1

विस्तारः (द्रष्टुं नोद्यम्)

तत्र तावद् अश्वमेध-विज्ञानाय ‘उषा वा अश्वस्य’ इत्यादि। तत्राश्व-विषयम् एव दर्शनम् उच्यते, प्राधान्याद् अश्वस्य। प्राधान्यं च तन् नामाङ्कितत्वात् क्रतोः, प्राजापत्यत्वाच् च ॥

उषा᳘ वा᳘ अ᳘श्वस्य मे᳘ध्यस्य शि᳘रः।

विस्तारः (द्रष्टुं नोद्यम्)

उषा इति, ब्राह्मो मुहूर्तः उषाः ;
वै-शब्दः स्मारणार्थः, प्रसिद्धं कालं स्मारयति।
शिरः, प्राधान्यात् ; शिरश् च प्रधानं शरीरावयवानाम् ;
अश्वस्य, मेध्यस्य मेधार्हस्य यज्ञियस्य, उषाः शिर इति सम्बन्धः।

कर्माङ्गस्य पशोः संस्कर्तव्यत्वात् कालादि-दृष्टयः शिरआदिषु क्षिप्यन्ते ;
प्राजापत्यत्वं च प्रजापति-दृष्ट्य्-अध्यारोपणात् ;
काल-लोक-देवतात्वाध्यारोपणं च प्रजापतित्व-करणं पशोः। एवंरूपो हि प्रजापतिः ; विष्णुत्वादिकरणमिव प्रतिमादौ।

सू᳘र्यश् च᳘क्षुः, वा᳘तः प्राणो᳘, व्या᳘त्तम् अग्नि᳘र् वैश्वानरः᳘, संवत्सर᳘ आत्मा᳘ ऽश्वस्य मे᳘ध्यस्य+++(→सर्वत्रानुषङ्गार्थं पुनर्वचनम्)+++।

विस्तारः (द्रष्टुं नोद्यम्)

सूर्यश् चक्षुः, शिरसो ऽनन्तरत्वात् सूर्याधिदैवतत्वाच् च ;
वातः प्राणः, वायुस्वाभाव्यात् ;
व्यात्तं विवृतं मुखम् अग्निर् वैश्वानरः ; वैश्वानर इत्य् अग्नेर् विशेषणम् ; वैश्वानरो नामाग्निर् विवृतं मुखम् इत्यर्थः, मुखस्याग्निदैवतत्वात् ;
संवत्सर आत्मा ; संवत्सरो द्वादश-मासस् त्रयोदश-मासो वा ;
आत्मा शरीरम् ; कालावयवानां च संवत्सरः शरीरम् ; शरीरं चात्मा, ‘मध्यं ह्य् एषाम् अङ्गानाम् आत्मा’ (ऐ. आ. २। ३। ५) इति श्रुतेः ; अश्वस्य मेध्यस्येति सर्वत्रानुषङ्गार्थं पुनर्वचनम्।

+++(ऊर्ध्वत्व-सामान्यात्)+++ द्यौ᳘ष् पृष्ठ᳘म्,
अन्त᳘रिक्षम् उद᳘रं,
पृथिवी᳘ पाजस्य᳘म्+++(=पादस्यम्)+++।

विस्तारः (द्रष्टुं नोद्यम्)

द्यौः पृष्ठम् , ऊर्ध्वत्व-सामान्यात् ; अन्तरिक्षम् उदरम्, सुषिरत्व-सामान्यात् ; पृथिवी पाजस्यं पादस्यम् , पाजस्यमिति वर्णव्यत्ययेन, पादासनस्थानमित्यर्थः ।

दि᳘शः पार्श्वे᳘,
अवान्तर-दि᳘शः प᳘र्शव,
ऋत᳘वो᳘ ऽङ्गानि,
मा᳘साश् चार्धमासा᳘श् च प᳘र्वाणि+++(=सन्धयः)+++
अहोरात्रा᳘णि प्रतिष्ठा᳘।

विस्तारः (द्रष्टुं नोद्यम्)

