नैवेह किञ्चनाग्र आसीन्मृत्युनैवेदमावृतमासीदशनाययाशनाया हि मृत्युस्तन्मनोऽकुरुतात्मन्वी स्यामिति। सोऽर्चन्नचरत्तस्यार्चत आपोऽजायन्तार्चते वै मे कमभूदिति तदेवार्कस्यार्कत्वं कं ह वा अस्मै भवति य एवमेतदर्कस्यार्कत्वं वेद ॥ १ ॥
अथाग्नेरश्वमेधोपयोगिकस्योत्पत्तिरुच्यते। तद्विषयदर्शनविवक्षयैवोत्पत्तिः स्तुत्यर्था। नैवेह किञ्चनाग्र आसीत् इह संसारमण्डले, किञ्चन किञ्चिदपि नामरूपप्रविभक्तविशेषम् , नैवासीत् न बभूव, अग्रे प्रागुत्पत्तेर्मनआदेः ॥
किं शून्यमेव बभूव ? शून्यमेव स्यात् ; ‘नैवेह किञ्चन’ इति श्रुतेः, न कार्यं कारणं वासीत् ; उत्पत्तेश्च ; उत्पद्यते हि घटः ; अतः प्रागुत्पत्तेर्घटस्य नास्तित्वम्। ननु कारणस्य न नास्तित्वम् , मृत्पिण्डादिदर्शनात् ; यन्नोपलभ्यते तस्यैव नास्तिता। अस्तु कार्यस्य, न तु कारणस्य, उपलभ्यमानत्वात्। न, प्रागुत्पत्तेः सर्वानुपलम्भात्। अनुपलब्धिश्चेदभावहेतुः, सर्वस्य जगतः प्रागुत्पत्तेर्न कारणं कार्यं वोपलभ्यते ; तस्मात्सर्वस्यैवाभावोऽस्तु ॥
न, ‘मृत्युनैवेदमावृतामासीत्’ इति श्रुतेः ; यदि हि किञ्चिदपि नासीत् , येनाव्रियते यच्चाव्रियते, तदा नावक्ष्यत् , ‘मृत्युनैवेदमावृतम्’ इति ; न हि भवति गगनकुसुमच्छन्नो वन्ध्यापुत्र इति ; ब्रवीति च ‘मृत्युनैवेदमावृतमासीत्’ इति। तस्मात् येनावृतं कारणेन, यच्चावृतं कार्यम् , प्रागुत्पत्तेस्तदुभयमासीत् , श्रुतेः प्रामाण्यात् , अनुमेयत्वाच्च। अनुमीयते च प्रागुत्पत्तेः कार्यकारणयोरस्तित्वम्। कार्यस्य हि सतो जायमानस्य कारणे सत्युत्पत्तिदर्शनात् , असति चादर्शनात् , जगतोऽपि प्रागुत्पत्तेः कारणास्तित्वमनुमीयते, घटादिकारणास्तित्ववत्। घटादिकारणस्याप्यसत्त्वमेव, अनुपमृद्य मृत्पिण्डादिकं घटाद्यनुत्पत्तेरिति चेत् , न ; मृदादेः कारणत्वात्। मृत्सुवर्णादि हि तत्र कारणं घटरुचकादेः, न पिण्डाकारविशेषः, तदभावे भावात्। असत्यपि पिण्डाकारविशेषे मृत्सुवर्णादिकारणद्रव्यमात्रादेव घटरुचकादिकार्योत्पत्तिर्दृश्यते। तस्मान्न पिण्डाकारविशेषो घटरुचकादिकारणम्। असति तु मृत्सुवर्णादिद्रव्ये घटरुचकादिर्न जायत इति मृत्सुवर्णादिद्रव्यमेव कारणम् , न तु पिण्डाकारविशेषः। सर्वं हि कारणं कार्यमुत्पादयत् , पूर्वोत्पन्नस्यात्मकार्यस्य तिरोधानं कुर्वत् , कार्यान्तरमुत्पादयति ; एकस्मिन्कारणे युगपदनेककार्यविरोधात्। न च पूर्वकार्योपमर्दे कारणस्य स्वात्मोपमर्दो भवति। तस्मात्पिण्डाद्युपमर्दे कार्योत्पत्तिदर्शनमहेतुः प्रागुत्पत्तेः कारणासत्त्वे। पिण्डादिव्यतिरेकेण मृदादेरसत्त्वादयुक्तमिति चेत् — पिण्डादिपूर्वकार्योपमर्दे मृदादि कारणं नोपमृद्यते, घटादिकार्यान्तरेऽप्यनुवर्तते, इत्येतदयुक्तम् , पिण्डघटादिव्यतिरेकेण मृदादिकारणस्यानुपलम्भादिति चेत् , न ; मृदादिकारणानां घटाद्युत्पत्तौ पिण्डादिनिवृत्तावनुवृत्तिदर्शनात्। सादृश्यादन्वयदर्शनम् , न कारणानुवृत्तेरिति चेत् , न ; पिण्डादिगतानां मृदाद्यवयवानामेव घटादौ प्रत्यक्षत्वेऽनुमानाभासात्सादृश्यादिकल्पनानुपपत्तेः। न च प्रत्यक्षानुमानयोर्विरुद्धाव्यभिचारिता, प्रत्यक्षपूर्वकत्वादनुमानस्य ; सर्वत्रैवानाश्वासप्रसङ्गात् — यदि च क्षणिकं सर्वं तदेवेदमिति गम्यमानम् , तद्बुद्धेरप्यन्यतद्बुद्ध्यपेक्षत्वे तस्या अप्यन्यतद्बुद्ध्यपेक्षत्वमित्यनवस्थायाम् , तत्सदृशमिदमित्यस्या अपि बुद्धेर्मृषात्वात् , सर्वत्रानाश्वासतैव। तदिदम्बुद्ध्योरपि कर्त्रभावे सम्बन्धानुपपत्तिः। सादृश्यात्तत्सम्बन्ध इति चेत् , न ; तदिदम्बुद्ध्योरितरेतरविषयत्वानुपपत्तेः। असति चेतरेतरविषयत्वे सादृश्यग्रहणानुपपत्तिः। असत्येव सादृश्ये तद्बुद्धिरिति चेत् , न ; तदिदम्बुद्ध्योरपि सादृश्यबुद्धिवदसद्विषयत्वप्रसङ्गात्। असद्विषयत्वमेव सर्वबुद्धीनामस्त्विति चेत् , न ; बुद्धिबुद्धेरप्यसद्विषयत्वप्रसङ्गात्। तदप्यस्त्विति चेत् , न ; सर्वबुद्धीनां मृषात्वेऽसत्यबुद्ध्यनुपपत्तेः। तस्मादसदेतत् — सादृश्यात्तद्बुद्धिरिति। अतः सिद्धः प्राक्कार्योत्पत्तेः कारणसद्भावः ॥
कार्यस्य च अभिव्यक्तिलिङ्गत्वात्। कार्यस्य च सद्भावः प्रागुत्पत्तेः सिद्धः ; कथमभिव्यक्तिलिङ्गत्वात् — अभिव्यक्तिर्लिङ्गमस्येति ? अभिव्यक्तिः साक्षाद्विज्ञानालम्बनत्वप्राप्तिः। यद्धि लोके प्रावृतं तमआदिना घटादि वस्तु, तदालोकादिना प्रावरणतिरस्कारेण विज्ञानविषयत्वं प्राप्नुवत् , प्राक्सद्भावं न व्यभिचरति ; तथेदमपि जगत् प्रागुत्पत्तेरित्यवगच्छामः। न ह्यविद्यमानो घटः उदितेऽप्यादित्ये उपलभ्यते। न ; ते अविद्यमानत्वाभावादुपलभ्येतैवेति चेत् — न हि तव घटादि कार्यं कदाचिदप्यविद्यमानमित्युदिते आदित्ये उपलभ्येतैव, मृत्पिण्डेसन्निहिते तमआद्यावरणे चासति विद्यमानत्वादिति चेत् , न ; द्विविधत्वादावरणस्य। घटादिकार्यस्य द्विविधं ह्यावरणम् — मृदादेरभिव्यक्तस्य तमःकुड्यादि, प्राङ्मृदोऽभिव्यक्तेर्मृदाद्यवयवानां पिण्डादिकार्यान्तररूपेण संस्थानम्। तस्मात्प्रागुत्पत्तेर्विद्यमानस्यैव घटादिकार्यस्यावृतत्वादनुपलब्धिः। नष्टोत्पन्नभावाभावशब्दप्रत्ययभेदस्तु अभिव्यक्तितिरोभावयोर्द्विविधत्वापेक्षः। पिण्डकपालादेरावरणवैलक्षण्यादयुक्तमिति चेत् — तमःकुड्यादि हि घटाद्यावरणं घटादिभिन्नदेशं दृष्टम् ; न तथा घटादिभिन्नदेशे दृष्टे पिण्डकपाले ; तस्मात्पिण्डकपालसंस्थानयोर्विद्यमानस्यैव घटस्यावृतत्वादनुपलब्धिरित्ययुक्तम् , आवरणधर्मवैलक्षण्यादिति चेत् , न ; क्षीरोदकादेः क्षीराद्यावरणेनैकदेशत्वदर्शनात्। घटादिकार्ये कपालचूर्णाद्यवयवानामन्तर्भावादनावरणत्वमिति चेत् , न ; विभक्तानाङ्कार्यान्तरत्वादावरणत्वोपपत्तेः। आवरणाभावे एव यत्नः कर्तव्य इति चेत् — पिण्डकपालावस्थयोर्विद्यमानमेव घटादि कार्यमावृतत्वान्नोपलभ्यत इति चेत् , घटादिकार्यार्थिना तदावरणविनाशे एव यत्नः कर्तव्यः, न घटाद्युत्पत्तौ ; न चैतदस्ति ; तस्मादयुक्तं विद्यमानस्यैवावृतत्वादनुपलब्धिः, इति चेत् , न ; अनियमात्। न हि विनाशमात्रप्रयत्नादेव घटाद्यभिव्यक्तिर्नियता ; तमआद्यावृते घटादौ प्रदीपाद्युत्पत्तौ प्रयत्नदर्शनात्। सोऽपि तमोनाशायैवेति चेत् — दीपाद्युत्पत्तावपि यः प्रयत्नः सोऽपि तमस्तिरस्करणाय ; तस्मिन्नष्टे घटः स्वयमेवोपलभ्यते ; न