बृहदारण्यकोपनिषत् तृतीयोऽध्यायः Part 3 [लोकद्वयेऽपि ब्राह्मणादिविभागः, ब्रह्मणः अविदितत्वे अरक्षकत्वम् च] तदेतत् ब्रह्म क्षत्रं विट्छूद्रः । तदग्निनैव देवेषु ब्रह्माभवत् । ब्राह्मणो मनुष्यषु, क्षत्रियेण क्षत्रियो, वैश्येन वैश्यः, शूद्रेण शूद्रः । तस्यादग्रावेव देवेषु लोकमिच्छन्ते, ब्राह्मणे मनुष्येषु । एताभ्याँ हि रूपाभ्यां ब्रह्माभवत् । अथ यो ह वा अस्माल्लोकात् स्वं लोकम् अदृष्ट्वा प्रैति, स एनमविदितो न भुनक्ति, यथा वेदो वा अननूक्तो अन्यद्वा कर्माकृतम् । यदि ह वा अप्यनेवंविन्महत् पुण्यं कर्म करोति, तद्धास्यान्ततः क्षीयत एव । आत्यानमेव लोकमपासीत । स य आत्यानमेव लोकमुपास्ते, न हास्य कर्म क्षीयते । अस्माद्ध्येवात्मनो यद्यत् कामयते, तत्तत् सृजते ॥ १५ ॥
प्र. - उक्तां - ‘चतुर्वर्णस्वरूपत्वं निगमयति - तदेतत् ब्रह्म क्षत्रं विट् छूद्रः इति । तत् - तस्मात् उक्तरीत्या ब्राह्मणक्षत्रादिवर्णानां ब्रह्मणो जातत्वात् एतद्ब्रह्मैव ब्रह्मक्षत्र- विट्छूद्रात्मकनिति भावः । ननु ब्रह्मणः कथं चातुर्वर्ण्यस्वरूपत्वम् । क्षत्रादिवर्णत्रय- सृष्टिर्ह्युक्ता; न ब्रह्मवर्णसृष्टिः अत्र इत्यपेक्षायामाह - तदग्निनैव देवेषु ब्रह्माभवत् इति । अग्निना इति इत्थंभावे तृतीया । स मुखाञ्च योनेहस्ताभ्यां च अग्निमसृजत इति, तेनारसो निरवर्तताग्निः इति च सृष्टत्वेन प्रागुक्तेन अग्निनैव विशिष्टं सत् तत् - परं ब्रह्म देवेषु ब्रह्माभवत् - ब्राह्मणोऽभवत् । अग्निरूपं ब्रह्म ब्राह्मणत्वजातिमत् । काठिन्यवान् यो बिभर्ति तस्मै भूम्यात्मने नमः (वि.पु.१-४-२८) इतिवत् । अतः ब्रह्मणोऽग्निद्वारा ब्रह्मणत्वम् इत्यग्निरूपो ब्राह्मणो अभवदिति पर्यवसितोऽर्थः । एवमेव इन्द्रादिरूपविशिष्टं ब्रह्म तद्द्वारा क्षत्रियत्वजातिमदभूत्; वसुरुद्रादिरूपविशिष्टं ब्रह्म तद्द्वारा वैश्यत्व- जातिमदभूत् पृथिवीरूपविशिष्टं ब्रह्म तद्द्वारा शूद्रत्वजातिमदभूत् इति सिद्धम् । एवं परब्रह्मणो देवेषु ब्राह्मणत्व-क्षत्रियत्वादिजातिमत्त्वम् अग्नीन्द्रादिद्वारकमित्युक्त्वा मनुष्येषु ब्राह्मणत्वादिजातिमत्त्वप्रकारं ब्रह्मणो दर्शयति - ब्राह्मणो मनुष्येषु क्षत्रियेण क्षत्रियो बैश्येन वैश्यः शूद्रेण शूद्रः इत्यादि । ब्राह्मणो मनुष्येषु इत्यत्र ब्राह्मणेन इत्यध्याहर्तव्यम्, ब्राह्मणेन ब्राह्मण इति । क्षात्रियेण क्षत्रिय इत्युत्तरग्रन्थानुसारात् । ततश्च देवेषु अग्न्यादिद्वारेणेव मनुष्येष्वपि परं ब्रह्म ब्राह्मणद्वारा ब्राह्मणत्वजातिमदभवत् । क्षत्रियवैश्यादिद्वारा क्षत्रियत्वादि- जातिमदभवत् इत्यर्थः । प्रसङ्गात् अग्निब्राह्मणौ प्रशंसति - तस्मात् अग्नावेव देवेषु लोकमिच्छन्ते ब्राह्मणे मनुष्येषु इत्यादि । तस्मात् - बुद्धिस्थाद्वक्ष्यमाणाद्धेतोः, पूर्वोक्तहेतोर्वा - देवेषु - देवानां मध्ये लोकम् अग्नावेव इच्छन्ते - इच्छन्ति । लोकम् फलम् । अग्नौ इति निमित्तसप्तमी । अग्नेः निमित्तादेव इच्छन्ति लोकम् । मनुष्येषु - मनुष्याणां मध्ये ब्राह्मणादेव निमित्तात् लोकमिच्छन्ति इत्यर्थः । यद्वा - देवानां मध्ये अग्नावेव हुत्वा, मनुष्याणां मध्ये ब्राह्मण एव दत्वा लोकमिच्छन्ति इत्यर्थः । तस्मात् इति पूर्वपरामृष्टं प्राशस्त्यहेतुमाह - एताभ्यां हि रूपाभ्यां ब्रह्माभवत् । प्रथमत इति शेषः । एताभ्याम् अग्निब्राह्मणरूपाभ्यां हि यस्मात् परं ब्रह्म प्रथमतो विशिष्टम् अभवदित्यर्थः । अतोऽग्नेः देवेषु, ब्राह्मणस्य मनुष्येषु अग्नजत्वात् प्राशस्त्यमिति भावः । यदभवत्, तस्माल्लोकम् इच्छन्ति इति पूर्वेणान्वयः । एवं निखिलजगत्कारणत्वादिगुणकम् आत्मस्वरूपमुक्त्वा तद्वेदनस्य अवश्य- कर्तव्यत्वमाह - अथ यो ह वा अस्माल्लोकात् स्वं लोकमदृष्ट्वा प्रैति, स एनमविदितो न भुनक्ति, यथा वेदो वा अननूक्तो अन्यद्वा कर्माकृतम् इति । अथ शब्दो वाक्यान्त- रोपक्रमे । ह वै शब्दः प्रसिद्धौ । लोक्यते दृश्यत इति लोकः । नित्यसूरिभिः सर्वदा आलोक्यमानत्वात् परमात्मा लोक इत्युच्यते । एवंमूतं स्वम् - स्वीयमन्तरात्मानम् अदृष्ट्वा - दर्शनसमानाकारेणज्ञानेन अविषयीकृत्य यः पुमान् अस्माल्लोकात् प्रैति - लोकान्तरं गच्छति, तमेनं सः परमात्मा ‘स्वः आत्मभूतोऽपि न भुनक्ति - न परिपालयति । कस्त हेतोः इत्यत आह - अविदितः । अनुपासिता इत्यर्थः । उपासनाभावे वस्तुगत्या शेषितया आत्मभूतोऽपि संसारं न निवर्तयति इत्यर्थः । ययाऽऽह योगी याज्ञवल्क्यः - गवां सर्पिः शरीरस्थं न करोत्यङ्गपोषणम् ।
