बृहदारण्यकोपनिषत् षष्ठोऽध्यायः Part 3 [प्रपज्ञमिथ्यात्वखण्डनम्]
नन्वत्र निरस्तं तुच्छत्वमेव; न मिथ्यात्वमिति चेन्न । प्रपञ्चमिथ्यात्वरूपविषयस्य तत्साधकप्रमाणस्य च सत्यत्वमिथ्यात्वविकल्पेषु सर्वथा प्रपञ्चमिथ्यात्वासिद्ध्या प्रमाणप्रमेयदौःस्थ्यरूपसर्वथानुपपत्तिन्यायसाम्यात् । निरूपितञ्चैतत् व्यासार्यैः जिज्ञासाधिकरणे प्रपञ्चमिथ्यात्वानुमाननिरासभाष्यव्याख्यानावसरे । तुच्छत्वव्यावृत्तमिथ्यात्वस्य दुर्नि- रूपितत्त्वाच्च । तथाहि - न तावत् भवदभिमतं मिथ्यात्वं प्रतीतत्वे सति बाध्यत्वम् शशशृङ्गादेरपि प्रतीत्यादेरविशेषात् । शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः (यो.द.१-९) इति हि योगसूत्रम्। यदि शशशृङ्गादिर्न प्रतीयते, तर्हि त्वया एतदनुयुक्तेन वक्तव्यम् - तदप्रतीतम्, ख्यातेर्नासत् इति व्यतिरेकदृष्टान्तभूमितया त्वया कथं निर्दिष्टमिति । अथ यदि प्रत्यक्षप्रतीतत्वं विवक्षितम्, तर्ह्यनुमानादिप्रतीतस्यामिथ्यात्वप्रसङ्गः । यदि तु प्रमाणप्रतीतत्वं विवक्षितम्, तर्हि बाध्यत्वव्याघातः । अत एव न प्रतिपन्नोपाधौ बाध्यत्वं मिथ्यात्वम् शृङ्गादिप्रति- पत्त्युपाधौ शशादावेव शृङ्गाभावसत्त्वात् । न च स्वसमानाधिकरणाभावप्रतियोगित्वं मिथ्यात्वम् घटाद्यधिकरणदेशकालयोः तदभावस्य व्याघातात् । यत्तु घटाद्यधिकरणे स्वापसमाध्योः तदप्रतीत्या तत्र तदभावसिद्धिरिति - तदप्याशामात्रम् । तदानीं सत्स्वपि घटादिषु ज्ञानप्रसरद्वाराणा मिन्द्रियाणामुपसंहारेण ज्ञानस्य विषयसम्बन्धाभावादेव तदप्रतीत्युपपत्त्या ततस्तदभावासिद्धेः । अत एव सदसदनिर्वचनीयत्वं मिथ्यात्वमित्यपि प्रत्युक्तम् । असत्त्वेनैव निर्वचनीयस्य मिथ्यार्थस्य सदसदनिर्वचनीयत्वायोगात् । एतेन सत्तात्रयभेदकल्पनाऽपि सुदूरनिरस्ता । पारमार्थिकसत्त्वासत्त्वाभ्यामेव सर्वव्यवहारोपपत्तौ व्यावहारिकप्रातिभासिकसत्तयोः कल्पनागौरवहतत्वात् । अप्रामाणिकत्वाच्च । यदप्यधिष्ठानपारमार्थ्याङ्गीकारात् शून्यवादवैलक्षण्यं मृषावादस्येति, तदपि मृषावाद एव । सर्वजगदध्यास अधिष्ठानभूतस्याविद्याशबलस्य तैः पारमार्थ्यानङ्गीकारात् । तैः परमार्थतयाऽङ्गीकृतस्य तु कस्यचिच्छुद्धस्य जगदध्यासानधिष्ठानत्वात् । सर्वप्रमाणाविषयस्य तस्य शशविषाणादिसमानयोगक्षेमत्वाच्च । ननु न तस्य शशविषाणसमानयोगक्षेमत्वम्; द्वे वाव ब्रह्मणो रूपे मूर्तञ्चामूर्तञ्च (बृ.उ.४-३-१) इत्यारभ्योपन्यस्तस्य मूर्तामूर्तादिरूपस्य, सर्वस्य च नेति नेति (बृ.उ.४-३-६) इति निषेधेन सर्वनिषेधाधिकरणत्वेन श्रुत्यैव परिशेषित्वादिति चेन्न - तस्याः श्रुतेः, प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च
भूयः (ब्र.सू.३-२-२१) इति सूत्रोक्तन्यायेन ब्रह्मणः परिच्छेदनिषेधार्थकत्वस्य प्रागेवोपपादितत्त्वात् । प्रमाणान्तराप्राप्तस्य ब्रह्मरूपतया स्वेनैवोक्तस्य सर्वस्य स्वश्रुत्या स्वयमेव निषेधायोगाच्च । न च निर्विशेषस्य मिथ्यात्वे निरधिकरणनिषेधायोगः, मिथ्याभूतस्यैव तस्य निषेधाधिकरणत्वस्य शशविषाणादेरिव परमते सूपपादत्वात् । असतोऽपि हि व्यतिरेकोदारहरणत्वं तेषामिष्टम् । न च निर्विशेषस्य मिथ्यात्वापादकनिषेधशास्त्रमृग्यता । सर्वं शून्यं इति बुद्धागमवचनस्यैव निर्विशेषनिषेधकस्य सुलभत्वात् । न च बुद्धागमस्य अप्रामाण्यं शङ्क्यं सर्वमिथ्यात्ववादिना; आविद्यिकानां वेदानाञ्च अप्रामाण्यस्यैव तदिष्टत्वेन तन्मते प्रमाणभूतवचनस्यैव मृग्यत्वात् । यद्वा; द्वे वाव ब्रह्मणो रूपे इति प्रकृतब्रह्मरूपनिषेधकतया ‘तदभिमते’ नेति नेति इत्यादिवचनमेव प्रकृतत्वाविशेषात् ब्रह्मापि निषेधतु; नेह नाना
इत्यादि वा । न च तन्निषेधाधिकरणदौर्घट्यम् । माध्यमिकाभिमतस्य शून्यतत्त्वस्यैव तदध्यासाधिष्ठानत्वनिषेधाधिकरणत्वयोः सम्भवात् । तस्मात् मानान्तराप्राप्तजगत्कारणत्वादि ब्रह्मधर्मप्रतिषेधे ब्रह्म कुतो न प्रतिषिध्येत । ब्रह्मव्यतिरिक्तस्य सर्वस्य स्वरूपतो निषेधे अखण्डार्थवेदान्तवाक्यगतयोग्यताया अपि असत्त्वेन तत्समसत्ताकस्य वाक्यार्थभूतब्रह्मणोऽपि असत्त्वापातात् । प्रपञ्चस्य शशशृङ्गादिवत् निस्स्वरूपत्वापाताच्च । न च - न स्वरूपेण निषेधं ब्रूमः, किन्तु पारमार्थिकत्वाकारेणेति वाच्यम् - स्वरूपस्यानिषेधे अबाध्यत्वलक्षणपारमार्थिकत्व- स्यापि सत्त्वेन तस्यापि निषेधानर्हत्वात् । ननु सत्त्वनिषेध एव स्वरूपनिषेधः । अतः नेह नानास्ति इति सत्त्वनिषेधात् स्वरूपमपि निषिद्धमेव । न च तस्य निस्स्वरूपत्वे शून्यवादाविशेष इति वाच्यम् । ब्रह्मव्यतिरिक्तविषये शून्यवादाविशेषस्य इष्टत्वादिति चेन्न - तर्हि नाभाव उपलब्धेः (ब्र.सू.२-२-२६) इत्यधिकरणविरोधस्य दुर्निरसत्वात् । किञ्च चैत्यवन्दनवाक्यार्थस्येव’; ज्योतिष्टोमेन यजेत स्वर्गकामः इत्यादि वेद- वाक्यार्थस्यापि, नेह नानेति स्वरूपतो निषेधे बौद्धशास्त्रस्येव वेदानामप्यप्रामाण्यं तन्मते दुर्वारम् । न च उभयोः असदर्थत्वाविशेषेऽपि ज्योतिष्टोमेन इति वाक्यार्थस्य बौद्धाभिमतसांवृतिकसत्यत्वस्थानाभिषिक्तव्यावहारिकसत्यत्वस्याभ्युपगतत्वात् चैत्यवन्दनवाक्ये तस्याप्यभावाद्वैषम्यमिति वाच्यम् । व्यावहारिकत्वस्य आपातप्रतिपन्नत्वे सति यौक्तिकनिरूपणासहत्वरूपतया तादृशसत्त्वस्य यथावस्थितार्थरूपत्वासम्भवेन तद्विशिष्टार्थप्रतिपादकवेदानामप्रामाण्यस्य अकामेनापि अङ्गीकरणीयत्वात् । अपि च, नेह नानास्ति इति प्रपञ्चसत्तानिषेधपक्षे व्यवहारसिद्धाया एव तस्याः निषेध्यत्वेन तथाविधव्यावहारिकप्रातिभासिकसत्तानिषेधपरत्वमेवास्याः श्रुतेः वक्तव्यम् । ततश्च परैः प्रपञ्चे पारमार्थिकसत्ताया अनङ्गीकारे सत्तात्रयशून्यस्य तस्य तुच्छत्वमेवापतति इति परेषां बौद्धवैषम्यं दुर्वचम् । न च, नेह घटोऽस्ति इति वाक्येन पारमार्थिकसत्तैव निषिध्यताम् इति वाच्यम्; नेह घटोऽस्ति इति वाक्येऽपि लोकप्रसिद्धिसत्त्वस्यैव निषेद्धं युक्ततया सत्त्वान्तरनिषेधस्यासम्भवात् । इतरथा नेह नानास्ति इत्यस्याः श्रुतेरप्रसक्त- प्रतिषेधतापातात् । उक्तञ्चाभियुक्तैः - वेदोऽनृतो बुद्धकृतागमोऽनृतः
प्रामाण्यमेतस्य च तस्य चानृतम् ।
बोद्धानृतो बुद्धिफले तथाऽनृते
यूयज्ञ बौद्धाश्च समानसंसदः ॥ इति । ‘इत्यलं’ प्रसक्तानुप्रसक्त्या । प्रकृतमनुसरामः ॥ १९ ॥
