०८-०२

बृहदारण्यकोपनिषत् अष्टमोऽध्यायः Part 2 [अभिमर्शनमन्त्राः] अथैनमभिमृशति, भ्रमदसि ज्वलदसि पूर्णमसि प्रस्तभ्धमस्येकसभमसि हिङ् कृतमसि हिङ् क्रियमाणमसि उद्गीथमसि उद्गीयमानमसि श्रावितमसि प्रत्याश्रावितमसि आद्रे संदीप्तमसि विभूरसि प्रभूरस्थानमसि ज्योतिरसि निधनमसि संवर्गोऽसीति ॥ ४ ॥

प्र. - अथैनमभिमृशति । वक्ष्यमाणेन मन्त्रेण इति शेषः । अभिमर्शनमन्त्रमाह . भ्रमदसि इत्यादिना ॥ ४ ॥ अथैनमुद्यच्छति, आमँस्यामँहितेमहि स हि राजेशानोऽधिपतिः स मां राजेशानोऽधिपतिं करोत्विति ॥ ५ ॥

प्र. - अथैनमुद्यच्छति । भक्षणार्थं वक्ष्यमाणमन्त्रेण मन्थं हस्तेन उद्गृह्णातीत्यर्थः । मन्त्रमेवाह आमँस्यामं हीति ॥ ५ ॥

[सावित्र्यादिना आचमनम्] अथैनमाचामति, तत्सवितुर्वरेण्यम् । मधुवाता ऋतायते मधुक्षरन्ति सिन्धवः माध्वीर्नः सन्त्वोषधीः भूःस्वाहा । भर्गो देवस्य धीमहि, मधुनक्तमुतोषसो मधुमत् पाथिर्वं रजः मधु द्यौरस्तु नःपिता भुवः स्वाहा । धियो यो नः प्रचोदयात् । मधुमान्नो वनस्पतिर्मधुमाँ अस्तु सूर्यः माध्वीर्गावो भवन्तु नः, स्वः स्वाहेति । सर्वाञ्च सावित्रीमन्वाह सर्वाश्च मधुमतीः [सर्वाश्च व्याहृतीः] अहमेवेदँ सर्वं भूयासम्; भूर्भुवस्स्वः स्वाहेत्यन्तत आचम्य पाणी प्रक्षाल्य जघनेनाग्निं प्राक्छिराः संविशति ॥ ६ ॥ प्रातरादित्यमुपतिष्ठते, दिशामेकपुण्डरीकमस्यहं मनुष्याणामेकपुण्डरीकं भूयासमिति । यथेतमेत्य जघनेनाग्निमासीनो वँश जपति ॥ ६ ॥

प्र. - अथैनमाचामति । गायत्रीप्रथमपादः, प्रथममधुमती, प्रथमव्याहृतिश्चेति स्वाहान्तः प्रथममन्त्रः । द्वितीयैः एतैः द्वितीयः । तृतीयैः तृतीयः । एवं वक्ष्यमाणैः मन्त्रैः त्रिभिः त्रिर्भक्षयतीत्यर्थः । सर्वाञ्च सावित्रीमन्वाह…… प्रक्षाल्य । गायत्रीपादत्रयम् , मधुमतीत्रयम्, अहमेवेदं सर्वं भूयासमिति मन्त्रः, व्याहृतित्रयञ्चेति चतुर्थमन्त्रेणावशिष्टं सर्वमाचम्य पाणी प्रक्षाल्य इत्यर्थः जघनेनाग्निं प्राक्छिराः संविशति । जघनेनाग्निं - अग्नेः पश्चात् प्राक्छिराः शयीत इत्यर्थः । प्रातरादित्यमुपतिष्ठते । प्रातःसन्ध्यामुपास्य वक्ष्यमाणेन, दिशामेक- पुण्डरीकमिति मन्त्रेणादित्यमुपस्थाय (उपतिष्ठते) इत्यर्थः । यथेतमेत्य जघनेनाग्निमासीनो वंशं जपति । यथागतमागत्य, अग्नेः पश्चादासीनो वंशब्राह्मणं जपेदित्यर्थः ॥ ६ ॥ तँ हैतमुद्दालक आरुणिर्वाजसनेयाय याज्ञवल्क्याय अन्तेवासिन उक्त्वोवाच - अपि य एनँ शुष्के स्थाणौ निषिञ्चेत्, जायेरच्छाखाः, प्ररोहेयुः पलाशानीति ॥ ७ ॥

प्र. - तँ हैतमुद्दालक ….. उक्त्वोवाच । आरुणिः - अरुणपुत्र उद्दालकः स्वशिष्याय वाजसनेयशाखाध्यायिने याज्ञवल्क्याय तं हैतम् - उक्त कर्मानुष्ठानप्रकारम् उक्त्वा अन्यदपि उवाचेत्यर्थः । किं तदित्यत्राह य एनं…… पलाशानीति । एनं

संस्रवसंस्कृतं मन्थं शुष्के स्थाणौ यदि कश्चिन्निषिञ्चेत्, तस्य माहात्म्यात् शाखाश्च जायेरन्, पत्राणि च प्ररोहेयुः इत्युक्तवान् इत्यर्थः ॥ ७ ॥

