द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं च मर्त्यं चामृतं च स्थितं च यच्च सच्च त्यच्च ॥ १ ॥
तत्र प्राणा वै सत्यमित्युक्तम्। याः प्राणानामुपनिषदः, ताः ब्रह्मोपनिषत्प्रसङ्गेन व्याख्याताः — एते ते प्राणा इति च। ते किमात्मकाः कथं वा तेषां सत्यत्वमिति च वक्तव्यमिति पञ्चभूतानां सत्यानां कार्यकरणात्मकानां स्वरूपावधारणार्थम् इदं ब्राह्मणमारभ्यते — यदुपाधिविशेषापनयद्वारेण [‘नेति नेति’ (बृ. उ. २। ३। ६)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=2&id=BR_C02_S03_V06&hl=नेति नेति) इति ब्रह्मणः सतत्त्वं निर्दिधारयिषितम्। तत्र द्विरूपं ब्रह्म पञ्चभूतजनितकार्यकरणसम्बद्धं मूर्तामूर्ताख्यं मर्त्यामृतस्वभावं तज्जनितवासनारूपं च सर्वज्ञं सर्वशक्ति सोपाख्यं भवति। क्रियाकारकफलात्मकं च सर्वव्यवहारास्पदम्। तदेव ब्रह्म विगतसर्वोपाधिविशेषं सम्यग्दर्शनविषयम् अजरम् अमृतम् अभयम् , वाङ्मनसयोरप्यविषयम् अद्वैतत्वात् [‘नेति नेति’ (बृ. उ. २। ३। ६)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=2&id=BR_C02_S03_V06&hl=नेति नेति) इति निर्दिश्यते। तत्र यदपोहद्वारेण [‘नेति नेति’ (बृ. उ. २। ३। ६)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=2&id=BR_C02_S03_V06&hl=नेति नेति) इति निर्दिश्यते ब्रह्म, ते एते द्वे वाव — वावशब्दोऽवधारणार्थः — द्वे एवेत्यर्थः — ब्रह्मणः परमात्मनः रूपे — रूप्यते याभ्याम् अरूपं परं ब्रह्म अविद्याध्यारोप्यमाणाभ्याम्। के ते द्वे ? मूर्तं चैव मूर्तमेव च ; तथा अमूर्तं च अमूर्तमेव चेत्यर्थः। अन्तर्णीतस्वात्मविशेषणे मूर्तामूर्ते द्वे एवेत्यवधार्येते ; कानि पुनस्तानि विशेषणानि मूर्तामूर्तयोरित्युच्यन्ते — मर्त्यं च मर्त्यं मरणधर्मि, अमृतं च तद्विपरीतम् , स्थितं च — परिच्छिन्नं गतिपूर्वकं यत्स्थास्नु, यच्च — यातीति यत् — व्यापि अपरिच्छिन्नं स्थितविपरीतम् , सच्च — सदित्यन्येभ्यो विशेष्यमाणासाधारणधर्मविशेषवत् , त्यच्च — तद्विपरीतम् ‘त्यत्’ इत्येव सर्वदा परोक्षाभिधानार्हम् ॥
तदेतन्मूर्तं यदन्यद्वायोश्चान्तरिक्षाच्चैतन्मर्त्यमेतत्स्थितमेतत्सत्तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो य एष तपति सतो ह्येष रसः ॥ २ ॥
