ओं यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च श्रेष्ठश्च स्वानां भवति प्राणो वै ज्येष्ठश्च श्रेष्ठश्च ज्येष्ठश्च श्रेष्ठश्च स्वानां भवत्यपि च येषां बुभूषति य एवं वेद ॥ १ ॥
ओं प्राणो गायत्रीत्युक्तम्। कस्मात्पुनः कारणात् प्राणभावः गायत्र्याः, न पुनर्वागादिभाव इति, यस्मात् ज्येष्ठश्च श्रेष्ठश्च प्राणः, न वागादयो ज्यैष्ठ्यश्रैष्ठ्यभाजः ; कथं ज्येष्ठत्वं श्रेष्ठत्वं च प्राणस्येति तन्निर्दिधारयिषया इदमारभ्यते। अथवा उक्थयजुःसामक्षत्त्रादिभावैः प्राणस्यैव उपासनमभिहितम् , सत्स्वपि अन्येषु चक्षुरादिषु ; तत्र हेतुमात्रमिह आनन्तर्येण सम्बध्यते ; न पुनः पूर्वशेषता। विवक्षितं तु खिलत्वादस्य काण्डस्य पूर्वत्र यदनुक्तं विशिष्टफलं प्राणविषयमुपासनं तद्वक्तव्यमिति। यः कश्चित् , ह वै इत्यवधारणार्थौ ; यो ज्येष्ठश्रेष्ठगुणं वक्ष्यमाणं यो वेद असौ भवत्येव ज्येष्ठश्च श्रेष्ठश्च ; एवं फलेन प्रलोभितः सन् प्रश्नाय अभिमुखीभूतः ; तस्मै चाह — प्राणो वै ज्येष्ठश्च श्रेष्ठश्च। कथं पुनरवगम्यते प्राणो ज्येष्ठश्च श्रेष्ठश्चेति, यस्मात् निषेककाल एव शुक्रशोणितसम्बन्धः प्राणादिकलापस्याविशिष्टः ? तथापि न अप्राणं शुक्रं विरोहतीति प्रथमो वृत्तिलाभः प्राणस्य चक्षुरादिभ्यः ; अतो ज्येष्ठो वयसा प्राणः ; निषेककालादारभ्य गर्भं पुष्यति प्राणः ; प्राणे हि लब्धवृत्तौ पश्चाच्चक्षुरादीनां वृत्तिलाभः ; अतो युक्तं प्राणस्य ज्येष्ठत्वं चक्षुरादिषु ; भवति तु कश्चित्कुले ज्येष्ठः, गुणहीनत्वात्तु न श्रेष्ठः ; मध्यमः कनिष्ठो वा गुणाढ्यत्वात् भवेत् श्रेष्ठः, न ज्येष्ठः ; न तु तथा इहेत्याह — प्राण एव तु ज्येष्ठश्च श्रेष्ठश्च। कथं पुनः श्रैष्ठ्यमवगम्यते प्राणस्य ? तदिह संवादेन दर्शयिष्यामः। सर्वथापि तु प्राणं ज्येष्ठश्रेष्ठगुणं यो वेद उपास्ते, स स्वानां ज्ञातीनां ज्येष्ठश्च श्रेष्ठश्च भवति, ज्येष्ठश्रेष्ठगुणोपासनसामर्थ्यात् ; स्वव्यतिरेकेणापि च येषां मध्ये ज्येष्ठश्च श्रेष्ठश्च भविष्यामीति बुभूषति भवितुमिच्छति, तेषामपि ज्येष्ठश्रेष्ठप्राणदर्शी ज्येष्ठश्च श्रेष्ठश्च भवति। ननु वयोनिमित्तं ज्येष्ठत्वम् , तत् इच्छातः कथं भवतीत्युच्यते — नैष दोषः, प्राणवत् वृत्तिलाभस्यैव ज्येष्ठत्वस्य विवक्षितत्वात् ॥
यो ह वै वसिष्ठां वेद वसिष्ठः स्वानां भवति वाग्वै वसिष्ठा वसिष्ठः स्वानां भवत्यपि च येषां बुभूषति य एवं वेद ॥ २ ॥
