बन्धनं सप्रयोजकमुक्तम्। यश्च बद्धः, तस्यापि अस्तित्वमधिगतम् , व्यतिरिक्तत्वं च। तस्य इदानीं बन्धमोक्षसाधनं ससन्न्यासमात्मज्ञानं वक्तव्यमिति कहोलप्रश्न आरभ्यते —
अथ हैनं कहोलः कौषीतकेयः पप्रच्छ याज्ञवल्क्येति होवाच यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वेत्येष त आत्मा सर्वान्तरः। कतमो याज्ञवल्क्य सर्वान्तरो योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति। एतं वै तमात्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति या ह्येव पुत्रैषणा सा वित्तैषणा या वित्तैषणा सा लोकैषणोभे ह्येते एषणे एव भवतः। तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत्। बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिरमौनं च मौनं च निर्विद्याथ ब्राह्मणः स ब्राह्मणः केन स्याद्येन स्यात्तेनेदृश एवातोऽन्यदार्तं ततो ह कहोलः कौषीतकेय उपरराम ॥ १ ॥
अथ ह एनं कहोलो नामतः, कुषीतकस्यापत्यं कौषीतकेयः, पप्रच्छ ; याज्ञवल्क्येति होवाचेति, पूर्ववत् — यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरः तं मे व्याचक्ष्वेति — यं विदित्वा बन्धनात्प्रमुच्यते। याज्ञवल्क्य आह — एष ते तव आत्मा ॥
किम् उषस्तकहोलाभ्याम् एक आत्मा पृष्टः, किं वा भिन्नावात्मानौ तुल्यलक्षणाविति। भिन्नाविति युक्तम् , प्रश्नयोरपुनरुक्तत्वोपपत्तेः ; यदि हि एक आत्मा उषस्तकहोलप्रश्नयोर्विवक्षितः, तत्र एकेनैव प्रश्नेन अधिगतत्वात् तद्विषयो द्वितीयः प्रश्नोऽनर्थकः स्यात् ; न च अर्थवादरूपत्वं वाक्यस्य ; तस्मात् भिन्नावेतावात्मानौ क्षेत्रज्ञपरमात्माख्याविति केचिद्व्याचक्षते। तन्न, ‘ते’ इति प्रतिज्ञानात् ; ‘एष त आत्मा’ इति हि प्रतिवचने प्रतिज्ञातम् ; न च एकस्य कार्यकरणसङ्घातस्य द्वावात्मानौ उपपद्येते ; एको हि कार्यकरणसङ्घातः एकेन आत्मना आत्मवान् ; न च उषस्तस्यान्यः कहोलस्यान्यः जातितो भिन्न आत्मा भवति, द्वयोः अगौणत्वात्मत्वसर्वान्तरत्वानुपपत्तेः ; यदि एकमगौणं ब्रह्म द्वयोः इतरेण अवश्यं गौणेन भवितव्यम् ; तथा आत्मत्वं सर्वान्तरत्वं च — विरुद्धत्वात्पदार्थानाम् ; यदि एकं सर्वान्तरं ब्रह्म आत्मा मुख्यः, इतरेण असर्वान्तरेण अनात्मना अमुख्येन अवश्यं भवितव्यम् ; तस्मात् एकस्यैव द्विः श्रवणं विशेषविवक्षया। यत्तु पूर्वोक्तेन समानं द्वितीये प्रश्नान्तर उक्तम् , तावन्मात्रं पूर्वस्यैवानुवादः — तस्यैव अनुक्तः कश्चिद्विशेषः वक्तव्य इति। कः पुनरसौ विशेष इत्युच्यते — पूर्वस्मिन्प्रश्ने — अस्ति व्यतिरिक्त आत्मा