2

श्वेतकेतुर्ह वा आरुणेय इत्यस्य सम्बन्धः। खिलाधिकारोऽयम् ; तत्र यदनुक्तं तदुच्यते। सप्तमाध्यायान्ते ज्ञानकर्मसमुच्चयकारिणा अग्नेर्मार्गयाचनं कृतम् — अग्ने नय सुपथेति। तत्र अनेकेषां पथां सद्भावः मन्त्रेण सामर्थ्यात्प्रदर्शितः, सुपथेति विशेषणात्। पन्थानश्च कृतविपाकप्रतिपत्तिमार्गाः ; वक्ष्यति च ‘यत्कृत्वा’ (बृ. उ. ६। २। २) इत्यादि। तत्र च कति कर्मविपाकप्रतिपत्तिमार्गा इति सर्वसंसारगत्युपसंहारार्थोऽयमारम्भः — एतावती हि संसारगतिः, एतावान् कर्मणो विपाकः स्वाभाविकस्य शास्त्रीयस्य च सविज्ञानस्येति। यद्यपि [‘द्वया ह प्राजापत्याः’ (बृ. उ. १। ३। १)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=1&id=BR_C01_S03_V01&hl=द्वया ह प्राजापत्याः) इत्यत्र स्वाभाविकः पाप्मा सूचितः, न च तस्येदं कार्यमिति विपाकः प्रदर्शितः ; शास्त्रीयस्यैव तु विपाकः प्रदर्शितः त्र्यन्नात्मप्रतिपत्त्यन्तेन, ब्रह्मविद्यारम्भे तद्वैराग्यस्य विवक्षितत्वात्। तत्रापि केवलेन कर्मणा पितृलोकः, विद्यया विद्यासंयुक्तेन च कर्मणा देवलोक इत्युक्तम्। तत्र केन मार्गेण पितृलोकं प्रतिपद्यते, केन वा देवलोकमिति नोक्तम्। तच्च इह खिलप्रकरणे अशेषतो वक्तव्यमित्यत आरभ्यते। अन्ते च सर्वोपसंहारः शास्त्रस्येष्टः। अपि च एतावदमृतत्वमित्युक्तम् , न कर्मणः अमृतत्वाशा अस्तीति च ; तत्र हेतुः नोक्तः ; तदर्थश्चायमारम्भः। यस्मात् इयं कर्मणो गतिः, न नित्येऽमृतत्वे व्यापारोऽस्ति, तस्मात् एतावदेवामृतत्वसाधनमिति सामर्थ्यात् हेतुत्वं सम्पद्यते। अपि च उक्तमग्निहोत्रे — न त्वेवैतयोस्त्वमुत्क्रान्तिं न गतिं न प्रतिष्ठां न तृप्तिं न पुनरावृत्तिं न लोकं प्रत्युत्थायिनं वेत्थेति ; तत्र प्रतिवचने ‘ते वा एते आहुती हुते उत्क्रामतः’ (शत. ब्रा. ११। ६। २। ४) इत्यादिना आहुतेः कार्यमुक्तम् ; तच्चैतत् कर्तुः आहुतिलक्षणस्य कर्मणः फलम् ; न हि कर्तारमनाश्रित्य आहुतिलक्षणस्य कर्मणः स्वातन्त्र्येण उत्क्रान्त्यादिकार्यारम्भ उपपद्यते, कर्त्रर्थत्वात्कर्मणः कार्यारम्भस्य, साधनाश्रयत्वाच्च कर्मणः ; तत्र अग्निहोत्रस्तुत्यर्थत्वात् अग्निहोत्रस्यैव कार्यमित्युक्तं षट्प्रकारमपि ; इह तु तदेव कर्तुः फलमित्युपदिश्यते षट्प्रकारमपि, कर्मफलविज्ञानस्य विवक्षितत्वात्। तद्द्वारेण च पञ्चाग्निदर्शनम् इह उत्तरमार्गप्रतिपत्तिसाधानं विधित्सितम्। एवम् , अशेषसंसारगत्युपसंहारः, कर्मकाण्डस्य एषा निष्ठा — इत्येतद्द्वयं दिदर्शयिषुः आख्यायिकां प्रणयति ॥

श्वेतकेतुर्ह वा आरुणेयः पञ्चालानां परिषदमाजगाम स आजगाम जैवलिं प्रवाहणं परिचारयमाणं तमुदीक्ष्याभ्युवाद कुमारा३ इति स भो३ इति प्रतिशुश्रावानुशिष्टोऽन्वसि पित्रेत्योमिति होवाच ॥ १ ॥

श्वेतकेतुः नामतः, अरुणस्यापत्यम् आरुणिः, तस्यापत्यम् आरुणेयः ; ह - शब्दः ऐतिह्यार्थः ; वै निश्चयार्थः ; पित्रा अनुशिष्टः सन् आत्मनो यशःप्रथनाय पञ्चालानां परिषदमाजगाम ; पञ्चालाः प्रसिद्धाः ; तेषां परिषदमागत्य, जित्वा, राज्ञोऽपि परिषदं जेष्यामीति गर्वेण स आजगाम ; जीवलस्यापत्यं जैवलिं पञ्चालराजं प्रवाहणनामानं स्वभृत्यैः परिचारयमाणम् आत्मनः परिचरणं कारयन्तमित्येतत् ; स राजा पूर्वमेव तस्य विद्याभिमानगर्वं श्रुत्वा, विनेतव्योऽयमिति मत्वा, तमुदीक्ष्य उत्प्रेक्ष्य आगतमात्रमेव अभ्युवाद अभ्युक्तवान् , कुमारा३ इति सम्बोध्य ; भर्त्सनार्था प्लुतिः। एवमुक्तः सः प्रतिशुश्राव — भो३ इति। भो३ इति अप्रतिरूपमपि क्षत्त्रियं प्रति उक्तवान् क्रुद्धः सन्। अनुशिष्टः अनुशासितोऽसि भवसि किं पित्रा — इत्युवाच राजा। प्रत्याह इतरः — ओमिति, बाढमनुशिष्टोऽस्मि, पृच्छ यदि संशयस्ते ॥

वेत्थ यथेमाः प्रजाः प्रयत्यो विप्रतिपद्यन्ता३ इति नेति होवाच वेत्थो यथेमं लोकं पुनरापद्यन्ता३ इति नेति हैवोवाच वेत्थो यथासौ लोक एवं बहुभिः पुनः पुनः प्रयद्भिर्न सम्पूर्यता३ इति नेति हैवोवाच वेत्थो यतिथ्यामाहुत्यां हुतायामापः पुरुषवाचो भूत्वा समुत्थाय वदन्ती३ इति नेति हैवोवाच वेत्थो देवयानस्य वा पथः प्रतिपदं पितृयाणस्य वा यत्कृत्वा देवयानं वा पन्थानं प्रतिपद्यन्ते पितृयाणं वापि हि न ऋषेर्वचः श्रुतं द्वे सृती अशृणवं पितृणामहं देवानामुत मर्त्यानां ताभ्यामिदं विश्वमेजत्समेति यदन्तरा पितरं मातरं चेति नाहमत एकञ्चन वेदेति होवाच ॥ २ ॥

