स यः कामयेत महत्प्राप्नुयामित्युदगयन आपूर्यमाणपक्षस्य पुण्याहे द्वादशाहमुपसद्व्रती भूत्वौदुम्बरे कंसे चमसे वा सर्वौषधं फलानीति सम्भृत्य परिसमुह्य परिलिप्याग्निमुपसमाधाय परिस्तीर्यावृताज्यं संस्कृत्य पुंसा नक्षत्रेण मन्थं सन्नीय जुहोति। यावन्तो देवास्त्वयि जातवेदस्तिर्यञ्चो घ्नन्ति पुरुषस्य कामान्। तेभ्योऽहं भागधेयं जुहोमि ते मा तृप्ताः सर्वैः कामैस्तर्पयन्तु स्वाहा। या तिरश्ची निपद्यतेऽहं विधरणी इति तां त्वा घृतस्य धारया यजे संराधनीमहं स्वाहा ॥ १ ॥
स यः कामयेत। ज्ञानकर्मणोर्गतिरुक्ता ; तत्र ज्ञानं स्वतन्त्रम् ; कर्म तु दैवमानुषवित्तद्वयायत्तम् ; तेन कर्मार्थं वित्तमुपार्जनीयम् ; तच् च अप्रत्यवायकारिणोपायेनेति तदर्थं मन्थाख्यं कर्म आरभ्यते महत्त्वप्राप्तये ; महत्त्वे च सति अर्थसिद्धं हि वित्तम्। तदुच्यते — स यः कामयेत, स यो वित्तार्थी कर्मण्यधिकृतः यः कामयेत ; किम् ? महत् महत्त्वम् प्राप्नुयाम् , महान्स्यामितीत्यर्थः। तत्र मन्थकर्मणो विधित्सितस्य कालोऽभिधीयते — उदगयने आदित्यस्य ; तत्र सर्वत्र प्राप्तौ आपूर्यमाणपक्षस्य शुक्लपक्षस्य ; तत्रापि सर्वत्र प्राप्तौ, पुण्याहे अनुकूले आत्मनः कर्मसिद्धिकर इत्यर्थः ; द्वादशाहम् , यस्मिन्पुण्येऽनुकूले कर्म चिकीर्षति ततः प्राक् पुण्याहमेवारभ्य द्वादशाहम् , उपसद्व्रती, उपसत्सु व्रतम् , उपसदः प्रसिद्धा ज्योतिष्टोमे, तत्र च स्तनोपचयापचयद्वारेण पयोभक्षणं तद्व्रतम् ; अत्र च तत्कर्मानुपसंहारात् केवलमितिकर्तव्यताशून्यं पयोभक्षणमात्रमुपादीयते ; ननु उपसदो व्रतमिति यदा विग्रहः, तदा सर्वमितिकर्तव्यतारूपं ग्राह्यं भवति, तत् कस्मात् न परिगृह्यत इत्युच्यते — स्मार्तत्वात्कर्मणः ; स्मार्तं हीदं मन्थकर्म। ननु श्रुतिविहितं सत् कथं स्मार्तं भवितुमर्हति — स्मृत्यनुवादिनी हि श्रुतिरियम् ; श्रौतत्वे हि प्रकृतिविकारभावः ; ततश्च प्राकृतधर्मग्राहित्वं विकारकर्मणः ; न तु इह श्रौतत्वम् ; अत एव च आवसथ्याग्नौ एतत्कर्म विधीयते, सर्वा च आवृत् स्मार्तैवेति। उपसद्व्रती भूत्वा पयोव्रती सन्नित्यर्थः औदुम्बरे उदुम्बरवृक्षमये, कंसे चमसे वा, तस्यैव विशेषणम् — कंसाकारे चमसाकरे वा औदुम्बर एव ; आकारे तु विकल्पः, न औदुम्बरत्वे। अत्र सर्वौषधं सर्वासामोषधीनां समूहं यथासम्भवं यथाशक्ति च सर्वा ओषधीः समाहृत्य ; तत्र ग्राम्याणां तु दश नियमेन ग्राह्या व्रीहियवाद्या वक्ष्यमाणाः ; अधिकग्रहणे तु न दोषः ; ग्राम्याणां फलानि च यथासम्भवं यथाशक्ति च ; इतिशब्दः समस्तसम्भारोपचयप्रदर्शनार्थः ; अन्यदपि यत्सम्भरणीयं तत्सर्वं सम्भृत्येत्यर्थः ; क्रमस्तत्र गृह्योक्तो द्रष्टव्यः। परिसमूहनपरिलेपने भूमिसंस्कारः। अग्निमुपसमाधायेति वचनात् आवसथ्येऽग्नाविति गम्यते, एकवचनात् उपसमाधानश्रवणाच्च ; विद्यमानस्यैव उपसमाधानम् ; परिस्तीर्य दर्भान् ; आवृता — स्मार्तत्वात्कर्मणः स्थालीपाकावृत् परिगृह्यते — तया आज्यं संस्कृत्य ; पुंसा नक्षत्रेण पुन्नाम्ना नक्षत्रेण पुण्याहसंयुक्तेन, मन्थं सर्वौषधफलपिष्टं तत्रौदुम्बरे चमसे दधनि मधुनि घृते च उपसिच्य एकया उपमन्थन्या उपसम्मथ्य, सन्नीय मध्ये संस्थाप्य, औदुम्बरेण स्रुवेण आवापस्थाने आज्यस्य जुहोति एतैर्मन्त्रैः ‘यावन्तो देवाः’ इत्याद्यैः ॥