यस्यायं सप्रयोजको बन्ध उक्त इति द्वितीये तु — तस्यैव आत्मनः अशनायादिसंसारधर्मातीतत्वं विशेष उच्यते — यद्विशेषपरिज्ञानात् सन्न्याससहितात् पूर्वोक्ताद्बन्धनात् विमुच्यते। तस्मात् प्रश्नप्रतिवचनयोः ‘एष त आत्मा’ इत्येवमन्तयोः तुल्यार्थतैव। ननु कथम् एकस्यैव आत्मनः अशनायाद्यतीतत्वं तद्वत्त्वं चेति विरुद्धधर्मसमवायित्वमिति — न, परिहृतत्वात् ; नामरूपविकारकार्यकरणलक्षणसङ्घातोपाधिभेदसम्पर्कजनितभ्रान्तिमात्रं हि संसारित्वमित्यसकृदवोचाम, विरुद्धश्रुतिव्याख्यानप्रसङ्गेन च ; यथा रज्जुशुक्तिकागगनादयः सर्परजतमलिना भवन्ति पराध्यारोपितधर्मविशिष्टाः, स्वतः केवला एव रज्जुशुक्तिकागगनादयः — न च एवं विरुद्धधर्मसमवायित्वे पदार्थानां कश्चन विरोधः। नामरूपोपाध्यस्तित्वे ‘एकमेवाद्वितीयम्’ (छा. उ. ६। २। १) [‘नेह नानास्ति किञ्चन’ (बृ. उ. ४। ४। १९)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=4&id=BR_C04_S04_V19&hl=नेह नानास्ति किञ्चन) इति श्रुतयो विरुध्येरन्निति चेत् — न, सलिलफेनदृष्टान्तेन परिहृतत्वात् मृदादिदृष्टान्तैश्च ; यदा तु परमार्थदृष्ट्या परमात्मतत्त्वात् श्रुत्यनुसारिभिः अन्यत्वेन निरूप्यमाणे नामरूपे मृदादिविकारवत् वस्त्वन्तरे तत्त्वतो न स्तः — सलिलफेनघटादिविकारवदेव, तदा तत् अपेक्ष्य ‘एकमेवाद्वितीयम्’ (छा. उ. ६। २। १) [‘नेह नानास्ति किञ्चन’ (बृ. उ. ४। ४। १९)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=4&id=BR_C04_S04_V19&hl=नेह नानास्ति किञ्चन) इत्यादिपरमार्थदर्शनगोचरत्वं प्रतिपद्यते ; रूपवदेव स्वेन रूपेण वर्तमानं केनचिदस्पृष्टस्वभावमपि सत् नामरूपकृतकार्यकरणोपाधिभ्यो विवेकेन नावधार्यते, नामरूपोपाधिदृष्टिरेव च भवति स्वाभाविकी, तदा सर्वोऽयं वस्त्वन्तरास्तित्वव्यवहारः। अस्ति चायं भेदकृतो मिथ्याव्यवहारः, येषां ब्रह्मतत्त्वादन्यत्वेन वस्तु विद्यते, येषां च नास्ति ; परमार्थवादिभिस्तु श्रुत्यनुसारेण निरूप्यमाणे वस्तुनि — किं तत्त्वतोऽस्ति वस्तु किं वा नास्तीति, ब्रह्मैकमेवाद्वितीयं सर्वसंव्यवहारशून्यमिति निर्धार्यते ; तेन न कश्चिद्विरोधः। न हि परमार्थावधारणनिष्ठायां वस्त्वन्तरास्तित्वं प्रतिपद्यामहे — ‘एकमेवाद्वितीयम्’ (छा. उ. ६। २। १) ‘अनन्तरमबाह्यम्’ (बृ. उ. २। ५। १९), [(बृ. उ. ३। ८। ८)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=3&id=BR_C03_S07_V08&hl=(बृ. उ. ३। ८। ८)) इति श्रुतेः ; न च नामरूपव्यवहारकाले तु अविवेकिनां क्रियाकारकफलादिसंव्यवहारो नास्तीति प्रतिषिध्यते। तस्मात् ज्ञानाज्ञाने अपेक्ष्य सर्वः संव्यवहारः शास्त्रीयो लौकिकश्च ; अतो न काचन विरोधशङ्का। सर्ववादिनामप्यपरिहार्यः परमार्थसंव्यवहारकृतो व्यवहारः ॥