यो ह वै वसिष्ठां वेद वसिष्ठः स्वानां भवति। तद्दर्शनानुरूप्येण फलम्। येषां च ज्ञातिव्यतिरेकेण वसिष्ठो भवितुमिच्छति, तेषां च वसिष्ठो भवति। उच्यतां तर्हि, कासौ वसिष्ठेति ; वाग्वै वसिष्ठा ; वासयत्यतिशयेन वस्ते वेति वसिष्ठा ; वाग्ग्मिनो हि धनवन्तो वसन्त्यतिशयेन ; आच्छादनार्थस्य वा वसेर्वसिष्ठा ; अभिभवन्ति हि वाचा वाग्ग्मिनः अन्यान्। तेन वसिष्ठगुणवत्परिज्ञानात् वसिष्ठगुणो भवतीति दर्शनानुरूपं फलम् ॥
यो ह वै प्रतिष्ठां वेद प्रतितिष्ठति समे प्रतितिष्ठति दुर्गे चक्षुर्वै प्रतिष्ठा चक्षुषा हि समे च दुर्गे च प्रतितिष्ठति प्रतितिष्ठति समे प्रतितिष्ठति दुर्गे य एवं वेद ॥ ३ ॥
यो ह वै प्रतिष्ठां वेद, प्रतितिष्ठत्यनयेति प्रतिष्ठा, तां प्रतिष्ठां प्रतिष्ठागुणवतीं यो वेद, तस्य एतत्फलम् ; प्रतितिष्ठति समे देशे काले च ; तथा दुर्गे विषमे च दुर्गमने च देशे दुर्भिक्षादौ वा काले विषमे। यद्येवमुच्यताम् , कासौ प्रतिष्ठा ; चक्षुर्वै प्रतिष्ठा ; कथं चक्षुषः प्रतिष्ठात्वमित्याह — चक्षुषा हि समे च दुर्गे च दृष्ट्वा प्रतितिष्ठति। अतोऽनुरूपं फलम् , प्रतितिष्ठति समे, प्रतितिष्ठति दुर्गे, य एवं वेदेति ॥
यो ह वै सम्पदं वेद सं हास्मै पद्यते यं कामं कामयते श्रोत्रं वै सम्पच्छ्रोत्रे हीमे सर्वे वेदा अभिसम्पन्नाः सं हास्मै पद्यते यं कामं कामयते य एवं वेद ॥ ४ ॥
यो ह वै सम्पदं वेद, सम्पद्गुणयुक्तं यो वेद, तस्य एतत्फलम् ; अस्मै विदुषे सम्पद्यते ह ; किम् ? यं कामं कामयते, स कामः। किं पुनः सम्पद्गुणकम् ? श्रोत्रं वै सम्पत्। कथं पुनः श्रोत्रस्य सम्पद्गुणत्वमित्युच्यते — श्रोत्रे सति हि यस्मात् सर्वे वेदा अभिसम्पन्नाः, श्रोत्रेन्द्रियवतोऽध्येयत्वात् ; वेदविहितकर्मायत्ताश्च कामाः ; तस्मात् श्रोत्रं सम्पत्। अतो विज्ञानानुरूपं फलम् , सं हास्मै पद्यते, यं कामं कामयते, य एवं वेद ॥
यो ह वा आयतनं वेदायतनं स्वानां भवत्यायतनं जनानां मनो वा आयतनमायतनं स्वानां भवत्यायतनं जनानां य एवं वेद ॥ ५ ॥
यो ह वा आयतनं वेद ; आयतनम् आश्रयः, तत् यो वेद, आयतनं स्वानां भवति, आयतनं जनानामन्येषामपि। किं पुनः तत् आयतनमित्युच्यते — मनो वै आयतनम् आश्रयः इन्द्रियाणां विषयाणां च ; मनआश्रिता हि विषया आत्मनो भोग्यत्वं प्रतिपद्यन्ते ; मनःसङ्कल्पवशानि च इन्द्रियाणि प्रवर्तन्ते निवर्तन्ते च ; अतो मन आयतनम् इन्द्रियाणाम्। अतो दर्शनानुरूप्येण फलम् , आयतनं स्वानां भवति, आयतनं जनानाम् , य एवं वेद ॥
यो ह वै प्रजातिं वेद प्रजायते ह प्रजया पशुभी रेतो वै प्रजातिः प्रजायते ह प्रजया पशुभिर्य एवं वेद ॥ ६ ॥
यो ह वै प्रजातिं वेद, प्रजायते ह प्रजया पशुभिश्च सम्पन्नो भवति। रेतो वै प्रजातिः ; रेतसा प्रजननेन्द्रियमुपलक्ष्यते। तद्विज्ञानानुरूपं फलम् , प्रजायते ह प्रजया पशुभिः, य एवं वेद ॥
