यत्सप्तान्नानि मेधया तपसाजनयत्पिता। एकमस्य साधारणं द्वे देवानभाजयत्। त्रीण्यात्मनेऽकुरुत पशुभ्य एकं प्रायच्छत्। तस्मिन्सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च न। कस्मात्तानि न क्षीयन्तेऽद्यमानानि सर्वदा। यो वैतामक्षितिं वेद सोऽन्नमत्ति प्रतीकेन। स देवानपिगच्छति स ऊर्जमुपजीवतीति श्लोकाः ॥ १ ॥
यत्सप्तान्नानि मेधया। अविद्या प्रस्तुता ; तत्र अविद्वान् अन्यां देवतामुपास्ते अन्योऽसावन्योऽहमस्मीति ; सः वर्णाश्रमाभिमानः कर्मकर्तव्यतया नियतो जुहोत्यादिकर्मभिः कामप्रयुक्तो देवादीनामुपकुर्वन् सर्वेषां भूतानां लोक इत्युक्तम्। यथा च स्वकर्मभिरेकैकेन सर्वैर्भूतैरसौ लोको भोज्यत्वेन सृष्टः, एवमसावपि जुहोत्यादिपाङ्क्तकर्मभिः सर्वाणि भूतानि सर्वं च जगत् आत्मभोज्यत्वेनासृजत ; एवम् एकैकः स्वकर्मविद्यानुरूप्येण सर्वस्य जगतो भोक्ता भोज्यं च, सर्वस्य सर्वः कर्ता कार्यं चेत्यर्थः ; एतदेव च विद्याप्रकरणे मधुविद्यायां वक्ष्यामः — सर्वं सर्वस्य कार्यं मध्विति आत्मैकत्वविज्ञानार्थम्। यदसौ जुहोत्यादिना पाङ्क्तेन काम्येन कर्मणा आत्मभोज्यत्वेन जगदसृजत विज्ञानेन च, तज्जगत्सर्वं सप्तधा प्रविभज्यमानं कार्यकारणत्वेन सप्तान्नान्युच्यन्ते, भोज्यत्वात् ; तेनासौ पिता तेषामन्नानाम्। एतेषामन्नानां सविनियोगानां सूत्रभूताः सङ्क्षेपतः प्रकाशकत्वात् इमे मन्त्राः ॥
यत्सप्तान्नानि मेधया तपसाजनयत्पितेति मेधया हि तपसाजनयत्पिता। एकमस्य साधारणमितीदमेवास्य तत्साधारणमन्नं यदिदमद्यते। स य एतदुपास्ते न स पाप्मनो व्यावर्तते मिश्रं ह्येतत्। द्वे देवानभाजयदिति हुतं च प्रहुतं च तस्माद्देवेभ्यो जुह्वति च प्र च जुह्वत्यथो आहुर्दर्शपूर्णमासाविति तस्मान्नेष्टियाजुकः स्यात्। पशुभ्य एकं प्रायच्छदिति तत्पयः। पयो ह्येवाग्रे मनुष्याश्च पशवश्चोपजीवन्ति तस्मात्कुमारं जातं घृतं वै वाग्रे प्रतिलेहयन्ति स्तनं वानुधापयन्त्यथ वत्सं जातमाहुरतृणाद इति। तस्मिन्सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च नेति पयसि हीदं सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च न। तद्यदिदमाहुः संवत्सरं पयसा जुह्वदप पुनर्मृत्युं जयतीति न तथा विद्याद्यदहरेव जुहोति तदहः पुनर्मृत्युमपजयत्येवं विद्वान्सर्वं हि देवेभ्योऽन्नाद्यं प्रयच्छति। कस्मात्तानि न क्षीयन्तेऽद्यमानानि सर्वदेति पुरुषो वा अक्षितिः स हीदमन्नं पुनः पुनर्जनयते। यो वैतामक्षितिं वेदेति पुरुषो वा अक्षितिः स हीदमन्नं धिया धिया जनयते कर्मभिर्यद्धैतन्न कुर्यात्क्षीयेत ह सोऽन्नमत्ति प्रतीकेनेति मुखं प्रतीकं मुखेनेत्येतत्। स देवानपिगच्छति स ऊर्जमुपजीवतीति प्रशंसा ॥ २ ॥
यत्सप्तान्नानि — यत् अजनयदिति क्रियाविशेषणम् ; मेधया प्रज्ञया विज्ञानेन तपसा च कर्मणा ; ज्ञानकर्मणी एव हि मेधातपःशब्दवाच्ये, तयोः प्रकृतत्वात् ; नेतरे मेधातपसी, अप्रकरणात् ; पाङ्क्तं हि कर्म जायादिसाधनम् ; ‘य एवं वेद’ इति च अनन्तरमेव ज्ञानं प्रकृतम् ; तस्मान्न प्रसिद्धयोर्मेधातपसोराशङ्का कार्या ; अतः यानि सप्तान्नानि ज्ञानकर्मभ्यां जनितवान्पिता, तानि प्रकाशयिष्याम इति वाक्यशेषः। तत्र मन्त्राणामर्थः तिरोहितत्वात्प्रायेण दुर्विज्ञेयो भवतीति तदर्थव्याख्यानाय ब्राह्मणं प्रवर्तते। तत्र यत्सप्तान्नानि मेधया तपसाजनयत्पितेत्यस्य कोऽर्थः ? उच्यते इति — हि - शब्देनैव व्याचष्टे प्रसिद्धार्थावद्योतकेन ; प्रसिद्धो ह्यस्य मन्त्रस्यार्थ इत्यर्थः ; यदजनयदिति च अनुवादस्वरूपेण मन्त्रेण प्रसिद्धार्थतैव प्रकाशिता ; अतः ब्राह्मणम् अविशङ्कयैवाह — मेधया हि तपसाजनयत्पितेति ॥
ननु कथं प्रसिद्धता अस्यार्थस्येति, उच्यते — जायादिकर्मान्तानां लोकफलसाधनानां पितृत्वं तावत्प्रत्यक्षमेव ; अभिहितं च — ‘जाया ते स्यात्’ इत्यादिना। तत्र च दैवं वित्तं विद्या कर्म पुत्रश्च फलभूतानां लोकानां साधनं स्रष्टृत्वं प्रति इत्यभिहितम् ; वक्ष्यमाणं च प्रसिद्धमेव। तस्माद्युक्तं वक्तुं मेधयेत्यादि। एषणा हि फलविषया प्रसिद्धैव च लोके ; एषणा च जायादीत्युक्तम् ‘एतावान्वै कामः’ इत्यनेन ; ब्रह्मविद्याविषये च सर्वैकत्वात्कामानुपपत्तेः। एतेन अशास्त्रीयप्रज्ञातपोभ्यां स्वाभाविकाभ्यां जगत्स्रष्टृत्वमुक्तमेव भवति ; स्थावरान्तस्य च अनिष्टफलस्य कर्मविज्ञाननिमित्तत्वात्। विवक्षितस्तु शास्त्रीय एव साध्यसाधनभावः, ब्रह्मविद्याविधित्सया तद्वैराग्यस्य विवक्षितत्वात् — सर्वो ह्ययं व्यक्ताव्यक्तलक्षणः संसारोऽशुद्धोऽनित्यः साध्यसाधनरूपो दुःखोऽविद्याविषय इत्येतस्माद्विरक्तस्य ब्रह्मविद्या आरब्धव्येति ॥
तत्र अन्नानां विभागेन विनियोग उच्यते — एकमस्य साधारणमिति मन्त्रपदम् ; तस्य व्याख्यानम् — इदमेवास्य तत्साधारणमन्नमित्युक्तम् ; भोक्तृसमुदायस्य ; किं तत् ? यदिदमद्यते भुज्यते सर्वैः प्राणिभिरहन्यहनि, तत् साधारणं सर्वभोक्त्रर्थमकल्पयत्पिता सृष्ट्वा अन्नम्। स य एतत्साधारणं सर्वप्राणभृत्स्थितिकरं भुज्यमानमन्नमुपास्ते — तत्परो भवतीत्यर्थः — उपासनं हि नाम तात्पर्यं दृष्टं लोके ‘गुरुमुपास्ते’ ‘राजानमुपास्ते’ इत्यादौ — तस्मात् शरीरस्थित्यर्थान्नोपभोगप्रधानः नादृष्टार्थकर्मप्रधान इत्यर्थः ; स एवंभूतो न पाप्मनोऽधर्मात् व्यावर्तते — न विमुच्यत इत्येतत्। तथा च मन्त्रवर्णः — ‘मोघमन्नं विन्दते’ (ऋ. १०। ९७। ६) इत्यादिः ; स्मृतिरपि —’नात्मार्थं पाचयेदन्नम्’ [‘अप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः’ (भ. गी. ३। १३)](https://advaitasharada.sringeri.net/display/bhashya/Gita?page=3&id=BG_C03_V13&hl=अप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः) ‘अन्नादे भ्रूणहा मार्ष्टि’ (मनु. ८। १३७) इत्यादिः। कस्मात्पुनः पाप्मनो न व्यावर्तते ? मिश्रं ह्येतत् — सर्वेषां हि स्वं तत् अप्रविभक्तं यत्प्राणिभिर्भुज्यते, सर्वभोज्यत्वादेव यो मुखे प्रक्षिप्यमाणोऽपि ग्रासः परस्य पीडाकरो दृश्यते — ममेदं स्यादिति हि सर्वेषां तत्राशा प्रतिबद्धा ; तस्मात् न परमपीडयित्वा ग्रसितुमपि शक्यते। ‘दुष्कृतं हि मनुष्याणाम्’ ( ? ) इत्यादिस्मरणाच्च ॥
