4

एषां वै भूतानां पृथिवी रसः पृथिव्या आपोऽपामोषधय ओषधीनां पुष्पाणि पुष्पाणां फलानि फलानां पुरुषः पुरुषस्य रेतः ॥ १ ॥

यादृग्जन्मा यथोत्पादितः यैर्वा गुणैर्विशिष्टः पुत्र आत्मनः पितुश्च लोक्यो भवतीति, तत्सम्पादनाय ब्राह्मणमारभ्यते। प्राणदर्शिनः श्रीमन्थं कर्म कृतवतः पुत्रमन्थेऽधिकारः। यदा पुत्रमन्थं चिकीर्षति तदा श्रीमन्थं कृत्वा ऋतुकालं पत्न्याः प्रतीक्षत इत्येतत् रेतस ओषध्यादिरसतमत्वस्तुत्या अवगम्यते। एषां वै चराचराणां भूतानां पृथिवी रसः सारभूतः, सर्वभूतानां मध्विति ह्युक्तम्। पृथिव्या आपो रसः, अप्सु हि पृथिव्योता च प्रोता च अपामोषधयो रसः, कार्यत्वात् रसत्वमोषध्यादीनां। ओषधीनां पुष्पाणि। पुष्पाणां फलानि। फलानां पुरुषः। पुरुषस्य रेतः, [‘सर्वेभ्योऽङ्गेभ्यस्तेजः सम्भूतम्’ (ऐ. उ. २। १। १)](https://advaitasharada.sringeri.net/display/bhashya/Aitareya?page=2&id=AI_C02_S01_V01&hl=सर्वेभ्योऽङ्गेभ्यस्तेजः सम्भूतम्) इति श्रुत्यन्तरात् ॥

स ह प्रजापतिरीक्षाञ्चक्रे हन्तास्मै प्रतिष्ठां कल्पयानीति स स्त्रियं ससृजे तां सृष्ट्वाध उपास्त तस्मात्स्त्रियमध उपासीत स एतं प्राञ्चं ग्रावाणमात्मन एव समुदपारयत्तेनैनामभ्यसृजत् ॥ २ ॥

यत एवं सर्वभूतानां सारतमम् एतत् रेतः, अतः कानु खल्वस्य योग्या प्रतिष्टेति स ह स्रष्टा प्रजापतिरीक्षाञ्चक्रे। ईक्षां कृत्वा स स्त्रियं ससृजे। तां च सृष्ट्वा अध उपास्त मैथुनाख्यं कर्म अधउपासनं नाम कृतवान्। तस्मात्स्त्रियमध उपासीत ; श्रेष्ठानुश्रयणा हि प्रजाः। अत्र वाजपेयसामान्यकॢप्तिमाह — स एनं प्राञ्चं प्रकृष्टगतियुक्तम् आत्मनो ग्रावाणं सोमाभिषवोपलस्थानीयं काठिन्यसामान्यात् प्रजननेन्द्रियम् , उदपारयत् उत्पूरितवान् स्त्रीव्यञ्जनं प्रति ; तेन एनां स्त्रियम् अभ्यसृजत् अभिसंसर्गं कृतवान् ॥

तस्या वेदिरुपस्थो लोमानि बर्हिश्चर्माधिषवणे समिद्धो मध्यतस्तौ मुष्कौ स यावान्ह वै वाजपेयेन यजमानस्य लोको भवति तावानस्य लोको भवति य एवं विद्वानधोपहासं चरत्यासां स्त्रीणां सुकृतं वृङ्क्तेऽथ य इदमविद्वानधोपहासं चरत्यास्य स्त्रियः सुकृतं वृञ्जते ॥ ३ ॥

तस्या वेदिरित्यादि सर्वं सामान्यं प्रसिद्धम्। समिद्धोऽग्निः मध्यतः स्त्रीव्यञ्जनस्य ; तौ मुष्कौ अधिषवणफलके इति व्यवहितेन सम्बध्यते। वाजपेययाजिनो यावान् लोकः प्रसिद्धः, तावान् विदुषः मैथुनकर्मणो लोकः फलमिति स्तूयते। तस्मात् बीभत्सा नो कार्येति। य एवं विद्वानधोपहासं चरति आसां स्त्रीणां सुकृतं वृङ्क्ते आवर्जयति। अथ पुनः यः वाजपेयसम्पत्तिं न जानाति अविद्वान् रेतसो रसतमत्वं च अधोपहासं चरति, आ अस्य स्त्रियः सुकृतम् आवृञ्जते अविदुषः ॥