ते हेमे प्राणा अहंश्रेयसे विवदमाना ब्रह्म जग्मुस्तद्धोचुः को नो वसिष्ठ इति तद्धोवाच यस्मिन्व उत्क्रान्त इदं शरीरं पापीयो मन्यते स वो वसिष्ठ इति ॥ ७ ॥
ते हेमे प्राणा वागादयः, अहंश्रेयसे अहं श्रेयानित्येतस्मै प्रयोजनाय, विवदमानाः विरुद्धं वदमानाः, ब्रह्म जग्मुः ब्रह्म गतवन्तः, ब्रह्मशब्दवाच्यं प्रजापतिम् ; गत्वा च तद्ब्रह्म ह ऊचुः उक्तवन्तः — कः नः अस्माकं मध्ये, वसिष्ठः, कोऽस्माकं मध्ये वसति च वासयति च। तद्ब्रह्म तैः पृष्टं सत् ह उवाच उक्तवत् — यस्मिन् वः युष्माकं मध्ये उत्क्रान्ते निर्गते शरीरात् , इदं शरीरं पूर्वस्मादतिशयेन पापीयः पापतरं मन्यते लोकः ; शरीरं हि नाम अनेकाशुचिसङ्घातत्वात् जीवतोऽपि पापमेव, ततोऽपि कष्टतरं यस्मिन् उत्क्रान्ते भवति ; वैराग्यार्थमिदमुच्यते — पापीय इति ; स वः युष्माकं मध्ये वसिष्ठो भविष्यति। जानन्नपि वसिष्ठं प्रजापतिः नोवाच अयं वसिष्ठ इति इतरेषाम् अप्रियपरिहाराय ॥
वाग्घोच्चक्राम सा संवत्सरं प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति ते होचुर्यथाकला अवदन्तो वाचा प्राणन्तः प्राणेन पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण विद्वांसो मनसा प्रजायमाना रेतसैवमजीविष्मेति प्रविवेश ह वाक् ॥ ८ ॥
ते एवमुक्ता ब्रह्मणा प्राणाः आत्मनो वीर्यपरीक्षणाय क्रमेण उच्चक्रमुः। तत्र वागेव प्रथमं ह अस्मात् शरीरात् उच्चक्राम उत्क्रान्तवती ; सा चोत्क्रम्य, संवत्सरं प्रोष्य प्रोषिता भूत्वा, पुनरागत्योवाच — कथम् अशकत शक्तवन्तः यूयम् , मदृते मां विना, जीवितुमिति। ते एवमुक्ताः ऊचुः — यथा लोके अकलाः मूकाः, अवदन्तः वाचा, प्राणन्तः प्राणनव्यापारं कुर्वन्तः प्राणेन, पश्यन्तः दर्शनव्यापारं चक्षुषा कुर्वन्तः, तथा शृण्वन्तः श्रोत्रेण, विद्वांसः मनसा कार्याकार्यादिविषयम् , प्रजायमानाः रेतसा पुत्रान् उत्पादयन्तः, एवमजीविष्म वयम् — इत्येवं प्राणैः दत्तोत्तरा वाक् आत्मनः अस्मिन् अवसिष्ठत्वं बुद्ध्वा, प्रविवेश ह वाक् ॥
चक्षुर्होच्चक्राम तत्संवत्सरं प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति ते होचुर्यथान्धा अपश्यन्तश्चक्षुषा प्राणन्तः प्राणेन वदन्तो वाचा शृण्वन्तः श्रोत्रेण विद्वांसो मनसा प्रजायमाना रेतसैवमजीविष्मेति प्रविवेश ह चक्षुः ॥ ९ ॥
श्रोत्रं होच्चक्राम तत्संवत्सरं प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति ते होचुर्यथा बधिरा अशृण्वन्तः श्रोत्रेण प्राणान्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा विद्वांसो मनसा प्रजायमाना रेतसैवमजीविष्मेति प्रविवेश ह श्रोत्रम् ॥ १० ॥