गृहिणा वैश्वदेवाख्यमन्नं यदहन्यहनि निरूप्यत इति केचित्। तन्न। सर्वभोक्तृसाधारणत्वं वैश्वदेवाख्यस्यान्नस्य न सर्वप्राणभृद्भुज्यमानान्नवत्प्रत्यक्षम्। नापि यदिदमद्यत इति तद्विषयं वचनमनुकूलम्। सर्वप्राणभृद्भुज्यमानान्नान्तःपातित्वाच्च वैश्वदेवाख्यस्य युक्तं श्वचाण्डालाद्याद्यस्य अन्नस्य ग्रहणम् , वैश्वदेवव्यतिरेकेणापि श्वचाण्डालाद्याद्यान्नदर्शनात् , तत्र युक्तं यदिदमद्यत इति वचनम्। यदि हि तन्न गृह्येत साधारणशब्देन पित्रा असृष्टत्वाविनियुक्तत्वे तस्य प्रसज्येयाताम्। इष्यते हि तत्सृष्टत्वं तद्विनियुक्तत्वं च सर्वस्यान्नजातस्य। न च वैश्वदेवाख्यं शास्त्रोक्तं कर्म कुर्वतः पाप्मनोऽविनिवृत्तिर्युक्ता। न च तस्य प्रतिषेधोऽस्ति। न च मत्स्यबन्धनादिकर्मवत्स्वभावजुगुप्सितमेतत् , शिष्टनिर्वर्त्यत्वात् , अकरणे च प्रत्यवायश्रवणात्। इतरत्र च प्रत्यवायोपपत्तेः, ‘अहमन्नमन्नमदन्तमद्मि’ (तै. उ. ३। १०। ६) इति मन्त्रवर्णात् ॥
द्वे देवानभाजयदिति मन्त्रपदम् ; ये द्वे अन्ने सृष्ट्वा देवानभाजयत् , के ते द्वे इत्युच्यते — हुतं च प्रहुतं च। हुतमित्यग्नौ हवनम् , प्रहुतं हुत्वा बलिहरणम्। यस्मात् द्वे एते अन्ने हुतप्रहुते देवानभाजयत्पिता, तस्मात् एतर्ह्यपि गृहिणः काले देवेभ्यो जुह्वति देवेभ्य इदमन्नमस्माभिर्दीयमानमिति मन्वाना जुह्वति, प्रजुह्वति च हुत्वा बलिहरणं च कुर्वत इत्यर्थः। अथो अप्यन्य आहुः — द्वे अन्ने पित्रा देवेभ्यः प्रत्ते न हुतप्रहुते, किं तर्हि दर्शपूर्णमासाविति। द्वित्वश्रवणाविशेषात् अत्यन्तप्रसिद्धत्वाच्च हुतप्रहुते इति प्रथमः पक्षः। यद्यपि द्वित्वं हुतप्रहुतयोः सम्भवति, तथापि श्रौतयोरेव तु दर्शपूर्णमासयोर्देवान्नत्वं प्रसिद्धतरम् , मन्त्रप्रकाशितत्वात् ; गुणप्रधानप्राप्तौ च प्रधाने प्रथमतरा अवगतिः ; दर्शपूर्णमासयोश्च प्राधान्यं हुतप्रहुतापेक्षया ; तस्मात्तयोरेव ग्रहणं युक्तम् — द्वे देवानभाजयदिति। यस्माद्देवार्थमेते पित्रा प्रक्लृप्ते दर्शपूर्णमासाख्ये अन्ने, तस्मात् तयोर्देवार्थत्वाविघाताय नेष्टियाजुकः इष्टियजनशीलः ; इष्टिशब्देन किल काम्या इष्टयः ; शातपथी इयं प्रसिद्धिः ; ताच्छील्यप्रत्ययप्रयोगात्काम्येष्टियजनप्रधानो न स्यादित्यर्थः ॥
पशुभ्य एकं प्रायच्छदिति — यत्पशुभ्य एकं प्रायच्छत्पिता, किं पुनस्तदन्नम् ? तत्पयः। कथं पुनरवगम्यते पशवोऽस्यान्नस्य स्वामिन इत्यत आह — पयो हि अग्रे प्रथमं यस्मात् मनुष्याश्च पशवश्च पय एवोपजीवन्तीति ; उचितं हि तेषां तदन्नम् , अन्यथा कथं तदेवाग्रे नियमेनोपजीवेयुः। कथमग्रे तदेवोपजीवन्तीति उच्यते — मनुष्याश्च पशवश्च यस्मात् तेनैवान्नेन वर्तन्ते अद्यत्वेऽपि, यथा पित्रा आदौ विनियोगः कृतः तथा ; तस्मात् कुमारं बालं जातं घृतं वा त्रैवर्णिका जातकर्मणि जातरूपसंयुक्तं प्रतिलेहयन्ति प्राशयन्ति ; स्तनं वा अनुधापयन्ति पश्चात् पाययन्ति यथासम्भवम् अन्येषाम् ; स्तनमेवाग्रे धापयन्ति मनुष्येभ्योऽन्येषां पशूनाम्। अथ वत्सं जातमाहुः कियत्प्रमाणो वत्स इत्येवं पृष्टाः सन्तः — अतृणाद इति — नाद्यापि तृणमत्ति, अतीव बालः पयसैवाद्यापि वर्तत इत्यर्थः। यच्च अग्रे जातकर्मादौ घृतमुपजीवन्ति, यच्च इतरे पय एव, तत् सर्वथापि पय एवोपजीवन्ति ; घृतस्यापि पयोविकारत्वात्पयस्त्वमेव। कस्मात्पुनः सप्तमं सत् पश्वन्नं चतुर्थत्वेन व्याख्यायते ? कर्मसाधनत्वात् ; कर्म हि पयःसाधनाश्रयम् अग्निहोत्रादि ; तच्च कर्म साधनं वित्तसाध्यं वक्ष्यमाणस्यान्नत्रयस्य साध्यस्य, यथा दर्शपूर्णमासौ पूर्वोक्तावन्ने ; अतः कर्मपक्षत्वात् कर्मणा सह पिण्डीकृत्योपदेशः ; साधनत्वाविशेषात् अर्थसम्बन्धात् आनन्तर्यमकारणमिति च ; व्याख्याने प्रतिपत्तिसौकर्याच्च — सुखं हि नैरन्तर्येण व्याख्यातुं शक्यन्तेऽन्नानि व्याख्यातानि च सुखं प्रतीयन्ते। तस्मिन्सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च नेत्यस्य कोऽर्थ इत्युच्यते — तस्मिन् पश्वन्ने पयसि, सर्वम् अध्यात्माधिभूताधिदैवलक्षणं कृत्स्नं जगत् प्रतिष्ठितम् — यच्च प्राणिति प्राणचेष्टावत् , यच्च न स्थावरं शैलादि। तत्र हि - शब्देनैव प्रसिद्धावद्योतकेन व्याख्यातम्। कथं पयोद्रव्यस्य सर्वप्रतिष्ठात्वम् ? कारणत्वोपपत्तेः ; कारणत्वं च अग्निहोत्रादिकर्मसमवायित्वम् ; अग्निहोत्राद्याहुतिविपरिणामात्मकं च जगत्कृत्स्नमिति श्रुतिस्मृतिवादाः शतशो व्यवस्थिताः ; अतो युक्तमेव हि - शब्देन व्याख्यानम्। यत्तद्ब्राह्मणान्तरेष्विमदमाहुः — संवत्सरं पयसा जुह्वदप पुनर्मृत्युं जयतीति ; संवत्सरेण किल त्रीणि षष्टिशतान्याहुतीनां सप्त च शतानि विंशतिश्चेति याजुष्मतीरिष्टका अभिसम्पद्यमानाः संवत्सरस्य च अहोरात्राणि, संवत्सरमग्निं प्रजापतिमाप्नुवन्ति ; एवं कृत्वा संवत्सरं जुह्वत् अपजयति पुनर्मृत्युम् - इतः प्रेत्य देवेषु सम्भूतः पुनर्न म्रियत इत्यर्थः — इत्येवं ब्राह्मणवादा आहुः। न तथा विद्यात् न तथा द्रष्टव्यम् ; यदहरेव जुहोति तदहः पुनर्मृत्युमपजयति न संवत्सराभ्यासमपेक्षते ; एवं विद्वान्सन् — यदुक्तम् , पयसि हीदं सर्वं प्रतिष्ठितं पयआहुतिविपरिणामात्मकत्वात्सर्वस्येति, तत् — एकेनैवाह्ना जगदात्मत्वं प्रतिपद्यते ; तदुच्यते — अपजयति पुनर्मृत्युं पुनर्मरणम् , सकृन्मृत्वा विद्वान् शरीरेण वियुज्य सर्वात्मा भवति न पुनर्मरणाय परिच्छिन्नं शरीरं गृह्णातीत्यर्थः। कः पुनर्हेतुः, सर्वात्माप्त्या मृत्युमपजयतीति ? उच्यते — सर्वं समस्तं हि यस्मात् देवेभ्यः सर्वेभ्यः अन्नाद्यम् अन्नमेव तदाद्यं च सायम्प्रातराहुतिप्रक्षेपेण प्रयच्छति। तद्युक्तम् — सर्वमाहुतिमयमात्मानं कृत्वा सर्वदेवान्नरूपेण सर्वैः देवैः एकात्मभावं गत्वा सर्वदेवमयो भूत्वा पुनर्न म्रियत इति। अथैतदप्युक्तं ब्राह्मणेन — ‘ब्रह्म वै स्वयम्भु तपोऽतप्यत, तदैक्षत न वै तपस्यानन्त्यमस्ति हन्ताहं भूतेष्वात्मानं जुहवानि भूतानि चात्मनीति, तत्सर्वेषु भूतेष्वात्मानं हुत्वा भूतानि चात्मनि सर्वेषां भूतानां श्रैष्ठ्यं स्वाराज्यमाधिपत्यं पर्येत्’ (शत. ब्रा. १३। ७। १। १) इति ॥
