बृहदारण्यकोपनिषत् षष्ठोऽध्यायः Part 2 [सुषुप्तौ बाह्यान्तरज्ञानराहित्यम्]
तद्वा अस्यैतद् अतिच्छन्दा अपहत-पाप्माभयँ रूपम् ।
तद् यथा प्रियया स्रिया सम्परिष्वक्तो,
न बाह्यं किञ्चन वेद;
नान्तरम् -
एवम् एवायं पुरुषः
प्राज्ञेनात्मना सम्परिष्वक्तो
न बाह्यं किञ्चन वेद नान्तरम् ।
तद्वा अस्येतद् आप्त-कामम् आत्म-कामम् अकामँ रूपँ
शोकान्तरम् ॥ २१ ॥**
**प्र–तद्वा….. अभयं रूपम् तदेतत् - स्थानमेवास्य अतिच्छन्दाः - छन्द शब्द इच्छावाची । अतिच्छन्दा इति छान्दसम् । अतिच्छन्दं - अभिलाषातिगम् अपहतपाप्मा-
पापप्रतिभटं अभयं प्रियं प्राप्यं रूपं - ‘परमात्मा’ इत्यर्थः । ततः किमित्यत आह - तद्यथा प्रियया इत्यादि । यथा - प्रियतमया स्रिया सम्परिष्वक्तस्य पुरुषस्य आन्तरदुःखादिपदार्थज्ञानं वा ब्राह्यपदार्थज्ञानं वा नास्ति, एवं परमप्रियेण प्राज्ञेनात्मना - ‘सर्वज्ञेन परमात्मना’ सम्परिष्वक्तस्यास्यपुरुषस्य जीवस्य बाह्याभ्यन्तरस्वेतरसर्ववस्तुज्ञानाभाव उपपद्यते इत्यर्थः । अत्र च सम्परिष्वङ्गो नाम तत्र लय एव । स्वाप्यय सूत्रे, स्वमपीतो भवति इति वाक्यसमानार्थकतया भगवता भाष्यकृतैतद्वाक्यस्योदाहृतत्वात् । अथवा जाग्रत्स्वप्न- भोगप्रदकर्मसम्बन्धविरोधी परिष्वङ्गः सम्बन्धविशेषः सुषुप्तिमात्रकाल’वर्तीति’ द्रष्टव्यम् । तद्वा…… शोकान्तरम् । तदेव - जीवसुषुप्तिस्थानभूतं प्राज्ञात्मलक्षणं स्वरूपम् आप्त - कामम् - अवाप्तसमस्तकामम् आत्मकामम् - आत्मानन्दतृप्तम् अकामम् - आत्म व्यतिरिक्तकामनाशून्यम् शोकान्तरं - शोकबाह्यम् - अन्तरशब्दो बहिर्योगवचनः शोकमन्तरा वर्तमानम् - शोकशून्यं प्राप्यं रूपमित्यर्थः ॥ २१ ॥
**[पुण्य-पाप-सम्बन्ध-रहितम् सुषुप्त-रूपम्]
अत्र पिताऽपिता भवति, माताऽमाता, लोका अलोकाः, देवा अदेवाः, वेदा अवेदाः । अत्र स्तेनोऽस्तेनो भवति, भ्रूणहाऽभ्रूणहा, चाण्डालोऽचाण्डालाः, पौल्कसोऽपौल्कसः, श्रमणोऽश्रमणः, तापसोऽतापसः । अनन्वागतं पुण्येन अनन्वागतं पापेन । तीर्णो हि तदा सर्वाञ्छोकान् हृदयस्य भवति ॥ २२ ॥
**
प्र.- अत्र ‘पिताऽपिता’ भवति माताऽमाता ।
अत्र - परमात्मनि सुषुप्तिस्थाने लीनस्य जीवस्य
पित्रादयो न सन्ति ।
तद्-रूपस्य शरीर-सम्बन्ध-घटक-कर्म-सम्बन्ध-शून्यतया
अ-शरीरस्य जनकाभावेन पित्रादेर् अभावात् इति भावः ।
लोका अलोकाः - तस्याश्रय-शून्यत्वाद् इति भावः ।
देवा अदेवाः - अनुग्राहक-शून्यात्वाद् इति भावः ।
वेदा अवेदाः -
‘अननुशासनीय-स्वरूपत्वात्’ इति भावः ।
अत्र स्तेनोऽस्तेनो भवति भ्रूणहा अभ्रूणहा ।
परिशुद्धात्म-स्वरूपे स्तैन्यादि-कर्तृत्वाद्य्-असंभवाद् इति भावः ।
चाण्डालोऽचाण्डालः - अतापसः -
चण्डाल-पुल्कस-श्रमण-तापसादि-देह-सम्बन्धाभावाद् एव इति भावः ।
अत्र हेतुमाह - अनन्वागतं पुण्येनानन्वागतं पापेन ।
शरीरसम्बन्धघटकपुण्यपाप ‘संस्पर्शाभावादिति’ भावः । ननु चरमदेहवियोगानन्तरभावित्वात् सर्वकर्मप्रहाणस्य कथं सुषुप्तौ कर्मसम्बन्धाभाव इत्याशक्य आह - तीर्णो हि…… भवति । सुषुप्तः पुरुषो हि यस्मात् हृदयस्य सर्वान् शोकान् तीर्णो भवति , ततो मनस्तापरूपफलाभावात् विद्यमानानामपि कर्मणां फलप्रदानाभिमुख्याभावात् कर्मणामसम्बन्धप्रायत्वात् ‘तत्कृतशरीरसम्बन्धाभावेन तदनुबन्धि- मातापित्रादयोऽपि न संबध्यन्ते । अतो न सन्तीत्यर्थः ॥ २२ ॥
[ज्ञानस्य विपरिलोपाभावः (नाशाभावः)] यद् द्वैतन्न पश्यति, पश्यन्वै तन्न पश्यति । न हि द्रष्टुः दृष्टेविपरिलोपो विद्यते । ‘अवनाशित्वात्’ । न तु तत् द्वितीयमस्ति ततोऽन्यद्विभक्तं, यत् पश्येत् ॥ २३ ॥
प्र– योऽयं विज्ञानमयः इत्युक्त ज्ञातृस्वरूपस्य सुषुप्तस्य आत्मनः ‘बाह्यान्तर- ज्ञानाभावः किन्निबन्धन इत्याशङ्क्याह - यद् द्वैतं न पश्यति पश्यन् वै तन्न पश्यति । द्वैतं - बाह्यमान्तरं वा स्वातिरिक्तं वस्तु सुषुप्तो जीवो न पश्यतीति यत् तत् पश्यन् वै न
पश्यति! वै शब्द एवार्थः ।** पश्यतः** दर्शनयोग्यज्ञानवत एव बाह्यान्तरादर्शनमित्यर्थः । ननु अपश्यतः कथं पश्यत्त्वमित्यत्राह - न हि…… अविनाशित्वात् । ज्ञातुः धर्मभूतज्ञानस्य नित्यत्वात् विनाशो नास्तीत्यर्थः । तर्हि सुषुप्तौ कथमदर्शनमिति; तत्राह न तु…… यत् पश्येत् । अयमर्थः ज्ञानस्वरूपाभावनिबन्धनो बाह्याभ्यन्तरद्वितीयज्ञानाभावो न भवति । अपि तु ततो विभक्तस्य प्राज्ञात्मनः ‘पृथक्सिद्धस्य’ अन्यस्य बाह्याभ्यन्तररूप द्वितीयवस्तुनोऽभावादेवानुकूलप्रतिकूलपदार्थदर्शनमिति । न च पृथक्सिद्धपदार्थाभावस्य जाग्रत्स्वप्नयोरपि समत्वात् तत्रेव सुषुप्तावपि अविद्यमान पृथक्सिद्धपदार्थानुभवः अस्त्विति शङ्क्यम् - तत्र कर्मरूपदोषवशात् पृथक्सिद्धपदार्थोपलम्भसम्भवात् , सुषुप्तौ कर्मरूप- दोषस्य अकार्यकरत्वेनासम्बन्धप्रायत्वस्योपपादितत्त्वाच्च । न च तर्ह्यपृथक्सिद्धतया ब्रह्मात्मकत्वेनैव सुषुप्तौ विषयाणामुपलम्भो अस्त्विति शक्यम् - सर्वाः प्रजा अहरहर्गच्छन्त्यः
एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढाः (छां.उ.८-३-२) इति छान्दोग्योक्तरीत्या अनृतशब्दितकर्मविशेषेण जीवधर्मभूतज्ञानस्य तिरोहिततया ब्रह्मण उपलम्भासम्भवेन ब्रह्मात्मकतयाऽप्युपलम्भासम्भवात् । ब्रह्मात्मकत्वाब्रह्मात्मकत्वोभयबहिर्भूतपदार्थे प्रत्यक्षाभावादिति भावः । अत्र न तु तद् द्वितीयमिति तु शब्देन धर्मभूतज्ञानप्रसरद्वारभूत- मनःपर्यन्तसर्वेन्द्रियोपसंहारात् ज्ञानस्य विषयसम्बन्धाभावात् न सुषुप्तौ बाह्याभ्यन्तर- विषयज्ञानमित्यपि हेत्वन्तरमभिप्रेतं द्रष्टव्यम् ॥ २३ ॥ यत् द्वैतं न जिघ्रति, जिघ्रन्वै तन्न जिघ्रति । न हि घ्रातुर्घ्रातेर्विपरिलोपो विद्यते अविनाशित्वात् । न तु तत् द्वितीयमस्ति ततोऽन्यद्विभक्तं, यज्जिघ्रेत् ॥ २४ ॥ यत् द्वैतं न रसयते, रसयन् वै तन्न रसयते । न हि ‘रसयितृ’रसयतेविपरिलोपो विद्यते अविनाशित्वात् । न तु तत् द्वितीयमस्ति ततोऽन्यद्विभक्तं, यद्रसयेत् ॥ २५ ॥ यत् द्वैतं न वदति, वदन् वै तन्न वदति । न हि वक्तुर्वक्तेर्विपरिलोपो विद्यते, अविनाशित्त्वात् । न तु तत् द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्वदेत् ॥ २६ ॥ यत् द्वैतं न शृणोति, शृण्वन् वै तन्न शृणोति । श्रोतुः न हि श्रुतेर्विपरिलोपो विद्यते अविनाशित्वात् । न तु तत् द्वितीयमस्ति ततोऽन्यद्विभक्तं, यच्छृणुयात् ॥ २७ ॥ यत् द्वैतं न मनुते; मन्वानो वै तन्न मनुते । न हि मन्तुर्मतेर्विपरिलोपो विद्यते अविनाशित्वात् । न तु तत् द्वितीयमस्ति । ततोऽन्यद्विभक्तं यन्मन्वीत ॥ २८ ॥ यत् द्वैतं न स्पृशति, स्पृशन् वै तन्न स्पृशति । न हि स्प्रष्टुः स्पृष्टेर्विपरिलोपो विद्यते अविनाशित्वात् । न तु तत् द्वितीयमस्ति ततोऽन्यद्विभक्तं यत् स्पृशेत् ॥ २९ ॥ यत् द्वैतं न विजानाति, विजानन् वै तन्न विजानाति न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते अविनाशित्वात् । न तु तत् द्वितीयमस्ति ततोऽन्यद्विभक्तं, यद्विजानीयात् ॥ ३० ॥
प्र– यत् द्वैतं न जिघ्रति इत्यादि। द्वैतं -बाह्यमान्तरं वा आत्मनो भिन्नं वस्तु सौषु्प्तो जिवः न जिघ्रातो यत्।जिघ्रन्वै तन्न जिघ्रति इति। धातुः -आघ्रणं कुर्वतः घ्रातेः अघ्राणस्य अविनाशित्वात् -नित्यत्वात् । विपरिलोपे -नाशः नास्तीत्यर्थः। तथा चेत् सुषुप्तौ कथमाघ्रणनम् इत्यशङ्ख्य न तु इत्याह।ततोऽन्यत् -प्राज्ञात्मनस्त्वितरत्। विभक्तं -विनास्थितं यज्जिघ्रेत् तद् द्वितीयं -तादृशबाह्यान्तररूपं द्वितीयं वस्तु न विद्यते इति भावः॥ यद्वैतं न रसयत इत्यादि। द्वैतं -बाह्यमाभ्यन्तरं वा स्वव्यतिरिक्तं वस्तु सुषुप्तो जीवः न रसयते इति यत्।रसयन् वै तन्न रसयते।रसयितुः -आस्वादयतः रसयते ;- आस्वादनस्य नित्यत्वात् ।नाशो नास्तीति भावः।तर्हि सुषुप्तौ कथं रसयन् इत्याशङ्क्य न तु इत्याह।ततोऽन्यद्विभक्तम् -प्राज्ञात्मनस्तु अन्यत् पृथगवस्थितं यद्रसयेत् न तु तद् द्वितीयमस्ति -तादृग्बाह्याभ्यन्तररूपं द्वितीयं वस्तु नास्तीति भावः॥ यद्वैतं न वदति इत्यादि। द्वैतं -बाह्याभ्यन्तरं वा स्वातोभिन्नं वस्तु सौषुप्तिजीवः न वादतीति यत्।वदन् वै तन्न वदति । वदनकर्मकारणत्वार्हज्ञानवत एव अवदनमिति भावः**।वक्तुः**-वदमानस्य वक्तेः-वदनस्य नित्यत्वात् विनाशो नास्तीत्यर्थः। ततोऽन्यद्विभक्तम् । प्राज्ञात्मनस्त्वन्यत् पृथग्भूतं यद्वदेत् न तु तद्वितीयं वस्तु वर्तत इत्यर्थः॥ द्वैतं न शृणोति इति। यत् शृण्वन् वै तन्न शृणोति आकर्णयन्नेव नाकर्णयति। श्रोतुर्श्रुतेः -आकर्णयतुः आकर्णनस्य अविनाशित्वात् विपरिलोपो न हि विद्यते - नित्यत्वात् नाशो नास्ति। ततोऽन्यद्विभक्तं यच्छृणुयात् द्वितीयं तु नास्ति।