तत्र परमार्थात्मस्वरूपमपेक्ष्य प्रश्नः पुनः — कतमो याज्ञवल्क्य सर्वान्तर इति। प्रत्याह इतरः — योऽशनायापिपासे, अशितुमिच्छा अशनाया, पातुमिच्छा पिपासा ; ते अशनायापिपासे योऽत्येतीति वक्ष्यमाणेन सम्बन्धः। अविवेकिभिः तलमलवदिव गगनं गम्यमानमेव तलमले अत्येति — परमार्थतः — ताभ्यामसंसृष्टस्वभावत्वात् — तथा मूढैः अशनायापिपासादिमद्ब्रह्म गम्यमानमपि — क्षुधितोऽहं पिपासितोऽहमिति, ते अत्येत्येव — परमार्थतः — ताभ्यामसंसृष्टस्वभावत्वात् ; [‘न लिप्यते लोकदुःखेन बाह्यः’ (क. उ. २। २। ११)](https://advaitasharada.sringeri.net/display/bhashya/Kathaka?page=2&id=Ka_C02_S02_V11&hl=न लिप्यते लोकदुःखेन बाह्यः) इति श्रुतेः — अविद्वल्लोकाध्यारोपितदुःखेनेत्यर्थः। प्राणैकधर्मत्वात् समासकरणमशनायापिपासयोः। शोकं मोहम् — शोक इति कामः ; इष्टं वस्तु उद्दिश्य चिन्तयतो यत् अरमणम् , तत् तृष्णाभिभूतस्य कामबीजम् ; तेन हि कामो दीप्यते ; मोहस्तु विपरीतप्रत्ययप्रभवोऽविवेकः भ्रमः ; स च अविद्या सर्वस्यानर्थस्य प्रसवबीजम् ; भिन्नकार्यत्वात्तयोः शोकमोहयोः असमासकरणम्। तौ मनोऽधिकरणौ ; तथा शरीराधिकरणौ जरां मृत्युं च अत्येति ; जरेति कार्यकरणसङ्घातविपरिणामः वलीपलितादिलिङ्गः ; मृत्युरिति तद्विच्छेदः विपरिणामावसानः ; तौ जरामृत्यू शरीराधिकरणौ अत्येति। ये ते अशनायादयः प्राणमनःशरीराधिकरणाः प्राणिषु अनवरतं वर्तमानाः अहोरात्रादिवत् समुद्रोर्मिवच्च प्राणिषु संसार इत्युच्यन्ते ; योऽसौ दृष्टेर्द्रष्टेत्यादिलक्षणः साक्षादव्यवहितः अपरोक्षादगौणः सर्वान्तर आत्मा ब्रह्मादिस्तम्बपर्यन्तानां भूतानाम् अशनायापिपासादिभिः संसारधर्मैः सदा न स्पृश्यते — आकाश इव घनादिमलैः — तम् एतं वै आत्मानं स्वं तत्त्वम् , विदित्वा ज्ञात्वा — अयमहमस्मि परं ब्रह्म सदा सर्वसंसारविनिर्मुक्तं नित्यतृप्तमिति, ब्राह्मणाः — ब्राह्मणानामेवाधिकारो व्युत्थाने, अतो ब्राह्मणग्रहणम् — व्युत्थाय वैपरीत्येनोत्थानं कृत्वा ; कुत इत्याह — पुत्रैषणायाः पुत्रार्थैषणा पुत्रैषणा — पुत्रेणेमं लोकं जयेयमिति लोकजयसाधनं पुत्रं प्रति इच्छा एषणा दारसङ्ग्रहः ; दारसङ्ग्रहमकृत्वेत्यर्थः ; वित्तैषणायाश्च — कर्मसाधनस्य गवादेरुपादानम् — अनेन कर्मकृत्वा पितृलोकं जेष्यामीति, विद्यासंयुक्तेन वा देवलोकम् , केवलया वा हिरण्यगर्भविद्यया