दिशश् चतस्रोऽपि पार्श्वे, पार्श्वेन दिशां सम्बन्धात्। पार्श्वयोर् दिशां च सङ्ख्या-वैषम्याद् अयुक्तमिति चेत् - न - सर्व-मुखत्वोपपत्तेर् अश्वस्य पार्श्वाभ्याम् एव सर्वदिशां सम्बन्धाद् अदोषः । अवान्तर-दिश आग्नेय्य्-आद्याः पर्शवः पार्श्वास्थीनि ;
ऋतवोऽङ्गानि, संवत्सरावयवत्वाद् अङ्ग-साधर्म्यात् ;
मासाश् चार्धमासाश् च पर्वाणि सन्धयः, सन्धिसामान्यात् ;
अहोरात्राणि प्रतिष्ठाः ; बहुवचनात् प्राजापत्य-दैव-पित्र्य-मानुषाणि ; प्रतिष्ठाः पादाः, प्रतितिष्ठत्य् एतैर् इति ; अहोरात्रैर् हि कालात्मा प्रतितिष्ठति, अश्वश्च पादैः ।

न᳘क्षत्राण्य् अ᳘स्थीनि,
न᳘भो+++(→मेघाः)+++ माँसा᳘नि +++(उदक-रुधिर-सेचन-सामान्यात्)+++,
ऊ᳘वध्यँ+++(=अर्धजीर्णम् अशनं)+++ सि᳘कताः,
सि᳘न्धवो गु᳘दा+++(=नाड्यः)+++,
य᳘कृच् च क्लोमा᳘नश्+++(=दक्षिण-पुप्फुसः, नित्यम् बहुवचनम्)+++ च प᳘र्वता,
ओ᳘षधयश् च व᳘नस्प᳘तयश् च लो᳘मानि।

विस्तारः (द्रष्टुं नोद्यम्)

नक्षत्राण्य् अस्थीनि, शुक्लत्व-सामान्यात् ;
नभो नभःस्था मेघाः, अन्तरिक्षस्योदरत्वोक्तेः ; मांसानि, उदक-रुधिर-सेचन-सामान्यात्।
ऊवध्यम् उदरस्थम् अर्धजीर्णम् अशनं सिकताः, विश्लिष्टावयवत्व-सामान्यात् ;
सिन्धवः स्यन्दन-सामान्यात् नद्यः गुदा नाड्यः, बहुवचनाच्च ;
यकृच् च क्लोमानश् च हृदयस्याधस्ताद् दक्षिणोत्तरौ मांस-खण्डौ ; क्लोमान इति नित्यं बहुवचनम् एकस्मिन्न् एव ; पर्वताः, काठिन्याद् उच्छ्रितत्वाच् च ;
ओषधयश् च क्षुद्राः स्थावराः, वनस्पतयो महान्तः, लोमानि केशाश् च यथासम्भवम्।

उद्य᳘न् +++(सूर्यः)+++ पूर्वार्धो᳘,
निम्लो᳘चङ् जघनार्धो᳘,
य᳘द् विजृम्भते त᳘द् वि᳘द्योतते +++(मुख-घन-विदारण-सामान्यात्)+++,
य᳘द् विधूनुते᳘+++(=कम्पयति)+++ त᳘त् स्तनयति,
य᳘न् मे᳘हति त᳘द् वर्षति,
वा᳘ग् एवा᳘स्य वा᳘क् +++(- नात्र कल्पनेत्यर्थः)+++॥+++(5)+++

विस्तारः (द्रष्टुं नोद्यम्)

उद्यन्न् उद्गच्छन् भवति सविता आ मध्याह्नात् - अश्वस्य पूर्वार्धः नाभेर् ऊर्ध्वम् इत्य् अर्थः ;
निम्लोचन्न् अस्तं यन् आ मध्याह्नात् जघनार्धो ऽपरार्धः, पूर्वापरत्व-साधर्म्यात् ;
यद् विजृम्भते गात्राणि विनामयति विक्षिपति, तद् विद्योतते विद्योतनम् , मुख-घन-विदारण-सामान्यात् ;
यद् विधूनुते गात्राणि कम्पयति, तत् स्तनयति, गर्जन-शब्द-सामान्यात् ;
यन् मेहति मूत्रं करोत्यश्वः, तद् वर्षति वर्षणं तत् , सेचन-सामान्यात् ;
वाग् एव शब्द एव अस्याश्वस्य वाग् इति, नात्र कल्पनेत्यर्थः ॥

