आख्यायिकासम्बन्धः प्रसिद्ध एव। मृत्योरतिमुक्तिर्व्याख्याता काललक्षणात् कर्मलक्षणाच्च ; कः पुनरसौ मृत्युः, यस्मात् अतिमुक्तिर्व्याख्याता ? स च स्वाभाविकाज्ञानसङ्गास्पदः अध्यात्माधिभूतविषयपरिच्छिन्नः ग्रहातिग्रहलक्षणो मृत्युः। तस्मात्परिच्छिन्नरूपान्मृत्योरतिमुक्तस्य रूपाणि अग्न्यादित्यादीनि उद्गीथप्रकरणे व्याख्यातानि ; अश्वलप्रश्ने च तद्गतो विशेषः कश्चित् ; तच्च एतत् कर्मणां ज्ञानसहितानां फलम्। एतस्मात्साध्यसाधनरूपात्संसारान्मोक्षः कर्तव्य इत्यतः बन्धनरूपस्य मृत्योः स्वरूपमुच्यते ; बद्धस्य हि मोक्षः कर्तव्यः। यदपि अतिमुक्तस्य स्वरूपमुक्तम् , तत्रापि ग्रहातिग्रहाभ्यामविनिर्मुक्त एव मृत्युरूपाभ्याम् ; तथा चोक्तम् — [‘अशनाया हि मृत्युः’ (बृ. उ. १। २। १)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=1&id=BR_C01_S02_V01&hl=अशनाया हि मृत्युः) ; ‘एष एव मृत्युः’ (श. ब्रा. १०। ५। २। ३) इति आदित्यस्थं पुरुषमङ्गीकृत्य आह, ‘एको मृत्युर्बहवा’ (श. ब्रा. १०। ५। २। १६) इति च ; तदात्मभावापन्नो हि मृत्योराप्तिमतिमुच्यत इत्युच्यते ; न च तत्र ग्रहातिग्रहौ मृत्युरूपौ न स्तः ; [‘अथैतस्य मनसो द्यौः शरीरं ज्योतीरूपमसावादित्यः’ (बृ. उ. १। ५। १२)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=1&id=BR_C01_S05_V12&hl=अथैतस्य मनसो द्यौः शरीरं ज्योतीरूपमसावादित्यः) [‘मनश्च ग्रहः स कामेनातिग्राहेण गृहीतः’ (बृ. उ. ३। २। ७)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=3&id=BR_C03_S02_V07&hl=मनश्च ग्रहः स कामेनातिग्राहेण गृहीतः) इति वक्ष्यति — [‘प्राणो वै ग्रहः सोऽपानेनातिग्राहेण’ (बृ. उ. ३। २। २)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=3&id=BR_C03_S02_V02&hl=प्राणो वै ग्रहः सोऽपानेनातिग्राहेण) इति, [‘वाग्वै ग्रहः स नाम्नातिग्राहेण’ (बृ. उ. ३। २। ३)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=3&id=BR_C03_S02_V03&hl=वाग्वै ग्रहः स नाम्नातिग्राहेण) इति च। तथा त्र्यन्नविभागे व्याख्यातमस्माभिः। सुविचारितं चैतत् — यदेव प्रवृत्तिकारणम् , तदेव निवृत्तिकारणं न भवतीति ॥
केचित्तु सर्वमेव निवृत्तिकारणं मन्यन्ते ; अतः कारणात् — पूर्वस्मात्पूर्वस्मात् मृत्योर्मुच्यते उत्तरमुत्तरं प्रतिपद्यमानः — व्यावृत्त्यर्थमेव प्रतिपद्यते, न तु तादर्थ्यम् — इत्यतः आद्वैतक्षयात् सर्वं मृत्युः, द्वैतक्षये तु परमार्थतो मृत्योराप्तिमतिमुच्यते ; अतश्च आपेक्षिकी गौणी मुक्तिरन्तराले। सर्वमेतत् एवम् अबार्हदारण्यकम्। ननु सर्वैकत्वं मोक्षः, ‘तस्मात्तत्सर्वमभवत्’ (बृ. उ. १। ४। १०) इति