[ब्रह्मस्वरूपम्] एकधैवानुद्रष्टव्यम् एतदप्रमेयं ध्रुवम् । विरजः पर आकाशात् अज आत्मा महान् ध्रुवः ॥ २० ॥
प्र. - एकधैवानुद्रष्टव्यम् । अप्रमेयम् - अपरिच्छेद्यं ध्रुवम् - निश्चलं एतत्-
सर्वभूतात्मभूतं ब्रह्म एकधैव - एकत्वेनैव अनु - श्रवणादेः ‘पश्चात् द्रष्टव्यमित्यर्थः । व्यासार्यैस्तु एकधैवानुद्रष्टव्यम् । केषाञ्चित् स्वनिष्ठत्वं ब्रह्मान्यपरतन्त्रत्वं वा न मन्तव्यम्; अपि तु परमात्मप्रकारतया’ एकरूपमेव द्रष्टव्यमित्यर्थ इत्युक्तम् । नेह नानास्ति किञ्चन
इत्यत्रापि, अब्रह्मात्मकनानात्वं निषिध्यत इत्यत्युक्तम् । तदपि युक्तमेव; मदुक्तमपि, एकार्थपर्यवसायित्वात् द्वयोरपीति द्रष्टव्यम् । विरजःपर इति । विरजः - रागादिदोषरहितः आकाशात् - अव्याकृताकाशादपि परः । तस्यापि कारणभूत इत्यर्थः । ध्रुवः - स्थिरः । अनाशीत्यर्थः । ‘अजः’ - उत्पत्तिरहितः । एवम्भूतो महानात्मा ॥ २० ॥
तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः । नानुध्यायाद्वहून् शब्दान् वाचो विग्लापनँ हि तत् ॥ इति ॥ २१ ॥
प्र– तमेव…… ब्राह्मणः । तादृशमात्मानं धीरः प्रज्ञाशाली विज्ञाय - श्रवणमननाभ्यां ज्ञात्वा प्रज्ञां निदिध्यासनं कुर्वीत इत्यर्थः । अत्र ब्राह्मणग्रहणं द्विजातेरुपलक्षणम् । यद्वा, ब्रह्माधीत इति ब्राह्मणः - अधीतवेद इत्यर्थः । नानुध्यायान् बहून् शब्दान् - बहून् शब्दान् ब्रह्मगुणानुवर्णनरहितान् नानुध्यायात् न चिन्तयेत् इत्यर्थः । तत्र प्रयोजनं ब्रह्मविदः नास्तीति हेतुमाह - वाचो विग्लापनं हि तत् । तत् - अब्रह्मगुणवर्णनादिकशब्दानुध्यानादिकं हि वाचो विग्लापनं - विग्लानिसाधनम् , श्रमैक- फलकमित्यर्थः । इतिर्मन्त्रसमाप्तौ ॥ २१ ॥ स वा एष महानज आत्मा, योऽयं विज्ञानमयः प्राणेषु य एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेत्ते, सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः, स न साधुना कर्मणा भूयान् , नो एवासाधुना कनीयान् एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसम्भेदाय । तमेतं वेदानुवचनेन ब्राहाणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन । एतमेव विदित्वा मुनिर्भवति । एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति । एतद्ध स्म वै तत् पूर्वे विद्वाँसः प्रजां न कामयन्ते, किं प्रजया करिष्यामो येषां नोऽयमात्माऽयं लोक इति । ते ह स्म पुत्रेषणायाश्च वित्तैषणायश्च लोकेषणायाश्च व्युत्थयाथ भिक्षाचर्य चरन्ति । या ह्येव पुत्रैषणा सा वित्तैषणा था वित्तैषणा सा लोकैषणा उभे ह्येते एषणे एव भवतः । स एष नेति नेत्यात्मा अगृह्यो न हि गृह्यते, अशीयो न हि शीर्यते, असङ्गो न हि सज्ज्यते, असितो न व्यथते न रिष्यति । एतमु हैवेते न तरत इत्यत; पापम् अकरवमित्यतः कल्याणमकरवमित्युभे इहैवैष एते तरति नैनं कृताकृते तपतः ॥ २२ ॥
प्र. - स वा एष…… शेते । स एषः - प्राङ्निर्दिष्टः अज आत्मा - अज आत्मा
महान् ध्रुवः इति योऽयं निर्दिष्ट आत्मा, ‘अयम्’, कतम, आत्मा योऽयं विज्ञानमयः प्राणेषु
हृद्यन्तर्ज्योतिः (बृ.उ.६-३-७) इति पूर्वनिर्दिष्टो यः तस्मिन् - जीवात्मनि शेते । तदन्तर्यामितया वर्तत इत्यर्थः । अत एवोत्तरत्र, आत्मन्येवात्मानं पश्यति इति वक्ष्यति । अत्र हृद्यन्तः इत्यस्य व्याख्यानं य एषोऽन्तर्हृदय इति । ज्योतिः इत्यस्य व्याख्यानम् आकाश इति; ज्योतिराकाश
शब्दयोः प्रकाशकत्वार्थकत्वेनैकार्थकत्वात् । अतोऽत्राकाशशब्दो जीवपर एव । ननु कामादीतरत्र तत्र चायतनादिभ्यः (ब्र.सू.३-३-३८) इत्यधिकरणे, वाजसनेयके तु आकाशे शयानस्य वशित्वादिश्रवणात् तस्य शयानस्य परमात्मत्वे सति तदाधाराभिधायिनः आकाशशब्दस्य, तस्यान्ते सुषिरं सूक्ष्मम् (तै.आ.१०-११-२) (महा.न.उ.११-९) इति हृदयान्तर्गतस्य सुषिरशब्द वाच्यस्याकाशस्य अभिधायकत्वमवगम्यते’ इति भाष्ये श्रुतप्रकाशिकायां च ‘अत्राकाश’ शब्दस्य भूताकाशपरत्वं समर्थितमिति प्रतीयते । अतः तद्विरुद्धमिदमिति चेत् - मैवम् । दहरोऽस्मिन्नन्तर आकाशः (८-१-१) इति छान्दोग्यगताकाशशब्दस्यैव अत्रत्याकाशशब्दस्य परमात्मपरत्वं नास्ति इत्यत्रैव ‘भाष्यादितात्पर्यम् । केचित्तु - ‘भाष्यानुरोधात् अन्तर्हृदये यो भूताकाशः, तत्र विज्ञानमयः महानात्मा शेते ‘इत्यर्थः । अस्मिन् प्रकरणे, प्राज्ञेनात्मना संपरिष्वक्तः (बृ.उ.६-३-२१) प्राज्ञेनात्मनाऽन्वारूढः (बृ.उ.६-३-३५) इति सुषुप्त्युत्क्रान्त्योः जीवपरमात्मप्रभेद प्रतिपादनेन’ विज्ञानमयशब्दनिर्दिष्टस्य जीवस्य, महतश्च परमात्मनः अभेदासम्भवात् विज्ञानमयशब्देन तच्छरीरकः परमात्मैवाभिधीयते । महद्भूतमनन्तमपारं विज्ञानघन एवैतेभ्यो भूतेभ्यस्समुत्थाय
तान्येवानुविनश्यति (बृ.उ.४-४-१२) इति मैत्रेयी ब्राह्मणोक्तरीत्या विज्ञानमयशब्दस्य, अवस्थितेरिति काशकृत्स्नः (ब्र.सू.१-४-२२) सूत्रोक्तन्यायेनात्रान्तर्यामिपरत्वम् इत्याहुः । केचित्तु - योऽयं विज्ञानमयः इत्यत्र कतम आत्मा योऽयं विज्ञानमयः, (बृ.उ.६-३-७) इति पूर्वनिर्दिष्टजीवस्य ‘प्रत्यभिज्ञालेशेन ग्रहणं न सम्भवति; तस्य महानज इत्युक्तमहत्त्वादि असम्भवात् । अपि तु विज्ञानमय इति साक्षादेव परमात्मनो निर्देशः - इत्याहुः । तमेव मुमुक्षूपास्यं विशिनष्टि - सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः ।
सर्वस्य ब्रह्मरुद्रादेः वशी । सर्वो ह्यस्य वशे वर्तते । उक्तं च, एतस्य वा अक्षरस्य प्रशासने
गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः (बृ.उ.५-८-८) इत्यादि । अतश्च प्रशासनेन धारकत्व- लक्षणमात्मत्वमुक्तं भवति । सर्वस्येशानः इत्यनेन नियन्तृत्वलक्षणमात्मत्वम् । सर्वस्याधि - पतिः इति शेषित्वलक्षणमात्मत्वमुक्तमिति द्रष्टव्यम् । इदं च छान्दोग्यदहरविद्यावाक्यप्रतिपन्न- सत्य कामत्वादीनामपि’ उपलक्षणम् । उक्तं च भाष्ये, ‘वशित्वादयश्च वाजसनेयके श्रुताः छान्दोग्यश्रुतस्य गुणाष्टकान्यतमभूतस्य सत्यसङ्कल्पत्वस्य विशेषा एवेति सत्यसङ्कल्पत्व- सहचारिणां सत्यकामत्वादीनामपहतपाप्मत्वपर्यन्तानां सद्भावमवगमयन्ति इति । स न…… कनीयान् । साध्वसाधुकर्मकृतोत्कर्षापकर्षशून्य इत्यर्थः । एष सर्वेश्वरः - असंभेदाय । सर्वेश्वरः - सर्वनियन्ता । भूतानां - प्राणिनाम् अधिपतिः