हि घटे किञ्चिदाधीयत इति चेत् , न ; प्रकाशवतो घटस्योपलभ्यमानत्वात्। यथा प्रकाशविशिष्टो घट उपलभ्यते प्रदीपकरणे, न तथा प्राक्प्रदीपकरणात्। तस्मान्न तमस्तिरस्करणायैव प्रदीपकरणम् ; किं तर्हि, प्रकाशवत्त्वाय ; प्रकाशवत्त्वेनैवोपलभ्यमानत्वात्। क्वचिदावरणविनाशेऽपि यत्नः स्यात् ; यथा कुड्यादिविनाशे। तस्मान्न नियमोऽस्ति — अभिव्यक्त्यर्थिनावरणविनाशे एव यत्नः कार्य इति। नियमार्थवत्त्वाच्च। कारणे वर्तमानं कार्यं कार्यान्तराणामावरणमित्यवोचाम। तत्र यदि पूर्वाभिव्यक्तस्य कार्यस्य पिण्डस्य व्यवहितस्य वा कपालस्य विनाशे एव यत्नः क्रियेत, तदा विदलचूर्णाद्यपि कार्यं जायेत। तेनाप्यावृतो घटो नोपलभ्यत इति पुनः प्रयत्नान्तरापेक्षैव। तस्माद्घटाद्यभिव्यक्त्यर्थिनो नियत एव कारकव्यापारोऽर्थवान्। तस्मात्प्रागुत्पत्तेरपि सदेव कार्यम्। अतीतानागतप्रत्ययभेदाच्च। अतीतो घटोऽनागतो घट इत्येतयोश्च प्रत्यययोर्वर्तमानघटप्रत्ययवन्न निर्विषयत्वं युक्तम्। अनागतार्थिप्रवृत्तेश्च। न ह्यसत्यर्थितया प्रवृत्तिर्लोके दृष्टा। योगिनां चातीतानागतज्ञानस्य सत्यत्वात्। असंश्चेद्भविष्यद्घटः, ऐश्वरं भविष्यद्घटविषयं प्रत्यक्षज्ञानं मिथ्या स्यात् ; न च प्रत्यक्षमुपचर्यते ; घटसद्भावे ह्यनुमानमवोचाम। विप्रतिषेधाच्च। यदि घटो भविष्यतीति, कुलालादिषु व्याप्रियमाणेषु घटार्थम् , प्रमाणेन निश्चितम् , येन च कालेन घटस्य सम्बन्धो भविष्यतीत्युच्यते, तस्मिन्नेव काले घटोऽसन्निति विप्रतिषिद्धमभिधीयते ; भविष्यन्घटोऽसन्निति, न भविष्यतीत्यर्थः ; अयं घटो न वर्तत इति यद्वत्। अथ प्रागुत्पत्तेर्घटोऽसन्नित्युच्येत — घटार्थं प्रवृत्तेषु कुलालादिषु तत्र यथा व्यापाररूपेण वर्तमानास्तावत्कुलालादयः, तथा घटो न वर्तत इत्यसच्छब्दस्यार्थश्चेत् , न विरुध्यते ; कस्मात् ? स्वेन हि भविष्यद्रूपेण घटो वर्तते ; न हि पिण्डस्य वर्तमानता, कपालस्य वा, घटस्य भवति ; न च तयोः, भविष्यत्ता घटस्य ; तस्मात्कुलालादिव्यापारवर्तमानतायां प्रागुत्पत्तेर्घटोऽसन्निति न विरुध्यते। यदि घटस्य यत्स्वं भविष्यत्ताकार्यरूपं तत् प्रतिषिध्येत, तत्प्रतिषेधे विरोधः स्यात् ; न तु तद्भवान्प्रतिषेधति ; न च सर्वेषां क्रियावतामेकैव वर्तमानता भविष्यत्त्वं वा। अपि च, चतुर्विधानामभावानाम् , घटस्येतरेतराभावो घटादन्यो ष्टः — यथा घटाभावः पटादिरेव, न घटस्वरूपमेव। न च घटाभावः सन्पटः अभावात्मकः ; किं तर्हि ? भावरूप एव। एवं घटस्य प्राक्प्रध्वंसात्यन्ताभावानामपि घटादन्यत्वं स्यात् , घटेन व्यपदिश्यमानत्वात् , घटस्येतरेतराभाववत् ; तथैव भावात्मकताभावानाम्। एवं च सति, घटस्य प्रागभाव इति न घटस्वरूपमेव प्रागुत्पत्तेर्नास्ति। अथ घटस्य प्रागभाव इति घटस्य यत्स्वरूपं तदेवोच्येत, घटस्येति व्यपदेशानुपपत्तिः। अथ कल्पयित्वा व्यपदिश्येत, शिलापुत्रकस्य शरीरमिति यद्वत् ; तथापि घटस्य प्रागभाव इति कल्पितस्यैवाभावस्य घटेन व्यपदेशः, न घटस्वरूपस्यैव। अथार्थान्तरं घटाद्घटस्याभाव इति, उक्तोत्तरमेतत्। किञ्चान्यत् ; प्रागुत्पत्तेः शशविषाणवदभावभूतस्य घटस्य स्वकारणसत्तासम्बन्धानुपपत्तिः, द्विनिष्ठत्वात्सम्बन्धस्य। अयुतसिद्धानामदोष इति चेत् , न ; भावाभावयोरयुतसिद्धत्वानुपपत्तेः। भावभूतयोर्हि युतसिद्धता अयुतसिद्धता वा स्यात् , न तु भावाभावयोरभावयोर्वा। तस्मात्सदेव कार्यं प्रागुत्पत्तेरिति सिद्धम् ॥
