‘द्वया ह’ इत्याद्यस्य कः सम्बन्धः ? कर्मणां ज्ञानसहितानां परा गतिरुक्ता मृत्य्वात्मभावः, अश्वमेधगत्युक्त्या। अथेदानीं मृत्य्वात्मभावसाधनभूतयोः कर्मज्ञानयोर्यत उद्भवः, तत्प्रकाशनार्थमुद्गीथब्राह्मणमारभ्यते ॥
ननु मृत्य्वात्मभावः पूर्वत्र ज्ञानकर्मणोः फलमुक्तम्। उद्गीथज्ञानकर्मणोस्तु मृत्य्वात्मभावातिक्रमणं फलं वक्ष्यति। अतो भिन्नविषयत्वात्फलस्य न पूर्वकर्मज्ञानोद्भवप्रकाशनार्थम् इति चेत् , नायं दोषः ; अग्न्यादित्यात्मभावत्वादुद्गीथफलस्य ; पूर्वत्राप्येतदेव फलमुक्तम् — ‘एतासां देवतानामेको भवति’ इति। ननु ‘मृत्युमतिक्रान्तः’ इत्यादि विरुद्धम् ; न, स्वाभाविकपाप्मासङ्गविषयत्वादतिक्रमणस्य ॥
कोऽसौ स्वाभाविकः पाप्मासङ्गो मृत्युः ? कुतो वा तस्योद्भवः ? केन वा तस्यातिक्रमणम् ? कथं वा ? — इत्येतस्यार्थस्य प्रकाशनाय आख्यायिका आरभ्यते। कथम् ? —
द्वया ह प्राजापत्या देवाश्चासुराश्च ततः कानीयसा एव देवा ज्यायसा असुरास्त एषु लोकेष्वस्पर्धन्त ते ह देवा ऊचुर्हन्तासुरान्यज्ञ उद्गीथेनात्ययामेति ॥ १ ॥
द्वया द्विप्रकाराः ; हेति पूर्ववृत्तावद्योतको निपातः ; वर्तमानप्रजापतेः पूर्वजन्मनि यद्वृत्तम् , तदवद्योतयति ह - शब्देन ; प्राजापत्याः प्रजापतेर्वृत्तजन्मावस्थस्यापत्यानि प्राजापत्याः ; के ते ? देवाश्चासुराश्च ; तस्यैव प्रजापतेः प्राणा वागादयः ; कथं पुनस्तेषां देवासुरत्वम् ? उच्यते — शास्त्रजनितज्ञानकर्मभाविता द्योतनाद्देवा भवन्ति ; त एव स्वाभाविकप्रत्यक्षानुमानजनितदृष्टप्रयोजनकर्मज्ञानभाविता असुराः, स्वेष्वेवासुषु रमणात् , सुरेभ्यो वा देवेभ्योऽन्यत्वात्। यस्माच्च दृष्टप्रयोजनज्ञानकर्मभाविता असुराः, ततः तस्मात् , कानीयसाः, कनीयांस एव कानीयसाः, स्वार्थेऽणि वृद्धिः ; कनीयांसोऽल्पा एव देवाः ; ज्यायसा असुरा ज्यायांसोऽसुराः ; स्वाभाविकी हि कर्मज्ञानप्रवृत्तिर्महत्तरा प्राणानां शास्त्रजनितायाः कर्मज्ञानप्रवृत्तेः, दृष्टप्रयोजनत्वात् ; अत एव कनीयस्त्वं देवानाम् , शास्त्रजनितप्रवृत्तेरल्पत्वात् ; अत्यन्तयत्नसाध्या हि सा ; ते देवाश्चासुराश्च प्रजापतिशरीरस्थाः, एषु लोकेषु निमित्तभूतेषु स्वाभाविकेतरकर्मज्ञानसाध्येषु, अस्पर्धन्त स्पर्धां कृतवन्तः ; देवानां चासुराणां च वृत्त्युद्भवाभिभवौ स्पर्धा। कदाचित्छास्त्रजनितकर्मज्ञानभावनारूपावृत्तिः प्राणानामुद्भवति। यदा चोद्भवति, तदा दृष्टप्रयोजना प्रत्यक्षानुमानजनितकर्मज्ञानभावनारूपा तेषामेव प्राणानां वृत्तिरासुर्यभिभूयते। स देवानां जयः, असुराणां पराजयः। कदाचित्तद्विपर्ययेण देवानां वृत्तिरभिभूयते, आसुर्या उद्भवः। सोऽसुराणां जयः, देवानां पराजयः। एवं देवानां जये धर्मभूयस्त्वादुत्कर्ष आ प्रजापतित्वप्राप्तेः। असुरजयेऽधर्मभूयस्त्वादपकर्ष आ स्थावरत्वप्राप्तेः। उभयसाम्ये मनुष्यत्वप्राप्तिः। त एवं कनीयस्त्वादभिभूयमाना असुरैर्देवा बाहूल्यादसुराणां किं कृतवन्त इति, उच्यते — ते देवाः, असुरैरभिभूयमानाः, ह किल, ऊचुः उक्तवन्तः ; कथम् ? हन्त! इदानीम् , अस्मिन्यज्ञे ज्योतिष्टोमे, उद्गीथेन उद्गीथकर्मपदार्थकर्तृस्वरूपाश्रयणेन, अत्ययाम अतिगच्छामः ; असुरानभिभूय स्वं देवभावं शास्त्रप्रकाशितं प्रतिपद्यामहे इत्युक्तवन्तोऽन्योन्यम्। उद्गीथकर्मपदार्थकर्तृस्वरूपाश्रयणं च ज्ञानकर्मभ्याम्। कर्म वक्ष्यमाणं मन्त्रजपलक्षणम् , विधित्स्यमानम् — [‘तदेतानि जपेत्’ (बृ. उ. १। ३। २८)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=1&id=BR_C01_S03_V28&hl=तदेतानि जपेत्) इति। ज्ञानं त्विदमेव निरूप्यमाणम् ॥
नन्विदमभ्यारोहजपविधिशेषोऽर्थवादः, न ज्ञाननिरूपणपरम्। न, [‘य एवं वेद’ (बृ. उ. १। ३। ७)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=1&id=BR_C01_S03_V07&hl=य एवं वेद) इति वचनात्। उद्गीथप्रस्तावे पुराकल्पश्रवणादुद्गीथविधिपरमिति चेत् , न, अप्रकरणात् ; उद्गीथस्य चान्यत्र विहितत्वात् ; विद्याप्रकरणत्वाच्चास्य ; अभ्यारोहजपस्य चानित्यत्वात् एवंवित्प्रयोज्यत्वात् , विज्ञानस्य च नित्यवच्छ्रवणात् ; ‘तद्धैतल्लोकजिदेव’ (बृ. उ. १। ४। २८) इति च श्रुतेः ; प्राणस्य वागादीनां च शुद्ध्यशुद्धिवचनात् ; न ह्यनुपास्यत्वे — प्राणस्य शुद्धिवचनम् , वागादीनां च सहोपन्यस्तानामशुद्धिवचनम् , वागादिनिन्दया मुख्यप्राणस्तुतिश्चाभिप्रेता, — उपपद्यते — [‘मृत्युमतिक्रान्तो दीप्यते’ (बृ. उ. १। ३। २७)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=1&id=BR_C01_S03_V27&hl=मृत्युमतिक्रान्तो दीप्यते) इत्यादि फलवचनं च। प्राणस्वरूपापत्तेर्हि फलं तत् , यद्वागाद्यग्न्यादिभावः ॥
भवतु नाम प्राणस्योपासनम् , न तु विशुद्ध्यादिगुणवत्तेति ; ननु स्याच्छ्रुतत्वात् ; न स्यात् , उपास्यत्वे स्तुत्यर्थत्वोपपत्तेः। न ; अविपरीतार्थप्रतिपत्तेः श्रेयःप्राप्त्युपपत्तेः, लोकवत्। यो ह्यविपरीतमर्थं प्रतिपद्यते लोके, स इष्टं प्राप्नोत्यनिष्टाद्वा निवर्तते, न विपरीतार्थप्रतिपत्त्या ; तथेहापि श्रौतशब्दजनितार्थप्रतिपत्तौ श्रेयःप्राप्तिरुपपन्ना, न विपर्यये। न चोपासनार्थश्रुतशब्दोत्थविज्ञानविषयस्यायथार्थत्वे प्रमाणमस्ति। न च तद्विज्ञानस्यापवादः श्रूयते। ततः श्रेयःप्राप्तिदर्शनाद्यथार्थतां प्रतिपद्यामहे। विपर्यये चानर्थप्राप्तिदर्शनात् — यो हि विपर्ययेणार्थं प्रतिपद्यते लोके — पुरुषं स्थाणुरिति, अमित्रं मित्रमिति वा, सोऽनर्थं प्राप्नुवन्दृश्यते। आत्मेश्वरदेवतादीनामप्ययथार्थानामेव चेद्ग्रहणं श्रुतितः, अनर्थप्राप्त्यर्थं शास्त्रमिति ध्रुवं प्राप्नुयाल्लोकवदेव ; न चैतदिष्टम्। तस्माद्यथाभूतानेवात्मेश्वरदेवतादीन्ग्राहयत्युपासनार्थं शास्त्रम्। नामादौ ब्रह्मदृष्टिदर्शनादयुक्तमिति चेत् , स्फुटं नामादेरब्रह्मत्वम् ; तत्र ब्रह्मदृष्टिं स्थाण्वादाविव पुरुषदृष्टिं विपरीतां ग्राहयच्छास्त्रं दृश्यते ; तस्माद्यथार्थमेव शास्त्रतः प्रतिपत्तेः श्रेय इत्ययुक्तमिति चेत् , न ; प्रतिमावद्भेदप्रतिपत्तेः। नामादावब्रह्मणि ब्रह्मदृष्टिं विपरीतां ग्राहयति शास्त्रम् , स्थाण्वादाविव पुरुषदृष्टिम् — इति नैतत्साध्ववोचः। कस्मात् ? भेदेन हि ब्रह्मणो नामादिवस्तु प्रतिपन्नस्य नामादौ विधीयते ब्रह्मदृष्टिः, प्रतिमादाविव विष्णुदृष्टिः। आलम्बनत्वेन हि नामादिप्रतिपत्तिः, प्रतिमादिवदेव, न तु नामाद्येव ब्रह्मेति। यथा स्थाणावनिर्ज्ञाते, न स्थाणुरिति, पुरुष एवायमिति प्रतिपद्यते विपरीतम् , न तु तथा नामादौ ब्रह्मदृष्टिर्विपरीता ॥
