2

जनको ह वैदेहः कूर्चादुपावसर्पन्नुवाच नमस्तेऽस्तु याज्ञवल्क्यानु मा शाधीति स होवाच यथा वै सम्राण्महान्तमध्वानमेष्यन्रथं वा नावं वा समाददीतैवमेवैताभिरुपनिषद्भिः समाहितात्मास्येवं वृन्दारक आढ्यः सन्नधीतवेद उक्तोपनिषत्क इतो विमुच्यमानः क्व गमिष्यसीति नाहं तद्भगवन्वेद यत्र गमिष्यामीत्यथ वै तेऽहं तद्वक्ष्यामि यत्र गमिष्यसीति ब्रवीतु भगवानिति ॥ १ ॥

जनको ह वैदेहः। यस्मात्सविशेषणानि सर्वाणि ब्रह्माणि जानाति याज्ञवल्क्यः, तस्मात् आचार्यकत्वं हित्वा जनकः कूर्चात् आसनविशेषात् उत्थाय उप समीपम् अवसर्पन् , पादयोर्निपतन्नित्यर्थः, उवाच उक्तवान् — नमः ते तुभ्यम् अस्तु हे याज्ञवल्क्य ; अनु मा शाधि अनुशाधि मामित्यर्थः ; इति - शब्दो वाक्यपरिसमाप्त्यर्थः। स होवाच याज्ञवल्क्यः — यथा वै लोके, हे सम्राट् , महान्तं दीर्घम् अध्वानम् एष्यन् गमिष्यन् , रथं वा स्थलेन गमिष्यन् , नावं वा जलेन गमिष्यन् समाददीत — एवमेव एतानि ब्रह्माणि एताभिरुपनिषद्भिर्युक्तानि उपासीनः समाहितात्मा असि, अत्यन्तमेताभिरुपनिषद्भिः संयुक्तात्मा असि ; न केवलमुपनिषत्समाहितः ; एवं वृन्दारकः पूज्यश्च आढ्यश्च ईश्वरः न दरिद्र इत्यर्थः, अधीतवेदः अधीतो वेदो येन स त्वमधीतवेदः, उक्ताश्चोपनिषद आचार्यैस्तुभ्यं स त्वमुक्तोपनिषत्कः ; एवं सर्वविभूतिसम्पन्नोऽपि सन् भयमध्यस्थ एव परमात्मज्ञानेन विना अकृतार्थ एव तावदित्यर्थः — यावत्परं ब्रह्म न वेत्सि ; इतः अस्माद्देहात् विमुच्यमानः एताभिर्नौरथस्थानीयाभिः समाहितः क्व कस्मिन् गमिष्यसि, किं वस्तु प्राप्स्यसीति। नाहं तद्वस्तु, भगवन् पूजावन् , वेद जाने, यत्र गमिष्यामीति। अथ यद्येवं न जानीषे यत्र गतः कृतार्थः स्याः, अहं वै ते तुभ्यं तद्वक्ष्यामि यत्र गमिष्यसीति। ब्रवीतु भगवानिति, यदि प्रसन्नो मां प्रति ॥

शृणु —

इन्धो ह वै नामैष योऽयं दक्षिणेऽक्षन्पुरुषस्तं वा एतमिन्धं सन्तमिन्द्र इत्याचक्षते परोक्षेणैव परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विषः ॥ २ ॥

इन्धो ह वै नाम। इन्ध इत्येवंनामा, यः चक्षुर्वै ब्रह्मेति पुरोक्त आदित्यान्तर्गतः पुरुषः स एषः, योऽयं दक्षिणे अक्षन् अक्षणि विशेषेण व्यवस्थितः — स च सत्यनामा ; तं वै एतं पुरुषम् , दीप्तिगुणत्वात् प्रत्यक्षं नाम अस्य इन्ध इति, तम् इन्धं सन्तम् इन्द्र इत्याचक्षते परोक्षेण। यस्मात्परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विषः प्रत्यक्षनामग्रहणं द्विषन्ति। एष त्वं वैश्वानरमात्मानं सम्पन्नोऽसि ॥

