०८-०१

बृहदारण्यकोपनिषत् अष्टमोऽध्यायः प्रथमं ब्राह्मणम् [प्राणविद्या - ज्येष्ठ श्रेष्ठप्राणविद्या] यो ह वै ज्येष्ठञ्च श्रेष्ठञ्च वेद, ज्येष्ठश्च श्रेष्ठश्च स्वानां भवति । प्राणो वै ज्येष्टश्च श्रेष्ठश्च । ज्येष्ठश्च श्रेष्ठश्च स्वानां भवत्यपि च येषां बृभूषति, य एवं वेद ॥ १ ॥

प्र. - प्राणविषयकविद्या प्रस्तूयते - यो ह वै………य एवं वेद । प्राणो हि इन्द्रियाणां मध्ये ज्येष्ठः । प्राणव्यापारानन्तरभावित्वात् इन्द्रियान्तरप्रवृत्तेः इति भावः । श्रेष्ठश्च; वक्ष्यमाणरीत्या इति भावः । एवं तं प्राणमुपासीनो यः, स स्वानां - ज्ञातीनां ज्येष्ठः श्रेष्ठश्च भवति । इतरेषाञ्च येषां ज्येष्ठः श्रेष्ठो बुभूषति भवितुमिच्छति; तेषामपि ज्येष्ठः श्रेष्ठश्च भवतीत्यर्थः ॥ १ ॥

यो ह वै वसिष्ठां वेदः वसिष्ठः स्वानां भवति । वाग् वै वसिष्ठा । वसिष्ठः स्वानां भवत्यपि च येषां बुभूषति, य एवं वेद ॥ २ ॥

प्र. - यो ह वै…….वेद । अतिशयेन वसुमत्त्वं वसिष्ठत्वम् । वाग् वै वसिष्ठा । वाग्मिन एव हि वसुमत्ता भवति । अतो वाचो वसिष्ठत्वं सिद्धम् । शिष्टं पूर्ववत् ॥ २ ॥

[चक्षुषः प्रतिष्ठात्वम्] यो ह वै प्रतिष्ठां वेद, प्रतितिष्ठति समे, प्रतितिष्ठति दुर्गे । चक्षुर्वै प्रतिष्ठा । चक्षुषा हि समे च दुर्गे च प्रतितिष्ठति । प्रतितिष्ठति समे प्रतितिष्ठति दुर्गे, य एवं वेद ॥ ३ ॥

प्र. - यो ह वै प्रतिष्ठां वेद…….। चक्षुर्वै प्रतिष्ठा । चक्षुषः प्रतिष्ठात्वं नाम समविषमदेशप्रदर्शनद्वारा पुरुषप्रतिष्ठाहेतुत्वम् । शिष्टं पूर्ववत् ॥ ३ ॥

[श्रोत्रस्य सम्पत्त्वम्] यो ह वै सम्पदं वेद, सँ हास्मै पद्यते यं कामं कामयते । श्रोत्रं वै संपत् । श्रोत्रे हीमे सर्वे वेदा अभिसम्पन्नाः । सँ हास्मै पद्यते यं कामं कामयते, य एवं वेद ॥ ४ ॥

प्र. - यो ह वै संपदं………वेद । सं हास्मै पद्यते । अस्मै संपद्यते । श्रोत्रे सत्येव हि सर्वे वेदाः सम्पन्ना भवन्ति । तस्मात् तत् सम्पत्त्वगुणकं श्रोत्रं यो वेद, तस्य काम्यमानः कामः सम्पद्यत इत्यर्थः ॥ ४ ॥

[मनसः आयतनत्वम्] यो ह वा आयतनं वेद, आयतनँ स्वानां भवति । आयतनं जनानाम् । मनो वा आयतनम् । आयतनँ स्वानां भवत्यायतनं जनानाम्, य एवं वेद ॥ ५ ॥

प्र–यो ह वा आयतनं…….वेद । इन्द्रियाणाम् मनोऽधीनप्रवृत्तिकत्वात् इन्द्रियान्तरापेक्षया मनसः आयतनत्वम् । अत एव जनानामपि आयतनत्वम् । शिष्टं स्पष्टम् ॥ ५ ॥

[रेतसः प्रजातिगुणत्वम्] यो ह वै प्रजार्ति वेद, प्रजायते ह प्रजया पशुभिः । रेतो वै प्रजातिः । प्रजायते ह प्रजया पशुभिर्य एवं वेद ॥ ६ ॥

प्र. - यो ह वै प्रजाति……वेद । रेतो वे प्रजातिः । रेत श्शब्देन प्रजननेन्द्रिय लक्ष्यते । तेन हि पुत्रपौत्रादिमत्तया प्रकृष्टतया जायते पुरुष इति तत् प्रजातिः । शिष्टं स्पष्टम् ॥ ६ ॥

[प्राणवागादीनां विवादः] ते हेमे प्राणा अहँश्रेयसे विवदमाना ब्रह्म जग्मुः । तद्धोचुः को नो वसिष्ठ इति । तद्धोवाच यस्मिन् उत्क्रान्ते इदँ शरीरं पापीयो मन्यते, स वो बसिष्ठ इति ॥ ७ ॥

प्र. - ते हेमे प्राणा…… बसिष्ठ इति । ते हेमे - वागादयः प्राणाः- अहमर्थस्यात्मनः श्रेयसे विवदमानाः ब्रह्म - चतुर्मुखम् नपुंसकत्वं छान्दसम् - जग्मुः । तं गत्वा नः - अस्माकं मध्ये कः वसिष्ठः - श्रेयान्? इति तत् - ब्रह्म प्रति ऊचुःतच्च -

ब्रह्म प्रत्युवाच’ । किमिति? वः - युष्माकं मध्ये यस्मिनुत्क्रान्ते इदं शरीरं पापीयः-

पापिष्ठतरमिव जनो मन्यते, स वः श्रेष्ठ इति प्रत्युवाच इत्यर्थः ॥ ७ ॥

[वाचः स्वसामर्थ्य परीक्षार्थम् उत्क्रमणम्] वाग्घोच्चक्राम । सा संवत्सरं प्रोष्यागत्योवाच, कथमशकत मदृते जीवितुमिति । ते होचुर्यथा कला अवदन्तो वाचा, प्राणन्तः प्राणेन, पश्यन्तश्चक्षुषा, शृण्वन्तश्शोत्रेण, विद्वाँसो मनसा, प्रजायमाना रेतसा एबमजीविष्मेति । प्रविवेश ह वाक्॥८॥

प्र. - वाग्घोच्चक्राम सा…..वाक् । तत्र प्रथमतः परीक्षार्थं वाक् उत्क्रान्ता सती संवत्सरं प्रवासं कृत्वा पुनरागत्य; हे प्राणाः! मदृते - मां विना जीवितुं कथमशकत - कथं शक्ता इत्युवाच । ते ह - इतरे प्राणाः प्रत्यूचुः यथा कलाः - मूकाः वाचा अवदन्तोऽपि सन्तः प्राणेन जीवन्तः, चक्षुरादिना दर्शनादिकं कुर्वन्तः आसतेः एवं वयमपि अजीविष्म - जीवितवन्त इति होचुः । ततः प्राणेषु स्वस्य श्रेष्ठत्वं नास्तीति मत्या शरीरे वागिन्द्रियं प्रविवेश इत्यर्थः । एवमुत्तरत्रापि द्रष्टव्यम् ॥ (८-१२)