किंलक्षणेन मृत्युनावृतमित्यत आह — अशनायया, अशितुमिच्छा अशनाया, सैव मृत्योर्लक्षणम् , तया लक्षितेन मृत्युना अशनायया। कथमशनाया मृत्युरिति, उच्यते — अशनाया हि मृत्युः। हि - शब्देन प्रसिद्धं हेतुमवद्योतयति। यो ह्यशितुमिच्छति सोऽशनायानन्तरमेव हन्ति जन्तून्। तेनासावशनायया लक्ष्यते मृत्युरिति, अशनाया हीत्याह। बुद्ध्यात्मनोऽशनाया धर्म इति स एष बुद्ध्यवस्थो हिरण्यगर्भो मृत्युरित्युच्यते। तेन मृत्युनेदं कार्यमावृतमासीत् , यथा पिण्डावस्थया मृदा घटादय आवृताः स्युरिति तद्वत्। तन्मनोऽकुरुत, तदिति मनसो निर्देशः ; स प्रकृतो मृत्युः वक्ष्यमाणकार्यसिसृक्षया तत् कार्यालोचनक्षमम् , मनःशब्दवाच्यं सङ्कल्पादिलक्षणमन्तःकरणम् , अकुरुत कृतवान्। केनाभिप्रायेण मनोऽकरोदिति, उच्यते — आत्मन्वी आत्मवान् स्यां भवेयम् ; अहमनेनात्मना मनसा मनस्वी स्यामित्यभिप्रायः। सः प्रजापतिः, अभिव्यक्तेन मनसा समनस्कः सन् , अर्चन् अर्चयन्पूजयन् आत्मानमेव कृतार्थोऽस्मीति, अचरत् चरणमकरोत्। तस्य प्रजापतेः अर्चतः पूजयतः आपः रसात्मिकाः पूजाङ्गभूताः अजायन्त उत्पन्नाः। अत्राकाशप्रभृतीनां त्रयाणामुत्पत्त्यनन्तरमिति वक्तव्यम् , श्रुत्यन्तरसामर्थ्यात् , विकल्पासम्भवाच्च सृष्टिक्रमस्य। अर्चते पूजां कुर्वते वै मे मह्यं कम् उदकम् अभूत् इति एवममन्यत यस्मान्मृत्युः, तदेव तस्मादेव हेतोः अर्कस्य अग्नेरश्वमेधक्रत्वौपयोगिकस्य अर्कत्वम् ; अर्कत्वे हेतुरित्यर्थः। अग्नेरर्कनामनिर्वचनमेतत् — अर्चनात्सुखहेतुपूजाकरणादप्सम्बन्धाच्चाग्नेरेतद्गौणं नामार्क इति। यः एवं यथोक्तम् अर्कस्यार्कत्वं वेद जानाति, कम् उदकं सुखं वा, नामसामान्यात् , ह वै इत्यवधारणार्थौ, भवत्येवेति, अस्मै एवंविदे एवंविदर्थं भवति ॥
आपो वा अर्कस्तद्यदपां शर आसीत्तत्समहन्यत। सा पृथिव्यभवत्तस्यामश्राम्यत्तस्य श्रान्तस्य तप्तस्य तेजोरसो निरवर्तताग्निः ॥ २ ॥
आपो वा अर्कः। कः पुनरसावर्क इति, उच्यते — आपो वै या अर्चनाङ्गभूतास्ता एव अर्कः, अग्नेरर्कस्य हेतुत्वात् , अप्सु चाग्निः प्रतिष्ठित इति ; न पुनः साक्षादेवार्कस्ताः, तासामप्रकरणात् ; अग्नेश्च प्रकरणम् ; वक्ष्यति च — ‘अयमग्निरर्कः’ इति। तत् तत्र, यदपां शर इव शरो दध्न इव मण्डभूतमासीत् , तत्समहन्यत सङ्घातमापद्यत तेजसा बाह्यान्तःपच्यमानम् ; लिङ्गव्यत्ययेन वा, योऽपां शरः स समहन्यतेति। सा पृथिव्यभवत् , स सङ्घातो येयं पृथिवी साभवत् ; ताभ्योऽद्भ्योऽण्डमभिनिर्वृत्तमित्यर्थः ; तस्यां पृथिव्यामुत्पादितायाम् , स मृत्युः प्रजापतिः अश्राम्यत् श्रमयुक्तो बभूव ; सर्वो हि लोकः कार्यं कृत्वा श्राम्यति ; प्रजापतेश्च तन्महत्कार्यम् , यत्पृथिवीसर्गः ; किं तस्य श्रान्तस्येत्युच्यते — तस्य श्रान्तस्य तप्तस्य स्विन्नस्य, तेजोरसः तेज एव रसस्तेजोरसः, रसः सारः, निरवर्तत प्रजापतिशरीरान्निष्क्रान्त इत्यर्थः ; कोऽसौ निष्क्रान्तः ? अग्निः सोऽण्डस्यान्तर्विराट् प्रजापतिः प्रथमजः कार्यकरणसङ्घातवाञ्जातः ; ‘स वै शरीरी प्रथमः’ इति स्मरणात् ॥