एतमु हैव वाजसनेयो याज्ञवल्क्यो मधुकाय पैङ्ग्यायान्तेवासिन उक्त्वोवाच - अपि य एनँ शुष्के स्थाणौ निषेञ्चेत् जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ८ ॥ एतमु हैव मधुकः पैङ्ग्यश्चूलाय भागवित्तयेऽन्तेवासिन उक्त्वोवाच अपि य एवँ शुष्के स्थाणौ निषिञ्चेत्, जायेरन् शाखाः, प्ररोहेयुः पलाशानीति ॥ ९ ॥ एतमु हैव चूलो भागवित्तिर्जानकस्य आयस्थूणायान्ते वासिन उक्त्वोवाच - अपि य एनँ शुष्के स्थाणौ निषिञ्चेत् जायेरन् शाखाः, प्ररोहेयुः पलाशानीति ॥ १० ॥ एतमु हैव जानकिरायस्थूणः सत्यकामाय जाबालाय अन्तेवासिने उक्त्वोवाच - अपि य एनँ शुष्के स्थाणौ निषिञ्चेत् । जायेरञ्छाखाः, प्ररोहेयुः पलाशानीति ॥ ११ ॥ एतमु हैव सत्यकामो जाबालोऽन्तेवासिभ्य उक्त्वा उवाच अपि य एनँ शुष्के स्थाणौ निषिञ्चेत्, जायेरन् शाखाः प्ररोहेयुः पलाशानीति । तमेतं नापुत्राय वाऽनन्तेवासिने वा ब्रूयात् ॥ १२ ॥

प्र. - एतमु हैव…… पलाशानीति । सर्वं पूर्ववत् । तदेतत् …….. बा ब्रूयात् । एवं शिष्यपरंपरया प्राप्तमेतत् कर्म पुत्रशिष्यव्यतिरिक्ते नोपदिशेदित्यर्थः ॥ ८-१२ ॥

[मन्थप्रकृतिद्रव्यगणनम्] चतुरौदुम्बरो भवति, औदुम्बरः स्रुव औदुम्बरः चमस औदुम्बर इध्म औदुम्बर्या वुपमन्थानौ । दशग्राम्याणि धान्यानि भवन्ति, व्रीहियवास्तिलमाषा अणुप्रियङ्गवो गोधूमाश्च मसूराश्च खल्वाश्च खलकुलाश्च । तान् पिष्ट्वा दधनि मधुनि घृत उपसिञ्चति । आज्यस्य जुहोति ॥ १३ ॥

प्र. -चतुरौदुम्बरो भवती त्युक्तम् । तदेव औदुम्बरचातुर्विध्यं दर्शयति औदुम्बर…… स्रुव इत्यादि । दश ग्राम्याणि धान्यानि इत्युक्तान्येव गणयति व्रीहियवाःखलकुलाः - कुलुत्था इत्यर्थः । तान् पिष्ट्वा…… जुहोति । दधिमधुघृतैः उपसिच्य पेषणं कृत्वा, आज्येन जुहोतीत्यर्थः ॥ १३ ॥ ॥ इति अष्टमाध्याये तृतीयब्राह्मण प्रकाशिका ॥ चतुर्थं ब्राह्मणम् - पुत्रमन्थकर्मब्राह्मणम् एषां भूतानां पृथिवी रसः, पृथिव्या आपोऽपामोषधय ओषधीनां पुष्पाणि, पुष्पाणां फलानि, फलानां पुरुषः, पुरुषस्य रेतः ॥१॥

प्र. - आत्मनश्च पितुश्च लोक्यत्वविशिष्टपुत्रोत्पादकं कर्म वक्तुं ब्राह्मणम् आरभ्यते एषां वै भूतानां पृथिवी-रेतः । स्पष्टोऽर्थः ॥ १ ॥ स ह प्रजापतिरीक्षाञ्चक्रे हन्तास्मै प्रतिष्ठां कल्पयानीति । स स्त्रियँ ससृजे । ताँ सृष्ट्वाऽध उपास्त । तस्मात् स्त्रियमध उपासते । स एतं प्राञ्चं ग्रावाणमात्मन एव समुदपारयत् । तेनैनामभ्यसृजत् ॥ २ ॥

प्र. - स ह प्रजापतिरीक्षाञ्चक्रे । अस्मै - रेतसे इत्यर्थः । अध उपास्त । मिथुनाख्यमध उपासनं कृतवान् इत्यर्थः । तस्मात् स्त्रियमध उपासते । अद्यापीति शेषः । मिथुनीकरणस्य वाजपेयफलावाप्तये वाजपेयसंपत्तिं दर्शयति स एतं प्राञ्चं ग्रावाणमात्मन एव समुदपारयत् । काठिन्यसामान्यात् ग्रावा पुल्लिङ्गम् इत्यर्थः ॥ आत्मनः पुल्लिङ्गं स्रीव्यञ्जनं प्रति प्रागग्रं समुदपारयत् - उत्पूरितवान् । तेनैनामभ्यसृजत्तेन - लिङ्गेन एनां - स्त्रियमभि संसर्गं कृतवान् इत्यर्थः ॥ २ ॥

