बृहदारण्यकोपनिषत् पञ्चमोऽध्यायः Part 3 पञ्चमाध्याये नवमब्राह्मणम् शाकलब्राह्मणम् [शाकल्येन देवताविषयकप्रश्नः] अथ हैनं विदग्धः शाकल्यः पप्रच्छ, कति देवा याज्ञवल्क्येति । स हैतयैव निविदा प्रतिपेदे, यावन्तो वैश्वदेवस्य निविद्युच्यन्ते, प्रयश्च त्री च शतात्रयश्च त्रीच सहस्रति । ओमिति होवाच, कत्येव देवा याज्ञवल्क्येति । त्रयस्त्रिंशदिति । ओमिति होवाच; कत्येव देवा याज्ञवल्क्येति । षडिति । ओमिति होवाच, कत्येवदेवा याज्ञवल्क्येति । त्रय इति । ओमिति होवाच; कत्येव देवा याज्ञवल्क्येति । द्वाविति । ओमिति होवाच, देवा याज्ञवल्क्येति । अध्यर्ध इति । ओमिति होवाच; कत्येव देवा याज्ञवल्क्येति । एक इति । ओमिति होवाच कतमे त्रयश्च त्री च शता त्रयश्च त्री च सहस्रति ॥ १॥
प्र. - अथ हैनं….पप्रच्छ इति । शकलस्यापत्यं शाकल्यः । विदग्धः समर्थम्मन्यः इति यावत् । प्रश्नमेवाह - कति देवा याज्ञवल्क्येति । किं संख्याका देवा इत्यर्थः । स हैतयैव निविदा प्रतिपेदे । सः- एवं पृष्टो याज्ञवल्कयः एतया - वक्ष्यमाणयैव निविदा देवतासङ्ख्या प्रतिपेदे - प्रत्यपादयत् । उक्तवानिति यावत् । तदेव व्याकरोति यावन्तो…..निविद्युच्यन्ते इति । वैश्वदेवस्य शास्रस्य निविदि - निविन्नाम वैश्वदेवशस्रे शस्यमानः देवतासङ्ख्यावाचकपदयुक्तमन्त्रविशेषः । तस्यां निविदि यावन्तो देवाः श्रूयन्ते, तावन्तो देवा इत्यर्थः । कियन्त तत्रोच्यन्ते इत्यत्राह - त्रयश्च त्री च शता सहस्रेति । त्रयश्च त्री च शता - त्रयश्च त्रीणि शतानि इत्यर्थः । उभयत्र सूपां सुलुक्
(पा.सू.७-१-३९) इत्यादिना पूर्वसवर्णादेशः । त्र्यधिका त्रिशतीत्यर्थः । एवमुत्तरत्रापि । त्रयश्च त्री च सहस्रा । त्र्यधिका त्रिसहस्रीति यावत् । उक्तमङ्गीकरोति शाकल्यः ओमिति । उवाच । ‘विदग्ध’ इति शेषः । पुनरपि सूक्ष्मदृष्ट्या पृच्छति कत्येव देवा याज्ञवल्क्येति । उत्तरमाह - त्रयस्त्रिंशदिति । शाकल्योऽङ्गी करोति ओमिति । पुनरपि सूक्ष्मदृष्ट्या पृच्छति कत्येव । याज्ञवल्क्य उत्तरमाह षडिति । अभ्युपगच्छति ॥ ओमिति । एवमुत्तरत्रापि द्रष्टव्यम् । अध्यर्ध इति । एक इति शेषः। अर्धाधिक एक इत्यर्थः । शिष्टं स्पष्टम् । एवं देवता सङ्कोच विकासविषयां संख्यां पृष्ट्वा संख्येयस्वरूपं पृच्छति शाकल्यः; कतमे ते- सहस्रेति । पूर्ववदर्थः ॥ १ ॥
[देवतासंख्याविवरणम्] स होवाच महिमान एवैषामेते त्रयस्त्रिंशत्त्वेव देवा इति कतमे ते त्रयस्त्रिशदिति । अष्टौ वसवः एकादशरुद्राः, द्वादशादित्यास्त एकस्त्रिंशत् इन्द्रश्चैव प्रजापतिश्च त्रयस्त्रिंशाविति ॥ २ ॥
प्र. - स होवाच इति । अत्र याज्ञवल्क्य उत्तरमाहेत्यर्थः । तदेवाह - महिमान - - देवा इति । एषां - त्रयस्त्रिंशतो देवानामेते षडधिकत्रिशताधिकत्रिसहस्रभेदाः महिमान एव - गुणभूता इत्यर्थः । तथैव व्यासार्यैः विरोधः कर्मणि (ब्र.सू.१-३-२६) इति सूत्रे उक्तम् । तस्मात् त्रयस्त्रिंशदेव देवा इत्यर्थः । पृच्छति कतमे ते त्रयस्त्रिंशदिति । उत्तरम् । अष्टौ वसवः । स्पष्टम् इन्द्रश्चैव प्रजापतिश्च त्रयस्त्रिंशाविति । त्रयस्त्रिंशतः
पूरणौ इत्यर्थः । इन्द्रो द्वात्रिंशः । प्रजापतिः त्रयस्त्रिंश इत्यर्थः ॥ २ ॥
[वसूनां विवरणम्] कतमे वसव इति? अग्निश्च पृथिवी च वायुश्चान्तरिक्षं च आदित्यश्च द्यौश्च चन्द्रमाश्च नक्षत्राणि च एते वसव एतेषु हीदं सर्वं वसु हितमिति तस्माद्वसव इति ॥ ३ ॥
प्र. - पुनः पृच्छति कतमे वसव इति । अष्टौ वसव इत्युक्ता वसवः के इत्यर्थः । उत्तरम् । अग्निश्च पृथिवी - - - वसवः । स्पष्टम् । उक्तानां वसुत्वमुपपादयति - एतेषु - - इति । यस्मात् एतेषु - अग्नयादिषु सर्वमिदं वसुशब्दवाच्यं धनं हितं -
निहितम् , ते तस्मात् ‘वसवः’ इत्युच्यन्त इत्यर्थः । अस्मिन् प्रकरणे अग्निपृथिव्यादिशब्दाः तत्तदभिमानिदेवता परा इति द्रष्टव्यम् ॥ ३ ॥
[रुद्रदेवतासङ्ख्या] कतमे रुद्रा इति दशेमे पुरुषे प्राणा आत्मैकादशस्ते यदस्माच्छरीरान्मर्त्या- दुत्क्रामन्त्यथरोदयन्ति तद्यद्रोदयन्ति तस्माद्बुद्रा इति ॥ ४ ॥
प्र. - पृच्छन्ति कतमे रुद्रा इति । एकादश रुद्रा इत्युक्ता के इत्यर्थः । उत्तरं - दशमे पुरुषे प्राणा आत्मैकादशः । ज्ञानकर्मेन्दियाणि दश पुरुषस्थानानि - दशमे
दशेमे इत्यर्थः । दशेमे पुरुषे इति पाठे स्पष्टोऽर्थः । एकादशं तु आत्मा -मन इत्यर्थः । ते प्राणाः यदा अस्मात् मर्त्यात् - मरणधर्मकात् शरीरादुत्क्रामन्ति, अथ तदा म्रियमाणं पुरुषं रोदयन्तीति ‘रुद्रा’ इत्यर्थः ॥ ४ ॥
[आदित्य विशेषकथनम्] कतम आदित्या इति । द्वादश वै मासाः संवत्सरस्य एत आदित्या एते हीदँ सर्वमाददाना यन्ति ते यदिदँ सर्वमाददाना यन्ति तस्मादादित्या इति ॥ ५ ॥
प्र. - पृच्छति कतम आदित्या इति । द्वादशादित्या इत्युक्ताः के इत्यर्थः । उत्तरं द्वादश वै- - - इति । स्पष्टम् । तेषामादित्यत्वमुपपादयति । एते हीदं- - -इति।
एते हि मासा इदम् - उत्पत्तिमतां जीवितं सर्वमाददानाः अपहरन्तो यन्ति गच्छन्ति । तस्मादादित्या इत्यार्थः ॥ ५ ॥
[इन्द्रादिस्वरूपविशेषकथनम्] कतम इन्द्रःकतमः प्रजापतिरिति स्तनयित्नुरेवेन्द्रो यज्ञः प्रजा पतिरितिकतमः स्तनयित्नुरित्यशनिरिति कतमो यज्ञ इति पशव इति ॥ ६ ॥
प्र– कतम इन्द्रः कतम प्रजापतिः इति प्रश्नः । स्तनयित्नुरेवेन्द्रो यज्ञः प्रजापतिः इत्युत्तरम् । कतमः स्तनयित्नुः इति पुनः प्रश्नः । अशनिः इत्युत्तरम् । कतमो यज्ञ इति प्रश्नः । अत्रोत्तरम् पशव इति। यज्ञ साधनत्वात् पशव एव यज्ञ इत्युच्यन्ते इत्यर्थः ॥ ६ ॥
[षट्देवतास्वरूपकथनम्] कतमे षडिति । अग्निश्च पृथिवी च वायुश्चान्तरिक्षञ्च आदित्यश्च द्यौश्च । एते षट् । एते ही सर्वगँ षडिति ॥ ७ ॥
प्र– कतमे षडिति प्रश्नः । षडित्युक्ता देवा के इत्यर्थः । एवमग्रेऽपि । उत्तरम् । अग्निश्च पृथिवी च वायुश्चान्तरिक्षं च आदित्यश्च द्यौश्च एते घडेते हीदं सर्वं षडिति । उक्तमिदं सर्वम् एते षट् । एते अग्नयादयः । अत एव एते षडित्यर्थः ॥ ७ ॥
