13

उक्थं प्राणो वा उक्थं प्राणो हीदं सर्वमुत्थापयत्युद्धास्मादुक्थविद्वीरस्तिष्ठत्युक्थस्य सायुज्यं सलोकतां जयति य एवं वेद ॥ १ ॥

उक्थम् — तथा उपासनान्तरम् ; उक्थं शस्त्रम् ; तद्धि प्रधानं महाव्रते क्रतौ ; किं पुनस्तदुक्थम् ; प्राणो वै उक्थम् ; प्राणश्च प्रधान इन्द्रियाणाम् , उक्थं च शस्त्राणाम् , अत उक्थमित्युपासीत। कथं प्राण उक्थमित्याह — प्राणः हि यस्मात् इदं सर्वम् उत्थापयति ; उत्थापनात् उक्थं प्राणः ; न हि अप्राणः कश्चिदुत्तिष्ठति ; तदुपासनफलमाह — उत् ह अस्मात् एवंविदः उक्थवित् प्राणवित् वीरः पुत्रः उत्तिष्ठति ह — दृष्टम् एतत्फलम् ; अदृष्टं तु उक्थस्य सायुज्यं सलोकतां जयति, य एवं वेद ॥

यजुः प्राणो वै यजुः प्राणे हीमानि सर्वाणि भूतानि युज्यन्ते युज्यन्ते हास्मै सर्वाणि भूतानि श्रैष्ठ्याय यजुषः सायुज्यं सलोकतां जयति य एवं वेद ॥ २ ॥

यजुरिति चोपासीत प्राणम् ; प्राणो वै यजुः ; कथं यजुः प्राणः ? प्राणे हि यस्मात् सर्वाणि भूतानि युज्यन्ते ; न हि असति प्राणे केनचित् कस्यचित् योगसामर्थ्यम् ; अतो युनक्तीति प्राणो यजुः। एवंविदः फलमाह — युज्यन्ते उद्यच्छन्ते इत्यर्थः, ह अस्मै एवंविदे, सर्वाणि भूतानि, श्रैष्ठ्यं श्रेष्ठभावः तस्मै श्रैष्ठ्याय श्रेष्ठभावाय, अयं नः श्रेष्ठो भवेदिति ; यजुषः प्राणस्य सायुज्यमित्यादि सर्वं समानम् ॥

साम प्राणो वै साम प्राणे हीमानि सर्वाणि भूतानि सम्यञ्चि सम्यञ्चि हास्मै सर्वाणि भूतानि श्रैष्ठ्याय कल्पन्ते साम्नः सायुज्यं सलोकतां जयति य एवं वेद ॥ ३ ॥

सामेति चोपासीत प्राणम्। प्राणो वै साम ; कथं प्राणः साम ? प्राणे हि यस्मात् सर्वाणि भूतानि सम्यञ्चि सङ्गच्छन्ते, सङ्गमनात् साम्यापत्तिहेतुत्वात् साम प्राणः ; सम्यञ्चि सङ्गच्छन्ते ह अस्मै सर्वाणि भूतानि ; न केवलं सङ्गच्छन्त एव, श्रेष्ठभावाय च अस्मै कल्पन्ते समर्थ्यन्ते ; साम्नः सायुज्यमित्यादि पूर्ववत् ॥

क्षत्त्रं प्राणो वै क्षत्त्रं प्राणो हि वै क्षत्त्रं त्रायते हैनं प्राणः क्षणितोः प्र क्षत्त्रमत्रमाप्नोति क्षत्त्रस्य सायुज्यं सलोकतां जयति य एवं वेद ॥ ४ ॥

तं प्राणं क्षत्त्रमित्युपासीत। प्राणो वै क्षत्त्रम् ; प्रसिद्धम् एतत् — प्राणो हि वै क्षत्त्रम्। कथं प्रसिद्धतेत्याह — त्रायते पालयति एवं पिण्डं देहं प्राणः, क्षणितोः शस्त्रादिहिंसितात् पुनः मांसेन आपूरयति यस्मात् , तस्मात् क्षतत्राणात् प्रसिद्धं क्षत्त्रत्वं प्राणस्य। विद्वत्फलमाह — प्र क्षत्त्रमत्रम् , न त्रायते अन्येन केनचिदित्यत्रम् , क्षत्त्रं प्राणः, तम् अत्रं क्षत्त्रं प्राणं प्राप्नोतीत्यर्थः। शाखान्तरे वा पाठात् क्षत्त्रमात्रं प्राप्नोति, प्राणो भवतीत्यर्थः। क्षत्त्रस्य सायुज्यं सलोकतां जयति, य एवं वेद ॥

इति पञ्चमाध्यायस्य त्रयोदशं ब्राह्मणम् ॥