दैवेन वित्तेन देवलोकम्। दैवाद्वित्तात् व्युत्थानमेव नास्तीति केचित् , यस्मात् तद्बलेन हि किल व्युत्थानमिति — तदसत् , [‘एतावान्वै कामः’ (बृ. उ. १। ४। १७)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=1&id=BR_C01_S04_V17&hl=एतावान्वै कामः) इति पठितत्वात् एषणामध्ये दैवस्य वित्तस्य ; हिरण्यगर्भादिदेवताविषयैव विद्या वित्तमित्युच्यते, देवलोकहेतुत्वात् ; नहि निरुपाधिकप्रज्ञानघनविषया ब्रह्मविद्या देवलोकप्राप्तिहेतुः, ‘तस्मात्तत्सर्वमभवत्’ (बृ. उ. १। ४। १०) [‘आत्मा ह्येषां स भवति’ (बृ. उ. १। ४। १)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=1&id=BR_C01_S04_V01&hl=आत्मा ह्येषां स भवति) इति श्रुतेः ; तद्बलेन हि व्युत्थानम् , [‘एतं वै तमात्मानं विदित्वा’ (बृ. उ. ३। ५। १)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=3&id=BR_C03_S05_V01&hl=एतं वै तमात्मानं विदित्वा) इति विशेषवचनात्। तस्मात् त्रिभ्योऽप्येतेभ्यः अनात्मलोकप्राप्तिसाधनेभ्यः एषणाविषयेभ्यो व्युत्थाय — एषणा कामः, [‘एतावान्वै कामः’ (बृ. उ. १। ४। १७)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=1&id=BR_C01_S04_V17&hl=एतावान्वै कामः) इति श्रुतेः — एतस्मिन् विविधे अनात्मलोकप्राप्तिसाधने तृष्णामकृत्वेत्यर्थः। सर्वा हि साधनेच्छा फलेच्छैव, अतो व्याचष्टे श्रुतिः — एकैव एषणेति ; कथम् ? या ह्येव पुत्रैषणा सा वित्तैषणा, दृष्टफलसाधनत्वतुल्यत्वात् ; या वित्तैषणा सा लोकैषणा ; फलार्थैव सा ; सर्वः फलार्थप्रयुक्त एव हि सर्वं साधनमुपादत्ते ; अत एकैव एषणा या लोकैषणा सा साधनमन्तरेण सम्पादयितुं न शक्यत इति, साध्यसाधनभेदेन उभे हि यस्मात् एते एषणे एव भवतः। तस्मात् ब्रह्मविदो नास्ति कर्म कर्मसाधनं वा — अतो येऽतिक्रान्ता ब्राह्मणाः, सर्वं कर्म कर्मसाधनं च सर्वं देवपितृमानुषनिमित्तं यज्ञोपवीतादि — तेन हि दैवं पित्र्यं मानुषं च कर्म क्रियते, ‘निवीतं मनुष्याणाम्’ (तै. सं. २। ५। ११। १) इत्यादिश्रुतेः। तस्मात् पूर्वे ब्राह्मणाः ब्रह्मविदः व्युत्थाय कर्मभ्यः कर्मसाधनेभ्यश्च यज्ञोपवीतादिभ्यः, परमहंसपारिव्राज्यं प्रतिपद्य, भिक्षाचर्यं चरन्ति — भिक्षार्थं चरणं भिक्षाचर्यम् , चरन्ति — त्यक्त्वा स्मार्तं लिङ्गं केवलमाश्रममात्रशरणानां जीवनसाधनं पारिव्राज्यव्यञ्जकम् ; विद्वान् लिङ्गवर्जितः — ‘तस्मादलिङ्गो धर्मज्ञोऽव्यक्तलिङ्गोऽव्यक्ताचारः’ (अश्व. ४६। ५१) (व. १०। १२) इत्यादिस्मृतिभ्यः, [‘अथ परिव्राड्विवर्णवासा मुण्डोऽपरिग्रहः’ (जा. उ. ५)](https://advaitasharada.sringeri.net/display/bhashya/jbl?page=NaN&id=JB_V05&hl=अथ परिव्राड्विवर्णवासा मुण्डोऽपरिग्रहः) इत्यादिश्रुतेः, ‘सशिखान्केशान्निकृत्य विसृज्य यज्ञोपवीतम्’ (क. रु. १) इति च ॥
