०६-०१

॥ श्रीः ॥ बृहदारण्यकोपनिषत् षष्ठोऽध्यायः प्रथमं ब्राह्मणम् - अण्वन्तब्राह्मणम् [याज्ञवल्क्यस्य जनकं प्रति आव्रजनम्] जनको ह वैदेह आसाञ्चक्रे । अथ ह याज्ञवल्क्य आववाज । तँ होवाच याज्ञवल्क्य! किमर्थमचारीः पशूनिच्छन्, अण्वन्तानि इति । उभयमेव सम्राडिति होवाच ॥ १ ॥

प्र– जनको ह वैदेह आसाञ्चक्रे । दर्शनकामेभ्यो दर्शनं दातुं वैदेहो जनकः सभायाम् आसाञ्चक्रे - स्थित इत्यर्थः । अथ - अस्मिन्नवसरे याज्ञवल्क्य आवव्राज - आगतः । तँ होवाच । जनक इति शेषः । तं - याज्ञवल्क्यमित्यर्थः । उक्तिमेवाह याज्ञवल्क्य…… अण्वन्तनिति । हे याज्ञवल्क्य ! किमर्थम् अचारीः - आगतोऽसि । किं पुनरपि पशूनिच्छन् , आहोस्वित् अण्वन्तानिति । अन्तः निश्चयः । अणोः - सूक्ष्मस्य वस्तुनः प्रत्यगात्मादेः अन्तान् - निश्चयान् कर्तुमित्यर्थः । याज्ञवल्क्यस्योत्तरमाह उभयमेव सम्राडिति होवाच । त्वदनुग्रहार्थमेवागतोऽस्मि । तत्प्रसङ्गे यदि पशवश्च पुनः स्युः, तदपि न प्रतिषेधामः, हे सम्राडिति होवाच । याज्ञवल्क्य इति शेषः । ‘सम्राट’ - हे ‘सार्वभौम इत्यर्थः ॥ १ ॥ [वाग्वै ब्रह्मेति शालिनिमतम्] यत् ते कश्चिदब्रवीत्, तच्छृणवामेति । अब्रवीन्मे जित्वा शैलिनिः, वाग्वै ब्रह्मेति । यथा मातृमान् पितृमान् आचार्यवान् ब्रूयात्, तथा तच्छैलिनोऽब्रवीत् वाग्वै ब्रह्मेति; अवदतो हि किं स्यादिति; अब्रवीत्तु ते तस्यायतनं प्रतिष्ठाम् । न मेऽब्रवीदिति । एकपाद्वा एतत् सम्राडिति । स वै नो ब्रूहि याज्ञवल्क्य!। वागेवायतनमाकाशः प्रतिष्ठा; प्रज्ञेत्येनदुपासीत । का प्रज्ञता याज्ञवल्क्य । वागेव समाडिति होवाच; वाचा वै सम्राड् बन्धुः प्रज्ञायते; ऋग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनु- व्याख्यानानि व्याख्यानानीष्टँ हुतमाशितं पायितमयञ्च लोकः परश्च लोकः सर्वाणि च भूतानि वाचैव सम्राट् प्रज्ञायन्ते; वाग्वै सम्राट् परमं ब्रह्म । नैनं वाग् जहाति; सर्वाण्येनं भूतान्यभिक्षरन्ति, देवो भूत्वा देवान् अप्येति, य एवं विद्वानेतदुपास्ते । हस्त्यृषभँ सहस्रं ददामीति होवाच जनको वैदेहः । स होवाच याज्ञवल्क्यः, पिता मेऽमन्यत ‘नानुशिष्य’ हरतेति ॥ २ ॥ प्र. -एवमुक्त्वा विशेषोपदेशाय ‘प्रवृत्तौ’ याज्ञवल्क्यो जनकं पुनराह - यत् ते कश्चिदब्रवीत्, तच्छृणवामेति । यत् ते - तुभ्यं कश्चिदाचार्यों अब्रवीत् - अनेकाचार्योप - सेवी हि भवान् - तत् शृणवाम । श्रुत्वा उपदेष्टव्यांशुमुपदेक्ष्याम इति भावः । जनक आह - अब्रवीन्मे जित्वा शैलिनिः वाग्वै ब्रह्मेति । नामतो जित्वा शिलिनस्यापत्यं शैलिनिः वागेव ब्रह्मेति । ब्रह्मप्रतीकतया वाग्देवता उपास्या इति मे उक्तवान् इत्यर्थः । इतर आह - यथा मातृमान्…… प्रतिष्ठाम् । माता यस्य विद्यते अनुशासनकर्तृतया, स मातृमान्पिता यस्य तथा विद्यते, स पितृमान्आचार्यो यस्य तथा विद्यते, स आचार्यवान् । उपनयनात् प्राक् मातापितरौ अनुशिष्टः । ऊर्ध्वमाचार्योऽनुशास्ति । तैरेवं यथाकालं शिक्षतो हि सम्यक् ज्ञातवान् भवति । तथा च मात्रा पित्रा आचार्येण चानुशिष्टो यथा ब्रवीति, तथा शैलिन उक्तवान् वाग्वै ब्रह्मेति । सम्यक् उक्तवान् इत्यर्थः । तत्रोपपत्तिमाह - अवदतो हि किं स्यादिति । अवदतः - वाग्व्यापाररहितस्य । न हि मूकस्य ऐहिकामुष्मिकं वा किञ्चित् सिद्ध्येत् । तस्मात् युक्तं वाग्वै ब्रह्मेति शैलिनिनोक्तम् सर्वपुरुषार्थसाधनत्वात् वाचि ब्रह्मदृष्टिः कर्तव्या इति इत्यर्थः । अब्रवीत्तु ते तस्यायतनं प्रतिष्ठाम् । परन्तु तस्यायतनं प्रतिष्ठाञ्च ते स किमब्रवीत् । आयतनं - शरीरम् । प्रतिष्ठा त्रिष्वपि कालेष्वाश्रयः । एतद्द्वयमपि शैलिनिः ‘उक्तवान् किमित्यर्थः । जनक आह न मेऽब्रवीदिति । इतर आह - एकपाद्वा एतत्सम्राडिति । एकः पादः यस्य, तत् एकपात् । एतत् ब्रह्म । वाग्रूपं ब्रह्म उपास्यमानमपि एकपात् त्रिभिः पादैः शून्यं न फलाय भवतीत्यर्थः । जनक आह - स वै…… याज्ञवल्क्य! हे याज्ञवल्क्य! स त्वं विद्वान्नः अस्मभ्यं ब्रूहि । आयतनादीति शेषः । स चाह वागेव…… उपासीत । वागधिष्ठात्र्यां देवतायाम् अध्यस्यमानस्य ब्रह्मणो वागेव आयतनम् - शरीरम् । अव्याकृताकाशः प्रतिष्ठा; ‘आकाशः’ - परमं व्योम वा प्रतिष्ठा - कालत्रयेप्याश्रयः । एनत् - ब्रह्म प्रज्ञा इत्युपासीत इत्यर्थः । जनकः पृच्छति का प्रज्ञता याज्ञवल्क्य! अवमभिप्रायः - यथा प्रतिष्ठांशः वाचो भिन्नः; एवं प्रज्ञापि किं वाचो भिन्ना उत नेति प्रश्नः । प्रतिष्ठावन्न भिन्ना; किन्तु आयतनवत् प्रज्ञापि वाचः अभिन्ना इत्युत्तरमाह - वाग्वै सम्राडिति होवाच । हे सम्राट् ! वागेव प्रज्ञा । न तु ततोऽतिरिच्यते इत्यर्थः । तदुपपादयति वाचा वै सम्राट् बन्धुः प्रज्ञायते । अयं बन्धुरिति वाचैव हि प्रज्ञायते । तथा ऋग्वेदो……. ब्रह्म । इतिहासः - रामायणादिः । पुराणं - विष्णुपुराणादि । विद्याः - चतुष्षष्ठिकलाः । उपनिषदः - प्रसिद्धाः । श्लोकाः - मनुस्मृत्यादिरूपाः । सूत्राणि - ब्रह्मसूत्रादीनि । अनुव्याख्यानानि

भाष्यव्याख्यानादीनि । व्याख्यानानि - भाष्यादीनि । इष्टं - यागनिमित्तं धर्मजातम् । हुतं - होमनिमित्तं धर्मजातम् । आशितम् - अत्रदाननिमित्तकम् । पायितं - पानीयदाननिमित्तकम् । अयं लोकः ‘इह लोकिकं’ फलम् । परश्च लोकः

स्वर्गभोक्षादि । सर्वाणि भूतानि - शत्रुमित्रोदासीनरूपाणि । एवमेतत् सर्वं, हे सम्राट्! वाचैव प्रज्ञायते । अतः वाग्वै सम्राट् परमं ब्रह्म । वाग्देवतायां ब्रह्मोपासनं प्रज्ञानामकत्वेन कर्तव्यमित्यर्थः । तदुपासनायाः फलमाह-नैनं…… उपास्ते । य एवं विद्वान् - उक्तायतनादिज्ञानवान् एतत् वाग्रूपं ब्रह्मोपास्ते, एनं - ब्रह्मविदं वाक् अधीता ब्रह्मविद्या न जहाति । विद्यायाः विस्मरणं नास्तीति यावत् । यथा वत्साय गावोऽभिक्षरन्ति, एवं बलिदानादिभिः सर्वाणि भूतानि अभिक्षरन्ति - स्निह्यन्ति इत्यर्थः । देवो भूत्वा- . उपास्यमानवागधिष्ठातृदेवो भूत्वा, तद्देवतासायुज्यं प्राप्येति यावत् देवान् अप्येति-

आजानसिद्धदेवतान्तर्गतो भवतीत्यर्थः । हस्त्यृषभं…… वैदेहः । हस्तितुल्यः ऋषभः यस्मिन् गोसहस्रे तत् तथा । तादृशर्षभयुक्तं गोसहस्रमुपदिष्टविद्याया दक्षिणात्वेन ददामीति जनक उक्तवान् इत्यर्थः । स ह हरेतेति । शिष्यं सम्यगननुशिष्य ततः किञ्चिदपि द्रव्यं नाहरेतेति मे पिता अमन्यत - बोधितवानिति यावत् । अतः सम्यगनुशिष्य हरिष्यामि; न ततः प्रागिति याज्ञवल्क्य उवाच इत्यर्थः । एवमुत्तरत्रापि नेयम् ॥ २ ॥

[“प्राणो वै ब्रह्म” इति शौल्बायनमतम्] यदेव ते कश्चिदब्रवीत्तच्छृणवामेति अब्रवीन्म उदङ्कः शौल्बायनः प्राणो वै ब्रह्मेति यथा मातृमान् पितृमान् आचार्यवान् ब्रूयात् तथा तच्छौल्बाायनोऽब्रवीत् प्राणो वै ‘ब्रह्मेत्याप्राणतो’ हि किं स्यादित्यब्रवीत्तु ते तस्यायतनं प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा एतत् सम्राडिति स वै नो ब्रूहि याज्ञवल्क्य । प्राण एव आयतनमाकाशः प्रतिष्ठा प्रियमेनदुपासीत । का प्रियता याज्ञवल्क्य । प्राण एव सम्राडिति होवाच प्राणस्य वै सम्राट् कामायायाज्यं याजयत्यप्रतिगृह्यस्य प्रतिगृह्णात्यपि तत्र वधाशङ्कं भवति यां दिशमेति प्राणस्यैव सम्राट् कामाय; प्राणो वै सम्राट् परमं ब्रह्म । नैनं प्राणो जहाति, सर्वाण्येनं भूतान्यभिरक्षन्ति । देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते । हस्त्यृषभसहस्रं ददामीति होवाच जनको वैदेहः । स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ ३ ॥