प्राज्ञात्मनस्त्वितरद्विनाभूतं यदाकर्णयेत तादृशद्वितीयं वस्तु नेति भावः॥ द्वैतं न मनुते इति। यत् मन्वानो वै तन्न मनुते -बुद्ध्यन्नेव तन्न बुद्ध्यति। मन्तुर्मतेरविनाशित्वात् विपरिलोपो न हि विद्यते । मननकर्तृर्मतेरनित्यत्वात् विनाशो नास्तीत्यर्थः । ततोऽन्यद्विभक्तम्, यन्मन्वीत तद्वितीयं तु नास्ति -प्राज्ञात्मनः पृथग्भूतमन्यत् यद्बुद्ध्येत् तादृक् द्वितीयं वस्तु न विद्यते इति भावः॥ द्वैतं न स्पृशति इति । यत् स्पृशन् वै तन्न स्पृशति -स्प्रष्टुस्पृष्टेः अविनाशित्वात् विपरिलोपो न हि विद्यते । स्पर्शनं कर्तृस्पर्शनस्य नित्यत्वात् विनाशो नास्ति। ततोऽन्तरद्विभक्तं यत्स्पृशेत् तद् द्वितीयं तु नास्ति। प्राज्ञात्मनस्तु इतरद्विनाभूतं यत्स्पर्शनं कुर्यात् तादृशं द्वितीयं वस्तु न विद्यते इत्यर्थः ॥ द्वेतं न विजानाति इति। यत् विजानन् वै तन्न विजानाति । अव बुद्ध्यन्नाव- बुद्ध्यति । न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते । बुद्धिवृत्तिमतः बुद्धिवृत्तेः नित्यत्वात् विनाशो न हि वर्तत इत्यर्थः।ततोऽन्यद्विभक्तं यद्विजानीयात् तद् द्वितीयं तु नास्ति । प्राज्ञात्मनोे परं विनाभूतं यदवबुद्ध्येत् तादृशं वस्तु नास्तीति भावः॥२४-३०॥ वदन् वै तन्न वदति । वदनक्रियाहेतुतायोग्यज्ञानवत एवावदनम् इत्यर्थः । इदं सर्वकर्मेन्द्रियव्यापारोपलक्षणम् । मनुते इति मनोवृत्तिकथनम् । विजानातीति
बुद्धिवृत्तिकथनम् । अन्यत् सर्वं पूर्ववत् ॥ २४-३० ॥ यत्र वा अन्यदिव स्यात्, तत्रान्योऽन्यत् पश्येत्, अन्योऽन्यज्जिघ्रेत्, अन्योऽन्य- द्रसयेत्, अन्योऽन्यद्वदेत्, अन्योऽन्यच्छृणुयात्, अन्योऽन्यन्मन्वीत ‘अन्योऽन्यत् विजानीयात् ॥ ३१ ॥
प्र. - अथ स्वप्नस्थानादौ नैवमित्याह यत्र वा…… विजानीयात् । अन्योऽन्यदित्यत्र अन्येनेति शेषः । तथा च यत्र स्थाने स्वप्नादौ स्थितस्याल्पमपि पृथक्सिद्धं स्यात् इन्द्रियादिकञ्च करणं स्यात्, तदानीं किञ्चित् दृश्यादिकं केनचित् करणेन कश्चित् पश्येदपि । इह तु पृथक्सिद्ध पदार्थाभावात् ’ कर्मसम्बन्धोपरमेन करणभूतेन्द्रिय सम्बन्धाभावाच्च नान्यवरतुदर्शन मिति भावः ॥ ११ ॥
सलिल एको द्रष्टाऽद्वैतो भवति । एष ब्रह्मलोकः सम्राडिति हैनमनुशशास याज्ञवल्क्यः । एषाऽस्य परमागतिः एषाऽस्य परमा संपत् । एषोऽस्य परमो लोकः, एषोऽस्य परम आनन्दः । एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति ॥ ३२ ॥
प्र. - सलिल एको…… ब्रह्मलोकः । यथा जलं जले प्रक्षिप्तमेकं भवति, एवं ‘सलिले सलिलवत्’ स्वच्छस्वभावे परमात्मनि लीनोऽयं द्रष्टा जीवः प्राज्ञात्मपरिष्वङ्गवशेन एकीभूतस्सन् अद्वैतो भवति । देवादिलक्षणभेदकाकारशून्यो भवतीत्येष सुषुप्त्याधारा एव छान्दोग्ये, ब्रह्मलोकं न विन्दन्ति (छां.उ.) इत्यत्र ब्रह्मलोकशब्दितः परमात्मा, हे सम्राडिति याज्ञवल्क्यः जनकमनुशिष्टवान् इत्यर्थः । ननु कथं सुषुप्त्याधारस्य ब्रह्मलोकत्वम् । ब्रह्मलोको हि परमगतित्वादिना श्रूयत इत्यत्राह - एषाऽस्य परमा गतिः । जीवस्यास्यार्चिरादिगत्या प्राप्यतया श्रुता परमगतिरेषैव । एषाऽस्य परमा संपत् । तत्त्वज्ञानादिना प्राप्याऽपि सम्पदेषैव एषोऽस्य परमो लोकः । शाश्वतं भोगस्थानमप्येष एव । एषोऽस्य परम आनन्दः ।
निरतिशयानुकूलोऽप्यस्यायमेव इत्यर्थः । ननु स्वर्गादिषु भोगेषु अनुकूलेषु जाग्रत्सु कथमेतस्य परमानन्दकत्वमित्यत्राह’ - एतस्यैवानन्दस्य…… ‘मात्रां’ उपजीवन्ति । अन्यानि भूतानि - ब्रह्मानुभवितुरन्ये स्वर्गादिवैषयिकसुखानुभवितारः सर्वेऽप्येतदानन्द- सहस्रांशानुभवितार इत्यर्थः ॥ ३२ ॥
[सुषुप्तिस्थानस्य परमानन्दता] स यो मनुष्याणाँ राद्धः समृद्धो भवत्यन्येषामधिपतिः सर्वे’मानुष्यैर्भोगैः सम्पन्नतमः, स मनुष्याणां परमानन्दः । अथ ये शतं मनुष्याणामानन्दाः स एकः पितॄणां जितलोकानामानन्दः । अथ ये शतं पितॄणां जितलोकानामानन्दाः, स एको गन्धर्वलोक आनन्दः । अथ ये शतं गन्धर्वलोक आनन्दाः, स एकः कर्मदेवानामानन्दः ये कर्मणा देवत्वमभिसम्पद्यन्ते । अथ ये शतं कर्मदेवानामानन्दाः, स एक प्रजापतिलोक आनन्दः’, यश्च श्रोत्रियोऽवृजिनोऽकामहतः । अथ ये शतं ‘प्रजापतिलोक आनन्दाः, स एको ब्रह्मलोक आनन्दः’, यश्च श्रोत्रियोऽवृजिनोऽकामहतः ॥ अथैष एव परमानन्द एष ब्रह्मलोकः, सम्राडिति होवाच याज्ञवल्क्यः । सोऽहं भगवते सहस्रं ददामि; अत उर्ध्वं विमोक्षायैव ब्रूहीति । अत्र स ह याज्ञवल्क्यो बिभयाञ्चकार, मेधावी राजा सर्वेभ्यो माऽन्तेभ्य उदरौत्सीदिति ॥ ३३ ॥
प्र. - तस्य परमानन्दत्वमेव मनुष्यानन्दादितारतम्यनिरूपणेन प्रपञ्चयति स यो मनुष्याणां…… परमानन्दः । राद्धः- राध साध संसिद्धौ(धा.पा.१२६३) इति हि धातुः - सिद्धः । उपायैः सिद्धः, युवत्वादिगुणैः समृद्धः, अन्येषाञ्च मनुष्याणामधिपतिः सर्वमानुषभोगैः निरतिशयं सम्पन्नश्च कश्चिद्भवति यदि, सः- उक्तलक्षण आनन्दः मनुष्याणां मध्ये श्रेष्ठ आनन्द इत्यर्थः । अत्र समृद्धत्वादिगुणानां अनुकूलतया वेदनीयत्वादानन्दत्वं अस्तीति द्रष्टव्यम् । अथ…… आनन्दः । शतगुणिता मनुष्याणां ‘पूर्वोक्ताः परमानन्दाः’, श्राद्धादिकर्मभिः ‘पितृृन् तोषयित्वा जितपितृलोका ये पितरः तेषामेक आनन्दो भवतीत्यर्थः एवमग्रेऽपि । स एकः कर्म देवानामानन्दः इत्यत्र कर्मदेवानाम् इत्यस्य अर्थमाह - ये कर्मणा देवत्वमभिसम्पद्यन्ते । देवत्वं हि द्विविधं कर्मसिद्धमाजानसिद्धञ्च । कल्पादावेव यत् सिद्धम्, तत् आजानसिद्धम् तदितरत् कर्मसिद्धम् । यद्वा उपासनसिद्धमाजानसिद्धम् । तदितरत् कर्मसिद्धम् । यद्वा त्रयस्त्रिंशद्देवतासायुज्यं कर्मदेवत्वम् । त्रयस्त्रिंशत् देवतात्मत्व- माजानसिद्धत्वमिति विवेको द्रष्टव्यः । अथ ये शतं….. अकामहतः । श्रोत्रियः - श्रुतवेदान्तः, अत एव अवृजिनः- अपापः, अत एव अकामहतः - ‘उपासननिवृत्त समस्त’क्लेशकाम’ इत्यर्थः । मुक्त इति यावत् । शतगुणिताः कर्मदेवानन्दाः आजानदेवानन्दः एको भवति । तथा उक्तगुणविशिष्टमुक्तानन्दोऽप्येको भवतीत्यर्थः । यद्यपि मुक्तानन्दाजानदेवानन्दयोः मेरुसर्षपवत् तारतम्यमस्ति, तथाप्यन्यूनन्वे तात्पर्यं द्रष्टव्यम् । अथ ये शतं…… अकामहतः । अत्र प्रजापतिशब्दः चतुर्मुखपरः; तैत्तिरीयके समानप्रकरणे, प्रजापतेरानन्दः (ते.आन.१३) इत्येकवचनान्तप्रजापतिशब्दश्रवणात् दक्षादिप्रजापतिपरत्वे बहुवचनान्तताप्रसङ्गेन तत्रत्य प्रजापति’शब्दस्य चतुर्मुखपरतया तदैकार्थेन अत्रत्यप्रजापतिशब्दस्यापि तत्परत्वात् । ततः चतुर्मुखानन्दः शतगुणितो ब्रह्मलोकलक्षण आनन्दो भवति; तथा मुक्तानन्दोऽपि भवतीत्यर्थः । न च ते ये शतं - स एक (तै.आन.१२) इति निर्देशात् ब्रह्मानन्दस्य परिच्छिन्नत्वं शङ्कनीयम् - आधिक्यमात्रे वाक्यतात्पर्यात् । यथा, क्षिप्तेषुरिव सर्पति इति वाक्यं सूर्यस्य गतिमान्द्यनिवृत्तिपरम्, न तु इषुसाम्यपरम्; सूर्यस्य निमेषमात्रे बहुयोजनातिलङ्वि त्वस्य प्रमाणसिद्धत्वात् । एवमस्यापि वाक्यस्य चतुर्मुखा-नन्दापेक्षया आधिक्यमात्रे ‘तात्पर्यमवगम्यते ; ब्रह्मानन्दापरिच्छिन्नत्वस्य श्रुतिसिद्धत्वात् । यद्वा, रोमकूपेष्वनन्तानि ब्रह्माण्डानि भ्रमन्ति ते ।
अण्डानां तु सहस्राणां सहस्राण्ययुतानि च ॥
ईदृशानां तथा तत्र कोटिकोटिशतानि च ॥
गङ्गायां सिकता धारा यथा वर्षति वासवे ।
शक्या गणयितुं लोके न व्यतीताः पितामहाः ॥