ननु ‘व्युत्थायाथ भिक्षाचर्यं चरन्ति’ इति वर्तमानापदेशात् अर्थवादोऽयम् ; न विधायकः प्रत्ययः कश्चिच्छ्रूयते लिङ्लोट्तव्यानामन्यतमोऽपि ; तस्मात् अर्थवादमात्रेण श्रुतिस्मृतिविहितानां यज्ञोपवीतादीनां साधनानां न शक्यते परित्यागः कारयितुम् ; ‘यज्ञोपवीत्येवाधीयीत याजयेद्यजेत वा’ (तै. आ. २। १। १)। पारिव्राज्ये तावदध्ययनं विहितम् — ‘वेदसन्न्यसनाच्छूद्रस्तस्माद्वेदं न सन्न्यसेत्’ इति ; ‘स्वाध्याय एवोत्सृज्यमानो वाचम्’ (आ. ध. २। २१। १०) इति च आपस्तम्बः ; ‘ब्रह्मोज्झं वेदनिन्दा च कौटसाक्ष्यं सुहृद्वधः। गर्हितान्नाद्ययोर्जग्धिः सुरापानसमानि षट्’ (मनु. ११। ५६) — इति वेदपरित्यागे दोषश्रवणात्। ‘उपासने गुरूणां वृद्धानामतिथीनां होमे जप्यकर्मणि भोजन आचमने स्वाध्याये च यज्ञोपवीती स्यात्’ (आ. ध. १। १५। १) इति परिव्राजकधर्मेषु च गुरूपासनस्वाध्याय भोजनाचमनादीनां कर्मणां श्रुतिस्मृतिषु कर्तव्यतया चोदितत्वात् गुर्वाद्युपासनाङ्गत्वेन यज्ञोपवीतस्य विहितत्वात् तत्परित्यागो नैवावगन्तुं शक्यते। यद्यपि एषणाभ्यो व्युत्थानं विधीयत एव, तथापि पुत्राद्येषणाभ्यस्तिसृभ्य एव व्युत्थानम् , न तु सर्वस्मात्कर्मणः कर्मसाधनाच्च व्युत्थानम् ; सर्वपरित्यागे च अश्रुतं कृतं स्यात् , श्रुतं च यज्ञोपवीतादि हापितं स्यात् ; तथा च महानपराधः विहिताकरणप्रतिषिद्धाचरणनिमित्तः कृतः स्यात् ; तस्मात् यज्ञोपवीतादिलिङ्गपरित्यागोऽन्धपरम्परैव ॥
न, ‘यज्ञोपवीतं वेदांश्च सर्वं तद्वर्जयेद्यतिः’ (क. रु. २) इति श्रुतेः। अपि च आत्मज्ञानपरत्वात्सर्वस्या उपनिषदः — आत्मा द्रष्टव्यः श्रोतव्यो मन्तव्य इति हि प्रस्तुतम् ; स च आत्मैव साक्षादपरोक्षात्सर्वान्तरः अशनायादिसंसारधर्मवर्जित इत्येवं विज्ञेय इति तावत् प्रसिद्धम् ; सर्वा हीयमुपनिषत् एवंपरेति विध्यन्तरशेषत्वं तावन्नास्ति, अतो नार्थवादः, आत्मज्ञानस्य कर्तव्यत्वात्। आत्मा च अशनायादिधर्मवान्न भवतीति साधनफलविलक्षणो ज्ञातव्यः ; अतोऽव्यतिरेकेण आत्मनो ज्ञानमविद्या — ‘अन्योऽसावन्योऽहमस्मीति’, (बृ. उ. १। ४। १०) न स वेद, [‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’, (बृ. उ. ४। ४। १९)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=4&id=BR_C04_S04_V19&hl=मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति,) ‘एकधैवानुद्रष्टव्यम्’, (छा. उ. ६। २। १) ‘एकमेवाद्वितीयम्’, ‘तत्त्वमसि’ (छा. उ. ६। ८। ७) इत्यादिश्रुतिभ्यः। क्रियाफलं साधनं अशनायादिसंसारधर्मातीतादात्मनोऽन्यत् अविद्याविषयम् — [‘यत्र हि द्वैतमिव भवति’ (बृ. उ. २। ४। १४)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=2&id=BR_C02_S04_V14&hl=यत्र हि द्वैतमिव भवति) ‘अन्योऽसावन्योऽहमस्मीति, ’ (बृ. उ. १। ४। १०) ‘न स वेद’ [‘अथ येऽन्यथातो विदुः’ (छा. उ. ७। २५। २)](https://advaitasharada.sringeri.net/display/bhashya/Chandogya?page=7&id=Ch_C07_S25_V02&hl=अथ येऽन्यथातो विदुः) इत्यादिवाक्यशतेभ्यः। न च विद्याविद्ये एकस्य पुरुषस्य सह भवतः, विरोधात् — तमःप्रकाशाविव ; तस्मात् आत्मविदः अविद्याविषयोऽधिकारो न द्रष्टव्यः क्रियाकारकफलभेदरूपः, [‘मृत्योः स मृत्युमाप्नोति’ (बृ. उ. ४। ४। १९)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=4&id=BR_C04_S04_V19&hl=मृत्योः स मृत्युमाप्नोति) इत्यादिनिन्दितत्वात् , सर्वक्रियासाधनफलानां च अविद्याविषयाणां तद्विपरीतात्मविद्यया हातव्यत्वेनेष्टत्वात् , यज्ञोपवीतादिसाधनानां च तद्विषयत्वात्। तस्मात् असाधनफलस्वभावादात्मनः अन्यविषया विलक्षणा एषणा ; उभे ह्येते साधनफले एषणे एव भवतः यज्ञोपवीतादेस्तत्साध्यकर्मणां च साधनत्वात् , ‘उभे ह्येते एषणे एव’ इति हेतुवचनेनावधारणात्। यज्ञोपवीतादिसाधनात् तत्साध्येभ्यश्च कर्मभ्यः अविद्याविषयत्वात् एषणारूपत्वाच्च जिहासितव्यरूपत्वाच्च व्युत्थानं विधित्सितमेव। ननूपनिषद आत्मज्ञानपरत्वात् व्युत्थानश्रुतिः तत्स्तुत्यर्था, न विधिः — न, विधित्सितविज्ञानेन समानकर्तृकत्वश्रवणात् ; न हि अकर्तव्येन कर्तव्यस्य समानकर्तृकत्वेन वेदे कदाचिदपि श्रवणं सम्भवति ; कर्तव्यानामेव हि अभिषवहोमभक्षाणां यथा श्रवणम् — अभिषुत्य हुत्वा भक्षयन्तीति, तद्वत् आत्मज्ञानैषणाव्युत्थानभिक्षाचर्याणां कर्तव्यानामेव समानकर्तृकत्वश्रवणं भवेत्। अविद्याविषयत्वात् एषणात्वाच्च अर्थप्राप्त आत्मज्ञानविधेरेव यज्ञोपवीतादिपरित्यागः, न तु विधातव्य इति चेत् — न ; सुतरामात्मनज्ञानविधिनैव विहितस्य समानकर्तृकत्वश्रवणेन दार्ढ्योपपत्तिः, तथा भिक्षाचर्यस्य च। यत्पुनरुक्तम् , वर्तमानापदेशादर्थवादमात्रमिति — न, औदुम्बरयूपादिविधिसमानत्वाददोषः ॥