स त्रेधात्मानं व्यकुरुतादित्यं तृतीयं वायुं तृतीयं स एष प्राणस्त्रेधा विहितः। तस्य प्राची दिक्शिरोऽसौ चासौ चेर्मौ। अथास्य प्रतीची दिक्पुच्छमसौ चासौ च सक्थ्यौ दक्षिणा चोदीची च पार्श्वे द्यौः पृष्ठमन्तरिक्षमुदरमियमुरः स एषोऽप्सु प्रतिष्ठितो यत्र क्वचैति तदेव प्रतितिष्ठत्येवं विद्वान् ॥ ३ ॥
स च जातः प्रजापतिः त्रेधा त्रिप्रकारम् आत्मानं स्वयमेव कार्यकरणसङ्घातं व्यकुरुत व्यभजदित्येतत् ; कथं त्रेधेत्याह — आदित्यं तृतीयम् अग्निवाय्वपेक्षया त्रयाणां पूरणम् , अकुरुतेत्यनुवर्तते ; तथाग्न्यादित्यापेक्षया वायुं तृतीयम् ; तथा वाय्वादित्यापेक्षयाग्निं तृतीयमिति द्रष्टव्यम् ; सामर्थ्यस्य तुल्यत्वात्त्रयाणां सङ्ख्यापूरणत्वे। स एष प्राणः सर्वभूतानामात्माप्यग्निवाय्वादित्यरूपेण विशेषतः स्वेनैव मृत्य्वात्मना त्रेधा विहितः विभक्तः, न विराट्स्वरूपोपमर्दनेन। तस्यास्य प्रथमजस्याग्नेरश्वमेधौपयोगिकस्यार्कस्य विराजश्चित्यात्मकस्याश्वस्येव दर्शनमुच्यते ; सर्वा हि पूर्वोक्तोत्पत्तिरस्य स्तुत्यर्थेत्यवोचाम — इत्थमसौ शुद्धजन्मेति। तस्य प्राची दिक् शिरः, विशिष्टत्वसामान्यात् ; असौ चासौ च ऐशान्याग्नेय्यौ ईर्मौ बाहू, ईरयतेर्गतिकर्मणः। अथ अस्य अग्नेः, प्रतीची दिक् पुच्छं जघन्यो भागः, प्राङ्मुखस्य प्रत्यग्दिक्सम्बन्धात् ; असौ चासौ च वायव्यनैर्ऋत्यौ सक्थ्यौ सक्थिनी, पृष्ठकोणत्वसामान्यात् ; दक्षिणा चोदीची च पार्श्वे, उभयदिक्सम्बन्धसामान्यात् ; द्यौः पृष्ठमन्तरिक्षमुदरमिति पूर्ववत् ; इयमुरः, अधोभागसामान्यात् ; स एषोऽग्निः प्रजापतिरूपो लोकाद्यात्मकोऽग्निः अप्सु प्रतिष्ठितः, ‘एवमिमे लोका अप्स्वन्तः’ इति श्रुतेः ; यत्र क्वच यस्मिन्कस्मिंश्चित् एति गच्छति, तदेव तत्रैव प्रतितिष्ठिति स्थितिं लभते ; कोऽसौ ? एवं यथोक्तमप्सु प्रतिष्ठितत्वमग्नेः विद्वान् विजानन् ; गुणफलमेतत् ॥
सोऽकामयत द्वितीयो म आत्मा जायेतेति स मनसा वाचं मिथुनं समभवदशनायामृत्युस्तद्यद्रेत आसीत्स संवत्सरोऽभवत्। न ह पुरा ततः संवत्सर आस तमेतावन्तं कालमबिभः। यावान्संवत्सरस्तमेतावतः कालस्य परस्तादसृजत। तं जातमभिव्याददात्स भाणकरोत्सैव वागभवत् ॥ ४ ॥
सोऽकामयत — योऽसौ मृत्युः सोऽबादिक्रमेणात्मनात्मानमण्डस्यान्तः कार्यकरणसङ्घातवन्तं विराजमग्निमसृजत, त्रेधा चात्मानमकुरुतेत्युक्तम्। स किंव्यापारः सन्नसृजतेति, उच्यते — सः मृत्युः अकामयत कामितवान् ; किम् ? द्वितीयः मे मम आत्मा शरीरम् , येनाहं शरीरी स्याम् , स जायेत उत्पद्येत, इति एवमेतदकामयत ; सः एवं कामयित्वा, मनसा पूर्वोत्पन्नेन, वाचं त्रयीलक्षणाम् , मिथुनं द्वन्द्वभावम् , समभवत् सम्भवनं कृतवान् , मनसा त्रयीमालोचितवान् ; त्रयीविहितं सृष्टिक्रमं मनसान्वालोचयदित्यर्थः। कोऽसौ ? अशनायया लक्षितो मृत्युः ; अशनाया मृत्युरित्युक्तम् ; तमेव परामृशति, अन्यत्र