श्रुतेः — बाढं भवत्येतदपि ; न तु ‘ग्रामकामो यजेत’ (तै. आ. १२। १०। ४) ‘पशुकामो यजेत’ (तै. आ. १६। १२। ८) इत्यादिश्रुतीनां तादर्थ्यम् ; यदि हि अद्वैतार्थत्वमेव आसाम् , ग्रामपशुस्वर्गाद्यर्थत्वं नास्तीति ग्रामपशुस्वर्गादयो न गृह्येरन् ; गृह्यन्ते तु कर्मफलवैचित्र्यविशेषाः ; यदि च वैदिकानां कर्मणां तादर्थ्यमेव, संसार एव नाभविष्यत्। अथ तादर्थ्येऽपि अनुनिष्पादितपदार्थस्वभावः संसार इति चेत् , यथा च रूपदर्शनार्थ आलोके सर्वोऽपि तत्रस्थः प्रकाश्यत एव — न, प्रमाणानुपपत्तेः ; अद्वैतार्थत्वे वैदिकानां कर्मणां विद्यासहितानाम् , अन्यस्यानुनिष्पादितत्वे प्रमाणानुपपत्तिः — न प्रत्यक्षम् , नानुमानम् , अत एव च न आगमः। उभयम् एकेन वाक्येन प्रदर्श्यत इति चेत् , कुल्याप्रणयनालोकादिवत् — तन्नैवम् , वाक्यधर्मानुपपत्तेः ; न च एकवाक्यगतस्यार्थस्य प्रवृत्तिनिवृत्तिसाधनत्वमवगन्तुं शक्यते ; कुल्याप्रणयनालोकादौ अर्थस्य प्रत्यक्षत्वाददोषः। यदप्युच्यते — मन्त्रा अस्मिन्नर्थे दृष्टा इति — अयमेव तु तावदर्थः प्रमाणागम्यः ; मन्त्राः पुनः किमस्मिन्नर्थे आहोस्विदन्यस्मिन्नर्थे इति मृग्यमेतत्। तस्माद्ग्रहातिग्रहलक्षणो मृत्युः बन्धः, तस्मात् मोक्षो वक्तव्य इत्यत इदमारभ्यते। न च जानीमो विषयसम्बन्धाविव अन्तरालेऽवस्थानम् अर्धजरतीयं कौशलम्। यत्तु मृत्योरतिमुच्यते इत्युक्त्वा ग्रहातिग्रहावुच्येते, तत्तु अर्थसम्बन्धात् ; सर्वोऽयं साध्यसाधनलक्षणो बन्धः, ग्रहातिग्रहाविनिर्मोकात् ; निगडे हि निर्ज्ञाते निगडितस्य मोक्षाय यत्नः कर्तव्यो भवति। तस्मात् तादर्थ्येन आरम्भः ॥
अथ हैनं जारत्कारव आर्तभागः पप्रच्छ याज्ञवल्क्येति होवाच कति ग्रहाः कत्यतिग्रहा इति। अष्टौ ग्रहा अष्टावतिग्रहा इति ये तेऽष्टौ ग्रहा अष्टावतिग्रहाः कतमे त इति ॥ १ ॥
अथ हैनम् — ह - शब्द ऐतिह्यार्थः ; अथ अनन्तरम् अश्वले उपरते प्रकृतं याज्ञवल्क्यं जरत्कारुगोत्रो जारत्कारवः ऋतभागस्यापत्यम् आर्तभागः पप्रच्छ ; याज्ञवल्क्येति होवाचेति अभिमुखीकरणाय ; पूर्ववत्प्रश्नः — कति ग्रहाः कत्यतिग्रहा इति। इति - शब्दो वाक्यपरिसमाप्त्यर्थः। तत्र निर्ज्ञातेषु वा ग्रहातिग्रहेषु प्रश्नः स्यात् , अनिर्ज्ञातेषु वा ; यदि तावत् ग्रहा अतिग्रहाश्च निर्ज्ञाताः, तदा तद्गतस्यापि गुणस्य सङ्ख्याया निर्ज्ञातत्वात् कति ग्रहाः कत्यतिग्रहा इति सङ्ख्याविषयः प्रश्नो नोपपद्यते ; अथ अनिर्ज्ञाताः तदा सङ्ख्येयविषयप्रश्न इति के ग्रहाः केऽतिग्रहा इति प्रष्टव्यम् , न तु कति ग्रहाः कत्यतिग्रहा इति प्रश्नः ; अपि च निर्ज्ञातसामान्यकेषु विशेषविज्ञानाय प्रश्नो भवति — यथा कतमेऽत्र कठाः कतमेऽत्र