निस्सृतं कर्मचरितं पुनस्तस्यैव भेषजम् ॥
एवं स हि शरीरस्थः सर्पिर्वत् परमेश्वरः ।
विना चोपासनां देवो न करोति हितं नृणाम् ॥ इति ॥
तत्र दृष्टान्तमाह - यथा वेदो वा अनूक्तो अन्यद्वा कर्माकृतम् इति । वेदस्य सर्वोपकारार्थप्रवृत्ततया सर्वसाधारण्येऽपि अनधीतो न पालयति, ‘यथा’ ज्योतिष्टोमादि वैदिकं कर्म अननुष्ठितं नोपकरोति, तथेश्वरः स्वस्य शेषिभूतोऽपि अनुपासितः संसारं न निवर्तयति इत्यर्थः । यदि ह वा अप्यनेवंवित् महत्पुण्यं कर्म करोति, तद्धास्यान्ततः क्षीयत एव इति । ह शब्दः प्रसिद्धौ । अनेवंवित् अब्रह्मवित् यदि वाऽपि महदश्वमेधादि पुण्यं कर्म करोति - कुर्यात् , तत् - अस्य अब्रह्मविदः कर्म अन्ततः सुदूरं गत्वापि बहुकालं स्थित्वापीति यावत् - क्षीयते - नश्यत्येव इत्यर्थः । क्षीणफलं भवतीति यावत् । यो वा एतदक्षरं गार्ग्यविदित्वा अस्मिन् लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्त्राणि अन्तवदेवास्य तद्भवति (बृ.उ.-५-८-९) इति श्रुतेरिति भावः । अतः किं कार्यमित्यत आह - आत्मानमेव लोकमुपासीत इति । इतरत् परित्यज्य आत्मानमेव लोकमुपासीत इत्यर्थः । लोक्यत इति लोकः फलम् । उपायभूतम् आत्मानमेव उपेयभूतं भजेत इत्यर्थः । एवंसति न पूर्वोक्तो दोष इत्याह - स य आत्मानमेव लोकमुपास्ते, न हास्य कर्म क्षीयते इति । उक्तरीत्या परमात्मोपासकस्य कर्म न क्षीयत इत्यर्थः । अत्र कर्मशब्दः उपासना परः; तदङ्गभूतकर्मपरो वा । आत्मोपासकस्य इतरकर्माप्रसक्तेरिति द्रष्टव्यम् । कर्मणः क्षणिकस्य अत्र निषिध्यमानं क्षयित्वं नाम क्षयिफलकत्वरूपम् । कर्मणश्च अक्षयफलकत्वम् उपासनाद्वारेति द्रष्टव्यम् । अस्माध्येवात्मनो यद्यत्कामयते तत्तत् सृजते
इति । तस्मादेव - ब्रह्मवेदनाद्धेतोः - हि शब्दः श्रुत्यन्तरप्रसिद्धिं दर्शयति । अयमुपासकः स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति (छां.उ.८-२-१) सड़कल्पादेव तच्छ्रुतेः (ब्र.सू.४-४-८) इति श्रुतिसूत्रोक्तरीत्या आत्मनः स्वस्य यद्यत् कामयते - यद्यदभिलषितम्, तत् सर्वं सङ्कल्पमात्रेण सृजति इत्यर्थः ॥ १५॥
[जीवात्मनोपि सर्वभूतलोकत्वम्] अथो अयं वा आत्मा सर्वेषां भूतानां लोकः । स यज्जुहोति यद्यजते, तेन देवानां लोकः । अथ यदनुब्रूते तेनर्षिणाम् । अथ यत् पितृभ्यो निपृणाति यत् प्रजामिच्छते, तेन पितृणाम् । अथ यन्मनुष्यान् वासयते, यदेभ्योऽशनं ददाति, तेन मनुष्याणाम् । अथ यत् पशुभ्यतृणोदकं विन्दति, तेन पशूनाम् । यदस्य गृहेषु श्वापदा वयाँस्यापिपीलिकाभ्य उपजीवन्ति, तेन तेषां लोकः । यथा ह वै स्वाय लोकायारिष्टमिच्छेत् । एवं हैवंविदे सर्वाणि भूतान्यरिष्टिमिच्छन्ति । तद्वा एतद्विदितं मीमाँसितम् ॥ १६ ॥
प्र. - ननु आत्मानमेव लोकमुपासीत इत्युक्तमयुक्तम् । लोको हि नाम प्राणिभोगस्थानविशेषः । तथात्वात्मनः कथमित्याशङ्क्य ‘कैमुतिकन्यायेन’ ‘परब्रह्मणः लोकत्वं दर्शयितुं प्रत्यगात्मन एव ‘सर्वोपकारकत्वेन सर्वभूतोपेयत्वात् सर्वभूतलोकत्वं प्रथममाह’ - अथो अयं वा आत्मा सर्वेषां भूतानां लोकः । अथो शब्दो वाक्यान्तरोप- क्रमे । वैशब्दोऽवधारणे । अयं अहमिति प्रत्यक्षसिद्धः आत्मा वै जीवात्मैव सर्वेषां भूतानां लोक इत्यर्थः । तदेव उपपादयति - स यज्जुहोति यद्यजते तेन देवानां लोकः । सः - प्रत्यगात्मा जुहोति इति यत्, यजत इति च यत्; आभ्यां यागहोमाभ्यां देवानाम् उपकारकत्वेन लोक इत्यर्थः । अथ यदनुब्रूते तेनर्षीणाम् इति । अनुब्रूते - स्वाध्यायमधीते इति यत् । तेन - अध्ययनेन ऋषीणां लोक इत्यर्थः । अथ यत्पितृभ्यो निपृणाति
पिण्डोदकादि प्रयच्छतीति यदित्यर्थः । निर्मृणानि इति पाठे निर्मर्णनं और्ध्वदैहिकम् । मृण - हिंसायाम् (धा.पा.१३३२) इति हि धातुः । यत्प्रजामिच्छते । प्रजामुत्पादयतीति यदिति यावत् । तेन पितॄणां लोक इति शेषः । अथ यन्मनुष्यान् - - - - मनुष्याणाम् अथ अपि च वासयते - गृहे शयनासनावकाश प्रदानेन अतिथीन्’ वासयते इति यत्; वसद्भ्यश्च अन्नं ददाति इति यत्’, ततो मनुष्याणां लोक इत्यर्थः । अथ यत्पशुभ्यः - - पशूनाम् इति । तृणानि च उदकञ्च तृणोदकं पशुभ्यः गवादिभ्यः विन्दति
