आत्मेत्येवोपासीत ; तदेव एतस्मिन् सर्वस्मिन् पदनीयम् आत्मतत्त्वम् , यस्मात् प्रेयः पुत्रादेः — इत्युपन्यस्तस्य वाक्यस्य व्याख्यानविषये सम्बन्धप्रयोजने अभिहिते — [‘तदात्मानमेवावेदहं ब्रह्मास्मीति तस्मात्तत्सर्वमभवत्’ (बृ. उ. १। ४। १०)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=1&id=BR_C01_S04_V10&hl=तदात्मानमेवावेदहं ब्रह्मास्मीति तस्मात्तत्सर्वमभवत्) इति ; एवं प्रत्यगात्मा ब्रह्मविद्याया विषय इत्येतत् उपन्यस्तम्। अविद्यायाश्च विषयः — [‘अन्योऽसावन्योऽहमस्मीति न स वेद’ (बृ. उ. १। ४। १०)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=1&id=BR_C01_S04_V10&hl=अन्योऽसावन्योऽहमस्मीति न स वेद) इत्यारभ्य चातुर्वर्ण्यप्रविभागादिनिमित्तपाङ्क्तकर्मसाध्यसाधनलक्षणः बीजाङ्कुरवत् व्याकृताव्याकृतस्वभावः नामरूपकर्मात्मकः संसारः [‘त्रयं वा इदं नाम रूपं कर्म’ (बृ. उ. १। ६। १)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=1&id=BR_C01_S06_V01&hl=त्रयं वा इदं नाम रूपं कर्म) इत्युपसंहृतः शास्त्रीय उत्कर्षलक्षणो ब्रह्मलोकान्तः अधोभावश्च स्थावरान्तोऽशास्त्रीयः, पूर्वमेव प्रदर्शितः — [‘द्वया ह’ (बृ. उ. १। ३। १)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=1&id=BR_C01_S03_V01&hl=द्वया ह) इत्यादिना। एतस्मादविद्याविषयाद्विरक्तस्य प्रत्यगात्मविषयब्रह्मविद्यायाम् अधिकारः कथं नाम स्यादिति — तृतीयेऽध्याये उपसंहृतः समस्तोऽविद्याविषयः। चतुर्थे तु ब्रह्मविद्याविषयं प्रत्यगात्मानम् [‘ब्रह्म ते ब्रवाणि’ (बृ. उ. २। १। १)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=2&id=BR_C02_S01_V01&hl=ब्रह्म ते ब्रवाणि) इति [‘ब्रह्म ज्ञपयिष्यामि’ (बृ. उ. २। १। १)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=2&id=BR_C02_S01_V01&hl=ब्रह्म ज्ञपयिष्यामि) इति च प्रस्तुत्य, तत् ब्रह्म एकम् अद्वयं सर्वविशेषशून्यं क्रियाकारकफलस्वभावसत्यशब्दवाच्याशेषभूतधर्मप्रतिषेधद्वारेण [‘नेति नेति’ (बृ. उ. २। ३। ६)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=2&id=BR_C02_S03_V06&hl=नेति नेति) इति ज्ञापितम्। अस्या ब्रह्मविद्याया अङ्गत्वेन सन्न्यासो विधित्सितः, जायापुत्रवित्तादिलक्षणं पाङ्क्तं कर्म अविद्याविषयं यस्मात् न आत्मप्राप्तिसाधनम् ; अन्यसाधनं हि अन्यस्मै फलसाधनाय प्रयुज्यमानं प्रतिकूलं भवति ; न हि बुभुक्षापिपासानिवृत्त्यर्थं धावनं गमनं वा साधनम् ; मनुष्यलोकपितृलोकदेवलोकसाधनत्वेन हि पुत्रादिसाधनानि श्रुतानि, न आत्मप्राप्तिसाधनत्वेन, विशेषितत्वाच्च ; न च ब्रह्मविदो विहितानि, काम्यत्वश्रवणात् — [‘एतावान्वै कामः’ (बृ. उ. १। ४। १७)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=1&id=BR_C01_S04_V17&hl=एतावान्वै कामः) इति, ब्रह्मविदश्च आप्तकामत्वात् आप्तकामस्य कामानुपपत्तेः, [‘येषां नोऽयमात्मायं लोकः’ (बृ. उ. ४। ४। २२)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=4&id=BR_C04_S04_V22&hl=येषां नोऽयमात्मायं लोकः) इति च श्रुतेः। केचित्तु ब्रह्मविदोऽप्येषणासम्बन्धं वर्णयन्ति ; तैर्बृहदारण्यकं न श्रुतम् ; पुत्राद्येषणानामविद्वद्विषयत्वम् , विद्याविषये च — [‘येषां नोऽयमात्मायं लोकः’ (बृ. उ. ४। ४। २२)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=4&id=BR_C04_S04_V22&hl=येषां नोऽयमात्मायं लोकः) इत्यतः ‘किं प्रजया करिष्यामः’ इति — एष विभागः तैर्न श्रुतः श्रुत्या कृतः ; सर्वक्रियाकारकफलोपमर्दस्वरूपायां च विद्यायां सत्याम् , सह कार्येण अविद्याया अनुपपत्तिलक्षणश्च विरोधः तैर्न विज्ञातः ; व्यासवाक्यं च तैर्न श्रुतम्। कर्मविद्यास्वरूपयोः विद्याविद्यात्मकयोः प्रतिकूलवर्तनं विरोधः। ‘यदिदं वेदवचनं कुरु कर्म त्यजेति च। कां गतिं विद्यया यान्ति कां च गच्छन्ति कर्मणा’ (मो. ध. २४१। १। २) ॥ एतद्वै श्रोतुमिच्छामि तद्भवान्प्रब्रवीतु मे। एतावन्योन्यवैरुप्ये वर्तेते प्रतिकूलतः’ इत्येवं पृष्टस्य प्रतिवचनेन — ‘कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते। तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः’ (मो. ध. २४१। ७) इत्येवमादि — विरोधः प्रदर्शितः। तस्मात् न साधनान्तरसहिता ब्रह्मविद्या पुरुषार्थसाधनम् , सर्वविरोधात् , साधननिरपेक्षैव पुरुषार्थसाधनम् — इति पारिव्राज्यं सर्वसाधनसन्न्यासलक्षणम् अङ्गत्वेन विधित्स्यते ; एतावदेवामृतत्वसाधनमित्यवधारणात् , षष्ठसमाप्तौ, लिङ्गाच्च — कर्मी सन्याज्ञवल्क्यः प्रवव्राजेति। मैत्रेय्यै च कर्मसाधनरहितायै साधनत्वेनामृतत्वस्य ब्रह्मविद्योपदेशात् , वित्तनिन्दावचनाच्च ; यदि हि अमृतत्वसाधनं कर्म स्यात् , वित्तसाध्यं पाङ्क्तं कर्मेति — तन्निन्दावचनमनिष्टं स्यात् ; यदि तु परितित्याजयिषितं कर्म, ततो युक्ता तत्साधननिन्दा। कर्माधिकारनिमित्तवर्णाश्रमादिप्रत्ययोपमर्दाच्च — [‘ब्रह्म तं परादात्’ (बृ. उ. २। ४। ६)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=2&id=BR_C02_S04_V06&hl=ब्रह्म तं परादात्) [‘क्षत्रं तं परादात्’ (बृ. उ. २। ४। ६)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=2&id=BR_C02_S04_V06&hl=क्षत्रं तं परादात्) इत्यादेः ; न हि ब्रह्मक्षत्राद्यात्मप्रत्ययोपमर्दे, ब्राह्मणेनेदं कर्तव्यं क्षत्रियेणेदं कर्तव्यमिति विषयाभावात् आत्मानं लभते विधिः ; यस्यैव पुरुषस्य उपमर्दितः प्रत्ययः ब्रह्मक्षत्राद्यात्मविषयः, तस्य तत्प्रत्ययसन्न्यासात् तत्कार्याणां कर्मणां कर्मसाधनानां च अर्थप्राप्तश्च सन्न्यासः। तस्मात् आत्मज्ञानाङ्गत्वेन सन्न्यासविधित्सयैव आख्यायिकेयमारभ्यते ॥
मैत्रेयीति होवाच याज्ञवल्क्य उद्यास्यन्वा अरेऽहमस्मात्स्थानादस्मि हन्त तेऽनया कात्यायन्यान्तं करवाणीति ॥ १ ॥
मैत्रेयीति होवाच याज्ञवल्क्यः — मैत्रेयीं स्वभार्यामामन्त्रितवान् याज्ञवल्क्यो नाम ऋषिः ; उद्यास्यन् ऊर्ध्वं यास्यन् पारिव्राज्याख्यमाश्रमान्तरम् वै ; ‘अरे’ इति सम्बोधनम् ; अहम् , अस्मात् गार्हस्थ्यात् , स्थानात् आश्रमात् , ऊर्ध्वं गन्तुमिच्छन् अस्मि भवामि ; अतः हन्त अनुमतिं प्रार्थयामि ते तव ; किञ्चान्यत् — ते तव अनया द्वितीयया भार्यया कात्यायन्या अन्तं विच्छेदं करवाणि ; पतिद्वारेण युवयोर्मया सम्बध्यमानयोर्यः सम्बन्ध आसीत् , तस्य सम्बन्धस्य विच्छेदं करवाणि द्रव्यविभागं कृत्वा ; वित्तेन संविभज्य युवां गमिष्यामि ॥
सा होवाच मैत्रेयी। यन्नु म इयं भगोः सर्वा पृथिवी वित्तेन पूर्णा स्यात्कथं तेनामृता स्यामिति नेति होवाच याज्ञवल्क्यो यथैवोपकरणवतां जीवितं तथैव ते जीवितं स्यादमृतत्वस्य तु नाशास्ति वित्तेनेति ॥ २ ॥
सा एवमुक्ता ह उवाच — यत् यदि, ‘नु’ इति वितर्के, मे मम इयं पृथिवी, भगोः भगवन् , सर्वा सागरपरिक्षिप्ता वित्तेन धनेन पूर्णा स्यात् ; कथम् ? न कथञ्चनेत्याक्षेपार्थः, प्रश्नार्थो वा, तेन पृथिवीपूर्णवित्तसाध्येन कर्मणा अग्निहोत्रादिना — अमृता किं स्यामिति व्यवहितेन सम्बन्धः। प्रत्युवाच याज्ञवल्क्यः — कथमिति यद्याक्षेपार्थम् , अनुमोदनम् — नेति होवाच याज्ञवल्क्य इति ; प्रश्नश्चेत् प्रतिवचनार्थम् ; नैव स्याः अमृता, किं तर्हि यथैव लोके उपकरणवतां साधनवतां जीवितं सुखोपायभोगसम्पन्नम् , तथैव तद्वदेव तव जीवितं स्यात् ; अमृतत्वस्य तु न आशा मनसापि अस्ति वित्तेन वित्तसाध्येन कर्मणेति ॥
सा होवाच मैत्रेयी येनाहं नामृता स्यां किमहं तेन कुर्यां यदेव भगवान्वेद तदेव मे ब्रूहीति ॥ ३ ॥
सा होवाच मैत्रेयी। एवमुक्ता प्रत्युवाच मैत्रेयी — यद्येवं येनाहं नामृता स्याम् , किमहं तेन वित्तेन कुर्याम् ? यदेव भगवान् केवलम् अमृतत्वसाधनं वेद, तदेव अमृतत्वसाधनं मे मह्यं ब्रूहि ॥
स होवाच याज्ञवल्क्यः प्रिया बतारे नः सती प्रियं भाषस एह्यास्स्व व्याख्यास्यामि ते व्याचक्षाणस्य तु मे निदिध्यासस्वेति ॥ ४ ॥
स होवाच याज्ञवल्क्यः। एवं वित्तसाध्येऽमृतत्वसाधने प्रत्याख्याते, याज्ञवल्क्यः स्वाभिप्रायसम्पत्तौ तुष्ट आह — स होवाच — प्रिया इष्टा, बतेत्यनुकम्प्याह, अरे मैत्रेयि, न अस्माकं पूर्वमपि प्रिया सती भवन्ती इदानीं प्रियमेव चित्तानुकूलं भाषसे। अतः एहि आस्स्व उपविश व्याख्यास्यामि — यत् ते तव इष्टम् अमृतत्वसाधनमात्मज्ञानम् कथयिष्यामि। व्याचक्षाणस्य तु मे मम व्याख्यानं कुर्वतः, निदिध्यासस्व वाक्यानि अर्थतो निश्चयेन ध्यातुमिच्छेति ॥
