०३-०४

बृहदारण्यकोपनिषत् तृतीयोऽध्यायः Part 4 [प्राणाधिष्ठातृप्रदर्शनम्] अथैतस्य प्राणस्यापश्शरीरं ज्योतीरूपमसौ चन्द्रः । तद्यावानेव प्राणस्तावत्य आपस्तावानसौ चन्द्रः । त एते सर्व एव समास्सर्वेऽनन्ताः । स यो हैतानन्तवतं उपास्ते, अन्तवन्तँ स लोकं जयति अथ यो हैताननन्तानुपास्ते अनन्तँ स लोकं जयति ॥ १३ ॥

प्र– अथैतस्य प्राणस्यापश्शरीरं इति । प्राणा वा आपः (तै.आर.६.२२) इति हि श्रुतिः । पानीयं प्राणिनां प्राणा विश्वमेव च तन्मयम् इत्यायुर्वेदविदः । अतः प्राणस्य आप एव आयतनम् । आधार इत्यर्थः । चन्द्रो ज्योतीरूपमधिष्ठाता प्राणस्य । अतो यत्र प्राणः, तत्र तदधिष्ठानमापः । अधिष्ठाता चन्द्रश्चास्तीत्यर्थः । त एते सर्व एव समास्सर्वेऽनन्ता इति । त एते - वाङ्मनःप्राणाः सर्व एव समाः । हस्तिमशकादीनां ‘सर्वेषां शरीरेषु समाः । यथा दीपप्रभा घटगृहप्रासादादिविषमपरिमाणाधारैः असम- परिमाणौ’ तत्तदाधारवशेन सङ्कोचविकासौ याति । तथा प्राणा अपि मशकमातङ्गादि- देहवशेन तत्तद्देहपरिमाणानुगुणसङ्कोचविकासौ यान्ति इत्यतः । प्राणाः सर्वशरीरेषु तत्तच्छरीरपरिमाणत्वेन समा इत्यर्थः । सर्वेऽनन्ताः । ‘आनन्त्यं च वाङ्मनःप्राणानाम्’ आकल्पस्थायित्वात् मनःप्राणवाग्व्यष्टिभेदाच्चेति द्रष्टव्यम् । तस्मात् फलार्थिना आनन्त्येनैव एते मनोवाक्प्राणा उपासनीयाः । अन्तवत्वेन उपासने तु तत्फलप्राप्तिरित्याह - स यो हैतानन्तवत उपास्ते इत्यादि । लोकं -कलम् । अन्तवन्तं लोकं जयति - उद्दिष्ट फलपूर्तिनः स्यात् इत्यार्थः । अनन्तं लोकं जयति - उद्दिष्टं फलं पूर्णं प्राप्नोति इत्यर्थः अत्रानन्तशब्दः चिरकालस्थायित्वाभिप्रायः । प्राणपादे हि सर्व एव समाः सर्वे अनन्ताः इत्यानन्यश्रवणान् प्राणशब्दितानाम् इन्द्रियाणाम् विभुत्वमिति पूर्वपक्षे प्राप्ते - अणवश्य (ब्र.सू.२-४-३) इति सूत्रेण सिद्धान्तितम्। तत्र तमुत्क्रामन्तं प्राणोऽनूत्क्रामति इत्यादिषु उत्क्रान्त्यादिश्रवणात् ‘परिच्छिन्नत्वे सिद्धे उत्क्रान्त्यादौ पार्श्वस्थैरनुपलभ्यमानत्वात् अणवश्य प्राणा भवन्ति । अनन्तानुपास्ते इत्यानन्त्यश्रुतिस्तु दर्शनश्रवणाद्यानन्तकार्यविशिष्टतया तदुपासनाविधिपरेति स्थितम्। प्रकृतमनुसरामः ॥ १३ ॥

[पुरुषस्य षोडशकलचन्द्र साम्यम्] स एष संवत्सरः प्रजापतिः षोडशकलः तस्य रात्रय एव पञ्चदशकला, ध्रुवैवास्य षोडशी कला । स रात्रिभिरेव आ च पूर्यतेऽप च क्षीयते । सोऽमावास्याँ रात्रिमेतया षोडश्या कलया सर्वमिदं प्राणभृदनुप्रविश्य ततः प्रातर्जायते । तस्मादेतां रात्रि प्राणभृतः प्राणं न विच्छिन्द्यादपि कृकलासस्यै तस्या एव देवताया अपचित्यै ॥ १४ ॥

प्र–स एष संवत्सरः प्रजापतिः इत्यादि । अत्र स एष इति सौम्यो वै देवतया पुरुषः इति श्रवणात् प्राणाधिदेवताभूतः पूर्वोक्तश्चन्द्रः परामृश्यते । अत एव च स प्रजापतिः इत्युच्यते । चन्द्रमाष्षड्ढो षता स ऋतून् कल्पयति इति प्रकारेण सर्वर्तुप्रवर्तकतया स एव च संवत्सरसंज्ञः । स तु षोडशकलः । तस्य - चन्द्रस्य तत्र पञ्चदशकलाः, रात्रय एव - रात्रि शब्दिताः तिथय एव । कथं पुनः कलानां तिथित्व- मित्यत्राह - स रात्रिमभिरेव च पूर्यतेऽप च क्षीयते इति । रात्र्यधीनोपचयापचयवत्वात् कलानां, कला रात्रय एव इत्युक्तिरौपचारिकी सङ्गच्छत इत्यर्थः । षोडशकलत्वेन उक्तस्य चन्द्रस्य पञ्चदशकलासु रात्र्यधीनोपचयापचयासु कथितासु षोडशीकला कि रूपा इत्यत्राह - ध्रुवैवास्य षोडशीकला इति । षोडश्याः कलायाः नाशाभावात् ध्रुवत्वमिति द्रष्टव्यम् सोऽमावास्यां रात्रिम् इत्यादि । सः - चन्द्रमाः अमवास्यां रात्रिं - अमावास्यायां रात्रौ एतया - ध्रुवत्वेन पूर्वोक्तया षोडश्या कलया सर्वमिदं प्राणभृत् - प्राणिजातमनुप्रविश्य ततः अपरेद्युः प्रातर्जायते इत्यर्थः । तस्मादेतां रात्रिं प्राणभृत इत्यादि । तस्मात् एतां रात्रिं - अमावास्यायां रात्रौ कृकलासस्यापि प्राणिनः प्राणं न विच्छिन्द्यात् - न हिंस्यात् । यस्य प्राणिनः हिंसा न निषिद्धा स्वल्पदोषा तादृशस्य ‘प्राणिनोऽपि’ कृकलासस्य प्राणं न हिंस्यात् । कस्य हेतोः? एतस्या एव - चन्द्ररूपाया देवतायाः सर्वप्राणिजातप्रविष्टायाः अपचित्यै - पूजायै पूजासिद्ध्यर्थमित्यर्थः । इतरथा तदपचारस्स्यादिति भावः ॥ १४ ॥

[षोडशकलचन्द्रविद्याफलम्] यो वै स संवत्सरः प्रजापतिः षोडशकलोऽयमेव स योऽयमेवंवित् पुरुषः । तस्य वित्तमेव पञ्चदशकलाः, आत्मैवास्य षोडशी कला । स वित्तेनैव आ च पूर्यतेऽप च क्षीयते । तदेतन्नभ्यं यदयमात्मा प्रधिर्वित्तम् । तस्माद्यद्यपि सर्वज्यानिं जीयते आत्मना चेज्जीवति, प्रधिनाऽगादित्येवाहुः ॥ १५ ॥