‘लम्भयतीति’ यदित्यर्थः । तेन पशूनाम् - लोक इति शेषः । यदस्य ……लोकः । आपिपीलिकाभ्यः इत्यत्र आङ् अभिविधौ । श्वापदाः – श्वादयः । वयांसि - काकादीनि । कणबलिभाण्डप्रक्षालनादि यदस्य गृहस्थस्य गृहे श्वपक्षिपिपीलिकादयः उपजीवन्ति, अतस्तेषां लोक इत्यर्थः । एवं स्वात्मनः सर्वभूतलोकत्वपरिज्ञानस्य फलमाह यथा ह वै स्वायलोकाय
इति । ह वै शब्दः प्रसिद्धौ । यथा लोके जनः स्वायलोकाय - स्वभोगस्थानाय । अरिष्टं - रिष्टं नाशः रिष हिंसायां (धा.पा. ६९४) इति हि धातुः, भावे क्तः । अरिष्टं - अनाशम् इच्छति । एवमेव आत्मनः सर्वभूतलोकत्वविदे ‘सर्वाणि - देवपितृप्रभृति’ आपिपीलिकं भूतानि अरिष्टं - क्षेमं वाञ्छन्ति इत्यर्थः । एवं परमात्मनः लोकत्वोपपादनोपयुक्तं प्रत्यगात्मनः सर्वभूतलोकत्वमुपपाद्य अथ तदुपजीवनेन परमप्रकृतं परमात्मनः लोकत्वमुपसंहरति - तद्वा एतद्विदितं मीमांसितम् । तद्वा -एवं प्रत्यगात्मनः सर्वभूतलोकत्वदर्शनादेव एतत् - परमप्रकृतं परमात्मनः ‘लोकत्वं विदितं मीमांसितं’ - कैमुतिकन्यायतर्कानुगृहीतं ‘सत् विदितमित्यर्थः’ । उक्तरीत्या प्रत्यगात्मन एव सर्वभूतलोकत्वे प्रत्यक्षसिद्धे सर्वात्मनः परमात्मनः सर्वभूतलोकत्वं न सन्देग्धव्यम् इति यावत् ॥
[आत्मनः जायापुत्रवित्तकर्मापेक्षा] आत्मेवेदमग्र आसीदेक एव । सोऽकामयत जाया मे स्यात्, अथ प्रजायेय, अथ वित्तं मे स्यात्, अथ कर्म कुर्वीयेति । एतावान् वै कामः । नेच्छँश्चनातो भूयो विन्देत् । तस्मादप्येतर्ह्येकाकी कामयते - जाया मे स्यादथ प्रजायेय, अथ वित्तं मे स्यादथ कर्म कुर्वीयेति । स यावदप्येतेषामेकैकं न प्राप्नोति अकृत्स्न एव तावन्मन्यते । तस्योकृत्स्नता - मन एवास्यात्मा । वाग् जाया प्राणः प्रजा । चक्षुः मानुषं वित्तम्, चक्षुषा हि विन्दते, श्रोत्रं दैवँ श्रोत्रेण हि तच्छृणोति आत्मैवास्य कर्म । आत्मना हि कर्म करोति । स एष पाङ्क्तो यज्ञः, पाङ्क्तः पशुः, पाङ्क्तः पुरुषः। पाङ्क्तमिदँ सर्वं यदिदं किन्च । तदिदँ सर्वमाप्नोति, य एवं वेद ॥ १७ ॥ ॥ इति तृतीयाध्याये चतुर्थब्राह्मणम् ॥
प्र. - आत्मैवेदमग्र आसीदेक एव । इदं - जायापुत्रादिविभागवज्जगत् अग्रे- तत्सृष्टेः पूर्वकाले जायापुत्रादिविभागशून्यतया एक एव आत्मैवासीत् । परं ब्रह्म जायापुत्रादिसृष्टेः पूर्वं केवलपुरुषरूप एव स्थित इत्यर्थः । सोऽकामयत इत्यादि । सः पुरुषरूपः परमात्मा अकामयत । किमिति? मे -मम जाया भूयात्, अथ-
तदनन्तरं पुत्रादिरूपेण प्रजायेय, अथ वित्तञ्च में भवतु, तेन यज्ञादिकर्म कुर्वीय . करवाणि इत्यकामयत इत्यर्थः । परमात्मनः सर्वनामरूपाश्रयत्वात् कर्मानुगुणं प्रथम पुरुषरूपेण सृष्टजीवद्वारा एतादृशकामनाश्रयत्वम् । काठिन्यवान् यो बिभर्ति तस्मै भूम्यात्मने (वि.पु.१-४-२८) इतिवत् मुख्यमेव द्रष्टव्यम् । एतावान् वै कामः । जायापुत्रवित्तकमव्यतिरेकेण संसारिणां कामः - कामनाविषयः कोऽपि नास्ति । किन्तु एतावानेव इत्यर्थः । नेच्छंश्चनातो भूयो विन्देत् । च न शब्दोप्यर्थः । इच्छत्रापि
‘चिन्तयन्नपि अतो भूयः एभ्यः जायापुत्रवित्तकर्मभ्यः अधिकं त्रैगुण्यनिष्ठः न लभत इत्यर्थः । तस्मादप्येतर्हि एकाकी कामयते इत्यादि । कस्माद्धेतोः एतर्ह्यपि अद्यत्वेऽपि एकाकी पुरुषः जायापुत्रवित्तादिरहितः जायापुत्रवित्तकर्माणि एव कामयते इत्यर्थः । अतः इदानीन्तनैकाकीपुरुषे दृश्यमाना एषा कामना, एवमेवाग्रेप्यभूत् इत्यत्र ज्ञापिका इति भावः । स यावदप्येतेषामेकैकं न प्राप्नोति इति । सः - एकाकी पुरुषः यावत् - यावन्तं कालं एतेषां - जायादीनां चतुर्णां मध्ये एकैकमपि न प्राप्नोति तावत्कालं अकृत्स्नः एकांशहीन इत्येव स्वात्मानं मन्यते इत्यर्थः । अत इदानीन्तनदर्शनानु- गुण्येनाग्रेऽप्येतेषां जायादीनां चतुर्णामपि कामनाविषयत्वम् अवधेयमिति भावः । यस्तु वैराग्येण वा अलाभेन वा जायापुत्रवित्तकर्मान्यतमहीनतया अकृत्स्नः तस्य कृत्स्नतासम्पत्तिप्रकारं दर्शयति तस्योकृत्स्नता । उशब्दोऽवधारणे तस्य - तादृशल्य कृत्स्नता ‘पूर्णता एवमेव’ भवति इत्यर्थः । मन एवास्यात्म इति । अस्य - अकृत्स्नत्वं मन्यमानस्य पुरुषस्य मन एव आत्मा त्रिवर्गप्रधानस्वस्वरूपतया कल्पनीयम् इत्यर्थः । मनसः प्रधानत्वात् इति भावः । वाग्जाया इति । वाचः मनोधीनवृत्तिकत्वात् स्रीत्वसाम्याच वाचं जायां कल्पयेत् इति भावः । प्राणः प्रजा पुत्र इत्यर्थः । वाङ्मनसाधीनत्वात् ‘प्राणस्य, प्राणं