05

आप एवेदमग्र आसुस्ता आपः सत्यमसृजन्त सत्यं ब्रह्म ब्रह्म प्रजापतिं प्रजापतिर्देवांस्ते देवाः सत्यमेवोपासते तदेतत्त्र्यक्षरं सत्यमिति स इत्येकमक्षरं तीत्येकमक्षरं यमित्येकमक्षरं प्रथमोत्तमे अक्षरे सत्यं मध्यतोऽनृतं तदेतदनृतमुभयतः सत्येन परिगृहीतं सत्यभूयमेव भवति नैवं विद्वांसमनृतं हिनस्ति ॥ १ ॥

सत्यस्य ब्रह्मणः स्तुत्यर्थमिदमाह। महद्यक्षं प्रथमजमित्युक्तम् , तत्कथं प्रथमजत्वमित्युच्यते — आप एवेदमग्र आसुः ; आप इति कर्मसमवायिन्यः अग्निहोत्राद्याहुतयः ; अग्निहोत्राद्याहुतेः द्रवात्मकत्वात् अप्त्वम् ; ताश्च आपः अग्निहोत्रादिकर्मापवर्गोत्तरकालं केनचिददृष्टेन सूक्ष्मेण आत्मना कर्मसमवायित्वमपरित्यजन्त्यः इतरभूतसहिता एव न केवलाः, कर्मसमवायित्वात्तु प्राधान्यमपाम् — इति सर्वाण्येव भूतानि प्रागुत्पत्तेः अव्याकृतावस्थानि कर्तृसहितानि निर्दिश्यन्ते ‘आपः’ इति ; ता आपः बीजभूता जगतः अव्याकृतात्मना अवस्थिताः ; ता एव इदं सर्वं नामरूपविकृतं जगत् अग्रे आसुः, नान्यत्किञ्चिद्विकारजातमासीत् ; ताः पुनः आपः सत्यमसृजन्त ; तस्मात्सत्यं ब्रह्म प्रथमजम् ; तदेतत् हिरण्यगर्भस्य सूत्रात्मनो जन्म, यदव्याकृतस्य जगतो व्याकरणम् , तत् सत्यं ब्रह्म कुतः ? महत्त्वात् ; कथं महत्त्वमित्याह — यस्मात् सर्वस्य स्रष्टृ ; कथम् ? यत्सत्यं ब्रह्म, तत् प्रजापतिं प्रजानां पतिं विराजं सूर्यादिकरणम् असृजतेत्यनुषङ्गः ; प्रजापतिः देवान् , स विराट् प्रजापतिः देवानसृजत ; यस्मात् सर्वमेवं क्रमेण सत्याद्ब्रह्मणो जातम् , तस्मान्महत्सत्यं ब्रह्म। कथं पुनर्यक्षमित्युच्यते — ते एवं सृष्टा देवाः पितरमपि विराजमतीत्य, तदेव सत्यं ब्रह्म उपासते ; अत एतत् प्रथमजं महत् यक्षम् ; तस्मात् सर्वात्मना उपास्यं तत् ; तस्यापि सत्यस्य ब्रह्मणो नाम सत्यमिति ; तदेतत् त्र्यक्षरम् ; कानि तान्यक्षराणीत्याह — स इत्येकमक्षरम् ; तीत्येकमक्षरम् , तीति ईकारानुबन्धो निर्देशार्थः ; यमित्येकमक्षरम् ; तत्र तेषां प्रथमोत्तमे अक्षरे सकारयकारौ सत्यम् , मृत्युरूपाभावात् ; मध्यतः मध्ये अनृतम् ; अनृतं हि मृत्युः मृत्य्वनृतयोः तकारसामान्यात्। तदेतत् अनृतं तकाराक्षरं मृत्युरूपम् उभयतः सत्येन सकारयकारलक्षणेन परिगृहीतं व्याप्तम् अन्तर्भावितं सत्यरूपाभ्याम् , अतः अकिञ्चित्करं तत् , सत्यभूयमेव सत्यबाहुल्यमेव भवति ; एवं सत्यबाहुल्यं सर्वस्य मृत्योरनृतस्य अकिञ्चित्करत्वं च यो विद्वान् , तमेवं विद्वांसम् अनृतं कदाचित् प्रमादोक्तं न हिनस्ति ॥

तद्यत्तत्सत्यमसौ स आदित्यो य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन्पुरुषस्तावेतावन्योन्यस्मिन्प्रतिष्ठितौ रश्मिभिरेषोऽस्मिन्प्रतिष्ठितः प्राणैरयममुष्मिन्स यदोत्क्रमिष्यन्भवति शुद्धमेवैतन्मण्डलं पश्यति नैनमेते रश्मयः प्रत्यायन्ति ॥ २ ॥