ब्रह्मदृष्टिरेव केवला, नास्ति ब्रह्मेति चेत् ; — एतेन प्रतिमाब्राह्मणादिषु विष्ण्वादिदेवपित्रादिदृष्टीनां तुल्यता — न, ऋगादिषु पृथिव्यादिदृष्टिदर्शनात् , विद्यमानपृथिव्यादिवस्तुदृष्टीनामेव ऋगादिविषये प्रक्षेपदर्शनात्। तस्मात्तत्सामान्यान्नामादिषु ब्रह्मादिदृष्टीनां विद्यमानब्रह्मादिविषयत्वसिद्धिः। एतेन प्रतिमाब्राह्मणादिषु विष्ण्वादिदेवपित्रादिबुद्धीनां च सत्यवस्तुविषयत्वसिद्धिः। मुख्यापेक्षत्वाच्च गौणत्वस्य ; पञ्चाग्न्यादिषु चाग्नित्वादेर्गौणत्वान्मुख्याग्न्यादिसद्भाववत् , नामादिषु ब्रह्मत्वस्य गौणत्वान्मुख्यब्रह्मसद्भावोपपत्तिः ॥
क्रियार्थैश्चाविशेषाद्विद्यार्थानाम्। यथा च, दर्शपूर्णमासादिक्रिया इदम्फला विशिष्टेतिकर्तव्यताका एवंक्रमप्रयुक्ताङ्गा च — इत्येतदलौकिकं वस्तु प्रत्यक्षाद्यविषयं तथाभूतं च वेदवाक्यैरेव ज्ञाप्यते ; तथा, परमात्मेश्वरदेवतादिवस्तु अस्थूलादिधर्मकमशनायाद्यतीतं चेत्येवमादिविशिष्टमिति वेदवाक्यैरेव ज्ञाप्यते — इति अलौकिकत्वात्तथाभूतमेव भवितुमर्हतीति। न च क्रियार्थैर्वाक्यैर्ज्ञानवाक्यानांु बुद्ध्युत्पादकत्वे विशेषोऽस्ति। न चानिश्चिता विपर्यस्ता वा परमात्मादिवस्तुविषया बुद्धिरुत्पद्यते। अनुष्ठेयाभावादयुक्तमिति चेत् , क्रियार्थैर्वाक्यैः त्र्यंशा भावनानुष्ठेया ज्ञाप्यतेऽलौकिक्यपि ; न तथा परमात्मेश्वरादिविज्ञानेऽनुष्ठेयं किञ्चिदस्ति ; अतः क्रियार्थैः साधर्म्यमित्ययुक्तमिति चेत् , न ; ज्ञानस्य तथाभूतार्थविषयत्वात्। न ह्यनुष्ठेयस्य त्र्यंशस्य भावनाख्यस्यानुष्ठेयत्वात्तथात्वम् ; किं तर्हि ? प्रमाणसमधिगतत्वात्। न च तद्विषयाया बुद्धेरनुष्ठेयविषयत्वात्तथार्थत्वम् ; किं तर्हि ? वेदवाक्यजनितत्वादेव। वेदवाक्याधिगतस्य वस्तुनस्तथात्वे सति, अनुष्ठेयत्वविशिष्टं चेत् अनुतिष्ठति ; नो चेदनुष्ठेयत्वविशिष्टम् , नानुतिष्ठति। अननुष्ठेयत्वे वाक्यप्रमाणत्वानुपपत्तिरिति चेत् , न ह्यनुष्ठेयेऽसति पदानां संहतिरुपपद्यते ; अनुष्ठेयत्वे तु सति तादर्थ्येन पदानि संहन्यन्ते ; तत्रानुष्ठेयनिष्ठं वाक्यं प्रमाणं भवति — इदमनेनैवं कर्तव्यमिति ; न त्विदमनेनैवमित्येवंप्रकाराणां पदशतानामपि वाक्यत्वमस्ति, — ‘कुर्यात्क्रियेत कर्तव्यं भवेत्स्यादिति पञ्चमम्’ इत्येवमादीनामन्यतमेऽसति ; अतः परमात्मेश्वरादीनामवाक्यप्रमाणत्वम् ; पदार्थत्वे च प्रमाणान्तरविषयत्वम् ; अतोऽसदेतदिति चेत् , न ; ‘अस्ति मेरुर्वर्णचतुष्टयोपेतः’ इति एवमाद्यननुष्ठेयेऽपि वाक्यदर्शनात्। न च, ‘मेरुर्वर्णचतुष्टयोपेतः’ इत्येवमादिवाक्यश्रवणे मेर्वादावनुष्ठेयत्वबुद्धिरुत्पद्यते। तथा अस्तिपदसहितानां परमात्मेश्वरादिप्रतिपादकवाक्यपदानां विशेषणविशेष्यभावेन संहतिः केन वार्यते। मेर्वादिज्ञानवत्परमात्मज्ञाने प्रयोजनाभावादयुक्तमिति चेत् , न ; [‘ब्रह्मविदाप्नोति परम्’ (तै. उ. २। १। १)](https://advaitasharada.sringeri.net/display/bhashya/Taitiriya?page=2&id=T_C02_S01_V01&hl=ब्रह्मविदाप्नोति परम्) [‘भिद्यते हृदयग्रन्थि’ (मु. उ. २। २। ८)](https://advaitasharada.sringeri.net/display/bhashya/Mundaka?page=2&id=MD_C02_S02_V08&hl=भिद्यते हृदयग्रन्थि) इति फलश्रवणात् , संसारबीजाविद्यादिदोषनिवृत्तिदर्शनाच्च। अनन्यशेषत्वाच्च तज्ज्ञानस्य, जुह्वामिव, फलश्रुतेरर्थवादत्वानुपपत्तिः ॥
प्रतिषिद्धानिष्टफलसम्बन्धश्च वेदादेव विज्ञायते। न चानुष्ठेयः सः। न च प्रतिषिद्धविषये प्रवृत्तक्रियस्य अकरणादन्यदनुष्ठेयमस्ति। अकर्तव्यताज्ञाननिष्ठतैव हि परमार्थतः प्रतिषेधविधीनां स्यात्। क्षुधार्तस्य प्रतिषेधज्ञानसंस्कृतस्य, अभक्ष्येऽभोज्ये वा प्रत्युपस्थिते कलञ्जाभिशस्तान्नादौ ‘इदं भक्ष्यम्’ ‘अदो भोज्यम्’ इति वा ज्ञानमुत्पन्नम् , तद्विषयया प्रतिषेधज्ञानस्मृत्या बाध्यते ; मृगतृष्णिकायामिव पेयज्ञानं तद्विषययाथात्म्यविज्ञानेन। तस्मिन्बाधिते स्वाभाविकविपरीतज्ञानेऽनर्थकरी तद्भक्षणभोजनप्रवृत्तिर्न भवति। विपरीतज्ञाननिमित्तायाः प्रवृत्तेर्निवृत्तिरेव, न पुनर्यत्नः कार्यस्तदभावे। तस्मात्प्रतिषेधविधीनां वस्तुयाथात्म्यज्ञाननिष्ठतैव, न पुरुषव्यापारनिष्ठतागन्धोऽप्यस्ति। तथेहापि परमात्मादियाथात्म्यज्ञानविधीनां तावन्मात्रपर्यवसानतैव स्यात्। तथा तद्विज्ञानसंस्कृतस्य, तद्विपरीतार्थज्ञाननिमित्तानां प्रवृत्तीनाम् , अनर्थार्थत्वेन ज्ञायमानत्वात् परमात्मादियाथात्म्यज्ञानस्मृत्या स्वाभाविके तन्निमित्तविज्ञाने बाधिते, अभावः स्यात्। ननु कलञ्जादिभक्षणादेरनर्थार्थत्ववस्तुयाथात्म्यज्ञानस्मृत्या स्वाभाविके तद्भक्ष्यत्वादिविपरीतज्ञाने निवर्तिते तद्भक्षणाद्यनर्थप्रवृत्त्यभाववत् , अप्रतिषेधविषयत्वाच्छास्त्रविहितप्रवृत्त्यभावो न युक्त इति चेत् , न ; विपरीतज्ञाननिमित्तत्वानर्थार्थत्वाभ्यां तुल्यत्वात्। कलञ्जभक्षणादिप्रवृत्तेर्मिथ्याज्ञाननिमित्तत्वमनर्थार्थत्वं च यथा, तथा शास्त्रविहितप्रवृत्तीनामपि। तस्मात्परमात्मयाथात्म्यविज्ञानवतः शास्त्रविहितप्रवृत्तीनामपि, मिथ्याज्ञाननिमित्तत्वेनानर्थार्थत्वेन च तुल्यत्वात् , परमात्मज्ञानेन विपरीतज्ञाने निवर्तिते, युक्त एवाभावः। ननु तत्र युक्तः ; नित्यानां तु केवलशास्त्रनिमित्तत्वादनर्थार्थत्वाभावाच्च अभावो न युक्त इति चेत् , न ; अविद्यारागद्वेषादिदोषवतो विहितत्वात्। यथा स्वर्गकामादिदोषवतो दर्शपूर्णमासादीनि काम्यानि कर्माणि विहितानि, तथा सर्वानर्थबीजाविद्यादिदोषवतस्तज्जनितेष्टानिष्टप्राप्तिपरिहाररागद्वेषादिदोषवतश्च तत्प्रेरिताविशेषप्रवृत्तेरिष्टानिष्टप्राप्तिपरिहारार्थिनो नित्यानि कर्माणि विधीयन्ते ; न केवलं शास्त्रनिमित्तान्येव। न चाग्निहोत्रदर्शपूर्णमासचातुर्मास्यपशुबन्धसोमानां कर्मणां स्वतः काम्यनित्यत्वविवेकोऽस्ति। कर्तृगतेन हि स्वर्गादिकामदोषेण कामार्थता ; तथा अविद्यादिदोषवतः स्वभावप्राप्तेष्टानिष्टप्राप्तिपरिहारार्थिनस्तदर्थान्येव नित्यानि — इति युक्तम् ; तं प्रति विहितत्वात्। न परमात्मयाथात्म्यविज्ञानवतः शमोपायव्यतिरेकेण किञ्चित्कर्म विहितमुपलभ्यते। कर्मनिमित्तदेवतादिसर्वसाधनविज्ञानोपमर्देन ह्यात्मज्ञानं विधीयते। न चोपमर्दितक्रियाकारकादिविज्ञानस्य कर्मप्रवृत्तिरुपपद्यते, विशिष्टक्रियासाधनादिज्ञानपूर्वकत्वात्क्रियाप्रवृत्तेः। न हि देशकालाद्यनवच्छिन्नास्थूलाद्वयादिब्रह्मप्रत्ययधारिणः कर्मावसरोऽस्ति। भोजनादिप्रवृत्त्यवसरवत्स्यादिति चेत् , न ; अविद्यादिकेवलदोषनिमित्तत्वाद्भोजनादिप्रवृत्तेरावश्यकत्वानुपपत्तेः। न तु, तथा अनियतं कदाचित्क्रियते कदाचिन्न क्रियते चेति, नित्यं कर्मोपपद्यते। केवलदोषनिमित्तत्वात्तु भोजनादिकर्मणोऽनियतत्वं स्यात् , दोषोद्भवाभिभवयोरनियतत्वात् , कामानामिव काम्येषु। शास्त्रनिमित्तकालाद्यपेक्षत्वाच्च नित्यानामनियतत्वानुपपत्तिः ; दोषनिमित्तत्वे सत्यपि, यथा काम्याग्निहोत्रस्य शास्त्रविहितत्वात्सायम्प्रातःकालाद्यपेक्षत्वम् , एवम्। तद्भोजनादिप्रवृत्तौ नियमवत्स्यादिति चेत् , न ; नियमस्य अक्रियात्वात् क्रियायाश्चाप्रयोजनकत्वात् नासौ ज्ञानस्यापवादकरः। तस्मात् , परमात्मयाथात्म्यज्ञानविधेरपि तद्विपरीतस्थूलद्वैतादिज्ञाननिवर्तकत्वात् सामर्थ्यात्सर्वकर्मप्रतिषेधविध्यर्थत्वं सम्पद्यते कर्मप्रवृत्त्यभावस्य तुल्यत्वात् , यथा प्रतिषेधविषये। तस्मात् , प्रतिषेधविधिवच्च, वस्तुप्रतिपादनं तत्परत्वं च सिद्धं शास्त्रस्य ॥
