श्रीः बृहदारण्यकोपनिषत् अथ पञ्चमोऽध्यायः । प्रथमं ब्राह्मणम् । [अश्वलब्राह्मणम्] जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे । तत्र ह कुरुपाञ्चालानां ब्राह्मणा अभिसमेता बभूवुः । तस्य ह जनकस्य वैदैहस्य विजिज्ञासा बभूव, कःस्विदेषां ब्राह्मणानामनूचानतम इति । स ह गवाँ सहस्रमवरुरोध । दश दश पादा एकैकस्याः शृङ्गयोराबद्धा बभूवुः ॥ १ ॥
प्र. - अथ मधुकाण्डसिद्धमेव सर्वान्तर्यामित्वं मुखान्तरेण अस्मिन्नध्याये दृढी- क्रियते । तत्र पुष्कलधनदानं बहुविद्वत्समवायश्च विद्यार्जनोपाय इति प्रदर्शनाय आख्यायिका आरभ्यते - जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे इत्यादि । ह इति वृत्तार्थस्मरणे । वैदेहः- विदेहदेशाधिपतिः जनकः बहुदक्षिणेन यज्ञेन ईजे- इष्टवान् । ईजे - असंयोगाल्लिट् कित् (पा.सू.१-२-५) इति ‘कित्त्वात्’ सम्प्रसारणम् । तत्र ह - - - बभूवुः । तत्र - तस्मिन् यज्ञे ह बहुदक्षिणतया प्रसिद्धे विद्वद्भूयिष्ठकुरुपाञ्चालदेशेभ्यः ब्राह्मणाः अभिसमेताः- समागताः । एवं बहुषु ब्राह्मणेषु आगतेषु तस्य ह जनकस्य वैदेहस्य प्रसिद्धं यष्टुं प्रवृत्तस्य विजिज्ञासा - विचारः बभूव । किमिति? कःस्विदेषां ब्राह्मणानामनूचानतम इति । एषाम् - आगतानां ब्राह्मणानां मध्ये स्वित् इति वितर्के । कःस्वित् - को वा अनूचानतमः अतिशयेन ब्रह्मविद्यानुवचनकुशलः । इति जिज्ञासा ‘बभूव इति’ पूर्वत्रान्वयः । स ह गवां सहस्रमवरुरोध । सः - जनकः तज्जिज्ञासया ह प्रसिद्धं यथा तथा स्वगोष्ठे’ गवां सहस्रम् अवरुरोध - यूथीचकार । किश्च - दशदश बभूवुः । पादः- पलस्य चतुर्थाँशः । पादस्तुरीयो भागस्स्यात् (अ.को.२-९-८९) इत्युक्तेः । सुवर्णस्य दशदशपादाः सार्धपलद्वयमिति यावत् । प्रत्येकमेकैकस्या गोः श्रृङ्गयोर्निबद्धा बभूवुरित्यर्थः ॥ १ ॥
[यजे जनकन गोसहस्रपणकथनम् , याज्ञवल्क्येन यागस्वीकरणम्] तान् । होवाच, ब्राह्मणा भगवन्तो यो वो ब्रह्मिष्ठः स एता गा उदजतामिति । ते ह ब्राह्मणा न दधृषुः । अथ ह याज्ञवल्क्यः स्वमेव ब्रह्मचारिणमुवाचैता; सोप्योदज सापश्रवा ३ इति । ता ‘होदकालयत्’ । ते ह ब्राह्मणाश्चुक्रुधुः, कथं नो ब्रह्मिष्ठो ब्रवीतेति । अथ ह जनकस्य वैदेहस्य होताऽश्वलो बभूव - सहैनं पप्रच्छ, त्वं नु खलु नो याज्ञवल्क्य ब्रह्मिष्ठोऽसी ३ इति । स होवाच नमो वयं ब्रह्मिष्ठाय कुर्मो गोकामा एव वयँ स्म इति । तै ह तत एव प्रष्टुं दध्रे होताऽश्वलः ॥ २ ॥
प्र– तान् हेवाच । स जनक एवं ब्रह्मिष्ठतमतया निर्धारितया देया इति ता गाः सदक्षिणाकाः निरुध्य तमर्थं ह -प्रसिद्धं तान् -ब्राह्मणान् प्रत्युवाच । किमिति। ब्राह्मणाः- - - उदजतामिति । हे भगवन्तः - पूजावन्तः। हे ब्राह्मणाः वः - भवतां मध्ये यो ब्रह्मिष्ठः - अतिशयेन यो ब्रह्मवित्, स एताः गाः उदजतां - स्वगृहं प्रति कालयतु - नयतु इत्युवाच इत्यन्वयः । अज गतिक्षेपणयोः (धा.पा.३२०) इति हि धातुः । ते ह ब्राह्मणा न दधृषुः - एवं वदत्यपि जनके ते ब्राह्मणा न दधृषुः - न धृष्टा बभूवुः । आधृषाद्वा (ग.सू.२०२) इति णिजभावे रूपम् । तेषु - ब्राह्मणेषु बहुषु मध्ये न कोऽपि ता गाः नेतुं दध्रे । ह इत्याश्चर्ये । अथ ह - - -उवाच ।अथ एवमधृष्टान् तान् दृष्ट्वापि याज्ञवल्क्यः स्वमेव ब्रह्मचारिणं स्वशिष्यमित्थमुवाचैव इत्यर्थः । हेत्याश्चर्ये
किमिति? एताः सोम्योदज सामश्रवा३ इति । साम शृणोतीति सामश्रवाः । हे सोम्य! । सोमार्ह ! हे सामश्रवः ! एताः गाः अस्मद्गृहान् प्रति उदज - कालय इति स्वशिष्यमुवाच इत्यर्थः । ता होदकालयत् । स सामश्रवाः ताः तद्गृहान् अनयत् इत्यर्थः । उदाचकारेति
पाठेऽपि स एवार्थः । ते ह - - - - ब्रवीतेति । याज्ञवल्क्येन ब्रह्मिष्ठपणस्वीकरणेन आत्मनो ब्रह्मिष्ठता प्रतिज्ञातेति सर्वे क्रुद्धा बभूवुः । कथं नः - अस्मान् अनादृत्य अहं ब्रह्मिष्ठः इति वदेदयं याज्ञवल्क्य इति चुक्रुशुश्च इत्यर्थः । चुक्रुशुरिति पाठेऽपि उक्त एवार्थः । अथ ह - - - - बभूव इति । अथ - तदा विदेहराजस्य जनकस्य होता ऋत्विगश्चलो नामा आसीत् इत्यर्थः । स हैनं- - - इति । नः - समवेतानां बहूनां अस्माकं मध्ये हे याज्ञवल्क्य! त्वमेव खलु प्रसिद्धं ब्रह्मिष्ठोऽसीति अश्वलनामा स होता ‘पप्रच्छ इत्यर्थः’ । असी३ इति भर्त्सने प्लुतिः । नुश्वधारणे । स होवाच इति। सः - याज्ञवल्क्यः तमश्वलं ह प्रसिद्धं प्रत्युवाच इत्यर्थः । किमिति इत्यत्राह - नमो वयं - - - स्म इति । वयं ब्रह्मिष्ठाय नमः कुर्मः । नास्माभिः ब्रह्मिष्ठत्वाभिमानात् गावो नीताः किन्तु गोकामा वयम् इत्यतो गोकामनयैव नीता इति सोपहासमुक्तवान् इत्यर्थः । तं ह - - - अश्वल इति । एवमुपहसितो होता अश्वलः तत एव सोपहासवचनादेव क्रुद्धस्सन् तं - याज्ञवल्क्यं पराजेतुं प्रश्न ‘प्रष्टुमवस्थितो’ बभूव इत्यर्थः । धृङ् • अवस्थाने (छा.पा.१४१३) इति हि धातुः ॥ २ ॥ अश्वलस्य प्रथमः प्रश्नः [कर्ममृत्युना अतिमुक्तिः] याज्ञवल्क्येति होवाच, यदिदं सर्वं मृत्युनाप्तं सर्वं मृत्युनाऽभिपन्नम्, केन यजमानो मृत्योराप्तिमतिमुच्यत इति । होत्रर्त्विजाऽग्निना वाचा । वाग्वै यज्ञस्य होता । तद्येयं वाक् सोऽयमग्निः, स होता, स मुक्तिः, साऽतिमुक्तिः ॥ ३ ॥
प्र. -याज्ञवल्क्येति होवाच इति । प्रथमं याज्ञवल्क्येति संबोध्य वक्ष्यमाणं प्रश्नमश्वल उवाचेत्यर्थः । तमेव प्रश्नमाह - यदिदं- अभिपन्नम् इत्यादि । यदिदं - प्रत्यक्षादिप्रसिद्धं जगत् चेतनाचेतनात्मक मृत्युना - मृत्युशब्दोपलक्षितेन जन्मजरामरणधर्मेण आप्तं - व्याप्तं, न केवलं व्याप्तम्, किन्तु मृत्युना अभिपन्नं - वशीकृतञ्चेत्येतत्सिद्ध- मित्यर्थः । यद्वा - आप्तम् इत्यस्य विवरणमभिपन्नमिति । इति प्रश्नोपयुक्तं सिद्धमर्थमनूद्य विवक्षितं प्रश्नमाह - केन - - -इति इति । एवं सति यजमानः - ब्रह्मविद्यार्थं कर्म कुर्वन् अधिकारी केनानुष्ठितेन साधनेन मृत्योः आप्तिं - व्याप्तिं ‘संसारबन्धमतिक्रम्य क्षिप्रं विद्यासिद्ध्या मुच्यत इत्यर्थः । तमेतं प्रश्नं याज्ञवल्क्यः प्रतिवक्ति । होत्रर्त्विजाऽग्निना वाचा इति । तदर्थमूढं तमाश्वलं प्रति पुनस्स्वयमेव तदेतद्व्याचष्टे - वाग्वै - - - - सातिमुक्तिः इति । कर्माङ्गभूते होतरि अग्नयभिन्नत्वेन वा अग्नयधिष्ठितत्वेन वा ध्याता या वाचो दृष्टौ कृतायां कर्मणो वीर्यवत्तरतया ब्रह्मोपासनद्वारा जीवद्दशायामेव विश्लिष्टा- श्लिष्टपूर्वोत्तरदुरितभरत्वलक्षणा मुक्तिर्भवति, शरीरवियोगानन्तरं प्रकृत्यतिक्रान्त- पदाधिरोहणलक्षणा अतिमुक्तिर्भवति इत्यर्थः । क्रमादुद्देश्यविधेयाभिप्रायः स मुक्तिस्सातिमुक्तिः इति लिङ्गभेदेनायं निर्देशो दृष्टव्यः । वाग्वै यज्ञस्य होता - यज्ञाङ्गभूत होतरि वाग्दृष्टि कर्तव्या इत्यर्थः । तद्येयं वाक् । या होतर्यध्यस्यमाना चागित्यर्थः । सोऽयमग्निस्य होता । सा वागेवाग्न्यधिष्ठितत्वादिना अग्न्यभेदेन ध्याता होतर्यध्यस्यमाना मुक्त्यादि साधनमित्यर्थः । स मुक्तिस्साऽतिमुक्तिरिति कारणे कार्योपचारः ॥ ३ ॥ याज्ञवल्क्येति होवाच, यदिदं सर्वमहोरात्राभ्यामाप्तं सर्वमहोरात्राभ्यामभिपन्नम्, केन यजमानोऽहोरात्रयोराप्तिमति मुच्यते इति । अध्वर्युणर्विजा चक्षुषाऽऽदित्येन । चक्षुर्वे यज्ञस्याध्वर्युः । तद्यदिदं चक्षुः सोऽसावादित्यः, सोऽध्वर्युः, स मुक्तिः, सातिमुक्तिः ॥ ४ ॥ प्र - स एव पुनः पृच्छति। याज्ञवल्क्येति होवाच इत्यादिना। अहौरात्रयोरानिर्नाम कतिपयाहोरात्रैर्विनश्वरत्वम् ।उत्तरमाह-अध्वर्युणर्त्विजा इति। आदित्याधिष्टितत्वादिना आदित्याभेदारोपविषयभूतचक्षुर्दृष्टिविषयः कर्माङ्गभूतोऽध्वर्युः मुक्त्यादिहेतुरित्यर्थः ।शिष्टं पूर्ववत्।