[देवतात्रयस्वरूपकथनम्] कतमे ते त्रयो देवा इति । इम एव त्रयो लोकाः । एषु हि इमे सर्वे देवा इति । कतमौ तौ द्वौ देवाविति । अन्नञ्चैव प्राणश्चेति । कतमोऽध्यर्ध इति । योऽयं पवत इति ॥८॥
प्र. - कतमे ते त्रयो देवा इति प्रश्नः । उत्तरम् इमे एब त्रयो लोकाः देवा इति । सर्वदेवाश्रयत्वात् त्रय एव लोका देवा इत्यर्थः । प्रश्नः कतमौ तौ द्वौ देवौ
इति । उत्तरम् अन्नञ्चैव प्राणश्चेति । कतमोऽध्यर्ध इति प्रश्नः । उत्तरं योऽयं पवत
इति । वायुरेब इत्यर्थः ॥ ८ ॥
[अध्यर्धस्वरूपविवरणम्] तवाहुर्यदयमेक एवेव पवते अथ कथमध्यर्ध इति । यदिदमस्मिन्निदै सर्वमध्यारध्यात् तेनाध्यर्ध इति । कतम एको देव इति । प्राण इति । स ब्रह्म त्पवित्याचक्षते ॥ ५ ॥
प्र. - तदाहुर्यदयमेक - - - इति । यत् - यस्मादयं वायुरेक एव पवते, तत् कथमिवाध्यर्ध इति शङ्कायाम् एवमुत्तरमाहुरित्यर्थः । तदेवोत्तरमाह यदिदमस्मिन् - - इति । अध्यार्ध्नोत् । ऋधु वृद्धौ (धा.पा.१२४६) अधिकवृद्धिं यस्मिन् वायाविदं जगत् प्राप्तम् । तेनायं वायुरध्यर्ध इत्युच्यत इत्यर्थः । कतम एको देव इति प्रश्नः । उत्तरं प्राण इति । ननु प्राणः पवमान पर्यायः । स च अध्यर्ध इत्युक्तः कथमेक इत्युच्यत इत्यत्राह - स ब्रह्म त्यदित्याचक्षते । अत्र प्राणशब्देन, त्यत् - अन्यत् सर्व विलक्षणं ब्रह्मेति यदाहुः, तदेवोच्यत इत्यर्थः । ततश्च ब्रह्मणो महिमानः सर्वे देवा इति पर्यवसितोऽर्यः ॥ १ ॥
[एकस्यैव प्राणस्य अष्टविधभेदः] पृथिव्येव यस्यायतनमग्निर्लोको मनोज्योतिः । यो वै तं पुरुषं विद्यात् सर्वस्यात्मनः परायणम्। स वै वेदिता स्याद्याज्ञवल्क्य । वेद वा अहं तं पुरुषँ सर्वस्य आत्मनः परायणम्, यमात्थ । य एवायँ शारीरः पुरुषः स एषः । यदैव शाकल्य तस्य का देवतेति । अमृतमिति होवाच ॥ १० ॥
प्र. - शाकल्यः पृच्छति - पृथिव्येव - - - याज्ञवल्क्य । यस्य पृथिव्येव आयतनम् - आधारः । शरीरमिति यावत् । यस्याग्निलोकः । लोक्यते अनेनेति लोकः । दर्शनसाधनम् इत्यर्थः । अग्निना हि पश्यति । मनोज्योतिः । मन एव ज्योतिः सङ्कल्प- विकल्पादिकार्यकारि यस्य सः मनोज्योतिः । पृथिव्यायतनकत्वेनाग्निदर्शनसाधनकत्वेन मनसा सङ्कल्पयितृत्वेन च सर्वात्मनां सर्वजीवानां परायणः परमप्राप्यभूतः पुरुषशब्दितः परमात्मा वेद्य इति सिद्धम् । तत्र कीदृशविशेषणविशिष्टः परमात्मा पृथिव्यायतनकत्वेन अग्निदर्शनसाधनकत्वेन मनसा सङ्कल्पयितृत्वेन च ध्यातव्य इति प्रश्नस्य फलितार्थः । ईदृशः परमात्मा पृथिव्यायतनकत्वादिना ज्ञातव्य इति यो ज्ञाता, स एव ज्ञाता हे याज्ञवल्क्य। नान्य इत्यर्थः । एवमुक्तो याज्ञवल्क्य आह - वेद वा - - - यमात्थ । वैशब्द
एवार्थः । अहं सर्वस्यात्मनः परायणं पृथिव्याद्यायतनकत्वादिना उपास्यं यं त्वं वदसि, तमहं जानाम्येव इत्यर्थः । कोऽसावित्यत्राह - य एवायं शारीरः पुरुषः स एषः । शारीरः - जीवः । तदन्तर्यामीति यावत् । यद्वा शारीरः- जगच्छरीरकः । ततश्च जगच्छरीरकत्वविशिष्टः सर्वात्मपरायणभूतः पुरुषशब्दितः परमात्मा पृथिव्यायतनकत्वादिना ध्यातव्य इत्यर्थः । एवं तस्योत्तरमुक्त्वा अस्मिन् विषये ज्ञेयं विशेषणान्तरं याज्ञवल्क्यः स्वयं पृच्छति - वदैव शाकल्यः तस्य का देवतेति । तस्य पृथिव्यायतनत्वादिवेदितुः उपास्य देवता का, पुनरपि किङ्गणविशिष्टा किंरूपविशिष्टा ध्यातव्या । तत् शाकल्य! त्वं वद इत्यर्थः । उत्तरमाह शाकल्यः अमृतमिति । अमृतमिति संज्ञया अमृतत्व- गुणेन वा विशिष्टा ध्यातव्या इत्यर्थः । स त आत्माऽन्तर्याम्यमृतः इति अन्तर्यामिणः अमृतत्वावेदनादिति द्रष्टव्यम् । यद्वा याज्ञवल्क्य आह - वदैव शाकल्य इति । हे शाकल्य! वदैव - पृच्छैव । यत् प्रष्टव्यम्, तत् सर्वं पृच्छ इत्यर्थः । तस्य का देवता इति
शाकल्यप्रश्नः । अमृतमिति याज्ञवल्क्यस्योत्तरम् । एवमुत्तरत्रापि द्रष्टव्यम् ॥ १० ॥ काम एव यस्यायतनं हृदयं लोको मनोज्योतिः । यो वै तं पुरुषं विद्यात् सर्बस्यात्मनः परायणम्, स वै वेदिता स्याद्याज्ञवल्क्य । वेद वा अहं तं पुरुषँ सर्वस्यात्मनः परायणम्, यमात्थ । य एवायं काममयः पुरुषः स एषः । वदैव शाकल्य तस्य का देवतेति । स्रिय इति होवाच ॥ ११ ॥
प्र. - काम एव यस्यायतनम् । काममय इति । काम शरीरक इत्यर्थः । स्रिय इति होवाच इति । स्रि संज्ञकतया ध्यातव्य इत्यर्थः ॥ ११ ॥ रूपाण्येव यस्यायतनं चक्षुर्लोको मनोज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणँ स वै वेदिता स्याद्याज्ञवल्क्य वेद वा अहं तं पुरुषँ सर्वस्यात्मनः परायणं यमात्थ य एवासावादित्ये पुरुषः स एष वदैव शाकल्य तस्य का देवतेति सत्यमिति होवाच ॥ १२ ॥
प्र– रूपाण्येव यस्यायतनम् - - सत्यमिति होवाच इति । तद्यत् सत्यमसौ
स आदित्यो य एष एतस्मिन् मण्डले पुरुषः इति श्रुतेरिति भावः ॥ १२ ॥
आकाश एव यस्यायतनं श्रोत्रं लोको मनोज्योतिः । यो वै तं पुरुषं विद्यात् सर्वस्यात्मनः परायणम्, स वै वेदिता स्याद्याज्ञवल्क्य । वेद वा अहं तं पुरुष सर्वस्य आत्मनः परायणम्, यमात्थ । य एवायं श्रोत्रः प्रातिश्रुत्कः पुरुषः, स एषः । वदैव शाकल्य तस्य का देवतेति । दिश इति होवाच ॥ ३ ॥
प्र– आकाश एव यस्यायतनम् । श्रोत्रः प्रातिश्रुत्कः इति । प्रातिश्रुत्कः - प्रतिध्वनिविशिष्टः । श्रोत्रः - श्रोत्रेण अनुभूयमानः । श्रोत्रानुभूयमानत्वञ्च परमात्मनः प्रतिध्वनिद्वारा द्रष्टव्यम् । दिश इति होवाच इति । दिक्च्छरीरकः दिङ्नामको वा उपास्य इत्यर्थः ॥ १३ ॥ तम एव यस्यायतनं हृदयं लोको मनोज्योतिः । यो वै तं पुरुषं विद्यात् सर्वस्यात्मनः परायणम्, स वै वेदितास्याद्याज्ञवल्क्य । वेद वा अहं तं पुरुषं सर्वस्य आत्मनः परायणम्, यमात्थ । य एवायं छायामयः पुरुषः, स एषः । वदैव शाकल्य तस्य का देवतेति । मृत्युरिति होवाच ॥ १४ ॥