ते ह वाचमूचुस्त्वं न उद्गायेति तथेति तेभ्यो वागुदगायत्। यो वाचि भोगस्तं देवेभ्य आगायद्यत्कल्याणं वदति तदात्मने। ते विदुरनेन वै न उद्गात्रात्येष्यन्तीति तमभिद्रुत्य पाप्मनाविध्यन्स यः स पाप्मा यदेवेदमप्रतिरूपं वदति स एव स पाप्मा ॥ २ ॥
ते देवाः, ह एवं विनिश्चित्य, वाचं वागभिमानिनीं देवताम् , ऊचुः उक्तवन्तः ; त्वम् , नः अस्मभ्यम् , उद्गाय औद्गात्रं कर्म कुरुष्व ; वाग्देवतानिर्वर्त्यमौद्गात्रं कर्म दृष्टवन्तः, तामेव च देवतां जपमन्त्राभिधेयाम् — ‘असतो मा सद्गमय’ इति। अत्र चोपासनायाः कर्मणश्च कर्तृत्वेन वागादय एव विवक्ष्यन्ते। कस्मात् ? यस्मात्परमार्थतस्तत्कर्तृकस्तद्विषय एव च सर्वो ज्ञानकर्मसंव्यवहारः। वक्ष्यति हि [‘ध्यायतीव लेलायतीव’ (बृ. उ. ४। ३। ७)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=4&id=BR_C04_S03_V07&hl=ध्यायतीव लेलायतीव) इत्यात्मकर्तृकत्वाभावं विस्तरतः षष्ठे। इहापि च अध्यायान्ते उपसंहरिष्यति अव्याकृतादिक्रियाकारकफलजातम् — [‘त्रयं वा इदं नाम रूपं कर्म’ (बृ. उ. १। ६। १)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=1&id=BR_C01_S06_V01&hl=त्रयं वा इदं नाम रूपं कर्म) इति — अविद्याविषयम्। अव्याकृतात्तु यत्परं परमात्माख्यं विद्याविषयम् अनामरूपकर्मात्मकम् , [‘नेति नेति’ (बृ. उ. २। ३। ६)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=2&id=BR_C02_S03_V06&hl=नेति नेति) इति इतरप्रत्याख्यानेनोपसंहरिष्यति पृथक्। यस्तु वागादिसमाहारोपाधिपरिकल्पितः संसार्यात्मा, तं च वागादिसमाहारपक्षपातिनमेव दर्शयिष्यति — [‘एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति’ (बृ. उ. २। ४। १२)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=2&id=BR_C02_S04_V12&hl=एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति) इति तस्माद्युक्ता वागादीनामेव ज्ञानकर्मकर्तृत्वफलप्राप्तिविवक्षा। तथेति तथास्त्विति, देवैरुक्ता वाक् तेभ्यः अर्थिभ्यः अर्थाय, उदगायत् उद्गानं कृतवती। कः पुनरसौ देवेभ्योऽर्थायोद्गानकर्मणा वाचा निर्वर्तितः कार्यविशेष इति, उच्यते — यो वाचि — निमित्तभूतायाम् — वागादिसमुदायस्य य उपकारो निष्पद्यते वदनादिव्यापारेण, स एव। सर्वेषां ह्यसौ वाग्वदनाभिनिर्वृत्तो भोगः फलम्। तं भोगं सा त्रिषु पवमानेषु कृत्वा अवशिष्टेषु नवसु स्तोत्रेषु वाचनिकमार्त्विज्यं फलम् — यत्कल्याणं शोभनम् , वदति वर्णानभिनिर्वर्तयति, तत् — आत्मने मह्यमेव। तद्ध्यसाधारणं वाग्देवातायाः कर्म, यत्सम्यग्वर्णानामुच्चारणम् ; अतस्तदेव विशेष्यते — ‘यत्कल्याणं वदति’ इति। यत्तु वदनकार्यं सर्वसङ्घातोपकारात्मकम् , तद्याजमानमेव। तत्र कल्याणवदनात्मसम्बन्धासङ्गावसरं देवताया रन्ध्रं प्रतिलभ्य ते विदुः असुराः ; कथम् ? अनेनोद्गात्रा, नः अस्मान् , स्वाभाविकं ज्ञानं कर्म च, अभिभूय अतीत्य, शास्त्रजनितकर्मज्ञानरूपेण ज्योतिषोद्गात्रात्मना अत्येष्यन्ति अतिगमिष्यन्ति — इत्येवं विज्ञाय, तमुद्गातारम् , अभिद्रुत्य अभिगम्य, स्वेन आसङ्गलक्षणेन पाप्मना अविध्यन् ताडितवन्तः संयोजितवन्त इत्यर्थः। स यः स पाप्मा — प्रजापतेः पूर्वजन्मावस्थस्य वाचि क्षिप्तः स एष प्रत्यक्षीक्रियते — कोऽसौ ? यदेवेदमप्रतिरूपम् अननुरूपं शास्त्रप्रतिषिद्धं वदति, येन प्रयुक्तोऽसभ्यबीभत्सानृताद्यनिच्छन्नपि वदति ; अनेन कार्येणाप्रतिरूपवदनेनानुगम्यमानः प्रजापतेः कार्यभूतासु प्रजासु वाचि वर्तते ; स एवाप्रतिरूपवदनेनानुमितः, स प्रजापतेर्वाचि गतः पाप्मा ; कारणानुविधायि हि कार्यमिति ॥
अथ ह प्राणमूचुस्त्वं न उद्गायेति तथेति तेभ्यः प्राण उदगायद्यः प्राणे भोगस्तं
अथ ह प्राणमूचुस्त्वं न उद्गायेति तथेति तेभ्य: प्राण उदगायद्यः प्राणे भोगस्तं देवेभ्य आगायद्यत्कल्याणं जिघ्रति तदात्मने। ते विदुरनेन वै न उद्गात्रात्येष्यन्तीति तमभिद्रुत्य पाप्मनाविध्यन्स यः स पाप्मा यदेवेदमप्रतिरूपं जिघ्रति स एव स पाप्मा ॥ ३ ॥
अथ ह चक्षुरूचुस्त्वं न उद्गायेति तथेति तेभ्यश्चक्षुरुदगायत्। यश्चक्षुषि भोगस्तं देवेभ्य आगायद्यत्कल्याणं पश्यति तदात्मने। ते विदुरनेन वै न उद्गात्रात्येष्यन्तीति तमभिद्रुत्य पाप्मनाविध्यन्स यः स पाप्मा यदेवेदमप्रतिरूपं पश्यति स एव स पाप्मा ॥ ४ ॥
अथ ह श्रोत्रमूचुस्त्वं न उद्गायेति तथेति तेभ्यः श्रोत्रमुदगायद्यः श्रोत्रे भोगस्तं देवेभ्य आगायद्यत्कल्याणं शृणोति तदात्मने। ते विदुरनेन वै न उद्गात्रात्येष्यन्तीति तमभिद्रुत्य पाप्मनाविध्यन्स यः स पाप्मा यदेवेदमप्रतिरूपं शृणोति स एव स पाप्मा ॥ ५ ॥
अथ ह मन ऊचुस्त्वं न उद्गायेति तथेति तेभ्यो मन उदगायद्यो मनसि भोगस्तं देवेभ्य आगायद्यत्कल्याणं सङ्कल्पयति तदात्मने। ते विदुरनेन वै न उद्गात्रात्येष्यन्तीति तमभिद्रुत्य पाप्मनाविध्यन्स यः स पाप्मा यदेवेदमप्रतिरूपं सङ्कल्पयति स एव स पाप्मैवमु खल्वेता देवताः पाप्मभिरुपासृजन्नेवमेनाः पाप्मनाविध्यन् ॥ ६ ॥
तथैव घ्राणादिदेवता उद्गीथनिर्वर्तकत्वाज्जपमन्त्रप्रकाश्या उपास्याश्चेति क्रमेण परीक्षितवन्तः। देवानां चैतन्निश्चितमासीत् — वागादिदेवताः क्रमेण परीक्ष्यमाणाः कल्याणविषयविशेषात्मसम्बन्धासङ्गहेतोरासुरपाप्मसंसर्गादुद्गीथनिर्वर्तनासमर्थाः ; अतोऽनभिधेयाः, ‘असतो मा सद्गमय’ इत्यनुपास्याश्च ; अशुद्धत्वादितराव्यापकत्वाच्चेति। एवमु खलु, अनुक्ता अप्येतास्त्वगादिदेवताः, कल्याणाकल्याणकार्यदर्शनात् , एवं वागादिवदेव, एनाः, पाप्मना अविध्यन् पाप्मना विद्धवन्त इति यदुक्तं तत्पाप्मभिरुपासृजन् पाप्मभिः संसर्गं कृतवन्त इत्येतत् ॥