प्र. - यदेव ते…… शौल्बायनः । नामतः उदङ्कः । शुल्बस्यापत्यं शौल्बायनः । नडादित्वात् फक् । अप्राणतो हि किं स्यात् । जीवतो हि सर्व पुरुषार्थावाप्तिरिति भावः । प्रियमित्येतदुपासीत । प्रियमिति नाम्ना प्राणप्रतीककं ब्रह्मोपासीत इत्यर्थः । प्राणस्य प्रियतामेव उपपादयति - प्राणस्य…… परमं ब्रह्म । प्राणस्य कामाय -

प्राणाशया अयाज्यमपि याजयति; अप्रतिगृह्यमपि प्रतिगृह्णाति । अप्रतिगृह्यस्य प्रतिगृह्णात्यपि

इत्यत्र प्रत्यपिभ्यां ग्रहेश्छन्दसि (पा.सू.३-१-११८) इति क्यप् । पुरुषो यां दिशं गच्छति; तत्र ‘वधाशङ्क’ भवति । वधस्याशङ्का यस्मात् तत् चोरव्याघ्रादि वधाशङ्कम् । ‘तत्र तत्र वर्तते’ चेदपि; तत्रापि प्राणस्य कामाय याति । ततः प्राणस्य प्रियत्वात् स एवं परं ब्रह्म ‘इत्युपास्यमित्यर्थः । नैनं प्राणो जहाति । दीर्घायुर्भवति इत्यर्थः ॥ ३ ॥

[“चक्षर्वै ब्रह्मा” इति बर्कुमतम्] यदेव ते कशिदब्रवीत् तच्छृणवामेति अब्रवीन्मं बर्कुर्वार्ष्णश्चक्षुर्वै ब्रह्मेति यथा मातृमान् पितृमान् आचार्यवान् ब्रूयात् तथा तद्वार्ष्णोऽब्रवीत् चक्षुर्वै ब्रह्मेत्यपश्यतो हि किँ स्यादित्यब्रवीत्तु ते तस्यायतनं प्रतिष्ठां न मेऽब्रवीदिति एकपाद्वा एतत् सम्राट्। इति स वै नो ब्रूहि याज्ञवल्क्य! चक्षुरेवायतनमाकाशः प्रतिष्ठा सत्यमित्येनत् उपासीत का सत्यता, याज्ञवल्क्य चक्षुरेव सम्राट् इति होवाच चक्षुषा वै सम्राट् । पश्यंन्तमाहुरद्राक्षीरिति स आह अद्राक्षमिति तत्सत्यं भवति चक्षुर्वै सम्राट् । परमं ब्रह्म नैनं चक्षुर्जहाति सर्वाण्येनं भूतान्यभिरक्षन्ति देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते । हस्त्यृषभँ सहस्रं ददामीति होवाच जनको वैदेहः स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ ४ ॥

प्र. - यदेव ते…… बर्कुर्वार्ष्णः । नामतो बर्कुः । वृष्णेरपत्यं ‘वार्ष्णः’ । तत् सत्यं भवति । चक्षुषा दृष्टे यथा सत्यत्वाध्यवसायः, तथा मानान्तरावगते न भवति इत्यर्थः । अतः चक्षुषि ब्रह्म सत्यनाम्ना उपास्यमित्यर्थः । नैनं चक्षुर्जहाति । चक्षुषा दृष्टं न विस्मरतीत्यर्थः । शिष्टं स्पष्टम् ॥ ४ ॥

[“श्रोत्रं वै ब्रह्म” इति भारद्वाजमतम् ] यदेव ते कश्चिदब्रवीत् तच्छृणवामत्यब्रवीन्मे गर्दभीविपीतो भारद्वाजः श्रोत्रं वै ब्रह्मेति यथा मातृमान् पितृमान् आचार्यवान् ब्रूयात् तथा तद्भारद्वाजोऽब्रवीत् श्रोत्रं वै ब्रह्मेत्यशृण्वतो हि किँ स्यादित्यब्रवीत्तु ते तस्यायतनं प्रतिष्ठां न मेऽब्रवीदिति एकपाद्वा एतत् सम्राट्, इति स वै नो ब्रूहि याज्ञवल्क्य श्रोत्रमेवायतनमाकाशः प्रतिष्ठानन्त इत्येनदुपासीत कानन्तता? याज्ञवल्क्य! दिश एव सम्राट् ! इति होवाच तस्माद्वै सम्राडपि यां कां च दिशं गच्छति नैवास्या अन्तं गच्छति । अनन्ता हि दिशो । दिशो वे सम्राट! श्रोत्रं श्रोत्रं वै सम्राट! परमं ब्रह्म नैनँ श्रोत्रं जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते । हस्त्यृषभँ सहस्रं ददामीति होवाच जनको वैदेहः स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ ५ ॥

प्र. - यदेव ते…… भारद्वाजः । गोत्रतो भारद्वाजः , नाम्ना गर्दभी विपीत इत्यर्थः । दिशो वै सम्राट्छ्रोत्रम्दिशः श्रोत्रं भूत्वा कर्णा प्राविशन् (ऐ.उ.२-४) इति श्रुतेः दिक्छोत्रयोः ऐक्यमित्यर्थः । शिष्टं स्पष्टम् ॥ ५ ॥

[“मनो वै ब्रह्म” इति जाबालमतम्] यदेव ते कश्चिदब्रवीत् तत्तच्छृणवामव इति अब्रवीन्मे सत्यकामो जाबालो मनो वे ब्रह्मेति यथा मातृमान् पितृमान् आचार्यवान् ब्रूयात्तया तज्जाबालोऽब्रवीन्मनो वै ब्रह्मेत्यमनसो हि किँ स्यादित्यबृवीत्तु ते तस्यायतनं प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा एतत्सम्राडिति स वै नो ब्रूहि याज्ञवल्क्य मन एवायतनमाकाशः प्रतिष्ठाऽऽनन्द इत्येनदुपासीत का आनन्दता याज्ञवल्क्य । मन एव सम्राडिति होवाच; मनसा वै सम्राड् स्त्रियमभिहार्यते; तस्यां प्रतिरूपः पुत्रो जायते; स आनन्दः; मनो वै सम्राट् परमं ब्रह्म । नैनं मनो जहाति; सर्वाण्येनं भूतान्यभिक्षरन्ति, देवो भूत्वा देवानप्येति, य एवं विद्वानेतदुपास्ते । हस्त्यृषभँ सहस्रं ददामीति होवाच जनको वैदेहः । स होवाच याज्ञवल्क्यः पितामेऽमन्यत नाननुशिष्य हरेतेति ॥ ६ ॥

प्र. - यदेव…… सत्यकामो जाबालः। जबालायाः अपत्यं जाबालः , नाम्ना सत्यकाम इत्यर्थः । मनसा वै…… आनन्दः । स्त्रियमभि - स्त्रियं प्रति मनसा हार्यते - मनसा नीयते । स्त्रीसंयोगो मन आयत्त इति भावः । प्रतिरूपः - ‘तुल्यं रूप इत्यर्थः’ । आनन्दहेतुत्वात् पुत्रस्यानन्दत्वमिति भावः । शिष्टं स्पष्टम् ॥ ६ ॥

[“हृदयं वै ब्रह्म” इति शाकल्यमतम्] यदेव ते कश्चिदब्रवीत्, तच्छृणवामेति । अब्रवीन्मे विदग्धः शाकल्यो हृदयं वै ब्रह्मेति । यथा मातृमान् पितृमान् आचार्यवान् ब्रूयात् तथा तच्छाकल्योऽ- ब्रवीत् हृदयं वै ब्रह्मेति! अहृदयस्य हि किँ स्यादिति । अब्रवीत्तु ते तस्यायतनं प्रतिष्ठाम् । न मेऽब्रवीदिति । एकपाद्वा एतत् सम्राडिति । स वै नो ब्रूहि याज्ञवल्क्य । हृदयमेवायतनमाकाशः प्रतिष्ठा स्थितिरित्येनदुपासीत । का स्थितता याज्ञवल्क्य । हृदयमेव सम्राडिति होवाच हृदयं वै सम्राट् सर्वेषां भूतानामायतनं हृदयं वै सम्राट् सर्वेषां भूतानां प्रतिष्ठा, हृदये ह्येव सम्राट् सर्वाणि भूतानि प्रतिष्ठितानि भवन्ति; हृदयं वै सम्राट् परमं ब्रह्म । नैनँ हृदयं जहाति सर्वाण्येनं भूतान्यभिरक्षन्ति देवो भूत्वा देवानप्येति, य एवं विद्वानेतदुपास्ते । हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः । स होवाच याज्ञवल्क्यः, पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ ७ ॥ ॥ इति षष्ठाध्याये प्रथमं ब्राह्मणम् ॥

प्र. - यदेव ते… शाकल्यः । शकलस्यापत्यं शाकल्यः नाम्ना विदग्धः। हृदयं - बुद्धिः । आयतनम् - आधारः । प्रतिष्ठा - स्थिते हेतुः । अतो हृदये सर्वाणि भूतानि प्रतिष्ठितानि बुद्ध्यधीनस्थितिमन्ति भवन्ति । तस्मात् हृदयं वै सम्राट् परमं ब्रह्म । शिष्टं स्पष्टम् ॥ ७ ॥ ॥ इति षष्ठाध्याये प्रथमब्राह्मण प्रकाशिका ॥ द्वितीयं ब्राह्मणम् - इन्धब्राह्मणम् अथवा कूर्चब्राह्मणम् [उपासकस्य परमागतिः का इति विचारः] जनको ह वैदेहः कूर्चादुपावसर्पन्नुवाच; नमस्तेऽस्तु याज्ञवल्क्य, अनु मा शाधीति । स होवाच - यथा वै सम्राण्महान्तमध्वानमेष्यन् रथं वा नावं वा समाददीत, एवमेवैताभिरुपनिषद्भिः समाहितात्मासि । एवं वृन्दारक आढ्यस्सन्नधीतवेद उक्तोपनिषत्क इतो विमुच्यमानः क्व गमिष्यसीति । नाहं तद्भगवन् वेद यत्र गमिष्या- मीति । अथ वै तेऽहं तद्वक्ष्यामि यत्र गमिष्यसीति । ब्रवीतु भगवानिति ॥ १ ॥

प्र. - जनको ह वैदेहः कूर्चादुपावसर्पन्नुवाच । जनकस्तु याज्ञवल्क्यस्य ‘ज्ञानवैशद्यं’ दृष्ट्वा कूर्चात् आसनविशेषादुत्थाय - ल्यब्लोपे पञ्चमी - उपावसर्पन उपसीदन् आचार्यम् उवाचेत्यर्थः । तदेवाह नमस्तेस्तु - शाधीति । हे याज्ञवल्क्य ! तुभ्यं नमोऽस्तु । शिष्यं माम् अनुशाधीति । व्यवधानं छान्दसम् । स होवाच । अत्र याज्ञवल्क्य आह । किमिति यथा .वै…… असि । हे सम्राट्। यथा महान्तं भौमं सामुद्रं वाऽप्यध्वानम् एष्यन् - गमिष्यन् रथं वा नावं वा समाददीत - सङ्गृह्णी यात् एवं तत्तदाचार्योपदिष्टाभिः एताभिरूप- निषद्भिः अत्यन्तं समाहितात्माऽसि - सम्पन्नपरलोकसाधनोऽसि । एवं…… गमिष्यसीतिएवं - तथा वृन्दारकः - राजत्वेन पूज्यमानः, आढ्यः धनाढ्यश्च सन् अधीतवेदः गुरुभिः । उक्तोपनिषत्कः - उपदिष्टब्रह्मविद्यश्चासीत्येवं सर्वपुरुषार्थसम्पत्तिमांस्त्वम् इतः- . अस्माच्छरीरात् विमुच्यमानः - उत्क्रामन् क्व - कस्मिन् मार्गे गमिष्यसीत्यर्थः । एवं ब्रह्मविदः उत्क्रामतो गतौ याज्ञवल्क्येन पृष्टायाम् , इतर आह - नाहं…… गमिष्यामीति । याज्ञवल्क्य आह - अथ वै…… गमिष्यसीति । ‘यस्मिन् वर्त्मनि गमिष्यसि, तद्वक्ष्यामीत्यर्थः । इतर आह ब्रवीतु मे भगवानिति । यद्यनुजिघृक्षास्तीति शेषः । अत्र उपकोसलविद्यावत् गतिप्रश्नो गन्तव्यब्रह्मणोऽप्युपलक्षकः । अत एव तद्वदत्रापि द्वयोरप्युत्तरत्र प्रतिवचनमुपपद्यत इति द्रष्टव्यम् ॥ १ ॥

