त्रयं वा इदं नाम रूपं कर्म तेषां नाम्नां वागित्येतदेषामुक्थमतो हि सर्वाणि नामान्युत्तिष्ठन्ति। एतदेषां सामैतद्धि सर्वैर्नामभिः सममेतदेषां ब्रह्मैतद्धि सर्वाणि नामानि बिभर्ति ॥ १ ॥
यदेतदविद्याविषयत्वेन प्रस्तुतं साध्यसाधनलक्षणं व्याकृतं जगत् प्राणात्मप्राप्त्यन्तोत्कर्षवदपि फलम् , या चैतस्य व्याकरणात्प्रागवस्था अव्याकृतशब्दवाच्या — वृक्षबीजवत् सर्वमेतत् त्रयम् ; किं तत्त्रयमित्युच्यते — नाम रूपं कर्म चेति अनात्मैव — न आत्मा यत्साक्षादपरोक्षाद्ब्रह्म ; तस्मादस्माद्विरज्येतेत्येवमर्थः त्रयं वा इत्याद्यारम्भः। न ह्यस्मात् अनात्मनः अव्यावृत्तचित्तस्य आत्मानमेव लोकम् अहं ब्रह्मास्मीत्युपासितुं बुद्धिः प्रवर्तते, बाह्यप्रत्यगात्मप्रवृत्त्योर्विरोधात्। तथा च काठके — ‘पराञ्चि खानि व्यतृणत्स्वयम्भूस्तस्मात्पराङ्पश्यति नान्तरात्मन्। कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन्’ (क . २। १। १) इत्यादि ॥
कथं पुनः अस्य व्याकृताव्याकृतस्य क्रियाकारकफलात्मनः संसारस्य नामरूपकर्मात्मकतैव, न पुनरात्मत्वम् — इत्येतत्सम्भावयितुं शक्यत इति। अत्रोच्यते — तेषां नाम्नां यथोपन्यस्तानाम् — वागिति शब्दसामान्यमुच्यते, [‘यः कश्च शब्दो वागेव सा’ (बृ. उ. १। ५। ३)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=1&id=BR_C01_S05_V03&hl=यः कश्च शब्दो वागेव सा) इत्युक्तत्वात् वागित्येतस्य शब्दस्य यो अर्थः शब्दसामान्यमात्रम् एतत् एतेषां नामविशेषाणाम् उक्थं कारणम् उपादानम् , सैन्धवलवणकणानामिव सैन्धवाचलः ; तदाह — अतो हि अस्मान्नामसामान्यात् सर्वाणि नामानि यज्ञदत्तो देवदत्त इत्येवमादिप्रविभगानि उत्तिष्ठन्ति उत्पद्यन्ते प्रविभज्यन्ते, लवणाचलादिव लवणकणाः ; कार्यं च कारणेनाव्यतिरिक्तम्। तथा विशेषाणां च सामान्येऽन्तर्भावात् — कथं सामान्यविशेषभाव इति — एतत् शब्दसामान्यम् एषां नामविशेषाणाम् साम, समत्वात्साम, सामान्यमित्यर्थः ; एतत् हि यस्मात् सर्वैर्नामभिः आत्मविशेषैः समम्। किञ्च आत्मलाभाविशेषाच्च नामविशेषाणाम् — यस्य च यस्मादात्मलाभो भवति, स तेनाप्रविभक्तो दृष्टः, यथा घटादीनां मृदा ; कथं नामविशेषाणामात्मलाभो वाच इत्युच्यते — यत एतदेषां वाक्शब्दवाच्यं वस्तु ब्रह्म आत्मा, ततो ह्यात्मलाभो नाम्नाम् , शब्दव्यतिरिक्तस्वरूपानुपपत्तेः ; तत्प्रतिपादयति — एतत् शब्दसामान्यं हि यस्मात् शब्दविशेषान् सर्वाणि नामानि बिभर्ति धारयति स्वरूपप्रदानेन। एवं कार्यकारणत्वोपपत्तेः सामान्यविशेषोपपत्तेः आत्मप्रदानोपपत्तेश्च नामविशेषाणां शब्दमात्रता सिद्धा। एवमुत्तरयोरपि सर्वं योज्यं यथोक्तम् ॥
