन प्रत्तृत्तं चरमपादमुपादायवागित्वेकपदस्यार्थमाह ॥ वागित्यादिना ॥ वाग्देवी हि प्रसिद्धा । वाचि स्थिता सरस्वती अष्यमी अष्यसंख्यापूरिका । ब्रह्मणा ब्रह्मनाम्ना वायुना संवित्ता ज्ञाता । स स्थूणं वायुं उपास्त इति योज्यम्‌ ॥ 4 ॥ 2 ॥ 3 ॥ ननु ताभिरेनं रुद्रोन्वयत्त इत्यादिना रुद्रादयः प्राणं सेवन्त इत्युक्तार्थे सप्तर्ष्युपास्यत्वबोधकमन्त्रोक्तिः कथमित्यतो मन्सप्तर्षिपदेन रुद्रादय एव विवक्षिता इति भावेन गौतमभरद्वाजादिसऋषिवाचकशब्दैर्योगवृत्त्या रुद्रादय एवाभिधेया इत्याह ॥ इमावेवेति ॥ इमौ इत्युक्तौ कावित्यत प्रागुपासकत्वेन रुद्रोन्वायत्त इत्यादिना निर्दिष्या एवेति भावेनाह ॥ अयमेवेति ॥ प्रागुक्तो रुद्र

?Rएवातिशयेन ज्ञानवात्त्वहेतुना गौतम इत्युक्तः । अयमेव पर्जन्य एव वृष्यिद्वारा वाजमन्नं विभर्तीति भरद्वाज उक्तः । अयमादित्य एव स्वप्रकाशेन विश्ऱ्वज्ञापकत्वहेतुना विश्ऱ्वामित्रशब्दोक्तः । अयमग्निः जं जातं अमितमय=?Rपरिमितमत्तीति व्युत्पत्त्या जमदग्निपदोक्तः । अयमिन्द्र एव वसतामुत्तमत्वहेतुना वसिष्ठपदोक्तः । अयं पृथिवीत्युक्तो देवः कं मेघवृष्यमुदकं शयान एव पिबतीति हेतुना कश्यपशब्दोक्तः । वाक्‌ वालगभिमानिनी द्यौरेवात्रिरत्रिपदोक्ता । कुत इत्यतः व्युत्पत्त्या दर्शयति ॥ वाचा हीति ॥ द्यौरित्युक्तया वाचान्नं द्युस्थैर्हुतमद्यते हि यतोत इति तर्ह्यत्तिरिति स्यात्‌ न त्वत्रिरित्यत आह ॥ अत्तिरिति ॥ अत्तिरिति यत्‌ एतत्‌ अत्रिर्ह वै नाम प्रसिद्धं इति । अत्तीत्यत्रिरिति वाचं गौतमादिनामवत्त्वेन रुद्रादींश्ऱ्च जानतः फलमाह ॥ सर्वस्येति ॥ य एवं वेद स इति शेषः । सर्वस्येति कमर्णि षष्ठी । अद्याभावे कथमत्तृनेत्यत उक्तम्‌ ॥ सर्वमस्येति ॥ 4 ॥ 2 ॥ 4 ॥ शिशुब्राह्मणम्‌ ॥ 2 ॥ उक्ता विद्याः हरेर्मूतर्ामूर्तसारवैलक्षण्यज्ञापूर्वकमनुष्ठिताः फलिष्यन्ति नान्यथेत्यतो मूर्तामुर्तसारस्वरूपोक्तिपूर्वकं हरेः सर्ववैलक्षण्यमाह ॥ द्वे वावेत्यादिना खण्डेन ॥ ब्राह्मणो हरेर्मूर्तममूर्तं चेति द्वे रूपे प्रतिमे । एवेत्यवधरणे । प्रतिमे एव । न स्वरूपे इति । वावेति प्रसिद्धौ । मूर्तामूर्तयोर्विशेषणान्याह ॥ मर्त्यमिति ॥ 4 ॥ 3 ॥ 1 ॥ मर्त्यं स्थितं सच्चेति त्रयं मूर्तस्य विशेषणं अन्यत्‌ त्रयममूर्तस्येति व्यञ्जयन्‌ मूर्तस्वरूपं मूर्तसारं च तावदाह ॥ तदेतदिति ॥ वायोरन्तरिक्षशब्दितश्रीतत्वाच्च यदन्यद्दादिकं तदेवन्मूर्तं मुरेण पापेनाप्तत्वान्मूर्तमित्यच्यते । एतन्मूर्तं मर्त्यं शरीरमानित्वेन तत्त्यागरूपमरणोपेतम्‌ । एतत्‌ मूर्तं स्थितं विष्णवन्यपुमधीनम्‌ । एतत्‌ मूर्तं सत्‌ षद्‌लृ विशरणगत्यवसादनेष्विति धातोर्विशरणावसादनयुक्तम्‌ । उक्तविशेषणानुवादपूर्वकं मूर्तसारमाह ॥ तस्यैतस्येति ॥ य एष आदित्यमण्डलगतस्तपति एष चतुर्मुखः रसस्सारः । कतं तस्य मूतर्स्य सारत्वमित्यतः तत्प्रसिद्धमित्याह ॥ सतो हीति ॥ उपलक्षणं सव्वस्थितत्वमर्त्यत्वविशेषणयुक्तस्य मूर्तशब्दितस्य श्रीब्रह्मवाय्वयन्यजगतः एष सूर्यमण्डलगतविरिञ्चो रसः । हि प्रसिद्धमित्यर्थः ॥ 4 ॥ 3 ॥ 2 ॥ अथ मूर्तोक्त्यनन्तरं अमूर्तमुच्यत इति योज्यम्‌ । वायुः मु ख्यवायुः । भगवदन्तरेव रता क्षिता स्थितेत्यन्तक्षिनाम्नीं श्रीतत्त्वम्‌ । श्रीश्ऱ्चामूर्तं पापास्पृष्यतया मूर्तविरुद्धत्वादमूर्तमुच्यते । तद्विशेषणान्याह ॥ एतदमृतमित्यादिना ॥ श्रियो नित्यमुक्तत्वादमृतत्वम्‌ । वायोर्देहानभिमानादमृतत्वम्‌ । हर्येकनियम्यत्वादेतदमूर्तं यदित्युच्यते । ततत्वात्सर्वज्ञत्वाच्चैतदमूर्तं त्यमित्युच्यते । उक्तानुवादेन तद्रसमाह ॥ तस्येति ॥ एतस्मिन्मण्डले रविबिम्बे यः पुरुषः पूर्णषड्‌गुणो हरिः एष रसः सारः । तस्य ह्येष रस इत्युक्तार्थम्‌ । इति एवं प्रकारेण धिदैवतं मूर्तामूतर्निरूपणमित्यर्थः ॥ 4 ॥ 3 ॥ 3 ॥ अथाधिदैवतं मूर्ताद्युक्त्यनन्तरम्‌ । अध्यात्मं देहे । मूर्तामूर्ततद्रसा उच्यन्त इत्यर्थः । तत्र मूर्तस्वरूपमाह ॥ इदमेवेति ॥ प्राणाद्यदन्यत्‌ यश्ऱ्चायमन्तरात्मन्‌ । आत्मनोन्तराकाशस्तदभिमानि श्रीतत्त्वम्‌ । तस्माच्च यदन्यत्‌ । इदमेव मूर्तमित्यर्थः । यश्‌चक्षुश्ऱ्चक्षुर्गतो विरिञ्चः ॥ 4 ॥ 3 ॥ 4 ॥ दक्षिणेऽक्षन्‌ अक्षिणि । यः पुरुषः पूर्णषड्‌गुणो हरिः । शिष्यं पूर्ववद्धयेयम्‌ ॥ 4 ॥ 3 ॥ 5 ॥ अधिदैवमध्यात्मं चोक्त्वा मूर्तरसस्य हरे रूपं दृष्यान्तेनाह ॥ तस्येति ॥ यथा महारजनं वासः महारजनरक्तं वासस्तथेति सर्वत्र याज्यम्‌ । पाण्ड्‌वोविकं पाण्डुरवर्णं अविलोमकृतं कंबलं यथा तथेत्यर्थः । यथेन्द्रगोपस्तथेति । सकृद्विद्युत्तं युगपदुत्पन्नविद्युन्मण्डलम्‌ । सकृद्विद्युत्तमिव भगवद्रूपं वेदितुः फलमाह ॥ सकृद्विद्युत्तेवेति ॥ य एवं वेद सकृद्विद्युत्तमिव भगवद्रूपं वेद । सकृद्विद्युत्तेव प्रकाशमानास्य श्रीर्भवति । ह वा इति निश्ऱ्चयमाह ॥ अथ मूर्तामूर्तस्वरूपोक्त्यनन्तरम्‌ । अतः भगवतोऽमूर्तसारत्वात्‌ । तस्यामूर्तसारस्य हरेरादेश उपदेश उच्यते ॥ नेति नेतीति ॥ इति न इति नेति योजना । मूर्तवन्नामूर्तवन्नेति तदर्थः । मूर्तामूर्तविलक्षणं हरेरन्यदप्यस्ति किं तथा हरेरुत्तमं चास्ति किमित्यतो नेत्याह ॥ न हीति ॥ इति नेत्युच्यमानं एतस्माद्धरेरन्यन्नास्ति परं च न ह्यस्ति एष एव परः मूर्तर्तामूर्तं त्वपरमेवेति भावः । अथ आदेशानन्तरम्‌ । तस्यामूर्तसारस्य नामधेयम्‌ ॥ सत्यस्य सत्यमितीति ॥ तद्विवृणोति ॥ प्राणा वा इति ॥ प्राणन्तीति प्राणाः मूर्तामुर्तात्मकास्सत्युमच्यन्ते । तेषामेष हरिः सत्यं सत्यत्वप्रद इत्यर्थः ॥ 4 ॥ 3 ॥ 6 ॥ मूर्तामूर्तब्राह्मणम्‌ ॥ अमूर्तरोभगवानित्युक्तं तदुपपादयन्हरावतिस्नेहः कार्य इति भावेनाख्यायिकामाह ॥ मैत्रेयीत्यादिना ॥ याज्ञवल्क्यस्द्वे भार्ये मैत्रेयी कात्यायनी चेति । तत्र मैत्रेयीति सम्बोध्योवाच हेत्याश्ऱ्चर्ये । मैत्रेय्याः प्रियत्वसिद्धयर्थं वा । वचनप्रकामेवाह । अरे मैत्रेयि अहम्‌ । अस्मात्स्थानात्‌ गृहस्थाश्ऱ्चमादुद्यास्यन्‌ उद्गत्य यास्यन्नस्मि । प्रव्रजिष्यन्नस्मि । हन्त हर्षे । ते तवानया कात्यायन्या । अन्तं निर्णयं विभागं करवाणीत्युवाचेति योजना ॥ 4 ॥ 4 ॥ 1 ॥ सा एवमुक्ता मैत्रेयी मैत्रेयी उवाच । ह आश्ऱ्चर्यम्‌ । कथमस्यैवं बुद्धिरिति । हे भगोः भगवन्‌ । यत्‌ यदा । मे मह्यम्‌ । इयं पृथिवी । वित्तेन पूर्णा स्यात्तदा । तेन वित्तपूर्णपृथिवीरूपोपायेन । अमृता मुक्ता स्याम्‌ । कथं किमित्युवाचेत्यर्थः । इति पृष्यो याज्ञवल्क्यो नानेन मुक्ता भवष्यिसीति होवाच । तर्हि क्वोपयोगो वित्तस्येत्यतो मुक्त्यन्यत्रेति भावेनाह ॥ अथेति ॥ अर्थान्तरेऽथशब्दः । यथा लोके

?Rउपकरणवतां गृहारामखट्वाशय्यादिभोगसाधनवतां सुखेन जीवितं जीवनं तथा ते वित्तेन जीवितमेव स्यात्‌ । अमृतस्य मुक्तेश्ऱ्चाशा नास्ति वित्तेनेति होवाच याज्ञवल्क्यः ॥ 4 ॥ 4 ॥ 2 ॥ सा होवेचेत्यादि व्यक्तार्थम्‌ । यदेव मुक्तयुभयत्वने वेद भगवान्‌ । तदेव मे मह्यं ब्रूहीत्यर्थः ॥ 4 ॥ 4 ॥ 3 ॥ प्रियां स्तुवन्नृपदेक्ष्यामि सावधानाभवेत्याह ॥ स हेति ॥ अरे मैत्रेयि त्वं सती पतिव्रता । नः प्रिया प्रीतिविषययिणी । बत हर्षे । नः प्रियं यथा भवति तथा भाषसे । एहि आस्व उपविश । ते तुभ्यम्‌ । मे मम सकाशात्तन्निदिध्यासस्व । चित्ते सम्यग्धारयेत्युवाचेत्यन्वयः ॥ 4 ॥ 4 ॥ 4 ॥ आत्मापरोक्षज्ञानमेव मुक्त्युपाय इति भावेन तत्रादरजननायात्मनो महिमानमाह ॥ स होवाचेति ॥ अरे मैत्रेयि ॥ पत्युः कामाय कामेन व्यत्ययात्‌ । अस्या अहं प्रियस्स्याभितीच्छयेति यावत्‌ । पतिः स्त्रियाः प्रियो न भवति । किन्तु आत्मनो हरेः कामाय कामेन । पतिर्जायायाः प्रियो भवतीत्यर्थः । हरिश्ऱ्चेदयमस्याः प्रियस्स्यादितीच्छति । तदासौ तत्प्रियो भवतीति भावः । एवमेवोत्तरवाक्यानि योज्यानि । तत्र तस्पिष्यपदानामर्थ उच्यते । जायायै जायायाः । पुत्राणां कामाय कामेन । पुत्राः प्रियाः । मातापित्रादेरिति योज्यम्‌ । वित्तस्य वित्ताभिमानिनः कुबेरस्य । वित्तं प्रियं जनस्येति योज्यम्‌ । ब्रह्मणः ब्राह्मणजात्याक्रन्तविरिञ्चस्य । क्षत्रस्य क्षत्रजात्याक्रानतस्य वायोः । लोकानां लोकाभिमानिनाम्‌ । भूतानां पञ्चमहाभूताभिमानिनाम्‌ । सर्वस्य सर्वाभिमानिनो देवस्य मूलप्रकृतेः । यदिच्छया पत्यादयो जायादीनां प्रिया भवन्ति स आत्मा मया द्रष्यव्यः । तद्दर्शनस्य क उपायः तं ब्रूहीति पृच्छन्त्यै मैत्रेय्यै याज्ञवल्क्य आहेति मध्ये योज्यम्‌ । किमाहेत्यत आह ॥ आत्मा वा अर इति ॥ अरे मैत्रेयि । य आत्मा द्रष्यव्यः स श्रोतव्यो मन्तव्यो निधिध्यासितव्य एवेति दर्शने श्रवणादीनि त्रीणि साधनानीति । य्वा एवमात्मनो महिमोक्तौ तर्हि किं मया कार्ममिति मैत्रेय्या जिज्ञासायामाह ॥ आत्मा वार इति ॥ अरे मैत्रेयि । आत्मैव द्रष्यव्यः साक्षात्कर्तव्य इति विधिः । केनोपायेनेति तदीयहृद्गतप्रश्ऱ्नस्योत्तरमाह ॥ आत्मा वार इति ॥ आत्मा द्रष्यव्य इति यदुक्तं मया तत्र श्रवणादीनि त्रीणि साधनानीति आत्मा वा अरे द्रष्यव्य इति वाक्यं विधिपरतयाऽनुवादपरतया च योज्यम्‌ । तथा सति मध्ये शेषो नपेक्षितः । तदाह सूत्रे ब्रहमजिज्ञासेति । ब्रह्मापरोक्षज्ञानाय श्रवणमनननिदिध्यासनरूपा जिज्ञासा कर्तव्येति तदर्थोक्तेः । श्रवणमौपदेशिकवाक्यार्थज्ञानम्‌ । मननं तु श्रुतेर्थे युक्तयनुसंघानम्‌ । निरन्तरचिन्तनं निदिध्यासनम्‌ । दर्शने ध्यानमेव साक्षात्साधनम्‌ । श्रवणमनने तु ध्यानप्रतिबन्धकाज्ञानसंशयविपर्ययनिरासद्वारा तदंगे । तदाह सूत्रे । तन्निर्धारणार्थनियमस्तद्दृष्येः पृथध्यप्रतिबन्धः फलमिति । आत्मज्ञानार्थं तच्छ्रवणादिकमिव कर्मदेवतादिज्ञानार्थमपि तच्छ्रवणादिकं कार्यं किमित्यत आह ॥ आत्मनो वा इति ॥ आत्मनो दर्शनेन श्रवर्णन मननेन विज्ञानेन निदिध्यासनेनेदं सर्वं कर्मदेवतादिकं जगद्विदितं विदितवत्‌ ज्ञातफलं भवति । प्रदानविष्णुज्ञाने अप्रदानज्ञानफलमपि तेन भवतीत्यतो न तच्छ्रवणादि कार्यमिति भावः ॥ 4 ॥ 4 ॥ 5 ॥ कुतो हरेः प्राधान्यमित्यतो जगदाश्रयत्वादिति भावेनान्यथाज्ञानिनोनर्थमाह ॥ ब्रह्मेत्यादिना ॥ B-K-5

?R: जीवः । ब्रह्म प्रागुक्तं ब्रहमशब्दार्थम्‌ । आत्मनो हरेरन्यन्यिधीनत्वेन भगवदधीनत्वेन च न वेदेत्यपि गृह्यते । तेमवं वेदितारम्‌ । ब्रह्म प्रागुक्तं ब्रह्म कर्तृ । परादात्‌ परतो लोका लोकस्यान्धे तमसि स्थापयेदित्यर्थः । एवमग्रेऽपि ध्येयम्‌ । क्षत्रादि पदार्थः प्रागुक्त एव । ब्रह्मादेर्भगवदनाश्रितत्वान्याश्रितत्ववेदिनोनर्थोक्तिर्यदाश्रितत्वोक्त्यथर्ा तदिदानीं भगवदाश्रितत्वमाह ॥ इदं ब्रह्मेति ॥ इदं प्रकृतं ब्रह्मादिसर्वान्तं यत्‌ यत्र यदाश्रितत्वेन वर्तते अयमात्मा आत्माश्रितत्वेनास्त इत्यर्थः ॥ 4 ॥ 4 ॥ 6 ॥ जगत्स्रष्यृत्वाज्जगतस्तदधीनत्वाच्च हरेः प्राधान्यमिति भावेन स्रष्यृत्वं स यथार्न्दैधाग्नेरित्यादिना तदधीनत्वं च सर्वासामित्यादिना विवक्षुस्ततो निर्गतत्वमात्रेण जगतस्तत्कारणकत्वं तदधीनत्वं च कुत इत्यतो दृष्यान्तत्रयेण तद्द्वयमुपपादयति पर्वत्रयेण ॥ स यथेति ॥ वक्ष्यमाणदृष्यान्तो यथेत्यर्थः । दुन्दुर्भेर्हन्यमानस्य सत उत्पन्नान्‌ शब्दान्‌ बाह्यान्‌ तदन्यमुरजकारणजन्यानन्यधीनान्वा ग्रहणाय ग्रहीतुं न शक्नुयात्‌ । किन्तु दुन्दुभेस्तदाघातस्य वा पूर्वभावितया ग्रहणेन स शब्दो गृहीतः तज्जन्यत्वेन तदधीनत्वेन वा गृहीतो गृह्यते । एवं भगवन्तं तदिच्छां वा पूर्वभावितया जानन्तस्तो निर्गतं जगत्‌ तदन्यजन्यत्वेन तदन्याधीनत्वेन वा न गृह्णातीति योज्यम्‌ । अत्र दुन्दुभ्यादिशब्दास्तदभिमानिपराश्ऱ्च ज्ञेयाः । यथा हन्यमानदुन्दुभिशब्दस्तदभिमानिदेवतावशगस्तथेति । योजाना तु प्राग्वदेव । दुन्दुभिस्थानीयो भगवांस्तदाघातस्तानीयेच्छेति ज्ञेयम्‌ । एवमग्रे दृष्यान्तद्वययोजना ध्येयाः ॥ 4 ॥ 4 ॥ 7 ॥ ध्म्य वादनस्य ॥ 4 ॥ 4 ॥ 8 ॥ वीणायै वीणायाः । वाद्यमानायैवाद्यमानाया इत्यर्थः । व्यत्ययात्‌ ॥ 4 ॥ 4 ॥ 9 ॥ दृष्यान्तपूर्वं संक्षेपेण स्रष्यृत्वमाह ॥ स यथार्द्रेति ॥ आर्द्रैधोभिः अर्द्रकाष्ठैः युक्तो अग्निः आर्द्रैधोग्निः स एवार्द्रैदाग्निः सलोकश्चान्दसः तस्मादभ्याहतात्‌ पुंजीकृतात्‌ पृथङ्‌ नानाप्रकाराः धूमाः विष्फुलिंगाश्ऱ्चेत्यपि ग्राह्यम्‌ । विनिश्ऱ्चरन्ति एवं वै एवमेव एतद्वक्ष्यमाणं अस्य महतो भूतस्य सदा

?Rविद्यमानस्य हयास्यरूपस्य ब्रह्मणस्सकाशान्निश्ऱ्वसितं निर्गतं किं तदित्यत आह ॥ यदिति ॥ ऋगाद्या अवान्तरवेदाः इतिहासो नाम पञ्चरात्रं भारतं च मूलरामायणं यथा । इतिहास इति प्रोक्त इत्युक्त्या वक्ष्यमाणश्ऱ्लोकान्यपञ्चरादित्रयम्‌ । विद्या मूलश्रुतिः । उपनिषदः काण्वाद्याः । श्ऱ्लोकाः पञ्चरात्रसंहिताः । सूत्राणि ब्रहमसूत्राणि । व्याख्यानानि वेदव्याख्याः । तासां विस्तरोनुव्याख्यानानीति यत्‌ । एतत्‌ निःश्ऱ्वसितमिति पूर्वेणान्वयः । एवं शब्दप्रपञ्चसृष्यिमुक्त्वाऽर्थसृष्यिमाह ॥ अस्यैवैतानीति ॥ एतानि प्रमाणसिद्धानि महरादीन्यस्यैव हरेस्सकाशान्निःश्ऱ्वसितानि । अनायासेन सृष्यानीत्यर्थः । यद्वा इति यत्‌ एतानि ऋगादीन्यस्यैव निःश्ऱ्वसितानीत्युपसंहारः । अर्थात्मकं जगच्च अस्येव निस्सृतमित्युपलक्ष्यते ॥ 4 ॥ 4 ॥ 10 ॥ मुख्यतस्सर्वाश्रयो भगवानित्येतद्दृष्यन्तेनाह ॥ स यथेति ॥ स वक्ष्यमाणो दृष्यान्तो यथेत्यर्थः । सर्वासामपां समुद्रः वरुणः स्वतो वा एकायनं मुख्यश्रयः । एवमिति दार्ष्यन्तिकोक्तिः । एवं सवर्जगतो भगवान्‌ मुख्याश्रय इत्यर्थः । एवमग्रेऽपि । सर्वेषां संकल्पानामित्यादि सप्त दृष्यन्ता अपि मुख्यतो हरेस्सर्वाश्रयत्वे योज्याः । जगत्प्रतीतिरपीशाधीनेति मध्ये पञ्चभिर्दृष्यान्तैराह ॥ सर्वेषां स्पर्शानामित्यादिना ॥ त्वगेकायनम्‌ । मुख्यप्रतीतिसाधनम्‌ । एवं भगवान्मुख्यस्पर्शप्रतीतिहेतुरिति दार्ष्यान्तिको योज्यः । एवमग्रेऽपि । अध्वनां गतिक्रिणामित्यर्थः ॥ 4 ॥ 4 ॥ 11 ॥ न केवलं संसारे जीवा भगवदाश्रिताः । मुक्तावपीत्येदृष्यान्तेनाह ॥ स यथा सैन्धवेति ॥ स यतेत्युक्तार्थः । सैन्धवखिल्यो घनीभूतलवणखण्डः । उदके समुद्रोदके प्रास्तः प्रक्षिप्तः उदकमनुसृत्य विलीयेत्‌ । उदकानुगुणतया द्रवीभावं प्राप्य नोपलभ्यते । अस्य विलीनस्य सैन्धवखिल्यस्य उद्ग्रहणाय उद्धरणाय उद्धृत्य ग्रहीतुं शक्तः कश्ऱ्चिदपि नैव स्यात्‌ । हेति प्रसिद्धयर्थः कुतस्तत्र विलीनमिति ज्ञायत इत्यत उक्तम्‌ ॥ यतो यत इति ॥ यस्माद्यस्माद्देशादुदकमादीत गृहीत्वा प्राशयेत्‌ तत्र तलिवणमेव लवणरसोपेतमेवोदकं गृह्यते तेन ज्ञायत इत्यर्थः । उक्तानां समुद्रसैन्धवखिल्योदकानां मध्ये कस्य स्थाने कः प्रकृत इत्यतो हरिस्समुद्रस्थानीयः समुद्रजलवत्पूर्वमुक्तः सैन्धवखिल्यवन्नूतनमुक्त इत्याह ॥ एवमिति ॥ अरे मैत्रेयि विज्ञानघनो जीवः एतेभ्यो वादिभ्यस्समुत्थाय उत्पद्य । भूतपरिणामदेहसम्बन्धं प्राप्य निलीयमानानि देहोपादानभूतान्यन्वेव विनश्यति । देहवियोगलक्षमुक्तत्वं प्रतिपद्यते । ततश्ऱ्चेदं महद्भूतमनन्तमपारं पूर्वमुक्ताश्रयं हरिं प्राप्नोति । अत्र समुद्रजलस्थानीयाः पूर्वमुक्ता इत्यपि ग्राह्यम्‌ । सैन्धवखिल्यसाम्यं नूतनमुक्तस्याह ॥ न प्रेत्येति ॥ प्रेत्य मुक्तयनन्तरं स्थितस्य मुक्तस्य संज्ञा मुक्तविषयकसम्यग्ज्ञानमपरोक्षरूपममुक्तानामस्मदानीनां नास्तीत्यरे मैत्रेयि अहं ब्रवीमीति याज्ञवल्क्य उवाच ॥ 4 ॥ 4 ॥ 12 ॥ एवमुक्ता सा मैत्रेयी मुक्तस्य ज्ञानमेव नास्तीत्युक्तवानिति मत्वाऽऽक्षिपतीत्याह ॥ सा होवाच मैत्रेयीति ॥ भगवान्‌ अत्रैव अवश्यज्ञातव्येऽर्थे मा मां अमूमुहत्‌ मोहं प्रापितवानभूत्‌ । कथम्‌ । प्रेत्य मुक्तस्य संज्ञा ज्ञानं नास्तीति परमपुमर्थे मोक्षे ज्ञानाभाववचनं कथं न मोहकं अतो यथावत्तत्स्वरूपं वाच्यमित्युवाचेत्यर्थः । एवमुक्तस्स याज्ञवल्क्यो अहं मोहं मोहकवाक्यं न ब्रवीमि किं तहर्तीत्यत इदं मुक्तजातं विज्ञानाय यथायोग्यं परापरवस्तुविशेषेण ज्ञातुमलं शक्तमेवातो मद्वाक्यस्यामुक्ताज्ञेयत्वमेवार्थ इति भावः । व्याख्यातैषा श्रुतिरुत्क्रान्तिपादीयानुव्याख्यानसुधयोः ॥ 4 ॥ 4 ॥ 13 ॥ मुक्तावात्ममात्रावशेषेण द्वितीयस्याभावाज्ज्ञानाभाव एव मुक्तस्येति वदतां मतेऽतिप्रसंगं वक्तुं व्यतिरेकव्याप्तिं तावदाह ॥ यत्रेति ॥ यत्र यदा द्वैतं द्वयोर्भावः द्विता भेदः तस्या इदं द्वैतं भिन्नं वस्तु द्वैतमिव भिन्नमिव परतन्त्रं भिन्नं वस्तु भवतीतीव शब्दः पारतनत्ऱ्यार्थः स्वरूपकथनायोक्तो न तु व्याप्तिशरीरप्रवेशितया । तत्‌ तदा इतरः पुमान्‌ इतरं गन्धादिकं जिघ्रतीत्यादि ज्ञेयम्‌ । यत्र हीति हि शब्दो व्याप्तेरदुष्यतां द्योतयति । यदर्थं व्याप्तिरुक्ता तं प्रसंगमाह ॥ यत्र वा इति ॥ यत्र यदि मुक्तौ अस्य ज्ञानिनः सर्वं करणादिकमात्मैवाभूत्‌ । स्वव्यतिरेकेण किमपि नासीत्‌ तत्तर्हि केन करणेन किं जिघ्रेदित्यादि ध्येयम्‌ । गन्धादिविषयभोगो न स्यादित्यर्थः । येनेश्ऱ्वरेण इदं सर्वं जीवं विजानाति तं हरिं केन विजानीयात्‌ तज्ज्ञानं च न स्यादित्यर्थः । विज्ञातारं स्वात्मनं केन विजानीयात्‌ । मुक्तानतरं च केन विजानीया । अतो निर्विशेषज्ञानशून्यात्ममात्रावशेषो न मोक्षो पुमार्थत्वापत्तेरिति भावः । व्याख्यातैषापि श्रुतिस्तत्त्वनिर्णयानुव्याख्यानादौ ॥ 4 ॥ 4 ॥ 14 ॥ चतुर्थं मैत्रेयीब्रह्मणम्‌ ॥ स्वहृदिस्थविष्णूपासनमेव मुक्तिहेतुर्न बहिष्ठोपासनमित्याद्येन ब्राह्मणेनोक्तम्‌ । तच्च जितेन्द्रियस्यैव भवतीतीन्द्रियजयहेतूपास्त्यर्थविद्या द्वितीयेनोक्ता मूर्तामूर्तमूर्तसारविलक्षणतया भगवज्ज्ञानिनो विद्याः फलदा इति भावेन तृतीयब्रह्मणेन तच्चतुष्ययोक्तिपूर्वं तत्त्रियवैलक्षण्यं हरेरुक्त्वा चतुर्थेऽमूर्तसारत्वमुपपादयंस्तत्र हरावति स्नेहः कार्य इत्याद्युक्तम्‌ । अत्र तु आद्यब्राह्मणे अन्तःस्थोपास्तेः बहिष्ठभगवदुपास्तितो मुक्तिहेतुत्वोक्त्यान्तःस्थबहिष्ठयो रूपयोः प्रतीतभेदं निवायन्‌ तयोरैक्यविषयां विद्यामाह ॥ इयमित्यादिना ॥ इयं पृथिवी तदभिमानिनी सर्वेषां मूतानां मधु । मधुवत्सुखदा अस्यै पृथिव्यै अस्याः पृथिव्याः सर्वाणि भूतानि मधु । शुश्रूषया सुखदानि यश्ऱ्चा यमस्यां पृथिव्यां पृथिव्यभिमानिन्यां तेजोमयोऽनन्ततेजाः

?R। अमृतमयो नित्यः पुरुषोस्ति यश्ऱ्चाध्यात्मं शारीरः शरीरमानिस्थः अयमेव सः पृथिव्यभिमानिस्थः एवकारेण न मात्रयापि विशेषोस्तीत्युच्यते तयोर्मूलरूपेण चाभेदमाह ॥ योयमात्मेति ॥ स्स्थितः सः स कः योयमात्मा हयशीर्षाख्यः स एवेति योजयन्ति । आत्मस्वरूपमाह ॥ इदममृतमिति ॥ अमृतं नित्यं ब्रह्म गुणपूर्णं सर्वमनूनं सर्वगमित्यर्थः । एवमग्रेऽपि योजना ध्येया ॥ 4 ॥ 5 ॥ 1 ॥ आपः अबभिमानिनी रैतसो रेतोमानिस्थो रैतसनामा हयास्यः। 4 ॥ 5 ॥ 2 ॥ अयमग्निः अग्न्यभिमानी वाङ्मयो वागभिमानिस्थः ॥ 4 ॥ 5 ॥ 3 ॥ वायुः प्रवहः । प्राणः त्वगिन्द्रियमानिप्राणवायुस्थः ॥ 4 ॥ 5 ॥ 4 ॥ आदित्यश्ऱ्चेतनश्ऱ्चाक्षुषश्ऱ्चक्षुर्मानिगतः ॥ 4 ॥ 5 ॥ 5 ॥ दिशः दिङ्मानिन्यः श्रौत्रः श्रोत्रमानिगतः प्रातिश्रुत्कः प्रतिृणोतीति प्रातिश्रुत्कनामा ॥ 4 ॥ 5 ॥ 6 ॥ चन्द्रश्ऱ्चेतनः मानसो मनोभिमानिस्थः ॥ 4 ॥ 5 ॥ 7 ॥ विद्युत्‌ विद्युन्मानी तैजसः देहगततेजोभिमानिस्थः 4 ॥ 5 ॥ 8 ॥ स्तनयित्नुः स्तनयित्नुमानौ मुख्यवायुः शाब्दः देहस्थशब्दमानिमुख्यवायुरुपे स्थितः सौवरः स्वरस्थवायुरूपविशषगतः ॥ 4 ॥ 5 ॥ 9 ॥ आकाश आकाशमानी हृद्याकाशः हृदयाकाशमानिस्थः ॥ 4 ॥ 5 ॥ 10 ॥ धर्मः धर्ममानी यमः । धार्मः धर्माभिमानियमगतः ॥ 4 ॥ 5 ॥ 11 ॥ सत्यम्‌ । सत्यमिति सत्याभिमानिवायोरूपान्तरम्‌ । सात्यः सत्यमानिवायुरूपस्थः ॥ 4 ॥ 5 ॥ 12 ॥ मानुषं मनुष्यामिमानी स्वायम्भुवमनुः मानुषः स्वायम्भुनुस्थः ॥ 4 ॥ 5 ॥ 13 ॥ आत्मा विरिञ्चः अध्यात्ममात्मा जीवगतः ॥ 4 ॥ 5 ॥ 14 ॥ जीवगतत्मनो हरेर्महिमानमाह ॥ स वा इति ॥ सर्वेषां भूतानां जीवानाम्‌ । सर्वेषामात्मशब्दितविरिञ्चानां चेत्यपि ग्राह्मम्‌ । अधिपतिः । आधिक्येन पालनात्‌ अधिपातेः राजा स्वामी कथमित्यतो दृष्यान्तेनैतद्वयनक्ति ॥ तद्येथेति ॥ तद्वक्ष्यमाणं निदर्शनं यथा । च शब्दावन्योन्यसमुच्चये । हरिरधिदैवमध्यात्मं रूपद्वयेन जगद्धत्त इत्युक्तार्थोपपादनाय रथनाभौ च रथनेमौ चेति दृष्यान्तद्वयोक्तिः । नाभिरतर्वस्तु । नेमिर्वाह्यवस्त्विति ज्ञेयम्‌ । आत्मानो विरिञ्चाः ॥ 4 ॥ 5 ॥ 15 ॥ इयं मधुविद्याऽतिभद्रा पूर्वैरनुष्ठितत्वादुपदिष्यत्वाच्चोत्याह ॥ इदमिति ॥ तदिदं मधु । मधुविद्यां दध्यङ्‌नामा मुनिराथर्व

?Rणोथर्वगोत्रजोश्ऱ्विभ्यामुवाच वै प्रसिद्धमेतत्‌ । प्रसिद्धत्वमेवाह ॥ तदित्यादिना ॥ पश्यन्ज्ञानी ऋषिः मन्त्रद्रष्या तदेतत्‌ दध्यङ्‌ङश्ऱ्विभ्यामुवाचेत्येतत्‌ । उवाचेत्यर्थः । कथमित्यतस्तद्वाक्यं पठति ॥ तद्वामिति ॥ हे नरानरौ । अश्ऱ्विनौ वां युवयोः यदुग्रं दंसः दर्धाचेः पूर्वशिरच्छेदनाश्ऱ्वशिरःसन्धानादिरूपमुग्रं कर्मयच्च दध्यङ्‌ङाथर्वणोश्ऱ्वस्य शीर्ष्णा ईं शीर्ष्ण्येव वां युवाभ्यां मधु मधुविद्यां प्रोवाचेति तदुभयं सनये मोक्षादिपुमर्थलाभाय आविष्कृणोमि । कथं तन्यतुः स्तनयित्नुः वृष्यिं न वृष्यिमिव ॥ 4 ॥ 5 ॥ 16 ॥ अत्रैवार्थे मन्त्रान्तरं वक्तुमाह ॥ इदमिति ॥ किमवोचदित्यतो मन्त्रं पठति ॥ आथर्वणायेति ॥ हे दस्रौ शत्रुभेदकौ अश्ऱ्विनौ युवां आथर्वणशय दधीचे अश्ऱ्व्यं अश्ऱ्वसम्बन्धिशिरः प्रत्यैरयतं सन्धितवन्तौ स्थः । सः न्धिताश्ऱ्वशिराः दध्यङ्‌ ऋतायन्‌ युवयोर्मधुविद्यां वक्ष्यामीति प्राक्‌ प्रतिज्ञातं सत्यं कुर्वन्वां युवाभ्यां मधु मधुविद्यां यत्त्वाष्य्रम्‌ । त्वष्युः पुत्रेण विश्ऱ्वरूपेण इन्द्रायोक्तं कक्ष्यं नारायणकवचं तदपि प्रवोचत्‌ प्रावोचत्‌ । अडभावश्छान्दसः । इन्द्रो हि दधीचिं प्रतीमां विद्यां परस्मै ब्रूयाश्ऱ्चेत्तवशिरः छेत्स्यामीत्युक्तवान्‌ । अश्ऱ्विभ्यां च दधीचिं प्रतीमां विद्याभावाभ्यां ब्रूहीत्युक्ते दधीचिरिन्द्रोक्तमुक्त्वा तूष्णीमासीत्‌ तदाश्ऱ्विनौ तर्हि त्वं रक्षिष्याव इत्युक्त्वा तस्य शिरः छित्वाऽन्यत्र प्रस्थाप्याश्ऱ्वशिरः समादाय दधीचेः सन्धित्वाऽश्ऱ्वशिरसैव तेन विद्यायां प्रोक्तायामिन्द्रेण च तदश्ऱ्वशिरसि छिन्ने पुनर्यथापूर्वं तदीयमेव शिरः सन्धितवन्ताविति कथा ज्ञेया ॥ 4 ॥ 5 ॥ 17 ॥ यश्ऱ्चायमध्यात्मं शारीर इति सर्वशरीरेषु हरिस्तिष्ठतीत्युक्तेर्थे मन्त्रं वक्तुमाह ॥ इदमिति ॥ पश्यन्नृषि तदेतद्भगवतस्सर्वशरीरस्थत्वमुवाच । तं मन्त्रमाह ॥ पुर इति ॥ स पुरुषः द्विपदः पुरः शरीराणि । चक्रे । चतुष्पदः पुरः । शरीराणि चक्रे । ततः पक्षीभूत्वा द्विपदः पुरः चतुष्पदश्ऱ्च पुरः आविशत्‌ । पुरुषो जीव इति भ्रमनिरासाय पुरुषपदं निर्वक्ति । स वा अयमिति । स वा अयं हरिः पुरुष इत्युच्यते । कुतः । यतस्सर्वुा पूर्षु देहेषु । पुरि हृदि शयः । न केवलं पुरिस्थितिमात्रं किन्तु अन्तर्बहिश्ऱ्चास्तीत्युच्यते ॥ नैनेनेति ॥ एनेन अनेनात्मना किञ्चन वस्तु । अनावृतमन्तरव्याप्तं न । किन्तु व्याप्तमेव । असंवृतं अनाच्छादितं न । आच्छादितमेव । बहिर्व्याप्तमेवेत्यर्थः ॥ 4 ॥ 5 ॥ 18 ॥ अध्यात्ममात्मेति हरेस्सर्वजीवस्थत्वमुक्तं तत्‌ दधीचाऽश्ऱ्विभ्यामुक्तं चेत्याह ॥ इदमिति ॥ तदिदं सर्वजीवस्थत्वं । तत्र मन्त्रमाह ॥ रूपमिति ॥ जीवो हरे रूपं रूपं प्रति प्रतिरूपः प्रतिबिम्बो बभूव । तत्‌ बिम्बरूपं अस्य जीवस्य । प्रतिचक्षणाय । साक्षात्काराय भवति । नन्वेकस्य कथं बहुजीवेषु बिम्बतया स्थितिरित्यत आह ॥ इन्द्र इति ॥ इन्द्रः परमेश्ऱ्वरः । मायाभिः स्वसाज्ञर्थ्यैः । पुरुरूपः अनन्तजीवबिम्बरूपः । ईयते ज्ञायते । अस्येन्द्रस्य हरयो हरिनामकानि रूपाणि दशशतानि । युक्ताः संयुक्ताः । व्यूहशः

?Rसन्तीति । हि प्रसिद्धम्‌ । इन्द्ररथस्थाश्ऱ्वप्रतीतिं निवारयितुमाह ॥ अयं वा इति ॥ हरयो हरिनामकानि । दश मत्स्यादीनि । च शब्दान्नारायणादीनि शतानि अयमिन्द्रः सहस्राणि विश्ऱ्वादीनि । अयं बहूनि परादीनि । अयमनन्तानि अजितादीनि । तस्य हरेर्महिमान्तरमाह ॥ तदेतदिति ॥ य आत्मा । यदात्मा । सर्वगतं ब्रह्म तदेतद्ब्रह्म गुणपूर्णम्‌ । अपूर्वं स्वस्मादन्यत्‌ पूर्वं नेत्यपूर्वमनादीत्यर्थः । अनपरमनन्तम्‌ । अनन्तरं सर्वस्यापि स्वयमेवान्तरम्‌ । अबाह्यं स्वस्मादन्यद्बाह्यं नेत्यबाह्यम्‌ । सर्वस्मादपि स्वमेव बाह्य इत्यर्थः । अयमात्मा सर्वमनुभवतीति सर्वानुभूः । इत्यनुशासनमिति ॥ 4 ॥ 5 ॥ 19 ॥ पञ्चमं मधुब्राह्मणम्‌ ॥ 5 ॥ अध्यायद्वयोक्ता विद्याः प्रवर्तकऋषिज्ञानपूर्वमनुष्ठिताः फलदाभवन्तीत्यतः प्रवर्तकऋऋनाह ॥ अथ वंश इत्यादिना ॥ गुरुशिष्यपरम्परारूपो वंशो निरूप्यत इत्यर्थः । अत्र प्रथमान्तैरुपदेश्यानां पञ्चम्यन्तैरुपदेष्यृणां निर्देशो ज्ञेयः । पाराशर्यात्‌ विप्रभार्यायां पराशराज्जातात्‌ वेदव्यासभिन्नात्कस्माच्चिदित्यर्थः । पाराशर्यो जातूकण्यर्ादित्यत्राप्येवं ध्येयम्‌ । परमेष्ठी ब्रह्मा । ब्रह्मणो हयग्रीवात्‌ ब्रह्म स्वयम्भु स्वतन्त्रम्‌ । ब्रह्मणे नम इदित वेदपुरुषवाक्यम्‌ ॥ इति षष्ठंवंशब्राह्मणम्‌ ॥

इति श्रीकाण्वोपनिषदर्थसंग्रहे राघवेन्द्रयतिकृते चतुर्थोऽध्यायः ॥ 4 ॥ 6 ॥

********************************************************************************

पञ्चमोऽध्यायः ॥

भगवानेव सर्वोत्तमज्ञः सर्वगुणपूर्णः सर्वमुमुक्षूपास्यो मोक्षदश्ऱ्चेत्यध्यायद्वयोक्तमृषिभिर्मीमांसया समर्थितमित्याहानेनाध्यायेन । तत्रादौ मीमांसाप्रकारमेवाख्यायिकयाह ॥ जनको ह वैदेह इति ॥ विदेहगोत्रजो वैदेहः । जनको नामतः बहुदक्षिणेनेति बहुव्रीहिः । ईजे अयजत्‌ । ह प्रसिद्धं तत्र तस्मिन्यज्ञे कुरुपाञ्चालानाम्‌ । कुरूणां पाञ्चालानां देशानां सकाशात्‌ । ब्राह्मणा अभिसमेताः । मिलिता बभूवुः । विजिज्ञासा । विशेषेण ज्ञातुमिच्छा । किमिति येषां ब्राह्मणानां मध्नूचानतमोऽतिशयेन ब्रह्मज्ञानी कस्स्वित्‌ को वा इति विजिज्ञखासा बभूवेत्यर्थः । स ह जनको गवां सहस्रमवरुणोद । यज्ञवाटसमीपे मिलितं चकार । तासामेकैकस्या गोव्यक्तेः शंगयोः दशदशपादाः । पलस्य चतुर्थो भागः पाद इत्याहुः । सुवर्णस्य दशदशपादाः प्रतिशृंगं दशपादा आबद्धा बभूवुः ॥ 5

॥ 1

॥ 1

॥ हे ब्राह्मणाः भगवन्तः पूज्या इति सम्बोध्य । वो युष्माकं मध्ये यो ब्रह्मिष्ठः स एता गाः उदजताम्‌ । गृह्णात्विति तानुवाच हेति योजना । न दधृषुः आतत्मनो ब्रह्मिष्ठत्वबुद्धया गोग्रहणे धैर्यवन्तो नाभूवन्‌ । अथानन्तरं याज्ञवल्क्यो ह किल स्वं स्वकीयमेव ब्रह्मचारिणमुवाच । हे सोम्य सोमपानार्ह । (सा)सोमश्रवनामन्‌ एता गाः उदज । आहर । मद्गृहं प्रति नयेत्युवाचेत्यर्थः । सोमश्रवा इत्यामन्त्रणे प्लुतिः । ता गाः उदाचकार । आचार्यगृहं प्रति नीतवान्‌ । आह्वयामसेति वा । नोस्माकं मध्ये अयं ब्रह्मिष्ठ इति कथं ब्रवीतीत्येव ते चुक्रुधुः । अथ तेषामेवं क्रोधानन्तरं जनकस्याश्ऱ्वलो नाम होता बभूव ह । स हैनं याज्ञवल्क्य उवाच किमिति । तदाह ॥ नम इत्यादि ॥ न वयं ब्रह्मिष्ठाः किन्तु ब्रह्मिष्ठाय नमस्कुर्म इति । तर्हि कथं ब्रह्मिष्ठपणभूता गा उदजध्वमित्यतो गोकामा इति । गोकामा एव वयं स्मो अतो गोग्रहणं कृतवन्त इत्यर्थः । एतेन ज्ञानिनो ब्रह्मिष्ठेषु प्रावण्येन भाव्यमिति सूचितम्‌ । तं याज्ञवल्क्यं तत एव धाष्यर्याभावादेव अहं ब्रह्मिष्ठो भवाम्येवेत्यवचनेन धाष्यर्याभावं ज्ञात्वा प्रश्ऱ्नं कतर्ुं मनो दध्र इत्यथः ॥ 5

