०५-०२

बृहदारण्यकोपनिषत् पञ्चमोऽध्यायः Part 2 पञ्चमाध्याये षष्ठब्राह्मणम् गार्गीब्राह्मणम् - ओतप्रोतब्राह्मणम् [गार्ग्याः अबाद्याधाराणा प्रश्नाः उत्तराणि च] अथ हेन गार्गी बाचक्रवी पप्रच्छ । याज्ञवल्क्येति होवाच यदिदँ सर्वमप्स्वोतञ्च । प्रोतञ्च, कस्मिन्नु खल्वाप ओताश्च प्रोताश्चेति । वायौ गार्गीति कस्मिन्नु खलु वायुरोतश्च प्रोतश्चेति । अन्तरिक्षलोकेषु गार्गाति । कस्मिन्नु खल्वन्तरिक्षलोका ओताश्च प्रोताश्चेति । गन्धर्वलोकेषु गार्गीति । कस्मिन्नु खलु गन्धर्वलोका ओताश्च प्रोताश्चेति । आदित्यलोकेषु वायौ गार्गीति । कस्मिन्नु खलु वायुरोतश्च प्रोतश्चेति गार्गीति । कस्मिन्नु खल्चादित्यलोका ओताश्च प्रोताश्चेति । चन्द्रलोकेषु गार्गीति । कस्मिन्नु खलु चन्द्रलोका ओताश्च प्रोताश्चेति । नक्षत्रलोकेषु गार्गीति। कस्मिन्नु खलु नक्षत्रलोका ओताश्च प्रोताश्चेति । देवलोकेषु गार्गीति । कस्मिन्नु खलु देवलोका ओताश्च प्रोताश्चेति । इन्द्रलोकेषु गार्गीति । कस्मिन्नु खलु इन्द्रलोका ओताश्च प्रोताश्चेति । प्रजापतिलोकेषु गार्गीति । कस्मिन्नु खलु प्रजापतिलोका ओताश्च प्रोताश्चेति । ब्रह्मलोकेषु गार्गीति । कस्मिन्नु खलु ब्रह्मलोका ओताश्च प्रोताश्चेति। स होवाच गार्गि! माऽतिप्राक्षीः, मा ते मूर्धा व्यपप्तत् । अनति प्रश्न्यां वे देवतामतिपृच्छसि गार्गि! माऽतिप्राक्षीरिति॥ ततो ह गार्गी वाचक्रव्युपरराम ॥ १ ॥

प्र. - अथ पप्रच्छ इति । गर्गस्य गोत्रापत्यं गार्ग्यः । गर्गादिभ्यो यञ्

(पा.सू.४-१-१०५) स्त्रीत्वविवक्षायाम् यञश्च (पा.सू.४-१-१६) इति ञीप् । यस्येति च

(पा.सू.६-४-१५८) इत्यकारलोपः। हलस्तद्धितस्य (पा.सू.६-४-१५०) इति यकारलोपः गर्गगोत्रजा स्त्रीत्यर्थः । वाचक्नवी । वचक्नुर्नाम ऋषिः । तस्यापत्यं स्त्री । अणि, ङीपि, आदिवृद्धौ, ओर्गुणे, अवादेशे, यस्येति च इत्यकारलोपे वाचक्नवी । वचक्नुपुत्रीत्यर्थः । अन्यत् स्पष्टम् । याज्ञवल्क्येति होवाच । पूर्ववत् । यदिदं सर्वमप्स्वोतञ्च प्रोतञ्च । यदिदं - दृश्यमानं पार्थिवं सर्वं धातुजातं कारणभूतासु अप्सु ओतञ्च प्रोतञ्च - दीर्घतन्तुषु पटवदोतम् तिर्यक्तन्तुषु पटवत् प्रोतञ्चास्ति । अप्सु प्रोतत्वाभावे पार्थिवो धातुः सक्तुमुष्टिवत् विशीर्येत इति भावः । ताः आपः कस्मिन्नु खल्वोताः प्रोताश्चेति प्रश्नः । तत्र याज्ञवल्क्यस्य उत्तरं वायौ गार्गीति । हे गार्गि! त्वदुक्ता आपः वायौ ओताश्च प्रोताश्चेत्यर्थः । एवमुत्तरत्रापि प्रश्नप्रतिवचनरूपतया वाक्यानि नेयानि । प्रजापतिलोकः दक्षादिलोकः । ब्रह्मलोकः चतुर्मुखलोकः । न चात्रबादेः स्वयोनिभूतवाय्वादौ ओतत्वादिसम्भवेऽपि, अधःस्थितानाम् अन्तरिक्षलोकादीनाम् उपरितनेषु गन्धर्वलोकादिषु ओतत्वप्रोतत्वे अनुपपन्ने इति शङ्कयम् - पर्वतानामुपरिस्थितानां क्षितिधारकत्ववत्, ऊर्ध्वस्थितस्य ध्रुवस्य ज्योतिश्चक्रधारकत्ववच्च एतदुपपत्तेः इति दृष्टव्यम् । स होवाच - याज्ञवल्क्य उवाच ह इत्यर्थः । किमिति इत्यत आह - गार्गि मातिप्राक्षीर्मा ते मूर्धा व्यपप्तत् । हे गार्गि । ब्रह्मलोकमप्यतिक्रम्य तत ऊर्ध्वस्य तदाधारस्य प्रश्नं मा कुरु; ते मूर्ध्नः पतनं मा भूदित्यर्थः । पुनः पृच्छसि चेत्, पतिष्यतीति भावः । अपप्तत् । लुङि लृदित्वादङ् । पतःपुम् (पा.सू.७-४-१९) इति पुमागमः । तत् कुत इत्यत्राह - अनतिप्रश्नयां

  • - - माऽतिप्राक्षीः । प्रश्नमर्हतीति प्रश्न्या, नियमाद्युपेतप्रश्नमर्यादामतिक्रम्य वर्तमानः प्रश्नः अतिप्रश्नः । आक्षेप इति यावत् । अतिप्रश्नमर्हतीत्यतिप्रश्न्या आक्षेपार्हा इत्यर्थः । सा न भवतीति अनतिप्रश्न्या । आक्षेपमुखेन ज्ञातुमयोग्यां परदेवतामाक्षेपमुखेन ‘ज्ञातुमिच्छसि इत्यतो यद्येवं पुनः पृच्छसि ततस्ते मूर्धा पतिष्यति इत्यर्थः । स्वरूपसत्ता न ते सिद्धयेदिति भावः । यद्यपि ब्रह्मलोकाधारविषयः प्रश्नो न परदेवताविषयः, अपि तु अव्याकृताकाशविषयः - तथापि तदनन्तरप्रश्नः परदेवताविषयो भविष्यतीति दूरदृष्ट्या ब्रह्मलोकाधारप्रश्नमेव प्रतिचिक्षेपेति द्रष्टव्यम् - ततो ह गार्गी वाचक्नवी उपरराम । पूर्ववदर्थः । ततश्चेयं वाचक्नवी परदेवतां स्वयं जानन्त्यपि ऋषेः भीता इत्यूह्यम् ॥ १ ॥ ॥ इति पञ्चमाध्याये षष्ठब्राह्मण प्रकाशिका ॥ पञ्चमाध्याये सप्तमं ब्राह्मणम् अन्तर्यामिब्राह्मणम् [उहालकस्य सूत्रान्तर्याम्युभयविषयकः प्रश्नः] अथ हैनमुद्दालक आरुणिः पप्रच्छ । याज्ञवल्क्येति होवाच, मद्रेष्वव- साम पतञ्जलस्य काप्यस्य गृहेषु यज्ञमधीयानाः । तस्यासीद्भार्या गन्धर्वगृहीता । तमपृच्छाम, कोऽसीति । सोऽब्रवीत्, कबन्ध आथर्वण इति ॥ १ ॥

प्र– अथ हैनम् ‘उहालक आरुणिः’ पप्रच्छ । नाम्ना उद्दालकः अरुणस्यापत्यम् आरुणिः । शिष्टं स्पष्टम् । याज्ञवल्क्येति होवाच । पूर्ववदर्थः । मद्रेषु - - - -

यज्ञमधीयानाः । वयं मद्रेषु देशेषु, गोत्रतः काप्यस्य, नाम्ना पतञ्जलस्य गृहेषु गृहाः पुंसि च भूम्नयेव (अ.को.२-२-५) इति एकस्मिन् बहुवचनम् - यज्ञं - कल्पसूत्रम् अधीयानाः अवसाम - ‘उषितवन्त इत्यर्थः । तस्यासीत् भार्या गन्धर्वगृहीतातस्य - काप्यस्य पतञ्जलस्य तमपृच्छामतं - ग्रहीतारं गन्धर्वं वयं पृष्टवन्तः । किमिति । त्वं कोऽसीति । सोऽब्रवीत् गन्धर्वः । किमिति अहं कबन्ध आथर्वण इति । नाम्ना कबन्धः, अथर्वणः पुत्रश्च इत्यर्थः । इतरत् स्पष्टम् ॥ १ ॥ सोऽब्रवीत् पतञ्जलं काप्यं याज्ञिकांश्च, वेत्थ नु त्वं काप्य! तत् सूत्रम्, येनायञ्च लोकः परश्च लोकः सर्वाणि च भूतानि संदृब्धानि भवन्तीति । सोऽब्रवीत् पतञ्जलः काप्यो नाहं तद् भगवन् वेदेति ॥ २ ॥

प्र. - सोऽब्रवीत् याशिकांश्च इति । सः - गन्धर्वः याज्ञिकान् । यज्ञाध्येतृृन् तान्, तमध्यापकं काप्यञ्चाब्रवीत् इत्यर्थः । तदेवाह - वेत्थ नु - - भवन्तीति । येन सूत्रेण अयञ्च लोकः - भूलोकादिः परश्च लोकः ऊर्ध्वलोकाः, चतुर्दशभुवनानि, तत्स्थानि च सर्वाणि भूतानि संदृब्धानि - येन सूत्रैण, सूत्रेण पुष्पाणीव, ग्रथनेन विष्टब्धानि इत्यर्थः। तत् - ‘एतादृशं त्वं वेत्थ किम् ? इति प्रश्नः । सोऽब्रवीत् पतञ्जल; काप्यो नाहं तद्भगवन् वेदेति । स्पष्टोऽर्थः ॥ २ ॥