[चक्षुषः स्वसामर्थ्यपरीक्षार्थं उत्क्रमणम्] चक्षुर्होच्चक्राम । तत् संवत्सरं प्रोष्यागत्योवाच, कथमशकत मदृते जीवितु- मिति । ते होचुर्यथा अन्धा अपश्यन्तश्चक्षुषा, प्राणन्तः प्राणेन, वदन्तो वाचा, शृण्वन्तश्श्रोत्रेण, विद्वांसो मनसा, प्रजायमाना रेतसा - एवमजीविष्मेति । प्रविवेश ह चक्षुः ॥ ९ ॥ [श्रोत्रस्य शरीरादुत्क्रमणम्] श्रोत्रँ होच्चक्राम । तत्संवत्सरं प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति । ते होचुर्यथा बधिरा अशृण्वन्तः श्रोत्रेण प्राणन्तः प्राणेन वदन्तो वाचा, पश्यन्तश्चक्षुषा विद्वाँसो मनसा प्रजायमाना रेतसैवमजीविष्मेति । प्रविवेश ह श्रोत्रम् ॥ १० ॥ [मनस उत्क्रमणम्] मनो होच्चक्राम । तत्संवत्सरं प्रोष्यागत्योवाच कथमशकत मदृते जीवितु- मिति । ते होचुर्यथा मुग्धा अविद्वाँसो मनसा प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तः चक्षुषा शृण्वन्तः श्रोत्रेण प्रजायमाना रेतसैवमजीविष्मेति । प्रविवेश ह मनः ॥ ११ ॥ [रेतसः उत्क्रमणम्] रेतो होच्चक्राम । तत्संवत्सरं प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति । ते होचुर्यथा क्लीबा अप्रजायमानाः रेतसा प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण विद्वाँसो मनसैवमजीविष्मेति । प्रविवेश ह रेतः ॥ १२ ॥ [मुख्यप्राणोत्क्रमणे वागादिभिरनुत्क्रमप्रार्थना] अथ ह प्राणा उत्क्रमिष्यन् यथा महासुहयः सैन्धवः पड्वीशशङ् कून् संबृहेत्, एवँ हैवेमान् प्राणान् संबबर्ह । ते होचुः मा भगव उत्क्रमीर्न वै शक्ष्यामस्त्वदृते जीवितुमिति । तस्यो मे बलिं कुरुतेति । तथेति ॥ १३ ॥

प्र. - अथ ह प्राण………संबबर्ह । अथ मुख्यप्राणः उत्क्रमिष्यन् सन् यथा

लोके महान् सुहयः शोभनो हयः सैन्धवः- सिन्धुदेशप्रभवः परीक्षणाय अश्वारूढः पड्वीशशङ् कून् - पड्वीशाश्च ते शङ्कवश्च पादबन्धनशङ् कून् संबृहेत् - उत्खनेत्; एवमेव इमान् सर्वान् प्राणान्, वागादीन् संबबर्ह - उच्चरवान, उत्खातवान् । ते होचुः मा भगवः….. जीवितुमिति । ते - ह प्राणा आगत्य, हे भगवन् ! पूजार्ह ! मुख्यप्राण ! त्वं मोत्क्रमीः - उत्क्रमणं मा कार्षीः । त्वां विना वयं जीवितुं न शक्ष्याम इति होचुः । स प्रत्युवाच तस्यो मे बलिं कुरुत इति । तस्य मे श्रेष्ठस्य यूयं बलिं कुरुत

प्रयच्छतेति । उशब्दोऽवधारणे । तथेति । तथेत्येव तेऽपि प्रत्यूचुः इत्यर्थः ॥ १३ ॥

[वागादीनां शरणागतिः] सा ह वागुवाच, यद्वा अहं वसिष्ठाऽस्मि, त्वं तद्वसिष्ठोऽसीति । यद्वा अहं प्रतिष्ठाऽस्मि त्वं तत् प्रतिष्ठोऽसीति चक्षुः । यद्वा अहँ सम्पदस्मि, त्वं तत् संपदसीति, श्रोत्रम् । यद्वा अहमायतनमस्मि, त्वं तदायतनमसीति मनः । यद्वा अहं प्रजातिरस्मि, त्वं तत् प्रजातिरसीति रेतः । तस्यो मे किमन्नं किं वास इति । यदिदं किञ्चाश्वभ्य क्रिमिभ्य आ कीटपतङ्गेभ्यः, तत्तेऽन्नम्; आपो वास इति । न ह वा अस्यानन्नं जग्धं भवति, नानन्नं प्रतिगृहीतम्, य एवमेतदनस्यान्नं वेद । तद्विद्वाँसः श्रोत्रिया अशिष्यन्त आचामन्त्यशित्वा चाचामन्ति, एतमेव तदनमनग्नं कुर्वन्तो मन्यन्ते ॥ १४ ॥

प्र. - सा ह वागुवाच…… प्रजातिरसीति रेतः । यद्वै येनैव गुणेनाहं वसिष्ठाऽस्मि , तत् - तेन गुणेन त्वमेव वसिष्ठोऽसि; मम वसिष्ठत्वं त्वदधीनमिति वागुवाच इत्यर्थः । वै शब्दोऽवधारणे । एवमुत्तरत्रापि । तस्यो मे किमन्नं किं [मे] वासः । तस्य

एतादृशगुणविशिष्टस्य मेऽन्नं किम्, वासः- वस्त्रं किमिति मुख्यः प्राण इतरान् पप्रच्छ इत्यर्थः । ते प्रत्यूचुः, यदिदं किञ्चाश्वभ्यः…………वास इति । श्वक्रिम्यादिपर्यन्तप्राणिजातस्य यदन्नम्, तत् सर्वं प्राणस्य ते अन्नम् । आपो वासः । सर्वप्राणिजातान्ने प्राणान्नत्वचिन्तनं कर्तव्यम्, अप्सु वासस्त्वचिन्तनं कर्तव्यमित्यर्थः । न तु, सर्वभक्षणं कर्तव्यम्, अद्भिरा- च्छादनं कार्यं इति वाऽर्थः तस्य असम्भवादिति द्रष्टव्यम् । सर्वप्राणिजातान्ने प्राणान्नत्वचिन्तनं स्तौति - न ह वा अस्यानन्नं…..वेद । य एवमेतत् अनस्य - प्राणस्य अन्नं सर्वं वेद, अस्य - सर्वप्राण्यन्ने प्राणान्नत्वचिन्तनं कुर्वतः अनन्नं न जग्धं भवति नाभक्ष्यं भक्षितं भवति । अभक्ष्यभक्षणे न दोष इत्यर्थः । अनन्नम् - अभक्ष्यम् गजाश्वादिकं न प्रतिगृहीतं भवति । गजाश्वप्रतिगृहादिना न दोष इति यावत् । सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् (ब्र.सू.३-४-२८) इति सर्वान्नानुमतेः प्राणात्ययविषयत्वसमर्थनात् अभक्ष्यभक्षणादौ दोषाभावप्रतिपादनमिदम् आपद्विषयमेव द्रष्टव्यम् । तद्विद्वांसश्श्रोत्रियाः……मन्यन्ते । यस्मादपां वासस्त्वं अनुसन्धातव्यम्; तत् तस्माद्धेतोः श्रोत्रियाः विद्वांसः आचमनीयाभिः अद्भिः वासोभिः एतमनं - प्राणमनग्नं कुर्वन्तो मन्यन्ते एवमेतदनं एतं प्राणमनग्नं कुर्वन्तो मन्यमानाः अशनात्पूर्वं पश्चाच्चाचा- मन्तीत्यर्थः । अनग्नं कुर्वन्तो मन्यन्ते इत्युक्त्या वासस्त्वचिन्तनं अर्थसिद्धम्; वासः कार्यत्वादनग्नताया इति द्रष्टव्यम् । भाष्योदाहृतम् , तस्मादेवंविदशिष्यन्नाचामेदशित्वा