शेषी । ‘भूतानां पालः रक्षकः । एषां सर्वेषां लोकानाम् असंभेदाय - असाङ्कर्याय विधरणः- - धारकः ‘सेतुरप्येवमेव’। अनेनेश्वरेण सेतुना अविधार्यमाणाश्चेत् इमे लोकाः, निर्मर्यादा भवेयुरिति भावः ॥ अत्र ब्रह्मप्रकरणोपक्रमे, आत्मैवेदमग्र आसीत् पुरुषविधः इति ‘देवताविशेषस्य’ नारायणस्यैव प्रस्तुतत्वादिह तस्यैव सर्वेश्वरत्वादिकथनमिति न देवतान्तराणामवकाश इति द्रष्टव्यम् । इदञ्च वाक्यं गुणोपसंहारपादे चिन्तितम् य एषोऽन्तहृदय आकाशः तस्मिन् शेते
सर्वस्य वशी सर्वस्येशानः (बृ.उ.४-२-३) इति आकाशशयानत्ववशित्वादिगुणविशिष्ट- तयोपास्यः छान्दोग्यदहरविद्याप्रतिपादितापहतपाप्मत्वादिगुणाष्टकविशिष्टाकाशाद्भिन्नः । अतो रूपभेदात् विद्याभेद इति पूर्वपक्षे प्राप्तेऽभिधीयते - कामादीतरत्र तत्र चायतनादिभ्यः । (व.सू.३-३-३८) तत्र चेतरत्र च स्थलद्वयेऽपि कामादिविशिष्टं ब्रह्मैवोपास्यम् । “हृदयायतनत्वसेतुविधरणत्वादिभिः’ विद्यैक्यप्रत्यभिज्ञानात् । वाजसनेयकश्रुतवशित्वादीनां छान्दोग्यश्रुतसत्यसङ्कल्पत्वविततिरूपतया रूपभेदाभावात् । परं ज्योतिरुपसम्पद्य स्वेन
रूपेणाभिनिष्पद्यते (छां.उ.८-१२-२) इति, अभयं वै ब्रह्म भवति (बृ.उ.६-४-२५) इति चोभयत्रापि ब्रह्मप्राप्तिरूपफलसंयोगाविशेषाच्च । इयांस्तु विशेषः - छान्दोग्ये दहराकाशे परमात्म-धर्मसद्भावात् आकाशशब्दितस्य परमात्मत्त्वम् न भूताकाशत्वम् । वाजसनेयके तु आकाशे शयाने एव परमात्मलिङ्गसद्भावात् शयानस्यैव परमात्मत्वम् आकाशस्य तु भूताकाशत्वमिति । ननु नेह नानास्ति किञ्चन, एकधैवानुद्रष्टव्यमेतदप्रमेयम्, स एष नेति नेति
इत्यादि पूर्वोत्तर वाक्यैः निर्गुणमेवेह ब्रह्म प्रतिपाद्यते । छान्दोग्ये तु सगुणम् । अतो निर्गुणसगुणब्रह्मविद्ययोरैक्यासम्भवात् वाजसनेयकश्रुतमोक्षार्थनिर्गुणोपासने “गुणानां लोप एव इत्यत्राह, आदरादलोपः (ब.सू.३-३-३९) । वाजसनेयकेऽपि; सर्वस्य वशी सर्वस्येशानः, एष सर्वेश्वर एष भूताधिपतिरेष भूतपालः इति भूयोभूयोगुणोपदेशात् गुणेष्वादरः प्रतीयते । अतो वाजसनेयकश्रुतदहरविद्याया अपि सगुणत्वादेव न गुणानां लोपः कार्यः । नेह नाना इत्यादिनिषेधानाम्अब्रह्मात्मकनिषेधपरत्वेन विहितगुणनिषेधपरत्वा- भावात् । ननु छान्दोग्ये, तद्य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान् कामान् तेषां सर्वेषु
लोकेषु कामचारो भवति (छां.उ.८-१-६) इति छान्दोग्यदहरविद्यायाः सर्वलोककामचार- लक्षणसांसारिकफलसम्बन्धः प्रतीयते । वाजसनेयके तु, अभयं वै ब्रह्म भवति इति मुक्तिफलकत्वम् । अतो नानयोर्विद्ययोः ऐक्यमित्यत्राह उपस्थितेऽतस्तद्वचनात्
(ब्र.सू.३-३-४०) । उपस्थिते - ब्रह्मोप सम्पन्ने प्रत्यगात्मनि अतः - उपसम्पत्तेरेव हेतोः सर्वलोककामचारः श्रूयते, परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते । स उत्तमः
पुरुषः । स तत्र पर्येति, (छां.उ.८-१२-२) । तस्य सर्वेषु लोकेषु कामचारो भवति
(छां.उ.७-२५-२) इति । सर्वबन्धनविनिर्मुक्त अनुभाव्यफलतया’ हि सर्वलोककामचारः श्रूयते; अतः छान्दोग्यगतदहरविद्याऽपि मुक्तिफलैव । अतो न विद्याभेद इति तत्र स्थितम् । एतेन वाजसनेयकगतहार्दविद्या निर्गुणविद्येति वदन्तः परे प्रत्युक्ताः । तथा हि सति छान्दोग्यसगुणहार्दविद्यैक्यसमर्थनस्य च परस्परगुणोपसंहारसमर्थनस्य चासङ्गति- प्रसङ्गात् । न च निर्गुणायामपि विद्यायां ब्रह्मस्तुत्यर्थमेव सगुण विद्यासम्बन्धिगुणोपसंहारः सम्भवतीति वाच्यम् - निर्गुणस्योत्कृष्टस्य परस्य ब्रह्मणः सगुणत्वरूपापकर्षप्रतिपादनेन निन्दाया एव प्रतीयमानतया स्तुतेरप्रतीतेः । अत एव; व्यतिहारो विशिषन्ति (ब्र.सू.३-३-३७) इति सूत्रे ‘वस्तुतो निर्गुणस्य ब्रह्मणः सगुणत्वेनोपासनमात्रेण निकर्षो नास्ति; ब्रह्मणो वस्तुतो निर्गुणत्वात्’ इति परैरेव सगुणत्वे अपकर्षमङ्गीकृत्य तस्यावास्तवत्वेन परिहारस्य कृतत्वात् । किञ्च लोके हि स्तुतिर्विधेये रुच्युत्पादनेन सप्रयोजना । न चात्र निर्गुणस्य तज्ज्ञानस्य वा विधेयत्वमस्ति । प्रतिपाद्ये न निर्गुणे ब्रह्मणि सगुणत्वप्रतिपादनलक्षणास्तुतिश्च निर्गुणप्रतिपत्तिलक्षणशेषिविरुद्धा । अतः ‘कामादीतरत्र’ इत्यधिकरणे परेषां विद्यैक्यगुणोप- संहाराभिलपनं दुरुपपादमिति यत्किञ्चिदेतत् इत्यस्तां तावत् । यच्छेदमुच्यते, निर्गुणवाक्यसन्निधिपठितस्य, सर्वस्य वशी इत्यादिगुणगण समर्पक’ वाक्यस्य निषेध्यानुवादकतयैकवाक्यत्वसम्भवे वाक्यभेदेन गुणप्रापकता न युक्तेति, ‘तन्न वशीत्वादीनां गुणानामन्यतोऽप्राप्तेः । श्रुतिप्राप्तस्य श्रुत्या निषेधे, अहिंसावाक्यमग्नीषोमीय- हिंसायाः, अग्रहण वाक्यञ्च षोडशीग्रहणस्य, असद्वा इत्यादि वाक्यञ्च ब्रह्मसत्त्वस्य निषेधकं किं न स्यात् । किञ्च मृडमृद’ (पा.सू.१-२-७) इत्यादिविधिः, नक्त्वा सेट् (पा.सू.१-२-१८) इत्यादि निषेधस्येव सगुणवाक्येव सगुणवाक्यमेव निर्गुणत्वनिषेधकं किं न स्यात् । न च जगत्कर्तृत्वाक्षिप्तसार्वज्ञ्यादिगुणाः निषेधाय अनूद्यन्त इति वक्तुं शक्यम् - तथा सति जगदारोपाधिष्ठानत्वेन कुसमयसिद्धं ब्रह्मसत्त्वम्, असद्वा इदमग्र आसीत् (तै.आन.७-१) इति निषेद्धम्, सत्यं ज्ञानमनन्तम् (तै.आन.२-१) इत्यनूद्यते ज्ञाननिवर्त्यत्व ‘श्रुत्याक्षिप्त विश्वमिथ्यात्वम् नेह नानास्ति इत्यनूद्यते - विश्वं सत्यं मघवाना इति वाक्येन प्रतिषेद्धमिति किं न स्यात् । सत्यत्वं हि मिथ्यात्वप्रतिषेध एव । अत्मैवेदं सर्वम् इति वाक्यप्राप्तो जीवब्रह्माभेदः तत्त्वमसि (छां.उ.६-८-७) इत्यनूद्यते, द्वा सुपर्णा । (मुं.उ.३-१-१) इति निषेद्धमिति च किं न स्यात् । नेह नानास्ति किञ्चन इति वाक्ये किञ्चन इत्यनेनैव निषेध्यसमर्पणस्य सिद्धतया निषेध्यसमर्पणाय, एष सर्वेश्वरः इत्यादीनामनपेक्षितत्त्वाच्च । न हि, न सुरां पिबेत् इत्यत्र निषेध्यसमर्पणाय, सुरां पिबेत् इति वाक्यान्तरमपेक्षितम् । वशित्वादीनां निषेधार्थमनुवादे स न साधुना कर्मणा भूयान् इति निषेध्यानां कर्मकृतोत्कर्षादीनामिव ब्रह्मणि तेषां’ व्यावहारिकसत्यत्वस्याप्यभावप्रसङ्गात् । यच्छेदमुच्यते - सगुणनिर्गुणवाक्यविरोधे परत्वेन निर्गुणवाक्येनापच्छेदन्यायेन सगुणवाक्यं बाध्यत इति - तदेतत् सकलजनविदितसामान्यविशेषन्यायानभिज्ञानात् । को हि मीमांसको ब्रूयात् विरोधे शास्त्रयोर्मिथः ।