मनो होच्चक्राम तत्संवत्सरं प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति ते होचुर्यथा मुग्धा अविद्वांसो मनसा प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण प्रजायमाना रेतसैवमजीविष्मेति प्रविवेश ह मनः ॥ ११ ॥
रेतो होच्चक्राम तत्संवत्सरं प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति ते होचुर्यथा क्लीबा अप्रजायमाना रेतसा प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण विद्वांसो मनसैवमजीविष्मेति प्रविवेश ह रेतः ॥ १२ ॥
तथा चक्षुर्होच्चक्रामेत्यादि पूर्ववत्। श्रोत्रं मनः प्रजातिरिति ॥
अथ ह प्राण उत्क्रमिष्यन्यथा महासुहयः सैन्धवः पड्वीशशङ्कून्संवृहेदेवं हैवेमान्प्राणान्संववर्ह ते होचुर्मा भगव उत्क्रमीर्न वै शक्ष्यामस्त्वदृते जीवितुमिति तस्यो मे बलिं कुरुतेति तथेति ॥ १३ ॥
अथ ह प्राण उत्क्रमिष्यन् उत्क्रमणं करिष्यन् ; तदानीमेव स्वस्थानात्प्रचलिता वागादयः। किमिवेत्याह — यथा लोके, महांश्चासौ सुहयश्च महासुहयः, शोभनो हयः लक्षणोपेतः, महान् परिमाणतः, सिन्धुदेशे भवः सैन्धवः अभिजनतः, पड्वीशशङ्कून् पादबन्धनशङ्कून् , पड्वीशाश्च ते शङ्कवश्च तान् , संवृहेत् उद्यच्छेत् युगपदुत्खनेत् अश्वारोहे आरूढे परीक्षणाय ; एवं ह एव इमान् वागादीन् प्राणान् संववर्ह उद्यतवान् स्वस्थानात् भ्रंशितवान्। ते वागादयः ह ऊचुः — हे भगवः भगवन् मा उत्क्रमीः ; यस्मात् न वै शक्ष्यामः त्वदृते त्वां विना जीवितुमिति। यद्येवं मम श्रेष्ठता विज्ञाता भवद्भिः, अहमत्र श्रेष्ठः, तस्य उ मे मम बलिं करं कुरुत करं प्रयच्छतेति। अयं च प्राणसंवादः कल्पितः विदुषः श्रेष्ठपरीक्षणप्रकारोपदेशः ; अनेन हि प्रकारेण विद्वान् को नु खलु अत्र श्रेष्ठ इति परीक्षणं करोति ; स एष परीक्षणप्रकारः संवादभूतः कथ्यते ; न हि अन्यथा संहत्यकारिणां सताम् एषाम् अञ्जसैव संवत्सरमात्रमेव एकैकस्य निर्गमनादि उपपद्यते ; तस्मात् विद्वानेव अनेन प्रकारेण विचारयति वागादीनां प्रधानबुभुत्सुः उपासनाय ; बलिं प्रार्थिताः सन्तः प्राणाः, तथेति प्रतिज्ञातवन्तः ॥
सा ह वागुवाच यद्वा अहं वसिष्ठास्मि त्वं तद्वसिष्ठोऽसीति यद्वा अहं प्रतिष्ठास्मि त्वं तत्प्रतिष्ठोऽसीति चक्षुर्यद्वा अहं सम्पदस्मि त्वं तत्सम्पदसीति श्रोत्रं यद्वा अहमायतनमस्मि त्वं तदायतनमसीति मनो यद्वा अहं प्रजातिरस्मि त्वं तत्प्रजातिरसीति रेतस्तस्यो मे किमन्नं किं वास इति यदिदं किञ्चाश्वभ्य आ कृमिभ्य आ कीटपतङ्गेभ्यस्तत्तेऽन्नमापो वास इति न ह वा अस्यानन्नं जग्धं भवति नानन्नं प्रतिगृहीतं य एवमेतदनस्यान्नं वेद तद्विद्वांसः श्रोत्रिया अशिष्यन्त आचामन्त्यशित्वाचामन्त्येतमेव तदनमनग्नं कुर्वन्तो मन्यन्ते ॥ १४ ॥