कालापा इति ; न चात्र ग्रहातिग्रहा नाम पदार्थाः केचन लोके प्रसिद्धाः, येन विशेषार्थः प्रश्नः स्यात् ; ननु च ‘अतिमुच्यते’ (बृ. उ. ३। १। ३), [(बृ. उ. ३। १। ४)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=3&id=BR_C03_S01_V04&hl=(बृ. उ. ३। १। ४)), [(बृ. उ. ३। १। ५)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=3&id=BR_C03_S01_V05&hl=(बृ. उ. ३। १। ५)) इत्युक्तम् , ग्रहगृहीतस्य हि मोक्षः, [‘स मुक्तिः सातिमुक्तिः’ (बृ. उ. ३। १। ३)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=3&id=BR_C03_S01_V03&hl=स मुक्तिः सातिमुक्तिः), [(बृ. उ. ३। १। ४)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=3&id=BR_C03_S01_V04&hl=(बृ. उ. ३। १। ४)), [(बृ. उ. ३। १। ५)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=3&id=BR_C03_S01_V05&hl=(बृ. उ. ३। १। ५)), [(बृ. उ. ३। १। ६)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=3&id=BR_C03_S01_V06&hl=(बृ. उ. ३। १। ६)) इति हि द्विरुक्तम् , तस्मात्प्राप्ता ग्रहा अतिग्रहाश्च — ननु तत्रापि चत्वारो ग्रहा अतिग्रहाश्च निर्ज्ञाताः वाक्चक्षुःप्राणमनांसि, तत्र कतीति प्रश्नो नोपपद्यते निर्ज्ञातत्वात् — न, अनवधारणार्थत्वात् ; न हि चतुष्ट्वं तत्र विवक्षितम् ; इह तु ग्रहातिग्रहदर्शने अष्टत्वगुणविवक्षया कतीति प्रश्न उपपद्यत एव ; तस्मात् [‘स मुक्तिः सातिमुक्तिः’ (बृ. उ. ३। १। ३)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=3&id=BR_C03_S01_V03&hl=स मुक्तिः सातिमुक्तिः), [(बृ. उ. ३। १। ४)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=3&id=BR_C03_S01_V04&hl=(बृ. उ. ३। १। ४)), [(बृ. उ. ३। १। ५)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=3&id=BR_C03_S01_V05&hl=(बृ. उ. ३। १। ५)), [(बृ. उ. ३। १। ६)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=3&id=BR_C03_S01_V06&hl=(बृ. उ. ३। १। ६)) इति मुक्त्यतिमुक्ती द्विरुक्ते ; ग्रहातिग्रहा अपि सिद्धाः। अतः कतिसङ्ख्याका ग्रहाः, कति वा अतिग्रहाः इति पृच्छति। इतर आह — अष्टौ ग्रहा अष्टावतिग्रहा इति। ये ते अष्टौ ग्रहा अभिहिताः, कतमे ते नियमेन ग्रहीतव्या इति ॥
प्राणो वै ग्रहः सोऽपानेनातिग्राहेण गृहीतोऽपानेन हि गन्धाञ्जिघ्रति ॥ २ ॥
तत्र आह — प्राणो वै ग्रहः — प्राण इति घ्राणमुच्यते, प्रकरणात् ; वायुसहितः सः ; अपानेनेति गन्धेनेत्येतत् ; अपानसचिवत्वात् अपानो गन्ध उच्यते ; अपानोपहृतं हि गन्धं घ्राणेन सर्वो लोको जिघ्रति ; तदेतदुच्यते — अपानेन हि गन्धाञ्जिघ्रतीति ॥