अथैतद्वामेऽक्षणि पुरुषरूपमेषास्य पत्नी विराट्तयोरेष संस्तावो य एषोऽन्तर्हृदय आकाशोऽथैनयोरेतदन्नं य एषोऽन्तर्हृदय लोहितपिण्डोऽथैनयोरेतत्प्रावरणं यदेतदन्तर्हृदये जालकमिवाथैनयोरेषा सृतिः सञ्चरणी यैषा हृदयादूर्ध्वा नाड्युच्चरति यथा केशः सहस्रधा भिन्न एवमस्यैता हिता नाम नाड्योऽन्तर्हृदये प्रतिष्ठिता भवन्त्येताभिर्वा एतदास्रवदास्रवति तस्मादेष प्रविविक्ताहारतर इवैव भवत्यस्माच्छारीरादात्मनः ॥ ३ ॥

अथैतत् वामेऽक्षणि पुरुषरूपम् , एषा अस्य पत्नी — यं त्वं वैश्वानरमात्मानं सम्पन्नोऽसि तस्यास्य इन्द्रस्य भोक्तुः भोग्या एषा पत्नी, विराट् अन्नं भोग्यत्वादेव ; तदेतत् अन्नं च अत्ता च एकं मिथुनं स्वप्ने। कथम् ? तयोरेषः — इन्द्राण्याः इन्द्रस्य च एषः संस्तावः, सम्भूय यत्र संस्तवं कुर्वाते अन्योन्यं स एष संस्तावः ; कोऽसौ ? य एषोऽन्तर्हृदय आकाशः — अन्तर्हृदये हृदयस्य मांसपिण्डस्य मध्ये ; अथैनयोः एतत् वक्ष्यमाणम् अन्नं भोज्यं स्थितिहेतुः ; किं तत् ? य एषोऽन्तर्हृदये लोहितपिण्डः — लोहित एव पिण्डाकारापन्नो लोहितपिण्डः ; अन्नं जग्धं द्वेधा परिणमते ; यत्स्थूलं तदधो गच्छति ; यदन्यत् तत्पुनरग्निना पच्यमानं द्वेधा परिणमते — यो मध्यमो रसः स लोहितादिक्रमेण पाञ्चभौतिकं पिण्डं शरीरमुपचिनोति ; योऽणिष्ठो रसः स एष लोहितपिण्ड इन्द्रस्य लिङ्गात्मनो हृदये मिथुनीभूतस्य, यं तैजसमाचक्षते ; स तयोरिन्द्रेन्द्राण्योर्हृदये मिथुनीभूतयोः सूक्ष्मासु नाडीष्वनुप्रविष्टः स्थितिहेतुर्भवति — तदेतदुच्यते — अथैनयोरेतदन्नमित्यादि। किञ्चान्यत् ; अथैनयोरेतत्प्रावरणम् — भुक्तवतोः स्वपतोश्च प्रावरणं भवति लोके, तत्सामान्यं हि कल्पयति श्रुतिः ; किं तदिह प्रावरणम् ? यदेतदन्तर्हृदये जालकमिव अनेकनाडीछिद्रबहुलत्वात् जालकमिव। अथैनयोरेषा सृतिः मार्गः, सञ्चरतोऽनयेति सञ्चरणी, स्वप्नाज्जागरितदेशागमनमार्गः ; का सा सृतिः ? यैषा हृदयात् हृदयदेशात् ऊर्ध्वाभिमुखी सती उच्चरति नाडी ; तस्याः परिमाणमिदमुच्यते — यथा लोके केशः सहस्रधा भिन्नः अत्यन्तसूक्ष्मो भवति एवं सूक्ष्मा अस्य देहस्य सम्बन्धिन्यः हिता नाम हिता इत्येवं ख्याताः नाड्यः, ताश्चान्तर्हृदये मांसपिण्डे प्रतिष्ठिता भवन्ति ; हृदयाद्विप्ररूढास्ताः सर्वत्र कदम्बकेसरवत् ; एताभिर्नाडीभिरत्यन्तसूक्ष्माभिः एतदन्नम् आस्रवत् गच्छत् आस्रवति गच्छति ; तदेतद्देवताशरीरम् अनेनान्नेन दामभूतेनोपचीयमानं तिष्ठति। तस्मात् — यस्मात् स्थूलेनान्नेन उपचितः पिण्डः, इदं तु देवताशरीरं लिङ्गं सूक्ष्मेणान्नेनोपचितं तिष्ठति, पिण्डोपचयकरमप्यन्नं प्रविविक्तमेव मूत्रपुरीषादिस्थूलमपेक्ष्य, लिङ्गस्थितिकरं तु अन्नं ततोऽपि सूक्ष्मतरम् — अतः प्रविविक्ताहारः पिण्डः, तस्मात्प्रविविक्ताहारादपि प्रविविक्ताहारतर एष लिङ्गात्मा इवैव भवति, अस्माच्छरीरात् शरीरमेव शारीरं तस्माच्छारीरात् , आत्मनः वैश्वानरात् — तैजसः सूक्ष्मान्नोपचितो भवति ॥