[दक्षिणाक्षरस्यपुरुषस्वरूपकथनम् ] इन्धो ह वै नामैष योऽयं दक्षिणेऽक्षन्पुरुषस्तं वा एतमिन्धँ सन्तमिन्द्र इत्याचक्षते परोक्षेणैव परोक्षप्रिया इव हि देवा. प्रत्यक्षाद्विषः ॥ ३ ॥

प्र. - इन्धो ह…… परोक्षेणैव । योऽयं दक्षिणाक्षिस्थः पुरुषः स इन्धो नाम इन्ध इति प्रसिद्ध इत्यर्थः । एवं तमेतं पुरुषमिन्धं सन्तं इन्द्र इति परोक्षेण वदन्ति । ‘देवा हि गोपनीयमर्थं पर्यायोक्तेन वदन्ति; न तु स्पष्टतया । परोक्षप्रिया इव हि देवाः

प्रत्यक्षद्विषः । इव शब्द एवार्थः । यस्माद्धि देवाः प्रत्यक्षेण ग्रहणे द्विषन्ति, पर्यायोक्तग्रहणे प्रीतिमन्तो भवन्ति; अत इन्द्र इति वदन्ति इत्यर्थः । य एष एतस्मिन् मण्डले पुरुषो यश्चाऽयं दक्षिणेऽक्षन् इति दक्षिणाक्षिस्थितस्य आदित्यान्तरवस्थितस्य चैक्यश्रवणात्, आदित्यान्तरवस्थितस्य पुण्डरीकाक्षत्वात् अन्तर उपपत्तेः (ब्र.सू.१-२-१३) इति चक्षुषि स्थितत्वेनोपदिष्टस्य परब्रह्मत्वस्थापनात् इन्द्र निचिक्युः परमे व्योमन् (तै.आ.३-११-९) इन्द्रो मायाभिः पुरुरूप ईयते (बृ.उ.४-५-१९) इत्यादिषु परमपुरुषस्य इन्द्रशब्द वाच्यत्वप्रसिद्धेश्च नारायण एवात्र दक्षिणाक्षिस्थः पुरुष इति द्रष्टव्यम् । ज्योतिरधिकरणे व्यासार्यैरस्य नारायणत्वमुपपादितम् ॥ २ ॥

[वामाक्षिस्थपुरुषस्वरूपकथनम्]

अथैतद्वामेऽक्षिणि पुरुषरूपमेषाऽस्य पत्नी विराट् । तयोरेष सँस्तावो य एषोऽन्तर्हृदय आकाशः । अथैनयोरेतदन्नम् य एषोऽन्तर्हृदये लोहितपिण्डः । अथैनयोरेतत् प्रावरणम्, यदेतदन्तर्हृदये जालकमिव । अथैनयोरेषा सृतिस्सञ्चरणी, यैषा हृदयादूर्ध्वा नाड्युच्चरति । यथा केशः सहस्रधा भिन्नः, एवमस्यै हिता नाम नाड्योऽन्तर्हृदये प्रतिष्ठिता भवन्ति । एताभिर्वा एतदास्रवदास्रवति । तस्मादेष

प्रविविक्ताहारतर इवैव भवत्यस्माच्छरीरादात्मनः ॥ ३ ॥

प्र. - अथैतद्वामेऽक्षिणि……. विराट् । पुरुषरूपं - मनुष्याकार इत्यर्थः । अस्य - इन्द्रस्य पत्नी विराट् - वामाक्षिस्था मनुष्याकारा तत्पनी साक्षाल्लक्ष्मीरेव । तैत्तिरीयके ‘विराडसि

बृहती ‘श्रीरसीन्द्रपत्नी’ (तै.ब्रा.३-११-२०) इति इन्द्रपत्न्याः श्रीशब्दवाच्यत्वावगमात् । अस्याः साक्षाल्लक्ष्मीत्वञ्च व्यासार्यैः तत्रैवोक्तम् । तयोरेष …… आकाशः । तयोः दम्पत्यो एषः - वक्ष्यमाणः संस्तावः - एकान्तसम्भोगभूमिः, अधिकरणे घञ् - य एष हृदयकमलमध्ये आकाश इत्यर्थः । एतच्च ज्योतिरधिकरणे एव व्यासार्युैरुक्तम् । अथैनयोरेतदन्नम् । एनयोर्दम्पत्योः अन्नं - भोग्यं प्रासादस्थानीयमेतदेव । किं तत्? य एषोऽन्तर्हृदये लोहतिपिण्डः । य एषः - दृश्यमानः अन्तर्हृदये कमलकर्णिकाकारः मांसपिण्डः । अथैनयोः…… जालकमिव । एनयोः दम्पत्योरेतदेव प्रावरणम् - वस्रम् । किन्तत्? यदेतदन्तर्हृदये जालकमिव । यत् हृदये लूताजालबत् वक्ष्यमाणहितानामकनाडीनिचयसम्पन्नं जालकम्; तदेव पट्टवस्रम् अनयोरित्यर्थः । अथैनयोरेषा…… नाड्युच्यरति । एतस्मात् हृदयात् ऊर्ध्ववर्तिनी या ‘नाडी’ उच्चरति, सैषा सुषुम्नाख्या । एवमुपासकस्य ब्रह्मविदो ब्रह्मलोकसौधगतपरमदम्पतिप्राप्तिहेतुभूता सञ्चरणी सृतिः निरवग्रहमार्ग इत्यर्थ । यथा केशः…… आस्रवति । अन्तर्हृदये - हृदयान्तःप्रतिष्ठिता भवन्ति याः केशसहस्रांशातिसूक्ष्माः हितनामकाः नाड्यः, ताभिः एतत् - जीवजातम्, आस्त्रवत् - आसमन्तात् स्रवत् - संसरद्भूतजाम् आस्त्रवति - संसरति इत्यर्थः । तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या

उत्क्रमणे भवन्ति (क.उ.६-१६) इति हि श्रुत्यन्तरम् । तस्मादेष प्रविविक्ताहारतर इहैव भवत्यस्माच्छरीरादात्मनः । यस्माद्धेतोः दक्षिणाक्षिस्थः पुरुषो दिव्यमङ्गलविग्रह- गुणादिभिर्दीप्यमानतया इन्धो भवति; तस्मादेवास्माच्छरीरात् शरीरे स्थितात् सुषुम्नया गच्छतोऽस्माज्जीवात्मनः दक्षिणाक्षिस्थः एष पुरुषः प्रविविक्ताहारतर इवैव भवति । अतिप्रकृष्टामृतवद्भवतीति यावत् । स्वशरीरभूतात् अण्वानन्दरूपाज्जीवात् निरतिशयानन्द- रूपोऽयं पुरुषो अतिभोग्यो भवतीत्यर्थः । अत्र एषा सृतिः सञ्चरणी इत्युक्त्या गमनमार्ग उक्तो भवति ॥ ३ ॥

[परमात्मनः जीववैलक्षण्यवेदनम्]

तस्य प्राची दिक् प्राञ्चः प्राणाः, दक्षिणा दिग् दक्षिणे प्राणाः, प्रतीची दिक् प्रत्यञ्चः प्राणाः, उदीची दिगुदञ्चः ‘प्राणाः’, सर्वा दिशः सर्वे प्राणाः । स एष नेति नेत्यात्मा । अगृह्यो न हि गृह्यते, अशीर्यो न हि शीर्यते; असङ्गो न हि सज्यते, असितो न व्यथते न रिष्यति । अभयं वै जनक! प्राप्तोऽसीति होवाच याज्ञवल्क्यः । स होवाच जनको वैदेहोऽभयं त्वागच्छताद्याज्ञवल्क्य, यो नो भगवन् अभयं वेदयसे । नमस्तेऽस्तु; इमे विदेहा अयमहमस्मीति ॥ ४ ॥ ॥ इति षष्ठाध्याये द्वितीयब्राह्मणम् ॥

प्र. - अथ पुनरपि दक्षिणाक्षिस्थस्य प्रकृतस्य पुरुषोत्तमस्य प्रकारान्तरेणापि शरीरगत जीव वैलक्षण्यमेव’ द्रढयति - तस्य प्राची…… प्राणाः । तस्य - शरीरस्थजीवस्य प्राञ्चः - पूर्वाभिमुखा प्राणा एव प्राची दिक् - प्राचीदिग्गतविषयसाधनानि इत्यर्थः । एवमग्रेऽपि ‘ततश्च जीवः सर्वासु दिक्षु ‘प्राणेन्द्रियप्रचुरः’ “प्राणेन्द्रियोषकरणकः इति यावत् । एवं जीवस्वरूपमुक्त्वा इन्धस्य पुरुषस्य तद्वैलक्षण्यमाह - स एष…… न रिष्यति । स एषः- दक्षिणाक्षिस्थपुरुषः इन्द्रियपुरुषः इन्द्रियाद्यग्राह्यत्वात् विशरणशून्यत्वात् निर्लेपत्वात् शोकमृत्युरहितत्वाच्च, नेति नेतीति श्रुतिषु प्रकृतैतावत्त्वप्रतिषेधपूर्वकमितर- विलक्षणत्वेन निर्दिष्ट आत्मा इत्यर्थः । अभयं…… याज्ञवल्क्यः । एतादृशमिमं पुरुषमुपास्व’; अभयं - परमात्मानं प्राप्त एवासि । बैशब्द एवार्थे । प्राप्तप्राय एवासि; उपासनोपकरण- सम्पत्तिमत्वात् । यद्वा, प्राप्नोसि इति, आशंसायां भूतवच्च (पा.सू.३-३-१३२) इति कर्तरि क्त प्रत्ययः; इति याज्ञवल्क्यो जनकमुवाचेत्यर्थः । स होवाच जनको वैदेहः । किमिति । अभयं त्वागच्छताद्याज्ञवल्क्य । हे याज्ञवल्क्य ! त्वदुक्तमभयं तु ममागच्छतात् । आशिषि तातङ् । ब्रह्मप्राप्तिर्मे भूयादित्यर्थः । ‘किन्तु भगवन् ! यस्त्वं न; - अस्माकम् अभयं वेदयसे-

अभयं परमात्मानं लम्भयसे, ईदृशाय परमात्मप्रापकाय तुभ्यं परमोपकारिणे नमोऽस्तु । इमे विदेहाः । “तुभ्यं दक्षिणात्येनसमर्पिता इति शेषः । अयमहम् - तद्देशाधिपतिरहमपि ते दासोऽस्मीत्यर्थः । इति शब्दः आख्यायिकासमाप्तौ ॥ ४ ॥ ॥ इति षष्ठाध्याये द्वितीयब्राह्मण प्रकाशिका ॥ तृतीयं ब्राह्मणम् - ज्योतिर्ब्राह्मणम् [जनकयाज्ञवल्क्यसंवादः]

जनकँ ह वैदेहं याज्ञवल्क्यो जगाम । स मेने न वदिष्य इति । अथ ह यज्जनकश्च वैदेहो याज्ञवल्क्यश्च अग्निहोत्रे समूदाते, तस्मै ह याज्ञवल्क्यो वरं ददौ । स ह कामप्रश्नमेव वव्रे । तँ हास्मै ददौ । तँ सम्राडेव पूर्वं पप्रच्छ ॥ १ ॥