यद्येवम् , वेत्थ विजानासि किम् , यथा येन प्रकारेण इमाः प्रजाः प्रसिद्धाः, प्रयत्यः म्रियमाणाः, विप्रतिपद्यन्ता३ इति विप्रतिपद्यन्ते ; विचारणार्था प्लुतिः ; समानेन मार्गेण गच्छन्तीनां मार्गद्वैविध्यं यत्र भवति, तत्र काश्चित्प्रजा अन्येन मार्गेण गच्छन्ति काश्चिदन्येनेति विप्रतिपत्तिः ; यथा ताः प्रजा विप्रतिपद्यन्ते, तत् किं वेत्थेत्यर्थः। नेति होवाच इतरः। तर्हि वेत्थ उ यथा इमं लोकं पुनः आपद्यन्ता३ इति, पुनरापद्यन्ते, यथा पुनरागच्छन्ति इमं लोकम्। नेति हैवोवाच श्वेतकेतुः। वेत्थ उ यथा असौ लोक एवं प्रसिद्धेन न्यायेन पुनः पुनरसकृत् प्रयद्भिः म्रियमाणैः यथा येन प्रकारेण न सम्पूर्यता३ इति, न सम्पूर्यतेऽसौ लोकः, तत्किं वेत्थ। नेति हैवोवाच। वेत्थ उ यतिथ्यां यत्सङ्ख्याकायाम् आहुत्याम् आहुतौ हुतायम् आपः पुरुषवाचः, पुरुषस्य या वाक् सैव यासां वाक् , ताः पुरुषवाचो भूत्वा पुरुषशब्दवाच्या वा भूत्वा ; यदा पुरुषाकारपरिणताः, तदा पुरुषवाचो भवन्ति ; समुत्थाय सम्यगुत्थाय उद्भूताः सत्यः वदन्ती३ इति। नेति हैवोवाच। यद्येवं वेत्थ उ देवयानस्य पथो मार्गस्य प्रतिपदम् , प्रतिपद्यते येन सा प्रतिपत् तां प्रतिपदम् , पितृयाणस्य वा प्रतिपदम् ; प्रतिपच्छब्दवाच्यमर्थमाह — यत्कर्म कृत्वा यथाविशिष्टं कर्म कृत्वेत्यर्थः, देवयानं वा पन्थानं मार्गं प्रतिपद्यन्ते, पितृयाणं वा यत्कर्म कृत्वा प्रतिपद्यन्ते, तत्कर्म प्रतिपदुच्यते ; तां प्रतिपदं किं वेत्थ, देवलोकपितृलोकप्रतिपत्तिसाधनं किं वेत्थेत्यर्थः। अप्यत्र अस्यार्थस्य प्रकाशकम् ऋषेः मन्त्रस्य वचः वाक्यम् नः श्रुतमस्ति, मन्त्रोऽपि अस्यार्थस्य प्रकाशको विद्यत इत्यर्थः। कोऽसौ मन्त्र इत्युच्यते — द्वे सृती द्वौ मार्गावशृणवं श्रुतवानस्मि ; तयोः एका पितृणां प्रापिका पितृलोकसम्बद्धा, तया सृत्या पितृलोकं प्राप्नोतीत्यर्थः ; अहमशृणवमिति व्यवहितेन सम्बन्धः ; देवानाम् उत अपि देवानां सम्बन्धिनी अन्या, देवान्प्रापयति सा। के पुनः उभाभ्यां सृतिभ्यां पितॄन् देवांश्च गच्छन्तीत्युच्यते — उत अपि मर्त्यानां मनुष्याणां सम्बन्धिन्यौ ; मनुष्या एव हि सृतिभ्यां गच्छन्तीत्यर्थः। ताभ्यां सृतिभ्याम् इदं विश्वं समस्तम् एजत् गच्छत् समेति सङ्गच्छते। ते च द्वे सृती यदन्तरा ययोरन्तरा यदन्तरा, पितरं मातरं च, मातापित्रोः अन्तरा मध्ये इत्यर्थः। कौ तौ मातापितरौ ? द्यावापृथिव्यौ अण्डकपाले ; ‘इयं वै माता असौ पिता’ (शत. ब्रा. १३। ३। ९। ७) इति हि व्याख्यातं ब्राह्मणेन। अण्डकपालयोर्मध्ये संसारविषये एव एते सृती, न आत्यन्तिकामृतत्वगमनाय। इतर आह — न अहम् अतः अस्मात् प्रश्नसमुदायात् एकञ्चन एकमपि प्रश्नम् , न वेद, नाहं वेदेति होवाच श्वेतकेतुः ॥

अथैनं वसत्योपमन्त्रयाञ्चक्रेऽनादृत्य वसतिं कुमारः प्रदुद्राव स आजगाम पितरं तं होवाचेति वाव किल नो भवान्पुरानुशिष्टानवोच इति कथं सुमेध इति पञ्च मा प्रश्नान्राजन्यबन्धुरप्राक्षीत्ततो नैकञ्चन वेदेति कतमे त इतीम इति ह प्रतीकान्युदाजहार ॥ ३ ॥

अथ अनन्तरम् अपनीय विद्याभिमानगर्वम् एनं प्रकृतं श्वेतकेतुम् , वसत्या वसतिप्रयोजनेन उपमन्त्रयाञ्चक्रे ; इह वसन्तु भवन्तः, पाद्यमर्घ्यं च आनीयताम् — इत्युपमन्त्रणं कृतवान्राजा। अनादृत्य तां वसतिं कुमारः श्वेतकेतुः प्रदुद्राव प्रतिगतवान् पितरं प्रति। स च आजगाम पितरम् , आगत्य च उवाच तम् , कथमिति — वाव किल एवं किल, नः अस्मान् भवान् पुरा समावर्तनकाले अनुशिष्टान् सर्वाभिर्विद्याभिः अवोचः अवोचदिति। सोपालम्भं पुत्रस्य वचः श्रुत्वा आह पिता — कथं केन प्रकारेण तव दुःखमुपजातम् , हे सुमेधः, शोभना मेधा यस्येति सुमेधाः। शृणु, मम यथा वृत्तम् ; पञ्च पञ्चसङ्ख्याकान् प्रश्नान् मा मां राजन्यबन्धुः राजन्या बन्धवो यस्येति ; परिभववचनमेतत् राजन्यबन्धुरिति ; अप्राक्षीत् पृष्टवान् ; ततः तस्मात् न एकञ्चन एकमपि न वेद न विज्ञातवानस्मि। कतमे ते राज्ञा पृष्टाः प्रश्ना इति पित्रा उक्तः पुत्रः ‘इमे ते’ इति ह प्रतीकानि मुखानि प्रश्नानाम् उदाजहार उदाहृतवान् ॥

स होवाच तथा नस्त्वं तात जानीथा यथा यदहं किञ्च वेद सर्वमहं तत्तुभ्यमवोचं प्रेहि तु तत्र प्रतीत्य ब्रह्मचर्यं वत्स्याव इति भवानेव गच्छत्विति स आजगाम गौतमो यत्र प्रवाहणस्य जैवलेरास तस्मा आसनमाहृत्योदकमाहारयाञ्चकाराथ हास्मा अर्घ्यं चकार तं होवाच वरं भगवते गौतमाय दद्म इति ॥ ४ ॥