मूलम्

ओं। उषा वा अश्वस्य मेध्यस्य शिरः। सूर्यश्चक्षुर्वातः प्राणो व्यात्तमग्निर्वैश्वानरः संवत्सर आत्माश्वस्य मेध्यस्य। द्यौः पृष्ठमन्तरिक्षमुदरं पृथिवी पाजस्यं दिशः पार्श्वे अवान्तरदिशः पर्शव ऋतवोऽङ्गानि मासाश्चार्धमासाश्च पर्वाण्यहोरात्राणि प्रतिष्ठा नक्षत्राण्यस्थीनि नभो मांसानि। ऊवध्यं सिकताः सिन्धवो गुदा यकृच्च क्लोमानश्च पर्वता ओषधयश्च वनस्पतयश्च लोमान्युद्यन्पूर्वार्धो निम्लोचञ्जघनार्धो यद्विजृम्भते तद्विद्योतते यद्विधूनुते तत्स्तनयति यन्मेहति तद्वर्षति वागेवास्य वाक् ॥ १ ॥

अहर् वा अश्वं पुरस्तान् महिमा ऽन्वजायत तस्य पूर्वे समुद्रे योनी रात्रिरेनं पश्चान्महिमान्वजायत तस्यापरे समुद्रे योनिरेतौ वा अश्वं महिमानावभितः सम्बभूवतुः। हयो भूत्वा देवानवहद्वाजी गन्धर्वानर्वासुरानश्वो मनुष्यान्समुद्र एवास्य बन्धुः समुद्रो योनिः ॥ २ ॥

विस्तारः (द्रष्टुं नोद्यम्)

अहर्वा इति, सौवर्णराजतौ महिमाख्यौ ग्रहावश्वस्याग्रतः पृष्ठतश्च स्थाप्येते, तद्विषयमिदं दर्शनम्। अहः सौवर्णो ग्रहः, दीप्तिसामान्याद्वै। अहरश्वं पुरस्तान्महिमान्वजायतेति कथम् ? अश्वस्य प्रजापतित्वात् ; प्रजापतिर्ह्यादित्यादिलक्षणोऽह्ना लक्ष्यते ; अश्वं लक्षयित्वाजायत सौवर्णो महिमा ग्रहः, वृक्षमनु विद्योतते विद्युदिति यद्वत्। तस्य ग्रहस्य पूर्वे पूर्वः समुद्रे समुद्रः योनिः, विभक्तिव्यत्ययेन ; योनिरित्यासादनस्थानम्। तथा रात्री राजतो ग्रहः, वर्णसामान्याज्जघन्यत्वसामान्याद्वा। एनमश्वं पश्चात्पृष्ठतो महिमा अन्वजायत ; तस्यापरे समुद्रे योनिः। महिमा महत्त्वात्। अश्वस्य हि विभूतिरेषा, यत्सौवर्णो राजतश्च ग्रहावुभयतः स्थाप्येते। तावेतौ वै महिमानौ महिमाख्यौ ग्रहौ, अश्वमभितः सम्बभूवतुः उक्तलक्षणावेव सम्भूतौ। इत्थमसावश्वो महत्त्वयुक्त इति पुनर्वचनं स्तुत्यर्थम्। तथा च हयो भूत्वेत्यादि स्तुत्यर्थमेव। हयो हिनोतेर्गतिकर्मणः, विशिष्टगतिरित्यर्थः ; जातिविशेषो वा ; देवानवहत् देवत्वमगमयत् , प्रजापतित्वात् ; देवानां वा वोढाभवत् ; ननु निन्दैव वाहनत्वम् ; नैष दोषः ; वाहनत्वं स्वाभाविकमश्वस्य, स्वाभाविकत्वादुच्छ्रायप्राप्तिर्देवादिसम्बन्धोऽश्वस्य इति स्तुतिरेवैषा। तथा वाज्यादयो जातिविशेषाः ; वाजी भूत्वा गन्धर्वानवहदित्यनुषङ्गः ; तथार्वा भूत्वासुरान् ; अश्वो भूत्वा मनुष्यान्। समुद्र एवेति परमात्मा, बन्धुर्बन्धनम् , बध्यतेऽस्मिन्निति ; समुद्रो योनिः कारणमुत्पत्तिं प्रति ; एवमसौ शुद्धयोनिः शुद्धस्थितिरिति स्तूयते ; ‘अप्सुयोनिर्वा अश्वः’ (तै. सं. २। ३। १२) इति श्रुतेः प्रसिद्ध एव वा समुद्रो योनिः ॥

इति प्रथमाध्यायस्य प्रथमं ब्राह्मणम् ॥