सोऽब्रवीत् पतञ्जलं काप्यं याज्ञिकांश्च, वेत्थ नु त्वं काप्य! तमन्तर्यामिणम्, य इमञ्च लोकं परञ्च लोकँ सर्वाणि च भूतानि योऽन्तरो यमयतीति । सोऽब्रवीत् पतञ्जलः काप्यो नाहं तं भगवन् वेदेति ॥ ३ ॥

प्र. - एवं सूत्रं पृष्ट्वा अन्तर्यामिणं पप्रच्छेत्याह - सोऽब्रवीत् - याज्ञिकांश्च इति । पूर्ववदर्थः । प्रश्नमेवाह - वेत्थ नु - वेद इति । य इमञ्च लोकं परञ्च लोकमन्तरो यमयति सर्वाणि च भूतानि योऽन्तरो यमयतीति यच्छब्दद्वयान्वयः । शिष्टस्य स्पष्टोऽर्थः ॥ ३ ॥ सोऽब्रवीत् पतञ्जलं काप्यं याज्ञिकांश्च, यो वै तत् काप्य! सूत्रं विद्यात् तञ्चान्तर्यामिणमिति स ब्रह्मवित् स लोकवित् स देववित् स वेदवित् स भूतवित् स आत्मवित् स सर्वविदिति । तेभ्योऽब्रवीत् । तदहं वेद । तच्चेत् त्वं याज्ञवल्क्य! सूत्रमविद्वाँस्तञ्चान्तर्यामिणं ब्रह्मगवीरुदजसे, मूर्धा ते विपतिष्यतीति ॥ ४ ॥

प्र– सोऽब्रवीत् - - - याज्ञिकाश्च इति । पूर्ववत् । यो वै - अन्तर्यामिण- मितिइति शब्दः प्रकारवचनः । हे काप्य! तत् सूत्रम्; तञ्चान्तर्यामिणमस्मत्पृष्टम् इति अस्मदवगतप्रकारेण यो विद्यादित्यर्थः । स ब्रह्मवित् - सर्वविदिति । स एव परब्रह्मवित् स एव तन्नियम्यलोकदेववेदभूतवित् । स एव आत्मवित् - परमात्मवित् । परब्रह्मणः परमात्मत्वप्रकारं स एव जानाति इत्यर्थः । स एव च सर्ववित् इत्येवं तेभ्योऽब्रवीत् । तेभ्यः - काप्ययाज्ञिकेभ्यः स गन्धर्वोऽब्रवीत् इत्यर्थः । अज्ञातज्ञानार्थोऽयं प्रश्नः, न वादिपराभवार्थः । अज्ञातान्तर्यामिकथनञ्च सनियमकप्रश्नसाध्यम् । अतो नैवं प्रष्टव्यम् इत्याशङ्कां वारयति । तदहं वेद - तत्सर्वम् अहं जाने इत्यर्थः । ततो नाज्ञातज्ञानार्थोऽयं मम प्रश्नः इति भावः । तच्चेत्वं - - - विपतिष्यतीति । तत् -

सूत्रं तञ्चा न्तर्यामिणमविदित्वा त्वं हे याज्ञवल्क्य ! ब्रह्मगवीः - ब्रह्मविद्यापणबन्धभूताः गाः गोरतद्धितलुकि (पा.सू.५-४-९२) इति टचि टिड्ढाणञ् (पा.सू.४-१-१५) इत्यादिना ङीष् उदजसे चेत् - कालयसि चेत्, ते मूर्धा पतिष्यतीति याज्ञवल्क्यम् उद्दालकः शशाप इत्यर्थः ॥ ४ ॥ वेद वा अहं गौतम! तत् सूत्रं तञ्चान्तर्यामिणमिति । यो वा इदं कश्चित् ब्रूयात् वेद वेदेति; यथा वेत्थ, तथा ब्रूहीति ॥ ५ ॥

प्र– अत्र, वेद वा अहं गौतम! तत् सूत्रं तञ्चान्तर्यामिणमिति याज्ञवल्क्यस्य प्रतिवचनम् । हे गौतम! तत् सूत्रं तञ्चान्तर्यामिणं त्वया पृष्टमहं वेदैव इत्यर्थः । एवमुक्त उद्दालक उवाच यो वा - - - ब्रूहीति । यः कश्चिद्वै सर्वज्ञ दम्भोऽपि कश्चित् लोके अहमिदं वेद इदं वेदेति केवलं वाचा ब्रूयादपि । तेन किं फलमित्यर्थः । अतस्त्वं यथा वेत्थ तथा ब्रूहि । येन प्रकारेण वेत्थ, तेन प्रकारेण ब्रूहि । किम्, अहं वेदेति केवलविकत्थनवचसा वञ्चयसीत्यर्थः ॥ ५॥

[वायुः सूत्रमिति प्रत्युत्तरम्] स होवाच - वायुर्वै गौतम! तत् सूत्रम् । वायुना वै गौतम! सूत्रेणायञ्च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दृब्धानि भवन्ति । तस्माद्वै गौतम! पुरुषं प्रेतमाहुः, व्यस्रँसिषतास्याङ्गानीति । वायुना हि गौतम । सूत्रेण सन्दृब्धानि भवन्तीति । एवमेवैतत् याज्ञवल्क्य! अन्तर्यामिणं ब्रूहीति ॥ ६ ॥ प्र - स होवाच वायुर्वै गौतम । तत्सूत्रम् । हे गौतम! तत् - सूत्रं त्वया पृष्टं वायुरेव इत्यर्थः । वैशब्दोऽवधारणे । वायोरेव सर्वलोकभूताधारत्वं सूत्रलक्षणमस्तीत्याह - वायुना - - - भवन्ति । उक्तेऽर्थे गमकमाह - तस्माद्वै गौतम - - भवन्तीति । यस्मात् सर्वाणि वायुना ग्रथितानि, तस्मादेव हेतोः उत्क्रान्तप्राणस्य पुरुषस्याङ्गानि उत्सूत्रमाल्यानीव विस्रस्तानि भवन्ति । अत एव जनाः मृतस्याङ्गानि व्यस्रंसिषत इत्याहुः । अतो वायुना संदृब्धानि सर्वलोकभूतानीति स याज्ञवल्क्य उवाच इति सम्बन्धः । व्यस्त्रंसिषत - लुङ् । उक्तमर्थम् उद्दालकः, अङ्गीकरोति । एवमेवैतद्याज्ञवल्क्य - भवतु

एतदेवम् । इतरब्रूहीत्याह - अन्तर्यामिणं ब्रूहीति । स्पष्टोऽर्थः ॥ ६ ॥

[अन्तर्यामिणः सूत्रनियन्तृत्वम्] यः पृथिव्यां तिष्ठन्, पृथिव्या अन्तरो यं पृथिवी न वेद, यस्य पृथिवी शरीरम्, यः पृथिवीमन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः ॥ ७ ॥

प्र. - याज्ञवल्क्य आह - यः पृथिव्यां - - - अन्तर्याम्यमृतः ।पृतिव्यां स्थितः तदन्तर्गतः तदवेद्यः तच्छरीरकश्च सन् , योऽन्तः प्रविश्य प्रतिनिवृत्तिलक्षणनियमनं करोतिः एषोऽन्तर्यामी ते अमृत आत्मा - निरुपाधिकामृतत्वशाली आत्मा इत्यर्थः । अत्र ते आत्मेति व्यतिरेकनिर्देशात् अन्तर्यामिणः जीवव्यतिरेकः सिद्धः, अमृतत्वविशेषणाच्च सिद्धयति । तद्धि विशेषणं जीवव्यावृत्त्यर्थम् । अन्तर्यामी ते आत्मा इत्युक्ते, आत्मशब्दस्य स्वरूपवचनत्वशङ्ख्या जीवव्यावृत्तिर्न प्राप्नोतीति हि अमृत इत्युक्तम् । जीवस्यामृतत्वसिद्धेः परमात्मा प्रसादाधीनत्वान्न तत् तस्य निरुपाधिकमिति निरुपाधिकामृतत्वशाली आत्मा परमात्मेव । अत्र अमृतत्वस्य उपाध्यनुक्तया निरुपाधिकत्वसिद्धिर्द्रष्टव्या । अत्र प्रश्चानुरूप्येण, इमं व लोकं परञ्च लोकं सर्वाणि च भूतानि योऽन्तरे

यमयति एष त आत्मा अन्तर्यामी इति एकेनैव निर्देशन सर्वान्तर्यामिणः उद्दालकं प्रति, ते आत्मा इत्यात्मत्वप्रतिपादनसंभवात् यः पृथिव्यां तिष्ठन् योऽप्सु तिष्ठन् इत्यादि- पर्यायोपदेशबाहुल्यं किमर्थमिति चेन्न - पृथिव्यादिके एकेकवस्तुनि प्रत्येकं परिपूर्णत्वेन नियन्तृतया स्थितिज्ञापनार्थत्वेन सार्थक्यात् । परिपूर्णत्वञ्च अणुमात्रेऽपि वस्तुनि स्थितस्य निरवधिकषाङ्गुण्य विशिष्टतया प्रतिपत्तियोग्यत्वमिति व्यासार्यैर्वाक्यान्वयाधिकरणे वर्णितम्। इदं हि ‘पूर्णत्व’नैकेन पूर्वोक्तरीत्या निर्देशन सिद्ध्यति । ननु, सर्वाणि च भूतानि योऽन्तरो यमयति, तं मे ब्रूहि इति, सर्वभूतानामप्यन्तर्यामी

एकोऽस्ति, स वक्तव्य इति पृष्टवन्तमुद्दालकं, प्रति पृथिव्यन्तर्याम्येव ते अन्तर्यामी, जालान्तर्याम्येव

ते अन्तर्याम् इति पृथिव्याद्यन्तर्यामिणश्च उद्दालकान्तर्यामिणश्चाभेदबोधनमसङ्गतम् अन्तर्याम्यैक्यस्य प्रागेव निक्षितत्वात् । अतः स त आत्मा इत्यत्र आत्मशब्दो नान्तर्यामिवचनः, अपितु स्वरूपवचन इत्येव युक्तमिति चेन्न आत्मशब्दस्य शेषित्वाधारत्वाद्यर्थ- कतयाऽप्युपपत्तेः ते आत्मेति व्यधिकरणनिर्देशस्वारस्यभङ्गायोगात् । पतिं विश्वस्य