तत्र चतुष्टयविशेषणविशिष्टं मूर्तम् , तथा अमूर्तं च ; तत्र कानि मूर्तविशेषणानि कानि चेतराणीति विभज्यते। तदेतन्मूर्तं मूर्छितावयवम् इतरेतरानुप्रविष्टावयवं घनं संहतमित्यर्थः। किं तत् ? यदन्यत् ; कस्मादन्यत् ? वायोश्चान्तरिक्षाच्च भूतद्वयात् — परिशेषात्पृथिव्यादिभूतत्रयम् ; एतन्मर्त्यम् — यदेतन्मूर्ताख्यं भूतत्रयम् इदं मर्त्यं मरणधर्मि ; कस्मात् ? यस्मात्स्थितमेतत् ; परिच्छिन्नं ह्यर्थान्तरेण सम्प्रयुज्यमानं विरुध्यते — यथा घटः स्तम्भकुड्यादिना ; तथा मूर्तं स्थितं परिच्छिन्नम् अर्थान्तरसम्बन्धि ततोऽर्थान्तरविरोधान्मर्त्यम् ; एतत्सत् विशेष्यमाणासाधारणधर्मवत् , तस्माद्धि परिच्छिन्नम् , परिच्छिन्नत्वान्मर्त्यम् , अतो मूर्तम् ; मूर्तत्वाद्वा मर्त्यम् , मर्त्यत्वात्स्थितम् , स्थितत्वात्सत्। अतः अन्योन्याव्यभिचारात् चतुर्णां धर्माणां यथेष्टं विशेषणविशेष्यभावो हेतुहेतुमद्भावश्च दर्शयितव्यः। सर्वथापि तु भूतत्रयं चतुष्टयविशेषणविशिष्टं मूर्तं रूपं ब्रह्मणः। तत्र चतुर्णामेकस्मिन्गृहीते विशेषणे इतरद्गृहीतमेव विशेषणमित्याह — तस्यैतस्य मूर्तस्य, एतस्य मर्त्यस्य, एतस्य स्थितस्य, एतस्य सतः — चतुष्टयविशेषणस्य भूतत्रयस्येत्यर्थः — एष रसः सार इत्यर्थः ; त्रयाणां हि भूतानां सारिष्ठः सविता ; एतत्साराणि त्रीणि भूतानि, यत एतत्कृतविभज्यमानरूपविशेषणानि भवन्ति ; आधिदैविकस्य कार्यस्यैतद्रूपम् — यत्सविता यदेतन्मण्डलं तपति ; सतो भूतत्रयस्य हि यस्मात् एष रस इति एतद्गृह्यते ; मूर्तो ह्येष सविता तपति, सारिष्ठश्च। यत्तु आधिदैविकं करणं मण्डलस्याभ्यन्तरम् , तद्वक्ष्यामः ॥
अथामूर्तं वायुश्चान्तरिक्षं चैतदमृतमेतद्यदेतत्त्यत्तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो य एष एतस्मिन्मण्डले पुरुषस्त्यस्य ह्येष रस इत्यधिदैवतम् ॥ ३ ॥
अथामूर्तम् — अथाधुना अमूर्तमुच्यते। वायुश्चान्तरिक्षं च यत्परिशेषितं भूतद्वयम् — एतत् अमृतम् , अमूर्तत्वात् , अस्थितम् , अतोऽविरुध्यमानं केनचित् , अमृतम् , अमरणधर्मि ; एतत् यत् स्थितविपरीतम् , व्यापि, अपरिच्छिन्नम् ; यस्मात् यत् एतत् अन्येभ्योऽप्रविभज्यमानविशेषम् , अतः त्यत् ‘त्यत्’ इति परोक्षाभिधानार्हमेव — पूर्ववत्। तस्यैतस्यामूर्तस्य एतस्यामृतस्य एतस्य यतः एतस्य त्यस्य चतुष्टयविशेषणस्यामूर्तस्य एष रसः ; कोऽसौ ? य एष एतस्मिन्मण्डले पुरुषः — करणात्मको हिरण्यगर्भः प्राण इत्यभिधीयते यः, स एषः अमूर्तस्य भूतद्वयस्य रसः पूर्ववत् सारिष्ठः। एतत्पुरुषसारं चामूर्तं भूतद्वयम् — हैरण्यगर्भलिङ्गारम्भाय हि भूतद्वयाभिव्यक्तिरव्याकृतात् ; तस्मात् तादर्थ्यात् तत्सारं भूतद्वयम्। त्यस्य ह्येष रसः — यस्मात् यः मण्डलस्थः पुरुषो मण्डलवन्न गृह्यते सारश्च भूतद्वयस्य, तस्मादस्ति मण्डलस्थस्य पुरुषस्य भूतद्वयस्य च साधर्म्यम्। तस्मात् युक्तं प्रसिद्धवद्धेतूपादानम् — त्यस्य ह्येष रस इति ॥