प्रसङ्गो मा भूदिति ; तद्यद्रेत आसीत् , तत् तत्र मिथुने, यद्रेत आसीत् , प्रथमशरीरिणः प्रजापतेरुत्पत्तौ कारणं रेतो बीजं ज्ञानकर्मरूपम् , त्रय्यालोचनायां यद्दृष्टवानासीज्जन्मान्तरकृतम् ; तद्भावभावितोऽपः सृष्ट्वा तेन रेतसा बीजेनाप्स्वनुप्रविश्याण्डरूपेण गर्भीभूतः सः, संवत्सरोऽभवत् , संवत्सरकालनिर्माता संवत्सरः, प्रजापतिरभवत्। न ह, पुरा पूर्वम् , ततः तस्मात्संवत्सरकालनिर्मातुः प्रजापतेः, संवत्सरः कालो नाम, न आस न बभूव ह ; तं संवत्सरकालनिर्मातारमन्तर्गर्भं प्रजापतिम् , यावानिह प्रसिद्धः कालः एतावन्तम् एतावत्संवत्सरपरिमाणं कालम् अबिभः भृतवान् मृत्युः। यावान्संवत्सरः इह प्रसिद्धः, ततः परस्तात्किं कृतवान् ? तम् , एतावतः कालस्य संवत्सरमात्रस्य परस्तात् ऊर्ध्वम् असृजत सृष्टवान् , अण्डमभिनदित्यर्थः। तम् एवं कुमारं जातम् अग्निं प्रथमशरीरिणम् , अशनायावत्त्वान्मृत्युः अभिव्याददात् मुखविदारणं कृतवान् अत्तुम् ; स च कुमारो भीतः स्वाभाविक्याविद्यया युक्तः भाणित्येवं शब्दम् अकरोत् ; सैव वागभवत् , वाक् शब्दः अभवत् ॥
स ऐक्षत यदि वा इममभिमंस्ये कनीयोऽन्नं करिष्य इति स तया वाचा तेनात्मनेदं सर्वमसृजत यदिदं किञ्चर्चो यजूंषि सामानि च्छन्दांसि यज्ञान्प्रजाः पशून्। स यद्यदेवासृजत तत्तदत्तुमध्रियत सर्वं वा अत्तीति तददितेरदितित्वं सर्वस्यैतस्यात्ता भवति सर्वमस्यान्नं भवति य एवमेतददितेरदितित्वं वेद ॥ ५ ॥
स ऐक्षत — सः, एवं भीतं कृतरवं कुमारं दृष्ट्वा, मृत्युः ऐक्षत ईक्षितवान् , अशनायावानपि — यदि कदाचिद्वा इमं कुमारम् अभिमंस्ये, अभिपूर्वो मन्यतिर्हिंसार्थः, हिंसिष्ये इत्यर्थः ; कनीयोऽन्नं करिष्ये, कनीयः अल्पमन्नं करिष्ये - इति ; एवमीक्षित्वा तद्भक्षणादुपरराम ; बहु ह्यन्नं कर्तव्यं दीर्घकालभक्षणाय, न कनीयः ; तद्भक्षणे हि कनीयोऽन्नं स्यात् , बीजभक्षणे इव सस्याभावः। सः एवं प्रयोजनमन्नबाहुल्यमालोच्य, तयैव त्रय्या वाचा पूर्वोक्तया, तेनैव च आत्मना मनसा, मिथुनीभावमालोचनमुपगम्योपगम्य, इदं सर्वं स्थावरं जङ्गमं च असृजत, यदिदं किञ्च यत्किञ्चेदम् ; किं तत् ? ऋचः, यजूंषि, सामानि, छन्दांसि च सप्त गायत्र्यादीनि — स्तोत्रशस्त्रादिकर्माङ्गभूतांस्त्रिविधान्मन्त्रान्गायत्र्यादिच्छन्दोविशिष्टान् , यज्ञांश्च तत्साध्यान् , प्रजास्तत्कर्त्रीः, पशूंश्च ग्राम्यानारण्यान्कर्मसाधनभूतान्। ननु त्रय्या मिथुनीभूतयासृजतेत्युक्तम् ; ऋगादीनीह कथमसृजतेति ? नैष दोषः ; मनसस्त्वव्यक्तोऽयं मिथुनीभावस्त्रय्या ; बाह्यस्तु ऋगादीनां विद्यमानानामेव कर्मसु विनियोगभावेन व्यक्तीभावः सर्ग इति। सः प्रजापतिः, एवमन्नवृद्धिं बुद्ध्वा, यद्यदेव क्रियां क्रियासाधनं फलं वा किञ्चित् असृजत, तत्तदत्तुं भक्षयितुम् अध्रियत धृतवान्मनः ; सर्वं कृत्स्नं वै यस्मात् अत्ति, तत् तस्मात् अदितेः अदितिनाम्नो मृत्योः अदितित्वं प्रसिद्धम् ; तथा च मन्त्रः — ‘अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता’ (ऋ. १। ५९। १०) इत्यादिः ; सर्वस्यैतस्य जगतोऽन्नभूतस्य अत्ता सर्वात्मनैव भवति, अन्यथा विरोधात् ; न हि कश्चित्सर्वस्यैकोऽत्ता दृश्यते ; तस्मात्सर्वात्मा भवतीत्यर्थः ; सर्वमस्यान्नं भवति ; अत एव सर्वात्मनो ह्यत्तुः सर्वमन्नं भवतीत्युपपद्यते ; य एवमेतत् यथोक्तम् अदितेः मृत्योः प्रजापतेः सर्वस्यादनाददितित्वं वेद, तस्यैतत्फलम् ॥