वाग्वै ग्रहः स नाम्नातिग्राहेण गृहीतो वाचा हि नामान्यभिवदति ॥ ३ ॥
जिह्वा वै ग्रहः स रसेनातिग्राहेण गृहीतो जिह्वया हि रसान्विजानाति ॥ ४ ॥
चक्षुर्वै ग्रहः स रूपेणातिग्राहेण गृहीतश्चक्षुषा हि रूपाणि पश्यति ॥ ५ ॥
श्रोत्रं वै ग्रहः स शब्देनातिग्राहेण गृहीतः श्रोत्रेण हि शब्दाञ्शृणोति ॥ ६ ॥
मनो वै ग्रहः स कामेनातिग्राहेण गृहीतो मनसा हि कामान्कामयते ॥ ७ ॥
हस्तौ वै ग्रहः स कर्मणातिग्राहेण गृहीतो हस्ताभ्यां हि कर्म करोति ॥ ८ ॥
त्वग्वै ग्रहः स स्पर्शेनातिग्राहेण गृहीतस्त्वचा हि स्पर्शान्वेदयत इत्येतेऽष्टौ ग्रहा अष्टावतिग्रहाः ॥ ९ ॥
वाग्वै ग्रहः — वाचा हि अध्यात्मपरिच्छिन्नया आसङ्गविषयास्पदया असत्यानृतासभ्यबीभत्सादिवचनेषु व्यापृतया गृहीतो लोकः अपहृतः, तेन वाक् ग्रहः ; स नाम्नातिग्राहेण गृहीतः — सः वागाख्यो ग्रहः, नाम्ना वक्तव्येन विषयेण, अतिग्राहेण। अतिग्राहेणेति दैर्घ्यं छान्दसम् ; वक्तव्यार्था हि वाक् ; तेन वक्तव्येनार्थेन तादर्थ्येन प्रयुक्ता वाक् तेन वशीकृता ; तेन तत्कार्यमकृत्वा नैव तस्या मोक्षः ; अतः नाम्नातिग्राहेण गृहीता वागित्युच्यते ; वक्तव्यासङ्गेन प्रवृत्ता सर्वानर्थैर्युज्यते। समानमन्यत्। इत्येते त्वक्पर्यन्ता अष्टौ ग्रहाः स्पर्शपर्यन्ताश्चैते अष्टावतिग्रहा इति ॥
याज्ञवल्क्येति होवाच यदिदं सर्वं मृत्योरन्नं का स्वित्सा देवता यस्या मृत्युरन्नमित्यग्निर्वै मृत्युः सोऽपामन्नमप पुनर्मृत्युं जयति ॥ १० ॥
उपसंहृतेषु ग्रहातिग्रहेष्वाह पुनः — याज्ञवल्क्येति होवाच। यदिदं सर्वं मृत्योरन्नम् — यदिदं व्याकृतं सर्वं मृत्योरन्नम् , सर्वं जायते विपद्येत च ग्रहातिग्रहलक्षणेन मृत्युना ग्रस्तम् — का स्वित् का नु स्यात् सा देवता, यस्या देवताया मृत्युरप्यन्नं भवेत् — ‘मृत्युर्यस्योपसेचनम्’ (क. उ. १। २। २५) इति श्रुत्यन्तरात्। अयमभिप्रायः प्रष्टुः — यदि मृत्योर्मृत्युं वक्ष्यति, अनवस्था स्यात् ; अथ न वक्ष्यति, अस्माद्ग्रहातिग्रहलक्षणान्मृत्योः मोक्षः नोपपद्यते ; ग्रहातिग्रहमृत्युविनाशे हि मोक्षः स्यात् ; स यदि मृत्योरपि मृत्युः स्यात् भवेत् ग्रहातिग्रहलक्षणस्य मृत्योर्विनाशः — अतः दुर्वचनं प्रश्नं मन्वानः पृच्छति ‘का स्वित्सा देवता’ इति। अस्ति तावन्मृत्योर्मृत्युः ; ननु अनवस्था स्यात् — तस्याप्यन्यो मृत्युरिति — नानवस्था, सर्वमृत्योः मृत्य्वन्तरानुपपत्तेः ; कथं पुनरवगम्यते — अस्ति मृत्योर्मृत्युरिति ? दृष्टत्वात् ; अग्निस्तावत् सर्वस्य दृष्टो मृत्युः, विनाशकत्वात् , सोऽद्भिर्भक्ष्यते, सोऽग्निः अपामन्नम् , गृहाण तर्हि अस्ति मृत्योर्मृत्युरिति ; तेन सर्वं ग्रहातिग्रहजातं भक्ष्यते मृत्योर्मृत्युना ; तस्मिन्बन्धने नाशिते मृत्युना भक्षिते संसारान्मोक्ष उपपन्नो भवति ; बन्धनं हि ग्रहातिग्रहलक्षणमुक्तम् ; तस्माच्च मोक्ष उपपद्यत इत्येतत्प्रसाधितम्। अतः बन्धमोक्षाय पुरुषप्रयासः सफलो भवति ; अतोऽपजयति पुनर्मृत्युम् ॥