सा ह वाक् प्रथमं बलिदानाय प्रवृत्ता ह किल उवाच उक्तवती — यत् वै अहं वसिष्ठास्मि, यत् मम वसिष्ठत्वम् , तत् तवैव ; तेन वसिष्ठगुणेन त्वं तद्वसिष्ठोऽसीति। यत् वै अहं प्रतिष्ठास्मि, त्वं तत्प्रतिष्ठोऽसि, या मम प्रतिष्ठा सा त्वमसीति चक्षुः। समानम् अन्यत्। सम्पदायतनप्रजातित्वगुणान् क्रमेण समर्पितवन्तः। यद्येवम् , साधु बलिं दत्तवन्तो भवन्तः ; ब्रूत — तस्य उ मे एवंगुणविशिष्टस्य किमन्नम् , किं वास इति ; आहुरितरे — यदिदं लोके किञ्च किञ्चित् अन्नं नाम आ श्वभ्यः आ कृमिभ्यः आ कीटपतङ्गेभ्यः, यच्च श्वान्नं कृम्यन्नं कीटपतङ्गान्नं च, तेन सह सर्वमेव यत्किञ्चित् प्राणिभिरद्यमानम् अन्नम् , तत्सर्वं तवान्नम्। सर्वं प्राणस्यान्नमिति दृष्टिः अत्र विधीयते ॥
केचित्तु सर्वभक्षणे दोषाभावं वदन्ति प्राणान्नविदः ; तत् असत् , शास्त्रान्तरेण प्रतिषिद्धत्वात्। तेनास्य विकल्प इति चेत् , न, अविधायकत्वात्। न ह वा अस्यानन्नं जग्धं भवतीति — सर्वं प्राणस्यान्नमित्येतस्य विज्ञानस्य विहितस्य स्तुत्यर्थमेतत् ; तेनैकवाक्यतापत्तेः ; न तु शास्त्रान्तरविहितस्य बाधने सामर्थ्यम् , अन्यपरत्वादस्य। प्राणमात्रस्य सर्वमन्नम् इत्येतदृर्शनम् इह विधित्सितम् , न तु सर्वं भक्षयेदिति। यत्तु सर्वभक्षणे दोषाभावज्ञानम् , तत् मिथ्यैव, प्रमाणाभावात्। विदुषः प्राणत्वात् सर्वान्नोपपत्तेः सामर्थ्यात् अदोष एवेति चेत् , न, अशेषान्नत्वानुपपत्तेः ; सत्यं यद्यपि विद्वान् प्राणः, येन कार्यकरणसङ्घातेन विशिष्टस्य विद्वत्ता तेन कार्यकरणसङ्घातेन कृमिकीटदेवाद्यशेषान्नभक्षणं नोपपद्यते ; तेन तत्र अशेषान्नभक्षणे दोषाभावज्ञापनमनर्थकम् , अप्राप्तत्वादशेषान्नभक्षणदोषस्य। ननु प्राणः सन् भक्षयत्येव कृमिकीटाद्यन्नमपि ; बाढम् , किन्तु न तद्विषयः प्रतिषेधोऽस्ति ; तस्मात् — दैवरक्तं किंशुकम् — तत्र दोषाभावः ; अतः तद्रूपेण दोषाभावज्ञापनमनर्थकम् , अप्राप्तत्वात् अशेषान्नभक्षणदोषस्य। येन तु कार्यकरणसङ्घातसम्बन्धेन प्रतिषेधः क्रियते, तत्सम्बन्धेन तु इह नैव प्रतिप्रसवोऽस्ति। तस्मात् तत्प्रतिषेधातिक्रमे दोष एव स्यात् , अन्यविषयत्वात् ‘न ह वै’ इत्यादेः। न च ब्राह्मणादिशरीरस्य सर्वान्नत्वदर्शनमिह विधीयते, किन्तु प्राणमात्रस्यैव। यथा च सामान्येन सर्वान्नस्य प्राणस्य किञ्चित् अन्नजातं कस्यचित् जीवनहेतुः, यथा विषं विषजस्य क्रिमेः, तदेव अन्यस्य प्राणान्नमपि सत् दृष्टमेव दोषमुत्पादयति मरणादिलक्षणम् — तथा सर्वान्नस्यापि प्राणस्य प्रतिषिद्धान्नभक्षणे ब्राह्मणत्वादिदेहसम्बन्धात् दोष एव स्यात्। तस्मात् मिथ्याज्ञानमेव अभक्ष्यभक्षणे दोषाभावज्ञानम् ॥