स होवाच न वा अरे पत्युः कामाय पतिः प्रियो भवत्यात्मनस्तु कामाय पतिः प्रियो भवति। न वा अरे जायायै कामाय जाया प्रिया भवत्यात्मनस्तु कामाय जाया प्रिया भवति। न वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्त्यात्मनस्तु कामाय पुत्राः प्रिया भवन्ति। न वा अरे वित्तस्य कामाय वित्तं प्रियं भवत्यात्मनस्तु कामाय वित्तं प्रियं भवति। न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवत्यात्मनस्तु कामाय ब्रह्म प्रियं भवति। न वा अरे क्षत्रस्य कामाय क्षत्रं प्रियं भवत्यात्मनस्तु कामाय क्षत्रं प्रियं भवति। न वा अरे लोकानां कामाय लोकाः प्रिया भवन्त्यात्मनस्तु कामाय लोकाः प्रिया भवन्ति। न वा अरे देवानां कामाय देवाः प्रिया भवन्त्यात्मनस्तु कामाय देवाः प्रिया भवन्ति। न वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्त्यात्मनस्तु कामाय भूतानि प्रियाणि भवन्ति। न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवति। आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेय्यात्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितम् ॥ ५ ॥
स होवाच — अमृतत्वसाधनं वैराग्यमुपदिदिक्षुः जायापतिपुत्रादिभ्यो विरागमुत्पादयति तत्सन्न्यासाय। न वै — वै - शब्दः प्रसिद्धस्मरणार्थः ; प्रसिद्धमेव एतत् लोके ; पत्युः भर्तुः कामाय प्रयोजनाय जायायाः पतिः प्रियो न भवति, किं तर्हि आत्मनस्तु कामाय प्रयोजनायैव भार्यायाः पतिः प्रियो भवति। तथा न वा अरे जायाया इत्यादि समानमन्यत् , न वा अरे पुत्राणाम् , न वा अरे वित्तस्य, न वा अरे ब्रह्मणः, न वा अरे क्षत्रस्य, न वा अरे लोकानाम् , न वा अरे देवानाम् , न वा अरे भूतानाम् , न वा अरे सर्वस्य। पूर्वं पूर्वं यथासन्ने प्रीतिसाधने वचनम् , तत्र तत्र इष्टतरत्वाद्वैराग्यस्य ; सर्वग्रहणम् उक्तानुक्तार्थम्। तस्मात् लोकप्रसिद्धमेतत् — आत्मैव प्रियः, नान्यत्। [‘तदेतत्प्रेयः पुत्रात्’ (बृ. उ. १। ४। ८)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=1&id=BR_C01_S04_V08&hl=तदेतत्प्रेयः पुत्रात्) इत्युपन्यस्तम् , तस्यैतत् वृत्तिस्थानीयं प्रपञ्चितम्। तस्मात् आत्मप्रीतिसाधनत्वात् गौणी अन्यत्र प्रीतिः, आत्मन्येव मुख्या। तस्मात् आत्मा वै अरे द्रष्टव्यः दर्शनार्हः, दर्शनविषयमापादयितव्यः ; श्रोतव्यः पूर्वम् आचार्यत आगमतश्च ; पश्चान्मन्तव्यः तर्कतः ; ततो निदिध्यासितव्यः निश्चयेन ध्यातव्यः ; एवं ह्यसौ दृष्टो भवति श्रवणमनननिदिध्यासनसाधनैर्निर्वर्तितैः ; यदा एकत्वमेतान्युपगतानि, तदा सम्यग्दर्शनं ब्रह्मैकत्वविषयं प्रसीदति, न अन्यथा श्रवणमात्रेण। यत् ब्रह्मक्षत्रादि कर्मनिमित्तं वर्णाश्रमादिलक्षणम् आत्मन्यविद्याध्यारोपितप्रत्ययविषयं क्रियाकारकफलात्मकम् अविद्याप्रत्ययविषयम् — रज्ज्वामिव सर्पप्रत्ययः, तदुपमर्दनार्थमाह — आत्मनि खलु अरे मैत्रेयि दृष्टे श्रुते मते विज्ञाते इदं सर्वं विदितं विज्ञातं भवति ॥
ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्रह्म वेद क्षत्त्रं तं परादाद्योऽन्यत्रात्मनः क्षत्त्रं वेद लोकास्तं परादुर्योऽन्यत्रात्मनो लोकान्वेद देवास्तं परादुर्योऽन्यत्रात्मनो देवान्वेद भूतानि तं परादुर्योऽन्यत्रात्मनो भूतानि वेद सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेदेदं ब्रह्मेदं क्षत्त्रमिमे लोका इमे देवा इमानि भूतानीदं सर्वं यदयमात्मा ॥ ६ ॥
ननु कथम् अन्यस्मिन्विदिते अन्यद्विदितं भवति ? नैष दोषः ; न हि आत्मव्यतिरेकेण अन्यत्किञ्चिदस्ति ; यद्यस्ति, न तद्विदितं स्यात् ; न त्वन्यदस्ति ; आत्मैव तु सर्वम् ; तस्मात् सर्वम् आत्मनि विदिते विदितं स्यात्। कथं पुनरात्मैव सर्वमित्येतत् श्रावयति — ब्रह्म ब्राह्मणजातिः तं पुरुषं परादात् परादध्यात् पराकुर्यात् ; कम् ? यः अन्यत्रात्मनः आत्मस्वरूपव्यतिरेकेण — आत्मैव न भवतीयं ब्राह्मणजातिरिति — तां यो वेद, तं परादध्यात् सा ब्राह्मणजातिः अनात्मस्वरूपेण मां पश्यतीति ; परमात्मा हि सर्वेषामात्मा। तथा क्षत्रं क्षत्रियजातिः, तथा लोकाः, देवाः, भूतानि, सर्वम्। इदं ब्रह्मेति — यान्यनुक्रान्तानि तानि सर्वाणि, आत्मैव, यदयमात्मा — योऽयमात्मा द्रष्टव्यः श्रोतव्य इति प्रकृतः — यस्मात् आत्मनो जायते आत्मन्येव लीयत आत्ममयं च स्थितिकाले, आत्मव्यतिरेकेणाग्रहणात् , आत्मैव सर्वम् ॥