इत्यादिवाक्यैर्विश्वशेषिणः कस्यचिदवगतत्वात् तेन वाक्येन प्रतिपन्नस्ते आत्मा-ते शेषी पृथिव्यादीनाम् अन्तर्यामीति प्रघट्टार्थः ॥ ७ ॥ योऽप्सु तिष्ठन्नद्भयोऽन्तरो यमापो न विदुर्यस्यापश्शरीरं, योऽपोऽन्तरो वामयति, एष त आत्माऽन्तर्याम्यमृतः ॥ ८ ॥ योऽग्नौ तिष्ठम्नग्रेरन्तरो यमग्निर्न वेद, यस्याग्निश्शरीरं, योऽग्निमन्तरो यमयति, एषा आत्माऽन्तर्याम्यमृतः ॥ ५ ॥ योऽन्तरिक्षे तिष्ठन्तरिक्षादन्तरो यमन्तरिक्षं न वेद, यस्यान्तरिक्षं शरीरम्, योऽन्तरिक्षमन्तरो यमयति, एष त आत्मान्तर्याप्यमृतः ॥ १० ॥ यो वायौ तिष्ठन् वायोरन्तरो यं वायुर्न वेद, यस्य वायुः शरीरम् , यो वायुमन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः ॥ ११ ॥ यो दिवि तिष्ठन् दिवोऽन्तरो यं द्यौर्न वेद, यस्य द्यौश्शरीरम्, यो दिवमन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः ॥ १२ ॥ य आदित्येतिष्ठन्नादित्यादन्तरो यमादित्यो न वेद, यस्यादित्यश्शरीरम् , य आदित्यमन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः ॥ १३ ॥ यो दिग्क्षु तिष्ठन् दिग्भ्योऽन्तरो यं दिशो न विदुर्यस्य दिशश्शरीरम्। यो दिशोऽन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः ॥ १४ ॥ याचन्द्रतारके तिष्ठँश्चन्द्रतारकादन्तरो यं चन्द्रतारकँ न वेद, यस्य चन्द्रतारकँ शरीरम्, यश्चन्द्रतारकमन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः ॥ १५ ॥ य आकाशे तिष्ठन्नाकाशादन्तरो यमाकाशो न वेद, यस्याकाशश्शरीरम्, य आकाशमन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः ॥ १६ ॥ यस्तमसि तिष्ठँस्तमसोऽन्तरो यं तमो न वेद, यस्य तमश्शरीरम्, यस्तमोऽन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः ॥ १७ ॥ यस्तेजसि तिष्ठँस्तेजसोऽन्तरो यं तेजो न वेद, यस्य तेजश्शरीरम्, यस्तेजोऽन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः । इत्यधिदैवतम् । अथाधिभूतम् ॥ १८ ॥

प्र. - एवमप्सु अग्नौ अन्तरिक्षे वायो दिवि आदित्ये दिक्षु चन्द्रतारके आकाशे तमसि तेजसि च अन्तर्यामिणमुक्त्वा आह - इत्यधिदैवतम् । उपदिष्टमन्तर्यामिस्वरूपमिति शेषः । अथाधिभूतम् - अन्तर्यामिस्वरूपम् ‘उच्यते’ इति शेषः ॥ ८-१८ ॥

यस्सर्वेषु भूतेषु तिष्ठन् सर्वेभ्यो भूतेभ्योऽन्तरो यँ सर्वाणि भूतानि न विदुर्यस्य सर्वाणि भूतानि शरीरम्, यः सर्वाणि भूतान्यन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः । इत्यविभूतम् । अथाध्यात्मम् ॥ १९ ॥

प्र. - सर्वेषु भूतेषु चान्तर्यामिणमुक्त्वाह - इत्यधिभूतम् । अन्तर्यामिस्वरूपमुक्तमिति शेषः । अथाध्यात्मम् । अन्तर्यामिस्वरूपमुच्यत इति शेषः ॥ १९ ॥ यः प्राणे तिष्ठन् प्राणादन्तरो यं प्राणो न वेद, यस्य प्राणश्शरीरम्, यः प्राणमन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः ॥ २० ॥ यो वाचि तिष्ठन् वाचोऽन्तरो यं वाङ्न वेद, यस्य वाक् शरीरम्, यो वाचमन्तरो यमयति, एष त आत्मान्तर्याम्यमृतः ॥ २१ ॥ यश्चक्षुषि तिष्ठन् चक्षुषोऽन्तरो यं चक्षुर्न वेद, यस्य चक्षुश्शरीरम्, यश्चक्षुरन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः ॥ २२ ॥ यश्श्रोत्रे तिष्ठन् श्रोत्रादन्तरो यँ श्रोत्रं न वेद, यस्य श्रोत्रँ शरीरम्, यश्श्रोत्रमन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः ॥ २३ ॥ यो मनसि तिष्ठन् मनसोऽन्तरो यं मनो न वेद यस्य मनश्शरीरम्, यो मनोऽन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः ॥ २४ ॥ यस्त्वचि तिष्ठँस्त्वचोऽन्तरो यँ त्वङ् न वेद, यस्य त्वक् शरीरम् यस्त्वचमन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः ॥ २५ ॥ यो विज्ञाने तिष्ठन् विज्ञानादन्तरो यं विज्ञानं न वेद, यस्य विज्ञानं शरीरम्, यो विज्ञानमन्तरो यममति, एष त आत्माऽन्तर्याम्यमृतः ॥ २६ ॥

प्र. - एवं प्राणे वाचि चक्षुषि क्षोत्रे मनसि त्वचि च उक्त्वा आह यो विज्ञाने - अमृतः । अत्र विज्ञानशब्दो जीवात्मपरः । समानप्रकरणे माध्यन्दिनशाखायामत्रत्य विज्ञानशब्दस्थाने, आत्मनि तिष्ठन् इति आत्मशब्देन निर्देशदर्शनात्, ज्ञानस्वरूपस्य तस्य तच्छब्दवाच्यत्वयोगाच्चेति द्रष्टव्यम् ॥ २०-२६ ॥

यो रेतसि तिष्ठन् रेतसोऽन्तरो यँ रेतो न वेद, यस्य रेतश्शरीरम्, यो रेतोऽन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः । अदृष्टो द्रष्टा, अश्रुतश्श्रोत, अमतो मन्ता, अविज्ञाता विज्ञाता, नान्योऽतोऽस्ति द्रष्टा, नान्योऽतोऽस्त श्रोता, नान्योऽतोऽस्ति मन्ता, नान्योऽतोऽस्ति विज्ञाता; एष त आत्माऽन्तर्याम्यमृतः । अतोऽन्यदार्तम् । ततो होद्दालक आरुणिरुपरराम ॥ २७ ॥

प्र. - एवं रेतस्यन्तर्यामिणमुक्त्वाऽऽह - अदृष्टो द्रष्टा - - - विज्ञाता इति । अत्र द्रष्टृत्वं रूपसाक्षात्कारवत्वम् । न तु चक्षुर्जन्यज्ञानवत्वम्। तस्य परमात्मन्यसम्भवात् । श्रोतृत्वं शब्दसाक्षात्कारवत्त्वम् । मन्तृत्वं मन्तव्यविषयसाक्षात्कर्तृत्वम् । विज्ञातृत्वं विज्ञानशब्दितनिदिध्यासनविषयसाक्षात्कर्तृत्वम् । द्रष्टुत्वादिकं जीवस्यापि अस्तीति अदृष्टत्वादिना द्रष्टृत्वादिकं विशेषितम् । तादृशञ्च तन्न जीवस्यास्तीति भावः । अत्र च द्रष्टृत्वादौ उपाध्यनुक्तेः निरुपाधिकद्रष्टृत्वमर्थसिद्धमिति द्रष्टव्यम् । नान्यो - - - विज्ञाताएष त आत्माऽन्तर्याम्यमृतः । अतोऽन्यदार्तम् । अन्यशब्दादेः सर्वनाम्नः पूर्वनिर्दिष्ट सदृशान्यपरत्वस्य, समानेषु पूर्वत्वात् (पू.मी.सू.७-१-९२) इति ‘साप्तमिकाधिकरणे व्यवस्थितत्वात् अत्राप्यन्यशब्देन पूर्वनिर्दिष्टादृष्टत्वादिविशेषितनिरुपाधिकरूपादि साक्षात्कारादिमतो निषेध उपपद्यते । जीवस्य करणायत्तज्ञानत्वात् अन्यस्तत्सदृशोऽदृष्टो द्रष्टा नास्तीत्यर्थः । एवमुत्तरत्रापि द्रष्टव्यम् । शिष्टं स्पष्टम् । ततो होद्दालको आरुणि- रुपरराम । पूर्ववत् । इदञ्च ब्राह्मणमधिकृत्य समन्वयाध्याये द्वितीयपादे चिन्तितम् । यः पृथिव्यां

तिष्ठन् इत्यारभ्यान्तर्यामिब्राह्मणे अधिदैवतमधिलोकमधिवेदमधियज्ञमधिभूतमध्यात्मञ्च अन्तरवस्थितत्वेनोक्तोऽयमन्तर्यामी जीव एव स्यात् । वाक्यशेषे, द्रष्टा श्रोता इति करणायत्तज्ञानवत्त्वोक्तेः । न च दर्शनश्रवणादिशब्दाः रूपशब्दादिसाक्षात्कारपराः । तादृशसाक्षात्कारवत्वञ्च परमात्मनोऽपि सम्भवतीति वाच्यम् - तथा हि सति, नान्योऽतोऽस्ति