[अधोपहासे वाजपेयदृष्टिः तत्फलं च] तस्या वेदिरुपस्थो लोमानि बर्हिश्चर्माधिषवणे समिद्धो मध्यतःस्थौ मुष्कौ । स यावान् ह वै वाजपेयेन यजमानस्य लोको भवति, तावानस्य लोको भवति, य एवं विद्वानधोपहासं चरति; आसाँ स्त्रीणाँ सुकृतं वृङ्क्ते । अथ य इदमविद्वानधोपहासं चरति, अस्य स्त्रियः सुकृतं वृञ्जते ॥ ३ ॥

प्र. - तस्या वेदिरुपस्थो लोमानि - मुष्कौ । चर्म अधिषवणे अधिषवणफलके । चर्मणि अधिषवणफलकदृष्टिः कर्तव्या इत्यर्थः । मध्यतःस्थौ - योनिमध्यस्थौ मुष्कौ

वृषणौ समिद्धः - अग्निः। तयोः अग्निदृष्टिः इत्यर्थः । शिष्टं स्पष्टम् स यावान् हवै…… चरति । एवं वाजपेयसंपत्तिं विद्वान् अधोपहासं - मैथुनं यश्चरति-

अनुतिष्ठति, तस्य वाजपेयेन यावान् लोकः तावान् लोको भवतीत्यर्थः । आसां वृङ्क्ते । सः आसां - स्त्रीणां सुकृतं वृङ्क्ते - आवर्जयति इत्यर्थः । अथ य इदमविद्वान्…… वृञ्जते । वाजपेयप्रकारानभिज्ञस्य सुकृतं स्त्रिय एव प्राप्नुवन्तीत्यर्थः ॥ ३ ॥

एतद्ध स्म वै तद् विद्वानुद्दालक आरुणिराह, एतद्ध स्म वै तद् विद्वान्नाको मौद्गल्य आह, एतद्ध स्म वै तद् विद्वान् कुमारहारित आह - बहवो मर्या ब्राह्मणायना निरिन्द्रिया विसुकृतो अस्माल्लोकात् प्रयन्ति, य इदमविद्वाँसोऽधोपहासं चरन्तीति । बहु वा इदँ सुप्तस्य वा जाग्रतो वा रेतः स्कन्दति ॥ ४ ॥

प्र. - एतद्ध स्म वै…… आह । एतदभिज्ञा उद्दालकादयः त्रयः वक्ष्यमाणप्रकारेण आहुः इत्यर्थः । बहवो मर्याः…… चरन्ति । ये इदमविद्वांसः एतत्प्रकारानभिज्ञाः अधोपहासं चरन्ति मिथुनकर्माचरन्ति, ते मर्याः मरणधर्माणः ब्राह्मणायनाः

ब्राह्मणाः अयनं येषां ते ब्राह्मणजातिमात्रोपजीविन इति यावत् - निरिन्द्रियाः निर्वीर्याः ज्ञानकर्मबलहीनाः विसुकृतः - सुकृतशून्याः बहवः - बहुविधाः एवम्भूतास्सन्तः अस्माल्लोकात् प्रयन्तीत्यर्थः । इति आहेति त्रिषु पूर्वत्रान्वयः । बहु वा इदं सुप्तस्य वा जाग्रतो वा रेतः स्कन्दति । वै शब्दोऽवधारणे । एतद्विद्यानिष्ठस्य बहु जाग्रत्स्वप्नयोः रेतः स्कन्देद्यदीत्यर्थः ॥ ४ ॥

तदभिमृशेदनु वा मन्त्रयेत यन्मेऽद्य रेतः पृथिवीम् अस्कान्त्सीद्यदोषधीरप्यसरत् यदप इदमहं तद्रेत आददे पुनर्मामैत्विन्द्रियं पुनस्तेजः पुनर्भगः पुनरग्निर्धिष्ण्या यथास्थानं कल्पन्तामित्यनामिकाङ् गुष्ठाभ्यामादायान्तरेण स्तनौ वा भ्रुवौ वा निमृज्यात् ॥ ५ ॥

प्र. - तदभिमृशेदनु वा मन्त्रयेत । तस्य रेतसोऽभिमर्शनं वा अनुमन्त्रणं या वक्ष्यमाणमन्त्राभ्यां कुर्यादित्यर्थः । यन्मेऽद्यरेतः पृथिवीम् इत्यादिमन्त्र एक; । पुनः मामैतु इत्यादिद्वितीयोऽनुमन्त्रणे । इत्यनामिकाङ् गुष्ठाभ्याम् आदाय । अभिमर्शनपक्षे आददे इत्यन्तेन मन्त्रेण अनामिकाङ्गुष्ठाभ्यां तद्रेतो गृहीत्वा, पुनर्मामिति मन्त्रेण स्तनमध्ये भ्रूमध्ये वा निर्मज्यादित्यर्थः ॥ ५ ॥ अथ यद्युदक आत्मानं परिपश्येत्, तदभिमन्त्रयेत, मयि तेज इन्द्रियं यशो द्रविणँ सुकृतम् इति । श्रीर्हवा एषा स्त्रीणाम्, यन्मलोद्वासाः । तस्मान्मलोद्वाससं यशस्विनीमभिक्रम्योपमन्त्रयेत ॥ ६ ॥