आपो वास इति ; आपः भक्ष्यमाणाः वासःस्थानीयास्तव। अत्र च प्राणस्य आपो वास इत्येतद्दर्शनं विधीयते ; न तु वासःकार्ये आपो विनियोक्तुं शक्याः ; तस्मात् यथाप्राप्ते अब्भक्षणे दर्शनमात्रं कर्तव्यम्। न ह वै अस्य सर्वं प्राणस्यान्नमित्येवंविदः अनन्नम् अनदनीयं जग्धं भुक्तं न भवति ह ; यद्यपि अनेन अनदनीयं भुक्तम् , अदनीयमेव भुक्तं स्यात् , न तु तत्कृतदोषेण लिप्यते — इत्येतत् विद्यास्तुतिरित्यवोचाम। तथा न अनन्नं प्रतिगृहीतम् ; यद्यपि अप्रतिग्राह्यं हस्त्यादि प्रतिगृहीतं स्यात् तदपि अन्नमेव प्रतिग्राह्यं प्रतिगृहीतं स्यात् , तत्रापि अप्रतिग्राह्यप्रतिग्रहदोषेण न लिप्यत इति स्तुत्यर्थमेव ; य एवम् एतत् अनस्य प्राणस्य अन्नं वेद ; फलं तु प्राणात्मभाव एव ; न त्वेतत् फलाभिप्रायेण, किं तर्हि स्तुत्यभिप्रायेणेति। ननु एतदेव फलं कस्मान्न भवति ? न, प्राणात्मदर्शिनः प्राणात्मभाव एव फलम् ; तत्र च प्राणात्मभूतस्य सर्वात्मनः अनदनीयमपि आद्यमेव, तथा अप्रतिग्राह्यमपि प्रतिग्राह्यमेव — इति यथाप्राप्तमेव उपादाय विद्या स्तूयते ; अतो नैव फलविधिसरूपता वाक्यस्य। यस्मात् आपो वासः प्राणस्य, तस्मात् विद्वांसः ब्राह्मणाः श्रोत्रिया अधीतवेदाः, अशिष्यन्तः भोक्ष्यमाणाः, आचामन्ति अपः ; अशित्वा आचामन्ति भुक्त्वा च उत्तरकालम् अपः भक्षयन्ति ; तत्र तेषामाचामतां कोऽभिप्राय इत्याह — एतमेवानं प्राणम् अनग्नं कुर्वन्तो मन्यन्ते ; अस्ति चैतत् — यो यस्मै वासो ददाति, स तम् अनग्नं करोमीति हि मन्यते ; प्राणस्य च आपो वास इति ह्युक्तम्। यदपः पिबामि तत्प्राणस्य वासो ददामि इति विज्ञानं कर्तव्यमित्येवमर्थमेतत्। ननु भोक्ष्यमाणः भुक्तवांश्च प्रयतो भविष्यामीत्याचामति ; तत्र च प्राणस्यानग्नताकरणार्थत्वे च द्विकार्यता आचमनस्य स्यात् ; न च कार्यद्वयम् आचमनस्य एकस्य युक्तम् ; यदि प्रायत्यार्थम् , न अनग्नतार्थम् ; अथ अनग्नतार्थम् , न प्रायत्यार्थम् ; यस्मादेवम् , तस्मात् द्वितीयम् आचमनान्तरं प्राणस्यानग्नताकरणाय भवतु — न, क्रियाद्वित्वोपपत्तेः ; द्वे ह्येते क्रिये ; भोक्ष्यमाणस्य भुक्तवतश्च यत् आचमनं स्मृतिविहितम् , तत् प्रायत्यार्थं भवति क्रियामात्रमेव ; न तु तत्र प्रायत्यं दर्शनादि अपेक्षते ; तत्र च आचमनाङ्गभूतास्वप्सु वासोविज्ञानं प्राणस्य इतिकर्तव्यतया चोद्यते ; न तु तस्मिन्क्रियमाणे आचमनस्य प्रायत्यार्थता बाध्यते, क्रियान्तरत्वादाचमनस्य। तस्मात् भोक्ष्यमाणस्य भुक्तवतश्च यत् आचमनम् , तत्र आपो वासः प्राणस्येति दर्शनमात्रं विधीयते, अप्राप्तत्वादन्यतः ॥
इति षष्ठाध्यायस्य प्रथमं ब्राह्मणम् ॥