रसः कारणं हिरण्यगर्भविज्ञानात्मा चेतन इति केचित् ; तत्र च किल हिरण्यगर्भविज्ञानात्मनः कर्म वाय्वन्तरिक्षयोः प्रयोक्तृ ; तत्कर्म वाय्वन्तरिक्षाधारं सत् अन्येषां भूतानां प्रयोक्तृ भवति ; तेन स्वकर्मणा वाय्वन्तरिक्षयोः प्रयोक्तेति तयोः रसः कारणमुच्यत इति। तन्न मूर्तरसेन अतुल्यत्वात् ; मूर्तस्य तु भूतत्रयस्य रसो मूर्तमेव मण्डलं दृष्टं भूतत्रयसमानजातीयम् ; न चेतनः ; तथा अमूर्तयोरपि भूतयोः तत्समानजातीयेनैव अमूर्तरसेन युक्तं भवितुम् , वाक्यप्रवृत्तेस्तुल्यत्वात् ; यथा हि मूर्तामूर्ते चतुष्टयधर्मवती विभज्येते, तथा रसरसवतोरपि मूर्तामूर्तयोः तुल्येनैव न्यायेन युक्तो विभागः ; न त्वर्धवैशसम्। मूर्तरसेऽपि मण्डलोपाधिश्चेतनो विवक्ष्यत इति चेत् — अत्यल्पमिदमुच्यते, सर्वत्रैव तु मूर्तामूर्तयोः ब्रह्मरूपेण विवक्षितत्वात्। पुरुषशब्दः अचेतनेऽनुपपन्न इति चेत् , न, पक्षपुच्छादिविशिष्टस्यैव लिङ्गस्य पुरुषशब्ददर्शनात् , ‘न वा इत्थं सन्तः शक्ष्यामः प्रजाः प्रजनयितुमिमान्सप्त पुरुषानेकं पुरुषं करवामेति त एतान्सप्त पुरुषानेकं पुरुषमकुर्वन्’ (शत. ब्रा. ६। १। १। ३) इत्यादौ अन्नरसमयादिषु च श्रुत्यन्तरे पुरुषशब्दप्रयोगात्। इत्यधिदैवतमिति उक्तोपसंहारः अध्यात्मविभागोक्त्यर्थः ॥
अथाध्यात्ममिदमेव मूर्तं यदन्यत्प्राणाच्च यश्चायमन्तरात्मन्नाकाश एतन्मर्त्यमेतत्स्थितमेतत्सत्तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो यच्चक्षुः सतो ह्येष रसः ॥ ४ ॥
अथाधुना अध्यात्मं मूर्तामूर्तयोर्विभाग उच्यते। किं तत् मूर्तम् ? इदमेव ; किञ्चेदम् ? यदन्यत् प्राणाच्च वायोः, यश्चायम् अन्तः अभ्यन्तरे आत्मन् आत्मनि आकाशः खम् , शरीरस्थश्च यः प्राणः — एतद्द्वयं वर्जयित्वा यदन्यत् शरीरारम्भकं भूतत्रयम् ; एतन्मर्त्यमित्यादि समानमन्यत्पूर्वेण। एतस्य सतो ह्येष रसः — यच्चक्षुरिति ; आध्यात्मिकस्य शरीरारम्भकस्य कार्यस्य एष रसः सारः ; तेन हि सारेण सारवदिदं शरीरं समस्तम् — यथा अधिदैवतमादित्यमण्डलेन ; प्राथम्याच्च — चक्षुषी एव प्रथमे सम्भवतः सम्भवत इति, [‘तेजो रसो निरवर्तताग्निः’ (बृ. उ. १। २। २)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=1&id=BR_C01_S02_V02&hl=तेजो रसो निरवर्तताग्निः) इति लिङ्गात् ; तैजसं हि चक्षुः ; एतत्सारम् आध्यात्मिकं भूतत्रयम् ; सतो ह्येष रस इति मूर्तत्वसारत्वे हेत्वर्थः ॥
अथामूर्तं प्राणश्च यश्चायमन्तरात्मन्नाकाश एतदमृतमेतद्यदेतत्त्यत्तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो योऽयं दक्षिणेऽक्षन्पुरुषस्त्यस्य ह्येष रसः ॥ ५ ॥