स होवाच पिता पुत्रं क्रुद्धमुपशमयन् — तथा तेन प्रकारेण नः अस्मान् त्वम् , हे तात वत्स, जानीथा गृह्णीथाः, यथा यदहं किञ्च विज्ञानजातं वेद सर्वं तत् तुभ्यम् अवोचम् इत्येव जानीथाः ; कोऽन्यो मम प्रियतरोऽस्ति त्वत्तः, यदर्थं रक्षिष्ये ; अहमपि एतत् न जानामि, यत् राज्ञा पृष्टम् ; तस्मात् प्रेहि आगच्छ ; तत्र प्रतीत्य गत्वा राज्ञि ब्रह्मचर्यं वत्स्यावो विद्यार्थमिति। स आह — भवानेव गच्छत्विति, नाहं तस्य मुखं निरीक्षितुमुत्सहे। स आजगाम, गौतमः गोत्रतो गौतमः, आरुणिः, यत्र प्रवाहणस्य जैवलेरास आसनम् आस्थायिका ; षष्ठीद्वयं प्रथमास्थाने ; तस्मै गौतमाय आगताय आसनम् अनुरूपम् आहृत्य उदकं भृत्यैराहारयाञ्चकार ; अथ ह अस्मै अर्घ्यं पुरोधसा कृतवान् मन्त्रवत् , मधुपर्कं च। कृत्वा चैवं पूजां तं होवाच — वरं भगवते गौतमाय तुभ्यं दद्म इति गोश्वादिलक्षणम् ॥

स होवाच प्रतिज्ञातो म एष वरो यां तु कुमारस्यान्ते वाचमभाषथास्तां मे ब्रूहीति ॥ ५ ॥

स होवाच गौतमः — प्रतिज्ञातः मे मम एष वरः त्वया ; अस्यां प्रतिज्ञायां दृढीकुरु आत्मानम् ; यां तु वाचं कुमारस्य मम पुत्रस्य अन्ते समीपे वाचमभाषथाः प्रश्नरूपाम् , तामेव मे ब्रूहि ; स एव नो वर इति ॥

स होवाच दैवेषु वै गौतम तद्वरेषु मानुषाणां ब्रूहीति ॥ ६ ॥

स होवाच राजा — दैवेषु वरेषु तद्वै गौतम, यत् त्वं प्रार्थयसे ; मानुषाणामन्यतमं प्रार्थय वरम् ॥

स होवाच विज्ञायते हास्ति हिरण्यस्यापात्तं गोअश्वानां दासीनां प्रवाराणां परिदानस्य मा नो भवान्बहोरनन्तस्यापर्यन्तस्याभ्यवदान्यो भूदिति स वै गौतम तीर्थेनेच्छासा इत्युपैम्यहं भवन्तमिति वाचा ह स्मैव पूर्व उपयन्ति स होपायनकीर्त्योवास ॥ ७ ॥

स होवाच गौतमः — भवतापि विज्ञायते ह ममास्ति सः ; न तेन प्रार्थितेन कृत्यं मम, यं त्वं दित्ससि मानुषं वरम् ; यस्मात् ममाप्यस्ति हिरण्यस्य प्रभूतस्य अपात्तं प्राप्तम् ; गोअश्वानाम् अपात्तमस्तीति सर्वत्रानुषङ्गः ; दासीनाम् , प्रवाराणां परिवाराणाम् , परिधानस्य च ; न च यत् मम विद्यमानम् , तत् त्वत्तः प्रार्थनीयम् , त्वया वा देयम् ; प्रतिज्ञातश्च वरः त्वया ; त्वमेव जानीषे, यदत्र युक्तम् , प्रतिज्ञा रक्षणीया तवेति ; मम पुनः अयमभिप्रायः — मा भूत् नः अस्मान् अभि, अस्मानेव केवलान्प्रति, भवान् सर्वत्र वदान्यो भूत्वा, अवदान्यो मा भूत् कदर्यो मा भूदित्यर्थः ; बहोः प्रभूतस्य, अनन्तस्य अनन्तफलस्येत्येतत् , अपर्यन्तस्य अपरिसमाप्तिकस्य पुत्रपौत्रादिगामिकस्येत्येतत् , ईदृशस्य वित्तस्य, मां प्रत्येव केवलम् अदाता मा भूद्भवान् ; न च अन्यत्र अदेयमस्ति भवतः। एवमुक्त आह — स त्वं वै हे गौतम तीर्थेन न्यायेन शास्त्रविहितेन विद्यां मत्तः इच्छासै इच्छ अन्वाप्तुम् ; इत्युक्तो गौतम आह — उपैमि उपगच्छामि शिष्यत्वेन अहं भवन्तमिति। वाचा ह स्मैव किल पूर्वे ब्राह्मणाः क्षत्त्रियान् विद्यार्थिनः सन्तः वैश्यान्वा, क्षत्त्रिया वा वैश्यान् आपदि उपयन्ति शिष्यवृत्त्या हि उपगच्छन्ति, न उपायनशुश्रूषादिभिः ; अतः स गौतमः ह उपायनकीर्त्या उपगमनकीर्तनमात्रेणैव उवास उषितवान् , न उपायनं चकार ॥

स होवाच तथा नस्त्वं गौतम मापराधास्तव च पितामहा यथेयं विद्येतः पूर्वं न कस्मिंश्चन ब्राह्मण उवास तां त्वहं तुभ्यं वक्ष्यामि को हि त्वैवं ब्रुवन्तमर्हति प्रत्याख्यातुमिति ॥ ८ ॥

एवं गौतमेन आपदन्तरे उक्ते, स होवाच राजा पीडित मत्वा क्षामयन् — तथा नः अस्मान् प्रति, मा अपराधाः अपराधं मा कार्षीः, अस्मदीयोऽपराधः न ग्रहीतव्य इत्यर्थः ; तव च पितामहाः अस्मात्पितामहेषु यथा अपराधं न जगृहुः, तथा पितामहानां वृत्तम् अस्मास्वपि भवता रक्षणीयमित्यर्थः। यथा इयं विद्या त्वया प्रार्थिता इतः त्वत्सम्प्रदानात्पूर्वम् प्राक् न कस्मिन्नपि ब्राह्मणे उवास उषितवती, तथा त्वमपि जानीषे ; सर्वदा क्षत्त्रियपरम्परया इयं विद्या आगता ; सा स्थितिः मयापि रक्षणीया, यदि शक्यते इति — उक्तम् ‘दैवेषु गौतम तद्वरेषु मानुषाणां ब्रूहि’ इति ; न पुनः तव अदेयो वर इति ; इतः परं न शक्यते रक्षितुम् ; तामपि विद्याम् अहं तुभ्यं वक्ष्यामि। को हि अन्योऽपि हि यस्मात् एवं ब्रूवन्तं त्वाम् अर्हति प्रत्याख्यातुम् — न वक्ष्यामीति ; अहं पुनः कथं न वक्ष्ये तुभ्यमिति ॥

असौ वै लोकोऽग्निर्गौतम तस्यादित्य एव समिद्रश्मयो धूमोऽहरर्चिर्दिशोऽङ्गारा अवान्तरदिशो विस्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति तस्या आहुत्यै सोमो राजा सम्भवति ॥ ९ ॥