एतदद्ध स्म वै तद्विद्वानुद्दालक आरुणिराहैतद्ध स्म वै तद्विद्वान्नाको मौद्गल्य आहैतद्ध स्म वै तद्विद्वान्कुमारहारित आह बहवो मर्या ब्राह्मणायना निरिन्द्रिया विसुकृतोऽस्माल्लोकात्प्रयन्ति य इदमविद्वांसोऽधोपहासं चरन्तीति बहु वा इदं सुप्तस्य वा जाग्रतो वा रेतः स्कन्दति ॥ ४ ॥

एतद्ध स्म वै तत् विद्वान् उद्दालक आरुणिः आह अधोपहासाख्यं मैथुनकर्म वाजपेयसम्पन्नं विद्वानित्यर्थः। तथा नाको मौद्गल्यः कुमारहारितश्च। किं त आहुरित्युच्यते — बहवो मर्या मरणधर्मिणो मनुष्याः, ब्राह्मणा अयनं येषां ते ब्राह्मणायनाः ब्रह्मबन्धवः जातिमात्रोपजीविन इत्येतत् , निरिन्द्रियाः विश्लिष्टेन्द्रियाः, विसुकृतः विगतसुकृतकर्माणः, अविद्वांसः मैथुनकर्मासक्ता इत्यर्थः ; ते किम् ? अस्मात् लोकात् प्रयन्ति परलोकात् परिभ्रष्टा इति। मैथुनकर्मणोऽत्यन्तपापहेतुत्वं दर्शयति — य इदमविद्वांसोऽधोपहासं चरन्तीति। श्रीमन्थं कृत्वा पत्न्या ऋतुकालं ब्रह्मचर्येण प्रतीक्षते ; यदि इदं रेतः स्कन्दति, बहु वा अल्पं वा, सुप्तस्य वा जाग्रतो वा, रागप्राबल्यात् ॥४॥

तदभिमृशेदनु वा मन्त्रयेत यन्मेऽद्य रेतः पृथिवीमस्कान्त्सीद्यदोषधीरप्यसरद्यदपः। इदमहं तद्रेत आददे पुनर्मामैत्विन्द्रियं पुनस्तेजः पुनर्भगः। पुनरग्निर्धिष्ण्या यथास्थानं कल्पन्तामित्यनामिकाङ्गुष्ठाभ्यामादायान्तरेण स्तनौ वा भ्रुवौ वा निमृज्यात् ॥ ५ ॥

तदभिमृशेत् , अनुमन्त्रयेत वा अनुजपेदित्यर्थः। यदा अभिमृशति, तदा अनामिकाङ्गुष्ठाभ्यां तद्रेत आदत्ते ‘आददे’ इत्येवमन्तेन मन्त्रेण ; ‘पुनर्माम्’ इत्येतेन निमृज्यात् अन्तरेण मध्ये भ्रुवौ भ्रुवोर्वा, स्तनौ स्तनयोर्वा ॥

अथ यद्युदक आत्मानं पश्येत्तदभिमन्त्रयेत मयि तेज इन्द्रियं यशो द्रविणं सुकृतमिति श्रीर्ह वा एषा स्त्रीणां यन्मलोद्वासास्तस्मान्मलोद्वाससं यशस्विनीमभिक्रम्योपमन्त्रयेत ॥ ६ ॥

अथ यदि कदाचित् उदके आत्मानम् आत्मच्छायां पश्येत् , तत्रापि अभिमन्त्रयेत अनेन मन्त्रेण ‘मयि तेजः’ इति। श्रीर्ह वा एषा पत्नी स्त्रीणां मध्ये यत् यस्मात् मलोद्वासाः उद्गतमलवद्वासाः, तस्मात् तां मलोद्वाससं यशस्विनीं श्रीमतीमभिक्रम्य अभिगत्य उपमन्त्रयेत इदम् — अद्य आवाभ्यां कार्यं यत्पुत्रोत्पादनमिति, त्रिरात्रान्ते आप्लुताम् ॥