कस्मात्तानि न क्षीयन्तेऽद्यमानानि सर्वदेति। यदा पित्रा अन्नानि सृष्ट्वा सप्त पृथक्पृथग्भोक्तृभ्यः प्रत्तानि, तदा प्रभृत्येव तैर्भोक्तृभिरद्यमानानि — तन्निमित्तत्वात्तेषां स्थितेः — सर्वदा नैरन्तर्येण ; कृतक्षयोपपत्तेश्च युक्तस्तेषां क्षयः ; न च तानि क्षीयमाणानि, जगतोऽविभ्रष्टरूपेणैवावस्थानदर्शनात् ; भवितव्यं च अक्षयकारणेन ; तस्मात् कस्मात्पुनस्तानि न क्षीयन्त इति प्रश्नः। तस्येदं प्रतिवचनम् — पुरुषो वा अक्षितिः। यथा असौ पूर्वमन्नानां स्रष्टासीत्पिता मेधया जायादिसम्बद्धेन च पाङ्क्तकर्मणा भोक्ता च तथा येभ्यो दत्तान्यन्नानि तेऽपि तेषामन्नानां भोक्तारोऽपि सन्तः पितर एव — मेधया तपसा च यतो जनयन्ति तान्यन्नानि। तदेतदभिधीयते पुरुषो वै योऽन्नानां भोक्ता सः अक्षितिः अक्षयहेतुः। कथमस्याक्षितित्वमित्युच्यते — सः हि यस्मात् इदं भुज्यमानं सप्तविधं कार्यकरणलक्षणं क्रियाफलात्मकं पुनः पुनः भूयो भूयः जनयते उत्पादयति, धिया धिया तत्तत्कालभाविन्या तया तया प्रज्ञया, कर्मभिश्च वाङ्मनःकायचेष्टितैः ; यत् यदि ह यद्येतत्सप्तविधमन्नमुक्तं क्षणमात्रमपि न कुर्यात्प्रज्ञया कर्मभिश्च, ततो विच्छिद्येत भुज्यमानत्वात्सातत्येन क्षीयेत ह। तस्मात् यथैवायं पुरुषो भोक्ता अन्नानां नैरन्तर्येण यथाप्रज्ञं यथाकर्म च करोत्यपि ; तस्मात् पुरुषोऽक्षितिः, सातत्येन कर्तृत्वात् ; तस्मात् भुज्यमानान्यप्यन्नानि न क्षीयन्त इत्यर्थः। अतः प्रज्ञाक्रियालक्षणप्रबन्धारूढः सर्वो लोकः साध्यसाधनलक्षणः क्रियाफलात्मकः संहतानेकप्राणिकर्मवासनासन्तानावष्टब्धत्वात् क्षणिकः अशुद्धः असारः नदीस्रोतःप्रदीपसन्तानकल्पः कदलीस्तम्भवदसारः फेनमायामरीच्यम्भःस्वप्नादिसमः तदात्मगतदृष्टीनामविकीर्यमाणो नित्यः सारवानिव लक्ष्यते ; तदेतद्वैराग्यार्थमुच्यते — धिया धिया जनयते कर्मभिर्यद्धैतन्न कुर्यात्क्षीयेत हेति — विरक्तानां ह्यस्मात् ब्रह्मविद्या आरब्धव्या चतुर्थप्रमुखेनेति। यो वैतामक्षितिं वेदेति। वक्ष्यमाणान्यपि त्रीण्यन्नानि अस्मिन्नवसरे व्याख्यातान्येवेति कृत्वा तेषां याथात्म्यविज्ञानफलमुपसंह्रियते — यो वा एतामक्षितिम् अक्षयहेतुं यथोक्तं वेद - पुरुषो वा अक्षितिः स हीदमन्न धिया धिया जनयते कर्मभिर्यद्धैतन्न कुर्यात्क्षीयेत हेति — सोऽन्नमत्ति प्रतीकेनेत्यस्यार्थ उच्यते — मुखं मुख्यत्वं प्राधान्यमित्येतत् , प्राधान्येनैव, अन्नानां पितुः पुरुषस्याक्षितित्वं यो वेद, सोऽन्नमत्ति, नान्नं प्रति गुणभूतः सन् , यथा अज्ञः न तथा विद्वान् अन्नानामात्मभूतः — भोक्तैव भवति न भोज्यतामापद्यते। स देवानपिगच्छति स ऊर्जमुपजीवति — देवानपिगच्छति देवात्मभावं प्रतिपद्यते, ऊर्जममृतं च उपजीवतीति यदुक्तम् , सा प्रशंसा ; नापूर्वार्थोऽन्योऽस्ति ॥
त्रीण्यात्मनेऽकुरुतेति मनो वाचं प्राणं तान्यात्मनेऽकुरुतान्यत्रमना अभूवं नादर्शमन्यत्रमना अभूवं नाश्रौषमिति मनसा ह्येव पश्यति मनसा शृणोति। कामः सङ्कल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिरधृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं मन एव तस्मादपि पृष्ठत उपस्पृष्टो मनसा विजानाति यः कश्च शब्दो वागेव सा। एषा ह्यन्तमायत्तैषा हि न प्राणोऽपानो व्यान उदानः समानोऽन इत्येतत्सर्वं प्राण एवैतन्मयो वा अयमात्मा वाङ्मयो मनोमयः प्राणमयः ॥ ३ ॥
पाङ्क्तस्य कर्मणः फलभूतानि यानि त्रीण्यन्नान्युपक्षिप्तानि तानि कार्यत्वात् विस्तीर्णविषयत्वाच्च पूर्वेभ्योऽन्नेभ्यः पृथगुत्कृष्टानि ; तेषां व्याख्यानार्थ उत्तरो ग्रन्थ आ ब्राह्मणपरिसमाप्तेः। त्रीण्यात्मनेऽकुरुतेति कोऽस्यार्थ इत्युच्यते — मनः वाक् प्राणः, एतानि त्रीण्यन्नानि ; तानि मनः वाचं प्राणं च आत्मने आत्मार्थम् अकुरुत कृतवान् सृष्ट्वा आदौ पिता। तेषां मनसोऽस्तित्वं स्वरूपं च प्रति संशय इत्यत आह — अस्ति तावन्मनः श्रोत्रादिबाह्यकरणव्यतिरिक्तम् ; यत एवं प्रसिद्धम् — बाह्यकरणविषयात्मसम्बन्धे सत्यपि अभिमुखीभूतं विषयं न गृह्णाति, किं दृष्टवानसीदं रूपमित्युक्तो वदति — अन्यत्र मे गतं मन आसीत् सोऽहमन्यत्रमना आसं नादर्शम् , तथेदं श्रुतवानसि मदीयं वच इत्युक्तः अन्यत्रमना अभूवम् नाश्रौषं न श्रुतवानस्मीति। तस्मात् यस्यासन्निधौ रूपादिग्रहणसमर्थस्यापि सतः चक्षुरादेः स्वस्वविषयसम्बन्धे रूपशब्दादिज्ञानं न भवति, यस्य च भावे भवति, तत् अन्यत् अस्ति मनो नामान्तःकरणं सर्वकरणविषययोगीत्यवगम्यते। तस्मात्सर्वो हि लोको मनसा ह्येव पश्यति मनसा शृणोति, तद्व्यग्रत्वे दर्शनाद्यभावात् ॥
अस्तित्वे सिद्धे मनसः स्वरूपार्थमिदमुच्यते — कामः स्त्रीव्यतिकराभिलाषादिः, सङ्कल्पः प्रत्युपस्थितविषयविकल्पनं शुक्लनीलादिभेदेन, विचिकित्सा संशयज्ञानम् , श्रद्धा अदृष्टार्थेषु कर्मसु आस्तिक्यबुद्धिः देवतादिषु च, अश्रद्धा तद्विपरीता बुद्धिः, धृतिः धारणं देहाद्यवसाने उत्तम्भनम् , अधृतिः तद्विपर्ययः, ह्रीः लज्जा, धीः प्रज्ञा, भीः भयम् इत्येतदेवमादिकं सर्वं मन एव ; मनसोऽन्तःकरणस्य रूपाण्येतानि। मनोऽस्तित्वं प्रत्यन्यच्च कारणमुच्यते — तस्मान्मनो नामास्त्यन्तःकरणम् , यस्माच्चक्षुषो ह्यगोचरे पृष्ठतोऽप्युपस्पृष्टः केनचित् हस्तस्यायं स्पर्शः जानोरयमिति विवेकेन प्रतिपद्यते ; यदि विवेककृत् मनो नाम नास्ति तर्हि त्वङ्मात्रेण कुतो विवेकप्रतिपत्तिः स्यात् ; यत्तत् विवेकप्रतिपत्तिकारणं तन्मनः ॥
अस्ति तावन्मनः, स्वरूपं च तस्याधिगतम्। त्रीण्यन्नानीह फलभूतानि कर्मणां मनोवाक्प्राणाख्यानि अध्यात्ममधिभूतमधिदैवं च व्याचिख्यासितानि। तत्र आध्यात्मिकानां वाङ्मनःप्राणानां मनो व्याख्यातम्। अथेदानीं वाग्वक्तव्येत्यारम्भः — यः कश्चित् लोके शब्दो ध्वनिः ताल्वादिव्यङ्ग्यः प्राणिभिः वर्णादिलक्षणः इतरो वा वादित्रमेघादिनिमित्तः सर्वो ध्वनिः वागेव सा। इदं तावद्वाचः स्वरूपमुक्तम्। अथ तस्याः कार्यमुच्यते — एषा वाक् हि यस्मात् अन्तम् अभिधेयावसानम् अभिधेयनिर्णयम् आयत्ता अनुगता। एषा पुनः स्वयं नाभिधेयवत् प्रकाश्या अभिधेयप्रकाशिकैव प्रकाशात्मकत्वात् प्रदीपादिवत् ; न हि प्रदीपादिप्रकाशः प्रकाशान्तरेण प्रकाश्यते ; तद्वत् वाक् प्रकाशिकैव स्वयं न प्रकाश्या — इति अनवस्थां श्रुतिः परिहरति — एषा हि न प्रकाश्या, प्रकाशकत्वमेव वाचः कार्यमित्यर्थः ॥
अथ प्राण उच्यते — प्राणः मुखनासिकासञ्चार्या हृदयवृत्तिः प्रणयनात्प्राणः, अपनयनान्मूत्रपुरीषादेरपानः अधोवृत्तिः आ नाभिस्थानः, व्यानः व्यायमनकर्मा व्यानः प्राणापानयोः सन्धिः वीर्यवत्कर्महेतुश्च, उदानः उत्कर्षोर्ध्वगमनादिहेतुः आपादतलमस्तकस्थान ऊर्ध्ववृत्तिः, समान समं नयनाद्भुक्तस्य पीतस्य च कोष्ठस्थानोऽन्नपक्ता, अन इत्येषां वृत्तिविशेषाणां सामान्यभूता सामान्यदेहचेष्टाभिसम्बन्धिनी वृत्तिः — एवं यथोक्तं प्राणादिवृत्तिजातमेतत्सर्वं प्राण एव। प्राण इति वृत्तिमानाध्यात्मिकः अन उक्तः ; कर्म च अस्य वृत्तिभेदप्रदर्शनेनैव व्याख्यातम् ; व्याख्यातान्याध्यात्मिकानि मनोवाक्प्राणाख्यानि अन्नानि ; एतन्मय एतद्विकारः प्राजापत्यैरेतैर्वाङ्मनःप्राणैरारब्धः। कोऽसावयं कार्यकरणसङ्घातः ? आत्मा पिण्डः आत्मस्वरूपत्वेनाभिमतोऽविवेकिभिः — अविशेषेणैतन्मय इत्युक्तस्य विशेषेण वाङ्मयो मनोमयः प्राणमय इति स्फुटीकरणम् ॥