असौ वै लोकोऽग्निर्गौतमेत्यादि — चतुर्थः प्रश्नः प्राथम्येन निर्णीयते ; क्रमभङ्गस्तु एतन्निर्णयायत्तत्वादितरप्रश्ननिर्णयस्य। असौ द्यौर्लोकः अग्निः हे, गौतम ; द्युलोके अग्निदृष्टिः अनग्नौ विधीयते, यथा योषित्पुरुषयोः ; तस्य द्युलोकाग्नेः आदित्य एव समित् , समिन्धनात् ; आदित्येन हि समिध्यते असौ लोकः ; रश्मयो धूमः, समिध उत्थानसामान्यात् ; आदित्याद्धि रश्मयो निर्गताः, समिधश्च धूमो लोके उत्तिष्ठति ; अहः अर्चिः, प्रकाशसामान्यात् ; दिशः अङ्गाराः, उपशमसामान्यात् ; अवान्तरदिशो विस्फुलिङ्गाः, विस्फुलिङ्गवद्विक्षेपात् ; तस्मिन् एतस्मिन् एवंगुणविशिष्टे द्युलोकाग्नौ, देवाः इन्द्रादयः, श्रद्धां जुह्वति आहुतिद्रव्यस्थानीयां प्रक्षिपन्ति ; तस्या आहुत्याः आहुतेः सोमो राजा पितृणां ब्राह्मणानां च सम्भवति। तत्र के देवाः कथं जुह्वति किं वा श्रद्धाख्यं हविरित्यतः उक्तमस्माभिः सम्बन्धे ; ‘नत्वेवैनयोस्त्वमुत्क्रान्तिम्’ (शत. ब्रा. ११। ६। २। ४) इत्यादिपदार्थषट्कनिर्णयार्थम् अग्निहोत्रे उक्तम् ; ‘ते वा एते अग्निहोत्राहुती हुते सत्यावुत्क्रामतः’ (शत. ब्रा. ११। ६। २। ६, ७), ‘ते अन्तरिक्षमाविशतः’ (शत. ब्रा. ११। ६। २। ६), ‘ते अन्तरिक्षमाहवनीयं कुर्वाते वायुं समिधं मरीचीरेव शुक्रामाहुतिम्’, ‘ते अन्तरिक्षं तर्पयतः’ (शत. ब्रा. ११। ६। २। ६), ‘ते तत उत्क्रामतः’ (शत. ब्रा. ११। ६। २। ६), ‘ते दिवमाविशतः’ (शत. ब्रा. ११। ६। २। ७), ‘ते दिवमाहवनीयं कुर्वाते आदित्यं समिधम्’ (शत. ब्रा. ११। ६। २। ७) इत्येवमादि उक्तम्। तत्र अग्निहोत्राहुती ससाधने एव उत्क्रामतः। यथा इह यैः साधनैर्विशिष्टे ये ज्ञायेते आहवनीयाग्निसमिद्धूमाङ्गारविस्फुलिङ्गाहुतिद्रव्यैः, ते तथैव उत्क्रामतः अस्माल्लोकात् अमुं लोकम्। तत्र अग्निः अग्नित्वेन, समित् समित्त्वेन, धूमो धूमत्वेन, अङ्गाराः अङ्गारत्वेन, विस्फुलिङ्गा विस्फुलिङ्गत्वेन, आहुतिद्रव्यमपि पयआद्याहुतिद्रव्यत्वेनैव सर्गादौ अव्याकृतावस्थायामपि परेण सूक्ष्मेण आत्मना व्यवतिष्ठते। तत् विद्यमानमेव ससाधनम् अग्निहोत्रलक्षणं कर्म अपूर्वेणात्मना व्यवस्थितं सत् , तत्पुनः व्याकरणकाले तथैव अन्तरिक्षादीनाम् आहवनीयाद्यग्न्यादिभावं कुर्वत् विपरिणमते। तथैव इदानीमपि अग्निहोत्राख्यं कर्म। एवम् अग्निहोत्राहुत्यपूर्वपरिणामात्मकं जगत् सर्वमिति आहुत्योरेव स्तुत्यर्थत्वेन उत्क्रान्त्याद्याः लोकं प्रत्युत्थायितान्ताः षट् पदार्थाः कर्मप्रकरणे अधस्तान्निर्णीताः। इह तु कर्तुः कर्मविपाकविवक्षायां द्युलोकाग्न्याद्यारभ्य पञ्चाग्निदर्शनम् उत्तरमार्गप्रतिपत्तिसाधनं विशिष्टकर्मफलोपभोगाय विधित्सितमिति द्युलोकाग्न्यादिदर्शनं प्रस्तूयते। तत्र ये आध्यात्मिकाः प्राणाः इह अग्निहोत्रस्य होतारः, ते एव आधिदैविकत्वेन परिणताः सन्तः इन्द्रादयो भवन्ति ; त एव तत्र होतारो द्युलोकाग्नौ ; ते च इह अग्निहोत्रस्य फलभोगाय अग्निहोत्रं हुतवन्तः ; ते एव फलपरिणामकालेऽपि तत्फलभोक्तृत्वात् तत्र तत्र होतृत्वं प्रतिपद्यन्ते, तथा तथा विपरिणममाना देवशब्दवाच्याः सन्तः। अत्र च यत् पयोद्रव्यम् अग्निहोत्रकर्माश्रयभूतम् इह आहवनीये प्रक्षिप्तम् अग्निना भक्षितम् अदृष्टेन सूक्ष्मेण रूपेण विपरिणतम् सह कर्त्रा यजमानेन अमुं लोकम् धूमादिक्रमेण अन्तरिक्षम् अन्तरिक्षात् द्युलोकम् आविशति ; ताः सूक्ष्मा आपः आहुतिकार्यभूता अग्निहोत्रसमवायिन्यः कर्तृसहिताः श्रद्धाशब्दवाच्याः सोमलोके कर्तुः शरीरान्तरारम्भाय द्युलोकं प्रविशन्त्यः हूयन्त इत्युच्यन्ते ; ताः तत्र द्युलोकं प्रविश्य सोममण्डले कर्तुः शरीरमारभन्ते। तदेतदुच्यते — ‘देवाः श्रद्धां जुह्वति, तस्या आहुत्यै सोमो राजा सम्भवति’ इति, ‘श्रद्धा वा आपः’ (तै. सं. १। ६। ८) इति श्रुतेः। [‘वेत्थ यतिथ्यामाहुत्यां हुतायामापः पुरुषवाचो भूत्वा समुत्थाय वदन्ति’ (बृ. उ. ६। २। २)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=6&id=BR_C06_S02_V02&hl=वेत्थ यतिथ्यामाहुत्यां हुतायामापः पुरुषवाचो भूत्वा समुत्थाय वदन्ति) इति प्रश्नः ; तस्य च निर्णयविषये ‘असौ वै लोकोऽग्निः’ इति प्रस्तुतम् ; तस्मात् आपः कर्मसमवायिन्यः कर्तुः शरीरारम्भिकाः श्रद्धाशब्दवाच्या इति निश्चीयते। भूयस्त्वात् ‘आपः पुरुषवाचः’ इति व्यपदेशः, न तु इतराणि भूतानि न सन्तीति ; कर्मप्रयुक्तश्च शरीरारम्भः ; कर्म च अप्समवायि ; ततश्च अपां प्राधान्यं शरीरकर्तृत्वे ; तेन च ‘आपः पुरुषवाचः’ इति व्यपदेशः ; कर्मकृतो हि जन्मारम्भः सर्वत्र। तत्र यद्यपि अग्निहोत्राहुतिस्तुतिद्वारेण उत्क्रान्त्यादयः प्रस्तुताः षट्पदार्था अग्निहोत्रे, तथापि वैदिकानि सर्वाण्येव कर्माणि अग्निहोत्रप्रभृतीनि लक्ष्यन्ते ; दाराग्निसम्बद्धं हि पाङ्क्तं कर्म प्रस्तुत्योक्तम् — [‘कर्मणा पितृलोकः’ (बृ. उ. १। ५। १६)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=1&id=BR_C01_S05_V16&hl=कर्मणा पितृलोकः) इति ; वक्ष्यति च — [‘अथ ये यज्ञेन दानेन तपसा लोकाञ्जयन्ति’ (बृ. उ. ६। २। १५)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=6&id=BR_C06_S02_V15&hl=अथ ये यज्ञेन दानेन तपसा लोकाञ्जयन्ति) इति ॥