द्रष्टा इति तदतिरिक्तद्रष्टुनिषेधानुपपत्तेः। जीवस्यैव तदतिरिक्तस्य रूपादिसाक्षात्कारवतः सत्त्वात् । द्रष्ट्रादिशब्दाना करणायत्तज्ञानवत्त्वार्थकतया जीवपरत्वे तु जीवव्यतिरिक्तस्य करणायत्तज्ञानवतो निषेध उपपद्यते; ईश्वरस्य करणायत्तज्ञानवत्त्वाभावादिति पूर्वपक्षे प्राप्ते उच्यते अन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात् (ब्र.सू.१-२-१९) अधिदेवाधिलोकादिषु श्रूयमाणोऽन्तर्यामी परमात्मैव; सर्वभूतान्तरत्वामृतत्वादेः परमात्मधर्मस्य श्रवणात् । अधिलोकादयो माध्यन्दिने द्रष्टव्याः । अन्यशब्दस्य पूर्वोक्तन्यायेन पूर्वनिर्दिष्टा- दृष्टत्वादिविशेषितनिरुपाधिकरूपादि साक्षात्कर्त्रन्तरपरत्वेन वाक्यशेषोऽप्युपपद्यते । न च स्मार्तमतद्धर्माभिलापाच्छारीरश्च (ब्र.सू.१-२-२०) यथा स्मार्तं प्रधानम् , अदृष्टो द्रष्टा इति श्रुतस्यादृष्टत्वविशिष्टद्रष्टृत्वस्य, ‘सर्वान्तर्यामित्वादेश्च’ तदसम्भावितधर्मस्य श्रवणात् न प्रतिपाद्यम् - एवं न जीवोऽप्यत्र प्रतिपाद्यते ॥ उभयेऽपि हि भेदेनेनैनमधीयते (ब्र.सू.१-२-२१) । काण्व माध्यन्दिनाश्च उभयेऽपि अन्तर्यामिणं जीवभिन्नमेव आमनन्ति । माध्यन्दिनाहि, य आत्मनि तिष्ठन्नात्मनोऽन्तरो

इति, काण्वाश्चात्मपर्यायस्थाने, यो विज्ञाने तिष्ठन् इति आत्मापदस्थाने विज्ञानपदमधीयते । अतो न जीवोऽन्तर्यामीति स्थितम् । ननु अत्मनो ज्ञानाश्रयस्य कथं विज्ञानशब्दवाच्यत्वमिति चेन्न - अस्यार्थस्य वियत्पादे चिन्तितत्वात् । तथा हि यो विज्ञाने तिष्ठन्, विज्ञानं यज तनुते (तै.आन.५-१) ज्ञानस्वरूपमत्यन्तनिर्मलं परमार्थतः (वि.पु.१-२-६) इति श्रुतिस्मृतिभिः ज्ञानस्वरूपत्वेनैव आत्मनः प्रतीतेः न ज्ञाता आत्मा । अथवा यो वेदेदं जिघ्राणीति स आत्मा, एष हि द्रष्टा

श्रोता इत्यादिश्रवणात् । अहं जानामि - अज्ञासिषम् इत्याद्यनुभवाञ्च आगन्तुकज्ञानाश्रय एव; न स्वयं ज्ञानरूपः । ज्ञानरूपत्ववचनानि तु लाक्षणिकानि इत्येवं पूर्वपक्षे प्राप्ते । उच्यते - ज्ञोऽत एव (ब्र.सू २-३-१९) । अत एव एष हि द्रष्टा श्रोता रसयिता

घ्राता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः इति विज्ञानात्मनः एव जीवस्य द्रष्टृत्वादिश्रुतेरेव ज्ञानात्मकोऽपि सन् स्वाभाविकज्ञानाश्रयश्च भवतीत्यर्थः । ननु विभोरात्मनः स्वाभाविकज्ञानाश्रयत्वे तज्ज्ञानस्य सर्वपदार्थसम्बन्धात् सार्वज्यं सर्वदा स्यात् इत्याशङ्क्याह - उत्क्रान्तिगत्यागतीनाम् (ब्र.सू.२-३-२०) विभुत्वे स्यादियं शङ्काऽपि, तेन प्रद्योतेनैष आत्मा निष्कामति (बृ.उ.६-४-२)। ये वै के चास्माल्लोकात्

प्रयन्ति, चन्द्रमसमेव ते सर्वे गच्छन्ति (कै.उ.१-२) तस्माल्लोकात् पुनरेत्यस्मै लोकाय

कर्मणे (बृ.उ.६-४-६) इति जीवस्य उत्क्रान्तिगत्यागतीनां श्रवणात् जीवो न विभुः । अतो न सर्वदा सार्वज्ञ्यापत्तिरित्यर्थः । ननु शरीरादुत्क्रमणं नाम शरीरविषयकाभिमानराहित्यम् । तच्च विभोरप्यात्मनः सम्भवतीत्यत्राह स्वात्मना चोत्तरयोः (ब्र.सू.२-३-२१) । च शब्दोऽवधारणे । विभुत्वपक्षे उत्क्रमस्य कथञ्चित्सम्भवेऽपि उत्तरयोः गमनागमनयोः स्वात्मना - स्वरूपेणैव सम्पाद्यत्वात् विभुत्वे तदसम्भवः । किञ्च भूतकरणग्रामा- संपरिष्वक्तस्यैव, एतास्तेजोमात्रास्समभ्याददानो हृदयमेवान्ववक्रामति, शुक्रमादाय पुनरेति

स्थानम् इति शरीर एव स्वात्मनैव गत्यागतिश्रवणात् विभुत्वे च तयोरसम्भवात् न विभुरात्मा । नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारात् (ब्र.सू.२-३-२२) योऽयं विज्ञानमयः

प्राणेषु इति जीवं प्रस्तुत्य स एष महानज आत्मा इति महत्वश्रुतेर्नाणुर्जीव इति चेत् - न यस्यानुवितः प्रतिबुद्ध आत्मा इति जीवेतरं परमात्मानमधिकृत्य तस्यैव तत्र महत्त्वप्रति- पादनात् । स्वशब्दोऽन्मानाभ्याञ्च (ब्र.सू.२-३-२३) एषोऽणुरात्मा चेतसा वेदितव्यः

(मुं.उ.३-१-९) इति अणुत्वलक्षणस्य स्वस्य वाचकशब्दश्रवणात्, वालाग्रशतभागस्य

शतधा कल्पितस्य च । भागो जीवस्सविज्ञेयः (श्वे.उ.५-९) इति अणुसदृशं वस्तूद्धृत्य तन्मानत्वस्य जीवे आमननाच्चाणुरेव । ननु अणुत्वे सति एकदेशस्थस्य कथं सकलदेहव्यापिवेदनोपलम्भ इत्यत्र मतान्तरेण परिहारमाह - अविरोधश्चन्दनवत् (ब्र.सू.२-३-२४) । यथा हरिचन्दनबिन्दुः शरीरैकदेशस्थोऽपि सकलदेहव्यापिनम् आह्वादं करोति, एवं जीवोऽपि भविष्यति । अवस्थितिवैशेष्यादिति

चेन्नाभ्युपगमादि हि (ब्र.सू.२-३-२५) हरिचन्दनबिन्द्वादेः हृदयादिरूपदेशविशेषावस्थिति- विशेषादस्तु तथाभावः, आत्मनो न देशविशेषावस्थितिरस्तीति कथं तथात्वमिति चेन्न- हृदि ह्ययमात्मा इति जीवस्यापि शरीरप्रदेशविशेषावस्थित्यभ्युपगमात् । अथ स्वमतेन परिहारमाह गुणाद्वाऽऽलोकवत् (ब्र.सू.२-३-२६) वा शब्दो मतान्तरव्यावृत्त्यर्थः । लोके यथा एकदेशस्थानामपि मणिद्युमणिप्रभृतीनां प्रभा व्यापिनी, एवमेकदेशस्थितस्यापि जीवस्य प्रभास्थानीयधर्मभूतज्ञानव्याध्या सर्वाङ्गीणसुखदुःखाद्यनुभवसम्भवात् नानुपपत्तिः । ननु आत्मव्यतिरिक्तं ज्ञानं नास्तीत्यत्राह - व्यतिरेको गन्धवत् तथा च दर्शयति

(ब्र.सू.२-३-२९) । यथा गन्धस्य पृथिवी व्यतिरेकः प्रत्यक्षसिद्धः, तथा, अहं जानामीति ज्ञानस्यात्मव्यतिरेकः प्रत्यक्षसिद्धः । जानात्येवायं पुरुषः इति श्रुतिश्च तथा दर्शयति । पृथगुपदेशात् (ब्र.सू.२-३-२८) विज्ञानात्मनोः, पृथक्कृत्य न हि विज्ञातुः विज्ञातेर्विपरिलोपो

विद्यते (बृ.उ.६-३-३०) इति तत्तद्वाचकशब्दैरेव पृथक्कृत्य, उपदेशदर्शनात् आत्मधर्मभूतं ज्ञानम् अस्त्येव । ननु ज्ञानस्यात्मापेक्षया पृथक्त्वे, यो विज्ञाने तिष्ठन् इत्यादिश्रुतीनां का गतिरित्यत्राह - तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत् (ब्र.सू.२-३-२९) । तुशब्दः चोद्यं “व्यावर्तयति । जीवे विज्ञानगुणस्यैव सारभूतगुणत्वात् विज्ञानमिति जीवो व्यपदिश्यते । यथा प्राज्ञस्प परमात्मनः आनन्दगुणसारत्वात्, यदेष आकाश आनन्दो न स्यात् इत्यानन्दशब्देन व्यपदेशः । यावदात्मभावित्वाञ्च न दोषस्तद्दर्शनात् (ब्र.सू.२-३-३०) यथा गोत्वादीनां यावद्गोव्यक्तिभावित्वात् गोत्ववाचिभिः गवादिशब्दैः व्यक्तिनिर्देशो दृश्यते, एवमेव ज्ञानरूपधर्मस्य यावदात्मभावित्वात् तद्वाचिना ज्ञानशब्देन धर्मिणो व्यपदेशो न दोषाय इत्यर्थः । अत्र चकारात् ज्ञानवत् आत्मनोऽपि स्वप्रकाशत्वेन, ज्ञानमिति व्यपदेशो न दोषायेति समुच्चिनोति । ननु सुषुप्त्यादिषु ज्ञानाभावात् न ज्ञानस्य यावदात्मभाविधर्मत्वम् । तत्राह पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् (ब्र.सू.२-३-३१) । यथा सर्वदा विद्यमानस्य पुंस्त्वव्यञ्जकधातोः यौवनेऽभिव्यक्तिरेवं सर्वदा विद्यमानस्यापि विज्ञानस्येन्द्रियसम्प्र- योगदशायाम् अभिव्यक्तिः । अतश्च ज्ञानस्वरूपोऽणुरात्मा ज्ञाता च । ननु विज्ञानरूप एवात्मा विभुरस्तु, तत्राह - नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमोवाऽन्यथा (ब्र.सू.२-३-३२) । किं सर्वगत आत्मा उपलब्धेरेव वा अनुपलब्धेरेव वा हेतुः, उत उभयत्र । आद्यपक्षद्वयपक्षे उपलब्धेरेव वा अनुपलब्धेरेव वा इत्यन्यतरनियमः स्यात् । तृतीयपक्षे सर्वदा उपलब्ध्यनुपलब्धी स्याताम् । ततश्च उपलम्भानुपलम्भौ पर्यायेण दृश्यमानौ नोपपद्येयाताम् । अणोर्ज्ञानस्वरूपस्यैव आत्मनः इन्द्रियसम्प्रयोगादिकारणमहिम्ना कादाचित्की धर्मभूतज्ञानाभिव्यक्तिरिति सिद्धान्तपक्षेतु नानुपपत्तिरिति स्थितम् । तथा च तत्रैव पादे - कर्ता शास्त्रार्थवत्त्वात् (ब्र.सू.२-३-३३) इति प्रतिपादितं जीवानां कर्तृत्वं न परमात्मायत्तम् । तथात्वे हि प्रवृत्तिनिवृत्त्योः सालभञ्जिकावत् अस्वतन्त्रं जीवं नियोजयतोः विधिनिषेधशास्त्रयोः आनर्थक्यं स्यादिति पूर्वपक्षे प्राप्ते - उच्यते- परात्तु तच्छ्रुतेः । (ब्र.सू.२-३-४०) । तु शब्दः पक्षं व्यावर्तयति । तच्च कर्तृत्वं परात्। परमात्मायत्तमित्यर्थः। य आत्मानमन्तरो यमयति इति तत्कर्तृत्वस्य परायत्तत्वश्रवणात् । नन्वेवं विधिनिषेधशास्त्रानर्थक्यम् । तत्राह कृतप्रयत्नापेक्षस्तु विहितप्रति-