इत्यादिभिः। ब्रह्माण्डानां तत्रत्यचतुर्मुखानाञ्चासङ्घेयत्वावगमात् नियाम्यान् “नियन्तुः शतगुणितानन्दत्वे ‘कथिते चतुर्मुखेभ्योऽप्यसंख्याकेभ्यः शतगुणानन्दतया अवगतस्य भगवतोऽपरिच्छिन्नानन्दत्वमर्थसिद्धं द्रष्टव्यम् । आनन्दमयाधिकरणादौ एवमेव व्यासार्यैः वर्णितम् । अथैष एव…… ब्रूहीति । पूर्ववदर्थः । अत्र ह - उदरौत्सीदिति । अर्थ राजा अतीव मेधावी मा - मां सर्वेभ्यः अन्तेभ्यः - अन्तः - निश्चयः निश्चयहेतुभ्यः प्रश्नेभ्यः उदरौत्सीत् - अव (उप) रोधं कृतवान् । सर्वान् प्रश्नान् मामसौ प्रष्टुमुपाक्रमत इत्यर्थः । अत इतःपरं न त्यक्ष्यतीति अत्र राजप्रश्नपरम्परायां विषये याज्ञवल्क्यो बिभयाञ्चकार - बिभेतिस्म इत्यर्थः ॥ ३३ ॥
[जीवस्य बुद्धान्तसञ्चरणम्] स वा एष एतस्मिन् स्वप्नान्ते रत्वा चरित्या दृष्ट्वैव पुण्यञ्च पापञ्च पुनः प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायैव ॥ ३४ ॥
प्र. - अथ याज्ञवल्क्यो जाग्रद्देशादुत्क्रमणं विवक्षुः स्वप्नान्ते अवस्थापितस्य जीवस्य बुद्धान्तसञ्चरणं दर्शयति - स वा एष एतस्मिन् स्वप्नान्ते…… । पूर्ववदर्थः ॥ ३४ ॥
तद्यथाऽनः सुसमाहितमुत्सर्जद्यायात्, एवमेवायेँ शारीर आत्या प्राज्ञे- नात्मनाऽन्वारुढ उत्सर्जन् याति, यत्रैतदूर्ध्वाच्छ्वासि भवति ॥ ३५ ॥
प्र. - अथोत्क्रान्तिमाह - तद्यथाऽनः…… याति । यथा अनः - शकटं सुतरां समाहितं - यात्रोपकरणसंभाराक्रान्तं सत् पूर्वं देशमुत्सृज्य याति, एवमेव शकटस्थानीयोऽयं शारीर ‘आत्मा - जीवः प्राज्ञेन - सर्वज्ञेन आत्मना -परमात्मना सारथिस्थानीयेन अन्वारूढः - सम्बन्धविशेषं प्राप्तः शरीरमुत्सृज्य यातीत्यर्थः । कदा इत्यत्राह - यत्रैतदूर्ध्वाच्छ्वासि भवति । यत्र - यदा एतत् - शरीरमूर्ध्वश्वासि भवति, तदा उत्सृज्य यातीत्यर्थः ॥ ३५ ॥ स यन्नायमणिमानं न्येति जरया वोपतपता वाऽणिमानं निगच्छति । तद्यथाऽम्रं वोदुम्बरं वा पिप्पलं वा बन्धनात् प्रमुच्यते; एवमेवायं पुरुष एभ्योऽङ्गेभ्यः सम्प्रमुच्य पुनः प्रतिन्यायं प्रतियोन्याद्रवति प्राणायैव ॥ ३६ ॥
प्र. - ऊर्ध्वश्वासी भावकालमाह - स यन्नायमणिमानं…… निगच्छति । ‘सोऽयं प्राकृत’ शिरःपाण्यादिमान् पिण्डः यत्र - यदा - अणिमानं - कार्श्यं न्येति - ‘निर्गच्छति’ तत्र हेतुमाह - जरया वा उपतपता वा । स्वयमेव कालपक्वफलवत् जरया वा कार्श्यं गच्छति; अथवा उपतपतीत्युपतपन् ज्वरादिरोगः । तेन वा उपतप्यमानः अग्निमान्द्येन भुक्तस्य अजरणे अन्नरसे नानुपचीयमानस्सन् पिण्डः कार्श्यमापद्यते; तदोर्ध्वश्वासी भवतीत्यर्थः । तद्यथाऽऽम्रं वोदुम्बरं वा…… प्राणायैव । यथा आम्रफलं वा उदुम्बरफलं वा पिप्पलफलं वा! अत्र, फले लुक् (पा.सू.४-३-१६३) इति विकारप्रत्ययस्य लुक् । वृन्तबन्धनात् कालवशजीर्णात् प्रमुच्यते, एवमेवायं पुरुषः सप्राणकरणग्रामः एभ्यः
पाण्यादिभ्योङ्गेभ्यः सम्प्रमुच्य- मोक्षं प्राप्य पुनः प्रतिन्यायं - यथापूर्वमागतः तथैव ‘ब्राह्मणादिप्रारब्धकर्मानुगुणयोनिं’ प्रति आद्रवति प्राणायैव - जीवनाय इत्यर्थः ॥ ३६ ॥
तद्यथा राजानमायान्तमुग्राः प्रत्येनसः सूतग्रामण्योऽन्नैः पानैरावसथैः प्रतिकल्पन्ते, ‘अयमायाति; अयमागच्छति’ इति, एवँ हैवंविदँ सर्वाणि भूतानि प्रतिकल्पन्ते इदं ब्रह्माऽऽयातिः इदमागच्छतीति ॥ ३७ ॥
प्र– तद्यथा…… आगच्छतीति । तत् - तत्र प्रपित्सितयोन्यन्तरे यथा अभिषिक्तं राजानमायान्तं श्रुत्वा राष्ट्रवर्तिनः सर्वेऽपि उग्राः - जातिविशेषाः क्रूरकर्माणो वा, प्रत्येनसः - पापकर्मणि तस्करादिदण्डनादौ नियुक्ताः, सूताः - वर्णसङ्करविशेषाः, ग्रामनेतारः ग्रामण्यः - सूताश्च ग्रामण्यश्च सूतग्रामण्यः अन्नैः - विविधैर्भाज्यैः पानैः , पेयविशेषैः - आवसथैः - प्रासादादिभिश्च, अयं राजा आयाति , अयमागच्छत्तीति ससंभ्रमं वदन्तः प्रतिकल्पन्ते - प्रतीक्षन्ते । एवमेव ह एवं विदं - कर्मफलयुक्तं । संसरन्तमिति यावत् । कर्मफलं हि प्रस्तुतम् । तत् एवं शब्देन परामृश्यते । विच्छब्दस्तल्लब्धृपरः सर्वाणि भूतानि - एतद्भोगीपकरणभूतशरीरसाधनानि सर्वाणि भूतानि तत्तत्कर्मप्रयुक्तानि सन्ति कर्मफलोपभोगसाधनैः सह, इदं ब्रह्म - जीवः आयाति - इदमागच्छत्तीति ससंभ्रमं प्रतिकल्पन्ते - प्रतीक्षन्ते इत्यर्थः । एतच्छरीरत्यागसमनन्तरमेव शरीरान्तरतन्द्भोग्य- भोगस्थान भोगोपकरणानि परमात्मसकल्पवशेन प्रतिपुरुषं समग्राणि भवन्ति इत्यर्थः । यद्वा उक्तसंसरणप्रकाराभिज्ञस्य सर्वभूतोपजीव्यत्वं फलमुक्तमिति द्रष्टव्यम् ॥ ३७ ॥
[जीवस्य अन्तकाले सर्वप्राणसंश्लेषः] तद्यथा राजानं प्रयियासन्तमुग्राः प्रत्येनसः सूतग्रामण्योऽभिसमायन्ति एवमेवे- ममात्मानमन्तकाले सर्वे प्राणा ‘अभिसमायन्ति’ यत्रैतदूर्वोच्छ्वासी भवति ॥ ३८ ॥
प्र. - तद्यथा राजानं…… भवति । यथा प्रयियासन्तं - जिगमिषुं राजानं तदुपजीविनः उग्रप्रत्येनः प्रभृतयः पूर्वव्याख्याताः सर्वे तदाज्ञामन्तरेणापि अभसमायन्ति - आभिमुख्येन आयान्ति, एवमेवेमम् आत्मानं - भोक्तारम्, यत्र -यदा एतत्-
शरीरमूर्ध्वोश्वासि भवति’; तदा अन्तकाले सर्वे प्राणाः आयान्ति इत्यर्थः ॥ ३८ ॥ ॥ इति षष्ठोऽध्याये तृतीयब्राह्मण प्रकाशिका ॥ षष्ठोऽध्याये चतुर्थ ब्राह्मणम् [ज्योतिर्ब्राह्मणम्] स यत्रायमात्माऽऽबल्यंन्येत्य संमोहमिव न्येति, अथैनमेते प्राणा अभि- समायान्ति’ । स एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामति । स यत्रैष चाक्षुषः पुरुषः पराङ् पर्यावर्तते, अथारूपज्ञो भवति ॥ १ ॥
प्र. - अथ, एभ्योऽङ्गेभ्यस्संप्रमुच्या इत्युक्तं सम्प्रमोक्षं विस्तरेण वर्णयितुमारभते स यत्रायमात्मा बल्यं न्येत्य संमोहमिव न्येति इति । सोऽयमात्मा यत्र - यस्मिन् काले आबल्यं- अबलस्य भावः आबल्यं बलराहित्यं न्येत्य-नितरामेत्य प्राप्य संमोहमिव न्येति - प्रतिपद्यते । करणक्षोभात् संमोहं प्रतिपद्यते । इवशब्दोऽल्पार्थे । मोहोप-क्रमदशायामित्यर्थः । मोहो नाम मरणायार्धसम्पत्तिः । तथाहि - उभयलिङ्गपादे जाग्रत्स्वप्नसुषुप्तिमरणानाम् अन्यतमो मोह इति पूर्वपक्षे प्राप्ते उच्यते - मुग्धेऽर्धसम्पत्तिः
परिशेषात् (ब्र.सू.३-२-१०) । न तावत् मुग्धः जागरितावस्थो भवितुमर्हति, इन्द्रियैर्विषय अनिरीक्षणात् । नापि स्वप्नान् पश्यति, निस्संज्ञत्वात् । नापि मृतः, ‘प्राणोष्मणोर्भावात् । न च सुषुप्तः, तद्वैलक्षण्यात् । सुप्तो हि प्रसन्नवदनो निमीलितनेत्रश्च । तस्मान्मोहो नाम मृतेः अर्धसम्पत्तिः । अर्धमृतिरिति यावत् । मरणं हि सर्वप्राणवियोगः । सर्वप्राणवियोगोपक्रम- कतिपयप्राणसम्पत्तिः मूर्च्छा । तत्र औषधादिवशात्, कर्मशेषे च सति वाङ्मनसे प्रत्यागच्छतः । असति तस्मिन् प्राणोष्मणावपि अगच्छतः । तस्मादर्धमृतिर्मूछेति थितम् - अथैनमेते प्राणा अभिसमायन्ति । अथ - तदानीं वागादयः प्राणाः एनमभिमासयान्ति - आत्मनः समीपमायान्ति इत्यर्थः । स एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामति । सः - आत्मा तेजोमय्यो मात्राः तेजोमात्राः । प्रकाशकांशाः इत्यर्थः । इन्द्रियाणीति यावत् । ता एताः समभ्याददानो समिति स्वप्नापेक्षया वैषम्यमुच्यते । अस्त्येव स्वप्नेपि अभ्यादानम् न तु सम्यक् सवासनमभ्यादानम् । इह तु सवासनमभ्यादाय इत्यर्थः । हृदयमेव पुण्डरीकाकारम् अन्ववक्रामति - अन्वागच्छति इत्यर्थः । स यत्रैष…… पर्यावर्तते । चक्षुषि सन्निहितः चाक्षुषः । चाक्षुषः पुरुषः इति म्रियमाणो जीव उच्यते । स यत्र - यदा पराङ् - रूपादिविषयपराङ्मुखस्सन् हृदयदेशे पर्यावर्तते इत्यर्थः । अथारूपज्ञो भवति । अथ - तदुत्तरकाले अयं मुमूर्षुः अरूपज्ञो भवति - रूपादिविषयान् न जानाति इत्यर्थः ॥ १ ॥
एकीभवति, न पश्यतीत्याहुःः एकीभवति, न जिघ्रतीत्याहुः, एकीभवति न रसयत इत्याहुः एकीभवति, न वदतीत्याहुः, एकीभवति, न शृणोतीत्याहुः, एकीभवति, न मनुते इत्याहुः एकीभवति, न स्पृशतीत्याहुः एकीभवति, न विजानातीत्याहुः ॥ तस्य हैतस्य हृदयस्य अग्रं प्रद्योतते । तेन प्रद्येतेनैष आत्मा निष्क्रामति चक्षुषो वा मूर्ध्नो वाऽन्येभ्यो वा शरीरदेशेभ्यः । तमुत्क्रामन्तं प्राणोऽनूत्क्रामति, प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति; सविज्ञानो भवति; सविज्ञानमेवान्ववक्रामति । तं विद्याकर्मणी समन्वारभेते; पूर्वप्रज्ञा च ॥ २॥
