यत् केवलं कर्मनिरपेक्षम् अमृतत्वसाधनम् , तद्वक्तव्यमिति मैत्रेयीब्राह्मणमारब्धम् ; तच्च आत्मज्ञानं सर्वसन्न्यासाङ्गविशिष्टम् ; आत्मनि च विज्ञाते सर्वमिदं विज्ञातं भवति ; आत्मा च प्रियः सर्वस्मात् ; तस्मात् आत्मा द्रष्टव्यः ; स च श्रोतव्यो मन्तव्यो निदिध्यासितव्य इति च दर्शनप्रकारा उक्ताः ; तत्र श्रोतव्यः, आचार्यागमाभ्याम् ; मन्तव्यः तर्कतः ; तत्र च तर्क उक्तः — [‘आत्मैवेदं सर्वम्’ (छा. उ. ७। २५। २)](https://advaitasharada.sringeri.net/display/bhashya/Chandogya?page=7&id=Ch_C07_S25_V02&hl=आत्मैवेदं सर्वम्) इति प्रतिज्ञातस्य हेतुवचनम् आत्मैकसामान्यत्वम् आत्मैकोद्भवत्वम् आत्मैकप्रलयत्वं च ; तत्र अयं हेतुः असिद्ध इत्याशङ्क्यते आत्मैकसामान्योद्भवप्रलयाख्यः ; तदाशङ्कानिवृत्त्यर्थमेतद्ब्राह्मणमारभ्यते। यस्मात् परस्परोपकार्योपकारकभूतं जगत्सर्वं पृथिव्यादि, यच्च लोके परस्परोपकार्योपकारकभूतं तत् एककारणपूर्वकम् एकसामान्यात्मकम् एकप्रलयं च दृष्टम् , तस्मात् इदमपि पृथिव्यादिलक्षणं जगत् परस्परोपकार्योपकारकत्वात् तथाभूतं भवितुमर्हति — एष ह्यर्थ अस्मिन्ब्राह्मणे प्रकाश्यते। अथवा [‘आत्मैवेदं सर्वम्’ (छा. उ. ७। २५। २)](https://advaitasharada.sringeri.net/display/bhashya/Chandogya?page=7&id=Ch_C07_S25_V02&hl=आत्मैवेदं सर्वम्) इति प्रतिज्ञातस्य आत्मोत्पत्तिस्थितिलयत्वं हेतुमुक्त्वा, पुनः आगमप्रधानेन मधुब्राह्मणेन प्रतिज्ञातस्य अर्थस्य निगमनं क्रियते ; तथाहि नैयायिकैरुक्तम् — ‘हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनम्’ इति। अन्यैर्व्याख्यातम् — आ दुन्दुभिदृष्टान्तात् श्रोतव्यार्थमागमवचनम् , प्राङ्मधुब्राह्मणात् मन्तव्यार्थम् उपपत्तिप्रदर्शनेन, मधुब्राह्मणेन तु निदिध्यासनविधिरुच्यत इति। सर्वथापि तु यथा आगमेनावधारितम् , तर्कतस्तथैव मन्तव्यम् ; यथा तर्कतो मतम् , तस्य तर्कागमाभ्यां निश्चितस्य तथैव निदिध्यासनं क्रियत इति पृथक् निदिध्यासनविधिरनर्थक एव ; तस्मात् पृथक् प्रकरणविभाग अनर्थक इत्यस्मदभिप्रायः श्रवणमनननिदिध्यासनानामिति। सर्वथापि तु अध्यायद्वयस्यार्थः अस्मिन्ब्राह्मणे उपसंह्रियते ॥
इयं पृथिवी सर्वेषां भूतानां मध्वस्यै पृथिव्यै सर्वाणि भूतानि मधु यश्चायमस्यां पृथिव्यां तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं शारीरस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम् ॥ १ ॥
इयं पृथिवी प्रसिद्धा सर्वेषां भूतानां मधु — सर्वेषां ब्रह्मादिस्तम्बपर्यन्तानां भूतानां प्राणिनाम् , मधु कार्यम् , मध्विव मधु ; यथा एको मध्वपूपः अनेकैर्मधुकरैर्निर्वर्तितः, एवम् इयं पृथिवी सर्वभूतनिर्वर्तिता। तथा सर्वाणि भूतानि पृथिव्यै पृथिव्या अस्याः, मधु कार्यम्। किं च यश्चायं पुरुषः अस्यां पृथिव्यां तेजोमयः चिन्मात्रप्रकाशमयः अमृतमयोऽमरणधर्मा पुरुषः, यश्चायम् अध्यात्मम् शारीरः शरीरे भवः पूर्ववत् तेजोमयोऽमृतमयः पुरुषः, स च लिङ्गाभिमानी — स च सर्वेषां भूतानामुपकारकत्वेन मधु, सर्वाणि च भूतान्यस्य मधु, च - शब्दसामर्थ्यात्। एवम् एतच्चतुष्टयं तावत् एकं सर्वभूतकार्यम् , सर्वाणि च भूतान्यस्य कार्यम् ; अतः अस्य एककारणपूर्वकता। यस्मात् एकस्मात्कारणात् एतज्जातम् , तदेव एकं परमार्थतो ब्रह्म, इतरत्कार्यं वाचारम्भणं विकारो नामधेयमात्रम् — इत्येष मधुपर्यायाणां सर्वेषामर्थः सङ्क्षेपतः। अयमेव सः, योऽयं प्रतिज्ञातः — [‘इदं सर्वं यदयमात्मा’ (बृ. उ. २। ४। ६)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=2&id=BR_C02_S04_V06&hl=इदं सर्वं यदयमात्मा) इति ; इदममृतम् — यत् मैत्रेय्याः अमृतत्वसाधनमुक्तम् आत्मविज्ञानम् — इदं तदमृतम् ; इदं ब्रह्म — यत् [‘ब्रह्म ते ब्रवाणि’ (बृ. उ. २। १। १)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=2&id=BR_C02_S01_V01&hl=ब्रह्म ते ब्रवाणि) ‘ज्ञपयिष्यामि’ (बृ. उ. २। १। १५) इत्यध्यायादौ प्रकृतम् , यद्विषया च विद्या ब्रह्मविद्येत्युच्यते ; इदं सर्वम् — यस्मात् ब्रह्मणो विज्ञानात्सर्वं भवति ॥