॥ 1

॥ 2

॥ याज्ञवल्क्येति सम्बोध्योवाच होताऽऽश्ऱ्वल इत्यनुषंगः । यदिदं सर्वं प्राणिजातं मृत्युनाप्तम्‌ । मृत्युनाभिपन्नम्‌ । ग्रस्तं च केन पुंसा यजमानो मृत्योराप्तिमतिमुच्यत इत्युवाचेत्यन्वयः । इति पृष्यो याज्ञवल्क्य आह ॥ होत्रेति ॥ होत्रर्त्विजा । अग्नि वाचा होत्रर्त्विगादिनामकेन होत्रर्त्विगग्निवाक्‌स्थितेन वासुदेवरूपेण हरिणोपासितेन यजमानो मृत्योरतिमुच्यत इत्युवाच याज्ञवल्क्य इति योज्यम्‌ । होतरि वाचि च स्थितरूपयोरन्योन्यं भेदः किमित्यतो नेत्याह ॥ वाग्वा इति ॥ वाङ्‌नामा वागन्तस्स्थो वासुदेवरूपो हरिरेव यज्ञस्य होता होतृनामा होतृसंस्थो वै प्रसिद्धः । वागन्तस्स्थस्याग्निस्थस्य च रूपस्याभेदमाह ॥ तद्येयमिति ॥ सा प्रसिद्धा चासौ या च तद्येयं वाक्‌ वाङ्‌नामा । वागन्तस्स्थो हरिः सोयमग्निः अग्निनामाग्निस्थः । तस्य होतृस्थेनाभेदमाह ॥ स होतेति ॥ सोऽग्निस्थोग्निनामको हरिः होता । होतृसंस्थो होतृनामकः वागादिस्थस्य कथं मोचकतेत्यत आह ॥ स इति ॥ स वागादिस्थः मुक्तिः मुक्तिदः । न केवलं मुक्तिदत्वमात्रं साऽतिमुक्तिः । अतिशयितमुक्तिदश्ऱ्च विधेयापेक्षया सेति निर्देशः । मनुष्येभ्यो देवानामधिकसुखदोपीत्यर्थः । एवमग्रेतनखण्डत्रययोजना ध्याया ॥ 5

॥ 1

॥ 3

॥ अहोरात्राभ्याम्‌ । तत्कृतविकाराभ्यामित्यर्थः । अध्वर्युणा ऋत्विजा । चक्षुषादित्येनेत्यस्याध्वर्य्वादिगतेन तन्नामकेन संकर्षणाख्यरूपेणोपासितेनेत्यर्थः ॥ 5

॥ 1

॥ 4

॥ पूर्वपक्षेति ॥ पूर्वपक्षापरपक्षकृतविकाराभ्यामित्यर्थः । उद्गात्रा ऋत्विजा । वायुना प्राणेनेत्यस्योद्गत्रादिस्थेन प्रद्युम्नाख्यरूपेणोपासितेनेत्यर्थः ॥ 5

॥ 1

॥ 5

॥ यदिति । यद्यस्मादिदमन्तरिक्षं आकाशमनारम्भणमनालम्बनमिव भासते अथ तस्मात्‌ केनाक्रमेण कर्मणा साधनेन यजमानः स्वर्गं लोकं मोक्षमाक्रमते प्राप्नोति ब्रह्मणा ऋत्विजा मनसा चन्द्रणेत्यस्य ब्रह्मर्त्विगाद्यन्तर्गतेन

?R

अनिरुद्दाख्यरूपेणोपासितेनेत्यर्थः । निगमयति ॥ इत्यतिमोक्षा इति ॥ अतिशयितमोक्षहेतूपास्तय इत्युक्त्वा इत्यर्थः । अथ मोक्षहेतूपास्त्युक्त्यनन्तरं देवपदप्राप्त्यादिरूपसम्पत्साधनभूतोपास्तयो निरूप्यन्त इत्यर्थः । सम्पद्धेतुत्वादुपास्तयः सम्पच्छब्देनोक्ताः ॥ 5

॥ 1

॥ 6

॥ याज्ञवल्क्येति सम्बोध्योवाच किल होताश्ऱ्वलः । किमिति । कतिभिः कियतीभिः ऋग्भिः अयं होता अद्य अस्मिन्यज्ञे शंसनाख्यं कर्म करिष्यतीति । उत्तरमाह याज्ञवल्क्यः ॥ तिसृभिरिति ॥ पुनः पृच्छत्याश्ऱ्वलः ॥ कतमास्तास्तिस्र इति ॥ उत्तरमाह ॥ पुरोनुवाक्येत्यादि ॥ यजनात्पूर्वं जप्या पुरोनुवाक्या यजनावसाने जप्या याज्या । होमानन्तरं जप्याशस्येति टीकोक्तिः । पुरस्ताल्लक्ष्या पुरोनुवाक्या । उपरिष्याल्लक्ष्या याज्येति ज्ञिकाः । एतासां फलं पृच्छति ॥ किं ताभिरिति ॥ जयति प्राप्नोतीति पप्रच्छत्यर्थः । उत्तरमाह ॥ यत्किञ्चिदिति ॥ ताभिरित्यनुषज्यते । वासुदेवाख्यविष्ण्वधिष्ठनभूताभिः तत्र स्थितवासुदेवाख्यरूपेण स्मृतेनेति यावत्‌ । यत्किञ्चेदं प्राणभृत्‌ प्राणिजातं तज्जयति । प्राणभृतामीशो भवतीत्यर्थः ॥ 5

॥ 1

॥ 7

॥ याज्ञवल्क्येत्यादि प्राग्वत्‌ । या हुताः अग्नौ प्रक्षिप्ताः समिदादयः उज्ज्वलन्ति या हुता आहुतयश्ऱ्चरुप्रभृतयो अतिनेदन्ते । अतीव शब्दं कुर्वन्ति । या आहुतयः पयस्सोमरसादयः । अधि अधोगत्वा शेरते भूमावासते । फलं पृच्छति ॥ किमिति ॥ ताभिः संकर्षणाख्यरूपेण अधिष्ठिताभिः । तिसृभिराहुतिभिः । तद्गतसंकर्षणाख्यरूपेणेति यावत्‌ किं । जयतीति पृष्य उत्तरमाह ॥ या इति ॥ या आहुतयो हूयमानहविः पदार्थाः उज्नजवलन्ति । ताभिः तन्निष्ठसंकर्षणरूपेण स्मृतेन देवलोकमेव जयति । देवलोकाधिपत्यं लभते । कथमित्यत उज्ज्वलनत्वसाम्यादित्याह ॥ दीप्यत इव हीति ॥ एवमग्र्रेऽपि ध्येयम्‌ । पितृलोकः अतीव अत्यन्तं नेदते नादवानिव । अध इव हि । नरकाद्यधोगतिसाम्यनिरासायेव शब्दः । देवलोकपितृलोकापेक्षयाधस्तन इत्यर्थः ॥ 5

॥ 1

॥ 8

॥ यज्ञं दक्षिणतो । दक्षिणभागे स्थितो ब्रह्मा । अद्य यज्ञं कतिभिः देवताभि;

गोपायतीत्युवाचाश्ऱ्वल इत्यर्थः । शिष्यं प्राग्वत्‌ ॥ मन एवेति ॥ मनोभिमानी चतुर्मुख एवेत्यर्थः । तं स्तौति ॥ अनन्तं वा इति ॥ तदानन्त्यमुपपादयति ॥ अनन्ता इति ॥ यदधिष्ठिता विश्ऱ्वेदावा अप्यनन्ताः किमु मनोनन्तमिति निश्ऱ्चयेन विमोक्ष्यत्वाद्वा अनन्ताख्यविष्णूपासकत्वाद्वा अनन्ता विश्ऱ्वेदेवा इत्यर्थः । एवं ज्ञानिनः फलमाह ॥ अनन्तमिति ॥ तेन मनोभिमानिचतुर्मुखस्थेन तदधिष्ठनदेवेषु विद्यमानेन च प्रद्युम्नाख्यरूपेणोपासितेन तदुपासनयेति यावत्‌ । अनन्तं अनन्ताख्यविष्णुलोकं जयति प्राप्नोति ॥ 5

॥ 1

॥ 9

॥ स्तोत्रियाः सामारूढा ऋचः ता ऋचः । अध्यात्मं याः यदभिमन्यमानाः ता देवताः कतमा इत्यर्थः ॥ किं ताभिरिति ॥ प्राणापानव्यानरूपदेवताभिः पुरोनुवाक्याद्यधिष्ठत्रीभिरित्यर्थः । पुरोनुवाक्यया पुरोनुवाक्यामानिप्राणगतेन । याज्यया याज्यामान्यपानस्थेन । शस्यया शस्यामानिव्यापस्थेनानिरुद्धेनोपासितेनेत्यर्थः । ततः स्वकृतप्रश्ऱ्नानामुत्तरस्योक्तत्वादेव उपररम । तूष्णीं बभूव ॥ 5

॥1

॥ 10

॥ प्रथममाश्ऱ्वलब्राह्मणम्‌ ॥ अथाश्ऱ्वलोपरत्यनन्तरं जरत्कारोरपत्यं जारत्कारवः ऋतभागस्यापत्यं आर्तभागः । गृह्णन्ति विषयानिति ग्रहाः इन्द्रियाणि कति । अतिग्रहाः विषयाश्ऱ्च कति कियन्त इत्युवोचेत्यन्वयः उत्तरमाह ॥ अष्याविति ॥ संख्येयान्पृच्छति ॥ एत इति ॥ एते अष्यौ ग्रहा अष्यावतिग्रहाश्ऱ्चोक्ताः । ते कतमे कीदृश इत्युवाचेत्यन्वयः ॥ 5

॥ 2

॥ 1

॥ उत्तरमाह ॥ प्राणा वा इति ॥ प्राणः घ्राणेन्द्रियं ग्रहः । अतिग्रहत्वप्रदर्शनपूर्वं प्राणाख्यातिग्रहं दर्शयति ॥ स इति ॥ स प्राणोपानेनापानाभिमन्यमानेन गन्धेनातिग्राहेण गृहीतः । अनेन घ्राणं गृह्णाति स्वाभिमुख्येनाहरतीति गन्धोतिग्रह इति गन्धस्य घ्राणातिग्रहत्वमुक्तं भवति । प्राणस्य ग्रहत्वं दर्शयति ॥ अपानेनेति ॥ अपानाभिमन्यमानेन घ्राणेन गन्धान्‌ जिघ्रति जीवः हि यस्मात्तस्मात्प्राणो ग्रह इत्यर्थः ॥ 5

॥ 2

॥ 2

॥ वाग्वा इति ॥ प्राग्वद्योजना । एवमग्रेऽपि । इत्येते अष्यौ ग्रहा अष्यावतिग्रहा इत्येतत्पर्यन्तं योजना ध्येया ॥ 5

॥ 2-3-4-5-6

॥ कामेन काम्येन ॥ 5

॥ 2-7-8

॥ उपसंहरति ॥ इत्येतेष्याविति ॥ 5

॥ 2

॥ 9

॥ प्रष्यव्यान्तरं पृच्छति ॥ याज्ञवल्क्येति ॥ यदिदं प्रमितं सर्वं यस्य मृत्योरन्नं स मृत्युः का देवता । स च मृत्युर्यस्या देवता अन्नं सा च देवता केति योजना । आद्यस्त्तरमग्निरिति । द्वितीयस्योत्तरं स इति । अत्रैके सोग्निरपां अबभिमानिनः सूर्यस्यान्नमिति वा अग्निपदेन चतुर्मुखोप्शब्देन विष्णुरिति वार्थ इत्हुः । एतज्ज्ञानिनः फलमाह ॥ अपपुनरिति ॥ अपमृत्युं पुनर्मृत्युं पुनर्मृतिं च जयति अतक्रामति । मुक्तो भवतीति यावत्‌ । य एव वेदेति योज्यम्‌ ॥ 5

॥ 2

॥ 10

॥ मनुष्यो ज्ञानी निर्याणकाले किं ब्रह्मनाड्या प्राणैस्सह गच्छति उत यावच्छरीरलयमत्रैव स्थित्वा तल्लये पश्ऱ्चाद्गच्छतीति पृच्छति ॥ याज्ञवल्क्येति ॥ अयमात्मत्वरूपैकगुणोषासको ब्रह्मज्ञानी पुरुषो यत्र यदा म्रियते तदा अस्माज्ज्ञानिदेहात्‌ प्राणा वागादीन्द्रियाभिमानिनः उत्क्रमन्ति ॥ आहो नेति ॥ मृतिकाले इन्द्रियाभिमानिभिस्सह ब्रह्मज्ञानीब्रहमनाड्योत्क्रामत्युत नेति प्रश्ऱ्नार्थः ॥ नेति होवाचेति ॥ अत्रैव समव(नी)लीयन्ते । यावच्छरीरनाशमत्रैव शरीरे तिष्ठन्ति सज्ञानी उच्छ्वयति स्थूलदेहो

?R

भवति । आध्मयति । बाह्मवायुना पूरितो भवति । आध्मातो मृतो निश्ऱ्चेष्यः शेते । एवं प्रारब्धफलभूतं देहोच्छूनतादिकमनुभूय पश्ऱ्चान्मुक्तिं गच्छतीत्यर्थः ॥ 5

॥ 2

॥ 11

॥ मुक्तौ विशेषं पृच्छति ॥ याज्ञवल्क्येति ॥ अयं पुरुषो ब्रहमज्ञानी यत्र यदा म्रियते मुक्तो भवति तदा एनं जीवं किं न जहाति न त्यजतीत्युवाचेत्यन्वयः । उत्तरमाह ॥ नामेतीति ॥ कुत इत्यत आह ॥ अनन्तमिति ॥ नाम्नोनन्तत्वं कुत इत्यतस्तद्वाच्यनां देवानामनन्ततत्वादित्याह ॥ अनन्ता वा इति ॥ ब्रहमरुद्रादिदेवानामनन्तत्वात्तन्नामान्यप्यनन्तनीत्यर्थः । एतज्ज्ञानिनः फलमाह ॥ अनन्तमेवेति ॥ य एवं वेदेति शेषः ॥ 5

॥ 2

॥ 12

॥ इदानीं साधारणमृतिप्रकारं पृच्छति ॥ याज्ञवल्क्येति ॥ यत्र यदा । वाक्‌ वागभिमानी अग्निं अधिदैववभूतं मूलरूपमप्येति प्राप्नोति । वातं देहस्थवाय्वभिमानी प्राणः मूलरूपम्‌ । एवं चक्षरित्यादावपि ध्येयं । अद्यित्मगतवागादिदेवानामधिदैवप्राप्तिर्भागश एव भगशस्तु जीवेनेति ज्ञेयम्‌ । तथाच सूत्रम्‌ । अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वादिति । आत्मा देहप्रेरकतया हृदिस्थं हरे रूपं आकाशं बहिर्व्याप्तं स्वकीयं रूपं लोहितं रेतश्ऱ्च तदुभयमानिद्वयं अप्सु निधीयते तदाऽयं पुरुषो जीवः क्व भवति । कुत्रस्थाने तिष्ठतीत्युवोचेत्यन्वयः । इति पृष्यस्योत्तरं वक्तुं तस्यातिगोप्यत्व ज्ञापनायोपाद्धातमाह ॥ आहरेति ॥ हे सोम्य हस्तमाहर । गृहाण देहीति वा । हे आर्तभाग । आवामेव एतस्यैतत्‌ त्वत्पृष्यं तत्त्वं वेदिष्यावः । नौ आवाभ्यां स जनोऽयोग्यजनः एतत्‌ न विद्यादित्यर्थः । तौ याज्ञवल्क्यार्तभागौ उत्क्रम्योत्थाय । मन्त्रयाञ्चक्राते । किं मन्त्रयामासतुरित्यत उपनिषत्स्वयमाह ॥ तौ हेति ॥ यत्‌ कर्मैव । कर्मफलदातृतया कर्मपदेन भगवान्ग्रह्यः । प्रशशंसतुरित्यर्थः । क्व तदा पुरुष इति कृतप्रश्ऱ्नस्योत्तरमाह ॥ पुण्यो वा इति ॥ स मृतः पुरुषो यदि पुण्यकर्मा तर्हि पुण्येन कर्मणा तत्स्थेन तन्नामकेन हरिणा पुण्यो भवति । स्वर्गादिपुण्यलोकस्थो भवति । पापकर्मा चेत्पापेन कर्मणा पापफलदातृतया पापनामकेन पापस्थेन हरिणा पापो नरकादिलोकस्थो भवति । यदि ज्ञानी तर्हि ज्ञनस्थेन हरिणा मुक्तिमाप्नोतीत्यपि ग्राह्यम्‌ ॥ तत इति ॥ स्वकृतप्रश्ऱ्नस्योत्तरितत्वात्‌ उपरराम तूष्णीं बभूवेति ॥ 13

॥ द्वितीयमार्तभागब्राह्मणम्‌ ॥ अथार्तभागप्रश्ऱ्नोत्तरानन्तरं भुज्युर्भुज्युनामा लक्षस्यापत्यं लाह्यायनिः एनं पप्रच्छ । एतत्प्रश्ऱ्नस्य न त्वयोत्तरं वक्तुं शक्यमिति भावेन काञ्चन कथामाह ॥ याज्ञवल्क्येति ॥ चरकास्तीर्थचारिणः सन्तो वयं मद्रेषु देशेषु पर्यव्रजाम पयर्टनवन्तोभूम । ते वयं काप्यस्य कपिगोत्रोपन्नस्य पतञ्च(ज)लस्य पतं(ज)चलनाम्नो गृहानैम । अगमाम । तस्य पतं(ज)चलस्य दुहिता पुत्री गन्धर्वगृहीता । गन्धर्वेणाविष्याऽऽसीत्‌ । तं दुहित्राविष्यं त्वं क इत्यपृच्छाम । सुधन्वा आंगिरसोंगिरोगोत्रज इत्यब्रवीदित्यर्थः । तं गन्धर्वं यदा लोकानामन्तान्‌ निर्णयानपृच्छम । अथ तदा एनं गन्धर्वं क्व पारीक्षिता अभवन्नित्यब्रूमेत्यर्थः । परितः ईक्षितृत्वात्परीक्षिद्विष्णुः । तत्पुत्रत्वात्परीक्षिताः अतीतानागतकामदेवा ज्ञेयाः । द्विरुक्तिरादरार्था । सोहं त्वा पृच्छामि ॥ 5

॥ 3

॥ 1

॥ एवं पृष्यो याज्ञवल्क्य उवाच । स सुधन्वांगिरसस्तुभ्यमुवाच वै । उक्तवानेव किल । अहं तु ब्रवीमीति मत्वोत्तरमाह ॥ अगच्छन्वा इति ॥ B-K-6

?R

त्र लोके अश्ऱ्वमेधयाजिनः शताश्ऱ्वमेधयाजित्वेनाश्ऱ्वमेधयाजिन इत्युक्ताः अतीतानागतमुक्तेन्द्राः गच्छन्ति तत्‌ तत्र ते पारीक्षिता अगच्छन्नित्युवाच याज्ञवल्क्य इत्यर्थः । पुनः पृच्छति ॥ क्व न्वश्ऱ्वमेधयाजिन इति ॥ ब्रह्माण्डाद्बहिस्तिष्ठन्तीति वक्तुं ब्रह्माण्डस्वरूपमेकदेशेनाह ॥ द्वात्रिंशतमिति ॥ द्वात्रिंशतं द्वात्रिंशत्‌ । देवरथस्य परिवर्तमानस्याहानि मुहूर्तानि देवरथाहानि । तैर्व्याप्तानि योजनानि देवरथान्ह्यानि यावन्ति योजनानि देवस्य सुर्यस्याहोभिः प्रकाशैर्वा अयम्‌ । सौरप्रकाशव्याप्तौ देशो लोकनामा द्वात्रिंशन्मुहूर्तात्मकाहोरात्राभ्यां यावन्तं देशं सूर्यरथः परिभ्रमति तावति देशे सौरप्रकाशः । यावति च सौरप्रकाशः तावान्देशो लोक इत्युच्यत इत्यर्थः ॥ यावान्लोकनामका देशः द्विस्तावत्‌ द्विस्तावत्‌ द्विगुणितस्तावान्‌ देशः काठिण्यात्पृथित्युक्तं तमः । तं लोकनामकं देशं समन्तं समन्तात्पर्येति । परितो वर्तते । यावांस्तमः प्रदेशः द्विस्तावत्समुद्रः घनोदकनामा तां पृथिवीं समन्तं समन्तात्पर्येति परितो वर्तते ततस्त्वंण्डं च सौवर्णं तद्भिन्नं हरिणा पुरेति ग्राह्यम्‌ । यावती क्षुरस्य धारा अग्रं यावद्वा मक्षिकायाः पत्रं तावान्‌ तत्र सौवर्णाण्डे अन्तरेणाकाशोस्ति । तेन मार्गेणेन्द्रः सामर्थ्यादिन्द्रनामा पुरुषरूपी गरुडः सुपर्णो भूत्वा सुपर्णरूपी भूत्वा पारीक्षितान्वायवे प्रायच्छत्‌ वायुस्तान्पारीक्षितान्‌ आत्मनि स्वशरीरे धित्वा तत्रागमयत्‌ यत्र प्रद्युम्ननामके विष्णौ अश्ऱ्वमेधयाजिनो मुक्तिगा इन्द्रा अभवन्निति । यथाहं पारीक्षितानां मोक्षदातृतया वायुं स्तौमि । एवमिव वै । एवमेव वै । स गन्धर्वोपि वायुमेव प्रशशंस । वेदपुरुषः स्वयं वायुं स्तौति । तस्मादिति ॥ पारीक्षितानां मोक्षदातृत्वाद्वायुरेव व्यष्यिः । वि विविधं प्रत्येकमनेकविधं देवषिर्पितृयक्षगन्धर्वमानुषोरगासुरभेदेन यदष्यकं तन्नयतीति व्यष्यिः वायुरेव समष्यिः स सम्पूर्णं यत्‌ सुपर्णेशशेषेन्द्रतत्सत्रीरूपाष्यकं तन्नयति प्रेरयतीति समष्यिः । एकादशस्कन्धैकादशाध्यायतात्पर्ये तु पञ्चभूतमनोबुद्धिरुद्राणां प्रतिदेहकम्‌ । बाह्यतश्ऱ्चापि नेतृत्वाद्वायुर्व्यष्यिः समष्यिक

?R

इत्युक्तम्‌ । व्यष्यिसमष्यित्वेन वायुज्ञानिनः फलमाह ॥ अपपुनरिति ॥ अपमृत्युं पुनर्मृत्युं मृतिं च जयति अतिकआमतीत्यर्थः ॥ 5

॥ 3

॥ 2

॥ तृतीयं भुज्युब्राह्मणम्‌ ॥ 3

॥ अथ मुज्युप्रश्ऱ्नोत्तरानन्तरं चक्रस्यापत्यं चाक्रायण उषस्तनामा एनं याज्ञख्यल्क्यं पप्रच्छ । साक्षादन्यप्रादं विना अपरोक्षं यथा भवति तता अत्ति अनुभवति स्वस्वरूपमन्यच्चेति साक्षादपरोक्षात्‌ । ब्रह्म । सर्वगुणपूर्णः । यश्ऱ्चात्मा सर्वेषां नियामकः सवर्नियमने अन्यापेक्षा नास्तीत्याह ॥ सर्वन्तर इति ॥ सर्वं सामर्थ्यं स्वान्तरेवास्तीति सर्वान्तर इत्यर्थः । सर्वशक्तिमानिति यावत्‌ इति यत्‌ याले मया श्रुतः तं लक्षणेन मे व्याचक्ष्वेति होवाचेत्यन्वयः । उत्तरमाह ॥ एष इति ॥ ते तव आत्मा नियामकः साक्षादपरोक्षत्त्वाद्युक्तगुणविशिष्यस्त्वया पृष्यः । एष वक्ष्यमाण इत्यर्थः । एष क इति पृच्छति ॥ कतमो याज्ञवल्क्य सर्वन्तर इति ॥ सर्वान्तरत्वादिगुणकः किं लक्षणक इत्यर्थः । तस्य ब्रह्मात्मशब्दप्रवृत्तिनिमित्तान्येव लक्षणानीति भावेनात्मशब्दार्थमाह ॥ य इति ॥ यः प्राणेन प्राणनाम्ना मुख्यवायुरूपेण प्राणिति जगत्प्राणनं करोति स ते तव आत्मा सर्वान्तरः सर्वशक्त्यादिमत्त्वरूपप्रागुक्तगुणक इत्यथर्ः। एवमग्रेऽपि योजना ध्येया ॥ अपानिति ॥ मलादिविसजर्नं प्राणिनां करोति । व्यानिति । भुक्तमन्नदिकं शरीरे विविधं नयति । उदानिति । ऊर्ध्वं नयति । श्ऱ्वासादि करोति । समानेन समानितीत्यपि ग्राह्यम्‌ । निगमयति ॥ एष त इति ॥ ते आत्मा सर्वान्तर एषः प्राणादिपञ्चरूपमुख्यवायुद्वारेण प्राणनादिवयापारकर्तृत्वलक्षणक इत्यर्थः ॥ 5

॥ 4

॥ 1

॥ वाद्यन्तरोक्तरीत्यादेवतान्तराणामपीदं लक्षणं सममतो साधारणं लक्षणं तस्य नाम च ब्रूहीति भावेन पुनः पृच्छति ॥ स होवाचेत्यादिना ॥ गवादिस्वरूपे पृष्ये असौ चतुष्पात्‌ गौरसौ चतुष्पादश्ऱ्व इति यथा कश्ऱ्चिद्विब्रूयात्‌ वदेत्‌ । एवमेवैतत्‌ त्वया व्यपदिष्यं उक्तं भवति । यथा चतुष्पात्त्वादिलक्षणं गवाश्ऱ्वादिसाधारणं एवं प्रानादिकर्तृत्वलक्षणं त्वयोक्तं वाद्यन्तरोकतदिशा हरहिरण्यगर्भादिसाधारणमिति नेदं निणर्ायकमिति भावः ॥ यदेवेति ॥ य एव साक्षादपरोक्षात्त्वादिगुणकः श्रुतो मया तं अन्यसाधारणलक्षणादियुक्ततया मे मह्यं व्याचक्ष्वेति प्रश्ऱ्नार्थः । एष इत्यादि प्राग्वत्‌ । साकल्येनाज्ञेयत्वं लक्षणमाह ॥ न दृष्येरित्यादिना ॥ दृष्येर्द्रष्यारं श्रुतेश्श्रोतारमित्यादेः द्रष्यव्यस्य द्रष्यारं श्रोतव्यस्य श्रोतारमित्यादिरूपेण दृष्येरित्यादेर्द्रष्यारमित्यादौ कर्मार्पकतया वा द्रष्यारं दृष्येः चक्षुषा न पश्येरित्यादिरूपेण वार्थो ज्ञेयः । विज्ञाति शब्दो बुद्धिपरोत्र ज्ञेयः । एवं न पश्येः न शृणुया इत्यादिना चक्षुराद्यगोचरत्वमेकमितरासाधारणं लक्षणमुक्त्वा चेतनत्वे सत्यार्तिशून्यत्वमप्यपरमसाधारणं तत्तु नान्यत्रेति भावेनाह ॥ अतोन्यदिति ॥ अतः अकारवाच्याद्धरेरित्यर्थः । अन्यत्‌ ब्रह्मादिजीवजातं आर्तं दुःखीत्यर्थः । अत इत्यनुवादबलादकारवाच्यत्वमपीतरासाधारणं लक्षणमुक्तं भवति । तत इत्याद्युक्तार्थम्‌ ॥ 5

॥ 4

॥ 2

॥ चतुर्थमुषस्तब्राह्मणम्‌ ॥ अतोषस्तोपरमानन्तरं कुषीतकेरपत्यं कौषीतकेयः कहोलनामा मुक्तानां भगवतो भेदज्ञानाय प्रागुक्तनुवादपूर्वं मुक्तेशयोः वैलक्षण्यं पप्रच्छेत्याह ॥ अथेत्यादिना ॥ तमेवेति ॥ मुक्तवैलक्षण्ययुक्तमेव मे व्याचक्ष्वेत्यर्थः । एष इत्यादि प्राग्वत्‌ मुक्तपरमात्मनोर्वैलक्षण्यज्ञानाय भगवत्स्वरूपं तावदाह ॥ योशनायेति ॥ य आत्मा अशनाया अशितुमिच्छा पातुमिच्छा पिपासा ते अशनायापिपासे । शोकं दुःखं मोहं मिथ्याज्ञानम्‌ । जरां देहावस्थाविशेषम्‌ । मृत्युं मरणम्‌ । अत्येति । स्वत एवानाद्यनन्तकालेष्वतिक्रम्य वर्तते । एष त आत्मा सर्वान्तरस्त्वया पृष्य इत्यर्थः । एवं भगवत्स्वरूपमुक्त्वा मुक्तस्वरूपमाह ॥ एतमिति एतमशनायाद्यतिक्रान्तं प्रागुक्तसाक्षादपरोक्षात्त्वादिगुणं आत्मानं विदित्वा वै विदित्वैव साक्षात्कृत्यैव । साक्षात्कृतब्रह्मप्रसादेनैवेति यावत्‌ । ब्राह्मणाः ब्रह्माणनवन्तः अण गातौ । ब्रह्मप्राप्तिमन्तः मुक्ता इति यावत्‌ । भवन्तीति शेषः । स्वत एवानाद्यनन्तकालं शोकाद्यतीतं ब्रह्म । मुक्तास्तु तत्प्रसादायत्तशोकाद्यतिक्रमवन्तोऽतस्तयोर्वैलक्षण्यमिति भावः । कथं मुक्ता इत्यत आह ॥ पुत्रेति ॥ अन्योन्यसमुच्चये च शब्दाः । इर्षणा नाम आकांक्षा । ईषणात्रयादुत्थाय । तत्त्रितयमपि विहाय ब्राह्मणा भवन्तीत्यन्वयः । यद्वा पुत्यिदेस्तरेणाथेत्यादिना वैलक्षण्यान्तरोक्तिपरग्रन्थेनान्वयः । अथ मुक्त्यनन्तरं भिक्षाचर्यं चरन्ति हरेस्सकाशाद्विप्लुडानन्दभिक्षवो भवन्ति ब्राह्मणा इत्यनुषंगः । मुक्तावपि भिक्षावन्तश्ऱ्चेद्दुःखिनः स्युरित्यतोऽतीतेषणत्वान्न दुःखित्वमिति भावेनोक्तम्‌ । पुत्रेषणायाश्ऱ्चेत्यादि । ब्रह्मादेमर्ुक्तवर्गस्य विप्लुडानन्दभिक्षुत्वाद्धरेरपरिमितानन्दत्वात्तयोवर्ैलक्षण्यं ध्येयमिति भावः । किमेतास्तिस्रापीषणा अन्योन्यं स्वतन्त्रा इत्यतो नेत्याह ॥ या ह्येवेति ॥ वित्तस्य प्रायः पुत्रार्थत्वाद्वित्तषेणा पुत्रेषणायामन्तर्गतेत्यर्थः । पुत्रवित्तयोस्स्वर्गादिलोहेतुत्वात्‌ पुत्रेषणावित्तेषणे द्वे अपि लोकेषणायामन्तर्भवत इत्यर्थः । तथा चैकैवेषणेति भावः । पुत्रेषणवित्तेषणयोरेव दृष्यविषयतयैक्यविवक्षया पुत्रवित्तेषणे एका लोकेषणा तु अदृष्यविषयत्वादन्येति द्वे एव ईषणे भवत इति द्वित्वपक्षोप्युम इत्युतः पूर्वं ग्राह्यः । ननु लोकेषणाया यागादिनार्थ्यमानत्वात्कथं लोकेषणाया

?R

व्युत्थयेत्युक्तिरित्यतस्तरया अपि त्याज्यत्वमाह ॥ उभे इति ॥ दृष्या दृष्यविषयतया द्विधाभूते पुत्रेषणवित्तेषणलोकेषणे उभे हि यस्मादीषणे एव भवतोत ईषणात्वाद्दुःखरूपे एवेत्यर्थः । यथा पूर्वमुक्ताभिक्षुका एवं मुच्यमानोपि भिक्षुक इति येन स्यादित्यनेन वक्तुं मुक्तिसाधनान्याह ॥ तस्मादिति ॥ मोक्षेतरलोकेषणाया अपि दुःखरूपतया ब्रह्मसाक्षात्कारस्यैव परमपुमर्थमुक्तिहेतुत्वात्‌ ब्रह्मणो ब्रह्माणनयोग्यः पाण्डित्यं आगमजन्यं ज्ञानं प्राप्नुयादिति शेषः । पाण्डित्यं निविर्द्य नितरां लब्ध्वा बाल्येन युक्तिसहितज्ञानेन मननेनेति यावत्‌ । तिष्ठासेत्‌ । स्थातुमिच्छेत्‌ । मननजज्ञानं सम्पादयेदित्यर्थः । एवं पाण्डित्यं बाल्यं च निर्विद्य प्राप्य । अथानन्तरं मुनिर्ध्यानी भवति । एवं मौनं ध्यानम । मननजज्ञानं सम्पादये निर्विद्य । मौनं भगवत्साक्षात्करं च । प्रापनोति । अथेश्ऱ्वरसाक्षात्कारानन्तरं ब्राह्मणो मुक्तो भवति । स ब्राह्मणो मुक्तः येन स्यात्‌ ये केनापि भोगेन वर्तेत तेन वर्तनेन । ईदृश एव यथा संसारदशायां भिक्षुकः तता हरेर्विप्लुडानन्दभिक्षुक एवेत्यर्थः स्तुतयेनुमतिर्वेत्यधिकरणभाष्यादौ तु अथ ब्राह्मण इत वाक्यस्य जीवन्मुक्तपरत्वमुपेत्य येनेत्यस्याधिकारिभेदेनाविधिबन्धेन विहितसवर्ानुष्ठानपरत्वं विहितेषु कतिचिदनुष्ठानपत्वं यथेष्याचाविधिपरत्वमित्येवं रूपार्थत्रयपरत्वरूपकामचारार्थकत्वमुक्तम्‌ । तता च सूत्राणि । ॐ परामर्शं जैमिनिरचोदना चापवदति हि ॐ ॥ ॐ अनुष्ठेयं बादरायणः साम्यश्रुतेः ॐ । ॐ विधिवर्ा धारणवदिति । मुक्ताद्भगवतो वैलक्षण्यान्तरमाह ॥ अत इति ॥ अतो भगवतोऽन्यद्ब्रह्मादिमुक्तजातं कदाचिदार्तं न तथा भगवानित्यर्थः । ततः । स्वकृतप्रश्ऱ्नस्योत्तरितत्वादित्यर्थः ॥ 5

॥ 5

॥ 1

॥ पञ्चमं कहोलब्राह्मणम्‌ ॥ पूर्वत्र मुक्तेशयोभर्ेदज्ञापनायानेवैलक्ष्यमुक्तं अत्र तु मुक्तानां तारतम्यमुच्यते । अथ कहोलप्रश्ऱ्नानन्तरं वचक्नोरपत्यं वाचक्नवी गार्गी नामतः याज्ञवल्क्येति सम्बोध्योवाच । तदाह ॥ यदिति ॥ यदिदं मुक्तमनुष्योत्तमजातं अप्सु आपिबन्थ्यखिलान्‌ भोगानित्यप्‌ शब्दवाच्येषु मुक्तचक्रवर्तिषु ॐ तं आश्रितं नैतदौपचारिकमित्याह ॥ प्रोतमिति ॥ आपः मुक्तचक्रवर्तिनः कस्मिन्नोताश्ऱ्च प्रोताश्ऱ्चेति पप्रच्छेत्यनुषंगः । प्रश्ऱ्नस्योत्तरमाह ॥ वायाविति ॥ प्रधानवायुपुत्रे चक्रनामके मुक्ते ओताश्ऱ्च प्रोताश्ऱ्चेत्युवाचेत्यनुषंगः । एवमग्रेऽपि । हे गार्गीति सम्बोधनम्‌ । कस्मिन्नु खलु वायुरिति ॥ मुक्तचक्रनामा वायुसुतः गन्धर्वलोकेषु गन्धर्वाख्यस्य प्रदानवायुसुतस्य लोकेषु लोक शब्दोत्र संसाराल्लुप्तां कानि सुखानीति व्युत्पत्त्या स्वरूपभूतानुभूयमानानन्दपरः । लोकेषु सुखमिति मुक्तगन्धर्वनामकवायुसुतसुखाधीनं मुक्तचक्रनामकस्वरूपसुखमिति यावत्‌ । एवमग्रेऽपि । गन्धवर्लोका गन्धर्वाख्यमरुत्स्वरूपसुखानुभवाः । अन्तरिक्षलोकेषु अन्तरिक्षाख्यवायुसुतस्य मरुतो मुक्तस्य सुखेषु ॐ ता इत्यर्थः । आदित्यलोकेषु मुक्तसुर्यानन्देषु चन्द्रलोकेषु चन्द्र शब्दवाच्यमुक्तानिरुद्धानन्देषु नक्षत्रलोकेषु नक्षत्राख्यमुक्तेन्द्रसुखेषु देवलोकेषु रुद्रानन्देषु इन्द्रलोकेषु । मुक्सरस्वत्यानन्देषु प्रजापतिलोकेषु । मुक्तब्रह्मानन्देषु ब्रह्मलोकेषु परब्रह्मानन्देषु । ब्रह्मानन्दस्याप्याश्रयप्रश्ऱ्ने प्रत्त्तरमाह ॥ मातीति ॥ अति अतिक्रम्य माप्राक्षीः । प्रश्ऱ्नं माकार्षीः ते मूर्धा शिरः मा व्यप(प्त)तत्‌ । पतितं न भवेत्‌ कुतः यतस्त्वं अनतिप्रश्ऱ्न्ां आश्रयप्रश्ऱ्नानर्हां देवतामति अतिक्रम्य पृच्छसि तदाश्रयप्रश्ऱ्नस्यानर्थहेतुत्वान्नेवं प्रश्ऱ्नं कुर्विति ॥ 1

॥ षष्ठं गार्गिब्रह्मणम्‌ ॥ पूर्वत्र ब्रह्मलोकेषु गार्गीति मुक्तसर्वाश्रयत्वेनोक्तस्य हरेः । एष त आत्मा सर्वान्तर इत नियन्तृत्वेनोक्तस्य इह पुनस्सर्वनियन्तृत्वमुच्यते । अथेत्युक्तार्थम्‌ । अरुणस्यापत्यं आरुणिरुद्दालको नामतः । वक्ष्यमाणप्रमेये श्रद्दाजननाय आख्यायिकामाह ॥ मद्रेष्वित्यादिना ॥ काप्यस्य कपिगोत्रोत्पन्नस्य नामतः पतञ्चलस्य गृहेषु यज्ञं यज्ञविद्यामधीयानस्ते प्रसिद्धा वं मद्रेषु मद्रदेशेषु अ(व)साम तत्र स्थिता अभूम तस्य पतं(च)जलस्य भार्या गन्धर्वगृहीता गन्धर्वाविष्या आसीत्‌ । कोसीति तमपृच्छाम । कबन्धनामकोथर्वणः पुत्र इति सोब्रवीत्‌ । याज्ञिकाश्ऱ्च यज्ञमधीयानानस्मंश्ऱ्च कबन्धोब्रवीत्‌ । पप्रच्छेत्यर्थः । तदाह ॥ वेत्थेति । हे काप्य येनायं पृथिव्यादिलोकः । परोन्तरिक्षादिलोकः । सर्वाणि भूतानि च । सन्दृब्धानि स्तम्भितानि । भवन्ति तत्सूत्रं स्यूतमस्मिन्‌ जगदिति व्युत्पत्त्या सूत्रनामकम्‌ । त्वं वेत्थ नु जानासि किम्‌ । इत्यब्रवीदित्यन्वयः । पुनः गन्धर्वः पप्रच्छेत्याह ॥ सोब्रवीत्पतञ्चलमित्यादि ॥ अत्र गन्धर्ववाक्ये योन्तर इत्यत्र द्वितीयः य शब्दः पूर्णत्वाद्य इतीर्यत इत्युक्तेः विष्णुवाची । तथाच यो यः विष्णुः । इममादिलोकं भूतानि चान्तरोन्तस्थस्सन्‌ यमयति । तमन्तर्यामिणं वेत्थ नु इत्यब्रवीदिति योजना ॥ तमिति ॥ अन्तर्यामिणामित्यर्थः । एवं सूत्रान्तर्यामिणौ न जानामीति काप्येनोक्ते तज्ज्ञान

?R

मावश्यकमिति भावेन तौ जानतः फलमाह गन्धर्वः ॥ सोब्रवीदित्यादिना ॥ हे काप्येति सम्बोधनं इति विद्यादितीति पदस्यान्वयः ॥ भूम्यादिलोकादिधारकत्वसर्वलोकाद्यन्तर्नियन्तृत्वरूपस्वविज्ञातप्रकारेण जानीयादित्यर्थः । तं चान्तर्यामणमित्यत्रापि इति विद्यादित्यन्वेति । ब्रह्मवित्‌ पूर्णवित्‌ लोकानां कर्तृवेदनाल्लोकवित्‌ । देवानां देवस्य वेदनाद्देववित्‌ । वेदार्थवेदनाद्वेदवित्‌ भूतनियन्तृवेदनाद्भूतवित्‌ आत्मवेदनाद्वयाप्तज्ञानादात्मवित्‌ सर्वसारस्य वेदनात्‌ सर्ववित्‌ इत

?R

शब्दानन्तरभुक्त्वेति शषेः । इत्येवं सूत्रान्तर्यामिणोर्ज्ञानफलमुक्त्वा तेभ्यः काप्यप्रभृतिभ्योस्मभ्यं सूत्रान्तर्यामिस्वरूपमब्रवीत्‌ । तत्‌ सूत्रान्तर्यामिणोस्स्वरूपं अहं उद्दालकनामकोहं वेद जानामीति । तच्च सूत्रं तं चान्तर्यामिणम्‌ । अविद्वानजनंश्ऱ्चेत्‌ त्वं ब्रह्मगवीः ब्राह्मणानां गाः उदजे आहरसि तहति मूर्धा विपतिष्यतीति उद्दालक उद्दालक उवाचेत्यन्वयः । एवमुद्दालकेनोक्तो याज्ञवल्क्य उत्तरमाह ॥ वेद वा अहमिति ॥ गौतमेत्युद्दालकस्य सम्बोधनम्‌ । याज्ञवल्क्य उवाचेति योज्यम्‌ । उद्दालकः पुनस्तं प्रत्याह ॥ इदमिति ॥ यो वा कश्ऱ्चित्‌ यः कोपि वेदेति जानामौति ब्रूयात्‌ । न तु वक्ति ॥ यथा येन प्रकारेण वेत्थ तथा ब्रहीत्युवाचोद्दालक इत्यर्थः ॥ 5

॥ 7

॥ 1

॥ एवमुद्दालकेनोक्तो याज्ञवल्क्य उत्तरमुक्तवानित्याह वेदपुरुषः ॥ स होवाचेति ॥ सः याज्ञवल्क्यः । हे गौतम त्वया पृष्यं तत्‌ सूत्रं वायुर्वै मुख्यावायुरेव । प्राक्‌ गन्धर्वोक्तं सूत्रलक्षणं वायावस्तीत्याह ॥ वायुना वा इति ॥ सर्वलोकादिस्तंभकत्वं वायोरनुभवारूढं करोति ॥ तस्मादिति ॥ वायोः सर्वलोकाधारत्वादेव वाय्वपगमे प्रेतं पुरुषं प्रत्याहुः । किमिति । अस्यांगानि करचरणाद्यवयवाः व्यस्रंसिषत अधोपतन्‌ इत्याहुरित्यन्वयः । एवं वायोः सर्वलोकस्तम्भकत्वमनुभवारूढं कृत्वा साध्यमाह ॥ वायुना हीति ॥ सनदृब्धानीत्यनन्तरं अयं च लोक इत्याद्यनुषज्यते इत्युवाचेतीति पदस्य पूर्वेणान्वयः । उद्दालको वक्ति ॥ एवमिति ॥ हे यावज्ञवल्क्य एतत्‌ वायुर्वै सूत्रमिति त्वयोक्तमेवमेव । नात्र विमतिरस्ति । अन्तयार्लमिणं ब्रूहीत्युवाचोद्दालक इत्यर्थः ॥ 5

