1

विस्तारः (द्रष्टुं नोद्यम्)

आत्मेत्येवोपासीत - तद् अन्वेषणे च सर्वम् अन्विष्टं स्यात्।
तद् एव च आत्म-तत्त्वं सर्वस्मात् प्रेयस्त्वाद् अन्वेष्टव्यम् — आत्मानम् एवावेदहं ब्रह्मास्मीति — आत्मतत्त्वमेकं विद्याविषयः। यस्तु भेददृष्टिविषयः सः — अन्योऽसावन्योऽहमस्मीति न स वेदेति — अविद्याविषयः। ‘एकधैवानुद्रष्टव्यम्’ (बृ. उ. ४। ४। २०) [‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’ (बृ. उ. ४। ४। १९)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=4&id=BR_C04_S04_V19&hl=मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति) इत्येवमादिभिः प्रविभक्तौ विद्याविद्याविषयौ सर्वोपनिषत्सु। तत्र च अविद्याविषयः सर्व एव साध्यसाधनादिभेदविशेषविनियोगेन व्याख्यातः आ तृतीयाध्यायपरिसमाप्तेः। स च व्याख्यातोऽविद्याविषयः सर्व एव द्विप्रकारः — अन्तःप्राण उपष्टम्भको गृहस्येव स्तम्भादिलक्षणः प्रकाशकोऽमृतः, बाह्यश्च कार्यलक्षणोऽप्रकाशक उपजनापायधर्मकः तृणकुशमृत्तिकासमो गृहस्येव सत्यशब्दवाच्यो मर्त्यः ; तेन अमृतशब्दवाच्यः प्राणः छन्न इति च उपसंहृतम्। स एव च प्राणो बाह्याधारभेदेष्वनेकधा विस्तृतः। प्राण एको वेद इत्युच्यते। तस्यैव बाह्यः पिण्ड एकः साधारणः — विराट् वैश्वानरः आत्मा पुरुषविधः प्रजापतिः कः हिरण्यगर्भः — इत्यादिभिः पिण्डप्रधानैः शब्दैराख्यायते सूर्यादिप्रविभक्तकरणः। एकं च अनेकं च ब्रह्म एतावदेव, नातः परमस्ति प्रत्येकं च शरीरभेदेषु परिसमाप्तं चेतनावत् कर्तृ भोक्तृ च — इति अविद्याविषयमेव आत्मत्वेनोपगतो गार्ग्यो ब्राह्मणो वक्ता उपस्थाप्यते। तद्विपरीतात्मदृक् अजातशत्रुः श्रोता। एवं हि यतः पूर्वपक्षसिद्धान्ताख्यायिकारूपेण समर्प्यमाणोऽर्थः श्रोतुश्चित्तस्य वशमेति ; विपर्यये हि तर्कशास्त्रवत्केवलार्थानुगमवाक्यैः समर्प्यमाणो दुर्विज्ञेयः स्यात् अत्यन्तसूक्ष्मत्वाद्वस्तुनः ; तथा च काठके — [‘श्रवणायापि बहुभिर्यो न लभ्यः’ (क. उ. १। २। ७)](https://advaitasharada.sringeri.net/display/bhashya/Kathaka?page=1&id=Ka_C01_S02_V07&hl=श्रवणायापि बहुभिर्यो न लभ्यः) इत्यादिवाक्यैः सुसंस्कृतदेवबुद्धिगम्यत्वं सामान्यमात्रबुद्ध्यगम्यत्वं च सप्रपञ्चं दर्शितम् ; [‘आचार्यवान्पुरुषो वेद’ (छा. उ. ६। १४। २)](https://advaitasharada.sringeri.net/display/bhashya/Chandogya?page=6&id=Ch_C06_S14_V02&hl=आचार्यवान्पुरुषो वेद) [‘आचार्याद्धैव विद्या’ (छा. उ. ४। ४। ३)](https://advaitasharada.sringeri.net/display/bhashya/Chandogya?page=4&id=Ch_C04_S04_V03&hl=आचार्याद्धैव विद्या) इति च च्छान्दोग्ये ; [‘उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः’ (भ. गी. ४। ३७)](https://advaitasharada.sringeri.net/display/bhashya/Gita?page=4&id=BG_C04_V37&hl=उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः) इति च गीतासु ; इहापि च शाकल्ययाज्ञवल्क्यसंवादेनातिगह्वरत्वं महता संरम्भेण ब्रह्मणो वक्ष्यति — तस्मात् श्लिष्ट एव आख्यायिकारूपेण पूर्वपक्षसिद्धान्तरूपमापाद्य वस्तुसमर्पणार्थ आरम्भः। आचारविध्युपदेशार्थश्च — एवमाचारवतोर्वक्तृश्रोत्रोराख्यायिकानुगतोऽर्थोऽवगम्यते। केवलतर्कबुद्धिनिषेधार्था च आख्यायिका — [‘नैषा तर्केण मतिरापनेया’ (क. उ. १। २। ९)](https://advaitasharada.sringeri.net/display/bhashya/Kathaka?page=1&id=Ka_C01_S02_V09&hl=नैषा तर्केण मतिरापनेया) ‘न तर्कशास्त्रदग्धाय’ (मो. ध. २४७। १८) इति श्रुतिस्मृतिभ्याम्। श्रद्धा च ब्रह्मविज्ञाने परमं साधनमित्याख्यायिकार्थः ; तथा हि गार्ग्याजातशत्र्वोरतीव श्रद्धालुता दृश्यत आख्यायिकायाम् ; [‘श्रद्धावांल्लभते ज्ञानम्’ (भ. गी. ४। ३०)](https://advaitasharada.sringeri.net/display/bhashya/Gita?page=4&id=BG_C04_V30&hl=श्रद्धावांल्लभते ज्ञानम्) इति च स्मृतिः ॥

ओं। दृप्तबालाकिर्हानूचानो गार्ग्य आस स होवाचाजातशत्रुं काश्यं ब्रह्म ते ब्रवाणीति स होवाचाजातशत्रुः सहस्रमेतस्यां वाचि दद्मो जनको जनक इति वै जना धावन्तीति ॥ १ ॥

विस्तारः (द्रष्टुं नोद्यम्)

तत्र पूर्वपक्षवादी अविद्याविषयब्रह्मवित् दृप्तबालाकिः - दृप्तः गर्वितः असम्यग्ब्रह्मवित्त्वादेव — बलाकाया अपत्यं बालाकिः, दृप्तश्चासौ बालाकिश्चेति दृप्तबालाकिः, ह - शब्द ऐतिह्यार्थ आख्यायिकायाम् , अनूचानः अनुवचनसमर्थः वक्ता वाग्मी, गार्ग्यो गोत्रतः, आस बभूव क्वचित्कालविशेषे। स होवाच अजातशत्रुम् अजातशत्रुनामानम् काश्यं काशिराजम् अभिगम्य — ब्रह्म ते ब्रवाणीति ब्रह्म ते तुभ्यं ब्रवाणि कथयानि। स एवमुक्तोऽजातशत्रुरुवाच — सहस्रं गवां दद्मः एतस्यां वाचि — यां मां प्रत्यवोचः ब्रह्म ते ब्रवाणीति, तावन्मात्रमेव गोसहस्रप्रदाने निमित्तमित्यभिप्रायः। साक्षाद्ब्रह्मकथनमेव निमित्तं कस्मान्नापेक्ष्यते सहस्रदाने, ब्रह्म ते ब्रवाणीति इयमेव तु वाक् निमित्तमपेक्ष्यत इत्युच्यते — यतः श्रुतिरेव राज्ञोऽभिप्रायमाह — जनको दाता जनकः श्रोतेति च एतस्मिन्वाक्यद्वये एतद्वयमभ्यस्यते जनको जनक इति ; वै - शब्दः प्रसिद्धावद्योतनार्थः ; जनको दित्सुर्जनकः शुश्रूषुरिति ब्रह्म शुश्रूषवो विवक्षवः प्रतिजिघृक्षवश्च जनाः धावन्ति अभिगच्छन्ति ; तस्मात् तत्सर्वं मय्यपि सम्भावितवानसीति ॥

स होवाच गार्ग्यो य एवासावादित्ये पुरुष एतमेवाहं ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा अतिष्ठाः सर्वेषां भूतानां मूर्धा राजेति वा अहमेतमुपास इति स य एतमेवमुपास्तेऽतिष्ठाः सर्वेषां भूतानां मूर्धा राजा भवति ॥ २ ॥

विस्तारः (द्रष्टुं नोद्यम्)

एवं राजानं शुश्रूषुम् अभिमुखीभूतं स होवाच गार्ग्यः — य एव असौ आदित्ये चक्षुषि च एकः अभिमानी चक्षुर्द्वारेण इह हृदि प्रविष्टः अहं भोक्ता कर्ता चेत्यवस्थितः — एतमेव अहं ब्रह्म पश्यामि अस्मिन्कार्यकरणसङ्घाते उपासे ; तस्मात् तमहं पुरुषं ब्रह्म तुभ्यं ब्रवीमि उपास्स्वेति। स एवमुक्तः प्रत्युवाच अजातशत्रुः मा मेति हस्तेन विनिवारयन् — एतस्मिन् ब्रह्मणि विज्ञेये मा संवदिष्ठाः ; मा मेत्याबाधनार्थं द्विर्वचनम् — एवं समाने विज्ञानविषय आवयोः अस्मानविज्ञानवत इव दर्शयता बाधिताः स्यामः, अतो मा संवदिष्ठाः मा संवादं कार्षीः अस्मिन्ब्रह्मणि ; अन्यच्चेज्जानासि, तद्ब्रह्म वक्तुमर्हसि, न तु यन्मया ज्ञायत एव। अथ चेन्मन्यसे — जानीषे त्वं ब्रह्ममात्रम् , न तु तद्विशेषेणोपासनफलानीति — तन्न मन्तव्यम् ; यतः सर्वमेतत् अहं जाने, यद्ब्रवीषि ; कथम् ? अतिष्ठाः अतीत्य भूतानि तिष्ठतीत्यतिष्ठाः, सर्वेषां च भूतानां मूर्धा शिरः राजेति वै — राजा दीप्तिगुणोपेतत्वात् एतैर्विशेषणैर्विशिष्टमेतद्ब्रह्म अस्मिन्कार्यकरणसङ्घाते कर्तृ भोक्तृ चेति अहमेतमुपास इति ; फलमप्येवं विशिष्टोपासकस्य — स य एतमेवमुपास्ते अतिष्ठाः सर्वेषां भूतानां मूर्धा राजा भवति ; यथागुणोपासनमेव हि फलम् ; ‘तं यथा यथोपासते तदेव भवति’ (शत. ब्रा. १०। ५। २। २०) इति श्रुतेः ॥

स होवाच गार्ग्यो य एवासौ चन्द्रे पुरुष एतमेवाहं ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा बृहन्पाण्डरवासाः सोमो राजेति वा अहमेतमुपास इति स य एतमेवमुपास्तेऽहरहर्ह सुतः प्रसुतो भवति नास्यान्नं क्षीयते ॥ ३ ॥

विस्तारः (द्रष्टुं नोद्यम्)

संवादेन आदित्यब्रह्मणि प्रत्याख्यातेऽजातशत्रुणा चन्द्रमसि ब्रह्मान्तरं प्रतिपेदे गार्ग्यः। य एवासौ चन्द्रे मनसि च एकः पुरुषो भोक्ता कर्ता चेति पूर्ववद्विशेषणम्। बृहन् महान् पाण्डरं शुक्लं वासो यस्य सोऽयं पाण्डरवासाः, अप्शरीरत्वात् चन्द्राभिमानिनः प्राणस्य, सोमो राजा चन्द्रः, यश्चान्नभूतोऽभिषूयते लतात्मको यज्ञे, तमेकीकृत्य एतमेवाहं ब्रह्मोपासे ; यथोक्तगुणं य उपास्ते तस्य अहरहः सुतः सोमोऽभिषुतो भवति यज्ञे, प्रसुतः प्रकृष्टं सुतरां सुतो भवति विकारे — उभयविधयज्ञानुष्ठानसामर्थ्यं भवतीत्यर्थः ; अन्नं च अस्य न क्षीयते अन्नात्मकोपासकस्य ॥

स होवाच गार्ग्यो य एवासौ विद्युति पुरुष एतमेवाहं ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठास्तेजस्वीति वा अहमेतमुपास इति स य एतमेवमुपास्ते तेजस्वी ह भवति तेजस्विनी हास्य प्रजा भवति ॥ ४ ॥

विस्तारः (द्रष्टुं नोद्यम्)

तथा विद्युति त्वचि हृदये च एका देवता ; तेजस्वीति विशेषणम् ; तस्यास्तत्फलम् — तेजस्वी ह भवति तेजस्विनी हास्य प्रजा भवति — विद्युतां बहुत्वस्याङ्गीकरणात् आत्मनि प्रजायां च फलबाहुल्यम् ॥

स होवाच गार्ग्यो य एवायमाकाशे पुरष एतमेवाहं ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठाः पूर्णमप्रवर्तीति वा अहमेतमुपास इति स य एतमेवमुपास्ते पूर्यते प्रजया पशुभिर्नास्यास्माल्लोकात्प्रजोद्वर्तते ॥ ५ ॥

विस्तारः (द्रष्टुं नोद्यम्)

तथा आकाशे हृद्याकाशे हृदये च एका देवता ; पूर्णम् अप्रवर्ति चेति विशेषणद्वयम् ; पूर्णत्वविशेषणफलमिदम् — पूर्यते प्रजया पशुभिः ; अप्रवर्तिविशेषणफलम् — नास्यास्माल्लोकात्प्रजोद्वर्तत इति, प्रजा सन्तानाविच्छित्तिः ॥

स होवाच गार्ग्यो य एवायं वायौ पुरुष एतमेवाहं ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा इन्द्रो वैकुण्ठोऽपराजिता सेनेति वा अहमेतमुपास इति स य एतमेवमुपास्ते जिष्णुर्हापराजिष्णुर्भवत्यन्यतस्त्यजायी ॥ ६ ॥

विस्तारः (द्रष्टुं नोद्यम्)

तथा वायौ प्राणे हृदि च एका देवता ; तस्या विशेषणम् — इन्द्रः परमेश्वरः, वैकुण्ठः अप्रसह्यः, न परैर्जितपूर्वा अपराजिता सेना — मरुतां गणत्वप्रसिद्धेः ; उपासनफलमपि — जिष्णुर्ह जयनशीलः अपराजिष्णुः न च परैर्जितस्वभावः भवति, अन्यतस्त्यजायी अन्यतस्त्यानां सपत्नानां जयनशीलो भवति ॥

स होवाच गार्ग्यो य एवायमग्नौ पुरुष एतमेवाहं ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा विषासहिरिति वा अहमेतमुपास इति स य एतमेवमुपास्ते विषासहिर्ह भवति विषासहिर्हास्य प्रजा भवति ॥ ७ ॥

विस्तारः (द्रष्टुं नोद्यम्)

अग्नौ वाचि हृदि च एका देवता ; तस्या विशेषणम् — विषासहिः मर्षयिता परेषाम् अग्निबाहुल्यात् फलबाहुल्यं पूर्ववत् ॥

स होवाच गार्ग्यो य एवायमप्सु पुरुष एतमेवाहं ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठाः प्रतिरूप इति वा अहमेतमुपास इति स य एतमेवमुपास्ते प्रतिरूपं हैवैनमुपगच्छति नाप्रतिरूपमथो प्रतिरूपोऽस्माज्जायते ॥ ८ ॥

विस्तारः (द्रष्टुं नोद्यम्)