प्र. - जनकं ह वैदेहं याज्ञवल्क्यो जगामयोगक्षेमार्थमीश्वरमभिगच्छेत्

इति स्मृत्यनुसारेण कदाचित् जनकसमीपं याज्ञवल्क्यो गतः । स मेने न वदिष्य इति । सः - याज्ञवल्क्यो मार्गे, गच्छन्, एवं मेने - चिन्तितवान् । किमिति किञ्चिदप्यध्यात्मविषये न वक्ष्यामीति । एवं कृतसङ्कल्पोपि याज्ञवल्क्यो जनकेन पृष्टं ‘सर्वमपि प्रवक्तुमुपचक्रमें’ इत्याख्यायिकामाचष्टे - अथ……..समूदाते । अथ - तदानीं जनकश्च वैदेहो याज्ञवल्क्यश्च अग्निहोत्रे समूदाते - अग्निहोत्रविषये संवादं कृतवन्तौ इत्यर्थः । तस्मै ह याज्ञवल्क्यो वरं ददौ । तस्य- जनकस्य कर्मविषयकं विज्ञानवैशिष्ट्यमुपलभ्य परितुष्टो याज्ञवल्क्यः तस्मै वरं ददौ - इष्टं वृणीष्व इत्यवोचदित्यर्थः । स ह कामप्रश्नमेव वव्रे। सः जनकः अपेक्षितांशान् प्रक्ष्यामि तस्योत्तरं दातव्यमिति वरं वृतवान् । तं हास्मै ददौ । तञ्च वरं याज्ञवल्क्यः तस्मै ददौ इत्यर्थः । तं सम्राडेव पूर्वं पप्रच्छ । तेन वरप्रदानसामर्थ्येन, अनाचिख्यासुमपि याज्ञवल्क्यं तूष्णीं स्थितमपि सम्राडेव पूर्वं - प्रथमं पप्रच्छ इत्यर्थः ॥ १ ॥

[“किं ज्योतिः अयं पुरुष” इति जनकप्रश्नः]

याज्ञवल्क्य किंज्योतिरयं पुरुष इति । आदित्यज्योतिः सम्राडिति होवाच आदित्येनैव ज्योतिषाऽऽस्ते पल्ययते कर्म कुरुते विपल्येतीत्येवमेवैतत् याज्ञवल्क्य ॥ २ ॥

प्र. - प्रश्नमेवाह - याज्ञवल्क्य किं’ज्योति’रयं पुरुष इति । किं ज्योतिरिति बहुव्रीहिः । अस्य पुरुषस्य आसनगमनकर्म निवृत्त्यादिसाधनभूतं ज्योतिः किमिति प्रश्नार्थः । उत्तरमाह - आदित्यज्योतिः सम्राडिति होवाच । याज्ञवल्क्य इति शेषः । हे सम्राट् अयं पुरुषः आदित्यज्योतिरिति होवाच याज्ञवल्क्यः आदित्यो ज्योतिर्यस्य स तथोक्तः । तदुपपादयति आदित्येनैव विपल्येते इति । आदित्येनैवायं ज्योतिषा आस्ते -

उपविशति; पल्ययते - उपसर्गस्यायतौ (पा.सू.८-२-१९) इति लत्वम् - पर्ययते इतस्ततो गमनं करोति; लौकिकं वैदिकं वा कर्म कुरुते; यथायथं विपल्येति - विपर्येति प्रतिनिवृत्त्य आगच्छतीति यावत् । उक्तमङ्गीकरोति जनकः एवमेवैतद्याज्ञवल्क्य इति ॥ २ ॥

[याज्ञवल्क्येन आदित्यादिज्योतिष्ट्वोपपादनम्]

अस्तमित आदित्ये याज्ञवल्क्य किंज्योतिरेवायं पुरुष इति । चन्द्रमा एवास्य ज्योतिर्भवतीति, चन्द्रमसैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीति । एवमेवैतद्याज्ञवल्क्य ॥ ३ ॥

प्र. - अन्यत् पृच्छति जनकः अस्तमिते…… इति । आदित्येऽस्तमिते अयं पुरुषः ‘किंज्योतिर्भवति’ । सर्वं पूर्ववत् ॥ ३ ॥

अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते किंज्योतिरेवायं पुरुष इति अग्निरेवास्य ज्योतिर्भवतीति अग्निनैवायं ज्योतिषाऽऽस्ते पल्ययते कर्म कुरुते विपल्येति इत्येवमेवैतद्याज्ञवल्क्य ॥ ४ ॥

प्र. - अन्यत् पृच्छति जनकः अस्तमिते…… पुरुष इति । स्पष्टम् । उत्तरमाह याज्ञवल्क्यः अग्निरेवास्य ज्योतिर्भवति - पूर्ववत् ॥ ४ ॥

अस्तमित ‘आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते शान्तेऽग्नौ किंज्योतिरेवायं पुरुष इति । वागेवास्य ज्योतिर्भवतीति वाचैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीति तस्माद्वै सम्राडपि यत्र स्वः पाणिर्न विनिर्ज्ञायतेऽथ यत्र वागुच्चरत्युपैव तत्र न्येतीति । एवमेवैतद्याज्ञवल्क्य ॥ ५ ॥

प्र. - अन्यत् पृच्छति जनकः अस्तमिते…… पुरुष इति । शान्तेऽग्नौ - अग्नौ च निर्वाणं गते इत्यर्थः । शिष्टं स्पष्टम् । उत्तरम् । वागेवास्य ज्योतिर्भवति । अत्र वागित्यनेन शब्द उच्यते । वाचो ज्योतिष्ट्वमुपपादयति तस्माद्वै…… न्येतीति । यस्मादादित्यचन्द्राग्निष्वसत्स्वपि वागेव ज्योतिः, तस्मादेव यत्र - यस्मिन् मेघान्धकारान्तरितायां तमिस्रायामात्मीयोपि पाणिर्न विनिर्जायते - न निश्चीयते अथापि तस्मिन् काले हे सम्राट् ! यत्र देवदत्तस्य वा यज्ञदत्तस्य वा, अहमत्र तिष्ठामि इति वागुच्चरति शब्दो निर्गच्छति - तत्र तदा; अत्रासौ वर्तते इति ज्ञात्वा उपन्येत्येव । उप - समीपे नि - नितराम् एति - गच्छतीत्यर्थः । ततश्च शब्दद्वारा श्रोत्रं प्रकाशकं भवतीत्यर्थः । अङ्गीकरोति एवमेवैतद् याज्ञवल्क्य ॥ ५ ॥

अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते शान्तेऽग्नौ शान्तायां वाचि किंज्योतिरेवायं पुरुष इति । आत्मैवास्य ज्योतिर्भवतीति, आत्मनैवायं ज्योतिषाऽऽस्ते पल्ययते कर्म कुरुते विपल्येतीति ॥ ६ ॥

प्र. - पृच्छति - अस्तमिते…… पुरुष इति । स्वप्ने किमस्य प्रकाशमिति प्रश्नार्थः । याज्ञवल्क्य उत्तरमाह आत्मैवास्य ‘ज्योति’र्भवति । स्वप्ने बाह्येन्द्रियाणाम् उपरततत्वात् प्रसिद्धादित्यादिप्रकाशकाभावाच्च आत्मैव स्वधर्मभूतज्ञानेन स्थितिगमनादि- हेतुभूतः प्रकाशको भवतीत्यर्थः । शिष्टं स्पष्टम् ॥ ६ ॥

[आत्मा विज्ञानमयः]

कतम आत्मेति । योऽयं विज्ञानमयः प्राणेषु हृद्यन्तज्योतिः पुरुषः । स समानस्सन्नुभौ लोकावनुसञ्चरति ध्यायतीव लेलायतीव । स हि स्वप्नो भूत्वेमं लोकमतिक्रामति मृत्यो रूपाणि ॥ ७ ॥

प्र. - आत्मैवास्य ज्योतिरित्यत्र आत्मज्योतिश्शब्दाभ्यां निर्दिश्यमानपुरुषस्वरूपं किमिति ‘पृच्छति जनकः कतम आत्मेति । हृत्कमलमध्यगतः प्राणशब्दितेन्द्रिय ‘मुख्यप्राणमध्यगः’ विज्ञानधर्मको ज्योतिश्शब्दित ‘प्रकाशस्वरूपः’ पुरुषो जीव इत्युत्तरमाह- योऽयं…… पुरुषः । अत्र विज्ञानमय इति प्राचुर्यार्थमयटा आत्मनो धर्मभूतज्ञान- व्यतिरेक उक्तः । प्राणेष्विति । पृथङनिर्देशात् इन्द्रियमुख्यप्राणव्यतिरेकोऽपि सिद्धः । अत्र ज्योतिश्शब्दितात्मनो ज्ञानस्वरूपस्य विज्ञानमयत्वोक्तया धर्मभूतज्ञानद्वारा भासकत्वम् आदित्यादीनामिव तेजोरूपाणां प्रभाद्वारा, ज्योतिष्ट्वमिति भावः । स समानः…… लेलायतीव । सः - जीवः, परायत्तकर्तृत्वोऽपि, अहङ्कारविमूढात्मा कर्ताहमिति मन्यते । (भ.गी.३-२७) इत्युक्तरीत्या समानस्सन् - मानः- अभिमानः तेन सहितस्सन्; स्वातन्त्र्यलक्षणकर्तृत्वाभिमानयुक्तस्सन् गोपुरधारीव ध्यायतीव लेलायतीव स्वतन्त्रः कर्तेव उभौ लोकावनुसञ्चरति - लोकद्वयेपि सञ्चरतीत्यर्थः । लेलायतीव - स्वयं चलतीव । ध्यायतीव लेलायतीव इत्याभ्यां जीवस्य कर्तृत्वं परमात्मायत्तमिति, सांसारिककर्तृत्वम् औपाधिकमिति च दर्शितम् । अत्र परतन्त्रप्रभौ प्रभुरिवेत्युक्तिवत् परायत्तकर्तृत्वाश्रये ध्यायतीवेति इव शब्दप्रयोगे “नानुपपत्तिरिति द्रष्टव्यम् । ततश्च लोकद्वये देहद्वयेन सञ्चचरकथनात् देहद्वयव्यतिरेकोऽप्युक्तो भवति ॥ न चान्न ध्यायतीव लेलायतीव इति इव शब्दप्रयोगात् कर्तृत्वमात्मनो नास्तीत्ये- वाभ्युपगन्तव्यमिति वाच्यम् - कर्ता शास्त्रार्थवत्त्वात् (ब्र.सू.२-३-३३) इत्यधिकरणे साङ्ख्याभिमतमकर्तृत्वमात्मनः पूर्वपक्षीकृत्य कर्तृत्वस्य ‘परैरपि सिद्धान्तित्वात् । वस्तुस्थितौ चिन्त्यमानायामचेतनत्वात् कूटस्थत्वाच्च नान्तःकरणस्य वा, चितो वा कर्तृत्वं इत्यभ्युपगमस्य, परस्पराविवेकेन परस्परधर्माध्यास इत्यभ्युपगमस्य च परेषां साङ्ख्यानाञ्च साम्येन साङ्ख्यापक्षात् परपक्षे वैषम्याभावेन, कर्ता शास्त्रार्थवत्त्वात् इत्यधिकरणविरोधस्य परपक्षे “दुर्निरसत्वात् । न च, यथा च तक्षोभयथा (ब्र.सू.२-३-३९) इत्यत्र, तत्त्वमसि इत्यादिभिः बहुकृत्वः कर्तृत्वाद्यनर्थानाश्रयब्रह्माभेदबोधनात् कर्तृत्वमपरमार्थ इति परैरुक्तमिति वाच्यम् - यो वै बालाके एतेषां पुरुषाणां कर्ता, इत्यादि वाक्यैर्ब्रह्मणः सर्वकर्तृत्वा- वेदनेन ब्रह्मभेदबोधने सर्वकर्तृत्वापातेन अकर्तृत्वाप्रसक्तेः । दृश्यते त्वग्न्यया बुद्ध्या