अस्याधुना सत्यस्य ब्रह्मणः संस्थानविशेषे उपासनमुच्यते — तद्यत् ; किं तत् ? सत्यं ब्रह्म प्रथमजम् ; किम् ? असौ सः ; कोऽसौ ? आदित्यः ; कः पुनरसावादित्यः ? य एषः ; क एषः ? यः एतस्मिन् आदित्यमण्डले पुरुषः अभिमानी, सोऽसौ सत्यं ब्रह्म। यश्चायम् अध्यात्मम् योऽयं दक्षिणेऽक्षन् अक्षणि पुरुषः ; च - शब्दात् स च सत्यं ब्रह्मेति सम्बन्धः। तावेतौ आदित्याक्षिस्थौ पुरुषौ एकस्य सत्यस्य ब्रह्मणः संस्थानविशेषौ यस्मात् , तस्मात् अन्योन्यस्मिन् इतरेतरस्मिन् आदित्यश्चाक्षुषे चाक्षुषश्च आदित्ये प्रतिष्ठितौ, अध्यात्माधिदैवतयोः अन्योन्योपकार्योपकारकत्वात् ; कथं प्रतिष्ठितावित्युच्यते — रश्मिभिः प्रकाशेन अनुग्रहं कुर्वन् एष आदित्यः अस्मिंश्चाक्षुषे अध्यात्मे प्रतिष्ठितः ; अयं च चाक्षुषः प्राणैरादित्यमनुगृह्णन् अमुष्मिन् आदित्ये अधिदैवे प्रतिष्ठितः ; सः अस्मिन् शरीरे विज्ञानमयो भोक्ता यदा यस्मिन्काले उत्क्रमिष्यन्भवति, तदा असौ चाक्षुष आदित्यपुरुषः रश्मीनुपसंहृत्य केवलेन औदासीन्येन रूपेण व्यवतिष्ठते ; तदा अयं विज्ञानमयः पश्यति शुद्धमेव केवलं विरश्मि एतन्मण्डलं चन्द्रमण्डलमिव ; तदेतत् अरिष्टदर्शनम् प्रासङ्गिकं प्रदर्श्यते, कथं नाम पुरुषः करणीये यत्नवान्स्यादिति ; न — एवं चाक्षुषं पुरुषमुररीकृत्य तं प्रत्यनुग्रहाय एते रश्मयः स्वामिकर्तव्यवशात्पूर्वमागच्छन्तोऽपि, पुनः तत्कर्मक्षयमनुरुध्यमाना इव नोपयन्ति न प्रत्यागच्छन्ति एनम्। अतोऽवगम्यते परस्परोपकार्योपकारकभावात् सत्यस्यैव एकस्य आत्मनः अंशौ एताविति ॥

य एष एतस्मिन्मण्डले पुरुषस्तस्य भूरिति शिर एकं शिर एकमेतदक्षरं भुव इति बाहू द्वौ बाहू द्वे एते अक्षरे स्वरिति प्रतिष्ठा द्वे प्रतिष्ठे द्वे एते अक्षरे तस्योपनिषदहरिति हन्ति पाप्मानं जहाति च य एवं वेद ॥ ३ ॥

तत्र यः, असौ कः ? यः एषः एतस्मिन्मण्डले पुरुषः सत्यनामा ; तस्य व्याहृतयः अवयवाः ; कथम् ? भूरिति येयं व्याहृतिः, सा तस्य शिरः, प्राथम्यात् ; तत्र सामान्यं स्वयमेवाह श्रुतिः — एकम् एकसङ्ख्यायुक्तं शिरः, तथा एतत् अक्षरम् एकं भूरिति। भुव इति बाहू, द्वित्वसामान्यात् ; द्वौ बाहू, द्वे एते अक्षरे। तथा स्वरिति प्रतिष्ठा ; द्वे प्रतिष्ठे द्वे एते अक्षरे ; प्रतिष्ठे पादौ प्रतितिष्ठत्याभ्यामिति। तस्यास्य व्याहृत्यवयवस्य सत्यस्य ब्रह्मण उपनिषत् रहस्यम् अभिधानम् , येनाभिधानेन अभिधीयमानं तद्ब्रह्म अभिमुखी भवति लोकवत् ; कासावित्याह — अहरिति ; अहरिति चैतत् रूपं हन्तेर्जहातेश्चेति यो वेद, स हन्ति जहाति च पाप्मानं य एवं वेद ॥

योऽयं दक्षिणेऽक्षन्पुरुषस्तस्य भूरिति शिर एकं शिर एकमेतदक्षरं भुव इति बाहू द्वौ बाहू द्वे एते अक्षरे स्वरिति प्रतिष्ठा द्वे प्रतिष्ठे द्वे एते अक्षरे तस्योपनिषदहमिति हन्ति पाप्मानं जहाति च य एवं वेद ॥ ४ ॥

एवं योऽयं दक्षिणेऽक्षन्पुरुषः, तस्य भूरिति शिर इत्यादि सर्वं समानम्। तस्योपनिषत् — अहमिति, प्रत्यगात्मभूतत्वात्। पूर्ववत् हन्तेः जहातेश्चेति ॥

इति पञ्चमाध्यायस्य पञ्चमं ब्राह्मणम् ॥