अप्सु रेतसि हृदि च एका देवता ; तस्या विशेषणम् — प्रतिरूपः अनुरूपः श्रुतिस्मृत्यप्रतिकूल इत्यर्थः ; फलम् — प्रतिरूपं श्रुतिस्मृतिशासनानुरूपमेव एनमुपगच्छति प्राप्नोति न विपरीतम् , अन्यच्च — अस्मात् तथाविध एवोपजायते ॥

स होवाच गार्ग्यो य एवायमादर्शे पुरुष एतमेवाहं ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा रोचिष्णुरिति वा अहमेतमुपास इति स य एतमेवमुपास्ते रोचिष्णुर्ह भवति रोचिष्णुर्हास्य प्रजा भवत्यथो यैः सन्निगच्छति सर्वां स्तानतिरोचते ॥ ९ ॥

विस्तारः (द्रष्टुं नोद्यम्)

आदर्शे प्रसादस्वभावे चान्यत्र खड्गादौ, हार्दे च सत्त्वशुद्धिस्वाभाव्ये च एका देवता ; तस्या विशेषणम् — रोचिष्णुः दीप्तिस्वभावः ; फलं च तदेव, रोचनाधारबाहुल्यात्फलबाहुल्यम् ॥

स होवाच गार्ग्यो य एवायं यन्तं पश्चाच्छब्दोऽनूदेत्येतमेवाहं ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा असुरिति वा अहमेतमुपास इति स य एतमेवमुपास्ते सर्वं हैवास्मिंल्लोक आयुरेति नैनं पुरा कालात्प्राणो जहाति ॥ १० ॥

विस्तारः (द्रष्टुं नोद्यम्)

यन्तं गच्छन्तं य एवायं शब्दः पश्चात् पृष्ठतः अनूदेति, अध्यात्मं च जीवनहेतुः प्राणः — तमेकीकृत्याह ; असुः प्राणो जीवनहेतुरिति गुणस्तस्य ; फलम् — सर्वमायुरस्मिंल्लोक एतीति — यथोपात्तं कर्मणा आयुः कर्मफलपरिच्छिन्नकालात् पुरा पूर्वं रोगादिभिः पीड्यमानमप्येनं प्राणो न जहाति ॥

स होवाच गार्ग्यो य एवायं दिक्षु पुरुष एतमेवाहं ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा द्वितीयोऽनपग इति वा अहमेतमुपास इति स य एतमेवमुपास्ते द्वितीयवान्ह भवति नास्माद्गणश्छिद्यते ॥ ११ ॥

विस्तारः (द्रष्टुं नोद्यम्)

दिक्षु कर्णयोः हृदि चैका देवता अश्विनौ देवाववियुक्तस्वभावौ ; गुणस्तस्य द्वितीयवत्त्वम् अनपगत्वम् अवियुक्तता चान्योन्यं दिशामश्विनोश्च एवं धर्मित्वात् ; तदेव च फलमुपासकस्य — गणाविच्छेदः द्वितीयवत्त्वं च ॥

स होवाच गार्ग्यो य एवायं छायामयः पुरुष एतमेवाहं ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा मृत्युरिति वा अहमेतमुपास इति स य एतमेवमुपास्ते सर्वं हैवास्मिंल्लोक आयुरेति नैनं पुरा कालान्मृत्युरागच्छति ॥ १२ ॥

विस्तारः (द्रष्टुं नोद्यम्)

छायायां बाह्ये तमसि अध्यात्मं च आवरणात्मकेऽज्ञाने हृदि च एका देवता, तस्या विशेषणम् — मृत्युः ; फलं सर्वं पूर्ववत् , मृत्योरनागमनेन रोगादिपीडाभावो विशेषः ॥

स होवाच गार्ग्यो य एवायमात्मनि पुरुष एतमेवाहं ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा आत्मन्वीति वा अहमेतमुपास इति स य एतमेवमुपास्त आत्मन्वी ह भवत्यात्मन्विनी हास्य प्रजा भवति स ह तूष्णीमास गार्ग्यः ॥ १३ ॥

विस्तारः (द्रष्टुं नोद्यम्)

आत्मनि प्रजापतौ बुद्धौ च हृदि च एका देवता ; तस्याः आत्मन्वी आत्मवानिति विशेषणम् ; फलम् — आत्मन्वी ह भवति आत्मवान्भवति, आत्मन्विनी हास्य प्रजा भवति, बुद्धिबहुलत्वात् प्रजायां सम्पादनमिति विशेषः। स्वयं परिज्ञातत्वेन एवं क्रमेण प्रत्याख्यातेषु ब्रह्मसु स गार्ग्यः क्षीणब्रह्मविज्ञानः अप्रतिभासमानोत्तरः तूष्णीमवाक्शिरा आस ॥

स होवाचाजातशत्रुरेतावन्नू ३ इत्येतावद्धीति नैतावता विदितं भवतीति स होवाच गार्ग्य उप त्वा यानीति ॥ १४ ॥

विस्तारः (द्रष्टुं नोद्यम्)

तं तथाभूतम् आलक्ष्य गार्ग्यं स होवाच अजातशत्रुः — एतावन्नू३ इति — किमेतावद्ब्रह्म निर्ज्ञातम् , आहोस्विदधिकमप्यस्तीति ; इतर आह — एतावद्धीति। नैतावता विदितेन ब्रह्म विदितं भवतीत्याह अजातशत्रुः — किमर्थं गर्वितोऽसि ब्रह्म ते ब्रवाणीति। किमेतावद्विदितं विदितमेव न भवतीत्युच्यते ? न, फलवद्विज्ञानश्रवणात् ; न चार्थवादत्वमेव वाक्यानामवगन्तुं शक्यम् ; अपूर्वविधानपराणि हि वाक्यानि प्रत्युपासनोपदेशं लक्ष्यन्ते — [‘अतिष्ठाः सर्वेषां भूतानाम्’ (बृ. उ. २। १। २)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=2&id=BR_C02_S01_V02&hl=अतिष्ठाः सर्वेषां भूतानाम्) इत्यादीनि ; तदनुरूपाणि च फलानि सर्वत्र श्रूयन्ते विभक्तानि ; अर्थवादत्वे एतदसमञ्जसम्। कथं तर्हि नैतावता विदितं भवतीति ? नैष दोषः, अधिकृतापेक्षत्वात् — ब्रह्मोपदेशार्थं हि शुश्रूषवे अजातशत्रवे अमुख्यब्रह्मवित् गार्ग्यः प्रवृत्तः ; स युक्त एव मुख्यब्रह्मविदा अजातशत्रुणा अमुख्यब्रह्मविद्गार्ग्यो वक्तुम् — यन्मुख्यं ब्रह्म वक्तुं प्रवृत्तः त्वं तत् न जानीष इति ; यद्यमुख्यब्रह्मविज्ञानमपि प्रत्याख्यायेत, तदा एतावतेति न ब्रूयात् , न किञ्चिज्ज्ञातं त्वयेत्येवं ब्रूयात् ; तस्माद्भवन्ति एतावन्ति अविद्याविषये ब्रह्माणि ; एतावद्विज्ञानद्वारत्वाच्च परब्रह्मविज्ञानस्य युक्तमेव वक्तुम् — नैतावता विदितं भवतीति ; अविद्याविषये विज्ञेयत्वं नामरूपकर्मात्मकत्वं च एषां तृतीयेऽध्याये प्रदर्शितम् ; तस्मात् ‘नैतावता विदितं भवति’ इति ब्रुवता अधिकं ब्रह्म ज्ञातव्यमस्तीति दर्शितं भवति। तच्च अनुपसन्नाय न वक्तव्यमित्याचारविधिज्ञो गार्ग्यः स्वयमेव आह — उप त्वा यानीति — उपगच्छानीति — त्वाम् , यथान्यः शिष्यो गुरुम् ॥

स होवाचाजातशत्रुः प्रतिलोमं चैतद्यद्ब्राह्मणः क्षत्रियमुपेयाद्ब्रह्म मे वक्ष्यतीति व्येव त्वा ज्ञपयिष्यामीति तं पाणावादायोत्तस्थौ तौ ह पुरुषं सुप्तमाजग्मतुस्तमेतैर्नामभिरामन्त्रयाञ्चक्रे बृहन्पाण्डरवासः सोम राजन्निति स नोत्तस्थौ तं पाणिनापेषं बोधयाञ्चकार स होत्तस्थौ ॥ १५ ॥

विस्तारः (द्रष्टुं नोद्यम्)

स होवाच अजातशत्रुः — प्रतिलोमं विपरीतं चैतत् ; किं तत् ? यद्ब्राह्मणः उत्तमवर्णः आचार्यत्वेऽधिकृतः सन् क्षत्रियमनाचार्यस्वभावम् उपेयात् उपगच्छेत् शिष्यवृत्त्या — ब्रह्म मे वक्ष्यतीति ; एतदाचारविधिशास्त्रेषु निषिद्धम् ; तस्मात् तिष्ठ त्वम् आचार्य एव सन् ; विज्ञपयिष्याम्येव त्वामहम् — यस्मिन्विदिते ब्रह्म विदितं भवति, यत्तन्मुख्यं ब्रह्म वेद्यम्। तं गार्ग्यं सलज्जमालक्ष्य विस्रम्भजननाय पाणौ हस्ते आदाय गृहीत्वा उत्तस्थौ उत्थितवान्। तौ ह गार्ग्याजातशत्रू पुरुषं सुप्तं राजगृहप्रदेशे क्वचित् आजग्मतुः आगतौ। तं च पुरुषं सुप्तं प्राप्य एतैर्नामभिः — बृहन् पाण्डरवासः सोम राजन्नित्येतैः — आमन्त्रयाञ्चक्रे। एवमामन्त्र्यमाणोऽपि स सुप्तः नोत्तस्थौ। तम् अप्रतिबुद्ध्यमानं पाणिना आपेषम् आपिष्य आपिष्य बोधयाञ्चकार प्रतिबोधितवान्। तेन स होत्तस्थौ। तस्माद्यो गार्ग्येणाभिप्रेतः, नासावस्मिञ्छरीरे कर्ता भोक्ता ब्रह्मेति ॥

