4

अथ हैनमुषस्तश्चाक्रायणः पप्रच्छ। पुण्यपापप्रयुक्तैर्ग्रहातिग्रहैर्गृहीतः पुनः पुनः ग्रहातिग्रहान् त्यजन् उपाददत् संसरतीत्युक्तम् ; पुण्यस्य च पर उत्कर्षो व्याख्यातः व्याकृतविषयः समष्टिव्यष्टिरूपः द्वैतैकत्वात्मप्राप्तिः। यस्तु ग्रहातिग्रहैर्ग्रस्तः संसरति, सः अस्ति वा, न अस्ति ; अस्तित्वे च किंलक्षणः — इति आत्मन एव विवेकाधिगमाय उषस्तप्रश्न आरभ्यते। तस्य च निरुपाधिस्वरूपस्य क्रियाकारकविनिर्मुक्तस्वभावस्य अधिगमात् यथोक्ताद्बन्धनात् विमुच्यते सप्रयोजकात् आख्यायिकसम्बन्धस्तु प्रसिद्धः ॥

अथ हैनमुषस्तश्चाक्रायणः पप्रच्छ याज्ञवल्क्येति होवाच यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वेत्येष त आत्मा सर्वान्तरः कतमो याज्ञवल्क्य सर्वान्तरो यः प्राणेन प्राणिति स त आत्मा सर्वान्तरो योऽपानेनापानीति स त आत्मा सर्वान्तरो यो व्यानेन व्यानीति स त आत्मा सर्वान्तरो य उदानेनोदानिति स त आत्मा सर्वान्तर एष त आत्मा सर्वान्तरः ॥ १ ॥

अथ ह एनं प्रकृतं याज्ञवल्क्यम् , उषस्तो नामतः, चक्रस्यापत्यं चाक्रायणः, पप्रच्छ। यत् ब्रह्म साक्षात् अव्यवहितं केनचित् द्रष्टुः अपरोक्षात् — अगौणम् — न श्रोत्रब्रह्मादिवत् — किं तत् ? य आत्मा — आत्मशब्देन प्रत्यगात्मोच्यते, तत्र आत्मशब्दस्य प्रसिद्धत्वात् ; सर्वस्याभ्यन्तरः सर्वान्तरः ; यद्यःशब्दाभ्यां प्रसिद्ध आत्मा ब्रह्मेति — तम् आत्मानम् , मे मह्यम् , व्याचक्ष्वेति — विस्पष्टं शृङ्गे गृहीत्वा यथा गां दर्शयति तथा आचक्ष्व, सोऽयमित्येवं कथयस्वेत्यर्थः। एवमुक्तः प्रत्याह याज्ञवल्क्यः — एषः ते तव आत्मा सर्वान्तरः सर्वस्याभ्यन्तरः ; सर्वविशेषणोपलक्षणार्थं सर्वान्तरग्रहणम् ; यत् साक्षात् अव्यवहितम् अपरोक्षात् अगौणम् ब्रह्म बृहत्तमम् आत्मा सर्वस्य सर्वस्याभ्यन्तरः, एतैर्गुणैः समस्तैर्युक्तः एषः, कोऽसौ तवात्मा ? योऽयं कार्यकरणसङ्घातः तव सः येनात्मना आत्मवान् स एष तव आत्मा — तव कार्यकरणसङ्घातस्येत्यर्थः। तत्र पिण्डः, तस्याभ्यन्तरे लिङ्गात्मा करणसङ्घातः, तृतीयो यश्च सन्दिह्यमानः — तेषु कतमो मम आत्मा सर्वान्तरः त्वया विवक्षित इत्युक्ते इतर आह — यः प्राणेन मुखनासिकासञ्चारिणा प्राणिति प्राणचेष्टां करोति, येन प्राणः प्रणीयत इत्यर्थः — सः ते तव कार्यकरणसङ्घातस्य आत्मा विज्ञानमयः ; समानमन्यत् ; योऽपानेनापानीति यो व्यानेन व्यानीतीति — छान्दसं दैर्घ्यम्। सर्वाः कार्यकरणसङ्घातगताः प्राणनादिचेष्टा दारुयन्त्रस्येव येन क्रियन्ते — न हि चेतनावदनधिष्ठितस्य दारुयन्त्रस्येव प्राणनादिचेष्टा विद्यन्ते ; तस्मात् विज्ञानमयेनाधिष्ठितं विलक्षणेन दारुयन्त्रवत् प्राणनादिचेष्टां प्रतिपद्यते — तस्मात् सोऽस्ति कार्यकरणसङ्घातविलक्षणः, यश्चेष्टयति ॥