प्र. तम एव यस्यायतनम् । छायामयः - छायाशरीरकः इत्यर्थः । मृत्युरिति होवाच इति । मृत्युसंज्ञिक इत्यर्थः । बालाक्यजातशत्रुसंवादे छायापुरुषे मृत्युरिति वा
अहमेवमुपास इति दर्शनादिति भावः ॥ १४ ॥ रूपाण्येव यस्यायतनं चक्षुर्लोको मनोज्योतिः । यो वै तं पुरुषं विद्यात् सर्वस्यात्मनः परायणम् स वै वेदिता स्याद्याज्ञवल्क्य । वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणम्, यमात्थ । य एवायमादर्शे पुरुषः स एषः । वदैव शाकल्य तस्य का देवतेति । असुरिति होवाच ॥ १५ ॥
प्र– रूपाण्येव यस्यायतनम् - पूर्वमादित्यपुरुषे रूपसामान्यमुक्तम् इह तु तद्विशेष इति भिदा । असुरिति होवाच इति । बालाकिब्राह्मणे प्रातिश्रुत्कपुरुषे असुत्वमुक्तम् इह तु आदर्शपुरुषे असुत्वम् । तत्र आदर्शपुरुषे रोचिष्णुत्वमुक्तम् ; विधाभेदसम्भवादिति द्रष्टव्यम् । इयांस्तु विशेषः - बालाकिब्राह्मणे ब्रह्मलिङ्गाभावात् तत्रत्यपुरुषशब्दो न ब्रह्मपर्यन्तः । इह तु सर्वात्मत्वपरायणत्वादिरुपब्रह्मलिङ्गात् ब्रह्मपर्यन्तः इति विवेकः । केचित्तु बालाकि ब्राह्मण इव अत्रत्यपुरुषशब्दानामपि ब्रह्मपर्यन्तत्वं नाभ्युपगच्छन्ति । उभयथापि न विरोधः ॥ १५ ॥ आप एव यस्यायतनँ हृदयं लोको मनो ज्योतिः। यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणँ स वै वेदिता स्याद्याज्ञवल्क्य । वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ । य एवायमप्सु पुरुषः स एषः वदैव शाकल्य तस्य का देवतेति । वरुण इति होवाच ॥ १६ ॥
प्र. - आप एव यस्यायतनम् । य एवायम् अप्सु पुरुषः - अप्छरीरक इत्यर्थः । वरुण इति होवाच इति । वरुण नामक इत्यर्थः ॥ १६ ॥
रेत एव यस्यायतनं हृदयं लोको मनोज्योतिः । यो वै तं पुरुषं विद्यात् सर्वस्यात्मनः परायणम्, स वै वेदिता स्याद्याज्ञवल्क्य । वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणम्, यमात्थ । य एवायं पुत्रमयः पुरुषः, स एषः वदैव शाकल्य तस्य का देवतेति । प्रजापतिरिति होवाच ॥ १७ ॥
प्र. - रेत एव यस्यायतनम् - स्पष्टम् । उक्ताष्टपुरुषेषु मनोज्योतिष्ट्वं सर्वत्राऽनुगतम्; आयतनानां लोकानां धर्माणाञ्च भेदः ॥ १७ ॥ शाकल्येति होवाच याज्ञवल्क्यः। त्वाँ स्विदिमे ब्राह्मणाः अङ्गारावक्षयणकृता३ इति ॥ १८ ॥
प्र.- शाकल्येति होवाच याज्ञवल्क्यः । एवं प्रतिवादकुपितो याज्ञवल्क्यः शाकल्येति सम्बोध्य तमुवाच इत्यर्थः । तदेवाह - त्वां स्विदिमे इति । स्विदिति वितर्के । इमे नूनं ब्राह्मणाः स्वयं मत्प्रतिवादे भीतास्सन्तः, अङ्गारावक्षयणम् - अङ्गाराः अवक्षीयन्ते - गृहयन्ते येन पात्रेण तदङ्गारातक्षयणम् - तन्नूनं त्वाम् अकृत - कृतवन्तः ब्राह्मणाः त्वं तु न बुध्यसे आत्मानं मया दह्यमानमित्यभिप्रायः ॥ १८ ॥
[सदेव सप्रतिष्ठदिकप्रश्नः]
याज्ञवल्क्येति होवाच शाकल्य यदिदं कुरुपाञ्चालानां ब्राह्मणानत्यवादीः किं ब्रह्म विद्वानिति? दिशो वेद सदेवाः सप्रतिष्ठा इति यदिशो वेत्थ सदेवाः सप्रतिष्ठाः ॥ १९ ॥
प्र.-याज्ञवल्क्येति होवाच शाकल्यः । उवाच -अत्रोत्तरमाह इत्यर्थः। किमिति? यदिदं - - -सप्रतिष्ठाः । कुरुपाञ्चालान् इमान् सर्वान् विदुषः - अत्यवादीः अत्युक्तवानसि अधिक्षिप्तवानसि किल, स्वयं भीताः त्वामङ्गवारावक्षयणं कृतवन्त इति । किं ब्रह्मविद्वान् इति । कीदृशब्रह्मविधावानिति हेतोरेवमधिक्षिपसि ब्राह्मणान् । अहं तु दिशः तदधिष्ठातृदेवताश्च तत्प्रतिष्ठाश्च इति’ - एवम्प्रकारेण जाने । त्वमप्यहमिव दिशो देवताः तत्प्रतिष्ठाश्च यदि वेत्सि तर्हि, पृच्छामि वदेत्यर्थः ॥ १९ ॥
[प्राचीदिकस्थदेवता तत्प्रतिष्ठा च]
किन्देवतोऽस्यां प्राच्यां दिश्यसीति । आदित्यदेवत इति । स आदित्यः कस्मिन्
प्रतिष्ठित इति चक्षुषीति । कस्मिन्नु चक्षुः प्रतिष्ठितमिति । रूपेष्विति । चक्षुषा हि रूपाणि पश्यति । कस्मिन्नु रूपाणि प्रतिष्ठितानीति । हृदय इति होवाच; यस्मात् हृदयेन हि रूपाणि सर्वोलोको जानाति । तस्मात् हृदये ह्येव रूपाणि प्रतिष्ठितानि भवन्तीति । एवमेवैतद्याज्ञवल्क्य ॥ २० ॥
प्र. - इत्युक्त्वा, तर्हि पृच्छेत्युक्तः शाकल्यः पृच्छति - किन्देवतोऽस्यां प्राच्या दिश्यसीति । अस्यां प्राच्यां दिशि किन्देवतः त्वमसि? का देवता यस्य सः किन्देवतः । प्राग्दिगधिष्ठातृत्वेन का देवतामुपास्स इत्यर्थः । याज्ञवल्क्य उत्तरमाह - आदित्यदेवत इति । आदित्यो देवता यस्य सः आदित्यदेवतः । प्राच्यां दिशि अधिष्ठातृत्वेनादित्यमहमुपासे इत्यर्थः । शाकल्यः पृच्छति - स आदित्यः कस्मिन् प्रतिष्ठित इति । उत्तरं चक्षुषीति । प्रतिष्ठित इत्यनुषङ्गः । पुनः पृच्छति । कस्मिन्नु चक्षुः प्रतिष्ठितमिति । उत्तरं रूपेष्विति । तत्रोपपत्तिमाह - चक्षुषा हि रूपाणि पश्यति । हि - यस्मात् चक्षुषा रूपाणि पश्यति, अतः चक्षुःस्वविषये प्रतिष्ठितमित्यर्थः पृच्छति - कस्मिन्नु रूपाणि प्रतिष्ठितानीति ।
उत्तरं हृदय इति होवाच । तत्रोपपत्तिमाह - हृदयेन हि- - । हि यस्माल्लोको हृदयेनैव रूपाणि जानाति, तस्मात्, हृदये हयेव रूपाणि प्रतिष्ठितानि भवन्ति । अन्तःकरण एव वासनात्मना प्रतिष्ठितानि भवन्तीत्यर्थः । उक्तमङ्गीकरोति एवमेवैत- द्याज्ञवल्क्य ॥ २० ॥
[दक्षिणदिक्स्थदेवता तत्प्रतिष्ठा च]
किन्देवतोऽस्यां दक्षिणायां दिश्यसीति । यमदेवत इति । स यमः कस्मिन्
प्रतिष्ठित इति । यज्ञ इति कस्मिन्नु यज्ञः प्रतिष्ठित इति? दक्षिणायामिति कस्मिन्नु दक्षिणा प्रतिष्ठितेति । श्रद्धायामिति यदा ह्येव श्रद्धत्तेऽथ दक्षिणां ददाति श्रद्धायाँ ह्येवदक्षिणा प्रतिष्ठितेति । कस्मिन्नु श्रद्धा प्रतिष्ठितेति । हृदय इति होवाच; हृदयेन हि श्रद्धां जानाति हृदये ह्येव श्रद्धा प्रतिष्ठिता भवतीति । एवमेवैतद्याज्ञवल्क्य ॥ २१ ॥