याज्ञवल्क्येति होवाच यत्रायं पुरुषो म्रियत उदस्मात्प्राणाः क्रामन्त्याहो३ नेति नेति होवाच याज्ञवल्क्योऽत्रैव समवनीयन्ते स उच्छ्वयत्याध्मायत्याध्मातो मृतः शेते ॥ ११ ॥
परेण मृत्युना मृत्यौ भक्षिते परमात्मदर्शनेन योऽसौ मुक्तः विद्वान् , सोऽयं पुरुषः यत्र यस्मिन्काले म्रियते, उत् ऊर्ध्वम् , अस्मात् ब्रह्मविदो म्रियमाणात् , प्राणाः - वागादयो ग्रहाः नामादयश्चातिग्रहा वासनारूपा अन्तस्थाः प्रयोजकाः — क्रामन्त्यूर्ध्वम् उत्क्रामन्ति, आहोस्विन्नेति। नेति होवाच याज्ञवल्क्यः — नोत्क्रामन्ति ; अत्रैव अस्मिन्नेव परेणात्मना अविभागं गच्छन्ति विदुषि कार्याणि करणानि च स्वयोनौ परब्रह्मसतत्त्वे समवनीयन्ते, एकीभावेन समवसृज्यन्ते, प्रलीयन्त इत्यर्थः — ऊर्मय इव समुद्रे। तथा च श्रुत्यन्तरं कलाशब्दवाच्यानां प्राणानां परस्मिन्नात्मनि प्रलयं दर्शयति — [‘एवमेवास्य परिद्रष्टुरिमाः षोडश कलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति’ (प्र . उ. ६। ५)](https://advaitasharada.sringeri.net/display/bhashya/Prashna?page=6&id=PR_C06_V05&hl=एवमेवास्य परिद्रष्टुरिमाः षोडश कलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति) इति — परेणात्मना अविभागं गच्छन्तीति दर्शितम्। न तर्हि मृतः — न हि ; मृतश्च अयम् — यस्मात् स उच्छ्वयति उच्छूनतां प्रतिपद्यते, आध्मायति बाह्येन वायुना पूर्यते, दृतिवत् , आध्मातः मृतः शेते निश्चेष्टः ; बन्धननाशे मुक्तस्य न क्वचिद्गमनमिति वाक्यार्थः ॥
याज्ञवल्क्येति होवाच यत्रायं पुरुषो म्रियते किमेनं न जहातीति नामेत्यनन्तं वै नामानन्ता विश्वे देवा अनन्तमेव सतेन लोकं जयति ॥ १२ ॥
मुक्तस्य किं प्राणा एव समवनीयन्ते ? आहोस्वित् तत्प्रयोजकमपि सर्वम् ? अथ प्राणा एव, न तत्प्रयोजकं सर्वम् , प्रयोजके विद्यमाने पुनः प्राणानां प्रसङ्गः ; अथ सर्वमेव कामकर्मादि, ततो मोक्ष उपपद्यते — इत्येवमर्थः उत्तरः प्रश्नः। याज्ञवल्क्येति होवाच — यत्रायं पुरुषो म्रियते किमेनं न जहातीति ; आह इतरः — नामेति ; सर्वं समवनीयते इत्यर्थः ; नाममात्रं तु न लीयते, आकृतिसम्बन्धात् ; नित्यं हि नाम ; अनन्तं वै नाम ; नित्यत्वमेव आनन्त्यं नाम्नः। तदानन्त्याधिकृताः अनन्ता वै विश्वे देवाः ; अनन्तमेव स तेन लोकं जयति — तन्नामानन्त्याधिकृतान् विश्वान्देवान् आत्मत्वेनोपेत्य तेन आनन्त्यदर्शनेन अनन्तमेव लोकं जयति ॥