कथं पुनरिदमवगम्यते — सुप्तपुरुषगमनतत्सम्बोधनानुत्थानैः गार्ग्याभिमतस्य ब्रह्मणोऽब्रह्मत्वं ज्ञापितमिति ? जागरितकाले यो गार्ग्याभिप्रेतः पुरुषः कर्ता भोक्ता ब्रह्म सन्निहितः करणेषु यथा, तथा अजातशत्र्वभिप्रेतोऽपि तत्स्वामी भृत्येष्विव राजा सन्निहित एव ; किं तु भृत्यस्वामिनोः गार्ग्याजातशत्र्वभिप्रेतयोः यद्विवेकावधारणकारणम् , तत् सङ्कीर्णत्वादनवधारितविशेषम् ; यत् द्रष्टृत्वमेव भोक्तुः न दृश्यत्वम् , यच्च अभोक्तुर्दृश्यत्वमेव न तु द्रष्टृत्वम् , तच्च उभयम् इह सङ्कीर्णत्वाद्विविच्य दर्शयितुमशक्यमिति सुप्तपुरुषगमनम्। ननु सुप्तेऽपि पुरुषे विशिष्टैर्नामभिरामन्त्रितो भोक्तैव प्रतिपत्स्यते, न अभोक्ता — इति नैव निर्णयः स्यादिति। न, निर्धारितविशेषत्वाद्गार्ग्याभिप्रेतस्य — यो हि सत्येन च्छन्नः प्राण आत्मा अमृतः वागादिषु अनस्तमितः निम्लोचत्सु, यस्य आपः शरीरं पाण्डरवासाः, यश्च असपत्नत्वात् बृहन् , यश्च सोमो राजा षोडशकलः, स स्वव्यापारारूढो यथानिर्ज्ञात एव अनस्तमितस्वभाव आस्ते ; न च अन्यस्य कस्यचिद्व्यापारः तस्मिन्काले गार्ग्येणाभिप्रेयते तद्विरोधिनः ; तस्मात् स्वनामभिरामन्त्रितेन प्रतिबोद्धव्यम् ; न च प्रत्यबुध्यत ; तस्मात् पारिशेष्यात् गार्ग्याभिप्रेतस्य अभोक्तृत्वं ब्रह्मणः। भोक्तृस्वभावश्चेत् भुञ्जीतैव स्वं विषयं प्राप्तम् ; न हि दग्धृस्वभावः प्रकाशयितृस्वभावः सन् वह्निः तृणोलपादि दाह्यं स्वविषयं प्राप्तं न दहति, प्रकाश्यं वा न प्रकाशयति ; न चेत् दहति प्रकाशयति वा प्राप्तं स्वं विषयम् , नासौ वह्निः दग्धा प्रकाशयिता वेति निश्चीयते ; तथा असौ प्राप्तशब्दादिविषयोपलब्धृस्वभावश्चेत् गार्ग्याभिप्रेतः प्राणः, बृहन्पाण्डरवास इत्येवमादिशब्दं स्वं विषयमुपलभेत — यथा प्राप्तं तृणोलपादि वह्निः दहेत् प्रकाशयेच्च अव्यभिचारेण तद्वत्। तस्मात् प्राप्तानां शब्दादीनाम् अप्रतिबोधात् अभोक्तृस्वभाव इति निश्चीयते ; न हि यस्य यः स्वभावो निश्चितः, स तं व्यभिचरति कदाचिदपि ; अतः सिद्धं प्राणस्याभोक्तृत्वम्। सम्बोधनार्थनामविशेषेण सम्बन्धाग्रहणात् अप्रतिबोध इति चेत् — स्यादेतत् — यथा बहुष्वासीनेषु स्वनामविशेषेण सम्बन्धाग्रहणात् मामयं सम्बोधयतीति, शृण्वन्नपि सम्बोध्यमानः विशेषतो न प्रतिपद्यते ; तथा इमानि बृहन्नित्येवमादीनि मम नामानीति अगृहीतसम्बन्धत्वात् प्राणो न गृह्णाति सम्बोधनार्थं शब्दम् , न त्वविज्ञातृत्वादेव — इति चेत् — न, देवताभ्युपगमे अग्रहणानुपपत्तेः ; यस्य हि चन्द्राद्यभिमानिनी देवता अध्यात्मं प्राणो भोक्ता अभ्युपगम्यते, तस्य तया संव्यवहाराय विशेषनाम्ना सम्बन्धोऽवश्यं ग्रहीतव्यः ; अन्यथा आह्वानादिविषये संव्यवहारोऽनुपपन्नः स्यात्। व्यतिरिक्तपक्षेऽपि अप्रतिपत्तेः अयुक्तमिति चेत् — यस्य च प्राणव्यतिरिक्तो भोक्ता, तस्यापि बृहन्नित्यादिनामभिः सम्बोधने बृहत्त्वादिनाम्नां तदा तद्विषयत्वात् प्रतिपत्तिर्युक्ता ; न च कदाचिदपि बृहत्त्वादिशब्दैः सम्बोधितः प्रतिपद्यमानो दृश्यते ; तस्मात् अकारणम् अभोक्तृत्वे सम्बोधनाप्रतिपत्तिरिति चेत् — न, तद्वतः तावन्मात्राभिमानानुपपत्तेः ; यस्य प्राणव्यतिरिक्तो भोक्ता, सः प्राणादिकरणवान् प्राणी ; तस्य न प्राणदेवतामात्रेऽभिमानः, यथा हस्ते ; तस्मात् प्राणनामसम्बोधने कृत्स्नाभिमानिनो युक्तैव अप्रतिपत्तिः, न तु प्राणस्य असाधारणनामसंयोगे ; देवतात्मत्वानभिमानाच्च आत्मनः। स्वनामप्रयोगेऽप्यप्रतिपत्तिदर्शनादयुक्तमिति चेत् — सुषुप्तस्य यल्लौकिकं देवदत्तादि नाम तेनापि सम्बोध्यमानः कदाचिन्न प्रतिपद्यते सुषुप्तः ; तथा भोक्तापि सन् प्राणो न प्रतिपद्यत इति चेत् — न, आत्मप्राणयोः सुप्तासुप्तत्वविशेषोपपत्तेः ; सुषुप्तत्वात् प्राणग्रस्ततया उपरतकरण आत्मा स्वं नाम प्रयुज्यमानमपि न प्रतिपद्यते ; न तु तत् असुप्तस्य प्राणस्य भोक्तृत्वे उपरतकरणत्वं सम्बोधनाग्रहणं वा युक्तम्। अप्रसिद्धनामभिः सम्बोधनमयुक्तमिति चेत् — सन्ति हि प्राणविषयाणि प्रसिद्धानि प्राणादिनामानि ; तान्यपोह्य अप्रसिद्धैर्बृहत्त्वादिनामभिः सम्बोधनमयुक्तम् , लौकिकन्यायापोहात् ; तस्मात् भोक्तुरेव सतः प्राणस्याप्रतिपत्तिरिति चेत् — न देवताप्रत्याख्यानार्थत्वात् ; केवलसम्बोधनमात्राप्रतिपत्त्यैव असुप्तस्य आध्यात्मिकस्य प्राणस्याभोक्तृत्वे सिद्धे, यत् चन्द्रदेवताविषयैर्नामभिः सम्बोधनम् , तत् चन्द्रदेवता प्राणः अस्मिञ्छरीरे भोक्तेति गार्ग्यस्य विशेषप्रतिपत्तिनिराकरणार्थम् ; न हि तत् लौकिकनाम्ना सम्बोधने शक्यं कर्तुम्। प्राणप्रत्याख्यानेनैव प्राणग्रस्तत्वात्करणान्तराणां प्रवृत्त्यनुपपत्तेः भोक्तृत्वाशङ्कानुपपत्तिः। देवतान्तराभावाच्च ; ननु अतिष्ठा इत्याद्यात्मन्वीत्यन्तेन ग्रन्थेन गुणवद्देवताभेदस्य दर्शितत्वादिति चेत् , न, तस्य प्राण एव एकत्वाभ्युपगमात् सर्वश्रुतिषु अरनाभिनिदर्शनेन, [‘सत्येन च्छन्नः’ ‘प्राणो वा अमृतम्’ (बृ. उ. १। ६। ३)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=1&id=BR_C01_S06_V03&hl=सत्येन च्छन्नः ‘प्राणो वा अमृतम्’) इति च प्राणबाह्यस्य अन्यस्य अनभ्युपगमात् भोक्तुः। [‘एष उ ह्येव सर्वे देवाः, कतम एको देव इति, प्राणः’ (बृ. उ. ३। ९। ९)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=3&id=BR_C03_S09_V09&hl=एष उ ह्येव सर्वे देवाः, कतम एको देव इति, प्राणः) इति च सर्वदेवानां प्राण एव एकत्वोपपादनाच्च। तथा करणभेदेष्वनाशङ्का, देहभेदेष्विव स्मृतिज्ञानेच्छादिप्रतिसन्धानानुपपत्तेः ; न हि अन्यदृष्टम् अन्यः स्मरति जानाति इच्छति प्रतिसन्दधाति वा ; तस्मात् न करणभेदविषया भोक्तृत्वाशङ्का विज्ञानमात्रविषया वा कदाचिदप्युपपद्यते। ननु सङ्घात एवास्तु भोक्ता, किं व्यतिरिक्तकल्पनयेति — न, आपेषणे विशेषदर्शनात् ; यदि हि प्राणशरीरसङ्घातमात्रो भोक्ता स्यात् सङ्घातमात्राविशेषात् सदा आपिष्टस्य अनापिष्टस्य च प्रतिबोधे विशेषो न स्यात् ; सङ्घातव्यतिरिक्ते तु पुनर्भोक्तरि सङ्घातसम्बन्धविशेषानेकत्वात् पेषणापेषणकृतवेदनायाः सुखदुःखमोहमध्यमाधामोत्तमकर्मफलभेदोपपत्तेश्च विशेषो युक्तः ; न तु सङ्घातमात्रे सम्बन्धकर्मफलभेदानुपपत्तेः विशेषो युक्तः ; तथा शब्दादिपटुमान्द्यादिकृतश्च। अस्ति चायं विशेषः — यस्मात् स्पर्शमात्रेण अप्रतिबुध्यमानं पुरुषं सुप्तं पाणिना आपेषम् आपिष्य आपिष्य बोधयाञ्चकार अजातशत्रुः। तस्मात् यः आपेषणेन प्रतिबुबुधे — ज्वलन्निव स्फुरन्निव कुतश्चिदागत इव पिण्डं च पूर्वविपरीतं बोधचेष्टाकारविशेषादिमत्त्वेन आपादयन् , सोऽन्योऽस्ति गार्ग्याभिमतब्रह्मभ्यो व्यतिरिक्त इति सिद्धम्। संहतत्वाच्च पारार्थ्योपपत्तिः प्राणस्य ; गृहस्य स्तम्भादिवत् शरीरस्य अन्तरुपष्टम्भकः प्राणः शरीरादिभिः संहत इत्यवोचाम — अरनेमिवच्च, नाभिस्थानीय एतस्मिन्सर्वमिति च ; तस्मात् गृहादिवत् स्वावयवसमुदायजातीयव्यतिरिक्तार्थं संहन्यत इत्येवम् अवगच्छाम। स्तम्भकुड्यतृणकाष्ठादिगृहावयवानां स्वात्मजन्मोपचयापचयविनाशनामाकृतिकार्यधर्मनिरपेक्षलब्धसत्तादि — तद्विषयद्रष्टृश्रोतृमन्तृविज्ञात्रर्थत्वं दृष्ट्वा, मन्यामहे, तत्सङ्घातस्य च — तथा प्राणाद्यवयवानां तत्सङ्घातस्य च स्वात्मजन्मोपचयापचयविनाशनामाकृतिकार्यधर्मनिरपेक्षलब्धसत्तादि — तद्विषयद्रष्टृश्रोतृमन्तृविज्ञात्रर्थत्वं भवितुमर्हतीति। देवताचेतनावत्त्वे समत्वाद्गुणभावानुपगम इति चेत् — प्राणस्य विशिष्टैर्नामभिरामन्त्रणदर्शनात् चेतनावत्त्वमभ्युपगतम् ; चेतनावत्त्वे च पारार्थ्योपगमः समत्वादनुपपन्न इति चेत् — न निरुपाधिकस्य केवलस्य विजिज्ञापयिषितत्वात् क्रियाकारकफलात्मकता हि आत्मनो नामरूपोपाधिजनिता अविद्याध्यारोपिता ; तन्निमित्तो लोकस्य क्रियाकारकफलाभिमानलक्षणः संसारः ; स निरूपाधिकात्मस्वरूपविद्यया निवर्तयितव्य इति तत्स्वरूपविजिज्ञापयिषया उपनिषदारम्भः — [‘ब्रह्म ते ब्रवाणि’ (बृ. उ. २। १। १)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=2&id=BR_C02_S01_V01&hl=ब्रह्म ते ब्रवाणि) [‘नैतावता विदितं भवति’ (बृ. उ. २। १। १)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=2&id=BR_C02_S01_V01&hl=नैतावता विदितं भवति) इति च उपक्रम्य [‘एतावदरे खल्वमृतत्वम्’ (बृ. उ. ४। ५। १५)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=4&id=BR_C04_S05_V15&hl=एतावदरे खल्वमृतत्वम्) इति च उपसंहारात् ; न च अतोऽन्यत् अन्तराले विवक्षितम् उक्तं वा अस्ति ; तस्मादनवसरः समत्वाद्गुणभावानुपगम इति चोद्यस्य। विशेषवतो हि सोपाधिकस्य संव्यवहारार्थो गुणगुणिभावः, न विपरीतस्य ; निरुपाख्यो हि विजिज्ञापयिषितः सर्वस्यामुपनिषदि, [‘स एष नेति नेति’ (बृ. उ. ४। ५। १५)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=4&id=BR_C04_S05_V15&hl=स एष नेति नेति) इत्युपसंहारात्। तस्मात् आदित्यादिब्रह्मभ्य एतेभ्योऽविज्ञानमयेभ्यो विलक्षणः अन्योऽस्ति विज्ञानमय इत्येतत्सिद्धम् ॥

स होवाचाजातशत्रुर्यत्रैष एतत्सुप्तोऽभूद्य एष विज्ञानमयः पुरुषः क्वैष तदाभूत्कुत एतदागादिति तदु ह न मेने गार्ग्यः ॥ १६ ॥

विस्तारः (द्रष्टुं नोद्यम्)

स एवम् अजातशत्रुः व्यतिरिक्तात्मास्तित्वं प्रतिपाद्य गार्ग्यमुवाच — यत्र यस्मिन्काले एषः विज्ञानमयः पुरुषः एतत् स्वपनं सुप्तः अभूत् प्राक् पाणिपेषप्रतिबोधात् ; विज्ञानम् विज्ञायतेऽनेनेत्यन्तःकरणं बुद्धिः उच्यते, तन्मयः तत्प्रायः विज्ञानमयः ; किं पुनस्तत्प्रायत्वम् ? तस्मिन्नुपलभ्यत्वम् , तेन चोपलभ्यत्वम् , उपलब्धृत्वं च ; कथं पुनर्मयटोऽनेकार्थत्वे प्रायार्थतैव अवगम्यते ? [‘स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयः’ (बृ. उ. ४। ४। ५)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=4&id=BR_C04_S04_V05&hl=स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयः) इत्येवमादौ प्रायार्थ एव प्रयोगदर्शनात् परविज्ञानविकारत्वस्याप्रसिद्धत्वात् ‘य एष विज्ञानमयः’ इति च प्रसिद्धवदनुवादात् अवयवोपमार्थयोश्च अत्रासम्भवात् पारिशेष्यात् प्रायार्थतैव ; तस्मात् सङ्कल्पविकल्पाद्यात्मकमन्तःकरणं तन्मय इत्येतत् ; पुरुषः, पुरि शयनात्। क्वैष तदा अभूदिति प्रश्नः स्वभावविजिज्ञापयिषया — प्राक् प्रतिबोधात् क्रियाकारकफलविपरीतस्वभाव आत्मेति कार्याभावेन दिदर्शयिषितम् ; न हि प्राक्प्रतिबोधात्कर्मादिकार्यं सुखादि किञ्चन गृह्यते ; तस्मात् अकर्मप्रयुक्तत्वात् तथास्वाभाव्यमेव आत्मनोऽवगम्यते — यस्मिन्स्वाभाव्येऽभूत् , यतश्च स्वाभाव्यात्प्रच्युतः संसारी स्वभावविलक्षण इति — एतद्विवक्षया पृच्छति गार्ग्यं प्रतिभानरहितं बुद्धिव्युत्पादनाय। क्वैष तदाभूत् , कुत एतदागात् — इत्येतदुभयं गार्ग्येणैव प्रष्टव्यमासीत् ; तथापि गार्ग्येण न पृष्टमिति नोदास्तेऽजातशत्रुः ; बोधयितव्य एवेति प्रवर्तते, ज्ञापयिष्याम्येवेति प्रतिज्ञातत्वात्। एवमसौ व्युत्पाद्यमानोऽपि गार्ग्यः — यत्रैष आत्माभूत् प्राक्प्रतिबोधात् , यतश्चैतदागमनमागात् — तदुभयं न व्युत्पेदे वक्तुं वा प्रष्टुं वा — गार्ग्यो ह न मेने न ज्ञातवान् ॥

स होवाचाजातशत्रुर्यत्रैष एतत्सुप्तोऽभूद्य एष विज्ञानमयः पुरुषस्तदेषां प्राणानां विज्ञानेन विज्ञानमादाय य एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेते तानि यदा गृह्णात्यथ हैतत्पुरुषः स्वपिति नाम तद्गृहीत एव प्राणो भवति गृहीता वाग्गृहीतं चक्षुर्गृहीतं श्रोत्रं गृहीतं मनः ॥ १७ ॥

विस्तारः (द्रष्टुं नोद्यम्)

स होवाच अजातशत्रुः विवक्षितार्थसमर्पणाय। यत्रैष एतत्सुप्तोऽभूद्य एष विज्ञानमयः पुरुषः — क्वैष तदाभूत्कुत एतदागादिति यदपृच्छाम, तत् शृणु उच्यमानम् — यत्रैष एतत्सुप्तोऽभूत् , तत् तदा तस्मिन्काले एषां वागादीनां प्राणानाम् , विज्ञानेन अन्तःकरणगताभिव्यक्तिविशेषविज्ञानेन उपाधिस्वभावजनितेन, आदाय विज्ञानम् वागादीनां स्वस्वविषयगतसामर्थ्यं गृहीत्वा, य एषः अन्तः मध्ये हृदये हृदयस्य आकाशः — य आकाशशब्देन पर एव स्व आत्मोच्यते — तस्मिन् स्वे आत्मन्याकाशे शेते स्वाभाविकेऽसांसारिके ; न केवल आकाश एव, श्रुत्यन्तरसामर्थ्यात् — [‘सता सोम्य तदा सम्पन्नो भवति’ (छा. उ. ६। ८। १)](https://advaitasharada.sringeri.net/display/bhashya/Chandogya?page=6&id=Ch_C06_S08_V01&hl=सता सोम्य तदा सम्पन्नो भवति) इति ; लिङ्गोपाधिसम्बन्धकृतं विशेषात्मस्वरूपमुत्सृज्य अविशेषे स्वाभाविके आत्मन्येव केवले वर्तत इत्यभिप्रायः। यदा शरीरेन्द्रियाध्यक्षतामुत्सृजति तदा असौ स्वात्मनि वर्तत इति कथमवगम्यते ? नामप्रसिद्ध्या ; कासौ नामप्रसिद्धिरित्याह — तानि वागादेर्विज्ञानानि यदा यस्मिन्काले गृह्णाति आदत्ते, अथ तदा ह एतत्पुरुषः स्वपितिनाम एतन्नाम अस्य पुरुषस्य तदा प्रसिद्धं भवति ; गौणमेवास्य नाम भवति ; स्वमेव आत्मानम् अपीति अपिगच्छतीति स्वपितीत्युच्यते। सत्यं स्वपितीतिनामप्रसिद्ध्या आत्मनः संसारधर्मविलक्षणं रूपमवगम्यते, न त्वत्र युक्तिरस्तीत्याशङ्क्याह — तत् तत्र स्वापकाले गृहीत एव प्राणो भवति ; प्राण इति घ्राणेन्द्रियम् , वागादिप्रकरणात् ; वागादिसम्बन्धे हि सति तदुपाधित्वादस्य संसारधर्मित्वं लक्ष्यते ; वागादयश्च उपसंहृता एव तदा तेन ; कथम् ? गृहीता वाक् , गृहीतं चक्षुः, गृहीतं श्रोत्रम् , गृहीतं मनः ; तस्मात् उपसंहृतेषु वागादिषु क्रियाकारकफलात्मताभावात् स्वात्मस्थ एव आत्मा भवतीत्यवगम्यते ॥

स यत्रैतत्स्वप्न्यया चरति ते हास्य लोकास्तदुतेव महाराजो भवत्युतेव महाब्राह्मण उतेवोच्चावचं निगच्छति स यथा महाराजो जानपदान्गृहीत्वा स्वे जनपदे यथाकामं परिवर्तेतैवमेवैष एतत्प्राणान्गृहीत्वा स्वे शरीरे यथाकामं परिवर्तते ॥ १८ ॥

विस्तारः (द्रष्टुं नोद्यम्)