इमा आपः सर्वेषां भूतानां मध्वासामपां सर्वाणि भूतानि मधु यश्चायमास्वप्सु तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं रैतसस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम् ॥ २ ॥
तथा आपः। अध्यात्मं रेतसि अपां विशेषतोऽवस्थानम् ॥
अयमग्निः सर्वेषां भूतानां मध्वस्याग्नेः सर्वाणि भूतानि मधु यश्चायमस्मिन्नग्नौ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं वाङ्मयस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम् ॥ ३ ॥
तथा अग्निः। वाचि अग्नेर्विशेषतोऽवस्थानम् ॥
अयं वायुः सर्वेषां भूतानां मध्वस्य वायोः सर्वाणि भूतानि मधु यश्चायमस्मिन्वायौ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं प्राणस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम् ॥ ४ ॥
तथा वायुः, अध्यात्मं प्राणः। भूतानां शरीरारम्भकत्वेनोपकारात् मधुत्वम् ; तदन्तर्गतानां तेजोमयादीनां करणत्वेनोपकारान्मधुत्वम् ; तथा चोक्तम् — [‘तस्यै वाचः पृथिवी शरीरं ज्योतिरूपमयमग्निः’ (बृ. उ. १। ५। ११)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=1&id=BR_C01_S05_V11&hl=तस्यै वाचः पृथिवी शरीरं ज्योतिरूपमयमग्निः) इति ॥
अयमादित्यः सर्वेषां भूतानां मध्वस्यादित्यस्य सर्वाणि भूतानि मधु यश्चायमस्मिन्नादित्ये तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं चाक्षुषस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम् ॥ ५ ॥
तथा आदित्यो मधु, चाक्षुषः अध्यात्मम् ॥
इमा दिशः सर्वेषां भूतानां मध्वासां दिशां सर्वाणि भूतानि मधु यश्चायमासु दिक्षु तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं श्रौत्रः प्रातिश्रुत्कस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम् ॥ ६ ॥
तथा दिशो मधु। दिशां यद्यपि श्रोत्रमध्यात्मम् , शब्दप्रतिश्रवणवेलायां तु विशेषतः सन्निहितो भवतीति अध्यात्मं प्रातिश्रुत्कः — प्रतिश्रुत्कायां प्रतिश्रवणवेलायां भवः प्रातिश्रुत्कः ॥
अयं चन्द्रः सर्वेषां भूतानां मध्वस्य चन्द्रस्य सर्वाणि भूतानि मधु यश्चायमस्मिंश्चन्द्रे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं मानसस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम् ॥ ७ ॥
तथा चन्द्रः, अध्यात्मं मानसः ॥
इयं विद्युत्सर्वेषां भूतानां मध्वस्यै विद्युतः सर्वाणि भूतानि मधु यश्चायमस्यां विद्युति तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं तैजसस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम् ॥ ८ ॥
तथा विद्युत् , त्वक्तेजसि भवः तैजसः अध्यात्मम् ॥
अयं स्तनयित्नुः सर्वेषां भूतानां मध्वस्य स्तनयित्नोः सर्वाणि भूतानि मधु यश्चायमस्मिन्स्तनयित्नौ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं शाब्दः सौवरस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम् ॥ ९ ॥
तथा स्तनयित्नुः। शब्दे भवः शाब्दोऽध्यात्मं यद्यपि, तथापि स्वरे विशेषतो भवतीति सौवरः अध्यात्मम् ॥
अयमाकाशः सर्वेषां भूतानां मध्वस्याकाशस्य सर्वाणि भूतानि मधु यश्चायमस्मिन्नाकाशे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं हृद्याकाशस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम् ॥ १० ॥