सोऽकामयत भूयसा यज्ञेन भूयो यजेयेति। सोऽश्राम्यत्स तपोऽतप्यत तस्य श्रान्तस्य तप्तस्य यशो वीर्यमुदक्रामत्। प्राणा वै यशो वीर्यं तत्प्राणेषूत्क्रान्तेषु शरीरं श्वयितुमध्रियत तस्य शरीर एव मन आसीत् ॥ ६ ॥
सोऽकामयतेत्यश्वाश्वमेधयोर्निर्वचनार्थमिदमाह। भूयसा महता यज्ञेन भूयः पुनरपि यजेयेति ; जन्मान्तरकरणापेक्षया भूयःशब्दः ; स प्रजापतिर्जन्मान्तरेऽश्वमेधेनायजत ; स तद्भावभावित एव कल्पादौ व्यवर्तत ; सोऽश्वमेधक्रियाकारकफलात्मत्वेन निर्वृत्तः सन्नकामयत — भूयसा यज्ञेन भूयो यजेयेति। एवं महत्कार्यं कामयित्वा लोकवदश्राम्यत् ; स तपोऽतप्यत ; तस्य श्रान्तस्य तप्तस्येति पूर्ववत् ; यशो वीर्यमुदक्रामदिति स्वयमेव पदार्थमाह — प्राणाः चक्षुरादयो वै यशः, यशोहेतुत्वात् , तेषु हि सत्सु ख्यातिर्भवति ; तथा वीर्यं बलम् अस्मिञ्शरीरे ; न ह्युत्क्रान्तप्राणो यशस्वी बलवान्वा भवति ; तस्मात्प्राणा एव यशो वीर्यं चास्मिञ्शरीरे, तदेवं प्राणलक्षणं यशो वीर्यम् उदक्रामत् उत्क्रान्तवत्। तदेवं यशोवीर्यभूतेषु प्राणेषूत्क्रान्तेषु, शरीरान्निष्क्रान्तेषु तच्छरीरं प्रजापतेः श्वयितुम् उच्छूनभावं गन्तुम् अध्रियत, अमेध्यं चाभवत् ; तस्य प्रजापतेः, शरीरान्निर्गतस्यापि, तस्मिन्नेव शरीरे मन आसीत् ; यथा कस्यचित्प्रिये विषये दूरं गतस्यापि मनो भवति, तद्वत् ॥
सोऽकामयत मेध्यं म इदं स्यादात्मन्व्यनेन स्यामिति। ततोऽश्वः समभवद्यदश्वत्तन्मेध्यमभूदिति तदेवाश्वमेधस्याश्वमेधत्वम्। एष ह वा अश्वमेधं वेद य एनमेवं वेद। तमनवरुध्यैवामन्यत। तं संवत्सरस्य परस्तादात्मन आलभत। पशून्देवताभ्यः प्रत्यौहत्। तस्मात्सर्वदेवत्यं प्रोक्षितं प्राजापत्यमालभन्ते। एष ह वा अश्वमेधो य एष तपति तस्य संवत्सर आत्मायमग्निरर्कस्तस्येमे लोका आत्मानस्तावेतावर्काश्वमेधौ। सो पुनरेकैव देवता भवति मृत्युरेवाप पुनर्मृत्युं जयति नैनं मृत्युराप्नोति मृत्युरस्यात्मा भवत्येतासां देवतानामेको भवति ॥ ७ ॥
स तस्मिन्नेव शरीरे गतमनाः सन्किमकरोदिति, उच्यते — सोऽकामयत। कथम् ? मेध्यं मेधार्हं यज्ञियं मे मम इदं शरीरम् स्यात् ; किञ्च आत्मन्वी आत्मवांश्च अनेन शरीरेण शरीरवान् स्यामिति — प्रविवेश। यस्मात् , तच्छरीरं तद्वियोगाद्गतयशोवीर्यं सत् अश्वत् अश्वयत् , ततः तस्मात् अश्वः समभवत् ; ततोऽश्वनामा प्रजापतिरेव साक्षादिति स्तूयते ; यस्माच्च पुनस्तत्प्रवेशात् गतयशोवीर्यत्वादमेध्यं सत् मेध्यमभूत् , तदेव तस्मादेव अश्वमेधस्य अश्वमेधनाम्नः क्रतोः अश्वमेधत्वम् अश्वमेधनामलाभः ; क्रियाकारकफलात्मको हि क्रतुः ; स च प्रजापतिरेवेति स्तूयते ॥