पुत्रत्वेन कल्पयेत् इत्यर्थः । देवमानुषभेदेन वित्तम् द्वेधा विभज्य दर्शयति - चक्षुर्मानुषं - तच्छृणोति इति । तत् - हिरण्यपश्चादिकं मानुषवित्तं हि - यस्मात् चक्षुषा विन्दते, अतः मानुषवित्तोपलम्भकत्वाञ्चक्षुरेव मानुषं वित्तं कल्पनीयम् । तत् - दैवशब्दितादृष्टं तत्प्रतिपादकश्रुतिस्मृतिद्वारा श्रोत्रेण हि - यस्माच्छृणोति तस्मात् तदुपलम्भकत्वात् श्रोत्रं दैवं वित्तं कल्पयेत् इत्यर्थः । आत्मैवास्य कर्म आत्मना हि कर्म करोति इति । अत्र आत्मशब्दः शरीरपरः । ऐहिकामुष्मिककर्म- करणत्वात् शरीरं कर्म कल्पयेत् इत्यर्थः । स एषो पाङ्क्तो यज्ञः । आत्मजायापुत्रवित्त- कर्मलक्षणपञ्चकनिर्वर्त्यः सः एषः समुदायः ‘पञ्चाक्षराः पङ्क्तिः पाङ्क्तो यज्ञः’ इति निर्दिष्टपाङ्क्त यज्ञात्मा, पञ्चत्वसङ्ख्यासामान्यात् इत्यर्थः । तथा पाङ्क्तः पशुः । पशोरपि पाञ्चभौतिकत्वात् पाङ्क्त्व म् । अतः मन आदि पूर्वोक्त समुदायोऽपि पञ्चत्वसङ्ख्याश्रयत्वात् पाङ्क्तः पशुरित्यर्थः । पाङ्क्तः पुरुषः । पुरुषस्यापि पाञ्चभौतिकत्वेन पाङ्क्त्वम् । अतः मन आदि पञ्चकसमुदायोऽपि’ पञ्चत्वसङ्ख्यासामान्यात् पाङ्क्तः पुरुष एवेति भावः । पाङ्क्तमिदं सर्वं यदिदं किञ्च । यदिदं किञ्चित् दृश्यते लोके, तस्य सर्वस्यापि पाञ्चभौतिकत्वात् पाङ्क्त्वम् इत्यर्थः । अतः मनोलक्षणात्मादि समुदायस्यापि पञ्चत्वसङ्ख्याश्रयत्वेन पाङ्क्त्वात् पाङ्क्तय ज्ञत्व पाङ्क्त पशुत्व पाङ्क्त पुरुषत्व पाङ्क्त सर्वत्वदृष्टिः तत्र कर्तव्या इति भावः । एतत् दृष्ट्युपासनस्य फलमाह - तदिदं सर्वमाप्नोति य एवं वेद इति । मनोवाक्प्राणचक्षुश्श्रोत्र- शरीरलक्षण समुदायमात्मजायापुत्रवित्तकर्मरूपेण पूर्वोक्तक्रमेण पाङ्क्त यज्ञत्व पाङ्क्त पशुत्व पाङ्क्त पुरुषत्व पाङ्क्त सर्वत्वरूपेण य उपास्ते, स तदिदँ सर्वं - पाङ्क्त शब्दितं ‘निखिलं प्राप्नोति’ इत्यर्थः ॥ १७ ॥ ॥ इति तृतीयाध्यायस्य चतुर्थ ब्राह्मण प्रकाशिका ॥ तृतीयाध्याये पञ्चमं ब्राह्मणम् सप्तान्नब्राह्मणम् [अत्रसप्तक सृष्टिः] यत् सप्तान्नानि मेधया तपसाऽजनयत् पिता । एकमस्य साधारणं द्वे देवानभाजयत् ॥ त्रीण्यात्मनेऽकुरुत पशुभ्य एकं प्रायच्छत् । तस्मिन् सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च न ॥ ‘तस्मात्तानि’ न क्षीयन्ते अद्यमानानि सर्वदा । यो वै तामक्षितिं वेद सोऽन्नमत्ति प्रतीकेन ॥ स देवानपि गच्छति स र्जमुपजीवति ॥ इति श्लोकाः ॥
प्र. - यत्साप्तान्नानि मेधया तपसा अजनयत् पिता इत्यादि प्रथमखण्डश्लोकाः श्रुत्यैव व्याख्यास्यन्ते इति नेह तन्यते ॥ १ ॥
[अन्नसप्तकविवरणम्] यत्साप्तान्नानि मेधया तपसाऽजनयत् पितेति । मेधया हि तपसाऽजनयत् पिता । एकमस्य साधारणमिति । इदमेवास्य तत् साधारणमन्नम् यदिदमद्यते । स य एतदुपास्ते, न स पाप्मानो व्यावर्तते । मिश्रँ ह्येतत् । द्वे देवानभाजयदिति हुतञ्च प्रहुतञ्च । तस्माद्देवेभ्यो जुह्वति प्र च जुह्वति । अथो आहुर्दर्शपूर्णमासाविति । तस्मान्नेष्टियाजुकः स्यात् । पशुभ्य एकं प्रायच्छदिति । तत्ययः । पयो ह्येवाग्रे मनुष्याश्च पशवश्चोप- जीवन्ति । तस्मात् कुमारं जातं घृतं वैवाग्रे ‘प्रतिलिलेहयन्ति’, स्तनं वा नु धापयन्ति। अथ वत्सं जातमाहुरतृणाद इति । तस्मिन्त्सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च नेति । पयसि हीदँ सर्वं प्रतिष्ठितम्, यच्च प्राणिति यच्च न । तद्यदिदमाहुः संवत्सरं पयसा जुह्वदपपुनर्मृत्युं जयतीति, न तथा विद्यात् । यदहरेव जुहोति, तदहः पुनर्मृत्युमपजयति । एवं विद्वान् सर्वं हि देवेभ्योऽन्नाद्यं प्रयच्छति । तस्मात्तानि न क्षीयन्ते अद्यमानानि सर्वदा ॥ इति । पुरुषो वा अक्षितिः । स हीदमन्नं पुनःपुनर्जनयते । यो वै तामक्षिर्ति वेदेति । पुरुषो वा अक्षितिः । स हीदमन्नं धिया धिया जनयते कर्मभिः । यद्वैतन्न कुर्यात्। क्षीयते ह । सोऽन्नमत्ति प्रतीकेनेति । मुखं प्रतीकं मुखेन इत्येतत् । स देवानपिगच्छति स ऊर्जमुपजीवतीति प्रशँसा ॥ २ ॥
प्र– प्रथमखण्डोदाहृतान् एतान् श्लोकान् श्रुतिः स्वयमेव व्याकरोति । यत्सप्तान्नानि …पिता इति । अत्र पितेतीति ‘इति करणपर्यन्तं व्याख्येयप्रतीकग्रहणम’ । मेधया हि तपसा अजनयत्पिता इत्यंशः तस्य व्याख्यानम् । पिता - सर्वजनकः परमात्मा मेधया - ज्ञानरूपेण तपसा सप्तान्नानि अजनयत् इति यत् तदिदमन्नजनकत्वम्, तपसा चीयते ब्रह्म, (मुं.उ.१-१-९) यस्य ज्ञानमयं तपः तस्मादेतद्ब्रह्म नामरूपमन्नं च जायते (मुं.उ.१-१-१०) इति ज्ञानमयेन तपसा नामरूपलक्षणान्नजनकस्य परमात्मनः ‘हि