पर्जन्यो वा अग्निर्गौतम तस्य संवत्सर एव समिदभ्राणि धूमो विद्युदर्चिरशनिरङ्गारा ह्रादुनयो विस्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवाः सोमं राजानं जुह्वति तस्या आहुत्यै वृष्टिः सम्भवति ॥ १० ॥

पर्जन्यो वा अग्निर्गौतम, द्वितीय आहुत्याधारः आहुत्योरावृत्तिक्रमेण। पर्जन्यो नाम वृष्ट्युपकरणाभिमानी देवतात्मा। तस्य संवत्सर एव समित् ; संवत्सरेण हि शरदादिभिर्ग्रीष्मान्तैः स्वावयवैर्विपरिवर्तमानेन पर्जन्योऽग्निर्दीप्यते। अभ्राणि धूमः, धूमप्रभवत्वात् धूमवदुपलक्ष्यत्वाद्वा। विद्युत् अर्चिः, प्रकाशसामान्यात्। अशनिः अङ्गाराः, उपशान्तकाठिन्यसामान्याभ्याम्। ह्रादुनयः ह्लादुनयः स्तनयित्नुशब्दाः विस्फुलिङ्गाः, विक्षेपानेकत्वसामान्यात्। तस्मिन्नेतस्मिन्निति आहुत्यधिकरणनिर्देशः। देवा इति, ते एव होतारः सोमं राजानं जुह्वति ; योऽसौ द्युलोकाग्नौ श्रद्धायां हुतायामभिनिर्वृत्तः सोमः, स द्वितीये पर्जन्याग्नौ हूयते ; तस्याश्च सोमाहुतेर्वृष्टिः सम्भवति ॥

अयं वै लोकोऽग्निर्गौतम तस्य पृथिव्येव समिदग्निर्धूमो रात्रिरर्चिश्चन्द्रमा अङ्गारा नक्षत्राणि विस्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवा वृष्टिं जुह्वति तस्या आहुत्या अन्नं सम्भवति ॥ ११ ॥

अयं वै लोकोऽग्निर्गौतम। अयं लोक इति प्राणिजन्मोपभोगाश्रयः क्रियाकारकफलविशिष्टः, स तृतीयोऽग्निः। तस्याग्नेः पृथिव्येव समित् ; पृथिव्या हि अयं लोकः अनेकप्राण्युपभोगसम्पन्नया समिध्यते। अग्निः धूमः, पृथिव्याश्रयोत्थानसामान्यात् ; पार्थिवं हि इन्धनद्रव्यम् आश्रित्य अग्निः उत्तिष्ठति, यथा समिदाश्रयेण धूमः। रात्रिः अर्चिः, समित्सम्बन्धप्रभवसामान्यात् ; अग्नेः समित्सम्बन्धेन हि अर्चिः सम्भवति, तथा पृथिवीसमित्सम्बन्धेन शर्वरी ; पृथिवीछायां हि शार्वरं तम आचक्षते। चन्द्रमा अङ्गाराः, तत्प्रभवत्वसामान्यात् ; अर्चिषो हि अङ्गाराः प्रभवन्ति, तथा रात्रौ चन्द्रमाः ; उपशान्तत्वसामान्याद्वा। नक्षत्राणि विस्फुलिङ्गाः, विस्फुलिङ्गवद्विक्षेपसामान्यात्। तस्मिन्नेतस्मिन्नित्यादि पूर्ववत्। वृष्टिं जुह्वति, तस्या आहुतेः अन्नं सम्भवति, वृष्टिप्रभवत्वस्य प्रसिद्धत्वात् व्रीहियवादेरन्नस्य ॥

पुरुषो वा अग्निर्गौतम तस्य व्यात्तमेव समित्प्राणो धूमो वागर्चिश्चक्षुरङ्गाराः श्रोत्रं विस्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति तस्या आहुत्यै रेतः सम्भवति ॥ १२ ॥

पुरुषो वा अग्निर्गौतम ; प्रसिद्धः शिरःपाण्यादिमान् पुरुषः चतुर्थोऽग्निः तस्य व्यात्तं विवृतं मुखं समित् ; विवृतेन हि मुखेन दीप्यते पुरुषः वचनस्वाध्यायादौ, यथा समिधा अग्निः। प्राणो धूमः तदुत्थानसामान्यात् ; मुखाद्धि प्राण उत्तिष्ठति। वाक् शब्दः अर्चिः व्यञ्जकत्वसामान्यात् ; अर्चिश्च व्यञ्जकम् , तथा वाक् शब्दः अभिधेयव्यञ्जकः। चक्षुः अङ्गाराः, उपशमसामान्यात् प्रकाशाश्रयत्वाद्वा। श्रोत्रं विस्फुलिङ्गाः, विक्षेपसामान्यात्। तस्मिन् अन्नं जुह्वति। ननु नैव देवा अन्नमिह जुह्वतो दृश्यन्ते — नैष दोषः, प्राणानां देवत्वोपपत्तेः ; अधिदैवम् इन्द्रादयो देवाः ; ते एव अध्यात्मं प्राणाः ; ते च अन्नस्य पुरुषे प्रक्षेप्तारः ; तस्या आहुतेः रेतः सम्भवति ; अन्नपरिणामो हि रेतः ॥

योषा वा अग्निर्गौतम तस्या उपस्थ एव समिल्लोमानि धूमो योनिरर्चिर्यदन्तः करोति तेऽङ्गारा अभिनन्दा विस्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति तस्या आहुत्यै पुरुषः सम्भवति स जीवति यावज्जीवत्यथ यदा म्रियते ॥ १३ ॥