प्र. - अथ यद्युदक आत्मानं । यद्ययं विद्वानुदके आत्मप्रतिबिम्बं पश्येत्; तदा मयि तेज इति मन्त्रेणाभिमन्त्रयेत इत्यर्थः । श्रीर्हवा एषा स्त्रीणाम्, यन्मलोद्वासाः । स्त्रीणां मध्ये या मलोद्वासाः रजस्वला, सा श्रीः उत्कृष्टा इत्यर्थः । तस्मान्मलोद्वाससं यशस्विनीमभिक्रम्योपमन्त्रयेत । यशस्विनीम् । स्त्रीणामृतुप्राप्तिरेव यशः । तादृशयशोयुक्तां मलोद्वाससम् अभिक्रम्य एत्य; आवाभ्यां पुत्र उत्पादयितव्य इत्युपमन्त्रयेतेत्यर्थः ॥ ६ ॥

[स्त्री वशीकरणार्थं जपादि] सा चैदस्मै न दद्यात्, काममेनामवक्रीणीयात्, सा चैदस्मै नैव दद्यात्, काममेनां यष्ट्या वा पाणिना वोपहत्यातिक्रामेत, इन्द्रियेण ते यशसा यश आदद इति; अयशा एव भवति ॥७॥ सा चेदस्मै दद्यात् - इन्द्रियेण ते यशसा यश आदधामि इति; यशस्विनावेव भवतः ॥८॥ स यामिच्छेत्, कामयत मेति, तस्यामर्थं निष्ठाय मुखेन मुखेँ सन्धायोपस्थम् अस्या अभिमृश्य जपेत्, अङ्गादङ्गात् सम्भवसि हृदयादधि जायसे । स त्वमङ्गकषायोऽसि दिग्धविद्धामिव मादयेमाममूं मयीति ॥ ९ ॥ अथ यामिच्छेत् न गर्भं दधीतेति, तस्यामर्थं निष्ठाय मुखेन मुखँ सन्धायाभिप्राण्यापान्यात्, इन्द्रियेण ते रेतसा रेत आदद इति । अरेता एव भवति ॥ १० ॥ अथ यामिच्छेत्, दधीतेति, तस्यामर्थं निष्ठाय मुखेन मुखँ सन्धायापान्याभि- प्राण्यात् इन्द्रियेण ते रेतसा रेत आदधामीति; गर्भिण्येव भवति ॥ ११ ॥

प्र. - सा चैदस्मै…… काममेनामवक्रीणीयात् । उपमन्त्रितापि सा यदि वाञ्छितं न दद्यात्, तदा एनामाभरणादिना वशीकुर्यादित्यर्थः । सा चेदस्मै नैव दद्यात् - भवति । आभरणादिनाऽप्यवशीकृतां दण्डेन हस्तेन वा पीडयित्वा, इन्द्रियेण ते इति मन्त्रेणातिक्रम्य गच्छेत् । सा च तदा प्रभृति अयशाः - अरजस्का भवतीत्यर्थः ॥ ७ ॥ सा चेदस्मै दद्यात् - भवतः । आदद इति, अनेन मन्त्रेण गच्छेदिति शेषः । यशस्विनावेव तौ दंपती सम्भवत इत्यर्थः ॥ ८ ॥ स यामिच्छेत् - मयीति । सः - वाजपेयसंपत्तिप्रकारवित् यां - स्वीयाँ स्त्रियं मा- मामियं कामयेत इतीच्छेत्, तस्यामर्थं निष्ठाय - तस्या योनौ प्रजननेन्द्रियं निक्षिप्य इत्यर्थः । मुखेन मुखं सन्धाय इत्यावदेः स्पष्टोऽर्थः। अथ यामिच्छेन्न गर्भं…… भवतिइयं गर्भिणी माभूदिति यामिच्छेदित्यर्थः । अभिप्राण्यापान्यात् । श्वासं गृहीत्वा विसृजेदित्यर्थः । शिष्ट स्पष्टम् । अथ यामिच्छेत् - गर्भिण्येव भवति । दधीतेति । गर्भं दधीतेतीत्यर्थः । तस्यामर्थं निष्ठाये त्यादि सर्वं पूर्ववत् । अत्र अपाननान्तरमभिप्राणनमिति विशेषः ॥ ११ ॥