सा चेदस्मै न दद्यात्काममेनामवक्रीणीयात्सा चेदस्मै नैव दद्यात्काममेनां यष्ट्या वा पाणिना वोपहत्यातिक्रामेदिन्द्रियेण ते यशसा यश आदद इत्ययशा एव भवति ॥ ७ ॥

सा चेदस्मै न दद्यात् मैथुनं कर्तुम् , कामम् एनाम् अवक्रीणीयात् आभरणादिना ज्ञापयेत्। तथापि सा नैव दद्यात् , काममेनां यष्ट्या वा पाणिना वा उपहत्य अतिक्रामेत् मैथुनाय। शप्स्यामि त्वां दुर्भगां करिष्यामीति प्रख्याप्य, तामनेन मन्त्रेणोपगच्छेत् — ‘इन्द्रियेण ते यशसा यश आददे’ इति। सा तस्मात् तदभिशापात् वन्ध्या दुर्भगेति ख्याता अयशा एव भवति ॥

सा चेदस्मै दद्यादिन्द्रियेण ते यशसा यश आदधामीति यशस्विनावेव भवतः ॥ ८ ॥

सा चेदस्मै दद्यात् , अनुगुणैव स्याद्भर्तुः, तदा अनेन मन्त्रेण उपगच्छेत् ‘इन्द्रियेण ते यशसा यश आदधामि’ इति ; तदा यशस्विनावेव उभावपि भवतः ॥

स यामिच्छेत्कामयेत मेति तस्यामर्थं निष्ठाय मुखेन मुखं सन्धायोपस्थमस्या अभिमृश्य जपेदङ्गादङ्गात्सम्भवसि हृदयादधिजायसे। स त्वमङ्गकषायोऽसि दिग्धविद्धमिव मादयेमाममूं मयीति ॥ ९ ॥

स यां स्वभार्यामिच्छेत् — इयं मां कामयेतेति, तस्याम् अर्थं प्रजननेन्द्रियम् निष्ठाय निक्षिप्य, मुखेन मुखं सन्धाय, उपस्थमस्या अभिमृश्य, जपेदिमं मन्त्रम् — ‘अङ्गादङ्गात्’ इति ॥

अथ यामिच्छेन्न गर्भं दधीतेति तस्यामर्थं निष्ठाय मुखेन मुखं सन्धायाभिप्राण्यापान्यादिन्द्रियेण ते रेतसा रेत आदद इत्यरेता एव भवति ॥ १० ॥

अथ यामिच्छेत् — न गर्भं दधीत न धारयेत् गर्भिणी मा भूदिति, तस्याम् अर्थमिति पूर्ववत्। अभिप्राण्य अभिप्राणनं प्रथमं कृत्वा, पश्चात् अपान्यात् — ‘इन्द्रियेण ते रेतसा रेत आददे’ इत्यनेन मन्त्रेण ; अरेता एव भवति, न गर्भिणी भवतीत्यर्थः ॥

अथ यामिच्छेद्दधीतेति तस्यामर्थं निष्ठाय मुखेन मुखं सन्धायापान्याभिप्राण्यादिन्द्रियेण ते रेतसा रेत आदधामीति गर्भिण्येव भवति ॥ ११ ॥

अथ यामिच्छेत् — दधीत गर्भमिति, तस्यामर्थमित्यादि पूर्ववत्। पूर्वविपर्ययेण अपान्य अभिप्राण्यात् ‘इन्द्रियेण ते रेतसा रेत आदधामि’ इति ; गर्भिण्येव भवति ॥

अथ यस्य जायायै जारः स्यात्तं चेद्द्विष्यादामपात्रेऽग्निमुपसमाधाय प्रतिलोमं शरबर्हिस्तीर्त्वा तस्मिन्नेताः शरभृष्टीः प्रतिलोमाः सर्पिषाक्ता जुहुयान्मम समिद्धेऽहौषीः प्राणापानौ त आददेऽसाविति मम समिद्धेऽहौषीः पुत्रपशूंस्त आददेऽसाविति मम समिद्धेऽहौषीरिष्टासुकृते त आददेऽसाविति मम समिद्धेऽहौषीराशापराकाशौ त आददेऽसाविति स वा एष निरिन्द्रियो विसुकृतोऽस्माल्लोकात्प्रैति यमेवंविद्ब्राह्मणः शपति तस्मादेवंविच्छ्रोत्रियस्य दारेण नोपहासमिच्छेदुत ह्येवंवित्परो भवति ॥ १२ ॥