चाचामेत् इत्यादिवाक्यं माध्यन्दिनशाखागतं द्रष्टव्यम् ॥ १४ ॥ ॥ इति अष्टमाध्याये प्रथमब्राह्मण प्रकाशिका ॥ ॥ द्वितीयं ब्राह्मणम् ॥ [पञ्चाग्निविद्या] श्वेतकेतुर्ह वा आरुणेयः पञ्चालानां परिषदम् आजगाम । स आजगाम जैबलिं प्रवाहणं परिचारयमाणम् । तमुदीक्ष्याभ्युवाद, कुमारा ३ इति । स भो ३ इति प्रतिशुश्राव । अनुशिष्टो न्वसि पित्रेति । ओमिति होवाच ॥ १ ॥

प्र– प्रकृतिविविक्तजीवयाथात्म्यविषयां पञ्चाग्निविद्यां संसृतिवैराग्याय प्रस्तोति श्वेतकेतुर्ह वा आरुणेयः पञ्चालानां परिषदमाजगाम । नाम्ना श्वेतकेतुः आरुणेरपत्यम् आरुणेयः । स पञ्चालानां देशानां परिषदं - समाजं स्ववैदुष्यप्रकटनाय आजगाम इत्यर्थः । स आजगाम जैबलिं प्रवाहणं परिचारयमाणम् । जीबलस्य अपत्यं जैबलिः । तं प्रवाहणनामानं स्वभृत्यैः आत्मनः परिचारं कारयन्तं राजानम् आगच्छत् । तमुदीक्ष्याभ्युवाद कुमारा३ इति । स राजा तं - श्वेतकेतुमुदीक्ष्य कुमारा३ इति आमन्त्रितवान् । आमन्त्रणे प्लुतिः । स भो३ इति प्रतिशुश्राव । सः - श्वेतकेतुः भो इति प्रतिशुश्राव - प्रत्युवाच । अनुशिष्टो न्वसि पित्रेति । अथ राजा, पित्रा त्वं विद्यामनुशिष्टोऽसीति श्वेतकेतुं पप्रच्छ । ओमिति होवाच । ओम् - अनुशिष्टोऽस्मीति इतर उवाच इत्यर्थः ॥

[राज्ञा पृष्टाः पञ्चपश्नाः] वेत्थ यथेमाः प्रजाः प्रयत्यो विप्रतिपद्यन्ता३ इति । नेति होवाच । वेत्थो यथेमं लोकं पुनरापद्यन्ता३ इति । नेति होवाच । घेत्थो यथाऽसौ लोक एवं बहुभिः पुनःपुनः प्रयद्भिः न सम्पूर्यता ३ इति । नेति होवाच । वेत्थो यतिथ्यामाहुल्याँ हुतायामापः पुरुषवाचो भूत्वा समुत्थाय वदन्ती३ इति । नेति हैवोवाच । वेत्थो देवयानस्य वा पथः प्रतिपदं पितृयाणस्य वा, यत् कृत्वा देवयानं मा पन्थानं प्रतिपद्यन्ते पितृयाणं वा । अपि हि न ऋषेर्वचः श्रुतम् । हे सृती अशृणवं पितॄणामहं देवानामुत मर्त्यानाम् । साभ्यामिदं विश्वमेजत्समेति यदन्तरा पितरं मातरं च इति । नाहमत एकञ्चन वेदेति होवाच ॥ २ ॥

प्र– अथ तं राजा पृच्छति वेत्थ यथेमाः प्रजाः प्रयत्यो विप्रतिपद्यन्ता ३ इति । प्रयत्यः - म्रियमाणाः इमाः प्रजाः यथा - येन प्रकारेण विप्रतिपद्यन्ते - विशिष्टदेशं प्रतिपद्यन्त ‘इत्यर्थः’ । प्रश्ने प्लुतिः । इति - इममर्थं वेत्थ - जानासि किमित्यर्थः । एवं

गन्तव्यदेशप्रश्नः । एवं पृष्टः कुमारः नेति होवाच - न वेद्मि इत्युवाच इत्यर्थः । अथ पुनः पृच्छति वेत्थो यथेमं लोकं पुनरापद्यन्ता३ इति । उकारः - प्रश्ने । इमं लोकं यथा - येन प्रकारेण पुनरागच्छन्तीति वेत्थ इत्यर्थः । नेति होवाच । इतर इति शेषः । पुनः पृच्छति वेत्थो यथासौ लोक एवं बहुभिः पुनः पुनः प्रयद्भिः न संपूर्यता ३ इति । असौ स्वर्गो लोकः अनवरतं प्रयद्भिः - गच्छद्भिः पुरुषै कुतो न संपूर्यत इति वेत्थ किमित्यर्थः । नेति होवाच । पूर्ववदर्थः । पुनः पृच्छति वेत्थो यतिथ्यामाहुत्यां हुतायामापः पुरुषवाचो भूत्वा समुत्थाय वदन्तीति । यावतां पूरणी यतिथीतस्य पूरणे डट् (पा.सू.५-२-४८) वतोरिथुक् इति

डटि, (पा.सू.५-२-५) इति इथुगागमः’ । यावत्संख्याकायामाहुत्यां हुतायामापः - पुरुष इति वाग् यासां ताः पुरुषवाचः पुरुषशब्दवाच्याः भूत्वा - पुरुषाकारपरिणता भूत्वा समुत्थाय वदन्ति अभिलपनं कुर्वन्त आसते, तद्वेत्थ किमित्यर्थः । नेति हैवोवाच । पूर्ववत् । पुनः पृच्छति - वेत्थो देवयानस्य वा पथः प्रतिपदं पितृयाणस्य वा ।

देवयानस्य वा पितृयाणस्य वा पथः प्रतिपदं किं वेत्थ । प्रतिपद्यतेऽनेनेति प्रतिपत् प्रथमं पर्व । तदेव स्पष्टयति - यत् कृत्वा देवयानं वा पन्थानं प्रतिपद्यन्ते पितृयाणं वा । यत् कृत्वा - यदुपक्रम्येत्यर्थः । शिष्टं स्पष्टम् । देवयानपितृयाणव्यावर्तकाकारप्रश्नोऽयमिति द्रष्टव्यम् । भाष्ये छान्दोग्यपञ्चाग्निविद्याप्रश्नानुक्रमेण कर्मिणां गन्तव्यदेशं पुनरावृत्तिप्रकारं देवयानपितृयाणपथव्यावर्तने अमुष्य लोकस्य अप्राप्तारं च वेत्थेति पृष्ट्वा, वेत्थ यथा

पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति (छां.उ.५-३-३) इति पप्रच्छ इति भाषितत्वात् इहापि तावन्मात्रपर्यवसानं युक्तम् । अपि हि न ऋषेः वचश्श्रुतम् । अस्मिन् देवयान- पितृयाणविषये ऋषेः - मन्त्रकृतोऽपि वचः नः अस्माकं श्रुतमित्यर्थः । कोऽयं मन्त्र

इत्यत्राह द्वे सृती…… मातरञ्च । द्वे सृती - गती अशृणवमहं - श्रुतवानस्मि । के ते सृती? पितॄणां देवानाञ्च द्वे सृती अहम् अशृणवम् - अश्रौषमित्यर्थः । गतिद्वयं केषां

गन्तृणामित्यत्राह - मर्त्यानाम् । मनुष्याणां हि गतिद्वयम् । यद्वा देवपितृमनुष्याणां धूमाद्यर्चिरादिमार्गद्वयम् अश्रौषम् इत्यर्थः । एजत् - गच्छत् प्राणिजातं विश्वं समस्तं ताभ्यां - सृतिभ्यां समेति । किम्? ब्रह्माण्डान्तर्गतं लोकजातं समेति, यत् मातरं पितरं च अन्तरा विना वर्तते; तच्च गच्छति - मातापितृशून्यं भगवल्लोकं च समेति इत्यर्थः । पितृयाणेन पथा अण्डान्तर्वर्तिलोकं समेति । उत्तरेण पथा भगवल्लोकं समेति इत्यर्थः । एवं पृष्टं कुमार आह नाहमत एकञ्चन वेद इति होवाच । अतः एषां मध्ये न किञ्चिदपि प्रश्नं वेद्मि इत्युक्तवान् इत्यर्थः ॥ २ ॥