क्रतुनिर्वर्तकस्याश्वस्य प्रजापतित्वमुक्तम् — [‘उषा वा अश्वस्य मेध्यस्य’ (बृ. उ. १। १। १)](https://advaitasharada.sringeri.net/display/bhashya/Brha?page=1&id=BR_C01_S01_V01&hl=उषा वा अश्वस्य मेध्यस्य) इत्यादिना। तस्यैवाश्वस्य मेध्यस्य प्रजापतिस्वरूपस्य अग्नेश्च यथोक्तस्य क्रतुफलात्मरूपतया समस्योपासनं विधातव्यमित्यारभ्यते। पूर्वत्र क्रियापदस्य विधायकस्याश्रुतत्वात् , क्रियापदापेक्षत्वाच्च प्रकरणस्य, अयमर्थोऽवगम्यते। एष ह वा अश्वमेधं क्रतुं वेद य एनमेवं वेद — यः कश्चित् , एनम् अश्वमग्निरूपमर्कं च यथोक्तम् , एवं वक्ष्यमाणेन समासेन प्रदर्श्यमानेन विशेषणेन विशिष्टं वेद, स एषोऽश्वमेधं वेद, नान्यः ; तस्मादेवं वेदितव्य इत्यर्थः। कथम् ? तत्र पशुविषयमेव तावद्दर्शनमाह। तत्र प्रजापतिः ‘भूयसा यज्ञेन भूयो यजेय’ इति कामयित्वा, आत्मानमेव पशुं मेध्यं कल्पयित्वा, तं पशुम् , अनवरुध्यैव उत्सृष्टं पशुमवरोधमकृत्वैव मुक्तप्रग्रहम् , अमन्यत अचिन्तयत्। तं संवत्सरस्य पूर्णस्य परस्तात् ऊर्ध्वम् आत्मने आत्मार्थम् आलभत — प्रजापतिदेवताकत्वेनेत्येतत् — आलभत आलम्भं कृतवान्। पशून् अन्यान्ग्राम्यानारण्यांश्च देवताभ्यः यथादैवतं प्रत्यौहत् प्रतिगमितवान्। यस्माच्चैवं प्रजापतिरमन्यत, तस्मादेवमन्योऽप्युक्तेन विधिना आत्मानं पशुमश्वं मेध्यं कल्पयित्वा, ‘सर्वदेवत्योऽहं प्रोक्ष्यमाणः’ आलभ्यमानस्त्वहं मद्देवत्य एव स्याम् ; अन्य इतरे पशवो ग्राम्यारण्या यथादैवतमन्याभ्यो देवताभ्य आलभ्यन्ते मदवयवभूताभ्य एव’ इति विद्यात्। अत एवेदानीं सर्वदेवत्यं प्रोक्षितं प्राजापत्यमालभन्ते याज्ञिका एवम्। एष ह वा अश्वमेधो य एष तपति, यस्त्वेवं पशुसाधनकः क्रतुः स एष साक्षात्फलभूतो निर्दिश्यते, एष ह वा अश्वमेधः ; कोऽसौ ? य एषः सविता तपति जगदवभासयति तेजसा ; तस्य अस्य क्रतुफलात्मनः, संवत्सरः कालविशेषः, आत्मा शरीरम् , तन्निर्वर्त्यत्वात्संवत्सरस्य ; तस्यैव क्रत्वात्मनः अयं पार्थिवोऽग्निः, अर्कः, साधनभूतः ; तस्य चार्कस्य क्रतौ चित्यस्य, इमे लोकास्त्रयोऽपि, आत्मानः शरीरावयवाः ; तथा च व्याख्यातम् — ‘तस्य प्राची दिक्’ इत्यादिना ; तावग्न्यादित्यावेतौ यथाविशेषितावर्काश्वमेधौ क्रतुफले ; अर्को यः पार्थिवोऽग्निः स साक्षात्क्रतुरूपः क्रियात्मकः ; क्रतोरग्निसाध्यत्वात्तद्रूपेणैव निर्देशः ; क्रतुसाध्यत्वाच्च फलस्य क्रतुरूपेणैव निर्देशः — आदित्योऽश्वमेध इति। तौ साध्यसाधनौ क्रतुफलभूतावग्न्यादित्यौ — सा उ, पुनः भूयः, एकैव देवता भवति ; का सा ? मृत्युरेव ; पूर्वमप्येकैवासीत्क्रियासाधनफलभेदाय विभक्ता ; तथा चोक्तम् ‘स त्रेधात्मानं व्यकुरुत’ इति ; सा पुनरपि क्रियानिर्वृत्त्युत्तरकालमेकैव देवता भवति — मृत्युरेव फलरूपः ; यः पुनरेवमेनमश्वमेधं मृत्युमेकां देवतां वेद — अहमेव मृत्युरस्म्यश्वमेध एका देवता मद्रूपाश्वाग्निसाधनसाध्येति ; सोऽपजयति, पुनर्मृत्युं पुनर्मरणम् , सकृन्मृत्वा पुनर्मरणाय न जायत इत्यर्थः ; अपजितोऽपि मृत्युरेनं पुनराप्नुयादित्याशङ्क्याह — नैनं मृत्युराप्नोति ; कस्मात् ? मृत्युः, अस्यैवंविदः, आत्मा भवति ; किञ्च मृत्युरेव फलरूपः सन्नेतासां देवतानामेको भवति ; तस्यैतत्फलम् ॥
इति प्रथमाध्यायस्य द्वितीयं ब्राह्मणम् ॥