14

भूमिरन्तरिक्षं द्यौरित्यष्टावक्षराण्यष्टाक्षरं ह वा एकं गायत्र्यै पदमेतदु हैवास्या एतत्स यावदेषु त्रिषु लोकेषु तावद्धजयति योऽस्या एतदेवं पदं वेद ॥ १ ॥

ब्रह्मणो हृदयाद्यनेकोपाधिविशिष्टस्य उपासनमुक्तम् ; अथ इदानीं गायत्र्युपाधिविशिष्टस्य उपासनं वक्तव्यमित्यारभ्यते। सर्वच्छन्दसां हि गायत्रीछन्दः प्रधानभूतम् ; तत्प्रयोक्तृगयत्राणात् गायत्रीति वक्ष्यति ; न च अन्येषां छन्दसां प्रयोक्तृप्राणत्राणसामर्थ्यम् ; प्राणात्मभूता च सा ; सर्वच्छन्दसां च आत्मा प्राणः ; प्राणश्च क्षतत्राणात् क्षत्त्रमित्युक्तम् ; प्राणश्च गायत्री ; तस्मात् तदुपासनमेव विधित्स्यते ; द्विजोत्तमजन्महेतुत्वाच्च — ‘गायत्र्या ब्राह्मणमसृजत त्रिष्टुभा राजन्यं जगत्या वैश्यम्’ ( ? ) इति द्विजोत्तमस्य द्वितीयं जन्म गायत्रीनिमित्तम् ; तस्मात् प्रधाना गायत्री ; [‘ब्रह्मणा व्युत्थाय ब्राह्मणा अभिवदन्ति, स ब्राह्मणो विपापो विरजोऽविचिकित्सो ब्राह्मणो भवति’ (बृ. उ. ३। ५। १)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=3&id=BR_C03_S05_V01&hl=ब्रह्मणा व्युत्थाय ब्राह्मणा अभिवदन्ति, स ब्राह्मणो विपापो विरजोऽविचिकित्सो ब्राह्मणो भवति), [(बृ. उ. ३। ८। ८)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=3&id=BR_C03_S08_V08&hl=(बृ. उ. ३। ८। ८)), [(बृ. उ. ३। ८। १०)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=3&id=BR_C03_S08_V10&hl=(बृ. उ. ३। ८। १०)), [(बृ. उ. ४। ४। २३)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=4&id=BR_C04_S04_V23&hl=(बृ. उ. ४। ४। २३)) इत्युत्तमपुरुषार्थसम्बन्धं ब्राह्मणस्य दर्शयति ; तच्च ब्राह्मणत्वं गायत्रीजन्ममूलम् ; अतो वक्तव्यं गायत्र्याः सतत्त्वम्। गायत्र्या हि यः सृष्टो द्विजोत्तमः निरङ्कुश एव उत्तमपुरुषार्थसाधने अधिक्रियते ; अतः तन्मूलः परमपुरुषार्थसम्बन्धः। तस्मात् तदुपासनविधानाय आह — भूमिरन्तरिक्षं द्यौरित्येतानि अष्टावक्षराणि ; अष्टाक्षरम् अष्ठावक्षराणि यस्य तत् इदमष्टाक्षरम् ; ह वै प्रसिद्धावद्योतकौ ; एकं प्रथमम् , गायत्र्यै गायत्र्याः, पदम् ; यकारेणैव अष्टत्वपूरणम्। एतत् उ ह एव एतदेव अस्या गायत्र्याः पदं पादः प्रथमः भूम्यादिलक्षणः त्रैलोक्यात्मा, अष्टाक्षरत्वसामान्यात्। एवम् एतत् त्रैलोक्यात्मकं गायत्र्याः प्रथमं पदं यो वेद, तस्यैतत्फलम् — स विद्वान् यावत्किञ्चित् एषु त्रिषु लोकेषु जेतव्यम् , तावत्सर्वं ह जयति, यः अस्यै एतदेवं पदं वेद ॥