अथाधुना अमूर्तमुच्यते। यत्परिशेषितं भूतद्वयं प्राणश्च यश्चायमन्तरात्मन्नाकाशः, एतदमूर्तम्। अन्यत्पूर्ववत्। एतस्य त्यस्य एष रसः सारः, योऽयं दक्षिणेऽक्षन्पुरुषः — दक्षिणेऽक्षन्निति विशेषग्रहणम् , शास्त्रप्रत्यक्षत्वात् ; लिङ्गस्य हि दक्षिणेऽक्ष्णि विशेषतोऽधिष्ठातृत्वं शास्त्रस्य प्रत्यक्षम् , सर्वश्रुतिषु तथा प्रयोगदर्शनात्। त्यस्य ह्येष रस इति पूर्ववत् विशेषतः अग्रहणात् अमूर्तत्वसारत्व एव हेत्वर्थः ॥
तस्य हैतस्य पुरुषस्य रूपम्। यथा माहारजनं वासो यथा पाण्ड्वाविकं यथेन्द्रगोपो यथाग्न्यर्चिर्यथा पुण्डरीकं यथा सकृद्विद्युत्तं सकृद्विद्युत्तेव ह वा अस्य श्रीर्भवति य एवं वेदाथात आदेशो नेति नेति न ह्येतस्मादिति नेत्यन्यत्परमस्त्यथ नामधेयं सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम् ॥ ६ ॥
ब्रह्मण उपाधिभूतयोर्मूर्तामूर्तयोः कार्यकरणविभागेन अध्यात्माधिदैवतयोः विभागो व्याख्यातः सत्यशब्दवाच्ययोः। अथेदानीं तस्य हैतस्य पुरुषस्य करणात्मनो लिङ्गस्य रूपं वक्ष्यामः वासनामयं मूर्तामूर्तवासनाविज्ञानमयसंयोगजनितं विचित्रं पटभित्तिचित्रवत् मायेन्द्रजालमृगतृष्णिकोपमं सर्वव्यामोहास्पदम् — एतावन्मात्रमेव आत्मेति विज्ञानवादिनो वैनाशिका यत्र भ्रान्ताः, एतदेव वासनारूपं पटरूपवत् आत्मनो द्रव्यस्य गुण इति नैयायिका वैशेषिकाश्च सम्प्रतिपन्नाः, इदम् आत्मार्थं त्रिगुणं स्वतन्त्रं प्रधानाश्रयं पुरुषार्थेन हेतुना प्रवर्तत इति साङ्ख्याः ॥
औपनिषदम्मन्या अपि केचित्प्रक्रियां रचयन्ति — मूर्तामूर्तराशिरेकः, परमात्मराशिरुत्तमः, ताभ्यामन्योऽयं मध्यमः किल तृतीयः कर्त्रा भोक्त्रा विज्ञानमयेन अजातशत्रुप्रतिबोधितेन सह विद्याकर्मपूर्वप्रज्ञासमुदायः ; प्रयोक्ता कर्मराशिः, प्रयोज्यः पूर्वोक्तो मूर्तामूर्तभूतराशिः साधनं चेति। तत्र च तार्किकैः सह सन्धिंं कुर्वन्ति। लिङ्गाश्रयश्च एष कर्मराशिरित्युक्त्वा, पुनस्ततस्त्रस्यन्तः साङ्ख्यत्वभयात् — सर्वः कर्म राशिः — पुष्पाश्रय इव गन्धः पुष्पवियोगेऽपि पुटतैलाश्रयो भवति, तद्वत् — लिङ्गवियोगेऽपि परमात्मैकदेशमाश्रयति, सपरमात्मैकदेशः किल अन्यत आगतेन गुणेन कर्मणा सगुणो भवति निर्गुणोऽपि सन् , स कर्ता भोक्ता बध्यते मुच्यते च विज्ञानात्मा — इति वैशेषिकचित्तमप्यनुसरन्ति ; स च कर्मराशिः भूतराशेरागन्तुकः, स्वतो निर्गुण एव परमात्मैकदेशत्वात् , स्वत उत्थिता अविद्या अनागन्तुकापि ऊषरवत् अनात्मधर्मः — इत्यनया कल्पनया साङ्ख्यचित्तमनुवर्तन्ते ॥