[जारस्य हानिकल्पनायाभिचारिकम्] अथ यस्य जायायै जारः स्यात् - तञ्चेद् द्विष्यात्, आमपात्रेऽग्निमुपसमाधाय प्रतिलोमँ शरबर्हिः स्तीर्त्वा तस्मिन्नेताः शरभृष्टीः प्रतिलोमाः सर्पिषाऽक्ता जुहुयात् - मम समिद्धेऽहौषीः, प्राणापानौ त आददे; असाविति । मम समिद्धेऽहौषीः, पुत्र- पशूँस्त आददे; असाविति । मम समिद्धेऽहौषीः, इष्टासुकृते त आददे; असाविति । मम समिद्धेऽहौषीः आशापराकाशौ त आददेऽसाविति स वा एष निरिन्द्रियो विसुकृदस्माल्लोकात्प्रैति, यमेवं विद्वान् ब्राह्मणः शपति ॥ तस्मादेवँविच्छ्रोत्रियस्य दारेण नोपहासमिच्छेदुत ह्येवंवित् परो भवति ॥ १२ ॥

प्र. -अथ यस्य जायायै जारः असाविति । यस्य जायायै उपपतिः स्यात् तञ्चेद् द्विष्यात् - अमुं हनिष्यामीति यदि मन्येत, तदा आमपात्रे अग्निम् उपसमाधाय सर्वं कर्म प्रतिलोमं कृत्वा शरमयं बर्हिः स्तीर्त्वा - आस्तीर्य तस्मिन्नग्नौ आज्येनाक्ताः- शरभृष्टीः शरेषीकाः प्रतिलोमाः, मम समिद्ध इत्यादिमन्त्रैः चतुर्भिर्जुहुयात् । अन्ते, असौ इति शत्रोर्नाम गृह्णीयात् । स वा एष निरिन्द्रियो विसुकृत् - शपति । एवंवित् ब्राह्मणो यं शपति, स निरिन्द्रियः, विसुकृत् - विसुकृतश्च सन् मृतो भवति इत्यर्थः । तस्मादेवंविच्छ्रोत्रियस्य दारेण - भवति । एवंविच्छ्रोत्रियस्य एवंविदः श्रोत्रियस्येत्यर्थः । उत ह्येवंवित् परो भवति । एवंवित् तस्मै शत्रुस्सन् अभिचरेदपीति भावः ॥ १२ ॥

[ऋतुकालनियमाः]

अथ यस्य जायामार्तवं विन्देत्, त्र्यहं कँसेन पिबेदहतवासाः, नैनां वृषलो न वृषल्युपहन्यात्, त्रिरात्रान्त आप्लुत्य व्रीहिनवघातयेत् ॥ १३ ॥

प्र. -अथ यस्य जायाम् इत्यादिग्रन्थः, श्रीर्हवा एषा इत्यतः पूर्वो द्रष्टव्यः सामर्थ्यात् । वृषलः-शूद्रः । नोपहन्यात् - न स्पृशेत् । आप्लुत्य - स्नात्वा । अहतवासा इति व्यवहितेन सम्बन्धः । स्नाताञ्च तां वक्ष्यमाणस्थालीपाकार्थं व्रीह्यवधाते नियुञ्ज्यादित्यर्थः ॥ १३ ॥

[सर्वोत्कृष्टपुत्रोत्पत्तये पण्डितदुहित्रुत्पत्तये च कर्तव्यम्]

अथ य इच्छेत्पुत्रो मे शुक्लो जायेत वेदमनुब्रुवीत सर्वमायुरियादिति, क्षीरौदनं पाचयित्वा सर्पिष्मन्तम् अश्नीयाताम् । ईश्वरौ जनयितवै ॥ १४ ॥ अथ य इच्छेत् पुत्रो मे कपिलः पिङ्गलो जायेत द्वौ वेदावनुब्रवीत सर्वमायु- रियादिति; दध्योदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम् । ईश्वरौ जनयितवै ॥ १५ ॥ अथ य इच्छेत् पुत्रो मे श्यामो लोहिताक्षो जायेत त्रीन् वेदानुब्रुवीत सर्वमायुरियात् इति उदौदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम् ईश्वरौ जनयितवै ॥ १६ ॥ अथ य इच्छेत् दुहिता मे पण्डिता जायेत सर्वमायुरियादिति, तिलौदनं पाचयित्वा सर्पिष्मन्तं अश्नीयाताम् । ईश्वरौ जनयितवै ॥ १७ ॥

प्र. - स य इच्छेत् पुत्रो मे शुक्लो जायेत । ईश्वरो जनयितवै । तौ दम्पती जनयितवै जनयितुम् ईश्वरौ समर्थौ इत्यर्थः । तुमर्थे यितवै प्रत्ययः । अथ य इच्छेत् पुत्रो मे कपिलः - स्पष्टम् । अथ य इच्छेत् पुत्रो मे श्यामो लोहिताक्षो जायेत उदौदनम् - उदकौदनम् । शुद्धौदनमित्यर्थः । अथ य इच्छेत् दुहिता मे पण्डिता जायेत - दुहितुः पाण्डित्यं लौकिकविषये; वेदेऽनधिकारादिति द्रष्टव्यम् ॥ १४-१७ ॥