॥ 7

॥ 2

॥ आह याज्ञवल्क्यः ॥ यः पृथिव्यामित्यादिना ॥ पृथुं नारायणं समादाय वाति गच्छतीति व्युत्पत्त्या पृथिवी शब्दोत्र गरुडपरः तद्भार्यापरश्ऱ्च । अत्र भाष्येऽनुक्तानामपि शाकल्यब्राह्मणे वक्ष्यमाणपृथिव्यादिदेवतानामत्रापि ग्रहणस्य तत्रैव भाष्ये वक्ष्यमाणत्वात्‌ । यः पृथिव्यां पृथिवीमानिनि गरुडे । तिष्ठन्‌ तत्र प्रविष्यतया तत्स्थः पृथिव्या अन्तरः । अत्र व्यासतीर्थीयटीकारीत्या अतिप्रियत्वाच्च हरेरन्तरत्वमुदाहृतमिति स्मृतेरेतद्विषयत्वात्‌ पृथिव्या इत्यादि पञ्चम्याः षष्ठयर्थत्वेन पृथिव्याः गरुडस्यान्तरोतिपि्रय इत्यर्थ इति भवति । सूत्रभाष्यटीकाचन्द्रिकयोस्तु बाह्यापेक्षां विनेति श्ऱ्लोको द्वितीयांन्तरपदस्यैर्थद्वयपर इत्युपेत्य पृथिव्या इत्यादिपञ्चमीस्वारस्यानुसारेणान्तरो विविक्त इत्यर्थ उक्तः । एतन्मते पृथिव्या अन्तरोऽद्भयोन्तर इत्यादि पञ्चम्यन्तपदोपेतवाक्यजातस्यार्थोत्र भाष्ये नोक्त इति ज्ञेयम्‌ । यं पृथिवी गरुडो न वेद साकल्येन । यस्य पृथिवी शरीरमिव शरीरं यथा जीतन्त्रं यथा पृथिव्यपि यत्तन्त्रतया यस्य शरीरमिति तमन्तःकृत्वा तिष्ठतीति वा शरीरम्‌ । यः पृथिवीमन्तरोबाह्मयपेक्षां विना रममाणश्ऱ्च अतिप्रियस्सन्‌ यमयति नियमयति तदीयधर्माणां स्वरूपसत्तायाश्ऱ्च स्वमीति यावत्‌ । एषः यच्छशब्दपञ्चकेन निर्दिष्यस्ते तव उद्दालकस्यात्मा स्वामी अमृतो नित्योन्तर्यामी अन्तस्स्वतन्त्रस्सन्‌ नियमनकतर्ेत्यर्थः । एषत इत्युक्तजीवेशभेदज्ञापनाय त्मपदस्य स्वरूपार्थत्वे अत इति षष्ठया औपचारिकत्वापातात्‌ । एवमग्रेऽपि अधिदैवाधिभूताध्यात्मरूपप्रककरणत्रयगतविंशतिवाक्यन्यपि योजनीयानि ॥ 5

॥ 7

॥ 3

॥ अप्सु अबभिमानिनि वरुणे ॥ 4

॥ अग्नौ प्रसिद्धभूताग्निमानिनि ॥ 5

॥ अन्तरिक्षे हरे । स्वान्तर्गतं सर्वं इच्छया क्षपयेदिति व्युत्पत्त्या हरोत्रान्तरिक्षनामा । सर्वस्यान्तरीक्षणहेतुनान्तरिक्षनाम्नी वायुभार्याप्यन्तरिक्षपेदेन ग्रह्या ॥ 6

॥ वायौ मुख्यवायौ ॥ 7

॥ दिवि सरस्वत्यां उमा च ग्राह्या ॥ 8

॥ आदित्येसूर्ये ॥ 9

॥ दिक्षु दिगभिमानिषु ॥ 10

॥ चन्द्रतारक इति द्वन्द्वैकवद्भावः । क्रमात्तदभिमानिकार्मेन्द्रयोरित्यर्थः ॥ 11

॥ आकाशे आकाशभिमानिनि विघ्नेशे ॥ 12

॥ तामयति ग्लापयतीति व्युत्पत्त्या तमसि दुर्गायाम्‌ ॥ 13

॥ तेजसि चित्प्रकृतौ ॥ इत्यधिदैवतं स्वस्वलोकस्थदेवताजातं तदन्तर्यामिनिरूपणं कृतम्‌ । अथानन्तरं भवनशब्दितोत्पत्त्याधिकारे स्थितत्वादधिभूतं सर्वजीवतदन्तर्यामिनिरूपणं क्रियत इत्यर्थः ॥ 5

॥ 7

॥ 14

॥ सर्वेषु भूतेषु मनुष्यादिजीवेषु । इत्यधिभूतम्‌ ॥ व्याख्यातप्रायमेतत्‌ । अथानन्तरमात्मानं जीवशरीरमधिकृत्य वर्तमानं इन्द्रियाभिमानिजातं तदन्तर्यामी निरूप्यत । इत्यर्थः ॥ 15

॥ प्राणे प्राणमानिनि ॥ 16

॥ एवं वाचि चक्षुषीत्यादावपि तदभिमानिनो ग्राह्याः ॥ 17-18-19-20-21

॥ विज्ञाने सर्वजीवाभिमानिनि चतुर्मखे ॥ 22

॥ रेतसि तेतोमानिनि । अत्र चेतनमात्रनियमनोक्तवाप्यचेतननियमनस्य कैमुत्यसिद्धत्वाज्जडान्तर्यामी न पृथगुक्तः । अन्तर्यामिणो महिमान्तरमाह ॥ अदृष्य इति ॥ अदृष्यः चक्षुरगोचरः । द्रष्या सर्वं साक्षात्कर्ता । अश्रुतः साकल्येन श्रवणागोचरः । श्रोता सर्वस्य स्वयं श्रोता । अमतः साकल्येन मननागोचरः । मन्ता मनोग्राहकः । अविज्ञातः विज्ञानलक्षणबुद्धयगोचरः । विज्ञाता विज्ञानलक्षणबुद्धिग्राहकः । अतोन्तर्यामिणोन्यस्सातन्त्ऱ्ेण द्रष्या नास्ति । एवं विज्ञातेत्यन्तं योजना ध्येया । कुतोन्यस्य न स्वतन्त्ऱ्यमित्यतो दुःखित्वादिति भावेनाह ॥ अतोन्यदार्तमिति ॥ अन्तर्यामी त्वनार्त इति शेषः । अयं च ब्राह्मणः भगवद्विषयतंया निर्णीतः सूत्रकृता अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात्‌ इत्यादौ ॥ 5

॥ 7

॥ 23

॥ सप्तममन्तर्यामिब्रह्मणम्‌ ॥ पूर्वब्राह्मणे वाचक्रवी जीवानमुत्तराश्रितत्वं अन्तः वर्ेषां भगवदाश्रितत्वं च

?R

पृष्यवती दत्तोत्तरा अधुना चित्प्रकृतेस्सर्वाधारत्वं भगवदाश्रितत्वं प्रागपृष्यं प्रष्युं ब्राह्मणानुज्ञार्थं तान्‌ प्रति किञ्चिद्वाक्यमुक्तवतीत्याह वेदपुरुषः ॥ अथ हेति ॥ उद्दालकोपरत्यनन्तरम्‌ । वालचक्रवी वचक्रोरपत्यं गार्गी । बआह्मणानुवाच । किमिति । हे ब्राह्मणा भगवन्तः पूज्याः । अहमिमं याज्ञवल्क्यम्‌ । पुनर्द्वौ प्रश्ऱ्नौ प्रष्यव्याथर्ौ प्रक्ष्यामि । हन्त यदि भवतामनुमतिर्भवेदित्यर्थः । तौ चेत्प्रष्यव्यार्थौ । मे मह्यम्‌ । वक्ष्यति याज्ञवल्क्यः तर्हि जतु कदाचित्‌ । युष्माकं मध्ये । कश्ऱ्चित्कोपि । इमं याज्ञवल्क्यम्‌ । ब्रह्मोद्यं ब्रह्मवादिनम्‌ । सन्तं नवै नैव । जेता भवेदिति ब्राह्मणानुवाचेति पूर्वेणान्वयः । विजिगीषकथात्वात्तस्यां च सभ्यानुज्ञया प्रष्यव्यमिति तदनुज्ञानार्थं तेषामुपकाराय तान्‌ प्रत्येवमुक्तवतीति ज्ञेयम्‌ ॥ पृच्छ गागर्ीतीति ॥ ब्राह्मणा अनुजज्ञिर इति योज्यम्‌ ॥ 5

॥ 8

॥ 1

॥ सैवं ब्राह्मणैरनुज्ञाता गार्गी यज्ञवल्क्यमुवाच । अहं वै त्वा द्वौ प्रश्ऱ्नौ प्रक्ष्यामीत्यनुषज्यते । प्रष्यव्यार्थयोरनुत्तरत्वेन महत्त्वं तावद्दृष्यान्तपूर्वकमाह ॥ यथेति ॥ यथा उग्रपुत्रः क्रूरपुत्रः । काश्यः काश्यां भवो वा वैदेहो विदेहराजा वा । उज्ज्यं उद्गतज्यं धनुरधिज्यं अधिगतज्यं कृत्वा । वाणवन्तौ अयोमयाग्रवन्तौ । सपत्नातिव्याधिनौ शत्रुवेधकरौ द्वौ शराविति शेषः । हस्ते गृहीत्वोपोङित्तष्ठेदेवमेवाहं त्वा द्वाभ्यां प्रश्ऱ्नाभ्यां उपोदस्थां लिङ्‌र्थे उपतिष्ठेयम्‌ । त्वदाभिमुख्येन तिष्ठेयम्‌ । तौ मे ब्रूहीत्युवाचेत्यर्थः । आह यावज्ञल्क्यः पृच्छ गार्गीति ॥ 5

॥ 8

॥ 2

॥ सैवमुक्त्वा वाचक्नवी । याज्ञवल्क्येति सम्बोध्योवाच । दिवः द्युशब्दवाच्यात्स्वर्गलोकात्‌ । ऊर्ध्वं उपरि । यदस्ति । पृथिव्या अवा(र्वा)पाधस्ताद्यदस्ति । द्यावापृथिवी द्यावाभूम्योः । अन्तरा मध्ये । यदस्ति । इमे द्यावा पृथिवी च । भूतं अतीतं च । भवच्च वर्तमानं च । भविष्यदागामि चेति यदाचक्षते ज्ञानिनः । तत्सर्वं कस्मिन्‌ ओतं च प्रोतं चेत्युवाचेत्यर्थः ॥ स एवं पृष्यो याज्ञवल्क्य उवाच । किमुवाचेत्यत उक्तानुवादपूवर्मुत्तरमाहेत्याहोपनिषत्‌ । यदूर्ध्वमित्यादिना ॥ यदाचक्षते तत्र आकाशे आ समन्तात्काशमानत्वहेतुना आकाश शब्दिते श्रीतत्वे ओतं च प्रोतं चेत्युवाचेत्यन्वयः ॥ सा लब्दप्रथमप्रश्ऱ्नपरिहारा । उवाच ह किल किमिति । हे यावज्ञल्क्य । यस्त्वम्‌ । मे मदीयम्‌ । एतं दुरुत्तरं प्रश्ऱ्नार्थम्‌ । व्यवोचः विविच्योक्तवानसि । अतस्ते तुभ्यं नमोस्तु । अथेत्यर्थान्तरे । अपरस्मै अन्यस्मै प्रश्ऱ्नाय । धरयस्व मनो धत्स्वेत्युवाचेत्यर्थः । पृच्छ गार्गीत्याह याज्ञवल्क्यः । आकाश शब्दितप्रकृतेस्सर्वाधारत्वमनुपचरितमिति वाचयितुं पूर्वपृष्यमेव पुनः पृच्छति ॥ साहेति ॥ विदिताभिप्रायो याज्ञवल्क्यः यदूर्ध्वमित्यादिना उक्तानुवादपूर्वमनुपचरितमेव सर्वाधारत्वं8

प्रकृतेरित्याह आकाश एवेत्येवकारेण स्वाभिप्रेतं लब्ध्वा वाचक्नवी द्वितीयं पृच्छति ॥ कस्मिन्न्विति ॥ एवं पृष्यस्स याज्ञवल्क्यस्सर्वाधारप्रकृत्याधारत्वं हरेर्महिमोक्तिपूर्वमाह ॥ एतद्वा इत्यादिना खण्डचतुष्ययेन ॥ तत्‌ प्रकृत्याश्रयत्वेन वक्ष्यमाणम्‌ । अक्षरं चतुर्विधनाशहीनतया अक्षरपदावाच्यं ब्रह्म एतत्‌ एतल्लक्षणकम्‌ । ब्राह्मणा अभिवदन्ति वै । एतच्छब्दार्थं व्यनक्ति ॥ अस्थूलमित्यादिना ॥ प्राकृतस्थूलसूक्ष्महस्वदीर्घवैलक्षण्यादस्थूलमित्याद्युच्यते । सूत्रभाष्यादौ तु अस्थूलादिपदैः स्थौल्यादिविरुद्धाणुत्वादिग्रह इत्यप्युक्तम्‌ । अलोहितमिति लोहिताद्युपलक्षितप्राकृतरूपरहितम्‌ । एवमस्नेहमित्यपि ज्ञेयम्‌ । अच्छायं छायाशब्दिताविद्याहीनम्‌ । यद्वा व्याप्तत्वाच्छायाहीनम्‌ । अतमः आवरणहीनम्‌ । अवाय्वनाकाशमतेजस्कमिति पञ्चभूतास्पृष्यदेहम्‌ । असंगं अलेपम्‌ । अरसमित्यादेः प्राकृतरसगन्धादिहीनमित्यर्थः । अतेजस्कं प्राकृतवर्चोहीनम्‌ । अप्राणं प्राकृतप्राणापानादिहीनम्‌ । अमुखं मुखोपलक्षितप्राकृतदेहहीनम्‌ । अमात्रं मितिहीनम्‌ । भिन्नांशशून्यं वा । स्वापेक्षया अन्तरं बाह्यं नेत्यनन्तरं अबाह्यं सर्वापेक्षया स्वयमेवान्तरं बाह्यं चेत्यर्थः । तदक्षरं किञ्चन नाश्ऱ्नाति उपजीवनार्थं नात्ति अशुभं नात्तीति वा । जीवाद्यं नात्तीति वार्थः । कश्ऱ्चन कोपि तदक्षराख्यं ब्रह्मा नाश्ऱ्नाति नात्ति । स्वातन्त्ऱ्ान्न केनापि अद्यत इति भावः । तदाह सूत्रे । अन्यभावव्यावृत्तेश्ऱ्चेति ॥ 5

॥ 8

॥ 8

॥ प्रकृतिद्वारा सर्वाधारत्वं हरेरनायासेनैवेति भावेनाह याज्ञवल्क्यः ॥ एतस्य वा इति ॥ एतस्य प्रागुक्तगुणकस्य । प्रशासने वै0

प्रशब्दोक्तानन्याधीनासंकुचिताज्ञायां आज्ञानिमित्तमेव । सूर्याचन्द्रमसौ सर्वपरिज्ञातृत्वाह्लादकत्वाभ्यां हेतुभ्यां क्रमात्सूर्याचन्द्रपदोक्तौ ब्रह्मरुद्रौ । विधृतौ विशेषेण धृतौ तिष्ठतः । एवमग्रेऽपि । द्यावापृथिव्यौ दीप्यमानत्वपृथुत्वहेतुभ्यां क्रमात्‌ द्यावापृथिवीशब्दिते श्रीभूमी । निमेषादिशब्दास्तदमिमानिपराः । इति शब्द आद्यर्थः । प्राच्यः प्राक्‌ प्रवहन्त्यः । अन्याः काश्ऱ्चन । श्ऱ्वेतेभ्यः श्ऱ्वेतनामकेभ्यः । प्रतीच्यः प्रत्यक्‌ पश्ऱ्चिमसमुद्रं प्रति प्रवहन्त्यः । अन्याः काश्ऱ्चन । किंबहुना । यां यां दिशमनुस्यन्दन्ते एतस्याक्षरस्य प्रशासन एव स्यन्दन्त इत्यथर्ः । ददतो दानं कुर्वतः पुरुषान्‌ । मनुष्याः प्रशंसन्ति स्तुवन्ति । यजमानं यागकर्तारम्‌ । देवाः प्रशंसन्तीत्यनुषंगः । उच्छिष्यपिण्डावसरे दर्वी पितरोन्वयत्ताः । अनुसृत्य स्थिताः । तदेतत्सर्वं एतस्याक्षरस्य प्रशासन एवेत्यर्थः । तदाह सूत्रे । सा च प्रशासनादिति । एतस्य वा इत्यद्यभ्यास आदराथर्ः ॥ 5

॥ 8

?R9

॥ एतदक्षरस्य ज्ञानमवश्यसम्पाद्यमिति भावेन तदज्ञाननयोरनर्थपुमर्थावाह याज्ञवल्क्यः ॥ यो वा इति ॥ जुहोति अग्नौ हविः प्रक्षिपति । यजते । देवतोद्देशेन हविर्ददाति । तपः कृच्छ्रचान्द्रायणादि । तप्यते तपति करोतीति यावत्‌ । बहूनि वर्षसहस्राणीत्येतज्जुहोतीत्यादिषु त्रिष्वप्यन्वेति । अस्यानात्मविदः । तद्धोमादिकम्‌ । अन्तवदेव नश्ऱ्वरफलमेव भवति । प्रैति मृतो भवति । स कृपणः शोच्यः । अथेत्यर्थान्तरे । ब्राह्मणो मुक्तो भवति ॥ 5

॥ 8

॥ 10

॥ महिमान्तरमाह ॥ तद्वा एतदिति ॥ अन्यैः साकल्येनादृष्यम्‌ । स्वयं च तथा सर्वद्रष्यृ । एवमग्रेऽपि । अमतं मनोगोचरम्‌ । स्वयं मन्तृ मनोज्ञातृ । अविज्ञातं बुद्धयगोचरम्‌ । विज्ञातृ बुद्धिज्ञातृ । यद्वा अदृष्यमित्यादिना साक्षात्कारश्रवणमननध्यानानां साकल्येनाविषय इत्युच्यते । अक्षरं दृष्यृश्रोत्रिति कथमुच्यते । द्रष्य्रन्तरादेर्भावादित्यत आह ॥ नान्यदिति ॥ अतोक्षरादन्यत्स्वतन्त्ऱ्ेण द्रष्यृ नास्तीत्यर्थः । एवमग्रेऽपि । यदर्थमियता ग्रन्थेनाक्षरस्य महिमोक्तस्तदिदानीमाह ॥ एतस्मिन्निति ॥ तद्वा एतदित्यादिनोक्तमाहात्म्यवत्यक्षरे चतुर्विधनाशहीने विष्णवित्यर्थः । तदाह सूत्रे । अक्षरमम्बरान्तधृतेरिति ॥ 5

॥ 8

॥ 11

॥ एवं लब्धप्रश्ऱ्नद्वयोत्तरा सा वाचक्नवी । ब्राह्मणानुवाच । हे ब्राह्मणाः भगवन्तः यूयमस्माद्याज्ञवल्क्यात्‌ । नमस्कारेण मुच्यध्वं मुक्ता भवत । मया यदुच्यते तदेव बहुमन्यध्वम्‌ । कुत इत्यत उक्तं नेति । युष्माकं मध्ये कश्ऱ्चिदिमम्‌ । ब्रह्मोद्यं ब्रह्मिष्ठम्‌ । याज्ञवल्क्यम्‌ । आतु कदापि । जेता नैवास्त्यत इति योजना ॥ 5

॥ 8

॥ 12

॥ इत्यष्यममक्षरब्राह्मणम्‌ ॥ अथ वाचक्नवीप्रश्ऱ्नोत्तरानन्तरम्‌ । शकलस्यापत्यं शकल्यो विदग्धनामा । एनं याज्ञवल्क्यं देवाः कतीति पप्रच्छ । स याज्ञवल्क्यः । एतया वक्ष्यमाणया । निविदा निविच्छब्दितमन्त्रेण । वैश्ऱ्वदेवस्य शस्त्रस्य निविदियावन्तो देवा उच्यन्ते तावतो देवान्‌ । प्रतिपेदे ज्ञातवान्‌ । तां निविदं पठति ॥ त्रयश्ऱ्चेति ॥ त्रयश्ऱ्च त्री च शता त्रयस्त्रिंशच्छतानि । त्रयश्ऱ्च त्री च सहस्रा । त्रयस्त्रिंशत्सहस्राणीत्यर्थः । अनेककोटिसंख्याकत्वेपि देवानां तेषु त्रयस्त्रिंशत्सहस्रसंख्याका देवाः अधिकास्तेषु च त्रयस्त्रिंशद्देवा अधिका इत्येवमुक्तम्‌ । याज्ञवल्क्योक्तमुत्तरमंगीकरोति । ओमित्युवाच ह शाकल्यः । त्रयस्त्रिंशत्सहस्रेत्युक्तदेवेषूत्तमान्पृच्छति शाकल्यः ॥ कत्येवेति ॥ उत्तरमाह ॥ त्रयस्त्रिंशदिति ॥ B-K-7

?R

वमग्र्रेऽपि प्रश्ऱ्नपरिहारार्थौ ज्ञेयौ । ओमित्यभ्युपगमश्ऱ्च ज्ञेयः । अधिकतया आ ऋद्धोध्यर्धः । संख्येयस्वरूपाणि पृच्छति ॥ कतम इति ॥ त्रयस्त्रिंशत्संख्याकास्त्रयस्त्रिंशत्सहस्रसंख्याकाश्ऱ्च देवाः कतमे कीदृशा इति सर्वे समाः किं वा न्यूनाधिकभावमापन्ना इति प्रश्ऱ्नार्थः ॥ 5

॥ 9

॥ 1

॥ स एवं पृष्यो याज्ञवल्क्यः त्रयस्त्रिंशदेव देवाः । तु विशिष्याः । एषां त्रयस्त्रिंशद्देवानाम्‌ । एते त्रयस्त्रिंशत्सहस्रसंख्याका देवाः । महिमानः महिना माहात्म्येन मानः परिमिताः । न्यूनाः अतः परिवारभूता एवेति यावत्‌ इत्युवाचेत्यर्थः । तु शब्देन विशेषितान्देवान्पृच्छति ॥ कतमे त इति ॥ इन्द्रश्ऱ्च प्रजापतिश्ऱ्च त्रयस्त्रिंशौ त्रयस्त्रिंशत्संख्यापूरकौ इत्युवाच याज्ञवल्क्य इत्यर्थः ॥ 5

॥ 9

॥ 2

॥ अष्यानां स्वरूपं पृच्छति ॥ कतम इति ॥ अग्रं विष्णुं नयतीत्यग्निः सुपर्णः । पृथिवी सौपर्णी । वायुः सूत्रात्मा मुख्यवायुः । अन्तरिक्षं तत्पत्नी श्रद्दानाम्नी । आदित्यः शिवः । द्यौः तद्भार्योमादेवी । चन्द्रमाः कामः । कामस्यानिरुद्धपितृत्वेन तदनुविष्यत्वादनिरुद्धः पृथङ्‌नोक्तः । नक्षत्राणीन्द्रः रूपबाहुल्याद्बहुवचनम्‌ । नाम्नां निरुक्तिर्भाष्ये ध्येया । एते वसव इति कुत एषां वुसुत्वमित्यत आह ॥ एतेषुहीति ॥ वसतीति वसु जगत्‌ इदं सर्वं वसु । एतेष्वष्यसु देवेषु हितं निहितमिति । हि यतस्तस्माद्वसव इति । वस निवास इत्यस्मात्‌ अन्तर्णीतव्यर्थादु प्रत्यये वासयन्ति जगदिति वासव इत्युक्तं भवति ॥ 5

॥ 9

॥ 3

॥ पुरुषे जीवे । वर्तमानाः प्राणाः । ज्ञानेन्द्रियकर्मेन्द्रियप्रेरकाः । इमे प्रसिद्धाः । दक्षाग्निप्रमुखा वायुपुत्राः दश । आत्मा बुद्धिमानी बृहस्पतिः एकादशः । शिवान्यरुद्राणामपि प्राणाविष्येत्वेन दक्षादिग्रहणेन गृहीतत्वान्न पृथगुक्तिः । कथं रुद्रत्वमेषामित्यतो निर्वक्ति ॥ त इत्यादिना ॥ ते प्राणाः आत्मा च । मर्त्यात्‌ म्रियमाणात्‌ शरीरात्‌ । अथ तदा म्रियमाणसम्बन्धिनो जनान्‌ ते प्राणाद्या रोदयन्ति । यद्रोदयन्ति तवस्माद्रुद्रा इत्युच्यन्त इत्यर्थः । रुसिर्अश्रुविमोचन इत्यतोन्तर्णीतण्यर्थाद्रक्‌प्रत्ययेरुद्र इति सिद्धेरिति भावः ॥ 5

॥ 9

॥ 4

॥ संवत्सरस्य संवत्सरात्मककालस्य द्वादशमासा वै प्रसिद्धाः । एते द्वादशमासाभिमानिनो धात्रयर्मविवस्वत्‌ पूषत्वष्यृसवितृभगपजन्यवरुणमित्रयमचन्द्रशब्दिता आदित्याः । तेष्वादित्यशब्दं निर्वक्ति ॥ एत इति ॥ एते द्वादशादित्याः इदं सर्वं प्राणिनामायुरादिकं आददानाः यन्ति गच्छन्ति । ते यद्यस्मादिदं सर्वमाददाना यन्ति तस्मादादित्य इत्युच्यन्त इत्यर्थः । आङ्‌ पूर्वाभ्यां दाण्‌ दाने या प्रापण इत्याभ्यां ड प्रत्यये ददातेरिदादेशे चादित्य इति रूपसिद्धेरिति भावः । अश्ऱ्विनिर्ऋतिकुबेरविनायकानामुत्तमत्वेप्यर्यमांशधातृविधातृसूर्येषु विशेषावेशान्न पृथगुक्तिः ॥ 5

॥ 9

॥ 5

॥ अशनिरिति वज्राभिमानी वायुजेन्द्रः पशवः पश्ऱ्वभिमानी जयन्त इत्यर्थः । अपकृष्योपि जयन्तो मन्वावेशात्त्रयस्त्रिंशत्सूक्तः

?R

॥ त्रयस्त्रिंशत्सु षडुत्तमा उक्तास्तान्पृच्छति ॥ कतमे षडिति ॥ पप्रच्छेत्यनुषंगः । उत्तरमाह ॥ अग्निश्ऱ्चेति ॥ अग्न्यादिशब्दिता वसुत्वेनोक्ता एव ग्राह्याः । एतेषां षण्णां त्रयस्त्रिंशत्सु वरत्वे तुमाह ॥ एतेषु हीति ॥ इदं षड्‌ षट्‌कं ज्ञानविज्ञानैश्ऱ्वर्यवीर्यश्रीयशोरूपगुणषट्‌कम्‌ । एतेषु गरुडादिषु सर्वं सम्पूर्णं हि यतोतः एते षडुत्तमा इत्यर्थः । षट्‌सूत्तमांस्त्रीन्पृच्छति ॥ कतमे त इति ॥ इमे एव प्राक्‌ अग्निवाय्वादित्यशब्दिता वीन्द्रवायुमहेश्ऱ्वराः स्वस्वभायर्ाणामाश्रयत्वाद्वा ज्ञानरूपत्वाद्वा लाका इत्युक्तास्त्रय इत्यर्थः । कथमेषां षड्‌भ्योप्युत्तमत्वमित्यत आह ॥ एतेषु हीमे सर्वे देवा इति ॥ आयत्ता इति योज्यम्‌ । इति यतोत उत्तमा इत्यर्थः । ब्रह्मशेषयोर्वायुरुद्रपदसाम्यात्तयोः पृथगनुक्तिः । त्रिष्वपि द्वौ वरावित्युक्तं प्राक्‌ । तौ पृच्छति ॥ कतमाविति ॥ अन्नं प्रागन्तरिक्षपदोक्ता श्रद्धा प्राणस्तपतिर्मुख्यवायुः ॥ 5

॥ 9

॥ 8

॥ प्राक्‌ तयोरध्यर्धोधिक इत्युक्तं तं पृच्छति ॥ कतम इति ॥ यः सर्वलोकाश्रयतया पवते अयं वायुरध्यर्ध इति । तदाहुर्वायोरध्यर्धत्वविषयेनुत्पत्तिमाहुः । किमिति अयं वायुः यद्यस्मादेक इवैव पवते अथ तस्मात्‌ । कथमध्यर्थः । अर्धेनाधिको ह्यध्यर्ध इति वाच्यत्वादिति उत्तरमाह ॥ यदस्मिन्निति ॥ यद्यस्मादस्मिन्वायौ । इदं सर्वं बुद्धिस्थं ज्ञानादिगुणजातं अध्यार्घ्नोत्‌ आधिक्येन ऋद्धमभूत्‌ । तेन हेतुनाध्यर्ध इत्येव न त्वर्धेनाधिकोध्यर्ध इति । यद्वा कथमध्वर्ध इति प्रश्ऱ्नस्य गुणसमृद्धिमत्त्वादध्यर्ध इत्युत्तरे कृते सति कथमस्य गुणसमृद्धत्वमित्यतस्तदाहुरित्यादि वाक्यम्‌ । तत्‌ गुणसमृद्धतयोत्तमत्वमाहुः । यद्यस्मादयं वायुरेक इवैव मुख्य इव स्वतन्त्र इवैवेति वा पवते अतो हेतोरध्यधर् इत्यर्थः । वायोरपि विष्णोरुत्तमस्य सत्त्वादेक इवेत्युक्तं द्वयोरेकोधिक इत्युक्तं तं पृच्छति ॥ कतम एक इति ॥ प्राण इतीति ॥ आ समन्तात्प्रकृष्यः ण आनन्दो यस्य स प्राणो विष्णुः एक इत्युच्यते । अन्यस्य तादृशस्याभावादुत्तम इत्यर्थः । श्रीस्तदत्यन्तन्तरंगत्वान्न पृथगुक्ताकुतस्तस्योत्तमतेत्यत आह ॥ स इति ॥ स प्राणनामा विष्णुब्रह्म गुणपूर्णः यथा श्रुत्यादावुदितस्तथैवाविकारेणानन्तकालेषु याति वर्तत इति त्यत्‌ इत्याचक्षते ज्ञानिन इत्यर्थः ॥ 5

॥ 9

॥ 9

॥ प्रष्यव्यार्थज्ञानिनः फलोक्तिपूर्वं प्रष्यव्यं पृच्छति ॥ पृथिव्येवेति ॥ एव शब्दः प्रसिद्धिपरः । प्रसिद्धा पृथिव्येव । यस्य पुरुषस्यायतनं यत्पुरुषाभिमन्यमाना यस्य पुरुषस्याग्निः । अत्तीति व्युत्पत्त्या अग्निनाम्नी अग्निस्था रमा । लोकः मनोवृत्तिरूपबाह्यप्रकाशहेतुः । यस्य पुरुषस्य मनः बोधरूपतया मनोनाम्नी मनस्था रमा ज्योतिः स्वरूपज्ञप्त्यभिव्यक्तिहेतुः । तं सर्वस्यात्मनो जीवजातस्य परायणमुत्तमाश्रयं पुरुषं यो वै य एवाधिकारी विद्याज्जानीयात्‌ । स वै स एव वेदिता ज्ञानी स्यात्तं पुरुषं हे याज्ञवल्क्य वेत्थ किमिति पप्रच्छेति योज्यम्‌ । उत्तरमाह याज्ञवल्क्यः । वेद वा इति ॥ यमात्थ तं पुरुषं सर्वस्यात्मानं परायणमहं वेद वै जानाम्वेव । तमाह य एवायं शारीरः सर्वजीवाभिमानी पुरुषः । स्वायम्भुवो मनुः स एष त्वया पृष्यः पुनः पृच्छेत्याह याज्ञवल्क्यः ॥ वदैव शाकल्येति ॥ पृच्छैवेत्यर्थः । पृच्छति तस्य शारीरपुरुषस्य मनोःका देवता नियमनादिकर्त्रीति अमृतं वायुरिति होवाच ॥ 5

॥ 9

॥ 10

॥ एवमग्रेतनखण्हसप्तकस्यापि योजना ध्येया । काम एव मनोवृत्तिविशेषः स्त्रीरागः । हृदयं हृद्ययनाद्धृदयनाम्नी बुद्धिस्था रमा । लोकः बाह्यप्रकाशहेतुः । यस्येत्यनुषज्यते मनोनाम्नी ज्योतिः । स्वरूपज्ञानाविर्भावहेतुः । एवमग्रेऽपि । काममयः कामाभिमानी प्रद्युम्नः । स्त्रियः श्रीसरस्वत्युमाः ॥ 11

॥ रूपाणि शुक्लादीनि । दृष्यिहेतुत्वहेतुना चक्षुर्नाम्नी चक्षुस्था रमा । आदित्ये पुरुषः रुद्रः । सत्यं चतुर्मुखः ॥ 12

॥ आकाश एव भूताकाश एव । श्रोत्रं श्रवणहेतुतया श्रोत्रनाम्नी श्रोत्रस्था रमा । श्रोत्रः श्रोत्रगतः । प्रतिृणोतीति प्रातिश्रुत्कः पुरुषः । चन्द्रः । दिशो गरुडशेषदक्षाः ॥ 5

॥ 9

॥ 13

॥ तम एवान्धकार एव । अत्रोत्तरखण्डद्वये च प्रागुक्तनिरुक्त्या बुद्धिस्थारमैव हृदयपदार्थः । सर्वत्र मनः शब्देनापि रमैव । छायामयः पुरुषः छायाभिमानी निर्ऋतिः । मृत्युर्यमः ॥ 14

॥ रूपाण्येव प्रसिद्धानि । चक्षुश्ऱ्चक्षुस्था रमा । आदर्शे दर्पणे । पुरुषः तदभिमानी सूर्यः । असुः अन्तगर्तो वायुः ॥ 15

॥ आपो जडभूताः । अप्सु पुरुषः पर्जन्यः । वरुणः प्रसिद्धः ॥ 5

॥ 9

॥ 16

॥ रेत एव प्रसिद्धम्‌ । पुत्रमयः पुरुषः पुत्राभिमानी शब्दः । प्रजापतिः प्रजापालको ब्रह्मा ॥ 17

॥ एवमतिप्रश्ऱ्नान्‌ कुर्वन्तं प्रति शाकल्येति सम्बोध्योवाच याज्ञवल्क्यः । किमिति तदाह ॥ त्वां स्विदिति ॥ इमे ब्राह्मणाः । त्वां स्थित्‌ त्वां किल । अङ्गारावक्रयणम्‌ । अक्रता अकृषत अकुर्वन्‌ । प्लुतिर्दयाविशेषद्योतिका । अरे शाकल्याङ्गारविक्षपेहेतुभूतकाष्ठमेते अकुर्वन्‌ त्वं न जानासि । ब्रह्मसङ्घप्रेरितस्त्वं मदभिमुखो भूत्वा बहुप्रश्ऱ्नान्‌ पृच्छसि । मत्कोपेन तव क्षेमः कथं भविष्यति । अलमियतेति दयया तं प्रत्युवाचेत्यर्थः । अङ्गारा अवक्रियन्ते इतस्ततो विक्षिप्यन्ते येन स काष्ठविशेषाङ्गारावक्रयणशब्दार्थः ॥ 18

॥ तद्वचनमगणयन्‌ पुनस्तज्जयेच्छया पृच्छति ॥ याज्ञवल्क्येति ॥ कुरुपाञ्चालानां सम्बन्धिनस्तद्देशायानिति यावत्‌ । ब्राह्मणानति अतिक्रम्य । अवज्ञायेति यावत्‌ । मामङ्गारावक्रयणमक्रतेति यदवादीः । तत्किं ब्रह्म विद्वानिति बुद्धया अवादीरिति

?R

शाकल्येन पृष्यो याज्ञवल्क्यः । सत्यं अरे अहं ब्रह्म विद्वानेवेति भावेनाह ॥ दिशो वेद सदेवाः स प्रतिष्ठा इति ॥ अहं दिशः सदेवाः अभिमानिदेवतासहिताः । सप्रतिष्ठा साधाराः वेद ॥ 19

॥ एवं याज्ञवल्क्येनोक्ते पृच्छति शाकल्यः । यदिति ॥ यत्‌ यदि । सदेवा दिशः वेत्थ तर्हि । अस्यां प्रच्यां दिशि । किं देवतोसि का देवता अधिष्ठात्री माता येन स किं देवतोसि । एतद्दिगधिष्ठात्रीं कां देवतां ज्ञात्वा सर्वसे तद्वदेति प्रश्ऱ्नार्थः । उत्तरमाह ॥ आदित्यदेवत इति ॥ आदित्यो देवता प्राक्‌ दिगधिष्ठत्री ज्ञाता येन स आदित्यदेवतोऽस्मीति शेषः । अदित्यं प्राक्‌ दिगधिष्ठातारं जानामीत्यर्थः । दिशः सदेवाः सप्रतिष्ठा वेदेत्यत्र सदेव इत्यंशः पृष्यः उत्तरितश्ऱ्च । अधुना सप्रतिष्ठ इत्यंशं पृच्छति ॥ स आदित्यः कस्मिन्प्रतिष्ठित इति ॥ तस्योत्तरम्‌ ॥ चक्षषीति ॥ दृष्यिशक्तिप्रेरके चक्षुर्मानिनि स्वायम्भुवमनाविति । कस्मिन्‌ चक्षुः प्रतिष्ठितमित्यस्योत्तरम्‌ ॥ रूपेष्विति ॥ रूपाभिमानीन्द्रे तदुपपादयति ॥ चक्षुषेति ॥ स्वायम्भुवमनुना तत्प्रसादेन रूपाणि पश्यतीत्यर्थः । रूपाणि रूपाभिमानीन्द्रः कस्मिन्नित्यस्योत्तरम्‌ ॥ हृदय इति ॥ बुद्धिमान्युमायां प्रतिष्ठितानीत्येतदुपपादयति ॥ हृदयेनेति ॥ निगमयति ॥ हृदये ह्येवेति ॥ तदुक्तमभ्यपैति ॥ एवमेवैतदिति ॥ 5

॥ 9

॥ 2

॥ एवमुत्तरखण्डचतुष्ययेपि प्रश्ऱ्नोत्तरपरवाक्ययोजना ध्येया । यज्ञे यज्ञमानिन्यनिरुद्धे । दक्षिणायां दक्षिणाभिमानिन्यां रतिदेव्याम्‌ । श्रद्धायां श्रद्धामानिनि कामे । तदुपपादकम्‌ ॥ यदा हीत्यादि ॥ हृदय इतीति प्राग्वत्‌ । बुद्धिमान्युकमायामित्यर्थः । एवमग्रेऽपि । अप्सु अबभिमानिनि चन्द्रे । रेतसि रेतोमानिबृहस्पतौ । हृदये उमायाम्‌ । तस्मादपि तस्मादेव । जातम्‌ । प्रतिरूपं पुत्रमाहुर्वैदिकाः । किमिति किं पितृहृदयादिवायं पुत्रः सृप्तः विनिस्मृतः । हृदयादिव निर्मित इत्याहुरित्यन्वयः । यत एवमतो हृदय एव रेतः प्रतिष्ठित इत्यर्थः ॥ 22

॥ दीक्षायां दीक्षामानिन्यां शतरूपायाम्‌ । सत्ये स्वायम्भुवमनौ । तस्मादपि तस्मादेव । दीक्षितं पुरुषं सत्यं वेदत्याहुः । तस्मात्सत्येह्येव दीक्षा प्रतिष्ठितेति निगमनम्‌ । हृदये उमायाम्‌ ॥ 23

॥ ध्रुवायां प्राचीदक्षिणामध्यमायां दिशि । वाचि वागभिमानिबृहस्पतौ । हृदये उमायाम्‌ ॥ 24

॥ कस्मिन्नु हृदयं प्रतिष्ठितमित्युमाया अप्याश्रये पृष्ये याज्ञवल्क्यः आक्षिपति ॥ अहाल्लिकेति ॥ अहर्ज्ञानं लीनमस्येति अहर्लीकः । स एवाहल्लिकः । हे अज्ञेत्यर्थः । अहल्लिकेति सम्बाध्योवाच । कुतस्तस्याज्ञत्वमित्यत उच्यते । यत्र यत्‌ । एतत्‌ हृदयम्‌ । हृदयमानिनीमुमाम्‌ । अस्मत्‌ अहंकाराभिमानिरुद्रात्‌ अन्यत्र । मन्यासै मन्यसे जानासि । प्रसिद्धमापि रुद्रादिश्रितत्वमज्ञात्वा त्वं कस्मिन्‌ प्रतिष्ठितमिति पृच्छसि । अतोऽज्ञेति । तस्या रुद्रानाश्रितत्वे बाधकमाह ॥ यद्धीति ॥ यत्‌ यदि । एतत्‌ हृदयम्‌ । हृदयमानिना उमा । अस्मत्‌ अहंकाराभिमानिरुद्रात्‌ अन्यत्र स्यात्‌ । तदनाश्रिता स्यादिति यावत्‌ । तर्हि बुद्धिमान्युमायाः देहाभिरक्षणोपयोगिबुद्धिशक्तयभावप्रसङ्गेनैतच्छरीरं श्ऱ्वानो वाऽद्युः । वयांसि वैनच्छरीरं विमश्ऱ्नीरन्‌ विकषर्षरन्‌ । कस्यापि जीवनं न स्यादिति भावः । इत्युवाच याज्ञवल्क्य इतीति पदान्वयः ॥ 5

॥ 9

॥ 25

॥ एवमाक्षेपपूर्वमुक्तोपि शकल्यः रुद्रो मयोरप्याश्रयं पृच्छति ॥ कस्मिन्निति ॥ त्वं चाहं चेति रूपवानहंकाराभिमानी रुद्रः । आत्मेत्युक्तबुद्धिमानिन्युमा चेत्येतौ द्वौ कस्मिन्प्रतिष्ठितौ (स्त)स्थ इति पप्रच्छत्यर्थः । प्राणे प्राणनामके शेष इत्युवाच याज्ञवल्क्य इत्यर्थः । अपाने अपाननाम्नयां भारत्याम्‌ । व्याने व्यानाभिधे वायौ । उदाने उदाननाम्नयांच श्रीदेव्याम्‌ । समाने समाननामके हरौ । कुतः समाननाम्नो हरेः सर्वाधारत्वमित्यत आह ॥ स एष इति ॥ स कतम एको देवः प्राण इतीत्युक्तः । स एषः समाननामा आत्मा विष्णुः इति न दुःखास्पृष्यरमावन्न भवति । इति न दुःखस्पृष्यब्रह्मादिवच्च नेत्यर्थः । यद्वा। इति न बद्धब्रह्मादिवन्न । इति न रमादिमुक्तवच्च नेत्यर्थः । तत्र हेतुमाह ॥ अगृह्य इत्यादि ॥ अगृह्यः साकल्येन ग्रहणायोग्यः । कुत एवमित्यतः साकल्येन गृह्यत इत्यत्र मानाभावादित्याह ॥ न हीति ॥ साकल्येन गृह्यत इत्यत्र प्रमाणं नास्तीत्यर्थः । अशीर्यः कारणात्‌ कालतोपि वा विशरणशून्यः । कुत इत्यतो ॥ न हीति ॥ पूर्ववदर्थः । एवमग्रेऽपि । असङ्गः सर्वत्र सन्नपि तत्कृतदोषलेपशून्यः । न हीति प्राग्वत्‌ । असितः न कदाचिद्बद्धः । न व्यथते दुःखीभवतीत्यत्र प्रमाणं न हीत्यर्थः ॥ नरिष्य इतीति ॥ कालत्रयेपि नाशहीन इत्यर्थः । अत्र हि न रिष्यत इत्यपि वाक्यं ग्राह्यं प्रकरणबलात्‌ । एवं शाकल्यप्रश्ऱ्नस्य सर्वस्योत्तरमुक्त्वा सामर्षो याज्ञवल्क्यः शाकल्यं स्वयं पृच्छति ॥ एतानीति ॥ एतानि पृथिव्येव यस्यादतनमित्यादिनोक्तानि पृथिव्यादीनि अष्यावायदतनानि । अग्नर्लोक इत्यादिना उक्ता अष्यौ लोकाः । अमृतमिति होवाचेत्यादिनोक्ता अष्यौ देवाः । शारीरः पुरुषः इत्यादिनोक्ता अष्यौ पुरुषाः । स प्रसिद्धो । यस्तात्‌ पुरुषान्‌ । आयतनलोकदेवानपीत्यपि ग्राह्यम्‌ । निरूह्य पुरुषाद्यपेक्षां विनैव निरूह्य निर्गत्य । स्थितेनेति शेषः । बहिष्यरूपेणेति यावत्‌ । ऊढ्‌घा प्रत्यूह्य । प्रतिप्रति तत्तदन्तर्यामिरूपेणोह्य ऊढ्‌घा । अत्यक्रमात्‌ अतिक्रान्तवान्‌ । तं औपनिषदं उपनिषदेकगम्यम्‌ । पुरुषं त्वा त्वां पृच्छामि । तं पुरुषं चेद्यदि । मे मह्यम्‌ । त्वं वि विशेषेण न वक्ष्यसि । तर्हि ते मूर्धा शिरः अविपतिष्यतीत्युवाच याज्ञवल्क्यः ।

?R

शाकल्यस्तं याज्ञवल्क्यपृष्यं भगवन्तम्‌ न मेने नाज्ञासीत्‌ ह किल । तस्य मूर्धा विपपात ह । न केवलमयं मृतः किन्तु अस्य शाकल्यस्य । अस्थीन्यपि परिमोषिणस्तेना अन्यन्मन्यमानाः रजतं मन्यमानाः अपजह्रुः अपहृतवन्तः ॥ 5

॥ 9

॥ 16

॥ अथ शाकल्यपातानन्तरम्‌ । याज्ञवल्क्य उवाच । हे ब्राह्मणाः भगवन्तः वो युष्माकं मध्ये यः कामयते मां प्रष्युमिच्छतीत्यर्थः । स मां पृच्छतु सर्वे वायूयं मां पृच्छत वा । यद्वा वः युष्माकं मध्ये यः कामयते याज्ञवल्क्यो मां पृच्छत्वितीति यावत्‌ । तमहं पृच्छामि सर्वान्‌ यो युष्मान्‌ वा पृच्छामीत्युवाचेत्यन्वयः । एवं तेनोक्तास्ते ब्राह्मणाः न दधृषुः धैर्यवन्तो नाभवन्‌ ॥ 27