स यथा दुन्दुभेर्हन्यमानस्य न बाह्याञ्शब्दाञ्शक्नुयाद्ग्रहणाय दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः ॥ ७ ॥
कथं पुनः इदानीम् इदं सर्वमात्मैवेति ग्रहीतुं शक्यते ? चिन्मात्रानुगमात्सर्वत्र चित्स्वरूपतैवेति गम्यते ; तत्र दृष्टान्त उच्यते — यत्स्वरूपव्यतिरेकेणाग्रहणं यस्य, तस्य तदात्मत्वमेव लोके दृष्टम् ; स यथा — स इति दृष्टान्तः ; लोके यथा दुन्दुभेः भेर्यादेः, हन्यमानस्य ताड्यमानस्य दण्डादिना, न, बाह्यान् शब्दान् बहिर्भूतान् शब्दविशेषान् दुन्दुभिशब्दसामान्यान्निष्कृष्टान् दुन्दुभिशब्दविशेषान् , न शक्नुयात् ग्रहणाय ग्रहीतुम् ; दुन्दुभेस्तु ग्रहणेन, दुन्दुभिशब्दसामान्यविशेषत्वेन, दुन्दुभिशब्दा एते इति, शब्दविशेषा गृहीता भवन्ति, दुन्दुभिशब्दसामान्यव्यतिरेकेणाभावात् तेषाम् ; दुन्दुभ्याघातस्य वा, दुन्दुभेराहननम् आघातः — दुन्दुभ्याघातविशिष्टस्य शब्दसामान्यस्य ग्रहणेन तद्गता विशेषा गृहीता भवन्ति, न तु त एव निर्भिद्य ग्रहीतुं शक्यन्ते, विशेषरूपेणाभावात् तेषाम् — तथा प्रज्ञानव्यतिरेकेण स्वप्नजागरितयोः न कश्चिद्वस्तुविशेषो गृह्यते ; तस्मात् प्रज्ञानव्यतिरेकेण अभावो युक्तस्तेषाम् ॥
स यथा शङ्खस्य ध्मायमानस्य न बाह्याञ्शब्दाञ्शक्नुयाद्ग्रहणाय शङ्खस्य तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः ॥ ८ ॥
तथा स यथा शङ्खस्य ध्मायमानस्य शब्देन संयोज्यमानस्य आपूर्यमाणस्य न बाह्यान् शब्दान् शक्नुयात् — इत्येवमादि पूर्ववत् ॥
स यथा वीणायै वाद्यमानायै न बाह्याञ्शब्दाञ्शक्नुयाद्ग्रहणाय वीणायै तु ग्रहणेन वीणावादस्य वा शब्दो गृहीतः ॥ ९ ॥
तथा वीणायै वाद्यमानायै — वीणाया वाद्यमानायाः। अनेकदृष्टान्तोपादानम् इह सामान्यबहुत्वख्यापनार्थम् — अनेके हि विलक्षणाः चेतनाचेतनरूपाः सामान्यविशेषाः — तेषां पारम्पर्यगत्या यथा एकस्मिन् महासामान्ये अन्तर्भावः प्रज्ञानघने, कथं नाम प्रदर्शयितव्य इति ; दुन्दुभिशङ्खवीणाशब्दसामान्यविशेषाणां यथा शब्दत्वेऽन्तर्भावः, एवं स्थितिकाले तावत् सामान्यविशेषाव्यतिरेकात् ब्रह्मैकत्वं शक्यमवगन्तुम् ॥
स यथार्द्रैधाग्नेरभ्याहितात्पृथग्धूमा विनिश्चरन्त्येवं वा अरेऽस्य महतो भूतस्य निश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानान्यस्यैवैतानि निश्वसितानि ॥ १० ॥
एवम् उत्पत्तिकाले प्रागुत्पत्तेः ब्रह्मैवेति शक्यमवगन्तुम् ; यथा अग्नेः विस्फुलिङ्गधूमाङ्गारार्चिषां प्राग्विभागात् अग्निरेवेति भवत्यग्न्येकत्वम् , एवं जगत् नामरूपविकृतं प्रागुत्पत्तेः प्रज्ञानघन एवेति युक्तं ग्रहीतुम् — इत्येतदुच्यते — स यथा — आर्द्रैधाग्नेः आर्द्रैरेधोभिरिद्धोऽग्निः आर्द्रैधाग्निः, तस्मात् , अभ्याहितात् पृथग्धूमाः, पृथक् नानाप्रकारम् , धूमग्रहणं विस्फुलिङ्गादिप्रदर्शनार्थम् , धूमविस्फुलिङ्गादयः, विनिश्चरन्ति विनिर्गच्छन्ति ; एवम् — यथायं दृष्टान्तः ; अरे मैत्रेयि अस्य परमात्मनः प्रकृतस्य महतो भूतस्य निश्वसितमेतत् ; निश्वसितमिव निश्वसितम् ; यथा अप्रयत्नेनैव पुरुषनिश्वासो भवति, एवं वै अरे। किं तन्निश्वसितमिव ततो जातमित्युच्यते — यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरसः - चतुर्विधं मन्त्रजातम् , इतिहास इति, उर्वशीपुरूरवसोः संवादादिः — ‘उर्वशी हाप्सराः’ (शत. ब्रा. ११। ५। १। १) इत्यादि ब्राह्मणमेव, पुराणम् — [‘असद्वा इदमग्र आसीत्’ (तै. उ. २। ७। १)](https://advaitasharada.sringeri.net/display/bhashya/Taitiriya?page=2&id=T_C02_S07_V01&hl=असद्वा इदमग्र आसीत्) इत्यादि, विद्या देवजनविद्या — वेदः सोऽयम् — इत्याद्या, उपनिषदः ‘प्रियमित्येतदुपासीत’ (बृ. उ. ४। १। ३) इत्याद्याः, श्लोकाः ब्राह्मणप्रभवा मन्त्राः [‘तदेते श्लोकाः’ (बृ. उ. ४। ४। ८)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=4&id=BR_C04_S04_V08&hl=तदेते श्लोकाः) इत्यादयः, सूत्राणि वस्तुसङ्ग्रहवाक्यानि वेदे यथा — ‘आत्मेत्येवोपासीत’ (बृ. उ. १। ४। ७) इत्यादीनि, अनुव्याख्यानानि मन्त्रविवरणानि, व्याख्यानान्यर्थवादाः, अथवा वस्तुसङ्ग्रहवाक्यविवरणान्यनुव्याख्यानानि — यथा चतुर्थाध्याये ‘आत्मेत्येवोपासीत’ (बृ. उ. १। ४। ७) इत्यस्य यथा वा [‘अन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवं’ (बृ. उ. १। ४। १०)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=1&id=BR_C01_S04_V10&hl=अन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवं) इत्यस्य अयमेवाध्यायशेषः, मन्त्रविवरणानि व्याख्यानानि — एवमष्टविधं ब्राह्मणम्। एवं मन्त्रब्राह्मणयोरेव ग्रहणम् ; नियतरचनावतो विद्यमानस्यैव वेदस्याभिव्यक्तिः पुरुषनिश्वासवत् , न च पुरुषबुद्धिप्रयत्नपूर्वकः ; अतः प्रमाणं निरपेक्ष एव स्वार्थे ; तस्माद् यत् तेनोक्तं तत्तथैव प्रतिपत्तव्यम् , आत्मनः श्रेय इच्छद्भिः, ज्ञानं वा कर्म वेति। नामप्रकाशवशाद्धि रूपस्य विक्रियावस्था ; नामरूपयोरेव हि परमात्मोपाधिभूतयोर्व्याक्रियमाणयोः सलिलफेनवत् तत्त्वान्यत्वेनानिर्वक्तव्ययोः सर्वावस्थयोः संसारत्वम् — इत्यतः नाम्न एव निश्वसितत्वमुक्तम् , तद्वचनेनैव इतरस्य निश्वसितत्वसिद्धेः। अथवा सर्वस्य द्वैतजातस्य अविद्याविषयत्वमुक्तम् — [‘ब्रह्म तं परादात् — इदं सर्वं यदयमात्मा’ (बृ. उ. २। ४। ६)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=2&id=BR_C02_S04_V06&hl=ब्रह्म तं परादात् — इदं सर्वं यदयमात्मा) इति ; तेन वेदस्याप्रामाण्यमाशङ्क्येत ; तदाशङ्कानिवृत्त्यर्थमिदमुक्तम् — पुरुषनिश्वासवत् अप्रयत्नोत्थितत्वात् प्रमाणं वेदः, न यथा अन्यो ग्रन्थ इति ॥
स यथा सर्वासामपां समुद्र एकायनमेवं सर्वेषां स्पर्शानां त्वगेकायनमेवं सर्वेषां गन्धानां नासिके एकायनमेवं सर्वेषां रसानां जिह्वैकायनमेवं सर्वेषां रूपाणां चक्षुरेकायनमेवं सर्वेषां शब्दानां श्रोत्रमेकायनमेवं सर्वेषां सङ्कल्पानां मन एकायनमेवं सर्वासां विद्यानां हृदयमेकायनमेवं सर्वेषां कर्मणां हस्तावेकायनमेवं सर्वेषामानन्दानामुपस्थ एकायनमेवं सर्वेषां विसर्गाणां पायुरेकायनमेवं सर्वेषामध्वनां पादावेकायनमेवं सर्वेषां वेदानां वागेकायनम् ॥ ११ ॥
किञ्चान्यत् ; न केवलं स्थित्युत्पत्तिकालयोरेव प्रज्ञानव्यतिरेकेणाभावात् जगतो ब्रह्मत्वम् ; प्रलयकाले च ; जलबुद्बुदफेनादीनामिव सलिलव्यतिरेकेणाभावः, एवं प्रज्ञानव्यतिरेकेण तत्कार्याणां नामरूपकर्मणां तस्मिन्नेव लीयमानानामभावः ; तस्मात् एकमेव ब्रह्म प्रज्ञानघनम् एकरसं प्रतिपत्तव्यमित्यत आह। प्रलयप्रदर्शनाय दृष्टान्तः ; स इति दृष्टान्तः ; यथा येन प्रकारेण, सर्वासां नदीवापीतडागादिगतानामपाम् , समुद्रः अब्धिः एकायनम् , एकगमनम् एकप्रलयः अविभागप्राप्तिरित्यर्थः ; यथा अयं दृष्टान्तः, एवं सर्वेषां स्पर्शानां मृदुकर्कशकठिनपिच्छिलादीनां वायोरात्मभूतानां त्वक् एकायनम् , त्वगिति त्वग्विषयं स्पर्शसामान्यमात्रम् , तस्मिन्प्रविष्टाः स्पर्शविशेषाः — आप इव समुद्रम् — तद्व्यतिरेकेणाभावभूता भवन्ति ; तस्यैव हि ते संस्थानमात्रा आसन्। तथा तदपि स्पर्शसामान्यमात्रं त्वक्शब्दवाच्यं मनःसङ्कल्पे मनोविषयसामान्यमात्रे, त्वग्विषय इव स्पर्शविशेषाः, प्रविष्टं तद्व्यतिरेकेणाभावभूतं भवति ; एवं मनोविषयोऽपि बुद्धिविषयसामान्यमात्रे प्रविष्टः तद्व्यतिरेकेणाभावभूतो भवति ; विज्ञानमात्रमेव भूत्वा प्रज्ञानघने परे ब्रह्मणि आप इव समुद्रे प्रलीयते। एवं परम्पराक्रमेण शब्दादौ सह ग्राहकेण करणेन प्रलीने प्रज्ञानघने, उपाध्यभावात् सैन्धवघनवत् प्रज्ञानघनम् एकरसम् अनन्तम् अपारं निरन्तरं ब्रह्म व्यवतिष्ठते। तस्मात् आत्मैव एकमद्वयमिति प्रतिपत्तव्यम्। तथा सर्वेषां गन्धानां पृथिवीविशेषाणां नासिके घ्राणविषयसामान्यम्। तथा सर्वेषां रसानामब्विशेषाणां जिह्वेन्द्रियविषयसामान्यम्। तथा