अथ य इच्छेत्पुत्रो मे पण्डितो विजिगीथः समितिङ्गमः शुश्रूषितां वाचं भाषिता जायते सर्वान् वेदाननुब्रवीत सर्वमायुरियादिति माँसौदनं पाचयित्वा । सर्पिष्मन्तमश्नीयाताम् - ईश्वरौ जनयितवै - औक्ष्णेन वार्षभेण वा ॥ १८ ॥ अथाभिप्रातरेव स्थालीपाकावृताज्यं चेष्टित्वा स्थालीपाकस्योपघातं जुहोति, अग्नये स्वाहानुमतये स्वाहा देवाय सवित्रे सत्यप्रसवाय स्वाहेति । हुत्वोद्धृत्य

प्राश्नाति । प्राश्येतरस्याः प्रयच्छति । प्रक्षाल्य पाणी उदपात्रं पूरयित्वा तेनैनां त्रिरभ्युक्षति उत्तिष्ठातो विश्वावसोऽन्यामिच्छ प्रपूर्व्यां सञ्जायां पत्या सहेति ॥ १९ ॥ अथैनामभिपद्यते, अमोऽहमस्मि सा त्वँ सा त्वमस्यमोहँसामाहमस्मि ऋक् त्वं द्यौरहं पृथिवीत्वम् तावेहि सँरभावहै, सह रेतो दधावहै पुँसे पुत्राय वित्तय इति ॥ २० ॥ अथास्या ऊरू विहापयति, विजिहीथां द्यावापृथिवी इति । तस्यामर्थं निष्ठाय मुखेन मुखँ सन्धाय त्रिरेनामनुलोमामनुमार्ष्टि- विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिँशतु । आसिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ॥ गर्भं धेहि सिनीवाली गर्भं धेहि पृथुष्टुके । गर्भं ते अश्विनौ देवावाधत्तां पुष्करस्रजौ ॥ २१ ॥ हिरण्मयी अरणी याभ्यां निर्मन्थतामश्विनौ । तत्ते गर्भं हवामहे दशमे मासि सूतवे । यथाऽग्निगर्भा पृथिवी यथा द्यौरिन्द्रेण गर्भिणी । वायुर्दिशां यथा गर्भ एवं गर्भं दधामि ते असाविति ॥ २२ ॥ [सुखप्रसवोपायः]

सोष्यन्तीमद्भिरभ्युक्षति - यथा वायुः पुष्करिणीँ समिङ्गयति सर्वतः । एवा ते गर्भ एजतु सहावैतु जरायुणा ॥ इन्द्रस्यायं व्रजः कृतः सार्गलः सपरिश्रयः । तमिन्द्र निर्जहि गर्भण सावराँ सहेति ॥ १३ ॥ [जातकर्मकथनम्]

जातेऽग्निमुपसमाधाय, अङ्क आधाय कँसे पृषदाज्यँ संनीय पृषदाज्य- स्योपघातं जुहोति - अस्मिन् सहस्रं पुष्यासमेधमान; स्वे गृहे । अस्योपसद्यां माच्छेत्सीत् प्रजया च पशुभिश्च स्वाहा । मयि प्राणांस्त्वयि मनसा जुहोमि स्वाहा । यत् कर्मणाऽत्यरीरिचं यद्वा न्यूनमिहाकरम् । अग्निष्टत् स्विष्टकृद्विद्वान् स्विष्टं सुहुतं करोतु नः स्वाहेति ॥ २४ ॥ अथास्य दक्षिणं कर्णमभिनिधाय वाग्वागिति त्रिरथ दधि मधु घृतँ सन्नीयानन्तर्हितेन जातरूपेण प्राशयति, भूस्ते दधामि भुवस्ते दधामि स्वस्ते दधामि भूर्भुवःस्वः सर्वं त्वयि दधामीति ॥ २५ ॥ [नामकरणम्]

अथास्य नाम करोति, वेदोऽसीति । तदस्य तद्गुह्यमेव नाम भवति ॥ २६ ॥ [स्तनप्रदानमन्त्रः]

अथैनं मात्रे प्रदाय स्तनं प्रयच्छति- यस्ते स्तनः स (श) शयो यो मयोभूर्या रत्नधा वसुविद्यस्सुदत्रः । येन विश्वा पुष्यसि वार्याणि सरस्वति तमिह धातवेकरिति ॥ २७ ॥ [मात्रभिमन्त्रणं सुपितापुत्रस्तुतिश्च]

अथास्य मातरमभिमन्त्रयते- इलाऽसि मैत्रावरुणी वीरे वीरमजीजनत् । सा त्वं वीरवती भव याऽस्मान् वीरवतोऽकरदिति ॥ तं वा एतमाहुः अतिपिता सताभूरति पितामहो बताभूः परमां बत । काष्ठां प्रापच्छ्रिया यशसा प्रहावर्चसेन, य एवंविदो ब्राह्मणस्य पुत्रो जायत इति ॥ २८ ॥ ॥ इति आहमाध्याये चतुर्थ ब्राहाणम् ॥