षिद्धावैयर्थ्यादिभ्यः (ब्र.सू.२-३-४१) । परमात्मा जीवकृतं पूर्वप्रयत्नमपेक्ष्य तदनुमतिदानेन प्रवर्तयति । एवं सति विधिप्रतिषेधावैयर्थ्यानुग्राहकत्वादिकं सिद्ध्यति । स भगवान् पुरुषोत्तमः अवाप्तसमस्तकामः सर्वज्ञः सर्वेश्वरः सत्यसङ्कल्पः स्वमाहात्म्यानुगुण- लीलाप्रवृत्तः, एतानि कर्माणि समीचीनानि, एतान्यसमीचीनानि इति कर्मद्वैविध्यं संविधाय, तदुपादानोचितदेहेन्द्रियादिकं तन्नियमनशक्तिञ्च सर्वेषां क्षेत्रज्ञानां सामान्येन प्रदिश्य, स्वशासना-वबोधि शास्त्रञ्च प्रदर्श्य, अन्तरात्मतया अनुप्रविश्य अनुमन्तृतया च नियच्छंस्तिष्ठति । ते च क्षेत्रज्ञाः तदाहितशक्तयः तत्प्रदिष्टकरणकलेबरादिकाः तदाधाराः स्वयमेव स्वेच्छानुगुण्येन पुण्यापुण्यरूपे कर्मणी उपाददते । ततश्च पुण्यरूपकर्मकारिणं स्वशासनानुवर्तिनं ज्ञात्वा धर्मार्थकाममोक्षैः वर्धयति । शासनातिवर्तिनञ्च तद्विपर्यपे ण योजयति । अतः स्वातन्त्र्य-दयालुत्वादिवैकल्यचोद्यस्य नावकाशः । दया हि नाम स्वार्थनिरपेक्षापरदुःस्वा सहिष्णुता । सा स्वशासनातिवृत्तिव्यवसायिन्यपि वर्तमाना न गुणायावकल्पते । प्रत्युत अपुंस्त्व- मेवाऽऽवहति । तन्निग्रह एव तत्र गुणः । अन्यथा शत्रुनिग्रहादीनाम् अगुणत्वप्रसङ्गात् । स्वशासनातिवृत्तिव्यवसायनिवृत्तिमात्रेण नाद्यनन्तकल्पोपचितदुर्विषहानन्तापराधानङ्गीकारेण निरतिशय सुखसंवृद्धये’ स्वयमेव प्रयतते । यथोक्तम् - तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ।

ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥ (भ.गी.१०-१०) इति । ननु कूपे पतन्तं बालकं दृष्ट्वा उपेक्षमाणस्य अनुमतिं कृतवतो वा पुंसो नैर्घृण्यादिप्रसक्तिवत् स्वाहितकर्मप्रवृत्तपुरुषविषये उपेक्षकत्वे वा, अनुमन्तृत्वे वा, प्रयोजकत्वे वा सर्वेश्वरस्य तस्य निर्दयत्वादिकम् अवश्यम्भावीति चेत् - शास्त्रप्रवर्तनमुखेन सामान्येन अहितप्रवृत्तिनिवारणस्य कृतत्वात् नोपेक्षणम् । तत्तत्प्रवृत्तिकाले विशेषतो निवारकत्वाभावलक्षणम् । उपेक्षकत्वं तु स्वतन्त्रस्य न पर्यनुयोज्यम् । एतादृशस्वातन्त्र्यमेव दोष इति चेत् - तत्र किं प्रमाणम् न प्रत्यक्षम्; तस्येश्वरविषये अप्रमाणत्वात् । नाप्यनुमानम् । तत्र हि किम् ईश्वराख्यं धर्मिणं शास्त्रेकसमधिगम्यमभ्युपेत्य तत्स्वातन्त्र्यस्य दोषत्वम् अनुमीयते, उतानभ्युपगम्य? अनभ्युपगमे हेतोः आश्रयासिद्धिः । अभ्युपगमे धर्मिग्राहकेण शास्त्रेण तस्य गुणत्वेन प्रतिपन्नत्वात् कालात्ययापदिष्टत्वम् । चिकीर्षापूर्वककृतिमत्त्वेन सालभञ्जिकाविलक्षणतया जीवस्य कर्तृत्वात् न शास्त्रानर्थक्यम्ः प्रवर्तकज्ञानचिकीर्षोत्पादकत्वेन साफल्यात् । कालादिवत् साधारणकृतिहेतोरीश्वरस्य न वैषम्यादिप्रसक्तिश्च । उत्तञ्च भगवता पराशरेण - निमित्तमात्रमेवासौ सृज्यानां सर्गकर्मणि । (वि.पु.१-४-५१) इति । निमित्तमात्रं - साधारणमात्रमित्यर्थः गीतञ्च भगवताऽपि । तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् । (भ.गी.४-१३) इति । साधारणकर्तारं विद्धि । असाधारणकर्तारं न विद्धीति हि तस्यार्थः । उक्तञ्च व्यासार्यैः - वैयर्थ्यं यावता न स्यात् विधानप्रतिषेधयोः ।

नियन्तृत्वश्रुतेस्तावान् सङ्कोचो न त्वतः परः ॥ इति ॥ नन्वेवं साधारणकारणैरेव सर्वकार्योत्पत्तिसम्भवे ईश्वश्वरस्य प्रयोजकत्वानुमन्तृत्वादिकं कुतोऽभ्युपगन्तव्यम् इति चेत् - कल्पनायामेव ईदृशचोद्यावकाशः । अन्तःप्रविष्टःशास्ता

जनानां सर्वात्मा (तै.आर.३-११-१०) एष ह्येव साधु कर्म कारयति (कौँउ. ३.३-८) इत्यादि, प्रमाणप्रतिपन्नार्थे ईदृशचोद्यानवकाशादिति स्थितम् । तथा प्राणपादे - जीवस्य यत् स्वभोगसाधनशरीराद्यधिष्ठातृत्वम्, न तत् परमात्मायत्तमिति पूर्वपक्षे पाप्ते उच्यते - ज्योतिराद्यधिष्ठानं तु तदामननात् (ब्र.सू.२-४-१३) प्राणवता जीवे न सह । ज्योतिरादीनाम् अग्नयादिदेवतानां यत् प्राणविषयमधिष्ठानम् - जीवेन अग्न्यादिदेवताभिश्च क्रियमाणं प्राणकर्मकाधिष्ठानं यत्, तत्, तदामननात् तस्य परमात्मन आमननात् सङ्कल्पादेव भवति; योऽग्नौ तिष्ठन्नग्नेरन्तरो यमग्निर्न वेद यस्याग्निः

शरीरं योऽग्निमन्तरो यमयति, य आत्मनि तिष्ठन् इत्यादिशब्दात् । तस्य च नित्यत्वात् (ब्र.सू.२-४-१४) सर्वेषां परमात्मनाऽधिष्ठितत्वस्य यावत्स्वरूपभावित्वाच्चेति स्थितम् । प्रकृतमनुसरामः ॥ २७ ॥ ॥ इति पञ्चमाध्याये सप्तमब्राह्मण प्रकाशिका ॥ पञ्चमाध्याये अष्टमं ब्राह्मणम् वाचक्नवीब्राह्मणम् [गार्ग्याः ब्राह्मणान् प्रति प्रश्नानुज्ञा प्रार्थना]

अथ ह वाचक्नवी उवाच-ब्राह्मणा भगवन्तो हन्त! अहमिमं द्वौ प्रश्नौ

प्रक्ष्यामि । ‘तौ चेन्मे’ वक्ष्यति, न वै जातु युष्माकमिमं कश्चित् ब्रह्मोद्यं जेतेति, पृच्छ गार्गीति ॥ १ ॥