[श्वेतकेतोः पितृसमीपगमनम्] अथैनं वसत्योपमन्त्रयाञ्चक्रे । अनादृत्य वसतिं कुमारः प्रदुद्राव । स आजगाम पितरम् । तँ होवाच, इति वाव किल नो भवान् पुराऽनुशिष्टानवोचदिति । कथँ सुमेध इति । पञ्च मा प्रश्नान् राजन्यबन्धुः अप्राक्षीत्, ततो नैकञ्चन वेदेति । कतमे त इति । इम इति ह प्रतीकान्युदाजहार ॥ ३ ॥

प्र.- अथैनं वसत्योपमन्त्रयाञ्चक्रे । अथ - राजा एनं - श्वेतकेतुं वसत्या

हेतुना उपामन्त्रयत् । कुमारस्य वासं प्रार्थितवान् इत्यर्थः । अनादृत्य तु तां वसतिं कुमारः श्वेतकेतुः प्रदुद्राव - राजसमीपाच्छीघ्रं निर्जगाम इत्यर्थः । अथ स आजगाम पितरम् । आगत्य च तं होवाच । किमिति । इति वाव किल नो भवान् पुराऽनुशिष्टान- वोचत् । पुरा - समावर्तनकाले नः अस्मान् , प्रति भवान् - अनुशिष्टसर्वविद्यान् इति वाव किलावोचत् - एवंरीत्या हि तदुक्तवानिति । एवं सामर्षेण पुत्रेणोक्तः पिता आह - कथं सुमेध इति । नानुशिष्टोऽसीति शेषः । इतरोऽननुशासनं दर्शयति पञ्चमा….. नैकञ्चन वेदेति । राजन्यबन्धुः - राजन्याभासः । राजन्यानां बन्धुः राजन्यबन्धुः । स्वयम् अराजन्य एव सन् राजन्यानां बन्धुरिति [व्यपदिशति इति प्रवाहणो] निन्द्यते । सः पञ्च

प्रश्रान् मां पृष्टवान् । तत्राहम् एकमपि न वेद्मिति श्वेतकेतुराह इत्यर्थः । पिता पृच्छति- कतमे त इति । प्रश्नाः कीदृशा इत्यर्थः । पुत्रस्तु इम इति ह प्रतीकान्युदाजहार । इमे

इत्येवं तत्प्रश्रानां प्रतीकानि एकदेशान् उदाजहार - सूचितवान् इत्यर्थः ॥ ३ ॥ स होवाच, तथा नस्त्वं तात जानीथाः यथा यदहं किञ्चन वेद सर्वमहं सत्तुभ्यमवोचम् । प्रैहि तु तत्र प्रतीत्य ब्रह्मचर्यं वस्त्याव इति । भवानेव गच्छतु इति । स आजगाम गौतमो पत्र प्रवाहणस्य जैबलरासा । तस्मा आसनमाहृत्य उदकमाहारयाञ्चकार । अथ हास्मा अर्ध्यं चकार । तँ होवाच वरं भगवते गौतमाय दद्म इति ॥ ४ ॥

प्र. - स होवाच । पिता प्रत्युषार्थत्यर्थः । किमिति । तथा - नस्त्वं तात जानीथाः वास्याव इति । हे तात। नः - अस्मान् त्वं तथा जानीथाः । [कथम्?] यथा - येन प्रकारेण अहे यत् किञ्च वेद, तत् सर्वं तुभ्यम् अहम् अवोचमिति । ततश्च, मया एते प्रश्नाः नावगताः इति मया नोक्ताः । अतः त्वञ्च प्रैहि - आगच्छ । आवां तत्र राज्ञः समीपं प्रतीत्य - गत्वा विद्यार्थं वत्स्याव इति । इतर आह - भवानेव गच्छतु इति । नाहं तस्य मुखं निरीक्षितुम् उत्सहे इति भावः । स आजगाम….जैबलेरासा । आसा - आस्या । आसनमित्यर्थः । तस्मा आसनमाहृत्य उदकमाहारयाञ्चकार । तस्मै - गौतमाय राजा आसनं दत्वा पाद्यार्थमुदकं भृत्यैः आनायितवान् इत्यर्थः । अथ हास्मा अर्घ्यं चकार । अस्मै - गौतमायाय कृतवान् इत्यर्थः । तं होवाच; वरं भगवते गौतमाय दद्म इति । भगवते गौतमाय गवादिलक्षणं वरं प्रयच्छाम इति गौतमम् उक्तवान् इत्यर्थः ॥ ४ ॥ स होवाच प्रतिज्ञातो म एष वरो यां तु कुमारस्य अन्ते वाचमभाषथाः तां मे ब्रूहीति ॥ ५ ॥

प्र. - स होवाच प्रतिज्ञातो- - - मे ब्रूहीति । स होवाच गौतमः । वरी दीयत इति त्वया प्रतिज्ञातश्चेत्; यां वाचं मम कुमारस्य अन्ते - समीपे अभाषथाः, तामेव वाचं मे ब्रूहि । तानेव प्रश्नान् मे ब्रूहि इत्यर्थः ॥ ॥

[राज्ञः प्रत्युत्तरम्]

स होवाच दैवेषु वै गौतमो तद्वरेषु मानुषाणां ब्रूहीति ॥ ६ ॥

प्र. - स होवाच….ब्रूहीति । सः - राजा उवाच । उः अवधारणे । हे गौतम! यत् त्वं प्रार्थयसे, तत् दैवेषु वरेष्वेव अन्तर्गतम् । तस्मात् तन्न प्रार्थनीयम् । मानुषाणां वराणां मध्ये किञ्चित् वृणी(णु)ष्वेति ॥ ६ ॥

स होवाच, विज्ञायते हास्ति हिरण्यस्यापात्तं गो अश्वानां दासीनां प्रवाराणां परिधानस्य। मा नो भवान् बहोरनन्तरस्य अपर्यन्तस्याभ्यवदान्यो अभूदिति। स वै गौतम! तीर्थेनेच्छासा इति । उपैम्यहं भवन्तमिति । वाचा ह स्मैव पूर्वं उपयन्ति । स होपायनकीर्त्योवास ॥७ ॥

प्र. - स होवाच…..परिधानस्य । स होवाच गौतमः, तव हिरण्यस्य गो अश्वानां - सर्वत्र विभाषा गोः (पा.सू,६-१,१२९) इति प्रकृतिभावः - दासीनां प्रवाराणां

प्रच्छयपटानाम अधोंऽशुक्लक्षणस्य परिधानस्य च अपात्तं - प्राप्तम् प्राप्तिरिति यावत् । अस्ति हेति मया ज्ञायते हि । तैर्मानुषः वित्तैः मम प्रयोजनं नास्तीत्यर्थः । मा नो भवान्,….. अभूदिति । बहोः - प्रभूतस्य अनन्तस्य - अनन्तकालस्य अपर्यन्तस्य - पुत्र-पौत्रगामिनः विद्यारूपद्रविणस्य नः अभि - अस्मान् प्रति भवान् अवदान्यः - अदाता मा भूत । सर्वेषां दाता भवानरमारकं कुतो न प्रयच्छतीति भावः । एवमुक्तो राजा आह- स वै गौतम तीर्थेनेच्छासा इति । हे गौतम! स त्वं तीर्थन न्यायविहितेन विद्या मत्तः इच्छासै - इच्छस्व इत्यर्थः । इत्युक्तो गौतमः प्राह उपैम्यहं भवन्तमिति । उपैमि - उपगच्छामि शिष्यत्वेन अहं भवन्तमिति । वाचा ह स्म वै पूर्वं उपयन्ति । वाचा ह स्मैव किल पूर्वे ब्राह्मणाः वर्णावरान् उपयन्ति; न तु शिष्यवृत्त्या उपगच्छन्ति । स होपायनकीर्त्यावास । अतः सः गौतमोऽपि उपायनकीर्त्या - शिष्यत्वेन उपैमि इत्युपगमनकीर्तनमात्रेणैव उवास - उषितवान् । नोपगमनशुश्रूषादिकं कृतवानिति भावः ॥ ७ ॥ स होवाच, तथा नस्त्वं गौतम मापराधास्तव च पितामहा यथा । इयं विद्येतः पूर्वं न कस्मिंश्चन ब्राह्मण उवास । तां त्वहं तुभ्यं वक्ष्यामि । को हि त्वैवं ब्रुवन्तमर्हति प्रत्याख्यातुमिति ॥ ८ ॥