तेषामेव प्राजापत्यानामन्नानामाधिभौतिको विस्तारोऽभिधीयते —
त्रयो लोका एत एव वागेवायं लोको मनोऽन्तरिक्षलोकः प्राणोऽसौ लोकः ॥ ४ ॥
त्रयो लोकाः भूर्भुवःस्वरित्याख्याः एत एव वाङ्मनःप्राणाः ; तत्र विशेषः — वागेवायं लोकः, मनोऽन्तरिक्षलोकः, प्राणोऽसौ लोकः ॥
त्रयो वेदा एत एव वागेवर्ग्वेदो मनो यजुर्वेदः प्राणः सामवेदः ॥ ५ ॥
देवाः पितरो मनुष्या एत एव वागेव देवा मनः पितरः प्राणो मनुष्याः ॥ ६ ॥
पिता माता प्रजैत एव मन एव पिता वाङ्माता प्राणः प्रजा ॥ ७ ॥
तथा त्रयो वेदा इत्यादीनि वाक्यानि ऋज्वर्थानि ॥
विज्ञातं विजिज्ञास्यमविज्ञातमेत एव यत्किञ्च विज्ञातं वाचस्तद्रूपं वाग्घि विज्ञाता वागेनं तद्भूत्वावति ॥ ८ ॥
विज्ञातं विजिज्ञास्यम् अविज्ञातम् एत एव ; तत्र विशेषः यत्किञ्च विज्ञातं विस्पष्टं ज्ञातं वाचस्तद्रूपम् ; तत्र स्वयमेव हेतुमाह — वाक् हि विज्ञाता, प्रकाशात्मकत्वात् ; कथमविज्ञाता भवेत् या अन्यानपि विज्ञापयति ; [‘वाचैव सम्राड्बन्धुः प्रज्ञायते’ (बृ. उ. ४। १। २)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=4&id=BR_C04_S01_V02&hl=वाचैव सम्राड्बन्धुः प्रज्ञायते) इति हि वक्ष्यति। वाग्विशेषविद इदं फलमुच्यते — वागेव एनं यथोक्तवाग्विभूतिविदं तत् विज्ञातं भूत्वा अवति पालयति, विज्ञातरूपेणैवास्यान्नं भोज्यतां प्रतिपद्यत इत्यर्थः ॥
यत्किञ्च विजिज्ञास्यं मनसस्तद्रूपं मनो हि विजिज्ञास्यं मन एवं तद्भूत्वावति ॥ ९ ॥
तथा यत्किञ्च विजिज्ञास्यम् , विस्पष्टं ज्ञातुमिष्टं विजिज्ञास्यम् , तत्सर्वं मनसो रूपम् ; मनः हि यस्मात् सन्दिह्यमानाकारत्वाद्विजिज्ञास्यम्। पूर्ववन्मनोविभूतिविदः फलम् — मन एनं तत् विजिज्ञास्यं भूत्वा अवति विजिज्ञास्यस्वरूपेणैवान्नत्वमापद्यते ॥
यत्किञ्चाविज्ञातं प्राणस्य तद्रूपं प्राणो ह्यविज्ञातः प्राण एनं तद्भूत्वावति ॥ १० ॥
तथा यत्किञ्च अविज्ञातं विज्ञानागोचरं न च सन्दिह्यमानम् , प्राणस्य तद्रूपम् ; प्राणो ह्यविज्ञातः अविज्ञातरूपः हि यस्मात् प्राणः — अनिरुक्तश्रुतेः। विज्ञातविजिज्ञास्याविज्ञातभेदेन वाङ्मनःप्राणविभागे स्थिते त्रयो लोका इत्यादयो वाचनिका एव। सर्वत्र विज्ञातादिरूपदर्शनाद्वचनादेव नियमः स्मर्तव्यः। प्राण एनं तद्भूत्वावति — अविज्ञातरूपेणैवास्य प्राणोऽन्नं भवतीत्यर्थः। शिष्यपुत्रादिभिः सन्दिह्यमानाविज्ञातोपकारा अप्याचार्यपित्रादयो दृश्यन्ते ; तथा मनःप्राणयोरपि सन्दिह्यमानाविज्ञातयोरन्नत्वोपपत्तिः ॥
व्याख्यातो वाङ्मनःप्राणानामाधिभौतिको विस्तारः ; अथायमाधिदैविकार्थ आरम्भः —
तस्यै वाचः पृथिवी शरीरं ज्योतीरूपमयमग्निस्तद्यावत्येव वाक्तावती पृथिवी तावानयमग्निः ॥ ११ ॥
तस्यै तस्याः वाचः प्रजापतेरन्नत्वेन प्रस्तुतायाः पृथिवी शरीरं बाह्य आधारः, ज्योतीरूपं प्रकाशात्मकं करणं पृथिव्या आधेयभूतम् अयं पार्थिवोऽग्निः। द्विरूपा हि प्रजापतेः वाक् कार्यं आधारः अप्रकाशः, करणं च आधेयं प्रकाशः तदुभयं पृथिव्यग्नी वागेव प्रजापतेः। तत् तत्र यावत्येव यावत्परिमाणैव अध्यात्माधिभूतभेदभिन्ना सती वाग्भवति, तत्र सर्वत्र आधारत्वेन पृथिवी व्यवस्थिता तावत्येव भवति कार्यभूता ; तावानयमग्निः आधेयः — करणरूपो ज्योतीरूपेण पृथिवीमनुप्रविष्टस्तावानेव भवति। समानमुत्तरम् ॥
अथैतस्य मनसो द्यौः शरीरं ज्योतीरूपमसावादित्यस्तद्यावदेव मनस्तावती द्यौस्तावानसावादित्यस्तौ मिथुनं समैतां ततः प्राणोऽजायत स इन्द्रः स एषोऽसपत्नो द्वितीयो वै सपत्नो नास्य सपत्नो भवति य एवं वेद ॥ १२ ॥
अथैतस्य प्राजापत्यान्नोक्तस्यैव मनसः द्यौः द्युलोकः शरीरं कार्यम् आधारः, ज्योतीरूपं करणम् आधेयः असावादित्यः। तत् तत्र यावत्परिमाणमेवाध्यात्ममधिभूतं वा मनः, तावती तावद्विस्तारा तावत्परिमाणा मनसो ज्योतीरूपस्य करणस्य आधारत्वेन व्यवस्थिता द्यौः ; तावानसावादित्यो ज्योतीरूपं करणमाधेयम् ; तावग्न्यादित्यौ वाङ्मनसे आधिदैविके मातापितरौ मिथुनं मैथुन्यम् इतरेतरसंसर्गं समैतां समगच्छेताम् — मनसा आदित्येन प्रसूतं पित्रा, वाचा अग्निना मात्रा प्रकाशितं कर्म करिष्यामीति — अन्तरा रोदस्योः। ततः तयोरेव सङ्गमनात् प्राणो वायुरजायत परिस्पन्दाय कर्मणे। यो जातः स इन्द्रः परमेश्वरः ; न केवलमिन्द्र एव, असपत्नः अविद्यमानः सपत्नो यस्य ; कः पुनः सपत्नो नाम ? द्वितीयो वै प्रतिपक्षत्वेनोपगतः स द्वितीयः सपत्न इत्युच्यते। तेन द्वितीयत्वेऽपि सति वाङ्मनसे न सपत्नत्वं भजेते ; प्राणं प्रति गुणभावोपगते एव हि ते अध्यात्ममिव। तत्र प्रासङ्गिकासपत्नविज्ञानफलमिदम् — नास्य विदुषः सपत्नः प्रतिपक्षो भवति, य एवं यथोक्तं प्राणम् असपत्नं वेद ॥
अथैतस्य प्राणस्यापः शरीरं ज्योतीरूपमसौ चन्द्रस्तद्यावानेव प्राणस्तावत्य आपस्तावानसौ चन्द्रस्त एते सर्व एव समाः सर्वेऽनन्ताः स यो हैतानन्तवत उपास्तेऽन्तवन्तं स लोकं जयत्यथ यो हैताननन्तानुपास्तेऽनन्तं स लोकं जयति ॥ १३ ॥
अथैतस्य प्रकृतस्य प्राजापत्यान्नस्य प्राणस्य, न प्रजोक्तस्य अनन्तरनिर्दिष्टस्य, आपः शरीरं कार्यं करणाधारः ; पूर्ववत् ज्योतीरूपमसौ चन्द्रः ; तत्र यावानेव प्राणः यावत्परिमाणः अध्यात्मादिभेदेषु, तावद्व्याप्तिमत्य आपः तावत्परिमाणाः ; तावानसौ चन्द्र अबाधेयः तास्वप्स्वनुप्रविष्टः करणभूतः अध्यात्ममधिभूतं च तावद्व्याप्तिमानेव। तान्येतानि पित्रा पाङ्क्तेन कर्मणा सृष्टानि त्रीण्यन्नानि वाङ्मनः प्राणाख्यानि ; अध्यात्ममधिभूतं च जगत्समस्तम् एतैर्व्याप्तम् ; नैतेभ्योऽन्यदतिरिक्तं किञ्चिदस्ति कार्यात्मकं करणात्मकं वा। समस्तानि त्वेतानि प्रजापतिः त एते वाङ्मनःप्राणाः सर्व एव समाः तुल्याः व्याप्तिमन्तः यावत्प्राणिगोचरं साध्यात्माधिभूतं व्याप्य व्यवस्थिताः ; अत एवानन्ता यावत्संसारभाविनो हि ते। न हि कार्यकरणप्रत्याख्यानेन संसारोऽवगम्यते ; कार्यकरणात्मका हि त इत्युक्तम्। स यः कश्चित् ह एतान् प्रजापतेरात्मभूतान् अन्तवतः परिच्छिन्नान् अध्यात्मरूपेण वा अधिभूतरूपेण वा उपास्ते, स च तदुपासनानुरूपमेव फलम् अन्तवन्तं लोकं जयति, परिच्छिन्न एव जायते, नैतेषामात्मभूतो भवतीत्यर्थः। अथ पुनः यः ह एताननन्तान् सर्वात्मकान् सर्वप्राण्यात्मभूतान् अपरिच्छिन्नान् उपास्ते, सोऽनन्तमेव लोकं जयति ॥