प्र. अथ ह वाचक्नव्युवाच इत्यादि । अन्तर्यामिब्राह्मणे प्रसिद्ध उद्दालके याज्ञवल्क्येन पराजिते, सर्वेषां ब्राह्मणानामेवमेव पराजयो भविष्यतीति मन्यमाना गार्गी, मातिप्राक्षीर्मा ते मूर्धा व्यपप्तत् इति याज्ञवल्क्यस्य स क्रोधोक्तया भीत्या पूर्वमुपरताऽपि ब्राह्मणानुज्ञां प्राप्य पुनः प्रष्टुकामा अनुज्ञादानाय ब्राह्मणानुवाच इत्यर्थः । ब्राह्मणा भगवन्तो हन्ताहम् इत्यादि । हन्त ! हे भगवन्तो ब्राह्मणाः । इमं - याज्ञवल्क्यमहं प्रश्नद्वयं प्रक्ष्यामि । तस्य चेदुत्तरं मे प्रश्नद्वयस्य याज्ञवल्क्यो वक्ष्यति, तदा इमं याज्ञवल्क्यं युष्माकं मध्ये ब्रह्मोद्यं - ब्रह्मवादं प्रति जेता कोऽपि जातु ना स्तीत्यर्थः । ब्रह्मोद्यम् । वदरसुपि क्यप् च (पा.सू.३-१-२०६) इति क्यप् । तौ चेन्मे न विवक्षिष्यति मूर्धाऽस्य विपतिष्यतीति । मे - मम तौ पश्नौ अयं याज्ञवल्क्यो न प्रतिवक्ष्यति यदि, तर्हि माम्, मा ते मूर्धा व्यपप्तत् इत्यन्यायेन अब्रह्मवादिनीमिव पूर्वं शप्तवतोऽस्य याज्ञवल्क्यस्य अब्रह्मिष्ठस्य मूर्धा विपतिष्यति ब्रह्मिष्ठपणग्रहणदिति अस्मिन्नर्थे ब्राह्मणा अनुगृह्णन्तु इत्यर्थः । एवमुक्ता ब्राह्मणा आदृत्यानुमतिमदुः । पृच्छ गार्गीति । स्पष्टोऽर्थः ॥ १ ॥

सा होवाच अहं वै याज्ञवल्क्य! यथा काश्यो वा वैदेहो वोप्रपुत्र उज्ज्यं धनुरधिज्यं कृत्वा द्वौ बाणवन्तौ सपत्नातिव्याधिनौ हस्ते कृत्वा उपोत्तिठे देवमेवाहं त्वां द्वाभ्यां प्रश्नाभ्यामुपोदस्थाम् । तौ मे ब्रूहीति । पृच्छ गार्गीति ॥ २ ॥

प्र- सा होवाच । तदेव याज्ञवल्क्यं प्रति ब्राह्मणानुमतया वाचक्नव्योक्तमाह अहं वै - - - ब्रूही इति । हे याज्ञवल्क्य । अहं वै - प्रसिद्धं यथा तथा काशीदेशभवः विदेहदेशेभवो वा उग्रपुत्रः - शूरवंश्यः यथा उज्ज्यम् - उत्सृष्टज्यं धनुः पुनरपि सज्यं कृत्वा द्वौ बाणवन्तौ - बाणशब्देन शराग्रे यो वंशखण्डः, सोऽभिधीयते । तद्वन्तौ - - - सपत्नातिव्याधिनौ । सपत्नात्यन्तव्ययनशीलौ च शरौ हस्ते गृहीत्वा उपोत्तिष्ठेत् । सपत्नसमीपं गच्छति, एवमेय अहं द्वाभ्यां प्रश्नाभ्यां त्यामुपस्थिताऽस्मि उपोदस्थाम् । स्याधातोर्लुङ् । गतिस्थाधुपाभूम्य: (पा.सू.२-४-७७) इति सिचोलुक् । ती मे प्रश्नौ ब्रूहीत्यर्थः । एवमुक्त आह - याज्ञवल्क्यः पृच्छ गार्गीति । स्पष्टोऽर्थः ॥ २ ॥

[सूत्रं कस्मिन् ओतं प्रोतं इति प्रश्नः]

सा होवाच यदूर्ध्वं याज्ञवल्क्य दिवो यदर्वाक् पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतञ्च भवञ्च भविष्यच्चेत्याचक्षतेः कस्मिंस्तदोतञ्च प्रोतञ्चेति ॥

प्र. - सा होवाच इति । सा गार्गी पप्रच्छ । तदेवाह यदूर्ध्वं - - -प्रोतञ्च

इति । हे याज्ञवल्क्य! दिवो यदूर्ध्व - धुलोकात् यत् ऊर्ध्वं वस्तु जातम्, यदर्वाक् पृथिव्याः - पृथिव्याश्चाधस्तनं यद्वस्तुजातम्, अनयोर्द्यावापृथिव्योरन्तरालवर्ति यत्, ये चे मे द्यावापृथिव्यौ, कालत्रयपरिच्छिन्नञ्च यद्वस्तुजातम्, व्यवहारविषयं एतत् सर्वं कुत्र वा, दीर्घतिर्यक् तन्तुष्विव पटः, ओतं प्रोतञ्च , तत् ब्रूहीति प्रश्नार्थः । यदवाक्पृथिव्याः

इति पाठेऽप्ययमेवार्थः ॥३॥

[सूत्रमाकाशे ओतं प्रोतम् इति उत्तरम्’]

स होवाच यदूर्ध्वं गार्गि! दिवो यदर्वाक् पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतञ्च भवच्च भविष्यच्चेत्याचक्षते, आकाशे तदोतञ्च प्रोतञ्चेति ॥ ४ ॥

प्र.- स होवच इति । याज्ञवल्क्योऽत्रोत्तरमाह वक्ष्यमाणम् । यदूर्ध्व - –

प्रोतञ्चेति । हे गार्गि! यदूर्ध्वमित्यादि त्वदुक्तं, सर्वमाकाशे ओतञ्च प्रोतञ्च इत्यर्थः । आकाशशब्देन चात्र न वायुमदम्बरं गृह्यते । तस्य सर्वविकाराश्रयत्वाभावात् । किन्त्व- व्याकृताकाशः । एतच्च, अक्षरमम्बरान्तधृतेः (ब्र.सू.१-३-९) इत्यत्र स्थितम् । शिष्टं पूर्ववत् ॥ ४ ॥ सा होवाच नमस्तेऽस्तु याज्ञवल्क्य! यो म एतं व्यवोचः । अपरस्मै धारयस्वेति । पृच्छ गार्गीति ॥ ५ ॥

प्र . - सा होवाच नमस्ते इत्यादि । अथ गार्ग्युवाच । किमिति? हे याज्ञवलय! यस्त्वं मे एतं प्रश्नं विविच्य उक्तवानसि, तस्मै ते नमोऽस्तु । इति तदुक्तमुत्तरमङ्गीकृत्याह - अपरस्मै - द्वितीयप्रश्नाय धारयस्व - चित्तं सावधानं कुरु इत्यर्थः । स होवाच पृच्छ गार्गीति । सः - याज्ञवल्क्यः हे गार्गि! पृच्छ - इत्यनुमेने इत्यर्थः ॥ ५ ॥

[‘आकाशः कस्मिन्, ओतः प्रोत’ इति प्रश्नः]

सा होवाच यदूर्ध्वं याज्ञवल्क्य! दिवो यदर्वाक् पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतञ्च भवच्च भविष्यच्चेत्याचक्षते - कस्मिंस्तदोतञ्च प्रोतञ्चेति । आकाश एव तदोतं च प्रोतं चेति ॥ ६ ॥

प्र.- सा होवाच - सा गार्गी पप्रच्छ । किमिति? यदूर्ध्वं याज्ञवल्क्य इत्यादि । आकाश एव तदोतञ्च प्रोतञ्चेति । य आकाशस्त्वयोक्त इति शेषः । यदूर्ध्वं दिव

इत्यादि अस्मदुक्त-सर्ववस्तुजातम् आकाशा एव तदोतञ्च प्रोतञ्चेति । त्वया य आकाश उक्तः, स आकाशः कस्मिन्नु खलु ओतश्च प्रोतश्चेति । सोऽव्याकृताकाशः किमाश्रित इत्यर्थः ॥ ६ ॥

[अक्षरस्य प्रशासितुः प्रतिपादनेन प्रत्युत्तरम्]

स होवाच - एतद्वै तदक्षरं गार्गि । ब्राह्मणा अभिवदन्ति अस्थूलमनण्वहस्वम् अदीर्घमलोहितमस्नेहमच्छायमतमोऽवाय्वानाकाशमसङ्गमरसमगन्धमचक्षुष्कमश्रोत्र- मवागमनोऽतेजस्कमप्राणममुखमात्रमनन्तरमबाह्यम् । न तदश्नाति किञ्चन । न तदश्नाति कश्चन ॥ ७ ॥

प्र. - स होवाच । अत्र याज्ञवल्क्य उत्तरमाह । किमित्यत्राह - एतद्वै - - - अबाह्यम् । हे गार्गि ! तदेतत् वै सर्वासूपनिषत्सु, यस्य तमश्शरीरम् यस्याव्यक्तं शरीरम्

इत्यादिषु प्रसिद्धम् । अक्षरम् - अश्नुते व्याप्नोतीति वा, न क्षरतीति वा अक्षरं ब्रहा अव्याकृताकाशस्यापि आधारतया ब्राह्मणाः -ब्रह्मविदः अभिवदन्ति। अत्र ब्राह्मणाभिवदनकथनेन, नाहं किञ्चिद्विप्रतिपन्नं वक्ष्यामीति हृदयम् । तदेव ब्रह्म विशिनष्टि अस्थूलम् - स्थूलभिन्नम् । तर्हि किम् अणु इत्यत्राह-अनणु इति । तर्हि किं हस्वमित्यत आह - अहस्वम् इति । किं तर्हि दीर्घमित्यत्राह - अदीर्घम् इति । एवमुत्तरत्रापि द्रष्टव्यम् । अमात्रम् - मात्राः इन्द्रियाणि; यद्वा, मात्रा -परिच्छेदः । तद्रहितमित्यर्थः अनन्तरमबाह्यम् स्वाव्याप्तदेशशून्यमित्यर्थः । न तदश्नाति किञ्चन । तत् -अक्षरं कर्तृ किञ्चिदपि नाश्नाति । अवाप्तकामतया भक्ष्यनिरपेक्षमित्यर्थः । तत स्वयं कस्यापि भक्ष्यमित्याह - न तदश्नाति कश्चन । तत् - ब्रह्म कर्म । शिष्टं स्पष्टम् ॥ ७ ॥ एतस्य वा अक्षरस्य प्रशासने गार्गि! सूर्याचन्द्रमसो विधृतो तिष्ठतः । एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यो विधृते तिष्ठतः । एतस्य वा अक्षरस्य प्रशासने गार्गि! निमेषा मुहूर्ता अहोरात्राण्यर्धमासा मासा ऋतवसंवत्सरा इति विधृतास्तिष्ठन्ति । एतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्यो नद्यस्स्यन्दन्त श्वेतेभ्यः पर्वतेभ्यः प्रतीच्योऽन्या यां याञ्च दिशमनु । एतस्य वा अक्षरस्य प्रशासने गार्गि ददतो मनुष्याः प्रर्शंसन्ति, यजमानं देवा दवीं पितरोऽन्वायत्ताः ॥ ८ ॥