[तिथ्यादिकालादप्यतिमुक्तिः] याज्ञवल्क्येति होवाच यदिदं सर्वं पूर्वपक्षापरपक्षाभ्यामाप्तँ सर्वं पूर्वपक्षापरपक्षाभ्यामभिपन्नम्, केन यजमानः पूर्वपक्षापरपक्षयोराप्तिमतिमुच्यत इति । उद्गात्रर्त्विजा वायुना प्राणेन । प्राणो वै यज्ञस्योद्गाता । तद्योऽयं प्राणः स वायुः, स उद्गाता, स मुक्तिः साऽतिमुक्तिः ॥ ५ ॥
प्र. - पुनः पृच्छति । याज्ञवल्क्येति होवाच इति । पूर्वपक्षापरपक्षयोराप्तिर्नाम कतिपयपक्षैर्विनश्वरत्वम् । उत्तरमाह - वायुविकारत्वादिना वाय्वभिन्नमुख्यप्राणदृष्टिविषयभूत उद्गाता कर्माङ्गभूतः पूर्ववत् मुक्तयतिमुक्तिहेतुरित्यर्थः । शिष्टं पूर्ववत् ॥ ५ ॥ याज्ञवल्क्येति होवाच यदिदमन्तरिक्षमनारम्बणमिव, केनाक्रमेण यजमानः स्वर्गं लोकमाक्रमत इति । ब्रह्मणर्त्विजा मनसा चन्द्रेण । मनो वै यज्ञस्य ब्रह्मा । तद्यदिदं मनः सोऽसौ चन्द्रः, स ब्रह्मा, स मुक्तिः, सोऽतिमुक्तिः । इत्यतिमोक्षाः । अथ सम्पदः ॥ ६ ॥
प्र. - पुनरेवाश्वलः पृच्छति । याज्ञवल्क्येति होवाच इत्यादिना । अनारम्बणं - रलयोरभेदः । अन्तरिक्षमिदम् अनालम्बनमिव दृश्यते तत् - अन्तरिक्षं स्वयमनालम्बन केनाऽऽक्रमेण - आक्रमणसाधनेन केन वा आक्रम्य यजमानः - ब्रह्मविद्यार्थकर्मानुष्ठाता स्वर्गं - निरतिशयसुखरूपतया स्वर्गाख्यमप्राकृतं मुक्तिस्थानं भगवल्लोकमाक्रमत इत्यर्थः । अत्र स्वर्गलोकशब्दस्य भगवल्लोकवाचित्वेन स मुक्तिस्सातिमुक्तिः इत्युत्तरवाक्यस्वारस्य भवति । उत्तरमाह-ब्रह्मणर्त्विजा इति । चन्द्राभिन्नत्वेन वा तदभिन्नत्वेन वा तदभिमानिकत्वेन वा ध्यातमनोदृष्ट्योपासीतो ब्रह्मा भगवल्लोकाक्रमणसाधनम् इत्यर्थः । इत्यतिमोक्षा इति । इति अनेन प्रकारेण अतिमोक्षाः-प्रकृतिमण्डलातिक्रमेण- रूपमोक्षप्रश्नास्समाप्ता इत्यर्थः । अथ सम्पद इति । उच्यन्त इति शेषः । येनाग्रिहोत्रादीनां फलत्वकर्मणामन्तवत्फलाय सम्पादनं, सा सम्पत् ॥
[फलप्रापकाः सम्पदः] याज्ञवल्क्येति होवाच, कतिभिरयमद्यभिौताऽस्मिन् यज्ञे करिष्यतीति । तिसृभिरिति । कतमास्तास्तिस्र इति । पुरोनुवाक्या च याज्या च शस्यैव च तृतीया । किं ताभिः जयतीति । यत्किञ्चेदं प्राणभृदिति ॥ ७ ॥ प्र - तमेव सम्पद्विषयमश्वलप्रश्नमाह - याज्ञवल्क्येति होवाच इत्यादि । अयं होता अद्य यज्ञकाले कतिभिः ऋग्भिः कतिसङ्खा भिः ऋग्भिः अस्मिन्यज्ञे करिष्यति । हौत्रमिति शेषः । याज्ञवल्क्य ‘उत्तरमाह’ - तिसृभिरिति इति । ऋग्भिरि- त्यनुषङ्गः । पुनः प्रश्नमवलस्याह- कतमास्तास्तिस्र इति इति । सङ्ख्ये यऋग्विशेषविषयोऽयं प्रश्नः । पूर्वस्तु ऋङिनष्ठसङ्ख्याविषय इति भेदः । कास्ता ऋच इत्यर्थः । उत्तरमाह- याज्ञवल्क्यः ‘पुरोनुवाक्या च याज्या च शस्यैव च तृतीया’ इति । यागकालात् प्राक् प्रयुज्यमाना ऋचः पुरोनुवाक्याः । यागसाधनभूता ऋचो याज्याः । शस्रार्थाः ऋचः शस्याः । सर्वत्र जात्यभिप्रायेणैकवचनं द्रष्टव्यम् । तिसृष्येय हौत्रीणामृचामन्तर्भावः, न चतुर्थः प्रकार इति भावः । एवमग्रेऽपि । कि ताभिर्जयतीति पुनरश्वलप्रश्नः । प्रयुज्यमानाभिः ताभिः ऋग्भिः किं फलं यजमानः प्राप्नोति इत्यर्थः । याज्ञवल्क्य उत्तरमाह यत्किञ्चेदं प्राणभृत् इति । प्राणिजातं यत्किञ्चिदस्ति तत्सर्वं जयतीति शेषः ॥ ७॥ याज्ञवल्क्येति होवाच कत्ययमद्याध्वर्युरस्मिन् यज्ञ आहुतीर्होष्यतीति । तिस्र इति । कतमास्तास्तिस्र इति । या हुता उज्ज्वलन्ति; या हुता अतिनेदन्ते; या हुता अधिशेरते । किं ताभिर्जयतीति । या हुता उज्ज्वलन्ति, देवलोकमेव ताभिर्जयति । दीप्यत इव हि देवलोकः । या हुता अतिनेदन्ते, पितृलोकमेव ताभिर्जयति । एवमिव हि पितृलोकः । या हुता अधिशेरते, मनुष्यलोकमेव ताभिर्जयति । अथ इव हि मनुष्यलोकः ॥ ८ ॥
प्र. - पुनरश्वलः प्रश्नमाह - याज्ञवल्क्येति होवाच - इति । कति - कतिसङ्ख्या काः आहुतीर्होष्यतीत्यर्थः । शिष्टं पूर्ववत् । अत्र याज्ञवल्क्यस्योत्तरम् । तिस्र इति । पुनः प्रश्नः कतमाः तास्तिस्र इति । उत्तरम् । या हुताः- - अधिशेरत इति।याः
आहुतयो हुतास्सत्यः उज्ज्वलन्ति ताः ऊर्ध्वं ज्वलन्त्यः समिदाज्याहुतयः एका कोटिरित्यर्थः । या आहुतयो हुताः अतिनेदन्ते- अतीव कुत्सितशब्दं कुर्वन्ति । नेदशब्दकुत्सायां (धा.पा.) शीत्कारशब्दं कुर्वन्ति इत्यर्थः । तादृश्यो मांसाद्याहुतयो द्वितीया कोटिः । यास्त्वाहुतयो हुताः अधिशेरते - अधि - अधोगत्वा अग्नौ शेरते, ताः पयः सोमाद्या
आहुतयः तृतीया कोटिरित्यर्थः । अन्यत् पूर्ववत् । पुनः प्रश्नः । किं ताभिर्जयत इति । उत्तरं- या हुता इत्यादि । याः हुतास्सत्यः उज्ज्वलन्ति, ताभिराहुतिभिः समिदादिभिः देवलोकं जयतीत्यर्थः । तत्र हेतुमाह - दीप्यत इव हि देवलोकः इति । हि - यस्मात् अत्रत्यानां देवलोको दीप्यते इव भासते । अत उज्ज्वलानां समिदाज्याहुतीनाम् उज्ज्वलदेवलोक- साधनत्वमुपपद्यत इति भावः । या हुता इत्यादि । या हुताः आहुतयः अतिनेदन्ते . कुत्सितशब्दं कुर्वन्ति, पितृलोकमेव ताभिर्जयतीति । अत्र हेतुमाह - एवमिव हि पितृलोक इति । एवमिव हि - यस्मात् कुत्सितशब्दयुक्त एव इत्यर्थः । कुत्सितशब्द- कर्तृत्वसामान्यात् कुत्सितशब्दयुक्ताभिः आहुतिभिः कुत्सितशब्दयुक्तं पितृलोकं जयतीत्यर्थः । पितृलोकसंबद्धायां हि संयमन्यां पुर्यां वैवस्वतेन यात्यमानानां हा हतोऽस्मीति शब्दो भवति । अतः पितृलोकस्य कुत्सितशब्दयुक्तत्वमस्तीति द्रष्टव्यम् । या हुता इत्यादि । या आहुतयो हुताः अग्नौ अधिशेरते इत्युक्ताः, तृतीयकोट्यन्तर्भूताभिस्ताभिः मनुष्यलोकमेव जयति इति । अत्र हेतुमाह - अध इव हि मनुष्यलोक इति । ऊर्ध्वलोकापेक्षया मनुष्यलोकः अध इव हि वर्तते । अत तत्सामान्यात् ताभिरधश्शयानाभिः मनुष्यलोकं जयति इत्यर्थः ॥ ८ ॥ याज्ञवल्क्येति होवाच - कतिभिरयमद्य ब्रह्म यज्ञं दक्षिणतो देवताभि- र्गोपायतीति । एकयेति । कतमा सैकेति । मन एवेति । अनन्तं वै मनोऽनन्ता विश्वेदेवा अनन्तमेव स तेन लोकं जयति ॥ ९ ॥