(क.उ.३-१२)) मनसा तु विशुद्धेन (व्या.स्मृ.) ध्यायन्तो मनसैव यम् इति करणत्वेन प्रतिपन्नस्य मनसः कर्तृत्वम्। यो वेदेदं जिघ्राणीति स आत्मा (छां.उ.८-१२-४) एष हि

द्रष्टा श्रोता मन्ता कर्ता बोद्धा विज्ञानात्मा पुरुषः (प्र.उ.४-९) इति कर्तृत्वेन प्रतिपन्नस्या- कर्तृत्वमित्युक्तेरयुक्तत्वात् । विज्ञानशब्दिताया; बुद्धेः कर्तृत्वे करणान्तराभ्युपगमप्रसङ्गात् प्रकृतिविवेक विलक्षण’समाधौ प्रकृतेः कर्तृत्वासम्भवेन आत्मन एव कर्तृत्वमास्थेयमिति, शक्तिविपर्ययात् (ब्र.सू.२-३-३७) समाध्यभावाच्च (ब्र.सू.२-३-३८) इति सूत्रयोः स्वयमेवोक्तत्वाच्च । कर्तृत्वादिबन्धस्यात्मगतत्वाभावे बन्धमोक्षयोः वैयधिकरण्यप्रसङ्गात् । न च कर्तृवाद्यनर्थाश्रयान्तः करणतादात्म्याध्यासाधिष्ठानभावलक्षणो वा, अविद्यारतमयो मोक्षः

सा संसारः उदाहृतः इत्युक्तरीत्या तदाध्यासहेत्वविद्यालक्षणबन्धो वा आत्मगतः सम्भवतीति वाच्यम् । तदधीनत्वात् तदर्थवत् (ब्र.सू.१-४-३) इति सूत्रे, अविद्यात्मिका हि सा बीजशक्तिः अव्यक्तशब्दनिर्देश्या परमेश्वराश्रया मायामयी महासुप्तिः; यस्यां स्वरूपप्रतिबोधरहिताः शेरते संसारिणो जीवाः । तदेवाव्यक्तं क्वचिदाकाशशब्दनिर्दिष्टम्। एतस्मिन्नु खल्वक्षरे

गार्गि आकाश ओतश्च प्रोतश्च इति । क्वचिदक्षरशब्दोदितम् अक्षरात् परतः परः (मुं.उ.२-१-२) क्वचिन्मायेति निर्दिष्टम्, मायां तु प्रकृतिं विद्यात् (श्वे.उ.४-१०) इति मन्त्रवर्णात् इति शाङ्करभाष्ये ‘परमेश्वराश्चिताया’ एव अविद्यायाः प्रतिपादनेन तन्मते जीवचैतन्ये समारासंभवात् । **

न च वाचस्पतिना परमेश्वराश्रयेत्यत्र, “परमेश्वरं विषयत्वेन आश्रयतीति परमेश्वराश्रया

परमेश्वरविषया इत्यर्थः । विद्यास्वरूपस्य परमात्मनो ‘अविद्याश्रयत्वासम्भवात्’ । यस्यां

स्वरूपप्रतिबोधरहिताः शेरत इत्यत्रापि, यस्यामविद्यायां सत्यां शेरते जीवा इत्येवार्थः ।

अतश्च जीवाश्रया एवाविद्याः । न च अविद्योपाधिभेदाधीनो जीवभेदः, जीवभेदाधीनोऽविद्यो-

पाधिभेद इति परस्पराश्रयात् उभयासिद्धिरिति वाच्यम् - बीजाङ्कुरन्यायेन अनादित्वात्

उभयसिद्धेः” इति अविद्यानां जीवाश्रितत्वमेव समर्थितमिति वाच्यम् - “न च तस्याः

जीवाश्रयत्वम् ; जीवशब्दवाच्यम्य कल्पितत्वात् । आविधिकत्वात् जीवशब्दवाच्यस्य ।

जीवशब्दलक्ष्यस्य तु ब्रह्माव्यतिरेकेण ब्रह्माश्रयत्वपक्षस्यैव आश्रितत्वापातात्”

इत्यानन्दगिरिप्रभृतिभिः तस्य पक्षस्य दूषिततया, आश्रयत्वविषयत्वभागिनी निर्विशेषचितिरेव केवला ।

पूर्वसिद्धतमसो हि पश्चिमो नाश्रयो भवति नापि गोचरः ॥

इत्युक्तरीत्या चिन्मात्रस्यैव अविद्याश्रयत्वेन जीवस्य बन्धाश्रयत्वासम्भवात् ॥ न च बन्धो मोक्षश्च न जीवाश्रितः; अपि तु चिन्मात्राश्रित एव । अतः सम्भवत्येव बन्धमोक्षयोः सामानाधिकरण्यमिति वाच्यम् - अस्मिन् पक्षे ‘मुमुक्षा नाम चिन्मात्राश्रितान्तः- करणतादात्म्याध्यासाधिष्ठानभावापादक ‘अविद्यानिवृत्तिकामनैव वाच्या’ । तत्र च अविद्यैक्यपक्षे एकमुक्तौ सर्वमुक्तिप्रसङ्गः । न च कस्यापि मुक्तिर्नास्तीति शक्यं वक्तुम् - शुकस्तु मारुताच्छीघ्रां गतिं कृत्वाऽन्तरिक्षगाम् ।

दर्शयित्वा प्रभावं स्वं सर्वभूतगतोऽभवत् ॥

तद्धैतत् पश्यन् ऋषिर्वामदेवः प्रतिपेदे; तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्

(बृ.उ.१-४-१०) इत्यादिप्रमाणविरोधप्रसङ्गात् । अतो अविद्यानानात्वेऽभ्युपगन्तव्ये, तत्र च चिन्मात्राश्रितसर्वाविद्यानामेकविद्यानिवर्त्यत्वे एकमुक्तौ सर्वमुक्तिप्रसङ्गदोषतादवस्थ्यात् । एकाविद्यानिवृत्तिमात्राभ्युपगमे च ‘अविद्यान्तराश्रयत्वस्य’ चिन्मात्रे पूर्वमिव स्थितत्वेन अन्तःकरण- तादात्म्याध्यासाधिष्ठानभावलक्षणसंसारानिवृत्तेः तदवस्थत्वात् । अतः सोऽप्यनुपपन्नः । नन्वहमिति भासमाने अविद्यान्तःकरणोपाधिभेदभिन्ने चिदंशे अविद्यानिवृत्तिरुद्देश्या इति चेत्, न; अविद्यायाः अन्तःकरणस्य वा न दर्पणादिवत् प्रतिबिम्बनोपाधित्वं सम्भवति । दर्पणाद्युपाधिप्रतिहतनायनरश्मिगृह्यमाणस्य बिम्बस्यैव प्रतिबिम्बतया चक्षुषा अगृह्यमाणस्य चिदंशस्य प्रतिबिम्बत्वासम्भवेन घटादिवदवच्छेदकतयोपाधित्वे वक्तव्ये, अन्तःकरणस्य सञ्चरत उपाधित्वे अवच्छेद्यचैतन्यप्रदेशस्य भिन्नभिन्नतया कृतहान अकृताभ्यागमप्रसङ्गेन व्यापिन्या एवाविद्याया अवच्छेदकतया उपाधित्वे वक्तव्ये सर्वस्यापि अविद्यान्तर्गतचित्प्रदेशस्य सर्वाविद्यावृतत्वेन एकस्य ब्रह्मविद्यया एकाविद्याया नाशेऽपि अविद्यान्तरायत्तसंसारतादवस्थ्यात् ! अविद्यावच्छिन्नविकारप्रदेशे अनवच्छिन्नस्य ब्रह्मणोऽव- स्थानासम्भवेन ब्रह्मणो विकारान्तरवस्थानप्रतिपादकान्तर्यामिब्राह्मणानाञ्जस्यप्रसङ्गात् । अन्तर्यामिब्राह्मणस्य जीवविषयत्वाभावस्य अन्तर्याम्यधिकरणसिद्धत्वात् । न हि ‘घटानवच्छिन्नाकाशस्य घटान्तरावस्थितिः सम्भवति । अत्र ब्रह्म समश्नुते (क.उ.६-१४) इति तन्मते अत्रैव ब्रह्माभाववेदकश्रुतिव्याकोपश्च स्यात् । अविद्यावच्छिन्नदेशे अनवच्छिन्नब्रह्मभावासम्भवात् विकारान्तरवस्थितस्य च गीताचार्यस्य भगवतः कृष्णस्य जीवत्वमेव स्यात् । ततच चिदाश्रितसर्वाविद्यानिवृत्तिकामनारूपमुमुक्षाया असम्भवात्, एकाविद्या- निवृत्तिमात्रेण संसारस्यानपायात्, मुमुक्षा ब्रह्मविचारादिकं वा एतादृशविवेकशालिनां न स्यात् । अत एव, न प्रतिबिम्बः नाप्यवच्छेदो जीवः, अपितु कौन्तेयस्यैव राधेयत्ववत्

ब्रह्मण एव अविकृतस्याविद्यया जीवभावः इति पक्षोऽपि ‘व्युदस्तः’, तथा सति नित्यमुक्त- श्रुतेनिर्विषयत्वप्रसङ्गात् । पारमार्थिकशोकाभावाभिप्राया नित्यमुक्तत्वश्रुतिरिति चेत् मोक्षे शोकाभावश्रुतेरपि पारमार्थिकशोकाभावविषयत्वप्रसङ्गात् । ‘तद्यो यो देवानां प्रत्यबुध्यत, स एव तदभवत्’ इत्यादीनां शुकादिमुक्तत्वप्रतिपादकानां ब्रह्मणो जगत्कर्तृत्वसर्वज्ञत्व- निरवद्यत्वावेदकानाञ्च अप्रामाण्यप्रसङ्गात् । विवादगोचरतापन्नप्रमाणज्ञानं स्वप्रागभावव्यतिरिक्तस्वविषयावरणस्वनिवर्त्य स्वदेशगतवस्त्वन्तरपूर्वकम् इत्यज्ञानस्य ज्ञानसमानाधिकरणत्वस्य विवरणे प्रतिपादितत्वात् , जडस्य अज्ञानाश्रयत्वे च भ्रान्तिसम्यग्ज्ञानयोरपि तदाश्रयत्वप्रसङ्गः इति ‘विवरणकृतोक्तत्वाच्च ज्ञात्रााश्रितत्वे ‘अज्ञानस्य’ तदधीनं कर्तृत्वादिकमपि ‘तस्यैव’ ॥ ततश्च अज्ञानस्य ज्ञानाश्रयशुद्धजीवाश्रितत्वात् कर्तृत्वादिकमप्यज्ञाश्रयशुद्धजीवाश्रितमेव इति सिद्धम् । ततश्च ध्यायतीव इति इवशब्दप्रयोगः परतन्त्रप्रभौ प्रभुरिवेत्युक्तिवत् । अतः “परतन्त्रकर्तृत्वाश्रयत्वाज्जीवस्य इव शब्दप्रयोगः उपपद्यत इत्येवास्थेयम् । प्रकृतमनुसरामः । शरीरव्यतिरेकमेव स्पष्टयति - स हि…… रूपाणि हि जीवः स्वप्नो भूत्वा - स्वप्नावस्थो भूत्वा - स्वप्ने व्याघ्रादिशरीरको भूत्वा इत्यर्थः । इमं लोकं-

परिदृश्यमानं जाग्रत्प्रपञ्चं मृत्योः - संसारस्य रूपाणि - दुःखरूपाणीति यावत् तादृशानि मानुषादीनि शरीराणि अतिक्रामति न पश्यतीति यावत् । ततश्च ‘स्वप्ने जाग्दृशावर्तिदेहानुपलम्भात् देहान्तरपरिग्रहदर्शनाच्च जीवस्य देहव्यतिरेकः प्रदर्शितो भवतीति द्रष्टव्यम् ॥ ७ ॥