ननु दर्शनलक्षणायां स्वप्नावस्थायां कार्यकरणवियोगेऽपि संसारधर्मित्वमस्य दृश्यते — यथा च जागरिते सुखी दुःखी बन्धुवियुक्तः शोचति मुह्यते च ; तस्मात् शोकमोहधर्मवानेवायम् ; नास्य शोकमोहादयः सुखदुःखादयश्च कार्यकरणसंयोगजनितभ्रान्त्या अध्यारोपिता इति। न, मृषात्वात् — सः प्रकृत आत्मा यत्र यस्मिन्काले दर्शनलक्षणया स्वप्न्यया स्वप्नवृत्त्या चरति वर्तते, तदा ते ह अस्य लोकाः कर्मफलानि — के ते ? तत् तत्र उत अपि महाराज इव भवति ; सोऽयं महाराजत्वमिव अस्य लोकः, न महाराजत्वमेव जागरित इव ; तथा महाब्राह्मण इव, उत अपि, उच्चावचम् — उच्चं च देवत्वादि, अवचं च तिर्यक्त्वादि, उच्चमिव अवचमिव च — निगच्छति मृषैव महाराजत्वादयोऽस्य लोकाः, इव - शब्दप्रयोगात् , व्यभिचारदर्शनाच्च ; तस्मात् न बन्धुवियोगादिजनितशोकमोहादिभिः स्वप्ने सम्बध्यत एव ॥

ननु च यथा जागरिते जाग्रत्कालाव्यभिचारिणो लोकाः, एवं स्वप्नेऽपि तेऽस्य महाराजत्वादयो लोकाः स्वप्नकालभाविनः स्वप्नकालाव्यभिचारिण आत्मभूता एव, न तु अविद्याध्यारोपिता इति — ननु च जाग्रत्कार्यकरणात्मत्वं देवतात्मत्वं च अविद्याध्यारोपितं न परमार्थत इति व्यतिरिक्तविज्ञानमयात्मप्रदर्शनेन प्रदर्शितम् ; तत् कथं दृष्टान्तत्वेन स्वप्नलोकस्य मृत इव उज्जीविष्यन् प्रादुर्भविष्यति — सत्यम् , विज्ञानमये व्यतिरिक्ते कार्यकरणदेवतात्मत्वप्रदर्शनम् अविद्याध्यारोपितम् — शुक्तिकायामिव रजतत्वदर्शनम् — इत्येतत्सिध्यति व्यतिरिक्तात्मास्तित्वप्रदर्शनन्यायेनैव, न तु तद्विशुद्धिपरतयैव न्याय उक्तः इति — असन्नपि दृष्टान्तः जाग्रत्कार्यकरणदेवतात्मत्वदर्शनलक्षणः पुनरुद्भाव्यते ; सर्वो हि न्यायः किञ्चिद्विशेषमपेक्षमाणः अपुनरुक्ती भवति। न तावत्स्वप्नेऽनुभूतमहाराजत्वादयो लोका आत्मभूताः, आत्मनोऽन्यस्य जाग्रत्प्रतिबिम्बभूतस्य लोकस्य दर्शनात् ; महाराज एव तावत् व्यस्तसुप्तासु प्रकृतिषु पर्यङ्के शयानः स्वप्नान्पश्यन् उपसंहृतकरणः पुनरुपगतप्रकृतिं महाराजमिव आत्मानं जागरित इव पश्यति यात्रागतं भुञ्जानमिव च भोगान् ; न च तस्य महाराजस्य पर्यङ्के शयानात् द्वितीय अन्यः प्रकृत्युपेतो विषये पर्यटन्नहनि लोके प्रसिद्धोऽस्ति, यमसौ सुप्तः पश्यति ; न च उपसंहृतकरणस्य रूपादिमतो दर्शनमुपपद्यते ; न च देहे देहान्तरस्य तत्तुल्यस्य सम्भवोऽस्ति ; देहस्थस्यैव हि स्वप्नदर्शनम्। ननु पर्यङ्के शयानः पथि प्रवृत्तमात्मानं पश्यति — न बहिः स्वप्नान्पश्यतीत्येतदाह — सः महाराजः, जानपदान् जनपदे भवान् राजोपकरणभूतान् भृत्यानन्यांश्च, गृहीत्वा उपादाय, स्वे आत्मीय एव जयादिनोपार्जिते जनपदे, यथाकामं यो यः कामोऽस्य यथाकामम् इच्छातो यथा परिवर्तेतेत्यर्थः ; एवमेव एष विज्ञानमयः, एतदिति क्रियाविशेषणम् , प्राणान्गृहीत्वा जागरितस्थानेभ्य उपसंहृत्य, स्वे शरीरे स्व एव देहे न बहिः, यथाकामं परिवर्तते — कामकर्मभ्यामुद्भासिताः पूर्वानुभूतवस्तुसदृशीर्वासना अनुभवतीत्यर्थः। तस्मात् स्वप्ने मृषाध्यारोपिता एव आत्मभूतत्वेन लोका अविद्यमाना एव सन्तः ; तथा जागरितेऽपि — इति प्रत्येतव्यम्। तस्मात् विशुद्धः अक्रियाकारकफलात्मको विज्ञानमय इत्येतत्सिद्धम्। यस्मात् दृश्यन्ते द्रष्टुर्विषयभूताः क्रियाकारकफलात्मकाः कार्यकरणलक्षणा लोकाः, तथा स्वप्नेऽपि, तस्मात् अन्योऽसौ दृश्येभ्यः स्वप्नजागरितलोकेभ्यो द्रष्टा विज्ञानमयो विशुद्धः ॥

दर्शनवृत्तौ स्वप्ने वासनाराशेर्दृश्यत्वादतद्धर्मतेति विशुद्धता अवगता आत्मनः ; तत्र यथाकामं परिवर्तत इति कामवशात्परिवर्तनमुक्तम् ; द्रष्टुर्दृश्यसम्बन्धश्च अस्य स्वाभाविक इत्यशुद्धता शङ्क्यते ; अतस्तद्विशुद्ध्यर्थमाह —

अथ यदा सुषुप्तो भवति यदा न कस्यचन वेद हिता नाम नाड्यो द्वासप्ततिः सहस्राणि हृदयात्पुरीततमभिप्रतिष्ठन्ते ताभिः प्रत्यवसृप्य पुरीतति शेते स यथा कुमारो वा महाराजो वा महाब्राह्मणो वातिघ्नीमानन्दस्य गत्वा शयीतैवमेवैष एतच्छेते ॥ १९ ॥

विस्तारः (द्रष्टुं नोद्यम्)

अथ यदा सुषुप्तो भवति — यदा स्वप्न्यया चरति, तदाप्ययं विशुद्ध एव ; अथ पुनः यदा हित्वा दर्शनवृत्तिं स्वप्नं यदा यस्मिन्काले सुषुप्तः सुष्ठु सुप्तः सम्प्रसादं स्वाभाव्यं गतः भवति — सलिलमिवान्यसम्बन्धकालुष्यं हित्वा स्वाभाव्येन प्रसीदति। कदा सुषुप्तो भवति ? यदा यस्मिन्काले, न कस्यचन न किञ्चनेत्यर्थः, वेद विजानाति ; कस्यचन वा शब्दादेः सम्बन्धिवस्त्वन्तरं किञ्चन न वेद — इत्यध्याहार्यम् ; पूर्वं तु न्याय्यम् , सुप्ते तु विशेषविज्ञानाभावस्य विवक्षितत्वात्। एवं तावद्विशेषविज्ञानाभावे सुषुप्तो भवतीत्युक्तम् ; केन पुनः क्रमेण सुषुप्तो भवतीत्युच्यते — हिता नाम हिता इत्येवंनाम्न्यो नाड्यः सिराः देहस्यान्नरसविपरिणामभूताः, ताश्च, द्वासप्ततिः सहस्राणि — द्वे सहस्रे अधिके सप्ततिश्च सहस्राणि — ता द्वासप्ततिः सहस्राणि, हृदयात् — हृदयं नाम मांसपिण्डः — तस्मान्मांसपिण्डात्पुण्डरीकाकारात् , पुरीततं हृदयपरिवेष्टनमाचक्षते — तदुपलक्षितं शरीरमिह पुरीतच्छब्देनाभिप्रेतम् — पुरीततमभिप्रतिष्ठन्त इति — शरीरं कृत्स्नं व्याप्नुवत्यः अश्वत्थपर्णराजय इव बहिर्मुख्यः प्रवृत्ता इत्यर्थः। तत्र बुद्धेरन्तःकरणस्य हृदयं स्थानम् ; तत्रस्थबुद्धितन्त्राणि च इतराणि बाह्यानि करणानि ; तेन बुद्धिः कर्मवशात् श्रोत्रादीनि ताभिर्नाडीभिः मत्स्यजालवत् कर्णशष्कुल्यादिस्थानेभ्यः प्रसारयति ; प्रसार्य च अधितिष्ठति जागरितकाले ; तां विज्ञानमयोऽभिव्यक्तस्वात्मचैतन्यावभासतया व्याप्नोति ; सङ्कोचनकाले च तस्याः अनुसङ्कुचति ; सोऽस्य विज्ञानमयस्य स्वापः ; जाग्रद्विकासानुभवो भोगः ; बुद्ध्युपाधिस्वभावानुविधायी हि सः, चन्द्रादिप्रतिबिम्ब इव जलाद्यनुविधायी। तस्मात् तस्या बुद्धेः जाग्रद्विषयायाः ताभिः नाडीभिः प्रत्यवसर्पणमनु प्रत्यवसृप्य पुरीतति शरीरे शेते तिष्ठति — तप्तमिव लोहपिण्डम् अविशेषेण संव्याप्य अग्निवत् शरीरं संव्याप्य वर्तत इत्यर्थः। स्वाभाविक एव स्वात्मनि वर्तमानोऽपि कर्मानुगतबुद्ध्यनुवृत्तित्वात् पुरीतति शेत इत्युच्यते। न हि सुषुप्तिकाले शरीरसम्बन्धोऽस्ति। [‘तीर्णो हि तदा सर्वाञ्छोकान्हृदयस्य’ (बृ. उ. ४। ३। २२)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=4&id=BR_C04_S03_V22&hl=तीर्णो हि तदा सर्वाञ्छोकान्हृदयस्य) इति हि वक्ष्यति। सर्वसंसारदुःखवियुक्तेयमवस्थेत्यत्र दृष्टान्तः — स यथा कुमारो वा अत्यन्तबालो वा, महाराजो वा अत्यन्तवश्यप्रकृतिः यथोक्तकृत् , महाब्राह्मणो वा अत्यन्तपरिपक्वविद्याविनयसम्पन्नः, अतिघ्नीम् — अतिशयेन दुःखं हन्तीत्यतिघ्नी आनन्दस्य अवस्था सुखावस्था ताम् प्राप्य गत्वा, शयीत अवतिष्ठेत। एषां च कुमारादीनां स्वभावस्थानां सुखं निरतिशयं प्रसिद्धं लोके ; विक्रियमाणानां हि तेषां दुःखं न स्वभावतः ; तेन तेषां स्वाभाविक्यवस्था दृष्टान्तत्वेनोपादीयते, प्रसिद्धत्वात् ; न तेषां स्वाप एवाभिप्रेतः, स्वापस्य दार्ष्टान्तिकत्वेन विवक्षितत्वात् विशेषाभावाच्च ; विशेषे हि सति दृष्टान्तदार्ष्टान्तिकभेदः स्यात् ; तस्मान्न तेषां स्वापो दृष्टान्तः — एवमेव, यथा अयं दृष्टान्तः, एष विज्ञानमय एतत् शयनं शेते इति — एतच्छन्दः क्रियाविशेषणार्थः — एवमयं स्वाभाविके स्व आत्मनि सर्वसंसारधर्मातीतो वर्तते स्वापकाल इति ॥

क्वैष तदाभूदित्यस्य प्रश्नस्य प्रतिवचनमुक्तम् ; अनेन च प्रश्ननिर्णयेन विज्ञानमयस्य स्वभावतो विशुद्धिः असंसारित्वं च उक्तम् ; कुत एतदागादित्यस्य प्रश्नस्यापाकरणार्थः आरम्भः। ननु यस्मिन्ग्रामे नगरे वा यो भवति, सोऽन्यत्र गच्छन् तत एव ग्रामान्नगराद्वा गच्छति, नान्यतः ; तथा सति क्वैष तदाभूदित्येतावानेवास्तु प्रश्नः ; यत्राभूत् तत एव आगमनं प्रसिद्धं स्यात् नान्यत इति कुत एतदागादिति प्रश्नो निरर्थक एव — किं श्रुतिरुपालभ्यते भवता ? न ; किं तर्हि द्वितीयस्य प्रश्नस्य अर्थान्तरं श्रोतुमिच्छामि, अत आनर्थक्यं चोदयामि। एवं तर्हि कुत इत्यपादानार्थता न गृह्यते ; अपादानार्थत्वे हि पुनरुक्तता, नान्यार्थत्वे ; अस्तु तर्हि निमित्तार्थः प्रश्नः — कुत एतदागात् — किन्निमित्तमिहागमनमिति। न निमित्तार्थतापि, प्रतिवचनवैरूप्यात् ; आत्मनश्च सर्वस्य जगतः अग्निविस्फुलिङ्गादिवदुत्पत्तिः प्रतिवचने श्रूयते ; न हि विस्फुलिङ्गानां विद्रवणे अग्निर्निमित्तम् , अपादानमेव तु सः ; तथा परमात्मा विज्ञानमयस्य आत्मनोऽपादानत्वेन श्रूयते — ‘अस्मादात्मनः’ इत्येतस्मिन्वाक्ये ; तस्मात् प्रतिवचनवैलोम्यात् कुत इति प्रश्नस्य निमित्तार्थता न शक्यते वर्णयितुम्। नन्वपादानपक्षेऽपि पुनरुक्ततादोषः स्थित एव ॥

नैष दोषः, प्रश्नाभ्यामात्मनि क्रियाकारकफलात्मतापोहस्य विवक्षितत्वात्। इह हि विद्याविद्याविषयावुपन्यस्तौ — ‘आत्मेत्येवोपासीत’ (बृ. उ. १। ४। ७) ‘आत्मानमेवावेत्’ (बृ. उ. १। ४। १०) [‘आत्मानमेव लोकमुपासीत’ (बृ. उ. १। ४। १५)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=1&id=BR_C01_S04_V15&hl=आत्मानमेव लोकमुपासीत) इति विद्याविषयः, तथा अविद्याविषयश्च पाङ्क्तं कर्म तत्फलं चान्नत्रयं नामरूपकर्मात्मकमिति। तत्र अविद्याविषये वक्तव्यं सर्वमुक्तम्। विद्याविषयस्तु आत्मा केवल उपन्यस्तः न निर्णीतः। तन्निर्णयाय च [‘ब्रह्म ते ब्रवाणि’ (बृ. उ. २। १। १)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=2&id=BR_C02_S01_V01&hl=ब्रह्म ते ब्रवाणि) इति प्रक्रान्तम् , ‘ज्ञपयिष्यामि’ (बृ. उ. २। १। १५) इति च। अतः तद्ब्रह्म विद्याविषयभूतं ज्ञापयितव्यं याथात्म्यतः। तस्य च याथात्म्यं क्रियाकारकफलभेदशून्यम् अत्यन्तविशुद्धमद्वैतम् — इत्येतद्विवक्षितम्। अतस्तदनुरूपौ प्रश्नावुत्थाप्येते श्रुत्या — क्वैष तदाभूत्कुत एतदागादिति। तत्र — यत्र भवति तत् अधिकरणम् , यद्भवति तदधिकर्तव्यम् — तयोश्च अधिकरणाधिकर्तव्ययोर्भेदः दृष्टो लोके। तथा — यत आगच्छति तत् अपादानम् — य आगच्छति स कर्ता, तस्मादन्यो दृष्टः। तथा आत्मा क्वाप्यभूदन्यस्मिन्नन्यः, कुतश्चिदागादन्यस्मादन्यः — केनचिद्भिन्नेन साधनान्तरेण — इत्येवं लोकवत्प्राप्ता बुद्धिः ; सा प्रतिवचनेन निवर्तयितव्येति। नायमात्मा अन्यः अन्यत्र अभूत् , अन्यो वा अन्यस्मादागतः, साधनान्तरं वा आत्मन्यस्ति ; किं तर्हि स्वात्मन्येवाभूत् — [‘स्वमात्मानमपीतो भवति’ (छा. उ. ६। ८। १)](https://advaitasharada.sringeri.net/display/bhashya/Chandogya?page=6&id=Ch_C06_S08_V01&hl=स्वमात्मानमपीतो भवति) [‘सता सोम्य तदा सम्पन्नो भवति’ (छा. उ. ६। ८। १)](https://advaitasharada.sringeri.net/display/bhashya/Chandogya?page=6&id=Ch_C06_S08_V01&hl=सता सोम्य तदा सम्पन्नो भवति) [‘प्राज्ञेनात्मना सम्परिष्वक्तः’ (बृ. उ. ४। ३। २१)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=4&id=BR_C04_S03_V21&hl=प्राज्ञेनात्मना सम्परिष्वक्तः) [‘पर आत्मनि सम्प्रतिष्ठते’ (प्र. उ. ४। ९)](https://advaitasharada.sringeri.net/display/bhashya/Prashna?page=4&id=PR_C04_V09&hl=पर आत्मनि सम्प्रतिष्ठते) इत्यादिश्रुतिभ्यः ; अत एव नान्यः अन्यस्मादागच्छति ; तत् श्रुत्यैव प्रदर्श्यते ‘अस्मादात्मनः’ इति, आत्मव्यतिरेकेण वस्त्वन्तराभावात्। नन्वस्ति प्राणाद्यात्मव्यतिरिक्तं वस्त्वन्तरम् — न, प्राणादेस्तत एव निष्पत्तेः ॥