ऋचो यजूंषि सामानीत्यष्टावक्षराण्यष्टाक्षरं ह वा एकं गायत्र्यै पदमेतदु हैवास्या एतत्स यावतीयं त्रयी विद्या तावद्ध जयति योऽस्या एतदेवं पदं वेद ॥ २ ॥

तथा ऋचः यजूंषि सामानीति त्रयीविद्यानामाक्षराणि एतान्यपि अष्टावेव ; तथैव अष्टाक्षरं ह वै एकं गायत्र्यै पदं द्वितीयम् , एतत् उ ह एव अस्या एतत् ऋग्यजुःसामलक्षणम् अष्टाक्षरत्वसामान्यादेव। सः यावती इयं त्रयी विद्या त्रय्या विद्यया यावत्फलजातम् आप्यते, तावत् ह जयति, योऽस्या एतत् गायत्र्याः त्रैविद्यलक्षणं पदं वेद ॥

प्राणोऽपानो व्यान इत्यष्टावक्षराण्यष्टाक्षरं ह वा एकं गायत्र्यै पदमेतदु हैवास्या एतत्स यावदिदं प्राणि तावद्ध जयति योऽस्या एतदेवं पदं वेदाथास्या एतदेव तुरीयं दर्शतं पदं परोरजा य एषतपति यद्वै चतुर्थं तत्तुरीयं दर्शतं पदमिति ददृश इव ह्येष परोरजा इति सर्वमु ह्येवैष रज उपर्युपरि तपत्येवं हैव श्रिया यशसा तपति योऽस्या एतदेवं पदं वेद ॥ ३ ॥

तथा प्राणः अपानः व्यानः एतान्यपि प्राणाद्यभिधानाक्षराणि अष्टौ ; तच्च गायत्र्यास्तृतीयं पदम् ; यावदिदं प्राणिजातम् , तावत् ह जयति, योऽस्या एतदेवं गायत्र्यास्तृतीयं पदं वेद। अथ अनन्तरं गायत्र्यास्त्रिपदायाः शब्दात्मिकायास्तुरीयं पदमुच्यते अभिधेयभूतम् , अस्याः प्रकृताया गायत्र्याः एतदेव वक्ष्यमाणं तुरीयं दर्शतं पदं परोरजा य एष तपति ; तुरीयमित्यादिवाक्यपदार्थं स्वयमेव व्याचष्टे श्रुतिः — यद्वै चतुर्थं प्रसिद्धं लोके, तदिह तुरीयशब्देनाभिधीयते ; दर्शतं पदमित्यस्य कोऽर्थ इत्युच्यते — ददृशे इव दृश्यते इव हि एषः मण्डलान्तर्गतः पुरुषः ; अतो दर्शतं पदमुच्यते ; परोरजा इत्यस्य पदस्य कोऽर्थ इत्युच्यते — सर्वं समस्तम् उ हि एव एषः मण्डलस्थः पुरुषः रजः रजोजातं समस्तं लोकमित्यर्थः, उपर्युपरि आधिपत्यभावेन सर्वं लोकं रजोजातं तपति ; उपर्युपरीति वीप्सा सर्वलोकाधिपत्यख्यापनार्था ; ननु सर्वशब्देनैव सिद्धत्वात् वीप्सा अनर्थिका — नैष दोषः ; येषाम् उपरिष्टात् सविता दृश्यते तद्विषय एव सर्वशब्दः स्यादित्याशङ्कानिवृत्त्यर्था वीप्सा, [‘ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे देवकामानां च’ (छा. उ. १। ६। ८)](https://advaitasharada.sringeri.net/display/bhashya/Chandogya?page=1&id=Ch_C01_S06_V08&hl=ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे देवकामानां च) इति श्रुत्यन्तरात् ; तस्मात् सर्वावरोधार्था वीप्सा ; यथा असौ सविता सर्वाधिपत्यलक्षणया श्रिया यशसा च ख्यात्या तपति, एवं हैव श्रिया यशसा च तपति, योऽस्या एतदेवं तुरीयं दर्शतं पदं वेद ॥