स वा अयं पुरुषो जायमानः शरीरमभिसम्पद्यमानः पाप्मभिः सँसृज्यते । स उत्क्रामन् म्रियमाणः पाप्मनो विजहाति ॥ ८ ॥

प्र. - एवं देहेन्द्रियमनःप्राणधीव्यतिरिक्तस्य आत्मनः पाप्मसम्बन्धोऽपि औपाधिक एव इत्याह - स वा…… सँसृज्यते । स एवायं पुरुषः - जीवः जायमान इत्युक्ते; आत्मनो नित्यस्य जायमानत्वाभावादाह - शरीरमभिसम्पद्यमान इति । शरीरमभिसङ्गच्छमान इत्यर्थः । शरीरसम्बन्ध एव जननमिति भावः । शरीरमभिसम्पद्यमान एव सन् पाप्मभिः संसृज्यत इति, शरीरसम्बन्धोपाधिकः पापसम्बन्ध इत्युक्तं भवति । तदेव व्यतिरेकमुखेन द्रढयति स…… विजहाति । ‘नित्यस्य म्रियमाणत्वाभावादाह उत्क्रमन्निति । अत्रोत्क्रमणञ्च चरमोत्क्रमणं विवक्षितम् पाप्मनो विजहाति इति सर्वपापविधूननश्रवणादिति द्रष्टव्यम् ॥ ८ ॥

[जीवस्य लोकद्वयकथनम्]

तस्य वा एतस्य पुरुषस्य द्वे एव स्थाने भवत इदञ्च परलोकस्थानञ्च । सन्ध्यं तृतीयँ स्वप्नस्थानम् । तस्मिन् सन्ध्ये स्थाने तिष्ठन्नेते ‘उभे स्थाने’ पश्यति इदञ्च परलोकस्थानञ्च । अथ यथा क्रमोऽयं परलोकस्थाने भवति, तमाक्रममाक्रम्योभयान् पाप्मन आनन्दाँश्च पश्यति । स यत्र प्रस्वपिति अस्य लोकस्य सर्वावतो मात्रामुपादाय स्वयं निहत्य स्वयं निर्माय स्वेन भासा स्वेन ज्योतिषा प्रस्वपिति । अत्रायं पुरुषः स्वयंज्योतिः भवति ॥ ९ ॥

प्र. - ननु ‘स्वप्नो भूत्वेमं लोकमतिक्रामति’ इति स्वप्ने शरीरव्यतिरेकप्रदर्शनमयुक्तम्; एतल्लोकपरलोकयोरेव शरीरपरिग्रहस्थानत्वात्; स्वप्नस्यातथात्वात् इत्याशङ्क्याह - तस्य वा…… परलोकस्थानञ्च इति । तस्यैतस्य पुरुषस्य - जीवस्य शरीरपरिग्रहे अयञ्च परश्च लोक इति स्थानद्वयमेव लोके प्रसिद्धमित्यर्थः । सन्ध्यं तृतीयं स्वप्नस्थानम् । सन्धौ भवं सन्ध्यम् । स्वप्नरूपस्थानं तु ‘पूर्वोक्तस्थानद्वयानुभवयोग्यत्वात् सन्ध्यं तृतीयस्थानमेव भवतीत्यर्थः । मृतः परलोकं पश्यति; जाग्रत् पुरुषस्तु इममेव लोकं पश्यति; स्वप्नावस्थस्तु कदाचिदिमं लोकं पश्यति। कदाचित् परलोकं स्वर्ग’नरकादिकं पश्यति । अतः स्थानद्वयदर्शनयोग्या विलक्षणेयं स्वप्नावस्था इत्यर्थः । अमुमेवार्थं प्रपञ्चयति - तस्मिन् सन्ध्ये…… परलोकस्थानञ्च । स्पष्टोऽर्थः । ननु एतद्देहपरित्यागानन्तरभाविनः परलोकस्थानदर्शनस्य कथं स्वप्नावस्थपुरुषदृश्यत्वं सम्भवति; [अतः स्वप्ने दृश्यं परलोक- स्थानमन्यदेव] इत्यत्राह - अथ…… पश्यति । आक्रामति अनेन इत्याक्रमः आश्रयः पुण्यपापरूपः । यादृक्पुण्यपापरूपाक्रमविशिष्टस्सन् परलोके सुखदुःखे अनुभवति; तमेव तादृशमेव पुण्यपापलक्षणमाक्रममाक्रम्य अथ - तदा स्वप्ने प्रतिकूलान् अनुकूलांश्च उभयविधान् पदार्थान् पश्यति । ततश्च स्वप्ने परिदृश्यमानमेतदेहातिरिक्तदेहभोग्यं ‘पुण्यपापवर्जितं’ परलोकस्थानमेव इत्यर्थः । ननु स्वप्ने परलोकवत् पुण्यपापादिवशेन पदार्थसृष्टौ स्वयंञ्ज्योतिष्ट्वं कुतोऽभ्युप- गन्तव्यम् । इन्द्रियाणां प्रकाशकानां सत्त्वादित्याशङ्क्याह - स यत्र…… प्रस्वपिति - जीवः यत्र - यदा प्रस्वपिति - स्वप्नान् अनुभवति, तदा सर्वावतः - सर्वतो भोग्यभोगोपकपकरणादिसर्वयुक्तस्य अस्य - जगतः जाग्रत्प्रपञ्चस्य ‘मात्रां’ - मीयतेऽनेनेति मात्रा प्रकाशको जाग्रदवस्थेन्द्रियवर्गः तमुपादाय, स्वयमेव तमिन्द्रियवर्ग निहत्य-

निश्चेष्टतामापाद्य निर्व्यापारं कारयित्वा इति यावत् । अथ स्वाप्निकदेहेन्द्रियादि वस्तुजातं स्वयं निर्माय - सृष्ट्वा - अत्रोक्तं जीवस्य स्वाप्नपदार्थनिर्मातृत्वमदृष्टद्वारा इति द्रष्टव्यम् । अग्रे स हि कर्ता इति वाक्येन तेषामीश्वरसृष्टत्वस्य वक्ष्यमाणत्वात् । परैरपि अदृष्टद्वारा इत्युक्तत्वाञ्च । स्वेन भासा इत्यस्यैव विवरणं स्वेन ज्योतिषा इति । प्रस्वपिति

स्वप्नमनुभवति इत्यर्थः । अत्र - अस्यां दशायां पुरुषः - जीवः स्वयंज्योतिर्भवति । प्रकाशकान्तराभावात् इत्यर्थः । यद्यपि स्वप्नपदार्थभानं स्वाप्निकेन्द्रियद्वारप्रसृमरेण धर्मभूतज्ञानेनैव, नात्मज्योतिषा । तथापि आदित्यादि प्रकाशकान्तरस्थानाभिषिक्तः आत्मैवेति भावः । यद्यपि स्वप्नेऽपि आदित्यादिज्योतिस्सृष्टयभ्युपगमे प्रकाशकान्तरव्यतिरेको न वक्तुं शक्यः तथापि लोकप्रसिद्धादित्यादिज्योतिरन्तराभावात् जाग्रदादिवैषम्यमस्तीति अत्रोक्तं स्वयंज्योतिष्ट्वं प्रसिद्धज्योतिरनपेक्षप्रकाशकत्वमेवेति द्रष्टव्यम् ॥ ९ ॥

[स्वप्नसृष्टिः]

न तन्त्र रथा न रथयोगा न पन्थानो भवन्ति; अथ रथान् रथयोगान् पथः सृजते । न तत्रानन्दा मुदः प्रमुदो भवन्तिः अथानन्दान् मुदः प्रमुदः सृजते । न तत्र वेशान्ताः पुष्करिण्यः स्रवन्त्यो भवन्तिः ‘अथ वेशान्तान् (न्ताः) पुष्करिण्यः स्रवन्त्यः सृजते । स हि कर्ता ॥ १० ॥

प्र. - ननु, आत्मनैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते इत्यादि नोपपद्यते; स्वप्ने आसनगमनक्रियाकर्मकरणादीनामसत्त्वात् इत्याशङ्क्याह - न तत्र रथा…… सृजते । युज्यन्ते इति योगाः । रथयोगाः - अश्वादयः । रथरथाश्वमार्गादयः जाग्रदृशानुभवयोग्याः तत्र - स्वप्ने न सन्ति - न ज्ञायन्ते । अथ तु तत्तत्पुरुषतत्त्कालमात्रानुभाव्यान् रथादीन् अर्थान् परमात्मा सृजते इत्यर्थः । एवमग्रेऽपि द्रष्टव्यम् । अनुकूलवस्तुदर्शनजा प्रीतिः आनन्दः । तस्मिन् स्वकीयत्वबुद्धिजा प्रीतिः मुत् । तद्विनियोगजा प्रीतिः प्रमुत्वेशान्ताः - वेशन्ताः, पल्वलानि । वेशान्ता इति दीर्घश्छान्दसः । पुष्करिण्यः । वाप्यः । स्रवन्त्यः - नद्यः । ‘पुष्करिणीः स्रवन्तीः सृजत’ इत्यर्थः । पुष्करिण्यस्रवन्त्यस्सृजत इत्यत्र वा छन्दसि इति वा पूर्वसवर्णदीर्घाभावः । ननु स्वप्नदृक् यस्मिन् देशे यदा रथं पश्यति, तदानीं तत्र स्थितोऽन्यः तं न पश्यति । स्वप्नदृगपि प्रबोधानन्तरं तत्र गतः तं न पश्यति । तत्र तस्यान्यत्र नयनचिह्नानि वा नाशचिह्नानि वा नोपलभ्यन्ते । अतः कथमीदृशी स्वप्नार्थसृष्टिरुपपद्यताम् इत्यत्राह - स हि कर्ता । सकलप्रपञ्चनाटकसूत्रधारः सर्वेश्वरः खलु तत्र कर्ता । स किं वा कर्तुं न शक्नुयादिति हि शब्दाभिप्रायः । न च स हि इत्यनेन, स यत्र प्रस्वपिति इति प्राक्प्रस्तुतो जीव एव परामृश्यतामिति वाच्यम् - सन्ध्याधिकरणे तस्य निरस्तत्वात् ।

[सन्ध्याधिकरणविचारः]

तथा हि सन्ध्ये सृष्टिराह हि (ब्र.सू.३-२-१) / न तत्र रथाः न रथयोगाः इति वाक्ये सन्ध्ये - स्वप्नस्थाने जीवकर्तृकैव सृष्टिराम्नायते । स हि कर्ता इति स्वप्नदृशं प्राक्प्रस्तुतं जीवमेव इति शब्देन परामृश्य तस्य कर्तृत्वं श्रुतिराह हि । निर्मातारञ्चैके पुत्रादयश्च

(ब्र.सू.३-२-२) । एके शाखिनः, य एषु सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः

(क.उ.५-८) इति कामानां निर्मातारं जीवमामनन्ति । अत्र कामशब्देन काम्यमानाः पुत्रादयो वर्ण्यन्ते । ‘पूर्व हि’, सर्वान् कामान् छन्दतः प्रार्थयस्व (क.उ.१-२५) शतायुषः पुत्रपौत्रान्

वृणीष्व (क.उ.१-२३) इति पुत्रादयो हि कामाः प्रकृताः । अतो जीव एवात्र कर्तृत्वेनाभि- धीयते । न च जीवस्य कथमीदृशं सृष्टिसामर्थ्यमिति वाच्यम् - प्रजापतिवाक्ये जीवस्यापि ‘सत्यसङ्कल्पादेराम्नानात् । न च तत् संसारदशायां तिरोहितमिति वाच्यम् मुक्ताविव “स्वप्नदशायामाविर्भावसम्भवादिति द्वाभ्यां सूत्राभ्यां पूर्वपक्षे प्राप्ते उच्यते- मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् । (ब्र.सू.३-२-३) तु शब्दः पक्षं व्यावर्तयति । मायाशब्दो ह्यश्चर्यत्वं प्रवृत्तिनिमित्तीकृत्य भगवत्सङ्कल्पवाची । माया