प्र. - अथान्यत् पृच्छति किन्देवतो - - - दिश्यसीति पूर्ववदर्थः । उत्तरमाह - यमदेवत इति । पृच्छति स यमः कस्मिन् प्रतिष्ठित इति । उत्तरं दक्षिणायामिति । कस्मिन्नु दक्षिणा प्रतिष्ठिता इति प्रश्नः । श्रद्धायामित्युत्तरम् तत्रोपपत्तिमाह - यदा ह्येव - - प्रतिष्ठितेति । यदा श्रद्धा जायते, तदैव दक्षिणां ददाति । अतः श्रद्धायामेव दक्षिणा प्रतिष्ठिता इत्यर्थः । पृच्छति कस्मिन्नु श्रद्धा प्रतिष्ठितेति हृदय इति होवाच । उत्तरमिति शेषः । तत्रोपपत्तिमाह हृदयेन हि - हृदयेन हि - यस्मात् श्रद्धां जानाति
करोति; अतो हृद्येव श्रद्धा प्रतिष्ठिता भवतीत्यर्थः । एवमेवैतद्याज्ञवल्क्यः । पूर्ववत् ॥ २१ ॥
[प्रतीचीदिक्स्थदेवता तत्प्रतिष्ठा च]
किं देवतोऽस्यां प्रतीच्या दिश्यसीति । वरुण देवत इति । स वरुणः कस्मिन् प्रतिष्ठित इति? अप्स्विति । कस्मिन्नु आपः प्रतिष्ठता इति? रेतसीति कस्मिनु रेतः प्रतिष्ठितमिति? हृदय इति तस्मादपि प्रतिरूपं जातमाहुर्हृदयादिव सृप्तो हृदयादिव निर्मित इति हृदये ह्येव रेतः प्रतिष्ठितं भवतीति । एवमेवैत- द्याज्ञवल्क्य ॥ २२ ॥
प्र.- अन्यत् पृच्छति - किन्देवतोऽस्यां प्रतीच्यां दिश्यस्तीति । उत्तरं वरुण देवत इति । स वरुणः कस्मिन्, प्रतीष्ठित इति प्रश्नः । अप्सु इत्युत्तरम् । कस्मिन्न्वापः प्रतिष्ठिता इति प्रश्नः । रेतसीत्युत्तरम् । कस्मिन्नु रेतः प्रतिष्ठितम् इति प्रश्नः । हृदय इत्युत्तरम् । तत्रोपपत्तिमाह - तस्मादपि - निर्मित इति । यस्माज्जातं पितुः प्रतिरूपं पितृसदृश संस्यानं पुत्रं जनाः पितुर्हृदयान्निर्गत इव वर्तते; पितुहृदयान्निमित इव वर्तते अयं कुमार इत्याहुः - अतो हृदय एव पुत्रपरिणामि रेतः प्रतिष्ठितमित्यर्थः । उत्तमङ्गीकरोति शाकल्यः एवमेवैतद्याज्ञवल्क्य ॥ २२ ॥
[उदीचीदिकस्थदेवता प्रतिष्ठा च]
किन्देवतोऽस्यामुदीच्या दिश्यसीति? सोमदेवत इति । स सोमः कस्मिन्
प्रतिष्ठित इति । दीक्षायामिति। कस्मिन्नु दीक्षा प्रतिष्ठितेति । सत्य इति तस्मादपि दीक्षितमाहुः सत्यं वदेति, सत्ये ह्येव दीक्षा प्रतिष्ठितेति । कस्मिन्नु सत्यं प्रतिष्ठितमिति? हृदय इति होवाच, हृदयेन हि सत्यं जानाति, हृदये ह्येव सत्यं प्रतिष्ठितं भवतीति । एवमेवैतद्याज्ञवल्क्य ॥ २३ ॥
प्र. - अन्यत् पृच्छति किन्दबतोऽस्यामुदीच्या दिश्यसीति । सोमदेवत
इत्युत्तरम् । स सोमः कस्मिन् प्रतिष्ठित इति प्रश्नः । दीक्षायामित्युत्तरम् । कस्मिन्नु दीक्षा प्रतिष्ठिता इति प्रश्नः । सत्यं इत्युत्तरम् । तत्रोपपत्तिमाह - तस्यादपि दीक्षितम्
यस्मात् दीक्षितं सत्यं वदेति दीक्षा सिद्ध्यै तद्याजकाः शिक्षमाणा आतु, तस्मात् सत्ये ह्येव दीक्षा प्रतिष्ठिता इत्यर्थः । कस्मिन्नु सत्यं प्रतिष्ठित मिति प्रश्नः । उत्तर हृदय इति । तदुपपादयति हृदयेन हि । अङ्गीकरोति एवमेवैतद्याज्ञवल्क्य ॥ २३ ॥
[ऊर्ध्वस्थदेवता तत्प्रतिष्ठा च]
किन्देवतोऽस्यां ध्रुबायां दिश्यसीत्यग्निदेवत इति योऽग्निः कस्मिन्प्रतिष्ठित इति वाचीति कस्मिन्नु वाक् प्रतिष्ठितेति हृदय इति कस्मिन्नु हृदयं प्रतिष्ठितमिति ॥ २४ ॥
प्र. - पृच्छति - किन्देवतोऽस्यां ध्रुवायां दिश्यसीति । स्वलौकापेक्षया भूमेध्रुवत्वात् भूमिरूपा अधो दिक् ध्रुवा इत्युच्यते । उत्तरम् अग्निदेवत इति । सोऽग्निः कस्मिन् प्रतिष्ठित इति प्रश्नः । उत्तरं वाचीति । कस्मिन्नु वाक् प्रतिष्ठितेति प्रश्नः हृदय इत्युत्तरम् । पुनः पृच्छति कस्मिन्नु हृदयं प्रतिष्ठितमिति । एवं सर्वं दिग्देवताना प्रतिष्ठाभूतं हृदयं क्व प्रतिष्ठितमित्यर्थः ॥ २४ ॥
[हृदयाधिष्ठानकथनम्]
अहल्लिकेति होवाच याज्ञवल्क्यो यत्रैतदन्यत्रास्मन्मन्यासै यद्ध्येतदन्यत्रास्मत् स्यात्, श्वानो वै न दद्युः वयाँसि वैनद्विमन्थीरन्निति ॥ २५ ॥
प्र.-अहल्लिकेति होवाच याज्ञवल्क्यः । अहल्लिकेत्युक्त्वा याज्ञवलक्य उत्तरमाहेत्यर्थः । अहल्लिक’ इति शाकल्यस्य नामान्तरमिति कचित् । अहल्लिकः षण्डः ।
कोपादेवं शाकल्यं याज्ञवल्क्यो ब्रूते इति केचित् । यत्रैतदन्यत्र - - - विमधीरन् इति । अस्मत् - अस्माच्छरीरात् इत्यर्थः । यद्वा - अस्मिदिति पञ्चमी बहुवचनान्तोऽस्मच्छब्दो द्रष्टव्यः । अस्मत् - अस्मत्तः इत्यर्थः। अस्माच्छरीरादन्यत्र यत्र नाप्येतद्धदयं प्रतिष्ठितमिति किल मन्यासै - मन्यसे । यद्येतत् हृदयम् अस्मत् - अस्मत्तोऽन्यत्र गच्छेत् तदा एनत् - इदं शरीरं श्वानो वा अद्युः - भक्षयेयुः; वयांसि - पक्षिणो वा विमधीरन् - लोडयेयुः । तस्मात् शरीरस्य मध्ये हृदयं प्रतिष्ठितमित्यर्थः । अभेदोपचाराच्छरीरमेवास्मत् इत्युक्तमिति द्रष्टव्यम् ॥ २५ ॥
[हदयशरीरयोरधिष्ठानकथनम्]
कस्मिन्नु त्वं चात्मा च प्रतिष्ठितौ स्थ इति । प्राण इति । कस्मिन्नु प्राणः
प्रतिष्ठित इति । अपान इति । कस्मिन्नु अपानः प्रतिष्ठित इति । व्यान इति । कस्मिन्नु व्यानः प्रतिष्ठित इति । उदान इति । कस्मिन्नु दानः प्रतिष्ठित इति । समान इति । स एष नेति नेतित्यात्मा अंगृह्यो न हि गृह्यते; अशीर्यो न हि शीर्यते; असङ्गो न हि सज़्ज्यते; असितो न व्यथते, न रिष्यति । एतान्याष्टावायतनान्यष्टौ लोका अष्टौ देवा अष्टौ पुरुषाः; स यस्तान् पुरुषानिरूह्य प्रत्यूह्यात्यक्रामत्, तं त्वौपनिषदं पुरुषं पृच्छामि; तं चेन्मे न विवक्ष्यसि, मूर्धा ते विपतिष्यतीति । तँ ह न मेने शाकल्य । तस्य ह मूर्धा विपपात । अपि हास्य परिमोषिणोऽस्थीन्य- पजह्नुरन्यन्मन्यमानाः ॥ २६ ॥
प्र. - पुनः पृच्छति कस्मिन्नु ….स्थ इति । हृदयप्रतिष्ठाधारभूतस्त्वं - अस्मदिति त्वयोक्तं शरीरञ्च - आत्मा च - आत्मशब्देनात्र हृदयमुच्यते । त्वच्छरीरं त्वद्धृदयञ्च - कस्मिन् प्रतिष्ठितौ इत्यर्थः । स्थः इति अस्तेर्मध्यमपुरुषद्विवचनम् । उत्तरं प्राण इति । प्राणाधीनप्रतिष्ठात्त्वाच्छरीरमनसोरिति भावः । एवमुत्तरत्रापि द्रष्टव्यम् । कस्मिन्नु प्राणः
प्रतिष्ठित इति प्रश्नः । अपान इत्युत्तरम् । कस्मिन्नु अपानः प्रतिष्ठित इति प्रश्नः । व्यान इत्युत्तरम् । कस्मिन्नु व्यानः प्रतिष्ठित इति प्रश्नः । उदान इत्युत्तरम् । कस्मिनुदानः