प्र.- स होवाच, तथा…… यथा । सः - राजा उवाच हे गौतम ! तव च पितामहाः यथा नः पूज्याः, तथा त्वमपि पूज्य एव । स वै गौतम तीर्थेनेच्छा सै इति चिरवासाज्ञापनकृतमदीयापराधाः मा गणनीयाः । इयं विद्येतः …… उवास । इयञ्च विद्या इतः पूर्वं कस्मिंश्चिदपि ब्राह्मणे नोवास न स्थितवती । तां त्वहं तुभ्यं वक्ष्यामि । तां - तादृशीं ब्राह्मणैः इतःपूर्वम् अलब्धां विद्यां तुभ्यं वक्ष्यामि । को हि त्वैवं ब्रुवन्तमर्हति प्रत्याख्यातुमिति । को वा निकृष्टं प्रति, शिष्योऽहं भवामि इत्येवं वदन्तं त्वां प्रत्याख्यातुमर्हति । अतो दुर्लभामपि विद्यां तुभ्यं वक्ष्यामि इत्यर्थः ॥ ८ ॥

[आदौ चतुर्थप्रश्नस्योत्तरम्]

असौ वै लोकोऽग्निर्गौतम । तस्याऽऽदित्य एव समित्, रश्मयो धूमोऽहरर्चिर्दिशोऽङ्गाराः, अवान्तरदिशो विस्फुलिङ्गाः । तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति । तस्या आहुत्यै सोमो राजा सम्भवति ॥ ९ ॥

प्र. - तत्र, वेत्थो यतिथ्यामाहुत्यां हुतायामापः पुरुषवाचो भूत्वा समुत्थाय वदन्ति इति प्रश्नस्य प्रतिवचनमाह - असौ वै…… सम्भवति । हे गौतम। असौ

द्युलोक एवाग्निः । तस्य आदित्य एव समित् । आदित्येन हि द्युलोको दीप्यते । रश्मयो धूमः । आदित्यरश्मयो धूमः । आदित्यरूपसमित्प्रभवत्वात् । अहरर्चिः - प्रकाशवत्त्वात् दिशोऽङ्गारा अवान्तरदिशो विस्फुलिङ्गाः । दिशामवान्तरदिशाञ्च अहोरूपार्चिः प्रादुर्भावा- धीनाभिव्यक्तिकत्वेन अङ्गारत्वविस्फुलिङ्गत्वे । तस्मिन्नेतस्मिन्नग्नौ आदित्यादिलक्षण- समिदाद्युपेते अग्नौ देवाः इन्द्रियाणि श्रद्धां जुह्वतिश्रद्धा वा आपः (तै.सं.१-६-८) इति श्रद्धाशब्देन आप उच्यन्ते । आत्मधर्मभूतायाः श्रद्धायाः होतव्यत्वासंभवात् । एतच्च, प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः (ब्र.सू.३-१-५) इति सूत्रभाष्ययोः स्पष्टम्। तत्रापि न जलमात्रम्, किन्तु भूतसूक्ष्माणां सर्वेषाम् उपलक्षकं श्रद्धापदम् । एतच्च, त्र्यात्मकत्वात्तु भूयस्त्वात् (ब्र.सू.३-१-२) इति सूत्रभाष्ये स्पष्टम् । न चेन्द्रियाणां द्युलोकाग्नौ भूतसूक्ष्मरूपाहुतिप्रक्षेपे कथं होतृत्वमिति वाच्यम् - इन्द्रियाणामभावे भूतसूक्ष्माणां जीवं परिष्वज्य द्युलोकादिगमनासम्भवात्, तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति इति देवशब्दितानाम् इन्द्रियाणां होतृत्वोक्तिः न विरुद्ध्यत इति द्रष्टव्यम् । तस्यै आहुत्यै । तस्या आहुतेः इत्यर्थः । विभक्तिव्यत्ययः छान्दसः । सोमो राजा सम्भवति । देवभोग्य- दिव्यदेहयुक्तो भवतीत्यर्थः । एवमुत्तरत्रापि समिद्धमार्चिः अङ्गारविस्फुलिङ्गत्वकल्पनेषु किञ्चित् साधर्म्यं बुद्धिमद्भिः ऊह्यम् ॥ ९ ॥

[द्वितीयाहुतिस्वरूपम्]

पर्जन्यो वा अग्निर्गौतम । तस्य संवत्सर एव समित्; अभ्राणि धूमो विद्युदर्चिरशनिरङ्गाराः, ह्वादुनयो विस्फुलिङ्गाः, तस्मिन्नेतस्मिन्नग्नौ देवाः सोमं राजानं जुह्वति । तस्या आहुत्यै वृष्टिः संभवति ॥ १० ॥

प्र.- पर्जन्यो वा अग्निर्गौतम । वृष्टिप्रवर्तको देवः पर्जन्यः । तस्य संवत्सर एव समित् । शरदादिग्रीष्मान्तैः संवत्सरावयवैरेव पर्जन्यानेः दीप्यमानत्वात् । ह्वादुनयः स्तनयित्नुशब्दाः । विप्रकीर्णत्वानेकत्वसामान्यात् । तस्मिन् एतस्मिन्नग्नौ देवास्सोमं राजानं जुह्वति । कर्मफलभोगावसाने अमृतमयदिव्यदेहो द्रवीभूतस्सन् देवशब्दवाच्यैः इन्द्रियैस्सह पर्जन्ये पतति इत्यर्थः । शिष्टं स्पष्टम् ॥ १० ॥ अयं वै लोकोऽग्निर्गौतम । तस्य पृथिव्येव समित्, अग्निर्धूमोरात्रिरर्चिश्चन्द्रमा अङ्गाराः, नक्षत्राणि विस्फुलिङ्गाः । तस्मिन्नेतस्मिन्नग्नौ देवा वृष्टिं जुह्वति । तस्या आहुत्या अन्नँ सम्भवति ॥ ११ ॥

प्र.- अयं वै…… समित् । अयं - समुद्रपर्वतादियुक्तो लोकः अग्निः । पृथिव्यंशस्तु समित् । अग्निर्धूमः । समिदाश्रितत्वात् धूमस्य, अग्नेरपि पृथिवीरूप- समिदाश्रितत्वात् अग्नेः धूमत्वं युक्तम् । रात्रिरर्चिः । अर्चिः प्रकाशस्य रात्र्यधीनत्वात् रात्रिरेवार्चिः इत्यर्थः । शिष्टं स्पष्टम् ॥ ११ ॥ पुरुषो वा अग्निर्गौतम । तस्य व्यात्तमेव समित्, प्राणो धूमो वागर्चिः चक्षुरङ्गाराः, श्रोत्रं विस्फुलिङ्गाः । तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति । तस्या आहुत्यै रेतः सम्भवति ॥ १२ ॥