प्र. - षोडशकलचन्द्रविद्याफलमाह - यो वै संवत्सरः प्रजापतिः इति । अत्रापि संवत्सरप्रजापतिशब्दौ पूर्ववत् चन्द्रपरौ । योऽयमेवंवित् पुरुषः - पूर्वोक्तं संवत्सरत्व प्रजापतित्वादिगुणविशिष्ट चन्द्रवेत्ता सः अयमेव चन्द्र एव भवति इत्यर्थः ।कथं चन्द्रो भवति इत्यत्राह - षोडश कल इति । यथा चन्द्रः षोडशकलः, एवं तद्वेत्ता

पुरुषोऽपि षोडशकलो भवतीत्यर्थः । पुरुषस्य षोडशकलत्वमेव उपपादयति - तस्य वित्तमेव पञ्चदशकलाः आत्मैवास्य षोडशी कला, स वित्तेनैव आ च पूर्यतेऽप च क्षीयते इति । उपचयापचयाशालिगवादिवित्तं पञ्चदशकलास्थानीयम् उपचयापचय- शालित्वादेव आत्मा - शरीरं तु ध्रुवकलास्थानीयं वित्तवत् उपचयापचययोः पदे पदे अभावात् । अतः षोडशकलत्वं पुरुषस्य सम्भवतीत्यर्थः । आ च पूर्यते, अप च क्षीयते इत्यत्र व्यवधानं ‘छान्दसम् । आत्मशब्दितस्य शरीरस्योक्तं ध्रुवकलात्वमेवोपपादयति तदेतन्नभ्यं यदयमात्मा प्रधिर्वित्तम् इति । आत्मा- शरीरं नभ्यं -नााभिमर्हतीति नभ्यम्। ‘नाभेःनभं च (ग.सू.९५) इति नभादेशः । षोडशकलाविशिष्टचन्द्रवत् वित्तविशिष्टः पुरुषश्चक्रतुल्यः। तत्र शरीरं नाभिस्थानीयमिति यावत् । वित्तं तु प्रधिः

परिवारभूतमरनेमि स्थानीयमिति द्रष्टव्यम् इत्यर्थः । तदेव उपपादयति - तस्माद्यद्यपि सर्वज्यानिं जीयते’ आत्मना चेज्जीवति प्रधिनागादित्येवाहुः इति । ‘सर्वज्यानि . प्रति इति शेषः । ज्या वयो हानौ (धा.पा.१५००) ज्यानिः नाशः सर्वस्वनाशो यथा भवति तथेति यावत् । जीयते - श्यनि गृहिज्ये (पा.सू.६-१-१६) इति सम्प्रसारणम् । नश्यति इत्यर्थः । यस्मात् शरीरवित्ते नाभिप्रधिस्थानीये, तस्मादेव हेतोः पुरुषो यद्यपि सर्वज्मानिं जीमते पुरुषस्य सर्वस्वं नाशो यद्यपि भवति । तथापि आत्मना - शरीरेण चेज्जीवति तदा प्रधिना’ - प्रधिस्थानीयेन परिवारभूतेन वित्तेन अगात् - गतवान् । विनष्ट इत्येवाहुः शास्रज्ञाः न तु शरीरेण नष्ट इत्याहुः । अतः शरीरस्य ध्रुवकलात्वम् इत्यर्थः । अयमभिप्रायः । कान्तारे सर्वस्वापहरणेऽपि शरीरमात्रं जीवति चेत् सर्वं ‘चित्तमाप्स्यते षोडशकलपुरुष वेदो वित्तस्य चन्द्रकलावत् अपक्षयविनाशस्वभावत्वात् विद्यामहिम्ना स्वयमेव पूर्णं भविष्यतीति विद्वांस आहुरिति । अत एव व्यासार्यैः । तदर्थकथनदशायां तद्वेदनफलं चोक्तम् इत्युक्तम् । अतः अयं सन्दर्भः पूर्वोक्तषोडशकल चन्द्रविद्याफलप्रतिपादनपरो द्रष्टव्यः ॥ १५ ॥

[आत्मनः वित्तविशेषसम्पाद्याः लोकाः] अथ त्रयो वाव लोका मनुष्यलोकः पितृलोको देवलोक इति सोऽयं मनुष्यलोकः पुत्रेणैव जय्यो नान्येन कर्मणा । कर्मणा पितृलोको विद्यया पितृलोकः । देवलोको वै लोकानां श्रेष्ठः । तस्माद्विद्यां प्रशंसन्ति ॥ १६ ॥

प्र. - मनोवाक्प्राणानां प्रकारान्तरेण आत्मोपकारकत्वं दर्शयितुं पीठिकामारचयति . अथ त्रयो वाव लोकाः मनुष्यलोकः पितृलोकः देवलोक इति । अथ इत्युपकार. प्रकारान्तरोपन्ना से वावशब्दोऽवधारणे । स्पष्टोऽर्थः । सोऽयं मनुष्यलोक इति । उक्तेषु त्रिषु लोकेषु अयं मनुष्यलोकः ‘पुत्रेणैव जय्यः - प्रायः । न कर्मादिना इत्यर्थः । नान्येन कर्मणा इत्यत्र अन्येन इत्यस्य कर्मणा इति विवरणम् । कर्मणा इति विद्याया अप्यूपलक्षणं द्रष्टव्यम् । कर्मणा पितृलोको विद्यया देवलोक इति । केवलकर्मणा अन्तरिक्षलोकः प्राप्यो भवति । काम्यविद्याविशेषेण देवलोक प्राप्तिर्भवति इत्यर्थः । देवलोको वै लोकानां श्रेष्ठः तस्माद्विद्यां प्रशंसन्ति इति । अत्र देवलोकशब्दस्य भगवल्लोकपरत्वम्, विद्याशब्दस्य ब्रह्मविद्यापरत्वमपि स्वारसिकं’ द्रष्टव्यम् । यतो विद्याया एवं ‘श्रेष्ठभूतदेवलोक साधनत्वम् । अतः विद्यां , विद्वांसः प्रशंसन्ति - स्तुवन्ति इत्यर्थः ॥ १६ ॥

[सम्प्रत्तिकर्म] अथातः सम्प्रत्तिर्यदा प्रैष्यन् मन्यतेऽथ पुत्रमाह त्वं ब्रह्म त्वं यज्ञस्त्वं लोक इति। स पुत्रः प्रत्याह - अहं ब्रह्माहं यज्ञोऽहं लोक इति । यद्वै किञ्चानूक्तं तस्य सर्वस्य ब्रह्मेत्येकता । ये वै के च यज्ञास्तेषाँ सर्वेषां यज्ञ इत्येकता । ये वै के च लोकास्तेषाँ सर्वेषाँ लोक इत्येकता । एतावद्वा इदँ सर्वम् । एतन्मा सर्वं सन्नयमितोऽभुनजदिति । तस्मात् पुत्रमनुशिष्टं लोक्यमाहुः तस्मादेनमनुशासति । स यदैवंविदस्माल्लोकात् प्रैति, अथैभिरेव प्राणैः सह पुत्रमाविशति । स यद्यनेन किञ्चिदक्ष्णयाऽकृतं भवति; तस्मादेनँ सर्वस्मात् पुत्रो मुञ्चति । तस्मात् पुत्रो नाम । स पुत्रेणैवास्मिन् लोके प्रतितिष्ठति ॥ अथैनमेते दैवाः प्राणा अमृता आविशन्ति ॥ १७ ॥