॥ तान्‌ ब्राह्मणानेतैवर्क्ष्यमाणश्ऱ्चोकैः पप्रच्छ याज्ञवल्क्यः । महाप्रलयानन्तरं जीवस्य देहयोगरूपोत्पत्तिकर्ता क इति प्रष्युं तस्य नित्यत्वं तावदाह ॥ यथेति ॥ यथा वनस्पतिः वनस्पतौ । व्यत्ययात्‌ । वृक्ष इत्ययं शब्दो अमृषा अन्वर्थस्तथैव । पुरुषः पुरुष इत्ययं शब्दः अमृषा अन्वर्थ एव । वृक्षपदप्रवृत्तिमिनिमित्तं वृक्णत्वं यथा वनस्पतौ विद्यते । तता पुरुकाले सत्यरूपं पुरुषपदवृत्तिनिमित्तं पुरुषे विद्यत एव । तथा चोक्तनिमित्तेन पुरुषपदवाच्यत्वात्‌ जीवो नित्यः सिध्यतीति भावः । वृक्षसदृशतया प्रकृतपुरुषस्य शरीरे हेयत्वज्ञापनाय वृक्षसारूप्यं वक्ति ॥ तस्येत्यादिना ॥ तस्य पुरुषस्य देहस्य लोमानि पर्णानि । वृक्षपर्णानीव अस्य पुरुषदेहस्य । त्वक्‌ लोमाश्रयभूतं चर्म । बहिरुत्पाटिका । वृक्षस्य बहिर्भूतत्वगिव । तद्वनक्ति ॥ त्वच इति ॥ यथास्य वनस्पतेः त्वच उत्पटो निर्यासः प्रस्यन्ति । तथास्य पुरुषस्य त्वच एव रुधिरं प्रस्यन्दि । तदेव व्यनक्ति ॥ तस्मादिति ॥ तस्मात्साम्यादेव । तस्मादाहताद्वृक्षाद्रस इव आतृणात्सम्यक्‌ छिन्नाद्देहाद्रुधिरं प्रैति प्रकर्षेण एति । निर्गच्छति । वृक्षदेहयोः साम्यान्तरमाह ॥ मांसानीति ॥ शर्कराणि वृक्षशकलस्तानीयानि मांसानि । स्नावतः स्थिरं स्नावास्थिमध्ये यत्स्थरं विद्यते अस्थिसल्लीनं तत्कीनटमिव दारुसंश्ऱ्लिष्यपाशवत्‌ । पुरुषस्यास्थीनि वृक्षस्यान्तरे विद्यमानदारूणीव । वृक्षान्तस्थसारभूतदारूणीव । वनस्पतिमज्जा पुरषमज्जोपमाकृता । एवं पुरुषस्य वृक्षसाम्यमुपपाद्याधुना नाशोत्पत्तिमत्त्वेनापि साम्योक्तिपूर्वं यत्प्रष्यव्यं तत्पृच्छति ॥ यदिति ॥ यद्यथा । वृक्णः छिन्नो । वृक्षो मूलान्नवतरः पुनः प्ररोहति उत्पद्यते । तता मृत्युना वृक्णः मत्यर्ः स्वित्‌ मर्त्योपि । पुनः पुरुषान्तरात्‌ प्ररोहति । स वृक्षो मर्त्यश्ऱ्च कस्मात्‌ मूलात्‌ कारणात्प्ररोहति उत्पद्यते । वृक्षपुरुषयोः स्वतन्त्ऱ्ेणोत्पादकः कः किं लक्षणकश्ऱ्चेति प्रश्ऱ्नाभिप्रायः । याज्ञवल्क्यः । स्वयमेव सम्भावितकारणान्तरमाशंक्य निराह ॥ रेतस इतीति ॥ हे ब्राह्मणाः रेतसः सकाशात्पुरुषः प्ररोहतीति मावोचत मैवं वदत । कुत इत्यत उक्तम्‌ ॥ जीवत इति ॥ यस्मात्‌ तद्रेतो जीवतः पित्रादेः प्रजायते । मया तु अञ्जसा प्रत्य स्थितस्य महाप्रलयानन्तरं सम्भवः उत्पादकः क इति पृच्छ्यते । न हि तदा रेतोस्तीति भावः । वृक्षस्य बीजजन्यत्वस्य प्रत्यक्षसिद्धत्वात्‌ तदुत्पादकप्रश्ऱ्नो न युक्त इत्यत उक्तम्‌ ॥ धानारुह इव वै वृक्ष इति ॥ धाना बीजम्‌ । बीजरुह इव वृक्षो न वस्तुतः स्वातन्त्ऱ्ेण तज्जन्य इत्यर्थः । नन्वथापि वृक्षो मूलाद्रोहतीत्युक्तत्वात्कथमुत्पादकप्रश्ऱ्न इति चेन्न । तस्याङ्गीकारवादमात्रत्वात्‌ कुत इत्यतस्तमपि पक्षं दूषयति ॥ यदिति ॥ यद्यदा स मूलं वृक्षं पुरुषाः आवृहेयुः उद्वर्तयेयुः । तदा उन्मूलो वृक्षः पुनरा सम्यक्‌ । न भवेत्‌ किम्‌ । यथा एवं मत्युना वृक्णः मर्त्यः स्वित्‌ मर्त्योपि पुनर्न भवेत्‌ किम्‌ । भवेदेव । वृक्षो मत्यर्श्ऱ्च तत्कस्मान्मूलात्प्ररोहतीत्यर्थः । एवं याज्ञावल्क्येन पृष्ये पुरुषस्य पुनरुत्पादकं भगवन्तं जानन्तोपि ब्राह्मणाः तत्पृष्यं सर्वं वक्तुमशक्तत्वात्तूष्णीं बभूवुः । अतः स्वयमेवोत्तरमाह याज्ञवल्क्यः ॥ जात एवेति ॥ विज्ञानं पूर्णज्ञानरूपम्‌ । आनन्दं पूर्णसुखरूपम्‌ । ब्रह्म परब्रह्मैव । सृज्यसर्जनकारणमिति शेषः । सृष्यावानन्दोद्रेक एव हेतुरिति द्योतनायानन्दमिति विशेषणम्‌ । सृष्ययुपयुक्तसार्वज्ञोक्त्यर्थं विज्ञानमिति । ब्रहमणोपि जनकोस्ति किमित्यतो नेत्याह ॥ जात एवेति ॥ अयं भगवान्‌ जात एवानादिकालतश्ऱ्चिदानन्ददेहयुक्ततयाविर्भूत एवातो न जायते । तस्मादेनं को नु जनयेत्‌ न कोपीति । न केवलमयं सृष्यिकर्तैव किन्तु । दातुः स्वोद्देशेन हविरादिदातुः यजमानस्य राति रिष्यः तद्विदो ब्रह्मविदश्ऱ्च तिष्ठमानस्य नित्यं तद्भावनावतस्तु । परायणं परमाश्रय इत्युवाच याज्ञवल्क्य इत्यर्थः ॥ 5

॥ 9

॥ 28

॥ नवमं शाकल्यब्राह्मणम्‌ ॥

श्रीमत्कण्वोपनिषदर्थसङ्ग्रहे राघवेन्द्रयतिकृते पञ्चमोऽध्यायः ॥

5

**************************************************************

षष्ठोऽध्यायः

आगतानामृषीणां मध्ये यो ब्रह्मिष्ठस्तं गुरुत्वेन वरीतुं श्रेष्ठत्वनिर्णयाय हि कथायां कारितायां याज्ञवल्क्ययस्य श्रेष्ठत्वेऽवधारिते सति । तं गुरुत्वेन जनको वव्र इत्याहात्राध्याये । वैदेहो विदेहदेशाधीशो जनकनामा । आसाञ्चक्रे बभूव । ह किल । अव्यग्रमना आसीदिति यावत्‌ । अथ तदा । याज्ञवल्क्य आवव्राज आजगाम । तं होवाच जनक इत्यनुषङ्गः । अचारीः पर्यटनमर्कार्षीः । सम्भावितं कोटिद्वयं स्वयमेवोट्टंकयति ॥ पशूनिति ॥ किं पशूनिच्छन्नुताण्वन्तान्वक्तुमिति शेषः । इत्युवाच जनक इत्यन्वयः । अण्वन्तानित्यस्याणुर्भगवान्‌ । तद्विषयान्‌ निर्णयानित्यर्थः । उभयं पशूनण्वन्तवचनं चेत्युभयमुद्दिश्यैव सञ्चरामि हे सम्राडिति

?R

होवाच याज्ञवल्क्यः ॥ 6

॥ 1

॥ 1

॥ यद्यण्वन्तान्‌ वक्तुमागतस्तार्हि मह्यमुपदिशेति राज्ञा प्रार्थितो याज्ञवल्क्यः । अन्योभ्यः श्रुतादप्यधिकं विवक्षुरन्येभ्यो विदितमनुवदेत्याह ॥ यदिति ॥ ते तुभ्यम्‌ । कश्ऱ्चिज्ज्ञानी । यदब्रवीत्‌ तत्तावद्वयं ृणवामेत्युवाच याज्ञवल्क्यः । एवमुक्तो राजा वक्ति ॥ अब्रवीदिति ॥ मे मह्यम्‌ । शिलिनस्यापत्यं शैलिनो । जित्वानमा मुनिः । ब्रह्म गुणपूर्णम्‌ । वक्तुत्वहेतुना वाङ्‌नामकमब्रवीत्‌ । इत्याह जनकः । शैलिनोपदिष्यं स्तोतुं याज्ञवल्क्यः तस्य आप्तत्वमाह ॥ यथेति ॥ मातृपित्राचार्यशिक्षितः पुरुषो यथा स्वशिष्याय ब्रूयात्‌ तथा तत्‌ वाग्वै ब्रह्मेत्येतदब्रवीत्‌ । वाग्वै ब्रह्मेत्यातदुपपादयति ॥ अवदतो वक्तुत्व0

हीनस्य किं फलं स्यात्‌ न किमपि । अतो वक्तृत्वदातृत्वाद्वाक्‌ ब्रह्मेत्यर्थः । इत्युवाच याज्ञवल्क्य इत्यन्वयः । तस्य वाङ्‌नामकस्य हरेः आयतनं स्थानं प्रतिष्ठां प्रतिमां ते तुभ्यमब्रवीत्‌ । तु शब्दः काक्वर्थे । अब्रवीत्किमित्यर्थः । एवं याज्ञवल्क्येन पृष्यो राजोवाच ॥ न मेब्रवीदिति ॥ तं प्रति मुनिराह । हे सम्राट्‌ एतत्‌ जित्वोपदिष्यं उपास्यस्य हरेर्वाङ्‌नामकत्वमेकपाद्वै इति । आयतनप्रतमादेः मुमुक्षुणा ज्ञेयत्वात्तस्य चानुपदेशादसम्पूर्णमेतदित्यर्थः । एवमुक्तः सम्राडाह ॥ स इति ॥ हे याज्ञवल्क्य । स वै ब्रह्मिष्ठत्वेन प्रसिद्धस्त्वं ज्ञेयत्वत्तस्य चानुपदेशादसम्पूर्णमेतदित्यर्थः । एवमुक्तः स सम्राडाह ॥ स इति ॥ हे याज्ञवल्क्य । स वै ब्रह्मिष्ठत्वेन प्रसिद्धस्त्वं नोऽस्मभ्यं ब्रूहि । आयतनादिकमिति शेषः । एवमुक्तो मुनिराह ॥ वागेवेति ॥ प्रसिद्धवागिन्द्रिय8

मेवायतनमधिष्ठानम्‌ । आकाशः आसमन्ताद्दीप्तत्वादाकाशनाम्नी रमा । प्रतिष्ठा प्रतिमा । एतत्‌ एतत्प्रज्ञेत्युपासीत । राजाह ॥ का प्रज्ञतेति ॥ धर्मधर्मिणोरभेद बुद्धयोत्तरमाह ॥ वागेव सम्राडिति होवाचेति ॥ वाङ्‌नामकं भगवद्रूपमेवेत्यर्थः । तस्य प्रज्ञतामुपपादयति । वाचेति ॥ वाचावै वाङ्‌नामकभगवद्रूपेण वै बन्धुः प्रज्ञायते । को बन्धुरित्यत आह ॥ ऋगिति ॥ ऋगादेबन्धुत्वमिष्योपायबोधकत्न ज्ञेयम्‌ । ऋगादिपदार्थाः व्यक्ताः । विद्येत्यमिताक्षरं पञ्चरात्रमुच्यते । श्ऱ्लोकपदेन मिताक्षरं पञ्चरात्रमुच्यते । सूत्राणि ब्रह्मसूत्रादीनि । अनुव्याख्यानपदेन वेदव्याख्यानबृहत्तर्कादि विस्तारग्रंश्ऱ्वसङ्ग्रहः । व्याख्यानपदेन ब्रह्मतर्कादि वेदव्याख्यानसङ्ग्रहः । इष्यं यजनम्‌ । हुतं दानम्‌ । आशितं अशितं अन्नदानम्‌ । पायितं जलपानम्‌ । अयं च भूम्यादिलोकः । परश्ऱ्च स्वर्गादिलोकः । सर्वाणि भूतानि वाचैव प्रज्ञायन्ते । निगमयति ॥ वाग्वा इति ॥ एवमुपासकस्य फलमाह ॥ नैनमिति ॥ योधिकारी । एवमायतनादियुक्तत्वेन वाङ्‌नामकम्‌ । एतत्‌ परमं ब्रह्म । विद्वानुपास्ते । एनमधिकारिणं वाक्‌ वाङ्‌नामकं ब्रह्म । न जहाति । सः देवान्देवत्वम्‌ । अप्येति प्राप्नोति । ततो देवो भूत्वा स्वोत्तमदेवसायुज्यमाप्नोति । ततो ब्रह्मणा सह भगवन्तं प्राप्नोतीत्यर्थः । तत्र मुक्तौ सर्वाणि भूतानि तदवरमुक्तचेतनानि एनं मुक्तमभिक्षरन्ति अस्मै सर्वभोगान्दुहन्तीत्यर्थः । देवत्वायोग्योमनुष्यश्ऱ्चेत्तज्ज्ञानी तदा देवलोकस्थः सन्देवसायुज्यं प्राप्य स्वावरैः पूज्यत इति ज्ञेयम्‌ । एवमुपदिष्यः सम्राट्‌ क्षत्रियत्वात्सवोचितगुरुदक्षिणादानप्रतिज्ञामकरोदित्याह ॥ हस्त्यृषभमिति ॥ द्वन्द्वैकवद्भावः । सहस्रं सहस्रसंख्योपेतम्‌ । किमुवाचेत्यत आह॥ पिता मेऽमन्यतेति ॥ अननुशिष्य शिष्यायोपदेष्यव्यं सर्वमनुपदिश्य । गुरुदक्षिणां नाहरेत । न गृह्णीयादिति । मे पिता अमन्यत । व्यजानात्‌ । अतः समग्रमुपदिश्य गृह्णामीत्युवाच याज्ञवल्क्य इत्यर्थः ॥ 6

॥ 1

॥ 2

॥ यदेवेत्यादिखण्डपञ्चकेप्येवमेव प्रश्ऱ्नोत्तररूपतया योजना ध्येया । शुल्बायनस्यापत्यं शैल्बायनः । उदंको नामतः । ब्रह्म प्राणो वै जगत्प्रणयनात्प्रणशब्दितं वै । प्रसिद्धम्‌ । इत्यब्रवीदुदंक इत्यन्वयः । अप्राणतः उच्छ्वासनिःश्ऱ्वासरहितस्य । तद्वयापारकर्तृप्राणशब्दितभगवद्रूपहीनस्येति वा । किं स्यात्‌ । न किमपि । प्रवृत्तिमात्रपरिलोपः स्यादित्यर्थः । प्राण एव प्राणापानादिरूपो वायुरेवायतनं स्थानम्‌ । एनत्प्राणनामकं प्रियमित्युपासीत । तस्य प्रियत्वमुपपादयति ॥ प्राणस्यैवेति ॥ हे सम्राट्‌ । प्राणस्थस्य प्राणनाम्नो हरेरेव कामाय सम्प्रीत्यै । भोजनं भवेदिति शेषः । तादृशभोगारर्थमेवाज्ञोपि जनः । प्राणस्य प्राणनाम्नो हरेः । कामाय इच्छयैवायाज्यं शूद्रादिकमपि याजयति । अप्रतिगृह्यस्य प्रतिग्रहानर्हस्य सकाशात्प्रतिगृह्णाति । प्राणस्य कामेन यां दिशमेति तत्र वधाशंकं चौर्यकर्म भवत्यतः प्राणः प्रिय इत्यर्थः । वध आशंक्यते येन कर्मणातद्वधाशंकमिति व्युत्पत्त्या चौर्यकमर्वधाकंकपदार्थः । निगमयति ॥ प्राणो वै सम्राट्‌ परमं ब्रह्मेति ॥ नैनं प्राणः इति ॥ प्राणः प्राणस्थः तन्नामा हरिर्नजहातीत्यर्थः ॥ 6

॥ 1

॥ 3

॥ वृष्णस्यापत्यं वा(र्ष्णिः)र्ष्णः वबर्कुर्नामतः । ब्रह्म चक्षुर्वै सर्वदर्शनाच्चक्षुर्नामकं वै अपश्यतः दर्शनादिप्रदचक्षुर्नामकहरिहीनस्य किं स्यात्‌ । जाग्रद्दर्शनहेतुभूतस्य विश्ऱ्वाख्यास्य भगवद्रूपस्य चक्षुःस्थस्याभावे पदार्थदर्शनामात्रलोपेन प्रवृत्त्यादिर्न स्यादिति भावः । चक्षुरेव चक्षुरिन्द्रियमेवायतनं स्यानम्‌ । चक्षुःस्थस्य हरेः सत्यत्वमुपपादयति ॥ चक्षुषेति ॥ चक्षुषा चक्षुनर्ामकेन तत्स्थेन विश्ऱ्वाख्यरूपेण तत्प्रेरणयेति यावत्‌ । पश्यन्तं पुरुषं प्रत्याहुः । अन्ये पुरुषा अद्राक्षीरिति स पश्यन्पुरुष आह ॥ अद्राक्षमिति ॥ पुनर्द्दृष्यं चेत्तद्वस्तु सत्यं यथास्थितं भवत्यतः चक्षुर्नामकस्य हरेः यथार्थज्ञानहेतुत्वाच्चक्षुःस्थं ब्रह्म सत्यं

?R

भवतीत्यर्थः । अत्र चक्षुःस्थविश्ऱ्वाख्यरूपस्य सत्यार्थविषयकदर्शनहेतुत्वोक्त्या सत्यत्वोपपादनमुपलक्षणम्‌ । शब्दस्पर्शरूपरसगन्धादिज्ञानहेतुत्वाच्च सत्यत्वं ध्येयम्‌ । अत एव चक्षुःस्थविश्ऱ्वरूपस्य कण्ठस्थानागमने सति चक्षुतर्निमीलनं सर्वबाह्येन्द्रियव्पारोपरतिश्ऱ्च भवतीति ज्ञेयम्‌ । नैनमिति ॥ एनमुपासकम्‌ । चक्षुर्नामकं चक्षुःस्थं ब्रह्म न जहातीत्यर्थः ॥ 6

॥ 1

॥ 4

॥ गर्दभी गर्दर्भदेशीयः । विपीतो नामतः । भरद्वाजस्यापत्यं भारद्वाजः । ब्रह्म श्रोत्रं वै श्रवणशक्तिदत्वाच्छ्रोत्रनामकं वै इत्यब्रर्वादित्यन्वयः । अृण्वतः श्रवणव्यापारदातृ भगवद्धीनस्य किं स्यात्‌ । सच्छस्त्रश्रवणादेरसम्भवादतस्तद्दातृत्वाच्छ्रोत्रं ब्रह्मेत्यर्थः । श्रोत्रमेव श्रोत्रेन्द्रियमेवायतनं स्थानम्‌ ॥ दिशएवेति ॥ दिक्षु स्थितो दिङ्‌नामो विष्णुरेवेत्यर्थः । दिगन्तर्गतस्य विष्णोरनन्तत्वमुपपादयति ॥ तस्मादिति ॥ हे सम्राट्‌ हि यताले दिशोऽनन्ताः दिक्षु स्थितो दिङ्‌नामा विष्णुः सर्वव्यापी । तस्माद्वै तस्मादेव । यः कोपि । यां कां च दिशं तन्नामकभगवदधिष्ठितां दिशम्‌ । गच्छति । अयाः दिशोतमवसानं न गच्छतीत्यथर्ः । यदाधिष्ठितदिशामेवानन्तत्वं सोनन्त इति किमु वाच्यमिति भावः । ननु दिङ्‌नामकस्य दिक्षु स्थितस्य हरेरनन्तत्वे श्रोत्रान्तःस्थस्य चानन्तत्वेनोपासनं कथमित्यत आह ॥ दिशो वै सम्राट्‌ श्रोत्रमिति ॥ दिक्षु स्थितमेव रूपं श्रोत्रस्थमित्यर्थः । एनमुपासकम्‌ । श्रोत्रं श्रोत्रस्थं तन्नामकं ब्रह्म । न जहातीत्यर्थः ॥ 6

॥ 1

॥ 5

॥ जबालाया अपत्यं जाबालः । सत्यकामो नामतः । ब्रह्म मनो वै मन्त्रत्वतो मनोनामकं वै । इत्यब्रवीदित्यन्वयः । अमनसः मननशक्तिदातृमनोनामकभगवद्रूपहीनस्य किं स्यात्‌ । मननादेरसम्भवात्‌ । मन एव मनोरूपेन्द्रियमेवायतनम्‌ । एनन्मनोनामकं ब्रह्म आनन्दः आनन्दहेतुरित्यपासीत । आनन्दता आनन्दहेतुता । मनोगतस्य हरेरानन्दहेतुत्वमुपपादयति ॥ मनसेति ॥ मनसा मनोनामकभगवदधिष्ठितेन मनसा । पुमान्‌ स्त्रियमभिहार्यते अभिगच्छति । तस्यां स्त्रियाम्‌ । प्रतिरूपोऽनुरूपः । पुत्रो जायते । स जातः पुत्रः । आनन्दः आनन्दहेतुः । एवं यदाधिष्ठितमनोव्यापारेण अतः पुत्रः सुखहेतुः स आनन्दरूपो हरिः सुखहेतुरिति किमु वाच्यमित्यर्थः । एनमुपासकम्‌ । मनो मनोनाकं मनःस्थं ब्रह्म । न जहातीत्यर्थः ॥ 6

॥ 1

॥ 6

॥ विदग्धो नामतः । शकलस्यापत्यं शाकल्यः । ब्रह्म हृदयं वै । हृद्ययत इति व्युत्पत्त्या हृदयनामकं वै इत्यब्रवीत्‌ । अहृदयस्य बुद्धिहेतुहृदयनामकभगवद्धीनस्य किं स्यात्‌ । न किमप्यतो बुद्धिदातृत्वाद्धृदयं ब्रह्मेत्यर्थः । हृदयं प्रसिद्धमेवायतनं स्थानम्‌ । स्थितिहेतुरित्यर्थः । स्थितिता स्थितिहेतुता । उत्तरमाह ॥ हृदयमेवेति ॥ हृदयनामकं हृदयगतमेव । हृदये सर्वशो व्याप्तं प्रादेशपरिमितं तथा हृत्कर्णिकामूलगतं अङ्गुष्ठाग्रप्रमाणकम्‌ । तथा हृत्कर्णिकाग्रगतमङ्गुष्ठमात्रपरिमितं चेति भगवद्रूपत्रयमेव स्थितिहेतुरित्यर्थः । आद्यस्य हृदयनाम्नो हरेः स्थितिहेतुत्वमुपपादयति ॥ हृदयं वा इति ॥ हृदयं हृदयनामकम्‌ । हृदयमभिव्याप्य स्थितं । प्रादेशपरिमितं रूपं सर्वेषां भूतानामायतनं स्थानं वै । द्वितीयतृतीयरूपयोः स्थितिहेतुतामुपपादयति ॥ हृदयं वा इति ॥ हृत्कणिर्कामुलगतम्‌ । हृत्कणिकाग्रअगतं च सर्वेषां भूतानां प्रतिष्ठा धारकं सदा सुप्तौ चेति ज्ञेयम्‌ । तद्वयनक्ति ॥ हृदये ह्येवेति ॥ हृत्कर्णिकामूलगते विष्णुरूप एव सर्वाणि भूतानि सदा प्रतिष्ठितानि भवन्तीत्यर्थः । तथा हृदये हृदयनामिन । कर्णिकाग्रअगते हरौ सर्वाणि भूतानि विशेषतोपि सुप्तौ प्रतिष्ठितानि भवन्तीत्यर्थः । एनमुपासकम्‌ । हृदयं हृदयनामकं रूपं न जहातीत्यर्थः। शिष्यं प्राग्वत्‌ ॥ 6

॥ 1

॥ 7

॥ इति षडाचार्यब्राह्मणम्‌ ॥ जनको ह वैदेहः स्वयोग्यरूपज्ञानं श्रोतुं कूर्चात्सिंहासनादवरुह्य उपावसर्पन्‌ उपसत्तिं कुर्वन्‌ कृत्वेति यावत्‌ । उवाच तदाह ॥ नम इत्यादि ॥ अनु अनुरूपम्‌ । मम योग्यज्ञानं यथा भवति तथा । मा मां शाधि शिक्षयेत्युवाचेत्यर्थः । एवमुक्तो याज्ञवल्क्यः मुक्तौ यत्स्वात्मना प्राप्यं तद्रूपमुपास्यैवमुक्भवतीति भावेन प्राप्यं पृष्यवानसि किमिति राजनं पृच्छति ॥ स होवाचेत्यादिना ॥ B-K-8

?R

े सम्राट्‌ । यथा कश्ऱ्चित्त्वादृशः सम्राट्‌ राजा महान्तमध्वानं मार्गम्‌ । स्थले जले वा एष्यन्‌ गच्छन्‌ । यथाक्रमं रथं नावं वा । समाददीत एवमेवैताभिः पूर्वोक्ताभिः । वाग्वै ब्रह्मेत्यादिभिरुपनिषद्भिः समाहितात्मा स्वस्थमानसः । असि । एवं दृश्यमानप्रकारेण वृदारकः वन्दैः भृत्यादिसङ्घैः प्राप्यतमः । आढ्यः धनी सन्नप्यधीतवेदः उक्तोपनिषत्कः व्याख्यातोपनिषत्कः त्वमित्यतः संसाराद्विमुच्यमानः क्व गमिष्यसीत पृष्यो राजा वक्ति ॥ नाहमिति ॥ यत्र गमिष्यामि तन्मया प्राप्यं अहं न वेदेत्युवाच राजेत्यर्थः । मुनिराह ॥ अथेति ॥ एवं तर्हीत्यथ शब्दार्थः ॥ ते तुभ्यम्‌ । राजा वक्ति ॥ ब्रवीतु भगवानिति ॥ 6

॥ 2

॥ 1

॥ मुनिरुपदिशति ॥ इन्ध इति ॥ योयं प्रसिद्धः सर्वेषां दक्षिणेऽक्षन्‌ अक्षणि वर्तमानः पुरुषः दीप्तत्वादिन्धो वै नाम प्रसिद्धः । एष मुक्तौ राजभिः प्राप्यः । अतः स एव तद्धृदिस्थः उपास्थः । तं राजहृदयान्तर्गतम्‌ । एतं दक्षिणाक्षिस्थम्‌ । इन्धनामानं सन्तं इन्द्र इति परोक्षेणाप्रसिद्धनाम्ना आचक्षते देवाः । कुत एवमाहुरित्यत आह ॥ परोक्षेति ॥ हि यस्मादेवाः परोक्षप्रियाः । अप्रसिद्धनाम्नैव भगवदुपदेशप्रियाः । प्रत्यक्षद्विषः प्रसिद्धनाम्ना हरेरुपदेशद्वेषिणः ।

?R

प्रत्यक्षोपदेशे अयोग्यानामपि ज्ञानप्राप्तेः तेषां सम्यग्ज्ञानाभावस्य देवानां प्रियत्वादिति भावः । तदाह सूत्रे अनाविष्कुर्वन्नन्वयादिति । साधून्प्रति प्रत्यक्षोपदेशस्येष्यत्वात्परोक्षप्रिया इवेतीव शब्दः ॥ 6

॥ 2

॥ 2

॥ दक्षिणाक्षिगतभगवद्रूपमहिमानं उपास्यान्तरोक्तिपूर्वमाह ॥ अथेति ॥ अन्यदपीत्यथ शब्दार्थः । एतत्‌ वामे अक्षणि स्थितपुरुषरूपं चोपास्यमिति शेषः । एषा प्रसिद्धा विराट्‌नाम्नी श्रीरस्याक्षिस्थस्य हरेः पत्नी । तयोरिन्द्रविराजोरेष सन्स्तावः सर्ववेदरूपस्तुतिः य एषोन्तर्हृदय आकाशः आ समन्तात्काशमानः कर्णयोः पिधाने सति सर्वजीवानां घोषात्मना प्रतीयमान इति यावत्‌ । एष संस्ताव इति पूर्वेणान्वयः । अथ य एष प्रसिद्धो हृदये हृत्कमलरूपे लोहितपिण्डः कर्णिकारूपः । स एनयोरिन्द्रविराजोरन्नम्‌ । तत्र स्थित्वाऽन्नस्यादनाद्धेतोरन्नमित्युच्यते । अथ यदेतत्प्रसिद्धं हृदयेन्तर्जालकमिव स्थितं वपारूपं तदेनयोः पूर्वोक्तेन्द्रविराजोः प्रावरणमन्तर्वस्त्रस्थानीयम्‌ । अथ या एषा हृदयाद्धृदयम्रायोर्ध्वनाडी ऊर्ध्वब्रह्मरन्ध्रपर्यन्तं वर्तते । एषा एनयोः सञ्चरणी सञ्चरणहेतुभूता मृतिर्मार्गः । हृदयलोहितपिण्डेसिथतस्य हरेराहारं वक्तुमाह ॥ यथेति ॥ यथा केशः सहस्रधा भिन्नः एवमेताः प्रसिद्धाः हिताः नाम । जीवस्य हितकृत्त्वाद्धरेः सन्निधियुतत्वाद्वा हिता इति प्रसिद्धा नाड्यः सहस्रधा भिन्नाः अस्य जीवस्य हृदयेन्तः प्रतिष्ठिता भवन्ति । एताभिः हितानामकनाडीभिः । एतत्‌ मस्तकस्थितममृतमास्रवत्‌ स्रवत्स्वभावमास्रवति स्यन्दते आगच्छति तदत्ति इन्धनामा हरिरिति योज्यम्‌ । तस्मात्तददनादेष इन्धः । अस्माच्छारीरादात्मनो जीवात्‌ प्रविविक्ताहारतरो विलक्षणाहार एव भवति । अवतारेषु स्थूलमपि मुंक्त इति इव शब्दः । व्याख्यातमेतत्सप्तमे गीताभाष्ये ॥ 6 2

॥ 3

॥ चतुर्दिक्षु इन्धस्य सेवकानाह ॥ तस्येत्यादिना ॥ प्राञ्चः प्राचीदिगवस्थिताः प्रणेतृत्वहेतुना प्राणनामकाः इन्द्रग्नी तद्भार्ये चेति चत्वारः । तस्य हरेः प्राची दिक्‌ प्रच्यां दिशि तिष्ठन्तीत्यर्थः । अत्र प्राच्यादिपदेन सकोणश्ऱ्चतस्रो दिशो विवक्षिता इति ज्ञेयम्‌ । एवमग्रेऽपि योजना ध्येया । दक्षिणाः दक्षिणदिशि स्थिताः प्राण नामानः यमनिर्ऋती तद्भार्ये चेति चत्वारः । प्रत्यञ्चः प्रतीचीदिक्‌स्थिताः प्राणाः वरुणवायु तद्भार्ये इति चत्वारः । उदञ्चः उत्तरदिक्‌स्थिताः सोमेशानौ तद्भार्ये चेति चत्वारः । ऊर्ध्वाः ऊर्ध्वदिगवस्थिताः । प्राणाः चतुर्मुखमुख्यवायू तद्भार्ये चेति चत्वारः । अवाञ्चः अधोदिगवस्थिताः शेषकामौ तद्भार्ये चेति चत्वारः अवाक्‌ दिशि प्रतितिष्ठन्तीत्यर्थः । एवमुक्तदिशा सवर्े प्राणा इन्द्राद्याः । सर्वदिक्षु स्थिताः । हरिपरिवारतया तिष्ठन्तीत्यर्थः । इन्धस्य महिमान्तरमाह ॥ स एष इत्यादिना ॥ व्याख्यातमिदं वाक्यं पूर्वाध्याये शाकल्यब्राह्मणान्त्यभागे । जनक त्वम्‌ । अभयं संसारभयाभावं प्राप्तोसीति होवाच याज्ञवल्क्यः । एवमुक्तो राजोवाच । हे भगवन्‌ याज्ञवलक्य यत्त्वत्प्रसादान्नोऽस्माकं अभयं वेदयसे प्रापयसि । तत्त्वा त्वम्‌ । गच्छतात्‌ । त्वत्प्रसादादागतमभयं त्वत्तृप्तयेस्तु । नान्यद्वयं तव प्रतिकर्तुं शकनुप्र इत्यर्थः । ते तुभ्यं नमोस्तु । इमे मदीयाः विदेहाः । विदेह देशास्तव । अयमहं तवास्मि । तव भृत्योस्मीत्युवाचेत्यन्वयः ॥ 6-2-4

॥ इति द्वितीयं कूर्चब्राह्मणम्‌ ॥ विद्यान्तरमाह ॥ जनकमित्यादिना ॥ जनकं ह वैदेहं प्रति याज्ञवल्क्यः जगाम । किमर्थमित्यत आह ॥ समिति ॥ एनेन अनेन राज्ञा । संवदिष्ये संवादं करिष्ये । इति तेन संवादार्थं स्वयमेव कुतो जनकं प्रत्यगमदित्यत आह ॥ अथ हेति ॥ यद्यस्माज्जनकश्ऱ्च याज्ञवल्क्यश्ऱ्च पूर्वमग्निहोत्रगृहे समूदाते संवादह कृतवन्तौ । तदा तस्मै प्रसन्नः सन्मुनिर्वरं ददौ । स राजा स्वयमेवागमनं कामप्रश्ऱ्नमेव वरं च ययाचे ह किल । तं याचितं वरमस्मै ददौ । ततः कारणात्स्वयमेवानाहूतो जगामेत्यर्थः । एवं वरस्य दत्तत्वाद्यथेष्यं पृच्छेति याज्ञवल्क्योक्त्यनन्तरं यद्यपि प्रष्यव्यं तथाप्यौत्सुक्यवशात्तं सम्राडेव । पूर्वः पूर्वम्‌ । पप्रच्छ प्रश्ऱ्नमकरोत्‌ ॥ 6

॥ 3

॥ 1

॥ तदाह ॥ याज्ञवल्क्येति ॥ अयं पुरुषः संसारिजीवः । किं ज्यातिर्ज्ञानसाधनं यस्य स किंज्यातिरिति बहुव्रीहिः । किमस्य ज्ञानसाधनमित्यर्थः । इति पृष्य उत्तरमाह मुनिः ॥ आदित्यज्यातिरिति ॥ बहुव्रीहिरयमपि । एवमग्रेऽपि । ज्योतिः शब्दोत्र ज्ञानसाधनपरो ध्येयः । हेति शब्दः आदित्यस्य ज्योतिष्ट्वप्रसिद्धयर्थः । एवमग्रेऽपि । तदेवोपपादयति ॥ आदित्येनैवेति ॥ बाह्यतेजोन्तरव्यावृत्त्यर्थोत्रैव शब्दः सर्वत्र ज्ञेयः । आदित्येन ज्योतिषा अयं जीवः । आस्ते उपविशति । पल्ययते परितो गच्छति । कर्म कुरुते । विपल्येति प्रत्यावर्तते इति शब्दो हेत्वर्थः । इति तोरादित्यज्योतिरयं जीव इत्यर्थः । मुनिनोक्तमर्थमघ्गीकृतवान्जेत्याह ॥ एवमेवेति ॥ एवमेवोत्तरखण्डचतुष्ययेपि प्रश्ऱ्नप्रतिवचनोपपादयनवाक्यानामर्थो ध्येयः ॥ 3-4

॥ वागेवेति ॥ शब्दव्यवहार एवेत्यर्थः । तस्य ज्योतिष्ट्वमप्रसिद्धत्वादुपपादयति ॥ तस्मादिति ॥ यत्र देशे । स्वः स्वकीयः । पाणिर्हस्तो । न विनिर्ज्ञायते न जायते । गाढान्धरकारदेश इत्यर्थः । अथ तादृशदशायां यत्र देशे वागुच्चरित आह्वानादिशब्दं करोति । तत्र तं देशं प्रत्युपन्येत्येव । उपगच्छत्येवेति हेतोः वागेव ज्योतिरित्यर्थः । 5

। सुप्तौ ज्ञानहेतुं पृच्छति ॥ अस्तमित इत्यादिना ॥ आत्मैव परमात्मैवेत्यर्थः । कतं सुप्तौ हरेः जीवज्योतिष्ट्वमितयत आदित्यादिज्यातिर्दशायामपि हरिरेव जीवस्य ज्ञानेहेतुः सन्‌

?R

गमनागमनादिहेतुः किमु वाच्यं सुप्तौ ज्ञानहेतुरिति भावेनाह ॥ आत्मनैवायमित्यादि ॥ 6

॥ 3

॥ 6

॥ जीवदेहेन्द्रियादिभ्योतिविवेकेनात्मनोप्रसिद्धेः पृच्छति ॥ कतम इति ॥ जीवदेहादितो विवेकेनात्मानमाह ॥ योयमिति ॥ यो विज्ञानमयः पूर्णज्ञानरूपः । प्राणेर्ष्विन्द्रियेषु । हृद्यनतः जीवहृदयान्तः । ज्योतिर्ज्ञानहेतुः सन्वर्तते पुरुषः । अयमात्मेत्यर्थः । तदाह ॥ सूत्रे ॥ ज्योतिर्दर्शनादिति ॥ तस्य महिमानमाह ॥ स समान इति ॥ स आत्मा । समानः निर्विकारः सन्नुभौ लोकौ भूलोकद्युलोकौ । तता जाग्रत्सुप्तिस्थने च जीवमादायेति शेषः । अनुसञ्चरन्ति । आत्मनो महिमान्तरमाह ॥ ध्यायतीवेति ॥ जीवं व्याययतीत्यन्तर्णातां णिजत्रोत्तरत्र च ज्ञेयः । जीवस्य ध्यने स्वान्त्ऱ्यं नास्ति हरेरेवेति द्योतनार्थमिव शब्दः । लेकायतीव । ला आदाने । जीवं ग्राहयति आदापयतीत्यर्थः । स हरिः । स्वप्नो भूत्वा । जीवस्य स्वपको भूत्वा । भूलोकप्रापको भूत्वा च । मृत्यो रूपाणि बहुपापहेतुतया मृत्युरूपात्मकं जाग्रदाख्यं भूकाख्यं चातिक्रमति । अतिक्रमयति । जीवं दक्षिणाक्षिरूपजाग्रद्देशान्निष्क्राम्य सुप्तिदेशरूपहृदयस्यं करोति । भूलोकान्निष्क्राम्य द्युलोकस्थं करोतीत्येवमस्य प्रकरणस्य द्वयर्थपरता ध्येया ॥ 6

॥ 3

॥ 7

॥ स वा अयं पुरुषः । योयं विज्ञानमयः पुरष इत्युक्तः । स समान इत्यादिना प्रकृतः पुरुषो हरिः । जायमानः । तस्य व्याख्या ॥ शरीरमभिसम्पद्यमान इति ॥ जीवमादाय स्वयमेव पितृप्रवेशद्वारा मातृदेहं प्रविश्याभिनवदेहं प्रतिपद्यत इति स्वातन्त्ऱ्ाभिप्रायेणेयुमुक्तिः । यद्वा जायमनो जीवं जनयन्‌ शरीरमभिसम्पादयन्निति व्याख्येयम्‌ । संसृज्यते जीवस्य फलदानाय तत्कृतपापान्युपादत्त इति भावेन संसृज्यत इत्युक्तिः । उत्क्रामन्नित्यस्य विवरणम्‌ ॥ म्रियमाण इति ॥ स्वयेमव जीवमादाय देहान्निष्क्रामतीति स्वातन्त्ऱ्ाभिप्रायेणैवमुक्तिः । उत्क्रामयन्मारयन्निति वा व्याख्या । विजहाति । मुक्तिरूपफलदानाय जीवं पापफलादानाज्जहातीत्यर्थः । यदा तु किं ज्यातिरयं पुरुष इत्युपक्रान्तः आत्मज्यातिष्ट्वेनोक्तो जीवः स वा अयं पुरुष इति परामृश्यते । तदा तु यथाश्रुतएवार्थः । न ण्यथर्त्वेन व्याख्या ॥ 6

॥ 3

॥ 8

॥ आत्मैवास्य ज्योतिरित्युक्तात्मनः स्थितिस्थानमाह ॥ तस्य वा एतस्येति ॥ तस्यैतस्य नियन्तृत्न प्रसिद्धस्य पुरुषस्य हरेः । द्वे एव स्थाने भवतः । इदं च परलोकस्थानं चेतीति शब्दो ध्येयः । भूलोकस्वर्गलोकरूपम्‌ । जाग्रत्सुषुप्तिदेशरूपं चेति द्वे स्थाने भवत इत्यर्थः। सन्ध्यं जाग्रत्सुषुप्तिसन्धौ भवं सन्ध्यम्‌ । तृतीयं स्वप्नस्थानम्‌ । जीवस्य स्वाप्नवासनामयपदार्थप्रदर्शनस्थानम्‌ । कण्ठदेश इति यावत्‌ । तथा द्युभूसन्धौ भवं सन्ध्ये । स्वप्नस्थानशब्दितमन्तरिक्षम्‌ । तृतीयं स्थानमित्यप्यर्थः । तस्मिन्सन्ध्ये कश्ठदेशेन्तरिक्षे तिष्ठन्निदं च परलोकस्थानं चेत्यभे स्थाने जाग्रत्सुषुप्तिस्थाभूतदक्षिणाक्षिहृदयरूपस्थाने पृथिवीद्युललोकरूपस्थाने च पश्यति । अथ जाग्रत्सुषुप्तिस्थानदर्शनानन्तरम्‌ । अयं पुरुषो हरिः परलोकस्थाने सुप्त्याख्ये द्युलोकाख्ये च जाग्रस्थानाद्भूलोकाश्ऱ्च गन्तव्य यथाक्रमो यो मार्गो भवति । तत्क्रमं मार्गं स्वप्नाख्‌यं कश्देशमन्तरिक्षं चाक्रम्य प्राप्य । तत्र स्थित्वेति यावत्‌ । उभयानित्यस्य विवरणं । पाप्मनः आनन्दांश्ऱ्च पश्यति । जाग्रद्दशयां भूलोके जीवेनानुभूयमानानि पापफलभूतदुःखाति सुप्तौ द्युलोके चानुभूयमानानन्दादींश्ऱ्च पश्यतीत्यर्थः स आत्मा यत्र यदा स्वपिति जीवं स्वपयति द्युलोकं वा प्रापयति । स्वापप्रकारं व्यनक्ति ॥ अस्येति ॥ अस्य लोकस्य जनस्य । सर्वावतः आ समन्तात्‌ सर्ववतः सर्वं विषयीकुर्वज्ज्ञानानीति यावत्‌ मात्रामिन्द्रियशक्तिं चोपादाय स्वयं विहृत्यायहृत्य । जीवं बाह्मयव्यापारहीनं कृत्वा । स्वयं निर्माय वासनामयान्स्वाप्नपदार्थानन्यादृशान्स्वर्गस्थात्रथादीनुत्पाद्य । स्वेन स्वकीयेन । स्वरूपमूतेनेति वा । भासा बाह्यप्रकाशने । वचोंरूपेण । स्वेन ज्यातिषान्तरप्रकाशेन । प्रस्वपिति । जीवं स्वापयति स्वर्गं वा प्रापयति । अत्रास्मिन्स्वपादिकाले । अयं परुषो हरिः । स्वयमेव जीवस्य ज्योतिर्भवतीत्यर्थः ॥ 6

॥ 3

॥ 9

॥ तृतीयं स्वप्नस्थानमिति प्रकृतस्वप्नावस्थां विविच्य दर्शयति ॥ न त्रेति ॥प्रत्र स्वप्नावस्थायामन्तरिक्षे च द्युलोके च । रथाः न प्राक्‌ स्थिताः । रथयोगा रथे युज्यमाना अश्ऱ्वादयः । अथ तस्माद्रथादीन्सृजत इत्यर्थः । आनन्दाः स्वरूपसुखानि । मुदः विषयजन्यसुखानि । प्रमुदः प्रकृष्यविषयजन्यसुखानि । वेशान्ताः वेश्यागृहाः । पुष्करिण्यः सरांसि । स्रवन्त्यो नद्यः । न केवलमेतावत्‌ । सर्वस्यापि कर्तेत्याह ॥ स हि कर्तेति ॥ हि प्रसिद्ध इत्यर्थः । तदाह ॥ सूत्रे ॥ सन्ध्ये सृष्यिराह हीति ॥ सुषुप्तिमोक्षोभयविववक्ष्यैतद्वचनमित्यादि भाष्यानुसारात्‌ । तस्य वा एतस्येत्यादिकं संसारमोक्षपरतयापि योज्यम्‌ । तथाहि । तस्यैतस्य पुरुषस्य द्वे एव स्थाने भवतः इदं च संसारावस्थारूपं परलोकस्थानं मोक्षाख्यं चेति । सन्ध्यं तृतीयं स्वप्नस्थानं संसारमोक्षोभयसन्धौ भवं तृतीयं जीवन्मुक्त्याख्यावस्थारूपम्‌ । तस्मिन्‌ जीवन्मुक्त्याख्ये स्वप्नस्यानशब्दिते तिष्ठन्नेते उभे स्थाने । पश्यति । इदं च परलोकस्थानं च । अथ संसारमुक्त्युभयदशर्णनानन्तरम्‌ । अयं पुरुषो जीवः । परलोकस्थाने मोक्षे गन्तव्ये । यथाक्रमो यन्मार्गो भवति । तमाक्रमं मार्गं जीवन्मुक्त्याख्यमाक्रम्योभयान्‌ । तस्यैव विवरणं संसारेनुभूयमानपापफलानि दुःखानि । मोक्षेऽनुभूयमानानन्दांश्ऱ्च

?R

पश्यति । स भगवान्यत्र यदा प्रस्वपिति प्रस्वापयति मोक्षं प्रापयति । तं प्रकारमेव व्यनक्ति । अस्य लोकस्य मुच्यमानस्य । सर्वावतः वृत्तिरूपसर्वज्ञानानि । मात्रामिन्द्रियाभिमानिदेवांश्ऱ्चोपादाय । स्वयं विहृत्य सांसांरिकसवर्अव्यापारहीनं कृत्वा स्वयं निर्माय मुक्तौ भोगसाधनपदार्थान