सर्वेषां रूपाणां तेजोविशेषाणां चक्षुः चक्षुर्विषयसामान्यम्। तथा शब्दानां श्रोत्रविषयसामान्यं पूर्ववत्। तथा श्रोत्रादिविषयसामान्यानां मनोविषयसामान्ये सङ्कल्पे ; मनोविषयसामान्यस्यापि बुद्धिविषयसामान्ये विज्ञानमात्रे ; विज्ञानमात्रं भूत्वा परस्मिन्प्रज्ञानघने प्रलीयते। तथा कर्मेन्द्रियाणां विषया वदनादानगमनविसर्गानन्दविशेषाः तत्तत्क्रियासामान्येष्वेव प्रविष्टा न विभागयोग्या भवन्ति, समुद्र इव अब्विशेषाः ; तानि च सामान्यानि प्राणमात्रम् ; प्राणश्च प्रज्ञानमात्रमेव — [‘यो वै प्राणः सा प्रज्ञा या वै प्रज्ञा स प्राणः’ (कौ. उ. ३। ३)](https://advaitasharada.sringeri.net/display/bhashya/kst?page=3&id=KT_C03_V03&hl=यो वै प्राणः सा प्रज्ञा या वै प्रज्ञा स प्राणः) इति कौषीतकिनोऽधीयते। ननु सर्वत्र विषयस्यैव प्रलयोऽभिहितः, न तु करणस्य ; तत्र कोऽभिप्राय इति — बाढम् ; किन्तु विषयसमानजातीयं करणं मन्यते श्रुतिः, न तु जात्यन्तरम् ; विषयस्यैव स्वात्मग्राहकत्वेन संस्थानान्तरं करणं नाम — यथा रूपविशेषस्यैव संस्थानं प्रदीपः करणं सर्वरूपप्रकाशने, एवं सर्वविषयविशेषाणामेव स्वात्मविशेषप्रकाशकत्वेन संस्थानान्तराणि करणानि, प्रदीपवत् ; तस्मात् न करणानां पृथक्प्रलये यत्नः कार्यः ; विषयसामान्यात्मकत्वात् विषयप्रलयेनैव प्रलयः सिद्धो भवति करणानामिति ॥
तत्र [‘इदं सर्वं यदयमात्मा’ (बृ. उ. २। ४। ६)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=2&id=BR_C02_S04_V06&hl=इदं सर्वं यदयमात्मा) इति प्रतिज्ञातम् ; तत्र हेतुरभिहितः — आत्मसामान्यत्वम् , आत्मजत्वम् , आत्मप्रलयत्वं च ; तस्मात् उत्पत्तिस्थितिप्रलयकालेषु प्रज्ञानव्यतिरेकेणाभावात् ‘प्रज्ञानं ब्रह्म’ ‘आत्मैवेदं सर्वम्’ इति प्रतिज्ञातं यत् , तत् तर्कतः साधितम्। स्वाभाविकोऽयं प्रलय इति पौराणिका वदन्ति। यस्तु बुद्धिपूर्वकः प्रलयः ब्रह्मविदां ब्रह्मविद्यानिमित्तः, अयम् आत्यन्तिक इत्याचक्षते — अविद्यानिरोधद्वारेण यो भवति ; तदर्थोऽयं विशेषारम्भः —
स यथा सैन्धवखिल्य उदके प्रास्त उदकमेवानुविलीयेत न हास्योद्ग्रहणायेव स्यात्। यतो यतस्त्वाददीत लवणमेवैवं वा अर इदं महद्भूतमनन्तमपारं विज्ञानघन एव। एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति न प्रेत्य संज्ञास्तीत्यरे ब्रवीमीति होवाच याज्ञवल्क्यः ॥ १२ ॥
तत्र दृष्टान्त उपादीयते — स यथेति। सैन्धवखिल्यः — सिन्धोर्विकारः सैन्धवः, सिन्धुशब्देन उदकमभिधीयते, स्यन्दनात् सिन्धुः उदकम् , तद्विकारः तत्र भवो वा सैन्धवः, सैन्धवश्चासौ खिल्यश्चेति सैन्धवखिल्यः, खिल एव खिल्यः, स्वार्थे यत्प्रत्ययः — उदके सिन्धौ स्वयोनौ प्रास्तः प्रक्षिप्तः, उदकमेव विलीयमानम् अनुविलीयते ; यत्तत् भौमतैजससम्पर्कात् काठिन्यप्राप्तिः खिल्यस्य स्वयोनिसम्पर्कादपगच्छति — तत् उदकस्य विलयनम् , तत् अनु सैन्धवखिल्यो विलीयत इत्युच्यते ; तदेतदाह — उदकमेवानुविलीयेतेति। न ह नैव — अस्य खिल्यस्य उद्ग्रहणाय उद्धृत्य पूर्ववद्ग्रहणाय ग्रहीतुम् , नैव समर्थः कश्चित्स्यात् सुनिपुणोऽपि ; इव - शब्दोऽनर्थकः। ग्रहणाय नैव समर्थः ; कस्मात् ? यतो यतः यस्मात् यस्मात् देशात् तदुदकमाददीत, गृहीत्वा आस्वादयेत् लवणास्वादमेव तत् उदकम् , न तु खिल्यभावः। यथा अयं दृष्टान्तः, एवमेव वै अरे मैत्रेयि इदं परमात्माख्यं महद्भूतम् — यस्मात् महतो भूतात् अविद्यया परिच्छिन्ना सती कार्यकरणोपाधिसम्बन्धात्खिल्यभावमापन्नासि, मर्त्या जन्ममरणाशनायापिपासादिसंसारधर्मवत्यसि, नामरूपकार्यात्मिका — अमुष्यान्वयाहमिति, स खिल्यभावस्तव कार्यकरणभूतोपाधिसम्पर्कभ्रान्तिजनितः महति भूते स्वयोनौ महासमुद्रस्थानीये परमात्मनि अजरेऽमरेऽभये शुद्धे सैन्धवघनवदेकरसे प्रज्ञानघनेऽनन्तेऽपारे निरन्तरे अविद्याजनितभ्रान्तिभेदवर्जिते प्रवेशितः ; तस्मिन्प्रविष्टे स्वयोनिग्रस्ते खिल्यभावे अविद्याकृते भेदभावे प्रणाशिते — इदमेकमद्वैतं महद्भूतम् — महच्च तद्भूतं च महद्भूतं सर्वमहत्तरत्वात् आकाशादिकारणत्वाच्च, भूतम् — त्रिष्वपि कालेषु स्वरूपाव्यभिचारात् सर्वदैव परिनिष्पन्नमिति