प्र. - व्यात्तमेव समित् । विवृतं मुखमेव समिदित्यर्थः । वागर्चिः । प्रकाशकत्व- सामान्यात् वागिन्द्रियमर्चिरित्यर्थः । अस्या आहुत्यै । अस्या आहुतेरित्यर्थः । शिष्टं स्पष्टम् ॥ १२ ॥ योषा वा अग्निर्गौतम । तस्या उपस्थ एव समित्, लोमानि धूमो योनिरर्चिः, यदन्तः करोति तेऽङ्गाराः, अभिनन्दा विस्फुलिङ्गाः । तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति । तस्या आहुत्यै पुरुषः सम्भवति स जीवति यावज्जीवति । अथ यदा म्रियते ॥ १३ ॥

प्र. - योषा वा अग्निः । योषा - स्त्री । योनिरर्चिः । वर्णसाम्यात् योनेः- अर्चिष्ट्वम् । यदन्तः करोति तेऽङ्गाराः । अन्तःकरणं नाम मिथुनीकरणम् । अभिनन्दा विस्फुलिङ्गाः - क्षुद्रत्वसाम्यात् । एवम्, यतिथ्याम् आहुत्यां हुतायामापः पुरुषवाचो भूत्वा समुध्याय वदन्ति इति प्रश्नस्य उत्तरमुक्तम् । अन्येषामपि प्रश्नानामुत्तरं वक्तुं प्रसङ्गं सम्पादयति - स जीवति । सः - पुरुषः एवं क्रमेण रेतोरूपायाम् आहुतौ हुतायां पुरुषाकारो जातस्सन् जीवति । कियन्तं कालम् इत्यत्राह - यावज्जीवति । यावदस्मिन् शरीरे स्थितिनिमित्तं कर्म विद्यते, तावदित्यर्थः । अतः कस्यापि कालस्य न नियतिरिति भावः । अथ यदा म्रियते । अथ - तत्कर्मक्षये यस्मिन् काले म्रियते इत्यर्थः ॥ १३ ॥ अथैनमग्नये हरन्ति । तस्याग्निरेवाग्निर्भवति । समित् समित् । धूमो धूमोऽर्चिरचिरङ्गारा अङ्गाराः, विस्फुलिङ्गा विस्फुलिङ्गाः । तस्मिन्नेतस्मिन्नग्नौ देवाः पुरुषं जुह्वति । तस्या आहुत्यै पुरुषो भास्वरवर्णः संभवति ॥ १४ ॥

प्र.-अथैनमग्नये हरन्ति । अथ - मरणानन्तरम् अग्न्ये - अग्न्यर्थम् अग्नौ होमाय एनं - मृतमृत्विजो हरन्ति । तस्याग्निरेवाग्निः - विस्फुलिङ्गा विस्कुलिङ्गाः ।

अस्याः षष्ठ्या आहुतेः अग्निसमिदादिकं न काल्पनिकम्। अपि तु स्वाभाविकमेव । तस्मिन्नेतस्मिन्नग्नौ भास्वरवर्णः सम्भवति । तस्मिन्नग्नौ ऋत्विग्भिः, असौ स्वर्गाय लोकाय स्वाहा इति यजमाने हुते सति द्युलोके दीप्यमानशरीरो यजमानो निष्पद्यते इत्यर्थः ॥ १४ ॥ ते ये एवमेदद्विदुर्येचामी अरण्ये श्रद्धां सत्यमुपासते, तेऽर्चिरभिसम्भवन्ति; अर्चिषोऽहरह्न आपूर्यमाणपक्षम्, आपूर्यमाणपक्षाद्यान् षण्मासानुदङ्ङादित्य एति, मासेभ्यो देवलोकम्, देवलोकादादित्यम्, आदित्यात् वैद्युतम् । तान् वैद्युतान् पुरुषो मानस एत्य प्रहालोकान्, गमयति । तेषु ब्रह्मलोकेषु पराः परावन्तो वसन्ति । तेषां न पुनरावृत्तिः ॥ १५ ॥

प्र. - इदानीं प्रथम प्रश्रनिर्णयार्थम् आरभते ते य एवमेतद्विदुः - [ये] एवम् - अनेन प्रकारेण पर्जन्यैतल्लोकपुरुषयोषिद्रूपेषु पञ्चस्वग्निषु श्रद्धासोमवृष्ट्यान्नरेतोऽनुषक्ततया सञ्चरन्तं प्रत्यगात्मानं ब्रहात्मकत्वेन ये वितुः - उपासते त इति यावत् - ये च….. से - ये चामी पुरुषाः अरण्ये स्थित्वा श्रद्धां पुरस्कृत्य सत्य शब्दितं परमात्मानं प्रत्यगात्मात्म कमुपासते ते च, एते उभयेऽपि अर्चिरभिसम्भवन्ति - अर्चिराभिमानिनीं देवता संगता भवन्ति इत्यर्थः । अर्चिषोऽहः इत्यादौ सर्वत्र अभिसम्भवन्ति इत्यनुषङ्गः । आपूर्वमाणपक्षात् यान् षण्मासान् उदङ्ङादित्य एति । तान् मासान् इति शेषः । उदङ् - उदङ्मुख इत्यर्थः । उदग्देशस्थ इति वा । अत्राहः पूर्वपक्षादिशब्दाः तत्तदभिमानिदेवतापराः । मासेभ्यो देवलोकम् । अत्र मासेभ्यः संवत्सरम् इति छान्दोग्ये श्रवणाधिककालानां न्यूनकालेभ्य उत्तरोत्तरत्वेन निवेशस्य प्राग्दृष्टत्वात् मासानन्तरं संवत्सरमभिसम्भवन्ति । संवत्सरद्वारा देवलोकम् इत्यर्थः । अत्र देवलोकशब्दो वायुपर; योऽयं पवते एष येवानां गृहाः (जै.उप.ब्रा,३-१) इति श्रुतिप्रसिद्धेः । इतरथा देवलोका- यादित्यम् इति आदित्यानन्तरपूर्वपर्वतया देवलोकनिर्देशकस्य अस्य वाक्यस्य, स वायुमागच्छति । तस्मै स तत्र विजीहीते यथा रथचक्रस्य खम् । तेन स ऊर्ध्व आक्रमते तेन स आदित्यम् आगच्छतीति वायोः आदित्यसमनन्तरपूर्वपर्वत्वप्रतिपादकश्रुतिविरोध- प्रसङ्गात् । अतो देवलोकवायुशब्दयोः एकार्थत्वं वक्तव्यम् । एतत् सर्वम् वायुमब्दात्

अविशेषविशेषाभ्याम् (ब्र.सू.४-३-२) इति सूत्रभाष्ये स्पष्टम् । आदित्याद्वैद्युतम् । आदित्याच्चन्द्रमसं चन्द्रमसो विद्युतम् (छां.उ.५-२०-२) इति श्रुत्यन्तरे मध्ये चन्द्रमसः श्रवणात् चन्द्रद्वारा विद्युदभिमानिनीं देवतां प्राप्नुवन्ति इत्यर्थः । तान् वैद्युतान् पुरुषो मानस एत्य ब्रह्मलोकान् गमयति । वैद्युतात् - वैद्युत इत्यर्थः । वैद्युतः पुरुषो मानसः - परेण ब्रह्मणा मनसा सृष्टः अमानवशब्दितः पुरुषः स एत्य आगत्य तान् ब्रह्मलोकान् गमयति इत्यर्थः । छान्दोग्ये, चन्द्रमसो विद्युतं

तत्पुरुषोऽमानवः स एनान् ब्रह्म गमयति (छां.उ.४-१३-३) इति वैधुतस्य आमानवशब्दितस्यैव ब्रह्मगमयितृत्वश्रयणात, वैपद्युतेनैव ततस्तच्छ्रुतेः (ब्र.सू,४-३-५) इति सूत्रितत्वाच्च, विद्युत उपरि वैद्युतेन अमानवेनैव आतिवहिकेन विदुषां आब्रह्मप्राप्तेः

गमनम् इति भाष्यानुसाराच्च वैद्युतादिति पदं प्रथमान्ततया व्याख्ययम् । ब्रह्मलोकान्