स होवाचोषस्तश्चाक्रायणो यथा विब्रूयादसौ गौरसावश्व इत्येवमेवैतद्व्यपदिष्टं भवति यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वेत्येष त आत्मा सर्वान्तरः कतमो याज्ञवल्क्य सर्वान्तरः। न दृष्टेर्द्रष्टारं पश्येर्न श्रुतेः श्रोतारं शृणुया न मतेर्मन्तारं मन्वीथा न विज्ञातेर्विज्ञातारं विजानीयाः। एष त आत्मा सर्वान्तरोऽतोऽन्यदार्तं ततो होषस्तश्चाक्रायण उपरराम ॥ २ ॥

स होवाचोषस्तश्चाक्रायणः ; यथा कश्चित् अन्यथा प्रतिज्ञाय पूर्वम् , पुनर्विप्रतिपन्नो ब्रूयादन्यथा — असौ गौः असावश्वः यश्चलति धावतीति वा, पूर्वं प्रत्यक्षं दर्शयामीति प्रतिज्ञाय, पश्चात् चलनादिलिङ्गैर्व्यपदिशति — एवमेव एतद्ब्रह्म प्राणनादिलिङ्गैर्व्यपदिष्टं भवति त्वया ; किं बहुना ? त्यक्त्वा गोतृष्णानिमित्तं व्याजम् , यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरः, तं मे व्याचक्ष्वेति। इतर आह — यथा मया प्रथमं प्रतिज्ञातः तव आत्मा — एवँलक्षण इति — तां प्रतिज्ञामनुवर्त एव ; तत् तथैव, यथोक्तं मया। यत्पुनरुक्तम् , तमात्मानं घटादिवत् विषयीकुर्विति — तत् अशक्यत्वान्न क्रियते। कस्मात्पुनः तदशक्यमित्याह — वस्तुस्वाभाव्यात् ; किं पुनः तत् वस्तुस्वाभाव्यम् ? दृष्ट्यादिद्रष्टृत्वम् ; दृष्टेर्द्रष्टा ह्यात्मा ; दृष्टिरिति द्विविधा भवति — लौकिकी पारमार्थिकी चेति ; तत्र लौकिकी चक्षुःसंयुक्तान्तःकरणवृत्तिः ; सा क्रियत इति जायते विनश्यति च ; या तु आत्मनो दृष्टिः अग्न्युष्णप्रकाशादिवत् , सा च द्रष्टुः स्वरूपत्वात् , न जायते न विनश्यति च ; सा क्रियमाणया उपाधिभूतया संसृष्टेवेति, व्यपदिश्यते — द्रष्टेति, भेदवच्च — द्रष्टा दृष्टिरिति च ; यासौ लौकिकी दृष्टिः चक्षुर्द्वारा रूपोपरक्ता जायमानैव नित्यया आत्मदृष्ट्या संसृष्टेव, तत्प्रतिच्छाया — तया व्याप्तैव जायते, तथा विनश्यति च ; तेन उपचर्यते द्रष्टा सदा पश्यन्नपि — पश्यति न पश्यति चेति ; न तु पुनः द्रष्टुर्दृष्टेः कदाचिदप्यन्यथात्वम् ; तथा च वक्ष्यति षष्ठे — [‘ध्यायतीव लेलायतीव’ (बृ. उ. ४। ३। ७)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=4&id=BR_C04_S03_V07&hl=ध्यायतीव लेलायतीव), [‘न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते’ (बृ. उ. ४। ३। २३)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=4&id=BR_C04_S03_V23&hl=न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते) इति च। तमिममर्थमाह — लौकिक्या दृष्टेः कर्मभूतायाः, द्रष्टारं स्वकीयया नित्यया दृष्ट्या व्याप्तारम् , न पश्येः ; यासौ लौकिकी दृष्टिः कर्मभूता, सा रूपोपरक्ता रूपाभिव्यञ्जिका न आत्मानं स्वात्मनो व्याप्तारं प्रत्यञ्चं व्याप्नोति ; तस्मात् तं प्रत्यगात्मानं दृष्टेर्द्रष्टारं न पश्येः। तथा श्रुतेः श्रोतारं न शृणुयाः। तथा मतेः मनोवृत्तेः केवलाया व्याप्तारं न मन्वीथाः। तथा विज्ञातेः केवलाया बुद्धिवृत्तेः व्याप्तारं न विजानीयाः। एष वस्तुनः स्वभावः ; अतः नैव दर्शयितुं शक्यते गवादिवत् ॥