त्रैकालिको निष्ठाप्रत्ययः ; अथवा भूतशब्दः परमार्थवाची, महच्च पारमार्थिकं चेत्यर्थः ; लौकिकं तु यद्यपि महद्भवति, स्वप्नमायाकृतं हिमवदादिपर्वतोपमं न परमार्थवस्तु ; अतो विशिनष्टि — इदं तु महच्च तद्भूतं चेति। अनन्तम् नास्यान्तो विद्यत इत्यनन्तम् ; कदाचिदापेक्षिकं स्यादित्यतो विशिनष्टि अपारमिति। विज्ञप्तिः विज्ञानम् , विज्ञानं च तद्घनश्चेति विज्ञानघनः, घनशब्दो जात्यन्तरप्रतिषेधार्थः — यथा सुवर्णघनः अयोघन इति ; एव - शब्दोऽवधारणार्थः — नान्यत् जात्यन्तरम् अन्तराले विद्यत इत्यर्थः। यदि इदमेकमद्वैतं परमार्थतः स्वच्छं संसारदुःखासम्पृक्तम् , किन्निमित्तोऽयं खिल्यभाव आत्मनः — जातो मृतः सुखी दुःखी अहं ममेत्येवमादिलक्षणः अनेकसंसारधर्मोपद्रुत इति उच्यते — एतेभ्यो भूतेभ्यः — यान्येतानि कार्यकरणविषयाकारपरिणतानि नामरूपात्मकानि सलिलफेनबुद्बुदोपमानि स्वच्छस्य परमात्मनः सलिलोपमस्य, येषां विषयपर्यन्तानां प्रज्ञानघने ब्रह्मणि परमार्थविवेकज्ञानेन प्रविलापनमुक्तम् नदीसमुद्रवत् — एतेभ्यो हेतुभूतेभ्यः भूतेभ्यः सत्यशब्दवाच्येभ्यः, समुत्थाय सैन्धवखिल्यवत् — यथा अद्भ्यः सूर्यचन्द्रादिप्रतिबिम्बः, यथा वा स्वच्छस्य स्फटिकस्य अलक्तकाद्युपाधिभ्यो रक्तादिभावः, एवं कार्यकरणभूतभूतोपाधिभ्यो विशेषात्मखिल्यभावेन समुत्थाय सम्यगुत्थाय — येभ्यो भूतेभ्य उत्थितः तानि यदा कार्यकरणविषयाकारपरिणतानि भूतानि आत्मनो विशेषात्मखिल्यहेतुभूतानि शास्त्राचार्योपदेशेन ब्रह्मविद्यया नदीसमुद्रवत् प्रविलापितानि विनश्यन्ति, सलिलफेनबुद्बुदादिवत् तेषु विनश्यत्सु अन्वेव एष विशेषात्मखिल्यभावो विनश्यति ; यथा उदकालक्तकादिहेत्वपनये सूर्यचन्द्रस्फटिकादिप्रतिबिम्बो विनश्यति, चन्द्रादिस्वरूपमेव परमार्थतो व्यवतिष्ठते, तद्वत् प्रज्ञानघनमनन्तमपारं स्वच्छं व्यवतिष्ठते। न तत्र प्रेत्य विशेषसंज्ञास्ति कार्यकरणसङ्घातेभ्यो विमुक्तस्य — इत्येवम् अरे मैत्रेयि ब्रवीमि — नास्ति विशेषसंज्ञेति — अहमसौ अमुष्य पुत्रः ममेदं क्षेत्रं धनम् सुखी दुःखीत्येवमादिलक्षणा, अविद्याकृतत्वात्तस्याः ; अविद्यायाश्च ब्रह्मविद्यया निरन्वयतो नाशितत्वात् कुतो विशेषसंज्ञासम्भवो ब्रह्मविदः चैतन्यस्वभावावस्थितस्य ; शरीरावस्थितस्यापि विशेषसंज्ञा नोपपद्यते किमुत कार्यकरणविमुक्तस्य सर्वतः। इति ह उवाच उक्तवान्किल परमार्थदर्शनं मैत्रेय्यै भार्यायै याज्ञवल्क्यः ॥
सा होवाच मैत्रेय्यत्रैव मा भगवानमूमुहन्न प्रेत्य संज्ञास्तीति स होवाच न वा अरेऽहं मोहं ब्रवीम्यलं वा अर इदं विज्ञानाय ॥ १३ ॥
एवं प्रतिबोधिता सा ह किल उवाच उक्तवती मैत्रेयी — अत्रैव एतस्मिन्नेव एकस्मिन्वस्तुनि ब्रह्मणि विरुद्धधर्मवत्त्वमाचक्षाणेन भगवता मम मोहः कृतः ; तदाह — अत्रैव मा भगवान् पूजावान् अमूमुहत् मोहं कृतवान्। कथं तेन विरुद्धधर्मवत्त्वमुक्तमित्युच्यते — पूर्वं विज्ञानघन एवेति प्रतिज्ञाय, पुनः न प्रेत्य संज्ञास्तीति ; कथं विज्ञानघन एव ? कथं वा न प्रेत्य संज्ञास्तीति ? न हि उष्णः शीतश्च अग्निरेवैको भवति ; अतो मूढास्मि अत्र। स होवाच याज्ञवल्क्यः — न वा अरे मैत्रेय्यहं मोहं ब्रवीमि — मोहनं वाक्यं न ब्रवीमीत्यर्थः। ननु कथं विरुद्धधर्मत्वमवोचः — विज्ञानघनं संज्ञाभावं च ? न मया इदम् एकस्मिन्धर्मिण्यभिहितम् ; त्वयैव इदं विरुद्धधर्मत्वेन एकं वस्तु परिगृहीतं भ्रान्त्या ; न तु मया उक्तम् ; मया तु इदमुक्तम् — यस्तु अविद्याप्रत्युपस्थापितः कार्यकरणसम्बन्धी आत्मनः खिल्यभावः, तस्मिन्विद्यया नाशिते, तन्निमित्ता या विशेषसंज्ञा शरीरादिसम्बन्धिनी अन्यत्वदर्शनलक्षणा, सा कार्यकरणसङ्घातोपाधौ प्रविलापिते नश्यति, हेत्वभावात् , उदकाद्याधारनाशादिव चन्द्रादिप्रतिबिम्बः तन्निमित्तश्च प्रकाशादिः ; न पुनः परमार्थचन्द्रादित्यस्वरूपवत् असंसारिब्रह्मस्वरूपस्य विज्ञानघनस्य नाशः ; तत् विज्ञानघन इत्युक्तम् ; स आत्मा सर्वस्य जगतः ; परमार्थतो भूतनाशात् न विनाशी ; विनाशी तु अविद्याकृतः खिल्यभावः, [‘वाचारम्भणं विकारो नामधेयम्’ (छा. उ. ६। १। ४)](https://advaitasharada.sringeri.net/display/bhashya/Chandogya?page=6&id=Ch_C06_S01_V04&hl=वाचारम्भणं विकारो नामधेयम्), इति श्रुत्यन्तरात्। अयं तु पारमार्थिकः — अविनाशी वा अरेऽयमात्मा ; अतः अलं पर्याप्तम् वै अरे इदं महद्भूतमनन्तमपारं यथाव्याख्यातम् विज्ञानाय विज्ञातुम् ; [‘न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यतेऽविनाशित्वात्’ (बृ. उ. ४। ५। ३०)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=4&id=BR_C04_S05_V30&hl=न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यतेऽविनाशित्वात्) इति हि वक्ष्यति ॥