इत्यत्र निषादस्थपतिन्यायेन ब्रह्मैव लोको ब्रहालोकः इति । कर्मधारयस्यैव युक्ततया अर्थस्यैकत्वे निश्चिते बहुवचनस्य, अदितिः पाशान् इतिवदुपपत्तैः । षष्ठीतत्पुरुष, इति पक्षेऽपि न दोषः । न च भगवल्लोकस्य एकतया बहुवचनानुपपत्तिरिति वाच्यम् - परस्य ब्रह्मणः परिपूर्णस्य सर्वगतस्य सत्यसङ्कल्पस्य श्रुतिस्मृति इतिहासपुराणप्रामाण्यानुसारेण स्वेच्छापरिकल्पित स्वासाधारणाप्राकृतलोकानन्त्यसंभवे अनुपपत्त्यभावात् । एतत् सर्वम् परं जैमिनिर्मुख्यत्वात् (ब्र.सू.४-३-११) इति सूत्रभाष्ये स्पष्टम् । तेषु ब्रह्मलोकेषु पराः परावन्तो वसन्ति । तेषु ब्रह्मलोकेषु पराः - निरतिशया- नन्दैश्वर्यशालिनः परावन्तः - परवन्तः - नाथवन्त इति यावत् - परमात्मना सनाथाः तेनानुगृहीताः तद्दत्तानि भोग्यभोगस्थानभोगोपकरणानि भुञ्जानाः सुखेन तत्रैवासते इत्यर्थः । तेषां न पुनरावृत्तिः । तेषां न पुनस्संसारबन्ध इत्यर्थः ॥ १५ ॥

अथ ये यज्ञेन दानेन तपसा लोकान् जयन्ति, ते धूममभिसम्भवन्ति; धूमाद्रात्रिं रात्रेरपक्षीयमाणपक्षम् अपक्षीयमाणपक्षात् यान् षण्मासान् दक्षिणादित्य एति, मासेभ्यः पितृलोकं पितृलोकाञ्चन्द्रम् । ते चन्द्रं प्राप्यान्नं भवन्ति । ताँस्तत्र देवाः, यथा सोमं राजानम् आप्यायस्वापक्षीयस्वेत्येवमेनाँस्तत्र भक्षयन्ति । तेषां यदा तत् पर्यवैति, अथेममेवाकाशमभिनिष्पद्यन्ते, आकाशाद्वायुम्, वायोर्वृष्टिम्, वृष्टेः पृथिवीम्, ते पृथिवीं प्राप्यान्नं भवन्ति । ते पुनः पुरुषाग्नौ हूयन्ते; ततो योषाग्नौ जायन्ते । ते लोकान् प्रत्युत्थायिनः । त एवमेवानुपरिवर्तन्ते । अथ य एतौ पन्थानौ विदुः ते कीटाः पतङ्गाः यदिदं दन्दशूकम् ॥ १६ ॥

प्र. - अथ ये यज्ञेन…… धूममभिसंभवन्ति । ये प्रत्यगात्मानं ब्रह्मात्मकं वा, प्रत्यगात्मशरीरकं ब्रह्म वा अनुपासीनास्सन्तः यज्ञदानादिकर्मरतास्सन्तो लोकान् गच्छन्ति- ते धूमं - धूमाभिमानिनीं देवता गच्छन्तीत्यर्थः । धूमाद्रात्रिम् । अत्रापि रात्र्यादिशब्दाः तत्तदभिमानि आतिवाहिकदेवतापराः । व्याख्या च पूर्ववत् । ते चन्द्रं प्राप्यान्नं भवन्ति । अन्नं भवन्ति - तत्रत्यानाम् आजानदेवानां भोगोपकरणं भवन्ति इत्यर्थः । तांस्तत्र देवा यथा…… भक्षयन्ति । यथा सोमं राजानं यज्ञे ऋत्विजः आप्यायस्व अपक्षीयस्वेति भक्षयन्ति; एवमेनांस्तत्र देवा भक्षयन्ति इत्यर्थः । आप्यायस्वापक्षीयस्वेति, क्रियासमभिव्याहारे

लोट् लोटो हि स्वौ वाच तध्वमोः (पा.सू.३-४-२) इति स्वादेशः । प्यैङ् वृद्धौ

(था.पा.९६४) क्षिक्षये (धा.पा.२३६) अपक्षीणान् पुनराप्याययन्ति; आप्यायितानाञ्च भक्षणेन क्षयं कुर्वन्ति । एवं देवाः चन्द्रलोकस्थान् उपकरणभूतान् कर्मिणः पुनःपुनः विश्रामयन्तः स्वस्वभोगोपकरणभूतान् कुर्वन्ति इत्यर्थः । तेषां चन्द्रलोकगतानां कर्मिणां भक्षणं नाम स्वस्वभोगोपकरणीकरणमेव । सूत्रितञ्च, भाक्तं वाऽनात्मवित्त्वात् तथा हि दर्शयति । (ब्र.सू.३-१-७) इति । भगवता भाष्यकृताऽपि, जीवस्य देवानां भोगोषकरणत्वाभिप्रायम् अन्नत्वेन भक्ष्यत्ववचनम् । अतः तद्भाक्तम् । तेन तृप्तिरेव च देवानां भक्षणमिति श्रूयते, न ह वै देवा अश्नन्ति न पिबन्ति एतदेवामृतं दृष्ट्वा तृप्यन्ति (छा.उ.३-६-१) इति भाषितम् । अतो नृत्तगीतादिप्रदर्शनेन आजानसिद्धदेवोपकरणत्वमेव तद्भक्ष्यत्वमिति भावः । तेषां यदा तत् पर्यवैति । तेषां - कर्मिणां तत् - भोगसाधनभूतं कर्म यदा पर्यवैति - परिगच्छति, परिक्षीयते इत्यर्थः । अथेममेवाकाशमभिनिष्पद्यन्ते । अथ-

तदा, यथा सुवर्णपिण्डः अत्यन्तानलसंयोगात् प्रलीयते, एवं कर्मक्षये कर्मिणः प्रलीनास्सन्तः सूक्ष्माः आकाशसदृशा इव भवन्तीत्यर्थः । सूत्रितञ्च तत्स्वाभाव्यापत्तिरुपपत्तेः (ब्र.सू.३-१-२२) इति । भाष्ये च तदापत्तिवचनं तत्संसर्गकृततत्सादृश्याभिप्रायम्’ इति भाषितम् । आकाशाद्वायुम् । अभिसम्पद्यन्ते इति शेषः । अत्रापि, अवरोहतां कर्मिणां पूर्वसिद्ध- वायुभावासम्भवात् वायुसादृश्यमेवार्थः । वायोवृष्टिम् । अभिनिष्पद्यन्ते इत्यनुषङ्गः । वृष्टेः पृथिवीम् । पूर्ववत् । ते पृथिवीं प्राप्यान्नं भवन्ति । ओषधिवनस्पतिमाषादि- भक्ष्यसंसर्गिणो भवन्ति इत्यर्थः । ते - हूयन्ते । ते पुनः - पूर्ववदेव पुरुषाग्नौ हूयन्ते इत्यर्थः । ततो योषाग्नौ जायन्ते । ततः परं योषाग्नौ रेतोरूपाभिः आहुतिभिः पुरुषरूपा जायन्त इत्यर्थः । ते लोकान् प्रत्युत्थायिनः । ते पुरुषाः पुण्यलोकान् प्रति उत्थायिनः