एकं प्रमाणमितरत्वप्रमाणं भवेदिति ॥
लोके हि सामान्यं विशेषेण, सावकाशं निरवकाशेन, नित्यं नैमित्तिकेन, नैमित्तिकं काम्येन, अतिदिष्टमुपदिष्टेन बाध्यमानमपि स्वोचित सत्यवस्तुसमर्पणेन संभावनीयं दृष्टम्; न तु मिथ्याभूतवस्तुविषयकतया । ततश्च सगुणवाक्यस्य मिथ्याभूतवस्तुविषय- समर्पणेन संभावनां कुर्वन् कथं नोपहास्यः । अतोऽत्रापच्छेदनयानवतारादुत्सर्गापवादनयेन निषेधस्य विशिष्य विहितेतर- गुण विषयत्वस्य॑ वक्तव्यत्वात् उपाध्यनुक्तिपूर्वकमुक्तानां, गुणानां निरुपाधिकत्वस्य स्वतः प्राप्तत्वात्, स्वाभाविकी ज्ञानबलक्रिया च (श्वे.उ.६-८) इति स्वाभाविकत्वश्रुतेः, नान्यो
हेतुर्विद्यत ईशनाय इति ईश्वरत्वस्याहेतुकत्वश्रवणात् सत्यः सोऽस्य महिमा इति च,
सत्यकामा इति च तेषां गुणानां सत्यत्वस्यापि प्रतिपादनात् तेषां मानान्तराप्राप्तानां निषेधार्थमनुवाद इत्यप्यसम्भवात् ; क्वचिद्गुणानामुपास्यत्वश्रवणमात्रेणासत्यत्वे- उत्तरंस्मिस्तापनीये शैब्यप्रश्ऽथ काठके ।
माण्डूक्यादौ च सर्वत्र ‘निर्गुणोपास्तिरीतिरितां ॥
इति परैरप्युपास्यत्वेनाभ्युपगतस्य निर्गुणस्याप्यसत्यत्वप्रसङ्गाच्च, यः सर्वज्ञस्सर्ववित्
(मुं.उ.१-१-९) इति स्वरूपोपदेशपरवाक्येषु उपासनाविध्यश्रवणेऽपि गुणानां श्रवणाच्च, तमेवं विद्वानमृत इह भवति (तै.आ.३-१-३) इति सगुणज्ञानस्य मोक्षहेतुत्वश्रवणेन च गुणानां सत्यत्वमवश्याभ्युपगन्तव्यम् । गुणनिषेधश्रुतयस्तु अध्यात्मशास्त्रे गुणशब्दवाच्यत्वेन प्रसिद्धसत्त्वादिगुणनिषेधपरा इत्येव अभ्युपगन्तव्यम् । कस्मादुच्यते ब्रह्मेति । बृहन्तो ह्यस्मिन् गुणाः
न हि तस्य गुणाः सर्वे सर्वैर्मुनिगणैरपि ।
वक्तुं शक्या वियुक्तस्य सत्त्वाद्यैरखिलैर्गुणैः ॥
नान्तं गुणानां गच्छन्ति तेनानन्तोऽयमीरितः ।
तवानन्तगुणस्यापि षडेव प्रथमे गुणाः ॥
वर्षायुतैर्यस्य गुणाः न शक्या वक्तुं समेतैरपि सर्वलोकैः ।
महात्मनः शंखचक्रासिपाणेर्विष्णोर्जिष्णोर्वसुदेवात्मजस्य ॥
चतुर्मुखायुर्यदि कोटिवक्त्रो भवेन्नरः क्वापि विशुद्धचेताः ।
स ते गुणानामयुतैकदेशं वदेन्न वा देववर प्रसीद ॥
यथा रत्नानि जलधेरसंख्येयानि पुत्रक ।
तथा गुणा ह्यनन्तस्य असङ्खेया महात्मनः ॥
इषुक्षयान्निवर्तन्ते नान्तरिक्षक्षितिक्षयात् ।
मतिक्षयान्निवर्तन्ते न गोविन्दगुणक्षयात् ॥
समस्तकल्याणगुणात्मकोऽसौ स्वशक्तिलेशाद्धृतभूतसर्गः ।
इच्छागृहीताभिमतोरुदेह संसाधिताशेषजगद्धितोऽसौ ॥
तेजोबलैश्वर्यमहावबोधसुवीर्यशक्त्यादिगुणैकराशिः ।
परः पराणां सकल न यत्र क्लेशादयः सन्ति परावरेशे ॥ (वि.पु.६-५-८५)
इत्यादिप्रमाणानामनाञ्जस्यमेव परमते । उक्तञ्च वरदाचार्यैः - यद्ब्रह्मणो गुणशरीरविकारभेद -
कर्मादिगोचरविधिप्रतिषेधवाचः ।
अन्योन्यभिन्नविषया न विरोधगन्धं -
अर्हन्ति तन्न विधयः प्रतिषेधबाध्याः ॥ (त.सा.६१) इति । अनयैव दिशा अन्तर्यामिब्राह्मणादिषु, य आत्मनि तिष्ठन् (बृ.उ.मा.पा.५-७-२२,२६) इत्यादिवाक्यैर्जीवब्रह्मणोः नियन्तृनियाम्यभावलक्षणस्य भेदस्य विहितत्वात् निषेधस्य तदितरविषयत्वस्यैव युक्तत्वात्, समस्तहेयरहितस्य ब्रह्मणः हेयाश्रय जीवैक्यस्यायुक्तत्वात् हेयस्यापारमार्थेऽपि तस्य निरसनीयतया हेयत्वस्यावर्जनीयत्वात्। तत्प्रतिभटतयोक्तस्य ब्रह्मणः तत्सम्बन्धार्हवस्त्वैक्यासंभवात्, सर्वज्ञस्य ब्रह्मणः स्वसङ्कल्पेन स्वगतहेयस्य तद्विषयविभ्रमस्य वोपादानायोगात्, असर्वज्ञत्वे सर्वज्ञश्रुतिविरोधात् सर्वशक्तेः स्वगतहेयानि- वारकत्वायोगात्, अशक्तत्वस्य सर्वशक्तित्वश्रुतिविरोधेन अभ्युपगमानहत्वात्, श्रुतिबलादेव विरुद्धयोरपि अविरोधाभ्युपगमे मीमांसानैरर्थक्यप्रसङ्गात् पृथगात्मानं प्रेरितारं च मत्वा
(श्वे.उ.१-६) इति पृथक्त्वज्ञानस्य मोक्षहेतुत्वावेदनात्, यस्मात् क्षरमतीतोऽहम् (भ.गी.१५-१८) इत्युक्तवैलक्षण्यज्ञानवत एव, असंमूढः स मर्त्येषु (भ.गी.१०-३) इत्यसंमूढत्वप्रतिपादनात्ः जीवब्रह्मणोर्नियन्तृनियाम्यभावलक्षणभेदस्य मानान्तराप्राप्तत्वात् विहितस्य निषेधायोगात्। उपासनार्थत्वाश्रयणस्य, अथ योऽन्यां देवतामुपास्ते (बृ.उ.३-४-१०) इति वाक्यप्रतिपन्नैक्येऽपि सम्भवात्, ऐक्यस्य स्वरूपोपदेशवाक्यप्रतिपन्नत्ववत् स्वरूपोपदेशपरान्तर्यामि-ब्राह्मण- प्रतिपाद्यत्वस्य नियन्तृनियाम्यभावलक्षणभेदेऽपि सत्त्वाच्च भेदनिषेधश्रुतयस्तु पृथक्सिद्धत्व- लक्षणाब्रह्मात्मकभेदनिषेधपरा इत्येव स्थितमित्यलं प्रसक्तानुप्रसक्तया । प्रक्तमनुसरामः ॥ तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन । तम् - ईदृशं परमात्मानं वेदानुवचनेन - वेदाध्ययनेन, ‘यज्ञेन’, अनाशकेन - अनशन- लक्षणेन तपसा च ब्राह्मणाः ज्ञातुमिच्छन्तीत्यर्थः । आशः - अशनम् । भावे घञ् । अनाशः - अनशनम् । ‘स्वार्थे कः । तच्च अशनं कामानशनात्मकम् ; न तु सर्वात्मनाऽनशनम्; देहपातप्रसङ्गात् । यद्वा, न विद्यते आशा फलेषु यस्य तदनाशम् । स्वार्थे कप्रत्ययः । अनाशकम् । तादृशेन तपसा । फलाभिसन्धिरहितेनेति यावत् । अश्वेन जिगमिषति, असिना जिघांसति इत्यादौ अश्वादेः सन् प्रत्ययप्रकृत्यर्थीभूतगमनादिसाधनत्वप्रतिपादन- दर्शनात् इहापि वेदनसाधनत्वमेव प्रतिपाद्यते; न तु विविदिषासाधनत्वम् । यद्यपि प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थस्य प्राधान्यमित्युत्सर्गः तथाऽपि अश्वेन जिगमिषति इत्यादौ सन्नन्तप्रयोगस्थले प्रकृत्यर्थप्राधान्यस्यैव व्युत्पत्तिसिद्धत्वात् अत्रापि प्रकृत्यर्थीभूत- वेदनसाधनत्वमेव वेदानुवचनादीनां तृतीयया प्रतिपाद्यत इति द्रष्टव्यम् ।
[अग्नीन्धनाद्यधिकरणम्]
इदञ्च तृतीयाध्याये अङ्गपादे चिन्तितम् । तत्र हि ऊर्ध्वरेतसो यज्ञाद्यभावात् तदङ्गिका विद्या न संभवतीति पूर्वपक्षे प्राप्ते, एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति । यदिच्छन्तो ब्रह्मचर्यं चरन्ति, ये चेमेऽरण्ये श्रद्धा तप इत्युपासते (छां.उ.५-१०-१) इत्यादि- वाक्यैरूर्ध्वरेतस्सु ब्रह्मविद्यायाः प्रमाणप्रतिपन्नत्वात् तेषु विद्या अग्नयाधानलक्षणाग्नीन्धन- पूर्वकाग्निहोत्राद्यनपेक्षेति अत एव चाग्नीन्धनाद्यनपेक्षा (ब्र.सू.३-४-२५) इति सूत्रे स्थितत्वात् गृहस्थेष्वपि ब्रह्मविद्या अग्नीन्धनाद्यनपेक्षैव । न च विविदिषा वाक्यवत्’ यज्ञादीनां तादर्थ्य- प्रतीतिरिति वाच्यम् - तेन वाक्येन यज्ञादिकर्मणां विविदिषार्थत्वोपलम्भेऽपि विद्यार्थत्वा- प्रतीतेरिति पूर्वपक्षे प्राप्ते उच्यते - सर्वापेक्षा च यज्ञादिश्रुतेः अश्ववत् (ब्र.सू.३-४-२६) । यथा गमनसाधनभूतो अश्वः परिकरबन्धसापेक्षः, तथा गृहस्थेषु विद्या यज्ञादिसर्वकर्मापेक्षैवः तमेतं वेदानुवचनेन ब्राह्मणाः विविदिषन्ति यज्ञेन इति श्रुतेः अश्वेन जिगमिषति