‘व्युत्थाय भिक्षाचर्यं चरन्ति’ इत्यनेन पारिव्राज्यं विधीयते ; पारिव्राज्याश्रमे च यज्ञोपवीतादिसाधनानि विहितानि लिङ्गं च श्रुतिभिः स्मृतिभिश्च ; अतः तत् वर्जयित्वा अन्यस्माद्व्युत्थानम् एषणात्वेऽपीति चेत् — न, विज्ञानसमानकर्तृकात्पारिव्राज्यात् एषणाव्युत्थानलक्षणात् पारिव्राज्यान्तरोपपत्तेः ; यद्धि तत् एषणाभ्यो व्युत्थानलक्षणं पारिव्राज्यम् , तत् आत्मज्ञानाङ्गम् , आत्मज्ञानविरोध्येषणापरित्यागरूपत्वात् , अविद्याविषयत्वाच्चैषणायाः ; तद्व्यतिरेकेण च अस्ति आश्रमरूपं पारिव्राज्यं ब्रह्मलोकादिफलप्राप्तिसाधनम् , यद्विषयं यज्ञोपवीतादिसाधनविधानं लिङ्गविधानं च। न च एषणारूपसाधनोपादानस्य आश्रमधर्ममात्रेण पारिव्राज्यान्तरे विषये सम्भवति सति, सर्वोपनिषद्विहितस्य आत्मज्ञानस्य बाधनं युक्तम् , यज्ञोपवीताद्यविद्याविषयैषणारूपसाधनोपादित्सायां च अवश्यम् असाधनफलरूपस्य अशनायादिसंसारधर्मवर्जितस्य अहं ब्रह्मास्मीति विज्ञानं बाध्यते। न च तद्बाधनं युक्तम् , सर्वोपनिषदां तदर्थपरत्वात्। ‘भिक्षाचर्यं चरन्ति’ इत्येषणां ग्राहयन्ती श्रुतिः स्वयमेव बाधत इति चेत् — अथापि स्यादेषणाभ्यो व्युत्थानं विधाय पुनरेषणैकदेशं भिक्षाचर्यं ग्राहयन्ती तत्सम्बद्धमन्यदपि ग्राहयतीति चेत् — न, भिक्षाचर्यस्याप्रयोजकत्वात् — हुत्वोत्तरकालभक्षणवत् ; शेषप्रतिपत्तिकर्मत्वात् अप्रयोजकं हि तत् ; असंस्कारकत्वाच्च — भक्षणं पुरुषसंस्कारकमपि स्यात् , न तु भिक्षाचर्यम् ; नियमादृष्टस्यापि ब्रह्मविदः अनिष्टत्वात्। नियमादृष्टस्यानिष्टत्वे किं भिक्षाचर्येणेति चेत् — न, अन्यसाधनात् व्युत्थानस्य विहितत्वात्। तथापि किं तेनेति चेत् — यदि स्यात् , बाढम् अभ्युपगम्यते हि तत्। यानि पारिव्राज्येऽभिहितानि वचनानि ‘यज्ञोपवीत्येवाधीयीत’ (तै. आ. २। १। १) इत्यादीनि, तानि अविद्वत्पारिव्राज्यमात्रविषयाणीति परिहृतानि ; इतरथात्मज्ञानबाधः स्यादिति ह्युक्तम् ; ‘निराशिषमनारम्भं निर्नमस्कारमस्तुतिम्। अक्षीणं क्षीणकर्माणं तं देवा ब्राह्मणं विदुः’ (मो. ध. २६३। ३४) इति सर्वकर्माभावं दर्शयति स्मृतिः विदुषः — ‘विद्वांल्लिङ्गविवर्जितः’ ( ? ), ‘तस्मादलिङ्गो धर्मज्ञः’ (अश्व. ४६। ५१) इति च। तस्मात् परमहंसपारिव्राज्यमेव व्युत्थानलक्षणं प्रतिपद्येत आत्मवित् सर्वकर्मसाधनपरित्यागरूपमिति ॥