वयुनं ज्ञानं इति निघण्ठुपाठाच्च मायाशब्दो ज्ञानरूपसङ्कल्पवचनः । मायामात्रम् - भगवत्सङ्कल्पमात्रस्पृष्टम्; न तु जीवसृष्टमित्यर्थः । तत्र हेतुः कार्त्स्न्येनानभि- व्यक्तस्वरूपत्वात् इति । जीवस्य सत्यसङ्कल्पत्वादिब्राह्मरूपस्य प्रजापतिवाक्योदितस्य संसारदशायां सर्वात्मना अनभिव्यक्तत्वात् न तस्य कर्तृत्वसंभावनापि स हि कर्ता इति हि

शब्देन प्रसिद्धस्यैव कर्तृतया निर्देशात् । स्वप्नदृश एव कर्तृत्वे स्वाहितचोरव्याघ्रादेः सृष्टिर्नोपपद्येत । इमान् स्वप्नान् पदार्थानस्राक्षमिति प्रतिसन्धानप्रसङ्गाच्च । कामं कामं पुरुषो

निर्मिमाणः इत्यत्र, तदेव शुक्रं तद्ब्रह्म इत्युक्त्या तस्य वचनस्य ब्रह्मविषयत्वाच्च न जीवस्य स्रष्टुत्वम् । ननु स्वाभाविकस्यापहतपाप्मत्वादेः सत्यसङ्कल्पत्वपर्यन्तस्यानभिव्यक्तिः किन्निबन्धना इत्यत्राह - पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ (ब्र.सू.३-२-४) । पराभिध्यानात् परमात्मसङ्कल्पात् तत् तिरोहितं भवति । तत्सङ्कल्पादेव हि अस्य जीवस्य बन्धो मोक्षश्च । यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते, अथ

सोऽभयं गतो भवति; यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते, अथ तस्य भयं भवति

(तै.आन.२-७)। एष ह्येवानन्दयति इति श्रवणात् । देहयोगाद्वा सोऽपि (ब्र.सू.३-२-५) । सोऽपि तिरोभावः सृष्टिकाले देहयोगद्वारेण वा भवति; प्रलयकाले सूक्ष्माचिच्छक्तियोगद्वारेण वा भवतीत्यर्थः । सूचकश्च हि श्रुतेराचक्षते च तद्विदः (ब्र.सू.३-२-६) स्वाप्नार्थो हि शुभाशुभसूचकः । यदा कर्मसु काम्येषु स्रियं स्वप्नेषु पश्यति ।

समृद्धिं तत्र जानीयात् तस्मिन् स्वप्ननिदर्शने ॥ (छां.उ.५-२-९)

स्वप्ने पुरुषं कृष्णं कृष्णदन्तं पश्यति, स एनं हन्ति । इति श्रुतेः

आचक्षते च स्वप्नाध्यायविदस्तथा । ततश्च यदि इयं स्वप्नसृष्टिः जीवकर्तृका, तर्हि शुभसूचकानेव सृष्ट्वा पश्येत् नाशुभसूचकान् । अतः न जीवकर्तृकेयं सृष्टिः इत्युभयलिङ्गपादे स्थितम् । यदत्र परैरुच्यते - स्वप्नसृष्टेः सत्यत्वे रथादिसृष्टिवत् आदित्यादेरपि सृष्ट्यभ्युपगमे जाग्रद्दशावत् स्वप्नेऽपि ज्योतिरन्तरव्यतिकरसत्त्वात् स्वप्नप्रकाशत्वस्य दुर्विवेचता स्यात् । अतः स्वप्नदृष्टानां सत्यत्वं प्रकरणावरुद्धमिति - तदसत् । परमतेऽपि मनसः प्रकाशकस्य सत्त्वेन स्वप्ने स्वयंज्योतिष्ट्वसाधनम् ‘असङ्गतमेव हि स्यात् । तस्मात् लोकप्रसिद्धादित्यादि अभावेऽपि स्वकीयज्ञानेन’ भासकरवात् स्वयंज्योतिष्ट्वमस्तीत्यत्रैवास्याः श्रुतेस्तात्पर्यमिति सिद्धम् । प्रकृतमनुसरामः ॥ १० ॥

[स्वप्नविषयकश्लोकाः]

तदेते श्लोका भवन्ति - स्वप्नेन शारीरमभिप्रहत्य असुप्तः सुप्तानभिचाकशीति । शुक्रमादाय पुनरेति स्थानँ हिरण्मयः पुरुष एकहँसः ॥ ११ ॥

प्र.- तदेते श्लोका भवन्ति । तत् - सुप्तमधिकृत्य एते - वक्ष्यमाणश्लोकाः प्रवृत्ता इत्यर्थः । स्वप्नेन - अभिचाकशीति । स्वप्नेन इतीत्थंभावे तृतीया । पुरुषः- जीवः स्वप्नेन उपलक्षितस्सन् शारीरं - शरीरमभिप्रहृत्य निश्चेष्टताम् आपाद्य असुप्तः . ‘अलुप्त’प्रकाश एव सन् सुप्तान् - लुप्तप्रकाशान् प्राणान् अभितः चाकशीति । ‘कश

गतिशासनयोः ’ (धा.पा.१०२४) इत्यस्मात् यङ्लुगन्तात् इदं रूपम् । पर्यटतीत्यर्थः । शुक्रं

(शुक्लं ) - ज्योतिष्मत् प्रकाशकं मन ‘आदिकमिन्द्रियोवर्गमादाय स्वप्नान्ते पुनः स्वस्थानमेति . जाग्रदृशां प्रतिपद्यत इत्यर्थः । हिरण्मयः प्रकाशमयः । एकहँसः - एक एव हन्ति . गच्छतीति एकहँसः ॥ ११ ॥ प्राणेन रक्षन्नवरं कुलायं बहिष्कुलायायमृतश्चरित्वा । स ईयतेऽमृतो यत्र कामँ हिरण्मय पुरुषः एकहँसः ॥ १२ ॥

प्र. - प्राणेन…… एकहँसः । सः - जीवः स्वप्ने अवरं - निकृष्टं कुलायं - स्थूलं शरीरं प्राणेन - पञ्चवृत्तिप्राणेन रक्षन् प्राणस्यापि स्वप्ने जीवेन सह निर्गमे सद्यो मरणमेव स्यात् । अतः प्राणेन शरीरं रक्षन् - अत एव अमृत एव सन् कुलायात् -जाग्रच्छरीरात् बहिर्निगम्य यत्र कामं - काम्यत इति कामम् - यत्र भोग्यम्, तत्र सर्वत्र चरित्वा अमृतः - अमरणधर्मा हिरण्मयः एकहंसः पुरुषः पुनरपि स्वस्थानम् ईयते - गच्छति इत्यर्थः । यद्वा कुलायात् बहिः चरित्वा यत्र कामं तत्र ईयते - गच्छति इत्यर्थः ॥ १२ ॥ स्वप्नान्त उच्चावचमीयमानो रूपाणि देवः कुरुते बहूनि । उतेव स्रीभिः सह मोदमानो जक्षदुतेवापि भयानि पश्यन् ॥ १३ ॥

प्र.-स्वप्नान्ते…… बहूनि । स्वप्नान्ते - स्वप्नमध्ये इत्यर्थः । अन्तशब्दो मध्यवचनः । उच्चावचं - पुण्यपापलक्षणम् उत्कृष्टापकृष्टम् ईयमानः - सङ्गच्छमानो देवः जीव इत्यर्थः । बहूनि - देवादीनि रूपाणि कुरुते - भजत इत्यर्थः । उतेव…… पश्यन्उत - अपि च । उतशब्दः अप्यर्थः । स्रीभिस्सह मोदमान इव क्वचिद्रूपेषु भवति । क्वचिच्च जक्षदिव …… जक्षणं भक्षण ‘हसनं वा’ । ‘जक्ष भक्षणहसनयोः’ (धा.पा.१०७१) इति हि धातुः । उत - अपि च भयानि - बिभेति एभ्य इति भयानि - व्याघ्रादीनि पश्यन्निवापि भवतीत्यर्थः । स्वप्नार्थानां तत्कालमात्रावसानत्वात् तदेकानुभाव्यत्वाच्चान्न इवशब्दः ॥ १३ ॥

आराममस्य पश्यन्ति न तं पश्यति कश्चन इति । तत्रायतं बोधयेदित्याहुः । दुर्भिषज्यं हास्मै भवति, यमेष न प्रतिपद्यते । अथो खल्वाहुर्जागरितदेश एवास्यैष इति । यानि ह्येव जाग्रत् पश्यति; तानि सुप्त इति । अत्रायं पुरुषः स्वयंज्योतिः भवति । ‘सोऽयं भगवते सहस्रं ददामि; अत ऊर्ध्वं विमोक्षाय ब्रूहीति ॥ १४ ॥

प्र.- आराममस्य पश्यन्ति न तं पश्यति कश्चन । अस्य - जीवस्य आरामं - ‘भोगोपकरण’भूतमुद्यानादिकं देहेन्द्रियादिकं च सर्वेऽपि पश्यन्ति । तं - देहेन्द्रियादि विविक्तम् अन्तर्बहिस्सञ्चरन्तमपि जीवं कश्चन न पश्यतीति लोकं प्रत्यनुक्रोशं दर्शयति श्रुतिः । इति मन्त्रसमाप्तौ । लोकप्रसिद्धिरपि तथा इत्याह - तत्रायतं…… प्रतिपद्यते इति । यत एव स्वप्ने इन्द्रियाण्युपसंहृत्य जीवो बहिनिर्गच्छति तत् अत एव’ आयतं - गाढसुप्तं यम उपरमे (धा.पा.९८४) अनुदात्तोपदेश (पा.सू.६-४-३७) इत्यनुनासिकलोषः । ‘तं सहसा न’ बोधयेत् इत्याहुः चिकित्सकाः । ते हि तत्र दोषं पश्यन्ति । कोऽयं दोषः? एषः सहसा प्रबोधितो जाग्रच्छरीरे प्रविशन् बहिनिर्गत आत्मा यं कञ्चित् इन्द्रियदेशं न प्रतिपद्यते यदि कदाचित् तर्हि व्यत्यासेन इन्द्रियाणि इन्द्रियान्तरदेशे प्रवेशयेत् । तत्र आन्ध्यबाधिर्यादिदोषप्राप्ती ‘दुर्भिषज्यं’ - दुःखेन भिषक् कर्मास्मै दोषाय भवति । अयं दोषो दुर्विचिकित्स एव स्यादित्यर्थः । अथो…… सुप्त इति । अथो इति वाक्यान्तरोपक्रमे । खलु प्रसिद्धं अन्ये आहुः - किमिति । जागरित देशे जाग्रत्स्थान ‘एवास्य जीवस्य एषः - स्वप्न इति; न स्थानान्तर इति । तत्र च हेतुमाहुः; यान्येव हस्त्यादीनि जाग्रत् पश्यति; तानि सुप्तोपि पश्यतीति । अत्र मतान्तरत्वेन उपन्यासस्यायं भावः - ‘उपरतेष्वेव इन्द्रियेषु’ हि स्वप्नान् । पश्यति । अतो न तत्र जागरितदेशस्यावकाशोऽस्ति । अतः तृतीयस्थानमेव स्वप्नस्थानमिति । केचित्तु अथो खल्वाहुरित्यादिग्रन्थोऽपि पूर्वोक्ताऽर्थोपादक एव; न मतान्तरम् । तथाहि - जागरितशब्दात् ईषदसमाप्तौ देश्यप्रत्यये छान्दसो यलोपः । जागरितादीषन्न्यूनमेवास्य जीवस्य स्वप्रस्थानमित्यर्थः । दिनान्तरानुभवायोग्यत्वम् ईषन्न्यूनत्वम् । उक्त एवार्थः उपपत्त्या समर्थ्यते, यानि ह्येव जाग्रत् पश्यति, तानिसुप्त इति । यानि स्रक्चन्दनवनितान्नपानादीनि जाग्रद्दशायां पश्यति, “तादृश्यान्येवार्थ’ क्रियाकारीणि तानि स्वप्ने पश्यति । अतः स्वप्नार्थाः सृष्टा एव भगवता । तस्मादिह परलोकव्यतिरिक्तस्थानान्तरमेव स्वप्न स्थानमित्यर्थः’ इत्याहुः ॥ उक्तं स्वयंज्योतिष्ट्वमुपसंहरति - अत्रायं पुरुषः स्वयंज्योतिर्भवति । पूर्ववदर्थः । जनक आह - सोऽहं भगवते सहस्रं ददामि । प्राप्तस्वयंज्योतिष्ट्वविद्यानिष्क्रयत्वेन सहस्रं गवां दक्षिणात्वेन ददामि । अत ऊर्ध्व विमोक्षायैव ब्रूहीति । अतः परं ‘संसारविमोक्षायैव साधनं ब्रूहि नान्यत् किञ्चिदपेक्षितमिति भावः ॥ १४ ॥