प्र. - मनुष्यलोकस्य पुत्रेण ‘जय्यत्वप्रकारमाह’ - अथात; सम्पत्तिः इत्यादिना । सम्पत्तिः’ - सम्प्रदानम् । सम्प्रत्तिरिति वक्ष्यमाणस्य कर्मणः नामधेयम् । ‘पुत्रे हि’ स्वात्मव्यापारसम्प्रदानं करोति अनेन प्रकारेण पिता । तेन सम्प्रत्तिसंज्ञकमिदं कर्म । तत् कस्मिन् काले कर्तव्यमित्यत्राह - स यदा प्रैष्यन् मन्यते । स पिता यदा - यस्मिन्काले प्रैष्यन् मन्यते - अरिष्टदर्शनेन मरिष्यामि इति मन्यते । अथ तदा पुत्रमाह - पुत्रमाहूय आह इत्यर्थः । किमिति? त्वं ब्रह्म त्वं यज्ञः त्वं लोक इति । सः पुत्रः प्रत्याह

पितुरुक्तामुक्तिं प्रत्युत्तरयति । किमिति? अहं ब्रह्माऽहं यज्ञोऽहं लोक इति । अस्यार्थं श्रुतिरेव व्याचष्टे । तत्रत्वं ब्रह्मेति पितुः प्रथमवाक्यस्यार्थमाह - यद्वै किञ्च अनूक्तं तस्य सर्वस्य ब्रह्मेत्येकता इति । यत्किञ्चानूक्तं - अधीतमनधीतञ्च । तस्य सर्वस्यैव ब्रह्म इत्येतस्मिन् पदे एकता - एकत्वम् इत्यर्थः । योऽध्ययनव्यापारो मे कर्तव्य आसीत् एतावन्तं काल वेदविषयः । सः ब्रह्मशब्दार्थभूतः, इत ऊर्ध्वं त्वं - त्वमेव । त्वत्कर्तृकोऽस्तु इत्यर्थः । ते सर्वे त्वं यज्ञ इति पितुर्वाक्यं व्याचष्टे - ये वै के च यज्ञास्तेषां सर्वेषां यज्ञ इत्येकतेति । ये यज्ञाः ‘मया अनुष्ठिता’ अननुष्ठिताश्च । ते सर्वे त्वं यज्ञ इत्यत्र यज्ञ-शब्दस्यार्थः । ततश्च यो यज्ञादिव्यापारो मया अननुष्ठित एतावन्तं कालं, मे कर्तव्यः, स यज्ञशब्दार्थस्सर्वोऽपि त्वमेव - त्वदधीनोऽस्तु इति यावत् । अथ त्वं लोक इति तृतीयपितृवाक्यस्यार्थमाह - ये वै के च लोकास्तेषां सर्वेषां लोक इत्यैकतेति । ये के च लोकाः - जिता अजिताश्च लोकशब्दार्थः । ततश्च ये लोका मया एतावन्तं कालमजिताः जेतव्याश्च, लोकशब्दार्थभूताः ते सर्वे त्वमेव । त्वया साध्या इति त्वं लोक इत्यस्यार्थः इति भावः । अतः अहं ब्रह्म इत्यादि पुत्रवाक्यानामपि एवमेव पित्रुक्तवाक्यत्रयार्थाभ्युपगमोऽर्थ इति च भावः । अथैवं पुत्रं प्रतिवक्तुः पितुस्तात्पर्यम् आह श्रुतिः एतावद्वा इदं सर्वमेतन्मा सर्वं सन्नयमितोऽभुनजत् इति । लोके गृहिणां कर्तव्यं सर्वमिदं - वेदयज्ञलोकात्मकम् एतावद्वौ - एतावदेव । एतत्सर्वं

वेदयज्ञलोकात्मकम् अयं- पुत्रस्स्वयमेव भूत्वा स्वासम्पादितवेदयज्ञलोकच्छिद्रपूरको भूत्वेति यावत् । इमं भारं स्वात्मनि निधाय इतः - अस्माल्लोकात् मा- मां अभुनजत् - पालयिष्यति इत्यभिप्रायवान् पिता पुत्रायान्तकाले एवं ब्रवीति इति शेषः । ‘लृडर्थे लङ् इतिः मन्त्रव्याख्यासमाप्तौ । तस्मात्पुत्रमनुशिष्टं लोक्यमाहुः इति । तस्मात् - एवं त्वं ब्रह्मेत्यादि मन्त्रेण उक्तत्वात् एवं पित्रा अनुशिष्टं पुत्रं लोक्यं - लोकसाधनमाहुः । तस्मात्-

तथा तस्य पुत्रस्य लोक्यत्वसिद्धिहेतोः, लोक्यत्वसिद्ध्यर्थमिति यावत् । एनं - पुत्रम् अनुशासति पितर इति शेषः । एवमनुशासनस्य फलमाह - स यर्दैवित् अस्माल्लोकात् प्रैति

इत्यादि । एवंवित् - एवं पुत्रानुशासनं कृतवान् सः - पिता यदा अस्मात् लोकात् प्रैति - परलोकं गछति । अथ तदा एभिरेव - स्वीयैः प्राणैः वाङ्मनः प्रभृतिभिः पुत्रमाविशति

पुत्रो भूत्वा यज्ञादिकमयमेव करोति । ‘एवम् अनुशिष्टेन पुत्रेण कृर्तं- सर्व पुण्यं कर्म परलोकगतस्य पितुः स्वानुष्ठितसुकृतवत् उपकारकं भवति इत्यर्थः । किञ्च स यद्यनेन किञ्चिदक्ष्णया कृतं भवति तस्मादेनं सर्वस्मात् पुत्रो मुञ्चति इति । सः -एवमनुशिष्टः पुत्रः, यदि - कदाचित् अनेन - पित्रा किञ्चित्कर्तव्यम् अक्ष्णया - कोणच्छिद्रतः अन्तरा अकृतं - न कृतं भवति । तस्मात् - कर्तव्यरूपात् पित्रा अकृतात् लोकप्राप्तिप्रतिबन्धरूपात् ‘सर्वस्मात् पुत्रः मुञ्चति - मोचयति । पित्रा यद्यन्नकृतं तत्तत्सर्वं स्वयमनुतिष्ठन् पितुर्न्यूनतां पूरयित्वा तेन पूरणेन त्रायते इति भावः । तस्मात्पुत्रो नामेति । एवमनुशिष्टः पुत्रोऽपि पूर्वोक्तरीत्या पूरणेन पितुस्रा णात् पुत्रो नाम भवति इत्यर्थः। ततश्च एवमनुशासनग्रहणं तथानुष्ठानं च पुत्रस्य, न केवलं पितुरेव उपकारकं, किन्तु पुत्रस्यापि । अन्यथा हि तस्य पुत्रत्वसिद्धिरेव न स्यादिति भावः । उपपादितं पुत्रेण मनुष्यलोकजयप्रकारं निगमयति स पुत्रेणैव अस्मिल्लोके प्रतितिष्ठति इति । सः- पिता एवंविधेन’ पुत्रेण मृतोऽपि सन्, अमृतः अस्मिन्नेव लोके ‘प्रतितिष्ठति । एवमसौ पिता पुत्रेण मनुष्यलोकं जयति इति भावः । एवं पूर्वप्रतिज्ञातार्थेषु पुत्रेण पितुः मनुष्यलोकजयप्रकारमुक्त्वा अवशिष्टम्, कर्मणा पितृलोको विद्यया देवलोकः इत्युक्तमर्थमुपपादयितुं प्रस्तौति । अथैनमेते देवाः प्राणा अमृता आविशन्ति इति । अथ एनं - एवं पुत्रे निक्षिप्त भारं परलोकगतं ‘पुण्यविद्या-कर्माणं’ पुरुषम् अमृताः - अमोघाः, तत्र हेतुः दैवाः - मानुषेन्द्रियविलक्षणाः प्राणशब्दवाच्या मन आदयः आविशन्ति इत्यर्थः ॥ १७ ॥