वागादिदेवता उपासीना अपि मृत्य्वतिगमनायाशरणाः सन्तो देवाः, क्रमेण —
अथ हेममासन्यं प्राणमूचुस्त्वं न उद्गायेति तथेति तेभ्य एष प्राण उदगायत्ते विदुरनेन वै न उद्गात्रात्येष्यन्तीति तमभिद्रुत्य पाप्मनाविव्यत्सन्स यथाश्मानमृत्वा लोष्टो विध्वंसेतैवं हैव विध्वंसमाना विष्वञ्चो विनेशुस्ततो देवा अभवन्परासुरा भवत्यात्मना परास्य द्विषन्भ्रातृव्यो भवति य एवं वेद ॥ ७ ॥
अथ अनन्तरम् , ह इममित्यभिनयप्रदर्शनार्थम् , आसन्यम् आस्ये भवमासन्यं मुखान्तर्बिलस्थं प्राणमूचुः — ‘त्वं न उद्गाय’ इति। तथेत्येवं शरणमुपगतेभ्यः स एष प्राणो मुख्य उदगायत् इत्यादि पूर्ववत्। पाप्मना अविव्यत्सन् वेधनं कर्तुमिष्टवन्तः, ते च दोषासंसर्गिणं सन्तं मुख्यं प्राणम् , स्वेन आसङ्गदोषेण वागादिषु लब्धप्रसरास्तदभ्यासानुवृत्त्या, संस्रक्ष्यमाणा विनेशुः विनष्टा विध्वस्ताः ; कथमिवेति दृष्टान्त उच्यते — स यथा स दृष्टान्तो यथा — लोके अश्मानं पाषाणम् , ऋत्वा गत्वा प्राप्य, लोष्टः पांसुपिण्डः, पाषाणचूर्णनायाश्मनि निक्षिप्तः स्वयं विध्वंसेत विस्रंसेत विचूर्णीभवेत् ; एवं हैव यथायं दृष्टान्त एवमेव, विध्वंसमाना विशेषेण ध्वंसमानाः, विष्वञ्चः नानागतयः, विनेशुः विनष्टाः, यतः ; — ततः तस्मादासुरविनाशाद्देवत्वप्रतिबन्धभूतेभ्यः स्वाभाविकासङ्गजनितपाप्मभ्यो वियोगात् , असंसर्गधर्मिमुख्यप्राणाश्रयबलात् , देवाः वागादयः प्रकृताः, अभवन् ; किमभवन् ? स्वं देवतारूपमग्न्याद्यात्मकं वक्ष्यमाणम्। पूर्वमप्यग्न्याद्यात्मका एव सन्तः स्वाभाविकेन पाप्मना तिरस्कृतविज्ञानाः पिण्डमात्राभिमाना आसन्। ते तत्पाप्मवियोगादुज्झित्वा पिण्डमात्राभिमानं शास्त्रसमर्पितवागाद्यग्न्याद्यात्माभिमाना बभूवुरित्यर्थः। किञ्च ते प्रतिपक्षभूता असुराः परा — अभवन्नित्यनुवर्तते ; पराभूता विनष्टा इत्यर्थः। यथा पुराकल्पेन वर्णितः पूर्वयजमानोऽतिक्रान्तकालिकः एतामेवाख्यायिकारूपां श्रुतिं दृष्ट्वा, तेनैव क्रमेण वागादिदेवताः परीक्ष्य, ताश्चापोह्यासङ्गपाप्मास्पददोषवत्त्वेनादोषास्पदं मुख्यं प्राणमात्मत्वेनोपगम्य, वागाद्याध्यात्मिकपिण्डमात्रपरिच्छिन्नात्माभिमानं हित्वा, वैराजपिण्डाभिमानं वागाद्यग्न्याद्यात्मविषयं वर्तमानप्रजापतित्वं शास्त्रप्रकाशितं प्रतिपन्नः ; तथैवायं यजमानस्तेनैव विधिना भवति प्रजापतिस्वरूपेणात्मना ; परा च, अस्य प्रजापतित्वप्रतिपक्षभूतः पाप्मा द्विषन्भ्रातृव्यः, भवति ; — यतोऽद्वेष्टापि भवति कश्चिद्भ्रातृव्यो भरतादितुल्यः ; यस्त्विन्द्रियविषयासङ्गजनितः पाप्मा, भ्रातृव्यो द्वेष्टा च, पारमार्थिकात्मस्वरूपतिरस्करणहेतुत्वात् — स च पराभवति विशीर्यते, लोष्टवत् , प्राणपरिष्वङ्गात्। कस्यैतत्फलमित्याह — य एवं वेद, यथोक्तं प्राणमात्मत्वेन प्रतिपद्यते पूर्वयजमानवदित्यर्थः ॥
फलमुपसंहृत्याधुनाख्यायिकारूपमेवाश्रित्याह। कस्माच्च हेतोर्वागादीन्मुक्त्वा मुख्य एव प्राण आत्मत्वेनाश्रयितव्य इति तदुपपत्तिनिरूपणाय, यस्मादयं वागादीनां पिण्डादीनां च साधारण आत्मा — इत्येतमर्थमाख्यायिकया दर्शयन्त्याह श्रुतिः —
ते होचुः क्व नु सोऽभूद्यो न इत्थमसक्तेत्ययमास्येऽन्तरिति सोऽयास्य आङ्गिरसोऽङ्गानां हि रसः ॥ ८ ॥
ते प्रजापतिप्राणाः, मुख्येन प्राणेन परिप्रापितदेवस्वरूपाः, ह ऊचुः उक्तवन्तः, फलावस्थाः ; किमित्याह — क्व न्विति वितर्के ; क्व नु कस्मिन्नु, सोऽभूत् ; कः ? यो नोऽस्मान् , इत्थम् एवम् , असक्त सञ्जितवान् देवभावमात्मत्वेनोपगमितवान्। स्मरन्ति हि लोके केनचिदुपकृता उपकारिणम् ; लोकवदेव स्मरन्तो विचारयमाणाः कार्यकरणसङ्घाते आत्मन्येवोपलब्धवन्तः ; कथम् ? अयमास्येऽन्तरिति — आस्ये मुखे य आकाशस्तस्मिन् , अन्तः, अयं प्रत्यक्षो वर्तत इति। सर्वो हि लोको विचार्याध्यवस्यति ; तथा देवाः।
यस्मादयमन्तराकाशे वागाद्यात्मत्वेन विशेषमनाश्रित्य वर्तमान उपलब्धो देवैः, तस्मात् — स प्राणोऽयास्यः ; विशेषानाश्रयत्वाच्च असक्त सञ्जितवान्वागादीन् ; अत एवाङ्गिरसः आत्मा कार्यकरणानाम् ; कथमाङ्गिरसः ? प्रसिद्धं ह्येतत् , अङ्गानां कार्यकरणलक्षणानाम् , रसः सार आत्मेत्यर्थः ; कथं पुनरङ्गरसत्वम् ? तदपाये शोषप्राप्तेरिति वक्ष्यामः। यस्माच्चायमङ्गरसत्वाद्विशेषानाश्रयत्वाच्च कार्यकरणानां साधारण आत्मा विशुद्धश्च, तस्माद्वागादीनपास्य प्राण एवात्मत्वेनाश्रयितव्य इति वाक्यार्थः। आत्मा ह्यात्मत्वेनोपगन्तव्यः ; अविपरीतबोधाच्छ्रेयःप्राप्तेः, विपर्यये चानिष्टाप्राप्तिदर्शनात् ॥
सा वा एषा देवता दूर्नाम दूरं ह्यस्या मृत्युर्दूरं ह वा अस्मान्मृत्युर्भवति य एवं वेद ॥ ९ ॥
स्यान्मतं प्राणस्य विशुद्धिरसिद्धेति ; ननु परिहृतमेतद्वागादीनां कल्याणवदनाद्यासङ्गवत्प्राणस्यासङ्गास्पदाभावेन ; बाढम् ; किं त्वाङ्गिरसत्वेन वागादीनामात्मत्वोक्त्या वागादिद्वारेण शवस्पृष्टितत्स्पृष्टेरिवाशुद्धता शङ्क्यत इति। आह — शुद्ध एव प्राणः ; कुतः ? सा वा एषा देवता दूर्नाम — यं प्राणं प्राप्याश्मानमिव लोष्टवद्विध्वस्ता असुराः ; तं परामृशति — सेति ; सैवैषा, येयं वर्तमानयजमानशरीरस्था देवैर्निर्धारिता ‘अयमास्येऽन्तः’ इति ; देवता च सा स्यात् , उपासनक्रियायाः कर्मभावेन गुणभूतत्वात् ; यस्मात्सा दूर्नाम दूरित्येवं ख्याता — नामशब्दः ख्यापनपर्यायः — तस्मात्प्रसिद्धास्या विशुद्धिः, दूर्नामत्वात् ; कुतः पुनर्दूर्नामत्वमित्याह — दूरं दूरे, हि यस्मात् , अस्याः प्राणदेवतायाः, मृत्युरासङ्गलक्षणः पाप्मा ; असंश्लेषधर्मित्वात्प्राणस्य समीपस्थस्यापि दूरता मृत्योः ; तस्माद्दूरित्येवं ख्यातिः ; एवं प्राणस्य विशुद्धिर्ज्ञापिता। विदुषः फलमुच्यते — दूरं ह वा अस्मान्मृत्युर्भवति — अस्मादेवंविदः, य एवं वेद तस्मात् , एवमिति — प्रकृतं विशुद्धिगुणोपेतं प्राणमुपास्त इत्यर्थः। उपासनं नाम उपास्यार्थवादे यथा देवतादिस्वरूपं श्रुत्या ज्ञाप्यते तथा मनसोपगम्य, आसनं चिन्तनम् , लौकिकप्रत्ययाव्यवधानेन, यावत् तद्देवतादिस्वरूपात्माभिमानाभिव्यक्तिरिति लौकिकात्माभिमानवत् ; — [‘देवो भूत्वा देवानप्येति’ (बृ. उ. ४। १। २)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=4&id=BR_C04_S01_V02&hl=देवो भूत्वा देवानप्येति) [‘किन्देवतोऽस्यां प्राच्यां दिश्यसि’ (बृ. उ. ३। ९। २०)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=3&id=BR_C03_S09_V20&hl=किन्देवतोऽस्यां प्राच्यां दिश्यसि) इत्येवमादिश्रुतिभ्यः ॥