योषा वा अग्निर्गौतम। योषेति स्त्री पञ्चमो होमाधिकरणम् अग्निः तस्याः उपस्थ एव समित् ; तेन हि सा समिध्यते। लोमानि धूमः, तदुत्थानसामान्यात्। योनिः अर्चिः, वर्णसामान्यात्। यदन्तः करोति, तेऽङ्गाराः ; अन्तःकरणं मैथुनव्यापारः, तेऽङ्गाराः, वीर्योपशमहेतुत्वसामान्यात् ; वीर्याद्युपशमकारणं मैथुनम् , तथा अङ्गारभावः अग्नेरुपशमकारणम्। अभिनन्दाः सुखलवाः क्षुद्रत्वसामान्यात् विस्फुलिङ्गाः। तस्मिन् रेतो जुह्वति। तस्या आहुतेः पुरुषः सम्भवति। एवं द्युपर्जन्यायंलोकपुरुषयोषाग्निषु क्रमेण हूयमानाः श्रद्धासोमवृष्ट्यन्नरेतोभावेन स्थूलतारतम्यक्रममापद्यमानाः श्रद्धाशब्दवाच्या आपः पुरुषशब्दमारभन्ते। यः प्रश्नः चतुर्थः [‘वेत्थ यतिथ्यामाहुत्यां हुतायामापः पुरुषवाचो भूत्वा समुत्थाय वदन्ती३’ (बृ. उ. ६। २। २)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=6&id=BR_C06_S02_V02&hl=वेत्थ यतिथ्यामाहुत्यां हुतायामापः पुरुषवाचो भूत्वा समुत्थाय वदन्ती३) इति, स एष निर्णीतः — पञ्चम्यामाहुतौ योषाग्नौ हुतायां रेतोभूता आपः पुरुषवाचो भवन्तीति। स पुरुषः एवं क्रमेण जातो जीवति ; कियन्तं कालमित्युच्यते — यावज्जीवति यावदस्मिन् शरीरे स्थितिनिमित्तं कर्म विद्यते, तावदित्यर्थः। अथ तत्क्षये यदा यस्मिन्काले म्रियते ॥

अथैनमग्नये हरन्ति तस्याग्निरेवाग्निर्भवति समित्समिद्धूमो धूमोऽर्चिरर्चिरङ्गारा विस्फुलिङ्गा विस्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवाः पुरुषं जुह्वति तस्या आहुत्यै पुरुषो भास्वरवर्णः सम्भवति ॥ १४ ॥

अथ तदा एनं मृतम् अग्नये अग्न्यर्थमेव अन्त्याहुत्यै हरन्ति ऋत्विजः ; तस्य आहुतिभूतस्य प्रसिद्धः अग्निरेव होमाधिकरणम् , न परिकल्प्योऽग्निः ; प्रसिद्धैव समित् समित् ; धूमो धूमः ; अर्चिः अर्चिः ; अङ्गारा अङ्गाराः ; विस्फुलिङ्गा विस्फुलिङ्गाः ; यथाप्रसिद्धमेव सर्वमित्यर्थः। तस्मिन् पुरुषम् अन्त्याहुतिं जुह्वति ; तस्यै आहुत्यै आहुतेः, पुरुषः भास्वरवर्णः अतिशयदीप्तिमान् , निषेकादिभिरन्त्याहुत्यन्तैः कर्मभिः संस्कृतत्वात् , सम्भवति निष्पद्यते ॥

ते य एवमेतद्विदुर्ये चामी अरण्ये श्रद्धां सत्यमुपासते तेऽर्चिरभिसम्भवन्त्यर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षण्मासानुदङ्ङादित्य एति मासेभ्यो देवलोकं देवलोकादादित्यमादित्याद्वैद्युतं तान्वैद्युतान्पुरुषो मानस एत्य ब्रह्मलोकान्गमयति ते तेषु ब्रह्मलोकेषु पराः परावतो वसन्ति तेषां न पुनरावृत्तिः ॥ १५ ॥

इदानीं प्रथमप्रश्ननिराकरणार्थमाह — ते ; के ? ये एवं यथोक्तं पञ्चाग्निदर्शनमेतत् विदुः ; एवंशब्दात् अग्निसमिद्धूमार्चिरङ्गारविस्फुलिङ्गश्रद्धादिविशिष्टाः पञ्चाग्नयो निर्दिष्टाः ; तान् एवम् एतान् पञ्चाग्नीन् विदुरित्यर्थः ॥

ननु अग्निहोत्राहुतिदर्शनविषयमेव एतद्दर्शनम् ; तत्र हि उक्तम् उत्क्रान्त्यादिपदार्थषट्कनिर्णये ‘दिवमेवाहवनीयं कुर्वाते’ (शत. ब्रा. ११। ६। २। ७) इत्यादि ; इहापि अमुष्य लोकस्याग्नित्वम् , आदित्यस्य च समित्त्वमित्यादि बहु साम्यम् ; तस्मात् तच्छेषमेव एतद्दर्शनमिति — न, यतिथ्यामिति प्रश्नप्रतिवचनपरिग्रहात् ; यतिथ्यामित्यस्य प्रश्नस्य प्रतिवचनस्य यावदेव परिग्रहः, तावदेव एवंशब्देन पराम्रष्टुं युक्तम् , अन्यथा प्रश्नानर्थक्यात् ; निर्ज्ञातत्वाच्च सङ्ख्यायाः अग्नय एव वक्तव्याः ; अथ निर्ज्ञातमप्यनूद्यते, यथाप्राप्तस्यैव अनुवदनं युक्तम् , न तु ‘असौ लोकोऽग्निः’ इति ; अथ उपलक्षणार्थः, तथापि आद्येन अन्त्येन च उपलक्षणं युक्तम्। श्रुत्यन्तराच्च ; समाने हि प्रकरणे छान्दोग्यश्रुतौ ‘पञ्चाग्नीन्वेद’ (छा. उ. ५। १०। १०) इति पञ्चसङ्ख्याया एवोपादानात् अनग्निहोत्रशेषम् एतत् पञ्चाग्निदर्शनम्। यत्तु अग्निसमिदादिसामान्यम् , तत् अग्निहोत्रस्तुत्यर्थमित्यवोचाम ; तस्मात् न उत्क्रान्त्यादिपदार्थषट्कपरिज्ञानात् अर्चिरादिप्रतिपत्तिः, एवमिति प्रकृतोपादानेन अर्चिरादिप्रतिपत्तिविधानात् ॥