प्रतिष्ठित इति प्रश्नः । समान इत्युत्तरम् । एवं प्रश्नप्रतिवचनपरम्परायां परिसमाप्तायां तूष्णीम्भूते शाकल्ये समानप्रतिष्ठा- धारप्रश्चस्य ते न कृतत्वाभावात् तमसौ न वेत्तीति निश्चित्य याज्ञवल्क्यः समानप्रतिष्ठाधारं स्वयं शाकल्यं पृच्छति तमेव समानप्रतिष्ठाधारं विशिनष्टि स एष नेति नेत्यात्मा । स एषः - उक्तसमानप्रतिष्ठाधारभूतः । अथात आदेशो नेति नेति इति निर्दिष्टो य आत्मा, स एषः - समान प्रतिष्ठाधारभूत इत्यर्थः । अगृह्यो न हि गृह्यते । इन्द्रियग्रहणायोग्यत्वात् इन्द्रियेण न गृह्यते । अशीर्यो न हि शीर्यते । विशरणयोग्यावयवशून्यत्वात् न शीर्यते । असङ्गो न हि सज्यते । निर्लेपत्वात् पापफलं नानुभवतीत्यर्थः । असितो न व्यथते न रिष्यति । असितः षिञ् बन्धने (धा.पा.१२४९)। कर्मबन्धशून्यत्वादेव सर्वदेहान्तर्गतोऽपि न व्यथते न शोचति, न रिष्यति न हिंस्यते वेत्यर्थः । एतादृर्शं समानप्रतिष्ठाधारभूतं याज्ञवल्क्यो मनसि निधाय, एतं शाकल्यो न वेत्तीति निश्चित्य पृच्छति । एतान्यष्टो - - पुरुषाः । यानि प्रागुक्तानि पृथिव्यादीन्यष्टावायतनानि, अग्नयाद्या अष्टौ लोकाः, अमृताधा अष्टौ देवाः, शरीराद्या अष्टौ देवाः, शारीराधा अष्टौ पुरुषाः; स यः-प्रसिद्धः पुरुषः एतान् पुरुषान् निरुह्य प्रत्यूह्य अत्यक्रामत् - अत्र पुरुषान् इत्युपलक्षणम् । आयतनलोकदेवादीनित्यपि द्रष्टव्यम्। एतान् निरूह्य प्रत्यूह्य
सम्यनिर्धारणार्थो निरूहः । प्रतिव्यक्तयूहः प्रत्यूहः । आयतनदेवलोकपुरुषान् - प्रतिव्यक्ति तर्के ण तत्तत्स्वरूपं निर्धार्यः तान् सर्वान् योऽत्यक्रामत् । यः पुरुषः अत्यक्रामत्-
सकलकार्यवर्गविलक्षणत्वेन निश्चित इत्यर्थः । यद्यपि अतिक्रमणकर्तृत्वमौपनिषदात्मगतम्। निरूहप्रत्यूहकर्तृत्वं तु पुरुषगतम्, तथापि ण्यर्थगर्भतया य ऊहयित्वा अत्यक्रामत् इत्युक्तौ न विरोध इति द्रष्टव्यम् । ऊहविषयस्य परमात्मनः ऊहयितृत्वसंभवात् । अतिक्रमणं नाम, इदं वा परमिदं वा परमिति संशयविषयतातिक्रमणात्। तञ्च परमात्मकर्तृकं सम्भवतीति द्रष्टव्यम् - तं त्वोपनिषदं पुरुषं पृच्छामि । तं - सर्वविलक्षणम् औपनिषदम् - उपनिषदेकसमधिगम्यं त्वा पृच्छामि ; तं चेन्मे न विवक्ष्यसि, तर्हि मूर्धा ते विपतिष्यतीति याज्ञवल्क्यः शाकल्यं शशाप इत्यर्थः । सूत्रितञ्च परमपुरुषस्यैपनिषदत्वं भगवता बादरायणेनः शास्त्रयोनित्वात् (ब्र.सू.१-१-२) इति । तत्र ह्यधिकरणे - अङ्कुरादिकं सकर्तृकं कार्यत्वात् इत्यनुमानसिद्धेश्वरानुवादितया न वेदान्तवाक्यं तत्र प्रमाणम् । अतो वेदान्तन्यायग्रथनात्मकमीमांसाशास्त्रम् अनारम्भणीयम्। न च ईश्वरमनुमानसिद्धमनूद्य वेदान्तैः जगदुपादानत्वादिकं बोध्यताम् । अतः शास्रमारभ्यताम् इति वाच्यम् - कार्यत्वस्य उपादानभिन्नकर्तृकत्वेन व्याप्ततया अभिन्ननिमित्तोपादानत्व- प्रतिपादकवेदान्तवाक्यस्य घर्मिग्राहकानुमानजातीयनिमित्तोपादानभेदवाह्यनुमानबाधितत्वात्। अतो न वेदान्तवाक्यं ब्रह्मणि प्रमाणमिति प्राप्ते उच्यते - शास्त्रयोनित्वात् (ब्र.सू.१-१-२) आस्त्रं योनिः प्रमाणं यस्य तत् शास्रयोनिः, तत्वात्। शास्रैकसमधिगम्यत्वात् वेदान्तानां प्रामाण्यमस्तीत्यर्थः । कार्यत्वेन हेतुना सकर्तृकत्वसाधने, तेनैव हेतुना गुणत्रयवश्यकर्तृकत्व- शरीरजन्यत्वादेरपि प्रसङ्गात् । प्रासादादिविपुलकार्यस्य अनेककर्तृकत्वदर्शनेन क्षित्यादि- कार्यस्यापि तथात्वप्रसङ्गाच्च । ईश्वरस्य नित्यकृत्यभ्युपगमे तदद्वारा हेतुभूतयोनिच्छयोः ईश्वरे असिद्धिप्रसङ्गेन ज्ञानेच्छाप्रयत्नलक्षणगुणत्रयाश्रयेश्वरासिद्धिप्रसङ्गात् । अतः शास्रैक- समधिगम्येश्वरस्वरूपोपादानत्वप्रतिपादकवेदान्तभागस्य नानुपपत्तिः।
[शिष्टापरिग्रहाधिकरणविचारः]
अत एव सांख्यपक्षस्याप्रतिष्ठिततर्कमूलत्वेन यथा आभासत्वम्, एवं कणभक्षा- क्षपादक्षपणकबौद्धपक्षाणां परमाणुकारणत्वपक्षपातिनां शुष्कतर्कमूलत्वात् वैदिक- परिग्रहशून्यत्वाच्च नादरणीयत्वमिति स्मृतिपादे, एतेन शिष्टापरिग्रहा अपि व्याख्याताः
(ब्र.सू.२.१.१३) इत्यधिकरणे निर्णीतम् । शिष्टाः - परिशिष्टाः । ते च ते अपरिग्रहाश्च शिष्टपरिग्रहाः । अवशिष्टाः - वैदिकपरिग्रहशून्याः कणभुगादिपक्षाः एतेन सांख्यपक्षदूषणेनैव दुष्टत्वेन व्याख्याता इति सूत्रार्थः ।
[महदीर्घाधिकरणविचारः]
तथा तर्कपादेऽपि परमाणुकारणवादो दूषितः । तथाहि काणादपक्षस्य युक्तियुक्ततया आदरणीयत्वमस्त्विति पूर्वपक्षे प्राप्ते उच्यते - महद्दीर्घवद्वाह्रस्वपरिमण्डलाभ्याम् (ब्र.सू.२-२-१०) पारिमाण्डल्यपरिमाणाश्रयेण परस्परसंयुक्तपरमाणुद्वयेनाणुह्रस्वं व्द्यणुकमुत्पाद्यते, परस्परसंयुक्तेनाणुह्रस्वव्द्यणुकत्रयेण महद्दीर्घं त्र्यणुकमुत्पद्यते इत्यसमञ्जसप्रक्रियावत् इतरापि तत्प्रक्रिया असमञ्जसैव । किं तत्रासमजंस्यमिति चेत् न, निष्प्रदेशे परमाणौ प्रादेशिकसंयोगा- सम्भवात् । संयोगस्याव्याप्यवृत्तित्वनियमात् । परस्परासंयुक्तप्रदेशाभावे ततोऽधिक- परमाणकार्यानुत्पत्तिप्रसङ्गात् । उभयथापि न कर्मातस्तदभावः (ब्र.सू.२.२.११)। परमाणुनिष्पाद्यं कर्म अदृष्टकारितमिति हि तै रश्युपगम्यते । तत्र न परमाणुसमवेतमदृष्टं क्रियाहेतुः, अचेतनस्यादृष्टानाधारत्वात् । नाप्यात्मगतं परमाणुक्रियाहेतुः, व्यधिकरणत्वात् । अतः, अदृष्टकारिताद्यकर्मणा परमाणुद्वयसंयोगः इति तत्प्रक्रिया न युक्ता । समावायाभ्युपगमाच्च साम्यादनवस्थितेः (ब्र.सू.२-२-१२) जातिगुणादिविशिष्ट- प्रतीतिनिर्वाहकतया समावायाभ्युपगमे, तन्तुषु पटः समवेतः इति समवायिविशिष्ट प्रतीति- निर्वाहकता साम्येन सम्बन्धान्तरस्यावश्यकत्वात्। तत्रापि मम्बन्धान्तराभ्युपगमे अनवस्था च स्यात् । नित्यमेव च भावात् (ब्र.सू.२-२-१३) समावायलक्षणसम्बन्धस्य नित्यं सत्त्वात् सम्बन्धिनोरपि नित्यसत्त्वावश्यम्भावेन जगतो नित्यत्वमेव स्यात् । रूपादिमत्त्वाच्च विपर्ययो दर्शनात् (ब्र.सू.२.२-१४)। रूपादिमत्त्वाच्च परमाणोः त्वदभिमतनित्यत्वनिरवयवत्वादिव्यतिरेकः प्रसज्येत । लोके रूपादिमताम् अनित्यत्वादि- दर्शनात् । ननु एतद्दोषशान्तये रूपादिशून्या एव परमाणवः सन्तु । तत्राह - उभयथा च