अथ पुनर्यस्य जायायै जारः उपपतिः स्यात् , तं चेत् द्विष्यात् , अभिचरिष्याम्येनमिति मन्येत, तस्येदं कर्म। आमपात्रे अग्निमुपसमाधाय सर्वं प्रतिलोमं कुर्यात् ; तस्मिन् अग्नौ एताः शरभृष्टीः शरेषीकाः प्रतिलोमाः सर्पिषा अक्ताः घृताभ्यक्ताः जुहुयात् ‘मम समिद्धेऽहौषीः’ इत्याद्या आहुतीः ; अन्ते सर्वासाम् असाविति नामग्रहणं प्रत्येकम् ; स एषः एवंवित् , यं ब्राह्मणः शपति, सः विसुकृतः विगतपुण्यकर्मा प्रैति। तस्मात् एवंवित् श्रोत्रियस्य दारेण नोपहासमिच्छेत् नर्मापि न कुर्यात् , किमुत अधोपहासम् ; हि यस्मात् एवंविदपि तावत् परो भवति शत्रुर्भवतीत्यर्थः ॥

अथ यस्य जायामार्तवं विन्देत्त्र्यहं कंसेन पिबेदहतवासा नैनां वृषलो न वृषल्युपहन्यात्त्रिरात्रान्त आप्लुत्य व्रीहीनवघातयेत् ॥ १३ ॥

अथ यस्य जायाम् आर्तवं विन्देत् ऋतुभावं प्राप्नुयात् — इत्येवमादिग्रन्थः ‘श्रीर्ह वा एषा स्त्रीणाम्’ इत्यतः पूर्वं द्रष्टव्यः, सामर्थ्यात्। त्र्यहं कंसेन पिबेत् , अहतवासाश्च स्यात् ; नैनां स्नाताम् अस्नातां च वृषलो वृषली वा नोपहन्यात् नोपस्पृशेत्। त्रिरात्रान्ते त्रिरात्रव्रतसमाप्तौ आप्लुत्य स्नात्वा अहतवासाः स्यादिति व्यवहितेन सम्बन्धः ; ताम् आप्लुतां व्रीहन् अवघातयेत् व्रीह्यवघाताय तामेव विनियुञ्ज्यात् ॥

स य इच्छेत्पुत्रो मे शुक्लो जायेत वेदमनुब्रुवीत सर्वमायुरियादिति क्षीरौदनं पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ जनयितवै ॥ १४ ॥

स य इच्छेत् — पुत्रो मे शुक्लो वर्णतो जायेत, वेदमेकमनुब्रुवीत, सर्वमायुरियात् — वर्षशतं क्षीरौदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम् ईश्वरौ समर्थौ जनयितवै जनयितुम् ॥

अथ य इच्छेत्पुत्रो मे कपिलः पिङ्गलो जायते द्वौ वेदावनुब्रुवीत् सर्वमायुरियादिति दध्योदनं पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ जनयितवै ॥ १५ ॥

दध्योदनं दध्ना चरुं पाचयित्वा ; द्विवेदं चेदिच्छति पुत्रम् , तदा एवमशननियमः ॥

अथ य इच्छेत्पुत्रो मे श्यामो लोहिताक्षो जायेत त्रीन्वेदाननुब्रुवीत सर्वमायुरियादित्युदौदनं पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ जनयितवै ॥ १६ ॥

केवलमेव स्वाभाविकमोदनम्। उदग्रहणम् अन्यप्रसङ्गनिवृत्त्यर्थम् ॥

अथ य इच्छेद्दुहिता मे पण्डिता जायेत सर्वमायुरियादिति तिलौदनं पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ जनयितवै ॥ १७ ॥

दुहितुः पाण्डित्यं गृहतन्त्रविषयमेव, वेदेऽनधिकारात्। तिलौदनं कृशरम् ॥

अथ य इच्छेत्पुत्रो मे पण्डितो विगीतः समितिङ्गमः शुश्रूषितां वाचं भाषिता जायेत सर्वान्वेदाननुब्रुवीत सर्वमायुरियादिति मांसौदनं पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ जनयितवा औक्षेण वार्षभेण वा ॥ १८ ॥