[जाग्रत्स्वप्नसुषुप्तिकथनम्]

स वा एष एतस्मिन् सम्प्रसादे रत्वा चरित्वा दृष्ट्वैव पुण्यञ्च पापञ्च पुनः

प्रतिन्यायं प्रतियोन्याद्रवति स्वप्रायैव । स यत् तत्र किञ्चित् पश्यति, अनन्वागतस्तेन भवति; असङ्गो ह्ययं पुरुष इति । एवमेवैतद्याज्ञवल्क्य! सोऽहं भगवते सहस्रं ददामि; अत ऊर्ध्वं विमोक्षायैव ब्रूहीति ॥ १५ ॥

प्र. - याज्ञवल्क्य आह - स वा एष…… स्वप्नायैव । सम्प्रसीदति अस्मिन्निति सम्प्रसादः । जागरिते देहेन्द्रियादिव्यापारशतसन्निपातजन्यं कालुष्यमस्ति । स्वप्ने तु तेभ्यो विप्रमुक्त ईषत् प्रसीदति । अतः सम्प्रसादशब्देन स्वप्रस्थानमुच्यते । यद्यपि समासादशब्दः सुषुप्तौ मुख्यः - अथापि स्वप्नस्य प्राक्प्रस्तुतत्वात् तस्यैव एतस्मिन् सम्प्रसाद इति एतच्छब्दसमानाधिकरणसम्प्रसादशब्देन परामर्शो युक्तः । तस्मिन्’, जिगमिषिते सतीति शेषः । रत्वा - रमेरनिदित्वात् अनुदात्तोपदेश इत्यनुनासिकलोपः । स एष जीवः जागरिते रत्वा - क्रीडित्वा चरित्वा - भक्षयित्वा; विहृत्य वा - चरगतिभक्षणयोः

(धा.पा.५५९) इति हि धातुः । दृष्ट्वैव पुण्यञ्च पापञ्च - पुण्यपापफलमनुभूय ततः पुनः सम्प्रसादे - स्वप्रस्थाने जिगमिषिते सति प्रतिन्यायं - यथान्यायं यथानिर्गतमित्यर्थः । अयनं - आयः निर्गमनमित्यर्थः । पूर्वं स्वप्रस्थानात् यथा निर्गतः तथैवेति यावत् । प्रति योनि - योनिशब्दः स्थानवाची स्थानं प्रति स्वप्रस्थानं प्रति आद्रवति - आगच्छति । स्वप्नाय - स्वप्नानुभवाय इत्यर्थः । स यत्तत्…… भवति । तत्र जाग्रदृशायां सः जीवः यत्किञ्चित् - मनुष्यव्याघ्रशरीरादिकं आत्मीयत्वेन पश्यति; तेनानन्वागतो भवति-

तेनाननुसृतो भवति । तत्सम्बन्धरहितो भवतीत्यर्थः । तत्र हेतुमाह - असङ्गो ह्ययं पुरुष इति । कर्माविद्योपाधिकेन शरीरेन्द्रियसंघातादिना असङ्गस्वभावत्त्वात् इत्यर्थः । यदि हि केनचित् सङ्गः स्वभावसिद्धस्स्यात्, तदैव हि तस्य सर्वदा तदनुवृत्तिः स्यात् । अतोऽसङ्गस्वभावत्वात् जाग्रदृशादृष्टपदार्थाननुवृत्तिः युज्यत इति भावः । उक्तमङ्गीकरोति जनकः’ एवमेवैतद्याज्ञवल्क्य इति । सोऽहं…… ब्रूहीति । पूर्ववदर्थः ॥ १५ ॥

स वा एष एतस्मिन् स्वप्नान्ते रत्वा चरित्वा दृष्ट्वैव पुण्यञ्च पापञ्च पुनः

प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायैव । स यत् तत्र किञ्चित् पश्यति, अनन्वागतस्तेन भवति; असङ्गो ह्ययं पुरुष इति । एवमेवैतद्याज्ञवल्क्य । सोऽहं भगवते सहस्रं ददामि । अत ऊर्ध्वं विमोक्षायैव ब्रूहीति ॥ १६ ॥

प्र. - स वा एष…… ब्रूहीति । स्वप्नान्ते - स्वप्नस्थाने इत्यर्थः । अन्तशब्दः स्थानवचनः । अन्तः समाप्तौ स्थाने च निर्णयेऽभ्यन्तरेऽपि च इति हि नैघण्टुकाः । बुद्धान्तायैव - बुद्धं - बोधः । भावे निष्ठा । अन्तशब्द स्थानवचनः । ‘स्थिरबोधस्थानाय । जाग्रत्स्थानायेति यावत् । स…… भवति इति । जाग्रदृशायां स्वप्नदृष्टवस्तुसंबन्धरहितो भवतीत्यर्थः । शिष्टं स्पष्टम् ॥ १६ ॥ स वा एष एतस्मिन् बुद्धान्ते रत्वा चरित्वा दृष्ट्वैव पुण्यञ्च पापञ्च पुनः

प्रतिन्यायं प्रतियोन्याद्रवति स्वप्नान्तायैव ॥ १७ ॥

प्र.- स वा एष…… स्वप्नान्तयैव । सर्वं पूर्ववत् ॥ १७ ॥ तद्यथा महामत्स्य उभे कूले अनुसञ्चरति पूर्वं च अपरञ्च, एवमेवायं पुरुष एतावुभावन्तावनुसञ्चरति स्वप्रान्तञ्च बुद्धान्तञ्च ॥ १८॥

प्र. - एवं त्रिभिः खण्डैः जागरितात् स्वप्नान्तं, स्वप्नान्तात् बुद्धान्त, बुद्धान्तात् स्वप्नान्तं याति इत्यारोहावरोहसञ्चारप्रदर्शनेन संसारचक्रप्रवृत्तिर्दर्शिता । अथैकस्यैव पुरुषस्य उभयत्र सञ्चारे दृष्टान्तमाह - तद्यथा महा मत्स्य…… बुद्धान्तञ्च । स्पष्टोऽर्थः ॥ १८ ॥

तद्यथास्मिन्नाकाशे श्येनो वा सुपर्णो वा विपरिपत्य श्रान्तः संहत्य पक्षौ सल्लयायैव ध्रियते, एवमेवायं पुरुष एतस्मा अन्ताय धावति यत्र सुप्तो न कञ्चन कामं कामयते, न कञ्चन स्वप्नं पश्यति ॥ १९ ॥

प्र.- एवं स्थानद्वयसञ्चारं प्रदर्श्य सुषुप्तिदशां प्रकाशयति तद्यथा…… पश्यति इत्यादि । यथा आकाशे श्येनो वा गरुडो वा विपरिपत्य - विशेषेण परितः पतनं कृत्वा श्रान्तस्सन् पक्षौ संहृत्य सल्लयाय- लीयते अस्मिन् पक्षीति लयः नीडं समीचीननीडायैव ध्रियते - अवतिष्ठते धृङ् अवस्थाने (धा.पा.१४१३) इति हि धातुः । क्षेमङ्करं नीडमभिधावति इत्यर्थः । एवमेवायं पुरुषः - ‘जीवः बुद्धान्तस्वप्नान्तसञ्चरणश्रान्ते’, यत्र स्थाने ‘सुप्तोऽयं’ कामाद्यनुपहतः स्वाप्नांश्चानुकूलप्रतिकूलपदार्थान् न पश्यति । तादृशाय पूर्वोक्तस्थानद्वयकालुष्यविरहिताय ‘सुषुप्तिस्थानाय’ धावति इत्यर्थः ॥ १९ ॥

ता वा अस्यैता ‘हिता’ नाड्यो यथा केशः सहस्रधा भिन्नः तावताणिम्ना तिष्ठन्ति शुक्लस्य नीलस्य पिङ्गलस्य हरितस्य लोहितस्य पूर्णा अथ यत्रैनं घ्नन्तीव जिनन्तीव हस्तीव विच्छाययति गर्तमिव पतति । यदेव जाग्रद्भयं पश्यति तदत्राविद्यया मन्यते अथ यत्र देव इव राजेव अहमेवेदँ सर्वोऽस्मीति मन्यते सोऽस्य परमो लोकः ॥ २० ॥

प्र. - ननु कचित्स्वप्नादिदर्शनं कचित्तदभाव इत्यत्र किं विनिगमकमिति शङ्कायां स्थानवैषम्यकृतमित्याह ता वा…… सहस्रधा भिन्न इत्यादि । यत्र - स्थाने स्थितम् एनं - जीवं केचन घ्नन्तीव केचन जिनन्तीव , जयन्तीव, हस्ती विच्छाययतीव-

गजो विद्रावयतीव; गर्तमिव पतति - ‘पतननिमित्त भाति । ताः- अस्य पुरुषस्य तादृशस्थानभूताः । स्वप्नदर्शनस्थानभूता इत्यर्थः । केशसहस्रांशो यावता अणिम्ना

सौक्ष्म्येण तिष्ठति तावदतिसूक्ष्माः शुक्लनीलपिङ्गलहरितलोहितादि नानारूपान्नरसचूर्णाः हितानामिका नाड्यो भवन्तीत्यर्थः । यदेव जाग्रद्भयं पश्यति तदत्राविद्यया मन्यते । यद्यज्जाग्रदवस्थायां भयसाधनं पश्यति तत्सर्वमत्र आसु नाडीषु अविद्यया - कर्मवशात् मन्यते - प्रत्येति । हितनामकस्वप्नवहनाडीस्थितस्य कर्मबन्धसत्त्वात् भीषणस्वप्रपदार्थ प्रतिभानं सम्भवतीति भावः । अथ यत्र…… परमो लोकः । स यथा कुमारो वा महाराजो वा महाब्राह्मणो वा अतिघ्नीम् आनन्दस्य गत्वा शयीत एवमेवैष एतच्छेते इति बाला ब्राह्मणोक्तरीत्या यत्र स्थाने स्थितस्य देववत् राजवच्चानन्दानुभवः, किञ्च यत्र स्थितः अहमेव सर्वोस्मीति मन्यते । स्वव्यतिरिक्तानुकूलप्रतिकूलवस्तु नोपलभते सोऽस्य जीवस्य परमो लोकः

मुख्याश्रयः परमात्मा इति यावत् । अतस्तत्र सुषुप्तिस्थाने स्थितस्य न स्वप्नाद्युपलम्भ इति भावः ॥ २० ॥