सर्वमेतत् तार्किकैः सह सामञ्जस्यकल्पनया रमणीयं पश्यन्ति, न उपनिषत्सिद्धान्तं सर्वन्यायविरोधं च पश्यन्ति ; कथम् ? उक्ता एव तावत् सावयवत्वे परमात्मनः संसारित्वसव्रणत्वकर्मफलदेशसंसरणानुपपत्त्यादयो दोषाः ; नित्यभेदे च विज्ञानात्मनः परेण एकत्वानुपपत्तिः। लिङ्गमेवेति चेत् परमात्मन उपचरितदेशत्वेन कल्पितं घटकरकभूछिद्राकाशादिवत् , तथा लिङ्गवियोगेऽपि परमात्मदेशाश्रयणं वासनायाः। अविद्यायाश्च स्वत उत्थानम् ऊषरवत् — इत्यादिकल्पनानुपपन्नैव। न च वास्यदेशव्यतिरेकेण वासनाया वस्त्वन्तरसञ्चरणं मनसापि कल्पयितुं शक्यम्। न च श्रुतयो अवगच्छन्ति — [‘कामः सङ्कल्पो विचिकित्सा’ (बृ. उ. १। ५। ३)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=1&id=BR_C01_S05_V03&hl=कामः सङ्कल्पो विचिकित्सा) [‘हृदये ह्येव रूपाणि’ (बृ. उ. ३। ९। २०)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=3&id=BR_C03_S09_V20&hl=हृदये ह्येव रूपाणि) [‘ध्यायतीव लेलायतीव’ (बृ. उ. ४। ३। ७)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=4&id=BR_C04_S03_V07&hl=ध्यायतीव लेलायतीव) [‘कामा येऽस्य हृदि श्रिताः’ (बृ. उ. ४। ४। ७)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=4&id=BR_C04_S04_V07&hl=कामा येऽस्य हृदि श्रिताः) [‘तीर्णो हि तदा सर्वाञ्शोकान्हृदयस्य’ (बृ. उ. ४। ३। २२)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=4&id=BR_C04_S03_V22&hl=तीर्णो हि तदा सर्वाञ्शोकान्हृदयस्य) इत्याद्याः। न च आसां श्रुतीनां श्रुतादर्थान्तरकल्पना न्याय्या, आत्मनः परब्रह्मत्वोपपादनार्थपरत्वादासाम् , एतावन्मात्रार्थोपक्षयत्वाच्च सर्वोपनिषदाम्। तस्मात् श्रुत्यर्थकल्पनाकुशलाः सर्व एव उपनिषदर्थमन्यथा कुर्वन्ति। तथापि वेदार्थश्चेत्स्यात् , कामं भवतु, न मे द्वेषः। न च ‘द्वे वाव ब्रह्मणो रूपे’ इति राशित्रयपक्षे समञ्जसम् ; यदा तु मूर्तामूर्ते तज्जनितवासनाश्च मूर्तामूर्ते द्वे रूपे, ब्रह्म च रूपि तृतीयम् , न चान्यत् चतुर्थमन्तराले — तदा एतत् अनुकूलमवधारणम् , द्वे एव ब्रह्मणो रूपे इति ; अन्यथा ब्रह्मैकदेशस्य विज्ञानात्मनो रूपे इति कल्प्यम् , परमात्मनो वा विज्ञानात्मद्वारेणेति ; तदा च रूपे एवेति द्विवचनमसमञ्जसम् ; रूपाणीति वासनाभिः सह बहुवचनं युक्ततरं स्यात् — द्वे च मूर्तामूर्ते वासनाश्च तृतीयमिति। अथ मूर्तामूर्ते एव परमात्मनो रूपे, वासनास्तु विज्ञानात्मन इति चेत् — तदा विज्ञानात्मद्वारेण विक्रियमाणस्य परमात्मनः — इतीयं वाचो युक्तिरनर्थिका स्यात् , वासनाया अपि विज्ञानात्मद्वारत्वस्य अविशिष्टत्वात् ; न च वस्तु वस्त्वन्तरद्वारेण विक्रियत इति मुख्यया वृत्त्या शक्यं कल्पयितुम् ; न च विज्ञानात्मा परमात्मनो वस्त्वन्तरम् , तथा कल्पनायां सिद्धान्तहानात्। तस्मात् वेदार्थमूढानां स्वचित्तप्रभवा एवमादिकल्पना अक्षरबाह्याः ; न ह्यक्षरबाह्यो वेदार्थः वेदार्थोपकारी वा, निरपेक्षत्वात् वेदस्य प्रामाण्यं प्रति। तस्मात् राशित्रयकल्पना असमञ्जसा ॥