यस्मात् पूर्वे ब्राह्मणा एतमात्मानम् असाधनफलस्वभावं विदित्वा सर्वस्मात् साधनफलस्वरूपात् एषणालक्षणात् व्युत्थाय भिक्षाचर्यं चरन्ति स्म, दृष्टादृष्टार्थं कर्म तत्साधनं च हित्वा — तस्मात् अद्यत्वेऽपि ब्राह्मणः ब्रह्मवित् , पाण्डित्यं पण्डितभावम् , एतदात्मविज्ञानं पाण्डित्यम् , तत् निर्विद्य निःशेषं विदित्वा, आत्मविज्ञानं निरवशेषं कृत्वेत्यर्थः — आचार्यत आगमतश्च एषणाभ्यो व्युत्थाय — एषणाव्युत्थानावसानमेव हि तत्पाण्डित्यम् , एषणातिरस्कारोद्भवत्वात् एषणाविरुद्धत्वात् ; एषणामतिरस्कृत्य न ह्यात्मविषयस्य पाण्डित्यस्योद्भव इति आत्मज्ञानेनैव विहितमेषणाव्युत्थानम् आत्मज्ञानसमानकर्तृकत्वाप्रत्ययोपादानलिङ्गश्रुत्या दृढीकृतम्। तस्मात् एषणाभ्यो व्युत्थाय ज्ञानबलभावेन बाल्येन तिष्ठासेत् स्थातुमिच्छेत् ; साधनफलाश्रयणं हि बलम् इतरेषामनात्मविदाम् ; तद्बलं हित्वा विद्वान् असाधनफलस्वरूपात्मविज्ञानमेव बलं तद्भावमेव केवलम् आश्रयेत् , तदाश्रयणे हि करणानि एषणाविषये एनं हृत्वा स्थापयितुं नोत्सहन्ते ; ज्ञानबलहीनं हि मूढं दृष्टादृष्टविषयायामेषणायामेव एनं करणानि नियोजयन्ति ; बलं नाम आत्मविद्यया अशेषविषयदृष्टितिरस्करणम् ; अतः तद्भावेन बाल्येन तिष्ठासेत् , तथा [‘आत्मना विन्दते वीर्यम्’ (के. उ. २। ४)](https://advaitasharada.sringeri.net/display/bhashya/Kena_pada?page=2&id=KP_C02_V04&hl=आत्मना विन्दते वीर्यम्) इति श्रुत्यन्तरात् , [‘नायमात्मा बलहीनेन लभ्यः’ (मु. उ. ३। २। ४)](https://advaitasharada.sringeri.net/display/bhashya/Mundaka?page=3&id=MD_C03_S02_V04&hl=नायमात्मा बलहीनेन लभ्यः) इति च। बाल्यं च पाण्डित्यं च निर्विद्य निःशेषं कृत्वा अथ मननान्मुनिः योगी भवति ; एतावद्धि ब्राह्मणेन कर्तव्यम् , यदुत सर्वानात्मप्रत्ययतिरस्करणम् ; एतत्कृत्वा कृतकृत्यो योगी भवति। अमौनं च आत्मज्ञानानात्मप्रत्ययतिरस्कारौ पाण्डित्यबाल्यसंज्ञकौ निःशेषं कृत्वा, मौनं नाम अनात्मप्रत्ययतिरस्करणस्य पर्यवसानं फलम् — तच्च निर्विद्य अथ ब्राह्मणः कृतकृत्यो भवति — ब्रह्मैव सर्वमिति प्रत्यय उपजायते। स ब्राह्मणः कृतकृत्यः, अतो ब्राह्मणः ; निरुपचरितं हि तदा तस्य ब्राह्मण्यं प्राप्तम् ; अत आह — स ब्राह्मणः केन स्यात् केन चरणेन भवेत् ? येन स्यात् — येन चरणेन भवेत् , तेन ईदृश एवायम् — येन केनचित् चरणेन स्यात् , तेन ईदृश एव उक्तलक्षण एव ब्राह्मणो भवति ; येन केनचिच्चरणेनेति स्तुत्यर्थम् — येयं ब्राह्मण्यावस्था सेयं स्तूयते, न तु चरणेऽनादरः। अतः एतस्माद्ब्राह्मण्यावस्थानात् अशनायाद्यतीतात्मस्वरूपात् नित्यतृप्तात् , अन्यत् अविद्याविषयमेषणालक्षणं वस्त्वन्तरम् , आर्तम् विनाशि आर्तिपरिगृहीतं स्वप्नमायामरीच्युदकसमम् असारम् , आत्मैव एकः केवलो नित्यमुक्त इति। ततो ह कहोलः कौषीतकेयः उपरराम ॥
इति तृतीयाध्यायस्य पञ्चमं ब्राह्मणम् ॥