तत्कथमिति उच्यते —

स यथोर्ण-नाभिस् तन्तुनोच् चरेद्,
यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्य्
एवम् एवास्माद् आत्मनः +++(→जीवो ब्रह्म वा)+++
सर्वे +++(जीवदृष्ट्या - वागादयः)+++ प्राणाः,
सर्वे +++(जीवदृष्ट्या - ऽनुभवगता)+++ लोकाः,
सर्वे +++(जीवदृष्ट्या - इन्द्रियाद्य्-अधिपा, ब्रह्मदृष्ट्या ब्रह्माण्डप्राप्या)+++ देवाः,
सर्वाणि भूतानि व्युच्चरन्ति।

+++(आत्मनस्)+++ तस्योपनिषत् - “सत्यस्य सत्यम्” इति।
प्राणा वै सत्यं
तेषाम् एष सत्यम् ॥ २० ॥

मूलम्

स यथोर्णनाभिस्तन्तुनोच्चरेद्यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि व्युच्चरन्ति तस्योपनिषत्सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम् ॥ २० ॥

विस्तारः (द्रष्टुं नोद्यम्)

तत्र दृष्टान्तः — स यथा लोके ऊर्णनाभिः लूताकीट एक एव प्रसिद्धः सन् स्वात्माप्रविभक्तेन तन्तुना उच्चरेत् उद्गच्छेत् ; न चास्ति तस्योद्-गमने स्वतोऽतिरिक्तं कारकान्तरम् —
यथा च एक-रूपाद् एकस्माद् अग्नेः क्षुद्रा अल्पाः विस्फुलिङ्गाः त्रुटयः अग्न्य्-अवयवाः व्युच्चरन्ति विविधं नाना वा उच्चरन्ति —
यथा इमौ दृष्टान्तौ कारक-भेदाभावेऽपि प्रवृत्तिं दर्शयतः, प्राक्-प्रवृत्तेश् च स्वभावत एकत्वम् —
एवम् एव अस्माद् आत्मनो विज्ञान-मयस्य प्राक् प्रति-बोधात् यत् स्वरूपं तस्माद् इत्यर्थः,
सर्वे प्राणा वाग्-आदयः,
सर्वे लोका भूरादयः सर्वाणि कर्म-फलानि,
सर्वे देवाः प्राण-लोकाधिष्ठातारः अग्न्य्-आदयः
सर्वाणि भूतानि ब्रह्मादि-स्तम्ब-पर्यन्तानि प्राणि-जातानि,
सर्व एव आत्मान इत्य् अस्मिन् पाठे उपाधि-सम्पर्क-जनित-प्रबुध्यमान-विशेषात्मान इत्यर्थः,
व्युच्चरन्ति

यस्माद् आत्मनः स्थावर-जङ्गमं जगद् इदम् अग्नि-विस्फुलिङ्ग-वत् व्युच्चरत्यनिशम् , यस्मिन्न् एव च प्रलीयते जल-बुद्-बुद-वत् , यदात्मकं च वर्तते स्थिति-काले, तस्य अस्य आत्मनो ब्रह्मणः,
उपनिषत् — उप समीपं निगमयतीति अभिधायकः शब्द उपनिषद् इत्य् उच्यते —
शास्त्र-प्रामाण्याद् एतच्-छब्द-गतो विशेषो ऽवसीयते उपनिगमयितृत्वं नाम ;
कासाव् उपनिषद् इत्य् आह — सत्यस्य सत्यम् इति ;
सा हि सर्वत्र चोपनिषत् अलौकिकार्थत्वाद् दुर्विज्ञेयार्थेति तद् अर्थम् आचष्टे — प्राणा वै सत्यं, तेषाम् एष सत्यम् इति।
एतस्यैव वाक्यस्य व्याख्यानाय उत्तरं ब्राह्मण-द्वयं भविष्यति ॥

भवतु तावत् उपनिषद्व्याख्यानाय उत्तरं ब्राह्मणद्वयम् ; तस्योपनिषदित्युक्तम् ; तत्र न जानीमः — किं प्रकृतस्य आत्मनो विज्ञानमयस्य पाणिपेषणोत्थितस्य संसारिणः शब्दादिभुज इयमुपनिषत् , आहोस्वित् संसारिणः कस्यचित् ; किञ्चातः ? यदि संसारिणः तदा संसार्येव विज्ञेयः, तद्विज्ञानादेव सर्वप्राप्तिः, स एव ब्रह्मशब्दवाच्यः तद्विद्यैव ब्रह्मविद्येति ; अथ असंसारिणः, तदा तद्विषया विद्या ब्रह्मविद्या, तस्माच्च ब्रह्मविज्ञानात्सर्वभावापत्तिः ; सर्वमेतच्छास्त्रप्रामाण्याद्भविष्यति ; किन्तु अस्मिन्पक्षे ‘आत्मेत्येवोपासीत’ (बृ. उ. १। ४। ७) [‘आत्मानमेवावेदहं ब्रह्मास्मि —’ (बृ. उ. १। ४। १०)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=1&id=BR_C01_S04_V10&hl=आत्मानमेवावेदहं ब्रह्मास्मि —) इति परब्रह्मैकत्वप्रतिपादिकाः श्रुतयः कुप्येरन् , संसारिणश्च अन्यस्याभावे उपदेशानर्थक्यात्। यत एवं पण्डितानामप्येतन्महामोहस्थानम् अनुक्तप्रतिवचनप्रश्नविषयम् , अतो यथाशक्ति ब्रह्मविद्याप्रतिपादकवाक्येषु ब्रह्म विजिज्ञासूनां बुद्धिव्युत्पादनाय विचारयिष्यामः ॥

न तावत् असंसारी परः — पाणिपेषणप्रतिबोधितात् शब्दादिभुजः अवस्थान्तरविशिष्टात् उत्पत्तिश्रुतेः ; न प्रशासिता अशनायादिवर्जितः परो विद्यते ; कस्मात् ? यस्मात् [‘ब्रह्म ज्ञपयिष्यामि’ (बृ. उ. २। १। १५)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=2&id=BR_C02_S01_V15&hl=ब्रह्म ज्ञपयिष्यामि) इति प्रतिज्ञाय, सुप्तं पुरुषं पाणिपेष बोधयित्वा, तं शब्दादिभोक्तृत्वविशिष्टं दर्शयित्वा, तस्यैव स्वप्नद्वारेण सुषुप्त्याख्यमवस्थान्तरमुन्नीय, तस्मादेव आत्मनः सुषुप्त्यवस्थाविशिष्टात् अग्निविस्फुलिङ्गोर्णनाभिदृष्टान्ताभ्याम् उत्पत्तिं दर्शयति श्रुतिः — ‘एवमेवास्मात्’ इत्यादिना ; न चान्यो जगदुत्पत्तिकारणमन्तराले श्रुतोऽस्ति ; विज्ञानमयस्यैव हि प्रकरणम्। समानप्रकरणे च श्रुत्यन्तरे कौषीतकिनाम् आदित्यादिपुरुषान्प्रस्तुत्य [‘स होवाच यो वै बालाक एतेषां पुरुषाणां कर्ता यस्य चैतत्कर्म स वै वेदितव्यः’ (कौ. उ. ४। १९)](https://advaitasharada.sringeri.net/display/bhashya/kst?page=4&id=KT_C04_V19&hl=स होवाच यो वै बालाक एतेषां पुरुषाणां कर्ता यस्य चैतत्कर्म स वै वेदितव्यः) इति प्रबुद्धस्यैव विज्ञानमयस्य वेदितव्यतां दर्शयति, नार्थान्तरस्य। तथा च [‘आत्मनस्तु कामाय सर्वं प्रियं भवति’ (बृ. उ. २। ४। ५)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=2&id=BR_C02_S04_V05&hl=आत्मनस्तु कामाय सर्वं प्रियं भवति) इत्युक्त्वा, य एव आत्मा प्रियः प्रसिद्धः तस्यैव द्रष्टव्यश्रोतव्यमन्तव्यनिदिध्यासितव्यतां दर्शयति। तथा च विद्योपन्यासकाले ‘आत्मेत्येवोपासीत’ (बृ. उ. १। ४। ७) [‘तदेतत्प्रेयः पुत्रात्प्रेयो वित्तात्’ (बृ. उ. १। ४। ८)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=1&id=BR_C01_S04_V08&hl=तदेतत्प्रेयः पुत्रात्प्रेयो वित्तात्) [‘तदात्मानमेवावेदहं ब्रह्मास्मि - ’ (बृ. उ. १। ४। १०)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=1&id=BR_C01_S04_V10&hl=तदात्मानमेवावेदहं ब्रह्मास्मि - ) इत्येवमादिवाक्यानामानुलोम्यं स्यात् पराभावे। वक्ष्यति च — [‘आत्मानं चेद्विजानीयादयमस्मीति पूरुषः’ (बृ. उ. ४। ४। १२)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=4&id=BR_C04_S04_V12&hl=आत्मानं चेद्विजानीयादयमस्मीति पूरुषः) इति। सर्ववेदान्तेषु च प्रत्यगात्मवेद्यतैव प्रदर्श्यते — अहमिति, न बहिर्वेद्यता शब्दादिवत् प्रदर्श्यते असौ ब्रह्मेति। तथा कौषीतकिनामेव [‘न वाचं विजिज्ञासीत वक्तारं विद्यात्’ (कौ. उ. ३। ८)](https://advaitasharada.sringeri.net/display/bhashya/kst?page=3&id=KT_C03_V08&hl=न वाचं विजिज्ञासीत वक्तारं विद्यात्) इत्यादिना वागादिकरणैर्व्यावृत्तस्य कर्तुरेव वेदितव्यतां दर्शयति। अवस्थान्तरविशिष्टोऽसंसारीति चेत् — अथापि स्यात् , यो जागरिते शब्दादिभुक् विज्ञानमयः, स एव सुषुप्ताख्यमवस्थान्तरं गतः असंसारी परः प्रशासिता अन्यः स्यादिति चेत् — न, अदृष्टत्वात्। न ह्येवंधर्मकः पदार्थो दृष्टः अन्यत्र वैनाशिकसिद्धान्तात्। न हि लोके गौः तिष्ठन् गच्छन्वा गौर्भवति, शयानस्तु अश्वादिजात्यन्तरमिति। न्यायाच्च — यद्धर्मको यः पदार्थः प्रमाणेनावगतो भवति, स देशकालावस्थान्तरेष्वपि तद्धर्मक एव भवति ; स चेत् तद्धर्मकत्वं व्यभिचरति, सर्वः प्रमाणव्यवहारो लुप्येत। तथा च न्यायविदः साङ्ख्यमीमांसकादय असंसारिण अभावं युक्तिशतैः प्रतिपादयन्ति। संसारिणोऽपि जगदुत्पत्तिस्थितिलयक्रियाकर्तृत्वविज्ञानस्याभावात् अयुक्तमिति चेत् — यत् महता प्रपञ्चेन स्थापितं भवता, शब्दादिभुक् संसार्येव अवस्थान्तरविशिष्टो जगत इह कर्तेति — तदसत् ; यतो जगदुत्पत्तिस्थितिलयक्रियाकर्तृत्वविज्ञानशक्तिसाधनाभावः सर्वलोकप्रत्यक्षः संसारिणः ; स कथम् अस्मदादिः संसारी मनसापि चिन्तयितुमशक्यं पृथिव्यादिविन्यासविशिष्टं जगत् निर्मिनुयात् अतोऽयुक्तमिति चेत् — न, शास्त्रात् ; शास्त्रं संसारिणः ‘एवमेवास्मादात्मनः’ इति जगदुत्पत्त्यादि दर्शयति ; तस्मात् सर्वं श्रद्धेयमिति स्यादयम् एकः पक्षः ॥