[सम्प्रत्तिकर्मणः फलम्] पृथिव्यै चैनमग्नेश्च दैवी वागाविशति । सा वै देवी वाक्, यया यद्यदेव वदति तत्तद्भवति ॥ १८ ॥ प्र - तदेव प्रपञ्चयति - पृथिव्यै चैनमग्नेश्च दैवी वागाविशति । पृथिव्यै चेति चतुर्थी पञ्चम्यर्था । ‘अग्ने’रित्यन्तरदर्शनात् । पृथिव्याश्च अग्नेश्च दैवी वाक् एनं - परलोकगतं पुरुषमाविशति इत्यर्थः । एतस्यै वाचः पृथिवी शरीरं ज्योतीरूपमयमग्निरिति प्रागुक्तेः वाचः पृथिव्यायतनकत्वात् अग्नयधिष्ठितत्वाच्च । ताभ्यां हेतुभ्यां दैवी वाग् आविशति इति भावः । दैव्या वाचः लक्षणमाह - सा वै दैवी वाग्यया यद्यदेव वदति तत्तद्भवति इति । यया वाचा यद्यद्वदत्यनुकूलं प्रतिकूलं वा तत्तद्भवत्येव चेन्नियमेन सा दैवी वाक् - शापानुग्रहादिसमर्था वाक् दैवीत्यर्थः ॥ १८ ॥ दिवश्चैनमादित्यच्च दैवं मन आविशति तद्वै दैवं मनो येनानन्द्येव भवत्यथो न शोचति ॥ १९ ॥

प्र– दिवश्चैनमादित्याच्च दैवं मन आविशति इति । अर्थतस्य मनसो द्यौश्शरीरं ज्योतीरूपमसावादित्य इति पूर्वमुक्तत्वात् मनसः अधिष्ठानभूताया दिवः . आकाशात्, अधिष्ठातुः आदित्याच्च हेतोः एनं - परलोकिनं पुण्यकर्माणं दैवं मन आविशति इत्यर्थः । देवमनसोः लक्षणमाह - तद्वै दैवं मनो येनाऽऽनन्येव भवत्यथो न शोचति

इति । येन मनसा पुरुषः सदा सुखीभवति, न च शोकं प्राप्नोति; तद्दैवं मनः

अमोघसङ्कल्पम् आनन्दैककारणं मनो दैवं मन इत्यर्थः ॥ १९ ॥ अभ्द्यश्चैनं चन्द्रमसश्च दैवः प्राण आविशति । स वै देवः प्राणो यः सञ्चरश्चासञ्चरंश्च न व्यथतेऽथो न रिष्यति । स एवंवित्सर्वेषां भूतानामात्मा भवति यथैषा देवतैवं स यथैतां देवतां सर्वाणि भूतानि अवन्त्येवं हैवंविदं सर्वाणि भूतानि अवन्ति । यदु किञ्जेमाः प्रजाः शोचन्त्यमैवासां तद्भवति । पुण्यमेव अमुं गच्छति । न ह वै देवान् पापं गच्छति ॥ २० ॥

प्र– अभ्द्यश्चैनं चन्द्रमसश्च दैवः प्राण आविशति इति । अथैतस्य प्राणस्यापश्शरीरं ज्योतीरूपमसौ चन्द्र इति पूर्वम् उक्तत्वात्, अधिष्ठानभूताभ्योऽभ्द्यः अधिष्ठातुः चन्द्राच्च हेतोः एनं - परलोकिनं दैवः प्राण आविशति इत्यर्थः । तस्य लक्षणमाह - स वै देवः प्राणो यः सञ्चरंश्चासञ्चरंश्च न व्यथतेऽथो न रिष्यति इति । अत्र असञ्चरन् इति दृष्टान्तार्थम् । यथा - असञ्चरन् न व्यथते - न श्रान्तो भवति । तथा सञ्चरन्नपि यो न व्यथते, अथो - अपि च न रिष्यति - रिङ्क्षये न नश्यति, स वै - स एव दैवः प्राण इत्यर्थः । अप्रतिहतगमनादिव्यापारहेतुः हिंसानर्हः प्राणो दैवः प्राण इति भावः । ‘पृथिव्यग्निव्द्यादित्याप्चन्द्ररूपदेवताप्रसादादेवास्य मनोवाक्प्राणाः एवं विधा भवन्ति इत्यर्थः । एवं जीवोपकरणानां तेषां मनोवाक्प्राणानां परलोके आत्मोपकारकत्व- शक्तयतिशयमुक्त्वा’ एवंविदः फलमाह - स एवंवित्सर्वेषां भूतानामात्मा भवति, यथैषा देवतैवम् इति । यथा एषा पूर्वोक्ता वागिन्द्रियादिदेवता सर्वेषां भूतानामात्मा भवति । अत्र वाङ्मनःप्राणदेवतानां सर्वभूतात्मवत्वं नाम सर्वभूतान्तर्वर्तिज्ञानतत्प्रेरणसामर्थ्यम् । एवं सः

अयमपि भवति, य एवं वित् । प्राणादीनां परलोके आत्मोपकारकत्वशक्त्यतिशयं जानन् सर्वभूतात्मा भवति इत्यर्थः । अत्र एषा देवता इति जातावेकवचनम्, पृथिव्यग्नयादित्यानां बहुत्वात् इति द्रष्टव्यम् । स यथैतां देवतां सर्वाणि भूतानि अवन्ति इति । स यथा - स दृष्टान्तो यथा, एवमेव इदमित्यर्थः । तदेव विवृणोति - एताम् इत्यादिना । एताम् - वागादिदेवतां यथा सर्वेपि जन्तवः अवन्ति - अव रक्षणगति कान्त्यादिषु (धा.पा.६००) पूजयन्ति इत्यर्थः । एवं विदं - पूर्वोक्तवागाद्युपकारविशेषविदमप्येवमेव सर्वाणि भूतानि पूजयन्ति इत्यर्थः । ननु एवं विदः सर्वभूतप्रेरकत्वे तानि तानि भूतानि तत्तत्पापकर्मसु प्रेरयतः तस्य तत्पापं प्रसज्येत इत्याशङ्क्याह - यदु किञ्चेमाः प्रजाः शोचन्त्यमैवासां तद्भवति इति । यदु - यस्माद्वागादिदेवतोपासकप्रेरणप्रयुक्तादेव पापाद्धेतोः इमाः प्रजाः किञ्च - किञ्चन शोचन्ति तत् - प्रजाशोकनिमित्तं पापं आसां प्रजानामेव भवति । अमा -सह, सद्य इत्यर्थः । अमा सह समीपे च (अ.को.३-३-२५०) इति नैघण्टुकाः । नत्वेवंविदः प्रेरयितुरपि तत्पापं भवति इत्यर्थः । तत्र हेतुमाह - पुण्यमेवामुं गच्छति इति । यस्मात् अमुं - उपासकं पूर्वोक्तगुणविशिष्टवागाद्युपासनप्रयुक्तं पुण्यमेव गच्छति-