प्र. - पुनः स एव पृच्छति - याज्ञवल्क्येति- - - गोपायतीति । विहारस्य दक्षिणत उपविष्टो ब्रह्मा कतिभिः कतिसङ्ख्याकाभिः देवताभिः ‘उपासिताभिः यज्ञ गोपायतीति प्रश्नार्थः । उत्तरमाहयाज्ञवल्क्यः - एकयेति । कतमा सैकेति पुनः प्रश्नः । सा देवता का? इत्यर्थः । उत्तरं - मन एवेति । तेन किं जयतीति पुनः प्रश्नोऽध्याहर्तव्यः । उत्तरमाह- अनन्तं वै मनः इति । तत्रफलं विवक्षुः प्ररथमं मनस उपास्तिप्रकारमाह - अनन्तं वै मन इति । मनः आनन्त्यगुणविशिष्टतया उपास्यमित्यर्थः । तदानत्ये हेतुमाह - अनन्ता विश्वेदेवा इति। विश्वे - सर्वे इत्यर्थः। देवशब्द : इन्द्रियपरः । ‘मनसः अधीनानां सर्वेषामिन्द्रियाणामानन्त्यात् मनस आनत्यमिति भावः । एवमुपासनप्रकारमुक्त्वा फलमाह - अनन्तमेव स तेनलोकं जयति इति । एवमानन्त्यगुणविशिष्टतयोपासितेन [ब्रह्मणा] मनसा अनन्तं भगवल्लोकं मुक्तिस्थानं भगवदुपासनद्वारा जयतीत्यर्थः । एवमुत्तरस्वाभाव्यात् यज्ञं गोपायतीति प्रश्नस्यापि विद्यार्थस्य कर्मणः क्षिप्रब्रह्मविद्यो- त्पादकत्वशक्याधानमेव्यर्थ इति द्रष्टव्यम् ॥ १ ॥
[उद्गातृकर्म तत्फलं च] याज्ञवल्क्येति होवाच कत्ययमद्योद्गातास्मिन् यज्ञेस्तोत्रियाः स्तोष्यतीति। तिस्र इति । कतमास्तास्तिस्र इति । पुरोनुवाक्या च याज्या च शस्यैव च तृतीया। कतमास्ता या अध्यात्ममिति । प्राण एव पुरोनुवाक्या, अपानो याज्या, व्यानः शस्या । किं ताभिर्जयतीति । पृथिवीलोकमेव पुरोनुवाक्वया जयत्यन्तरिक्षलोकं याज्यया द्युलोकं शस्यया ततो ह होताश्वलः उपरराम ॥ १० ॥ ॥ इति पञ्चमाध्याये प्रथमब्राह्मणम् ॥
प्र. - पुनः स एव पृच्छति । याज्ञवल्क्येति होवाच- - -स्तोष्यतीति । अयमुद्गाता अद्य- यागकाले अस्मिन् यज्ञे स्तोत्रियाः - स्तोत्रसाधनभूताः ऋचः’ कतिसङ्ख्याकाः स्तोष्यतीत्यर्थः । अत्र याज्ञवल्क्य उत्तरं पठति - तिस्रः इति । पुनः प्रश्नः कतमास्तास्तित्र इति । उत्तरं - पुरोनुवाक्या -तृतीया इति । उक्तोऽस्यार्थः पूर्वमेव। पुनः पृच्छति कतमास्ता; या अध्यात्ममिति । ताः - पुरोनुवाक़्याद्यास्तिस्रः अध्यात्मं कतमा भवन्ति । आसु किंरूपाध्यात्मदृष्टिः कर्तव्या इत्यर्थः । उत्तरं प्राण एव
-
- - शस्येति । पुरोनुवाक्याज्याशस्यासु क्रमात् अध्यात्मं प्राणापानव्यानदृष्टिं कृत्वा उद्गाता ताः प्रयुञ्जीत इत्यर्थः । पुनः पृच्छति - किन्ताभिर्जयतीति । प्राणादिदृष्टिविशिष्ट- पुरोनुवाक्यादिभिः प्रयुज्यमानाभिः कान् लोकान् जयतीत्यर्थः । उत्तरमाह - पृथिवीलोकमेव
-
- शस्यया इति । स्पष्टोर्थः । ततो ह होताश्वल उपरराम इति । एवं स्वकृतप्रश्नानाम् उत्तरे दत्ते प्रष्टव्यान्तराभावात् होता अश्वलः ‘उपरराम - तृष्णीं बभूव इत्यर्थः ॥ १०॥ ॥ इति पञ्चमाध्याये प्रथमब्राह्मण प्रकाशिका ॥ पञ्चमाध्याये द्वितीयं ब्राह्मणम् जारत्कारवब्राह्मणम् [ग्रहातिग्रहविषये प्रश्नः उत्तरञ्च] अथ हैनं जारत्कारव आर्तभागः पप्रच्छ । याज्ञवल्क्येति होवाच, कति ग्रहाः, कत्यतिग्रहा इति । अष्टाग्रहा अष्टावतिग्रहा इति । य एते अष्टौ ग्रहा अष्टावतिग्रहाः कतमे त इति ॥ १ ॥
प्र. - अथ है नं - - - पप्रच्छ इति । अथ - अश्वलपराभवानन्तरम् एनं - याज्ञवल्क्यं जारत्कारवः-जरत्कारगोत्रजः ऋतुभागपुत्रः आर्थ भागः विजिगीषयैव पप्रच्छ इत्यर्थः । हे याज्ञवल्क्येति सम्बोधनेन तं स्वाभिमुखं कृत्वा, ग्रहाः कति, अतिग्रहाः कति ? इति प्रश्नद्वयं पृष्टवान् इत्यर्थः । उत्तरमाह याज्ञवल्क्यः अष्टौग्रहा अष्टौ अतिग्रहा इति । पुनः प्रश्नः य एते- - ते इति । ये ग्रहाः अतिग्रहाश्च अष्टौ अष्टाविति त्वयोक्ताः, त एते के? इत्यर्थः ॥ १ ॥
[प्राणस्य प्रहातिमहत्वकथनम् ] प्राणो ये ग्रहः, सोऽपानेनातिग्रहेण गृहीतः । अपानेन हि गन्धान् जिघ्रति ॥२॥
प्र. - अत्र याज्ञवल्क्यस्य उत्तरं प्राणो वै- इत्यादि । अत्र प्राणशब्देन नस्यत्वसामान्यात् घ्राणेन्द्रियं गौण्या वृत्त्याऽभिधीयते । गृह्णाति - आत्मानं स्ववशं करोतीति ‘ग्रहः’ - इन्द्रियम् । पचाद्यच् । अपानः गन्धः । अपानेन - निश्वासवायुना उपनीयमानत्वात् गन्धोऽपानशब्देन लक्ष्यते । सः- घ्राणेन्द्रियात्मको ग्रहः तेन विषयरूपेणातिग्रहेण गन्धात्मना गृहीतः - व्याप्तो भवति । अतिशयेन स्वस्वविषयिणं इन्द्रियादिकं गृह्णाति - स्ववशीकरोतीति अतिग्रहः विषयः । गन्धस्य घ्राणवशीकरण- प्रकारमुपपादयति - अपानेन हि गन्धान् जिघ्रतीति । अत्र घ्राणेन इत्यध्याहर्तव्यम्। अपानेन निश्वासेन उपनीतान् गन्धान् घ्राणेन जिघ्रतीत्यर्थः यद्वा - अपानशब्दो प्राणपरो
द्रष्टव्यः । उत्तरसन्दर्भेकरूप्यात् । अतो गन्धग्राहकत्वात् घ्राणं गन्धाधीनमिति भावः । ततश्च, इन्द्रियेभ्यः परा ह्यर्थाः (क.उ.३-१०) इत्युक्तरीत्या ग्रहशब्दितेभ्योऽपीन्द्रियेभ्योऽतिग्रहशब्दितानां, विषयाणां प्रबलतया तद्वशीकरणे विषयेन्द्रियवियोजनरूप एव यत्नः कर्तव्यो मुमुक्षुणा इति भावः॥ २ ॥
[वागादीनां ग्रहातिग्रहत्व कथनम्] वाग्वै ग्रहः, स नाम्नाऽतिग्रहेण गृहीतः । वाचा हि नामान्यभिवदति ॥ ३ ॥ जिह्वा वै ग्रहः, स रसेनातिग्रहेण गृहीतः । जिह्वया हि रसान् विजानाति ॥ ४ ॥ चक्षुर्वै ग्रहः; स्वरूपेणातिग्रहेण गृहीतः । चक्षुषा हि रूपाणि पश्यति॥ ५ ॥ श्रोत्रं वै ग्रहः, स शब्देनातिग्रहेण गृहीतः । श्रोत्रेण हि श्ब्दाच्छृणोति ॥ ६ ॥ मनो वै ग्रहः, स कामेनातिग्रहेण गृहीतः । मनसा हि कामान् कामयते ॥ ७ ॥ हस्तौ वै ग्रहः, स कर्मणाऽतिग्रहेण गृहीतः । हस्ताभ्याँ हि कर्म करोति ॥ ८ ॥ त्वग्वै ग्रहः, स स्पर्शेनातिग्रहेण गृहीतः । त्वया हि स्पर्शान् वेदवते । इत्येतेऽष्टौ ग्रहा अष्टावतिग्रहाः ॥९॥
प्र. - वाग्वै ग्रहः इत्यादि । सर्वं पूर्ववत् । एवं घ्राणवाग्जिह्वाचक्षुश्श्रोत्रमनो- हस्तत्वग्रूपान् ग्रहान् तद्विषयरूपानतिग्रहांश्च उक्त्वा उपसंहरति इत्येते अष्टौ ग्रहा अष्टावतिग्रहाः इति । स्पष्टोऽर्थः । विषयेन्द्रियमध्ये एतेषामेव प्रबलत्वात् अवश्य- निग्रह्यत्वाभिप्रायेण अष्टानामेव उक्तिरिति द्रष्टव्यम् ॥ ३-९ ॥