?R

ुत्पाद्य । स्वेन भासा स्वेन ज्योतिषा । प्रस्वपिति मोक्षं प्रापयति । अत्रास्मिन्मोक्षेऽयं पुरुषो हरिरस्य जीवस्य स्वयमेव विशेषतो ज्योतिर्भवति ज्ञानोद्बोधको भवतीत्यथर्ः । न तत्रेत्यादि प्राग्वत्‌ । तदाह सूत्रे । स्वाप्ययसम्पत्योरन्यतरापेक्षमाविष्कृतं हीति ॥ 6

॥ 3

॥ 10

॥ स्वप्नाद्यवस्थाप्रेरको भगवानित्युक्तार्थे श्ऱ्लोकाः सन्तीति प्रतिज्ञाय तानुदाहरति ॥ तदेत इति ॥ तत्‌ तत्र । स्वप्नेन सुप्त्या स्वगर्ेण मोक्षेण वा । शारीरं जीवं अभिप्रहत्य संयोज्य । स्वयमसुप्तः सुप्तान्सुप्त्यवस्थागतान्स्वर्गगतान्मोक्षगतांश्ऱ्च । शारीरान्‌ जीवानभिचाकशीति पश्यति । एवं सुप्त्यवस्थादर्शनानन्तरम्‌ । शुक्रं शोकेन रत्या च युक्तं जीवमादाय । पुनः स्थानं जाग्रदाख्यं भूलोकाख्यं सृष्यिस्थानं वा एतीत्यर्थः । कीदृशो भगवानित्यत आह ॥ हिरण्मय इति ॥ हिरौ रत्यानन्दौ पूर्णौ यस्येति । स्वर्णवर्णत्वाद्वा हिरण्मयः । प्रधानहंसरूपत्वादेकहंसः पुरुष इति ॥ 6

॥ 3

॥ 11

॥ न केवलं शारीर एव स्वप्नदर्शक इत्याह ॥ प्राणेनेति ॥ अमृतः पुरुषः । मुख्यवायुना अवरं दुःखहेतुतया नीचं कुलायं जीवदेहम्‌ । रक्षन्‌ स्वप्ने जीवमादाय एकेनांशेनेति योज्यम्‌ । कुलायाच्छरीराद्बहिश्ऱ्चरित्वा पुनरेति स्थानमित्यनुषज्यते । कुत्र नयतीत्यत उक्तम्‌ ॥ स ईयत इति ॥ सोमृतो हिरण्मय एकहंसः पुरुषो हरिः यत्र कामः काम्यमानो रूपादिविषयः । ईयते तत्र चरित्वेत्यर्थः ॥ 6

॥ 3

॥ 12

॥ स्वप्नावस्थाप्रेरकः किं भूत इत्यत आह ॥ स्वप्नान्त इति ॥ देवः । स्वप्नान्ते स्वप्नस्थाने । उच्चावचमीयमानः वासनामयेषूच्चावचेषु गजमशकादिषु प्रविशन्स्वस्य बहूनि उच चावचानि रूपाणि कुरुते । उत शब्दश्ऱ्च शब्दार्थः । उत किञ्च । स्त्रीभिश्रिचत्प्रकृतिरूपाभिः सह मोदमान इव मोदरूपस्य स्त्रीभिः सह मोदो विडम्बनं इतीव शब्दः । उत किञ्च । जीवस्य भयानि पश्यन्नपि । जक्षदिव हसन्निव मन्दहासस्य नित्यत्वादिव शब्दः ॥ 6

॥ 3

॥ 13

॥ एवमवस्थाप्रेरकं हरिं पश्यन्ति किं नेत्याह ॥ आराममिति ॥ अस्य हरेराराममाक्रीडास्थानं शरीरं स्वाप्नपदार्थजातं पश्यन्ति तं न पश्यति कश्ऱ्चनेत्याहुरितीति पदस्यान्वयः । भगवन्तमजानन्तं ज्ञानी बोधयेत्किं नेत्याह ॥ तमिति ॥ अयतं यत्नहीनमयोग्यजनं प्रति । तं भगवन्तम्‌ । न बोधयेदित्याहुर्विद्वासः । कुतोयं न बाध्य इत्यत आह ॥ दुर्भिषज्यमिति ॥ एष हरियर्ं पुरुषम्‌ । न प्रतिपद्यते न प्राप्नोति । यत्प्रतिपत्तिविषयो न भवति । सर्वथापि तु त एवोभयलिङ्गादिति सूत्रोक्तन्यायात्‌ । अस्मै अस्य । दुर्भिषज्यं भवति अनिष्यमेव भवति । अभीष्यं न किमपि सिद्धतीत्यर्थः । असुप्तः सुप्तानभिचाकशीतीति स्वप्नाद्यवस्थायामास्थितस्य हरेर्यत्सर्वद्रष्यृत्वमुक्तम्‌ । तद्वयनक्ति ॥ अथो खल्विति ॥ तस्मादेव खलु स्वप्नाद्यवस्थास्वपि सर्वद्रष्यृत्वादेव खलु एष जीवस्य स्वप्नसुप्तिदेशः । अस्य हरेर्जगरितदेश एवेत्याहुरार्याः । तद्विवृणोति ॥ यानीति ॥ यानि जाग्रत्‌ जागरिते पश्यति । तानि सुप्तेस्वप्नसुषुप्तिकालेपि पश्यति । हि प्रसिद्धम्‌ । एवं स्वप्नसुप्त्यवस्थाप्रेरकत्वमुक्त्वोपसंहरति ॥ अत्रेति ॥ अत्र स्वप्नसुप्त्याद्यवस्थायाम्‌ । अयं पुरुषो हरिः । जीवस्य स्वयमेव ज्यातिर्भवति ॥ एवं श्रुत्वा राजा गुरुदक्षिणां प्रतिजज्ञ इत्याह ॥ सोहमिति ॥ त्वयोपदिष्योहम्‌ । सहस्रं हस्त्यृषभसहस्रम्‌ । अत ऊर्ध्वं इतःपरम्‌ । विमोक्षाय विशिष्यमोक्षय । ब्रूहीत राजोवाचेत्यर्थः ॥ 6

॥ 3

॥ 14

॥ प्रागुक्तमेव हरेरवस्थाप्रेरकत्वं पूवर्ं संकलय्योक्तं अधुना विविच्य सुप्तिस्वप्नजाग्रदवस्थाप्रेरकत्वं प्रत्येकं स्पष्यमाह याज्ञवल्क्यः ॥ स वा इत्यादिना ॥ स एष हरिः । सम्प्रसादे सम्यक्प्रसीदति जीवोस्यामिति व्युत्पत्त्या सुप्तौ । रत्वा रमणं कृत्वा । चरित्वा । पुण्यं च पापं च दृष्ट्वैव न तु तत्कृतविकारवानित्येवकारार्थः । रत्वा चरित्वा च प्रतिन्यायमवस्थान्तरं प्रवर्तनीयमिति न्यायमनुसृत्य प्रतियोन्य पदव्या । स्वप्नायैव जीवस्य स्वप्नप्राप्तय एव । द्रवति स्वप्नदेशं गच्छति । सुप्त्यादौ दृष्यदार्थाभिलाषेण सज्जते किं नेत्याह ॥ स यत्तत्रेति ॥ स हरिः तत्र सुप्त्यादौ यत्किञ्चित्पश्यति तेन नानाविधस्वाप्नपदार्थदर्शनेनानन्वागतः अलिप्तो भवति । दर्शनकृतविकारवान्न भवतीत्यर्थः । तत्र हेतुः ॥ असंगो हीति ॥ इत्युवाच यावज्ञवल्क्य इत्यर्थः । तदुक्तमंगीकृत्य दक्षिणां प्रतिजज्ञ इत्याह वेदपुरुषः ॥ एवमेवेत्यादिना ॥ पूर्वोक्तानामपि मोक्षार्थत्वमस्त्वेव ततापि पुनः पुनर्ज्ञानान्तराधिक्येनातिशयोमुक्तवस्तीति तदभिप्रायेणात ऊर्ध्वं विमोक्षाय ब्रूहीत्युक्तिरिति ज्ञेयम्‌ । एवमुत्तरखण्डद्वयेऽपि ध्येया ॥ 6

॥ 3

॥ 15

॥ बुद्धान्तयैव जाग्रत्स्थानायैवेत्यर्थः । एवं स्वप्नान्तायैवेत्यस्यार्थो ध्येयः ॥ 16

॥ अत्र स्वप्न शब्दः स्वप्नसुप्त्युभयाभिप्रायः । बाह्याज्ञानस्योभयत्र साम्येनात्रोभयोरकीकरणेनोक्तिः ॥ 17

॥ स्वप्नस्थानाज्जाग्रत्स्थानं जाग्रत्स्थानात्स्वप्नस्थानं भगवान्जीवमादाय यातीत्युक्तम्‌ । तद्दृष्यान्तेन व्यनक्ति ॥ तद्यथेति ॥ तन्निदर्शनं यथेत्यर्थः । यथा महामत्स्यः नद्याः पूर्वं

?R

चापरं चेत्युभे कूले अनुसंचरति । एवमेवायं पुरुषो हरिः । स्वप्नान्तं च बुद्धान्तं चेत्येतावन्तौ स्थाने । स्वप्नशब्दोत्रोभयपर इत्युक्तुं ध्येयम्‌ । अनुसंचरति ॥ 6

॥ 3

॥ 18

॥ जीवस्य स्थितिप्रकारं दृष्यातपूर्वमाह ॥ तद्यथेति ॥ श्येनो वा सुपर्णो वाऽस्मिन्नाकाशे विपरिपत्य इतस्ततः पतित्वा । श्रान्तः पक्षौ संहत्य संकुच्य । सल्लयायैव स्वनीडायैव । ध्रियते गच्छति । एवमेवायं पुरुषो जीवः जागरिते संसारे श्रान्तः । एतस्मै अन्ताय सुप्तिमुक्तिरूपदेशाय । धावति गच्छति । यत्र सुप्तिमुक्तिदेशे । सुप्तः । आनन्दरूपं सु शब्दार्थं हरिम्‌ । प्राप्तो जीवः । न कंचन कामं कामयते । न कंचन स्वप्नं पश्यति । एतस्मा इत्यन्वयः ॥ 6

॥ 3

॥ 19

॥ जीवस्य सुप्तिस्थानमाह ॥ ता वा इति ॥ अस्य पुरुषस्य । जीवस्य शरीरे ताः प्रसिद्धाः । एताः वक्ष्यमाणाः । हिता नाम नाड्यः । यथा केशः सहस्रधा भिन्नः । तावता अणिम्ना सूक्ष्मरूपेण तिष्ठन्ति । तासां हितत्वं कुत इत्यतो भगवदधिष्ठानत्वादिति भावेनाह ॥ शुक्लस्येति ॥ शुक्लादिवर्णोपेतरूपपञ्चकेन पूर्णाः । अच्छिद्रतयानुप्रविष्या इत्यर्थः । तासां मध्ये सुषुम्ना तत्र सुप्तिं यातीति शेषः । अथ यत्र । यासु कण्ठदेशे स्थितासु नाडीषु । स्थितो जीवः । एनं स्वप्नदऽष्यमात्मानम्‌ । अन्ये घ्नन्तीव पश्यति । बाह्यार्थवैलक्षण्यादिव शब्दः । कदाचित्‌ जिनन्तीव ताडयन्तीव पश्यति । एवं स्वात्मानं हस्तीव गज पश्यति । अन्यः कश्ऱ्चनैनं विच्यययतिभयेन विगतशोभं करोतीव पश्यति । गर्तं जीर्णं कूपादिकं प्रति । तन्मध्य इति यावत्‌ । पततीव पश्यति । जाग्रदिव भयं च पश्यति । अत्र पश्यतीत्युक्त्या प्राप्तदर्शनस्वतन्त्ऱ्यं जीस्व निराह ॥ यदेवेति ॥ यदा यस्यां दशायां यद्‌भयादिकं जाग्रद्वस्तुवत्पश्यति तद्वस्त्वत्राविद्यया अः ब्रह्म तद्विद्यया भगवन्मत्यैव मन्यते पश्यति । न स्वात्त्ऱ्ेणेत्यर्थः । सुप्तौ मुक्तौ च न कंचन कामं कामयत इत्युक्तं तर्हि कथं तिष्ठतीत्यत आह ॥ यत्रेति ॥ यत्र सुप्तौ मुक्तौ वा देव इव राजेव । भोगापेक्षया पूर्तिर्भतीति देवदृष्यान्तः । प्रत्यक्षदर्शनार्थं राजदृष्यान्त इति ज्ञेयम्‌ । अहमेवेदं सर्वोस्मि स्वयोग्यतया गुणपूर्णोस्मीति मन्यते । विषयभो(गानन्वित)गेन विना स्वरूपानन्देनैव पूर्ण इत्यमेवेत्येव शब्दः । स हरिरस्य जीवस्य परमो लोकः आश्रयः ॥ 6

॥ 3

॥ 20

॥ पूर्णत्वमस्य कुतोऽभूदित्य आह ॥ तद्वा इति ॥ अस्य भगवतः । तत्प्रसिद्धमेवैतद्रूपम्‌ । अतिच्छन्दाः अतिक्रान्तानि छन्दासि येनासावतिच्छन्दाः साकल्येन वेदाप्रतिपाद्यः । अपहतपाप्मा । अभयं भयहीनं रूपम्‌ । भगवद्रूपस्यैवंविधत्वेप्रकृते किमायातमित्यतो भगतत्प्राप्त्या पूर्णत्वमस्येति सदृष्यान्तमाह ॥ तद्यथेति ॥ प्रियया स्त्रिया सम्परिष्वक्तः आलिंगितो बाह्यं किंचन घटादिकं न वेद आन्तरं दुःखादिकं च न वेद । स्त्रीपरिष्वंगसुखेनैव पूर्णो भवति । एवमेवायं पुरुषो जीवः प्राज्ञेन बाह्यपदार्थाज्ञापकेन हरिणा सम्परिष्वक्तः सुप्तः मुक्तो वा न बाह्यम्‌ किंचन वेद नान्तरं भगवत्प्राप्त्या स्वयोग्यपूर्णानन्दानुभवप्राप्त्या तृप्तो भवतीत्यर्थः । प्रकृत पूर्णसुखरूपत्वादात्मैव काम्यत इत्यत्मिकामं विषयकामनारहितम्‌ । शोकानामन्तेनाभावेनैव रमत इति । शोकं विनैव रमत इति शोकान्तरम्‌ ॥ 6

॥ 3

॥ 21

॥ यत्र सुप्तो न कंचन कामं कामयत इति । प्रकृतसुप्तिमोक्षस्वरूपं स्पष्यमाह ॥ अत्र पितेत्यादिना ॥ उक्तगुणेन भगवता सम्परिष्वक्तो जीवः पूर्वं पुत्राणां पितात्र सुप्तौ मुक्तौ वाऽपिता भवत । पुत्रादिकृतश्राद्धादिफलं न भुंक्त इत्यर्थः । पूर्वं स्वपुत्राणां माताऽत्र सुप्तौ मुक्तौ अमाता भवति । पुत्रदुःखेनादुःखित्वात्‌ । एवमग्रेऽपि योजना । लोकाः लोकाभिमानिनः । अलोकाः लोकाभिमानहीनाः । देवाः देवाभिमानिनः । अदेवाः वर्षणादिस्वस्वजगद्वयापारहीनाः प्रजाकृतयज्ञादिभुजो नेतिचार्थः । पूर्वं वेदाः वेदाभिमानिनः । अवेदाः वेदाभिमानहीनाः । अस्तेन इत्यादेः पापफलस्याननुभवाभिप्रायो ध्येयः । श्रमणोयतिः । अश्रमणः यतिधर्मादुद्गतरूपत्वादतापसः तपश्ऱ्चरणादुत्थितत्वात्‌ । पापेन प्राचीनानिष्यपुण्येनानन्वागतः अलिप्तः । पापफलाप्ययात्पापेनानन्वागतः । तदा सुप्तौ मुक्तौ च सर्वांच्छोकान्‌ तीर्णोऽतिक्रान्तो । हृदयस्य हृद्ययत इति हृदयस्थस्य हरेः । शेषभूतो भवति । हि यतोत इति ॥ 6

॥ 3

॥ 22

॥ देशकालान्तरे भगवानिवान्योप्यवस्थाप्रेरकोस्ति किमित्याशंकां सयुक्तिकं निराह ॥ यद्द्वैतमित्यादिना ॥ पूर्वत्र प्रकृतं ब्रह्म यद्वस्तु द्वैतं द्वैतत्वेन समाभ्यिधिकत्वेन न पश्यति । तत्‌ द्वितीयं समाभ्यधिकं वस्तु न तु नैवास्ति । भगवतोऽदर्शनमात्रेण कथं तदभाव इत्यत आह ॥ पश्यन्वैतन्न पश्यतीति ॥ विद्यमानं सर्वं पश्यन्नपि तन्न पश्यत्यतो नास्त्येव तदिति भावः । ननु विद्यमानमपि द्वैतं भ्रान्त्या न पश्यतीति किं न स्यादित्यत उक्तम्‌ ॥ नहीति ॥ विपरिलोपोऽयथार्थत्वं न ह्यस्तीत्यर्थः । कुत इत्यत उक्तम्‌ ॥ अविनाशित्वान्नित्यत्वान्निर्दोषत्वादिति वा ॥ दुष्येषु नष्य पदप्रयोगगदर्शनात्‌ । व्यासतीर्थटीकायां तु पश्यन्वै तद्द्वतं वस्तु नेत्येव पश्यत्यतो नेत्युक्त्वा । नास्तीति प्रत्ययो भ्रान्तिः किं न स्यादित्यतो न हीति वाक्यम्‌ । इतोपि द्वैतं नेत्याह ॥ तत इति ॥ ततो भगवतोन्यद्द्वितीयं द्रष्यृ । तन्नैवास्ति । तद्द्रष्यृ ततो हरेर्विभक्तं विरुद्धम्‌ । पश्येदतोन्यस्य द्रष्युरभावात्सर्वद्रष्य्रा भगवता भ्रान्तिहीनेनादृष्यत्वात्प्रत्युत नास्तीत्येव दृष्यत्वात्‌द्वैत शब्दितं हरेः समाभ्यधिकमवस्थाप्रेकमन्यद्वस्तु नेत्यर्थ उक्तः । तव्वनिणर्यटीकायां तु शुक्लुस्य

?R

नीलस्येत्यादिपूर्ववाक्ये परस्परं विलक्षणनानारूपवद्भिर्भगवद्रूपैर्नाडीनां व्याप्तत्वमुक्तम्‌ । तेन तद्रूपाणां भेदः प्राप्तः । तथा तद्वा अस्यैतदाप्तकाममात्मकाममकामं रूपमिति षष्ठया रूपरूपिणोर्भेदश्ऱ्च तन्निराकतर्ुं यद्द्वैतमिति वाक्यम्‌ । हृदयस्य भवतीति हृदय शब्देन प्रकृतं ब्रह्म भगवान्‌ यद्यस्माच्छुक्लादिकं रूपं स्वतः अन्योन्यं द्वैतं भिन्नं च पश्यति । तत्‌ द्वितीयरं भिन्नं न तु नास्त्येव । तावता कथमभाव इत्यतः पश्यन्सर्वज्ञोपि तं न पश्यति । एवं तर्हि जीवजडात्मकमिपि विश्ऱ्वं किं ततो न भिन्नं नेत्याह ॥ यद्यस्माद्भगवान्‌ । यत्‌ जीवजडादिकं विभक्तं स्वतो भिन्नं पश्येत्‌ तस्मात्तत्ततोन्यदेव । भगवता भेदेन दृष्यत्वेपि कुतो भिन्नमित्यत उच्यते ॥ न हीति ॥ अविनाशित्वान्निर्दोषत्वादित्युपलक्षणम्‌ । अबाधितत्वाच्चेत्यर्थ उक्तः । तदुक्तं भाष्ये । यदवतारादिकं द्वैतत्वेन न पश्यति न तु तत्ततो द्वितीयमित्यादि ॥ 6

॥ 3

॥ 23

॥ केवलं भगवान्‌ चक्षुषा द्वितीयं न पश्यतीति किन्तु । सर्वेन्द्रियैर्द्वितीयं न पश्यतीत्याह ॥ यद्द्वैतं न जिघ्रतीत्यादिना ॥ खण्डसप्तकेन ॥ योजना तु प्राग्वदेव ज्ञेया । घ्रातेः घ्राणसम्बन्धिज्ञानस्य ॥ 6

॥ 3

॥ 24

॥ रसयतेः रसज्ञानस्य ॥ 25

॥ वक्तेः वागिन्द्रियव्यापारस्य । विपरिलोपोऽसत्यत्वं ॥ 36

॥ श्रुतेः श्रोत्रज्ञानस्य ॥ 27

॥ मतेः मानसज्ञानस्य ॥ 28

॥ स्पृष्येः स्पार्शनज्ञानस्य ॥ 29

॥ विज्ञातेर्विशेषज्ञानस्य ॥ 6

॥ 3

॥ 30

॥ ततोन्यद्विभक्तं यत्‌ पश्येत्ततोन्यद्विभक्तं यज्जिघ्रेदित्यादिनोक्तमुपसंहरति ॥ यत्र वान्यदिवेति ॥ यत्र यदा । अन्यद्भगवद्वयतिरिक्तम्‌ । स्वतन्त्रमिव भवेत्‌ । इव शब्दोल्पस्वातन्त्ऱ्यवान्स्यादित्यर्थे । तत्र तदैवान्योभगवदन्यः पुरुषोऽन्यद्भगवद्दृष्यादन्यत्पश्येज्जिघ्रेदित्यादि युज्यते । तदन्यत्स्वतन्त्रं नास्तीत्यर्थः ॥ एवं द्रष्य्रन्तरनिषेधमुपसंहृत्य स एव सर्वद्रष्येत्युक्तमुपसंहरतीति वा । अन्यस्य स्वतन्त्रद्रष्य्रन्तरस्याभावे यद्वैतं न पश्यतीत्युक्तं सुस्थमित्याहेति वा सलिल एको द्रष्येयादेर्गमनिका ध्येया । सलिले प्रकृतिरूपे सलील इति प्रथमा वा। एकः समवर्जितः । अद्वितीयः विरोधिद्वितीयशून्यः । द्रष्या भवति तिष्ठति । विष्णुरेव स्वतन्त्रो द्रष्या नान्य इति कुत इत्यत आह ॥ एष इति ॥ B-K-9

?R

े सम्राट्‌ एष आत्मा । ब्रह्म पूर्णं लाको ज्ञानं यस्यासौ ब्रह्मलोक इत हैनं जनकमनुशशास याज्ञवल्क्यः । हरेर्महिमान्तरमाह ॥ एषास्येति ॥ अस्य हरेरेषा गतिः परमासर्वगतत्वात्‌ । अस्यैषा सम्पत्‌ परमा पूर्णैश्ऱ्वर्यात्‌ । अस्यैष लोकः ज्ञानम्‌ । परमः सर्वविषयकत्वात्‌ । अस्यैष आनन्दः परमः पूर्णत्वात्‌ । आनन्दस्य परमतां व्यनक्ति ॥ एतस्यैवेति ॥ अन्यानि भूतानि ब्रह्मादिमुक्तान्यप्येतस्य हरेरानन्दस्य मात्रां प्रतिबिम्बरूपविप्लुट्‌कमुपजीवन्ति अनुभवन्ति ॥ किमेकप्रकारेण भूतानि आनन्दमात्रमुपजीवन्तीत्यतः तारतम्येनेत्याह ॥ स य इत्यादिना ॥ स प्रसिद्धः । योयं मनुष्याणां चक्रवर्तिनाम्‌ । राद्धः मुक्तः स योग्यसाधनपूर्तिमत्त्वेन समृद्धः अतो राद्ध इत्यर्थः । अन्येषामधिपतिः । मानुष्यकैर्मअनुष्यत्वदशायां ज्ञानोत्तरकृतदानादिश्रलभूतैर्भोगैः सम्पन्नतमो भवति । स मनुष्याणां परमआनन्दः आविर्भूतस्वरूपानन्दः उक्तगुणविशिष्यस्य य आनन्दः स पूर्वावधिभूतो मनुषानन्द उच्यत इत्यर्थः । अथेत्यर्थान्तरे । ये मानुषान्दा उक्ताः ते शतगुणिताश्ऱ्चेत्स एकः पितृणामानन्द इत्यर्थः । पितृन्विशिनष्यि ॥ जितेति ॥ जितलोकानां प्राप्तस्वयोग्यपूर्णब्रह्ममानानाम्‌ । मुक्तानामिति यावत्‌ । अत्र प्रकरणे लोक शब्दो ज्ञानपरः । अथोक्तकक्ष्योत्तरत इत्यर्थः। एवमग्रेऽपि । जितलोकानां मुक्तानां पितृणां ये शतमानन्दाः स एको गन्धर्वलोके । गन्धर्वाणां मुक्तौ । गन्धर्वाणां लोके ब्रह्मज्ञाने नित्योदितब्रह्मज्ञानदशायामिति यावत्‌ । मुक्तावेव नित्योदितज्ञानमिति गन्धर्वलोकपदेन गन्धर्वमुक्त्याथर्लाभो ध्येयः । एवमग्रेप्यर्थो ज्ञेयः । कर्मदेवाः क इत्यत आह ॥ य इति ॥ ये कर्मणा देवत्वं प्राप्नुवन्ति ते कर्मदेवा इति पूर्वेणान्वयः । आजानदेवानां जातेभ्यो वराणामिन्द्रादीनामित्यर्थः । तान्विशिनष्यि मुक्तत्वज्ञापनाय ॥ यश्ऱ्चेति ॥ वचनव्यत्ययः । ये श्रोत्रियाः प्राप्तश्रवणफलाः । अवृजिनो दुःखहीनः । अकामहताः कामोपद्रवहीनाश्ऱ्चेति च शब्दान्वयः । तेषां आजानजदेवानामित्यन्वयः । प्रजापतीनां रुद्राणां शेषाणामिति यावत्‌ । लोके ब्रह्मज्ञाने प्रागुक्तदिशा । मुक्ताविति यावत्‌ । ये प्रजापतयः श्रोत्रियत्वादिगुणकास्तेषामिति प्राग्वज्ज्ञेयम्‌ । ब्रह्मलोके ब्रह्मणां विरिञ्चानां विष्णुज्ञाने मुक्ताविति यावत्‌ । यश्ऱ्चेति प्राग्वत्‌ । ज्ञानपादीयानुव्याख्याने तु तस्मादमुक्तसुखगं तारतम्यं पृथक्‌ पृथक्‌ । उक्त्वा यश्ऱ्चेति मुक्तानां तारतम्यं सुखे श्रुतेः । आहेति मुक्तामुक्तपरतयास्यार्थ उक्तः । हे सम्राट्‌ एवं तारतम्यस्थितानि ब्रह्मादीनि मुक्तान्येतस्यैवानन्दस्य मात्रामुपजीवन्ति यस्मादथ तस्मादेष एव परमान्दः निरतिशयपूर्णानन्दः । एष ब्रह्मलोकः पूर्णज्ञानः । इति होवाच याज्ञवल्क्यः । सम्राडाह ॥ सोहमिति ॥ अत्र एवं राज्ञा पृष्ये सति । याज्ञवल्क्यो विभयांचकार भीतवान्‌ । भयहेतुमाह । मेधावी प्रज्ञावाम्नाजा सर्वेभ्यः प्रश्ऱ्नकर्तृभ्यः तेभ्यः आश्ऱ्वलादिभ्यः मां उदरौत्सीदुत्कृष्यतयाऽवरोधं कृतवानिति । रहस्यं स्वायोग्यम्‌ । यदि मामेष पृच्छति । तदा तदपि वक्तव्यं भविष्यति त्वत्पृष्यं सर्वं वक्ष्यामीति राज्ञे वरस्य दत्तत्वादिति भीतिरभूदिति भावः ॥ 6

॥ 3

॥ 33

॥ अतिप्रयत्नतो यावत्सुखादिकं

?R

मुक्तौ प्रप्तुं शक्यं तावतः सम्प्राप्त्यै ज्ञानपरम्परां क्रमात्प्रष्युकामः एकमेकं विज्ञाय पुनस्ततस्तततो वरं ज्ञानं मां विमोक्षाय ब्रूहीति राज्ञा पृष्यो विद्यान्तरमाह ॥ स वा इति ॥ जीवास्वातन्त्ऱ्यज्ञापनाय जीवमादाय हरिरेव जाग्रदादिषु संयातीति नियम इति ज्ञापयितुमुक्तमेव तात्पर्यज्ञापनाय पुनरनूदितमिति ज्ञेयम्‌ ॥ एवं सुप्त्याद्यवस्था ईशाधीनेत्युक्तं अधुना प्रतिमरणं मुक्तिकालीनं मरणं चेशायत्तमिति भावेन मरणस्वरूपमाह ॥ तद्यथेति ॥ तन्निदर्शनं यथा । सुसमाहितं पुमधिष्ठितम्‌ । अनः शकटम्‌ । प्रामादिकं उत्सर्जद्यायात्‌ गच्छेत्‌ । एवमेवायं शारीरः शरीरमानी आत्मा जीवः यत्र यदा । ऊर्ध्वोच्छ्वासी भवति । एतदेतस्मिन्काले । प्राज्ञेनात्मना हरिणान्वारूढः देहं उत्सर्जन्यरित्यजन्याति ॥ 35

॥ न केवलं साधारणमरण एव भगवतान्वरूढो जीवः किन्तु मोक्षरूपमरणेपीत्याह ॥ स इति ॥ सोयं जीवो । यत्र यदा । अणिमानं न्येति निगच्छति । भगवत्प्राप्तिरूपमोक्षं गन्तुमिच्छतीति यावत्‌ । तदा प्राज्ञेनात्मनान्वारूढ इति पूर्वेणान्वयः । कदा भगवन्तमेतीत्यत आह ॥ जरयेति ॥ जरया चरमवयोधर्मेण । उपतपता रोगादिना वाऽणिमानं निगच्छति । ननु सर्वेपि जरया चरमवयसाऽणिमानं यन्त्यतः कथमुपपतपता वेति पक्षान्तरोकितरित्यतो नायं नियम इति दृष्यान्तोक्तिपूर्वमाह ॥ तद्यथेति ॥ तन्निदर्शनं यथा । आम्रं ओदुम्बरं वा पिप्पलमश्ऱ्वत्थं वा बन्धनात्प्रमुच्यते । अत्राम्रादिशब्दा आम्रादिफलपराः । आम्रादिफलं आम्रादिवृक्षात्‌ पतति । एवमेवायं पुरुषो जीवः । कलौ बाल्ये । तियां मध्यमे वयसि । कृते चरमे वयसि । एभ्योंगेभ्यः शरीरावयवेभ्यः । शरीरादित इति वा । सम्प्रमुच्य प्रतिन्यायरं पूर्वावस्थातोवस्थान्तरं प्राप्यमिति न्यायमनुसृत्य । प्राणायैव वायव एव द्रवति । वायुद्वरा भगवन्तं प्राप्य भगवदधिष्ठितो गच्छतीति ॥ 6

। 3

॥ 36

॥ स जीवो यदा भगवन्तं गच्छति तदा विशेषमाह ॥ तद्यथेति ॥ तन्निदर्शनं यथा आयान्तं आगच्छन्तं । राजानं दृष्ट्वोग्राः अंगरक्षकाः । प्रत्येनसो योधाः । सूताः सारथयः । ग्रामण्यश्ऱ्च भूपालाः । सूतगआमण्यो जनपदस्थाः राजसमीपस्थाश्ऱ्चेति । तत्र जनपदस्थाः सूतग्रामण्यः । अन्नैः पानैरावसथैरावासस्थानैः पूजां प्रतिकल्पन्ते कल्पयन्ति । कथं तेषां राजागमनज्ञानमित्यत आह ॥ अयमिति ॥ अयं ध्वज आगच्छति तस्मादयं राजा आयातीति ज्ञात्वा प्रतिकल्पन्त इत्यन्वयः । एवमेवं विदं पूर्वोक्तप्रकारेण भगवदपरोक्षज्ञानिनमायान्तं दृष्ट्वा सवर्ाणि भूतानि अर्चिरादिदैवतानि पूजां प्रतिकल्पन्ते । ननु ज्ञानिन्यागते देवाः कुतस्तत्पूजां कुर्युरुग्रादिवत्तेषां तद्भृत्यत्वाभावादित्यत आह ॥ इदमिति ॥ इदं मुक्तजीव स्वरूपं आगच्छत्यनेन सहेदं ब्रह्मायातीति तत्पूजार्थं प्रअतिकल्पन्त इत्यर्थः ॥ 6

॥ 3

॥ 37

॥ मुक्तजीवमादाय भगवति प्रतिष्ठमाने शरीरस्थाः प्राणाः किं कुर्वन्तीत्यतः तेपि भगवन्तमनुगच्छतीति सदृष्यान्तमाह ॥ तद्यथेति ॥ राजानं प्रयियासन्तं गन्तुमिच्छन्तम्‌ । राज्ञा सह स्थिताः उग्राः प्रत्येनसः सूतग्रामण्यः । अभिसमायति । एवमेवेममात्मानं मुक्तमादाय गच्छन्तम्‌ । तं हरिं अन्तकाले मुक्तिकाले । सर्वे प्राणाः शरीरस्थाः वागादीन्द्रियदेवाः अभितः समायन्ति । अग्यन्यादिगतिश्रुतेरिति सूत्रं तु संसारविषयम्‌ । अन्तकालमेवाह ॥ यत्रेति ॥ 6

॥ 3

॥ 38

॥ इति ज्योतिर्ब्राह्मणम्‌ ॥ तद्यथाऽन इत्यादिनोक्तं प्रतिमरणप्रकारं अन्त्यमरणप्रकारं च विविच्य दर्शयति ॥ स यत्रायमात्मेत्यादिना ॥ स पूर्वोक्तः प्रसिद्धः । आत्मा जीवो । यत्र यदा । बल्यं सर्वेषां बलकारिणं हरिम्‌ । नितरामेत्य प्राप्य । मृतेः पूर्वं संमोहमिव विमुग्धत्वमिव । न्येति प्राप्नोति । मृतेः पूर्वं विमुग्धत्वं प्राप्य यदा विष्णुं यातीति यावत्‌ । अथ तदा । एनं बल्यं विष्णम्‌ । एते प्राणाः तत्ततत्स्थनस्थिताः । तेजः स्वरूपिणो देवाः । अभिसमायन्ति । स जाग्रत्प्रवर्तकत्वेन चक्षुःस्थो हरिः । तेजोमात्राः तेजः स्वरूपभूताः देवताः । समभ्याददानः चक्षुःस्थानाद्धृदयमेवान्ववक्रामति गच्छति । स एष चाक्षुषो दक्षिणाक्षिस्थः । पुरुषो भगवान्‌ । पराङ्‌ बहिर्व्यापारं कुर्वन्‌ स्थितो यत्र यदा प्रत्यङ्‌ पर्यावर्तते । अन्तरागच्छति । हृदयं प्रति गच्छति । अथ तदा । विष्ण्वाश्रितो जीवः । भवति । तदा न किञ्चिद्बाह्यम्‌ जानातीत्यर्थः ॥ 6

॥ 3

॥ 1

॥ कुतो न जानातीत्यतोऽज्ञत्वनिमित्तं वदब्रूपाज्ञत्वमुपलक्षणमिति भावेनाह ॥ एकी भवतीति ॥ जीवेश्ऱ्वरौ सदा हृदि स्थौ सन्तौ । जाग्रद्दशायां रूपान्तरैश्ऱ्चक्षुरादिस्थानेषु तिष्ठतः । यदा हरिः चीरादिस्थरूपैः हृदयस्थरूपेण चैकी भवति तदा जीवोपि चक्षुरादिस्थरूपैः हृदयस्थस्वरूपेणैकी भवति । तदा जीवो बाह्यं न पश्यति न जिघ्रतीत्याहुः प्राज्ञा इत्यर्थः । एतच्च देवाद्युत्तमजीवविषयं ध्येयम्‌ । अन्येषां तु सदा हृदयदेश एवावस्थानेन जाग्रदादौ दक्षिणाक्ष्यादिस्थानेऽभिमानातिशयमात्रत्वात्‌ । उक्तं ह्यैतरेयभाष्ये द्वितीयाध्याये । न हि जीवस्याक्षणि पृथक्‌ शिरोबाह्वादिकं विद्यते । हृदिस्थमेव हि तस्य रूपमित्यादि । एकीभावानन्तरं किं भवतीत्यत आह ॥ तस्य हैतस्येति ॥ भगवन्तं प्रप्तस्य स्वकीयरूपैरेकीभावं प्राप्तस्य बाह्यपादार्थाज्ञस्य जीवस्य ज्ञानिनः हृदयस्याग्रं भगवत्तेजसा प्रद्योतते प्रकाशते । तथाच सूत्रम्‌ । तदोग्रज्वलनं तत्प्रकाशितद्वार इत्यादि । तेन प्रद्योतितेन प्रकाशितनाडीद्वारेण । एष आत्मा हरिः । जीवमादाय शरीरान्निष्क्रामति । केन द्वारेणत्यत आह ॥ चक्षुषो वेत्यादि ॥ यदि

?R

मुच्यमानो जीवः चिरं स्थित्वा मुक्तिमति । तदा तं जीवमादाय आदित्याभिमतचक्षुर्द्वारा एष आत्मा हरिः निष्क्रामति । यदा तु सत्यलोके वासमेति । तदा मूर्ध्न एव निष्क्रामति । यदा तु श्रोत्रदिमानिलोके स्थित्वा पश्ऱ्चान्मृक्ति गन्तुं योग्यः तदा तमादायान्येभ्यः शरीरदेशेभ्यः तत्तद्देवताभिमन्यमानदेहावयवेभ्यो निर्यातीत्यर्थः । एवं उत्क्रामन्तं विष्रुमनुसृत्य प्राणो मुख्यवायुरुत्क्रामाति । एनमुक्रामन्तं प्राणमनुसृत्य सर्वे प्राणाः शरीरस्थाः देवाः उत्क्रामन्ति । तदा हरिः कथं भवतीत्यत आह ॥ सविज्ञान इति ॥ स विष्णुः विज्ञानेन सहितो भवति । स भगवान्विज्ञानं जीवमेवान्ववक्रामत्यारूढो गच्छति । एनमारुह्य गच्छन्तं तं भगवन्तमनुसृत्य विद्याकर्मणी विद्याकर्माभिमानिनौ विरिञ्चगरुढौ । समन्वारभेते गच्छतः । पूर्वप्रज्ञा योग्यताभिमानिनी रमा चान्वारभत इति ॥ 6

॥ 4

॥ 2

॥ तेनैष निष्क्रामतीत्युक्तं निष्क्रमणं विशदयति ॥ तद्यथेति ॥ तन्निदर्शनं यथेति । तृणज(लायुका)लका जन्तुविशेषः तृणस्यान्तं गत्वा अन्यमाक्रममवष्यम्भभूतं तृणान्तरं । आकअम्य प्राप्य । आत्मानं पूर्वतृणादुपसंहरति आदत्ते । पूर्वतृणं परित्यजतीति यावत्‌ । एवमेवायमात्मा हरिर्जीवस्य शरीरं निहत्य निवर्त्य विद्यादानेनाविद्यां गमयित्वाऽन्यमाक्रमं स हरिर्जीवं साधुं करोति चेत्साधुर्भवति जीवः । पापं करोति चेज्जीवं पापो भवति जीव इत्यर्थः । ईश्ऱ्वर एव जीवं साधुं पापं करोति चेत्‌ किं पुण्यपापकर्मणोः कृत्यमित्यतः कृत्यमित्यतः तत्कारितेन कर्मणा तथा भवतीत्याह ॥ पुण्य इति ॥ ईश्ऱ्वराधीनत्वं जीवस्य वृद्धसंमत्या दृढयति ॥ अथो खल्विति ॥ अथो तस्मादीशाधीनत्वाज्जीवस्यायं पुरुषो जीवः । काममयः ईश्ऱ्वरेच्छाधीन इति प्राज्ञा आहुः । कृतः स भगवान्यथाकामो भवति । तत्क्रतुः तथाकामो भवति । इत्थं करिष्याम्येवेति निश्ऱ्चयरूपः कामः क्रतुशब्दार्थः । यत्क्रतुर्भवति तन्निष्ठावान्भवति । तत्कर्म कुरुते । यत्कर्म कुरुते तदनुगुणं फलं सम्पद्यते । प्राप्नोति । तस्मादीशेच्छाधीनो जीव इति ॥ 6

॥ 4

॥ 5

॥ भगवत्प्रेरितो जीवः कर्म कुर्वंस्तत्फलमभिसम्पद्यत इत्युक्तार्थे मन्स्तीत्याह ॥ तदेष इति ॥ तत्‌ तत्रोक्तार्थे । अस्य संसारिणः । लिंगं शरीरं मनश्ऱ्च । यत्र यस्मिन्फले निषक्तं नितरां सक्तम्‌ । तत्र फले सक्तः पुरुषः । तदेव फलम्‌ । तत्साधनीभूतस्वकृतकर्मणा सह एति गच्छति । अयं पुरुषः यत्किंचेह लोके । कर्म करोति । तस्य कर्मणोन्तमवसानं प्राप्य तस्माल्लोकात्कर्मफलभूतात्स्वर्गादेः । पुनरस्मै लोकाय भूलोकाय । एत्यागच्छति । किमर्थं कमर्णे कर्म कर्तुं । मुक्तामुक्तयोद्देयारापि प्रकृतत्वात्किं परोयं मन्त्र इत्यतः उपनिषत्स्वयमेवाह ॥ इति नु कामयमान इति ॥ संसारीत्यर्थः । उक्त इति शेषः । संसारिणं निरूप्य मुक्तस्वरूपमाह ॥ अथाकामयमान इति ॥ अथेत्यर्थान्तरे । योऽकामः अकारवाच्यविष्णुकामः । निष्कामः अयोग्यकामनारहितः । अकामयमानः । योग्यकामस्यापि कदाचिदेवोद्भूतत्वेनासर्वकालीनत्वात्‌ । अकामयमानः । काभिताशेषप्राप्तेराप्तकामः । चिदानन्दस्वरूप आत्मैव कामः काम्यो यस्येत्यात्मकामः । तस्य एवम्भूतस्य मुक्स्य । प्राणाः नोत्कामन्ति । पुननर् म्रियन्त इत्यर्थः । प्रलये कथमित्यत आह ॥ स मुक्तो ब्रह्मैव सञ्जीव एव सन्‌ । जीवाभावापरित्यागेनैव । परं ब्रह्माप्येति । प्रलूये भगवदुदरं प्रविशतीत्यर्थः ॥ 6

॥ 4

॥ 6

॥ न तस्य प्राणा उत्क्रमन्तीत्युक्तार्थे मन्त्रमुदाहरति ॥ तदेष इति ॥ अस्य संसारिणः । ये हृदि (श्रि)स्थिताः अन्तःकरणगताः कामास्ते सर्वे दया प्रमुच्यन्ते । अथ मुक्त्यनन्तरं मर्त्यः पूर्वं मरणशीलः । मुक्त्यनन्तरममृतो भवति मृतिहीनो भवति । अत्र मुक्तौ प्रतिप्रलये च । ब्रह्म समश्ऱ्नुते प्राप्नोति । ज्ञानि

?R

नो देहत्यागप्रकारं दर्शयति देहस्य हेयत्वज्ञापनाय ॥ तद्यथेत्यादिना ॥ तन्निदर्शनं यथा । अहिः सर्पः निलीयतेऽस्यामिति अहि निलयनी सर्पत्वक्‌ । वल्मीके प्रत्यस्ता परित्यक्ता । मृता जीवहीना । शयीत । एवमेवेदं शरीरं जीवेन परित्यक्तं शेते । मुक्त्यनन्तरं जीवो न म्रियत इत्युक्तं । तर्हि मुक्तेशयोः को विशेष इत्यत आह ॥ अथेति ॥ अथ मुक्त्यनन्तरमेवायं जीवो शरीरो भवति । न म्रियत इति यावत्‌ । प्राणोऽमृतः कदापि न म्रियते । कः प्राण इत्यत आह ॥ ब्रह्मैवेति ॥ न केवलं प्राणाख्यं परं ब्रह्मैव नित्यमुक्तम्‌ । किन्तु श्रीरपीत्याह ॥ तेज इति ॥ श्रीतत्त्वमेव चामृतं कदापि न मृतमित्यर्थः । एवं श्रुत्वा राजा गुरुदक्षिणां प्रतिजज्ञ इत्याह ॥ सोहमिति ॥ भगवान्मोक्षदातेत्युक्तार्थे मन्त्राः मन्त्राः सन्तीत्याह ॥ तदेत इति ॥ तत्तत्र पूर्वोक्तार्थे । अणुर्विततो व्याप्तः । सुखहेतुस्वप्राप्तिसाधनत्वात्पन्थाः । पुराणोऽनादिः । मां श्रियम्‌ । श्रियेति यावत्‌ । स्पृष्यः आधि=?R

श्रितः । श्रीपतित्वादिति भावः । मयैव श्रियैव । अनुवित्तो ज्ञातः । ऊर्ध्वः सर्वतो विशिष्ठः । यो भगवान्‌ तेन तत्प्रसादेन । दीराः ब्रह्मविदः । इतः संसाराद्विमुक्ताः । स्वर्गं स्वरूपमूतरमणज्ञानात्मकं लोकं वैकुण्ठादिकमपियन्ति प्राप्नुवन्ति ॥ 6

॥ 4

॥ 8

॥ तृतीयज्योतिर्ब्राह्मणे तावताणिम्रा तिष्ठन्ति शुक्लस्य नीलस्येत्यासिदनोक्तर्थे मन्त्रं पठति ॥ तस्मिन्निति ॥ तस्मिन्‌ ॥ हरौ हरेरित्यर्थः । शुक्लं वासुदेवाख्यं नीलमनिरुद्धाख्यं पिंगलं सकषेणाख्यं हरितं प्रद्युम्नाख्यं लोहितं नारायणाख्यं इति पञ्चरूपाणि सन्तीत्याहुरति योज्यम्‌ । उत शब्दश्ऱ्च शब्दार्थे ।