प्र. - एकीभवति न पश्यतीत्याहुः । अयं मुमूर्षुः एकीभवति स्वापकाल इव ‘इन्द्रियैः सह एकीभवति’; अतो न रूपादीन् पश्यतीति पार्श्वस्था ‘आहुरित्यर्थः । एकीभवति न जिघ्रति । पूर्ववदर्थः । तस्य हैतस्य…… शरीरदेशेभ्यः । तस्य हैतस्य - म्रियमाणस्य सम्बन्धि यत् हृदयम् तस्य अग्रं -‘नाडीमुखं निर्गमनद्वारं प्रद्योतते - उपसंहतकरणतेजःप्रज्वलितं सत् प्रदीप्तं भवति । तत्प्रकाशितद्वारस्सन् एष आत्मा निष्क्रामति चक्षुरादिद्वारेभ्य इत्यर्थः । तमुत्क्रामन्तं…… अनूत्क्रामन्ति । एवमुत्क्रामन्तं तम् - अध्यक्षं जीवं मुख्यप्राणः अनु - पश्चात् उत्क्रामति । तं मुख्यप्राणं जीवमनूत्क्रामन्तं तदधीना इतरे प्राणाः अनूत्क्रामन्तीत्यर्थः । सविज्ञानो भवति सविज्ञानमेवान्ववक्रामति । तस्यां दशायामुत्क्रामन् जीवः, यं यं वाऽपि स्मरन् भावं
त्यजत्यन्ते कलेबरम् । तं तमेवैति (भ.गी.८-६) इत्युक्तन्यायेन प्राप्तव्ययोनिविषयकस्मृतिमान् भवतीत्यर्थः । तच्च ज्ञानं कर्माधीनम्; न तु पुरुषयत्नसाध्यम् । यं योगिनः प्राणवियोगकाले
यत्नेन चित्ते विनिवेशयन्ति इति स्मृत्युक्तरीत्या योगिनामेव हि चरमं ‘ज्ञान’ यत्नसाध्यम् । एवं सविज्ञानं प्राप्तव्ययोनिचिन्तनवन्तमेव पुरुषं प्राणवर्गो अन्ववक्रामति - अनुगच्छतीत्यर्थः । तं विद्याकर्मणी समन्वारभेते; पूर्वप्रज्ञा च । तं - तादृशं च पुरुषं विद्याकर्मणी-
तदनुष्ठितज्ञानकर्मणी ‘पूर्वप्रज्ञा च ’ - पूर्ववासना च तिस्र इमा अनुवर्तन्ते । तत्र ज्ञानकर्मणी भोग्यविषयोपस्थापनाद्यर्थम्, पूर्ववासना तु कर्तृत्वभोक्तृत्वार्थ चानुवर्तते । न हि पूर्ववासनां विना कश्चित् कर्तुं भोक्तुं वा प्रभवति । न ह्यनभ्यस्ते विषये कोशलमिन्द्रियाणां भवति । पूर्वानुभववासनया प्रवृत्तानाम् इन्द्रियाणामिह जन्मनि अभ्यासमन्तरेणैव कासुचित् क्रियासु चित्रकर्मादिलक्षणासु कौशलं दृश्यते; केषाञ्चिच्चात्यन्तसौकर्ययुक्तास्वपि क्रियासु अकौशलं दृश्यते । तदेतत्सर्वं पूर्ववासनोद्भवानुद्भवनिमित्तकम् । तस्माद्विद्याकर्मपूर्ववासनालक्षणमेतत् त्रितयं शाकटिकसंभारस्थानीयं परलोकपाथेयमित्यर्थः ॥ २ ॥
[दृष्टान्तपूर्वकदेहान्तरप्राप्तिनिरूपणम्] तद्यथा तृणजलायुका तृणस्यान्तं गत्वाऽन्यमाक्रममाक्रम्य आत्मानमुप- सँहरति, एवमेवायमात्मेदँ शरीरं निहत्य अविद्यां गमयित्वाऽन्यमाक्रममाक्रम्यात्मानं उपसँहरति ॥ ३ ॥
प्र– तद्यथा तृणजलायुका……आत्मानमुपसंहरति । यथा ‘तृणजलूका’ तृणस्यान्तं अग्रभागं गत्वा अन्यं - तृणान्तरलक्षणम् आक्रमम् - आक्रम्यते ‘इत्याक्रमः आश्रय इति यावत् । तम् - आक्रम्य - आश्रित्य आत्मानम् - आत्मनोऽपरावयवम् उपसंहरति - पूर्वतृणवियुक्तं करोति, एवमेवायं संसरन् जीवः इदं- प्राक्तनं शरीरं निहत्य तस्यैव विवरणम् अविद्यां गमयित्वेति निस्सङ्गबोधतामापाद्य’ इत्यर्थः। अन्यम् - अन्यशरीरलक्षणम् आक्रमं - आश्रयमाक्रम्य स्वात्मानं पूर्वस्माच्छरीरात् उपसंहरति-
पूर्वशरीरं त्यजतीत्यर्थः ॥ ३ ॥
[देहान्तरप्राप्तिप्रकारः] तद्यथा पेशस्कारी पेशसो मात्रामुपादायान्यन्नवतरं कल्याणतरँ रूपं तनुते; एवमेवायमात्मेदँ शरीरं निहत्य अविद्यां गमयित्वाऽन्यन्नवतरं कल्याणतरँ रूपं कुरुते पित्र्यं वा गान्धर्वं वा देवं वा प्राजापत्यं वा ब्राह्मं वाऽन्येषां वा भूतानाम् ॥ ४ ॥
प्र. - ननु देहान्तरारम्भे प्रागुपात्तमेवोपादानं स्वीकृत्य तदेवोपमृद्य स्वर्णकारवत् देहान्तरं करोति; आहोस्वित् अपूर्वमेव उपादानद्रव्यं स्वीकृत्य करोति’ । तत्राह - तद्यथा……. भूतानाम् । पेशः - सुवर्णम् । तत् करोतीति पेशस्कारी सुवर्णकारः पेशसः -पूर्वोपात्तसुवर्णस्य मात्राम् - एकदेशमुपादाय यथा अन्यत् कल्याणतरं नवतरञ्च रूपं तनुते - कुरुते। यद्वा पेशस्कारी - कोशकारक्रिमिः । स यथा पेशसः
पट्टतन्तोः मात्रां -अंशमुपादाय नवतरं ‘कल्याणतरञ्च रूपं जालात्मकं कुरुते - एवमेवायमात्मा इदं शरीरं निहत्यान्यत् रूपं कल्याणतरं नवतरं कुरुते । अविद्यां गमयित्वेति पूर्ववत् । तदेव रूपं विशिनष्टि पित्र्यं वा । पित्र्यं - ‘पितृभ्यो हितम्’, पितृलोकोपभोगयोग्यम् इत्यर्थः । तथा गान्धर्वं देवं प्राजापत्यं ब्राह्मं - गन्धर्वादिलोकोपभोग्यमित्यर्थः । अन्येषां वा भूतानाम् । अन्यभूतसम्बन्धि वा शरीरं करोतीत्यर्थः । कर्तृत्वञ्चास्य कर्मद्वारकं द्रष्टव्यम् ॥ ४ ॥
[कामादिपदार्थानामेकत्र प्रदर्शनम्] स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयः प्राणमयश्चक्षुर्मयः श्रोत्रमयः पृथिवीमयः आपोमयो वायुमय आकाशमयस्तेजोमयोऽतेजोमयः काममयोऽकाममयः क्रोधमयोऽ क्रोधमयो धर्ममयोऽधर्ममयः सर्वमयः तत् यदेतदिदम्मयोऽदोमय इति । यथाकारी यथाचारी, तथा भवति साधुकारी साधुर्भवति, पापकारी पापो भवति; पुण्यः पुण्येन कर्मणा भवति पापः पापेन । अथो खल्वाहुः काममय एवायं पुरुष इति । स यथाकामो भवति, तत्क्रतुः भवति; यत्क्रतुर्भवति, तत् कर्म कुरुते; यत् कर्म कुरुते, तदभिसम्पद्यते ॥ ५ ॥
प्र. - सा वा अयमात्या…… अदोमय इति । वैशब्दोऽवधारणे । सोऽयं विज्ञानमयः - ज्ञानरूपो ज्ञानगुणक आत्मा ब्रह्मैव सन् अपहतपाप्मत्वादि ब्राह्मरूपयुक्तोऽपि सन् मनोमयः - उपकरणोपकरणित्वलक्षणसम्बन्धेन मनःप्रचुरः । मन उपकरणक इति यावत् । एवं प्राणमय इत्यादावपि द्रष्टव्यम् । अतेजोमयः - तेजोव्यतिरिक्तपूर्वोक्तातिरिक्त- महदहङ्कारादिमयः । तदुपकरणक इत्यर्थः । चतुर्विशतितत्त्वमयत्वात् शरीरस्येतरदनुक्तं सर्वञ्च अतेजोमयशब्दसङ्गृहीतमिति द्रष्टव्यम् । अकाममयः - कामव्यतिरिक्तसङ्कल्प- श्रद्धादिमय इत्यर्थः । अक्रोधमयः- प्रीतिमय इत्यर्थः । ‘तद्येतदिति’ ब्रह्मापेक्षया नपुंसकलिङ्गनिर्देशः । इदंमयोऽदोमयः - एतल्लोकपरलोकमय इत्यर्थः । यथाकारी यथाचारी तथा भवति । यथा कर्तुं यथा आचरितुं शीलमस्य, सोऽयं यथाकारी ययाचारी । अग्निहोत्रादिकं तु कर्म । तद्योग्यतापादकं सन्ध्यावन्दनादिकं तु आचरणम् । एतत् चरणादिति चेन्न
तदुपलक्षणार्थेति कार्ष्णाजिनिः (ब्र.सू.३-१-९) इति सूत्रभाष्ये स्पष्टम् । तथा भवति । तत्फलयुक्तो भवतीत्यर्थः । तदेव प्रपञ्चयति - साधुकारी साधुर्भवति पापकारी पापो भवति । सत्कर्मकारी ब्राह्मणादिरमणीयशरीरयुक्तो भवति; पापकारी श्वचण्डालादि कुत्सितशरीरयुक्तो भवतीत्यर्थः । एते साधुकारीत्वपापकारित्वे अपि प्राक्तनपुण्यपापप्रयुक्ते इत्याह - पुण्यः पुण्येन कर्मणा भवतिः पापः पापेन । अथो खल्वाहुः काममय एवायं पुरुष इति । अथो - शब्दः पक्षान्तरपरिग्रहे । केचिद्वन्धमोक्षकुशलाः खल्वाहुः -प्रसिद्धमित्वमाहुः - यद्यपि पुण्यापुण्ये शरीरग्रहणकारणम्, तथापि कामप्रयुक्त एव हि पुरुषः पुण्यपापे कर्मणी उपचिनोति । तथा च अयं पुरुषः काममय एव । काम एवास्य संसारस्य मूलमित्यर्थः । तथाचोक्तमाथर्वणे, कामान् यः
कामयते मन्यमानः स कामभिर्जायते तत्र तत्र (मुं.उ.३-२-२) इति तस्मात् काममय एवायं पुरुषः । तदेवोपपादयति - स यथा कामो भवति, तत्क्रतुर्भवति । पुरुषस्य येन प्रकारेण कामना उदेति, तेन प्रकारेण ‘क्रतु’शब्दितोऽध्यवसाय उदेति । यत्क्रतुर्भवति, तत् कर्म कुरुते । तदनन्तरमध्यवसितं कर्म कुरुते । यत्कर्म कुरुते, तदभिसम्पद्यते । तस्य फलञ्च प्राप्नोति इत्यर्थः ॥ ५ ॥ तदेष श्लोको भवति- तदेव सक्तः सह कर्मणैति लिङ्गं मनो यत्र निषक्तमस्य । प्राप्यान्तं कर्मणस्तस्य यत्किञ्चेह करोत्ययम् । तस्माल्लोकात् पुनरेत्यस्मै लोकाय कर्मणे ॥ इति तु कामयमानः । अथाकामयमानः योऽकामो निष्काम आप्तकाम आत्मकामः न तस्य प्राणा उत्क्रामन्ति, ब्रह्मैव सन् ब्रह्माप्येति ॥ ६ ॥