तथा आकाशः, अध्यात्मं हृद्याकाशः ॥
आकाशान्ताः पृथिव्यादयो भूतगणा देवतागणाश्च कार्यकरणसङ्घातात्मान उपकुर्वन्तो मधु भवन्ति प्रतिशरीरिणमित्युक्तम्। येन ते प्रयुक्ताः शरीरिभिः सम्बध्यमाना मधुत्वेनोपकुर्वन्ति, तत् वक्तव्यमिति इदमारभ्यते —
अयं धर्मः सर्वेषां भूतानां मध्वस्य धर्मस्य सर्वाणि भूतानि मधु यश्चायमस्मिन्धर्मे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं धार्मस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम् ॥ ११ ॥
अयं धर्मः — ‘अयम्’ इति अप्रत्यक्षोऽपि धर्मः कार्येण तत्प्रयुक्तेन प्रत्यक्षेण व्यपदिश्यते — अयं धर्म इति — प्रत्यक्षवत्। धर्मश्च व्याख्यातः श्रुतिस्मृतिलक्षणः, क्षत्त्रादीनामपि नियन्ता, जगतो वैचित्र्यकृत् पृथिव्यादीनां परिणामहेतुत्वात् , प्राणिभिरनुष्ठीयमानरूपश्च ; तेन च ‘अयं धर्मः’ इति प्रत्यक्षेण व्यपदेशः। सत्यधर्मयोश्च अभेदेन निर्देशः कृतः शास्त्राचारलक्षणयोः ; इह तु भेदेन व्यपदेश एकत्वे सत्यपि, दृष्टादृष्टभेदरूपेण कार्यारम्भकत्वात्। यस्तु अदृष्टः अपूर्वाख्यो धर्मः, स सामान्यविशेषात्मना अदृष्टेन रूपेण कार्यमारभते — सामान्यरूपेण पृथिव्यादीनां प्रयोक्ता भवति, विशेषरूपेण च अध्यात्मं कार्यकरणसङ्घातस्य ; तत्र पृथिव्यादीनां प्रयोक्तरि — यश्चायमस्मिन्धर्मे तेजोमयः ; तथा अध्यात्मं कार्यकरणसङ्घातकर्तरि धर्मे भवो धार्मः ॥
इदं सत्यं सर्वेषां भूतानां मध्वस्य सत्यस्य सर्वाणि भूतानि मधु यश्चायमस्मिन्सत्ये तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं सात्यस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम् ॥ १२ ॥
तथा दृष्टेनानुष्ठीयमानेन आचाररूपेण सत्याख्यो भवति, स एव धर्मः ; सोऽपि द्विप्रकार एव सामान्यविशेषात्मरूपेण — सामान्यरूपः पृथिव्यादिसमवेतः, विशेषरूपः कार्यकरणसङ्घातसमवेतः ; तत्र पृथिव्यादिसमवेते वर्तमानक्रियारूपे सत्ये, तथा अध्यात्मं कार्यकरणसङ्घातसमवेते सत्ये, भवः सात्यः — ‘सत्येन वायुरावाति’ (तै. ना. २। १) इति श्रुत्यन्तरात् ॥
इदं मानुषं सर्वेषां भूतानां मध्वस्य मानुषस्य सर्वाणि भूतानि मधु यश्चायमस्मिन्मानुषे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं मानुषस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम् ॥ १३ ॥
धर्मसत्याभ्यां प्रयुक्तोऽयं कार्यकरणसङ्घातविशेषः, स येन जातिविशेषेण संयुक्तो भवति, स जातिविशेषो मानुषादिः ; तत्र मनुषादिजातिविशिष्टा एव सर्वे प्राणिनिकायाः परस्परोपकार्योपकारकभावेन वर्तमाना दृश्यन्ते ; अतो मानुषादिजातिरपि सर्वेषां भूतानां मधु। तत्र मानुषादिजातिरपि बाह्या आध्यात्मिकी चेति उभयथा निर्देशभाक् भवति ॥
अयमात्मा सर्वेषां भूतानां मध्वस्यात्मनः सर्वाणि भूतानि मधु यश्चायमस्मिन्नात्मनि तेजोमयोऽमृतमयः पुरुषो यश्चायमात्मा तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम् ॥ १४ ॥
यस्तु कार्यकरणसङ्घातो मानुषादिजातिविशिष्टः, सोऽयमात्मा सर्वेषां भूतानां मधु। ननु अयं शारीरशब्देन निर्दिष्टः पृथिवीपर्याय एव — न, पार्थिवांशस्यैव तत्र ग्रहणात् ; इह तु सर्वात्मा प्रत्यस्तमिताध्यात्माधिभूताधिदैवादिसर्वविशेषः सर्वभूतदेवतागणविशिष्टः कार्यकरणसङ्घातः सः ‘अयमात्मा’ इत्युच्यते। तस्मिन् अस्मिन् आत्मनि तेजोमयोऽमृतमयः पुरुषः अमूर्तरसः सर्वात्मको निर्दिश्यते ; एकदेशेन तु पृथिव्यादिषु निर्दिष्टः, अत्र अध्यात्मविशेषाभावात् सः न निर्दिश्यते। यस्तु परिशिष्टो विज्ञानमयः — यदर्थोऽयं देहलिङ्गसङ्घात आत्मा — सः ‘यश्चायमात्मा’ इत्युच्यते ॥