?R

एष पञ्चरूपो हरिः पन्थाः सुखहेतुस्वप्राप्तिसाधनत्वाद्ब्रह्मणा चतुर्मुखेन । अनुवित्तो ज्ञातः । ह प्रसिद्धम्‌ । ब्रह्मवित्‌ परब्रह्मज्ञानी । तैजसः महातेजोरूपश्रीतत्त्वज्ञानी । पुण्यकृत्‌ भगवत्कर्मकर्तापि । तेनैअव भगवत्प्रसादेनैव प्रागुक्तस्वर्गलोकशब्दितविष्णुलोकर्मति प्राप्नोति । एतेन ब्रह्मादिप्रसादेनैव मुक्तिसम्भवे किमीश्ऱ्वरप्रसादेनेति निरस्तम्‌ ॥ 9

॥ न केवलं भगवज्ज्ञानमेव मुक्तिहेतुः किन्तु मिथ्याज्ञाननिन्दासमुचितमेवेति भावेनाह ॥ अन्धमिति ॥ ये अविद्यां विद्याविरुद्धमिथ्याज्ञानम्‌ । तद्विषयमन्यथाकारमिति यावत्‌ । उपासते ते अन्धं तमः प्रविशन्ति । ये विद्यायां उ एव तत्त्वज्ञान एव । रता न मिथ्याज्ञाननिन्दका इति यावत्‌ । ते ततः अन्यथोपासकाद्भूय इव । किञ्चिद्विशेषण तमः प्रविशन्तीत्यनुषंगः ॥ 10

॥ सत्यप्युपदेष्यरि भगवद्द्वेषात्तत्त्वमविदुषां मिथ्याज्ञानिनामनर्थमन्त्रेणाह ॥ अनन्दा इति ॥ बोधयतीति भुत्‌ । तस्माद्वृधः । ज्ञानिनः सकाशाद्भगवत्स्वरूपमविद्वासो ये जनाः ते प्रेत्य अन्धेन आन्ध्यहेतुना तमसा । आवृताः । अनन्दाः सुखविरुद्धदुःखरूपाः । ते प्रसिद्धाः ये लोकाः तानभिगच्छन्ति ॥ 6

॥ 4

॥ 11

॥ प्राज्ञेनात्मनान्वारूढ इत्यादिना जीवेशयोर्भेदः उक्तः तद्दार्ढ्यायाभेदविदो दोषमाह मन्त्रेण ॥ आत्मानमिति ॥ चेच्छब्दो यद्यर्थे । यदि पूरुषो जीवः । अयं परमात्मा अहमस्मीति भगवन्तं विजानीयात्‌ । ज्ञातुं योग्यः स्यात्तर्हि किमिच्छन्‌ तस्य विवरणम्‌ । कस्य कामाय कस्मै कामाय । किमर्थमिति यावत्‌ । शरीरमनुसंज्वरेत्‌ सन्तापयेद्दुःखी भवेदित्यर्थः । जीवः स्वस्य भगवत्तादात्म्यानुसन्धानयोग्यश्ऱ्चेत्कुतो देहच्छेदादिना दुःखी स्याद्धरेरदुःखित्वादिति भावः ॥ 12

॥ भगवज्ज्ञानं मुक्तिहेतुरित्यत्र मन्त्रान्तरमाह ॥ यस्येति ॥ हि यस्मात्स आत्मा सर्वस्य कर्ता । तस्मात्स विश्ऱ्वकृत्‌ । मुख्यवोयोः कर्ता । अस्मिन्सन्दोहे देहे । गहने हृदयगुहायां प्रविष्यः । प्रतिबुद्धः सर्वज्ञः । स आत्मा यस्य येनोपासकेनानुवित्तो ज्ञातः । तस्योपासकस्य । लोकः स उलोक एव प्रसिद्धो भगवल्लको एव भवतीत्यर्थः । तदाह सूत्रे तन्निष्ठस्य मोक्षोपदेशादिति ॥ 13

॥ गुरूपदेशेनैव ज्ञानं सम्पाद्यमन्यथानर्थ इत्यत्र मन्त्रमाह ॥ इहैवेति ॥ अथ ज्ञानिसद्भावकाले । इह अस्मिन्‌ जन्मन्येव । सन्तः सज्जनाः वयम्‌ । तत्परं ब्रह्म । विद्मः जानीम इति मन्त्रद्रष्यृवचनम्‌ । कालान्तरे सम्पाद्यतामितिविदन्तं प्रत्याह ॥ नेति ॥ न चेदवेदीः परं ब्रह्म न जानीयाश्ऱ्चेदिति साधुजनं प्रत्युच्यते । तर्हि महती विनष्यिः । गुरूपदेशजन्यज्ञानस्य फलमाह ॥ य एतदिति ॥ एतद्ब्रह्म गुरूपदेशेन ये विदुस्ते अमृताः मुक्ता भवन्ति । अवेदिन उक्तां विनष्यिं व्यनक्ति ॥ अथेत्यर्थान्तरे । इतरे गुरूपदेशोल्लंघनवन्तः दुःखमेव प्राप्दुवन्तीति ॥ 6

॥ 4

॥ 14

॥ भगवतो मुक्तिहेतुत्वे मन्त्रान्तरमाह ॥ यदैतमिति ॥ ये भूतभव्यस्येशानम्‌ । देवं क्रीडादिगुणविशिष्यम्‌ । एतमात्माम्‌ । यदांजसाऽनुपश्यन्ति । ततः आत्मज्ञानान्तरं न विजगिप्सते । आत्मानं गोप्तु नेच्छति । भयाभावादिति भावः ॥ 15

॥ तद्यदेतदिदं मयोऽदोमय इत्यत्र हरेरविकारत्वमुक्तं तत्र मन्त्रमाह ॥ यस्मादिति ॥ अहोभि;

सह संवत्सरो यस्मादर्वाक्‌ परिवर्तते । तस्मिन्विकारं कतर्ुमसमर्थ इति यावत्‌ । तज्ज्योतिषां ज्योतिः ज्यातिष्युप्रदं आयुः । अचलं अमृतं नित्यमुक्तम्‌ । देवा उपासते । ह प्रसिद्धम्‌ ॥ 16

॥ आकाशोमूलप्रकृतिश्ऱ्च प्रतिष्ठितः स्थितः । तमेवात्मानम्‌ । मन्ये जानामि । किं तज्ज्ञानेनेत्यत उक्तम्‌ ॥ विद्वानिति ॥ अमृतं ब्रह्मविद्वानमृतो मुक्तो भवति ॥ 6

॥ 4

॥ 17

॥ के ते पञ्चजना इत्यतः ज्योतिषां ज्यातिरिति प्रागुक्तं ज्यातिरेकं अन्येचत्वारः प्राणादय इति भावेन तद्वेदिनः फलं चाह ॥ प्राणस्य प्राणमित्यादिना ॥ प्राणादेः प्राणनादिप्रदम्‌ । ये विदुः ते । पुराणं पुरातनम्‌ । अग्न्यं श्रेष्ठम्‌ । ब्रह्म । निचिक्युः प्राप्नुयुरिति । तदाह सूत्रे । प्राणादयो वाक्यशेषात्‌ ज्यातिषैकेषामसत्यन्न इति ॥ 18

॥ शक्लस्य नीलस्येत्यादिनोकतभगवद्रूपाणां विज्ञानमय इत्यादिनोक्तगुणानां च भेददर्शिनोऽनर्थं ब्रह्मापरोक्षज्ञानकरणं वदन्नेवाह ॥ मनसैवेति ॥ इह ब्रह्मणि । किञ्चन रूपगुणादिकं नाना भिन्नं नास्तीत्यर्थः । इह ब्रह्मणि । किञ्चन रूपादिकम्‌ । नाना भिन्नम्‌ । इव शब्दाद्भिन्नाभिन्नं वा पश्यति स मृत्योः मृत्युं अन्धन्तमः प्राप्नोतीत्यर्थः ॥ 19

॥ तर्हि कथं ज्ञेयमित्यत आह ॥ एकधैवेति ॥ तस्मादति ग्राह्यम्‌ । भेदज्ञानेऽनर्थसत्वात्‌ । अप्रमयं परिमितिहीनम्‌ । ध्रुवं नित्यम्‌ । विरजः निर्दोषं रजोपलक्षितसर्वदोषरहितं आकाशन्मूलप्रकृतेः परं एतद्ब्रह्म । एकधैव एकप्रकारेणैव । गुणक्रियादिभिः सविशेषाभेदेनैव । द्रष्यव्यमित्यर्थः । मनसेत्यनुषज्यते । मनसः श्रवणादिकं सहकारीति भावेनाह ॥ अज इत्यादिना ॥ धीरो धैर्यशाली । ब्राह्मणो ब्रह्मणनयोग्यो नरः योज्यः जननहीनः । महानपरिच्छिन्नः । ध्रुवः नित्यः आत्मा तमेव परोक्षतो विज्ञाय । प्रज्ञां साक्षात्करम्‌ । कुर्वीत सम्पादयेत्‌ । तमेवेत्युक्तैवकारव्यावर्त्यमाह ॥ नानुध्यायेदिति ॥ कुतो न ध्यायेन्नाभ्यसेदित्यत उक्तम्‌ ॥ वाच इति ॥ तत्‌ अन्यविषयकबहुशब्दव्यवहरणम्‌ । वाचो वागिन्द्रियस्य । विग्लपनं श्रवमकरमत इत्यर्थः । इति शब्दः श्ऱ्लोकसमाप्तौ ॥ 6

॥ 4

॥ 20

॥ अज आत्मा महान्‌ ध्रुव इति श्रवणशत्पूर्वमन्त्रस्य चतुर्मुखपरत्वप्रतीतिं तदनुवादपूर्वं निराह ॥ स वा एष इति ॥ एष मन्त्रोक्तो महानज आत्मा । स

?R

वै स एव । स कः यत्रैष एतत्सुप्तोभूद्य एष विज्ञानमयः पुरुषस्तदेषां प्राणानां विज्ञानेन विज्ञानमादाय एषोन्तर्हृदय आकाशस्तस्मिंच्छेत इति वाक्ये योयं विज्ञानमयः प्राणेषु तिष्ठतीत्युक्तः यश्ऱ्च य एष प्रसिद्धोन्तर्हृदये हृदयान्तर्वर्तमान आकाशस्तस्मिन्‌ शेत इत्युक्तः स वा इत्यर्थः । तस्य महिमानमाह ॥ सर्वस्येति ॥ सर्वमस्य वशे वर्तत इति सर्वस्य वाशी । सर्वस्येशस्य ब्रह्मरुद्रादेरनश्ऱ्चेष्यक इति सर्वस्येशानः । सर्वस्य ब्रह्मरुद्रादेः सकाशाद्गुणैरधिकः पालकश्ऱ्चेति सर्वस्याधिपतिः । यश्ऱ्च स प्रसिद्धो हरिः जीववत्साधुना कर्मणा भूयान्‌ न । नो एव नैवासाधुना कर्मणा कनीयान्पुण्यपापकृतविकाररो नास्त्येवेत्यर्थः । एष सर्वेश्ऱ्वरः । एष भूताधिपतिः भूत एव पूवर्कालमारभ्यैवाधिपतिः नास्याधिपत्यमादिमदित्यर्थः । एष भूतपालः । अनादिकालमारम्यैव पालक इत्यप्यवधेयम्‌ । यश्ऱ्चैष एषां लोकानां असम्भेदाय असंकर्याय । विधररः विधारणसमर्थः सेतुराश्रय इति । तदाह सूत्रे । ॐ धृतेश्ऱ्चमहिम्नोस्यामिन्नुपलब्धेरिति । तमेतमुक्तगुणवन्तम्‌ । ब्राह्मणाः ब्रह्माणनयोग्याः । वेदानुवचनेन वेदाध्ययनेन । यज्ञेन दानेन । तपसा कृच्छृचान्द्रायणादिकायक्लेशरूपतपसा । अनाशकेनोपवासेन । विविदिषन्ति वेदितुमिच्छन्ति । तदाह सूत्रे । सर्वापेक्षा च यज्ञादिश्रुतेरश्ऱ्ववदिति । वेदनफलमाह ॥ एतमिति ॥ एतं पूर्वोक्तमहिमयुक्तमेव विदित्वा । मुनिः ज्ञानरूपो । मुक्तो भवति । किञ्च एतं भगवन्तमेव लोकं आश्रयम्‌ । इच्छन्तः प्रार्थयमानाः । प्रव्राजिनः प्रव्रजनयोग्याः । प्रव्रजन्ति निषिद्धकाम्यकर्मत्यागरूपसन्न्यासवन्तो भवन्पिनिषत्स्वोक्तार्थे पूर्वोचारं प्रमाणयति ॥ एतदिति ॥ एतद्भगवानेवाश्रय इत्येतत्प्रमेयम्‌ । विद्वांसः पूर्वे प्रजां प्रजादिकं न कामयन्ते ह सन्म वै । प्रजाद्यकामने हेतुमाह । किमिति ॥ येषां नोऽस्माकम्‌ । अयं पूर्वोक्तमहिमयुक्ता हरिः आत्मा स्वामी अयं लोकः आश्रयश्ऱ्च । ते वयं किं प्रजया करिष्याम इति भावेन प्रजां न कामयन्त इत्यन्वयः । ते ह स्मेत्यादि वाक्यं पूर्वाध्याये पञ्चमे कहोलब्राह्मणे व्याख्यातम्‌ । विदित्वेत्युक्तवेदनकर्मणो हरेः महिमान्तरमाह ॥ स एष नेतीति ॥ एतदपि वाक्यं व्याख्यातं पूर्वाध्यायान्त्यभागे । मुक्तिस्वरूपामह ॥ एतमिति ॥ अतो हरेः सकाशात्तत्प्रेरणयेति यावत्‌ । अहं पापमकरवम्‌ । कल्याणमकरवमिति । एते भावेन एतं मुक्तमेव । न तरता नैव व्याप्नुतः । मुक्तं भावेन कुतो न तरत इत्यतः तत्स्वामिनस्तत्तरणादित्याह ॥ उभे इति ॥ एष हरिः । एते उभे भावने तरति नित्यं तीर्णो वर्तते । भगवतस्तत्तरणं नाम किमित्यत आह ॥ नैनमिति ॥ एनं कृताकृते पुण्यपापे न तपत इति । पुण्याकरणपापकरणनिमित्तविकारो नैव तस्यास्तीत्यर्थः ॥ 21

॥ भगवन्तं पुण्यपापे न तपतः । तज्ज्ञानिनं मुक्तं च न तपत इत्युक्तार्थे मन्त्रमाह ॥ तदेतदिति ॥ ब्रह्मणा वेदेन अण्यते गम्यत इति ब्राह्मणो विष्णुः । ब्रह्मण इति वक्तव्ये स्वरव्यत्यय आधिक्यार्थः । तस्य विष्णोः । एष पूर्वोक्तो महिमा नित्यः । कुतः शभकर्मणा न वर्धते पापकर्मणा नो कनीयान्‌ । तस्य नित्यमहिम्ने हरेः । पदवित्स्वरूपज्ञानी । स्यात्‌ । तं विदित्वा । पापकेन कर्मणा । न लिप्यते । इति शब्दो ऋक्‌समाप्त्यर्थः । तस्माद्भगवज्ज्ञानस्य मुक्तिहेतुत्वात्‌ । एवंवित्‌ भगवज्ज्ञानं मुक्तिहेतुरिति जानन्‌ । शान्तो भगवन्निष्ठाः । दान्तोनिगृहीतेन्द्रियः । उपरतः उप समीपे हृदिस्थे विष्णाविति यावत्‌ । रमत इत्युपरतः विष्णुविषयसन्तोषवानित्यर्थः । तितिक्षुः द्वन्द्वसहिष्णुः । समाहितः । यथावस्तुज्ञानी भूत्वा । आत्मन्येव स्वस्मिन्नेव स्थितमात्मानं हरिम्‌ । पश्यति पश्येत्‌ । कथं ज्ञातव्य इत्यत आह ॥ सर्वमिति ॥ पूर्णमात्मानं पश्येदित्यर्थः। तथा ज्ञानिनः फलामाह ॥ नैनमिति ॥ एनं ज्ञानिनम्‌ । पाप्मा न तरति न प्राप्नोति । प्रत्युतायमेव सर्वं पाप्मानम्‌ । तरति तीर्णो वर्तते । एतदेव विवृणोति ॥ नैनमिति ॥ एवं नैनं रजस्तरति । नैनं विचिकित्सा सन्देहः तरतीत्यपि ध्येय । कुत एतदित्यतस्तदुपास्यस्य हरेः पापाद्यस्पृष्यत्वादित्याह ॥ विपाप इति ॥ नित्यं विपापो विरजो विरागो अविचिकित्सो अपगतसन्देहो भवति ब्राह्मणो वेदगम्यो हरिः यतः अतस्तज्ज्ञान्यपि तादृश इति हे सम्राडेष हरिः ब्रह्मलोकः परिपूर्णज्ञानस्वरूप इति याज्ञवल्क्यः । एवं श्रुतभगवत्स्वरूपो राजा गुरुदक्षिणां प्रतिजज्ञ इत्याह ॥ सोहमिति ॥ 22

। विद्यान्तरमाह ॥ स वा इति ॥ अन्नमत्तीत्यन्नादः । वसु ददातीति वसुदानः । एतज्ज्ञानिनः फलमाह ॥ विन्दते वसु य एवं वेदेति ॥ वसु । धनं ॥ 23

॥ विद्यान्तरमाह ॥ स वा इति ॥ अजरो जराहीनः । नमरिष्यतीत्यमरः । अमृतो मृतिहीनः । अभयः भयहीनः । ब्रह्मणोऽयत्वं श्रुतिप्रसिद्धमित्याह ॥ अभयं वै ब्रह्मेति ॥ तथा ज्ञानिनः फलमाह ॥ अभयं हीति ॥ य एवं वेद तस्य ब्रह्म अभयं भवति । भयराहित्यं करोतीत्यर्थः ॥ 6

॥ 4

॥ 24

॥ चतुर्थं शारीरब्राह्मणम्‌ ॥ भगवतोन्तर्यामित्वेनोक्तं सर्वप्रेरकत्वं सर्वथामेयमिति भावेन पुनः प्रागुक्तमेव ब्राह्मणमावर्तयति ॥ अथ ह याज्ञवल्क्यस्येति ॥ तर्हि तदानीं अन्यद्वृत्तं सन्यासाश्रमम्‌ । प्राग्वदर्थः सर्वत्र ज्ञेयः ॥ 1

॥ 2

॥ हे भगोः इयं सर्वा पृथिवी वित्तेन पूर्णा मे यत्स्यात्तेनाह ममृता स्यां किं नु उताहो नेति । सा मेत्रेय्युवाचेति योजना ॥ 4

॥ हे भवति नोऽस्माकं प्रिया वै खलु

?R

प्रतीविषयः ॥ सतीसाध्वी । प्रियां वाचमवृधत्‌ अवर्धयत्‌ भवतीति कर्त्रन्वयः ॥ 3-6-7-8-9-10-11

॥ जवस्य ज्ञानरूपत्वं दृष्यान्तोक्तिपूवर्माह ॥ स यथा सैन्धवघन इति ॥ लवणखण्डः यथानन्तरोऽबाह्यः । बाह्याभ्यन्तरविशेषाभावेन कृत्स्नः लवणरसघन एव एवं अरे मैत्रेयि अयमात्मा अनन्तरो अबाह्यः । बाह्याभ्यन्तरविशेषहीनतया कृत्स्नः प्रज्ञानघन एव सन्‌ एतेभ्यो देहारम्भकभूतेभ्यः । समुत्थायोत्पन्नः सन्‌ तान्येव भूतान्येवानु विनश्यति भूतापगमेन मुक्तो भवति । प्रेत्य मुक्त्यनन्तरम्‌ । संज्ञा ज्ञानम्‌ । नास्तीति ब्रवीमीति होवाच याज्ञवल्क्यः ॥ 12

॥ वृत्तिज्ञानं मुक्तस्य नास्ति । मुक्तविषयज्ञानममुक्तस्य नास्तीति वा याज्ञवल्क्याभिप्रायमजानन्ती सर्वथा ज्ञानशून्यत्वमुक्तवानिति विपतीतं जानन्तो पृच्छति ॥ सा होवाचेति ॥ अहं अहहेयमिमं परमात्मानं जीवो नवै नैव जानातीत्यत्रैवावश्यावगन्तव्यप्रमेय एव भगवान्मा मां मोहान्तं मोहाख्यनाशं आपिपत्‌ । प्रापयामासेति होवाचेति योजना । स्वामिप्रायमाह ॥ याज्ञवल्क्यः ॥ स होवाचेत्यादिना ॥ प्रागिवार्थो ध्येयः ॥ 6

॥ 5

॥ 13

॥ अविनाशीत्यादिना बौद्धाभिमतमोक्षं अनुच्छित्तिधर्मेत्यनेन तार्किकाभिमतं यत्र हीत्यादिनाऽद्वैत्यभिमतं मोक्षं च निरस्यान्ते इत्युक्तानुशासनाऽसि मैत्रेयीत्युक्त्वोपसंहरति ॥ एतावदरे खल्वमृतत्वमिति ॥ अविनष्यस्वस्वरूपः अनुच्छिन्नज्ञानसुखादिधमर्ः सन्जीवः स्वरूपभूतसर्वेन्द्रियैर्भगवद्विषयकज्ञानविषयभोगादिमानित्येव खल्वमृतत्वं मोक्ष इत्यर्थः । ततः किमकरोदित्यत आह वेदपुरुषः । इत्युक्त्वा मैत्रेयी प्रत्युपदिश्य विजहार यथेष्य विहारमकरोदित्यर्थः ॥ 14

॥ पञ्चमं मैत्रेयीब्राह्मणम्‌ ॥ अध्यायद्वयोक्तविद्यासु बुभुत्सुश्रद्धाजननाय तासां विद्यानां प्रवर्तकानृषीनाह ॥ अथ वंश इत्यादिना ॥ अत्र पञ्चम्यन्तैरुपदेष्यारः प्रथमान्तैरुपदेश्याः निर्दिश्यन्त इति ज्ञेयम्‌ । अत्राश्ऱ्विप्रभृतिभ्योऽथर्वप्रभृतेराधिक्याभावेपि ततः उपदेशं लीलया गृह्णन्तीत तारतम्याविरोधः ॥ 1

॥ इति वंशब्राह्मणम्‌ ॥

इति श्रीकाण्वोपनिषदर्थसंग्रहे राघवेन्द्रयतिकृते षष्ठोऽध्यायः ॥

************************************************************

सप्तमोऽध्यायः

?R

चतुर्ष्वध्यायेषूक्तानां भिन्नाः शेषभूता विद्याः सप्तमाष्यमाभ्यां विरूप्यन्ते । तत्र भगवतोऽवताराणां आविर्भावतिरोभावलक्षणां विद्यामाह ॥ पूर्णमद इति ॥ अदो मूलरूपं पूर्णं इदं अवताररूपं पूर्णम्‌ । पूर्णात्‌ मूलरूपात्पूर्णमवताररूपमुदच्यते उद्गच्छति । आविर्भवति । पूर्णस्य मूलरूपस्य यदवताररूपं पूर्णम्‌ । तदात्मन्यादाय एकीभूय पूर्ण मूलरूपमेवावशिष्यते । अवतिष्ठत इत्यर्थः । अवतारिणो मूलरूपस्य हरेः स्वरूपमाह ॥ ओमिति ॥ भूलरूपं सर्वगुणपूर्णत्वादोमित्यच्यते । प्रकाशरूपत्वात्‌ खम्‌ । व्याप्तत्वात्‌ ब्रह्म । सुखरूपत्वात्खम्‌ । अनादित्वात्पुराणम्‌ । वायोरतिदत्वाद्वायुरम्‌ । ख्यातत्वात्खम्‌ । इति कौरव्याणीपुत्रो बलभद्र आह स्म ह । अयं हरिः ज्ञानरूपत्वात्‌ । वेद इति यं ब्राह्यणाः विदुः न केवलं ज्ञानरूपत्वाद्वेद इति ब्राह्मणा विदुः । किन्तु ज्ञानहेतुत्वाच्च वेद इत्युच्यत इत्याह ॥ वेदोनेनैनेति ॥ वेद उ अनेन एन इति पदविभागः । यं ब्राह्मणाः विदुः । अनेन एन उनिर्दोषत्वहेतुना अकारवाच्येनैव वेदितव्यं ज्ञातव्यं यत्‌ तद्वेद जीवोतो वेदेत्यर्थः ॥ 2

॥ प्रथमब्राह्मणम्‌ ॥ सर्वप्राणिसाधारणानुष्ठयमाह ॥ त्रया इति ॥ प्राजापत्याः प्रजापतेबर्रह्मणः पुत्राः । त्रयाः त्रिविधाः । ब्रह्मार्थं चरणं ब्रह्मचर्यम्‌ । नोऽस्मभ्यं उपदेष्यव्यं भवान्‌ ब्रीत्विति देवाः ब्रह्मणं प्रत्युचुरिति योजना । एवमग्रेऽपि । एवमुक्त उपदिदेशेत्याह ॥ तेभ्यो देवेभ्य इति ॥ द इत्यरक्षरं देवेभ्य उपदिश्य तदथर्ो ज्ञातः किं भवद्भिरित्यप्युवाचेत्याह ॥ व्यज्ञासिष्या इति । ज्ञातवन्तः किमित्यर्थः । उवाचेत्यनुकर्षः । व्यज्ञासिष्येति वक्तव्ये व्यज्ञासिष्या इति प्लुतः प्रश्ऱ्नद्योतकः । एवमग्रेऽपि । एवं पृष्या देवाः ज्ञातवतः स्म इत्यूचुरित्याह ॥ व्यज्ञासिष्मेति ॥ दाम्यत सद्गुणोच्छ्रितत्वहेतुना अहंकारवन्तो मा भवतेति नोस्मान्प्रत्यात्थ कथितवानसीति व्यज्ञासिष्मेत्यूचुरित्यर्थः । तत्र ब्रह्मा संवादमकरोदित्याह ॥ ओमिति ॥ यूयं द इत्युक्त स्यार्थं व्यज्ञासिष्य भवन्तो ज्ञातवन्त इति ओं अंगीकृतवानस्मीति होवाचेति । प्रजापतिरित्यनुकर्षः । एवमग्रेऽपि प्रश्ऱ्नप्रत्युरयोजना ज्ञेया ॥ 7

॥ 1

॥ 1

॥ एनं प्रजापतिम्‌ । दत्तेति निष्कामनया मुक्तिहेतुज्ञानसाधनदेवाद्युद्देशेन हविरादिदानं कुरुतेति न आत्थेत्यूचुरित्यर्थः । दयध्वं दयां कुरुतेत्यर्थः । तदेतदेव ब्राह्मणोपदिष्यमेव । एषा दैवी वाक्‌ । स्तनयित्नुर्दाम्यत दत्तदयध्वमिति भावेन ददद इति त्रिरनुवदति । तस्माद्ब्रह्मणैवमुपदिष्यत्वात्‌ दमं दानं दयामित्येतत्त्रयं सर्वोपि शिक्षेत्‌ अनुतिष्ठेदित्यर्थः ॥ 7

॥ 2

॥ 3

॥ इति द्वितीयब्राह्मणम्‌ ॥ चतुर्मुखभगवद्विषयां विद्यामाह ॥ एष प्रजापतिरिति ॥ यद्धृदयमिति नाम तद्वाच्यः एष प्रकृतः । प्रजापतिः प्रजापतिपदोक्तो ब्रह्मा हरिश्ऱ्चेत्यर्थः । यज्ञभागहरणाज्ज्ञानदानादव्यवदानेन हरिप्राप्तेर्निमित्तेन हृदयनामब्रह्मणः । हरेस्तु स्वभागहरणाद्दानन्नृणांफलयापनादिति ज्ञेयम्‌ । एतद्धृदयनामकं प्रजापतिशब्दितं द्वयं ब्रह्म एतद्धृदयनामकं द्वयं सत्यम्‌ । सद्गणरूपत्वात्सत्यनामकं च । हृदयशब्दवर्णार्थतया चोपासनमावश्यकमिति भावेनाह ॥ तदेतत्त्ऱ्यक्षरमिति ॥ तत्प्रजापतिनामभूतम्‌ । हृदयमित्येतन्नाम त्ऱ्यक्षरमिति । तानि क्रमेण निर्दिश्य तद्वेदिनः फलमाह ॥ हृ इत्येकमक्षरमिति ॥ यज्ञभगवहरणात्‌ हृ इत्युच्यते ब्रह्मा । स्वभागहरणाद्धरिर्हृ

?R

इत्युच्यते । हरतेः विच्‌ । योधिकारी एवमुक्तनिमित्तेन हृ शब्दार्थत्वेन ब्रह्माणं हरिं च वेद । अस्मै ज्ञानिने स्वाश्ऱ्च स्वकीयाश्ऱ्चान्ये च आहरन्ति । इष्यमिति योज्यम्‌ । योधिकारी एवं ज्ञानदानाद्द इत्येकमक्षरम्‌ । एतदक्षरार्थत्वेन वेद । B-K-10

?R

स्मै स्वाश्ऱ्चान्ये च ददति । प्रयच्छन्ति । अन्येभ्यो हृत्वाऽस्मै प्रयच्छन्तीत्यभिप्रायादाहारन्ति ददतीत्यनयोर्न पौनरुक्त्यम्‌ । योधिकारी एवमनन्यद्वारेण परब्रह्म यानात्‌ गमनात्‌ । ब्रह्माणां यमित्येकाक्षरार्थत्वेन वेद । तथा नृणां फलयापनात्‌ य इत्यक्षरार्थं हरिं च वेद स स्वर्गाख्यं विष्णुलोकमेति प्राप्नोतीति ॥ तृतीयब्राह्मणम्‌ ॥ प्रकृतभगवन्निष्ठं विद्यान्तरमाह ॥ तद्वैतदिति ॥ ततत्वान्निर्विकारत्वात्तत्‌ । वै प्रसिद्धं एतदेव तत्‌ तादृशततत्त्वादिगुणयुक्तम्‌ । नान्यत्तादृशमित्यर्थः । सत्यमेवेत्येवकारस्तदित्यत्रान्वेति । तदेव नारायणाख्यं ब्रह्मैव सत्यम्‌ । मुमुक्षुभिः साद्यतया प्राप्यतया वासुदेवाख्यमास आसीत्‌ । तज्ज्ञानिः फलमाह ॥ स य इति ॥ योधिकारी । एवं ततत्वदिगुणयुक्तम्‌ । महद्यज्ञं महायाज्यम्‌ । प्रथमजं प्रथममाविभूतम्‌ । सत्यं मुमुक्षुभिरासाद्यं वासुदेवाख्यं रूपं ब्रह्मेति वेद । स इमांल्लोकान्‌ जयति । भूम्यादिलोकजयो नाम धर्मश्रानादिसाधनपूर्तिर्ध्येया । ऐहिकप्राप्तिरानुषंगिकीति भावेनाह ॥ जित इन्वसाविति ॥ य एवमेतं महद्यज्ञं प्रथमजं सत्यं ब्रह्मेति वेद । तेनासौ परलोको जित एव असत्‌ आसीदिति । सत्यं ब्रह्मेत्युपासनं नाविद्यमानोपासनमित्याह ॥ सत्यं ह्येव ब्रह्मेति ॥ इति चतुर्थब्राह्मरम्‌ ॥ भगवद्विषयविद्यानतरमाह ॥ आप इति ॥ इदभग्रे अस्य प्रपञ्चस्याग्रे आप एव । आ समन्तात्सर्वगुणान्पिबत्यनुभवतीत्वि पातीति वा । आप इत्युक्तो नारायण आसीदित्यर्थः । शब्दस्वाभाव्याद्बहुवचनं । ताः आपो नारायणः सत्यं मुमुक्षुभिरासाद्यं वासुदेवाख्यमसृजन्त असृजत्‌ । सत्यं किमित्यत आह ॥ सत्यं ब्रह्मेति ॥ ब्रह्म वासुदेवाख्यं ब्रह्म प्रजापतिं ब्रह्माणमसृजदित्यनुकर्षः । प्रजापतिर्देवानसृजतेत्यनुषंगः । तस्मादितिशेषः । पितृत्वाद्धेतोः । ते देवाः ब्रह्मादयः । सत्यमेव सत्याख्यं वासुदेवमेवोपासते । सत्याख्योपास्तिः सत्य शब्दार्थयुक्तत्वेनेति भावेनाह ॥ तदेतदिति ॥ तद्वासुदेववाचि सत्यमित्येतत्पदं त्ऱ्यक्षरम्‌ । तानि निर्दिशति ॥ सदित्येकमक्षरमित्यादिना ॥ प्रथमोत्तमे आद्यन्ते अक्षरे सत्यं सत्य साधुत्वार्थे मध्यतो मध्ये विद्यमानमक्षरमनृतं ततत्वान्मिथ्याज्ञानार्थकं तदेतदनृतं मिथ्याज्ञानार्थकं ती(ति)त्यक्षरं उभयतः पार्श्ऱ्वद्वये । सत्येन सदित्यनेन यमित्यनेन चाक्षरेण परिगृहीतम्‌ । सत्यं भूयमेव भवति । साध्वर्थमेव भवति । मिथ्याज्ञानसाधनहेतुना सदिति पूर्वोक्षरेणोक्तेन हरिणा मित्याज्ञाननाशनहेतुना च । यमित्युत्तराक्षरेणोक्तेन च हरिणा सन्दष्यन्ती(ति)त्यनेनोक्तमिथ्याज्ञानं साधुषु व्याप्तिं कथं लभेतेति भावः । एतद्विद्यावेदिनः फलमाह ॥ नैनमिति ॥ विद्वांसं एतद्विद्याज्ञानिनमेनमनृतं मिथ्याज्ञानं न हिनस्ति । न बाधत इति ॥ 7

॥ 5

॥ 1

॥ प्रकृतवासुदेवस्य रूपद्वयविषयं विद्यान्तरमाह ॥ तद्यदिति ॥ तत्प्रसिद्धं यत्प्रकृतं वासुदेवाख्यं सत्यं तदसौ स आदित्यः हविषामादानदादित्यनामा । क आदित्य इत्यत आह ॥ य एष इति ॥ एतस्मिन्मण्डले पुरुषो यो वर्तते एष हरिरादित्य इत्यर्थः । यश्ऱ्चायं दक्षिणेऽक्षन्‌ अक्षणि पुरुषोस्ति सोपि सत्यमिति योज्यम्‌ । तावेतौ रूपविशेषावन्योन्यस्मिन्प्रतिष्ठितौ । सूर्यमण्डले स्थितोऽक्षणि तिष्ठति । अक्षिगतो मण्डले प्रतिष्ठितोस्तीत्यर्थः । स्थितिप्रकाम्‌ दर्शयति ॥ रश्मिभिरिति ॥ एष मण्डलस्थो रश्मिभिरस्मिन्नक्षणि प्रतिष्ठितः । अयमक्षिगतः । प्राणैश्ऱ्चक्षुरादिभिरमुष्मिन्मण्डले स्थित इत्यर्थः । मण्डलस्थोक्षिस्थ इति कुत इत्यत आह ॥ स इति ॥ स दक्षिणाक्षिस्थो हरिः । यदास्माच्छरीरादुत्क्रमिष्यन्भवति । तदैव म्रियमाणो जीवः । शुद्धमेव रश्मिहीनमेव । मण्डलं पश्यति । रश्मीनामभावान्न पश्यति किमित्यत आह ॥ नैनमिति ॥ एते विद्यमाना अपि रश्मयः एनं न प्रत्याययन्ति । आत्मविषयकप्रतीतिं न जनयन्तीत्यर्थः । केषाञ्चिन्मृतिसमये केषाञ्चित्सप्तभिर्दिनैरिति ज्ञेयम्‌ ॥ 7

॥ 5

॥ 2

॥ सूर्याक्षिस्थितवासुदेवरूपयोर्ध्यानार्थमवयनामान्याह ॥ य एष इत्यादिना खण्डद्वयेन । य एष एतस्न्मिण्डले पुरुषो दक्षिणशक्षणि च पुरुषो हरिः । तस्य शिरः दृष्यया वाचा च भावयति रक्षतीति भूरित्युच्यते । शिरसो भूर्नामत्वं युक्तमित्याह ॥ एकं शिर इति ॥ एतदक्षरम्‌ । भूरित्येतदक्षरं तस्याक्षिमण्डलयोः स्थितस्य । दक्षिणोत्तरबाहूक्रमादुत्पादनविनाशहेतुत्वनिमित्ताभ्यां भु इति व इति चाक्षरद्वयप्रतिपाद्यतया भुव इत्यच्यते । बाह्वोर्भुव इत्यक्षरद्वयार्थत्वमु पपादयति ॥ द्वौ बाहू इति ॥ तस्य प्रतिष्ठाप्रतिष्ठे । दक्षिणोत्तरपादौ क्रमात्सुखज्ञानदातृत्वरूपनिमित्ताभ्यां सुवरित्यक्षरद्ययेनोच्येते । तदुपपदादयति ॥ द्वे प्रतिष्ठे इति ॥ मण्डलाक्षिस्थितयोर्नामाह ॥ तस्येति ॥ उपनिषद्रहस्यम्‌ । सर्वलोकप्रकाशनहेतुनाऽहरिति अहेयत्वहेतुनाऽहमिति नामेत्यर्थः । अहर्दिनंप्रकाशश्ऱ्चेति प्रागुक्तस्मृतेः । एतज्ज्ञानिनः फलमाह ॥ हन्ति पाप्मान इति ॥ कानि चित्पापानि हन्ति । कानिचित्पापाभिमानिकल्यादीनि जहाति त्यजतीत्यर्थः ॥ 7

॥ 5

॥ 4

॥ इति पञ्चमं ब्राह्मणम्‌ ॥ भगवद्विषयविद्यान्तरमाह ॥ मनोमय इति ॥ अयं पुरुषो हरिः । मनोभयो

?R

ज्ञानप्रधानः । महाज्ञान इति यावत्‌ । भाः प्रकाशरूपः । सत्यः सद्गुणात्मकः । तस्मिन्जीवसम्बन्धिनि अन्तर्हृदये हृदयमध्ये । तिष्ठतीति शेषः । तस्य परिमाणं दृष्यान्तेनाह ॥ यथेति ॥ वअीहिर्वा यवो वायत्परिमाणस्तत्परिमाणस्तिष्ठतीत्यर्थः। तस्य महिमान्तरमाह ॥ सर्वस्येति ॥ ईशानां रुद्रादीनामनश्ऱ्चेष्यकः । सर्वस्य जगतोऽधिपतिः स्वामी । यदिदं किञ्च जगत्‌ इदं सर्वं प्रशास्ति नियमयतीति ॥ 7

॥ 6

॥ 1

॥ षष्ठं ब्राह्मणम्‌ ॥ भगवद्विषयविद्यान्तरमाह ॥ विद्युदिति ॥ विशेषेण द्यति खण्डयति अज्ञानादिकमिति वा । सर्ववेदनाद्वा । विद्युद्ब्रह्मेत्याहुः । वेदवेदिन इति योज्यम्‌ । कुतो ब्रह्म विद्युदित्युच्यत इत्यतस्तस्यार्थं स्वयमेवाह ॥ विदानादिति ॥ विशेषेण खण्डनाद्वेदनाद्वा विद्युदित्यर्थः । दो अवखण्डने विद ज्ञान इति धातोः । फलमाह ॥ विद्यतीति ॥ योधिकारी एनं भगवन्तमेवामज्ञानादिखण्डकत्वेन वा सर्ववेदनहेतुत्वेन वा विद्युद्ब्रह्मेति वेद । हरिः तस्य पाप्मनो विद्यति । विशेषेण द्यति खण्डयति । तथा स्वात्मानं विद्यति वेदयतीत्यर्थः । विद्युत्त्वेन हरेर्ज्ञानं न मिथ्‌याज्ञानमिति भावेनाह ॥ विद्युद्धयेव ब्रह्मेति ॥ 7

॥ 7

॥ 1

॥ इति सप्तमं ब्राह्मणम्‌ ॥ सर्वविद्यासिद्धयंगभूतां सरस्वतीविषयविद्यामाह ॥ वाचमिति ॥ वाचं वाग्देवीं सरस्वतीयं धेनुरूपतया स्थितामुपासीत । तस्याश्ऱ्चत्वारः स्तनाः । चतुर्भिः स्तनैरभिमन्यमाना इत्यर्थः । तान्निर्दिशति ॥ स्वाहाकार इत्यादिना ॥ स्वधाकार इतीति शब्दो योज्यः । तस्यै तस्याः गोरूपायाः । द्वौ स्तनौ स्तनद्वयाभिमन्यमानौ स्वाहाकारं वषट्‌कारं चेत्येतौ । देवाः उपजीवन्तीत्यर्थः । मनुष्याः पितर इत्यत्रोपजीवन्तीत्यनुषंगः । तस्याः गोरूपायाः वाचः प्राणो मुख्यवायुः । ऋषभः पतिः । मनो मनोमानी रुद्रष वत्सः ॥ 7

॥ 8

॥ 1

॥ इत्यष्यमं ब्राह्मणम्‌ ॥ भगवद्विषयविद्यान्तरमाह ॥ अयमग्निरिति ॥ योयमन्तः पुरुषे जीवान्तरास्ते । अयं हरिरग्निः अंगशब्दितप्राणिशरीरनेतृतया अग्निनामा । जाठराग्नौ स्थितः वैश्ऱ्वानरो वैश्ऱ्वानरनामा च । विश्ऱ्वगुणपूर्णत्वाद्वैश्ऱ्वः नरीयते न नश्यतीति नरः वैश्ऱ्वश्ऱ्चासौनरश्ऱ्चेति वैश्ऱ्वनरः स एव वैश्ऱ्वानर इत्युच्यते । तस्य व्यापारमाह ॥ येनेति ॥ येन जाठराग्निस्थेन यदिदं प्राणिभिरद्यते इदमन्नं पच्यते । जीर्णं करोति । तस्य कर्मणि षष्ठी । हरेरेष घोषो भवति । जाठराग्निस्थहरिविषयको वायुना क्रियमाणः स्तुतिरूपो घोषो भवतीत्यर्थः । सवर्प्रत्यक्षः स घोष इत्याह ॥ यमिति ॥ एतत्‌ एतौ । स घोषो हरेः स्तुतिरिति कथं ज्ञायत इत्यत आह ॥ स यदेति ॥ स हरिः यदाऽस्माच्छारादुत्क्रमिष्यन्‌ भवति । तदा जीवः एनं घोषां न ृणोति । तदेव मरणसुचकमित्यर्थः ॥ 7

॥ 9

॥ 1

॥ इति नवमं ब्राह्मणम्‌ ॥ मुमुक्षोरत्यपेक्षितमार्गविषयां विद्यामाह ॥ यदेति ॥ यदा पुरुषो जीवः अस्माल्लोकाद्देहात्प्रैति निर्गच्छति । वायुं मुख्यवायुपुत्रं प्रवहम्‌ । तदाह सूत्रे । वायुशब्दादविशेषविशेषाभ्यामिति । स वायुस्तत्र वायुलोके । तस्मै ज्ञानिने । तत ऊर्ध्वगमनाय । विजिहीते विवरं करोति । कथं यथा रथचक्नस्य स्वं विवरं तथेति । तेन छिद्रेण स ज्ञानी ऊर्ध्वः ऊर्ध्वगतिः सन्नाक्रमते गच्छति । स ऊर्ध्वं आक्रान्तः आदित्यं सूर्यमागच्छति तस्मा इत्यादि प्राग्वत्‌ । लम्बरस्य वाद्यविशेषस्य । दुन्दुभेर्वाद्यविशेषस्य स लोकमित्यतः प्राक्‌ स व्यितमागच्छति । तत ऊर्ध्वमाक्रमते स वैद्युतमिति वाक्यशेषो ध्येयः । वैद्युतेनैवेति सूत्रात्‌ । स ज्ञानी मुख्यवायुं प्राप्तः । अशोकमहिमं शोकोपलक्षितसर्वोपप्लवरहितमहिमोपेतं लोकं विष्णुलोकमागच्छति तस्मिंल्लोके शाश्ऱ्वतीः समाः अनन्तवत्सरान्वसति । अनावृत्तिः शब्दादनावृत्तिः शब्दादिति सूत्रात्‌ ॥ 7

॥ 10

॥ 1

॥ विद्यान्तरमाह ॥ एतदिति ॥ यद्वयाधितस्यप्यते पुमानेतद्विष्णवे परमं तप इत्येव चिन्तयेत्‌ । योधिकारी । व्याधिभिस्तपनं हरये तप इत्येवं वेद स परमं लोकं जयत्येव प्राप्नोत्येव ह । यं प्रेतं दाहायारण्यं श्मशानं हरन्ति तदपि विष्णवे परमं तप इति चिन्तनीयमित्यर्थः । एतज्ज्ञानिनः फलमाह ॥ परमं हैवेति ॥ प्राग्वदर्थो ज्ञेयः । यं प्रेतं शवमग्नौ अभ्यादधति दहन्ति । तदपि विष्णवे परमं तप इति विद्यात्‌ । वेदिनः फलमाह ॥ परमं हैवेति ॥ मृतस्य कथमेतच्चिन्तनमिति शंका तु अक्लेशितोपि क्लेशादीनतीतैष्यानिति स्मृत्या निरस्या ॥ 7

॥ 11

॥ 1

॥ ब्रह्मवायुविषयां विद्यमाह ॥ अन्नं ब्रह्मेति ॥ अन्नमानी चतुमुखः ब्रह्मा स्वकार्ये भगवदन्यानपेक्ष इत्येके आहुः । तत्तथा न भवति । प्राणात्‌ मुख्यवायुत ऋते । अन्नं अन्नोपजीविशरीरं पूयति दुर्गन्धोपेतं भवति । प्राण;