यात्राशीला भवन्तीत्यर्थः । त एवमेवानुपरिवर्तन्ते । ते - एते केवलकर्मिणः इत्थं

गतागते कुर्वन्तीत्यर्थः । एतावता पञ्चमतृतीयद्वितीयप्रश्नयोः उत्तरमुक्तं भवति । अथ य एतौ पन्थानौ न विदुः ते कीटाः पतङ्गाः यदिदं दन्दशूकम्अथ इत्यर्थान्तरोपक्रमे । ये प्रणिनः एतौ पन्थानौ - देवयानपितृयाणमार्गद्वयं न जानन्ति; विद्याकर्मप्भ्रष्टतया मार्गद्वयाधिकारिण इत्यर्थः । ते - कीटपक्षिदंशमशकादिरूपेण पुनःपुनर्भवन्ति । अत्रैव लोके परिभ्रमन्ति हति यावत् । एतेन, वेस्थो यथाऽसौ लोक एवं बहुभिः पुनःपुनः प्रयद्भिर्न सम्पूर्यते’

इति तृतीयप्रश्नस्य उत्तरमुक्तम् । पितृलोकाच्च्द्रं इत्यनेन गन्तव्यदेविषयकप्रथमप्रश्नस्य उत्तरमुक्तं भवति । अथेममेवाकाशमभिनिष्पद्यन्ते इत्यादिना वेत्थो यर्थमं लोकं पुनरापद्यन्ते इति पुनरागमनप्रकारविषयकद्वितीयप्रश्नस्य उत्तरमुक्तं भवति । वेत्थो देवयानस्य पथः प्रतिपदं पितृयाणस्य वा इति देवयानपितृयाणव्यावर्तकभेद- विषयकपञ्चमप्रश्नस्य, तेऽर्चिरभिसम्भवन्ति, ते धूममभिसम्भवन्ति इति ग्रन्थसन्दर्भाभ्याम् उत्तरमुक्तं भवति ॥ १६ ॥ ॥ इति अष्टमाध्याये द्वितीयब्राह्मण प्रकाशिका ॥ तृतीयं ब्राह्मणम् [महत्वसिद्धिदं मन्थाख्यं कर्म]

स यः कामयेत महत् प्राप्नुयामिति, उदगयन आपूर्यमाणपक्षस्य पुण्याहे द्वादशाहमुपसद्व्रती भूत्वा औदुम्बरे कँसे चमसे वा सर्वोषधं फलानीति संभृत्य, परिसमूह्य परिलिप्याग्निमुपसमाधाय परिस्तीर्य आवृताज्यँ सँस्कृत्य, पुंसा नक्षत्रेण मन्थँ संनीय, जुहोति- यावन्तो देवास्त्वयि जातवेदः तिर्यञ्चो घ्नन्ति पुरुषस्य कामान् । तेभ्योऽहं भागधेयं जुहोमि ते मा तृप्तास्सर्वेः कामैस्तर्पयन्तु स्वाहा; या तिरश्ची निपद्यतेऽहं विधरणी इति । तां त्वा घृतस्य धारया यजे सँराधनीमहँ स्वाहा ॥ १ ॥

प्र.- एवं ज्ञानकर्मणोः गतिरुक्ता । तत्र कर्मसाधनं वित्तं महत्त्वसाध्यमिति वित्तार्जनोपायभूतमहत्त्वप्राप्तये मन्थाख्यं कर्मारभ्यते स यः कामयेत महत् प्राप्नुयामिति जुहोति । अहं महान् स्यामिति यः आत्मनो महत् - महत्त्वं कामयेत, स उदगयने आपूर्यमाणपक्षस्य - पूर्वपक्षस्य पुण्याहे - कस्मिंश्चिद्दिने द्वादशाहम् उपसद्व्रती-

उपसत्सु यत् प्रसिद्धं व्रतं पयोमात्रभक्षणात्मकं तद्व्रतवान् भूत्वा, औदुम्बरे कंसे चमसे वा उदुम्बरनिर्मिते कंसाकारे चमसाकारे वा पात्रे सर्वौषधं फलानीति संभृत्य

सर्वौषधिसमूहं फलानि च, अन्यदपि यद्यत् संभरणीयम् तत् सर्वं संभृत्य, परिसमूह्य परिलिप्याग्निमुपसमाधाय परिस्तीर्य - परिसमूहनपरिलेपने भूमिसंस्कारः - अग्निमुप- समाधाय - स्मार्तमग्निं पुरतः संस्थाप्य दर्भैः परिस्तीर्य, आवृता आज्यं संस्कृत्य - आवृता

स्मृत्युक्तपरिपाट्य इत्यर्थः आवृत् परिपाटिरनुक्रमः (अ.को.२-८) इति ह्यमरः - पुंसा नक्षत्रेण - नक्षत्रेषु स्त्रीपुन्नपुंसकविभागो ज्योतिश्शास्त्रप्रसिद्धः । तत्र पुनक्षत्रं प्रशस्तम् । प्रशस्ते नक्षत्रे इति यावत् - मन्थं - सर्वौषधरसपिष्टं संनीय जुहोति अग्निसमीपं नीत्वा, यावन्त इत्यादि वक्ष्यमाणैः चतुर्भिः मन्त्रैः आज्येन जुहोतीत्यर्थः ॥ १ ॥

[मन्थानोपयोगिमन्त्राः]

ज्येष्ठाय स्वाहा; श्रेष्ठाय स्वाहेत्यग्नौ हुत्वा मन्थे सँस्रवमवनयति ।

प्राणाय स्वाहा वसिष्ठायै स्वाहेत्यग्नौ हुत्वा मन्थे सँस्रवमवनयति । वाचे स्वाहा प्रतिष्ठायै स्वाहेत्यग्नौ हुत्वा मन्थे सँस्रवमवनयति । चक्षुषे स्वाहा संपदे स्वाहेत्यग्नौ हुत्वा मन्थे सँस्रवमवनयति । श्रोत्राय स्वाहा आयतनाय स्वाहेत्यग्नौ हुत्वा मन्थे सँस्रवमवनयति । मनसे स्वाहा प्रजात्यै स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । रेतसे स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमनयति ॥ २ ॥ अग्नये स्वाहेत्यग्नौ हुत्वा मन्थे सँस्रवमवनयति । सोमाय स्वाहेत्यग्नौ हुत्वा मन्थे सँस्रवमवनयति । भूः स्वाहेत्यग्नो हुत्वा मन्थे सँस्रवमवनयति । भुवः स्वाहेत्यग्नौ हुत्वा मन्थे सँस्रवमवनयति । स्वः स्वाहेत्यग्नौ हुत्वा मन्थे सँस्रवमवनयति । भूर्भुवस्स्वः स्वाहेत्याग्नौ हुत्वा मन्थे सँस्रवमवनयति । ब्रह्मणे स्वाहेत्यग्नौ मन्थे सँस्रवमवनयति । क्षत्राय स्वाहेत्यग्नौ हुत्वा मन्थे सँस्रवमवनयति । भूताय स्वाहेत्यग्नौ हुत्वा मन्थे सँस्रवमवनयति । भविष्यते स्वाहेत्यग्नौ हुत्वा मन्थे सँस्रवमवनयति । विश्वाय स्वाहेत्यग्नौ हुत्वा मन्थे सँस्रवमवनयति । सर्वाय स्वाहेत्यग्नौ हुत्वा मन्थे सँस्रवयमनमति ।

प्रजापतये स्वाहेत्यग्नौ हुत्वा मन्थे सँस्रवमवनयति ॥ ३ ॥

प्र. - इत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । अग्नेः पश्चात् स्थिते मन्थे हुतशिष्टं स्रुवावलिप्तमाज्यं निनयेत् इत्यर्थः । एवमग्रेऽपि । इतःपरं प्राणाय स्वाहा इत्यादि मन्त्रैर्द्वाभ्यां द्वाभ्यां द्वे द्वे आहुती हुत्वा संस्रवस्य मन्थे निनयनम्; प्राणाय स्वाहा…… प्रजात्यै स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ॥ २ ॥ प्र. - इतःपरं रेतसे स्वाहा इत्यादिभिः एकैकाम् आहुति हुत्वा मन्थे संस्रवनि नयनम् - रेतसे स्वाहा…… संस्रवमवनयति ॥ ३ ॥