प्र. - एतस्य वा - - - तिष्ठतः इति । वै शब्दोऽवधारणे । प्रशासने - आज्ञाचक्रे सूर्याचन्द्रमसौ - देवताद्वन्द्वे च (पा.सू.६-२-१४१) इति पूर्वपदस्याऽऽनङ् । विधृतौ विशेषेण धृतौ सन्तौ तिष्ठत इत्यर्थः । प्रकृष्टं शासनं प्रशासनम् । क्वचिदप्यप्रतिहतत्वमेव शासनस्य प्रकर्षः । ततश्च सर्वविषयकं शासनमिति फलति । प्रशासितारं सर्वेषाम् इति प्रमाणानु- सारात् । ततश्च सर्वविषयकशासनाधीनसूर्याचन्द्रद्यावापृथिव्याद’धारकत्वं’ फलितम् । ततश्च प्रधानजीवयोः स्वरूपेण यत्किञ्चिद्धारकत्वेऽपि प्रशासनशब्दितसर्वविषयक- शासनाधीनसर्वधारकत्वासंभवात् नात्र जीवो वा प्रधानं वा प्रतिपाद्यते । इदञ्च, सा च

प्रशासनात् इति सूत्रे स्पष्टम् । एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठतः स्पष्टम् । एतस्य - - - संवत्सरा इति विधृता स्तिष्ठन्ति । इति शब्दः प्रकारवचनः । संवत्सरा इत्येवंजातीयकाः कालविशेषा इत्यर्थः । एतस्य -प्राच्यो नद्यः -दिशमनु । अत्र प्रशासने इति सतिसप्तमी । प्राच्यः - प्रक्प्रवाहाः प्रसिद्धा गङ्गाद्या नद्यः श्वेतेभ्यः - हिमवदादिभ्यः पर्वतेभ्यः लोकोपकाराय स्यन्दन्ते । तत्प्रशासनाभावे ताः स्यन्दनाय न प्रभवन्तीति भावः । प्रतीच्यः - उ प्रत्युङ्मुखाः, अन्याः - उदीच्यश्च नद्यः तथा यां यां च दिशमनुप्रस्थिता मताः (गताः?) सर्वा एता एतस्य प्रशासने सति प्रस्यन्दन्ते इत्यर्थः । एतस्य - - - अन्वायत्ताः । एतस्यैवाक्षरस्य प्रशासने निमित्ते ददतः-

तत्प्रशासनरूपया तदाज्ञया दानं कुर्वतो इत्यर्थः । आज्ञाकैङ्कर्यबुद्ध्या दानं कुर्वतो जनान् अन्वायत्ताः - अनुवशास्सन्तः मनुष्याः प्रशंसन्ति इत्यर्थः । प्रशासन इत्येतत् यजमानं देवा इत्यत्र, दर्वी पितर इत्यत्रापि सम्बद्ध्यते । अन्वायत्ता इति पदं देवमनुष्यपितृसाधारणम् । द्वितीयान्तपदानां प्रशंसन्ति इत्यनेनान्वयः। तथा च परमात्माज्ञया यागं कुर्वाणम् अन्वायत्तास्सन्तो देवाः प्रशंसन्ति । परमात्माज्ञया प्रवृत्तं दर्वीहोममन्वायत्तास्सन्तः पितरः प्रशंसन्तीत्यर्थः । एवमेव व्याख्यातं व्यासार्यैः ॥ ८ ॥ यो वा एतदक्षरं गार्ग्यविदित्वाऽस्मिंल्लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राणि, अन्तवदेवास्य तद्भवति । यो वा एतदक्षरं गार्ग्यविदित्वाऽस्मात् लोकात् प्रैति, स कृपणः । अथ य एतदक्षरं गार्गि विदित्वाऽस्माल्लोकात् प्रैति, स ब्राह्मणः ॥ ९ ॥

प्र.- यो वा एतदक्षरम् इत्यादि । उक्ताक्षरपरब्रह्मज्ञानमन्तरेण क्रियमाणं होमयज्ञबहुकालसाध्य तप आदिकं सर्वमप्यस्य कर्तुः अन्तवदेव - नश्वरफलसाधनं भवतीत्यर्थः । योवा- - - स कृपणः । तद्ज्ञानमन्तरेण लोकादस्माल्लोकान्तरं गतस्यापि शोच्यता भवतीत्यर्थः । कृपणः - शोच्यः । ‘तदज्ञानात्। संसारो भवतीति यावत् ।यो वा एतदक्षरं गार्गि विदित्वाऽस्माल्लोकात् प्रैति ब्रह्मज्ञानवान् म्रियते, सः ब्राह्मणः ब्रह्मवित् ब्रह्मणः अनुभविता । मुक्त इति यावत् । ‘तथा’ च भगवता भाष्यकृता, यो वा

एतदक्षरं गार्गि इत्येतत् व्याकुर्वता, यदज्ञानात् संसारप्राप्तिः, यद्ज्ञानाञ्चामृतत्वप्राप्तिः, तदक्षरं

परं ब्रह्म इति भाषितम् ॥ ९ ॥ तद्वा एतदक्षरं गार्ग्यदृष्टं द्रष्ट्र श्रुतँश्रोत्रमतं मन्त्रविज्ञातं विज्ञातृ । नान्यदतोऽस्ति द्रष्टृ नान्यदतोऽस्ति श्रोतृ नान्यदतोऽस्ति मन्तृ, नान्यदतोऽस्ति विज्ञातृ । एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्चेति ॥ १० ॥

प्र. - तद्वा एतदक्षरम् इत्यादि । अयोगिभिरदृश्यं सत् द्रष्टृ - रूपादि साक्षात्कर्तृ । एवमश्रुतममतमविज्ञातमित्यत्राप्ययोगिभिरिति योज्यम् । योगिविषये, द्रष्टव्यश्श्रोतव्यो

मन्तव्यो निदिध्यासितव्यः इत्युक्तेः । श्रोतृ - शब्दसाक्षात्कर्तृ । मन्तृ - मन्तव्यसाक्षात्कर्तृ । विज्ञातृ - अध्यवसेयसाक्षात्कर्तृ । नान्यदतोऽस्तीति । अत्रापि अन्तर्यामिब्राह्मण- व्याख्यानोक्तरीत्या अन्यशब्दस्य तत्सदृशपरत्वमेव । यथा, चोल एव भूपतिः, नान्यः, इत्युक्तेः तत्सदृशभूपतिनिषेधपरत्वम्, एवमिहापि अदृष्टत्वादिविशेषितनिरुपाधिक- द्रष्टृत्वाश्रयस्य परमात्मनः सदृशं किमपि नास्तीत्येवार्थः । यद्वा-यथा एतदक्षरम् अन्यैरदृष्टं सत् स्वव्यतिरिक्त, समस्तद्रष्टृस्वव्यतिरिक्तसमस्ताधारभूतञ्च, एवमनेनाक्षरेण अदृष्टम् एतस्याक्षरस्य आधारभूतमेतस्य द्रष्टृ नास्तीत्यर्थः । पूर्वव्याख्यायां समनिषेधः, अस्यां व्याख्यायामधिकनिषेधः फलति । न च, नेह नानाऽस्ति इतिवत् नान्यदतोऽस्ति इत्यादि वाक्यस्यापि अब्रह्मात्मकवस्तुनिषेधपरत्वोपपत्ती समाभ्यधिक निषेधपरतया’ व्याख्यानं किमर्थमिति वाच्यम् । तद्वदत्रैक्यविधिशेषत्वाभावेन समाभ्यधिकनिषेधपरत्वस्यैव युक्तत्वात् । उपसंहरति - एतस्मिन्न खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्चेति । स्पष्टोऽर्थः । इतिशब्दः प्रतिवचनसमाप्तौ ॥ १० ॥

[गार्ग्या याज्ञवल्क्य प्रशंसा]

सा होवाच ब्राह्मणा भगवन्तः। तदेव बहमन्येध्वं यदस्मान्नमस्कारेण मुच्येध्वम् । न वै जातु युष्माकमिमं कश्चित् ब्रह्मोद्यं जेतेति । ततो ह वाचक्नव्युपरराम ॥ ११॥

प्र. - एवं याज्ञवल्क्येन प्रत्युक्ता वाचक्नवी तदुक्तम् अभ्युपगम्य ब्राह्मणान् दृष्ट्वा आहेत्याह- सा होवाच । उक्तमेवाह - ब्राह्मणाः - - -मुच्येध्वम् । हे भगवन्तः ब्राह्मणाः! यूयं तदेव बहुमन्येध्वम् । किं तत्? यदस्मात् - याज्ञवल्क्यात् नमस्कारेण मुच्येध्वं - नमस्कारं कृत्वा मुच्यध्वमिति यत् - मुक्ता भवत इति यदित्यर्थः । तदेव बहुमन्येध्वमित्यन्वयः । न कदाचिदप्यस्य याज्ञवल्क्यस्य पराजयः शङ्कनीयः । अतो नमस्कारं कृत्वा अस्मान्मुक्ता भवत इत्यर्थः । मन्येध्वं मुच्येध्वमिति लिङ्मध्यमबहुवचनम् न वै जातु युष्माकमिमं कश्चित् ब्रह्मोद्यं जेतेति । युष्माकं मध्ये इमं - याज्ञवल्कयं कश्चिदपि ब्रह्मोद्यं - ब्रह्मवादं प्रति जेता नैवास्ति इत्यर्थः । ततो ह वाचक्नवी उपरराम । एवं ब्राह्मणान् प्रति उक्त्वा तूष्णीं बभूव इत्यर्थः ॥

[अक्षराधिकरणविचारः]

इदञ्च ब्राह्मणं समन्वयाध्याये तृतीयपादे चिन्तितम् । एतद्वै तदक्षरं गार्गि ब्राह्मणा