प्र– तदेषश्लोको भवति । एतस्मिन्नर्थे अयं श्लोकखण्डो भवतीत्यर्थः । तमेवाह - तदेव सक्तः - निषक्तमस्य । लिंग्यतेऽनेनति लिङ्गं गमकम् । तादृशमस्य जीवस्य मनः यत्र फले निषक्तं निविष्टं भवति, तदेव - तत् फलमेव तत्फलारम्भक कर्मणा सह देहवियोगकालेऽपि सक्तस्सन् एति - प्राप्नोतीत्यर्थः । इत्येषश्लोको भवतीत्यन्वयः’ ॥ प्रकृतमनुसरति - प्राप्यान्तं…… कर्मणे । अयं संसारी इह लोके फलमुद्दिश्य यत् किञ्चित् कर्म करोति, तस्य - कर्मणः अन्तं भोगेनावसानं प्राप्य कृत्स्नफलं भुक्त्वा इति यावत् - तस्मात् - अमुष्मात् लोकात् अस्मै लोकाय पुनरेति । किमर्थमित्यत्राह- कर्मणे - कर्म कर्तुमित्यर्थः । इति तु कामयमानः - एवं कामयमानः संसरतीत्यर्थः । एवमविद्वद्विषयं संसारं सप्रपञ्चमुपवर्ण्य उपसंहृत्याथ विदुषः तद्वैलक्षण्यं दर्शयति अथाकामयमानः…… ब्रह्माप्येति । अथ शब्दोऽर्थान्तरपरिग्रहे । अकामयमानः-
वीतरागः । अत्रोच्यते इति शेषः । योऽकामो निष्काम आप्तकाम आत्मकामः । यः अकामः - कामशून्यः । कथं कामशून्यता इत्यत्राह - निष्काम इति । निर्गताः कामाः यस्मात् स तथोक्तः । पूर्वस्थितानां कामानां निर्गतत्वात् अकामत्वम् उपपद्यत इति भावः । उत्तरकामानां सत्वे निवृत्तपूर्वकामस्यापि कथमकामत्वमित्यत आह - आप्तकाम
इति । आप्ताः कामाः येन स तथोक्तः । अतोऽनुप्तन्नोत्तरकाम इत्यर्थः । कथमाप्तकामत्व इत्यत्राह - आत्मकाम इति । आत्मैव कामो यस्य स तथोक्तः । आत्मव्यतिरिक्तस्य काम्यस्य वस्तुनोऽभावात् आत्मरूपकाम्यस्य नित्यसिद्धत्वात् आप्तकामत्वम्। अत एव अकामत्वञ्च इत्यर्थः, एतादृशस्तु ब्रह्मैव सन् ब्रह्माप्येति इति योजना । ब्रह्मैव सन्
‘आविर्भूतगुणाष्टकरूपब्राह्मरूपस्सन्’ ब्रह्माप्येति - परब्रह्मणि लीनो भवतीत्यर्थः । अपिपूर्वस्य एतेः लयार्थकत्वात् । लयो नाम तद्विविक्ततया दर्शनाभावाः । अपहतपाप्मत्वादि- ब्राह्मरूपसाधर्म्येण परब्रह्मविविक्ततया ‘दर्शनयोग्यो’ भवतीत्यर्थः । ननु एतन्न सम्भवति । ब्राह्मरूपाविर्भावो हि परं ब्रह्म उपसन्नस्यैव भवति परं ज्योतिरूपसम्पद्य स्वेन रूपेणाभि-
निष्पद्यते (छा.उ.८-१२-२) इति श्रवणात् । परब्रह्मोपसम्पत्तिर्नाम देशविशेषविशिष्ट ‘ब्रह्मप्राप्तिरेव’ । सा च देशविशेषे अर्चिरादिमार्गगतिमन्तरेण न सम्भवति । तद्गतिश्च भूतसूक्ष्पयुक्त प्राणादिरूपलिङ्गशरीरयुक्तस्यैव भवति । तद्योगश्च कर्माधीनः । विधूतकर्मणश्च उत्क्रान्तप्राणतया देहेन्द्रियप्राणयोगासम्भवेनार्चिरादिगत्यादेशविशेषविशिष्टब्रह्मप्राप्त्यसम्भवात् ब्राह्मरूपाविर्भावाभावेन, ब्रह्मैव सन् ब्रह्माप्यति इति नोपपद्यते इत्याशक्याह - न तस्य
प्राणा उत्क्रामन्तीति । तस्मात् अकामत्वात् युक्तगुणाज्जीवात् प्राणा नोत्क्रामन्तीत्यर्थः । नटस्य शुणोति इतिवत् अपादानलक्षणसम्बन्धे षष्ठी । अत एव समानप्रकरणे माध्यन्दिन- शाखायाम्, न तस्मात् प्राणा उत्क्रामन्ति इत्यतिस्पष्टं पञ्चमी श्रूयते ।
[आसृत्युपक्रमाधिकरणम्]
इदञ्च वाक्यमुत्क्रान्तिपादे चिन्तितम् । तत्र हि-अत्र ब्रह्म समश्नुते (क.उ.६-१४) इति अत्रैव विदुषः ब्रह्मभावश्रवणात् नोत्क्रान्तिरिति प्राप्ते उच्यते; समाना चामृत्युप-
क्रमादमृतत्वञ्चानुपोष्य (ब्र.सू.४-२-७) । आसृत्युपक्रमात् - आगत्युपक्रमात् नाडीप्रवेशात् प्राक् उत्क्रान्तिः ‘विद्वदविदुषोः समाना’ । शतञ्चैका च हृदयस्य नाडयस्तासां मूर्धानमभि-
निस्सृतैका । तयोर्ध्वमायन्नमृत्वमेति (क.उ.६-१६) इति विदुषोऽपि नाडीविशेषेण उत्क्रान्ति’ श्रवणात् उत्क्रान्तिरवर्जनीयैव । अथ मोऽमृतो भवति अत्र ब्रह्म समश्नुते इति विदुषोऽत्रैव श्रूयमाणं यदमृतत्वम् तत् अनुपोष्य शरीरेन्द्रियसम्बन्धम् अदग्ध्वैव उत्तर- पूर्वाधाश्लेषविनाशरूप’ममृतत्वमश्नुते’ । अत्र ब्रह्म समश्नुते इति च उपासनकाल- ब्रह्मानुभवाभिप्रायम् । तदापीतेः संसारव्यपदेशात् (ब्र.सू.४-२-८) । अवश्यञ्च तत् अमृतत्वमदग्ध- देहसम्बन्धस्यैव वक्तव्यम् । कुतः? आपीतेः संसारव्यपदेशात् । अपीतिः - अप्ययः आब्रह्माप्ययं संसारो हि व्यपदिश्यते; तस्य तावदेव चिरं यावन्न विमोक्ष्ये , अथ
सम्पत्स्ये इति (छां.उ.६-१४-२) अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्
प्रमुच्य । धूत्वा शरीरमकृतं कृतात्मा ‘ब्रह्मलोकमभिसम्भवामि (छां.उ.८-१३-१) इति
व्यपदेशात् । सूक्ष्मं प्रमाणतश्च तथोपलब्धेः । (ब्र.सू.४-२-९) । देवयानेन पथा गच्छतोऽपि विदुषः, तं प्रति ब्रूयात् सत्यं ब्रूयात् (कौ.उ.१-२) इति चन्द्रमस्संवादस्य प्रमाणप्रतिपन्नत्वाञ्च सूक्ष्मं शरीरमामोक्षमनुवर्तते इति अभ्युपगन्तव्यम् । न ह्यशरीरस्य चन्द्रमसा संवादः सम्भवति । नोपमर्देनातः (ब्र.सू.४-२-१०) । अतः **अथ मर्त्योऽमृतो भवति इति श्रूयमाण- ममृतत्वं शरीरेन्द्रियसम्बन्धानुपमर्देनैव उत्तरपूर्वाघाश्लेषविनाशरूपमङ्गीकर्तव्यम् । अस्यैव चोपपत्तेरूष्मा । (ब्र.सू.४-२-११)अस्यसूक्ष्मशरीरस्य क्वचिदुपसंहतत्वादेव विदुषोऽपि म्रियमाणस्य क्वाचित्क ऊष्मा उपलभ्यते । प्रतिषेधादिति चेन्न शरीरात् स्पष्टो ह्येकेषाम् । (ब्र.सू.४-२-१२) ननु योऽकामो निष्काम आप्तकाम आत्मकामो न तस्य प्राणा उत्क्रामन्ति इति विदुषो देहादुत्क्रान्तिः प्रतिषिद्धा । न च इदं शारीरापादानकोत्क्रमणनिषेधपरमिति वाच्यम् - यत्रायं पुरुषो
म्रियते उदस्मात् प्राणाः क्रामन्ति आहो न (बृ.उ.५-२-११) इत्यार्तभागप्रश्ने, नेति होवाच
याज्ञवल्क्यः । स उच्छ्वयत्याध्मायत्याध्यातो मृतश्शेते (बृ.उ.५-२-११) इति उच्छूनत्वादीनां शरीरधर्माणां प्रतिपादनेन शरीरापादकोत्क्रमणप्रतिषेधकस्यैव’ युक्तत्वात् । न हि शरीरस्योच्छूनत्वम् आध्यातत्वं शयितृत्वं वा युज्यते । अतः शरीरापादानकोत्क्रमणनिषेधात् नोत्क्रान्तिर्विदुष इति चेन्न - शारीरादेव उत्क्रमणं प्रतिषिध्यते। एकेषां माध्यन्दिनानामाम्नाये विस्पष्टम् योऽकामो निष्काम आत्मकाम आप्तकामो - न तस्मात् प्राणा उत्क्रामन्ती
इति शारीरापादानकोत्क्रमणप्रतिषेधात् । काण्वशाखायां तु न तस्य प्राणा इति षष्ठी, नटस्य शृणोतीतिवत् अपादानत्वलक्षणसम्बन्धपरा । उदस्मात् प्राणाः क्रामन्त्याहो न
इत्यार्तभागप्रश्ने तु विदुषः अप्रस्तुतत्वेनाविद्वद्विषयत्वावश्यम्भावेन अविदुषश्च शरीरादुत्क्रान्तेः प्रतिषेद्धुमशक्यतया तत्रापि शारीरापादानकोत्क्रमणप्रतिषेधपरत्वस्यैव युक्तत्वात् । न च तत्र वाक्यशेषश्रुतानां ऊच्छूनत्वादीनामात्मन्यनुपपत्तिःदेहात्मनोरभेदोपचारेण देहधर्माणामुच्छूनत्वादीनाम् आत्मन्यभिधान ‘उपपत्तेः’ । शरीरापादानकोत्क्रान्ति- प्रतिषेधवादिनापि, आत्मकामः - न तस्मात् प्राणा उत्क्रामन्ति इति माध्यन्दिनशाखावाक्ये अभेदोपचारस्यावश्याश्रयणीत्वात् न च प्राणानां शरीरादुत्क्रान्तेः अप्रसक्ततया प्रतिषेधो न युक्त इति वाच्यम् - वृक्षादुड्डीयमान विहङ्गमसङ्घवत् यथायथं गमनसम्भवात्। तस्य
तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्ये (छा.उ.६-१४-२) इति देहवियोगानन्तर- ब्रह्मसम्पत्तिवचनेन तदानीमेव शारीरात् प्राणोत्क्रमणस्य प्रसक्तत्वाच्च । तथा च सूक्ष्मशरीरसाध्यार्चिरादिगत्यभावे ब्रह्मसंपत्तेः तत्साध्याया अनुपपत्तिरिति शङ्कापरिहाराय न तस्य प्राणा उत्क्रामन्ति इत्युच्यते इति निरवद्यम् । अतो विद्वदविदुषोरुत्क्रान्तिः समाना इति स्थितम् । प्रकृतमनुसरामः ॥ ६ ॥ तदेष श्लोको भवति- यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि ‘स्थिताः । अथ मर्त्योऽमृतोभवत्यत्र ब्रह्म समश्नुते ॥ इति । ‘तद्यथाऽहिनिर्न्वयनी’ वल्मीके मृता प्रत्यस्ता शयीता, एवमेवेदँ शरीरँ शेते । अथायमशरीरोऽमृतः प्राणो ब्रह्मैव तेज एव । सोऽहं भगवते सहस्रं ददामीति होवाच जनको वैदेह ॥ ७ ॥