पिता पाङ्क्तेन कर्मणा सप्तान्नानि सृष्ट्वा त्रीण्यन्नान्यात्मार्थमकरोदित्युक्तम् ; तान्येतानि पाङ्क्तकर्मफलभूतानि व्याख्यातानि ; तत्र कथं पुनः पाङ्क्तस्य कर्मणः फलमेतानीति उच्यते — यस्मात्तेष्वपि त्रिष्वन्नेषु पाङ्क्तता अवगम्यते, वित्तकर्मणोरपि तत्र सम्भवात् ; तत्र पृथिव्यग्नी माता, दिवादित्यौ पिता, योऽयमनयोरन्तरा प्राणः स प्रजेति व्याख्यातम्। तत्र वित्तकर्मणी सम्भावयितव्ये इत्यारम्भः —
स एष संवत्सरः प्रजापतिः षोडशकलस्तस्य रात्रय एव पञ्चदश कला ध्रुवैवास्य षोडशी कला स रात्रिभिरेवा च पूर्यतेऽप च क्षीयते सोऽमावास्यां रात्रिमेतया षोडश्या कलया सर्वमिदं प्राणभृदनुप्रविश्य ततः प्रातर्जायते तस्मादेतां रात्रिं प्राणभृतः प्राणं न विच्छिन्द्यादपि कृकलासस्यैतस्या एव देवताया अपचित्यै ॥ १४ ॥
स एष संवत्सरः — योऽयं त्र्यन्नात्मा प्रजापतिः प्रकृतः, स एष संवत्सरात्मना विशेषतो निर्दिश्यते। षोडशकलः षोडश कला अवयवा अस्य सोऽयं षोडशकलः संवत्सरः संवत्सरात्मा कालरूपः। तस्य च कालात्मनः प्रजापतेः रात्रय एव अहोरात्राणि — तिथय इत्यर्थः — पञ्चदशा कलाः। ध्रुवैव नित्यैव व्यवस्थिता अस्य प्रजापतेः षोडशी षोडशानां पूरणी कला। रात्रिभिरेव तिथिभिः कलोक्ताभिः आपूर्यते च अपक्षीयते च प्रतिपदाद्याभिर्हि चन्द्रमाः प्रजापतिः शुक्लपक्ष आपूर्यते कलाभिरुपचीयमानाभिर्वर्धते यावत्सम्पूर्णमण्डलः पौर्णमास्याम् ; ताभिरेवापचीयमानाभिः कलाभिरपक्षीयते कृष्णपक्षे यावद्ध्रुवैका कला व्यवस्थिता अमावास्यायाम्। स प्रजापतिः कालात्मा अमावास्याम् अमावास्यायाम् रात्रिं रात्रौ या व्यवस्थिता ध्रुवा कलोक्ता एतया षोडश्या कलया सर्वमिदं प्राणभृत् प्राणिजातम् अनुप्रविश्य — यदपः पिबति यच्चौषधीरश्नाति तत्सर्वमेव ओषध्यात्मना सर्वं व्याप्य — अमावास्यां रात्रिमवस्थाय ततोऽपरेद्युः प्रातर्जायते द्वितीयया कलया संयुक्तः। एवं पाङ्क्तात्मकोऽसौ प्रजापतिः — दिवादित्यौ मनः पिता, पृथिव्यग्नी वाक् जाया माता, तयोश्च प्राणः प्रजा, चान्द्रमस्यस्तिथयः कला वित्तम् — उपचयापचयधर्मित्वात् वित्तवत् , तासां च कलानां कालावयवानां जगत्परिणामहेतुत्वं कर्म ; एवमेष कृत्स्नः प्रजापतिः — जाया मे स्यात् , अथ प्रजायेय, अथ वित्तं मे स्यात् , अथ कर्म कुर्वीय — इत्येषणानुरूप एव पाङ्क्तस्य कर्मणः फलभूतः संवृत्तः ; कारणानुविधायि हि कार्यमिति लोकेऽपि स्थितिः। यस्मादेष चन्द्र एतां रात्रिं सर्वप्राणिजातमनुप्रविष्टो ध्रुवया कलया वर्तते, तस्माद्धेतोः एताममावास्यां रात्रिं प्राणभृतः प्राणिनः प्राणं न विच्छिन्द्यात् — प्राणिनं न प्रमापयेदित्येतत् — अपि कृकलासस्य — कृकलासो हि पापात्मा स्वभावेनैव हिंस्यते प्राणिभिः दृष्टोऽप्यमङ्गल इति कृत्वा। ननु प्रतिषिद्धैव प्राणिहिंसा ‘अहिंसन् सर्वभूतान्यन्यत्र तीर्थेभ्यः’ इति ; बाढं प्रतिषिद्धा, तथापि न अमावास्याया अन्यत्र प्रतिप्रसवार्थं वचनं हिंसायाः कृकलासविषये वा, किं तर्हि एतस्याः सोमदेवताया अपचित्यै पूजार्थम् ॥
यो वै स संवत्सरः प्रजापतिः षोडशकलोऽयमेव स योऽयमेवंवित्पुरुषस्तस्य वित्तमेव पञ्चदश कला आत्मैवास्य षोडशी कला स वित्तेनैवा च पूर्यतेऽप च क्षीयते तदेतन्नभ्यं यदयमात्मा प्रधिर्वित्तं तस्माद्यद्यपि सर्वज्यानिं जीयत आत्मना चेज्जीवति प्रधिनागादित्येवाहुः ॥ १५ ॥
यो वै परोक्षाभिहितः संवत्सरः प्रजापतिः षोडशकलः, स नैव अत्यन्तं परोक्षो मन्तव्यः, यस्मादयमेव स प्रत्यक्ष उपलभ्यते ; कोऽसावयम् ? यो यथोक्तं त्र्यन्नात्मकं प्रजापतिमात्मभूतं वेत्ति स एवंवित्पुरुषः ; केन सामान्येन प्रजापतिरिति तदुच्यते — तस्य एवंविदः पुरुषस्य गवादिवित्तमेव पञ्चदश कलाः, उपचयापचयधर्मित्वात् — वित्तसाध्यं च कर्म ; तस्य कृत्स्नतायै — आत्मैव पिण्ड एव अस्य विदुषः षोडशी कला ध्रुवस्थानीया ; स चन्द्रवत् वित्तेनैव आपूर्यते च अपक्षीयते च ; तदेतत् लोके प्रसिद्धम् ; तदेतत् नभ्यम् नाभ्यै हितं नभ्यम् नाभिं वा अर्हतीति — किं तत् ? यदयं योऽयम् आत्मा पिण्डः ; प्रधिः वित्तं परिवारस्थानीयं बाह्यम् — चक्रस्येवारनेम्यादि। तस्मात् यद्यपि सर्वज्यानिं सर्वस्वापहरणं जीयते हीयते ग्लानिं प्राप्नोति, आत्मना चक्रनाभिस्थानीयेन चेत् यदि जीवति, प्रधिना बाह्येन परिवारेण अयम् अगात् क्षीणोऽयम् — यथा चक्रमरनेमिविमुक्तम् — एवमाहुः ; जीवंश्चेदरनेमिस्थानीयेन वित्तेन पुनरुपचीयत इत्यभिप्रायः ॥
एवं पाङ्क्तेन दैववित्तविद्यासंयुक्तेन कर्मणा त्र्यन्नात्मकः प्रजापतिर्भवतीति व्याख्यातम् ; अनन्तरं च जायादिवित्तं परिवारस्थानीयमित्युक्तम्। तत्र पुत्रकर्मापरविद्यानां लोकप्राप्तिसाधनत्वमात्रं सामान्येनावगतम् ; न पुत्रादीनां लोकप्राप्तिफलं प्रति विशेषसम्बन्धनियमः। सोऽयं पुत्रादीनां साधनानां साध्यविशेषसम्बन्धो वक्तव्य इत्युत्तरकण्डिका प्रणीयते —
अथ त्रयो वाव लोका मनुष्यलोकः पितृलोको देवलोक इति सोऽयं मनुष्यलोकः पुत्रेणैव जय्यो नान्येन कर्मणा कर्मणा पितृलोको विद्यया देवलोको देवलोको वै लोकानां श्रेष्ठस्तस्माद्विद्यां प्रशंसन्ति ॥ १६ ॥
अथेति वाक्योपन्यासार्थः। त्रयः — वावेत्यवधारणार्थः — त्रय एव शास्त्रोक्तसाधनार्हा लोकाः, न न्यूना नाधिका वा ; के त इत्युच्यते — मनुष्यलोकः पितृलोको देवलोक इति। तेषां सोऽयं मनुष्यलोकः पुत्रेणैव साधनेन जय्यः जेतव्यः साध्यः — यथा च पुत्रेण जेतव्यस्तथोत्तरत्र वक्ष्यामः — नान्येन कर्मणा, विद्यया वेति वाक्यशेषः। कर्मणा अग्निहोत्रादिलक्षणेन केवलेन पितृलोको जेतव्यः, न पुत्रेण नापि विद्यया। विद्यया देवलोकः, न पुत्रेण नापि कर्मणा। देवलोको वै लोकानां त्रयाणां श्रेष्ठः प्रशस्यतमः ; तस्मात् तत्साधनत्वात् विद्यां प्रशंसन्ति ॥