[‘योऽयं दक्षिणेऽक्षन्पुरुषः’ (बृ. उ. २। ३। ५)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=2&id=BR_C02_S03_V05&hl=योऽयं दक्षिणेऽक्षन्पुरुषः) इति लिङ्गात्मा प्रस्तुतः अध्यात्मे, अधिदैवे च [‘य एष एतस्मिन्मण्डले पुरुषः’ (बृ. उ. २। ३। ३)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=2&id=BR_C02_S03_V03&hl=य एष एतस्मिन्मण्डले पुरुषः) इति, ‘तस्य’ इति प्रकृतोपादनात् स एवोपादीयते — योऽसौ त्यस्यामूर्तस्य रसः, न तु विज्ञानमयः। ननु विज्ञानमयस्यैव एतानि रूपाणि कस्मान्न भवन्ति, विज्ञानमयस्यापि प्रकृतत्वात् , ‘तस्य’ इति च प्रकृतोपादानात् — नैवम् , विज्ञानमयस्य अरूपित्वेन विजिज्ञापयिषितत्वात् ; यदि हि तस्यैव विज्ञानमयस्य एतानि माहारजनादीनि रूपाणि स्युः, तस्यैव [‘नेति नेति’ (बृ. उ. २। ३। ६)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=2&id=BR_C02_S03_V06&hl=नेति नेति) इत्यनाख्येयरूपतया आदेशो न स्यात्। ननु अन्यस्यैव असावादेशः, न तु विज्ञानमयस्येति — न, षष्ठान्ते उपसंहरात् — [‘विज्ञातारमरे केन विजानीयात्’ (बृ. उ. ४। ५। १५)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=4&id=BR_C04_S05_V15&hl=विज्ञातारमरे केन विजानीयात्) इति विज्ञानमयं प्रस्तुत्य [‘स एष नेति नेति’ (बृ. उ. ४। ५। १५)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=4&id=BR_C04_S05_V15&hl=स एष नेति नेति) — इति ; ‘विज्ञपयिष्यामि’ (बृ. उ. २। १। १५) इति च प्रतिज्ञाया अर्थवत्त्वात् — यदि च विज्ञानमयस्यैव असंव्यवहार्यमात्मस्वरूपं ज्ञापयितुमिष्टं स्यात् प्रध्वस्तसर्वोपाधिविशेषम् , तत इयं प्रतिज्ञा अर्थवती स्यात् — येन असौ ज्ञापितो जानात्यात्मानमेव अहं ब्रह्मास्मीति, शास्त्रनिष्ठां प्राप्नोति, न बिभेति कुतश्चन ; अथ पुनः अन्यो विज्ञानमयः, अन्यः [‘नेति नेति’ (बृ. उ. २। ३। ६)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=2&id=BR_C02_S03_V06&hl=नेति नेति) इति व्यपदिश्यते — तदा अन्यददो ब्रह्म अन्योऽहमस्मीति विपर्ययो गृहीतः स्यात् , न [‘आत्मानमेवावेदहं ब्रह्मास्मि’ (बृ. उ. १। ४। १०)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=1&id=BR_C01_S04_V10&hl=आत्मानमेवावेदहं ब्रह्मास्मि) इति। तस्मात् ‘तस्य हैतस्य’ इति लिङ्गपुरुषस्यैव एतानि रूपाणि। सत्यस्य च सत्ये परमात्मस्वरूपे वक्तव्ये निरवशेषं सत्यं वक्तव्यम् ; सत्यस्य च विशेषरूपाणि वासनाः ; तासामिमानि रूपाण्युच्यन्ते ॥