प्र. - तदेष श्लोको भवति । तत् - तत्र ब्रह्मविदि विषये एष श्लोकः प्रवृत्तो भवतीत्यर्थः। श्लोकमेवाह - यदा सर्वे…… समश्नुते इति । कामाः - दुर्विषय- गोचरमनोरथाः अस्य - जीवस्य हृदि श्रिताः - हद्गताः सर्वे यदा शान्ता भवन्ति, अथ- अनन्तरमेवोपासको’ मर्त्यः सन् अमृतो भवति - विनष्टाश्लिष्टपूर्वोत्तराघो भवति। अत्र ब्रह्म समश्नुते - अत्रेव उपासनवेलायां ब्रह्म अनुभवतीत्यर्थः । पापसम्बन्ध- राहित्येन, ब्रह्मानुभवेन च इहेव मुक्त इव भवतीति यावत् । तद्यथा…… शरीरं शेते । यथा अहेः निल्वयनी सर्पस्य निर्मोकः सर्पेण वल्मीके प्रत्यस्ता - विसृष्टा सर्पासंसक्ता अत व मृता - निष्प्राणा अपि दूरे पश्यतां सर्पवदवभासमाना शयीत । एवमेव ब्रह्मविदः शरीरमहम्बुद्ध्यगोचरतया परित्यक्तमपि, पश्यतां ब्रह्मविच्छरीरमिव भासमानं ‘शेते इत्यर्थः । अथायमशरीरो…… तेज एव । अथ - दर्शनसमानाकारब्रह्मविद्याधिगमोत्तरकालम् अयं - ब्रह्मवित् अमृतोऽपि - मरणहितोऽपि मरणात् प्रागपि अशरीरः - अशरीरकल्प एव इत्यर्थः । शरीरस्पर्शिपरिवादादिजनितविषादाद्यभावात् इति भावः । प्राणो ब्रह्मैव । ‘प्राणभृत्त्वेऽपि तादात्विकब्रह्मानुभवसत्त्वात् आविर्भूतब्राह्मरूप इवेत्यर्थः । तेज एव-
अज्ञानवक्षणान्धकारप्रतिभट एवेत्यर्थः । एवं प्राप्तब्रह्मविद्यो जनक आह (किमिति) सोऽहं भगवते सहस्रं ददामीति । स्पष्टोऽर्थः ॥ ७ ॥
तदेते श्लोका भवन्ति- अणुः पन्था विततः पुराणो मां स्पृष्टोऽनुवित्तो मयैव । तेन धीरा अपियन्ति ब्रह्मविदः स्वर्ग लोकमित ऊर्ध्वं विमुक्ताः ॥ ८ ॥
प्र– तदेते श्लोका भवन्ति । तत् - तत्र तस्मिन् विषये, ब्रह्मविद्विषये एते श्लोका भवन्तीत्यर्थः । तानेवाह - अणुः पन्थाः…… मयैव । ‘अणुः - दुर्विज्ञानः’ मानान्तरानधिगम्यः, ‘विततः’ - वेदान्तेषु विस्तरेण प्रतिप्रादितः, पुराणः - अनादिः, मां स्पृष्टः - उपासकं मां प्राप्तः शताधिकनाडीद्वारा स्वदेहस्पर्शीत्यर्थः । मयैवानुवित्तः
योगदशायां मयैवानुभूतश्च योऽयं पन्थाः अर्चिरादिमार्गः, तेन मार्गेण धीराः - प्रज्ञाशालिनो ब्रह्मविदः इतः- अस्मात् देहात् विमुक्तास्सन्तः ऊर्ध्वं - सर्वेभ्यो लोकेभ्यः ऊर्ध्वं स्वर्गं लोकं - भगवल्लोकम् अत्र स्वर्गशब्दः प्रकरणात् भगवल्लोकपरः - अपियन्ति-
प्राप्नुवन्तीत्यर्थः ॥ ८ ॥ तस्मिञ्छुक्लमुत नीलमाहुः पिङ्गलं हरितं लोहितञ्च । एष पन्था ब्रह्मणा हानुवित्तस्तेनैति ब्रह्मवित् पुण्यकृत् तैजसश्च ॥ ९ ॥
प्र– तस्मिन्…… तेजसश्च । तस्मिन् - अर्चिरादिके मार्गे शुक्लं नीलं पिङ्गलं हरितं लोहितम् - आदित्यमित्यर्थः । असौ वा आदित्यः पिङ्गल एष शुक्ल एष
नील एष पीत एष लोहितः (छां.उ.८-६-१) इति श्रुत्यन्तरात् । एतादृशमादित्यं तस्मिन् मार्गे सन्तमाहुः शास्त्रविदः । एष पन्थाः - एषोऽर्चिरादिः पन्थाः ब्रह्मणा हानुवित्तः-
परब्रह्मणा सह तत्प्रापकतया ह प्रसिद्धं यथा तथा सम्बद्धः । ब्रह्मपथ इति श्रुतिप्रसिद्ध इति यावत् । तेन - उक्तेनाचिरादिमार्गेण पुण्यकृत् ब्रह्मवित् - पूर्वं पुण्यं कृत्वा तद्वशेन शुद्धान्तःकरणो ब्रह्मविच्च, तैजसश्च तेजस्सम्बन्धी तेज उपासकः - पञ्चाग्निविद्यानिष्ठश्चेति यावत् - एति - गच्छतीत्यर्थः । तद्य इत्थं विदुः ये चे मेऽरण्ये श्रद्धा तप इत्युपासते
(छां.उ.५-१०-१) इति श्रुत्यन्तरे पञ्चाग्निविदां ब्रह्मविदाञ्च अर्चिरादिगतिश्रवणात् । यद्यपि पञ्चाग्निविद्यापि ब्रह्मात्मकप्रत्यगात्मविद्यात्वात् ब्रह्मविद्यैव - अथापि विद्यान्तरवत् ब्रह्मविशेष्यकविद्यात्वाभावात् ब्रह्मवित् तेजसश्च इति पृथगुक्तिरिति द्रष्टव्यम् ॥ ९ ॥
[अविदुषः अन्धतमसाभिगमनम्] अन्धं तमः प्रविशन्ति योऽविद्यामुपासते । ततो भूय इव ते तमो य उ विद्यायाँ रताः ॥ १० ॥
प्र. - ब्रह्मवित्पुण्यकृदित्युक्तं कर्माङ्गकज्ञानस्य ब्रह्मप्राप्तिहेतुत्वं स्पष्टयति - अन्धं तमः…… रताः । ये अविद्याम् उपासते - अत्र अविद्याशब्दः कर्मवाची । अविद्याकर्मसंज्ञान्या
(वि.पु.६-७-६१) तर्तुं मृत्युमविद्यया (वि.पु.६-६-१२) इति च वचनात् - ये केवलं स्वर्गादि- फलोद्देशेन कर्मानुतिष्ठन्ति, न तु ब्रह्मज्ञानार्थितया, ते अन्धं तमः प्रविशन्ति दुस्तरं संसारलक्षणमन्धकारं प्रतिपद्यन्ते इत्यर्थः । य उ विद्यायां रताः उ शब्दोऽवधारणे - नित्यनैमित्तिकं कर्म परित्यज्य विद्यायामेव यतन्ते ये तेऽपि ततः मोहात् तस्य परित्यागः
तामसः परिकीर्तितः (भ.गी.१८-७) इत्युक्तरीत्या तस्मात् तामसत्यागवशात् भूय इव तमः- इव शब्दः एवार्थः । प्रविशन्तीत्यनुषङ्गः । पूर्वस्मादधिकं संसारमेव प्रविशन्तीत्यर्थः । उक्ततामसत्यागप्रयुक्तमनोमालिन्येन ज्ञानानिष्पत्त्या फललेशमपि अलब्ध्वा पतिता भवन्तीत्यर्थः । नानेन वचनेन ज्ञानकर्मणोः समुच्चय इति मन्तव्यम् ; ज्ञानव्यतिरिक्तोपायनिषेधकवचनैः ज्ञानस्य मोक्षोपायत्वप्रतिपादकवचनैः, कर्मणां ज्ञानाङ्गत्वप्रतिपादकवचनैश्च, नान्यः पन्था
अयनाय विद्यते, (तै.सं.३-१२-७) ब्रह्मविदाप्नोति परम् (ते.आन.१-१) तमेतं वेदानु-
वचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन (बृ.उ.६-४-२२) इत्यादिभिः भूयोभिः विरोधप्रसङ्गात् ॥ १० ॥ अनन्दा नाम ते लोका अन्धेन तमसाऽऽवृताः । ताँस्ते प्रेत्याभिगच्छन्ति अविद्वांसोऽबुधो जनाः ॥ ११ ॥
प्र. - अन्धतमसप्रवेशे किं भवतीत्यत्राह - अनन्दा नाम…… जनाः । अनन्दाः - सुखलेशशून्याः अन्धतमसावृताः केचन लोकाः सन्ति । तान् लोकान् मृत्वा गच्छन्ति ते । के? ये अविद्वांसः - ‘ब्रह्मज्ञानहीनाः’; अबुधः - ये प्रत्यगात्मविद्याशून्याः । पञ्चाग्निविद्याशून्या इति यावत् । पूर्वं तयोरेव प्रस्तुतत्वादिति द्रष्टव्यम् । बुध इति बुध्यतेः क्विबन्तस्य प्रथमाबहुवचनान्तस्य रूपम् ॥ ११ ॥
[देवकर्तृकं ज्योतिषां ज्योतिष उपासनम्] आत्मानञ्चेद्विजानीयादयमस्मीति पूरुषः । किमिच्छन् कस्य कामाय शरीरमनु संज्वरेत् ॥ १२ ॥
प्र– आत्मानञ्चेद्विजानीयात्…… संज्वरेत् । यदि अयं पूरुषः - जीवः स्वात्मानम्, अयमस्मि - एतादृशोऽहमस्मि - देहेन्द्रियमनःप्राणधीविलक्षणो ब्रह्मात्मकोऽहम् अस्मीति विजानीयात्, तदा देहेन्द्रियोपभोग्येषु लोकादिषु स्पृहाया अभावात् ; देहाद्यभि- मानकाले स्वबन्धुभूततया अभिमतभार्यापुत्रादेरपि अभावाच्च किमिच्छन् - स्वस्य किं वा फलमिच्छन् कस्य कामाय - स्वानुबन्धिनो वा कस्य दारपुत्रादिकस्याभीष्टाय शरीरमनुसंज्वरेत् - शरीरानुबन्धिफलमनुस्मृत्य कुतस्तप्येदित्यर्थः । अतोऽसौ कृतकृत्य एवेत्यर्थः ॥ १२ ॥ यस्यानुवित्तः प्रतिबुद्ध आत्माऽस्मिन् ‘सन्देहे। गहने प्रविष्टः । स विश्वकृत् स हि सर्वस्य कर्ता तस्य लोकः स उ लोक एव ॥ १३ ॥
प्र. - पुनरपि स्तौति - यस्यानुवित्तः…… प्रविष्टः । गहने - विषमे अस्मिन् - अनर्थशतसङ्कटे देहे प्रविष्टस्सन् यस्य - जीवस्य आत्मा - स्वरूपं प्रकृतिविविक्तत्व- ब्रह्मात्मकत्वश्रवणमननाभ्यासेन अनुवित्तः - अवगतः प्रतिबुद्धः ध्यातश्च भवतीत्यर्थः । स विश्वकृत् - स एव लोककृत् । ईश्वरवत् जगद्वन्द्य इति यावत् । तत्र हेतुमाह - स हि सर्वस्य कर्ता तस्य लोकः उ लोक एव । लोकः - आश्रयभूतः उ - सर्वश्रुतिप्रसिद्धः सर्वस्य कर्ता य ईश्वरः, तस्यापि स तु ‘पूर्वोक्तब्रह्मवित्’ लोक एव - आधार एव । ज्ञानी त्वात्मैव मे मतम् (भ.गी.७-१८) इति भगवतैव गीतत्वात् भगवतो ज्ञानिनं विना आत्मसत्ताया अभावात् इति भावः । उ शब्दः प्रसिद्धी ॥ १३ ॥
इहैव सन्तोऽथ विद्मस्तद् वयं न चेदवेदिर्महती विनष्टिः । य एतद्विदुरमृतास्ते भवन्त्यथेतरे दुःखमेवापियन्ति ॥ १४ ॥
प्र. - इहैव…… विनष्टिः । इहैव सन्तः अस्मिन्नेव जन्मनि वर्तमाना वयं तत्- ब्रह्म विद्मः-जानीमः । न चेत्- जानीमः, तर्हि अवेदिः -वेदनं वेदिः । ‘सर्वधातुभ्यः इन्’ (उणादि.५५७) इति इन्प्रत्ययः । नः ‘स्वरार्थः । अवेदिः - अज्ञानं भवति । तदिदञ्च महती विनष्टिः - महाहानिरित्यर्थः । तेन ज्ञानस्यास्मिन्नेव जन्मनि प्राप्तस्य महालाभरूपत्वमार्थिकम् । इदं ज्ञानाज्ञानयोरेव महालाभहानित्वं दर्शयति य एतद्विदुः…… अपियन्ति । एतत् - परब्रह्म । अमृताः -मुक्ताः । इतरे-
एतद्वैदनहीनाः दुःखं - संसारम् । ‘शिष्टः स्पष्टार्थः’ ॥ १४ ॥
यदैतमनुपश्यत्यात्मानं देवमञ्जसा । ईशानं भूतभव्यस्य न ततो विजुगुप्सते ॥ १५ ॥