स वा अयमात्मा सर्वेषां भूतानामधिपतिः सर्वेषां भूतानां राजा तद्यथा रथनाभौ च रथनेमौ चाराः सर्वे समर्पिता एवमेवास्मिन्नात्मनि सर्वाणि भूतानि सर्वे देवाः सर्वे लोकाः सर्वे प्राणाः सर्व एत आत्मानः समर्पिताः ॥ १५ ॥
यस्मिन्नात्मनि, परिशिष्टो विज्ञानमयोऽन्त्ये पर्याये, प्रवेशितः, सोऽयमात्मा। तस्मिन् अविद्याकृतकार्यकरणसङ्घातोपाधिविशिष्टे ब्रह्मविद्यया परमार्थात्मनि प्रवेशिते, स एवमुक्तः अनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघनभूतः, स वै — स एव अयमात्मा अव्यवहितपूर्वपर्याये ‘तेजोमयः’ इत्यादिना निर्दिष्टो विज्ञानात्मा विद्वान् , सर्वेषां भूतानामयमात्मा — सर्वैरुपास्यः — सर्वेषां भूतानामधिपतिः सर्वभूतानां स्वतन्त्रः — न कुमारामात्यवत् — किं तर्हि सर्वेषां भूतानां राजा, राजत्वविशेषणम् ‘अधिपतिः’ इति — भवति कश्चित् राजोचितवृत्तिमाश्रित्य राजा, न तु अधिपतिः, अतो विशिनष्टि अधिपतिरिति ; एवं सर्वभूतात्मा विद्वान् ब्रह्मवित् मुक्तो भवति। यदुक्तम् — [‘ब्रह्मविद्यया सर्वं भविष्यन्तो मनुष्या मन्यन्ते, किमु तद्ब्रह्मावेद्यस्मात्तत्सर्वमभवत्’ (बृ. उ. १। ४। ९)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=1&id=BR_C01_S04_V09&hl=ब्रह्मविद्यया सर्वं भविष्यन्तो मनुष्या मन्यन्ते, किमु तद्ब्रह्मावेद्यस्मात्तत्सर्वमभवत्) इतीदम् , तत् व्याख्यातम् एवम् — आत्मानमेव सर्वात्मत्वेन आचार्यागमाभ्यां श्रुत्वा, मत्वा तर्कतः, विज्ञाय साक्षात् एवम् , यथा मधुब्राह्मणे दर्शितं तथा — तस्मात् ब्रह्मविज्ञानात् एवँलक्षणात् पूर्वमपि, ब्रह्मैव सत् अविद्यया अब्रह्म आसीत् , सर्वमेव च सत् असर्वमासीत् — तां तु अविद्याम् अस्माद्विज्ञानात् तिरस्कृत्य ब्रह्मवित् ब्रह्मैव सन् ब्रह्माभवत् , सर्वः सः सर्वमभवत्। परिसमाप्तः शास्त्रार्थः, यदर्थः प्रस्तुतः ; तस्मिन् एतस्मिन् सर्वात्मभूते ब्रह्मविदि सर्वात्मनि सर्वं जगत्समर्पितमित्येतस्मिन्नर्थे दृष्टान्त उपादीयते — तद्यथा रथनाभौ च रथनेमौ चाराः सर्वे समर्पिता इति, प्रसिद्धोऽर्थः, एवमेव अस्मिन् आत्मनि परमात्मभूते ब्रह्मविदि सर्वाणि भूतानि ब्रह्मादिस्तम्बपर्यन्तानि सर्वे देवाः अग्न्यादयः सर्वे लोकाः भूरादयः सर्वे प्राणाः वागादयः सर्व एत आत्मानो जलचन्द्रवत् प्रतिशरीरानुप्रवेशिनः अविद्याकल्पिताः ; सर्वं जगत् अस्मिन्समर्पितम्। यदुक्तम् , ब्रह्मवित् वामदेवः प्रतिपेदे — अहं मनुरभवं सूर्यश्चेति, स एष सर्वात्मभावो व्याख्यातः। स एष विद्वान् ब्रह्मवित् सर्वोपाधिः सर्वात्मा सर्वो भवति ; निरुपाधिः निरुपाख्यः अनन्तरः अबाह्यः कृत्स्नः प्रज्ञानघनः अजोऽजरोऽमृतोऽभयोऽचलः नेति नेत्यस्थूलोऽनणुरित्येवंविशेषणः भवति। तमेतमर्थम् अजानन्तस्तार्किकाः केचित् पण्डितम्मन्याश्चागमविदः शास्त्रार्थं विरुद्धं मन्यमाना विकल्पयन्तो मोहमगाधमुपयान्ति। तमेतमर्थम् एतौ मन्त्रावनुवदतः — [‘अनेजदेकं मनसो जवीयः’ (ई. उ. ४)](https://advaitasharada.sringeri.net/display/bhashya/Isha?page=NaN&id=IS_V04&hl=अनेजदेकं मनसो जवीयः) [‘तदेजति तन्नैजति’ (ई. उ. ५)](https://advaitasharada.sringeri.net/display/bhashya/Isha?page=NaN&id=IS_V05&hl=तदेजति तन्नैजति) इति। तथा च तैत्तिरीयके —, ‘यस्मात्परं नापरमस्ति किञ्चित्’ (तै. ना. १०। ४), [‘एतत्साम गायन्नास्ते अहमन्नमहमन्नमहमन्नम्’ (तै. उ. ३। १०। ६)](https://advaitasharada.sringeri.net/display/bhashya/Taitiriya?page=3&id=T_C03_S10_V06&hl=एतत्साम गायन्नास्ते अहमन्नमहमन्नमहमन्नम्) इत्यादि। तथा च च्छान्दोग्ये ‘जक्षत्क्रीडन्रममाणः’ (छा. उ. ८। १२। ३), [‘स यदि पितृलोककामः’ (छा. उ. ८। २। १)](https://advaitasharada.sringeri.net/display/bhashya/Chandogya?page=8&id=Ch_C08_S02_V01&hl=स