[मृत्यु जयोपायः] याज्ञवल्क्येति होवाच, यदिदँ सर्वं मृत्योरन्नम्, का स्वित् सा देवता यस्या मृत्योरन्नमिति । अग्निर्वै मृत्युः सोऽपामन्नम् । अप पुनर्मृत्युं जयति, य एवं वेद ॥ १० ॥ प्र - एवं ग्रहातिग्रहप्रश्नस्य उत्तरे दत्ते आर्तभागः एवान्यत् पृच्छति- याज्ञवल्क्येति होवाच इत्यादि । यस्य मृत्योः। इदं सर्वं दृश्यमानमन्नम् - अदनीयम्। सोऽपि मृत्युः। यस्याः देवताया अन्नं भवति, सा का देवतेति प्रश्नार्थः । याज्ञवल्क्य उत्तरमाह • अग्निर्वैमृत्युः सोऽपामन्नम् इति । अग्निना हि सर्वं दृश्यते । अतः सर्वं तस्यान्नमिति स मृत्युः । सोऽप्यद्भिर्नाश्यते । अतोऽपामग्र्यन्नकत्वमिति भावः । अपामग्र्यन्नकत्व ‘चिन्तनस्य फलमाह - अपपुनर्मृत्युं जयति य एवं वेद इति । अपामपग्र्यकत्वं चिन्तयन् अपमृत्युं जयति इत्यर्थः । अत्र कास्वित् सा देवतेति प्रश्नानुरोधात् अप्छब्दस्य अपामित्यस्य अप्तन्त्वाभिमानिनारायणपरत्वेऽपि न दोषः । केवलासु अप्सु देवताशब्दस्या- स्वारस्यात् अस्मिन् पक्षे अग्निर्वै मृत्युरित्यत्र अग्निशब्दस्य कालाग्निरुद्रपरत्वं द्रष्टव्यम् । अग्निर्वैरुद्र:’ इति प्रसिद्धेश्च । एतदेवाभिप्रेत्य व्यासार्यैः - आर्तभागप्रश्नस्य विद्वद्विषर्यैत्वेऽपि इति ग्रन्थेनास्य प्रकरणस्य परमात्मविषयत्वमपि अन्यारुह्योक्त्या सूचितम् ॥ १० ॥
[आत्मनः प्राणोत्क्रमणाभावः]
याज्ञवल्क्येति होवाच, यन्नायं पुरुषो म्रियते, उदस्मात् प्राणा क्रामन्त्याहो नेति नेति होवाच याज्ञवल्क्यः, अत्रैव समवनीयन्ते । स उच्छ्वयत्याध्यायत्याध्मातो मृतश्शेते ॥ ११ ॥
प्र. - पुनस्स एव पृच्छति - याज्ञवल्क्येति- - -नेति।यन्न -यदा अयं पुरुषः - जीवः म्रियते; तदा किम् अस्मात् - म्रियमाणाज्जीवात् प्राणा उत्क्रामन्ति - जीवं विहाय यथायथं गच्छन्ति; आहो - उत न यथायथं गच्छन्ति, किन्तु तत्संयुक्ता एव सन्तः तेन सहैव उत्क्रामन्तीति प्रश्नार्थः । न यथायथं गच्छन्तीत्युत्तरमाह - नेति होवाच याज्ञवल्क्य इति । तर्हि किं भवन्तीत्यत्राह अत्रैव समवनीयन्ते- - शेते । इति। अत्रैव - अस्मिन् आत्मन्येव समवनीयन्ते -संयुज्यन्ते।समित्येकीकारे। एकीभूततया संयुक्ता भवन्तीत्यर्थः । न तं विहाय उत्क्रामन्ति किन्तु सहैव उत्क्रामन्तीत्यर्थः । स उच्छ्वयति । सः - पुरुषो मृतः उत्क्रान्त प्राणस्सन् श्वयथुं प्राप्नोतीत्यर्थः । आध्मायति
बाह्यवायुना पूर्यते । आध्मातः - एवं बाह्यवायुना पूरितस्सन् शेते इत्यर्थः । यद्यपि उच्छूनत्व आध्मातत्वादिः देहधर्मः । न त्वस्मादिति निर्दिष्टम्रियमाण जीवधर्मः । तथापि देहात्मनोः अभेदोपचारेण स इति परामृश्य तथा निर्देशो द्रष्टव्यः । न च स उच्छ्वयत्याध्मायत्याध्मातो मृतश्शेते इति उच्छूनत्वादिविस्पष्टदेहधर्मश्रवणेन देहापादनकोत्क्रमणप्रतिषेधविषयकत्वोप- पत्तापभेदोपचारम् आश्रित्य जीवापादानकोद्गमननिषेधपरत्वं कुत आश्रयणीयम् इति वाच्यम् । योऽकामो निष्काम आप्तकाम आत्मकामो न तस्मात् प्राणा उत्क्रामन्ति (बृ.उ.६-४-६) इत्यत्र शारीरापादनकोद्गमनप्रतिषेधवादिनः न तस्मादित्यस्य परैरपि अभेदोप- चारस्य अवश्याश्रयणीयत्वेन दोषसाम्यात् । प्रतिषेधादिति चेन्न शारीरात् (ब्र.सू.४-२-१२) इति सूत्रभाष्यादौ अस्यार्थस्य प्रपञ्चितत्वात् नात्रास्माकं वक्तव्यमवशिष्यते ॥ ११ ॥ याज्ञवल्क्येति होवाच, यत्रायं पुरुषो म्रियते, किमेनं न जहातीति । नामेति । अनन्तँ ह वै नाम; अनन्ता विश्वे देवाः । अनन्तमेव स तेन लोकं जयति ॥ १२ ॥
प्र. - पुनरार्तभाग एव पृच्छति - याज्ञवल्क्यति- - न जहाति इति। पूर्वत्र प्राणा म्रियमाणं न जहातीत्युक्तम् । इदानीं तु प्राणेभ्योऽन्यच्च किं वा म्रियमाणं न जहातीति प्रश्नः । याज्ञवल्क्य उत्तरमाह - नामेति । नामधेयं न त्यजति इत्यर्थः । तदत्याग एव प्रदर्श्यते प्रसिद्ध्या अनन्तं ह वै नाम इति । देहे नष्टेऽपि युधिष्ठिरादोनां नामानुवृत्तिदर्शनात् अनन्तं नाम । नाम्रो नाशो नास्ति इत्यर्थः । नामाभिमानिदेवता अप्यनन्ता इत्याह - अनन्ता विश्वे देवा इति । विश्वे देवा नामाभिमानिन इति द्रष्टव्यम् । नामानन्त्यज्ञानस्य फलमाह - अनन्तमेव स तेन लोकं जयति इति । तेन - अनुवृत्तेन नाम्रा अनन्तं - शाश्वतं पुण्यलोकं जयति इत्यर्थः । अत एव हि लोके नामानुवृत्यर्थ यतन्त
इति भावः ॥ १२ ॥
याज्ञवल्क्येति होवाच यत्रास्य पुरुषस्य मृतस्य अग्निं वागप्येति वातं
प्राणश्चक्षुरादित्यं मनश्चन्द्रं दिशःश्रोत्रं पृथिवीं शरीरमाकाशमात्मौषधीर्लामानि वनस्पतीन् केशाः, अप्सु लोहितञ्च रेतश्च निधीयते, क्वायं तदा पुरुषो भवतीति । आहर सोम्य हस्तमार्तभाग! आवामेवैतस्य वेदिष्यावो न नावेतत् स जन इति । तो होत्क्रप्य मन्त्रयाचक्राते । तो ह यदृचुतः कर्म ह वै तदूचुतुः । अथ यत्
प्रशशँसतुः, कर्मह वै तत् प्रशशँसतुः, पुण्यो वै पुण्येन कर्मणा भवति; पापः पापेनेति । ततो ह जारत्कारव आर्तभाग उपरराम ॥ १३ ॥ ॥ इति पञ्चमाध्याये द्वितीय ब्राह्मणम् ॥
प्र. - पुनरप्यार्तभागः पृच्छति - याज्ञवल्क्येति – - वागप्येति इत्यादि । अत्र वागादीन्द्रियाणामाकल्पस्थायित्वात् , आहङ्कारिकत्याच्च मरणदशायाम् अनुपादानभूते अग्न्यादौ तेषां लयासम्भवाच्च अग्निं वागप्येति इति वाचः अग्नावप्ययो नाम वागिन्द्रियाभि- मानिदेवभूतस्याग्नेः वागिन्द्रियाधिष्ठानानुकूलव्यापारमन्तरेण अवस्थितिरेव । मरणदशायां म्रियमाणजीवसम्बन्धि वागिन्द्रियं तदभिमानी अग्निर्नव्यापारयतीति यावत् । सूत्रितञ्च भगवता बादरायणेन - अग्नयादिगतिश्रुतेरिति चेन्न भाक्तत्वात् (ब्र.सू.३-१-४) इति । एवमुत्तरत्रापि वातं प्राण इत्यादौ द्रष्टव्यम् । अप्ययश्च भाक्तो यथायोग्यं द्रष्टव्यः । आकाशमात्मा इति । आत्मा - देहान्तर्गताकाश इत्यर्थः । ओषधिर्लोमानि वनस्पतीन् केशा इति । लोमकेशाभिमानिदेवता ‘ओषधिवनस्पत्यभिमादेवतामप्येति लोमकेशाभि- मानित्वं विहाय केवलमोषधिवनस्पत्यभिमानिनी भवति इत्यर्थः । अप्सु लोहितं च रेतश्च विधीयते इति । निधीयते - प्रक्षिप्यते इत्यर्थः । कार्य तदा पुरुषो भवति इति । म्रियमाणसम्बन्धिषु सर्वेषु उक्तरीत्या तत्तदाधाराश्रितेषु सत्सु अयं शारीरः पुरुषः तदा किमाश्रितो भवति इति प्रश्नः । एवं पृष्टो याज्ञवल्क्यः एतदुत्तरस्य सुगोप्यस्य प्रकृतजल्पमार्गेण सर्वजन समक्षमप्रकटनोयत्वात् आर्तभागं वादमार्गेण बोधयिष्यन्नाह . आहर सोम्य- - - सजने इति । हे सोम्य - सोमार्ह । हे आर्तभाग! इति सम्बोध्य, हस्तं त्वदीयमाहर इत्युक्त्वा प्रसारितमार्तभाग हस्तं गृहीत्वा पुनः प्राह - आवामेव एतस्य प्रश्नस्योत्तरं वेदिष्यावः - ज्ञास्यावः इत्यर्थः । यद्यपि याज्ञवल्क्य एव विचारको निर्णेता च- अथापि द्विवचनं वीतरागकथात्वद्योतनार्थम् । नौ - आवयोः एतत् - प्रकृतप्रश्नोत्तरं सजने - जनसमुदाये न भवतीत्यर्थः । एवं याज्ञवल्क्योक्तमातभागोऽप्यङ्गीचकार । तौ होत्क्रम्य मन्त्रयाञ्चक्राते इति । अथ तौ - आर्तभागयाज्ञवल्क्यौ तस्माद्देशात् उत्क्रम्य - विजनं गत्वा मन्त्रयाञ्चक्राते - विचारमकुरुताम् इत्यर्थः । तौ ह- - - प्रशशंसतु इति । तौ - आर्तभागयाज्ञवल्क्यौ मिलित्या विचार्य निश्चित्य कार्यकारणसंघातात्मक- शरीरान्तरपरिग्रहहेतुतया शारीर पुरुषस्याधारभूतं यदुक्तवन्तौ, तत् कर्मैव । अथ यत्