दोषात् (ब्र.सू २-२-१५)। कारणगुणपूर्वकत्वात् त्वन्मते कार्यगुणानाम्, द्वयणुकादीनामपि रूपादिशून्यात्वप्रसङ्गः । अपरिग्रहाच्चात्यात्यन्तमनपेक्षा (ब्र.सू.२.२.१६) । वैदिकपरिग्रहशून्यत्वाच्च तत्पक्षस्य, निःश्रेयसाथिभिः तत्पक्षेऽनपेक्षैव कार्या इति स्थितम् । वैशेषिकादयोऽर्धवैनाशिका इति हि शिष्टगोष्ठी प्रसिद्धिः । ते हि - जाठराग्निना पच्यमानानां भुक्तपीताहाहौषधरसद्रव्यरूपाणामतयवानां प्रतिक्षणमुपचयापचयावैषम्यात् अवयवि शरीरमपि प्रतिक्षणमुपचयापचयवदन्यदन्यद्रवति । यद्यपि शरीरस्य प्रतिकलमुप- चयापयदर्शनं नास्ति - तथापि वर्षदारानिपातैः तटाकजलस्येव, घटीयन्क्षेपणैः कूपजलस्येव चान्ते तद्दर्शनात् यौक्तिकं प्रतिक्षणं किञ्चित् किञ्चिदुपचयापचयवत्त्वज्ञानमस्त्येव । चन्द्रतारकादीनां मुहूर्तादिकालव्यवधानेन बहुदेशान्तरप्राप्तिदर्शनात् प्रतिक्षणं स्वल्पदेशान्तरप्राप्तिज्ञानवत् इत्यभ्युपगच्छन्ति । एवं प्रतिक्षणमवष्टम्भाविभिः खननपूरणादिभिः भूगोलकस्य, नदीजलसंसर्गशीकरोत्पतनैः समुद्रस्य चोपचयापचयवतः क्षणिकत्वमरयुपगच्छन्ति । अतस्ते अर्धवैनाशिकाः । बोद्धास्तु सर्वस्य प्रपञ्चस्य च क्षणिकत्वमभ्युपगच्छन्तः सर्ववैनाशिका इति हि वैदिकानां व्यवहारः । अतो वैनाशिकत्व परमाणुकारणवादित्वसाम्यादेव काणादमत- प्रतिक्षेपानन्तरं बौद्धमतमपि प्रतिक्षिप्तं तत्पादे - समुदाय उभयहेतुकेऽपि तदप्राप्तिः
(ब्र.सू.२-२-१७) इत्यादिना । तत्र हि स्वरस्नेहोष्णेरण स्वभावैः परमाणुभिः पृथिव्यादिभूतलक्षणः संघात उत्पद्यते । पृथिव्यादिभिश्च भूतैः शरीरेन्द्रियविषयसंघातलक्षणः समुदाय उत्पद्यते इति हि तेषां प्रक्रिया । तत्राणुहेतुके पृथिव्यादिभूतात्मकसमुदाये, भूतहेतुके च शरीरेन्द्रियविषय- लक्षणभौतिकसमुदाये च सति जगदात्मकसमुदयोत्पत्तिर्नोपपद्यते । सर्वेषां क्षेम कत्वाभ्युपगमे यावत्संघातभावापत्ति अवस्थानासम्भवात् । इतरेतरप्रत्ययत्वादुपपन्नमिति चेन्न संघातभावानिमित्तत्वात् (ब्र.सू.२-२-१८)। यद्यपि सर्वे पदार्याः क्षणिकाः तथापि अविद्यादीनामितरेतरकारणत्वादुपपद्यते लोकयात्रा । ते च अविद्यादयः अविद्या, संस्कारः, विज्ञानम्, नामरूपम्, षडायतनम्, स्पर्शः, वेदना तृष्णा, उपादानम्, भवः जातिः, जरा, मरणम्, शोकः, परिवेदना, दुःखम्, दौर्मनस्यम्, इत्येवञ्जातीयकाः इतरेतरहेतुकाः सुगतसमये अभ्युपगम्यन्ते । अविद्या क्षणिककार्यदुःखशून्येषु स्थायिनित्यसुखवस्तु बुद्धिः । ततो रागद्वेषमोहधर्मा धर्मासंस्काराः । संस्कार वशाज्जीवस्य गर्भाशयद्रव्ये वृत्तिलाभोविज्ञानम् । विज्ञानसंसर्गात् गर्भ द्रव्यस्य कललपेश्याद्याकारेणाभिव्यक्तिः नामरूपम् । तदभिव्यक्तिक्रमेण षडिन्द्रियायतनशरीरनिवृत्तिः षडायतनम् । निवृत्तशरीरेन्द्रियस्य गर्भगतविषयेन्द्रियसंसर्गजं ज्ञानं स्पर्शः । तन्निमित्ते सुखदुःखेवेदना । सुखदुःखप्राप्तिपरिहारार्था विषयोपादानेच्छा तृष्णा । तया विषयेषु प्रवृत्तिरुपादानम् । ततः क्रमेण गर्भात् निष्क्रमणं भवः । निर्गतस्य मनुष्यत्वादिजात्यभिमानो जातिः । क्रमभाविनी जरामरणे प्रसिद्धे । म्रियमाणस्य पुत्रकलत्राद्यभिषङ्गादन्तर्दाहः शोकः । तदुत्थः प्रलापः परिदेवना । मरणक्लेशो दुःखम् । मानसदुःखं दौर्मनस्यम्, एतेषामितरेतरहेतुत्वस्यानुभवसिद्धत्वादुपपद्यते लोकयात्रा इति चेन्न - संघातभावानिमित्तत्वात् अस्थिरेषु स्थिरत्वबुद्धिरूपाविद्याश्रयस्य कस्यचित् स्थिरस्य चेतनस्य अभावेनाविद्यया भूतो रागोत्पत्तेरसम्भवेन संघातहेत्वभावस्तदवस्थ एव । उत्तरोत्पादे च पूर्वनिरोधात् (ब्र.सू.२-२-१९) बौद्धमते वस्तुतः कालो नास्ति । उदयन्नेव स्वरसभङ्गुरो घटादिः क्षणपरिकल्पनामात्रनिमित्तं भवति । स च घटादिः स्वोदयविनाशपरिकल्पितक्षणवत्त्वात् क्षणिकोऽपि भवति । वस्तुतः स्वव्यतिरिक्तक्षणाभावात् स्वयमेव क्षणो भवतीति हि तेषां प्रक्रिया । ततश्च पूर्वघटक्षणस्योत्तरघटक्षणोत्पत्तिकालेऽसतः तद्धेतुत्वं न सम्भवति । असतोऽपि हेतुत्वे अतिप्रसङ्गात् ॥ असति प्रतिज्ञोपरोधघो यौगपद्यमन्यथा (ब्र.सू.२-२-२०) असत्यपि कारणे कार्यस्योत्पत्तौ अधिपतिसहकार्यालम्बनसमनन्तरप्रत्ययश्चत्वारः चित्तचैत्तोत्पत्ति हेतवः इति बौद्धानां प्रतिज्ञाया उपरोधप्रसङ्गः । अधिपतिः इन्द्रियम् । तद्धि ज्ञानस्य रूपादिषु पञ्चसु एकैक मात्रविषयत्वनियामकम् । नियामकश्च लोकोऽधिपतिरुच्यते । सहकारि आलोकादिकम् । आलम्बनं घटादिविषयः । समनन्तर प्रत्ययः पूर्वज्ञानम् । एतैः चतुर्विधैर्हेतुभिःचित्तशब्दितस्य ज्ञानस्य चैत्तशब्दितानां चित्ताभिन्नसुखादीनाञ्च उत्पत्तिरिति हि तेषां प्रतिज्ञा । सा प्रतिज्ञा हीयेत, यदि पूर्वोत्तरक्षणवर्तित्वं न स्यात् । तत्र यदि पूर्वक्षणवर्तित्वं न स्यात्, तदा कारणत्वं हीयेत । उत्तरक्षणवर्तित्वाभावे च वर्तमानत्वग्राहिप्रत्यक्षविषयत्वं न स्यात् । अतः क्षणद्वयवर्तित्वमभ्युपेतव्यमिति क्षणिकत्वविरोधः । यद्येतद्दोषपरिजिहीर्षया कारणघटक्षणस्यापि कार्यघटक्षणोत्पत्तिदशायां सत्त्वमभ्युपगम्यते, तदा घटक्षणद्वय योगपद्यप्रसङ्ग इत्यर्थः । *प्रतिसंख्या प्रतिसङ्ख्यानिरोधाप्राप्तिरविच्छेदात् (*ब्र.सू.२-२-२१) बौद्धाः सर्वस्य वस्तुनो निरन्वयो विनाश इति वदन्ति । स च द्विविधः; स्थूलः सूक्ष्मश्च । मुद्गरपाताद्यनन्तरं सर्वारूपलभ्यमानो घटादीनां विनाशः स्थूलः । सः प्रति सङ्ख्यानिरोध इत्युच्यते । प्रतिसंख्या - विषयसत्त्वप्रतिकूला तदसत्त्वग्राहिणी लौकिकानां बुद्धिः; तद्विषयो, निरोध इत्यवयवार्थान्वयात् । तद्विपरीतोनिरोधः अप्रति सङ्ख्यानिरोधः । स च सूक्ष्मो लौकिकबुद्ध्ययोग्यो बौद्धैः युक्त्या साध्यमानः प्रतिक्षणविनाशः । तयोरुभयोरप्राप्तिः असम्भवः । कुतः? अविच्छेदात् । पिण्डघटकपालादिरूपेण स्थितस्य द्रव्यस्य स्वरूपविच्छेदाभावात् । न च द्रव्यानुवृत्तौ विनष्टो घट इत्यादिप्रतीतेः निर्विषयत्वापत्तिः, अवस्थान्तरापत्ति- विषयत्वसम्भवात् । उभयथा च दोषात् (ब्र.