अथातः सम्प्रत्तिर्यदा प्रैष्यन्मन्यतेऽथ पुत्रमाह त्वं ब्रह्म त्वं यज्ञस्त्वं लोक इति स पुत्रः प्रत्याहाहं ब्रह्माहं यज्ञोऽहं लोक इति यद्वै किञ्चानूक्तं तस्य सर्वस्य ब्रह्मेत्येकता। ये वै के च यज्ञास्तेषां सर्वेषां यज्ञ इत्येकता ये वै के च लोकास्तेषां सर्वेषां लोक इत्येकतैतावद्वा इदं सर्वमेतन्मा सर्वं सन्नयमितोऽभुनजदिति तस्मात्पुत्रमनुशिष्टं लोक्यमाहुस्तस्मादेनमनुशासति स यदैवंविदस्माल्लोकात्प्रैत्यथैभिरेव प्राणैः सह पुत्रमाविशति। स यद्यनेन किञ्चिदक्ष्णयाकृतं भवति तस्मादेनं सर्वस्मात्पुत्रो मुञ्चति तस्मात्पुत्रो नाम स पुत्रेणैवास्मिंल्लोके प्रतितिष्ठत्यथैनमेते दैवाः प्राणा अमृता आविशन्ति ॥ १७ ॥
एवं साध्यलोकत्रयफलभेदेन विनियुक्तानि पुत्रकर्मविद्याख्यानि त्रीणि साधनानि ; जाया तु पुत्रकर्मार्थत्वान्न पृथक्साधनमिति पृथक् नाभिहिता ; वित्तं च कर्मसाधनत्वान्न पृथक्साधनम् ; विद्याकर्मणोर्लोकजयहेतुत्वं स्वात्मप्रतिलाभेनैव भवतीति प्रसिद्धम् ; पुत्रस्य तु अक्रियात्मकत्वात् केन प्रकारेण लोकजयहेतुत्वमिति न ज्ञायते ; अतस्तद्वक्तव्यमिति अथ अनन्तरमारभ्यते — सम्प्रत्तिः सम्प्रदानम् ; सम्प्रत्तिरिति वक्ष्यमाणस्य कर्मणो नामधेयम् ; पुत्रे हि स्वात्मव्यापारसम्प्रदानं करोति अनेन प्रकारेण पिता, तेन सम्प्रत्तिसंज्ञकमिदं कर्म। तत् कस्मिन्काले कर्तव्यमित्याह — स पिता यदा यस्मिन्काले प्रैष्यन् मरिष्यन् मरिष्यामीत्यरिष्टादिदर्शनेन मन्यते, अथ तदा पुत्रमाहूयाह — त्वं ब्रह्म त्वं यज्ञस्त्वं लोक इति। स एवमुक्तः पुत्रः प्रत्याह ; स तु पूर्वमेवानुशिष्टो जानाति मयैतत्कर्तव्यमिति ; तेनाह — अहं ब्रह्म अहं यज्ञः अहं लोक इति एतद्वाक्यत्रयम्। एतस्यार्थस्तिरोहित इति मन्वाना श्रुतिर्व्याख्यानाय प्रवर्तते — यद्वै किञ्च यत्किञ्च अवशिष्टम् अनूक्तम् अधीतमनधीतं च, तस्य सर्वस्यैव ब्रह्मेत्येतस्मिन्पदे एकता एकत्वम् ; योऽध्ययनव्यापारो मम कर्तव्य आसीदेतावन्तं कालं वेदविषयः, सः इत ऊर्ध्वं त्वं ब्रह्म त्वत्कर्तृकोऽस्त्वित्यर्थः। तथा ये वै के च यज्ञा अनुष्ठेयाः सन्तो मया अनुष्ठिताश्चाननुष्ठिताश्च, तेषां सर्वेषां यज्ञ इत्येतस्मिन्पद एकता एकत्वम् ; मत्कर्तृका यज्ञा य आसन् ; ते इत ऊर्ध्वं त्वं यज्ञः त्वत्कर्तृका भवन्त्वित्यर्थः। ये वै के च लोका मया जेतव्याः सन्तो जिता अजिताश्च, तेषां सर्वेषां लोक इत्येतस्मिन्पद एकता ; इत ऊर्ध्वं त्वं लोकः त्वया जेतव्यास्ते। इत ऊर्ध्वं मया अध्ययनयज्ञलोकजयकर्तव्यक्रतुस्त्वयि समर्पितः, अहं तु मुक्तोऽस्मि कर्तव्यताबन्धनविषयात्क्रतोः। स च सर्वं तथैव प्रतिपन्नवान्पुत्रः अनुशिष्टत्वात्। तत्र इमं पितुरभिप्रायं मन्वाना आचष्टे श्रुतिः — एतावत् एतत्परिमाणं वै इदं सर्वम् — यद्गृहिणा कर्तव्यम् , यदुत वेदा अध्येतव्याः, यज्ञा यष्टव्याः, लोकाश्च जेतव्याः ; एतन्मा सर्वं सन्नयम् — सर्वं हि इमं भारं मदधीनं मत्तोऽपच्छिद्य आत्मनि निधाय इतः अस्माल्लोकात् मा माम् अभुनजत् पालयिष्यतीति — लृडर्थे लङ् , छन्दसि कालनियमाभावात्। यस्मादेवं सम्पन्नः पुत्रः पितरम् अस्माल्लोकात्कर्तव्यताबन्धनतो मोचयिष्यति, तस्मात्पुत्रमनुशिष्टं लोक्यं लोकहितं पितुः आहुर्ब्राह्मणाः। अत एव ह्येनं पुत्रमनुशासतिलोक्योऽयं नः स्यादिति — पितरः। स पिता यदा यस्मिन्काले एवंवित् पुत्रसमर्पितकर्तव्यताक्रतुः अस्माल्लोकात् प्रैति म्रियते, अथ तदा एभिरेव प्रकृतैर्वाङ्मनःप्राणैः पुत्रमाविशति पुत्रं व्याप्नोति। अध्यात्मपरिच्छेदहेत्वपगमात् पितुर्वाङ्मनःप्राणाः स्वेन आधिदैविकेन रूपेण पृथिव्यग्न्याद्यात्मना भिन्नघटप्रदीपप्रकाशवत् सर्वम् आविशन्ति ; तैः प्राणैः सह पितापि आविशति वाङ्मनःप्राणात्मभावित्वात्पितुः ; अहमस्म्यनन्ता वाङ्मनःप्राणा अध्यात्मादिभेदविस्ताराः — इत्येवंभावितो हि पिता ; तस्मात् प्राणानुवृत्तित्वं पितुर्भवतीति युक्तमुक्तम् — एभिरेव प्राणैः सह पुत्रमाविशतीति ; सर्वेषां ह्यसावात्मा भवति पुत्रस्य च। एतदुक्तं भवति — यस्य पितुरेवमनुशिष्टः पुत्रो भवति सोऽस्मिन्नेव लोके वर्तते पुत्ररूपेण नैव मृतो मन्तव्य इत्यर्थः ; तथा च श्रुत्यन्तरे — [‘सोऽस्यायमितर आत्मा पुण्येभ्यः कर्मभ्यः प्रतिधीयते’ (ऐ. उ. २। १। ४)](https://advaitasharada.sringeri.net/display/bhashya/Aitareya?page=2&id=AI_C02_S01_V04&hl=सोऽस्यायमितर आत्मा पुण्येभ्यः कर्मभ्यः प्रतिधीयते) इति। अथेदानीं पुत्रनिर्वचनमाह — स पुत्रः यदि कदाचित् अनेन पित्रा अक्ष्णया कोणच्छिद्रतोऽन्तरा अकृतं भवति कर्तव्यम् , तस्मात् कर्तव्यतारूपात्पित्रा अकृतात् सर्वस्माल्लोकप्राप्तिप्रतिबन्धरूपात् पुत्रो मुञ्चति मोचयति तत्सर्वं स्वयमनुतिष्ठन्पूरयित्वा ; तस्मात् पूरणेन त्रायते स पितरं यस्मात् , तस्मात् , पुत्रो नाम ; इदं तत्पुत्रस्य पुत्रत्वम् — यत्पितुश्छिद्रं पूरयित्वा त्रायते। स पिता एवंविधेन पुत्रेण मृतोऽपि सन् अमृतः अस्मिन्नेव लोके प्रतितिष्ठति एवमसौ पिता पुत्रेणेमं मनुष्यलोकं जयति ; न तथा विद्याकर्मभ्यां देवलोकपितृलोकौ, स्वरूपलाभसत्तामात्रेण ; न हि विद्याकर्मणी स्वरूपलाभव्यतिरेकेण पुत्रवत् व्यापारान्तरापेक्षया लोकजयहेतुत्वं प्रतिपद्येते। अथ कृतसम्प्रत्तिकं पितरम् एनम् एते वागादयः प्राणाः दैवाः हैरण्यगर्भाः अमृताः अमरणधर्माण आविशन्ति ॥
पृथिव्यै चैनमग्नेश्च दैवी वागाविशति सा वै दैवी वाग्यया यद्यदेव वदति तत्तद्भवति ॥ १८ ॥
कथमिति वक्ष्यति — पृथिव्यै चैनमित्यादि। एवं पुत्रकर्मापरविद्यानां मनुष्यलोकपितृलोकदेवलोकसाध्यार्थता प्रदर्शिता श्रुत्या स्वयमेव ; अत्र केचिद्वावदूकाः श्रुत्युक्तविशेषार्थानभिज्ञाः सन्तः पुत्रादिसाधनानां मोक्षार्थतां वदन्ति ; तेषां मुखापिधानं श्रुत्येदं कृतम् — जाया मे स्यादित्यादि पाङ्क्तं काम्यं कर्मेत्युपक्रमेण, पुत्रादीनां च साध्यविशेषविनियोगोपसंहारेण च ; तस्मात् ऋणश्रुतिरविद्वद्विषया न परमात्मविद्विषयेति सिद्धम् ; वक्ष्यति च — [‘किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोकः’ (बृ. उ. ४। ४। २२)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=4&id=BR_C04_S04_V22&hl=किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोकः) इति -