प्रशशंसतुः । तादृशशरीरान्तरपरिग्रहहेतुषु यत् स्तुतवन्तौ तत्कर्मैव इत्यर्थः । यद्यपि ईश्वरकालादीनि कारणान्तराणि सन्ति - तथापि तेषां साधारणकारणत्वात् शारीरस्य ‘शरीरपरिग्रह हेतुनां मध्ये कर्मैव असाधारणं कारणं पुरुषस्य आश्रयभूतमिति स्तुतवन्तौ इत्यर्थः । तदेव प्रदर्शयति - पुण्यो वै - - - पापेन इति । वै शब्दोऽवधारणे । पुण्येन कर्मणैव पुण्यो भवति - पुण्यशरीरयुक्तो भवति । पापेन कर्मणैव पापो भवति । पापशरीर युक्तो भवति इत्यर्थः । तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्येरन् ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वा । अथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां योनिमापद्येरन् श्वयोनिं वा सूकरयोनिं वा चण्डालयोनिं वा (छां.उ.५-१०-७) इति श्रुत्यन्तरादिति भावः । ततो ह - उपरराम इति । पूर्ववत् स्पष्टोऽर्थः ॥ १३ ॥ ॥ इति पञ्चमाध्याये द्वितीयब्राह्मण प्रकाशिका ॥ पञ्चमाध्याये तृतीयं ब्राह्मणम् भुज्युब्राह्मणम् [पारिक्षिताः कुत्रगताः’ इति मृत्युप्रश्नः]
अथ हैनं भुज्यु र्लाह्यायनिः’ पप्रच्छ । याज्ञवल्क्येति होवाच - मद्रेषु चरकाः पर्यव्रजाम । ते पतञ्जलस्य काप्यस्य गृहानैम । तस्यासीद्दुहिता गन्धर्वगृहीता । तमपृच्छाम् कोऽसीति । सोऽब्रवीत् सुधन्वाङ्गीरस इति । तं यदा लोका- नामन्तानपृच्छाम, अतैनं ब्रूम क्व परिक्षिता अभवन्निति । क्व पारिक्षिता अभवन् ? स त्वा पृच्छामि, याज्ञवल्क्य! क्व पारिक्षिता अभवन्निति ॥ १ ॥
प्र. - अथ हैनं भुज्युर्लाह्यायनिः पप्रच्छ इति । अथ -आर्तभागोपरामानन्तरं भुज्युः - नामतः लाह्यायनिः- गोत्रतः लाह्यस्य गोत्रापत्यम् गर्गादिभ्यो यञ् (पा.सू. ४-१-१०५) तस्यापत्यम् (पा.सू.४-१-९२) यञिञोश्च (पा.सू.४-१-१०१) इति फक् । ततः गोत्राद्यूनि (पा.सू.४-१-९४) इति नियमात् अत इञ् । स एवं याज्ञवल्क्यं पप्रच्छेत्यर्थः । याज्ञवल्क्येति होवाच इति । पूर्ववदर्थः । मद्रेषु चरकाः पर्यव्रजामेति । मद्रानाम जनपदाः । तेषु चरकाः अध्ययनार्थं व्रत’चरणात् चरकाः’ । यद्वा - मद्रेषु चरन्तीत्यर्थे चरेष्टः (पा.सू.३-२-१६) इति ट प्रत्यये, स्वार्थे कः । पर्यव्रजाम-
पर्यटितवन्तः इत्यर्थः । अस्मदो द्वयोश्च (पा.सू.१-२-५९) इत्येकस्मिन् बहुवचनम् । सब्रह्मचार्यपेक्षया वा । ते पतञ्जलस्य काप्यस्य गृहानैम । ते - वयं नाम्ना पतञ्जलस्य, गोत्रेण काप्यस्य गृहान् ऐम -गतवन्तः।इणो लङ्।तस्यासीत् दुहिता गन्धर्वगृहीता । तस्य-काप्यस्य दुहिता - पुत्री गन्धर्वेण - अमानुषेण सत्त्वेन आविष्टा स्थिता तमपृच्छाम । तं - गन्धर्वम् अपृच्छाम । लङ् । किमिति । कोऽसीति । सोऽब्रवीत्सुधन्वाङ्गीरस इति । सः- गन्धर्व नामतोऽहं सुधन्वा, गोत्रत आङ्गिरसः इत्यब्रवीत् । तं - गन्धर्वं वयं लोकानां - पुण्यलोकविशेषाणाम् अन्तानपृच्छाम - निश्चयान् पृष्टवन्तः इति यत्, तत् त्वां पृच्छामि । जानामि चेत्, वद इति शेषः । अथ हैनं….. अभवन् इति । ब्रूम इत्यडभावश्छान्दसः । अथ ह - अनन्तरसमन्यदपि एनं गन्धर्वं ब्रूम - अपृच्छाम । किन्तत् । पारिक्षिताः - परिक्षित्पुत्राः क्व - कस्मिन् लोके अभवन्निति । सम्भ्रमे द्विरुक्तिः । स त्वा पृच्छामि याज्ञवल्क्य क्व - - - अभवन्
इति । सः - ततो गन्धर्वादवगत तत्स्वरूपः अहं त्वां पृच्छामि तमेत प्रश्नं पारिक्षिताः क्वाभवन् इति इत्यर्थः। ॥ १ ॥
[गन्धर्वाभिहितरीत्या याज्ञवल्क्येन प्रत्युत्तरम्]
स होवाच उवाच वै स्म सोऽगच्छन् वै ते तत् यत्र अश्वमेधयाजिनो गच्छन्तीति । क्वन्वश्वमेधयाजिनो गच्छन्तीति । द्वात्रिंशतं वै देवरथाह्वयान्ययं लोकः। तं समन्तं पृथिवी द्विस्तावत् पर्येति । ताँ समन्तं पृथिवीं द्विस्तावत् समुद्रः पर्येति तद्यावती क्षुरस्य धारा, यावद्वा मक्षिकायाः पर्त्रम्, तावानन्तरेणाकाशः । तानिन्द्रः सुपर्णो भूत्वा वायवे प्रायच्छत् ; तान् वापरात्यनि धित्वा तत्रागमयत् यत्राश्वमेध- वाजिनोऽभवन्निति । एवमिव वै स वायुमेव प्रशशँस । तस्मात् वायुरेव व्यष्टिर्वायु- स्समष्टिः । अपपुनर्मृत्युं जयति य एवं वेद । ततो ह भुज्युर्लाह्यायनिरुपरराम ॥ २ ॥
प्र. - स होवाच । सः - याज्ञवल्क्य उवाच ह उत्तरम् किमिति । उवाच वै
- - - गच्छन्ति इति । यत्र - यस्मिन् लोके अश्वमेधयाजिनो गच्छन्ति, तत् - तं लोकं ते पारिक्षिता अगच्छन्निति गन्धर्वः युष्मभ्यम् - उवाच वै स्म - उक्तवान् किल इत्यर्थः । एवमुत्तरे दले याज्ञवल्क्यं पुनः स एव पप्रच्छ । क्व न्वश्वमेधयाजिनो गच्छन्ति इति । अश्वमेध याजिनः कं लोकं गच्छन्तीत्यर्थः । एवं पुनः पृष्टो याज्ञवल्क्यस्तु एतस्यैव द्वितीय प्रश्नस्योत्तरे’ दत्तेऽपि, लोकानामन्तानमपृच्छाम इति - प्रथमप्रश्नस्य प्रतिवचनम् अन्तरेण अयं न शाम्यतीति मत्वा प्रथमप्रश्नस्यारयाचोक्तरमाह द्वात्रिंशतं वै देवरथाह्यान्ययं लोक इत्यादिना । देवरथः - सूर्यरथः । तस्य गत्या अह्रा यावद्देशपरिमाणं परिच्छिद्यते, तत् देवरथाह्यम् । द्वात्रिंशद्गुणित देवरथाह्यदेश परिमितः अयं लोकः -
लोकालोकगिरिपरिवृतदेश इत्यर्थः । द्वात्रिंशतं - द्वात्रिंशत् इत्यर्थः । तं समन्तं पृथिवी द्विस्तावत् पर्येति । तं - लोकालोककृतं लोकं समन्तं - समन्ततः द्विगुणा पृथिवी पर्येति । तां समन्तं पृथिवी द्विस्तावत्समुद्रः पर्येति । तां - महापृथिवीं समन्ताद्विगुणः समुद्रः पर्यति, यं घनोदकमाचक्षते पौराणिकाः । तत्राश्वमेधलोकमार्गविवरपरिमाणमुच्यते तद्यावती क्षुरस्य धारा इत्यादि । क्षुरस्य धारा यावती - यावदतिसूक्ष्मपरिमाणा, मक्षिकायाः पत्त्रं- पतत्रं घनेन यावत्परिमाणम्, अतिसूक्ष्मम् तावान् इत्यर्थः । तत्-
तत्राण्डकटाहे क्षुरधारया मक्षिकापत्रेण वा सदृशः अन्तरेणाकाशः - मध्ये रन्ध्रमित्यर्थः । तत्र सूक्ष्मरन्ध्रमार्गे पारिक्षितानां गतिप्रकारमाह - तानिन्द्रस्सुपर्णो भूत्वा वायवे
प्रायच्छत् इति । तान् - पारिक्षितान् इन्द्रः सुपर्णो भूत्वा समीचीनचाहनं भूत्वा वायचे प्रायच्छत् - दत्तवान् इत्यर्थः । कश्चित्प्रदेशमिन्द्र एवोद्वा तान् अनन्तरं वायवे दत्तवान् इत्यर्थः । तान् -अभवन् इति । वायुस्तु तान् पारिक्षितान् आत्मनि धित्वा-
श्वशरीरे स्थापयित्वा, यत्र - ब्रह्मलोकेऽश्वमेधयाजिनो गच्छन्ति, तत्रागमयत् इत्यर्थः । ततश्वेन्द्रस्यापि प्रवेशायोग्यरन्ध्रमार्गद्वारा वायुः पारिक्षितान् चतुर्मुखलोकम् अगमयत् इत्यर्थः । एवं याज्ञवल्क्य उक्त्वा स्वोक्तस्य संवादं दर्शयति । एवमिव वै स वायुमेव
प्रशशंस इति । एवमेव खलु, सः - भवद्भिः पृष्टो गन्धर्वः वायुमेव स्तुतवान् इत्यर्थः । इवशब्द एवार्थे; वैशब्दः - किलार्थत्माद्वायुरेव व्यष्टिर्वायुः समष्टिरिति । तस्मात् - गन्धर्वेण स्तुतत्वात् स वायुः समष्ट्यात्मकापञ्चीकृतभूतव्यष्ट्यात्मकब्रह्मलोकतदधस्तनलोकसञ्चारितया सूत्रात्मप्राणरूपेण सर्वनिर्वाहकतया व्यष्टिसमष्टिरूप’ इत्यर्थः । व्यष्टिसमष्ट्यात्मतया वायुचिन्तनस्य फलमाह - अप पुनर्मृत्युं जयति य एवं वेद इति । यो वेद, स पुनः अपमृत्युं जयतीति सम्बन्धः । ततो ह भुज्युर्लाह्यायनतिः उपरराम । पूर्ववदर्थः ॥ २ ॥ ॥ इति पञ्चमाध्याये तृतीयब्राह्मण प्रकाशिका ॥ पञ्चमाध्याये चतुर्थं ब्राह्मणम् उपस्तब्राह्मणम् [उपस्तेन ब्रह्मात्मस्वरूपप्रश्नः]