ज्येष्ठाय स्वाहा श्रेष्ठाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति प्राणाय स्वाहा वसिष्ठायै स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति वाचे स्वाहा प्रतिष्ठायै स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति चक्षुषे स्वाहा सम्पदे स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति श्रोत्राय स्वाहायतनाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति मनसे स्वाहा प्रजात्यै स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति रेतसे स्वाहेत्यग्नौ हुत्वा संस्रवमवनयति ॥ २ ॥
अग्नये स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति सोमाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति भूः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति भुवः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति स्वः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति भूर्भुवःस्वः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ब्रह्मणे स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति क्षत्त्राय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति भूताय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति भविष्यते स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति विश्वाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति सर्वाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति प्रजापतये स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ॥ ३ ॥
ज्येष्ठाय स्वाहा श्रेष्ठाय स्वाहेत्यारभ्य द्वे द्वे आहुती हुत्वा मन्थे संस्रवमवनयति, स्रुवावलेपनमाज्यं मन्थे संस्रावयति। एतस्मादेव ज्येष्ठाय श्रेष्ठायेत्यादिप्राणलिङ्गात् ज्येष्ठश्रेष्ठादिप्राणविद एव अस्मिन् कर्मण्यधिकारः। ‘रेतसे’ इत्यारभ्य एकैकामाहुतिं हुत्वा मन्थे संस्रवमवनयति, अपरया उपमन्थन्या पुनर्मथ्नाति ॥
अथैनमभिमृशति भ्रमदसि ज्वलदसि पूर्णमसि प्रस्तब्धमस्येकसभमसि हिङ्कृतमसि हिङ्क्रियमाणमस्युद्गीथमस्युद्गीयमानमसि श्रावितमसि प्रत्याश्रावितमस्यार्द्रे सन्दीप्तमसि विभूरसि प्रभूरस्यन्नमसि ज्योतिरसि निधनमसि संवर्गोऽसीति ॥ ४ ॥
अथैनमभिमृशति ‘भ्रमदसि’ इत्यनेन मन्त्रेण ॥
अथैनमुद्यच्छत्यामं स्यामं हि ते महि स हि राजेशानोऽधिपतिः स मां राजेशानोऽधिपतिं करोत्विति ॥ ५ ॥
अथैनमुद्यच्छति सह पात्रेण हस्ते गृह्णाति ‘आमंस्यामंहि ते महि’ इत्यनेन ॥
अथैनमाचामति तत्सवितुर्वरेण्यम्। मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः। माध्वीर्नः सन्त्वोषधीः। भूः स्वाहा। भर्गो देवस्य धीमहि। मधु नक्तमुतोषसो मधुमत्पार्थिवं रजः। मधु द्यौरस्तु नः पिता। भुवः स्वाहा। धियो यो नः प्रचोदयात्। मधुमान्नो वनस्पतिर्मधुमां अस्तु सूर्यः। माध्वीर्गावो भवन्तु नः। स्वः स्वाहेति। सर्वां च सावित्रीमन्वाह सर्वाश्च मधुमतीरहमेवेदं सर्वं भूयासं भूर्भुवः स्वः स्वाहेत्यन्तत आचम्य पाणी प्रक्षाल्य जघनेनाग्निं प्राक्शिराः संविशति प्रातरादित्यमुपतिष्ठते दिशामेकपुण्डरीकमस्यहं मनुष्याणामेकपुण्डरीकं भूयासमिति यथेतमेत्य जघनेनाग्निमासीनो वंशं जपति ॥ ६ ॥