प्राप्तम् , तेन च पुण्येनायं पूर्वोक्तवागादिदेवतासायुज्यं प्राप्तः, अतः तद्देवतावदेव अस्यापि न पापसम्बन्धगन्ध इत्यर्थः । दार्ष्टान्तिके उक्तार्थसिद्ध्यर्थं दृष्टान्तं शिक्षयति न ह वै देवान् पापं गच्छति इति । तत्तत्पापकर्मसु प्रवर्तकानामपि इन्द्रियाधिष्ठातृदेवतानां’ यथा तत्पापं न प्राप्नोति - तादृशो महिमा हि तेषाम् । अतः तद्वदेव तद्विदोऽपि तत्सायुज्यं प्राप्तस्य न सर्वभूतप्रेरणकृतपापप्रसक्तिरिति भावः ॥ २० ॥

[मुख्यप्राणस्य श्रेष्ठत्वप्नदर्शनम्] अथातो व्रतमीमाँसा - प्रजापतिर्ह कर्माणि ससृजे । तानि सृष्टान्यन्यो- न्येनास्पर्धन्त । वदिष्याम्येवाहमिति वाग्दध्ने । द्रक्ष्याम्यहमिति चक्षुः । श्रोष्याम्यहमिति श्रोत्रम् । एवमन्यानि कर्माणि यथाकर्म । तानि मृत्युश्श्रमो भूत्वोपयेमे । तान्यानोत् । तान्याप्त्वा मृत्युरवारुन्धत् । तस्माच्छ्राम्यत्येव वाक्, श्राम्यति चक्षुः, श्राम्यति श्रोत्रम् । अथेममेव नाप्नोत्, योऽयं मध्यमः प्राणः । तानि ज्ञातुं दध्निरे अयं वै नः श्रेष्ठो यः सञ्चरँश्चासञ्चरँश्च न व्यथते, अथो न रिष्यति । हन्तास्यैव सर्वे रूपमसामेति । त एतस्यैव सर्वे रूपमभवन् । तस्मादेत एतेनाख्यायन्ते प्राणा इति । तेन ह वाव तत्कुलमाचक्षते यस्मिन् कुले भवति, य एवँ वेद; य उ हैवंविदा स्पर्धते, अनुशुष्य हैवान्ततो म्रियते इत्यध्यात्मम् ॥ २१ ॥

प्र. -‘एवमत्र’ वाङ्मनःप्राणानां साधारण्येन उपास्यत्वमुक्तम् । तत्र प्राणस्य श्रैष्ट्यनिर्धारणाय आरभते - अथातो व्रतमीमांसा इति । अथ - अनन्तरम् अतः - एतावत्पर्यन्तं सामान्येन वाङ्मनःप्राणानाँ त्रयाणामप्युपासनस्य उक्तत्वात् व्रतस्य - उपासनात्मकव्रतस्य मीमांसा - विचारः । प्रवर्तत इति शेषः । एतेषां प्रयाणां मध्ये किं विषयकमुपासनं मुख्यतया कर्तव्यमिति विचार्यत इति यावत् । प्रजापतिर्ह कर्माणि ससृजे इति । हः - प्रसिद्धौ । प्रजापतिः - चतुर्मुखः, प्रजापतिशब्दमुख्यार्थः सर्वेश्वरो

वा चतुर्मुखद्वारा कर्माणि - कर्मज्ञानेन्द्रियाणि व्यष्टिरूपाणि ससृजे - सृष्टवान् इत्यर्थः तानि सृष्टान्यन्योन्येनास्पर्धन्त । एवं सृष्टानि तानि - इन्द्रियाणि परस्परं स्वस्व व्यापाराधिक्याभिमानेन स्पर्धां कृतवन्ति इत्यर्थः । कथं? वदिष्याम्येवाहमिति वाग् दध्रे इति । ‘धृङ् अवस्थाने (धा.पा.४१३) इति हि धातुः । अहमेव वदिष्यामि, नान्यः कश्चिन्मत्तः वक्तुं समर्थ इति वाक् दध्रे - अभिमन्यमाना स्थितवती इत्यर्थः । द्रक्ष्याम्यहमितिचक्षुः इत्यादि । स्पष्टोऽर्थः । एवमन्यानि कर्माणि यथाकर्म इति । एवं अहमेव स्प्रक्ष्यामि, अहमेव गृह्णामि इत्यादि प्रकारेण अन्यान्यपि कर्माणि . इन्द्रियाणि यथाकर्म - यथा स्वविषयमभिमन्यमानानि’ अवस्थितवन्ति इत्यर्थः ।तानि मृत्युः श्रमो भूत्वोपयेमे इति । तानि - एवं दुरभिमानेनाविरतं स्वस्वव्यापारेषु वर्तमानानि वाक् चक्षुरादीनि मृत्युः - व्यापारनिरोधको देवताविशेषः श्रमोभूत्वा । ग्लानिरूपस्सन् उपयेमे - समीपं प्राप्त इत्यर्थः । तान्याप्नोत् - श्रमरूपो मृत्युः तानि - इन्द्रियाणि आप्नोत् - प्राप्तवान् । तान्याप्त्वा मृत्युरवारुन्धत् । तानि - इन्द्रियाणि आप्त्वा

प्राप्य अवारुन्धत् - अवरोधं कृतवान् । कार्यासमर्थानि अकरोत् इत्यर्थः । अत्र उपयेमे आप्नोत्, अवारुन्धत् इति क्रमोक्तिः, श्रमस्य क्रमाभिवृद्ध्या कार्या सामर्थ्यप्रयोजकता- भिप्रायेणेति द्रष्टव्यम् । अत्र प्रत्यक्षं प्रमाणयति - तस्मात् श्राम्यत्येव इत्यादिना । श्राम्यति श्रमं प्राप्नोति इत्यर्थः । निरन्तरव्यापारे वागादीनां श्रमप्राप्तिः अद्यापि दृश्यमानापूर्वमप्येवमेव समभवत् इत्यर्थे ज्ञापिका इत्यर्थः । वागाधुक्तिः सर्वेन्द्रियोपलक्षणार्था । अथ विवक्षितं मुख्यप्राणस्य श्रेष्ठ्यं वक्तुं तस्य इन्द्रियेभ्यः वैलक्षण्यमाह - अथेममेव नाप्नोद्योऽयं मध्यमः प्राण इति । योऽयं