मुख्यवायुः । भगवदन्यनपेक्षः स्वकार्यकर इत्यके आहुः । तत्तथा न भवति । अन्नादृते प्राणः शुष्यति । अन्नप्राणयोरन्योन्यानुपजीवित्वे पूयत्वशोषत्वयोः प्राप्तेः कारणादेते त्वेव प्राणावन्योन्यानुग्रहवंन्ताविति कुत इत्यतस्तयोस्तथाभावं ज्ञानिप्रशंसापूर्वकमाख्यायिकया दर्शयति॥ तद्धस्मा हेति ॥ प्रतृदो वसिष्ठस्तत्पुत्रः प्रातृदः । एवं विदुषे ब्रह्मवायू अन्योन्यापेक्षावेव कार्यक्षमाविति विदुषे । ज्ञानिने । साधु भद्रम्‌ । किं स्वित्किंनु । कुर्याम्‌ । असाधु अभद्रं वा । किंनु कुर्याम्‌ । साधुनातिशयः असाधुना बादो नास्य शक्यः । कृतकृत्यत्वादिति पितरमाह स्मेति योजना । एवं ब्रह्मवायुज्ञानिनं प्रशस्य स पाणिनामा प्रातृदः अन्योन्यापेक्षिणोरनयोरन्नप्राणयोर्मध्ये कस्तु को वा। एकधाभुयमेकत्वम्‌ । भूत्वा प्राप्यान्यानुप्रविष्णः सन्निति यावत्‌ । परमतां

?R

प्रयोजनविशेषवत्तां गच्छतीति पुनः तिरं वसिष्ठमाह स्म । तस्मै एवं पृष्यवते । प्रतृदाय । प्रतृदःपिता । वीत्येतदु एतदेवोत्तरमुवाचह । किमित्यत आह ॥ अन्नं वै वीति ॥ अन्ने ब्रह्मणि । वि शब्दं निर्वक्ति ॥ अन्ने हीति ॥ अन्नमानिब्रह्मणि सर्वाणि भूतानि । निविष्यानि प्रविष्यानि । विशतेरन्तर्णीतप्यर्थात्क्विप्यन्तलोपे च वीति रूपमिति भावः ॥ रमितीति ॥ उत्तरमुवाच तस्मा इति योज्यम्‌ । रमिति किमित्यत आह ॥ प्राणो वै रमिति ॥ रमिति शब्दं प्राणे निर्वक्ति ॥ प्राणे हीति ॥ रमतेरन्तर्णीतण्यथर्ात्क्विपि रूपमिति भावः । ब्रह्मा प्रवेशप्रदः । प्राणो रतिप्रदः । इत्यनयोरन्योन्यानुप्रवेशेन तुल्यमेव प्रयोजनमित्युत्तराक्तस्तात्यर्थं ज्ञेयम्‌ । एतज्ज्ञानिनः फलमाह ॥ सवर्ाणीति ॥ योधिकारी अन्नमानिनि चतुर्मुखे सर्वप्राणिनां प्रवेशः प्राणेन च रमणमित्येवं प्रकारेण वेद । अस्मिन्ज्ञानिनि सर्वाणि भूतानि निविशन्ति सर्वाणि भूतानि रमन्त इति ॥ 7

॥ 12

॥ 1

॥ द्वादशब्राह्मणम्‌ ॥ चतुर्भिअर्ब्राह्मणैर्मुख्यवायुविषयां विद्यमाह । उक्थमिति ॥ सर्वोत्थापकं निरूप्यत इति । प्रतिज्ञातं किमित्यत आह ॥ प्राणो वा उक्थमिति ॥ तस्योक्थत्वं निरुच्य दर्शयति ॥ प्राणो हीति ॥ उत्थपायति सृजत इति वा स्वस्वव्यापारेषु वर्तयतीति वार्थः । ज्ञानिनः फलमाह ॥ उदिति ॥ योधिकारी एवमुत्थपानहेतुत्वेन प्राणं वेद । अस्मै ज्ञानिने । उक्थविद्वीरः पुत्रः उत्तिष्ठ ह । उत्पद्यते ह । उक्थस्य प्राणस्य सायुज्यं समानलोकतां जयति । प्राप्नोति ॥ 7

॥ 13

॥ 1

॥ इमानि साधुरूपाणि युज्यन्ते मुक्तौ हि यतोतः यजुरिति । ज्ञानिनः फलमाह ॥ युज्यन्ते हेति ॥ श्रैष्ठयायास्मै युज्यन्ते । एतस्य श्रैष्ठयायानुकूलानि भवन्तीत्यर्थः । यजुषः यजुर्नाम्नो वायोः ॥ 7

॥ 13

॥ 2

॥ साम सामनामकः निरूप्यत इत्यर्थः । प्रग्वद्योजना ॥ प्राणे हीति ॥ प्रविष्यानीति योज्यम्‌ । सम्यञ्चि हि यतोतः सम्यक्करणात्साम

?R

ेत्युच्यत इत्यथः । अस्मै अस्य श्रैष्ठयाय सर्वाणि भूतानि सम्यञ्चि कल्पन्ते । अनुकूलानि भवन्तीत्यर्थः ॥ 7

॥ 13

॥ 3

॥ क्षत्रमुच्यत इत्यर्थः । प्राणस्य क्षत्रत्वं प्रसिद्धमित्याह ॥ प्राणो हि वै क्षत्रमिति ॥ केन हेतुनेत्यत आह ॥ त्रायते हैनमिति ॥ क्षणितोः क्षतादेनं जीवं त्रायते ह इति यतोतः क्षत्रमिति । अक्षत्रं रक्षकरहितं जीवम्‌ । शिष्यं प्राग्वत्‌ ॥ 7

॥ 13

॥ 4

॥इति त्रयोदशब्रह्मणम्‌ ॥ सर्वापेक्षितगायत्रीनिष्ठां विद्यामाह ॥ भूमिरित्यादिना ॥ तत्र तावल्लोकवेदवायुस्थान्यनिरुद्धप्रद्युम्नसंकर्षणशख्यानि त्रीणि रूपाणि पादत्रयप्रतिपाद्यानीत्याह ॥ भूमिरिति ॥ द्यौरित्यत्राक्षरद्वयं ध्येयम्‌ । इत्यष्यावक्षराणि । गायत्ऱ्यै गायत्ऱ्याः । एकं पदं एकः पादः । अष्याक्षरमित्यष्याक्षरसाम्योक्त्या भूम्यन्तरिक्षद्युलोकेषु स्थितं भूम्याद्यष्याक्षरात्मकपदत्रवाच्यं अनिरुद्धरूपं गायत्ऱ्या अष्याक्षरात्मकप्रथमपादप्रतिपाद्यमित्यर्थोभिमत इति भावेनाह ॥ एतादिति ॥ एतद्भूम्यादिगतं तच्छब्दवाच्यमनिरुद्धाख्यं रूपं एतदु है व । एतदेव हि । अस्याः गायत्ऱ्याः एतत्पादप्रतिपाद्यमित्यर्थः । एतज्ज्ञानिनः फलमाह ॥ स यावदिति ॥ योमुख्योधिकारी ब्रह्मा अस्याः गायत्ऱ्याः एतदेवं भूम्यादिलोकस्थं पदं गायत्रीप्रथमपादप्रतिपाद्यमनिरुद्धम्‌ । वेद । स ज्ञानी । एषु त्रिषु लोकेषु यावदस्ति यावद्दूरं व्यक्त्याभिव्याप्य तिष्ठति । पदप्रतिपाद्यमनिरुद्धाख्यं रूपं तावज्जयति मुक्तः सन्तावद्वयाप्नोति भूम्यादिलोकानामधिपतिः भूत्वा यशस्वी श्रीमांश्ऱ्च भवतीत्यर्थः ॥ 7

॥ 14

॥ 1

॥ ऋगित्यष्याक्षरात्मकऋगादिपदवाच्यं ऋगादिषु स्थितं प्रद्युम्नाख्यं रूपम्‌ । गायत्ऱ्यै गायत्ऱ्याः अष्याक्षरात्मकद्वितीयपादप्रतिपाद्यमित्यभिप्रायेणाह ॥ एतदु हैवस्या एतदिति ॥ यो गायत्ऱ्या एतत्‌ ऋगादिस्थम्‌ । पदं द्वितीयपादप्रतिपाद्यं वेद ॥ स यावती यं त्रयीविद्येति ॥ ऋगादिवेद त्रयगतं प्रद्युम्नाख्यं रूपं यावदभिव्याप्य वर्तते व्यक्त्यात्मना तावद्ध जयति व्याप्नोति । ऋगाद्याधिपत्यादिमांश्ऱ्च भवतीत्यपि ध्येयम्‌ । मुख्याधिकारी मुक्तब्रह्मेत्यर्थः ॥ 7

॥ 14

॥ 2

॥ व्यान इत्यत्र त्ऱ्यक्षरं ज्ञेयम्‌ । प्राणादिवायुस्थमष्याक्षरात्मकप्राणादिपदवाच्यं संकर्षणाख्यं रूपं गायत्ऱ्यै गायत्ऱ्या अष्याक्षरात्मकतृतीयपादप्रतिपाद्यमिति भावेन प्राण इत्यादि स्ववाक्याथर्ं व्यनक्ति ॥ एतदुहैवास्या एतदिति ॥ यावदिदं प्राणीति ॥ प्राणादिवायुस्थसंकर्षणाख्यं रूपं तावज्जयति सर्वप्राणाधिपत्यादिमांश्ऱ्च भवतीत्यर्थः । शिष्यं प्राग्वत्‌ ॥ 7

॥ 14

॥ 3

॥ गायत्रीचतुर्थपादप्रतिपाद्यमाह ॥ अथेति ॥ अथ त्रिपाद्युक्त्यनन्तरं चतुर्थं पादमुच्यत इत्यर्थः । अस्याः गायत्ऱ्याः तुरीयं पदमेतदेवेति योजना । तुरीयं पदं विशिनष्यि ॥ दर्शतं पदं परोरजा इति ॥ दर्शतं प्रत्यक्षमिव स्थितम्‌ । रजः रजोगुणात्मकप्रधानात्पर इति व्युत्पत्त्या परोरजा इत्युक्तो वासुदेवः । प्रणवाख्यतुरीयपादप्रतिपाद्य इत्यर्थः । एतदित्युक्तं किमित्यत आह ॥ य एष तपतीति ॥ सूर्यमण्डले स्थित्वा तपति । या सत्वात्मिका रमा तत्रस्थो वासुदेवः एतत्तुरीय पदमित्यर्थः । तुरीयमिति किमित्यत आह ॥ यद्वा इति ॥ यद्वै तुरीयं तच्चतुर्थमित्यर्थः । दर्शतमिति किमित्यतस्तं व्यनक्ति ॥ दर्शतमिति ॥ ददृश इव ह्येष इति ॥ एषः गायत्रीचतुश्ऱ्चर्पादप्रणवप्रतिपायः सूर्यमण्डलस्थरमादेवीस्थो वासुदेवः ददृश

?R

इव दृष्य इव । तदधीनतेजःपुंजस्य सूर्यमण्डरलस्य दृश्यमानत्वात्सोपि ददृश इवातो दर्शतमित्युच्यते तुरीयं पदमित्यर्थः । परोरजा इत्येतद्विवृणोति ॥ परोरजा इतीति ॥ एष तुरीयपादप्रणवार्थो वासुदेवः सर्वमु रजः सर्वामेव रंजनाद्रजःशब्दितां प्रकृतिम्‌ । उपर्युपरितस्या अपि उत्तमः संस्तपति प्रकाशते । हि यतोतः परोरजा इत्युच्यत इत्यर्थः । ज्ञानिनः फलमाह ॥ एवमिति ॥ योधिकारी अस्याः गायत्ऱ्याः एतदेव पदं तुरीयपादरूपप्रणवप्रतिपाद्यं वासुदेवं वेद स एवमेव श्रिया यशसा तपति प्रकाशत इत्यर्थः ॥ 7

॥ 14

॥ 4

॥ गायत्रीप्रतिपाद्यमुक्त्वा तदभिमानिदेवतामाह ॥ सैषेति ॥ सैषा गायत्री गायत्ऱ्यभिमानिनी देवता क्रमात्‌ श्रीब्रह्मब्रह्माण्यत्मिका एतस्मिंस्तुरीयं दर्शते पदे । परोरजसि वासुदेवे । प्रतिष्ठिता तदाश्रिता । पदानामर्थः प्रागुक्तः । भगवदाश्रितत्वमेव परम्परोक्त्या व्यनक्ति ॥ तद्वा इत्यादिना ॥ तद्वा एतद्भूमिऱ्तरिक्षमित्यादिनोक्तं जगत्सत्ये सन्हरिरस्मिन्यातीति व्युत्पत्त्या सत्यनामके शेषे । प्रतिष्ठितं आश्रितम्‌ । किं सत्यमित्यत उक्तम्‌ ॥ चक्षुर्वै सत्यमिति ॥ सत्यं चक्षुर्वै । उपलक्षणमेतत्‌ । चक्षुः सूर्यमण्डलाभिमानी वा । इति प्रसिद्धमेवैतदित्याह ॥ चक्षुर्हि र्वै सत्यमिति ॥ चक्षुषः सत्यत्वं प्रसिद्धमेवेत्युक्तं दर्शयति ॥ तस्मादिति ॥ तस्माच्चक्षुषः सत्यत्वादेव यत्‌ यदि । कस्मिंश्ऱ्चिदर्थे । इदानीं विवदमानौ द्वावेयातामागच्छताम्‌ । किमिति अहमदर्शमश्रौपमिति विवदमानावित्यर्थः । य एवाहमदर्शमिति ब्रूयात्तस्मै । एतत्तदीयमेव वचनं श्रद्दध्याम विश्ऱ्वसेमेति । एवं चक्षुषः सत्यत्वमुपपाद्य तदाश्रयमाह ॥ तद्वा एतदिति ॥ तज्जगदाधारभूतं चक्षुःसूर्यमानिसत्यनामकं शेषरूपं बले प्रतिष्ठितम्‌ । आश्रितम्‌ । किं बलमित्यत आह ॥ प्राण इति ॥ प्राणो मुख्यवायुर्बलं वै बलदेवता वै । तत्सत्यं प्राणे प्रतिष्ठितम्‌ । तत्कुत इत्यतो व्यनक्ति ॥ तस्मादिति ॥ ओजीयः श्रेष्ठम्‌ । तद्वा एतद्बलं गायत्ऱ्यां प्रतिष्ठितमित्यपि ज्ञेयम्‌ । यदर्थं परम्बरोक्ता तदिदानीमाह ॥ एवमेवैषेति ॥ एषा बलशब्दितप्राणाधारभूता गायत्रीमानिनी श्रीः । अध्यात्मम्‌ । आत्मनामधिपतौ हरौ । प्रतिष्ठिताश्रिता । केन निमित्तेन सा गायत्रीत्यक्तेत्यत आह ॥ गायांस्तत्र इति ॥ तद्वयनक्ति ॥ प्राणा इति ॥ प्राणा वै गयास्तत्प्राणान्‌ भक्तप्राणान्‌ । तत्रे रक्षति । तद्यद्गयांस्तत्रे । तस्मात्प्राणानां रक्षणाद्गायत्रीनाम तदभिमानिदेव्याः श्रिय इत्यर्थः श्रुत्यादौ सावित्रीति काचिदुच्यते । सा किं गायत्री । तद्भिन्नेत्यतो नेत्याह ॥ स इति ॥ परोरजा इति प्रकृतो हरिः यामेवाभुं सावित्रीम्‌ । अन्वाह वदति । सैषैव गायत्ऱ्यैव स विष्णुर्यस्मै ब्रह्मणे तामन्वाह ब्रूते । तस्य ब्रह्मणः प्राणान्सर्वदापुत्रवत्त्रायते सेत्यर्थः ॥ 7

॥ 14

॥ 5

॥ स्वयं गायत्रीं सावित्रीमुक्त्वा केषांचित्पक्षमनूद्यनिराह ॥ तामिति ॥ एके तामेतामनुष्युमम्‌ । तत्सवितुर्वृणीमहे वयं देवस्य भोजनम्‌ । श्रेष्ठं सर्वधातमं तुरं भगस्य धीमहि । इति द्वात्रिंशदक्षरात्मिकामनुष्युवाख्यां ऋचं सावित्रीमाहुः । तद्वचनप्रकारमाह ॥ वागनुष्युविति ॥ तद्वाचं तां वाचमनुष्युवाख्यां सावित्रीमनपुब्रूम इति । निषेधति ॥ न तथा कुर्यादिति ॥ स्वमतमाह ॥ गायत्रीमेव सावित्रीमनुब्रूयादिति ॥ गायत्ऱ्युपासकस्य फलोक्तिव्याजने गायत्रीमहिमानमाह ॥ यदि ह वा इति ॥ एवं विद्यदि बह्वपि प्रतिगृह्णातीव । प्रतिग्रहदोषाभावसूचनार्थ इव शब्दः । तत्प्रतिगृहीतं बह्वपि गायत्ऱ्याः एकं चन एकमपि पदं प्रति न हैव भवति । हेति निश्ऱ्चयः । एकपादविज्ञानफलायापि नालमित्यर्थः ॥ 7

॥ 14

॥ 6

॥ गायत्ऱ्युपासकस्य फलान्तरमाह ॥ स य इमानित्यादिना ॥ स प्रसिद्धो । योधिकारी विरिञ्चः । इमान्पूर्णान्‌ त्रीन्लोकान्विष्णोः प्रतिगृह्णीयात्‌ । सः अस्याः गायत्ऱ्याः प्रथमं पदमाप्नुयात्‌ प्रथमपादोपासनाफलमापनुयात्‌ । यो ब्रह्मा । यावती त्रयीविद्या । तावत्‌ तावती । विष्णुतः प्तगृह्णीयात्स अस्याः गायत्ऱ्या एतहितीयं पदं द्वितीयपादोषासनाफलमाप्नुयात्‌ । अथ यः यावदिदं प्राणि चेतनजातम्‌ । तावद्विष्णुतः प्रतिगृह्णीयात्स्वामी भवेदिति यावत्‌ । अया एतत्तृतीयपादो पासनाफलमाप्नुयात्‌ । अथास्याः गायत्ऱ्याः । एतदेव तुरीयं दर्शतं पदं परोरजा य एष तपति दर्शतं दृष्यमिव स्थितम्‌ । रजसः प्रधानाल्लक्ष्म्ाः परं यत्सूयर्मण्डलगम्‌ । एतत्तुरीयं पदं प्रणवाख्यचतुर्थपादप्रतिपाद्यं वासुदेवाख्यम्‌ । रूपं केन चन केनापि नैवाप्यम्‌ । गायत्ऱ्याः प्रथमादिपादत्रयप्रतिपाद्यस्यानिरुद्धादिरूपत्रयस्य त्रिलोकादिमात्रव्यापितया तद्वयापनसम्भवेपि चतुर्थपादप्रतिपाद्यो वासुदेवः सर्वव्यापीति चतुर्तपादप्रतिपाद्योपसकस्य तद्वयापनरूपफलं नैव लभ्यत इत्यर्थः । चतुर्थपादोपासनाफलं केनापि नाप्यत इति कुत इत्यत आह ॥ कुत उ एतवत्प्रतिगृह्णीयादिति ॥ वासुदेवोनन्तत्वाद्यावत्प्रप्नोति तावत्कुतः प्रतिगृह्णीयात्‌ न कुतोपि ॥ 7

॥ 14

॥ 7

॥ गायत्ऱ्युपासनाप्रकारमाह ॥ तस्या इति ॥ उपस्थानं मन्त्रकरणकस्तुतिप्रकारो निरूप्यत इत्यर्थः । हे गायत्रित्वमेकपदी असि । एकैकपादस्य अष्याक्षरत्वात्प्रणवस्याप्यकारोकारमकारनादबिन्दुघोषशान्तातिशान्तभेदेनाष्याक्षरत्वात्प्रणवेन सह पादचतुष्ययस्यापि प्रत्येकं गायत्रीत्वविवक्षयोच्यते एकपद्यसीति । पादः प्रत्तवयुक्तश्ऱ्चेत्‌ द्विपदीति । द्विपद्यसि । प्रणवेन विना त्रिपदी असि । स प्रणवा चतुष्पद्यसि । अपद्यसीत्युक्तं इत्यत आह ॥ न हि सम्पद्यस इति ॥ ब्रह्मणोन्येन मुख्यतो न गम्यस इति अपदी असि ।

?R

नमस्ते तुरीयाय दर्शताय पदाय परोरजसे । एमुपिसको यहिष्यात्‌ यं द्विष्यात्‌ । असौ द्वेष्यः । अदः कामितं मा प्रापत्‌ । नैव प्राप्नुयात्‌ । अस्मै द्वेष्याय असौ कामः मा समृद्धि कामः मा समृद्धि समृद्धो माभूदिति चोपासिता चेद्गायत्री । तदा अस्मै द्वेष्यायासौ कामो नैव ऋध्यते ह समृद्धो नैव भवति । यदा त्वहमदः कामितं प्रापं प्राप्नुयामिति बुद्धया यस्मै कामाय गायत्रीमुपतिष्ठते उपास्ते सा गायत्री तस्मै कामपूर्ति करिष्यत्येवेति योज्यम्‌ ॥ 7

॥ 14

॥ 8

॥ उपासिता गायत्री सर्वप्रतिग्रहदोषं हन्तीत्येतदाख्यायिकयाह ॥ एतदिति ॥ जनको ह वैदेहः आश्ऱ्वतराश्ऱ्विं अश्ऱ्वतराश्ऱ्वगोत्रजम्‌ । बुडिलनामकं तदेतद्वक्ष्यमाणमुवाचह । भो अहं गायत्रीविदिति यदब्रूथाः । तन्न । यदि वेत्थ अथ तर्हि कथं हस्तीभूतः मूर्खः सन्प्रतिग्रहदोषं वहसीत्युवाचेत्यन्वयः । एवमुक्तः स हे सम्राट्‌ अस्याः गायत्ऱ्याः मुखं प्रथमाक्षरदेवतां न विदाञ्चकार । न ज्ञातवानतोहं दोषवाहकोस्मीत्युवाच । वेदपुरुषः स्वयं गायत्रीमुखमाह ॥ तस्या इति ॥ तस्याः गायत्ऱ्याः अग्निः अग्निमण्डलगोऽग्रणीत्वहेतुनाग्निनामग्निवर्णः परशुरामः । मुखं प्रथमाक्षरदेवता । मुखज्ञानपूर्वकं गायत्ऱ्युपासकस्य फलं दृष्यान्तपूर्वमाह ॥ यदि हेति ॥ यद्यपि बह्विव बह्वपि तृणतूलादिकं अग्नावभ्यादधति प्रक्षिपन्ति । तत्सर्वं सन्दहेत्येवाग्निः । यथेत्युपमार्थ इव शब्दः । एवं हैव एवमेव । एवं वित्‌ । यद्यपि बह्विपि बह्विव पापं कुरुते सर्वमेव तत्संप्साय भक्षयित्वा भस्मीकृत्य स्वयं शुद्धः पूतोऽन्यानपि पवित्रं कुर्वन्नजरोमृतः सम्भवति ॥ 7

॥ 14

॥ 9

॥ चतुर्दशब्राह्मणम्‌ ॥ गायत्ऱ्यर्थत्वेन प्रकृतस्य हरेः सूर्यनिष्ठस्योपासनान्तरमाह ॥ हिरण्मयेनेति ॥ हिरण्मयमिव हिरण्मयं ज्योतिर्मयम्‌ । पिबत्युदकं तमसः त्रायते जगदिति पात्रम्‌ । हिरण्मयेन पात्रेण । सूर्यमण्डलेन । सत्यस्य सद्गुणपूर्णस्य । सूयर्मण्डस्थस्य तव मुखमुपलक्षरं वपुः । सर्वदाऽपिहितमस्ति । हे पूषन्पूर्ण । तद्वपुः । त्वं सत्यधर्माय सत्यं भगवन्तं हृदये दारयतीति व्युत्पत्त्या त्वद्धयानादिमतं भक्ताय मह्यम्‌ । दृष्यये मम त्वद्दर्शनाय । अपावृणु अपगतावरणं कुरु । हे पूषन्पूर्ण । एकर्षे सर्वविषयकज्ञानादिमन्‌ । यम सर्वनियामक । उदकादेरूतीकरणात्‌ । सूर्य प्रजा पतिज्ञेयतया प्राजापत्य । रश्मीन्‌ मदीयस्वरूपज्ञानाख्यरश्मीन्‌ । व्यूह विस्तारय । तेजः बाह्यवृत्तिज्ञानम्‌ । समूह विस्तारय । तथैवेशावास्यटीकोक्तेः । तथाच यत्तेरूपं कल्याणतमं तद्रूपम्‌ । ते प्रसादादहं पश्यामि । मुख्यवायुगतभगवदुपास्तिमाह ॥ योसाविति ॥ योसौ प्रसिद्धः असौ सप्तम्यन्तमिदम्‌ । असुनामके प्राणे स्थित इति शेषः । सोऽहेयत्वादहमित्युक्तः । असुत्वमेयत्वहेतुभ्यामस्मीत्युक्तः । तं च पश्यामीत्यन्वयः । यमसूर्यादौ स्थितस्य तन्नाशेन नाशोस्ति किमित्यत आह ॥ वायुरिति ॥ यद्यपीदं शरीरं भस्मन्तं तथाप्यमृतो भगवान्कुतः अः हरिः निलो निलयनमाश्रयो यस्य सः अनिलं अनिलः भगवदाश्रितो वायुरप्यमृतम्‌ । अमृतः किमु परमात्मा । वायोरमृतत्वं नित्यज्ञानत्वेन ज्ञेयम्‌ । प्रणवप्रतीकं प्रार्थयते ॥ ओमिति ॐ अमृतत्वादिगुणयुक्तः । ऋतो ज्ञानरूप । हरे 1

मामिति शेषः । स्मर अनुग्रहेण कृतं मदीयध्यानादिकम्‌ । स्मर मय्यनुग्रहोन्मुको भव । अग्निप्रतीकस्थभगवत्प्रार्थनां करोति ॥ अग्न इति ॥ अंगाख्यदेहनेतृतयाऽग्निनामक अग्निस्थहरे । अस्मान्सुपथा । अर्चिरादिमार्गेण । राये मोक्षाख्यवित्ताय । नय प्रापय । कुतः हे देव । अस्मादीयानि । वयुनानि ज्ञानानि । विद्वान्‌ जानन्‌ । जुहुराणम्‌ । अस्मानित्यनुषज्यते अस्मानल्पीकुर्वत्‌ पापम्‌ । अस्मात्‌ पञ्चमीयम्‌ । अस्मत्तः युयोधि वियोजय । वयं ते तुभ्यं भूयिष्ठां भक्त्याद्युपेताम्‌ । नमः नम इत्युक्तिं विधम कर्मः । न तु तत्प्रतिकर्तुं शक्नु इति ॥

इति बृहदारण्यकोपनिषदर्थसंग्रहे सप्तमोध्यायः ॥ 7

************************************************************

अष्टमोऽध्यायः

एतदध्यायार्थः सप्तमादवेवोक्तः । आदौ प्राणादिविषयादिद्या आह ॥ यो ह वा इत्यादिना ॥ योधिकारी । ज्येष्ठं वयसोत्तमम्‌ । श्रेष्ठं गुणत उत्तमम्‌ । वेद । स स्वानां सजातीयानां मध्ये । ज्येष्ठः श्रेष्ठश्ऱ्च भवति । ह वै को वा ज्येष्ठः श्रेष्ठश्ऱ्चत्यत आह ॥ प्राणो वा इति ॥ प्राणस्य ज्येष्ठयश्रैष्ठयज्ञानिनो ज्यैष्ठयादिकं भवतीत्येतदपि जानतः फलोक्त्या प्राणस्य ज्यैष्ठयश्रैष्ठ. साधयति ॥ ज्येष्ठश्ऱ्च श्रेष्ठश्ऱ्च स्वानामिति ॥ योधिकारी । एवं वायोर्ज्यैष्ठयादिज्ञानिनो ज्यैष्ठयादिकं भवतीति वेद सोपि स्वानां मध्ये ज्येष्ठः श्रेष्ठश्ऱ्च भवति । न केवलमेतावदित्याह ॥ अपि चेति ॥ येषां मध्ये श्रेष्ठो भवितुमिच्छति तेषु मध्येपि श्रेष्ठो भवतीत्यर्थो ध्येयः । एवमग्रेतनखण्डपञ्चकेपि व्याख्या ध्येया ॥ 8 ॥ 1 ॥ 1 ॥ वसिष्ठाः वसतामुत्तमः । वाग्वै वागिन्द्रियदेवतावह्निर्वै ॥ 2 ॥ प्रतितिष्ठति । समे समदेशे प्रतितिष्ठति । दुर्गे उन्नतप्रदे स्वर्गादौ । चक्षुर्देवस्य प्रतिष्ठात्वं कुत इत्यतः प्रतिष्ठः हेतुत्वादित्याह ॥ चक्षुषा हीति ॥ सम्पदं सर्ववेदाभिसम्पात्तहेतुम्‌ । यं कामं कामयते स कामास्मै वेदिने सम्पद्यते । श्रोत्रदेवस्य सम्पव्वमुपपादयति ॥ श्रोत्रे हीति ॥ आयतनमाश्रय इत्यर्थः । जनानां स्वजातिभिन्नजनानाम्‌ । मनोभिमानिनः शेषाद्याः ॥ 8 ॥ 1 ॥ 5 ॥ प्रजापतिम्‌ । प्रजाजननहेतुम्‌ । रतो वै रेतोभिमानीवरुणो वै । यएवं वेदेति चरमवाक्यज्ञानिनः फलं भवतीत्यपि यो वेद तस्यापि तत्फलं भवतीत्यथः सवर्त्र ध्येयः ॥ 6 ॥ प्राणस्य श्रेष्ठत्वं श्रेष्ठत्वं

?Rमीमांसया समर्थितमिति भावेनाख्यायिकामाह ॥ ते हेम इति ॥ त इति प्रणवाक्‌ प्रभृतयः प्रगुक्तप्राणादिदेवाः । अहं श्रेयसे अहं श्रेयानहं श्रेयानित्येतदर्थे विवदमानाः विवादंकुर्वन्तः । ब्रह्म परं ब्रह्म । जग्मुः प्राप्ताः । तद्ब्रह्म हरिम्‌ । नोमारकं मध्ये को वसिष्ठः वसतामुत्तम इति श्रेष्ठ इति वा ऊचुरित्यर्थः । तद्ब्रह्म यस्मिन्नुत्क्रान्ते इदं ब्रह्मणः शरीरम्‌ । पापीयः शवकल्पं मन्ते लोक इति शेषः । सः वो युष्माकं मध्ये । वसिष्ठः श्रेष्ठ इत्युवाचेत्यर्थः ॥ 8 ॥ 1 ॥ 7 ॥ एवं हरिणोक्ता देवाः पुनरागत्य ब्रह्मदेहस्थाः श्रेष्ठयविज्ञप्त्यै पृथक्‌ पृथक्‌ देहादुत्क्रान्ता इत्याह ॥ वाग्धोच्चक्रामेत्यादिना खण्डपञ्चकेन ॥ वाक्‌ वागभिमानी देव उच्चक्रम ब्रह्मदेहान्निर्जगाम । स वाक्‌ संवत्सरं प्राप्य प्रावासं कृत्वा । आगत्य हे देवाः मदृते मां विना । जीवितुं कथमशकत शक्ता अभवतेत्युवाच । इत्युक्तास्ते देवाः यथाऽकलाः मूकाः अवदन्तः एवमजीविष्मेत्यूचुरित्यन्वयः प्राणन्त इत्यादि व्यक्तम्‌ । प्रजायमानाः प्रजां जनयन्त इत्यर्थः । एतद्वचनं श्रुत्वा पश्ऱ्चाद्देहं प्रविवेश वाक्‌ ह किल ॥ 8 ॥ चक्षुरित्यादिखण्डचतुष्कयोजनाप्येवं ज्ञेया ॥ तच्चक्षुः । अन्धाः चक्षुषाऽपश्यन्तो यथा एवमित्यन्वयः ॥ 9 ॥ 10 ॥ मुग्धाः षण्मासाबाला यथेत्यर्थः ॥ 11 ॥ क्लीबाः नपुंसकाः । अप्रजायमानाः अत्रजनयन्तः ॥ 12 ॥ तेषामशक्ति प्रकटनानन्तरम्‌ । प्राणः मुख्यवायुः । उत्क्रमिष्यन्ब्रह्मदेवहादूर्ध्वं निर्गमिष्यन्स यथा सैन्धवः सिन्धुदेशीयः । महासुहयः । ऊर्ध्वं गमिषत्यन्पट्‌वीशशंकून्पादचतुष्यये गले च बध्यमानरज्ज्वा धराणीन्‌ संवृहेत्‌ उन्मूलयेत्‌ । एवं हैव एवमेव हेमान्प्राणान्वागादीन्देवान्संबबर्ह उदमूलयत्‌ । स्थातुमशक्तानकरोदिति यावत्‌ । ते स्थातुमशक्ताः वागादिदेवाः हे भगवन्‌ मोत्क्रमीः उत्क्रान्तो माभूः । त्वदृते । वयं जीवितुं नैव शक्ष्याम इत्यूचुः । एवमुक्तः प्राणो वक्ति ॥ तस्यो म इति ॥ उ हे देवाः । तस्य मे अतिबलिष्ठस्य मम बलिं पूजां कुरुतेति उवाचेति योज्यम्‌ । एवमुक्तास्ते देवाः तथेत्यचुरित्यर्थः ॥ 8 ॥ 1 ॥ 13 ॥ तथेत्युक्ता देवाः प्रत्येकं स्वस्वासाधारणधर्मस्तदधीन इति तस्मै समर्पितवन्त इत्याह ॥ साह वागुवाचेत्यादिना ॥ वसिष्ठास्मि वसतामुत्तमास्मीति यत्‌ त्वं तद्वसिष्ठोऽसि त्वदधीनं तद्वसिष्ठत्वमित्यर्थः । एवमग्रेऽपि योजना ध्येया । प्रतिष्ठा स्थितिहेतुरिति चक्षुरुवाचेति शेषः । इति श्रोत्रमुवाचेत्याद्यपि (ज्ञे)नयम्‌ । एवमुक्तः प्राण आह ॥ तस्यो म इति ॥ उ हे देवाः । तस्य म सर्वस्वामिनो मम । किमन्नं किं वासः इत्युवाच प्राणः । एवमुक्ता देवा आहुर्यदिदमिति । श्ऱ्वकृमिकीटपतंगपर्यन्तं प्राणिभिर्यदिदं किञ्चद्यते तत्ते सर्वान्तर्यामिणः तवान्नं या आपः पीयन्ते ता आपः ते वासो वस्त्रमित्यूचुरिति योजना । एतज्ज्ञानिनः फलमाह ॥ न ह वा इति ॥ योधिकारी एवं दहेवैरुपक्लृप्तत्वप्रकारेणैतत्‌ सर्वप्राणिभिरद्यमानं अन्नं अनस्यान्नं वेद । अस्य एवं वेदिनः अनन्नं जग्धं भक्षितं न भवति ह वै । अनन्नं परिगृहीतं न भवति । एतद्विद्वांसो ज्ञानिनः श्रोत्रियाः छन्दोध्येतारः अशिष्यन्तः अन्नभोजनं कणिष्यन्तः आचामन्ति । अशित्वाभुक्त्वा चाचामन्ति । तत्तेन भोजनोपक्रमावसानयोः कृतावचमनेनैतं अन्नमनोपेतं कुर्वन्तो मन्यन्ते ॥ तस्मादेवं विद्वानशिष्यन्‌ आचामेत्‌ । अशित्वा चाऽऽचामेदिति ॥ 8 ॥ 1 ॥ 14 ॥ प्रथमब्राह्मणम्‌ ॥ B-K-11

?Rख्यायिकापूर्वं विद्यान्तरमाह ॥ श्ऱ्वतकेतुरिति ॥ अरुणाया अपत्यं श्ऱ्नेतकेतुर्नाम्ना पाञ्चचालानां पञ्चालदेशीयानां परिषदं सभामाजगाम । जिबिलस्यापत्यं जैबिलिं प्रवाहणाख्यं राजानं परिचारयमाणं भृत्यैः परिचर्यां कायन्तम्‌ । स श्ऱ्वतकेतुराजगाम प्राप । राजा । तं श्ऱ्वेतकेतुमुदीक्ष्य दृष्या कुमारा इत त्रिमात्रारूपप्लुतिस्वरेणामन्त्ऱ्ाभ्युवाद उवाच । स श्ऱ्वेतकेतुर्भा इति प्रतिशुश्राव । प्रतिवाचनमुक्तवान्‌ । किमुवाच राजेत्यत आह ॥ अनुशिष्य इति ॥ पित्रेदानीमनुशिष्यः उपदिष्योसि । किमित्यभ्युवादेत्यन्वयः । अनुशिष्योस्मीत्युक्तवानित्याह वेदपुरुषः । ॐ मिति होवाचेति ॥ 8 ॥ 2 ॥ 1 ॥ राजा पृच्छति ॥ वेत्थेति ॥ यथेमाः प्रजाः प्रयन्त्यः प्रयान्त्यः । प्रेताः सत्यः । विप्रतिपद्यन्ते विशिष्यं स्थानमाप्नुवन्ति । तं प्रकारं वेत्थ जानासि किमिति पप्रच्छ राजेत्यर्थः । विप्रतिपद्यन्ता यिति प्लुतः प्रश्ऱ्नद्योतकः । उत्तरमुक्तवान्‌ कुमार इत्याह वेदपुरुषः । नेतीति ॥ न वेद्मीत्युवाचेत्यर्थः । एवमग्रेऽपि योजना ध्येया । वेत्थाइत्यत्र वेत्थ उ इति विभागः । उ इति कुमारसम्बोधनम्‌ । यथेमं भूलोकं पुनरापद्यन्ते प्राप्नुवन्ति । सौ लोकः एवं तस्य विवणणं पुनः पुनः प्रयद्भिः गच्छद्भिः बहुभिर्न सम्पूर्यता । यिति । तं वेत्थ किमिति पृष्ठवानिति सर्वत्र योज्यम्‌ । यतिथ्यां कतमायामाहुत्यां होमाधारस्थलं हुतायाम्‌ । प्रक्षिप्त सत्यापः अथादिभूतविशिष्यो जीवः । पुरुषवाचो भूत्वा पुरुषादिशब्दवाच्यः सन्‌ । समुत्थाय । जनित्वा । वदन्ति व्यवहरति । तद्वेत्थ किमित्यर्थः । देवयानाख्यस्य पथः मार्गस्य । प्रतिपदं साधनं वा वेत्थ उ इत्यर्थः । पितृयाणाख्यस्य पथः प्रतिपदं वा वेत्थेत्यर्थः । प्रतिपदमित्युक्तं व्यनक्ति ॥ यत्कृत्वेति ॥ पितृयाणं वा पन्थानं प्रतिपद्यन्त इत्यन्वयः । पुनः राजा वक्ति ॥ अपि हीति ॥ मर्त्यानां मनुष्याणां द्वे सृती पितृणामुत देवानं पितृयाणदेवयानशब्दितौ द्वौ मार्गौ । ताभ्यामिदं विश्ऱ्वं विधिनिषेधभयादेजत्कम्पमानं सत्समेति । पितरं दिवम्‌ । मातरं भुवं च । मातरं भुवं च । अन्तरा । तयोर्मध्ये

?Rयन्मार्गद्वयमस्तीत्याह ॥ अृणवमिति ॥ यदृषेर्वचः तदपि किं त्वया न श्रुतमिति । एवं राज्ञा पृष्यः कुमारः किमुक्तवानित्यत आह ॥ श्रुतिः ॥ नाहमिति ॥ अतः अत्र त्वत्पृष्येषु ॥ 8 ॥ 2 ॥ 2 ॥ अथ स्वपृष्यार्थस्य तेनाज्ञातत्वादेव । वसत्या वसत्यर्थं तव्वज्ञानाय स्वसमीपे वसत्यर्थमेनं कुमारं अतः अत्र त्वत्पृष्येषु ॥ 8 ॥ 2 ॥ 2 ॥ कुमारः श्ऱ्वतेकेतुः वसतिमनादृत्य प्रदुद्रा । द्रु गतौ गतवान्‌ । स ततः प्रद्रुतः कुमारः स्वपितरमाजगाम । आगत्य तं पितरमुवाच । तदाह । भगवान्‌ पूज्यो भवान्‌ । नोऽस्मानिति वाव किल एवमेव किल अनुशिष्यान्‌ उपदिष्यानुवाच कथ भवान्सुमेध इति चोवाचेत्यन्वयः । यद्वा कथमनुशिष्यनुवाच । इत्युवाचेत्येव पूर्वेणान्वयः । एवमुक्तः पिता आह ॥ कथमिति ॥ हे सुमेधः कथं किं जातमित्युवच पितेत्यर्थः । कुमार आह ॥ राजन्यबन्धुः क्षत्रियाभासः प्रवाहणो राजा मा मां पञ्चप्रश्ऱ्नान्प्रष्यव्यार्थानप्राक्षीत्‌ पृष्यवान्‌ । ततः तत्र तन्मध्ये नैकंचन अहं वेदेत्युवाच कुमारः । एवमुक्तः पिता वक्ति ॥ ते प्रश्ऱ्नाः कतमे कीदृशा इति । इह पितृसमीपे । इम इति वेत्थ यथेमाः प्रजाः इत्यादिप्रतीकानि वाक्यरूपाण्युदाजहार ॥ 8 ॥ 2 ॥ 3 ॥ पिता वक्ति ॥ स हेति ॥ स पितोवाच किमिति । हे तात कुमारः । नः स्मात्सकाशत्तथा जानीताः यथा यदहं किंचन वेद जानामि । तत्तु सर्वं तुभ्यमवोचमिति स पितोवाचेति योजना । पुनः पिता वक्ति । प्रेहि आगच्छ । प्रतीत्य राजानं दृष्या तत्र राजसमीपे ब्रह्मचर्यं वत्स्याव इति पुत्रमुवाच पितेत्यर्थः । पुत्रो वक्ति । भवानेव गच्छत्विति । स पिता गौतम आजगाम । यत्र प्रवाहणस्य जैबिलेरास गृहमिति याज्यम्‌ । राजा किमकरोदित्यत आह ॥ स इति ॥ स राजा तस्मै गौतमायाऽऽसनमाहृत्य उदकमाहरयाञ्चकार आहृतवान्‌ । अथोदकाहरणानन्तरम्‌ । अस्मै गौतमायाध्यर्ं जलेन भाव्यां क्रियां चकार । तं गौतममुवाच राजा । ते भगवते गौतमाय वरं दद्म इति ॥ 4 ॥ स गौतम उवाच । मे वरं दद्म इत्येष वरो मे त्वया प्रतिज्ञातः यां तु वाचं कुमारस्यन्ति समीपे । अभाषथाः तां मे ब्रूहीत्युवाच गौतम इत्यर्थः ॥ 5 ॥ स राजोवाच ह । तत्‌ कुमारं प्रत्युक्तं वचनम्‌ । दैवेषु वरेषु विषये वै तत्‌ गौतम । मानुषाणां मनुष्यसम्बन्धिनां ऐहिकानां वित्तादीनामिति यावत्‌ वराणां मध्ये ब्रूहीति ॥ 6 ॥ स गौतम उवाच । हस्तिहिरण्यस्य द्वन्द्वैकवद्भावः । गा अश्ऱ्वानां दासीनां प्रवाराणां प्रवरणानाम्‌ । परिधानस्य वेष्यनस्त्रस्य चोपात्तं प्रप्तिः नोऽस्मकं भवता विज्ञायते । बहोर्बहुगुणस्यानन्तस्य नाशरहितस्यापयर्न्तस्येयत्तारहितस्य हरेः भवान्‌ अभ्यवदान्योऽदाता नो अस्मभ्यं माभूदित्युवाच गौतमः । एवमुक्तो राजा ह हे गौतम स त्वं तीर्थेन न्यायेनेच्छसि विद्यामिति शेषः । किमिति प्रश्ऱ्नद्योतकः इच्छसी इति प्लुतिः । एवं राज्ञोक्तो गौतमो न्यायेनैवेच्छामि विद्यामित्याह ॥ उपैम्यहं भवन्तमिति ॥ राजा वक्ति । शुश्रूषवः पूर्वे प्राचीनाः विनयवाचैवोपयन्ति स्म हा त उपसत्तिरुचितेति । सहोपाकीर्त्योपायनकथनेनोवास ॥ 8 ॥ 2 ॥ 7 ॥ स राजोवाच । त्वत्पुत्रस्याज्ञानं मया प्रकटितमिति हेतोः नोस्मान्मापराध्यः अपराधिनो मा कुरु । तव पितामहाश्ऱ्च न कुर्वन्तु । विद्यां स्तौति ॥ यथेति ॥ इयं पञ्चाग्निविद्या इतः पूर्वं कस्मिंश्ऱ्चन ब्राह्मणे । नोवास न स्थिता । तां त्वहं तुभ्यं वक्ष्यामीति । को ह्येवं विनयेन ब्रुवन्तं प्रत्याख्यातुमर्हतीति राजोवाचेत्यर्थः ॥ 8 ॥ यतिथ्यामाहुत्यां हुतायामापः पुरुषवचसो भूत्वेत्यस्योत्तरं पञ्चमखण्डे विवक्षुः प्रथमाहुत्यादिकं पूर्वमाह खण्डचतुष्ययेनासावित्यादिना ॥ असौ वै लोकः द्युलोकः अग्निः जीवरूपहविः प्रक्षेपस्थलत्वादग्निरित्युक्तः । असौ वै लोकपदेन द्युलोकस्थो नारायणः अत्तीति व्युत्पत्त्याऽग्निरित्युच्यते । स एव च नारायणः पुनरादित्यादिपञ्चसु । तत्तन्नामवाच्यः सन्नारायणादिरूपेण पञ्चधा तिष्ठतीत्याह ॥ तस्येति ॥ तस्य द्युलोकस्थस्य नारायणस्यादित्य एवादत्त इति व्युत्पत्त्या आदित्यस्थो नारायण नाराटणात्मा समेधनात्समिच्छब्दवाच्यः समित्‌ समद्गतः । रमणाच्छामनाच्च रश्मिनामा । रश्मिषु स्थितो नारायणवासुदेवात्मा धृमः । शत्रूणां धूत्कारहेतुना धूमनामा धूमगतः । अहीनत्वहेतुना अहः अहः शब्दवाच्यः सन्नहर्गतो नारायणसंकर्षणात्मा अर्चिः अर्च्यतमत्वहेतुना अर्चिर्नामा अर्चिस्थः । आदेशनहेतुना दिङ्‌नामा दिक्षुस्थो नारायणप्रद्युम्नात्मा अंगाराः स्वांगरतत्वहेतुनांगारनामांगारस्थः । अत्र सर्वत्रान्यगतबहुत्वस्येशायत्तत्वात्तदधीनत्वादर्थवदिति न्यायेन स्वातन्त्ऱ्ाभिप्रायेण तत्तन्निष्ठभगवति बहुवचनं ज्ञेयम्‌ । बहुरुपत्वाद्वा । अवान्तरं दिशतीति हेतुनावान्तरदिङ्‌नामावान्तरदिक्स्थो नारायणानिरुद्धत्मा विष्फुलिंगाः विष्वक्त्वहेतुना विस्फुलिंगनामा विष्फुलिंगगतः । तस्मिन्‌ द्युलोकगे नारायणे एतस्मिन्प्रत्येकमादित्यादिपञ्चात्मा स्थित्रेग्निनामके देवास्तत्त्वऽभिमानिनः श्रद्धां श्रद्धापूर्वकं यज्ञादिकतं जीवं जुह्वति प्रक्षिपन्ति । तस्या आहुत्यै आहुतेः आहूयतेत्यिहुतिः । तत्र कियत्कालं स्थित्यनन्तरं पुण्यक्षये सति जीवः तस्माद्धोमाधारस्थानात्‌ द्युलोकात्सोमो राजा सम्भवति चन्द्रमण्हलस्थो भवति । देवाः चन्द्रेस्थापयन्तीत्यर्थः । सोमराजभवनं नाम तत्सायुज्यादिकं यथाधिकारं ध्येयम्‌ । तदाह सूत्रे तत्स्वाभाव्यपत्तिरुपपत्तेरिति ॥ 8 ॥ 2 ॥ 9 ॥ पर्जन्यः परं जनयतीति पर्जन्यनामा मेधवक्रगतो वासुदेवः अग्निः