‘सा वा एषा देवता…दूरं ह वा अस्मान्मृत्युर्भवति’ इत्युक्तम् ; कथं पुनरेवंविदो दूरं मृत्युर्भवतीति ? उच्यते — एवंवित्त्वविरोधात् ; इन्द्रियविषयसंसर्गासङ्गजो हि पाप्मा प्राणात्माभिमानिनो हि विरुध्यते, वागादिविशेषात्माभिमानहेतुत्वात्स्वाभाविकाज्ञानहेतुत्वाच्च ; शास्त्रजनितो हि प्राणात्माभिमानः ; तस्मात् एवंविदः पाप्मा दूरं भवतीति युक्तम् , विरोधात् ; — तदेतत्प्रदर्शयति —
सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्युमपहत्य यत्रासां दिशामन्तस्तद्गमयाञ्चकार तदासां पाप्मनो विन्यदधात्तस्मान्न जनमियान्नान्तमियान्नेत्पाप्मानं मृत्युमन्ववायानीति ॥ १० ॥
सा वा एषा देवतेत्युक्तार्थम्। एतासां वागादीनां देवतानाम् , पाप्मानं मृत्युम् — स्वाभाविकाज्ञानप्रयुक्तेन्द्रियविषयसंसर्गासङ्गजनितेन हि पाप्मना सर्वो म्रियते, स ह्यतो मृत्युः — तम् , प्राणात्माभिमानरूपाभ्यो देवताभ्यः, अपच्छिद्य अपहत्य, — प्राणात्माभिमानमात्रतयैव प्राणोऽपहन्तेत्युच्यते ; विरोधादेव तु पाप्मैवंविदो दूरं गतो भवति ; किं पुनश्चकार देवतानां पाप्मानं मृत्युमपहत्येत्युच्यते — यत्र यस्मिन् , आसां प्राच्यादीनां दिशाम् , अन्तः अवसानम् , तत् तत्र गमयाञ्चकार गमनं कृतवानित्येतत्। ननु नास्ति दिशामन्तः, कथमन्तं गमितवानिति ; उच्यते — श्रौतविज्ञानवज्जनावधिनिमित्तकल्पितत्वाद्दिशां तद्विरोधिजनाध्युषित एव देशो दिशामन्तः, देशान्तोऽरण्यमिति यद्वत् ; इत्यदोषः। तत्तत्र गमयित्वा, आसां देवतानाम् , पाप्मन इति द्वितीयाबहुवचनम् , विन्यदधात् विविधं न्यग्भावेनादधात्स्थापितवती, प्राणदेवता ; प्राणात्माभिमानशून्येष्वन्त्यजनेष्विति सामर्थ्यात् ; इन्द्रियसंसर्गजो हि स इति प्राण्याश्रयतावगम्यते। तस्मात्तमन्त्यं जनम् , नेयात् न गच्छेत् सम्भाषणदर्शनादिभिर्न संसृजेत् ; तत्संसर्गे पाप्मना संसर्गः कृतः स्यात् ; पाप्माश्रयो हि सः ; तज्जननिवासं चान्तं दिगन्तशब्दवाच्यम् , नेयात् — जनशून्यमपि, जनमपि तद्देशवियुक्तम् , इत्यभिप्रायः। नेदिति परिभयार्थे निपातः ; इत्थं जनसंसर्गे, पाप्मानं मृत्युम् , अन्ववायानीति — अनु अव अयानीति अनुगच्छेयमिति ; एवं भीतो न जनमन्तं चेयादिति पूर्वेण सम्बन्धः ॥
सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्युमपहत्याथैना मृत्युमत्यवहत् ॥ ११ ॥
सा वा एषा देवता — तदेतत्प्राणात्मज्ञानकर्मफलं वागादीनामग्न्याद्यात्मत्वमुच्यते। अथैना मृत्युमत्यवहत् — यस्मादाध्यात्मिकपरिच्छेदकरः पाप्मा मृत्युः प्राणात्मविज्ञानेनापहतः, तस्मात्स प्राणोऽपहन्ता पाप्मनो मृत्योः ; तस्मात्स एव प्राणः, एना वागादिदेवताः, प्रकृतं पाप्मानं मृत्युम् , अतीत्य अवहत् प्रापयत् स्वं स्वमपरिच्छिन्नमग्न्यादिदेवतात्मरूपम् ॥
स वै वाचमेव प्रथमामत्यवहत् ; सा यदा मृत्युमत्यमुच्यत सोऽग्निरभवत् ; सोऽयमग्निः परेण मृत्युमतिक्रान्तो दीप्यते ॥ १२ ॥
स वै वाचमेव प्रथमामत्यवहत् — स प्राणः, वाचमेव, प्रथमां प्रधानामित्येतत् — उद्गीथकर्मणीतरकरणापेक्षया साधकतमत्वं प्राधान्यं तस्याः — तां प्रथमामत्यवहत् वहनं कृतवान्। तस्याः पुनर्मृत्युमतीत्योढायाः किं रूपमित्युच्यते — सा वाक् , यदा यस्मिन्काले, पाप्मानं मृत्युम् , अत्यमुच्यत अतीत्यामुच्यत मोचिता स्वयमेव, तदा सः
अग्निः अभवत् — सा वाक् — पूर्वमप्यग्निरेव सती मृत्युवियोगेऽप्यग्निरेवाभवत्। एतावांस्तु विशेषो मृत्युवियोगे — सोऽयमतिक्रान्तोऽग्निः, परेण मृत्युं परस्तान्मृत्योः, दीप्यते ; प्राङ्मोक्षान्मृत्युप्रतिबद्धोऽध्यात्मवागात्मना नेदानीमिव दीप्तिमानासीत् ; इदानीं तु मृत्युं परेण दीप्यते मृत्युवियोगात् ॥
अथ प्राणमत्यवहत् ; स यदा मृत्युमत्यमुच्यत स वायुरभवत् ; सोऽयं वायुः परेण मृत्युमतिक्रान्तः पवते ॥ १३ ॥
तथा — प्राणः घ्राणम् — वायुरभवत् ; स तु पवते मृत्युं परेणातिक्रान्तः। सर्वमन्यदुक्तार्थम् ॥
अथ चक्षुरत्यवहत् ; तद्यदा मृत्युमत्यमुच्यत स आदित्योऽभवत् ; सोऽसावादित्यः परेण मृत्युमतिक्रान्तस्तपति ॥ १४ ॥
तथा चक्षुरादित्योऽभवत् ; स तु तपति ॥
अथ श्रोत्रमत्यवहत् ; तद्यदा मृत्युमत्यमुच्यत ता दिशोऽभवंस्ता इमा दिशः परेण मृत्युमतिक्रान्ताः ॥ १५ ॥
तथा श्रोत्रं दिशोऽभवन् ; दिशः प्राच्यादिविभागेनावस्थिताः ॥
अथ मनोऽत्यवहत् ; तद्यदा मृत्युमत्यमुच्यत स चन्द्रमा अभवत् ; सोऽसौ चन्द्रः परेण मृत्युमतिक्रान्तो भात्येवं ह वा एनमेषा देवता मृत्युमतिवहति य एवं वेद ॥ १६ ॥
मनः चन्द्रमाः — भाति। यथा पूर्वयजमानं वागाद्यग्न्यादिभावेन मृत्युमत्यवहत् , एवम् एनं वर्तमानयजमानमपि, ह वै, एषा प्राणदेवता मृत्युमतिवहति वागाद्यग्न्यादिभावेन, एवं यो वागादिपञ्चकविशिष्टं प्राणं वेद ; ‘तं यथा यथोपासते तदेव भवति’ (शत. १०। ५। २। २०) इति श्रुतेः ॥
अथात्मनेऽन्नाद्यमागायद्यद्धि किञ्चान्नमद्यतेऽनेनैव तदद्यत इह प्रतितिष्ठति ॥ १७ ॥
अथात्मने। यथा वागादिभिरात्मार्थमागानं कृतम् ; तथा मुख्योऽपि प्राणः सर्वप्राणसाधारणं प्राजापत्यफलमागानं कृत्वा त्रिषु पवमानेषु, अथ अनन्तरं शिष्टेषु नवसु स्तोत्रेषु, आत्मने आत्मार्थम् , अन्नाद्यम् अन्नं च तदाद्यं च अन्नाद्यम् , आगायत्। कर्तुः कामसंयोगो वाचनिक इत्युक्तम्। कथं पुनस्तदन्नाद्यं प्राणेनात्मार्थमागीतमिति गम्यत इत्यत्र हेतुमाह — यत्किञ्चेति — सामान्यान्नमात्रपरामर्शार्थः ; हीति हेतौ ; यस्माल्लोके प्राणिभिर्यत्किञ्चिदन्नमद्यते भक्ष्यते तदनेनैव प्राणेनैव ; अन इति प्राणस्याख्या प्रसिद्धा ; अनः शब्दः सान्तः शकटवाची, यस्त्वन्यः स्वरान्तः स प्राणपर्यायः ; प्राणेनैव तदद्यत इत्यर्थः ; किञ्च, न केवलं प्राणेनाद्यत एवान्नाद्यम् , तस्मिञ्शरीराकारपरिणतेऽन्नाद्ये इह, प्रतितिष्ठति प्राणः ; तस्मात्प्राणेनात्मनः प्रतिष्ठार्थमागीतमन्नाद्यम्। यदपि प्राणेनान्नादनं तदपि प्राणस्य प्रतिष्ठार्थमेवेति न वागादिष्विव कल्याणासङ्गजपाप्मसम्भवः प्राणेऽस्ति ॥
ते देवा अब्रुवन्नेतावद्वा इदं सर्वं यदन्नं तदात्मन आगासीरनु नोऽस्मिन्नन्न आभजस्वेति ते वै माभिसंविशतेति तथेति तं समन्तं परिण्यविशन्त। तस्माद्यदनेनान्नमत्ति तेनैतास्तृप्यन्त्येवं ह वा एनं स्वा अभिसंविशन्ति भर्ता स्वानां श्रेष्ठः पुर एता भवत्यन्नादोऽधिपतिर्य एवं वेद य उ हैवंविदं स्वेषु प्रति प्रतिर्बुभूषति न हैवालं भार्येभ्यो भवत्यथ य एवैतमनु भवति यो वैतमनु भार्यान्बुभूर्षति स हैवालं भार्येभ्यो भवति ॥ १८ ॥