प्रसिद्धः मध्यमः - देहमध्ये ‘वर्तमानः प्राणः, तमेव’, निरन्तरमुच्छ्वासादिव्यापारे वर्तमानमपि वागादीनिव श्रमो नाप्नोत् इत्यर्थः । अद्यापि हि प्राणस्य उच्छ्वासादौ श्रमाभावो दृश्यते अत एवेति भावः । तानि ज्ञातुं दध्रिरे । तानि - ‘श्रान्तानि वागादीनीन्द्रियाणि’, अस्माकं निरन्तरं व्यापारं कुर्वतां मध्ये यं श्रमरूपो मृत्युः न प्राप्तः, स श्रेष्ठो भविष्यति । अतः अस्मासु श्रमरहितः कः श्रेष्ठः इति ज्ञातुं दध्रिरे - निश्चयेन ‘प्रवृत्तानि’ इत्यर्थः । धृङ् अवस्थाने (धा.पा. ६००) इति हि धातुः । अयं वै नः श्रेष्ठो य इत्यादि । एवं ज्ञातुं प्रवृत्तानि इन्द्रियाणि अस्माकं निरन्तरव्यापारेऽप्यश्रमं मुख्यप्राणं दृष्ट्वा इति चिश्चितवन्तः । किमिति ? अयं वै - अयमेव मुख्यःप्राणः नः - अस्माकं प्राणानां मध्ये श्रेष्ठः । यतोऽयं सञ्चरन्नपि असञ्चरन्निव न व्यथते - न श्रमं प्राप्नोति । अत्र असञ्चरन्निति दृष्टान्तार्थम् । अथो शब्दः अप्यर्थः । न रिष्यति न हिंस्यतेऽपि । ‘रुष रिष हिंसायाम् (धा.पा. ६९३, ६९४) इति हि धातुः । हन्त इत्यनुरूपप्रधानलाभजे हर्षे । तस्मादयमेव अस्माकं श्रेष्ठ इति हेतोरस्यैव मुख्यप्राणस्य सर्वे वयं वागादयो रूपमसाम - तदैधीनप्रवृत्तयो भवेम इति - इत्येवं निश्चित्य ते सर्वे वागादयः एतस्यैव - मुख्यप्राणस्य रूपमभवन् तदधीनवृत्तयोऽभवन् इत्यर्थः ॥ अत एव त इन्द्रियाणि (ब्र.सू.२-४-१५) इत्यधिकरणे सर्वेन्द्रियाणां मुख्यप्राणाधीनवृत्तित्वेन वृत्तिवैलक्षण्यात् न मुख्यप्राणस्य इन्द्रियान्तर्भाव इत्युक्तम् । तथा हि तत्र किं सर्वे प्राणशब्दनिर्दिष्टा इन्द्रियाणि उत मुख्यप्राणव्यतिरिक्ता एवेति विशये जीवोपकरणत्वाविशेषात्, प्राणशब्दवाच्यत्वाविशेषाच्च मुख्यप्राणाश्च इन्द्रियाणि इति पूर्वपक्षे प्राप्ते - त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् (ब्र.सू.२-४-१५), भेदश्रुतेर्वैलक्षण्याच्च (ब्र.सू.२-४-१६) इति सूत्रद्वयेन सिद्धान्तितम् । अयमर्थः - त एव वागादय इन्द्रियाणि न तु श्रेष्ठप्राणः । ततः श्रेष्ठ प्राणादन्यत्रैव - इतरेष्वेव, इन्द्रियाणि दशैकञ्च (भ.गी.१३-५) इति इन्द्रियत्वव्यपदेशात् । किञ्च भेदश्रुतेः - एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च (मुं.उ.२-१-३) इति प्राणापेक्षया इन्द्रियाणां भेदव्यपदेशात् न श्रेष्ठः प्राण इन्द्रियम् । न च तत्रैव मनस्सर्वेन्द्रियाणि च, इति मनसोऽपि भेदव्यपदेशात् इन्द्रियत्वाभावः शक्यशङ्कः । मनष्षष्ठानीन्द्रियाणि (भ.गी.१५-७) इन्द्रियाणि दशैकं च (भ.गी.१३-५) इत्यादिनां मनसः इन्द्रियान्तर्भावग्राहकप्रमाणानां परोक्तरीत्या गामग्निं ब्राह्मणञ्चैव त्रीणि तेजांसि न स्पृशेत्’ इत्यत्र अतेजोभ्यां गोब्राह्मणाभ्यां तेजस्सङ्ख्यापूरणवत्; वेदानध्यापयामास महाभारतपञ्चमान् (महा.भा.आदि.५७-७४) इत्यादौ अवेदेन भारतेन वेदसङ्ख्या पूरणवच्च अनिन्द्रियेण मनसा इन्द्रियसङ्ख्यापूरकतया अन्यथासिद्धत्वेऽपि इन्द्रियाणां मनश्चास्मि (भ.गी.१०-२२) इत्यनन्यथासिद्धप्रमाणसद्भावेन मनस इन्द्रियत्वध्रौव्यात्; मुख्यप्राणे इन्द्रियत्वग्राहक प्रमाणाभावाञ्च अतः प्राणो मनस्सर्वेन्द्रियाणि (मुं.उ. २-१-३) इति श्रुतौ प्राणे . गोबलीवर्दन्यायावतारः। । मनसि तु तदवतारोऽस्त्येवेति द्रष्टव्यम् । वैलक्षण्याच्च । एतस्यैव सर्वे रूपमभवन् इति ‘चक्षुरादीना तदधीनप्रवृत्तित्वलक्षणकार्य’वैलक्षण्यदर्शनाञ्च इन्द्रियेभ्यो भिन्न एव प्राण इति । प्रकृतमनुसरामः । तस्मादेते एतेनाख्यायन्ते प्राणा इति इति । यस्मात्कारणात् वागाद्याः प्राणस्यैव रूपमभवन् , तस्मात् एते - वागादयः एतेन - प्राणनाम्नैव प्राणा इत्येव उच्यन्ते । अतो मनोवागाद्यपेक्षया प्राणस्यैव श्रैष्ठ्यमिति स एव मुख्यतया उपास्य इति भावः। एवमध्यात्मोपास्यविषयमीमासां परिसमाप्योपासकस्य फलमाह - तेन ह वाव तत्कुलमाचक्षते यस्मिन् कुले भवति य एवं वेद इति । यः एवं - पूर्वोक्तप्रकारेण ‘मुख्यप्राणं वेद, स यस्मिन् कुले भवति - जायते तत् कुलं तन्नाम्नैव - प्रसिद्धमाचक्षते’; यथा रघुकुलं यदुकुलमिति । कुलश्रेष्ठो भवतीति यावत् । य उ हैवं विदा स्पर्धते , अनुशुष्य हैवान्ततो म्रियते इति । उ शब्दोऽधारणे । ह शब्दः प्रसिद्धौ । यः पुमान् एवंविदा

‘उक्तगुणविशिष्टप्राणविदा साकं स्पर्धते, सः अनुशुष्यैव - शुष्को भूत्वा अन्ततः . बहुकालेन म्रियते, चिरकालं रोगादिशुष्कशरीरो म्रियते - न सहसा इत्यर्थः । - प्रसिद्ध प्राणोपासनमाहात्म्यमित्यर्थः । इत्यध्यात्मम् - ‘प्राणोपासनप्रकार उक्त इति शेषः ॥ २१ ॥

[देवताविषयक उपासनाप्रकारः, वायोः श्रेष्ठत्वकथनम्] अथाधिदैवतम् - ज्वलिष्याम्येवाहमित्यग्निर्दघ्रे, तप्स्याम्यहमित्यादित्यो भास्याम्यहमिति चन्द्रमाः । एवमन्या देवता यथादैवतम् । स यथैषां प्राणानां मध्यम प्राणः, एवमेतासां देवतानां वायुः । म्लोचन्ति ह्यन्या देवताः, न वायुः । सैषानस्तमिता देवता यद्वायुः ॥ २२ ॥

प्र. - अथाधिदैवतम् । उपासनाप्रकार उच्यते इति शेषः । ज्वलिष्याम्येवाह- मित्यग्निर्दध्रे । अहमेव ज्वलिष्यामि; मत्समः कोऽपिज्वलनव्यापारे नास्तीति अग्निः - दध्रे - धृतवान् ; चिश्चित्य निरन्तरज्वलनपरो बभूव इत्यर्थः । तस्याम्यहमित्यादित्यो भास्याम्यहमिति चन्द्रमाः इति । स्पष्टोऽर्थः । एवमन्या देवता यथादैवतम् इति । एवमेव अन्याः - श्रोत्राद्यभिमानिन्यः दिगादिदेवताः यथादैवतम् - तत्तद्देवतावृत्तिमनतिक्रम्य अभि’मेनिरे’; तथा निरन्तरं स्वस्वव्यापारपराश्चाश्चाभूवन् इत्यर्थः । स यथैषां - यथा अध्यात्मम् इतरेषां ‘वागादि प्राणानां’ मध्ये हृदयमध्यवर्ती सः - पूर्वोक्तमुख्यप्राणः श्रेष्ठः