अभिवदन्ति इत्यत्र अक्षरशब्दितं प्रधानमेव । अक्षरात् परतः परः (मुं.उ.२-१-२) इत्यादौ अक्षरशब्दस्य प्रधाने प्रयोगात्; अस्थूलम् इत्यादिनिषेधानाञ्च स्थूलत्वादिप्रसक्तिमति अचेतने सामञ्जस्यात् कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्च इत्याकाशाधारत्वेन प्रश्नस्य आकाशोपादानतया तदाधारभूतप्रधानविषयत्वौचित्याच्चेत्येवं प्राप्ते- उच्यते - अक्षरमम्बरान्तधृतेः (ब्र.सू.१-३-९) अक्षरं परं ब्रह्म । अम्बरान्तधृतेः । अम्बरस्य आकाशस्य अन्तः - पारभूतं प्रधानम् तद्धारकत्वात् इत्यर्थः । अयं भावः - कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्च इत्यत्राकाशो न वायुप्रकृतिभूताकाशः, अपि तु अव्याकृताकाशः । यदूर्ध्वं गार्गि! दिवो यदर्वाक् पृथिव्याः यदन्तरा द्यावापृथिवी इमे

यद्भूतञ्च भवञ्च भविष्यच्चेत्याचक्षते आकाश एव तदोतञ्च प्रोतञ्च इति कालत्रयवर्ति- विकाराधारतया उच्यमानत्वस्य भूताकाशे असम्भवेनाव्याकृताकाश एव सम्भवात् । तस्याप्याधारतया निर्दिश्यमानमक्षरं परमेव ब्रह्म भवितुमर्हति । ननु जीवस्याप्यचेतनाधारत्वसंभवात् जीव एवाक्षरशब्दितः किं न स्यादित्यत्रोत्तरम् - सा च प्रशासनात् (ब्र.सू.१-३-१०) । सा च अम्बरान्तधृतिः, एतस्य वा अक्षरस्य प्रशासने

गार्गी सूर्याचन्द्रमसौ विधृतौ तिष्ठतः इत्यादिना प्रशासनाधीनाऽत्र श्रूयते । प्रकृष्टं शासनं प्रशासनम् । शासनस्य प्रकर्षश्च असङ्कुचितसर्वविषयत्वम् । ततश्चासङ्कुचित- चिदचिच्छासनं परमात्मधर्मः । अन्यभावव्यावृत्तेश्च (ब्र.सू.१-३-११) तद्वा एतदक्षरं गार्ग्यदृष्टं द्रष्टृ इत्यादिना उपदिश्यमानैः इतरादृष्टत्वे सति सर्वद्रष्टृत्वादिरूपैर्धर्मैः परमात्मान्यप्रकृतिजीवभाव’व्यावृत्तेश्च परमात्मैवेति स्थितम् ।

[आनन्दाद्यधिकरणविचारः]

तथा गुणोपसंहारपादे - एतद्वै तदक्षरं गार्गि! ब्राह्मणा अभिवदन्ति अस्थूलमनण्वह्र स्वम्

इत्यादिनिर्दिष्टाः अक्षरसम्बन्धिनः अस्थूलत्वादयः प्रपञ्चप्रत्यनीकतारूपाः सर्वकर्मत्व सर्वकामत्वादिवत् सर्वासु परविद्यासु नोपसंहर्तव्याः । उपसंहारे प्रमाणाभावात् । ननु स्वरूपनिरूपकाणां सत्यत्वज्ञानत्वादिधर्माणां सर्वपरविद्योसंहारस्य, आनन्दादयः प्रधानस्य

(ब.सू.३-३-११) इत्यधिकरणसिद्धत्वात्, तद्वदेव अस्थूलत्वादिकं किं न स्यादिति चेन्न- सत्यत्वादिकमन्तरेण ब्रह्मस्वरूपस्यैव प्रत्येतुमशक्यतया सत्यत्वादेः सर्वविद्योपसंहारेऽपि अस्थूलत्वादीनाम् अभावरूपाणाम्, लब्धरूपे क्वचित् किञ्चित् तादृगेव निषिध्यते इति न्यायेन ब्रह्मप्रतीत्यनन्तरभाविप्रतीतिकानां ब्रह्मस्वरूपप्रतीत्युपयोगित्वाभावेन सर्वपर- विद्योपसंहारे प्रमाणाभावादिति प्राप्ते - उच्यते -अक्षरधियां त्चवरोधः सामान्यतद्भावाभ्यामौपसदवत् तदुक्तम्

(ब्र.सू.३-३-३३)। अक्षरब्रह्मसम्बन्धिनीनाम् अस्थूलत्वादि धियां सर्वासु परविद्यास्ववरोधः - सङ्ग्रहणं कर्तव्यम् । कुतः? सामान्यतद्भावभावाभ्याम् । सर्वेषूपासनेषु उपास्यस्याक्षरब्रह्मणः समानत्वात्, अस्थूलत्वादीनां ब्रह्मप्रतिपत्तौ अन्तर्भावाच्च इत्यर्थः । यथा सत्यत्वादिक- मन्तरेण ब्रह्मस्वरूपं प्रतिपत्तुमशक्यम् , तथा अस्थूलत्वादिकमन्तरेण जीवव्यावृत्तं ब्रह्मस्वरूपं सत्यज्ञानादिवाक्यैनं प्रतिपत्तुं शक्यम् । सत्यत्वादेः प्रत्यगात्मसाधारणत्वेन प्रत्यगात्म- व्यावृत्तत्वाभावात् । स्थूलत्वादिहेयानर्हत्वं तु न जीवसाधारणम् । ततश्च अस्थूलत्वादीनां निषेधरूपतया सत्यादिवाक्यजन्यब्रह्मप्रतीत्युपजीवकत्वेऽपि स्वेतरसमस्तव्यावृत्तब्रह्मस्वरूप- प्रतीतेः अस्थूलत्वादिकमन्तरेणासम्भवात् अस्थूलत्वादिकं सकलपरविद्योपसंहार्यमेव । इयदामननात् (ब्र.सू.३-३-३४)। आभिमुख्येन मननं आमननम् । ध्यानमिति यावत् । आमननात् ध्यानाद्धेतोः ध्यानार्थमियदेवापेक्षितम् ; न सर्वकर्मत्वसर्वकामत्वा- दिकमपि । तेन विनापि इतरव्यावृत्तब्रह्मस्वरूपस्य प्रत्येतुं शक्यतया न सर्वकर्मत्वादेः सर्वपरविद्योपसंहारः । अपितु यत्र प्रकरणे आम्नातम्, तत्रैव व्यवतिष्ठते । अस्थूलत्वादिकं तु सामर्थ्यरूपलिङ्गवशात् सर्वविद्यानुयायि। अत एव हि, संभृतिद्युव्याप्त्यपि चातः

(ब्र.सू.३-३-२३) इत्यधिकरणे व्याप्त्यादेः सामर्थ्यवशात् अल्पायतनविद्यासु न निवेश इत्युक्तम् । तत्र हि-

[संभृत्यधिकरणविचारः]

ब्रह्म ज्येष्ठा वीर्या संभृतानि ब्रह्माग्र ज्येष्ठं दिवमाततान । ब्रह्म भूतानां प्रथमो हि

जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुं कः इति राणायनीयानां खिलेषु मन्त्रः श्रूयते । अस्य मन्त्रस्यायमर्थः- ब्रह्म - ब्रह्मणा इत्यर्थः । व्यत्ययश्छान्दसः । ज्येष्ठा - ज्येष्ठानि । शेः, शेश्छन्दसि (पा.सू.३-१.७०) इति लोपे (सुपां सुलुक् - पा.सू.७-१-३९ इति लुकि) न लोपे च रूपम् । वीर्या - वीर्याणि । संभृतानि - धृतानि । तथा च ब्रह्मणा बहूनि श्रेष्ठानि वीर्याणि धृतानि इत्यर्थः । ब्रह्माग्रे ज्येष्ठं दिवमाततान - तच्च ज्येष्ठं ब्रह्म अग्रे - इन्द्रादिजन्मनः प्रागेव दिवम् - स्वर्गम् आततान - व्याप्तवत् । किञ्च, ब्रह्म देवानां प्रथमो हि जज्ञे । ब्रह्म देवानामुत्पत्तेः प्रागपि विद्यमानमित्यर्थः । तेनार्हति ब्रह्मणा स्पर्धितुं कः । तादृशेन ब्रह्मणा कः स्पर्धितुं क्षमेत इत्यर्थः । अत्र परिच्छेदातीते ब्रह्मणि धुव्यापकत्वादिकथनस्य स्वरूपोपदेशार्थत्वाभावेन उपासनार्थत्वस्य सिद्धतया स्वप्रकरणे उपासनाद्यश्रवणेन अनारभ्याधीतस्य द्युव्यापनादेः प्रकरणान्तर श्रुतविद्यार्थत्वे वक्तव्ये नियामकाभावात् अस्थूलत्वादिवत् सत्यत्वादिवच्च सर्वविद्यार्थत्वे प्राप्ते उच्यते - संभृतिद्युव्याप्त्यपि चातः

(ब.सू. ३-३-२३) । संभृतिद्युव्याप्तीति समाहारद्वन्द्वत्वादेकवद्भावः । संभरणं द्युव्यापनञ्च तत्तत् स्थानवशात् व्यवतिष्ठते । अल्पस्थानासु दहरशण्डिल्यादिविद्यासु अल्पत्व द्युव्यापकत्वयोः विरोधात् लिङ्गवशात् अल्पायतनानवरुद्धविद्यास्वेव व्यवतिष्ठते । न चैवमल्पायतनासु दहरशाण्डिल्यादिविद्यासु आनन्त्यस्यापि उपसंहारासम्भवेन सत्यत्व- ज्ञानत्वानन्तत्वादेः सर्वविद्यानुयायित्वस्य, आनन्दादयः प्रधानस्य इत्यधिकरणसिद्धस्य विरोधः स्यादिति वाच्यम् - स्वाभाविकानन्त्यस्य औपाधिकाल्पायतनत्वस्य चानुसन्धाने विरोधाभावात् । इह द्युपरिच्छिन्नत्वरूप द्युव्यापकत्वस्य च हृदयाद्यल्पायतनावच्छिन्नत्वस्य चौपाधिकतया परस्परविरुद्धौपाधिकपरिमाणद्वयानुसन्धानविरोधात् । इति हि तत्र स्थितम् । प्रकृतमनुसरामः ॥ ११ ॥ ॥ इति पञ्चमाध्याये अष्टमब्राह्मण प्रकशिका ॥