[‘यः सर्वज्ञः सर्ववित्’ (मु. उ. १। १। ९)](https://advaitasharada.sringeri.net/display/bhashya/Mundaka?page=1&id=MD_C01_S01_V09&hl=यः सर्वज्ञः सर्ववित्), [(मु. उ. २। २। ७)](https://advaitasharada.sringeri.net/display/bhashya/Mundaka?page=2&id=MD_C02_S02_V07&hl=(मु. उ. २। २। ७)) [‘योऽशनायापिपासे अत्येति’ (बृ. उ. ३। ५। १)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=3&id=BR_C03_S05_V01&hl=योऽशनायापिपासे अत्येति) [‘असङ्गो न हि सज्जते’ (बृ. उ. ३। ९। २६)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=3&id=BR_C03_S09_V26&hl=असङ्गो न हि सज्जते) [‘एतस्य वा अक्षरस्य प्रशासने’ (बृ. उ. ३। ८। ९)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=3&id=BR_C03_S08_V09&hl=एतस्य वा अक्षरस्य प्रशासने) [‘यः सर्वेषु भूतेषु तिष्ठन् — अन्तर्याम्यमृतः’ (बृ. उ. ३। ७। १५)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=3&id=BR_C03_S07_V15&hl=यः सर्वेषु भूतेषु तिष्ठन् — अन्तर्याम्यमृतः) [‘स यस्तान्पुरुषान्निरुह्यात्यक्रामत्’ (बृ. उ. ३। ९। २६)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=3&id=BR_C03_S09_V26&hl=स यस्तान्पुरुषान्निरुह्यात्यक्रामत्) [‘स वा एष महानज आत्मा’ (बृ. उ. ४। ४। २२)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=4&id=BR_C04_S04_V22&hl=स वा एष महानज आत्मा) [‘एष सेतुर्विधरणः’ (बृ. उ. ४। ४। २२)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=4&id=BR_C04_S04_V22&hl=एष सेतुर्विधरणः) [‘सर्वस्य वशी सर्वस्येशानः’ (बृ. उ. ४। ४। २२)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=4&id=BR_C04_S04_V22&hl=सर्वस्य वशी सर्वस्येशानः) [‘य आत्मापहतपाप्मा विजरो विमृत्युः’ (छा. उ. ८। ७। १)](https://advaitasharada.sringeri.net/display/bhashya/Chandogya?page=8&id=Ch_C08_S07_V01&hl=य आत्मापहतपाप्मा विजरो विमृत्युः), [(छा. उ. ८। ७। ३)](https://advaitasharada.sringeri.net/display/bhashya/Chandogya?page=8&id=Ch_C08_S07_V03&hl=(छा. उ. ८। ७। ३)) ‘तत्तेजोऽसृजत’ (छा. उ. ६। २। ३) [‘आत्मा वा इदमेक एवाग्र आसीत्’ (ऐ. उ. १। १। १)](https://advaitasharada.sringeri.net/display/bhashya/Aitareya?page=1&id=AI_C01_S01_V01&hl=आत्मा वा इदमेक एवाग्र आसीत्) [‘न लिप्यते लोकदुःखेन बाह्यः’ (क. उ. २। २। ११)](https://advaitasharada.sringeri.net/display/bhashya/Kathaka?page=2&id=Ka_C02_S02_V11&hl=न लिप्यते लोकदुःखेन बाह्यः) इत्यादिश्रुतिशतेभ्यः — स्मृतेश्च [‘अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते’ (भ. गी. १०। ८)](https://advaitasharada.sringeri.net/display/bhashya/Gita?page=10&id=BG_C10_V08&hl=अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते) इति — परोऽस्ति असंसारी श्रुतिस्मृतिन्यायेभ्यश्च ; स च कारणं जगतः। ननु ‘एवमेवास्मादात्मनः’ इति संसारिण एवोत्पत्तिं दर्शयतीत्युक्तम् — न, [‘य एषोऽन्तर्हृदय आकाशः’ (बृ. उ. २। १। १७)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=2&id=BR_C02_S01_V17&hl=य एषोऽन्तर्हृदय आकाशः) इति परस्य प्रकृतत्वात् , ‘अस्मादात्मनः’ इति युक्तः परस्यैव परामर्शः। [‘क्वैष तदाभूत्’ (बृ. उ. २। १। १६)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=2&id=BR_C02_S01_V16&hl=क्वैष तदाभूत्) इत्यस्य प्रश्नस्य प्रतिवचनत्वेन आकाशशब्दवाच्यः पर आत्मा उक्तः [‘य एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेते’ (बृ. उ. २। १। १६)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=2&id=BR_C02_S01_V16&hl=य एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेते) इति ; [‘सता सोम्य तदा सम्पन्नो भवति’ (छा. उ. ६। ८। १)](https://advaitasharada.sringeri.net/display/bhashya/Chandogya?page=6&id=Ch_C06_S08_V01&hl=सता सोम्य तदा सम्पन्नो भवति) [‘अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्ति’ (छा. उ. ८। ३। २)](https://advaitasharada.sringeri.net/display/bhashya/Chandogya?page=8&id=Ch_C08_S03_V02&hl=अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्ति) [‘प्राज्ञेनात्मना सम्परिष्वक्तः’ (बृ. उ. ४। ३। २१)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=4&id=BR_C04_S03_V21&hl=प्राज्ञेनात्मना सम्परिष्वक्तः) [‘पर आत्मनि सम्प्रतिष्ठते’ (प्र. उ. ४। ७)](https://advaitasharada.sringeri.net/display/bhashya/Prashna?page=4&id=PR_C04_V07&hl=पर आत्मनि सम्प्रतिष्ठते) इत्यादिश्रुतिभ्य आकाशशब्दः परआत्मेति निश्चीयते ; ‘दहरोऽस्मिन्नन्तराकाशः’ (छा. उ. ८। १। १) इति प्रस्तुत्य तस्मिन्नेव आत्मशब्दप्रयोगाच्च ; प्रकृत एव पर आत्मा। तस्मात् युक्तम् ‘एवमेवास्मादात्मनः’ इति परमात्मन एव सृष्टिरिति ; संसारिणः सृष्टिस्थितिसंहारज्ञानसामर्थ्याभावं च अवोचाम। अत्र च ‘आत्मेत्येवोपासीत’ (बृ. उ. १। ४। ७) [‘आत्मानमेवावेदहं ब्रह्मास्मि - ’ (बृ. उ. १। ४। १०)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=1&id=BR_C01_S04_V10&hl=आत्मानमेवावेदहं ब्रह्मास्मि - ) इति ब्रह्मविद्या प्रस्तुता ; ब्रह्मविषयं च ब्रह्मविज्ञानमिति ; [‘ब्रह्म ते ब्रवाणि’ (बृ. उ. २। २। १)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=2&id=BR_C02_S02_V01&hl=ब्रह्म ते ब्रवाणि) इति [‘ब्रह्म ज्ञपयिष्यामि’ (बृ. उ. २। १। १५)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=2&id=BR_C02_S01_V15&hl=ब्रह्म ज्ञपयिष्यामि) इति प्रारब्धम्। तत्र इदानीम् असंसारि ब्रह्म जगतः कारणम् अशनायाद्यतीतं नित्यशुद्धबुद्धमुक्तस्वभावम् ; तद्विपरीतश्च संसारी ; तस्मात् अहं ब्रह्मास्मीति न गृह्णीयात् ; परं हि देवमीशानं निकृष्टः संसार्यात्मत्वेन स्मरन् कथं न दोषभाक्स्यात् ; तस्मात् न अहं ब्रह्मास्मीति युक्तम्। तस्मात्पुष्पोदकाञ्जलिस्तुतिनमस्कारबल्युपहारस्वाध्यायध्यानयोगादिभिः आरिराधयिषेत ; आराधनेन विदित्वा सर्वेशितृ ब्रह्म भवति ; न पुनरसंसारि ब्रह्म संसार्यात्मत्वेन चिन्तयेत् — अग्निमिव शीतत्वेन आकाशमिव मूर्तिमत्त्वेन। ब्रह्मात्मत्वप्रतिपादकमपि शास्त्रम् अर्थवादो भविष्यति। सर्वतर्कशास्त्रलोकन्यायैश्च एवमविरोधः स्यात् ॥

न, मन्त्रब्राह्मणवादेभ्यः तस्यैव प्रवेशश्रवणात्। ‘पुरश्चक्रे’ (बृ. उ. २। ५। १०) इति प्रकृत्य [‘पुरः पुरुष आविशत्’ (बृ. उ. २। ५। १८)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=2&id=BR_C02_S05_V18&hl=पुरः पुरुष आविशत्) इति, [‘रूपं रूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय’ (बृ. उ. २। ५। १९)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=2&id=BR_C02_S05_V19&hl=रूपं रूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय) ‘सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्ते’ (तै. आ. ३। १२। ७) इति सर्वशाखासु सहस्रशो मन्त्रवादाः सृष्टिकर्तुरेवासंसारिणः शरीरप्रवेशं दर्शयन्ति। तथा ब्राह्मणवादाः — [‘तत्सृष्ट्वा तदेवानुप्राविशत्’ (तै. उ. २। ६। ६)](https://advaitasharada.sringeri.net/display/bhashya/Taitiriya?page=2&id=T_C02_S06_V06&hl=तत्सृष्ट्वा तदेवानुप्राविशत्) [‘स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत’ (ऐ. उ. १। ३। १२)](https://advaitasharada.sringeri.net/display/bhashya/Aitareya?page=1&id=AI_C01_S03_V12&hl=स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत) [‘सेयं देवता — इमास्तिस्रो देवता अनेन जीवेन आत्मनानुप्रविश्य’ (छा. उ. ६। २। ३)](https://advaitasharada.sringeri.net/display/bhashya/Chandogya?page=6&id=Ch_C06_S02_V03&hl=सेयं देवता — इमास्तिस्रो देवता अनेन जीवेन आत्मनानुप्रविश्य) [‘एष सर्वेषु भूतेषु गूढोऽऽत्मा न प्रकाशते’ (क. उ. १। ३। १२)](https://advaitasharada.sringeri.net/display/bhashya/Kathaka?page=1&id=Ka_C01_S03_V12&hl=एष सर्वेषु भूतेषु गूढोऽऽत्मा न प्रकाशते) इत्याद्याः। सर्वश्रुतिषु च ब्रह्मणि आत्मशब्दप्रयोगात् आत्मशब्दस्य च प्रत्यगात्माभिधायकत्वात् , [‘एष सर्वभूतान्तरात्मा’ (मु. उ. २। १। ४)](https://advaitasharada.sringeri.net/display/bhashya/Mundaka?page=2&id=MD_C02_S01_V04&hl=एष सर्वभूतान्तरात्मा) इति च श्रुतेः परमात्मव्यतिरेकेण संसारिणोऽभावात् — ‘एकमेवाद्वितीयम्’ (छा. उ. ६। २। १) ‘ब्रह्मैवेदम्’ (मु. उ. २। २। ११) ‘आत्मैवेदम्’ (छा. उ. ७। २५। २) इत्यादिश्रुतिभ्यः युक्तमेव अहं ब्रह्मास्मीत्यवधारयितुम् ॥

यदा एवं स्थितः शास्त्रार्थः, तदा परमात्मनः संसारित्वम् ; तथा च सति शास्त्रानर्थक्यम् , असंसारित्वे च उपदेशानर्थक्यं स्पष्टो दोषः प्राप्तः ; यदि तावत् परमात्मा सर्वभूतान्तरात्मा सर्वशरीरसम्पर्कजनितदुःखानि अनुभवतीति, स्पष्टं परस्य संसारित्वं प्राप्तम् ; तथा च परस्य असंसारित्वप्रतिपादिकाः श्रुतयः कुप्येरन् , स्मृतयश्च, सर्वे च न्यायाः ; अथ कथञ्चित् प्राणशरीरसम्बन्धजैर्दुःखैर्न सम्बध्यत इति शक्यं प्रतिपादयितुम् , परमात्मनः साध्यपरिहार्याभावात् उपदेशानर्थक्यदोषो न शक्यते निवारयितुम्। अत्र केचित्परिहारमाचक्षते — परमात्मा न साक्षाद्भूतेष्वनु प्रविष्टः स्वेन रूपेण ; किं तर्हि विकारभावमापन्नो विज्ञानात्मत्वं प्रतिपेदे ; स च विज्ञानात्मा परस्मात् अन्यः अनन्यश्च ; येनान्यः, तेन संसारित्वसम्बन्धी, येन अनन्यः तेन अहं ब्रह्मेत्यवधारणार्हः ; एवं सर्वमविरुद्धं भविष्यतीति ॥

तत्र विज्ञानात्मनो विकारपक्ष एता गतयः — पृथिवीद्रव्यवत् अनेकद्रव्यसमाहारस्य सावयवस्य परमात्मनः, एकदेशविपरिणामो विज्ञानात्मा घटादिवत् ; पूर्वसंस्थानावस्थस्य वा परस्य एकदेशो विक्रियते केशोषरादिवत् , सर्व एव वा परः परिणमेत् क्षीरादिवत्। तत्र समानजातीयानेकद्रव्यसमूहस्य कश्चिद्द्रव्यविशेषो विज्ञानात्मत्वं प्रतिपद्यते यदा, तदा समानजातीयत्वात् एकत्वमुपचरितमेव न तु परमार्थतः ; तथा च सति सिद्धान्तविरोधः। अथ नित्यायुतसिद्धावयवानुगतः अवयवी पर आत्मा, तस्य तदवस्थस्य एकदेशो विज्ञानात्मा संसारी — तदापि सर्वावयवानुगतत्वात् अवयविन एव अवयवगतो दोषो गुणो वेति, विज्ञानात्मनः संसारित्वदोषेण पर एव आत्मा सम्बध्यत इति, इयमप्यनिष्टा कल्पना। क्षीरवत् सर्वपरिणामपक्षे सर्वश्रुतिस्मृतिकोपः, स च अनिष्टः। ‘निष्कलं निष्क्रियं शान्तम्’ (श्वे. ६। १९) [‘दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः’ (मु. उ. २। १। २)](https://advaitasharada.sringeri.net/display/bhashya/Mundaka?page=2&id=MD_C02_S01_V02&hl=दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः) ‘आकाशवत्सर्वगतश्च नित्यः’ (शत. ब्रा. १०। ६। ३। २) [‘स वा एष महानज आत्माजरोऽमरोऽमृतः’ (बृ. उ. ४। ४। २५)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=4&id=BR_C04_S04_V25&hl=स वा एष महानज आत्माजरोऽमरोऽमृतः) [‘न जायते म्रियते वा कदाचित्’ (भ. गी. २। २०)](https://advaitasharada.sringeri.net/display/bhashya/Gita?page=2&id=BG_C02_V20&hl=न जायते म्रियते वा कदाचित्) ‘अव्यक्तोऽयम्’ (भ. गी. २। २५) इत्यादिश्रुतिस्मृतिन्यायविरुद्धा एते सर्वे पक्षाः। अचलस्य परमात्मन एकदेशपक्षे विज्ञानात्मनः कर्मफलदेशसंसरणानुपपत्तिः, परस्य वा संसारित्वम् — इत्युक्तम्। परस्यैकदेशः अग्निविस्फुलिङ्गवत् स्फुटितः विज्ञानात्मा संसरतीति चेत् — तथापि परस्यावयवस्फुटनेन क्षतप्राप्तिः, तत्संसरणे च परमात्मनः प्रदेशान्तरावयवव्यूहे छिद्रताप्राप्तिः, अव्रणत्ववाक्यविरोधश्च ; आत्मावयवभूतस्य विज्ञानात्मनः संसरणे परमात्मशून्यप्रदेशाभावात् अवयवान्तरनोदनव्यूहनाभ्यां हृदयशूलेनेव परमात्मनो दुःखित्वप्राप्तिः। अग्निविस्फुलिङ्गादिदृष्टान्तश्रुतेर्न दोष इति चेत् , न ; श्रुतेर्ज्ञापकत्वात् — न शास्त्रं पदार्थानन्यथा कर्तुं प्रवृत्तम् , किं तर्हि यथाभूतानाम् अज्ञातानां ज्ञापने ; किञ्चातः ? शृणु, अतो यद्भवति ; यथाभूता मूर्तामूर्तादिपदार्थधर्मा लोके प्रसिद्धाः ; तद्दृष्टान्तोपादानेन तदविरोध्येव वस्त्वन्तरं ज्ञापयितुं प्रवृत्तं शास्त्रं न लौकिकवस्तुविरोधज्ञापनाय लौकिकमेव दृष्टान्तमुपादत्ते ; उपादीयमानोऽपि दृष्टान्तः अनर्थकः स्यात् , दार्ष्टान्तिकासङ्गतेः ; न हि अग्निः शीतः आदित्यो न तपतीति वा दृष्टान्तशतेनापि प्रतिपादयितुं शक्यम् , प्रमाणान्तरेण अन्यथाधिगतत्वाद्वस्तुनः ; न च प्रमाणं प्रमाणान्तरेण विरुध्यते ; प्रमाणान्तराविषयमेव हि प्रमाणान्तरं ज्ञापयति ; न च लौकिकपदपदार्थाश्रयणव्यतिरेकेण आगमेन शक्यमज्ञातं वस्त्वन्तरम् अवगमयितुम् ; तस्मात् प्रसिद्धन्यायमनुसरता न शक्या परमात्मनः सावयवांशांशित्वकल्पना परमार्थतः प्रतिपादयितुम्। ‘क्षुद्राविस्फुलिङ्गाः’ (बृ. उ. २। १। २०) ‘ममैवांशः’ (भ. गी. १५। ७) इति च श्रूयते स्मर्यते चेति चेत् , न, एकत्वप्रत्ययार्थपरत्वात् ; अग्नेर्हि विस्फुलिङ्गः अग्निरेव इत्येकत्वप्रत्ययार्हो दृष्टो लोके ; तथा च अंशः अंशिना एकत्वप्रत्ययार्हः ; तत्रैवं सति विज्ञानात्मनः परमात्मविकारांशत्ववाचकाः शब्दाः परमात्मैकत्वप्रत्ययाधित्सवः। उपक्रमोपसंहाराभ्यां च — सर्वासु हि उपनिषत्सु पूर्वमेकत्वं प्रतिज्ञाय, दृष्टान्तैर्हेतुभिश्च परमात्मनो विकारांशादित्वं जगतः प्रतिपाद्य, पुनरेकत्वमुपसंहरति ; तद्यथा इहैव तावत् [‘इदं सर्वं यदयमात्मा’ (बृ. उ. २। ४। ६)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=2&id=BR_C02_S04_V06&hl=इदं सर्वं यदयमात्मा) इति प्रतिज्ञाय, उत्पत्तिस्थितिलयहेतुदृष्टान्तैः विकारविकारित्वाद्येकत्वप्रत्ययहेतून् प्रतिपाद्य ‘अनन्तरमबाह्यम्’ (बृ. उ. २। ५। १९) [‘अयमात्मा ब्रह्म’ (बृ. उ. २। ५। १९)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=2&id=BR_C02_S05_V19&hl=अयमात्मा ब्रह्म) इत्युपसंहरिष्यति ; तस्मात् उपक्रमोपसंहाराभ्यामयमर्थो निश्चीयते — परमात्मैकत्वप्रत्ययद्रढिम्ने उत्पत्तिस्थितिलयप्रतिपादकानि वाक्यानीति ; अन्यथा वाक्यभेदप्रसङ्गाच्च — सर्वोपनिषत्सु हि विज्ञानात्मनः परमात्मना एकत्वप्रत्ययो विधीयत इत्यविप्रतिपत्तिः सर्वेषामुपनिषद्वादिनाम् ; तद्विध्येकवाक्ययोगे च सम्भवति उत्पत्त्यादिवाक्यानां वाक्यान्तरत्वकल्पनायां न प्रमाणमस्ति ; फलान्तरं च कल्पयितव्यं स्यात् ; तस्मादुत्पत्त्यादिश्रुतय आत्मैकत्वप्रतिपादनपराः ॥