एवमधिदैवतम् इतरासाम् अग्निसूर्यादिदेवतानां मध्ये वायुः ‘श्रेष्ठः इत्यर्थः । तत्र हेतुमाह - म्लोचन्ति ह्यन्या देवताः न वायु रिति । इतरा अग्निसूर्याद्याः देवताः म्लोचन्ति

अस्तं गच्छन्ति; न वायुः । तस्य अहोरात्रमेकरूपत्वादिति भावः । सैषानस्तमित इति । यद्वायुः - यदितिलिङ्गव्यत्ययः छान्दसः । यो वायुरित्युच्यते, सैषानस्तमिता देवता । तस्मादधिदैवतं वायुरेव श्रेष्ठत्वेन निर्धारितः पूर्ववदग्निसूर्यादिभिः देवतैः । अतः प्राधान्येन स एव उपास्य इति भावः ॥ २२ ॥

[प्राणनापाननविधानम्]

अथैष श्लोको भवति- यतश्चोदेति सूर्योस्तं यत्र च गच्छतीति ।

प्राणाद्वा एव उदेति प्राणेऽस्तमेति । तं देवाश्चक्रिरे धर्म स एवाद्य स उ श्व इति । यद्वा एतेऽमुर्ह्यघ्रियन्त तदेवाप्यद्य कुर्वन्ति । तस्मात् एकमेव व्रतमाचरेत् - प्राण्यावाच्चैवापान्याच्य, नेन्मा पाप्मा मृत्युराप्नुवदिति । यद्यु चरेत् समापिपयिषेत् । तेनो एतस्यै देवतायै सायुज्यँ सलोकतां जयति ॥ २३ ॥ ॥ इति तृतीयोध्याये पञ्चम ब्राह्मणम् ॥

प्र. - उक्तार्थे साक्षितया मन्त्रं पठितुमाह - अथैष श्लोको भवति इति । प्रकृतविषये अयं श्लोकः ‘संवादको भवतीत्यर्थः । यतश्चोदेति सूर्योऽस्तं यत्र च गच्छति इत्यमुं पठितं श्लोकार्धं स्वयमेव व्याचष्टे श्रुतिः, प्राणाद्वा एष उदेति प्राणेऽसमेति इति । अत्र प्राणशब्दार्थो वायुः । वायुप्रेरणाधीनत्वात् आदित्यादिगतेः अग्न्यादित्यादेरुदयास्तमयौ वाय्वाधीनौ इत्यतो वायोरेव भवतः इति भावः । श्लोकस्य उत्तरार्धमाह - ‘तं देवाश्चक्रिरे धर्म स उ श्व इति इति । तं - प्राणमेव देवाः - अध्यात्मं वागादयः, अधिदैवतम् अग्न्यादित्यादयश्च धर्मं चक्रिरे - प्राणोपासनमेवः श्रेयस्साधनमिति निश्चितवन्तः । अतः स एव धर्मः अद्याप्यनुष्ठेयः, श्वोऽप्यनुष्ठेयः इति । अमुमेवमन्त्रोत्तरार्धस्य अर्थं स्वयं संक्षिप्याह श्रुतिः - यद्वा एतेऽमुर्ह्यघ्रियन्त तदेवाप्यद्य कुर्वन्ति इति । वै शब्दोऽवधारणे यत् - यस्मात्कारणात् एते वागाद्याः देवाः अमुर्हि - अमुष्मिन् काले मुख्यप्राणम् अघ्रियन्त - उपास्यत्वेन अवधृतवन्तः, तस्मादद्यापि तदेव कुर्वन्ति - मुख्यप्राणोपासनमेव अनुतिष्ठन्ति इत्यर्थः । एवं श्रुतिः मीमांसां परिसमाप्य तत्र निश्चितमर्थमाह - तस्मादेकमेवव्रतं चरेत्

इति।तस्मात् -उक्तहेतुभिः एकं व्रतं -मुख्यप्राणोपासनमेव चरेत् -आचरेत् अनुतिष्ठेत् इत्यर्थः । एवं मुख्यप्राणोपासनप्रकारं विधाय, अथ तत्प्रकारकमाह . प्राण्याच्चैवापान्याच्च, नेन्मा पाप्मा मृत्युराप्नुवदिति इति । उक्तप्राणोपासनारम्य- समये प्राण्यादपान्याच्चैव - प्राणनापानने - रेचकपूरके उपासनाङ्गतया कुर्यात् । किमर्थम्? मां - माम् इच्छब्दोऽवधारणे पाप्मा पापरूपः श्रमरूपो मृत्युः नाप्नुवत् - शत्रन्तोयं शब्दः, मा नावाप्नुयात् इति बुद्ध्या इत्यर्थः । अन्यथा प्राणनापाननाकरणे श्रमेण व्यापारावरोधः स्यादिति भावः । किञ्च यद्यु चरेत् समापिपयिषेत् । यदीदं प्रथममुपक्रमेत् तर्हि समापिपयिषेत् समापनं कर्तुमिच्छेत् - समापनं कुर्यादेव मध्ये विच्छेदं न कुर्यात् इत्यर्थः । एवं साङ्गमुपासनमुक्त्वाऽथ तत्फलमाह - तेनो एतस्यै देवतायै सायुज्यं सलोकतां जयति इति । उ शब्दोऽवधारणे । एतस्यै देवतायै

इति विभक्तिव्यत्ययश्छान्दसः । एतस्या देवताया इत्यर्थः । तेन - अनुष्ठितेन ‘प्राणोपासनेन एतस्याः प्राणदेवताया ‘एव सायुज्यं समानगुणयोगं सालोक्यञ्च प्राप्नोति इत्यर्थः ॥ २३ ॥ ॥ इति तृतीयाध्याय पञ्चमब्राह्मण प्रकाशिका ॥ तृतीयाध्याये षष्ठं ब्राह्मणम् [आत्मनः नामरूपकर्मत्रयात्मत्वम्]

त्रयं वा इदं नाम रूपं कर्म । तेषां नाम्नाम् वागित्येतदेषामुक्थम् ।अतो हि सर्वाणि नामान्युत्तिष्ठन्ति । एतदेषाँ साम ; एतद्धि सर्वैर्नामभिस्समम् । एतदेषां ब्रह्म । एतद्धि सर्वाणि नामानि बिभर्ति ॥ २ ॥

प्र- त्रयं वा इदं नामरूपं कर्म इति । चेतनाचेतनात्मके जगति इदं -. परिदृश्यमानम् अचेतनात्मकं जगत् त्रयमेव । किं तत्? नामरूपं कर्मेति । अत्र कर्म . जीवीयपुण्यपापात्मकम् अचेतनस्य नामरूपात्मकपरिणामे कारणम् । तत्कार्य

देवमनुष्यादिनामरूपात्मकं जगत् - एतत्त्रितयरूपमेव इत्यर्थः । तेषां - नामरूपकर्मणां