प्रसिद्धं खलु, अतः किमत्र व्याख्यातव्यमस्तीति भावः । एकमस्य साधारणमिति इति प्रतीकधारणम् । तद्व्याचष्टे इदमेव….यदिदमद्यते
इति । यदिदं - व्रीहियवादिरूपम् अहाते, तदिदमेव, अस्य - भोक्तृवर्गस्य ‘देवपित्रादेः साधारणमन्नम् इत्यर्थः । साधारणत्वफलमाह - स य एतदुपास्ते इत्यादिना । एतत् - ईदृशं साधारणमन्नं देवपित्रादिभ्यः अदत्वा स य उपास्ते - यः भुङ्क्ते सः पाप्मनः न व्यावर्तते - ‘न विमुच्यते इत्यर्थः । तत्र हेतुमाह - मिश्रं ह्येतत् । हि - यस्माद्धेतोः एतत् व्रीहियवादिरूपमन्नं मिश्रं - मिश्रितम्, देवपित्राद्यन्यदीयद्रव्येण सङ्कीर्णम् साधारणमिति यावत् । अतः देवपित्रादिभ्यः अदत्वा भुञ्जानस्य पापमनिवार्यमिति भावः । गीतञ्च भगवता - तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥ (भ.गी.३-१२) यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः ।
ते त्वघं भुञ्जते पापा ये पचन्त्यात्मकारणात् ॥ (भ.गी.३-१३) ॥ इति । तथा च श्रुतिः केवलाघो भवति केवलादी इति केवलादी देवपित्रोदिभ्यः अदत्वा भुञ्जानः इत्यर्थः । तस्मात् देवपित्रादिभ्यः निवेदितं मनुष्येण भोक्तव्यमित्यर्थः । एवञ्च प्रसिद्धमन्नं मनुष्येषु विनियुज्यत इति फलितार्थः । हे देवानभाजयत् इति व्याख्येयम् । तव्द्याचष्टे - हुतञ्च प्रहुतञ्च । तस्माद्देवेभ्यो जुह्वति प्र च जुह्वति । द्वे देवानभाजयत् इति मन्त्रखण्डेन द्वे अन्ने सृट्टा पिता सर्वका देवान् असाधारण्येन अभाजयत् - अप्रीणयत् इत्यर्थकेन ये अन्ने उक्ते ते हुतञ्च प्रहुतञ्च इति व्याचक्षते इत्यर्थः । हुतं - औपासनं प्रहुतम् - अग्निहोत्रादि । यस्मात् हुतप्रहुते
देवेभ्यः परमात्मना दत्ते । तस्मात् देवेभ्यः देवानुद्दिश्यैव जुह्वति च प्रजुह्वति च । हुतप्रहुते वैदिकाः कुर्वन्ति इत्यर्थः । एतस्यैव मन्त्रांशस्य व्याख्यान्तरमाह - अथो आहुर्दर्शपूर्णमासौ इति । तस्मान्नेष्टियाजुकः स्यात् । अथो इति पक्षान्तरोपन्यासे। केचन दर्शपूर्णमासावेव, ‘हुतप्रहुताख्यतया पूर्वपक्षे व्याख्याते’, देवान्ने इत्याहुः । यस्मात् दर्शपूर्णमासयोः देवान्नत्वम्, तस्मात् इष्टियाजुकः तदतिरिक्तकाम्येष्टियजनशीले न स्यात् इत्यर्थः । यद्वा - तस्मात् - दर्शपूर्णमासयोरेव हुतप्रहुततया देवान्नत्वात् तत्र कियत्यप्यपचारे
देवाः कुप्येयुः इति नेष्टियाजुकः स्यात् - दर्शपूर्णमासयोः आर्त्विज्यं न कुर्यात् इत्यर्थः । क्रमप्राप्तं त्रीण्यात्मनोऽकुरुत इति मन्त्रं वक्तव्यबाहुल्यात् अन्ते’ व्याचिकीर्षुः तदतिक्रम्य तदुत्तरमन्त्रं व्याकर्तुं पशुभ्य एकं प्रायच्छत् इति प्रतीकं धृत्वा तव्द्याचष्टे-तत् पयः । पयो ह्येवाग्रे इत्यादिना । तत्पयः । तत् - पशुभ्यः ‘दत्ततया मन्त्रोक्तमन्नं पयः - क्षीररूपम् इत्यर्थः । अत एव हि मनुष्याः पशवश्च अग्रे - प्रथमतः पय एव उपजीवनन्ति इत्यर्थः । अत्र मनुष्याश्च उपजीवन्ति इत्युक्त्वा पशुभ्यः एकं प्रायच्छत्’ इत्यत्र पशुशब्दो
द्विपाश्चतुष्पात्साधारणो द्रष्टव्यः । तस्मात् - पयसः द्विपाच्चतुष्पादन्नत्वादेव जातं कुमारं जातकर्मसंस्कारे घृतं वैव - पयोविकारं घृतमेव अग्ने प्रथमतः प्रलिलेहयन्ति
‘आस्वादयन्ति इत्यर्थः । लिहेर्धातोः णिचि द्विर्वचनं छान्दसम् । स्तनं वा नु घापयन्ति । जातकर्माद्यकरणे स्तनं वा धापयन्ति - पाययन्ति इत्यर्थः । नुशब्दः खल्वर्थे । अथ वत्सं जातमाहुरतृणाद इति । अथशब्दो वाक्योपक्रमे । पयसः पश्वन्नत्वादेव जातमात्रं वत्सं अतृणाद इति । पयोमात्राहार इत्याहुः इत्यर्थः । तथा च यवव्रीहितृणाद्यदनायोग्यकालेऽपि पयस एव पशुभिः आह्नि यमाणत्वात् पयः पश्वन्नमिति युक्तमिति भावः । तस्मिन् सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च नेति व्याख्येयग्रहणम् । तव्द्याचष्टे पयसि हीदं सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च नेति । यत् प्राणिति -चेष्टते मनुष्यपश्चादिकम्। यच्च न चेष्टते वृक्षादिकम्। ‘तदिदं सर्वं’ पयसि प्रतिष्ठितं