यत्र हि द्वैतमिव भवति तदितर इतरं जिघ्रति तदितर इतरं पश्यति तदितर इतरं शृणोति तदितर इतरमभिवदति तदितर इतरं मनुते मदितर इतरं विजानाति यत्र वा अस्य सर्वमात्मैवाभूत्तत्केन कं जिघ्रेत्तत्केन कं पश्येत्तत्केन कं शृणुयात्तत्केन कमभिवदेत्तत्केन कं मन्वीत तत्केन कं विजानीयात्। येनेदं सर्वं विजानाति तं केन विजानीयाद्विज्ञातारमरे केन विजानीयादिति ॥ १४ ॥
कथं तर्हि प्रेत्य संज्ञा नास्तीत्युच्यते शृणु ; यत्र यस्मिन् अविद्याकल्पिते कार्यकरणसङ्घातोपाधिजनिते विशेषात्मनि खिल्यभावे, हि यस्मात् , द्वैतमिव — परमार्थतोऽद्वैते ब्रह्मणि द्वैतमिव भिन्नमिव वस्त्वन्तरमात्मनः — उपलक्ष्यते — ननु द्वैतेनोपमीयमानत्वात् द्वैतस्य पारमार्थिकत्वमिति ; न, [‘वाचारम्भणं विकारो नामधेयम्’ (छा. उ. ६। १। ४)](https://advaitasharada.sringeri.net/display/bhashya/Chandogya?page=6&id=Ch_C06_S01_V04&hl=वाचारम्भणं विकारो नामधेयम्) इति श्रुत्यन्तरात् ‘एकमेवाद्वितीयम्’ (छा. उ. ६। २। १) [‘आत्मैवेदं सर्वम्’ (छा. उ. ७। २५। २)](https://advaitasharada.sringeri.net/display/bhashya/Chandogya?page=7&id=Ch_C07_S25_V02&hl=आत्मैवेदं सर्वम्) इति च — तत् तत्र यस्माद्द्वैतमिव तस्मादेव इतरोऽसौ परमात्मनः खिल्यभूत आत्मा अपरमार्थः, चन्द्रादेरिव उदकचन्द्रादिप्रतिबिम्बः, इतरो घ्राता इतरेण घ्राणेन इतरं घ्रातव्यं जिघ्रति ; इतर इतरमिति कारकप्रदर्शनार्थम् , जिघ्रतीति क्रियाफलयोरभिधानम् — यथा छिनत्तीति — यथा उद्यम्य उद्यम्य निपातनम् छेद्यस्य च द्वैधीभावः उभयं छिनत्तीत्येकेनैव शब्देन अभिधीते — क्रियावसानत्वात् क्रियाव्यतिरेकेण च तत्फलस्यानुपलम्भात् ; इतरो घ्राता इतरेण घ्राणेन इतरं घ्रातव्यं जिघ्रति — तथा सर्वं पूर्ववत् — विजानाति ; इयम् अविद्यावदवस्था। यत्र तु ब्रह्मविद्यया अविद्या नाशमुपगमिता तत्र आत्मव्यतिरेकेण अन्यस्याभावः ; यत्र वै अस्य ब्रह्मविदः सर्वं नामरूपादि आत्मन्येव प्रविलापितम् आत्मैव संवृत्तम् — यत्र एवम् आत्मैवाभूत् , तत् तत्र केन करणेन कं घ्रातव्यं को जिघ्रेत् ? तथा पश्येत् ? विजानीयात् ; सर्वत्र हि कारकसाध्या क्रिया ; अतः कारकाभावेऽनुपपत्तिः क्रियायाः ; क्रियाभावे च फलाभावः। तस्मात् अविद्यायामेव सत्यां क्रियाकारकफलव्यवहारः, न ब्रह्मविदः — आत्मत्वादेव सर्वस्य, न आत्मव्यतिरेकेण कारकं क्रियाफलं वास्ति ; न च अनात्मा सन् सर्वमात्मैव भवति कस्यचित् ; तस्मात् अविद्ययैव अनात्मत्वं परिकल्पितम् ; न तु परमार्थत आत्मव्यतिरेकेणास्ति किञ्चित् ; तस्मात् परमार्थात्मैकत्वप्रत्यये क्रियाकारकफलप्रत्ययानुपपत्तिः। अतः विरोधात् ब्रह्मविदः क्रियाणां तत्साधनानां च अत्यन्तमेव निवृत्तिः। केन कमिति क्षेपार्थं वचनं प्रकारान्तरानुपपत्तिदर्शनार्थम् , केनचिदपि प्रकारेण क्रियाकरणादिकारकानुपपत्तेः — केनचित् कञ्चित् कश्चित् कथञ्चित् न जिघ्रेदेवेत्यर्थः। यत्रापि अविद्यावस्थायाम् अन्यः अन्यं पश्यति, तत्रापि येनेदं सर्वं विजानाति, तं केन विजानीयात् — येन विजानाति, तस्य करणस्य, विज्ञेये विनियुक्तत्वात् ; ज्ञातुश्च ज्ञेय एव हि जिज्ञासा, न आत्मनि ; न च अग्नेरिव आत्मा आत्मनो विषयः ; न च अविषये ज्ञातुः ज्ञानमुपपद्यते ; तस्मात् येन इदं सर्वं विजानाति, तं विज्ञातारं केन करणेन को वा अन्यः विजानीयात् — यदा तु पुनः परमार्थविवेकिनो ब्रह्मविदो विज्ञातैव केवलोऽद्वयो वर्तते, तं विज्ञातारं अरे केन विजानीयादिति ॥
इति द्वितीयाध्यायस्य चतुर्थं ब्राह्मणम् ॥