केचित्तु पितृलोकदेवलोकजयोऽपि पितृलोकदेवलोकाभ्यां व्यावृत्तिरेव ; तस्मात् पुत्रकर्मापरविद्याभिः समुच्चित्यानुष्ठिताभिः त्रिभ्य एतेभ्यो लोकेभ्यो व्यावृत्तः परमात्मविज्ञानेन मोक्षमधिगच्छतीति परम्परया मोक्षार्थान्येव पुत्रादिसाधनानि इच्छन्ति ; तेषामपि मुखापिधानाय इयमेव श्रुतिरुत्तरा कृतसम्प्रत्तिकस्य पुत्रिणः कर्मिणः त्र्यन्नात्मविद्याविदः फलप्रदर्शनाय प्रवृत्ता। न च इदमेव फलं मोक्षफलमिति शक्यं वक्तुम् , त्र्यन्नसम्बन्धात् मेधातपःकार्यत्वाच्चान्नानाम् पुनः पुनर्जनयत इति दर्शनात् , [‘यद्धैतन्न कुर्यात्क्षीयेत ह’ (बृ. उ. १। ५। २)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=1&id=BR_C01_S05_V02&hl=यद्धैतन्न कुर्यात्क्षीयेत ह) इति च क्षयश्रवणात् , शरीरम् ज्योतीरूपमिति च कार्यकरणत्वोपपत्तेः, [‘त्रयं वा इदम्’ (बृ. उ. १। ६। १)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=1&id=BR_C01_S06_V01&hl=त्रयं वा इदम्) इति च नामरूपकर्मात्मकत्वेनोपसंहारात्। न च इदमेव साधनत्रयं संहतं सत् कस्यचिन्मोक्षार्थं कस्यचित् त्र्यन्नात्मफलमित्यस्मादेव वाक्यादवगन्तुं शक्यम् , पुत्रादिसाधनानां त्र्यन्नात्मफलदर्शनेनैव उपक्षीणत्वाद्वाक्यस्य ॥
पृथिव्यै पृथिव्याः च एनम् अग्नेश्च दैवी अधिदैवात्मिका वाक् एनं कृतसम्प्रत्तिकम् आविशति ; सर्वेषां हि वाच उपादानभूता दैवी वाक् पृथिव्यग्निलक्षणा ; सा ह्याध्यात्मिकासङ्गादिदोषैर्निरुद्धा। विदुषस्तद्दोषापगमे आवरणभङ्ग इवोदकं प्रदीपप्रकाशवच्च व्याप्नोति ; तदेतदुच्यते — पृथिव्या अग्नेश्चैनं दैवी वागाविशतीति। सा च दैवी वाक् अनृतादिदोषरहिता शुद्धा, यया वाचा दैव्या यद्यदेव आत्मने परस्मै वा वदति तत्तत् भवति — अमोघा अप्रतिबद्धा अस्य वाग्भवतीत्यर्थः ॥
दिवश्चैनमादित्याच्च दैवं मन आविशति तद्वै दैवं मनो येनानन्द्येव भवत्यथो न शोचति ॥ १९ ॥
तथा दिवश्चैनमादित्याच्च दैवं मन आविशति — तच्च दैवं मनः, स्वभावनिर्मलत्वात् ; येन मनसा असौ आनन्द्येव भवति सुख्येव भवति ; अथो अपि न शोचति, शोकादिनिमित्तासंयोगात् ॥
अद्भ्यश्चैनं चन्द्रमसश्च दैवः प्राण आविशति स वै दैवः प्राणो यः सञ्चरंश्चासञ्चरंश्च न व्यथतेऽथो न रिष्यति स एवंवित्सर्वेषां भूतानामात्मा भवति यथैषा देवतैवं स यथैतां देवतां सर्वाणि भूतान्यवन्त्यैवं हैवंविदं सर्वाणि भूतान्यवन्ति। यदु किञ्चेमाः प्रजाः शोचन्त्यमैवासां तद्भवति पुण्यमेवामुं गच्छति न ह वै देवान्पापं गच्छति ॥ २० ॥
तथा अद्भ्यश्चैनं चन्द्रमसश्च दैवः प्राण आविशति। स वै दैवः प्राणः किंलक्षण इत्युच्यते — यः सञ्चरन् प्राणिभेदेषु असञ्चरन् समष्टिव्यष्टिरूपेण — अथवा सञ्चरन् जङ्गमेषु असञ्चरन्स्थावरेषु — न व्यथते न दुःखनिमित्तेन भयेन युज्यते ; अथो अपि न रिष्यति न विनश्यति न हिंसामापद्यते। सः — यो यथोक्तमेवं वेत्ति त्र्यन्नात्मदर्शनं सः — सर्वेषां भूतानामात्मा भवति, सर्वेषां भूतानां प्राणो भवति, सर्वेषां भूतानां मनो भवति, सर्वेषां भूतानां वाग्भवति — इत्येवं सर्वभूतात्मतया सर्वज्ञो भवतीत्यर्थः — सर्वकृच्च। यथैषा पूर्वसिद्धा हिरण्यगर्भदेवता एवमेव नास्य सर्वज्ञत्वे सर्वकृत्त्वे वा क्वचित्प्रतिघातः ; स इति दार्ष्टान्तिकनिर्देशः। किञ्च यथैतां हिरण्यगर्भदेवताम् इज्यादिभिः सर्वाणि भूतान्यवन्ति पालयन्ति पूजयन्ति, एवं ह एवंविदं सर्वाणि भूतान्यवन्ति — इज्यादिलक्षणां पूजां सततं प्रयुञ्जत इत्यर्थः ॥
अथेदमाशङ्क्यते — सर्वप्राणिनामात्मा भवतीत्युक्तम् ; तस्य च सर्वप्राणिकार्यकरणात्मत्वे सर्वप्राणिसुखदुःखैः सम्बध्येतेति — तन्न। अपरिच्छिन्नबुद्धित्वात् — परिच्छिन्नात्मबुद्धीनां ह्याक्रोशादौ दुःखसम्बन्धो दृष्टः -, अनेनाहमाक्रुष्ट इति ; अस्य तु सर्वात्मनो य आक्रुश्यते यश्चाक्रोशति तयोरात्मत्वबुद्धिविशेषाभावात् न तन्निमित्तं दुःखमुपपद्यते। मरणदुःखवच्च निमित्ताभावात् — यथा हि कस्मिंश्चिन्मृते कस्यचिद्दुःखमुत्पद्यते — ममासौ पुत्रो भ्राता चेति — पुत्रादिनिमित्तम् , तन्निमित्ताभावे तन्मरणदर्शिनोऽपि नैव दुःखमुपजायते, तथा ईश्वरस्यापि अपरिच्छिन्नात्मनो ममतवतादिदुःखनिमित्तमिथ्याज्ञानादिदोषाभावात् नैव दुःखमुपजायते। तदेतदुच्यते — यदु किञ्च यत्किञ्च इमाः प्रजाः शोचन्ति अमैव सहैव प्रजाभिः तच्छोकादिनिमित्तं दुःखं संयुक्तं भवति आसां प्रजानाम् परिच्छिन्नबुद्धिजनितत्वात् ; सर्वात्मनस्तु केन सह किं संयुक्तं भवेत् वियुक्तं वा। अमुं तु प्राजापत्ये पदे वर्तमानं पुण्यमेव शुभमेव — फलमभिप्रेतं पुण्यमिति — निरतिशयं हि तेन पुण्यं कृतम् , तेन तत्फलमेव गच्छति ; न ह वै देवान्पापं गच्छति, पापफलस्यावसराभावात् — पापफलं दुःखं न गच्छतीत्यर्थः ॥
[‘त एते सर्व एव समाः सर्वेऽनन्ताः’ (बृ. उ. १। ५। १३)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=1&id=BR_C01_S05_V13&hl=त एते सर्व एव समाः सर्वेऽनन्ताः) इत्यविशेषेण वाङ्मनःप्राणानामुपासनमुक्तम् , न अन्यतमगतो विशेष उक्तः ; किमेवमेव प्रतिपत्तव्यम् , किं वा विचार्यमाणे कश्चिद्विशेषो व्रतमुपासनं प्रति प्रतिपत्तुं शक्यत इत्युच्यते —
अथातो व्रतमीमांसा प्रजापतिर्ह कर्माणि ससृजे तानि सृष्टान्यन्योन्येनास्पर्धन्त वदिष्याम्येवाहमिति वाग्दध्रे द्रक्ष्याम्यहमिति चक्षुः श्रोष्याम्यहमिति श्रोत्रमेवमन्यानि कर्माणि यथाकर्म तानि मृत्युः श्रमो भूत्वोपयेमे तान्याप्नोत्तान्याप्त्वा मृत्युरवारुन्ध तस्माच्छ्राम्यत्येव वाक्श्राम्यति चक्षुः श्राम्यति श्रोत्रमथेममेव नाप्नोद्योऽयं मध्यमः प्राणस्तानि ज्ञातुं दध्रिरे। अयं वै नः श्रेष्ठो यः सञ्चरंश्चासञ्चरंश्च न व्यथतेऽथो न रिष्यति हन्तास्यैव सर्वे रूपमसामेति त एतस्यैव सर्वे रूपमभवंस्तस्मादेत एतेनाख्यायन्ते प्राणा इति तेन ह वाव तत्कुलमाचक्षते यस्मिन्कुले भवति य एवं वेद य उ हैवंविदा स्पर्धतेऽनुशुष्यत्यनुशुष्य हैवान्ततो म्रियत इत्यध्यात्मम् ॥ २१ ॥