पयोऽधीनजीवनं हि प्रसिद्धमित्यर्थः । स्थावरप्रतिष्ठाहेतुभूतजलस्यापि पयश्शब्देन ग्रहणात् स्थावराणामपि पयोन्नकत्वं सम्भवतीति भावः । तद्यदिदमाहुस्संवत्सरं पयसा जुह्वदिति । ‘संवत्सरं कालं पयसा जुह्वत् - पयोहोम कुर्वन् अपमृत्युं जयतीति यदाहुः, तत्पुनस्तथा न विद्यात् । तर्हि कथं ज्ञातव्यम् इत्यत्राह - यदहरेव जुहोति तदहः पुनर्मृत्युमपजयति । यस्मिन्नहनि पयसा जुहोति, तदहर्मात्रसाध्यपय आहुत्यैव तस्मिन्नेवाहनि’ अपमृत्युं जयति इत्यर्थः । (अपमृत्युशब्दयोः व्यवधानं छान्दसम्) । एतज्ज्ञनस्य फलमाह - ‘एवं विद्वान् सर्वं हि देवेभ्योऽन्नाद्यं प्रयच्छति इति । अन्नाद्यं इत्याद्यशब्देन पय आज्यादिकमुच्यते । एवं विद्वान् - एकाहमातन्नसाध्यपयोहोमस्य अपमृत्युजयफलकत्वज्ञानवान् यद्यत् अन्नाद्यं स्वयमत्ति, तत् सर्वं देवेभ्य एव ददाति इत्यर्थः । देवेभ्यः तद्दानेन यत्फलं लभते तल्लभत इति भावः ॥ तस्मात्तानि नक्षीयन्ते अद्यमानानि सर्वदा इति व्याख्येयग्रहणम् । अत्र तस्मात् इति शब्दार्थं व्याचष्टे - पुरुषो वा अक्षितिः स हीदमन्नं पुनः पुनर्जनयते इति । वैशब्दो- ऽवधारणे । ‘अक्षितिः। - “अक्षत’ इत्यर्थः । यस्मादक्षतः - अक्षयः “पुरुषः परमात्मा’ । प्रत्यहमन्नानि पुनः पुनः प्राणिकर्मानुसारेण जनयति, तस्माद्धेतोः अहरहरद्यमानान्यपि अन्नानि नक्षीयन्तं इति मन्त्रार्थः इत्यर्थः । यो वै तामक्षितिं वेद इति प्रतीकग्रहणम् । तव्द्याचष्टे - पुरुषो वा अक्षितिः
इत्यादिना । अत्र अक्षितिशब्दार्थः पुरुषो वै - पुरुष एव । परमात्मैव इत्यर्थः । तस्यैव पुरुषशब्दमुख्यार्थत्वात् । धिया - सङ्कल्पेन इत्यर्थः । उत्पाद्यान्न व्यक्त्यभिप्रायात्’ धिया धिया इति वीप्सा । स हि - पुरुषशब्दितः परमात्मैव इदमन्नं धिया धिया-
“सङ्कल्प्य सङ्कल्प्य प्रत्यहं - पुनःपुनः कर्मभिः जनयते - प्राणिनां कर्मभिस्सहितस्सन् जनयते । प्राणिकर्मानुगुणं जनयति इत्यर्थः । अत्र कर्मभिः इत्युक्तिः ईश्वरस्य वैषम्य- नैर्घृण्यपरिहाराय । वैषम्यनैर्घृण्ये न सापेक्षत्वात् (ब्र.सू.२-१-३४) इति न्यायादिति भावः एतत् - अन्नं यद्ध- यदि हि स परः पिता इत्युक्तः । पुनःपुनः प्रत्यहं न कुर्यात्, अन्नं क्षीयेत
ह । ‘अतः प्रत्यहम् अन्नकरणात् न क्षीयते इति भावः । एतादृशमक्षितिं” परं ब्रह्म यो वेद इति मन्त्रार्थं इत्यर्थः । सोऽत्रमत्ति प्रतीकेन इत्यंशं व्याचष्टे - मुखं प्रतीकं मुखेन इत्येतत् । अत्र मुखमिति व्याख्यानम् , प्रतीकमिति व्याख्येयम् । मुखेन इत्येतत् - प्रतीकेन इत्यनेन मन्त्रवचनेन मुखेन इत्युक्तं भवति इत्यर्थः । अनुष्यमात्रेऽपि अत्तीति प्रयोगसम्भवात् मुख्यभोजनप्रतीत्यर्थं मुखेन अन्नमत्ति इत्युक्तम् । ततश्च अन्नादनस्य मुखमात्रसाध्यत्वात् मुखेन इत्यस्य वैयर्थ्यं न चोदनीयम् । स देवानपिगच्छति स ऊर्जमुपजीवतीति
प्रतीकधारणम् । तत् तात्पर्यकथनेन व्याचष्टे - प्रशंसा इति । ऊर्जं- अन्नम्। निरतिशयभोग्यं परमात्मानम् इत्यर्थः । प्रशंसा - प्रशंसारूपफलश्रुतिरिति यावत् । अत्र प्रशंसा - इत्येतत् ब्राह्मणवाक्यं सोऽन्नमत्ति इत्यादि मन्त्रखण्डत्यस्यापि तात्पर्यकथनरूपम् । अत्र प्रतीकेन इति पदस्य ब्याख्येयत्वात् सोऽन्नमत्तीति खण्डः पृथग्गृहीतः । तत्र सप्तान्नस्रष्टृत्वादि-पूर्वोक्तगुणविशिष्टब्रह्मोपासकस्य सोऽन्नमत्तीति प्रथमखण्डेन ऐहिकातन्नभोक्तृत्वम्ः स देवान् इति द्वितीयखण्डेन सर्वदेवतासायुज्यरूपमामुष्मिकं फलम् : स ऊर्जमिति तृतीयखण्डेन, अहमन्नमन्नमदन्तमद्मि इत्यादिषु परब्रह्मवाचकतया प्रतिपन्नस्य अन्नशब्दस्य पर्यायभूत ऊर्जशब्दः परब्रह्मवाचक इति तदुपजीवनरूपब्रह्मानुभवः मोक्षाख्यं फलमुच्यत इति विवेको द्रष्टव्यः ॥ २ ॥
[आत्मार्थकॢप्तमनोवाक्प्राणात्मकान्नत्रयविवेचनम्]
त्रीण्यात्मनेऽकुरुतेति । मनो वाचं प्राणम् । तान्यात्मनेऽकुरुत । अन्यत्रमना अभूवम्, नादर्शम् ; अन्यत्रमना अभूवम् ; नाश्रौषमिति । मनसा ह्येव पश्यति, मनसा शृणोति । कामस्सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्हीर्धीर्भिरित्येतत् सर्वं मन एव । तस्मादपि पृष्ठत उपस्पृष्टो मनसा विजानाति । यःकश्च शब्दो वागेव सा । एषा ह्यन्तमायत्ताः एषा हि न । प्राणोऽपानो व्यान उदानः समानोऽन इत्येतत् सर्वं प्राण एव । एतन्मयो वा अयमात्मा; वाङ्मयो मनोमयः प्राणमयः ॥ ३ ॥ प्र. - त्रीण्यात्मनेऽकुरुतेति व्याख्येयग्रहणम् । तव्द्याचष्टे - मनो वाचं प्राणं तान्यात्मनेऽकुरुत इति । पूर्वोक्तः पिता सर्वेश्वरः मनोवाक्प्राणरूपाणि त्रीण्यन्नानि आत्मने - सर्वस्मै जीववर्गाय अकुरुत- कृतवान् इत्यर्थः । उक्तं च व्यासार्यैः ज्योतिरधिकरणे सप्तान्नब्राह्मणव्याख्यानदशायाम् परमात्मनः सङ्कल्पात् जीवानाम् उपजीव्यत्वेन अन्नशब्दवाच्यानां सप्तानाम् उत्पत्तिमुक्त्वा, तत्र प्रसिद्धान्नम् , दर्शपूर्णमासौ, पयश्च इत्यन्नचतुष्टयस्य मानुषदेवतिर्यक्षु विनियोगमुक्त्वा त्रीण्यात्मनेऽकुरुत