अथ है नमुपस्तश्चाक्रायणः पप्रच्छ । याज्ञवल्क्येति होवाच, यः साक्षादपरोक्षब्र्दह्मा च आत्मा सर्वान्तरः, तं मे व्याचक्ष्वेति । एष त आत्मा सर्वान्तरः । कतमो याज्ञवल्क्य सर्वान्तरः । यः प्राणेन प्राणिति स त आत्मा सर्वान्तरो योऽपानेनापानिति स त आत्मा सर्वान्तरो यो व्यानेन व्यानिति स त आत्मा सर्वान्तरो य उदानेन उदानिति स त आत्मा सर्वान्तरः, एष त आत्मा सर्वान्तरः ॥ १ ॥
प्र. - एकास्य याज्ञवल्क्यस्य कर्मकाण्डे । अविचाल्यं वैदुष्यं मत्था जनकसभिकाः ब्राह्मणाः ब्रह्मकाण्डे वा अख्य अप्रतिभां सम्पादयिष्याम इति मन्यमानाः प्रष्टुं, प्रावर्तन । तदेवाह - अथ - - - पप्रच्छ इत्यादिना । नाम्ना उषस्तः । चक्रम्य गोत्रापत्यं नडादिभ्यः फक् (पा.सू. ४.१.५९) चाक्रायणः । शिष्टं स्पष्टम् । याज्ञवल्क्येति होवाच इति । पूर्ववदर्थः । प्रश्नमेवाह । यस्साक्षादपरोक्ष्यत् ब्रहा थ आत्मा सर्वान्तरस्तं मे व्याचक्ष्व
इति । अपरोक्षात् - अपरोक्षमित्यर्थः । सुपां सुलुक् (पा.सू.८.१.३९) इत्यादिना अदादेशः । अपरोक्षवं नाम सर्वदेशकालसन्निहितत्वम् । देशकाल सत्रिकर्षं ह्यापरोक्ष्यदर्शनात् । यदपरोक्षं साक्षाद्ब्रह्मा -अव्यवधानेन ब्रह्म -अगौणं मुख्यं ब्रह्मेति यावत् । सर्वान्तर आत्मा च आत्मा वा अरे द्रष्टव्यः श्रोतव्यः इत्यादिना दर्शनादिकर्मत्वेन उक्तश्च यः, तादृशं वस्तु मे व्याचक्ष्यति प्रश्नः । व्याचक्ष्व-विविच्य आचक्ष्व - प्रदर्शय इत्यर्थः । उत्तरत्र न दृष्टे द्रष्टारं पश्येः इति द्रष्टव्यत्वादेरन्यत्र निषेधात् द्रष्टव्यत्वादिकमपि प्रश्नविषय इति द्रष्टव्यम् । याज्ञवल्क्य उत्तरमाह - एष त आत्मा सर्वान्तर इति । ते य आत्मा स एव सर्वान्तर इत्यर्थः । पृच्छति उषस्तः कतमो याज्ञवल्क्य सर्वान्तर इति । यदुक्तम् ते आत्मा सर्वान्तर इति, तदस्तु किन्तु कतम आत्मा सर्वान्तर इति तव अभिप्राय इति न जाने । किं देहेन्द्रियप्राणजीवादिषु कश्चिन्मे आत्मा सर्वान्तरः, उत ततोऽन्य इत्यर्थः । यद्यपि ते आत्मेति व्यतिरेकनिर्देशेन प्रत्यक्षदृष्टाभिमुखशरीरव्यतिरेकः सिद्ध्यति । तथापि इन्द्रियाद्यन्यतमत्व सन्देहो नापाकृत इति भावः । अत्र याज्ञवल्क्य उत्तरमाह यः प्राणेन
प्राणिति स त आत्मा सर्वान्तर इत्यादि । अत्र एष त आत्मा सर्वान्तर इत्यत्र उक्त इति शेषः । प्राणित्यपानितिव्यानितीत्यादौ रुदश्च पञ्चभ्यः (पा.सू.७-३-९८) इतीट् । प्राणादिभिः प्राणनादिव्यापारकर्ता यः, ते आत्मा । स एव सर्वान्तर आत्मा इत्यर्थः । अत्र प्राणेन इत्यादिना प्राणस्य करणतया निर्देशात् प्राण व्यतिरेकः सिद्धः । सुषुप्तौ बाह्याभ्यन्तर इन्द्रियोपरतावपि प्राणनादिव्यापारदर्शनात् तद्व्यतिरेकोपि सिद्धः । सुषुप्तौ जीवस्याप्युपरत- व्यापारतया प्राणेन प्राणितृत्वाभावात् तद्व्यतिरेकोपि सिद्ध्यतीत्याशयः ॥ १ ॥
[आत्मलक्षणकथनम्]
स होवाचोषस्तश्चाक्रायणो यथा विब्रूयादसो गौरसावश्व इति, एवमेवै- तव्द्यपदिष्टं भवति; यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरः तं मे व्याचक्ष्वेति । एष त आत्या सर्वान्तरः। कतमो याज्ञवल्क्य सर्वान्तरः । न दृष्टेर्द्रष्टारं पश्येर्न श्रुतेः श्रोतारं शृणुयाः न मतेर्मन्तारं मन्वीथाः, न विज्ञातःविज्ञातारं विजानीयाः, एष त आत्मा सर्वान्तरः। अतोऽन्यदार्तम् । ततो होषस्तश्चाक्रायण उपरराम ॥ २ ॥
प्र. - स होवाचोषस्तश्चाक्रायण इति । जीवव्यतिरेको नोक्त इति मत्वा आशयम- विद्वानुषस्तः पुनराह इत्यर्थः । किमिति । यथा विब्रूयादसौ- - -भवति इत्यादि । यथा हि गां प्रदर्श्य, असौ गौरसावश्व इति गव्यश्वाभेदोपदेशो विरुद्धः, एवमेव,’ ‘यत् साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्व इति मामकप्रश्ने, एष त आत्मा सर्वान्तरः, यः प्राणेन प्राणिति इति प्राणनादि कर्तुर्मदात्मनो जीवस्य सर्वान्तरत्वकथनं विरुद्धवचनमेवः, ‘जीवस्याणुत्वेन प्रतिदेहभिन्नत्वेन च सर्वान्तरत्वासम्भवात् विब्रूयात्-
विरुद्धं ब्रूयादित्यर्थः । अतः कतमो याज्ञवल्क्य सर्वान्तरः? स तावत् अविरुद्धतया वक्तव्य इत्यर्थः। उत्तरमाह- न दृष्टेः - - - श्रृणुयाः इत्यादि। अत्र ‘दृष्टेर्द्रष्टारमित्यादिः। पाकं पचतीतिवन्निर्देशः। द्रष्टारं - कर्तारमित्यर्थः । एवं श्रोतारमित्यादावपि । तेन द्रष्टुत्वादेः काल्पनिकत्वनिवृत्तिः। तथा च दर्शनश्रवणमनननिदिध्यासनानां यः कर्ता जीवः, स न
द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः । दर्शनादिकर्तुर्जीवादन्य एव दर्शनादिकर्मभूतः सर्वान्तर आत्मा । इन्द्रियाधीनदर्शनादीनां कर्तारं जीवं प्राणनादिकर्तृत्वेन’ न पश्येः, न मन्वीथा इत्यादिर्वाक्यार्थः । एष त आत्मा इत्यादि । त आत्मेति - मयोक्त एष एव । अतोऽन्यदार्तम् इति । अतः - एष त आत्मेति मदुक्तात् परमात्मनः अन्यत् - व्यतिरिक्तं त्वदभिमतमौपाधिकप्राणितृत्वादिमत् जीवजातम् आर्तं - दुःखीत्यर्थः। अतः स न परमात्मेति भावः । अत एव नित्यमुक्तानां कदापि अस्पृष्टदुःखत्वात् अतोऽन्यदार्तमित्युक्तिः कथमिति शङ्का प्रत्युक्ता । तेषामिहाप्रसक्तत्वात् । अन्यशब्दस्य संनिहितप्राणितृत्वादिमत्संसारि- जीवपरत्वात् । यद्वा, आर्तं - जीवाख्यं त्वदभीष्टं न निर्विकारं वस्तु । तस्य कर्मकृतस्वभाव- विकारवत्वादिति भावः । ततो होषस्तश्चाक्रायण उपरराम । पूर्ववत् ॥ २ ॥ ॥ इति पञ्चमाध्याये चतुर्थब्राह्मण प्रकाशिका ॥ पञ्चमाध्याये पञ्चमं ब्राह्मणम् कहोलग्राहाणम् [एषणात्रयव्युत्थानवर्णनम्, बाल्यपाण्डित्यमौनविधानम् ]
अथ हैनं कहोलः कौषीतकेयः पप्रच्छ । याज्ञवल्क्येति होवाच, यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरः, तं मे व्याचक्ष्वेति । एष त आत्मा सर्वान्तरः । कतमो याज्ञवल्क्य सर्वान्तरः । योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति । एतं वै तमात्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च । व्युत्थाय अथ भिक्षाचर्यं चरन्ति । या होव पुत्रैषणा; सा वित्तैषणा, या वित्तैषणा, सा लोकैषणा; उभे ह्येते एषणे, एव भवतः । तस्मात् ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् । बाल्यञ्च पाण्डित्यञ्च निर्विद्याथ मुनिः । अमौनञ्च मौनञ्च निर्विद्याथ ब्राह्मणः। स ब्राह्मणः केन स्यात् । येन स्यात् तेनेदृश एव । अतोऽन्यदार्तम् । ततो ह कहोलः कौषीतकेय उपरराम ॥ १ ॥