अथ रूपाणां चक्षुरित्येतदेषामुक्थमतो हि सर्वाणि रूपाण्युत्तिष्ठन्त्येतदेषां सामैतद्धि सर्वै रूपैः सममेतदेषां ब्रह्मैतद्धि सर्वाणि रूपाणि बिभर्ति ॥ २ ॥
अथेदानीं रूपाणां सितासितप्रभृतीनाम् — चक्षुरिति चक्षुर्विषयसामान्यं चक्षुःशब्दाभिधेयं रूपसामान्यं प्रकाश्यमात्रमभिधीयते। अतो हि सर्वाणि रूपाण्युत्तिष्ठन्ति, एतदेषां साम, एतद्धि सर्वै रूपैः समम् , एतदेषां ब्रह्म, एतद्धि सर्वाणि रूपाणि बिभर्ति ॥
अथ कर्मणामात्मेत्येतदेषामुक्थमतो हि सर्वाणि कर्माण्युत्तिष्ठन्त्येतदेषां सा मैतद्धि सर्वैः कर्मभिः सममेतदेषां ब्रह्मैतद्धि सर्वाणि कर्माणि बिभर्ति तदेतत्त्रयं सदेकमयमात्मात्मो एकः सन्नेतत्त्रयं तदेतदमृतं सत्त्येन च्छन्नं प्राणो वा अमृतं नामरूपे सत्त्यं ताभ्यामयं प्राणश्छन्नः ॥ ३ ॥
अथेदानीं सर्वकर्मविशेषाणां मननदर्शनात्मकानां चलनात्मकानां च क्रियासामान्यमात्रेऽन्तर्भाव उच्यते ; कथम् ? सर्वेषां कर्मविशेषाणाम् , आत्मा शरीरम् सामान्यम् आत्मा — आत्मनः कर्म आत्मेत्युच्यते ; आत्मना हि शरीरेण कर्म करोति — इत्युक्तम् ; शरीरे च सर्वं कर्माभिव्यज्यते ; अतः तात्स्थ्यात् तच्छब्दं कर्म — कर्मसामान्यमात्रं सर्वेषामुक्थमित्यादि पूर्ववत्। तदेतद्यथोक्तं नाम रूपं कर्म त्रयम् इतरेतराश्रयम् इतरेतराभिव्यक्तिकारणम् इतरेतरप्रलयम् संहतम् — त्रिदण्डविष्टम्भवत् — सत् एकम्। केनात्मनैकत्वमित्युच्यते — अयमात्मा अयं पिण्डः कार्यकरणात्मसङ्घातः तथा अन्नत्रये व्याख्यातः — [‘एतन्मयो वा अयमात्मा’ (बृ. उ. १। ५। ३)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=1&id=BR_C01_S05_V03&hl=एतन्मयो वा अयमात्मा) इत्यादिना ; एतावद्धीदं सर्वं व्याकृतमव्याकृतं च यदुत नाम रूपं कर्मेति ; आत्मा उ एकोऽयं कार्यकरणसङ्घातः सन् अध्यात्माधिभूताधिदैवभावेन व्यवस्थितम् एतदेव त्रयं नाम रूपं कर्मेति। तदेतत् वक्ष्यमाणम् ; अमृतं सत्त्येन च्छन्नमित्येतस्य वाक्स्यार्थमाह — प्राणो वा अमृतम् करणात्मकः अन्तरुपष्टम्भकः आत्मभूतः अमृतः अविनाशी ; नामरूपे सत्त्यं कार्यात्मके शरीरावस्थे ; क्रियात्मकस्तु प्राणः तयोरुपष्टम्भकः बाह्याभ्यां शरीरात्मकाभ्यामुपजनापायधर्मिभ्यां मर्त्याभ्यां छन्नः अप्रकाशीकृतः। एतदेव संसारसतत्त्वमविद्याविषयं प्रदर्शितम् ; अत ऊर्ध्वं विद्याविषय आत्मा अधिगन्तव्य इति चतुर्थ आरभ्यते ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ बृहदारण्यकोपनिषद्भाष्ये प्रथमोऽध्यायः ॥