?Rअग्निनामा जीवप्रक्षेपस्थनं संवत्सरः सम्यग्वत्सात्रमयतीति संवत्सरनामा संवत्सरस्थः वासुदेवनारायणात्मा । समिदित्यादि प्राग्वत्‌ । अन्यैरभरणीयत्वहेतुना अभ्रनामाऽभ्रस्थो वासुदेवासुदेवात्मा धूमः । विशेषेण द्योतत इति विद्युन्नामा विद्युद्गतः वासुदेवसङ्कषर्णात्मा अर्चिः । अशनाद्भक्षणादशनिनामा अशनिस्थो वासुदेवप्रद्युम्नात्मा अंगाराः । निहादनाद्गर्जनाद्धेतोः ह्रादुनिनामा ह्रादुनिस्थो वासुदेवानिरुद्धात्मा । विष्फुलिंगाः । बहुवचनं प्राग्वत्‌ । तस्मिन्वासुदेवे एतस्मिन्नारायणादिरूपेण पञ्चधा स्थिते अग्नौ जीप्रक्षेपस्थाने सोमं राजानं सोमराजान्तःस्थापि तं पुण्यकृतं जीवं देवास्त्वेशाः जुह्वति प्रक्षिपति । तस्या आहुत्यै । प्राग्वदर्थोऽस्य ध्येयः । वृष्यिः सम्भवति वृष्यिस्थो भवति । वृष्यौ स्थापयन्तीत्यर्थः ॥ 8 ॥ 2 ॥ 10 ॥ अयं वै लोकः मर्त्यलोकः तल्लोकस्थः तन्नामा संकर्षणः अग्निः प्रथितत्वात्पृथिवीनामा पृथिवीगतः संकर्षणनारायणात्मा समित्‌ । अदनादग्निनामा ग्निस्थः संकर्षणवासुदेवात्मा धूमः । रतिकरत्वाद्रात्रिनामा रात्रिस्थः संकर्षणसंकर्षणात्मा अर्चिः । चन्द्रमाः आह्लादनाच्चन्द्रमानामा चन्द्रान्तर्यामी संकर्षणप्रद्युम्नात्मा अंगाराः । अस्य क्षत्रमन्यन्नास्तीति नक्षत्रनामा नक्षत्रस्थः संकर्षणानिरुद्धात्मा विष्फुलिंगाः बहुवचनं प्राग्वत्‌ । तस्मिन्मर्त्यलोकस्थसंकर्षणे एतस्मिन्नारायणादि पञ्चधा स्थिते अग्नौ होमाधारेऽग्निनामके देवाः वृष्यिं वृष्यौ स्थापितं जीवं जुह्वति । प्रक्षिपन्ति । तस्या आहुत्यै प्राग्वत्‌ । अन्नं सम्भवति । ओषधिप्रवेशद्वारा अद्यमानपदार्थान्तर्गततया देवैः प्रक्षिप्यत इत्यर्थः ॥ 8 ॥ 2 ॥ 11 ॥ पुरुषो वा अग्निः । कितृजीवरूपपुरुषगतः जगत्पूरयतीति पुरुषनामा प्रद्युम्नः अग्निः अदनादग्निनामा होमाधारभूतः । तस्य पुरुषनाम्नः प्रद्युम्नस्य पुरुषगतस्य । व्यात्तं आस्योत्पाटनं व्यात्तनामा व्यात्तस्थः प्रद्युम्ननारायणात्मा समित्प्रणनात्प्राणनामा प्राणान्तःस्थः प्रद्युम्नवासुदेवात्मा धूमः । वक्तीति वाङ्‌नामा वाचिगतः प्रद्युम्नसंकर्षणात्मा अर्चिः । चष्य इति चक्षुर्नामा चक्षुषि स्थितः प्रद्युम्नात्मा अंगाराः । ृणोतीति श्रोत्रनामा श्रोत्रस्थः प्रद्युम्नानिरुद्धत्मा विष्फुलिंगाः । तस्मिन्नित्यादि प्राग्वत्‌ । रेतः रेतसोऽन्तः स्थाप्यते देवैरिति यावत्‌ ॥ 12 ॥ योषा वाग्निरिति ॥ योषिति स्थितः तन्नामाऽनिरुद्धोग्निः तस्य योषिति स्थितस्यानिरुद्धस्यग्निनाम्नः उपस्थितत्वादुपस्थनाम्न उपस्थस्थ अनिरुद्धनारायणात्मा समित्‌ लोमानि । लोपकत्वाल्लोमनामा लोमस्थोनिरुद्धवासुदेवात्मा धूमः । यापयति नयति चेति योनिनामा योनिस्थोनिरुद्धसंकर्षणात्मा अर्चिः । यदन्तः करोति योन्यन्तःकरणकर्ता अनिरुद्धप्रद्युमनात्मांऽगारा अभिननन्दयतीत्यभिनन्दा उपमन्त्रणम्‌ । तत्कर्ताऽनिरुद्धानिरुद्धः विष्फुलिंगाः । तस्मिन्नित्यादि प्राग्वत्‌ । रेतो रेतोन्तर्गतः पुरुषः पुरुषादिपदवाच्यः सन्भूभौ जायत इत्यथर्ः । स जातो जीवति यावज्जीवति यावत्कालं जीवनं क्लप्तं तावज्जीवतीत्यर्थः । अथ जीवनकालसमाप्त्यनन्तरं । यदा म्रियते प्राणान्त्यजतीत्यर्थः । राजा स्वकृतप्रश्ऱ्नपञ्चकमध्ये यतिथ्यामाहुत्यमिति चतुर्थप्रश्ऱ्नं योषाख्यपञ्चमाग्निरूपं प्रथमद्वितीयादिचतुरग्न्युक्तिपूर्वमुत्तरितं कृत्वाऽधुना वेत्थ यथेमाः प्रजा इत्यादिना कृतावशिष्यप्रश्ऱ्नचतुष्ययस्योत्तरं तदुपयुक्तषष्ठाग्न्युक्तिपूर्वमाह ॥ अथेति ॥ मृत्यनन्तरम्‌ । एनं जीवम्‌ । अग्नये हरन्ति । तस्य प्रसिद्धस्य षष्ठाग्नेः समित्‌ काष्ठादिराशिः । भास्वरवर्णोज्यातिर्मयदेहः ॥ 8 ॥ 2 ॥ 14 ॥ य एवमुक्तप्रकारेणैतदग्निस्वरूपं विदुः । ये चामी अरण्ये श्रद्धां सत्यं सत्यवचनमुपलक्षणं निवृत्तर्मानुष्ठानपूर्वं ब्रह्मोपासते ते उभयेप्यर्चिरभिसम्भवन्ति अर्चिलोकं प्रापनुवन्ति । तदाह सूत्रे अर्चिरादिना तत्प्रथितेरिति अर्चिष इति पञ्चमी । अर्चिलोके कियत्कालं स्थित्वा ततोऽहरभिसम्भवन्तीति क्रियापदं सर्वत्र योज्यम्‌ । अहरभिमानिदेवं प्राप्नुवन्तीत्यर्थः । एवमग्रेऽपि ज्ञेयम्‌ । आपूर्यमाणपक्षं पूर्वपक्षाभिमानिनम्‌ । उदङ्‌त्तरतः यान्मासानादित्यः एति उत्तरायणाभिमानिनमिति यावत्‌ । वैद्युतं विद्युन्मानिलोकम्‌ । तान्वैद्युतान्‌ तल्लोकगतान्‌ । मानवः पुरुषो वायुरेत्य । ब्रह्मलोकान्गमयति । ते ब्रह्मलोकगास्तेषु ब्रह्मलोकेषु । परावतः ब्रह्मायुर्लक्षणपरावतो वर्षान्वसन्ति । तेषां न पुनरावृत्तिरिति ॥ 8 ॥ 2 ॥ 15 ॥ एवमाद्यप्रश्ऱ्नोत्तरमुक्त्वा वेत्थो यथेममिति द्वितीयप्रश्ऱ्नस्योत्तरमाह ॥ अथेति ॥ अर्थान्तरेऽथशब्दः । ये यज्ञेन ज्योतिष्योमादिना । दानेन सत्पात्रेद्रव्यत्यागेन । तपसा कृच्छ्रचान्द्रायाणादिना । प्रवृत्तकर्मणोति यावत्‌ । लोकान्‌ जयन्ति प्राप्नुवन्ति । ते मृत्यनन्तरं । धूमं धूमाभिमानिलोकं । अभिसम्भवन्ति प्रप्नुवन्ति । एवमग्रेऽपि ज्ञेयम्‌ । तक्षिणेत्यव्ययम्‌ । दक्षिणतो यान्षण्मासानादित्य एति । दक्षिणायनलोकमभिसम्भवन्तीत्यर्थः । अन्नं भवन्ति तर्पका भवन्ति देवानां सेवका भवन्तीत्यर्थः । अन्नं भवन्तीत्येतद्वयनक्ति ॥ तांस्तत्रेति ॥ तांस्तत्र देवा भक्षयन्ति

?R । कथं सोमं राजानं सोमलतां आप्यायस्व आप्याययन्ति । अपक्षीय स्वापक्षायन्ति । एवमेनांस्तत्र भक्षयन्तीति योजना । तेषां चन्द्रस्थानां । तददृष्यम्‌ । यदा पर्यवैति समाप्तं भवति । अथानन्तरम्‌ । इममेवाकाशमभिनिष्पद्यन्ते प्रापनुवन्ति । आगतिप्रकारमाह ॥ आकाशाद्वायुमित्यादिना ॥ अन्नं अद्यमानपदार्थान्तर्गता भवन्ति । तदनन्तरं भोजनद्वारा पुरुषाग्नौ हूयन्ते । ततोऽग्नौ हूयन्ते । ततो रेतोद्वारा मातरं प्रविश्य जायन्ते । ते लोकान्प्रत्युत्थायिनः उद्गच्छन्तः एवमेवानुपरिवर्तते पुनः पुनः

?Rसञ्चरन्ति । एतेनाद्यद्वितीयप्रश्ऱ्नद्वयपरिहारेण वेत्थो देवयानस्येत्यादिना कृतप्रश्ऱ्नद्वयस्यापि परिहार उक्तो ध्येयः । तत्र ये श्रद्धां सत्यमित्यादिना यज्ञेन दानेनेत्यादिना च प्रतिपदं वेत्थेति कृतसाधनप्रश्ऱ्नस्य परिहारः । ब्रह्मलोकेषु । पितृलोकाच्चन्द्रमित्यनेन विप्रतिपद्यन्त इति कृतविशिष्यस्थानप्राप्तिप्रश्ऱ्नस्य परिहारः । वेत्थो यथेमं लोकं केन निमित्तेन पुनरापद्यन्त इति प्रश्ऱ्नस्य न सम्पूर्यत यिति प्रश्ऱ्नस्य च तेषां च तात्पर्यं वेत्थेममेवाकाशमित्यादिना परिहारो ध्येयः । देवयानपितृयाणरूपमार्गद्वयसाधनाज्ञानां स्वरूपमाह ॥ अथ य इति ॥ पन्थानौ तत्साधने चेति योज्यम्‌ । ते कीटादयो भवन्तीत्यर्थः ॥ 8 ॥ 2 ॥ 16 ॥ द्वितीयब्राह्मणम्‌ ॥ उक्ता विद्याः ग्रासाभावेन अनुष्ठातुमशक्या इति तदर्थं काञ्चन विद्यामाह ॥ स य सत्यादिना ॥ योधिकारी । महत्‌ महत्त्वं ऐहिकामुष्मिकं रूपम्‌ । प्राप्नुयामिति कामयेत । स उदगयने उत्तरायणे । आपूर्यमाणपक्षस्य (पूर्वप)शुक्लपक्षस्य पुण्याहे पुण्यतिथौ द्वादशाहम्‌ । होमदिवसात्‌ द्वादशदिवसपर्यन्तं उपसद्ब्रती । उपसल्लक्षणव्रतवान्भूत्वा । औदुम्बरे उदुम्बरविकारे । कंसे चमसे वा । चमसाख्यपात्रविशेषे वा । सर्वौषधं सर्वौषधिसमुदायम्‌ । फलानीतीति शब्द आद्यर्थः । फलादीनि । सम्भृत्य आनीय । परिसमूह्यमेलयित्वा । परिलिप्य । कुण्डमिति शेषः । तत्राग्निमुपसमाधाय । दर्भान्परिस्तीर्यावृताज्यं होम्याज्यम्‌ । संस्कृत्य । पुंसापुल्लिंगवाच्येन पुनर्वस्यादिनक्षत्रेण । सवर्ौषधीनां मन्थम्‌ । आलोडितं पिष्यं संनीय समीपमानीयाज्यं जुहोतीत्यन्वयः । होममन्त्रवाह ॥ यावन्त इति ॥ हे जातवेदस्त्वयि यावन्तो देवास्तिर्यञ्चो मध्ये स्थिताः सन्तः पुरुषस्य कामाघ्नन्ति तेभ्यो भागधेयं हविर्भागम्‌ । जुहोमि ददामि । ते तृप्ताः सन्तः मा माम्‌ । सर्वैः कामैस्तर्पयन्तु स्वाहा । या तिरश्ऱ्ची अहं विधरणी । विघ्नकर्त्रीति । निपद्यते । तां त्वा संराधिनीनामिकाम्‌ । घृतस्य धारया अहं यजे स्वाहेति ॥ 8 ॥ 3 ॥ 1 ॥ प्राणादिविषयहोमानाह ॥ ज्येष्ठायेति ॥ संस्रवं धारामवनयति हुतशषषं मन्थे पिण्डे निक्षिपेदित्यर्थः । ज्येष्ठायेत्यादेः कोर्थ इत्यतः प्राण एव ज्येष्ठश्रेष्ठशब्दार्थ इत्याह ॥ प्राणाय स्वाहेति ॥ एवमग्रेप्यर्था ध्येयः ॥ 2 ॥ प्राणादिविषयहोममुक्त्वा प्रकारान्तरेण होममाह ॥ अग्नये स्वाहेतीति ॥ भूताय उत्पन्नाय । भविष्यते उत्पत्स्यमानाय ॥ 3 ॥ मन्थं स्पृष्ट्वा जप्यं मन्त्रमाह ॥ अथैनमिति ॥ एनं मन्थमभिमृशति स्पृशति । किमिति । भ्रमदसीत्यादिना मन्त्रेणान्तःस्थो हरिः स्तूयत इति ज्ञेयम्‌ । विभुरसि व्याप्तोसीत्यर्थः । संवर्गो वायुरसि ॥ 4 ॥ मन्थमुद्धृत्यजप्यमन्त्रमाह ॥ अथेति ॥ एनं मन्थमुद्यच्छत्यूर्ध्वं धत्ते । आमं श्यामं हि ते महीत्यादि मन्त्रेणशपि मन्थस्थो हरिरेवोच्यते ॥ 5 ॥ मन्थमक्षणं मन्त्रपूर्वकमाह ॥ अथेति ॥ अथ जपानन्तरं एनं मन्थमाचामति । अत्ति । सवितुः जगत्प्रसवितुः । तत्‌ वरेण्यं वरणीयमिति । सावित्ऱ्या एकपादः । मधु भद्रमुदिश्य । वाताः वायवः । ऋतावः । ऋतायते ऋतायन्तु पवन्तु । मधु उद्दिश्य सिन्धवः नद्यः क्षरन्ति प्रवहन्तु । ओषधीः ओषधः । नोऽस्माकं माध्वीः भद्राः सन्त्विति मन्त्रमुक्त्वा भूः स्वाहेत्याचामतीत्यर्थः । एमवग्र्रेपि सावित्ऱ्या एकैकं पादं मधुमत्याः पादत्रयं चोच्चार्य भुवः स्वाहा स्वः स्वाहेत्याचामतीत्याह ॥ भर्ग इति ॥ देवस्य भर्गः भरणगमनशीलम्‌ । वरेण्यं रूपम्‌ । दीमहि ध्यायेम । नक्तं रात्रिः मध्वस्तु । उत किञ्च उषसः सकाशान्मुधु भद्रमस्तु । पार्थिवं रजः मधुमत्‌ मद्विषये भद्रोपेतमस्तु । नोस्माकं पिता द्यौः मध्वस्त्विति मन्त्रमुक्त्वा भुवः स्वाहेत्याचामतीत्यर्थः । यः नः धियः प्रचोदयात्‌ प्रेरयेत्तस्य देवस्येत्यर्थः । नोऽस्माकं वनस्पतिः मधुमानस्तु । सूर्यो मधुमानस्तु । नोस्माकं गवो माध्वीभर्वन्तु । इत्युक्त्वा स्वः स्वाहेत्याचामतीत्यर्थः । सावित्रीपादेन मधुमत्या भूरादिव्याहृत्या च त्रिवारभक्षणं उक्त्वा सर्वा च साविॅत्रीशब्दितगायत्रीं सर्वाश्ऱ्च मधुमतीः सर्वाश्ऱ्च व्याहृतीर्जप्त्वा भक्षयेदित्याह ॥ सर्वांचेति ॥ सावित्रीशब्दितां गायत्रीमित्यर्थः । अन्वाहेत्यस्य सवाश्ऱ्च मधुमतीरित्यत्राप्यन्वयः । अहमेवेदं सर्वं भूयासं स्वयोग्यसर्वपूर्तिमान्‌ भवेयमित्युक्त्वा सर्वां गायत्रीं सर्वामधुमतीश्ऱ्चनूच्य भूर्भुवः स्वः स्वाहेत्यन्तत आचम्य मन्थं भक्षयित्वा पाणी प्रक्षाल्य अग्निजघनेनाग्न्यपेक्षया नीचस्थले । प्राक्‌ शिराः संविशति । प्रातरादित्यमुपतिष्ठते । दिशां दिगवस्थितप्राणानां मध्ये एकपुण्डरीकमसि मुख्यश्रेष्ठोसि । मनुष्याणां मध्ये अहमेकपुण्डरीकं श्रेष्ठो । भूयासमिति मन्त्रेणोपतिष्ठत इत्यर्थः । यदि यदा एतमग्निं जघनेनासीनः अग्नितो नीचस्थाने स्थितो वर्तते । तदा वंशं एतद्विद्योपदेशकाचार्यपरम्परालक्षणं जपति जपेत्‌ ॥ 8 ॥ 3 ॥ 6 ॥ जप्यं वंशमाह ॥ तं हैतमिति ॥ तमेतम्‌ निर्माणक्रमसहितं मन्थमुक्त्वा तस्य य एनं शुष्क इत्यादिमहिमानं चोवाचेत्यर्थः । अरुण्या अपत्यमारुणिः । उद्दालको नामतः शुष्केपि स्थाणौ एनं मन्थं निषिञ्चेत्‌ । तदा जायेरंच्छाखाः प्ररोहेयुः पलाशानि पर्णानि । इति शब्दस्योवाचेत्यन्वयः ॥ 8 ॥ 3 ॥ 7 ॥ एतमु हैवेत्यादिखण्डपञ्चकेप्येवमेवार्थो ध्येयः । मधुकायमधुकनाम्ने पैंग्याय पिंगस्य पुत्राय ॥ 8 ॥ 3 ॥ 8 ॥ चूलाय भागवित्तये चूलनाम्ने भगवित्तिपुत्राय अन्तेवासिने शिष्याय एवं मन्थप्रकारमुक्त्वेति सर्वत्र ध्येयम्‌ ॥ 9 ॥ जानकये जनकस्यापत्याय आयः स्थूणाय आयः स्थूणनाम्ने चूलो नामातः भगवित्तस्यापत्यं उवाचेत्यर्थः ॥ 10 ॥

?Rसत्यकामाय सत्यकामनामने जाबालाय जबालापुत्राय ॥ 11 ॥ तमेतं मन्थनिर्माणप्रकारं अपुत्राय पुत्रभिन्नायान्तेवासिने वा । न ब्रूयात्‌ । औदुम्बरे कंसे चमसे वेत्यादि पूर्वोक्तवाक्यापेक्षितमनुक्तं भागमाह ॥ चतुरौदुम्बर इति ॥ उपन्थिन्यौ अरणी । अणुप्रियंगव इत्यत्र अणवः शामाकाः मसुराश्ऱ्चेत्यादि त्रयः शब्दाः धान्यविशेषार्थकाः । तान्व्रीह्यादीन्‌ पिष्यान्‌ चूर्णितान्दधिमधुघृतद्रव्येषूपसिंचति मथितं कृत्वाज्यस्य जुहोत्याज्यस्य भागं जुहोतीत्यर्थः ॥ 8 ॥ 3 ॥ 13 ॥ इति तृतीयं ब्राह्मणम्‌ ॥ अनेनोपनिषदुक्तविधानेन जातः पुत्रः स्वर्गापवर्गयोग्यो भवतीति भावेन तृतीयखण्डादौ तस्या वेदिरित्यादिना गृहिणां वामदेवाख्यं यज्ञं वक्तुं तदुपयुक्तमाह ॥ एषामित्यादिना ॥ 8 ॥ 4 ॥ 1 ॥ यदर्थं रेतसः श्रैष्ठयमुक्तं तदाह ॥ स हेति ॥ स प्रजापतिब्राह्मा इक्षाञ्चक्रे आलोचितावान्‌ । कथमस्मै अय रेतसः । प्रतिष्ठामाधारम्‌ । कल्पयानि हन्त हषर्े इतीक्षांकृतवानित्यर्थः । स एवमीक्षावान्‌ स्त्रियं ससृजे सृष्ट्वा अधः कृत्वोपास्त तस्मादद्यतनोपि स्त्रियमधः कृत्वोपासीत । स एवमुपासीनः प्रजापतिः एतं प्रांचं प्रक्कालीनं ग्रावाणं ग्रावनिभम्‌ । रेत आत्मान एव स्वदेहादेव । समुदपारयत्‌ निष्कासयेत्‌ । तेन निष्कासिते न रेतसा एनां स्त्रियं अभ्यसृजत्‌ संयोजितवान्‌ ॥ 2 ॥ तस्याः स्त्रियाः उपस्थः वेदिः लोमानि बर्हिः चर्मचर्मणी अधिषवणफलके मध्यतो मध्यदेशे विद्यमानौ मुष्कौ वृषणौ । समिधौ तस्य फलमाह ॥ स यावदिति ॥ य एवं विद्वान्प्रजापतिनैवमनुष्ठितमिति विद्वान्‌ तदा भगवन्मनस्कः स्वस्त्रियमधः कृत्वोपसासं संगं करोति सः वाजपेयेन यागेन यजमानस्य भगवन्तमाराधयतः । सुप्रसिद्धो यावांल्लोको भवति तावान्‌ । अस्य ज्ञानिनो भगवन्निष्ठस्य । लोको भवति किं च य एवं विद्वान्‌ आसां भुज्यमानस्त्रीणां सुकृतम्‌ । वृंक्ते आदत्ते च । अथ चेत्यर्थान्तरे । य इदमविद्वानधोपहासं चरति । अस्य पुंसः सुकृतं स्त्रियः वृंजते । स्वीकुर्वन्ति ॥ 8 ॥ 4 ॥ 3 ॥ एवमुक्तप्रकारेणोपहासप्रकारज्ञानपूर्वमुपहासचरणं श्रेयः साधनमित्येतद्धृद्धसंमत्या द्रढयति ॥ एतद्ध स्मेति ॥ तदेतत्‌ । उक्तरूपो पहासप्रकारं विद्वानाहेति वाक्यत्रयेप्यर्थो ध्येयः । मनित्रयेप्यर्थो ध्येयः । मुनित्रयेणापि किमुक्तमित्यत आह ॥ बहव इति ॥ बहवो मर्या मर्त्याः ब्राह्मणायनाः ब्राह्मणा इवाचरन्तः ब्राह्मणाभासा इति यावत्‌ । निरिन्द्रिया विसुकृतो विगतसुकृताः अस्माल्लोकात्प्रयन्ति ते के इत्यत आह ॥ य इदमविद्वांस इत्यादि ॥ इत्याहेति पूर्वेणान्वयः । उपहासं विना रेतःस्कन्दने प्रायश्ऱ्चित्तं वक्तुमाह ॥ बहुवा इति ॥ सुप्तस्य वा जाग्रतो वा इदं बहुरेतः स्कन्दतीति ॥ 4 ॥ तदा कर्तव्यं प्रायश्ऱ्चित्तमाह ॥ तदिति ॥ तद्रेतोभिमृशेत्‌ । स्पृशेत्‌ स्पृष्ट्वाभिमन्त्रयेतेत्यर्थः । मन्त्रमाह ॥ यन्मेऽद्येति ॥ मे यद्रेतोद्य पऽथिवीमस्कान्त्सीत्‌ । यदोषधीरप्यसरत्‌ प्राप्नोत्‌ । यदपः प्राप्नोत्तदिदं रेत आददे ॥ तत्र मान्त्रमाह ॥ पुनरिति ॥ मा मां इन्द्रियं पुनरेतु तेजः पुनर्मामेतु भगः पुनर्मामेतु । धिष्ण्यो नामाग्निः मामेतु आगतानीं द्वियादीनि यथास्थानं कल्पन्तामित्यनामिकांगुष्ठाभ्यामादायान्तरेण स्तनौस्तनयोर्मध्ये भ्रुवौ भ्रुर्वोर्मध्ये वा निमृज्यात्‌ लिम्पेत्‌ लिम्पेत ॥ 8 ॥ 3 ॥ 5 ॥ प्रयश्ऱ्चित्तप्रसंगादन्यस्यापि तदाह ॥ अथ यदीति ॥ उदक आत्मानं स्वदेहं परिपश्येत्प्रतिबिम्बपश्येदित्यर्थः । तत्प्रतिबिम्बबतयापरिणतं उदकं अभिमृशेत्‌ स्पृशेत्‌ । अभिमन्त्रयेत्‌ । तत्रमन्त्रमाह ॥ मयीति ॥ अस्त्विति शेषः । स्पष्योर्थः । स्त्रीभिरुपहास्योत्थं भावमाह ॥ श्रीरिति ॥ स्त्रीणां मध्ये यत्‌ या मलोद्वासाः ऋतुमती एषा श्रीः शोभना । ह वै प्रसिद्धिः । तस्मात्‌ स्त्रीत्वाद्यशस्विनीमलवद्वाससं स्नानादिशुद्धामिति योज्यम्‌ । अभिक्रयेत्‌ । संगमार्थं वेदेदित्यर्थः ॥ सा एवमुपमन्त्रिता स्त्री । अस्मै पुंसे । कामं उपहासं न दद्येच्चेत्‌ । एनां स्त्रियमवक्रीणीयात्‌ । शिक्षान्तरं चाह ॥ सा चेदिति ॥ अतिक्रामेत्‌ । अतिक्रम्य त्यक्त्वा गच्छेत्‌ । गमने वक्तव्यमाह ॥ इन्द्रियेणेति ॥ मदीयेनेन्द्रियेण यशसा ते यश आददे गृह्णातीति वाच्यमित्यर्थः । ततः अयशा एव सा भवतीत्यर्थः ॥ सा चेदिति ॥ इन्द्रियेण मदीयेन यशसा च ते यश आदधामीति वाच्यं पुंसेत्यर्थः । ततः किं भवतीत्यत आह ॥ यशस्विना वेति ॥ दम्पती इति योज्यम्‌ ॥ उपहासे इत्थं भावान्तरमाह ॥ स यामिति ॥ एषा । मा मां कामयीतेति याम्‌ । स पुमानिच्छेत्तस्यामर्थं शिश्ऱ्नम्‌ । निष्ठाय निधाय । मुखेन मुखं न्धाय अस्या उपस्थमभिमृश्य स्पष्ट्वा जपेत्‌ । तत्र मन्त्रमाह ॥ अंगादंगादिति प्रत्यंगात्सम्भवसि हृदयादधिजायसे । हे अगं रेतोन्तर्गतभगवन्नंगानां सारोसीति स त्वं कषायोसि याममुमयि दिग्धविद्धामिव दिग्धा औषधलिप्तेव विद्धां परवशामिव आददे सम्पादयेति जपेदित्यर्थः ॥ 9 ॥ उपहासे इत्थं भावान्तरमाह ॥ अथ यामिच्छेदिति ॥ अभिप्राण्य श्ऱ्वासं मुक्त्वा अपान्यात्संगृह्णीयात्‌ । तत्र जाप्यमन्त्रमाह ॥ इन्द्रियेणेति ॥ मदीयेनेन्द्रियेण मदीयेन चेतसा ते रेत आददे इति जपन्नभिप्राण्यापान्यादित्यर्थः । सा तथैव गर्भहीनैव भवतीत्याह ॥ अरेता एव भवतीति ॥ 10॥ अथ यामिति ॥ यागर्भं दधीतेतीच्छेदित्यथर्ः । अपान्यश्ऱ्वा समादाय अभिप्राण्याच्छ्वासं मुञ्चेत्‌ इन्द्रियेणेत्यादि प्राग्वत्‌ । आदधामि प्रक्षिपामि ॥ 1 ॥ उपहासप्रयुक्तमाभिचारमाह ॥ अथ यस्येति ॥ जायायै जायायाः जारः स्यात्‌ । तं च द्विष्यात्‌ आमपात्रे अपक्वपात्रे । अग्निमुपसमाधाय । प्रतिलोमं शरबहिंस्तीर्त्वा प्रस्तीर्य । तस्मिन्नग्नौ एताः

?Rशरमुष्यीः शरस्तंवानि । सर्पिषाक्ताघृतार्द्राणि । प्रतिलोमाः प्रतिलोमानि । जुहुयात्‌ । होममन्त्रमाह ॥ ममेति ॥ मम समिद्धे सन्दीप्ते । भार्याग्नावितिशेषः । अहौषीः हुतवानभूः रेतो निहितवानभूः । असाविति जारस्य नामरूपादि निर्देशः । अदो नामा अदो रूपः त्वमहौषीः । ते तादृशनामरूपादिमतः तव प्राणापाना वाददे गृह्णामीति । एवमग्रेप्यर्थो ध्येयः । इष्यासुकृते । अन्येभ्योपि दृश्यत इति दीर्घः । इष्यं यजनं सुकृतं स्नानदानादिकं पुण्यं आशापराकाशौ आशा अभिलाषः पराकाशः तेजः स च होमो अमोघ एव भवतीत्याह ॥ स वा इति ॥ स एष जारः निरिन्द्रियः अजितेन्द्रियः । विगतसुकृतः अस्माल्लोद्देहात्प्रैति । एवमुक्तप्रकारेणाभिचारं विद्वान्ब्राह्मणः यं शपति सोपि निरिन्द्रियादिर्भवतीत्यर्थः । ततः किमित्यत आह ॥ तस्मादि ि॥ एवमुक्तप्रकारेणाभिचारं विद्वान्‌ श्रोत्रियस्य दारेण स्त्रिया नोपहांसं कुर्यात्‌ । नेच्छेदुनेच्छेदपि । उपहासकरणे बाधकमाह ॥ एवमिति ॥ एवं वित्‌ अभिचारवित्‌ । उपहासं श्रोत्रियदारेण करोति चेत्परः वैरी भवतीत्यर्थः। स्त्रियो रजस्वलात्वप्राप्तौ कर्तव्यमाह ॥ अथेति ॥ यस्य जाया आर्तवं रजः विन्देत्‌ प्राप्नुयात्‌ त्ऱ्यहं त्रिदिनं कंसेनाखर्वपात्रेण पिबेत्‌ अहतवासाः अधौतवासाः । एनां वषलः शूद्रः वृषली शूद्रा वा नोपहन्यात्‌ न स्पृशत्‌ । त्रिरात्रान्त आप्लुत्य स्नात्वा व्रीहीन्‌ धान्यानि अवघातयेत्‌ ॥ अथ यामिच्छेद्गर्भं दधीतेति प्रकृतपुत्रार्थं कर्तव्यमाह ॥ स य इच्छेदिति ॥ यः स गर्भकर्ता मे पुत्रः शुक्लो गौरो जायेत वेदमेकमनुब्रूवीत सर्वमायुरियादितीच्छेत्‌ । स क्षीरौदनं पाचयित्वा सप्रिष्मन्तमश्ऱ्नीयातां दम्पती इति योज्यम्‌ । जनयित वै तादृशं पुत्रं जनयितुमीश्ऱ्वरौ समर्थौ भवत इत्यर्थः ॥ 8 ॥ 4 ॥ 14 ॥ कपिलो लोहितः लोहितत्वं च पिंगलत्वेनेत्याह ॥ पिंगल इति ॥ शिष्यं प्रग्वत्‌ ॥ अथ इत्यादि खण्डचतुष्ययेपि पूर्ववद्योजना । उदौदनं उदकपक्वमन्नम्‌ ॥ 16 ॥ दुहिता पुत्री ॥ पण्डिता अभिज्ञा ॥ 17 ॥ विजिगीथो जेता समितिंगमः सभाप्रवेष्या । शुश्रूषितां श्राव्यां वाचं भाषिता वक्ता । मांसमिश्रितमोदनं मांसौदनं किमीयं मांसमित्यत आह ॥ औक्षेणेति ॥ औक्षेण गोवृषसम्बन्धिना आर्षभेण बलीवर्दसम्बन्धिना वेत्यर्थः ॥ 18 ॥ सत्पुत्रोत्पत्त्युपयुक्तं होममाह ॥ अथाभिप्रातरेवेति ॥ प्रातरेव स्थालीपाकावृताज्यं स्थालीपाकं अवृताज्यं होमाज्यं च द्वन्द्वैकवद्भावः तर्भैर्वेष्ययित्वा स्थालीपकस्योपघातं स्थाल्यां पक्वचरोर्भागं जुहोति । होममन्त्रमाह ॥ अग्नय इत्यादिना ॥ सत्यप्रसवाय सत्पुत्रजनयित्रे । हुतवा हुतशेषमुद्धृत्य प्राश्ऱ्नाति स्वयं प्राश्येतरस्याः जायायै प्रयच्छति ददाति । प्रक्षाल्य प्राणी उदपात्रं पूरयित्वा तेन पुण्याहोदकेनैनां त्रिरभ्युक्षति । अभ्युक्षणे मन्त्रमाह ॥ उत्तिष्ठेति ॥ हे विश्ऱ्वावसो गन्धर्व अतः मद्भार्यातः उत्तिष्ठः अन्यामुद्वाह्यामिच्छ पत्या मया सह जायांसं योजयेत्यर्थः ॥ 19 ॥ विश्ऱ्वावसुप्रार्थनानन्तरं भार्या प्रतिवक्तव्यं वक्तुमाह ॥ अथेनामिति ॥ अभिपद्यते प्राप्नोति । वक्तव्यमाह ॥ ओहमिति ॥ अमः अहमस्मि त्वं सा असि वाग्वै साऽम एषः सा च अमश्ऱ्चेति सामेति पूर्वत्र तृतीयाध्याये उक्ततयाहं प्राणसंनिधियुतः त्वं वाणीसन्निधानयुतासीत्यर्थः । एवमग्रेऽपि । व्यत्यासेनाप्याह ॥ सेति ॥ त्वं सा अहं अमोस्मीति ब्रूयादित्यर्थः। एवं सामेत्यवान्तरं विभागेनोक्त्वा इदानीमविभागेनाह ॥ सामेति ॥ अहं सामास्मि त्वं ऋगसि द्यौरहं पृथिवी त्वं एहि आगच्छ । तौ एवमर्धनारीपुमात्मना स्थितसामर्गादिशब्दवाच्यवाणीवाणीशसन्निधियुतावावामिति शेषः । संरभावहै संरंभं उपहासं कुवर्ः । रेतः सह दधावहै मिलितं कुर्वः । किमर्थं पुत्राय पुंनामकनरकात्‌ त्रात्रे वित्तये विदित्रे पुंसे ज्ञानाढ्यपुत्रोत्पत्तय इति यावत्‌ ॥ 8 ॥ 4 ॥ 20 ॥ एवं तां प्रत्युक्त्यनन्तरं कर्तव्यमाह ॥ अथेति ॥ अनन्तरं द्यावापृथिवी विजिहाथाम्‌ । ओहाक्‌ त्यागे विभक्ते भवतमिति मन्त्रेण अस्या ऊरू विहापयति विभक्तौ करोति । तस्यामर्थं गुह्येन्द्रिय निष्ठाय निधाय मुखेन मुखं सन्धाय त्रिः त्रिवारमेतां अनुलोमां शिर आरभ्यानुमार्ष्यिहस्तेनानुमार्जनं करोति । तत्र मन्त्रमाह ॥ विष्णुरिति ॥ विष्णुर्वासुदेवात्मा योनिं कल्पयतु शुद्धां करोतु । त्वष्या त्वष्यृनामकः संकर्षणः रूपाण्यंगानि पिंशतु करोतु । प्रजापतिः प्रद्युम्नः आसिंचतु रेत इति योज्मम्‌ । धाताऽनिरुद्धः ते गर्भं ददात्वित्यनेन मन्त्रेणानुमृज्यादित्यर्थः । तदुक्तं योनिकॢप्तिर्वासुदेवाद्रूपं संकर्षणाद्भवेत्‌ । आसेककर्मप्रद्युम्नादनिरुद्धाच्च धारणमिति छान्दोग्यभाष्ये द्वितीयाध्याये । सिनीबाली चतुर्दशीमिश्रिता अमावास्या तद्देवता प्रत्युच्यते । हे सिनीवालि भर्गं धेहि कुरु । पृथुष्युकेति काचिद्देवता तस्याः सम्बुद्धिः । अश्ऱ्विनौ कृष्णरामौ पद्ममालिनौ कृष्णरामौ तथाश्ऱ्विनाविति छान्दोग्यभाष्योक्तेः । देवौ ते गर्भं निर्मन्थतां मथ्नतः । अतः दशमे मासि सूतवे पुत्रप्रसवाय । त्वं वयं हवामहे । तं ते गर्भमित्युक्तं सदृष्यान्तमाह ॥ यथेति ॥ पृथिवी यथा अग्निगर्भा बहुवीहिः । असावित्यस्य बुद्धिस्थैतन्नामकैतद्गुणकैतद्रूपं भर्गमित्येवं प्रागुक्तशक्लपिंगलादिरूपादिनिर्देशोर्थः ॥ 22 ॥ प्रसवकाले कर्तव्यमाह ॥ सोष्यन्तीमिति ॥ अद्भिरभ्युक्षति तत्र मन्त्रमाह ॥ यथेति ॥ यथा वायुः पुष्करिणीं सरोवरं सर्वत एव समिंजयति कम्पयति । तथा ते गर्भः सूतिका वायुना एजतु स्थानाच्चलतु । तदनन्तरं जरायुणा वैतु अधः पततु । इन्द्रस्य इन्द्रेणायं वअजो गर्भदुर्गः सार्गलः निरोधसहितः सपरिश्रयो रक्षकसहितश्ऱ्च कृतः । हे इन्द्र तं व्रजं निजर्हि

?Rनिवर्तय । गर्भेण सह सावरां इति मन्त्रेण अभ्युक्षतीत्यर्थः ॥ 8 ॥ 4 ॥ 23 ॥ प्रसवानन्तरं कर्तव्यमाह ॥ जात इति ॥ अंके पुत्रं समाधायेत्यर्थः । कंसे पात्रविशेषे पृषदाज्यं संस्कताज्यं सन्नीय निक्षिप्य । पृषदाज्यस्योपघातं भागं जुहोति । होममन्त्रमाह ॥ अस्मिन्निति ॥ अस्मिन्स्वगृहे एधमानो वर्धमानः सहस्रं पुष्यासं भूयासं अस्येमामुपसद्यां प्राप्तिं प्रजया पशुभिश्ऱ्च सह मा च्छेत्सीः न छेदय । स्वाहा मयि स्थितान्प्राणान्मनसा सह त्वयि जुहोमि त्यद्विषयान्करोमि स्वाहा । कर्मणा यदत्यरीरिचम्‌ । यदधिकं यद्वा न्यूनमिहाकरम्‌ । तत्सर्वं विद्वान्‌ जानन्स्विष्यकृन्नामाग्निः नोऽस्माकं स्विष्यं अत्यन्तमिष्यम्‌ । सुहुतं करोतु स्वाहेति मन्त्रेण जुहोतीत्यन्वयः ॥ 24 ॥ स्विष्यकृद्दोमानन्तरं कर्तव्यमाह ॥ अथेति ॥ अस्य कुमारस्य दक्षिणं कर्णमभिनिधाय दक्षिणकर्णं प्रतिमुखं निधाय । वाग्वागिति त्रिर्जपेदिति शेषः । अथानन्तरं दधिमधुघृतं द्वन्द्वैकवद्भावः । संनीय मेलयित्वानन्तरर्हितेन वस्दनाऽनाच्छादितेन जातरूपेण स्वर्णेन । प्राशयति भोजयति । तत्र मन्त्रमाह ॥ भूरिति ॥ 8 ॥ 4 ॥ 25 ॥ अथानन्तरमस्य पुत्रस्य वेदोसीति नाम करोति । तच्छास्त्रप्रसिद्धं तद्वेद इति नामास्य गुह्यं रहस्यम्‌ । भवति ॥ 26 ॥ अथ नामकरणानन्तरं एनं पुत्रं मात्रे प्रदाय स्तनं प्रदापयेत्‌ । तत्र मन्त्रमाह ॥ यस्त इति ॥ हे सरस्वति यस्ते स्तनः शशयः शेमुके शत इति शशयः । यो मयेभूः मया सुखं भावयतीति मयोभूः । यो रत्नधाः आभरणरूपरत्नं तधन्‌ । यश्ऱ्च वसु विन्दते प्राप्नोतीति वसुवित्‌ । यश्ऱ्च सुदत्रः सम्यक्‌ दाता रक्षकश्ऱ्च येन च स्तनेन विश्ऱ्वा विश्ऱ्वानि भार्याणि भरणीयानिब्रह्मादीनि । पुष्यसि पुष्णासि । तं स्तनं शिशोः धातवे पातुं अकः अकार्षीरिति मन्त्रेण स्तनं प्रयच्छतीत्यन्वयः ॥ 27 ॥ अथानन्तरं अस्य शिशोर्मातरमभिमन्त्रयते । तत्र मन्त्रमाह ॥ इलासीति ॥ हे वीरे मित्रावरुणयोः पुत्री मैत्रावरुणी । इला त्वमसि । वीरं कुमारं अजीजनत्‌ । भवतीति शेषः । सा तादृशी त्वं पुनश्ऱ्च वीरवती भव । या त्वमस्मान्वीरवतोकरत्‌ । अकार्षीरित्यभिमन्त्रयते इत्यन्वयः । शिशुं प्रति ज्ञातिभिवर्क्तव्यमाह ॥ तमिति ॥ हे पुत्र त्वं अति पिता पितरमतिक्रान्तो भूः । बत हर्षे । पितामहमतिक्रान्तः अतिपितामहो भूः । श्रिया ब्रह्मवर्चसेन परमां काष्ठां उन्नतिं प्रापदिति तमेतं शिशुं प्रति ज्ञातय आहुरित्यर्थः ॥ य एवं पुत्पिदनप्रकारं वेद तस्य विदः जानतः ब्राह्मणस्य पुत्रो नरकात्त्राता पुत्रो जायत इत्यर्थः ॥ 8 ॥ 4 ॥ 28 ॥ इति चतुर्थब्राह्मणम्‌ इमाप्तम्‌ ॥ अत्र वंशब्राह्मणम्‌ ॥ अध्यायद्वयोक्तविद्याप्रवर्तपपरम्पराप्रस्तावपूर्वमाह ॥ अथ वंश इत्यादिना ॥ अत्र पञ्चम्यन्ता उपदेष्यारः प्रथमान्ता उपदेश्याः इति ज्ञेयाः । ब्रह्मा स्वयम्भूः स्वतन्त्र सर्वज्ञ इति वा ॥

श्रीमत्कण्वोपनिषदो भाष्याद्युक्तार्थसंग्रहः । राघवेन्द्रयतिना कृतस्सज्जनसंविदे ॥ इति आष्टमाध्यायः सम्पूर्णः ॥ समाप्तोऽयं ग्रन्थः ॥ B-K-12

*************************************************************

]