के पुनस्ते, ये एवं विदुः ? गृहस्था एव। ननु तेषां यज्ञादिसाधनेन धूमादिप्रतिपत्तिः विधित्सिता — न, अनेवंविदामपि गृहस्थानां यज्ञादिसाधनोपपत्तेः, भिक्षुवानप्रस्थयोश्च अरण्यसम्बन्धेन ग्रहणात् , गृहस्थकर्मसम्बद्धत्वाच्च पञ्चाग्निदर्शनस्य। अतः नापि ब्रह्मचारिणः ‘एवं विदुः’ इति गृह्यन्ते ; तेषां तु उत्तरे पथि प्रवेशः स्मृतिप्रामाण्यात् — ‘अष्टाशीतिसहस्राणामृषीणामूर्ध्वरेतसाम्। उत्तरेणार्यम्णः पन्थास्तेऽमृतत्वं हि भेजिरे’ ( ? )इति। तस्मात् ये गृहस्थाः एवम् — अग्निजोऽहम् , अग्न्यपत्यम् — इति, एवम् क्रमेण अग्निभ्यो जातः अग्निरूपः इत्येवम् , ये विदुः, ते च, ये च अमी अरण्ये वानप्रस्थाः परिव्राजकाश्चारण्यनित्याः, श्रद्धां श्रद्धायुक्ताः सन्तः, सत्यं ब्रह्म हिरण्यगर्भात्मानमुपासते, न पुनः श्रद्धां च उपासते, ते सर्वेऽर्चिरभिसम्भवन्ति। यावत् गृहस्थाः पञ्चाग्निविद्यां सत्यं वा ब्रह्म न विदुः, तावत् श्रद्धाद्याहुतिक्रमेण पञ्चम्यामाहुतौ हुतायां ततो योषाग्नेर्जाताः, पुनर्लोकं प्रत्युत्थायिनः अग्निहोत्रादिकर्मानुष्ठातारो भवन्ति ; तेन कर्मणा धूमादिक्रमेण पुनः पितृलोकम् , पुनः पर्जन्यादिक्रमेण इमम् आवर्तन्ते। ततः पुनर्योषाग्नेर्जाताः पुनः कर्म कृत्वा — इत्येवमेव घटीयन्त्रवत् गत्यागतिभ्यां पुनः पुनः आवर्तन्ते। यदा तु एवं विदुः, ततो घटीयन्त्रभ्रमणाद्विनिर्मुक्ताः सन्तः अर्चिरभिसम्भवन्ति ; अर्चिरिति न अग्निज्वालामात्रम् , किं तर्हि अर्चिरभिमानिनी अर्चिःशब्दवाच्या देवता उत्तरमार्गलक्षणा व्यवस्थितैव ; तामभिसम्भवन्ति ; न हि परिव्राजकानाम् अग्न्यर्चिषैव साक्षात्सम्बन्धोऽस्ति ; तेन देवतैव परिगृह्यते अर्चिःशब्दवाच्या। अतः अहर्देवताम् ; मरणकालनियमानुपपत्तेः अहःशब्दोऽपि देवतैव ; आयुषः क्षये हि मरणम् ; न हि एवंविदा अहन्येव मर्तव्यमिति अहः मरणकालो नियन्तुं शक्यते ; न च रात्रौ प्रेताः सन्तः अहः प्रतीक्षन्ते, [‘स यावत्क्षिप्येत्मनस्तावदादित्यं गच्छति’ (छा. उ. ८। ६। ५)](https://advaitasharada.sringeri.net/display/bhashya/Chandogya?page=8&id=Ch_C08_S06_V05&hl=स यावत्क्षिप्येत्मनस्तावदादित्यं गच्छति) इति श्रुत्यन्तरात्। अह्न आपूर्यमाणपक्षम् , अहर्देवतया अतिवाहिता आपूर्यमाणपक्षदेवतां प्रतिपद्यन्ते, शुक्लपक्षदेवतामित्येतत्। आपूर्यमाणपक्षात् यान् षण्मासान् उदङ् उत्तरां दिशम् आदित्यः सविता एति, तान्मासान्प्रतिपद्यन्ते शुक्लपक्षदेवतया अतिवाहिताः सन्तः ; मासानिति बहुवचनात् सङ्घचारिण्यः षट् उत्तरायणदेवताः ; तेभ्यो मासेभ्यः षण्मासदेवताभिरतिवाहिताः देवलोकाभिमानिनीं देवतां प्रतिपद्यन्ते। देवलोकात् आदित्यम् ; आदित्यात् वैद्युतं विद्युदभिमानिनीं देवतां प्रतिपद्यन्ते। विद्युद्देवतां प्राप्तान् ब्रह्मलोकवासी पुरुषः ब्रह्मणा मनसा सृष्टो मानसः कश्चित् एत्य आगत्य ब्रह्मलोकान्गमयति ; ब्रह्मलोकानिति अधरोत्तरभूमिभेदेन भिन्ना इति गम्यन्ते, बहुवचनप्रयोगात् , उपासनतारतम्योपपत्तेश्च। ते तेन पुरुषेण गमिताः सन्तः, तेषु ब्रह्मलोकेषु पराः प्रकृष्टाः सन्तः, स्वयं परावतः प्रकृष्टाः समाः संवत्सराननेकान् वसन्ति, ब्रह्मणोऽनेकान्कल्पान्वसन्तीत्यर्थः। तेषां ब्रह्मलोकं गतानां नास्ति पुनरावृत्तिः अस्मिन्संसारे न पुनरागमनम् , ‘इह’ इति शाखान्तरपाठात् ; इहेति आकृतिमात्रग्रहणमिति चेत् , ‘श्वोभूते पौर्णमासीम्’ ( ? ) इति यद्वत् — न, इहेतिविशेषणानर्थक्यात् , यदि हि नावर्तन्त एव इहग्रहणमनर्थकमेव स्यात् ; ‘श्वोभूते पौर्णमासीम्’ ( ? ) इत्यत्र पौर्णमास्याः श्वोभूतत्वमनुक्तं न ज्ञायत इति युक्तं विशेषयितुम् ; न हि तत्र श्वआकृतिः शब्दार्थो विद्यत इति श्वःशब्दो निरर्थक एव प्रयुज्यते ; यत्र तु विशेषणशब्दे प्रयुक्ते अन्विष्यमाणे विशेषणफलं चेन्न गम्यते, तत्र युक्तो निरर्थकत्वेन उत्स्रष्टुं विशेषणशब्दः ; न तु सत्यां विशेषणफलागतौ। तस्मात् अस्मात्कल्पादूर्ध्वम् आवृत्तिर्गम्यते ॥

अथ ये यज्ञेन दानेन तपसा लोकाञ्जयन्ति ते धूममभिसम्भवन्ति धूमाद्रात्रिं रात्रेरपक्षीयमाणपक्षमपक्षीयमाणपक्षाद्यान्षण्मासान्दक्षिणादित्य एति मासेभ्यः पितृलोकं पितृलोकाच्चन्द्रं ते चन्द्रं प्राप्यान्नं भवन्ति तांस्तत्र देवा यथा सोमं राजानमाप्यायस्वापक्षीयस्वेत्येवमेनांस्तत्र भक्षयन्ति तेषां यदा तत्पर्यवैत्यथेममेवाकाशमभिनिष्पद्यन्त आकाशाद्वायुं वायोर्वृष्टिं वृष्टेः पृथिवीं ते पृथिवीं प्राप्यान्नं भवन्ति ते पुनः पुरुषाग्नौ हूयन्ते ततो योषाग्नौ जायन्ते लोकान्प्रत्युत्थायिनस्य एवमेवानुपरिवर्तन्तेऽथ य एतौ पन्थानौ न विदुस्ते कीटाः पतङ्गा यदिदं दन्दशूकम् ॥ १६ ॥