यदि पितृलोककामः) [‘सर्वगन्धः सर्वरसः’ (छा. उ. ३। १४। २)](https://advaitasharada.sringeri.net/display/bhashya/Chandogya?page=3&id=Ch_C03_S14_V02&hl=सर्वगन्धः सर्वरसः), [‘सर्वज्ञः सर्ववित्’ (मु. उ. १। १। ९)](https://advaitasharada.sringeri.net/display/bhashya/Mundaka?page=1&id=MD_C01_S01_V09&hl=सर्वज्ञः सर्ववित्) इत्यादि। आथर्वणे च [‘दूरात्सुदूरे तदिहान्तिके च’ (मु. उ. ३। १। ७)](https://advaitasharada.sringeri.net/display/bhashya/Mundaka?page=3&id=MD_C03_S01_V07&hl=दूरात्सुदूरे तदिहान्तिके च)। कठवल्लीष्वपि [‘अणोरणीयान्महतो महीयान्’ (क. उ. १। २। २१)](https://advaitasharada.sringeri.net/display/bhashya/Kathaka?page=1&id=Ka_C01_S02_V21&hl=अणोरणीयान्महतो महीयान्) [‘कस्तं मदामदं देवं’ (क. उ. १। २। २१)](https://advaitasharada.sringeri.net/display/bhashya/Kathaka?page=1&id=Ka_C01_S02_V21&hl=कस्तं मदामदं देवं) [‘तद्धावतोऽन्यानत्येति तिष्ठत्’ (ई. उ. ४)](https://advaitasharada.sringeri.net/display/bhashya/Isha?page=NaN&id=IS_V04&hl=तद्धावतोऽन्यानत्येति तिष्ठत्) इति च। तथा गीतासु [‘अहं क्रतुरहं यज्ञः’ (भ. गी. ९। १०)](https://advaitasharada.sringeri.net/display/bhashya/Gita?page=9&id=BG_C09_V10&hl=अहं क्रतुरहं यज्ञः) [‘पिताहमस्य जगतः’ (भ. गी. ९। १७)](https://advaitasharada.sringeri.net/display/bhashya/Gita?page=9&id=BG_C09_V17&hl=पिताहमस्य जगतः) [‘नादत्ते कस्यचित्पापम्’ (भ. गी. ५। १०)](https://advaitasharada.sringeri.net/display/bhashya/Gita?page=5&id=BG_C05_V10&hl=नादत्ते कस्यचित्पापम्) [‘समं सर्वेषु भूतेषु’ (भ. गी. १३। २७)](https://advaitasharada.sringeri.net/display/bhashya/Gita?page=13&id=BG_C13_V27&hl=समं सर्वेषु भूतेषु) [‘अविभक्तं विभक्तेषु’ (भ. गी. १७। २०)](https://advaitasharada.sringeri.net/display/bhashya/Gita?page=17&id=BG_C17_V20&hl=अविभक्तं विभक्तेषु) [‘ग्रसिष्णु प्रभविष्णु च’ (भ. गी. १३। १६)](https://advaitasharada.sringeri.net/display/bhashya/Gita?page=13&id=BG_C13_V16&hl=ग्रसिष्णु प्रभविष्णु च) इति — एवमाद्यागमार्थं विरुद्धमिव प्रतिभान्तं मन्यमानाः स्वचित्तसामर्थ्यात् अर्थनिर्णयाय विकल्पयन्तः — अस्त्यात्मा नास्त्यात्मा, कर्ता अकर्ता, मुक्तः बद्धः, क्षणिको विज्ञानमात्रं शून्यं च — इत्येवं विकल्पयन्तः न पारमधिगच्छन्त्यविद्यायाः, विरुद्धधर्मदर्शित्वात्सर्वत्र। तस्मात् तत्र य एव श्रुत्याचार्यदर्शितमार्गानुसारिणः, त एवाविद्यायाः पारमधिगच्छन्ति ; त एव च अस्मान्मोहसमुद्रादगाधात् उत्तरिष्यन्ति, नेतरे स्वबुद्धिकौशलानुसारिणः ॥
परिसमाप्ता ब्रह्मविद्या अमृतत्वसाधनभूता, यां मैत्रेयी पृष्टवती भर्तारम् [‘यदेव भगवानमृतत्वसाधनं वेद तदेव मे ब्रूहि’ (बृ. उ. २। ४। ३)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=2&id=BR_C02_S04_V03&hl=यदेव भगवानमृतत्वसाधनं वेद तदेव मे ब्रूहि) इति। एतस्या ब्रह्मविद्यायाः स्तुत्यर्था इयमाख्यायिका आनीता। तस्या आख्यायिकायाः सङ्क्षेपतोऽर्थप्रकाशनार्थावेतौ मन्त्रौ भवतः ; एवं हि मन्त्रब्राह्मणाभ्यां स्तुतत्वात् अमृतत्वसर्वप्राप्तिसाधनत्वं ब्रह्मविद्यायाः प्रकटीकृतं राजमार्गमुपनीतं भवति — यथा आदित्य उद्यन् शार्वरं तमोऽपनयतीति — तद्वत्। अपि च एवं स्तुता ब्रह्मविद्या — या इन्द्ररक्षिता सा दुष्प्रापा देवैरपि ; यस्मात् अश्विभ्यामपि देवभिषग्भ्याम् इन्द्ररक्षिता विद्या महता आयासेन प्राप्ता ; ब्राह्मणस्य