याज्ञवल्क्येति होवाच यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणश्चक्षुरादित्यं मनश्चन्द्रं दिशः श्रोत्रं पृथिवीं शरीरमाकाशमात्मौषधीर्लोमानि वनस्पतीन्केशा अप्सु लोहितं च रेतश्च निधीयते क्वायं तदा पुरुषो भवतीत्याहर सोम्य हस्तमार्तभागावामेवैतस्य वेदिष्यावो न नावेतत्सजन इति। तौ होत्क्रम्य मन्त्रयाञ्चक्राते तौ ह यदूचतुः कर्म हैव तदूचतुरथ यत्प्रशशंसतुः कर्म हैव तत्प्रशशंसतुः पुण्यो वै पुण्येन कर्मणा भवति पापः पापेनेति ततो ह जारत्कारव आर्तभाग उपरराम ॥ १३ ॥
ग्रहातिग्रहरूपं बन्धनमुक्तं मृत्युरूपम् ; तस्य च मृत्योः मृत्युसद्भावान्मोक्षश्चोपपद्यते ; स च मोक्षः ग्रहातिग्रहरूपाणामिहैव प्रलयः, प्रदीपनिर्वाणवत् ; यत्तत् ग्रहातिग्रहाख्यं बन्धनं मृत्युरूपम् , तस्य यत्प्रयोजकं तत्स्वरूपनिर्धारणार्थमिदमारभ्यते — याज्ञवल्क्येति होवाच ॥
अत्र केचिद्वर्णयन्ति — ग्रहातिग्रहस्य सप्रयोजकस्य विनाशेऽपि किल न मुच्यते ; नामावशिष्टः अविद्यया ऊषरस्थानीयया स्वात्मप्रभवया परमात्मनः परिच्छिन्नः भोज्याच्च जगतो व्यावृत्तः उच्छिन्नकामकर्मा अन्तराले व्यवतिष्ठते ; तस्य परमात्मैकत्वदर्शनेन द्वैतदर्शनमपनेतव्यमिति — अतः परं परमात्मदर्शनमारब्धव्यम् — इति ; एवम् अपवर्गाख्यामन्तरालावस्थां परिकल्प्य उत्तरग्रन्थसम्बन्धं कुर्वन्ति ॥
तत्र वक्तव्यम् — विशीर्णेषु करणेषु विदेहस्य परमात्मदर्शनश्रवणमनननिदिध्यसनानि कथमिति ; समवनीतप्राणस्य हि नाममात्रावशिष्टस्येति तैरुच्यते ; [‘मृतः शेते’ (बृ. उ. ३। २। ११)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=3&id=BR_C03_S02_V11&hl=मृतः शेते) इति ह्युक्तम् ; न मनोरथेनाप्येतदुपपादयितुं शक्यते। अथ जीवन्नेव अविद्यामात्रावशिष्टो भोज्यादपावृत्त इति परिकल्प्यते, तत्तु किं निमित्तमिति वक्तव्यम् ; समस्तद्वैतैकत्वात्मप्राप्तिनिमित्तमिति यद्युच्येत, तत् पूर्वमेव निराकृतम् ; कर्मसहितेन द्वैतैकत्वात्मदर्शनेन सम्पन्नो विद्वान् मृतः समवनीतप्राणः जगदात्मत्वं हिरण्यगर्भस्वरूपं वा प्राप्नुयात् , असमवनीतप्राणः भोज्यात् जीवन्नेव वा व्यावृत्तः विरक्तः परमात्मदर्शनाभिमुखः स्यात्। न च उभयम् एकप्रयत्ननिष्पाद्येन साधनेन लभ्यम् ; हिरण्यगर्भप्राप्तिसाधनं चेत् , न ततो व्यावृत्तिसाधनम् ; परमात्माभिमुखीकरणस्य भोज्याद्व्यावृत्तेः साधनं चेत् , न हिरण्यगर्भप्राप्तिसाधनम् ; न हि यत् गतिसाधनम् , तत् गतिनिवृत्तेरपि। अथ मृत्वा हिरण्यगर्भं प्राप्य ततः समवनीतप्राणः नामावशिष्टः परमात्मज्ञानेऽधिक्रियते, ततः अस्मदाद्यर्थं परमात्मज्ञानोपदेशः अनर्थकः स्यात् ; सर्वेषां हि ब्रह्मविद्या पुरुषार्थायोपदिश्यते — [‘तद्यो यो देवानाम्’ (बृ. उ. १। ४। १०)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=1&id=BR_C01_S04_V10&hl=तद्यो यो देवानाम्) इत्याद्यया श्रुत्या। तस्मात् अत्यन्तनिकृष्टा शास्त्रबाह्यैव इयं कल्पना। प्रकृतं तु वर्तयिष्यामः ॥