इत्यवशिष्टान्नत्रयस्य सर्वविधप्रवृत्तिहेतुत्वात् सामान्येन ‘सर्वभोक्तृवर्गशेषम् अकरोत् इत्युक्त्वेति उक्तम् । मनोवाक्प्राणानां ‘सर्वजीव साधारणोपकारकत्वं क्रमेणाह - अन्यत्रमना अभूवं नादर्शमन्यत्रमना अभूवं नाश्रौषमिति इति अत्र लोकः प्रत्येतीति शेषः । अन्यत्र मनो यस्य सः अन्यत्रमनाः । मनसः व्यासङ्गदशायाम् इन्द्रियसम्बन्धेऽप्यर्थे विषयानुभवाभावः अनन्तरास्मरणलिङ्गेन अनुभूयत’ इति भावः । ततः किमित्यत्राह - मनसा ह्येष पश्यति मनसा शृणोति इति । मनसः यस्मात् व्यासङ्गदशायां दर्शनश्रवणा- भावः, तस्मात् दर्शनश्रवणे मनःकरणके इति भावः । अत्यल्पमिदम् उच्यते दर्शनश्रवणे मनःकरणके इति, कामादिकमपि मनःकरणकमित्याह - कामस्सङ्कल्पो विचिकित्सा
इत्यादिना । कामः - विषयाभिलाषः, सङ्कल्पः - व्यवसायः, विचिकित्सा - सन्देहः, श्रद्धा - कर्मसु आस्तिक्यबुद्धिः, अश्रद्धा - तद्विपरीत बुद्धिः, धृतिः - प्रीतिः, अधृतिः - अप्रीतिः, हीः - लज्जाः धीः - प्रमाणजन्यज्ञान मात्रम्, भीः - आगामिदुःखशाङ्का एतत्सर्वं मनः - ‘मनःकरणकमेवेति फलितार्थः’ । कार्यकरणोपचारात् कामादीनां मन एव प्रधानं साधनमित्युक्तम् । मनसः ज्ञानकरणत्वे हेत्वन्तरमाह - तस्मादपि पृष्ठतः उपस्पृष्टी मनसा विजानाति इति । तस्मात् - मनसः ज्ञानकरणत्वेन सर्वजीवोपकरणत्वादेव पृष्ठतः - रूपग्रहणयोग्य चक्षुरगोचरेऽपि प्रदेशे वृश्चिकादिना उपस्पृष्टः मनसा विजानाति . वृश्चिकादीन् अनुमिनोति । अन्यथा तत्र वृश्चिकादिज्ञानं न स्यात् । तस्मादपि हेतोः मन एव ज्ञानकरणमिति भावः ॥ एवं मनसः आत्मभोगार्थत्वमुक्त्वा वाचस्तदाह - यः कश्च शब्दो वागेव सा
इति । परेषां स्वाभिमतार्थज्ञापनाय प्रयुज्यमानः यः कश्च - सर्वोऽपि शब्दः बागेव- . वागिन्द्रियाधीनोच्चारणकर्म इत्यर्थः । ततश्च शब्दाभिवदनमेव जीवानां वागिन्द्रिय- साध्योपकार’ इति भावः । अत्र सा इति स्रोलिङ्गनिर्देशो विधेयाभिधायि वाक्छब्दाभि- प्रायेण । कार्यकरणोपचारनिर्देशश्च पूर्ववदेव द्रष्टव्यः । अत एव पूर्ववाक्ये कामादीनां मनःपरिणामरूपत्व वादश्च परास्तः । तथासति वैरूप्यप्रसङ्गात् इत्यलमनेन । एषा ह्यन्तमायत्तेति । एषा - वाक् सर्वस्यान्तं ‘सर्वपदार्थानाम् इयत्ताम्’ आयत्ता - प्राप्ता । *सर्वेषामियत्तां प्रकाशयितुं शक्नोति इत्यर्थः । एषा हि न इति । एषा हि वाक् स्वयं नान्तमायत्ता - ‘अन्यैरपरिच्छिन्ना’ इत्यर्थः । वाक् स्वयमन्यापरिच्छेद्या सती इतरषां तु परिच्छेदिका इत्यर्थः । क्रमप्राप्तं प्राणस्य आत्मोपकारकत्वप्रकारमाह - प्राणोऽपानोव्यान उदानः समानोऽन इत्येतत् सर्वं प्राण एव इति । प्राण एव प्राणनापानन व्यानन उदनन समननाख्य व्यापारः प्राणापानव्यानोदानसमाननामकस्सन् तद्वृत्तिद्वारा ‘उपकारकः’, अन इति ‘सामान्य-नामकश्चेति यावत् । सूत्रितञ्च - पञ्चवृत्तिर्मनोवव्द्यापदिश्यते (ब्र.सू.२-४-११) इति । इत्थं हि तदधिकरणम् - मुख्यः प्राणः किं वायुमात्रम् , उत तदीयस्पन्दनक्रिया, उत वायुरेव कञ्चिदवस्थाविशेषम् आपन्न इति विशये, यः प्राणः स वायुः इति श्रुतेः वायुमात्र प्राणः । अथवा उच्चासनिश्वासात्मकवायुक्रियायांप्राणशब्दप्रसिद्धेः क्रिया वा स्यात् इति पूर्वपक्षे प्राप्ते न वायुक्रिये पृथगुपदेशात् (ब्र.सू.२-४-८) । एतस्मात् जायते प्राणो मनस्सर्वेन्द्रियाणि च । खं वायुज्योतिरापः इति वाय्वपेक्षया पृथगेव द्रव्योत्पत्ति- प्रकरणे व्यपदेशात् न वायुमात्रं तत्क्रिया वा प्राणः । ‘तर्हि किमग्निवद्भूतान्तरम्? नेत्याह चक्षुरादिवत्तु तत्सहशिष्टयादिभ्यः (ब्र.सू.२-४-९) चक्षुरादिवत् अयं जीवोपकरणविशेषः । न तत्त्वान्तरम् । प्राणसंवादादिषु चक्षुरादिभिस्सह प्राणस्य शासनं श्रूयमाणं हि तत्साम्यमव- गमयति । तथा मुख्यः प्राण इत्यादि व्यपदेशोऽपि प्राणशब्दितचक्षुरादिसाजात्यमेवावगयति इत्यर्थः । ननु प्राणस्यापि जीवोपकरणत्वे तद्वदुपकारकक्रिया वक्तव्या । तदभावात् नोपकरणत्वमित्यत्राह - अकरणत्वाच्च दोषस्तथा हि दर्शयति (ब्र.