प्र.-अथ हैनं कहोलः कौषीतकेयः पप्रच्छ इति । कहोलः- नामतः । कुषीतकस्यापत्यं कौषीतकेयः। विकीर्णकुषीतकात् काश्यपे (पा.सू.४-१-१२४) इति ढक्। अन्यत् पूर्ववत् । याज्ञवल्क्येति होवाच इति । पूर्ववत् । यदेव साक्षादपरोक्षाद्ब्रह्म
इत्यादिः प्रश्नः । तत्र याज्ञवल्क्योत्तरम् एष त आत्मा सर्वान्तर इति । पुनः प्रश्नः । कतमो याज्ञवल्क्य सर्वान्तरः इति। पूर्ववदर्थः । यद्यपि प्रश्नोऽयमुषस्तेन कृत एव, दत्तोत्तरश्च । निरुपाधिकसर्वप्राणिप्राणनहेतुत्व निरङ्कुशसर्वान्तरत्वाद्यैरस्य जीवव्यावृत्तिरपि सिद्धा । न दृष्टेद्रष्टारम् इत्यादिना दर्शनश्रवणादिकर्तुर्जीवस्य द्रष्टव्यत्वादिनिषेधमुखेन मुख्यब्रह्मत्वमपि प्रतिषिद्धम् । तथापि प्राणितृत्वस्य जाग्रदादिदशाविशेषे जीवेऽपि सम्भवात्, यत्किञ्चित् देहाद्यपेक्षया आन्तरे जीवे आपेक्षिकसर्वान्तरत्वसम्भवात् । न दृष्टेर्द्रष्टारम्
इत्यत्रापि दृष्टिव्यतिरिक्तद्रष्टुनिषेधपरत्वसम्भवेन ज्ञानस्वरूपस्यैव सतो जीवस्य ज्ञानगुणकत्व- प्रतिपादकत्वसम्भवात् उक्तधर्माणां परमात्मैकान्तिकत्वं निश्चेतुमसमर्थस्य कहोलस्य दृढतरेण व्यावर्तकधर्मेण जीवव्यावृत्तिनिश्चिचीषया पुनःप्रश्नः उपपन्न इति द्रष्टव्यम् । अत एव व्यतिहारो विशिंषन्ति हीतरवत् (ब्र.सू.३-३-३७) इति सूत्रे व्यावर्तकधर्मभूयस्तया व्यावृत्ति ‘बुद्ध्यतिशयां र्थमेकविषयकप्रश्नद्वयम् इत्युक्तं व्यासार्यैः ॥ तदभिप्रायं जानन् याज्ञवल्क्यो दृढतरजीवव्यावृत्तिसिद्धये व्यावर्तकधर्मान्तरमाह- योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति इति । अशनाया - बुभुक्षा पातुमिच्छा पिपासा। शोकः- इष्टानिष्टवियोगसंयोगजः मोहः - कामादिजनितः, अज्ञानं वा । जरामृत्यू प्रसिद्धौ । जीवस्य कर्माधीनदेहसंसर्गितया अशनायाद्यतीतत्वाभावात् तद्व्यावृत्तिः सिद्ध्यतीति भावः । यद्यपि मुक्तानां नित्यानाञ्च अशनायाद्यतीत्वमस्ति तथापि तेषामशनाया- द्यतीतत्वस्य परमात्मसङ्कल्पायत्तत्वादनन्यसङ्कल्पाधीनाशनायाद्यतीतत्वमुपाध्यनुक्तिसिद्धं परमात्मन एव । किञ्च, प्रकृते बद्धजीवव्यावृत्तेरेव स त आत्मेति निर्दिष्टस्योपदेष्टव्यतया नित्यमुक्तव्यावर्तक धर्मानुक्तावपि न दोष इति द्रष्टव्यम् । अथ व्यावर्तकधर्मान्तरमप्याह - एतं वै तमात्मानं इत्यादि । तमेवैतं - सर्वान्तरं अशनायाद्यतीतमेव परमात्मानम् आर्तं विदित्वा, ब्राह्मणा इत्यनेन क्षत्रियादिव्यावृत्तिः । पुत्रैषणायाश्च । इषेर्ण्यन्तात् स्त्रियां ण्यासश्रन्धो युच् (पा.सू.३-३-१०७) इति युच् । क्तिनोऽपवादः । अण्यन्तात्तु इच्छेति निपातः । इषे; स्वार्थे णिच् छान्दसः । पुत्रैषणा इत्यनेन तृतीयाध्याये जाया मे स्यात् प्रजायेय इति योक्ता, सा गृह्यते । वित्तैषणायाश्च इत्यनेन वित्तं मे स्यात् अथ कर्म कुर्वीय इति योक्ता, सा गृह्यते । लोकैषणायाश्च इत्यनेन जाया प्रजावित्तकर्मसाध्यसकललोकेच्छा गृह्यते - उक्तैषणात्रयात् व्युत्थाय - एषणात्रयं हित्वा-यथाविधि संन्यस्येति यावत् अथ - अनन्तरं देहयात्रार्थं भिक्षाचर्यं चरन्ति-
भिक्षाटनं कुर्वन्ति इत्यर्थः । इदं चोपलक्षणं सर्वसन्न्यासाश्रमधर्मानुष्ठानस्य । अत्र अप्राप्तत्वात् पारिव्राज्यं विधीयते । यो ह्येव पुत्रैषणा वित्तैषणा या वित्तैषणा सा लोकेषणेति । अवर्जनीयात् - परस्परसम्बन्धादन्योन्याविनाभूता एतास्तिस्रोऽपीति भावः । उभे ह्येते एषणे एव भवतः इति । सर्वथा तिस्र एताः साध्यसाधनविषय- केषणाद्वयमेव भूत्वा पर्यवस्यन्ति इति भावः । तस्माद्ब्राह्मणः- - -मुनिः इति । यस्मात् वैराग्यमावश्यकं तस्मात् ब्राह्मणः -अधीतवेद इत्यर्थः । ब्रह्म वेदमधीते इति ब्राह्मणः । जातिपरो वा । पाण्डित्यं निर्विद्य - ऊहापोहक्षमा धीः - पण्डा साऽस्यसञ्जाता इति पण्डितः । तस्य कर्म (धर्मः) पाण्डित्यम् । औपदेशिकाधिगमरूपं विवेकनिर्वेद- विरक्ति ‘फलकम् तत्पाण्डित्यं निर्विद्य - लब्ध्वा बाल्येन - स्वमाहात्म्यानाविष्करण- लक्षणबालस्वभावेन युक्तस्सन् ब्रह्मणि तिष्ठासेत् - तन्निष्ठां लभेत । उपासीतेति यावत्। तथैव व्याख्यातं च व्यासार्यैः । बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिः । बाल्यपाण्डित्ये पूर्वोक्ते निर्विद्य - लब्ध्वा अथ मुनिस्स्यात् । आलम्बनसंशीलनलक्षणमननशीलस्स्यादित्यर्थः । ध्यानविच्छेददशायामप्यत्यन्तविषयोन्मुखत्वराहित्याय शुभाश्रयवस्तुसंशीलनं कर्तव्यमित्यर्थः । अमौनं च मौनं च निर्विद्याथ ब्राह्मण इति। अमौनं - मौनादन्यत् मौनात्पूर्वनिर्दिष्टं बाल्यपाण्डित्यलक्षणं द्वयम् । मौनं - आलम्बनसंशीलनात्मकं, अमौनं मौनं चेत्येतदुभयं निर्विद्याथ ब्राह्मणः ब्रह्मवित् भवति। लब्धनिदिध्यासनो भवतीत्यर्थः । पुनः कहोलः पृच्छति स ब्राह्मणः केन स्यादिति । स ब्राह्मणः - त्वदुक्तो लब्धनिदिध्यासनो ब्रह्मविदुक्तोपायादन्येन केन स्यादिति प्रश्नार्थः। याज्ञवल्क्यस्योत्तरम् । येन स्यात्तेनेदृश एव इति । येन - ‘मौनपर्यन्तेन’ साधनेन ब्राह्मणस्यादित्युक्तम् । तेनैवेदृशस्स्यात् न केनाप्यन्येनोपायेन इत्यर्थः। अतोऽन्यदार्तम् इति । अतः अस्मात्परमात्मनः यदन्यत् - प्राणिजातं तत् आर्तं - दुःखीत्यर्थः । ततश्च यस्स्वयमशनायाद्यतीत एव सन्-आर्तिरूपा- त्संसारात् विरक्तस्य तस्माद्ब्राह्मण इत्याद्युक्त साधनसाध्यनिदिध्यासनं कुर्वतो जीवस्य संसारमोक्षं करोति । स एव मया स त आत्मेत्युक्तः । न तु त्वदभिमतो बद्धजीव इति भावः । अत एव नित्यमुक्तव्यावृत्तिश्च सिद्धेति दृढतरजीवव्यावृत्तिसिद्धिरिति द्रष्टव्यम्। ततो ह कहोलः कौषीतकेय उपरराम इति। स्पष्टोऽर्थः ॥ अत्र - बाल्येन तिष्ठासेदित्यत्र बाल्यशब्दस्वभावकर्मसाधारणत्वेऽपि वयोविशेष- लक्षणबालभावस्य इच्छया सम्पादितुमशक्यत्वेनविधेयत्वात् कर्मव विधेयम् । तत्र कामचारकामवादकामभक्षत्वादिकं यद्वालस्य कर्म, यच्च डम्भादिराहित्यलक्षणं स्वमाहात्म्या- नाविष्करणरूपं ‘कर्म’ तत्सर्वं बाल्यशब्देन विधेयम् । अविशेषात् । न च निषिद्धस्य कामचारादेर्विधानमयुक्तमिति वाच्यम् । वामदेव्योपासनाङ्गतया प्रार्थयमानसर्वयोषिद- परिहारलक्षणनिषिद्ध कर्मविधानवत् विद्याङ्गतया निषिद्धस्यापि कामचारादेर्विधान- सम्भवादिति पूर्वपक्षे प्राप्ते उच्यते - अनाविष्कुर्वन्नन्वयात् (ब्र.सू.३-४-४९)। स्वमाहात्म्यमनाविष्कुर्वन्नेव विद्वान् वर्तेत । स्वमाहात्म्यानाविष्करणलक्षणबाल्यस्यैव विद्यायामन्वयसम्भवात् । नाविरतो दुश्चरितान्नाशान्तो नासमाहितः ।
नाशान्त मानसो वाऽपि प्रज्ञानेनैनमाप्नुयात् ॥ (क.उ.३-२-२४) इति विशिष्य विद्यायामपि प्रतिषिद्धस्य कामचारादेः विद्याङ्गतयाऽन्वयासम्भवात् इत्यङ्गपादे स्थितम् । तत्रैव तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेद्वाल्यं च पाण्डित्यं च