‘न दृष्टेर्द्रष्टारम्’ इत्यत्र अक्षराणि अन्यथा व्याचक्षते केचित् — न दृष्टेर्द्रष्टारम् दृष्टेः कर्तारम् दृष्टिभेदमकृत्वा दृष्टिमात्रस्य कर्तारम् , न पश्येरिति ; दृष्टेरिति कर्मणि षष्ठी ; सा दृष्टिः क्रियमाणा घटवत् कर्म भवति ; द्रष्टारमिति तृजन्तेन द्रष्टुर्दृष्टिकर्तृत्वमाचष्टे ; तेन असौ दृष्टेर्द्रष्टा दृष्टेः कर्तेति व्याख्यातॄणामभिप्रायः। तत्र दृष्टेरिति षष्ठ्यन्तेन दृष्टिग्रहणं निरर्थकमिति दोषं न पश्यन्ति ; पश्यतां वा पुनरुक्तम् असारः प्रमादपाठ इति वा न आदरः ; कथं पुनराधिक्यम् ? तृजन्तेनैव दृष्टिकर्तृत्वस्य सिद्धत्वात् दृष्टेरिति निरर्थकम् ; तदा ‘द्रष्टारं न पश्येः’ इत्येतावदेव वक्तव्यम् ; यस्माद्धातोः परः तृच् श्रूयते, तद्धात्वर्थकर्तरि हि तृच् स्मर्यते ; ‘गन्तारं भेत्तारं वा नयति’ इत्येतावानेव हि शब्दः प्रयुज्यते ; न तु ‘गतेर्गन्तारं भिदेर्भेत्तारम्’ इति असति अर्थविशेषे प्रयोक्तव्यः ; न च अर्थवादत्वेन हातव्यं सत्यां गतौ ; न च प्रमादपाठः, सर्वेषामविगानात् ; तस्मात् व्याख्यातॄणामेव बुद्धिदौर्बल्यम् , नाध्येतृप्रमादः। यथा तु अस्माभिर्व्याख्यातम् — लौकिकदृष्टेर्विविच्य नित्यदृष्टिविशिष्ट आत्मा प्रदर्शयितव्यः — तथा कर्तृकर्मविशेषणत्वेन दृष्टिशब्दस्य द्विः प्रयोग उपपद्यते आत्मस्वरूपनिर्धारणाय ; ‘न हि द्रष्टुर्दृष्टेः’ इति च प्रदेशान्तरवाक्येन एकवाक्यतोपपन्ना भवति ; तथा च [‘चक्षूंषि पश्यति’ (के. उ. १। ७)](https://advaitasharada.sringeri.net/display/bhashya/Kena_pada?page=1&id=KP_C01_V07&hl=चक्षूंषि पश्यति) [‘श्रोत्रमिदं श्रुतम्’ (के. उ. १। ८)](https://advaitasharada.sringeri.net/display/bhashya/Kena_pada?page=1&id=KP_C01_V08&hl=श्रोत्रमिदं श्रुतम्) इति श्रुत्यन्तरेण एकवाक्यता उपपन्ना। न्यायाच्च — एवमेव हि आत्मनो नित्यत्वमुपपद्यते विक्रियाभावे ; विक्रियावच्च नित्यमिति च विप्रतिषिद्धम्। [‘ध्यायतीव लेलायतीव’ (बृ. उ. ४। ३। ७)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=4&id=BR_C04_S03_V07&hl=ध्यायतीव लेलायतीव) [‘न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते’ (बृ. उ. ४। ३। २३)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=4&id=BR_C04_S03_V23&hl=न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते) [‘एष नित्यो महिमा ब्राह्मणस्य’ (बृ. उ. ४। ४। २३)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=4&id=BR_C04_S04_V23&hl=एष नित्यो महिमा ब्राह्मणस्य) इति च श्रुत्यक्षराणि अन्यथा न गच्छन्ति। ननु द्रष्टा श्रोता मन्ता विज्ञाता इत्येवमादीन्यक्षराणि आत्मनोऽविक्रियत्वे न गच्छन्तीति — न, यथाप्राप्तलौकिकवाक्यानुवादित्वात् तेषाम् ; न आत्मतत्त्वनिर्धारणार्थानि तानि ; ‘न दृष्टेर्द्रष्टारम्’ इत्येवमादीनाम् अन्यार्थासम्भवात् यथोक्तार्थपरत्वमवगम्यते। तस्मात् अनवबोधादेव हि विशेषणं परित्यक्तं दृष्टेरिति। एषः ते तव आत्मा सर्वैरुक्तैर्विशेषणैर्विशिष्टः ; अतः एतस्मादात्मनः अन्यदार्तम् — कार्यं वा शरीरम् , करणात्मकं वा लिङ्गम् ; एतदेव एकम् अनार्तम् अविनाशि कूटस्थम्। ततो ह उषस्तश्चाक्रायण उपरराम ॥

इति तृतीयाध्यायस्य चतुर्थं ब्राह्मणम् ॥