ते देवाः। नन्ववधारणमयुक्तम् ‘प्राणेनैव तदद्यते’ इति, वागादीनामप्यन्ननिमित्तोपकारदर्शनात् ; नैष दोषः, प्राणद्वारत्वात्तदुपकारस्य। कथं प्राणद्वारकोऽन्नकृतो वागादीनामुपकार इत्येतमर्थं प्रदर्शयन्नाह — ते वागादयो देवाः, स्वविषयद्योतनाद्देवाः, अब्रुवन् उक्तवन्तो मुख्यं प्राणम् — ‘इदम् एतावत् , नातोऽधिकमस्ति ; वा इति स्मरणार्थः ; इदं तत्सर्वमेतावदेव ; किम् ? यदन्नं प्राणस्थितिकरमद्यते लोके, तत्सर्वमात्मने आत्मार्थम् , आगासीः आगीतवानसि आगानेनात्मसात्कृतमित्यर्थः ; वयं चान्नमन्तरेण स्थातुं नोत्सहामहे ; अतः अनु पश्चात् , नः अस्मान् , अस्मिन्नन्ने आत्मार्थे तवान्ने, आभजस्व आभाजयस्व ; णिचोऽश्रवणं छान्दसम् ; अस्मांश्चान्नभागिनः कुरु’। इतर आह — ‘ते यूयं यदि अन्नार्थिनः वै, मा माम् , अभिसंविशत समन्ततो मामाभिमुख्येन निविशत’ — इति एवमुक्तवति प्राणे, तथेति एवमिति, तं प्राणं परिसमन्तं परिसमन्तात् , न्यविशन्त निश्चयेनाविशन्त, तं प्राणं परिवेष्ट्य निविष्टवन्त इत्यर्थः। तथा निविष्टानां प्राणानुज्ञया तेषां प्राणेनैवाद्यमानं प्राणस्थितिकरं सदन्नं तृप्तिकरं भवति ; न स्वातन्त्र्येणान्नसम्बन्धो वागादीनाम्। तस्माद्युक्तमेवावधारणम् — ‘अनेनैव तदद्यते’ इति। तदेव चाह — तस्मात् यस्मात्प्राणाश्रयतयैव प्राणानुज्ञयाभिसन्निविष्टा वागादिदेवतास्तस्मात् , यदन्नम् , अनेन प्राणेन, अत्ति लोकः, तेनान्नेन, एता वागाद्याः, तृप्यन्ति। वागाद्याश्रयं प्राणं यो वेद — ‘वागादयश्च पञ्च प्राणाश्रयाः’ इति, तमप्येवम् , एवं ह वै, स्वा ज्ञातयः, अभिसंविशन्ति वागादय इव प्राणम् ; ज्ञातीनामाश्रयणीयो भवतीत्यभिप्रायः। अभिसन्निविष्टानां च स्वानाम् , प्राणवदेव वागादीनाम् , स्वान्नेन भर्ता भवति ; तथा श्रेष्ठः ; पुरोऽग्रतः, एता गन्ता, भवति, वागादीनामिव प्राणः ; तथा अन्नादोऽनामयावीत्यर्थः ; अधिपतिरधिष्ठाय च पालयिता स्वतन्त्रः पतिः प्राणवदेव वागादीनाम् ; य एवं प्राणं वेद तस्यैतद्यथोक्तं फलं भवति। किञ्च य उ हैवंविदं प्राणविदं प्रति, स्वेषु ज्ञातीनां मध्ये, प्रतिः प्रतिकूलः, बुभूषति प्रतिस्पर्धीभवितुमिच्छति, सोऽसुरा इव प्राणप्रतिस्पर्धिनो न हैवालं न पर्याप्तः, भार्येभ्यः भरणीयेभ्यः, भवति, भर्तुमित्यर्थः। अथ पुनर्य एव ज्ञातीनां मध्ये एतमेवंविदं वागादय इव प्राणम् , अनु अनुगतो भवति, यो वा एतमेवंविदम् , अन्वेव अनुवर्तयन्नेव, आत्मीयान्भार्यान्बुभूर्षति भर्तुमिच्छति, यथैव वागादयः प्राणानुवृत्त्यात्मबुभूर्षव आसन् ; स हैवालं पर्याप्तः, भार्येभ्यो भरणीयेभ्यः, भवति भर्तुम् , नेतरः स्वतन्त्रः। सर्वमेतत्प्राणगुणविज्ञानफलमुक्तम् ॥
कार्यकरणानामात्मत्वप्रतिपादनाय प्राणस्याङ्गिरसत्वमुपन्यस्तम् — ‘सोऽयास्य आङ्गिरसः’ इति ; ‘अस्माद्धेतोरयमाङ्गिरसः’ इत्याङ्गिरसत्वे हेतुर्नोक्तः ; तद्धेतुसिद्ध्यर्थमारभ्यते। तद्धेतुसिद्ध्यायत्तं हि कार्यकरणात्मत्वं प्राणस्य ॥
अनन्तरं च वागादीनां प्राणाधीनतोक्ता ; सा च कथमुपपादनीयेत्याह —
सोऽयास्य आङ्गिरसोऽङ्गानां हि रसः प्राणो वा अङ्गानां रसः प्राणो हि वा अङ्गानां रसस्तस्माद्यस्मात्कस्माच्चाङ्गात्प्राण उत्क्रामति तदेव तच्छुष्यत्येष हि वा अङ्गानां रसः ॥ १९ ॥
‘सोऽयास्य आङ्गिरसः’ इत्यादि यथोपन्यस्तमेवोपादीयते उत्तरार्थम्। ‘प्राणो वा अङ्गानां रसः’ इत्येवमन्तं वाक्यं यथाव्याख्यातार्थमेव पुनः स्मारयति। कथम् ? — प्राणो वा अङ्गानां रस इति। प्राणो हि ; हि - शब्दः प्रसिद्धौ ; अङ्गानां रसः ; प्रसिद्धमेतत्प्राणस्याङ्गरसत्वं न वागादीनाम् ; तस्माद्युक्तम् ‘प्राणो वा’ इति स्मारणम्। कथं पुनः प्रसिद्धत्वमित्यत आह — तस्माच्छब्द उपसंहारार्थं उपरित्वेन सम्बध्यते ; यस्माद्यतोऽवयवात् , कस्मादनुक्तविशेषात् ; यस्मात्कस्मात् यतः कुतश्चिच्च, अङ्गाच्छरीरावयवादविशेषितात् , प्राणः उत्क्रामत्यपसर्पति, तदेव तत्रैव, तदङ्गं शुष्यति नीरसं भवति शोषमुपैति। तस्मादेष हि वा अङ्गानां रस इत्युपसंहारः। अतः कार्यकरणानामात्मा प्राण इत्येतत्सिद्धम्। आत्मापाये हि शोषो मरणं स्यात्। तस्मात्तेन जीवन्ति प्राणिनः सर्वे। तस्मादपास्य वागादीन्प्राण एवोपास्य इति समुदायार्थः ॥
एष उ। न केवलं कार्यकरणयोरेवात्मा प्राणो रूपकर्मभूतयोः ; किं तर्हि ? ऋग्यजुःसाम्नां नामभूतानामात्मेति सर्वात्मकतया प्राणं स्तुवन्महीकरोत्युपास्यत्वाय —
एष उ एव बृहस्पतिर्वाग्वै बृहती तस्या एष पतिस्तस्मादु बृहस्पतिः ॥ २० ॥
एष उ एव प्रकृत आङ्गिरसो बृहस्पतिः। कथं बृहस्पतिरिति, उच्यते — वाग्वै बृहती बृहतीच्छन्दः षट्त्रिंशदक्षरा। अनुष्टुप्च वाक् ; कथम् ? ‘वाग्वा अनुष्टुप्’ (तै. सं. १। ३। ५) इति श्रुतेः ; सा च वागनुष्टुब्बृहत्यां छन्दस्यन्तर्भवति ; अतो युक्तम् ‘वाग्वै बृहती’ इति प्रसिद्धवद्वक्तुम्। बृहत्यां च सर्वा ऋचोऽन्तर्भवन्ति, प्राणसंस्तुतत्वात् ; ‘प्राणो बृहती’ (ऐ. आ. २। १। ६) ‘प्राण ऋच इत्येव विद्यात्’ (ऐ. आ. २। २। २) इति श्रुत्यन्तरात् ; वागात्मत्वाच्चर्चां प्राणेऽन्तर्भावः ; तत्कथमित्याह — तस्या वाचो बृहत्या ऋचः, एषः प्राणः, पतिः, तस्या निर्वर्तकत्वात् ; कौष्ठ्याग्निप्रेरितमारुतनिर्वर्त्या हि ऋक् ; पालनाद्वा वाचः पतिः ; प्राणेन हि पाल्यते वाक् , अप्राणस्य शब्दोच्चारणसामर्थ्याभावात् ; तस्मादु बृहस्पतिः ऋचां प्राण आत्मेत्यर्थः ॥
एष उ एव ब्रह्मणस्पतिर्वाग्वै ब्रह्म तस्या एष पतिस्तस्मादु ब्रह्मणस्पतिः ॥ २१ ॥
तथा यजुषाम्। कथम् ? एष उ एव ब्रह्मणस्पतिः। वाग्वै ब्रह्म — ब्रह्म यजुः ; तच्च वाग्विशेष एव। तस्या वाचो यजुषो ब्रह्मणः, एष पतिः ; तस्मादु ब्रह्मणस्पतिः — पूर्ववत् ॥
कथं पुनरेतदवगम्यते बृहतीब्रह्मणोर्ऋग्यजुष्ट्वं न पुनरन्यार्थत्वमिति ? उच्यते — वाचः अन्ते सामसामानाधिकरण्यनिर्देशात् ‘वाग्वै साम’ इति। तथा च ‘वाग्वै बृहती’ ‘वाग्वै ब्रह्म’ इति च वाक्समानाधिकरणयोर्ऋग्यजुष्ट्वं युक्तम्। परिशेषाच्च — साम्न्यभिहिते ऋग्यजुषी एव परिशिष्टे। वाग्विशेषत्वाच्च — वाग्विशेषौ हि ऋग्यजुषी ; तस्मात्तयोर्वाचा समानाधिकरणता युक्ता। अविशेषप्रसङ्गाच्च — ‘साम’ ‘उद्गीथः’ इति च स्पष्टं विशेषाभिधानत्वम् , तथा बृहतीब्रह्मशब्दयोरपि विशेषाभिधानत्वं युक्तम् ; अन्यथा अनिर्धारितविशेषयोरानर्थक्यापत्तेश्च, विशेषाभिधानस्य वाङ्मात्रत्वे चोभयत्र पौनरुक्त्यात् ; ऋग्यजुःसामोद्गीथशब्दानां च श्रुतिष्वेवं क्रमदर्शनात् ॥