अथातः अनन्तरं व्रतमीमांसा उपासनकर्मविचारणेत्यर्थः ; एषां प्राणानां कस्य कर्म व्रतत्वेन धारयितव्यमिति मीमांसा प्रवर्तते। तत्र प्रजापतिः ह — ह - शब्दः किलार्थे — प्रजापतिः किल प्रजाः सृष्ट्वा कर्माणि करणानि वागादीनि — कर्मार्थानि हि तानीति कर्माणीत्युच्यन्ते — ससृजे सृष्टवान् वागादीनि करणानीत्यर्थः। तानि पुनः सृष्टानि अन्योन्येन इतरेतरम् अस्पर्धन्त स्पर्धां सङ्घर्षं चक्रुः ; कथम् ? वदिष्याम्येव स्वव्यापाराद्वदनादनुपरतैव अहं स्यामिति वाग्व्रतं दध्रे धृतवती — यद्यन्योऽपि मत्समोऽस्ति स्वव्यापारादनुपरन्तुं शक्तः, सोऽपि दर्शयत्वात्मनो वीर्यमिति ; तथा द्रक्ष्याम्यहमिति चक्षुः ; श्रोष्याम्यहमिति श्रोत्रम् ; एवमन्यानि कर्माणि करणानि यथाकर्म — यत् यत् यस्य कर्म यथाकर्म — तानि करणानि मृत्युर्मारकः श्रमः श्रमरूपी भूत्वा उपयेमे सञ्जग्राह। कथम् ? तानि करणानि स्वव्यापारे प्रवृत्तानि आप्नोत् श्रमरूपेण आत्मानं दर्शितवान् ; आप्त्वा च तानि अवारुन्ध अवरोधं कृतवान्मृत्युः — स्वकर्मभ्यः प्रच्यावितवानित्यर्थः। तस्मादद्यत्वेऽपि वदने स्वकर्मणि प्रवृत्ता वाक् श्राम्यत्येव श्रमरूपिणा मृत्युना संयुक्ता स्वकर्मतः प्रच्यवते ; तथा श्राम्यति चक्षुः ; श्राम्यति श्रोत्रम्। अथेममेव मुख्यं प्राणं न आप्नोत् न प्राप्तवान्मृत्युः श्रमरूपी — योऽयं मध्यमः प्राणः तम्। तेनाद्यत्वेऽप्यश्रान्त एव स्वकर्मणि प्रवर्तते। तानीतराणि करणानि तं ज्ञातुं दध्रिरे धृतवन्ति मनः ; अयं वै नः अस्माकं मध्ये श्रेष्ठः प्रशस्यतमः अभ्यधिकः, यस्मात् यः सञ्चरंश्चासञ्चरंश्च न व्यथते, अथो न रिष्यति — हन्त इदानीमस्यैव प्राणस्य सर्वे वयं रूपमसाम प्राणमात्मत्वेन प्रतिपद्येमहि — एवं विनिश्चित्य ते एतस्यैव सर्वे रूपमभवन् प्राणरूपमेव आत्मत्वेन प्रतिपन्नाः प्राणव्रतमेव दध्रिरे — अस्मद्व्रतानि न मृत्योर्वारणाय पर्याप्तानीति। यस्मात्प्राणेन रूपेण रूपवन्तीतराणि करणानि चलनात्मना स्वेन च प्रकाशात्मना ; न हि प्राणादन्यत्र चलनात्मकत्वोपपत्तिः ; चलनव्यापारपूर्वकाण्येव हि सर्वदा स्वव्यापारेषु लक्ष्यन्ते — तस्मात् एते वागादयः एतेन प्राणाभिधानेन आख्यायन्ते अभिधीयन्ते — प्राणा इत्येवम्। य एवं प्राणात्मतां सर्वकरणानां वेत्ति प्राणशब्दाभिधेयत्वं च, तेन ह वाव तेनैव विदुषा तत्कुलमाचक्षते लौकिकाः, यस्मिन्कुले स विद्वान् जातो भवति — तत्कुलं विद्वन्नाम्नैव प्रथितं भवति — अमुष्येदं कुलमिति — यथा तापत्य इति। य एवं यथोक्तं वेद वागादीनां प्राणरूपतां प्राणाख्यत्वं च, तस्यैतत्फलम्। किञ्च यः कश्चित् उ ह एवंविदा प्राणात्मदर्शिना स्पर्धते तत्प्रतिपक्षी सन् सः अस्मिन्नेव शरीरे अनुशुष्यति शोषमुपगच्छति ; अनुशुष्य हैव शोषं गत्वैव अन्ततः अन्ते म्रियते, न सहसा अनुपद्रुतो म्रियते। इत्येवमुक्तमध्यात्मं प्राणात्मदर्शनमिति उक्तोपसंहारः अधिदैवतप्रदर्शनार्थः ॥
अथाधिदैवतं ज्वलिष्याम्येवाहमित्यग्निर्दध्रे तप्स्याम्यहमित्यादित्यो भास्याम्यहमिति चन्द्रमा एवमन्या देवता यथादैवतं स यथैषां प्राणानां मध्यमः प्राण एवमेतासां देवतानां वायुर्म्लोचन्ति ह्यन्या देवता न वायुः सैषानस्तमिता देवता यद्वायुः ॥ २२ ॥
अथ अनन्तरम् अधिदैवतं देवताविषयं दर्शनमुच्यते। कस्य देवताविशेषस्य व्रतधारणं श्रेय इति मीमांस्यते। अध्यात्मवत्सर्वम्। ज्वलिष्याम्येवाहमित्यग्निर्दध्रे ; तप्स्याम्यहमित्यादित्यः ; भास्याम्यहमिति चन्द्रमाः ; एवमन्या देवता यथादैवतम्। सः अध्यात्मं वागादीनामेषां प्राणानां मध्ये मध्यमः प्राणो मृत्युना अनाप्तः स्वकर्मणो न प्रच्यावितः स्वेन प्राणव्रतेनाभग्नव्रतो यथा, एवम् एतासामग्न्यादीनां देवतानां वायुरपि। म्लोचन्ति अस्तं यन्ति स्वकर्मभ्य उपरमन्ते — यथा अध्यात्मं वागादयोऽन्या देवता अग्न्याद्याः ; न वायुरस्तं याति — यथा मध्यमः प्राणः ; अतः सैषा अनस्तमिता देवता यद्वायुः योऽयं वायुः। एवमध्यात्ममधिदैवं च मीमांसित्वा निर्धारितम् — प्राणवाय्वात्मनोर्व्रतमभग्नमिति ॥
अथैष श्लोको भवति यतश्चोदेति सूर्योऽस्तं यत्र च गच्छतीति प्राणाद्वा एष उदेति प्राणेऽस्तमेति तं देवाश्चक्रिरे धर्मं स एवाद्य स उ श्व इति यद्वा एतेऽमुर्ह्यध्रियन्त तदेवाप्यद्य कुर्वन्ति। तस्मादेकमेव व्रतं चरेत्प्राण्याच्चैवापान्याच्च नेन्मा पाप्मा मृत्युराप्नुवदिति यद्यु चरेत्समापिपयिषेत्तेनो एतस्यै देवतायै सायुज्यं सलोकतां जयति ॥ २३ ॥
अथैतस्यैवार्थस्य प्रकाशकः एष श्लोको मन्त्रो भवति। यतश्च यस्माद्वायोः उदेति उद्गच्छति सूर्यः, अध्यात्मं च चक्षुरात्मना प्राणात् — अस्तं च यत्र वायौ प्राणे च गच्छति अपरसन्ध्यासमये स्वापसमये च पुरुषस्य — तं देवाः तं धर्मं देवाः चक्रिरे धृतवन्तः वागादयोऽग्न्यादयश्च प्राणव्रतं वायुव्रतं च पुरा विचार्य। स एव अद्य इदानीं श्वोऽपि भविष्यत्यपि काले अनुवर्त्यते अनुवर्तिष्यते च देवैरित्यभिप्रायः। तत्रेमं मन्त्रं सङ्क्षेपतो व्याचष्टे ब्राह्मणम् — प्राणाद्वा एष सूर्य उदेति प्राणेऽस्तमेति। तं देवाश्चक्रिरे धर्मं स एवाद्य स उ श्व इत्यस्य कोऽर्थ इत्युच्यते — यत् वै एते व्रतम् अमुर्हि अमुष्मिन्काले वागादयोऽग्न्यादयश्च प्राणव्रतं वायुव्रतं च अध्रियन्त, तदेवाद्यापि कुर्वन्ति अनुवर्तन्ते अनुवर्तिष्यन्ते च ; व्रतं तयोरभग्नमेव। यत्तु वागादिव्रतम् अग्न्यादिव्रतं च तद्भग्नमेव, तेषाम् अस्तमयकाले स्वापकाले च वायौ प्राणे च निम्लुक्तिदर्शनात्। अथैतदन्यत्रोक्तम् — ‘यदा वै पुरुषः स्वपिति प्राणं तर्हि वागप्येति प्राणं मनः प्राणं चक्षुः प्राणं श्रोत्रं यदा प्रबुध्यते प्राणादेवाधि पुनर्जायन्त इत्यध्यात्ममथाधिदैवतं यदा वा अग्निरनुगच्छति वायुं तर्ह्यनूद्वाति तस्मादेनमुदवासीदित्याहुर्वायुं ह्यनूद्वाति यदादित्योऽस्तमेति वायुं तर्हि प्रविशति वायुं चन्द्रमा वायौ दिशः प्रतिष्ठिता वायोरेवाधि पुनर्जायन्ते’ (शत. ब्रा. १०। ३। ३। ६, ८) इति। यस्मात् एतदेव व्रतं वागादिषु अग्न्यादिषु च अनुगतं यदेतत् वायोश्च प्राणस्य च परिस्पन्दात्मकत्वं सर्वैः देवैरनुवर्त्यमानं व्रतम् — तस्मात् अन्योऽप्येकमेव व्रतं चरेत् ; किं तत् ? प्राण्यात् प्राणनव्यापारं कुर्यात् अपान्यात् अपाननव्यापारं च ; न हि प्राणापानव्यापारस्य प्राणनापाननलक्षणस्योपरमोऽस्ति ; तस्मात्तदेव एकं व्रतं चरेत् हित्वेन्द्रियान्तरव्यापारम् — नेत् मा मां पाप्मा मृत्युः श्रमरूपी आप्नुवत् आप्नुयात् — नेच्छब्दः परिभये — यद्यहमस्माद्व्रतात्प्रच्युतः स्याम् , ग्रस्त एवाहं मृत्युनेत्येवं त्रस्तो धारयेत्प्राणव्रतमित्यभिप्रायः। यदि कदाचित् उ चरेत् प्रारभेत प्राणव्रतम् , समापिपयिषेत् समापयितुमिच्छेत् ; यदि हि अस्माद्व्रतादुपरमेत् प्राणः परिभूतः स्यात् देवाश्च ; तस्मात्समापयेदेव। तेन उ तेन अनेन व्रतेन प्राणात्मप्रतिपत्त्या सर्वभूतेषु — वागादयः अग्न्यादयश्च मदात्मका एव, अहं प्राण आत्मा सर्वपरिस्पन्दकृत् एवं तेनानेन व्रतधारणेन एतस्या एव प्राणदेवतायाः सायुज्यं सयुग्भावम् एकात्मत्वं सलोकतां समानलोकतां वा एकस्थानत्वम् — विज्ञानमान्द्यापेक्षमेतत् — जयति प्राप्नोतीति ॥
इति प्रथमाध्यायस्य पञ्चमं ब्राह्मणम् ॥