सू.२-२-२२) बौद्धाः किल एवं वर्णयन्ति । पृतिसङ्ख्यानिरोधः अप्रतिसंख्यानिरोधः; आकाशं च इत्येत त्रितयं वस्तुनिरुपाख्यं तुच्छम् । अन्यन्तु क्षणिकत्वमुत्पाद्यमिति मन्यन्ते । तत्र पूर्वोत्पन्नस्य घटक्षणस्य तदानीमेव निरुद्धत्वप्राप्त्या तुच्छात् निरोधादेवकार्यघटक्षणस्य उत्पत्तिरिति यदभ्युपगम्यते, तत्र तुच्छात् उत्पत्त्यसम्भवः तावदेको दोषः । तुच्छादुत्पत्त्यभ्युपगमे हि तुच्छस्य निर्विशेषत्वेन कारणविशेषकृतः कार्यविशेष इति व्यवस्थाया अभावात् घटक्षणानन्तरं सर्वजगत उत्पत्तिः स्यात् । तथा तुच्छादुत्पद्यमानं कार्यमपि तुच्छमेवोत्पद्येत; न तु सद्रूपम्; कारणानुसारित्वात् कार्यस्य इत्यपरो दोष इत्यर्थः । आकाशे चाविशेषात् (ब्र.सू.२-२-२३) घटोऽयम् पटोऽयम् इति प्रत्यक्षप्रतीतिवत् ; कूपोऽ सौ, रन्ध्रमेतत्, खग इह पतति इत्यादि प्रत्यक्षस्याविशेषेण, आकाशं निरुपाख्यतुच्छम्, घटादिकं क्षणिकतुच्छमित्यत्र प्रमाणाभावात् । न च, इह श्येनः पतति इत्यादिप्रतीतेरालोक एव विषयोऽस्त्विति वाच्यम् - इहालोकः, इहान्धकार इत्यालोकान्धकाराधारत्वेन प्रतीतस्य आलोकरूपत्वाभावात् । अनुस्मृतेश्च (ब्र.सू.२-२-२४) तदेवेदमिति प्रत्यभिज्ञावशात् स्थिरत्वस्यैवाभ्युप- गन्तव्यत्वेन क्षणिकत्वासंभवादित्यर्थः । नासतोऽदृष्टत्वात् (ब्र.सू.२-२-२५) यदुच्यते सौत्रान्तिकैः ज्ञानगतैर्नीलाद्याकारैः बाह्यार्थगताः तेऽनुमीयन्ते । अतो ज्ञानकाले विषयस्य क्षणिकतया असत्त्वेपि न दोषः । यद्यपि नीलादिज्ञानमपरोक्षतया अनुभूयते; इन्द्रियव्यापारान्वयव्यतिरेकानुविधायि च भवति; तथापि यदिन्द्रियसन्निकृष्टेन येनार्येन यत् ज्ञानं जायते; न तत् ज्ञानं तद्विषयकम्। किन्तु स्वयमप्यर्थवत् नीलाद्याकारं भवतीति तत् ज्ञानं स्वप्रकाशकतया स्वात्मानं विषयीकुर्वत् स्वगतं नीलाद्याकारमपि विषयीकरोति । अतो न नीलादिज्ञानस्य आपरोक्ष्यानुभवविरोधः; न वा इन्द्रियव्यापारानुविधानविरोधः । नीलाद्यर्थिनो बहिः प्रवृत्तिस्तु नापरोक्षज्ञानात् । किन्तु तदनन्तरभाविनः आनुमानिकज्ञानात् । यथा वायुनिषेवणार्थिनां शाखाचलनं दृष्ट्वा वृक्षमूले प्रवृत्तिः । न चैवमर्थस्य क्षणिकतया ज्ञानकालेऽनवस्थानात् ज्ञानाविषयत्वं स्यादिति वाच्यम् - ज्ञानोत्पत्तिहेतुत्वमेव हि ज्ञानाविषयत्वम्; न ज्ञानकालेऽवस्थानम् । न चैतावता चक्षुरादेः ज्ञानविषयत्वप्रसङ्गः । स्वाकारसमर्पणेन ज्ञानहेतोरेव ज्ञानविषयत्वाभ्युगमात् । ज्ञाने स्वाकारं समर्प्य नष्टोऽप्यर्थो ज्ञानगतेन नीलाद्याकारेण अनुमीयते । न च पूर्वपूर्वज्ञानेनोत्तरोत्तरज्ञानाकारसिद्धिः । नीलज्ञानसन्ततौ पीतज्ञानानुत्पत्तिप्रसङ्गात् । अतोऽर्थकृतमेव ज्ञानवैचित्र्यमिति । तत्रोच्यत - नासतः । योऽयं विज्ञाने नीलाद्याकारः उपलभ्यते, स विनष्टस्य असतोऽर्थस्याकारो भवितुं नार्हति । कुतः? अदृष्टत्वात् । न खलु धर्मिणि विनष्टे धर्मस्य आकारान्तरे सङ्क्रमणं दृष्टम् । प्रतिबिम्बादिकमपि स्थिरस्यैव भवति । तत्रापि न धर्ममात्रस्य । अतो अर्थ वैचित्र्य कृतं ज्ञानवैचित्र्यमर्थस्य ज्ञानकालेऽवस्थानादेव भवति । जपाकुसुमादेः स्फटिकादौ स्वाकारार्पणहेतुत्वेऽपि असतः तदर्शने न असतो विषयस्य ज्ञाने स्वाकारार्पणाक्षमत्वात् । उदासीनानामपि चैवं सिद्धिः (ब्र.सू.२-२-२०) तत्काले असत एवोत्पादकत्वे उदासीनानाम् - अनुद्युञ्जानानां पुरुषाणाम् उद्युञ्जानपुरुषवत् सर्वकार्यसिद्धिः स्यात् । उद्युञ्जानानुद्युञ्जानयोस्तत्कालासत्त्वाविशेषादिति स्थितम् । एतत्पक्षोक्तदोषः अर्धवैनाशिक- मतेऽपि समान इति तन्मनं सर्वथा नादर्तव्यमेवेति स्थितम् । तथा सर्वज्ञपशुपतिप्रणीतत्वात् पाशुपतं मतम् आदरणीयमिति पूर्वपक्षे प्राप्ते उच्यते पत्युरसामञ्जस्यात् (ब्र.सू.२-२-३५) पत्युः पशुपतेः मतमनादरणीयम् । वेदविरुद्धमुद्रिकाषट्कधारणसुराकुम्भस्थापन-शवभस्मस्नानादिधर्माणां निमित्तमात्रेश्वरस्य चाभ्युपगमेन तन्मतस्यासमंजसत्वात् । अधिष्ठानानुपपत्तेश्च (ब्र.सू.२-२-३६) अवैदिकस्य तदभिमताशरीरेश्वरस्य प्रधानाधधिष्ठानृत्वानुपपत्तेश्च । करणवच्चेन्न भोगादिभ्यः
(ब्र.सू.२-२-३७) यथा जीवस्य करणकलेबरान्तरनरपेक्ष्यम्; एवं प्रधानाधधिष्ठानेऽपि शरीरनैरपेक्ष्यमस्त्विति चेन्न - भोगादिभ्यः पुण्यपापरूपकर्मफलभोगार्थं पुण्यपापरूपादृष्टकारितं हि तदधिष्ठानम् । तद्वत् पशुपतेरपि पुण्यपापरूपादृष्टतत्फलभोगादि सर्व प्रसज्येत । ततो नाधिष्ठानसम्भवः । अन्तवत्त्वमसर्वज्ञता वा (ब्र.सू.२-२-३०) वा शब्दश्चार्थे । पशुपतेः पुण्यपापरूपादृष्टवत्त्वे जीववत् अन्तवत्त्वं सृष्टिसंहाराद्यास्पदत्वमसर्वज्ञता च स्यादित्यनादरणीयमेवेदं मतमिति स्थितम् । [एतत्पक्षोक्तदूषणाना मप्यानुमाविकेश्वरवादि- नामर्धवेनाशिकानो मतेऽपि समानत्वात् तन्मतं सर्वथा नादर्तव्यमिति स्थितम् ।] तथा, एतेन योगः प्रत्युक्तः (ब्र.सू.२-१-३) इत्यधिकरणे केवलनिमित्तेश्वरवादि- हैरण्यगर्भमतमपि कपिलमतवदेव वेदविरुद्धत्वात् अप्रामाणिकमिति वदता सूत्रकारेण भगवता बादरायणेन सकलजगदाधारभूतस्य सकलजगदेककारणस्य परब्रह्मणो नारायणस्य पुरुषोन्तमस्यौपनिषदत्वमेव स्थिरीक्तम् ॥ तं ह न मेने शाकल्यः । तम् - एतं तर्कागोचरं प्रमाणान्तरागग्यमौपनिषदात्मानं शाकल्यो नाज्ञासीत् इत्यर्थः । तस्य ह मूर्धाविपपात । विविध शीर्णः पतितः । अपिहास्य - - -मन्यमानाः । एवं शापवशात् मूर्धनि पतिते तस्य कोपोग्निना शरीरञ्च दग्धमभवत् । संस्कारार्थं शिष्यैर्गृहान्नीयमानानि अस्थीन्यपि, अन्यत् धनं मन्यमानाः परिमोषिणः - तस्कराः अपजहुः - अपहृतवन्तः । यद्वा - परिमोषिमः । मुषितशरीरस्य नष्टशरीरस्येति यावत्, तस्य - शाकल्यस्यास्थीन्येव अन्यन्मन्यमानाः