इत्यादि सन्नन्तप्रयोगे प्रकृत्यर्थभूतगमनसाधनत्वप्रतीतिदर्शनेन यज्ञेन विविदिषन्ति इत्यत्राऽपि यज्ञादौ वेदनसाधनत्वस्यैव प्रतीतेरिति स्थितम् । तथा तत्रैव पादे; यावज्जीवमग्निहोत्रं जुहोति इति नित्यतया विहितानाम् अग्रिहोत्रादीनाम् अनित्यकामनाविषयब्रह्मविद्यार्थत्वे नित्यानित्यसंयोगविरोधात् आश्रमकर्मापेक्षया विद्यार्थानि कर्माणि भिन्नानि इति पूर्वपक्षे प्राप्ते - यथैकस्यैव खदिरत्वस्य, खादिरो यूपो भवति, खादिरं वीर्यकामस्य यूपं कुर्यात् इति वचनद्वयेन क्रतौ फले च पृथग्विनियोगदर्शनात् क्रत्वर्थतया नित्यस्यापि खदिरत्वस्यानित्यकामनाविषयवीर्यार्थत्वा विरोधः, तद्वत् यावज्जीवमग्निहोत्रं जुहोति इति नित्यतया अग्निहोत्रादीनां विहितत्वात् आश्रमकर्मत्वमप्यस्ति; विविदिषावाक्येन विद्यासहकारितया विहितत्त्वात् विद्यार्थत्वमप्यस्तीति स्थापितम् , विहितत्वाच्चाश्रमकर्मापि (ब्र.सू.३-४-३२) सहकारित्वेन च (ब्र.सू.३-४-३३) इति सूत्राभ्याम् । ननु इह यथा कुण्डपायिनामयने, मासमग्निहोत्रं जुहोति (वि.७-३-१४) इति श्रुतं मासाग्निहोत्रं नैयमिकाग्निहोत्रात् भिद्यते, तथा विविदिषावाक्येन विद्यार्थतया विधीयमानं नित्यादग्निहोत्रादेरन्यदेवास्तु । तत्राह - सर्वथाऽपि त एवोभयलिङ्गात् (ब्र.सू.३-४-३४) विद्यार्थत्वे, आश्रमार्थत्वेऽपि त एव यज्ञादयः प्रतिपत्तव्याः । उभयत्र यज्ञादिशब्दैः प्रत्यभिज्ञाप्यमानत्वरूपलिङ्गात् । यज्ञेन इत्यादिशब्दैः प्रसिद्धयज्ञादिविलक्षणयज्ञादिविधाने तस्य द्रव्यदेवताद्यभावे अरूपत्वप्रसङ्गात् , तत्सद्भावे च देवतोद्देशेन द्रव्यत्यागत्वरूपयज्ञशब्द- प्रवृत्तिनिमित्तेन यज्ञशब्दमुख्यार्थतया , मासाग्निहोत्रवत् गौण्या वृत्त्या कर्मान्तर विधीयते
इति वक्तुमशक्यत्वात् न तन्न्याय इह प्रवर्तते । अतः, यज्ञोऽध्ययनं दानमितिप्रथमः यज्ञानां जपयज्ञोऽस्मि (भ.गी.१०-२५) भोक्तारं यज्ञतपसाम् (भ.गी.५-२९) इत्यादिष्विव प्रसिद्धयज्ञपरत्वमेव युक्तम् । अनभिभवञ्च दर्शयति (ब्र.सू.३-४-३५) । धर्मेण पापमपनुदति (तै.आ.१०-६३-१) इत्यादिश्रुतिश्च तानेव यज्ञादिधर्मान् निर्दिश्य तैर्विद्याया अनभिभवं पापकर्मभिरुत्पत्ति- प्रतिबन्धाभावं दर्शयति । ततश्च प्रसिद्धस्यैव अग्निहोत्रादेः धर्मस्य विद्योत्पत्तिप्रतिबन्धकपापापनोदहेतुत्वात् तस्यैव विद्याङ्गत्वम् इति स्थितम् ।
[विधुराधिकरणविचारः]
तथा- तत्रैव -अनाश्रमिणां विधुरादीनामाश्रमधर्माभावात् तदङ्गिका विद्या न सम्भवतीति पूर्वपक्षे प्राप्ते उच्यते - अन्तरा चापि तु तद्दृष्टेः । (ब्र.सू.३-४-३६) तुशब्दः पक्ष व्यावर्तकः । चशब्दोऽवधारणे । आश्रमान् अन्तरा वर्तमानानां अनाश्रमिणामिति यावत् । तेषामपि विद्यायामधिकारोऽस्त्येव । तादृशानामपि भीष्मरैक्वसंवर्तादीनां ब्रह्मविद्यादर्शनात्, यज्ञेन दानेन तपसाऽनाशकेन इति आश्रमानियतदानतप आदिभिरपि विद्यानुग्रहस्य श्रुतत्वात् । अपि स्मर्यते (ब्र.सू.३-४-३७) । जप्येनापि च संसिद्ध्येत् ब्राह्मणो नात्र संशयः
(म.स्मृ.२-८७) इति हि स्मर्यते । संसिद्ध्येत् - जपाद्यनुगृहीतया विद्यया सिद्धो भवतीत्यर्थः । विशेषानुग्रहश्च (ब्र.सू.३-४-३८) । तपसा ब्रह्मचर्येण श्रद्धया विद्ययाऽऽत्मानम्
अन्विष्याऽऽदित्यमभिजयन्ते (प्र.उ.१-१०) इति आश्रमानियततप आदि धर्मविशेषैरनुग्रहः श्रूयते । अतस्वितरज्ज्यायो लिङ्गाच्च । (ब्र.सू.३-४-३९) तुशब्दोऽवधारणे । अतः - अनाश्रमित्वादितरत् । अनाश्रमित्वम् आपद्विषयम् । शक्तस्य तु आश्रमित्वमेवोपादेयम् । भूयोधर्मकाल्पधर्मकयोः अतुल्यकारित्वात् । लिङ्गाच्च । लिङ्गं हि स्मृतिः । स्मर्यते हि अनाश्रमी न तिष्ठेत्तु दिनमेकमपि द्विजः । (द.स्मृ.१-१०) इति । असति वैराग्ये दारालाभः आपत्, सति वैराग्ये सन्न्यासस्वीकारसम्भवात् । न च अविरक्तस्य ब्रह्मविद्याधिकारः कथमुच्यते इति शङ्क्यम् - अग्निहोत्राद्यनुतिष्ठासयादारपरिग्रहरागसंभवेऽपि दारादिषु भोग्यतातिशयबुद्धिकृतरागाभावेन ब्रह्मविद्याधिकारसम्भवात् । देहान्तरोपभोग्य- ब्रह्मव्यतिरिक्तफलाशा भावेन मुमुक्षौपयिकवैराग्यसम्भवाच्च, एवमेव व्यासार्यैरुक्तत्वाच्च, न दोषः । इत्थं स्थितम् । प्रकृतमनुसरामः । एतमेव विदित्वा मुनिर्भवति । एतमेव - आत्मानं विदित्वा मुनिः - मननशीलः योगी भवति; नान्यमित्यर्थः । एतमेव…… प्रव्रजन्ति । लोक्यत इति लोकः । एतमेव लोकं परमात्मानमिच्छन्तः सन्न्यासिनः सन्न्यस्यन्तीत्यर्थः । एतमेव इत्यवधारणात् लोकान्तरेप्सूनां पारिव्राज्ये नाधिकार इति गम्यते । न हि गङ्गाद्वारं प्रतिपित्सुः काशीवासी पूर्वाभिमुखो याति । एतद्धस्म…… न कामयन्ते । हस्म वै इति प्रसिद्धौ । तदेतद्विद्वांसः
एतादृशब्रह्मविदः पूर्वे प्रजां न कामयन्ते । तत्र हेतुं तदभिसन्धिमाह किं प्रजया - लोक इति । प्रजासाध्योऽयं लोकोऽपि येषामस्माकं अयमात्मा - परमात्मैव, एतल्लोकसाध्यस्य सुखानुभवस्य परमात्मानुभवाम्बुधिलवकणिकायमानत्वात् । अतः एतादृशे परमात्मनि लब्धे ते वयम् एतल्लोकक्षुद्रफलसाधनभूतथा प्रजया किं करिष्याम इति प्रजां पूर्वे ब्रह्मविदो म कामयन्त इत्यर्थः । ते ह स्म…… एष भवतः । इदञ्च कहोलब्राह्मणे व्याख्यातम्। स एष नेति नेत्यात्मा…… न रिष्यति । एतदपि पाक् व्याकृतम् । एतमु हैवैते - इत्युभे । अतः - देहयात्रादिलक्षणात् प्रकृताद्धेतोः पापमकार्षम्, कल्याणं - पुण्यम् अकरवम् इति द्वे एते - चिन्ते एतम् - उक्तलक्षणब्रह्मविदं नैव तरतः -न प्राप्नुत इत्यर्थः । तत्र हेतुमाह - इहैवैष एते तरति । यस्माद्धैतोः इहैव - अस्मिन्नेव लोके वसन् एषः - उक्तब्रवित् एते - पुण्यं च पापं च तोर्णवान् इत्यर्थः । तत्र हेतुः नेनं कृताकृते तपतः । एनं - हि ब्रह्मविदं कृताकृते - सुकृतदुष्कृते फलसम्बन्धिनं कर्तुं न प्रभवत इत्यर्थः । एवमेवंविदि पापं कर्म निश्लिष्यते इत्यश्लेषश्रवणादिति भावः ॥ २२ ॥ तदेतदृचाभ्युक्तम् - एष नित्यो महिमा ब्राह्मणस्य न वर्धते कर्मणा नो कनीयान् । तस्येव स्यात् पदवित् तं विदित्वा न लिप्यते कर्मणा पापकेन ॥ इति । तस्मादेवंविच्छान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वा आत्मन्येवात्मानं पश्यति, सर्वमात्मानं पश्यति । नैनं पाप्मा तरति, सर्वं पाप्मानं तरति, नैनं पाप्मा तपति, सर्वं पाप्मानं तपति, विपापो विरजोऽविचिकित्सो ब्राह्मणो भवति । एष ब्रह्मलोकः सम्राडिति होवाच याज्ञवल्क्यः । सोऽहं भगवते विदेहान् ददामि, मां चापि सह दास्यायेति ॥ २३ ॥