एतस्य पुरुषस्य प्रकृतस्य लिङ्गात्मन एतानि रूपाणि ; कानि तानीत्युच्यन्ते — यथा लोके, महारजनं हरिद्रा तया रक्तं माहारजनम् यथा वासो लोके, एवं स्त्र्यादिविषयसंयोगे तादृशं वासनारूपं रञ्जनाकारमुत्पद्यते चित्तस्य, येनासौ पुरुषो रक्त इत्युच्यते वस्त्रादिवत् — यथा च लोके पाण्ड्वाविकम् , अवेरिदम् आविकम् ऊर्णादि, यथा च तत् पाण्डुरं भवति, तथा अन्यद्वासनारूपम् — यथा च लोके इन्द्रगोप अत्यन्तरक्तो भवति, एवमस्य वासनारूपम् — क्वचिद्विषयविशेषापेक्षया रागस्य तारतम्यम् , क्वचित्पुरुषचित्तवृत्त्यपेक्षया — यथा च लोके अग्न्यर्चिः भास्वरं भवति, तथा क्वचित् कस्यचित् वासनारूपं भवति — यथा पुण्डरीकं शुक्लम् , तद्वदपि च वासनारूपं कस्यचिद्भवति — यथा सकृद्विद्युत्तम् , यथा लोके सकृद्विद्योतनं सर्वतः प्रकाशकं भवति, तथा ज्ञानप्रकाशविवृद्ध्यपेक्षया कस्यचित् वासनारूपम् — उपजायते। न एषां वासनारूपाणाम् आदिः अन्तः मध्यं सङ्ख्या वा, देशः कालो निमित्तं वा अवधार्यते — असङ्ख्येयत्वाद्वासनायाः, वासनाहेतूनां च आनन्त्यात्। तथा च वक्ष्यति षष्ठे ‘इदम्मयोऽदोमयः’ (बृ. उ. ४। ४। ५) इत्यादि। तस्मात् न स्वरूपसङ्ख्यावधारणार्था दृष्टान्ताः — ‘यथा माहारजनं वासः’ इत्यादयः ; किं तर्हि प्रकारप्रदर्शनार्थाः — एवंप्रकाराणि हि वासनारूपाणीति। यत्तु वासनारूपमभिहितमन्ते — सकृद्विद्योतनमिवेति, तत्किल हिरण्यगर्भस्य अव्याकृतात्प्रादुर्भवतः तडिद्वत् सकृदेव व्यक्तिर्भवतीति ; तत् तदीयं वासनारूपं हिरण्यगर्भस्य यो वेद तस्य सकृद्विद्युत्तेव, ह वै इत्यवधारणार्थौ, एवमेव अस्य श्रीः ख्यातिः भवतीत्यर्थः, यथा हिरण्यगर्भस्य — एवम् एतत् यथोक्तं वासनारूपमन्त्यम् यो वेद ॥
एवं निरवशेषं सत्यस्य स्वरूपमभिधाय, यत्तत्सत्यस्य सत्यमवोचाम तस्यैव स्वरूपावधारणार्थं ब्रह्मण इदमारभ्यते — अथ अनन्तरं सत्यस्वरूपनिर्देशानन्तरम् , यत्सत्यस्य सत्यं तदेवावशिष्यते यस्मात् — अतः तस्मात् , सत्यस्य सत्यं स्वरूपं निर्देक्ष्यामः ; आदेशः निर्देशः ब्रह्मणः ; कः पुनरसौ निर्देश इत्युच्यते — नेति नेतीत्येवं निर्देशः ॥