शरीरं मन्यमानाः और्ध्वदैहिकक्रियार्थं तत्पुत्राद्याल अपहुतवन्त इत्यर्थः ॥ २६ ॥
[याज्ञवल्क्येन सर्वान् प्रति प्रश्नारम्भः]
अथ होवाच ब्राह्मणाः भगवन्तो यो वः कामयते स मा पृच्छतु। सर्वे वा मा पृच्छतुः यो वः कामयते तं वः पृच्छामिः सर्वान् वा वः पृच्छामीति । ते ह ब्राह्मणा न दधृषुः ॥ २७ ॥
प्र.-अथ होवाच - - -पृच्छाम् इति । अथ - शाकल्यमरणानन्तरं याज्ञवल्क्यो ब्राह्मणान् प्रत्याह किमिति? हे पुजावन्तो ब्राह्मणाः! युष्माकं मध्ये यः प्रष्टुकामः स मां स्वाभीष्टं पृच्छतु । सर्वे वा मिलित्वा मां पृच्छत । अथवा वः युष्माकं मध्ये यः प्रत्युत्तरं दित्सति, तमहं प्रश्नं पृच्छामि । यदि सर्वेषां समूह्य प्रत्युत्तरदित्सा, तर्हि मिलितान् वा सर्वान् युष्मान् पृच्छामीति याज्ञवल्क्य उक्तवानित्यर्थः । ते ब्राह्मणा न दधृषुः । ते ब्राह्मणाः याज्ञवल्क्येन सह जल्पकथायां न प्रगल्भा बभूवुः ॥ २७ ॥
[दृष्टान्तमुखेन पुनः प्रश्नकथनम्]
तान् है तैः श्लोकैः पप्रच्छ- यथा वृक्षो वनस्पतिस्तथैव पुरुषोऽमृषा । तस्य लोमानि पर्णानि त्वगस्योत्पाटिका बहिः ॥ त्वच एवास्य रुधिरं प्रस्यन्दि त्वच उत्पटः । तस्मात्तदातृण्णात् प्रैति रसो वृक्षादिवाहतात् ॥ मांगं सान्यस्य शराणि किनाटँ स्राव तत् स्थिरम् । अस्थीन्यन्तरतो दारूणि मज्जा मज्जोपमा कृता । यद्वृक्षो वृक्णो रोहति मूलान्नवतरः पुनः । मर्त्यः स्विन्मृत्युना वृकणः कस्मान्मूलात् प्ररोहति ॥ रेतस इति मां वोचत जीवतस्तत् प्रजायते । धानारुह इव वै वृक्षोऽञ्जसा प्रेत्यसम्भवः ॥ यत् समूलमावृहेयुर्वृक्षं न पुनराभवेत् । मर्त्यस्स्विन्मृत्युना वृक्णः कस्मान्मूलात् प्ररोहति जात एव न जायते को न्वेनं जनयेत् पुनः । विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणम् ॥ तिष्ठमानस्य तद्विद इति ॥ २८ ॥ ॥ इति पञ्चमाध्याये नवमं ब्राह्मणम् ॥ समाप्तश्च पञ्चमोऽध्यायः
प्र- तान् है तैः श्लोकैः प्रपच्छ । याज्ञवल्क्य इति शेषः । ब्राह्मणान् । श्लोकानेव पठति । यथा वनस्पतिः- फल्युष्पोपेतो वृक्षः : तादृश एव पुरुषः । अमृषा-
सत्यम् इत्यर्थः । वानस्पत्यः फलै पुष्पैः (अ.को.२-४-६) इति हि निघण्टुः । तत्साधर्म्यमेवाह तस्य- - - बहिः । तस्य - पुरुषाख्यवृक्षस्य लोमान्येव पर्णानि । अस्य पुरुषस्य या त्वक् सा बहिर्भूता उत्पादिका । वृक्षानुपमर्देनैव उत्पाट्यत इति उत्पाटिका विञ्चादेरिव बहिस्त्वक् । रुधिरावारकाच्चर्मणो वा बहिर्भूता सा बहिस्त्वक् । त्वच - - उत्पटः इत्यादि । उत्क्रम्य पटति गछातीत्युत्पटः क्षीरादिसारः । अस्य-
पुरुषवृक्षस्य त्वच एव हि रुधिरं प्रस्यन्दि भवति । वृक्षस्य च त्वच एव क्षीरादिसारः स्यन्दि भवति । अतः साधर्म्यमित्यर्थः । तस्मात् – -आहतात् । तत् वृक्षसाधर्म्यादेव हेतोः आतृण्णात् -तृदिर् हिंसायाम् (धा.पा.१४४७) । छिन्नात् , तस्मात् पुरुषरूपात् वृक्षात्ः वृक्षादाहतात् रस इव, रुधिरं निर्गच्छतीत्यर्थः । मांसान्यस्य शकराणि । अस्य - पुरुषस्य मासानि वृक्षस्य शकराणीव - शकलानीव इत्यर्थः । किनाटंस्राव तस्थिरम् । स्रावेत्येतत् नान्तं नपुंसकम् । सिरेति यावत् । तदेव बृक्षस्य स्थिरं किनाटम् । किनाटं नाम दार्वस्थि भागादुद्गतवल्कः । वृक्षस्य तत् स्थिरं वल्कलान्तर्गतस्थिरांशः । अस्थीन्यन्तरतो दारूणि । अस्य पुरुषस्य अस्थीन्येव अन्तरतो दारूणि - अन्तःस्थदावंश इत्यर्थः, मज्जा मज्जोपमा कृता । दारुणि या मज्जा सा अस्य पुरुषस्य मज्जोपमा कृता भवति । तथा च वृक्ष मज्जास्थाने पुरुषस्य प्रसिद्धमज्जा भवतीत्यर्थः । यद्वृक्षो - - प्ररोहति । एवं वृक्षस्य शरीरस्य च साम्ये सत्यपि वृक्षो वृक्णस्सन् छिन्नस्सन् मूलान्नवतरः अत्यन्तं नवस्सन् पुनः प्ररोहति । मर्त्यस्तु मृत्युना वृक्णस्सन्, कस्मान्मूलात् प्ररोहति इति प्रश्नः । रेतस इति- - -प्रजायते । रेतस एव मूलात् पुनर्मर्त्यः प्ररोहतीति मा वोचत । कुतः? जीवत एव हि तत् - रेतः प्रजायते । अयं तु मृत इति नात्र रेतो मूलं वक्तुं शक्यम् । न हि वृक्षस्य भिन्नावशिष्टमूलमिवास्य रेतोमयं स्वकं मूलमवशिष्यते; यतः पुनः प्ररोहतीति कल्प्येत । धानारुह - - - सम्भवः । किञ्च वृक्षे । धानारुहो भवति । धाना - बीजम् । धानाभ्यो रोहतीति तथोक्तः । बीजरुहोऽपि वृक्षो भवति; न केवलं काण्डरुह एव । इवशब्दोऽप्यर्थः । वृक्षः अञ्जसा - साक्षात् प्रेत्य - मृत्वा धानतोऽपि सम्भवेत् । यत्समूलमावृहेयुः वृक्षं न पुनराभवत् । यत् - यदि समूलं मूलेन धानया वा सह आवृहेयुः - उत्पाटयेयुः, तदा स वृक्षो न पुनरागत्य भवेत् । अतो मूलं बीजञ्च वृक्षस्य रोहे कारणं दृष्टमित्यर्थः । मर्त्यस्वित् - - - - प्ररोहति । अत हेतोः पृच्छामि, वृक्ष सधर्मा अयं मर्त्यो वृक्णः कस्मात् प्ररोहति मूलादिति । ननु यस्तु मृत्युहतः स हत एव; अन्य एव तु कश्चिज्जायते, अतो वृक्णस्य मर्त्यस्य पुनः जनिहेतुप्रश्नोऽनुपपन्न इत्यत्राह - जात एव न - - पुनः।
यदि नष्टस्य पुनर्जननं न स्यात् । तर्हि कृतहानाकृताभ्यागमप्रसङ्गः । अतो मृतस्य पुनर्जननं सिद्धम् । अतो वः पृच्छामि को न्वेनं पुनर्जनयेदितीत्यर्थः । तथा च जगतो मूलं किमिति प्रश्नार्थः ॥ यतो जगतो मूलं तैर्जनकसभ्यैर्ब्राह्मणैः न ज्ञातम्; अतो याज्ञवल्क्येन ब्राह्मणाः जिताः । समाप्ता आख्यायिका । यत् जगतो मूलं याज्ञवल्कयेन पृष्टम्, तत् श्रुतिः स्वयमेवाह - विज्ञानमानन्दं - - - तद्विदः । रातिः - रातेः । षष्ट्यर्थे प्रथमा । धनस्य इत्यर्थः । रातेः - धनस्य दातुः कर्मकृतो यजमानस्य इति यावत् परायणं - परमागतिः । तत्तत्कर्मानुगुणफलप्रदम् इत्यर्थः । तिष्ठमानस्य - ब्रह्म संस्थस्य तद्विदः
ब्रह्मविदः परायणम् - परमप्राप्यं विज्ञानानन्दरूपं ब्रह्मैव याज्ञवल्क्येन पृष्टं जगन्मूलम् इत्यर्थः ॥ २८ ॥ ॥ इति पञ्चमाध्याय नवमब्राह्मण प्रकाशिका ॥ समाप्तश्च पञ्चमोऽध्यायः