प्र. - अथ य…… विगीतः । विजिगीथः (विगीत🙂 प्रसिद्धः । समितिङ्गमः -

सभांगन्ता । शुश्रूषितां - रमणीयां [माननीयार्थाम् ] । मांसनियमार्थमाह औक्ष्णेन वार्षभेण वेति । उक्षा - रेतस्सेचनसमर्थः पुङ्गव इत्यर्थः । अथाभिप्रातरेव स्थालीपाकावृत्ताऽऽज्यं चेष्टित्वा । अपरेद्युः प्रातः काले स्थाली- पाकावृता - स्थालीपाकविधिना आज्यं चेष्टित्वा - संस्कृत्य स्थालीपाकस्योपधातं- स्थालीपाकमुपहत्य जुहोति । चरोरवदाय अग्नये स्वाहा इत्यादि स्वाहान्तैर्मन्त्रैः जुहोतीत्यर्थः । हुत्वोद्धत्याथ स्वयं प्राश्नाति । प्राश्य इतरस्याः - इतरस्यै - पत्न्यै प्रयच्छतीत्यर्थः । एनां- पत्नीं, उत्तिष्ठेति मन्त्रेण त्रिः प्रोक्षयेदित्यर्थः । शिष्ट स्पष्टम् । अथैनामभिपद्यते । अमोऽहमस्मीति एनां - पत्नीं सङ्गच्छेतेत्यर्थः । अथास्या ऊरू विहापयति । विजिहीथां द्यावापृथिवी इति मन्त्रेण ऊरू वियोजयतीत्यर्थः । योनिद्वारानुपरोधिनौ कुर्यात् इति यावत् । त्रिरेनामनुलोमाम् अनुमार्ष्टि । अनुलोमां - शिर आरभ्य त्रिरामृशतीत्यर्थः । आमर्शनमन्त्रानाह . विष्णुर्योनिंअसाविति मन्त्राणामन्ते असाविति पत्नीनाम गृह्णीयादित्यर्थः । सोष्यन्तीमद्धिरभ्युक्षति । सोष्यन्तीं - प्रसवाभिमुखीं पत्नीम्, यथा वायुः पुष्करिणीम् इत्यादिमन्त्रेण प्रोक्षयेत् इत्यर्थः । जातेऽग्निमुपसमाधाय । जाते पुढे तमङ्के पुत्रमाधाय पृषदाज्यं - सदधि आज्यं कंसे सन्नीय - संयोज्येत्यर्थः । होममन्त्रानाह - अस्मिन् सहस्रं पुष्यासम् इत्यादिना । अथास्य दक्षिणं कर्णमभिनिधाय वाग्वागिति त्रिः । अस्य - पुत्रस्य दक्षिणे कर्णे मुखं निधाय वाग्वागिति त्रिर्जपेदित्यर्थः । अथ दधि - प्राशयतिअनन्तर्हितेन