विविधं गीतो विगीतः प्रख्यात इत्यर्थः ; समितिङ्गमः सभां गच्छतीति प्रगल्भ इत्यर्थः, पाण्डित्यस्य पृथग्ग्रहणात् ; शुश्रूषितां श्रोतुमिष्टां रमणीयां वाचं भाषिता संस्कृताया अर्थवत्या वाचो भाषितेत्यर्थः। मांसमिश्रमोदनं मांसौदनम्। तन्मांसनियमार्थमाह — औक्षेण वा मांसेन ; उक्षा सेचनसमर्थः पुङ्गवः, तदीयं मांसम् ; ऋषभः ततोऽप्यधिकवयाः, तदीयम् आर्षभं मांसम् ॥

अथाभिप्रातरेव स्थालीपाकावृताज्यं चेष्टित्वा स्थालीपाकस्योपघातं जुहोत्यग्नये स्वाहानुमतये स्वाहा देवाय सवित्रे सत्यप्रसवाय स्वाहेति हुत्वोद्धृत्य प्राश्नाति प्राश्येतरस्याः प्रयच्छति प्रक्षाल्य पाणी उदपात्रं पूरयित्वा तेनैनां त्रिरभ्युक्षत्युत्तिष्ठातो विश्वावसोऽन्यामिच्छ प्रपूर्व्यां सं जायां पत्या सहेति ॥ १९ ॥

अथाभिप्रातरेव काले अवघातनिर्वृत्तान् तण्डुलानादाय स्थालीपाकावृता स्थालीपाकविधिना, आज्यं चेष्टित्वा, आज्यसंस्कारं कृत्वा, चरुं श्रपयित्वा, स्थालीपाकस्य आहुतीः जुहोति, उपघातम् उपहत्योपहत्य ‘अग्नये स्वाहा’ इत्याद्याः। गार्ह्यः सर्वो विधिः द्रष्टव्यः अत्र ; हुत्वा उद्धृत्य चरुशेषं प्राश्नाति ; स्वयं प्राश्य इतरस्याः पत्न्यै प्रयच्छति उच्छिष्टम्। प्रक्षाल्य पाणी आचम्य उदपात्रं पूरयित्वा तेनोदकेन एनां त्रिरभ्युक्षति अनेन मन्त्रेण ‘उत्तिष्ठातः’ इति, सकृन्मन्त्रोच्चारणम् ॥

अथैनामभिपद्यतेऽमोऽहमस्मि सा त्वं सा त्वमस्यमोऽहं सामाहमस्मि ऋक्त्वं द्यौरहं पृथिवी त्वं तावेहि संरभावहै सह रेतो दधावहै पुंसे पुत्राय वित्तय इति ॥ २० ॥

अथैनामभिमन्त्र्य क्षीरौदनादि यथापत्यकामं भुक्त्वेति क्रमो द्रष्टव्यः। संवेशनकाले — ‘अमोऽहमस्मि’ इत्यादिमन्त्रेणाभिपद्यते ॥

अथास्या ऊरू विहापयति विजिहीथां द्यावापृथिवी इति तस्यामर्थं निष्ठाय मुखेन मुखं सन्धाय त्रिरेनामनुलोमामनुमार्ष्टि विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु। आसिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते। गर्भं धेहि सिनीवालि गर्भं धेहि पृथुष्टुके। गर्भं ते अश्विनौ देवावाधत्तां पुष्करस्रजौ ॥ २१ ॥

अथास्या ऊरू विहापयति ‘विजिहीथां द्यावापृथिवी’ इत्यनेन। तस्यामर्थमित्यादि पूर्ववत्। त्रिः एनां शिरःप्रभृति अनुलोमामनुमार्ष्टि ‘विष्णुर्योनिम्’ इत्यादि प्रतिमन्त्रम् ॥

हिरण्मयी अरणी याभ्यां निर्मन्थतामश्विनौ। तं ते गर्भं हवामहे दशमे मासि सूतये। यथाग्निगर्भा पृथिवी यथा द्यौरिन्द्रेण गर्भिणी। वायुर्दिशां यथा गर्भ एवं गर्भं दधामि तेऽसाविति ॥ २२ ॥