ननु कथम् आभ्यां [‘नेति नेति’ (बृ. उ. २। ३। ६)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=2&id=BR_C02_S03_V06&hl=नेति नेति) इति शब्दाभ्यां सत्यस्य सत्यं निर्दिदिक्षितमिति, उच्यते — सर्वोपाधिविशेषापोहेन। यस्मिन्न कश्चिद्विशेषोऽस्ति — नाम वा रूपं वा कर्म वा भेदो वा जातिर्वा गुणो वा ; तद्द्वारेण हि शब्दप्रवृत्तिर्भवति ; न चैषां कश्चिद्विशेषो ब्रह्मण्यस्ति ; अतो न निर्देष्टुं शक्यते — इदं तदिति — गौरसौ स्पन्दते शुक्लो विषाणीति यथा लोके निर्दिश्यते, तथा ; अध्यारोपितनामरूपकर्मद्वारेण ब्रह्म निर्दिश्यते [‘विज्ञानमानन्दं ब्रह्म’ (बृ. उ. ३। ९। २८)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=3&id=BR_C03_S09_V28g&hl=विज्ञानमानन्दं ब्रह्म) [‘विज्ञानघन एव ब्रह्मात्मा’ (बृ. उ. २। ४। १२)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=2&id=BR_C02_S04_V12&hl=विज्ञानघन एव ब्रह्मात्मा) इत्येवमादिशब्दैः। यदा पुनः स्वरूपमेव निर्दिदिक्षितं भवति निरस्तसर्वोपाधिविशेषम् , तदा न शक्यते केनचिदपि प्रकारेण निर्देष्टुम् ; तदा अयमेवाभ्युपायः — यदुत प्राप्तनिर्देशप्रतिषेधद्वारेण [‘नेति नेति’ (बृ. उ. २। ३। ६)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=2&id=BR_C02_S03_V06&hl=नेति नेति) इति निर्देशः ॥
इदं च नकारद्वयं वीप्साव्याप्त्यर्थम् ; यद्यत्प्राप्तं तत्तत् निषिध्यते ; तथा च सति अनिर्दिष्टाशङ्का ब्रह्मणः परिहृता भवति ; अन्यथा हि नकारद्वयेन प्रकृतद्वयप्रतिषेधे, यदन्यत् प्रकृतात्प्रतिषिद्धद्वयात् ब्रह्म, तन्न निर्दिष्टम् , कीदृशं नु खलु — इत्याशङ्का न निवर्तिष्यते ; तथा च अनर्थकश्च स निर्देशः, पुरुषस्य विविदिषाया अनिवर्तकत्वात् ; ‘ब्रह्म ज्ञपयिष्यामि’ इति च वाक्यम् अपरिसमाप्तार्थं स्यात्। यदा तु सर्वदिक्कालादिविविदिषा निवर्तिता स्यात् सर्वोपाधिनिराकरणद्वारेण, तदा सैन्धवघनवत् एकरसं प्रज्ञानघनम् अनन्तरमबाह्यं सत्यस्य सत्यम् अहं ब्रह्म अस्मीति सर्वतो निवर्तते विविदिषा, आत्मन्येवावस्थिता प्रज्ञा भवति। तस्मात् वीप्सार्थं नेति नेतीति नकारद्वयम्। ननु महता यत्नेन परिकरबन्धं कृत्वा किं युक्तम् एवं निर्देष्टुं ब्रह्म ? बाढम् ; कस्मात् ? न हि — यस्मात् , ‘इति न, इति न’ इत्येतस्मात् — इतीति व्याप्तव्यप्रकारा नकारद्वयविषया निर्दिश्यन्ते, यथा ग्रामो ग्रामो रमणीय इति — अन्यत्परं निर्देशनं नास्ति ; तस्मादयमेव निर्देशो ब्रह्मणः। यदुक्तम् — [‘तस्योपनिषत्सत्यस्य सत्यम्’ (बृ. उ. २। १। २०)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=2&id=BR_C02_S01_V20&hl=तस्योपनिषत्सत्यस्य सत्यम्) इति, एवंप्रकारेण सत्यस्य सत्यं तत् परं ब्रह्म ; अतो युक्तमुक्तं नामधेयं ब्रह्मणः, नामैव नामधेयम् ; किं तत् सत्यस्य सत्यं प्राणा वै सत्यं तेषामेष सत्यमिति ॥
इति द्वितीयाध्यायस्य तृतीयं ब्राह्मणम् ॥