अत्र च सम्प्रदायविद आख्यायिकां सम्प्रचक्षते — कश्चित्किल राजपुत्रः जातमात्र एव मातापितृभ्यामपविद्धः व्याधगृहे संवर्धितः ; सः अमुष्य वंश्यतामजानन् व्याधजातिप्रत्ययः व्याधजातिकर्माण्येवानुवर्तते, न राजास्मीति राजजातिकर्माण्यनुवर्तते ; यदा पुनः कश्चित्परमकारुणिकः राजपुत्रस्य राजश्रीप्राप्तियोग्यतां जानन् अमुष्य पुत्रतां बोधयति — ‘न त्वं व्याधः, अमुष्य राज्ञः पुत्रः ; कथञ्चिद्व्याधगृहमनुप्रविष्टः’ इति — स एवं बोधितः त्यक्त्वा व्याधजातिप्रत्ययकर्माणि पितृपैतामहीम् आत्मनः पदवीमनुवर्तते — राजाहमस्मीति। तथा किल अयं परस्मात् अग्निविस्फुलिङ्गादिवत् तज्जातिरेव विभक्तः इह देहेन्द्रियादिगहने प्रविष्टः असंसारी सन् देहेन्द्रियादिसंसारधर्ममनुवर्तते — देहेन्द्रियसङ्घातोऽस्मि कृशः स्थूलः सुखी दुःखीति — परमात्मतामजानन्नात्मनः ; न त्वम् एतदात्मकः परमेव ब्रह्मासि असंसारी — इति प्रतिबोधित आचार्येण, हित्वा एषणात्रयानुवृत्तिं ब्रह्मैवास्मीति प्रतिपद्यते। अत्र राजपुत्रस्य राजप्रत्ययवत् ब्रह्मप्रत्ययो दृढी भवति — विस्फुलिङ्गवदेव त्वं परस्माद्ब्रह्मणो भ्रष्ट इत्युक्ते, विस्फुलिङ्गस्य प्रागग्नेर्भ्रंशात् अग्न्येकत्वदर्शनात्। तस्मात् एकत्वप्रत्ययदार्ढ्याय सुवर्णमणिलोहाग्निविस्फुलिङ्गदृष्टान्ताः, न उत्पत्त्यादिभेदप्रतिपादनपराः। सैन्धवघनवत् प्रज्ञप्त्येकरसनैरन्तर्यावधारणात् ‘एकधैवानुद्रष्टव्यम्’ (बृ. उ. ४। ४। २०) इति च — यदि च ब्रह्मणः चित्रपटवत् वृक्षसमुद्रादिवच्च उत्पत्त्याद्यनेकधर्मविचित्रता विजिग्राहयिषिता, एकरसं सैन्धवघनवदनन्तरमबाह्यम् — इति नोपसमहरिष्यत् , ‘एकधैवानुद्रष्टव्यम्’ (बृ. उ. ४। ४। २०) इति च न प्रायोक्ष्यत — [‘य इह नानेव पश्यति’ (बृ. उ. ४। ४। १९)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=4&id=BR_C04_S04_V19&hl=य इह नानेव पश्यति) इति निन्दावचनं च। तस्मात् एकरूपैकत्वप्रत्ययदार्ढ्यायैव सर्ववेदान्तेषु उत्पत्तिस्थितिलयादिकल्पना, न तत्प्रत्ययकरणाय ॥

न च निरवयवस्य परमात्मनः असंसारिणः संसार्येकदेशकल्पना न्याय्या, स्वतोऽदेशत्वात् परमात्मनः। अदेशस्य परस्य एकदेशसंसारित्वकल्पनायां पर एव संसारीति कल्पितं भवेत्। अथ परोपाधिकृत एकदेशः परस्य, घटकरकाद्याकाशवत्। न तदा तत्र विवेकिनां परमात्मैकदेशः पृथक्संव्यवहारभागिति बुद्धिरुत्पद्यते। अविवेकिनां विवेकिनां च उपचरिता बुद्धिर्दृष्टेति चेत् , न, अविवेकिनां मिथ्याबुद्धित्वात् , विवेकिनां च संव्यवहारमात्रालम्बनार्थत्वात् — यथा कृष्णो रक्तश्च आकाश इति विवेकिनामपि कदाचित् कृष्णता रक्तता च आकाशस्य संव्यवहारमात्रालम्बनार्थत्वं प्रतिपद्यत इति, न परमार्थतः कृष्णो रक्तो वा आकाशो भवितुमर्हति। अतो न पण्डितैर्ब्रह्मस्वरूपप्रतिपत्तिविषये ब्रह्मणः अंशांश्येकदेशैकदेशिविकारविकारित्वकल्पना कार्या, सर्वकल्पनापनयनार्थसारपरत्वात् सर्वोपनिषदाम्। अतो हित्वा सर्वकल्पनाम् आकाशस्येव निर्विशेषता प्रतिपत्तव्या — ‘आकाशवत्सर्वगतश्च नित्यः’ (शत. ब्रा. १०। ६। ३। २) [‘न लिप्यते लोकदुःखेन बाह्यः’ (क. उ. २। २। ११)](https://advaitasharada.sringeri.net/display/bhashya/Kathaka?page=2&id=Ka_C02_S02_V11&hl=न लिप्यते लोकदुःखेन बाह्यः) इत्यादिश्रुतिशतेभ्यः। न आत्मानं ब्रह्मविलक्षणं कल्पयेत् — उष्णात्मक इवाग्नौ शीतैकदेशम् , प्रकाशात्मके वा सवितरि तमएकदेशम् — सर्वकल्पनापनयनार्थसारपरत्वात् सर्वोपनिषदाम्। तस्मात् नामरूपोपाधिनिमित्ता एव आत्मनि असंसारधर्मिणि सर्वे व्यवहाराः — [‘रूपं रूपं प्रतिरूपो बभूव’ (बृ. उ. २। ५। १९)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=2&id=BR_C02_S05_V19&hl=रूपं रूपं प्रतिरूपो बभूव) ‘सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्ते’ (तै. आ. ३। १२। ७) इत्येवमादिमन्त्रवर्णेभ्यः — न स्वत आत्मनः संसारित्वम् , अलक्तकाद्युपाधिसंयोगजनितरक्तस्फटिकादिबुद्धिवत् भ्रान्तमेव न परमार्थतः। [‘ध्यायतीव लेलायतीव’ (बृ. उ. ४। ३। ७)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=4&id=BR_C04_S03_V07&hl=ध्यायतीव लेलायतीव) [‘न कर्मणा वर्धते नो कनीयान्’ (बृ. उ. ४। ४। २३)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=4&id=BR_C04_S04_V23&hl=न कर्मणा वर्धते नो कनीयान्) [‘न कर्मणा लिप्यते पापकेन’ (बृ. उ. ४। ४। २३)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=4&id=BR_C04_S04_V23&hl=न कर्मणा लिप्यते पापकेन) [‘समं सर्वेषु भूतेषु तिष्ठन्तम्’ (भ. गी. १३। २७)](https://advaitasharada.sringeri.net/display/bhashya/Gita?page=13&id=BG_C13_V27&hl=समं सर्वेषु भूतेषु तिष्ठन्तम्) [‘शुनि चैव श्वपाके च’ (भ. गी. ५। १०)](https://advaitasharada.sringeri.net/display/bhashya/Gita?page=5&id=BG_C05_V10&hl=शुनि चैव श्वपाके च) इत्यादिश्रुतिस्मृतिन्यायेभ्यः परमात्मनोऽसंसारितैव। अत एकदेशो विकारः शक्तिर्वा विज्ञानात्मा अन्यो वेति विकल्पयितुं निरवयवत्वाभ्युपगमे विशेषतो न शक्यते। अंशादिश्रुतिस्मृतिवादाश्च एकत्वार्थाः, न तु भेदप्रतिपादकाः, विवक्षितार्थैकवाक्ययोगात् — इत्यवोचाम ॥

सर्वोपनिषदां परमात्मैकत्वज्ञापनपरत्वे अथ किमर्थं तत्प्रतिकूलोऽर्थः विज्ञानात्मभेदः परिकल्प्यत इति। कर्मकाण्डप्रामाण्यविरोधपरिहारायेत्येके ; कर्मप्रतिपादकानि हि वाक्यानि अनेकक्रियाकारकफलभोक्तृकर्त्राश्रयाणि, विज्ञानात्मभेदाभावे हि असंसारिण एव परमात्मन एकत्वे, कथम् इष्टफलासु क्रियासु प्रवर्तयेयुः, अनिष्टफलाभ्यो वा क्रियाभ्यो निवर्तयेयुः ? कस्य वा बद्धस्य मोक्षाय उपनिषदारभ्येत ? अपि च परमात्मैकत्ववादिपक्षे कथं परमात्मैकत्वोपदेशः ? कथं वा तदुपदेशग्रहणफलम् ? बद्धस्य हि बन्धनाशाय उपदेशः ; तदभावे उपनिषच्छास्त्रं निर्विषयमेव। एवं तर्हि उपनिषद्वादिपक्षस्य कर्मकाण्डवादिपक्षेण चोद्यपरिहारयोः समानः पन्थाः — येन भेदाभावे कर्मकाण्डं निरालम्बनमात्मानं न लभते प्रामाण्यं प्रति, तथा उपनिषदपि। एवं तर्हि यस्य प्रामाण्ये स्वार्थविघातो नास्ति, तस्यैव कर्मकाण्डस्यास्तु प्रामाण्यम् ; उपनिषदां तु प्रामाण्यकल्पनायां स्वार्थविघातो भवेदिति मा भूत्प्रामाण्यम्। न हि कर्मकाण्डं प्रमाणं सत् अप्रमाणं भवितुमर्हति ; न हि प्रदीपः प्रकाश्यं प्रकाशयति, न प्रकाशयति च इति। प्रत्यक्षादिप्रमाणविप्रतिषेधाच्च — न केवलमुपनिषदो ब्रह्मैकत्वं प्रतिपादयन्त्यः स्वार्थविघातं कर्मकाण्डप्रामाण्यविघातं च कुर्वन्ति ; प्रत्यक्षादिनिश्चितभेदप्रतिपत्त्यर्थप्रमाणैश्च विरुध्यन्ते। तस्मादप्रामाण्यमेव उपनिषदाम् ; अन्यार्थता वास्तु ; न त्वेव ब्रह्मैकत्वप्रतिपत्त्यर्थता ॥

न उक्तोत्तरत्वात्। प्रमाणस्य हि प्रमाणत्वम् अप्रमाणत्वं वा प्रमोत्पादनानुत्पादननिमित्तम् , अन्यथा चेत् स्तम्भादीनां प्रामाण्यप्रसङ्गात् शब्दादौ प्रमेये। किञ्चातः ? यदि तावत् उपनिषदो ब्रह्मैकत्वप्रतिपत्तिप्रमां कुर्वन्ति, कथमप्रमाणं भवेयुः। न कुर्वन्त्येवेति चेत् — यथा अग्निः शीतम् — इति, स भवानेवं वदन् वक्तव्यः — उपनिषत्प्रामाण्यप्रतिषेधार्थं भवतो वाक्यम् उपनिषत्प्रामाण्यप्रतिषेधं किं न करोत्येव, अग्निर्वा रूपप्रकाशम् ; अथ करोति — यदि करोति, भवतु तदा प्रतिषेधार्थं प्रमाणं भवद्वाक्यम् , अग्निश्च रूपप्रकाशको भवेत् ; प्रतिषेधवाक्यप्रामाण्ये भवत्येवोपनिषदां प्रामाण्यम्। अत्रभवन्तो ब्रुवन्तु कः परिहार इति। ननु अत्र प्रत्यक्षा मद्वाक्य उपनिषत्प्रामाण्यप्रतिषेधार्थप्रतिपत्तिः अग्नौ च रूपप्रकाशनप्रतिपत्तिः प्रमा ; कस्तर्हि भवतः प्रद्वेषः ब्रह्मैकत्वप्रत्यये प्रमां प्रत्यक्षं कुर्वतीषु उपनिषत्सु उपलभ्यमानासु ? प्रतिषेधानुपपत्तेः। शोकमोहादिनिवृत्तिश्च प्रत्यक्षं फलं ब्रह्मैकत्वप्रतिपत्तिपारम्पर्यजनितम् इत्यवोचाम। तस्मादुक्तोत्तरत्वात् उपनिषदं प्रति अप्रामाण्यशङ्का तावन्नास्ति ॥

यच्चोक्तम् स्वार्थविघातकरत्वादप्रामाण्यमिति, तदपि न, तदर्थप्रतिपत्तेर्बाधकाभावात्। न हि उपनिषद्भ्यः — ब्रह्मैकमेवाद्वितीयम् , नैव च — इति प्रतिपत्तिरस्ति — यथा अग्निरुष्णः शीतश्चेत्यस्माद्वाक्यात् विरुद्धार्थद्वयप्रतिपत्तिः। अभ्युपगम्य चैतदवोचाम ; न तु वाक्यप्रामाण्यसमये एष न्यायः — यदुत एकस्य वाक्यस्य अनेकार्थत्वम् ; सति च अनेकार्थत्वे, स्वार्थश्च स्यात् , तद्विघातकृच्च विरुद्धः अन्योऽर्थः। न त्वेतत् — वाक्यप्रमाणकानां विरुद्धमविरुद्धं च, एकं वाक्यम् , अनेकमर्थं प्रतिपादयतीत्येष समयः ; अर्थैकत्वाद्धि एकवाक्यता। न च कानिचिदुपनिषद्वाक्यानि ब्रह्मैकत्वप्रतिषेधं कुर्वन्ति। यत्तु लौकिकं वाक्यम् — अग्निरुष्णः शीतश्चेति, न तत्र एकवाक्यता, तदेकदेशस्य प्रमाणान्तरविषयानुवादित्वात् ; अग्निः शीत इत्येतत् एकं वाक्यम् ; अग्निरुष्ण इति तु प्रमाणान्तरानुभवस्मारकम् , न तु स्वयमर्थावबोधकम् ; अतो न अग्निः शीत इत्यनेन एकवाक्यता, प्रमाणान्तरानुभवस्मारणेनैवोपक्षीणत्वात्। यत्तु विरुद्धार्थप्रतिपादकमिदं वाक्यमिति मन्यते, तत् शीतोष्णपदाभ्याम् अग्निपदसामानाधिकरण्यप्रयोगनिमित्ता भ्रान्तिः ; न त्वेव एकस्य वाक्यस्य अनेकार्थत्वं लौकिकस्य वैदिकस्य वा ॥