प्र. - तज्ज्ञानस्य महाफलत्वमेवाह - यदैतम्…… न ततो विजुगुप्सते । यदा एतं भूतभव्यादेरीशितारं देवं - द्योतमानं सर्वभूतानाम् आत्मानम् - अन्तर्यामिणं द्राक् अनुपश्यति - सम्यक् पश्यति, ततः - तदा सर्वस्यापि एकात्मकत्वज्ञानात् न विजुगुप्सते - सर्ववस्तुषु निन्दा न प्रवर्तत इत्यर्थः ॥ १५ ॥ यस्मादर्वाक् संवत्सरोऽहोभिः परिवर्तते । तं देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम् ॥ १६ ॥
प्र– यस्मात्…… परिवर्तते । यस्मात् - भूतभव्येशानात् परमात्मनः ‘अर्वाक्’ - तदन्यविषय एवेति यावत् । कालात्मा संवत्सरः स्वावयवैरहोभिः परिवर्तते - परिच्छेदकत्वेन वर्तते । य आत्मा संवत्सरमासादिलक्षणकालपरिच्छेदात् अतीत इत्यर्थः । तं देवाः…… अमृतम् । ज्योतिषां ज्योतिः- प्रकाशकानां प्रकाशकम्, अमृतं-
कालापरिच्छिन्नम्, आयुः - सर्वप्राणिप्राणनहेतुभूतं तं ह देवा उपासते - देवोपास्यत्वं तु तस्यैवेत्यर्थः । उक्तञ्च व्यासार्यैः, ज्योतिषि भावाच्च (ब्र.सू.१-३-३१) इति सूत्रे, ‘देवा
एव ज्योतिरुपासते’ इति वा, ‘देवा ज्योतिरेवोपासते’ इति वा वाक्यभङ्गी स्यात् । तत्र न प्रथमः कल्पो युज्यते; मनुष्याणामनधिकारप्रसङ्गात् । तस्मात् ज्योतिरेवोपासते इत्यर्थः इति ॥ १६ ॥
[पञ्चपञ्चजनशब्दार्थविचारः] यस्मिन् पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः । तमेवमन्य आत्मानं विद्वान् ब्रह्मामृतोऽमृतम् ॥ १७ ॥
प्र. - यस्मिन् …… प्रतिष्ठितः । ‘पञ्चजनसंज्ञाः पञ्च’, आकाशश्च यत्र प्रतिष्ठित इत्यर्थः । अत्राकाशशब्दो भूतान्तरस्याप्युपलक्षकः । पूर्वस्मिन् मन्त्रे ज्योतिषां ज्योतिरिति
‘षष्ठ्यन्तज्योतिश्शब्दस्यार्थनिर्णायकसापेक्षत्वात्’, अत्र ‘पञ्चजनस्याप्यर्थनिर्णायकान्तर- सापेक्षत्वाच्च, पञ्चत्वसंख्यान्वययोग्यानि ज्योतीषीन्द्रियाणि एवेत्यवसीयन्ते । उक्तञ्च व्यासार्यैः श्रुत्यैव पञ्चसङ्ख्या विशेषितत्वात् पञ्चसङ्ख्यज्योतिरन्तरप्रसिद्ध्यभावाच्च परिशेषेणेन्द्रिय-
त्वावगम इति । तमेवमन्य…… अमृतम् । तादृशमात्मानम् अमृतं ब्रह्मेत्येवं विद्वान् अन्यः - पूर्वमन्त्रे उपासकत्वेनोक्तदेवेभ्योऽन्यो मनुष्योऽप्यमृतो भवतीत्यर्थः ॥ १७ ॥ प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रम् । मनसो ये मनोविदुः, ते निचिक्युर्ब्रह्म पुराणमग्र्यम् ॥ १८ ॥
प्र– पञ्चजनशब्दनिर्दिष्टानि ज्योतींषि कानि इत्यपेक्षायां आह - प्राणस्य…… पुराणमग्र्यम् । अत्र प्राणशब्देन स्पार्शनेन्द्रियं गृह्यते; वाय्वाप्यायितत्त्वात् स्पार्शनेन्द्रियस्य मुख्यप्राणस्य ज्योतिश्शब्देन प्रदर्शनायोगात् । चक्षुष इति चक्षुरिन्द्रियं गृह्यते । श्रोत्रस्येति
श्रोत्रेन्द्रियम् । मनस इति मनो गृह्यते । समानप्रकरणे माध्यन्दिनशाखायाम् , ‘अन्नस्यान्नम्
इति’, पाठात् ‘अनुक्तमन्यतो ग्राह्यम् ’ इति न्यायेन तदपि गृह्यते । सूत्रितञ्च ज्योतिषैकेषाम-
सत्यन्ने’ (ब्र.सू.१-४-१३) इति । ‘अन्नशब्देन च अन्नसम्बन्धिनोः’ घ्राणरसनयोः ‘तन्त्रेण ग्रहणम् । अन्नेन घ्राणस्य आप्यायितत्त्वलक्षणसम्बन्धः, रसनस्य अन्नभक्षकतया अन्नसम्बन्ध इति द्वयोरपि ग्रहणम् । एतत्सर्वं भाष्यश्रुतप्रकाशिकयोः स्पष्टम् । एवं प्रकाशकत्वेन ज्योतिश्शब्दितत्वक्चक्षुरादीन्द्रियाणामपि त्वक्चक्षुरादिवत् प्रकाशकम् - तेषां तत्तद्विषय- ग्रहणशक्तयाधायकमित्यर्थः । एतादृशं ये जानन्ति, ते पुराणं - पूर्वस्थितम् अग्र्यम् - अग्रे ऊर्ध्वमपि स्थितं ब्रह्म - परं ब्रह्म निचिक्युः - निश्चितवन्त इत्यर्थः ॥
[सङ्ख्योपसङ्ग्रहाधिकरणम्]
इदञ्च चिन्तितं समन्वयाध्याये चतुर्थे पादे । तत्रहि - यस्मिन् पञ्चपञ्चजना
आकाशश्च प्रतिष्ठितः इति वाक्ये पञ्चत्वविशेषितया पञ्चसङ्ख्यया पञ्चविंशतिसङ्ख्याप्रतीतेः साङ्ख्य स्मृति सिद्धाब्रह्मात्मकपञ्चविंशतितत्त्वप्रतिपादकमेवेदं वाक्यमिति पूर्वपक्षे प्राप्ते उच्यते न सङ्घयोपसङ्ग्रहादपि नानाभावादतिरेकाच्च (ब्र.सू.१-४-११) पञ्चविंशतिसङ्ख्या- प्रतीतिवशादपि न साङ्ख्याभिमततत्त्वस्वीकारः नानाभावात् - नानात्वात् । भिन्नत्वादिति यावत् । साङ्ख्याभिमताब्रह्मात्मकपञ्चविंशतितत्त्वेभ्यः, यस्मिन् पञ्च पञ्चजनाः इति ब्रह्माधारकतया ब्रह्मात्मकत्वेन प्रतिपाद्यमानानां तत्त्वानां भिन्नत्वादित्यर्थः । अतिरेकाच्च यस्मिन् पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः वाक्ये यस्मिन्नित्याधारतया निर्दिष्टस्यात्मनश्च, आकाशश्च प्रतिष्ठित ‘इत्याकाशस्य च’ प्रतिपादनेन सप्तविंशतितत्त्वप्रतीतेश्च न साङ्ख्यमत- प्रत्यभिज्ञानम् । न सङ्घयोपसङ्ग्रहादपि इत्यपिशब्दात्, वस्तुतः सङ्ख्योपसङ्ग्रहोऽपि नास्ति; पञ्चभिरारब्धसमूहपञ्चकासम्भवात् । न हि तन्त्रप्रसिद्धेषु ‘तत्त्वेषु पञ्चसु ‘पञ्चत्व’संख्यानिवेश निमित्तं जात्यादिकमस्ति । न च पञ्चकर्मेन्द्रियाणि, पञ्चज्ञानेन्द्रियाणि, पञ्चमहाभूतानि, पञ्चतन्मात्राणि, अवशिष्टानि पञ्च इत्यवान्तरसङ्घयानिवेशनिमित्तमस्त्येवेति वाच्यम् - आकाशस्य ‘पृथङ्निर्देशेन पञ्चभिरारब्धमहाभूतसमूहासिद्धेः । अतः पञ्चजना इत्ययं समासो न समाहारविषयः । अपि तु दिक्सङ्घचे संज्ञायाम् (पा.सू.२-१-५०) इति संज्ञाविषयः । ‘अन्यथा पञ्च पञ्चपूल्ये इतिवत् पञ्च पञ्चजन्य इति स्यात् । ततश्च, सप्तसप्तर्षयो अमलाः इतिवत् पञ्च पञ्चजना इति निर्देश उपपद्यते । के पुनस्ते पञ्चजना इत्यत्राह - प्राणादयो वाक्यशेषात् (ब्र.सू.१-४-१२) । प्राणस्य
प्राणम् इति वाक्यशेषश्रुताः प्राणचक्षुश्श्रोत्रा मनोरूपाः पञ्चार्था अवसीयन्ते । नन्वेवं काण्वानामन्न पाठाभावात् कथं पञ्चपञ्चजनप्रतीतिरित्यत्राह-ज्योतिषैकेषामसत्यन्ने । एकेषां काण्वानां पाठे असति अन्ने, तं देवा ज्योतिषां ज्योतिरिति प्रक्रमश्नुत- षष्ठ्यन्तज्योतिश्शब्दादेव पञ्चजनशब्दितानि इन्द्रियाणि इत्यवसीयन्ते । ज्योतिश्शब्दस्यापि अर्थनिर्णायकसापेक्षत्वात् ; पञ्चजनशब्दस्यापि अर्थनिर्णायक सापेक्षत्वात् ; परस्पराकाङ्क्षा- वशेन पञ्चत्वसङ्ख्यायुक्तानि प्रकाशकतया ज्योतिश्शब्दितानि इन्द्रियाण्येव पञ्चजना इति स्थितम् । प्रकृतमनुसरामः ॥ १८ ॥
[मनसा ब्रह्मण दर्शनम्] मनसैवानु द्रष्टव्यं नेह नानास्ति किञ्चन । मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ॥ १९ ॥
प्र. - तज्ज्ञाने साधनमाह - मनसैवानु द्रष्टव्यम् । अनु - पश्चात् । श्रवणमननान्तरम् इत्यर्थः । मनसैव द्रष्टव्यम् । दर्शनसमानाकारस्मृतिसन्ततिरूपध्यानं विशुद्धेन मनसा सम्पाद्यमित्यर्थः । नन्वेकस्यात्मनः पञ्चजनभूताकाशाद्याधारत्वं न सम्भवतीति मन्यमानं प्रत्याह- नेह नानास्ति किञ्चन । इह - द्रष्टव्ये ब्रह्मणि नानाशब्दो भावप्रधानः नानात्वमित्यर्थः । यस्मिन् पञ्च पञ्चजना इति मन्त्रनिर्दिष्टे आत्मनि किञ्चन ‘नानात्वं’ नास्ति; भेदलेशोऽपि नास्ति इत्यर्थः । मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति । इवशब्दः अल्पार्थः । इह निखिलप्रपञ्चाधारभूते आत्मनि अल्पमपि नानात्वं यः पश्यति, स मृत्योर्मृत्युमाप्नोति संसारात् संसारम् आप्नोति । अत्यन्तं संसारमाप्नोति इत्यर्थः । अस्य वाक्यस्य परैरप्येवमेव व्याख्यातत्वात् नात्र वाक्ये प्रपञ्चमिथ्यात्वप्रतिपादन- प्रत्याशा कार्या । विज्ञानमात्रास्तित्वनिरासिभिः, नाभाव उपलब्धेः (ब्र.सू.२-२-२७) वैधर्म्याच्च न स्वप्नादिवत् (ब्र.सू.२-२-२८) न भावोऽनुपलब्धेः (ब्र.सू.२-२-२९) इति सूत्रैः सर्वशून्यत्वनिरासिना सर्वथानुपपत्तेश्च (ब्र.सू.२-२-३०) इति सूत्रेण च प्रपञ्चमिथ्यात्ववादस्य निरस्तत्वाच्च । तत्र हि - विज्ञानमेव तत्त्वम् ; नान्यत् परमाणुसमुदायरूपं ‘तदारब्धावयविरूपं वा किञ्चिदस्ति; परमाणूनामप्रमाणिकत्वात् । तेषां क्षणिकानां समुदायभावसम्भवात् । निरवयवेषु परमाणुषु संयोगस्य व्याप्यवृत्तित्वाव्याप्यवृत्तित्वविकल्पदुःस्थत्वेन अवयवेषु अवयविनः कृत्स्नैकदेशविकल्पदुःस्थत्वेन च परस्परसंयुक्तावयवतदाश्रितावयसम्भवाच्च । ‘बाह्यार्थानाम्’ ‘आन्तरविज्ञानसम्बन्धानिरूपणेन तद्विषयत्वासम्भवाच्चः, सम्बन्धं विना विषयत्वे सर्वविषयाणामेकस्मिन्नेव विज्ञाने अवभासप्रसङ्गात् । न च बाह्यार्थाभावे नीलपितादिज्ञानानां निरालम्बनत्वापातः; ज्ञानानामेव नीलपीताद्याकारत्वात् । नीलादिकं ज्ञानाभिन्नं ज्ञानोपलम्भव्याप्योपलम्भविषयत्वात् ज्ञानवत् । व्याप्यत्वस्याभेदेऽपि सम्भवेन न दृष्टान्तासिद्धिः । न च नीलतज्ज्ञानयोरभेदे, ‘अहमिदं जानामीति’ क्रियाकर्मकर्तृभावेन ‘भेदभावसविरोध इति वाच्यम् तस्य द्विचन्द्रज्ञानवत् भ्रान्तत्वात् । तथाऽहुः - सहोपलम्भनियमादभेदो नीलतद्धियोः ।