एष उ एव साम वाग्वै सामैष सा चामश्चेति तत्साम्नः सामत्वम्। यद्वेव समः प्लुषिणा समो मशकेन समो नागेन सम एभिस्त्रिभिर्लोकैः समोऽनेन सर्वेण तस्माद्वेव सामाश्नुते साम्नः सायुज्यं सलोकतां य एवमेतत्साम वेद ॥ २२ ॥
एष उ एव साम। कथमित्याह — वाग्वै सा यत्किञ्चित्स्त्रीशब्दाभिधेयं सा वाक् ; सर्वस्त्रीशब्दाभिधेयवस्तुविषयो हि सर्वनाम - सा - शब्दः ; तथा अम एष प्राणः ; सर्वपुंशब्दाभिधेयवस्तुविषयोऽमः - शब्दः ; [‘केन मे पौंस्नानि नामान्याप्नोषीति, प्राणेनेति ब्रूयात् ; केन मे स्त्रीनामानीति, वाचा’ (कौ. उ. १। ७)](https://advaitasharada.sringeri.net/display/bhashya/kst?page=1&id=KT_C01_V07&hl=केन मे पौंस्नानि नामान्याप्नोषीति, प्राणेनेति ब्रूयात् ; केन मे स्त्रीनामानीति, वाचा) इति श्रुत्यन्तरात् ; वाक्प्राणाभिधानभूतोऽयं सामशब्दः। तथा प्राणनिर्वर्त्यस्वरादिसमुदायमात्रं गीतिः सामशब्देनाभिधीयते ; अतो न प्राणवाग्व्यतिरेकेण सामनामास्ति किञ्चित् , स्वरवर्णादेश्च प्राणनिर्वर्त्यत्वात्प्राणतन्त्रत्वाच्च। एष उ एव प्राणः साम। यस्मात् साम सामेति वाक्प्राणात्मकम् — सा चामश्चेति, तत् तस्मात् साम्नो गीतिरूपस्य स्वरादिसमुदायस्य सामत्वं तत् प्रगीतं भुवि ॥
यत् उ एव समः तुल्यः सर्वेण वक्ष्यमाणेन प्रकारेण, तस्माद्वा सामेत्यनेन सम्बन्धः। वा - शब्दः सामशब्दलाभनिमित्तप्रकारान्तरनिर्देशसामर्थ्यलभ्यः। केन पुनः प्रकारेण प्राणस्य तुल्यत्वमित्युच्यते — समः प्लुषिणा पुत्तिकाशरीरेण, समो मशकेन मशकशरीरेण, समो नागेन हस्तिशरीरेण, सम एभिस्त्रिभिर्लोकैः त्रैलोक्यशरीरेण प्राजापत्येन, समोऽनेन जगद्रूपेण हैरण्यगर्भेण। पुत्तिकादिशरीरेषु गोत्वादिवत्कार्त्स्न्येन परिसमाप्त इति समत्वं प्राणस्य, न पुनः शरीरमात्रपरिमाणेनैव ; अमूर्तत्वात्सर्वगतत्वाच्च। न च घटप्रासादादिप्रदीपवत्सङ्कोचविकासितया शरीरेषु तावन्मात्रं समत्वम्। [‘त एते सर्व एव समाः सर्वेऽनन्ताः’ (बृ. उ. १। ५। १३)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=1&id=BR_C01_S05_V13&hl=त एते सर्व एव समाः सर्वेऽनन्ताः) इति श्रुतेः। सर्वगतस्य तु शरीरेषु शरीरपरिमाणवृत्तिलाभो न विरुध्यते। एवं समत्वात्सामाख्यं प्राणं वेद यः श्रुतिप्रकाशितमहत्त्वं तस्यैतत्फलम् — अश्नुते व्याप्नोति, साम्नः प्राणस्य, सायुज्यं सयुग्भावं समानदेहेन्द्रियाभिमानत्वम् , सालोक्यं समानलोकतां वा, भावनाविशेषतः, य एवमेतत् यथोक्तं साम प्राणं वेद — आ प्राणात्माभिमानाभिव्यक्तेरुपास्ते इत्यर्थः ॥
एष उ वा उद्गीथः प्राणो वा उत्प्राणेन हीदं सर्वमुत्तब्धं वागेव गीथोच्च गीथा चेति स उद्गीथः ॥ २३ ॥
एष उ वा उद्गीथः। उद्गीथो नाम सामावयवो भक्तिविशेषः नोद्गानम् ; सामाधिकारात्। कथमुद्गीथः प्राणः ? प्राणो वा उत् — प्राणेन हि यस्मादिदं सर्वं जगत् उत्तब्धम् ऊर्ध्वं स्तब्धमुत्तम्भितं विधृतमित्यर्थः ; उत्तब्धार्थावद्योतकोऽयमुच्छब्दः प्राणगुणाभिधायकः ; तस्मादुत् प्राणः ; वागेव गीथा, शब्दविशेषत्वादुद्गीथभक्तेः ; गायतेः शब्दार्थत्वात्सा वागेव ; न ह्युद्गीथभक्तेः शब्दव्यतिरेकेण किञ्चिद्रूपमुत्प्रेक्ष्यते, तस्माद्युक्तमवधारणं वागेव गीथेति। उच्च प्राणः, गीथा च प्राणतन्त्रा वाक् , इत्युभयमेकेन शब्देनाभिधीयते, स उद्गीथः ॥
उक्तार्थदार्ढ्यायाख्यायिकारभ्यते —
तद्धापि ब्रह्मदत्तश्चैकितानेयो राजानं भक्षयन्नुवाचायं त्यस्य राजा मूर्धानं विपातयताद्यदितोऽयास्य आङ्गिरसोऽन्येनोदगायदिति वाचा च ह्येव स प्राणेन चोदगायदिति ॥ २४ ॥
तद्धापि। तत् तत्रैतस्मिन्नुक्तेऽर्थे, हापि आख्यायिकापि श्रूयते ह स्म। ब्रह्मदत्तः नामतः ; चिकितानस्यापत्यं चैकितानः तदपत्यं युवा चैकितानेयः, राजानं यज्ञे सोमम् , भक्षयन्नुवाच ; किम् ? ‘अयं चमसस्थो मया भक्ष्यमाणो राजा, त्यस्य तस्य ममानृतवादिनः, मूर्धानं शिरः, विपातयतात् विस्पष्टं पातयतु’ ; तोरयं तातङादेशः, आशिषि लोट् — विपातयतादिति ; यद्यहमनृतवादी स्यामित्यर्थः ; कथं पुनरनृतवादित्वप्राप्तिरिति, उच्यते — ‘यत् यदि इतोऽस्मात्प्रकृतात्प्राणाद्वाक्संयुक्तात् , अयास्यः — मुख्यप्राणाभिधायकेनायास्याङ्गिरसशब्देनाभिधीयते विश्वसृजां पूर्वर्षीणां सत्रे उद्गाता — सोऽन्येन देवतान्तरेण वाक्प्राणव्यतिरिक्तेन, उदगायत् उद्गानं कृतवान् ; ततोऽहमनृतवादी स्याम् ; तस्य मम देवता विपरीतप्रतिपत्तुर्मूर्धानं विपातयतु’ इत्येवं शपथं चकारेति विज्ञाने प्रत्ययकर्तव्यतादार्ढ्यं दर्शयति। तमिममाख्यायिकानिर्धारितमर्थं स्वेन वचसोपसंहरति श्रुतिः — वाचा च प्राणप्रधानया प्राणेन च स्वस्यात्मभूतेन, सः अयास्य आङ्गिरस उद्गाता, उदगायत् इत्येषोऽर्थो निर्धारितः शपथेन ॥
तस्य हैतस्य साम्नो यः स्वं वेद भवति हास्य स्वं तस्य वै स्वर एव स्वं तस्मादार्त्विज्यं करिष्यन्वाचि स्वरमिच्छेत तया वाचा स्वरसम्पन्नयार्त्विज्यं कुर्यात्तस्माद्यज्ञे स्वरवन्तं दिदृक्षन्त एव। अथो यस्य स्वं भवति भवति हास्य स्वं य एवमेतत्साम्नः स्वं वेद ॥ २५ ॥
तस्य हैतस्य। तस्येति प्रकृतं प्राणमभिसम्बध्नाति। ह एतस्येति मुख्यं व्यपदिशत्यभिनयेन। साम्नः सामशब्दवाच्यस्य प्राणस्य, यः स्वं धनम् , वेद ; तस्य ह किं स्यात् ? भवति हास्य स्वम्। फलेन प्रलोभ्याभिमुखीकृत्य शुश्रूषवे आह — तस्य वै साम्नः स्वर एव स्वम्। स्वर इति कण्ठगतं माधुर्यम् , तदेवास्य स्वं विभूषणम् ; तेन हि भूषितमृद्धिमल्लक्ष्यत उद्गानम् ; यस्मादेवं तस्मात् आर्त्विज्यम् ऋत्विक्कर्मोद्गानम् , करिष्यन् , वाचि विषये, वाचि वागाश्रितम् , स्वरम् , इत्छेत इच्छेत् , साम्नो धनवत्तां स्वरेण चिकीर्षुरुद्गाता। इदं तु प्रासङ्गिकं विधीयते ; साम्नः सौस्वर्येण स्वरवत्त्वप्रत्यये कर्तव्ये, इच्छामात्रेण सौस्वर्यं न भवतीति, दन्तधावनतैलपानादि सामर्थ्यात्कर्तव्यमित्यर्थः। तयैवं संस्कृतया वाचा स्वरसम्पन्नया आर्त्विज्यं कुर्यात्। तस्मात् — यस्मात्साम्नः स्वभूतः स्वरः तेन स्वेन भूषितं साम, अतो यज्ञे स्वरवन्तम् उद्गातारम् , दिदृक्षन्त एव द्रष्टुमिच्छन्त्येव, धनिनमिव लौकिकाः। प्रसिद्धं हि लोके — अथो अपि, यस्य स्वं धनं भवति, तं धनिनं दिदृक्षन्ते — इति। सिद्धस्य गुणविज्ञानफलसम्बन्धस्योपसंहारः क्रियते — भवति हास्य स्वम् , य एवमेतत्साम्नः स्वं वेदेति ॥
तस्य हैतस्य साम्नो यः सुवर्णं वेद भवति हास्य सुवर्णं तस्य वै स्वर एव सुवर्णं भवति हास्य सुवर्णं य एवमेतत्साम्नः सुवर्णं वेद ॥ २६ ॥