यच् चोक्तम् — “कर्मकाण्ड-प्रामाण्य-विघात-कृत् उपनिषद् वाक्यम्” इति, तन् न, अन्यार्थत्वात्।+++(4)+++ ब्रह्मैकत्व-प्रतिपादन-परा हि उपनिषदः न इष्टार्थप्राप्तौ साधनोपदेशं तस्मिन् वा पुरुष-नियोगं वारयन्ति, अनेकार्थत्वानुपपत्तेर् एव। न च कर्मकाण्डवाक्यानां स्वार्थे प्रमा नोत्पद्यते। असाधारणे चेत्स्वार्थे प्रमाम् उत्पादयति वाक्यम् , कुतोऽन्येन विरोधः स्यात्। ब्रह्मैकत्वे निर्विषयत्वात् प्रमा नोत्पद्यत एवेति चेत् , न, प्रत्यक्षत्वात्प्रमायाः। ‘दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत’ ( ? ) ‘ब्राह्मणो न हन्तव्यः’ ( ? ) इत्येवमादिवाक्येभ्यः प्रत्यक्षा प्रमा जायमाना ; सा नैव भविष्यति, यद्युपनिषदो ब्रह्मैकत्वं बोधयिष्यन्तीत्यनुमानम् ; न च अनुमानं प्रत्यक्षविरोधे प्रामाण्यं लभते ; तस्मादसदेवैतद्गीयते — प्रमैव नोत्पद्यत इति। अपि च यथाप्राप्तस्यैव अविद्याप्रत्युपस्थापितस्य क्रियाकारकफलस्य आश्रयणेन इष्टानिष्टप्राप्तिपरिहारोपायसामान्ये प्रवृत्तस्य तद्विशेषमजानतः तदाचक्षाणा श्रुतिः क्रियाकारकफलभेदस्य लोकप्रसिद्धस्य सत्यताम् असत्यतां वा न आचष्टे न च वारयति, इष्टानिष्टफलप्राप्तिपरिहारोपायविधिपरत्वात्। यथा काम्येषु प्रवृत्ता श्रुतिः कामानां मिथ्याज्ञानप्रभवत्वे सत्यपि यथाप्राप्तानेव कामानुपादाय तत्साधनान्येव विधत्ते, न तु — कामानां मिथ्याज्ञानप्रभवत्वादनर्थरूपत्वं चेति — न विदधाति ; तथा नित्याग्निहोत्रादिशास्त्रमपि मिथ्याज्ञानप्रभवं क्रियाकारकभेदं यथाप्राप्तमेव आदाय इष्टविशेषप्राप्तिम् अनिष्टविशेषपरिहारं वा किमपि प्रयोजनं पश्यत् अग्निहोत्रादीनि कर्माणि विधत्ते, न — अविद्यागोचरासद्वस्तुविषयमिति — न प्रवर्तते — यथा काम्येषु। न च पुरुषा न प्रवर्तेरन् अविद्यावन्तः, दृष्टत्वात् — यथा कामिनः। विद्यावतामेव कर्माधिकार इति चेत् , न, ब्रह्मैकत्वविद्यायां कर्माधिकारविरोधस्योक्तत्वात्। एतेन ब्रह्मैकत्वे निर्विषयत्वात् उपदेशेन तद्-ग्रहण-फलाऽभाव-दोष-परिहार उक्तो वेदितव्यः। पुरुषेच्छा-रागादि-वैचित्र्याच् च।

अनेका हि पुरुषाणाम् इच्छा ; रागादयश् च दोषा विचित्राः। ततश् च बाह्य-विषय-रागाद्य्-अपहृत-चेतसो न शास्त्रं निवर्तयितुं शक्तम् ; नापि स्वभावतो बाह्य-विषय-विरक्त-चेतसो विषयेषु प्रवर्तयितुं शक्तम् । किन्तु शास्त्रात् एतावद् एव भवति — “इदम् इष्ट-साधनम्, इदम् अनिष्ट-साधनम्” इति साध्य-साधन-सम्बन्ध-विशेषाभिव्यक्तिः — प्रदीपादिवत् तमसि रूपादि-ज्ञानम्।+++(5)+++ न तु शास्त्रं भृत्यान् इव बलात् निवर्तयति नियोजयति वा। दृश्यन्ते हि पुरुषा रागादि-गौरवात् शास्त्रम् अप्य् अतिक्रामन्तः।

तस्मात् पुरुष-मति-वैचित्र्यम् अपेक्ष्य साध्य-साधन-सम्बन्ध-विशेषान् अनेकधा उपदिशति।+++(4)+++ तत्र पुरुषाः स्वयम् एव यथा-रुचि साधन-विशेषेषु प्रवर्तन्ते। शास्त्रं तु सवितृ-प्रदीपादिवत् उदास्त एव।+++(4)+++

तथा कस्यचित् +++(मोक्ष इति)+++ परोऽपि पुरुषार्थः अपुरुषार्थवद् अवभासते। यस्य यथा ऽवभासः, स तथारूपं पुरुषार्थं पश्यति ; तद्-अनुरूपाणि साधनान्य् उपादित्सते। तथा च अर्थवादोऽपि — [‘त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यम् ऊषुः’ (बृ. उ. ५। २। १)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=5&id=BR_C05_S02_V01&hl=त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यमूषुः) इत्यादिः।

तस्मान् न ब्रह्मैकत्वं ज्ञापयिष्यन्तो वेदान्ता विधि-शास्त्रस्य बाधकाः।+++(5)+++ न च विधि-शास्त्रम् एतावता +++(व्यक्तिषु)+++ निर्विषयं स्यात्। नापि उक्त-कारकादि-भेदं विधि-शास्त्रम् उपनिषदां ब्रह्मैकत्वं प्रति प्रामाण्यं निवर्तयति। स्वविषय-शूराणि हि प्रमाणानि, श्रोत्रादि-वत् ॥

तत्र पण्डितम्मन्याः केचित् स्वचित्तवशात् सर्वं प्रमाणम् इतरेतर-विरुद्धं मन्यन्ते। तथा प्रत्यक्षादि-विरोधम् अपि चोदयन्ति ब्रह्मैकत्वे —

शब्दादयः किल श्रोत्रादिविषया भिन्नाः प्रत्यक्षत उपलभ्यन्ते ; ब्रह्मैकत्वं ब्रुवतां प्रत्यक्षविरोधः स्यात्।
तथा श्रोत्रादिभिः शब्दाद्य्-उपलब्धारः, कर्तारश् च धर्माधर्मयोः प्रति-शरीरं भिन्ना अनुमीयन्ते संसारिणः - तत्र ब्रह्मैकत्वं ब्रुवताम् अनुमान-विरोधश् च।
तथा च आगमविरोधं वदन्ति — ‘ग्राम-कामो यजेत’ (तै. आ. १७। १०। ४) ‘पशु-कामो यजेत’ (तै. आ. १६। १२। ८) ‘स्वर्ग-कामो यजेत’ (तै. आ. १६। ३। ३) इत्य्-एवम्-आदि-वाक्येभ्यः ग्राम-पशु-स्वर्गादि-कामाः, तत्-साधनाद्य्-अनुष्ठातारश् च भिन्ना अवगम्यन्ते।

अत्रोच्यते — ते तु कुतर्क-दूषितान्तःकरणाः, ब्राह्मणादि-वर्णापशदाः+++(=नीचाः)+++, अनुकम्पनीयाः, आगमार्थ-विच्छिन्न-सम्प्रदाय-बुद्धय इति।+++(4)+++ कथम् ? श्रोत्रादि-द्वारैः शब्दादिभिः प्रत्यक्षत उपलभ्यमानैः ब्रह्मण एकत्वं विरुध्यत इति वदन्तो वक्तव्याः —

किं शब्दादीनां भेदेन आकाशैकत्वं विरुध्यत इति ; अथ न विरुध्यते, न तर्हि प्रत्यक्षविरोधः।
यच्चोक्तम् — प्रतिशरीरं शब्दाद्युपलब्धारः धर्माधर्मयोश्च कर्तारः भिन्ना अनुमीयन्ते, तथा च ब्रह्मैकत्वेऽनुमानविरोध इति - “भिन्नाः कैर् अनुमीयन्त” इति प्रष्टव्याः। अथ यदि ब्रूयुः — “सर्वैर् अस्माभिर् अनुमान-कुशलैर्” इति, — “के यूयम् अनुमानकुशला” इत्य् एवं पृष्टानां किम् उत्तरम्? शरीरेन्द्रिय-मन-आत्मसु च प्रत्येकम् अनुमान-कौशल-प्रत्याख्याने, शरीरेन्द्रिय-मनः-साधना आत्मानो वयम् अनुमान-कुशलाः, अनेक-कारक-साध्यत्वात् क्रियाणाम् इति चेत् —
एवं तर्हि अनुमान-कौशले भवताम् अनेकत्व-प्रसङ्गः ; अनेक-कारक-साध्या हि क्रियेति भवद्भिर् एवाभ्युपगतम् ; तत्र अनुमानं च क्रिया ; सा शरीरेन्द्रियमनआत्मसाधनैः कारकैः आत्म-कर्तृका निर्वर्त्यत इत्य् एतत् प्रतिज्ञातम्। तत्र वयम् अनुमानकुशला इत्य् एवं वदद्भिः शरीरेन्द्रियमनःसाधना आत्मानः प्रत्येकं वयम् अनेके — इत्य् अभ्युपगतं स्यात् ; अहो अनुमानकौशलं दर्शितम् अपुच्छ-शृङ्गैः तार्किक-बलीवर्दैः।+++(4)+++

यो हि आत्मानम् एव न जानाति, स कथं मूढः तद्-गतं भेदम् अभेदं वा जानीयात्? तत्र किम् अनुमिनोति ? केन वा लिङ्गेन ? न हि आत्मनः स्वतो भेद-प्रतिपादकं किञ्चिल् लिङ्गम् अस्ति, येन लिङ्गेन आत्मभेदं साधयेत् ; यानि लिङ्गानि आत्मभेदसाधनाय नामरूपवन्ति उपन्यस्यन्ति, तानि नामरूपगतानि उपाधय एव आत्मनः — घटकरकापवरकभूछिद्राणीव आकाशस्य ; यदा आकाशस्य भेदलिङ्गं पश्यति, तदा आत्मनोऽपि भेदलिङ्गं लभेत सः ; न ह्यात्मनः परतो विशेषमभ्युपगच्छद्भिस्तार्किकशतैरपि भेदलिङ्गमात्मनो दर्शयितुं शक्यते ; स्वतस्तु दूरादपनीतमेव, अविषयत्वादात्मनः। यद्यत् परः आत्मधर्मत्वेनाभ्युपगच्छति, तस्य तस्य नामरूपात्मकत्वाभ्युपगमात् , नामरूपाभ्यां च आत्मनोऽन्यत्वाभ्युपगमात् , [‘आकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म’ (छा. उ. ८। १४। १)](https://advaitasharada.sringeri.net/display/bhashya/Chandogya?page=8&id=Ch_C08_S14_V01&hl=आकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म) इति श्रुतेः, [‘नामरूपे व्याकरवाणि’ (छा. उ. ६। ३। २)](https://advaitasharada.sringeri.net/display/bhashya/Chandogya?page=6&id=Ch_C06_S03_V02&hl=नामरूपे व्याकरवाणि) इति च — उत्पत्तिप्रलयात्मके हि नामरूपे, तद्विलक्षणं च ब्रह्म — अतः अनुमानस्यैवाविषयत्वात् कुतोऽनुमानविरोधः। एतेन आगमविरोधः प्रत्युक्तः। यदुक्तम् — ब्रह्मैकत्वे यस्मै उपदेशः, यस्य च उपदेशग्रहणफलम् , तदभावात् एकत्वोपदेशानर्थक्यमिति — तदपि न, अनेककारकसाध्यत्वात्क्रियाणां कश्चोद्यो भवति ; एकस्मिन्ब्रह्मणि निरुपाधिके नोपदेशः, नोपदेष्टा, न च उपदेशग्रहणफलम् ; तस्मादुपनिषदां च आनर्थक्यमित्येतत् अभ्युपगतमेव ; अथ अनेककारकविषयानर्थक्यं चोद्यते — न, स्वतोऽभ्युपगमविरोधादात्मवादिनाम्। तस्मात् तार्किकचाटभटराजाप्रवेश्यम् अभयं दुर्गमिदम् अल्पबुद्ध्यगम्यं शास्त्रगुरुप्रसादरहितैश्च — [‘कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति’ (क. उ. १। २। २१)](https://advaitasharada.sringeri.net/display/bhashya/Kathaka?page=1&id=Ka_C01_S02_V21&hl=कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति) [‘देवैरत्रापि विचिकित्सितं पुरा’ (क. उ. १। १। २१)](https://advaitasharada.sringeri.net/display/bhashya/Kathaka?page=1&id=Ka_C01_S01_V21&hl=देवैरत्रापि विचिकित्सितं पुरा) [‘नैषा तर्केण मतिरापनेया’ (क. उ. १। २। ९)](https://advaitasharada.sringeri.net/display/bhashya/Kathaka?page=1&id=Ka_C01_S02_V09&hl=नैषा तर्केण मतिरापनेया) — वरप्रसादलभ्यत्वश्रुतिस्मृतिवादेभ्यश्च’ [‘तदेजति तन्नैजति तद्दूरे तद्वन्तिके’ (ई. उ. ५)](https://advaitasharada.sringeri.net/display/bhashya/Isha?page=NaN&id=IS_V05&hl=तदेजति तन्नैजति तद्दूरे तद्वन्तिके) इत्यादिविरुद्धधर्मसमवायित्वप्रकाशमन्त्रवर्णेभ्यश्च ; गीतासु च [‘मत्स्थानि सर्वभूतानि’ (भ. गी. ९। ४)](https://advaitasharada.sringeri.net/display/bhashya/Gita?page=9&id=BG_C09_V04&hl=मत्स्थानि सर्वभूतानि) इत्यादि। तस्मात् परब्रह्मव्यतिरेकेण संसारी नाम न अन्यत् वस्त्वन्तरमस्ति। तस्मात्सुष्ठूच्यते [‘ब्रह्म वा इदमग्र आसीत् तदात्मानमेवावेत् अहं ब्रह्मास्मीति’ (बृ. उ. १। ४। १०)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=1&id=BR_C01_S04_V10&hl=ब्रह्म वा इदमग्र आसीत् तदात्मानमेवावेत् अहं ब्रह्मास्मीति) —’ नान्यदतोऽस्ति द्रष्टृ नान्यदतोऽस्ति श्रोतृ’ इत्यादिश्रुतिशतेभ्यः। तस्मात् परस्यैव ब्रह्मणः सत्यस्य सत्यं नाम उपनिषत् परा ॥

इति द्वितीयाध्यायस्य प्रथमं ब्राह्मणम् ॥