शिरश्छित्त्वा अश्व्यं शिरः प्रतिसन्धाय, तस्मिन्निन्द्रेण च्छिन्ने पुनः स्वशिर एव प्रतिसन्धाय, तेन ब्राह्मणस्य स्वशिरसैव उक्ता अशेषा ब्रह्मविद्या श्रुता ; यस्मात् ततः परतरं किञ्चित्पुरुषार्थसाधनं न भूतं न भावि वा, कुत एव वर्तमानम् — इति नातः परा स्तुतिरस्ति। अपि चैवं स्तूयते ब्रह्मविद्या — सर्वपुरुषार्थानां कर्म हि साधनमिति लोके प्रसिद्धम् ; तच्च कर्म वित्तसाध्यम् , तेन आशापि नास्त्यमृतत्वस्य ; तदिदममृतत्वं केवलया आत्मविद्यया कर्मनिरपेक्षया प्राप्यते ; यस्मात् कर्मप्रकरणे वक्तुं प्राप्तापि सती प्रवर्ग्यप्रकरणे, कर्मप्रकरणादुत्तीर्य कर्मणा विरुद्धत्वात् केवलसन्न्याससहिता अभिहिता अमृतत्वसाधनाय — तस्मात् नातः परं पुरुषार्थसाधनमस्ति। अपि च एवं स्तुता ब्रह्मविद्या — सर्वो हि लोको द्वन्द्वारामः, [‘स वै नैव रेमे तस्मादेकाकी न रमते’ (बृ. उ. १। ४। ३)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=1&id=BR_C01_S04_V03&hl=स वै नैव रेमे तस्मादेकाकी न रमते) इति श्रुतेः ; याज्ञवल्क्यो लोकसाधारणोऽपि सन् आत्मज्ञानबलात् भार्यापुत्रवित्तादिसंसाररतिं परित्यज्य प्रज्ञानतृप्त आत्मरतिर्बभूव। अपि च एवं स्तुता ब्रह्मविद्या — यस्मात् याज्ञवल्क्येन संसारमार्गात् व्युत्तिष्ठतापि प्रियायै भार्यायै प्रीत्यर्थमेव अभिहिता, [‘प्रियं भाषस एह्यास्स्व’ (बृ. उ. २। ४। ४)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=2&id=BR_C02_S04_V04&hl=प्रियं भाषस एह्यास्स्व) इति लिङ्गात् ॥
इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच। तदेतदृषिः पश्यन्नवोचत्। तद्वां नरा सनये दंस उग्रमाविष्कृणोमि तन्यतुर्न वृष्टिम्। दध्यङ् ह यन्मध्वाथर्वणो वामश्वस्य शीर्ष्णा प्र यदीमुवाचेति ॥ १६ ॥
तत्र इयं स्तुत्यर्था आख्यायिकेत्यवोचाम ; का पुनः सा आख्यायिकेति उच्यते — इदमित्यनन्तरनिर्दिष्टं व्यपदिशति, बुद्धौ सन्निहितत्वात् ; वै - शब्दः स्मरणार्थः ; तदित्याख्यायिकानिर्वृत्तं प्रकरणान्तराभिहितं परोक्षं वै - शब्देन स्मारयन् इह व्यपदिशति ; यत् प्रवर्ग्यप्रकरणे सूचितम् , न आविष्कृतं मधु, तदिदं मधु इह अनन्तरं निर्दिष्टम् — [‘इयं पृथिवी’ (बृ. उ. २। ५। ११)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=2&id=BR_C02_S05_V11&hl=इयं पृथिवी) इत्यादिना ; कथं तत्र प्रकरणान्तरे सूचितम् — ‘दध्यङ् ह वा आभ्यामाथर्वणो मधु नाम ब्राह्मणमुवाच ; तदेनयोः प्रियं धाम तदेवैनयोरेतेनोपगच्छति ; स होवाचेन्द्रेण वा उक्तोऽस्म्येतच्चेदन्यस्मा अनुब्रूयास्तत एव ते शिरश्छिन्द्यामिति ; तस्माद्वै बिभेमि यद्वै मे स शिरो न च्छिन्द्यात्तद्वामुपनेष्य इति ; तौ होचतुरावां त्वा तस्मात्त्रास्यावहे इति ; कथं मा त्रास्येथे इति ; यदा नावुपनेष्यसे ; अथ ते शिरश्छित्त्वान्यत्राहृत्योपनिधास्यावः ; अथाश्वस्य शिर आहृत्य तत्ते प्रतिधास्यावः ; तेन नावनुवक्ष्यसि ; स यदा नावनुवक्ष्यसि ; अथ ते तदिन्द्रः शिरश्छेत्स्यति ; अथ ते स्वं शिर आहृत्य तत्ते प्रतिधास्याव इति ; तथेति तौ होपनिन्ये ; तौ यदोपनिन्ये ; अथास्य शिरश्छित्त्वा अन्यत्रोपनिदधतुः ; अथाश्वस्य शिर आहृत्य तद्धास्य प्रतिदधतुः ; तेन हाभ्यामनूवाच ; स यदाभ्यामनूवाच अथास्य तदिन्द्रः शिरश्चिच्छेद ; अथास्य स्वं शिर आहृत्य तद्धास्य प्रतिदधतुरिति। यावत्तु प्रवर्ग्यकर्माङ्गभूतं मधु, तावदेव तत्राभिहितम् ; न तु कक्ष्यमात्मज्ञानाख्यम् ; तत्र या आख्यायिका अभिहिता, सेह स्तुत्यर्था प्रदर्श्यते ; इदं वै तन्मधु दध्यङ्ङाथर्वणः अनेन प्रपञ्चेन अश्विभ्यामुवाच। तदेतदृषिः — तदेतत्कर्म, ऋषिः मन्त्रः, पश्यन् उपलभमानः, अवोचत् उक्तवान् ; कथम् ? तत् दंस