प्र. - तदेतदृचाऽभ्युक्तम् । तदेतत् - पुण्यपापसन्तरणम् अभिमुखीकृत्य ऋचा
उक्तमित्यर्थः । तामेव ऋचं पठति एष नित्यो महिमा ब्राह्मणस्य । ब्राह्मणस्य - ब्रह्मविदः य एष महिमा, स नित्यः - ब्रह्मज्ञानानन्तरं यावदात्मभावितया अनुवर्तत इत्यर्थः । कोऽसौ महिमा इत्यत्राह-न वर्धते….. पदवित् । तस्य - ब्रह्मणः पदवित् - पद्यत इति पदं स्वरूपम् - ब्रह्मस्वरूपविदेव कर्मणा न वर्धते, कर्मणा कनीयांश्च न स्यात् । ‘पुण्यपाप- लक्षण’कर्मकृतोत्कर्षापकर्षशून्यः स्यादित्यर्थः, ‘उक्तब्रह्मविन्महिमज्ञानस्य’ फलमाह - तं विदित्वा न लिप्यते कर्मणा पापकेन । तं - ब्रह्मविन्महिमानं ‘विदित्वा’ नरः पापकेन कर्मणा न लिप्यते इत्यर्थः । तस्मादेवंवित्…… पश्यति । तस्मात् - ब्रह्मविदः एवंविधमहिमशालित्वात् एवंवित् - शास्रजन्यज्ञानवान् शान्तः - शमः अन्तरिन्द्रियनियमनरूपः दान्तः- दमः बहिरिन्द्रियनियमनरूपः । उपरतिः निषिद्धकाम्यादिषु कर्मसूपरतिः । तितिक्षा-
क्षमा । समाहितः - समाहितचित्त इत्यर्थः । एवंरूपस्सन् आत्मनि - जीवात्मनि आत्मानं - परमात्मानं तदन्तर्यामिणं पश्यति - पश्येदित्यर्थः । भाष्यादिषु कोशेषु आत्मन्येवात्मानं
पश्येत् इति पाठो दृश्यते । अतः पाठद्वैविध्यमत्र द्रष्टव्यम् । किञ्च सर्वमात्मानं पश्यति । आत्मानं - परमात्मानं सर्वं - सर्वशरीरकञ्च पश्यति - पश्येदित्यर्थः । इदञ्च वाक्यं तृतीयाध्याये अङ्गपादे चिन्तितम् । तत्र हि गृहस्थस्य बाह्याभ्यन्तर- करणव्यापाररूपकर्मानुष्ठानस्याऽऽवश्यकत्वात् , शमादीनाञ्च तद्विपरीतत्वात् नानुष्ठेयमिति प्राप्ते उच्यते - शमदमाद्युपेतः स्यात् तथापि तु तद्विधेस्तदङ्गतया तेषामवश्यानुष्ठेयत्वात्
(ब्र.सू.३-४-२७) । तथाऽपि - गृहस्थस्य कर्मानुष्ठानावश्यकत्वेऽपि गृहस्थः शमदमाद्युपेतः स्यात् । शान्तो दान्त उपरतस्तितिक्षुस्समाहितो भूत्वाऽऽत्मन्येव आत्मानं पश्यति इति विद्याङ्गतया शमादीनां विधानात् । अशान्तचित्तस्य चित्तविक्षेपेण विद्यानिष्पत्त्यसंभवेन दृष्टार्थतया अनुष्ठेयत्वाच्च । न च कर्मणां शमादीनाञ्च विरोधः; भिन्नविषयत्वात्। विहितेषु
करणव्यापारः ; इतरेषु तदुपरमरूपशमः इति । न च करणव्यापाररूपकर्मसु वर्तमानस्य वासनानुवृत्त्या शमादिकं न सम्भवतीति वाच्यम् । परमपुरुषाराधनरूपकर्मणां वासनोच्छेद एव हेतुत्वादिति स्थितम् । प्रकृतमनुसरामः ॥ नैनं पाप्मा तरति, सर्वं पाप्मानं तरति । एनं ब्रह्मविदं पाप्मा - - पुण्यपापलक्षणं कर्म न तरति - न प्राप्नोति । अयं तु ब्रह्मवित् सर्वं पाप्मानं तरति - सर्वपापातिगो भवतीत्यर्थः । नैनं पाप्मा तपतिः सर्वं पाप्मानं तपति । एनं - ब्रह्मविदं पाप्मा न तपति - न बाधते । अयमेव सर्वं पाप्मानं ज्ञानाग्निना तपति - दहतीत्यर्थः । विपापो विरजोऽविचिकित्सो ब्राह्मणो भवति । विपापः - पापशून्यः विरजः - विरागः अविचिकित्सः - संशयशून्यः - भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः (मुं.उ.२-२-९) इत्युक्तेः - ब्राह्मणः - ब्रह्मविद्भवतीत्यर्थः । अत्र ब्राह्मण इति पश्चात् निर्दिष्टस्यापि ब्राह्मण शब्दस्यौचित्याद् उद्देश्यसमर्पकत्वमेव । ततश्च ब्राह्मणो विपापो विरजोऽविचिकित्सो भवतीत्यर्थः । एष ब्रह्मलोकः - आत्मानं पश्येत् इति द्रष्टव्यतयोक्तो यः, स ब्रह्मलोकः । ब्रह्मैव लोको ब्रह्मलोकः, हे सम्राडिति याज्ञवल्क्य उवाच इत्यर्थः ॥ सोऽयं भगवते विदेहान् ददामि मां चापि सह दास्याय इति । सोऽहम् एवमनुशिष्टब्रह्मवित् यः स्वराज्यं सर्वं भगवते तुभ्यं ददामि; राज्येन सह आत्मानमपि कैङ्कर्याय ददामीति जनक उवाच इत्यर्थः ॥ २३ ॥ स वा एष महानज आत्माऽन्नादो वसुदानः । विन्दते वसु य एवं वेद ॥ २४ ॥
प्र. - एवं जनकयाज्ञवल्क्याख्यायिकायां व्याख्यात आत्मा उपासकानामुपासनभेदेन भुक्तिमुक्तिप्रदः इति श्रुतिराह - स वा एष…… वेद । अन्नादः अन्नदः वसुदानः
वसुप्रदः । य एवं वेद - अनेनाऽऽकारेण ब्रह्मोपासीनः विन्दते वसु - अन्नं वसु च लभते इत्यर्थः । इदश्च तृतीयाध्याये उभयलिङ्गपादे चिन्तितम् । तत्र हि ऐहिकामुष्मिकं शास्त्रीयं फलं कर्मण एव स्यात् । तस्य फलसाधनत्वश्रवणादिति पूर्वपक्षे प्राप्तेऽभिधीयते - फलमत
उपपत्तेः (ब्र.सू.३-२-३७) । कर्मभिराराधितात् अस्मादेव परमपुरुषात् फलम् ; सर्वज्ञस्य सर्वशक्तेः : ब्रह्मणः सेवाराधितराजवत् फलप्रदत्वोपपत्तेः । श्रुतत्वाच्च (ब्र.सू.३-२-३८) । स बा एष महानज आत्माऽन्नादो वसुदानः इति तस्यैव फलप्रदत्वस्य श्रुतत्वात् । पूर्वपक्षमाह धर्मं जैमिनिरत एव । (ब्र.सू.३-२-३९) यागदानाख्यधर्ममेव जैमिनिः फलप्रदं मन्यते । अत एव उपपत्तेः शास्त्राच्च । कृष्यादीनां फलसाधनत्त्ववत् यागदानादीनां विनश्वराणामपि अपूर्वद्वारेण फलसाधनत्वोपपत्तेः, यजेत स्वर्गकामः इति विधिप्रत्ययेन प्रकृत्यर्थ- यागस्यैव फलसाधनत्वावगमात् । पूर्वं तु बादरायणो हेतुव्यपदेशात् (ब्र.सू.३-२-४०) बादरायणस्त्वाचार्यः पूर्वोक्तमेव परमात्मनः फलप्रदत्वं मन्यते, हेतुयपदेशात् यज देवपूजायाम् (धा.पा.१००२) इति प्रीतिहेतुत्ववाचिना पूजाशब्देन यागस्य देवताप्रीतिहेतुत्वव्यपदेशात्, स एवैनं भूतिं