तत्र केन प्रयुक्तं ग्रहातिग्रहलक्षणं बन्धनमित्येतन्निर्दिधारयिषया आह — यत्रास्य पुरुषस्य असम्यग्दर्शिनः शिरःपाण्यादिमतो मृतस्य — वाक् अग्निमप्येति, वातं प्राणोऽप्येति, चक्षुरादित्यमप्येति — इति सर्वत्र सम्बध्यते ; मनः चन्द्रम् , दिशः श्रोत्रम् , पृथिवीं शरीरम् , आकाशमात्मेत्यत्र आत्मा अधिष्ठानं हृदयाकाशमुच्यते ; स आकाशमप्येति ; ओषधीरपियन्ति लोमानि ; वनस्पतीनपियन्ति केशाः ; अप्सु लोहितं च रेतश्च — निधीयते इति — पुनरादानलिङ्गम् ; सर्वत्र हि वागादिशब्देन देवताः परिगृह्यन्ते ; न तु करणान्येवापक्रामन्ति प्राङ्मोक्षात् ; तत्र देवताभिरनधिष्ठितानि करणानि न्यस्तदात्राद्युपमानानि, विदेहश्च कर्ता पुरुषः अस्वतन्त्रः किमाश्रितो भवतीति पृच्छ्यते — क्वायं तदा पुरुषो भवतीति — किमाश्रितः तदा पुरुषो भवतीति ; यम् आश्रयमाश्रित्य पुनः कार्यकरणसङ्घातमुपादत्ते, येन ग्रहातिग्रहलक्षणं बन्धनं प्रयुज्यते तत् किमिति प्रश्नः। अत्रोच्यते — स्वभावयदृच्छाकालकर्मदैवविज्ञानमात्रशून्यानि वादिभिः परिकल्पितानि ; अतः अनेकविप्रतिपत्तिस्थानत्वात् नैव जल्पन्यायेन वस्तुनिर्णयः ; अत्र वस्तुनिर्णयं चेदिच्छसि, आहर सोम्य हस्तम् आर्तभाग हे — आवामेव एतस्य त्वत्पृष्टस्य वेदितव्यं यत् , तत् वेदिष्यावः निरूपयिष्यावः ; कस्मात् ? न नौ आवयोः एतत् वस्तु सजने जनसमुदाये निर्णेतुं शक्यते ; अत एकान्तं गमिष्यावः विचारणाय। तौ हेत्यादि श्रुतिवचनम्। तौ याज्ञवल्क्यार्तभागौ एकान्तं गत्वा किं चक्रतुरित्युच्यते — तौ ह उत्क्रम्य सजनात् देशात् मन्त्रयाञ्चक्राते ; आदौ लौकिकवादिपक्षाणाम् एकैकं परिगृह्य विचारितवन्तौ। तौ ह विचार्य यदूचतुरपोह्य पूर्वपक्षान्सर्वानेव — तच्छृणु ; कर्म हैव आश्रयं पुनः पुनः कार्यकरणोपादानहेतुम् तत् तत्र ऊचतुः उक्तवन्तौ — न केवलम् ; कालकर्मदैवेश्वरेष्वभ्युपगतेषु हेतुषु यत्प्रशशंसतुस्तौ, कर्म हैव तत्प्रशशंसतुः — यस्मान्निर्धारितमेतत् कर्मप्रयुक्तं ग्रहातिग्रहादिकार्यकरणोपादानं पुनः पुनः, तस्मात् पुण्यो वै शास्त्रविहितेन पुण्येन कर्मणा भवति, तद्विपरीतेन विपरीतो भवति पापः पापेन — इति एवं याज्ञवल्क्येन प्रश्नेषु निर्णीतेषु, ततः अशक्यप्रकम्पत्वात् याज्ञवल्क्यस्य, ह जारत्कारव आर्तभाग उपरराम ॥
इति तृतीयाध्यायस्य द्वितीयं ब्राह्मणम् ॥