सैषा गायत्र्येतस्मिंस्तुरीये दर्शते पदे परोरजसि प्रतिष्ठिता तद्वै तत्सत्ये प्रतिष्ठितं चक्षुर्वै सत्यं चक्षुर्हि वै सत्यं तस्माद्यदिदानीं द्वौ विवदमानावेयातामहमदर्शमहमश्रौषमिति य एवं ब्रूयादहमदर्शमिति तस्मा एव श्रद्दध्याम तद्वै तत्सत्यं बले प्रतिष्ठितं प्राणो वै बलं तत्प्राणे प्रतिष्ठितं तस्मादाहुर्बलं सत्यादोगीय इत्येवंवेषा गायत्र्यध्यात्मं प्रतिष्ठिता सा हैषा गयांस्तत्रे प्राणा वै गयास्तत्प्राणांस्तत्रे तद्यद्गयांस्तत्रे तस्माद्गायत्री नाम स यामेवामूं सावित्रीमन्वाहैषैव सा स यस्मा अन्वाह तस्य प्राणांस्त्रायते ॥ ४ ॥

सैषा त्रिपदा उक्ता या त्रैलोक्यत्रैविद्यप्राणलक्षणा गायत्री एतस्मिन् चतुर्थे तुरीये दर्शते पदे परोरजसि प्रतिष्ठिता, मूर्तामूर्तरसत्वात् आदित्यस्य ; रसापाये हि वस्तु नीरसम् अप्रतिष्ठितं भवति, यथा काष्ठादि दग्धसारम् , तद्वत् ; तथा मूर्तामूर्तात्मकं जगत् त्रिपदा गायत्री आदित्ये प्रतिष्ठिता तद्रसत्वात् सह त्रिभिः पादैः ; तद्वै तुरीयं पदं सत्ये प्रतिष्ठितम् ; किं पुनः तत् सत्यमित्युच्यते — चक्षुर्वै सत्यम्। कथं चक्षुः सत्यमित्याह — प्रसिद्धमेतत् , चक्षुर्हि वै सत्यम्। कथं प्रसिद्धतेत्याह — तस्मात् — यत् यदि इदानीमेव द्वौ विवदमानौ विरुद्धं वदमानौ एयाताम् आगच्छेयाताम् ; अहम् अदर्शं दृष्टवानस्मीति अन्य आह ; अहम् अश्रौषम् — त्वया दृष्टं न तथा तद्वस्त्विति ; तयोः य एवं ब्रूयात् — अहमद्राक्षमिति, तस्मै एव श्रद्दध्याम ; न पुनः यः ब्रूयात् अहमश्रौषमिति ; श्रोतुः मृषा श्रवणमपि सम्भवति ; न तु चक्षुषो मृषा दर्शनम् ; तस्मात् न अश्रौषमित्युक्तवते श्रद्दध्याम ; तस्मात् सत्यप्रतिपत्तिहेतुत्वात् सत्यं चक्षुः ; तस्मिन् सत्ये चक्षुषि सह त्रिभिः इतरैः पादैः तुरीयं पदं प्रतिष्ठितमित्यर्थः। उक्तं च [‘स आदित्यः कस्मिन्प्रतिष्ठित इति चक्षुषीति’ (बृ. उ. ३। ९। २०)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=3&id=BR_C03_S09_V20&hl=स आदित्यः कस्मिन्प्रतिष्ठित इति चक्षुषीति)। तद्वै तुरीयपदाश्रयं सत्यं बले प्रतिष्ठितम् ; किं पुनः तत् बलमित्याह — प्राणो वै बलम् ; तस्मिन्प्राणे बले प्रतिष्ठितं सत्यम्। तथा चोक्तम् — [‘सूत्रे तदोतं च प्रोतं च’ (बृ. उ. ३। ७। २)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=3&id=BR_C03_S07_V02&hl=सूत्रे तदोतं च प्रोतं च) इति। यस्मात् बले सत्यं प्रतिष्ठितम् , तस्मादाहुः — बलं सत्यादोगीयः ओजीयः ओजस्तरमित्यर्थः ; लोकेऽपि यस्मिन्हि यदाश्रितं भवति, तस्मादाश्रितात् आश्रयस्य बलवत्तरत्वं प्रसिद्धम् ; न हि दुर्बलं बलवतः क्वचित् आश्रयभूतं दृष्टम् ; एवं उक्तन्यायेन उ एषा गायत्री अध्यात्मम् अध्यात्मे प्राणे प्रतिष्ठिता ; सैषा गायत्री प्राणः ; अतो गायत्र्यां जगत्प्रतिष्ठितम् ; यस्मिन्प्राणे सर्वे देवा एकं भवन्ति, सर्वे वेदाः, कर्माणि फलं च ; सैवं गायत्री प्राणरूपा सती जगत आत्मा। सा ह एषा गयान् तत्रे त्रातवती ; के पुनर्गयाः ? प्राणाः वागादयः वै गयाः, शब्दकरणात् ; तान् तत्रे सैषा गायत्री। तत् तत्र यत् यस्मात् गयान् तत्रे, तस्मात् गायत्री नाम ; गयत्राणात् गायत्रीति प्रथिता। सः आचार्यः उपनीयमाणवकमष्टवर्षं यामेव अमूं गायत्रीं सावित्रीं सवितृदेवताकाम् अन्वाह पच्छः अर्धर्चशः समस्तां च, एषैव स साक्षात् प्राणः जगत आत्मा माणवकाय समर्पिता इह इदानीं व्याख्याता, नान्या ; स आचार्यः यस्मै माणवकाय अन्वाह अनुवक्ति, तस्य माणवकस्य गयान् प्राणान् त्रायते नरकादिपतनात् ॥