अथान्यो गुणः सुवर्णवत्तालक्षणो विधीयते। असावपि सौस्वर्यमेव। एतावान्विशेषः — पूर्वं कण्ठगतमाधुर्यम् ; इदं तु लाक्षणिकं सुवर्णशब्दवाच्यम्। तस्य हैतस्य साम्नो यः सुवर्णं वेद, भवति हास्य सुवर्णम् ; सुवर्णशब्दसामान्यात्स्वरसुवर्णयोः। लौकिकमेव सुवर्णं गुणविज्ञानफलं भवतीत्यर्थः। तस्य वै स्वर एव सुवर्णम्। भवति हास्य सुवर्णं य एवमेतत्साम्नः सुवर्णं वेदेति पूर्ववत्सर्वम् ॥
तस्य हैतस्य साम्नो यः प्रतिष्ठां वेद प्रति ह तिष्ठति तस्य वै वागेव प्रतिष्ठा वाचि हि खल्वेष एतत्प्राणः प्रतिष्ठितो गीयतेऽन्न इत्यु हैक आहुः ॥ २७ ॥
तथा प्रतिष्ठागुणं विधित्सन्नाह — तस्य हैतस्य साम्नो यः प्रतिष्ठां वेद ; प्रितितिष्ठत्यस्यामिति प्रतिष्ठा वाक् ; तां प्रतिष्ठां साम्नो गुणम् , यो वेद स प्रतितिष्ठति ह। ‘तं यथा यथोपासते’ (शत. ब्रा. १०। ५। २। २०) इति श्रुतेस्तद्गुणत्वं युक्तम्। पूर्ववत्फलेन प्रतिलोभिताय का प्रतिष्ठेति शुश्रूषव आह — तस्य वै साम्नो वागेव। वागिति जिह्वामूलादीनां स्थानानामाख्या ; सैव प्रतिष्ठा। तदाह — वाचि हि जिह्वामूलादिषु हि यस्मात्प्रतिष्ठितः सन्नेष प्राणः एतद्गानं गीयते गीतिभावमापद्यते, तस्मात्साम्नः प्रतिष्ठा वाक्। अन्ने प्रतिष्ठितो गीयत इत्यु ह एके अन्ये आहुः ; इह प्रतितिष्ठतीति युक्तम्। अनिन्दितत्वादेकीयपक्षस्य विकल्पेन प्रतिष्ठागुणविज्ञानं कुर्यात् — वाग्वा प्रतिष्ठा, अन्नं वेति ॥
अथातः पवमानानामेवाभ्यारोहः स वै खलु प्रस्तोता साम प्रस्तौति स यत्र प्रस्तुयात्तदेतानि जपेत्। असतो मा सद्गमय तमसो मा ज्योतिर्गमय मृत्योर्मामृतं गमयेति स यदाहासतो मा सद्गमयेति मृत्युर्वा असत्सदमृतं मृत्योर्मामृतं गमयामृतं मा कुर्वित्येवैतदाह तमसो मा ज्योतिर्गमयेति मृत्युर्वै तमो ज्योतिरमृतं मृत्योर्मामृतं गमयामृतं मा कुर्वित्येवैतदाह मृत्योर्मामृतं गमयेति नात्र तिरोहितमिवास्ति। अथ यानीतराणि स्तोत्राणि तेष्वात्मनेऽन्नाद्यमागायेत्तस्मादु तेषु वरं वृणीत यं कामं कामयेत तं स एष एवंविदुद्गातात्मने वा यजमानाय वा यं कामं कामयते तमागायति तद्धैतल्लोकजिदेव न हैवालोक्यताया आशास्ति य एवमेतत्साम वेद ॥ २८ ॥
एवं प्राणविज्ञानवतो जपकर्म विधित्स्यते। यद्विज्ञानवतो जपकर्मण्यधिकारस्तद्विज्ञानमुक्तम्। अथानन्तरम् , यस्माच्चैवं विदुषा प्रयुज्यमानं देवभावायाभ्यारोहफलं जपकर्म, अतः तस्मात् तद्विधीयते इह। तस्य चोद्गीथसम्बन्धात्सर्वत्र प्राप्तौ पवमानानामिति वचनात् , पवमानेषु त्रिष्वपि कर्तव्यतायां प्राप्तायाम् , पुनः कालसङ्कोचं करोति — स वै खलु प्रस्तोता साम प्रस्तौति। स प्रस्तोता, यत्र यस्मिन्काले, साम प्रस्तुयात्प्रारभेत, तस्मिन्काल एतानि जपेत्। अस्य च जपकर्मण आख्या अभ्यारोह इति। आभिमुख्येनारोहत्यनेन जपकर्मणैवंविद्देवभावमात्मानमित्यभ्यारोहः। एतानीति बहुवचनात्त्रीणि यजूंषि। द्वितीयानिर्देशाद्ब्राह्मणोत्पन्नत्वाच्च यथापठित एव स्वरः प्रयोक्तव्यो न मान्त्रः। याजमानं जपकर्म ॥
एतानि तानि यजूंषि — ‘असतो मा सद्गमय’ ‘तमसो मा ज्योतिर्गमय’ ‘मृत्योर्मामृतं गमय’ इति। मन्त्राणामर्थस्तिरोहितो भवतीति स्वयमेव व्याचष्टे ब्राह्मणं मन्त्रार्थम् — सः मन्त्रः, यदाह यदुक्तवान् ; कोऽसावर्थ इत्युच्यते — ‘असतो मा सद्गमय’ इति। मृत्युर्वा असत् — स्वाभाविककर्मविज्ञाने मृत्युरित्युच्येते ; असत् अत्यन्ताधोभावहेतुत्वात् ; सत् अमृतम् — सत् शास्त्रीयकर्मविज्ञाने, अमरणहेतुत्वादमृतम्। तस्मादसतः असत्कर्मणोऽज्ञानाच्च, मा माम् , सत् शास्त्रीयकर्मविज्ञाने, गमय, देवभावसाधनात्मभावमापादयेत्यर्थः। तत्र वाक्यार्थमाह — अमृतं मा कुर्वित्येवैतदाहेति। तथा तमसो मा ज्योतिर्गमयेति। मृत्युर्वै तमः, सर्वं ह्यज्ञानमावरणात्मकत्वात्तमः, तदेव च मरणहेतुत्वान्मृत्युः। ज्योतिरमृतं पूर्वोक्तविपरीतं दैवं स्वरूपम्। प्रकाशात्मकत्वाज्ज्ञानं ज्योतिः ; तदेवामृतम् अविनाशात्मकत्वात् ; तस्मात्तमसो मा ज्योतिर्गमयेति। पूर्ववन्मृत्योर्मामृतं गमयेत्यादि ; अमृतं मा कुर्वित्येवैतदाह — दैवं प्राजापत्यं फलभावमापादयेत्यर्थः। पूर्वो मन्त्रोऽसाधनस्वभावात्साधनभावमापादयेति ; द्वितीयस्तु साधनभावादप्यज्ञानरूपात्साध्यभावमापादयेति। मृत्योर्मामृतं गमयेति पूर्वयोरेव मन्त्रयोः समुच्चितोऽर्थस्तृतीयेन मन्त्रेणोच्यत इति प्रसिद्धार्थतैव। नात्र तृतीये मन्त्रे तिरोहितमन्तर्हितमिवार्थरूपं पूर्वयोरिव मन्त्रयोरस्ति ; यथाश्रुत एवार्थः ॥
याजमानमुद्गानं कृत्वा पवमानेषु त्रिषु, अथानन्तरं यानीतराणि शिष्टानि स्तोत्राणि, तेष्वात्मनेऽन्नाद्यमागायेत् — प्राणविदुद्गाता प्राणभूतः प्राणवदेव। यस्मात्स एष उद्गाता एवं प्राणं यथोक्तं वेत्ति, अतः प्राणवदेव तं कामं साधयितुं समर्थः ; तस्माद्यजमानस्तेषु स्तोत्रेषु प्रयुज्यमानेषु वरं वृणीत ; यं कामं कामयेत तं कामं वरं वृणीत प्रार्थयेत। यस्मात्स एष एवंविदुद्गातेति तस्माच्छब्दात्प्रागेव सम्बध्यते। आत्मने वा यजमानाय वा यं कामं कामयत इच्छत्युद्गाता, तमागायत्यागानेन साधयति ॥
एवं तावज्ज्ञानकर्मभ्यां प्राणात्मापत्तिरित्युक्तम् ; तत्र नास्त्याशङ्कासम्भवः। अतः कर्मापाये प्राणापत्तिर्भवति वा न वेत्याशङ्क्यते ; तदाशङ्कानिवृत्त्यर्थमाह — तद्धैतल्लोकजिदेवेति। तद्ध तदेतत्प्राणदर्शनं कर्मवियुक्तं केवलमपि, लोकजिदेवेति लोकसाधनमेव। न ह एव अलोक्यतायै अलोकार्हत्वाय, आशा आशंसनं प्रार्थनम् , नैवास्ति ह। न हि प्राणात्मन्युत्पन्नात्माभिमानस्य तत्प्राप्त्याशंसनं सम्भवति। न हि ग्रामस्थः कदा ग्रामं प्राप्नुयामित्यरण्यस्थ इवाशास्ते। असन्निकृष्टविषये ह्यनात्मन्याशंसनम् , न तत्स्वात्मनि सम्भवति। तस्मान्नाशास्ति — कदाचित्प्राणात्मभावं न प्रतिपद्येयेति ॥
कस्यैतत्। य एवमेतत्साम प्राणं यथोक्तं निर्धारितमहिमानं वेद — ‘अहमस्मि प्राण इन्द्रियविषयासङ्गैरासुरैः पाप्मभिरधर्षणीयो विशुद्धः ; वागादिपञ्चकं च मदाश्रयत्वादग्न्याद्यात्मरूपं स्वाभाविकविज्ञानोत्थेन्द्रियविषयासङ्गजनितासुरपाप्मदोषवियुक्तम् ; सर्वभूतेषु च मदाश्रयान्नाद्योपयोगबन्धनम् ; आत्मा चाहं सर्वभूतानाम् , आङ्गिरसत्वात् ; ऋग्यजुःसामोद्गीथभूतायाश्च वाच आत्मा, तद्व्याप्तेस्तन्निर्वर्तकत्वाच्च ; मम साम्नो गीतिभावमापद्यमानस्य बाह्यं धनं भूषणं सौस्वर्यम् ; ततोऽप्यन्तरतरं सौवर्ण्यं लाक्षणिकं सौस्वर्यम् ; गीतिभावमापद्यमानस्य मम कण्ठादिस्थानानि प्रतिष्ठा ; एवं गुणोऽहं पुत्तिकादिशरीरेषु कार्त्स्न्येन परिसमाप्तः, अमूर्तत्वात्सर्वगतत्वाच्च’ — इति आ एवमभिमानाभिव्यक्तेर्वेद उपास्ते इत्यर्थः ॥
इति प्रथमाध्यायस्य तृतीयं ब्राह्मणम् ॥