अव्यवहितेन जातरूपेण - हिरण्येन संसृज्य दधि मधु घृतं तं पुत्रं प्राशयतीत्यर्थः । भूस्ते दधामी त्यादयः प्राशनमन्त्राः । अथास्य नाम करोति वेदोऽसि । स्पष्टम् । अथैनं मात्रे प्रदाय । प्रयच्छति दापयेदित्यर्थः । स्तन्यप्रदानमन्त्रमाह - यस्ते स्तनस्सशयो योमयोभूः इत्यादि । अथास्य मातरमभिमन्त्रयते । इलासि मैत्रावरुणीत्यादिमन्त्रेण पुत्रमातरमभि- मन्त्रयेदित्यर्थः । तं वा एतमाहुरतिपिता बताभूः । एवंविदो ब्राह्मणस्य जातः पुत्रः पितरमतिशयितवान्, पितामहत्यतिशेते स्तुत्यानां परमां काष्ठां प्राप्त इति सर्वेषां स्तुत्यो भवतीत्यर्थः ॥ १८-२८ ॥ ॥ अष्टमाध्याये चतुर्थब्राह्मण प्रकाशिका ॥ पञ्चमं ब्राह्मणं - वंशब्राह्मणम् अथ वँशः । पौतिमाषीपुत्रः कात्यायनीपुत्रात्, कात्यायनीपुत्रो गौतमीपुत्रात्, गौतमीपुत्रो भारद्वाजीपुत्रात्, भारद्वाजीपुत्रः पाराशरीपुत्रात्, पाराशरीपुत्रः औपस्वस्तीपुत्रात्, औपस्वस्तीपुत्रः पाराशरीपुत्रात्, पाराशरीपुत्रः कात्ययनीपुत्रात्, कात्यायनीपुत्रः कौशिकीपुत्रात्, कौशिकीपुत्र आलम्बीपुत्राच्च वैयाघ्रपदीपुत्रच्च, वैयाघ्रपदीपुत्रः काण्वीपुत्राच्च कापीपुत्रच्च, कापीपुत्रः ॥१॥ आत्रेयीपुत्रात्, आत्रेयीपुत्रो, गौतमीपुत्रात्, गौतमीपुत्रो भारद्वाजीपुत्रात्, भारद्वाजीपुत्रः पाराशरीपुत्रात्, पाराशरीपुत्रो वात्सीपुत्रात्, वात्सीपुत्रः पाराशरीपुत्रात्, पाराशरीपुत्रो वार्कारुणीपुत्रात्, वार्कारुणीपुत्रो वार्कारुणीपुत्रात्, वार्कारुणीपुत्रः आर्तभागीपुत्रात्, आर्तभागीपुत्रः शौङ्गीपुत्रात्, शौङ्गीपुत्रः सांकृतीपुत्रात्, सांकृतीपुत्र आलम्बायनीपुत्रात्, आलम्बायनीपुत्र आलम्बीपुत्रात्, आलम्बीपुत्रो जायन्तीपुत्रात्, जायन्तीपुत्रो माण्डूकायनीपुत्रात्, माण्डूकायनीपुत्रो माण्डूकीपुत्रात्, माण्डूकीपुत्रः शाण्डिलीपुत्रात्, शाण्डिलीपुत्रो राथीतरीपुत्रात्, राथीतरीपुत्रो भालुकीपुत्रात्, भालुकीपुत्रः क्रौञ्चिकीपुत्राभ्याम्, क्रौञ्चिकीपुत्रौ वैदृभदीपुत्रात्, वैदृभतीपुत्रः कार्शकेयीपुत्रात् कार्शकेयीपुत्रः प्राचीनयोगीपुत्रात्, प्राचीनयोगीपुत्रः साञ्जीवीपुत्रात्, साञ्जीवीपुत्रः प्राश्नी पुत्रादासुरिवासिनः, प्राश्नीपुत्र आसुरायणात्, आसुरायण आसुरेः, आसुरिः ॥ २ ॥ याज्ञवल्क्यात् याज्ञवल्क्य उद्दालकात्, उद्दालकोऽरुणात्, अरुण उपवेशेः, उपवेशिः कुश्रेः, कुश्रिर्वाजश्रवसो वाजश्रवा जिह्वावतो जिह्वावान् वाध्योगात्, वाध्योगोऽसिताद्वार्षगणात्, असितो वार्षगणो हरितात् कश्यपात्, हरितः कश्यपः शिल्पात् कश्यपात्, शिल्पः कश्यपः कश्यपान्नैर्ध्रुवेः, कश्यपो नैध्रुविर्वाचो वाक् अम्भिण्याः, अम्भिण्यादित्यात् । आदित्यानीमानि शुक्लानि यजूँषि वाजसनेयेन याज्ञवल्क्येनाऽऽख्यायन्ते ॥३॥ समानमा साञ्जीवीपुत्रात्, साञ्जीवीपुत्रो माण्डूकायनेः, माण्डूकायनिर्माण्डव्यात्, माण्डव्यः कौत्सात्, कौत्सो माहित्थेः, माहित्थिर्वामकक्षायणात्, वामकक्षायणः शाण्डिल्यात्, शाण्डिल्यो वात्स्यात्, वात्स्यः कुश्रेः, कुश्चिर्यज्ञवचसो राजस्तम्बायनात्, यज्ञवचा राजस्तम्बायनस्तुरात् कावषेयात्, तुरः कावषेयः प्रजापतेः, प्रजापतिर्ब्रह्मणः । ग्राहा स्वयम्भु । ग्रहाणे नमः ॥ ४ ॥ ॥ आठमाध्याये पञ्चमं ब्राह्मणम् ॥ ॥ समाता च बृहदारण्यकोपनिषत् ॥ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

प्र. - अथेदानीं समस्तप्रवचनवंशः । स्त्रीप्राधान्यात् , गुणवान् पुत्रो भवतीति प्रस्तुतत्वात् स्त्रीविशेषकृतपुत्रविशेषेण, आचार्यपरम्परा कीर्त्यते अथ वंशः… … इत्यादिना ॥ १-३ ॥ प्रजापतेः चतुर्मुखादित्यर्थः । ब्रह्मणः नारायणादित्यर्थः । स्वयंभु स्वतः सर्वज्ञमित्यर्थः । ब्रह्मणे नमः ।

आचार्येभ्यो नमस्कृत्य अथ वंशमनुक्रमेत्।

वंशमाब्रह्मणो नयन् (आ ब्रह्मणो नयन् वंशं?) दीर्घमायुरवाप्नुयात् ॥

**

इति आ ब्रह्मणो वंशपरम्पराकीर्तनस्य श्रेयोहेतुत्वं शास्त्रसिद्धमिहानुसन्धेयम् ॥ ४ ॥ ॥ इति अष्टमाध्याये पञ्चमब्राह्मण प्रकाशिका ॥

क्षेमाय यः करुणया क्षितिनिर्जराणां भूमावजृम्भयत भाष्यसुधामुदारः ।

वामागमाध्वगवदावदतूलवातो रामानुजः स मुनिराद्रियतां मदुक्तिम् ॥

इति श्रीमत्ताताचार्यचरणारविन्दचञ्चरीकस्य वात्स्यानन्तार्यपादसेवासमधिगतशारीरक- मीमांसाभाष्यहदयस्य परकालमुनिपादसेवासमधिगतपारमहंस्यस्य श्रीरङ्गरामानुजमुनेः कृतिषु बृहदारण्यकोपनिषत्प्रकाशिका संपूर्णा