तां हैतामेके सावित्रीमनुष्ठुभमन्वाहुर्वागनुष्टुबेतद्वाचमनुब्रूम इति न तथा कुर्याद्गायत्रीमेव सावित्रीमनुब्रूयाद्यदि ह वा अप्येवंविद्बह्विव प्रतिगृह्णाति न हैव तद्गायत्र्या एकञ्चन पदं प्रति ॥ ५ ॥

तामेतां सावित्रीं ह एके शाखिनः अनुष्टुभम् अनुष्टुप्प्रभवाम् अनुष्टुप्छन्दस्काम् अन्वाहुरुपनीताय। तदभिप्रायमाह — वाक् अनुष्टुप् , वाक्च शरीरे सरस्वती, तामेव हि वाचं सरस्वतीं माणवकायानुब्रूम इत्येतद्वदन्तः। न तथा कुर्यात् न तथा विद्यात् , यत् ते आहुः मृषैव तत् ; किं तर्हि गायत्रीमेव सावित्रीमनुब्रूयात् ; कस्मात् ? यस्मात् प्राणो गायत्रीत्युक्तम् ; प्राणे उक्ते, वाक्च सरस्वती च अन्ये च प्राणाः सर्वं माणवकाय समर्पितं भवति। किञ्चेदं प्रासङ्गिकमुक्त्वा गायत्रीविदं स्तौति — यदि ह वै अपि एवंवित् बह्विव — न हि तस्य सर्वात्मनो बहु नामास्ति किञ्चित् , सर्वात्मकत्वाद्विदुषः — प्रतिगृह्णाति, न हैव तत् प्रतिग्रहजातं गायत्र्या एकञ्चन एकमपि पदं प्रति पर्याप्तम् ॥

स य इमांस्त्रींल्लोकान्पूर्णान्प्रतिगृह्णीयात्सोऽस्या एतत्प्रथमं पदमाप्नुयादथ यावतीयं त्रयी विद्या यस्तावत्प्रतिगृह्णीयात्सोऽस्या एतद्द्वितीयं पदमाप्नुयादथ यावदिदं प्राणि यस्तावत्प्रतिगृह्णीयात्सोऽस्या एतत्तृतीयं पदमाप्नुयादथास्या एतदेव तुरीयं दर्शतं पदं परोरजा य एष तपति नैव केनचनाप्यं कुत उ एतावत्प्रतिगृह्णीयात् ॥ ६ ॥