अथ पुनः ये नैवं विदुः, उत्क्रान्त्याद्यग्निहोत्रसम्बद्धपदार्थषट्कस्यैव वेदितारः केवलकर्मिणः, यज्ञेनाग्निहोत्रादिना, दानेन बहिर्वेदि भिक्षमाणेषु द्रव्यसंविभागलक्षणेन, तपसा बहिर्वेद्येव दीक्षादिव्यतिरिक्तेन कृच्छ्रचान्द्रायणादिना, लोकान् जयन्ति ; लोकानिति बहुवचनात् तत्रापि फलतारतम्यमभिप्रेतम्। ते धूममभिसम्भवन्ति ; उत्तरमार्ग इव इहापि देवता एव धूमादिशब्दवाच्याः, धूमदेवतां प्रतिपद्यन्त इत्यर्थः ; आतिवाहिकत्वं च देवतानां तद्वदेव। धूमात् रात्रिं रात्रिदेवताम् , ततः अपक्षीयमाणपक्षम् अपक्षीयमाणपक्षदेवताम् , ततो यान्षण्मासान् दक्षिणां दिशमादित्य एति तान् मासदेवताविशेषान् प्रतिपद्यन्ते। मासेभ्यः पितृलोकम् , पितृलोकाच्चन्द्रम्। ते चन्द्रं प्राप्य अन्नं भवन्ति ; तान् तत्रान्नभूतान् , यथा सोमं राजानमिह यज्ञे ऋत्विजः आप्यायस्व अपक्षीयस्वेति भक्षयन्ति, एवम् एनान् चन्द्रं प्राप्तान् कर्मिणः भृत्यानिव स्वामिनः भक्षयन्ति उपभुञ्जते देवाः ; ‘आप्यायस्वापक्षीयस्व’ इति न मन्त्रः ; किं तर्हि आप्याय्य आप्याय्य चमसस्थम् , भक्षणेन अपक्षयं च कृत्वा, पुनः पुनर्भक्षयन्तीत्यर्थः ; एवं देवा अपि सोमलोके लब्धशरीरान् कर्मिणः उपकरणभूतान् पुनः पुनः विश्रामयन्तः कर्मानुरूपं फलं प्रयच्छन्तः — तद्धि तेषामाप्यायनं सोमस्य आप्यायनमिव उपभुञ्जते उपकरणभूतान् देवाः। तेषां कर्मिणाम् यदा यस्मिन्काले, तत् यज्ञदानादिलक्षणं सोमलोकप्रापकं कर्म, पर्यवैति परिगच्छति परिक्षीयत इत्यर्थः, अथ तदा इममेव प्रसिद्धमाकाशमभिनिष्पद्यन्ते ; यास्ताः श्रद्धाशब्दवाच्या द्युलोकाग्नौ हुता आपः सोमाकारपरिणताः, याभिः सोमलोके कर्मिणामुपभोगाय शरीरमारब्धम् अम्मयम् , ताः कर्मक्षयात् हिमपिण्ड इवातपसम्पर्कात् प्रविलीयन्ते ; प्रविलीनाः सूक्ष्मा आकाशभूता इव भवन्ति ; तदिदमुच्यते — ‘इममेवाकाशमभिनिष्पद्यन्ते’ इति। ते पुनरपि कर्मिणः तच्छरीराः सन्तः पुरोवातादिना इतश्च अमुतश्च नीयन्ते अन्तरिक्षगाः ; तदाह — आकाशाद्वायुमिति। वायोर्वृष्टिं प्रतिपद्यन्ते ; तदुक्तम् — पर्जन्याग्नौ सोमं राजानं जुह्वतीति। ततो वृष्टिभूता इमां पृथिवीं पतन्ति। ते पृथिवीं प्राप्य व्रीहियवादि अन्नं भवन्ति ; तदुक्तम् — अस्मिंल्लोकेऽग्नौ वृष्टिं जुह्वति तस्या आहुत्या अन्नं सम्भवतीति। ते पुनः पुरुषाग्नौ हूयन्ते अन्नभूता रेतःसिचि ; ततो रेतोभूता योषाग्नौ हूयन्ते ; ततो जायन्ते ; लोकं प्रत्युत्थायिनः ते लोकं प्रत्युत्तिष्ठन्तः अग्निहोत्रादिकर्म अनुतिष्ठन्ति। ततो धूमादिना पुनः पुनः सोमलोकम् , पुनरिमं लोकमिति — ते एवं कर्मिणः अनुपरिवर्तन्ते घटीयन्त्रवत् चक्रीभूता बम्भ्रमतीत्यर्थः, उत्तरमार्गाय सद्योमुक्तये वा यावद्ब्रह्म न विदुः ; [‘इति नु कामयमानः संसरति’ (बृ. उ. ४। ४। ६)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=4&id=BR_C04_S04_V06&hl=इति नु कामयमानः संसरति) इत्युक्तम्। अथ पुनः ये उत्तरं दक्षिणं च एतौ पन्थानौ न विदुः, उत्तरस्य दक्षिणस्य वा पथः प्रतिपत्तये ज्ञानं कर्म वा नानुतिष्ठन्तीत्यर्थः ; ते किं भवन्तीत्युच्यते — ते कीटाः पतङ्गाः, यदिदं यच्चेदं दन्दशूकं दंशमशकमित्येतत् , भवन्ति। एवं हि इयं संसारगतिः कष्टा, अस्यां निमग्नस्य पुनरुद्धार एव दुर्लभः। तथा च श्रुत्यन्तरम् — [‘तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्व म्रियस्व’ (छा. उ. ५। १। ८)](https://advaitasharada.sringeri.net/display/bhashya/Chandogya?page=5&id=Ch_C05_S01_V08&hl=तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्व म्रियस्व) इति। तस्मात्सर्वोत्साहेन यथाशक्ति स्वाभाविककर्मज्ञानहानेन दक्षिणोत्तरमार्गप्रतिपत्तिसाधनं शास्त्रीयं कर्म ज्ञानं वा अनुतिष्ठेदिति वाक्यार्थः ; तथा चोक्तम् — [‘अतो वै खलु दुर्निष्प्रपतरं तस्माज्जुगुप्सेत’ (छा. उ. ५। १०। ६)](https://advaitasharada.sringeri.net/display/bhashya/Chandogya?page=5&id=Ch_C05_S10_V06&hl=अतो वै खलु दुर्निष्प्रपतरं तस्माज्जुगुप्सेत) इति श्रुत्यन्तरात् मोक्षाय प्रयतेतेत्यर्थः। अत्रापि उत्तरमार्गप्रतिपत्तिसाधन एव महान् यत्नः कर्तव्य इति गम्यते, ‘एवमेवानुपरिवर्तन्ते’ इत्युक्तत्वात्। एवं प्रश्नाः सर्वे निर्णीताः ; [‘असौ वै लोकः’ (बृ. उ. ६। २। ९)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=6&id=BR_C06_S02_V09&hl=असौ वै लोकः) इत्यारभ्य [‘पुरुषः सम्भवति’ (बृ. उ. ६। २। १३)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=6&id=BR_C06_S02_V13&hl=पुरुषः सम्भवति) इति चतुर्थः प्रश्नः ‘यतिथ्यामाहुत्याम्’ (बृ. उ. ६। २। २) इत्यादिः प्राथम्येन ; पञ्चमस्तु द्वितीयत्वेन देवयानस्य वा पथः प्रतिपदं पितृयाणस्य वेति दक्षिणोत्तरमार्गप्रतिपत्तिसाधनकथनेन ; तेनैव च प्रथमोऽपि — अग्नेरारभ्य केचिदर्चिः प्रतिपद्यन्ते केचिद्धूममिति विप्रतिपत्तिः ; पुनरावृत्तिश्च द्वितीयः प्रश्नः — आकाशादिक्रमेणेमं लोकमागच्छन्तीति ; तेनैव — असौ लोको न सम्पूर्यते कीटपतङ्गादिप्रतिपत्तेश्च केषाञ्चिदिति, तृतीयोऽपि प्रश्नो निर्णीतः ॥

इति षष्ठाध्यायस्य द्वितीयं ब्राह्मणम् ॥