अन्ते नाम गृह्णाति — असाविति तस्याः ॥

सोष्यन्तीमद्भिरभ्युक्षति। यथा वायुः पुष्करिणीं समिङ्गयति सर्वतः। एवा ते गर्भ एजतु सहावैतु जरायुणा। इन्द्रस्यायं व्रजः कृतः सार्गलः सपरिश्रयः। तमिन्द्र निर्जहि गर्भेण सावरां सहेति ॥ २३ ॥

सोष्यन्तीम् अद्भिरभ्युक्षति प्रसवकाले सुखप्रसवनार्थम् अनेन मन्त्रेण — ‘यथा वायुः पुष्करिणीं समिङ्गयति सर्वतः। एवा ते गर्भ एजतु’ इति ॥

जातेऽग्निमुपसमाधायाङ्क आधाय कंसे पृषदाज्यं सन्नीय पृषदाज्यस्योपघातं जुहोत्यस्मिन्सहस्रं पुष्यासमेधमानः स्वे गृहे। अस्योपसन्द्यां मा च्छैत्सीत्प्रजया च पशुभिश्च स्वाहा। मयि प्राणांस्त्वयि मनसा जुहोमि स्वाहा। यत्कर्मणात्यरीरिचं यद्वा न्यूनमिहाकरम्। अग्निष्टत्स्विष्टकृद्विद्वान्स्विष्टं सुहुतं करोतु नः स्वाहेति ॥ २४ ॥

अथ जातकर्म। जातेऽग्निमुपसमाधाय अङ्के आधाय पुत्रम् , कंसे पृषदाज्यं सन्नीय संयोज्य दधिघृते, पृषदाज्यस्य उपघातं जुहोति ‘अस्मिन्सहस्रम्’ इत्याद्यावापस्थाने ॥

अथास्य दक्षिणं कर्णमभिनिधाय वाग्वागिति त्रिरथ दधि मधु घृतं सन्नीयानन्तर्हितेन जातरूपेण प्राशयति। भूस्ते दधामि भुवस्ते दधामि स्वस्ते दधामि भूर्भुवःस्वः सर्वं त्वयि दधामीति ॥ २५ ॥

अथास्य दक्षिणं कर्णमभिनिधाय स्वं मुखम् ‘वाग्वाक्’ इति त्रिर्जपेत्। अथ दधि मधु घृतं सन्नीय अनन्तर्हितेन अव्यवहितेन जातरूपेण हिरण्येन प्राशयति एतैर्मन्त्रैः प्रत्येकम् ॥

अथास्य नाम करोति वेदोऽसीति तदस्य तद्गुह्यमेव नाम भवति ॥ २६ ॥

अथास्य नामधेयं करोति ‘वेदोऽसि’ इति। तदस्य तद्गुह्यं नाम भवति — वेद इति ॥

अथैनं मात्रे प्रदाय स्तनं प्रयच्छति यस्ते स्तनः शशयो यो मयोभूर्यो रत्नधा वसुविद्यः सुदत्रः। येन विश्वा पुष्यसि वार्याणि सरस्वति तमिह धातवे करिति ॥ २७ ॥

अथैनं मात्रे प्रदाय स्वाङ्कस्थम् , स्तनं प्रयच्छति ‘यस्ते स्तनः’ इत्यादिमन्त्रेण ॥

अथास्य मातरमभिमन्त्रयते। इलासि मैत्रावरुणी वीरे वीरमजीजनत्। सा त्वं वीरवती भव यास्मान्वीरवतोऽकरदिति। तं वा एतमाहुरतिपिता बताभूरतिपितामहो बताभूः परमां बत काष्ठां प्रापच्छ्रिया यशसा ब्रह्मवर्चसेन य एवंविदो ब्राह्मणस्य पुत्रो जायत इति ॥ २८ ॥

अथास्य मातरमभिमन्त्रयते ‘इलासि’ इत्यनेन। तं वा एतमाहुरिति — अनेन विधिना जातः पुत्रः पितरं पितामहं च अतिशेते इति श्रिया यशसा ब्रह्मवर्चसेन परमां निष्ठां प्रापत् — इत्येवं स्तुत्यो भवतीत्यर्थः। यस्य च एवंविदो ब्राह्मणस्य पुत्रो जायते, स च एवं स्तुत्यो भवतीत्यध्याहार्यम् ॥

इति षष्ठाध्यायस्य चतुर्थं ब्राह्मणम् ॥