स य इमांस्त्रीन् — स यः गायत्रीवित् इमान् भूरादीन् त्रीन् गोश्वादिधनपूर्णान् लोकान् प्रतिगृह्णीयात् , स प्रतिग्रहः, अस्या गायत्र्या एतत्प्रथमं पदं यद्व्याख्यातम् आप्नुयात् प्रथमपदविज्ञानफलम् , तेन भुक्तं स्यात् , न त्वधिकदोषोत्पादकः स प्रतिग्रहः। अथ पुनः यावती इयं त्रयी विद्या, यस्तावत् प्रतिगृह्णीयात् , सोऽस्या एतद्द्वितीयं पदमाप्नुयात् , द्वितीयपद विज्ञानफलं तेन भुक्तं स्यात्। तथा यावदिदं प्राणि, यस्तावत्प्रतिगृह्णीयात् , सोऽस्या एतत्तृतीयं पदमाप्नुयात् , तेन तृतीयपदविज्ञानफलं भुक्तं स्यात्। कल्पयित्वेदमुच्यते ; पादत्रयसममपि यदि कश्चित्प्रतिगृह्णीयात् , तत्पादत्रयविज्ञानफलस्यैव क्षयकारणम् , न त्वन्यस्य दोषस्य कर्तृत्वे क्षमम् ; न चैवं दाता प्रतिग्रहीता वा ; गायत्रीविज्ञानस्तुतये कल्प्यते ; दाता प्रतिग्रहीता च यद्यप्येवं सम्भाव्यते, नासौ प्रतिग्रहः अपराधक्षमः ; कस्मात् ? यतः अभ्यधिकमपि पुरुषार्थविज्ञानम् अवशिष्टमेव चतुर्थपादविषयं गायत्र्याः ; तद्दर्शयति — अथ अस्याः एतदेव तुरीयं दर्शतं पदं परोरजा य एष तपति ; यद्यैतत् नैव केनचन केनचिदपि प्रतिग्रहेण आप्यं नैव प्राप्यमित्यर्थः, यथा पूर्वोक्तानि त्रीणि पदानि ; एतान्यपि नैव आप्यानि केनचित् ; कल्पयित्वा एवमुक्तम् ; परमार्थतः कुत उ एतावत् प्रतिगृह्णीयात् त्रैलोक्यादिसमम्। तस्मात् गायत्री एवंप्रकारा उपास्येत्यर्थः ॥

तस्या उपस्थानं गायत्र्यस्येकपदी द्विपदी त्रिपदी चतुष्पद्यपदसि न हि पद्यसे। नमस्ते तुरीयाय दर्शताय पदाय परोरजसेऽसावदो मा प्रापदिति यं द्विष्यादसावस्मै कामो मा समृद्धीति वा न हैवास्मै स कामः समृध्यते यस्मा एवमुपतिष्ठतेऽहमदः प्रापमिति वा ॥ ७ ॥