इति व्यवहितेन सम्बन्धः, दंस इति कर्मणो नामधेयम् ; तच्च दंसः किंविशिष्टम् ? उग्रं क्रूरम् , वां युवयोः, हे नरा नराकारावश्विनौ ; तच्च कर्म किं निमित्तम् ? सनये लाभाय ; लाभलुब्धो हि लोकेऽपि क्रूरं कर्म आचरति, तथैव एतावुपलभ्येते यथा लोके ; तत् आविः प्रकाशं कृणोमि करोमि, यत् रहसि भवद्भ्यां कृतम् ; किमिवेत्युच्यते — तन्यतुः पर्जन्यः, न इव ; नकारस्तु उपरिष्टादुपचार उपमार्थीयो वेदे, न प्रतिषेधार्थः — यथा ‘अश्वं न’ (ऋ. सं. १। ६। २४। १) अश्वमिवेति यद्वत् ; तन्यतुरिव वृष्टिं यथा पर्जन्यो वृष्टिं प्रकाशयति स्तनयित्न्वादिशब्दैः, तद्वत् अहं युवयोः क्रूरं कर्म आविष्कृणोमीति सम्बन्धः। ननु अश्विनोः स्तुत्यर्थौ कथमिमौ मन्त्रौ स्याताम् ? निन्दावचनौ हीमौ — नैष दोषः ; स्तुतिरेवैषा, न निन्दावचनौ ; यस्मात् ईदृशमप्यतिक्रूरं कर्म कुर्वतोर्युवयोः न लोम च मीयत इति — न चान्यत्किञ्चिद्धीयत एवेति — स्तुतावेतौ भवतः ; निन्दां प्रशंसां हि लौकिकाः स्मरन्ति ; तथा प्रशंसारूपा च निन्दा लोके प्रसिद्धा। दध्यङ्नाम आथर्वणः ; हेत्यनर्थको निपातः ; यन्मधु कक्ष्यम् आत्मज्ञानलक्षणम् आथर्वणः वां युवाभ्याम् अश्वस्य शीर्ष्णा शिरसा, प्र यत् ईम् उवाच — यत्प्रोवाच मधु ; ईमित्यनर्थको निपातः ॥
इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच। तदेतदृषिः पश्यन्नवोचत्। आथर्वणायाश्विनौ दधीचेऽश्व्यं शिरः प्रत्यैरयतम्। स वां मधु प्रवोचदृतायन्त्वाष्ट्रं यद्दस्रावपि कक्ष्यं वामिति ॥ १७ ॥
इदं वै तन्मध्वित्यादि पूर्ववत् मन्त्रान्तरप्रदर्शनार्थम्। तथा अन्यो मन्त्रः तामेव आख्यायिकामनुसरति स्म। आथर्वणो दध्यङ्नाम — आथर्वणोऽन्यो विद्यत इत्यतो विशिनष्टि — दध्यङ्नाम आथर्वणः, तस्मै दधीचे आथर्वणाय, हे अश्विनाविति मन्त्रदृशो वचनम् ; अश्व्यम् अश्वस्य स्वभूतम् , शिरः, ब्राह्मणस्य शिरसि च्छिन्ने अश्वस्य शिरश्छित्त्वा ईदृशमतिक्रूरं कर्म कृत्वा अश्व्यं शिरः ब्राह्मणं प्रति ऐरयतं गमितवन्तौ, युवाम् ; स च आथर्वणः वां युवाभ्याम् तन्मधु प्रवोचत् , यत्पूर्वं प्रतिज्ञातम् — वक्ष्यामीति। स किमर्थमेवं जीवितसन्देहमारुह्य प्रवोचदित्युच्यते — ऋतायन् यत्पूर्वं प्रतिज्ञातं सत्यं तत्परिपालयितुमिच्छन् ; जीवितादपि हि सत्यधर्मपरिपालना गुरुतरेत्येतस्य लिङ्गमेतत्। किं तन्मधु प्रवोचदित्युच्यते — त्वाष्ट्रम् , त्वष्टा आदित्यः, तस्य सम्बन्धि — यज्ञस्य शिरश्छिन्नं त्वष्ट्रा अभवत् , तत्प्रतिसन्धानार्थं प्रवर्ग्यं कर्म, तत्र प्रवर्ग्यकर्माङ्गभूतं यद्विज्ञानं तत् त्वाष्ट्रं मधु — यत्तस्य चिरश्छेदनप्रतिसन्धानादिविषयं दर्शनं तत् त्वाष्ट्रं यन्मधु ; हे दस्रौ दस्राविति परबलानामुपक्षपयितारौ शत्रूणां हिंसितारौ ; अपि च न केवलं त्वाष्ट्रमेव मधु कर्मसम्बन्धि युवाभ्यामवोचत् ; अपि च कक्ष्यं गोप्यं रहस्यं परमात्मसम्बन्धि यद्विज्ञानं मधु मधुब्राह्मणेनोक्तं अध्यायद्वयप्रकाशितम् , तच्च वां युवाभ्यां प्रवोचदित्यनुवर्तते ॥
इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच। तदेतदृषिः पश्यन्नवोचत्। पुरश्चक्रे द्विपदः पुरश्चक्रे चतुष्पदः। पुरः स पक्षी भूत्वा पुरः पुरुष आविशदिति। स वा अयं पुरुषः सर्वासु पूर्षु पुरिशयो नैनेन किञ्चनानावृतं नैनेन किञ्चनासंवृतम् ॥ १८ ॥