गमयति इत्यादिकर्मविधिशेषवाक्येषु कर्माराधितदेवताया एव (यागादेः) प्रीतिहेतुत्वावगमात्, अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च (भ.गी.९-२४) इति फलप्रदायित्वलक्षणप्रभुत्वस्य परमात्मन्येव स्मृतत्वात् । आशुविनश्यतः कर्मणो विधिवाक्यश्रुतकालान्तरभाविफल- साधनत्वनिर्वाहाय द्वारापेक्षायां वाक्यशेषप्रतिपन्नदेवताप्रीतिरूपद्वारपरित्यागेन आत्मसमवेता- दृष्टरूपद्वारपरिकल्पनस्यानुचितत्वात् कर्मप्रीतिः परमात्मैव फलप्रद इति स्थितम् । प्रकृतमनुसरामः ॥ २४ ॥ स वा एष महानज आत्माऽजरोऽमृतोऽभयो ब्रह्म । अभयं वै ब्रह्म । अभयं हि वै ब्रह्म भवति, य एवं वेद ॥ २५ ॥ ॥ इति षष्टाध्याये चतुर्थब्राह्मणम् ॥
प्र. स वा एष महानज…… ब्रह्म । स एष महानात्मा - परमात्मा जन्मजरामरणशून्यः अमृतः - असंसारी, अत एव भयशून्यः । एवम्भूतोऽयमात्मा ब्रह्म - निरतिशयबृहदि(न्नि)त्यर्थः । तत्र हेतुमाह - अभयं वै ब्रह्म । अमृतमभयमेतद्ब्रह्म इति निरुपाधिकाभयत्वाश्रयस्य परब्रह्मत्वप्रसिद्धेरिति भावः । तज्ज्ञानस्य फलमाह - अभयं हि वै ब्रह्मभवति य एवं वेद । ब्रह्म भवति - आविर्भूतब्राह्मरूपो भवतीत्यर्थः । शिष्टं स्पष्टम् ॥ २५ ॥ ॥ इति षष्ठाऽध्याये चतुर्थब्राह्मण प्रकाशिका ॥ षष्ठाध्याये पञ्चमं ब्राह्मणम् द्वितीयमैत्रेयीब्राह्मणम् [याज्ञवल्क्यवृत्तान्तः] अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुमैत्रेयी च कात्यायनी च । तयोर्ह मैत्रेयी ब्रह्मवादिनी बभूव; ‘स्त्रीप्रज्ञैव’ तर्हि कात्यायनी । अथ ह याज्ञवल्क्यः अन्यद्वृत्तमुपाकरिष्यन् ॥१॥
प्र. - अथ मैत्रेयीब्राह्मणं चतुर्थवदिहापि किञ्चिन्न्यूनातिरिक्तपदविशेषोपेतमारभ्यते । ननु किमर्थोऽस्य पठितस्य मैत्रेयीब्राह्मणस्य पुनः पाठः? उच्यते । पूर्वं याज्ञवल्क्यः प्रविव्रजिषायां मैत्रेय्यै आत्मतत्त्वमुपदिश्य पारिव्राज्याय प्रवृत्तः स्ववैराग्यमान्द्यं दृष्ट्वा कञ्चित्कालं धनार्जनं कृत्वा गृह एव अनिषिद्धान् कामान् अनुभूय निष्पन्नदृढवैराग्योऽथ प्रविव्रजिषुः पुनर्गृहकृत्यव्यापृतचित्ततया विस्मृतात्मतत्त्वायै मैत्रेय्यै पुनरुपदेष्टुमारभते । अनया चाख्यायिकया ‘वैराग्यमान्द्ये सति संन्यासे अनधिकार इति प्रदर्शितं भवति । अत्र विशेषपदानि व्याकुर्मः । यद्वा ‘मैत्रेयीब्राह्मणस्य एतदध्यायेन एकार्थत्वप्रदर्शनाय पुनरप्यारम्भ’ ‘इति’ द्रष्टव्यम् । अथ ह याज्ञवल्क्यस्य…… बभूव । तयोर्हि मध्ये मैत्रेयी ब्रह्मवादिनी बभूव-
‘ब्रह्मवदनशीला’ बभूव इत्यर्थः । स्रीप्रज्ञैव तर्हि कात्यायनी । तर्हि - तस्मिन् काले कात्यायनी स्त्रीप्रज्ञैव - स्त्रीणां या उचिता गृहव्यापारविषया प्रज्ञा, तादृक् प्रज्ञावत्येव बभूवेत्यर्थः । अथ ह याज्ञवल्क्योऽन्यद् वृत्तमुपाकरिष्यन् । अन्यत् वृत्तं - गार्हस्थ्याद्विलक्षणं तुर्याश्रममुपाश्रयिष्यन् इत्यर्थः ॥ १ ॥
[मैत्रेयी - याज्ञवल्क्यसंवादः] मैत्रेयीति होवाच याज्ञवल्क्यः प्रव्रजिष्यन् वा अरेऽहमस्मात् स्थानादस्मि । हन्त तेऽनया कात्यायन्याऽन्तं करवाणीति ॥ २ ॥ सा होवाच मैत्रेयी, ‘यन्नु म इयं भगोः सर्वा पृथिवी वित्तेन पूर्णा स्यात् स्यां न्वहं तेनामृताऽऽहो३ नेति नेति होवाच याज्ञवल्क्यो यथैवोपकरणवतां जीवितम्। तथैव ते जीवितँ स्यादमृतत्वस्य तु नाशाऽस्ति वित्तेनेति ॥ ३ ॥ सा होवाच मैत्रेयी, ‘येनाहं नामृता स्याम्, किमहं तेन कुर्याम् । यदेव भगवान् वेत्थ तदेव मे ब्रूहीति ॥ ४ ॥ स होवाच याज्ञवल्क्यः प्रिया वै खलु नो भवती सती प्रियमवृधद्धन्त तर्हि भवत्येतद्व्याख्यास्यामि ते व्याचक्षाणस्य तु मे निदिध्यासस्वेति ॥ ५ ॥ स होवाच न वा अरे पत्युः कामाय पतिः प्रियो भवति; आत्मनस्तु कामाय पतिः प्रियो भवति । न वा अरे जायायै कामाय जाया प्रिया भवति । आत्मनस्तु कामाय जाया प्रिया भवति । न वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्ति; आत्मनस्तु कामाय पुत्राः प्रिया भवन्ति । न वा अरे वित्तस्य कामाय वित्तं प्रियं भवति; आत्मनस्तु कामाय वित्तं प्रियं भवति । [न वा अरे पशूनां कामाय पशवः
प्रिया भवन्ति; आत्मनस्तु कामाय पशवः प्रिया भवन्ति ।] न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवति; आत्मनस्तु कामाय ब्रह्म प्रियं भवति । न वा अरे क्षत्रस्य कामाव क्षत्रं प्रियं भवति; आत्मनस्तु कामाय क्षत्रं प्रियं भवति । न वा अरे लोकानां कामाय लोकाः प्रिया भवन्ति; आत्मनस्तु कामाय लोकाः प्रिया भवन्ति । न वा अरे देवानां कामाय देवाः प्रिया भवन्ति; आत्मनस्तु कामाय देवाः प्रिया भवन्ति । [न वा अरे वेदानां कामाय वेदाः प्रिया भवन्ति । आत्मनस्तु कामाय वेदाः प्रिया भवन्ति।]
न वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्ति । आत्मनस्तु कामाय भूतानि
प्रियाणि भवन्ति । न वा अरे सर्वस्य कामाय सर्व प्रियं भवति; आत्मनस्तु कामाय सर्वं प्रियं भवति । आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः । मैत्रेय्यात्मनि खल्वरे दृष्टे श्रुते मते विज्ञात इदँ सर्वं विदितम् ॥ ६ ॥ ब्रह्म तँ परादाद्योऽन्यत्रात्मनो ब्रह्म वेद । क्षत्रं तं परादाद्योऽन्यत्रात्मनः क्षत्रं वेद । लोकास्तं परादुर्योऽन्यत्रात्मनो लोकान् वेद । देवास्तं परादुर्योऽन्यत्रात्मनो देवान् वेद । [वेदास्तं परादुः योऽन्यत्रात्मनो वेदान् वेद ।] भूतानि तं परादुर्योऽन्यत्रात्मनो भूतानि वेद । सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद । इदं ब्रह्मेदं क्षत्रमिमे लोका इमे देवा [इमे वेदाः] इमानि सर्वाणि भूतानीदँ सर्वं यदयमात्मा ॥ ७ ॥ स यथा दुन्दुभेर्हन्यमानस्य न बाह्याञ्छब्दाञ्छक्रुयाद्ग्रहणाय; दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः ॥ ८ ॥ स यथा [शङ्खस्य ध्मायमानस्य] न बाह्याञ्छब्दाञ्छक्रुयाद्ग्रहणायः शङ्खस्य तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः ॥ ९ ॥ स यथा वीणायै वाद्यमानायै न बाह्याञ्छब्दाञ्छक्रुयात् ग्रहणाय; वीणायै तु ग्रहणेन वीणावादस्य वा शब्दो गृहीतः ॥ १० ॥
प्र. - स होवाच याज्ञवल्क्यः प्रिया वै खलु नो भवति सती…… निदिध्यासस्व
इति । भवति - त्वं नः - अस्माकं प्रिया सती प्रियमेव अवृधत् - वर्धितवतीत्यर्थः । अनुकूलभाषणादिति भावः । धुतादित्वादङ् द्युद्भ्यो लुङि (पा.सू.१-३-९१) इति परस्मैपदम् । अतः तुष्टोऽहं है भवति; अमृतत्वसाधनं जिज्ञासमानायै तुभ्यमेतत् अमृतत्त्वसाधनं व्याख्या- स्यामि । व्याचक्षाणस्य मे वाक्यं निदिध्यासस्व - सावधानं शृणु इत्यर्थः ॥ २-१० ॥