मध्ये एषां नाम्नां देवो मनुष्या घटः पट इत्यादीनां वागिति शब्दनिर्दिष्टमेतत् - ‘वागिन्द्रियात्मकं वस्तु उक्थं - ‘उत्पादनमित्यर्थः । तदेव प्रदर्शयति - अतो हि सर्वाणि नामान्युत्तिष्ठन्ति

इति । वागिन्द्रियाधीनत्वात् सर्वेषां नाम्नाम् अभिलापस्य अतः - वागिन्द्रियादेव सर्वाणि नामानि अनुतिष्ठन्ति - जायन्ते इति हि - प्रसिद्धमित्यर्थः । कथमेकेन वागिन्द्रियेण अनन्तानाम् अभिलाप इत्यत्राह - एतदेषां साम इति । वागित्येतत् एषां - सर्वेषां नाम्नां साम इत्यर्थः । तत्र सामपदार्थं विवृण्वन् एतदुपपादयति - एतद्धि सर्वेर्नामभिस्समम्

इति । कार्यानुरूपत्वात् कारणस्य सर्वैर्नामभिः समं - सर्वनामानुरूपमेव वागिन्द्रियम् इत्यर्थः । समत्वमेव सामत्वमिति भावः । एतदेषां ब्रह्म इति । वागित्येतदेषां नाम्नां ब्रह्म इत्यर्थः । ‘ब्रह्मशब्दार्थविवरणेन एतदुपपादयति’ - एतद्धि सर्वाणि नामानि ‘बिभर्ति

इति । भर्तृत्वमेव बृहत्वरूपं ब्रह्मत्वम् । अतः एतत् - वागिन्द्रियं सर्वाणि नामानि बिभर्तीति भर्तृत्वात् वागिन्द्रियस्य नामानि प्रति ब्रह्मत्वमिति भावः । एवमुत्तरत्रापि द्रष्टव्यम् ॥ १ ॥ अथ रूपाणां चक्षुरित्येतदेषामुक्थमतो हि सर्वाणि रूपाण्युत्तिष्ठन्ति । एतदेषाँ सामः एतद्धि सर्वैरूपैः समम् । एतदेषां ब्रह्म। एतद्धि सर्वाणि रूपाणि बिभर्ति ॥२॥

प्र- अथ ‘रूपाणां चक्षुरित्येतदेषामुक्थम् इति । पूर्ववदर्थः । अतो हि सर्वाणि रूपाण्युत्तिष्ठन्ति इति । रूपज्ञानस्य चक्षुः उत्थितत्वात् रूपस्य चक्षुरुत्थितत्व. व्यवहार औपचारिकः । एतदेषां सामैतद्धि सर्वरूपैस्समम् इति । सर्वरूपज्ञान- जनकत्वाञ्चक्षुषः कारणस्य कार्यसमत्वोक्तिः । एतदेषां ब्रह्मतद्धि सर्वाणि रूपाणि बिभर्ति इति । चक्षुषो ‘रूपज्ञानभर्तृत्वाद्रूपभरणं’ तज्ज्ञानद्वारा द्रष्टव्यम् ॥ २ ॥ अथ कर्मणाम् - आत्मेत्येतदेषामुक्थम्। अतो हि सर्वाणि कर्माण्यु- त्तिष्ठन्ति । एतदेषाँ साम; एतद्धि सर्वेः कर्मभिस्समम् । एतदेषां ब्रह्म; एतनि सर्वाणि कर्माणि बिभर्ति । तदेत् त्रयँ सदेकमयमात्मा । आत्मो एकस्सन्नेतत्रयम् । तदेतदमृतँ सत्येन च्छन्नम् । प्राणो वा अमृतम्, नामरूपे सत्यम् । ताभ्यामयं ‘प्राणश्छन्नः ॥ ३ ॥

प्र- अथ कर्मणाम् इत्यादि । अत्र कर्मशब्दः पुण्यपापात्मककर्मपर इति पूर्वमुक्तम् । आत्मशब्दो जीवपरः । आत्मन एव पुण्यपापानि जायन्ते । स च सर्वपुण्यपापाकर्तृत्वानुरूपः, सर्वपुण्यपापानां भर्ता चेत्यर्थः । ‘पदानामर्थः स्पष्टः । तदेतत्त्रयं सदेकमयमात्मा इति । एवं नामरूपकर्मात्मकस्य अचेतनस्य चेतनभूतात् प्रत्यगात्मनः जीवात् अत्यन्तवैलक्षण्येऽपि नामरूपकर्मलक्षणं तदेतत्त्रियम् एकं सदयमात्मा

नामरूपकर्माण्यात्मना अगृहीतविवेकानि पामराणामेकमिव भवन्ति इत्यर्थः । तदेतत् द्रढयति - आत्मो एकस्सन्नेतत्त्रयम् इति । विवेकिनां त्रयमेतत् अविवेकिनामेक आत्मैव इत्यर्थः । उ शब्दोऽवधारणे । अविवेकिभिः आत्मा पृथक् कुतो न ज्ञायत इत्यत्राह तदेतदमृतं सत्येन च्छन्नम् । तदेतद्वाक्यम् अमृतसत्यशब्दविवरणपूर्वकं श्रुतिः ‘स्वयमेव व्याचष्टे’ - प्राणो वा अमृतं नामरूपे सत्यम् ताभ्यामयं प्राणश्छन्नः इति । अत्र प्राणशब्दो ‘बद्धजीवपरः प्राणो वा आशाया भूयान् (छां.उ.७-१५-१) इत्यादौ प्राणशब्दस्य ‘बद्धजीवे प्रयोगात् । सत्यं - ‘पुण्यपापकर्मफलम्’ इत्यर्थः । ऋतं पिबन्तौ (क.उ. ३-१) इत्यादी सत्यापरपर्यायस्य ऋतशब्दस्य कर्मफले प्रयोगदर्शनात् । कर्मफलं हि अवश्यंभावितया सत्यं भवितुमर्हति । तथा च पूर्ववाक्ये अमृतमित्युक्तः प्राणः - जीवात्मा । सत्यशब्दोक्ते

च नामरूपे, ताभ्यां - नामरूपाभ्यामयं प्राणशब्दितः प्रत्यगात्मा छन्नः । अतः पामरैः न ज्ञायते विविच्येति पूर्ववाक्यार्थः; ततश्च कर्मफल भूताभ्यां नामरूपाभ्यां ‘सपिण्डितोयं स्वयम् अमृतः- अपहतपाप्मत्वादिमानेव आत्मा व्याधकुलसंवर्धित राजकुमारवत् “ताभ्यां प्रच्छन्नो भवति, नामरूपाभ्याम् अगृहीतविवेको ‘भवतीति पूर्ववाक्यफलितार्थ इत्यर्थः । केचित्तु - प्राणशब्दविवृतोऽयममृतशब्दः निरुपाधिकामृतप्राणशब्दवाच्य परमात्मपरः । तथा च स एव नामरूपात्मक जगतोऽन्तर्यामी सन् जीवकर्मफलतया स्वसृष्टाभ्यां ताभ्यां स्वयमेव विशिष्टो भवति इति वाक्यार्थः । ततश्च तद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यां व्याक्रियत (बृ.उ.१-४-७) इत्यादौ प्रपञ्चितस्य परमात्मन एव सर्वनामरूपभाक्त्वत्व- मित्यस्यार्थस्य निगमनपरोऽयं ताभ्यामयं प्राणश्छन्न इत्यन्तसन्दर्भ इत्यपि वदन्ति ॥ ३ ॥ ॥ इति तृतीयाध्याये षष्ठब्राह्मण प्रकाशिका ॥ ॥ इति तृतीयोऽध्यायः ॥