इदं वै तन्मध्विति पूर्ववत्। उक्तौ द्वौ मन्त्रौ प्रवर्ग्यसम्बन्ध्याख्यायिकोपसंहर्तारौ ; द्वयोः प्रवर्ग्यकर्मार्थयोरध्याययोरर्थ आख्यायिकाभूताभ्यां मन्त्राभ्यां प्रकाशितः। ब्रह्मविद्यार्थयोस्त्वध्याययोरर्थ उत्तराभ्यामृग्भ्यां प्रकाशयितव्य इत्यतः प्रवर्तते। यत् कक्ष्यं च मधु उक्तवानाथर्वणो युवाभ्यामित्युक्तम् — किं पुनस्तन्मध्वित्युच्यते — पुरश्चक्रे, पुरः पुराणि शरीराणि — यत इयमव्याकृतव्याकरणप्रक्रिया — स परमेश्वरो नामरूपे अव्याकृते व्याकुर्वाणः प्रथमं भूरादीन् लोकान्सृष्ट्वा, चक्रे कृतवान् , द्विपदः द्विपादुपलक्षितानि मनुष्यशरीराणि पक्षिशरीराणि ; तथा पुरः शरीराणि चक्रे चतुष्पदः चतुष्पादुपलक्षितानि पशुशरीराणि ; पुरः पुरस्तात् , स ईश्वरः पक्षी लिङ्गशरीरं भूत्वा पुरः शरीराणि — पुरुष आविशदित्यस्यार्थमाचष्टे श्रुतिः — स वा अयं पुरुषः सर्वासु पूर्षु सर्वशरीरेषु पुरिशयः, पुरि शेत इति पुरिशयः सन् पुरुष इत्युच्यते ; न एनेन अनेन किञ्चन किञ्चिदपि अनावृतम् अनाच्छादितम् ; तथा न एनेन किञ्चनासंवृतम् अन्तरननुप्रवेशितम् — बाह्यभूतेनान्तर्भूतेन च न अनावृतम् ; एवं स एव नामरूपात्मना अन्तर्बहिर्भावेन कार्यकरणरूपेण व्यवस्थितः ; पुरश्चक्रे इत्यादिमन्त्रः सङ्क्षेपत आत्मैकत्वमाचष्ट इत्यर्थः ॥
इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच। तदेतदृषिः पश्यन्नवोचत्। रूपं रूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय। इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयः शता दशेति। अयं वै हरयोऽयं वै दश च सहस्राणि बहूनि चानन्तानि च तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यमयमात्मा ब्रह्म सर्वानुभूरित्यनुशासनम् ॥ १९ ॥
इदं वै तन्मध्वित्यादि पूर्ववत्। रूपं रूपं प्रतिरूपो बभूव — रूपं रूपं प्रति प्रतिरूपः रूपान्तरं बभूवेत्यर्थः ; प्रतिरूपोऽनुरूपो वा यादृक्संस्थानौ मातापितरौ तत्संस्थानः तदनुरूप एव पुत्रो जायते ; न हि चतुष्पदो द्विपाज्जायते, द्विपदो वा चतुष्पात् ; स एव हि परमेश्वरो नामरूपे व्याकुर्वाणः रूपं रूपं प्रतिरूपो बभूव। किमर्थं पुनः प्रतिरूपमागमनं तस्येत्युच्यते — तत् अस्य आत्मनः रूपं प्रतिचक्षणाय प्रतिख्यापनाय ; यदि हि नामरूपे न व्याक्रियेते, तदा अस्य आत्मनो निरुपाधिकं रूपं प्रज्ञानघनाख्यं न प्रतिख्यायेत ; यदा पुनः कार्यकरणात्मना नामरूपे व्याकृते भवतः, तदा अस्य रूपं प्रतिख्यायेत। इन्द्रः परमेश्वरः मायाभिः प्रज्ञाभिः नामरूपभूतकृतमिथ्याभिमानैर्वा न तु परमार्थतः, पुरुरूपः बहुरूपः, ईयते गम्यते — एकरूप एव प्रज्ञानघनः सन् अविद्याप्रज्ञाभिः। कस्मात्पुनः कारणात् ? युक्ताः रथ इव वाजिनः, स्वविषयप्रकाशनाय, हि यस्मात् , अस्य हरयः हरणात् इन्द्रियाणि, शता शतानि, दश च, प्राणिभेदबाहुल्यात् शतानि दश च भवन्ति ; तस्मात् इन्द्रियविषयबाहुल्यात् तत्प्रकाशनायैव च युक्तानि तानि न आत्मप्रकाशनाय ; [‘पराञ्चि खानि व्यतृणत्स्वयम्भूः’ (क. उ. २। १। १)](https://advaitasharada.sringeri.net/display/bhashya/Kathaka?page=2&id=Ka_C02_S01_V01&hl=पराञ्चि खानि व्यतृणत्स्वयम्भूः) इति हि काठके। तस्मात् तैरेव विषयस्वरूपैरीयते, न प्रज्ञानघनैकरसेन स्वरूपेण। एवं तर्हि अन्यः परमेश्वरः अन्ये हरय इत्येवं प्राप्ते उच्यते — अयं वै हरयोऽयं वै दश च सहस्राणि बहूनि चानन्तानि च ; प्राणिभेदस्य आनन्त्यात्। किं बहुना ? तदेतद्ब्रह्म य आत्मा, अपूर्वम् नास्य कारणं पूर्वं विद्यत इत्यपूर्वम् , नास्यापरं कार्यं विद्यत इत्यनपरम् , नास्य जात्यन्तरमन्तराले विद्यत इत्यनन्तरम् , तथा बहिरस्य न विद्यत इत्यबाह्यम् ; किं पुनस्तत् निरन्तरं ब्रह्म ? अयमात्मा ; कोऽसौ ? यः प्रत्यगात्मा द्रष्टा, श्रोता मन्ता बोद्धा, विज्ञाता सर्वानुभूः — सर्वात्मना सर्वमनुभवतीति सर्वानुभूः — इत्येतदनुशासनम् सर्ववेदान्तोपदेशः ; एष सर्ववेदान्तानामुपसंहृतोऽर्थः ; एतदमृतमभयम् ; परिसमाप्तश्च शास्त्रार्थः ॥
इति द्वितीयाध्यायस्य पञ्चमं ब्राह्मणम् ॥