स यथार्द्रैधाग्नेरभ्याहित[स्य] पृथग्धूमा विनिश्चरन्त्येवं वा अरेऽस्य महतो भूतस्य निश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानानि [इष्टँ हुतमाशितं पायितमयञ्च लोकः परश्च लोकः सर्वाणि च भूतानि] अस्यैवैतानि सर्वाणि निःश्वसितानि ॥ ११ ॥ स यथा सर्वासामपाँ समुद्र एकायनमेवँ सर्वेषाँ स्पर्शानां त्वगेकायनमेवेँ सर्वेषाँ रसानां जिह्वैकायनमेवँ सर्वेषां गन्धानां नासिके एकायनमेवेँ सर्वेषां रूपाणां चक्षुरेकायनमेवेँ सर्वेषां शब्दानां श्रोत्रमेकायनमेवँ सर्वेषां सङ्कल्पानां मन एकायनमेवँ सर्वासां विद्यानां हृदयमेकायनमेवँ सर्वेषाँ कर्मणां हस्तावेकायनमेवेँ सर्वेषामानन्दानामुपस्थ एकायनमेवँ सर्वेषां विसर्गाणां पायुरेकायनमेवँ सर्वेषामध्वनां पादावेकायनमेवँ सर्वेषां वेदानां वागेकायनम् ॥ १२ ॥
प्र.- स यथार्द्रैधाग्नेः इत्यादि । इष्टं हुतं - यागहोमादिकर्म । आशितं पायितं
अन्नपानादि । अयं च लोकः परश्चलोकः - इहलोकपरलोकौ । भोग्य-भोगोपकरण भोगस्थानात्मकः प्रपञ्च इति यावत् ॥ ११-१२ ॥
[अमृतत्वसाधनम्]
स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एव, एवं वा अरेऽयमात्मा-
ऽनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति;
न प्रेत्य संज्ञाऽस्तीत्यरे ब्रवीमि ।
इति होवाच याज्ञवल्क्यः ॥ १३ ॥
प्र.- स यथा सैन्धवघन इत्यादि । सैन्धवघनः - लवणखण्डः अनन्तरः- अन्तर्-अवयव-व्यतिरिक्तः अबाह्यः बाह्यावयव-व्यतिरिक्तश् च
सर्वोऽप्यवयवः यथा रसघनो भवति ।
अत्र अन्तरो बाह्यश्च रसघन इति वक्तव्ये
अन्तरत्व-बाह्यत्व-शून्यानां मध्यवर्तिनाम् अपि ग्रहणं यथा स्याद्
इति अनन्तरोऽबाह्य इति व्यतिरेकमुखेन निर्देशः ।
एवञ्च सति निरवयवात्म-साधारण्यम् अपि फलितं भवतीति द्रष्टव्यम् ।
एवम् एवायम् आत्मा सर्वत्र ‘प्रज्ञानघनः’ स्वरूपतो धर्मतश् च विज्ञान-घन-जीव-शरीरक इत्यर्थः ।
जीव-परयोः स्व-रूपेण ऐक्याभावात्
शरीरात्म-भावे इदं सामानाधिकरण्यं द्रष्टव्यम् ।
अत्र वक्तव्यं सर्वं चतुर्थाध्याय एवोक्तम् ॥ १३ ॥
सा होवाच मैत्रेय्यत्रैव भगवान्’ मोहान्तम् ‘आपीपत् । न वा अहमिमं विजानामीति । स होवाच न वाऽरेऽहं मोहं ब्रवीमि अविनाशी वा अरेऽयमात्माऽ- नुच्छित्तिधर्मा ॥ १४ ॥
प्र.- अत्रैव मा भगवान्….. आपीपत् । अत्रैव न प्रेत्य संज्ञाऽस्ति इत्यस्मिन्नेवार्थे भगवान् मा - मां मोहान्तं - मोहमध्यम् अपीपत् - प्रापितवान् । ओपेर्णा
चञ् । मोहमेव दर्शयति-न वा अहमिमं विजानामीति । इमं अर्थमित्यर्थः । अविनाशी वाऽरेऽयमात्माऽनुच्छित्तिधर्मा - अयमात्मा स्वयमविनाशी । अनुच्छित्ति- धर्मा । न विद्यते उच्छित्तिर्यस्य सोऽनुच्छित्तिः । अविनाशीति यावत् । अनुच्छित्तिः धर्मो यस्य सोऽनुच्छित्तिधर्मा । एवं बहुव्रीहिगर्भो बहुव्रीहिः । तस्य ज्ञानलक्षणो धर्मोऽप्यविनाशीत्यर्थः । न तु उच्छित्तेरभावोऽनुच्छित्तिः । स धर्मो यस्येति बहुव्रीहिः । अविनाशी इत्यनेन पौनरुक्तयप्रसङ्गात् इति द्रष्टव्यम् ॥ १४ ॥
यत्र हि द्वैतमिव भवति - तदितर इतरं पश्यति, तदितर इतरं जिघ्रति, तदितर इतरँ रसयते; तदितर इतरमभिवदति, तदितर इतरँ शृणोति, तदितर इतरं मनुते, तदितरं इतरँ स्पृशति तदितर इतरं विजानाति । यत्र त्वस्य सर्वमात्मैवाभूत्, तत् केन कं पश्येत्, तत् केन कं जिघ्रेत् तत् केन कँ रसयेत्, तत् केन कँ अभिवदेत्, तत् केन कँ शृणुयात्। तत् केन कँ मन्वीत, तत् केन कँ स्पृशेत्, तत् केन कँ विजानीयात् । येनेदँ सर्वं विजानाति, तँ केन विजानीयात् । स एष नेति नेत्यात्मा । अगृह्यो न हि गृह्यते; अशीर्यों न हि शीर्यते; असङ्गो न हि सज्यते, असितो न व्यथते न रिष्यति । विज्ञातारमरे केन विजानीयादिति । उक्तानुशासनाऽसि मैत्रेय्येतावदरे खल्वमृतत्वमिति होक्त्वा याज्ञवल्क्यो विजहार ॥ १५ ॥
प्र. - उक्तानुशासनाऽसि…… विजहार । हे मैत्रेयि! उक्तोपदेष्टव्याऽसि । एतावदेव खलु अमृतत्वार्थिभिः ज्ञेयमित्यर्थः । ‘अमृतत्वमिति कारणे’ कार्यवाचिशब्द उपचारात् प्रयुक्तः । एवमुक्त्वा याज्ञवल्क्यः विजहार - यथाभिलषितं प्रव्रज्यां कृतवानित्यर्थः ॥ १५ ॥ ॥ इति षष्ठाध्याये पञ्चमब्राह्मण प्रकाशिका ॥ षष्ठाध्याये षष्ठं ब्राह्मणम् [वंशब्राह्मणम्]
[आचार्यशिष्यवंशकथनम्]
अथ वंशः पोतिमाष्यात् । पोतिमाष्यो गौपवनात् गोपवनः पौतिमाष्यात् पोतिमाष्यो गोपवनात् गौपवनः कौशिकात् कौशिकः कौण्डिन्यात् कौण्डिन्यः शाण्डिल्यात् शाण्डिल्यः कौशिकाञ्च गौतमा गौतमः ॥ १ ॥ आग्निवेश्यात्, आग्निवेश्यो गार्ग्यात् ‘गार्ग्य । गौतमात् गौतमः सैतवात् सैतवः पाराशर्यायणात् पाराशर्यायणो गार्ग्यायणात् गार्ग्यायणः उद्दालकायनात् उद्दालकायनो जाबालायनात् जाबालायनो माध्यन्दिनायनात् माध्यन्दिनायनः सौकरायणात् सौकरावणः काषायणात् काषायणः सायकायनात् सायकायनः कौशिकायनेः कौशिकायनिः ॥ २ ॥ घृतकौशिकात् घृतकौशिकः पाराशर्यायणात् पाराशर्यायणः पाराशर्यात् पाराशर्यो जातूकर्ण्यात् जातूकर्ण्य आसुरायणाच्च यास्काच्च आसुरायणः त्रैवणेः, ‘त्रैवणिरो पजन्धने ‘रौपजन्धनिरासुरेः आसुरिर्भारद्वाजात् भारद्वाज आत्रेयात् आत्रेयो माण्डेः “माण्डिर्गौतमात् गौतमो गौतमात् गौतमो वात्स्यात् वात्स्यः शाण्डिल्यात् शाण्डिल्यः केशोर्यात् काप्यात् कैशोर्यः काप्यः कुमारहारितात् कुमारहारितो गालवाद्गालवो विदर्भीकोण्डिन्यात् विदर्भीकोण्डिन्यो वत्सनपातो बाभ्रवात् वत्सनपाद्वाभ्रवः पथस्सौभरात् पन्थाः सौभरोऽयास्यादाङ्गिरसात् अयास्य आङ्गिरसः आभूतेस्त्वाष्ट्रात् आभूतिस्त्वाष्ट्रः विश्वरूपात् त्वाष्ट्राद्विश्वरूपस्त्वाष्ट्रोऽश्विभ्याम् अश्विनौ दधीच आथर्वणात् दध्यङ्ङाथर्वणोऽथर्वणो दैवात् अथर्वादैवो मृत्योः प्राध्वँसनात् मृत्युः प्राध्वँसनः प्रध्वँसनात् प्रध्वँसनः एकर्षेः एकर्षिविप्रचित्तेविप्रचित्तिर्व्यष्टेर्व्यष्टिः सनारोः सनारुः सनातनात् सनातनः सनकात् सनकः परमेष्ठिनः परमेष्ठी ब्रह्मणः । ब्रह्म स्वयम्भु । ब्रह्मणे नमः । ॥ इति षष्ठाध्याये षष्ठं ब्राह्मणम् ॥
प्र.- पूर्ववदेव वंशब्राह्मणम् । आचार्यवंशकीर्तनस्य मङ्गलत्वान्नान पौनरुक्त्यं शङ्कनीयम् । पौतिमाष्यादिति प्रथमं पञ्चम्युक्तिः ततोऽर्वागपि शिष्यपरम्पराऽस्तीति ज्ञापनार्थम् ॥ १ ॥
॥ इति षष्ठाऽध्याये षष्ठब्राह्मण प्रकाशिका ॥ ॥ समाप्तश्च षष्ठः अध्यायः ॥