निर्विद्याथमुनिः इत्यत्र मुनिशब्देन पाण्डित्यशब्दविहितं ज्ञानमेवानूद्यते, न ततोऽर्थान्तरं ज्ञानं विधीयते - प्रमाणाभावादिति पूर्वपक्षे प्राप्ते उच्यते - सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् (ब्र.सू.३-४-४६) विधीयते इति कर्मसाधनो विधिशब्दः । सहकार्यन्तरं, च तद्विधिश्च सहकार्यन्तरविधिः। तद्वतः - विद्यावतः तृतीयं -बाल्य-पाण्डित्यापेक्षया तृतीयं मौनं विद्यायास्सहकार्यन्तरं विधीयते इत्यर्थः । न च मुनिशब्दार्थस्य पाण्डित्यशब्देनैव प्राप्तत्वात् विधेयत्वानुपपत्तिरिति वाच्यम् । पक्षेण प्रकृष्ट मननशीले व्यासादौ मुनिशब्दप्रयोगात् प्रकृष्टं मननमेव मुनिशब्दार्थः । तच्च पाण्डित्यशब्दितादौपदेशिकार्थाधिगमात् । श्रवणप्रतिष्ठार्थान्मननाच्चुर्थान्तरभूतमालम्बन संशीलनात्मकमिति तस्याप्राप्तत्वेन विधानार्हत्वात् विधेयत्वं युज्यते । पक्षः - परिग्रहः । पक्ष परिग्रहे (धा.पा.१५५१) इति धातुः । आदर इति यावत् । तत्कृतप्रकर्षयुक्तं यत् मननं मौनम् । तदेव मुनिशब्देन विधीयते। सादरमननमालम्बनसंशीलनं विधीयते इत्यर्थः, विध्यादिवत् । अत्रापि विधिशब्दः कर्मसाधनः । विधिश्चासावादिश्चेति समासः। विधेयादिवदित्यर्थः । प्रस्तुतमननापेक्षया आदिर्यो विधेयः। प्राक्तनो यो विधेयः । पाण्डित्यबाल्यलक्षणः । ततश्चायमर्थः, विद्याङ्गतया यथा वाल्यपाण्डित्ये विधीयते, एवमेवमुनिशमेनापि आलम्बनर्सशीलनलक्षणं सादरं मननं तृतीयं सहकारि विधीयते इत्यर्थः । यद्वा- विध्यादिवदित्यत्र विधिशब्देन विधेयं यज्ञदानाद्युच्यते। आदिपदग्राह्यं रागप्राप्तं श्रवणं मननं च । सहकार्यन्तरविधिरित्यत्र च सहकार्यन्तरेति पृथक्पदं लुप्तविभक्तिकम् । ततश्चायमर्थः-तृतीयं मौनं यत्-तद्यजनश्रवणमननवत् बाल्यपाण्डित्यापेक्षया सहकार्यन्तरं सत् अर्थान्तरं सद्विध्यर्हमित्यर्थः । पाण्डित्याभिन्नत्वे हि अनुवाच्यता स्यादित्यर्थः । ननु - बाल्यपाण्डित्यमौनशमादि नानाश्रमधर्मभूतयज्ञाद्यङ्गिकाया विद्यायाः सर्वेषु आश्रमेषु सम्भवात्, छान्दोग्ये अभिसमावृत्य कुटुम्बे शुचौ देशे इत्यारभ्य न खल्वेवं
वर्तयन् यावदापयुषं ब्रह्मलोकमिभसम्पद्यते न च पुनरावर्तते (छा.उ. ८-१५-१) इति गार्हस्थ्यधर्मेण उपसंहारः कथमित्यत्राह · कृत्स्नभावात्तु गृहिणोपसंहारः (ब्र.सू.३-४-४७) तु शब्दः पक्षं व्यावर्तयति । कृत्स्नेषु आश्रमेषु ब्रह्मविद्यायास्सन्द्भावात् छान्दोग्ये गृहस्थेन उपसंहारः उपलक्षणार्थः । यथा छान्दोग्ये गृहस्थधर्मकीर्तनमितराश्रमधर्मापलक्षणार्थम् । एवं बृहदारण्यके, भिक्षाचर्यं चरन्ति इति सन्न्यासिधर्मकीर्तनम् आश्रमधर्मान्तरोप- लक्षणार्थमित्याह - मौनवदितरेषामप्युपदेशात् (ब्र.सू.३-४-४८)। अत्र मौनशब्देन मौनसमभिव्याहृतसन्न्यासिधर्मभूतभिक्षाचरणादिकं लक्ष्यते। मौनवत् - सन्न्यासिधर्मवत् इतरोऽप्याश्रमधर्मो विद्याङ्गमित्यर्थः । इतरेषामप्याश्रमिणां ब्रह्मसंस्थोऽमृतत्वमेति इति ब्रह्मविद्याया मोक्षस्य चोपदेशात् इति स्थितम् । उषस्तकहोलब्राह्मणद्वयञ्चेदं गुणोपसंहारपादे अन्तरा भूतग्रामवत् स्वात्मानोऽन्यथा
भेदानुपपत्तिरिति चेन्नोपदेशवत् (ब्र.सू.३-३-३५) इत्यत्र चिन्तितम् । तत्र हि एतद्ब्राह्मणद्वयप्रतिपाद्यविद्ययोः भेदोऽस्ति, नेति विशये पूर्वपक्षी प्रत्यवतिष्ठते, अन्तरा
भूतग्रामवत् स्वात्मनोऽन्यथा भेदानुपपत्तिरिति चेत् इति। अन्तरशब्दाद्भावप्रधानात् सुपां
सुलक् इति तृतीयेकवचनस्य आकारादेशे अन्तरेति रूपम् । अन्तरा - अन्तरत्वेनेत्यर्थः । अन्तराशब्दो मध्यवचनोऽप्यस्ति। तयोरेकशेषेण सूत्रेऽयमन्तरेति निर्देशः । ततश्चायमर्थः- मध्ये उषस्तब्राह्मणे, एष त आत्मा सर्वान्तरः इति सर्वान्तरत्वेन निर्देशः भूतग्रामवत् स्वात्मनः, भूतग्रामवान् यः स्वात्मा - भूतग्रामशब्दिताचेतनान्तर्यामी यः प्रत्यगात्मा तद्विषयकः, यः प्राणेन प्राणिति इति प्राणितृत्वादिजीवधर्मस्य वाक्यशेषे कीर्तनात् । कहोलब्राह्मणं तु अशनायाद्यतीतत्वरूपपरमात्मलिङ्गात् परमात्मविषयकमेव । यदि ब्राह्मण द्वयमपि परमात्मविषयं स्यात् तर्ह्युषस्तेन पृष्टे प्रत्युक्ते च परमात्मस्वरूपे कहोलस्य पुनःप्रश्नः प्रतिवचनञ्चासङ्गतं स्यात् । अतो वेद्यभेदाद्विद्याभेद इति पूर्वपक्षे प्राप्ते - नोपदेशवत् । न वेद्य भेदो युज्यते । यत् साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरः इति मुख्यब्रह्मत्व- लक्षणसाक्षाद्ब्रह्मत्व ‘सर्वदेशसर्वकाल’सन्निहितत्व लक्षणापरोक्षत्वसर्वान्तर्यामित्वरूप सर्वान्तरत्वरूपपरमात्मलिङ्गविशिष्टविषयत्वेन प्रश्नद्वयस्याप्येकविषयत्वावश्यम्भावात् । यः प्राणेन प्राणिति इति वाक्यशेषश्रुतस्यापि निरुपाधिकसर्वप्राणिप्राणनहेतुत्वस्य परमात्मलिङ्गत्वात्, उत्तरत्र न दृष्टेर्द्रष्टारं पश्येः इत्यादिना इन्द्रियाधीन दर्शनादीनां कर्तारं प्रत्यगात्मानं प्राणनस्य कर्तृत्वेनोक्त इति न मन्वीथा इति प्रत्यगात्मव्यावृत्तेः प्रतिपादितत्वाञ्च उषस्तप्रश्नप्रतिवचनमपि परमात्मविषयमेव । अत एव कहोलप्रश्ने, यदेव साक्षा-
दपरोक्षाद्ब्रह्म इति एवकारेण पूर्वपृष्टाधिकविषयत्वं व्यावर्तितम् । नन्वेवं सति पुनः प्रश्नवैयर्थ्यमिति चेन्न-उपदेशवत् । यथा सद्विद्यायाम् उत तमादेशमप्राक्ष्यः (छां.उ.६-१-२) इति प्रक्रान्ते सदुपदेशे भगवांस्त्वेव मे तद्ब्रवीतु (छां.उ.६-५-७) भूय एव मा भगवान्
विज्ञापयतु (छां.उ.६-५-४) इति प्रश्नस्य, स एषोऽणिमैतदात्म्यमिदं सर्वम्
(छां.उ.६-८-७) इति प्रतिवचनस्य च भूयो भूय आवृत्तिः सतो ब्रह्मणः तत्तन्माहात्म्य- विशेषप्रतिपादनाय दृश्यते, तद्वत् एकस्यैव सर्वान्तरभूतस्य कृत्स्नप्राणिप्राणनहेतोः परस्य ब्रह्मणः अशनायाद्यतीतत्वादिरूपब्रह्मलिङ्गान्तरप्रतिपादनाय कहोलस्य पुनः प्रश्नोपपत्तेः । व्यतिहारो विशिंषन्ति हीतरवत् (ब्र.सू.३-३-३७) हि - यस्माद्धेतोः एकमेव परमात्मानं याज्ञवल्क्यवचनानि सर्वप्राणिप्राणनहेतुत्वाशनायाद्यतीतत्वादिधर्मः विशिषन्ति, तस्माद्धेतोः वेद्यैक्यात् विद्यै क्येन व्यतिहारः - ब्राह्मणद्वयश्रुतानां गुणानामितरेतरत्रोपसंहारः कर्तव्यः । इतरवत् - यथा सद्विद्यायां वेद्यैक्य प्रयुक्तविद्यैक्यबलात् भूय एव मा भगवान्
विज्ञापयतु इति, तथा सोम्येति होवाच इति प्रश्नप्रतिवचनभेदेऽपि सर्वप्रतिवचनगतानांसर्वेषां धर्माणां सर्वत्रोपसंहारः, तद्वत्। ननु सद्विद्यायामपि प्रश्नप्रतिवचनभेदात् भेद एवास्त्वित्यत्राह - सैव हि सत्यादयः
(ब्र.सू.३-३-३७) सैव हि - सच्छब्दाभिहिता देवतैव हि, तत् सत्यं स आत्मा इति श्रुता। सत्यत्वादयश्च धर्मः उद्दालको हारुणिः श्वेतकेतुं पुत्रमुवाच (छां.उ.६-८-१) इत्यारभ्य प्रवृत्तेषु नवस्वपि खण्डेषु अनुगताः दृश्यमानाः वेद्यैक्यमवगमयन्ति। अतो न दृष्टान्त- सिद्धिशङ्का कार्या इति स्थितम् । प्रकृतमनुसरामः ॥ १ ॥ ॥ इति पञ्चमाध्याये पञ्चमब्राह्मण प्रकाशिका ॥