तस्या उपस्थानम् — तस्या गायत्र्याः उपस्थानम् उपेत्य स्थानं नमस्करणम् अनेन मन्त्रेण। कोऽसौ मन्त्र इत्याह — हे गायत्रि असि भवसि त्रैलोक्यपादेन एकपदी, त्रयीविद्यारूपेण द्वितीयेन द्विपदी, प्राणादिना तृतीयेन त्रिपद्यसि, चतुर्थेन तुरीयेण चतुष्पद्यसि ; एवं चतुर्भिः पादैः उपासकैः पद्यसे ज्ञायसे ; अतः परं परेण निरुपाधिकेन स्वेन आत्मना अपदसि — अविद्यमानं पदं यस्यास्तव, येन पद्यसे — सा त्वं अपत् असि, यस्मात् न हि पद्यसे, नेति नेत्यात्मत्वात्। अतो व्यवहारविषयाय नमस्ते तुरीयाय दर्शताय पदाय परोरजसे। असौ शत्रुः पाप्मा त्वत्प्राप्तिविघ्नकरः, अदः तत् आत्मनः कार्यं यत् त्वत्प्राप्तिविघ्नकर्तृत्वम् , मा प्रापत् मैव प्राप्नोतु ; इति - शब्दो मन्त्रपरिसमाप्त्यर्थः ; यं द्विष्यात् यं प्रति द्वेषं कुर्यात् स्वयं विद्वान् , तं प्रति अनेनोपस्थानम् ; असौ शत्रुः अमुकनामेति नाम गृह्णीयात् ; अस्मै यज्ञदत्ताय अभिप्रेतः कामः मा समृद्धि समृद्धिं मा प्राप्नोत्विति वा उपतिष्ठते ; न हैवास्मै देवदत्ताय स कामः समृध्यते ; कस्मै ? यस्मै एवमुपतिष्ठते। अहं अदः देवदत्ताभिप्रेतं प्रापमिति वा उपतिष्ठते। असावदो मा प्रापदित्यादित्रयाणां मन्त्रपदानां यथाकामं विकल्पः ॥

एतद्ध वै तज्जनको वैदेहो बुडिलमाश्वतराश्विमुवाच यन्नु हो तद्गायत्रीविदब्रूथा अथ कथं हस्तीभूतो वहसीति मुखं ह्यस्याः सम्राण्न विदाञ्चकारेति होवाच तस्या अग्निरेव मुखं यदि ह वा अपि बह्विवाग्नावभ्यादधति सर्वमेव तत्सन्दहत्येवं हैवैवंविद्यद्यपि बह्विव पापं कुरुते सर्वमेव तत्सम्प्साय शुद्धः पूतोऽजरोऽमृतः सम्भवति ॥ ८ ॥

गायत्र्या मुखविधानाय अर्थवाद उच्यते — एतत् ह किल वै स्मर्यते, तत् तत्र गायत्रीविज्ञानविषये ; जनको वैदेहः, बुडिलो नामतः, अश्वतराश्वस्यापत्यम् आश्वतराश्विः, तं किल उक्तवान् ; यत् नु इति वितर्के, हो अहो इत्येतत् , तत् यत् त्वं गायत्रीविदब्रूथाः, गायत्रीविदस्मीति यदब्रूथाः, किमिदं तस्य वचसोऽननुरूपम् ; अथ कथम् , यदि गायत्रीवित् , प्रतिग्रहदोषेण हस्तीभूतो वहसीति। स प्रत्याह राज्ञा स्मारितः — मुखं गायत्र्याः हि यस्मात् अस्याः, हे सम्राट् , न विदाञ्चकार न विज्ञातवानस्मि — इति होवाच ; एकाङ्गविकलत्वात् गायत्रीविज्ञानं मम अफलं जातम्।

शृणु तर्हि ; तस्या गायत्र्या अग्निरेव मुखम् ; यदि ह वै अपि बह्विवेन्धनम् अग्नावभ्यादधति लौकिकाः, सर्वमेव तत्सन्दहत्येवेन्धनम् अग्निः — एवं हैव एवंवित् गायत्र्या अग्निर्मुखमित्येवं वेत्तीत्येवंवित् स्यात् स्वयं गायत्र्यात्मा अग्निमुखः सन्। यद्यपि बह्विव पापं कुरुते प्रतिग्रहादिदोषम् , तत्सर्वं पापजातं सम्प्साय भक्षयित्वा शुद्धः अग्निवत् पूतश्च तस्मात्प्रतिग्रहदोषात् गायत्र्यात्मा अजरोऽमृतश्च सम्भवति ॥

इति पञ्चमाध्यायस्य चतुर्दशं ब्राह्मणम् ॥