अथैनम् आचामति भक्षयति, गायत्र्याः प्रथमपादेन मधुमत्या एकया व्याहृत्या च प्रथमया प्रथमग्रासमाचामति ; तथा गायत्रीद्वितीयपादेन मधुमत्या द्वितीयया द्वितीयया च व्याहृत्या द्वितीयं ग्रासम् ; तथा तृतीयेन गायत्रीपादेन तृतीयया मधुमत्या तृतीयया च व्याहृत्या तृतीयं ग्रासम्। सर्वां सावित्रीं सर्वाश्च मधुमतीरुक्त्वा ‘अहमेवेदं सर्वं भूयासम्’ इति च अन्ते ‘भूर्भुवःस्वः स्वाहा’ इति समस्तं भक्षयति। यथा चतुर्भिर्ग्रासैः तद्द्रव्यं सर्वं परिसमाप्यते, तथा पूर्वमेव निरूपयेत्। यत् पात्रावलिप्तम् , तत् पात्रं सर्वं निर्णिज्य तूष्णीं पिबेत्। पाणी प्रक्षाल्य आप आचम्य जघनेनाग्निं पश्चादग्नेः प्राक्शिराः संविशति। प्रातःसन्ध्यामुपास्य आदित्यमुपतिष्ठते ‘दिशामेकपुण्डरीकम्’ इत्यनेन मन्त्रेण। यथेतं यथागतम् , एत्य आगत्य जघनेनाग्निम् आसीनो वंशं जपति ॥
तं हैतमुद्दालक आरुणिर्वाजसनेयाय याज्ञवल्क्यायान्तेवासिन उक्त्वोवाचापि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ७ ॥
एतमु हैव वाजसनेयो याज्ञवल्क्यो मधुकाय पैङ्ग्यायान्तेवासिन उक्त्वोवाचापि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ८ ॥
एतमु हैव मधुकः पैङ्ग्यश्चूलाय भागवित्तयेऽन्तेवासिन उक्त्वोवाचापि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ९ ॥
एतमु हैव चूलो भागवित्तिर्जानकाय आयस्थूणायान्तेवासिन उक्त्वोवाचापि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ १० ॥
एतमु हैव जानकिरायस्थूणः सत्यकामाय जाबालायान्तेवासिन उक्त्वोवाचापि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ११ ॥
एतमु हैव सत्यकामो जाबालोऽन्तेवासिभ्य उक्त्वोवाचापि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति तमेतं नापुत्राय वान्तेवासिने वा ब्रूयात् ॥ १२ ॥
‘तं हैतमुद्दालकः’ इत्यादि सत्यकामो जाबालोन्तेवासिभ्य उक्त्वा उवाच — अपि यः एनं शुष्के स्थाणौ निषिञ्चेत् , जायेरन्नेव अस्मिन् शाखाः प्ररोहेयुः पलाशानि — इत्येवमन्तम् एनं मन्थम् उद्दालकात्प्रभृति एकैकाचार्यक्रमागतं सत्यकाम आचार्यो बहुभ्योऽन्तेवासिभ्य उक्त्वोवाच। किमन्यदुवाचेत्युच्यते — अपि यः एनं शष्के स्थाणौ गतप्राणेऽपि एनं मन्थं भक्षणाय संस्कृतं निषिञ्चेत् प्रक्षिपेत् , जायेरन् उत्पद्येरन्नेव अस्मिन् स्थाणौ शाखा अवयवा वृक्षस्य, प्ररोहेयुश्च पलाशानि पर्णानि, यथा जीवतः स्थाणोः ; किमुत अनेन कर्मणा कामः सिध्येदिति ; ध्रुवफलमिदं कर्मेति कर्मस्तुत्यर्थमेतत्। विद्याधिगमे षट् तीर्थानि ; तेषामिह सप्राणदर्शनस्य मन्थविज्ञानस्याधिगमे द्वे एव तीर्थे अनुज्ञायेते, पुत्रश्चान्तेवासी च ॥
चतुरौदुम्बरो भवत्यौदुम्बरः स्रुव औदुम्बरश्चमस औदुम्बर इध्म औदुम्बर्या उपमन्थन्यौ दश ग्राम्याणि धान्यानि भवन्ति व्रीहियवास्तिलमाषा अणुप्रियङ्गवो गोधूमाश्च मसूराश्च खल्वाश्च खलकुलाश्च तान्पिष्टान्दधनि मधुनि घृत उपसिञ्चत्याज्यस्य जुहोति ॥ १३ ॥
चतुरौदुम्बरो भवतीति व्याख्यातम्। दश ग्राम्याणि धान्यानि भवन्ति, ग्राम्याणां तु धान्यानां दश नियमेन ग्राह्या इत्यवोचाम। के त इति निर्दिश्यन्ते — व्रीहियवाः, तिलमाषाः, अणुप्रियङ्गवः अणवश्च अणुशब्दवाच्याः, क्वचिद्देशे प्रियङ्गवः प्रसिद्धाः कङ्गुशब्देन, खल्वा निष्पावाः वल्लशब्दवाच्या लोके, खलकुलाः कुलत्थाः। एतद्व्यतिरेकेण यथाशक्ति सर्वौषधयो.. ग्राह्याः फलानि च — इत्यवोचाम, अयाज्ञिकानि वर्जयित्वा ॥
इति षष्ठाध्यायस्य तृतीयं ब्राह्मणम् ॥