भेदस्तु भ्रान्तिविज्ञानैर्दृश्यश्चन्द्र इवाद्वये ॥
अविभागोऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः ।
ग्राह्यग्राहक संवित्तिभेदवानिव लक्ष्यते ॥ इति ।
ननु सर्वस्याप्यान्तरत्वे बाह्यत्वावभासः कथमिति चेत् - न - उपरिस्थितानां नक्षत्रादीनामुद्यतां भूमिष्ठत्वावभासवत् बाह्यत्वावभासस्यापि भ्रमत्वात् । अपिच स्तम्भज्ञानं कुड्यज्ञानमित्येवंरूपज्ञानपक्षपातस्य ज्ञानगतं विशेषमन्तरेणानुपपत्तेः अवश्यं विषयसारूप्यं ज्ञानस्य अभ्युपगन्तव्यम् । ततश्चाङ्गीकृते ज्ञानगताकारे आकारद्वयानुपलम्भादपार्थिका बहिरर्थकल्पना । स्वप्नादिवच्च इदं द्रष्टव्यम् । यथा हि स्वप्रमायामरीच्युदकगन्धर्वनगरादिप्रत्ययाः विनैव बाह्यार्थेन ग्राह्यग्राहकाकाराः भवन्ति । एवं जागरितप्रत्यया अपि । प्रत्ययत्वा- विशेषात् । कथं पुनः असति बाह्येऽर्थे प्रत्ययवैचित्र्यमुपपद्यत इति चेन्न - वासनावैचित्र्यस्यैव नियामकत्वात् । अनादौ हि संसारे बीजाङकुरवत् ज्ञानानां वासनानाञ्चान्योन्यनिमित्तकत्वेन वैचित्र्यात् । तस्मादभावो बाह्यार्थस्यैत्येवं प्रत्यवस्थिते योगाचारे पठत्याचार्यः - नाभाव उपलब्धः (ब्र.सू.२-२-२७) न खल्वभावो बाह्यार्थस्य युक्तः । कस्मात् ? उपलब्धेः । उपलभ्यते हि प्रतिप्रत्ययं बाह्योऽर्थः स्तम्भकुड्यादिः । न चोपलभ्य- मानस्यैवाभावो युक्तः । यथा हि कश्चिद्भुञ्जान एव भुजिसिद्धां तृप्तिञ्चानुभवन् ब्रूयात् नाहं
भुञ्जेः, न च तृप्यामि इति, तद्वत् इन्द्रियसन्निकर्षेण स्वयमुपलभमान एव बाह्यमर्थम्, नाहमुपलभे, न च सोऽस्ति इति ब्रुवन् कथमुपादेयवचनस्स्यात् । ननु नाहमेवं ब्रवीमि, नैवार्थमुपलभ इति; किन्तु उपलब्धिव्यतिरिक्तं नोपलभे इति ब्रवीमि । बाढमेवं ब्रवीषि; [‘निरङ्कुशत्वात् ते तुण्डस्य । न तु युक्त्युपेतं ब्रवीषि । यत उपलब्धिव्यतिरेकोऽपि बलादर्थस्योपगन्तव्यः’] उपलब्धेरेव । न हि कश्चिदुपलब्धिमेव स्तम्भः कुड्यं वा इत्युपलभते । उपलब्धिविषयत्वेनैव स्तम्भकुड्यादीन् सर्वे लौकिकाः उपलभन्ते । ननु बाह्यस्यार्थस्यासम्भव उक्तः न प्रमाणप्रवृत्त्यप्रवृत्तिपूर्वकौ हि सम्भवासम्भवौ; न तु सम्भवासम्भवपूर्विके प्रमाणप्रवृत्त्यप्रवृत्ती । यत्र यद्धि प्रत्यक्षादीनाम् अन्यतमेनापि प्रमाणेनोपलभ्यते, तत् सम्भवति । यत्तु न केनचित् अप्युपलभ्यते, तन्न सम्भवति । इह तु यथास्वं सर्वैरेव प्रमाणेः बाह्योऽर्थो उपलभ्यमानः कथम् ; न सम्भवतीत्युच्यते । यदुक्तम् - स्वप्नादिप्रत्ययवत् जागरितप्रत्यया अपि स्वेनैव बाह्यार्थेन भवेयुः प्रत्ययत्वाविशेषादिति, तत्राह, वैधर्म्याच्च न स्वप्नादिवत् (ब्र.सू.२-२-२८) । न स्वप्नादिवत् जागरितप्रत्यया भवितुमर्हन्ति । कस्मात्? वैधर्म्यात् । किं पुनर्वैधर्म्यम् ? “बाधाबाधौ । बाध्यते हि स्वप्नोपलब्धं वस्तु प्रबुद्धस्य मिथ्यैव मयोपलब्धो महाजनसमागमः न ह्यस्ति
महाजनसमागमः । निद्रादूनं तु मे मनो बभूव । तेनैषा भ्रान्तिरुद्धभूव इति । एवं मायादिष्वपि भवति यथायथं बाधः । नैवं जागरितोपलब्धं स्तम्भादि कस्याञ्चिदप्यवस्थायां बाध्यते । तत्रैवं सति न शक्यते वक्तुम् , मिथ्या जागरितोपलब्धिः, उपलब्धित्वात्
स्वप्नोपलब्धिवत् इति उभयोरन्तरं स्वयमनुभवता । न च स्वानुभवापलापः प्राज्ञमानिभिर्युक्तः कर्तुम् । तस्मात् विज्ञानव्यतिरिक्तो बाह्यार्थोऽबाधितोऽभ्युपगन्तव्यः इति । एवमेव सूत्रं व्याकुर्वतां परेषां प्रपञ्चमिथ्यात्ववादः कथं सङ्गच्छते । विरोधात् । ननु न विरोधः । ज्ञानार्थयोरभेदो योगाचाराभिमतः । वयं तु भेदमङ्गीकृत्य अर्थमिथ्यात्वं ब्रूम इति चेन्न - अर्थमिथ्यात्वस्यैव योगाचाराभिमतत्वात् । अन्यथा ज्ञानमिथ्यात्वार्थसत्यत्वयोः अन्यतरप्रसङ्गात् । ननु अर्थतुच्छत्वं तदभिमतम्। वयं तु तन्निरारोनानिर्वाच्यत्वं ब्रूम इति चेत् - तुच्छत्वमिति किमप्रतीतत्वं विवक्षितम्; उत प्रतीतत्वेऽपि बाधार्हत्वम् न तावदप्रतीतत्वं योगाचाराभिमतम्। सहोपलम्भनियमस्य तेरुच्यमानत्वात् । द्वितीये तु शब्दवैषम्यमेव तेषां युष्माकञ्च । प्रतीतत्वे सति बाधार्हत्वस्योभयाभिमतत्वात् । अस्तु वा किञ्चिद्वैषम्यं भवतां ग्रन्थेष्वन्यग्रन्थात्, तदानीमपि सूत्रं विरुद्धम्; कारणदोषबाधक- प्रत्यययोरनिर्वाच्यपक्षेऽपि उपाधित्वोपपत्तेरविशिष्टत्वात् । न हि अनिर्वाच्यपक्षास्पर्शी कश्चिदुपाधिः सूत्रितः, व्याख्यातश्च । अत एतत्सूत्रे स्वव्याख्यानविरोधोऽपि परेषां दुस्तरः । अथ - एतत् स्वप्नस्य कारणदोषबाधकप्रत्ययाभ्यां वैधर्म्यमन्वारुह्य उक्तम् । न च स्वप्नज्ञानानां निर्विषयत्वम् ; प्रत्ययसामान्यस्य निर्विषयत्वासम्भवात् । अतो ज्ञानत्वहेतुः विरुद्धश्च इत्याह आचार्यः - न भावोऽनुपलब्धेः (ब्र.सू.२-२-२९) केवलस्यार्थशून्यस्य ज्ञानस्य न भावः सम्भवति । कुतः? क्वचिदप्यनुपलब्धेः । न ह्यकर्तृकस्याकर्मकस्य वा ज्ञानस्य क्वचिदप्युपलब्धिः । स्वप्रज्ञानादिष्वपि ईश्वरसृष्टपदार्थानां सत्त्वात् नार्थशून्यत्वमिति ख्यातिनिरूपणभाष्ये प्रतिपादितम् । किञ्च सर्वेषां ज्ञानानामर्थशून्यत्वे, भवद्भिः साध्योऽप्यर्य़ो न सिद्ध्यति, निरालम्बनानुमानज्ञानस्यापि अर्थशून्यत्वात् । तस्यार्थवत्त्वे ज्ञानत्वस्य तत्र अनेकान्तिकत्वात् सुतराम् अर्थशून्यत्वासिद्धिरेवेति स्थितम् । एवमस्मिन्नधिकरणे ज्ञानातिरिक्तविषयासत्त्वनिरासेन विषयाश्रयशून्यज्ञाननिरासेन च प्रपश्चमिथ्यात्वं निरस्तम् । अथ सर्वशून्यवादनिरासेनापि प्रपञ्चमिथ्यात्वं निरस्यति आचार्यः - अत्र सर्वशून्यवादी माध्यमिकः प्रत्यवतिष्ठते - शून्यवाद एव हि सुगतमतकाष्ठा । शिष्यबुद्धियोग्यतानुगुण्येनार्थाभ्युपगमादिना क्षणिकत्वादय उक्ताः । विज्ञानं बाह्यार्थाश्च न
सन्ति । शून्यमेव तत्त्वम् । अभावापत्तिरेव च मोक्षः इत्येव बुद्धस्याभिप्रायः । तदेव हि युक्तम् । शून्यस्य अहेतुसाध्यतया स्वतस्सिद्धेः । सत एव हि हेतुरन्वेषणीयः । तच्च सत् भावादभावाच्च नोत्पद्यते । तत्र भावात् तावत् न कस्यचिदप्युत्पत्तिर्दृष्टा । न हि घटादिः अनुपमृदिते पिण्डादिके जायते । नापि अभावादुत्पत्तिः सम्भवति । नष्टे पिण्डादिके ह्यभावादुत्पद्यमानं घटादिकं अभावात्मकमेव स्यात् । तथा स्वतः परतश्चोत्पत्तिर्न सम्भवति । स्वतः स्वोत्पत्तौ आत्माश्रयदोषप्रसङ्गात् । प्रयोजनाभावाच्च । परतः परोत्पत्तौ परत्वाविशेषात् सर्वेषां सर्वेभ्य उत्पत्तिप्रसङ्गः । जन्माभावादेव विनाशस्याप्यभावः । अतः शून्यमेव तत्त्वम् । अतो जन्मविनाशसदसदादयो भ्रान्तिमात्रम् । न च निरधिष्ठानभ्रमासम्भवात् भ्रमाधिष्ठानं किञ्चित् पारमार्थिकं तत्त्वमाश्रयितव्यम् - दोषदोषाश्रयत्वज्ञातृत्वाद्यपारमार्थ्येऽपि भ्रमोपपत्तिवत् अधिष्ठानापारमार्थ्येऽपि भ्रमोपपत्तेः । अतः शून्यमेव तत्त्वम् - इति प्राप्ते उच्यते - सर्वथाऽनुपपत्तेश्च (ब्र.सू.२-२-३०) । सर्वथाऽनुपपत्तेः सर्वशून्यत्वञ्च भवदभिप्रेतं न सम्भवति । किं भवान्, सर्वं सदिति प्रतिजानीतेव, असदिति वा, अन्यथा वा? सर्वथाऽपि तवाभिप्रेतं तुच्छत्वं न सम्भवति । लोके भावाभावशब्दयोः तत्प्रतीत्योश्च विद्यमानस्यैव वस्तुनोऽवस्थाविशेषगोचरत्वस्य लाघवन्यायसिद्धत्वात् । अतः,सर्वं शून्यम् इति प्रतिजानता, सर्वं सदिति प्रतिजानतेव, सर्वस्य विद्यमानस्यावस्थाविशेषयोगितैव प्रतिज्ञाता भवतीति भवदभिमता तुच्छता न कुतश्चिदपि संभवति । किञ्च कुतश्चित् प्रमाणात् शून्यत्वमुपलभ्यशून्यत्वं सिषाधयिषता तस्य प्रमाणस्य सत्त्वमभ्युपेतम्, तस्यासत्त्वे तु सर्वं सत्यं स्यादिति सर्वथा सर्वशून्यत्वञ्चानुपपन्नमिति हि स्थितम् ।