तस्य प्राची दिक्प्राञ्चः प्राणा दक्षिणा दिग्दक्षिणे प्राणाः प्रतीची दिक्प्रत्यञ्चः प्राणा उदीची दिगुदञ्चः प्राणा ऊर्ध्वा दिगूर्ध्वाः प्राणा अवाची दिगवाञ्चः प्राणाः सर्वा दिशः सर्वे प्राणाः स एष नेति नेत्यात्मागृह्यो न हि गृह्यतेऽशीर्यो न हि शीर्यतेऽसङ्गो न हि सज्यतेऽसितो न व्यथते न रिष्यत्यभयं वै जनक प्राप्तोऽसीति होवाच याज्ञवल्क्यः। स होवाच जनको वैदेहोऽभयं त्वा गच्छताद्याज्ञवल्क्य यो नो भगवन्नभयं वेदयसे नमस्तेऽस्त्विमे विदेहा अयमहमस्मि ॥ ४ ॥

स एष हृदयभूतः तैजसः सूक्ष्मभूतेन प्राणेन विध्रियमाणः प्राण एव भवति ; तस्यास्य विदुषः क्रमेण वैश्वानरात् तैजसं प्राप्तस्य हृदयात्मानमापन्नस्य हृदयात्मनश्च प्राणात्मानमापन्नस्य प्राची दिक् प्राञ्चः प्राग्गताः प्राणाः ; तथा दक्षिणा दिक् दक्षिणे प्राणाः ; तथा प्रतीची दिक् प्रत्यञ्चः प्राणाः ; उदीची दिक् उदञ्चः प्राणाः ; ऊर्ध्वा दिक् ऊर्ध्वाः प्राणाः ; अवाची दिक् अवाञ्चः प्राणाः ; सर्वा दिशः सर्वे प्राणाः। एवं विद्वान् क्रमेण सर्वात्मकं प्राणमात्मत्वेनोपगतो भवति ; तं सर्वात्मानं प्रत्यगात्मन्युपसंहृत्य द्रष्टुर्हि द्रष्टृभावं नेति नेतीत्यात्मानं तुरीयं प्रतिपद्यते ; यम् एष विद्वान् अनेन क्रमेण प्रतिपद्यते, स एष नेति नेत्यात्मेत्यादि न रिष्यतीत्यन्तं व्याख्यातमेतत्। अभयं वै जन्ममरणादिनिमित्तभयशून्यम् , हे जनक, प्राप्तोऽसि — इति ह एवं किल उवाच उक्तवान् याज्ञवल्क्यः। तदेतदुक्तम् — अथ वै तेऽहं तद्वक्ष्यामि यत्र गमिष्यसीति। स होवाच जनको वैदेहः — अभयमेव त्वा त्वामपि गच्छतात् गच्छतु, यस्त्वं नः अस्मान् हे याज्ञवल्क्य भगवन् पूजावन् अभयं ब्रह्म वेदयसे ज्ञापयसि प्रापितवान् उपाधिकृताज्ञानव्यवधानापनयनेनेत्यर्थः ; किमन्यदहं विद्यानिष्क्रयार्थं प्रयच्छामि, साक्षादात्मानमेव दत्तवते ; अतो नमस्तेऽस्तु ; इमे विदेहाः तव यथेष्टं भुज्यन्ताम् ; अयं चाहमस्मि दासभावे स्थितः ; यथेष्टं मां राज्यं च प्रतिपद्यस्वेत्यर्थः ॥

इति चतुर्थाध्यायस्य द्वितीयं ब्राह्मणम् ॥