सू.२-४-१०) । करणं क्रिया । उपकारकक्रियाराहित्यात् यो दोषः स न संभवति । शरीरधारण लक्षणोपकारकक्रियां हि श्रुतिरेव दर्शयति । अहमेवैतत् पञ्चधाऽऽत्मानं विभज्यैतद्वाणमवष्टभ्य विधारयामि (प्र.उ.२-३) इति, प्राणेन रक्षन्नपरं कुलायम् (बृ.उ.२-३-१२) इति च । नन्वेवं नामभेदाच्च कार्यभेदाच्च प्राणापानादयः तत्त्वान्तरं स्युः । नेत्युच्यते, पञ्चवृत्तिः मनोवद्यपदिश्यते । यथा कामस्संकल्पो विचिकित्सा श्रद्धाऽश्रद्धा इत्यादिवचनात् मन एव कार्यभेदात् यथा’ कामादिशब्दैः व्यपदिश्यते । कामात्यः न मनसः तत्त्वान्तरम् । एवं प्राणोऽपानोव्यान उदानस्समान इत्येतत्सर्वं प्राण एवेति वचने प्राणस्य एकस्यैव कार्यभेदात् प्राणापानव्यानोदानादित्ववचनात् न तत्त्वान्तरं प्राणापानादयः इति सिद्धान्तितम् । अत्र न च धर्मभूतज्ञानावस्थाविशेषाः कामादयः मनस्तत्त्वान्तरमेवेति कथं कामादीनां तत्त्वान्तरत्वनिषेध इति वाच्यम् । कामादिरूपज्ञानपरिणाम हेतुत्वावस्थस्य मनस एव कामादि शब्दैः अभिधानात्’ । न तत्त्वान्तरम्, कामस्सङ्कल्प इत्यादिवाक्ये कामादि- शब्दितमिति व्यासार्यैरुक्तत्वात् । प्रकृतमनुसरामः । एतन्मयो वा अयमात्मा इति । वैशब्दः प्रसिद्धी । अयमात्मा जीवः । एतन्मय इत्यस्य अर्थमाह - वाङ्मयो मनोमयः प्राणमय इति । प्राचुर्ये मयट् । मनोवाक्प्राणप्रचुरः । तत्कृतोपकारप्रचुर’ इति यावत् ॥ ३ ॥
[वाङ्मनःप्राणानां स्तुतिः]
त्रयो लोका एत एव । बागेवायं लोको मनोऽन्तरिक्षलोकः प्राणोऽसौ लोकः ॥ ४ ॥ त्रयो वेदा एत एव । वागेवर्ग्वेदो मनो यजुर्वेदः प्राणः सामवेदः ॥५॥ देवाः पितरो मनुष्या एत एव । वागेव देवा मनः पितरः प्राणो मनुष्याः ॥६॥ पिता माता प्रजैत एव । मन एव पिता, वाङ्माता प्राणः प्रजा ॥७॥
प्र -वाङ्मनःप्राणान् सर्वात्मकत्वेन स्तौति - त्रयो लोका एत एव इत्यादिना । त्रयो लोका इत्यस्य एतच्छब्दस्य च अर्थं स्वयमेव विभज्याह - वागेवार्यं लोकः
इत्यादिना । अयं लोकः - पृथिवीलोक इत्यर्थः । अन्तरिक्षलोकः - भुवर्लोक इत्यर्थः । असौ लोकः - तदूर्ध्वलोकः इत्यर्थः ॥ ४ ॥ त्रयो वेदा एत एव इत्यादि । स्पष्टार्थम् ॥ ५-६ ॥ पिता माता प्रजैत एव इत्यादि । प्रजाः पुत्र इत्यर्थः ॥ ७ ॥
[वाङ्मनःप्राणानां विज्ञातादिरूपत्वम् ]
विज्ञातं विजिज्ञास्यमविज्ञातमेत एव । यत्किञ्च विज्ञातं वाचस्तद्रूपम् । वाग्धि विज्ञाता । वागेवैनं तद्भूत्वाऽवति ॥ ८ ॥ प्र. - विज्ञातं विजिज्ञास्यमविज्ञातमेतम् एवेति प्रतिज्ञातं वाङ्मनःप्राणानां विज्ञातादिरूपत्वं क्रमेण उपपादयति खण्डत्रयेण । तत्र प्रथमं वाचः विज्ञातरूपत्वम् उपपादयति - यत्किञ्च ‘विज्ञातं’ वाचस्तद्रूपम् इति । यत् वाग्व्यवहारात् विज्ञातं भवति, तत्सर्वं वाचो रूपमित्यर्थः । तदेव प्रसिद्ध्या दर्शयति - वाग्धि विज्ञाता इति विज्ञाताः वाचा विज्ञायमानास्सर्वेऽपि वागेव हि । तदधीनप्रकाशत्वात् सैव इत्यर्थः ततश्च किमित्यत्राह - वागेवैनं तद्भूत्वाऽवति इति । तत् - वाचा विज्ञायमानं पदार्थजातं एनं - विज्ञातारं यत् अवति - रक्षति । उपकरोति यदिति यावत् । ‘तद्विज्ञायमानं वागेव भूत्वा’ अवति । वाचा विज्ञायमानेन पदार्थेन य ‘उपकारो भवति’; स सर्वोऽपि वागधीन एव । तस्माद्वाच आत्मोपकारकत्वं सिद्धमिति भावः । एवमुत्तरत्रापि द्रष्टव्यम् ॥ ८ ॥ यत्किञ्च विजिज्ञास्यं, मनसस्तद्रूपं मनो हि विजिज्ञास्यम् । मन एव एनं तत्भूत्वाऽवति ॥९॥
प्र. - यत्किञ्च विजिज्ञास्यं, मनसस्तद्रूपम् इति । विजिज्ञास्यं - विचिन्तनीय- मित्यर्थः । यत् चिन्तितं देवादिकमुपकरोति । तद्भूत्वा मन एव उपकरोति । चिन्तितैः देवादिभिः आत्मने क्रियमाण उपकारः तच्चिन्तनकरणभूतमनःप्रयुक्त एवेति भावः ॥९॥ यत्किञ्चाविज्ञातं प्राणस्य तद्रूपं प्राणो हि अविज्ञातः । प्राण एनं तद्भूत्वाऽवति ॥ १० ॥
प्र- यत्किञ्चाविज्ञातं इति । प्राणो हि अविज्ञातः हि - यस्मात् ‘प्राण इन्द्रियागोचरः तस्मात् सः अविज्ञातः । अतः प्राणस्य अविज्ञातत्वात् अविज्ञातमात्मोप- कारकं सर्वं वस्तु प्राण एवेति भावः । प्राण एनं तद्भूत्वाऽवति इति । पूर्वसुकृतवशात् अचिन्तितं यदुपकरोति, तद्भूत्वा प्राण एव उपकरोतीत्यर्थः । प्राणवति हि जीवे अद्ययादिवश अचिन्तितं वस्तु उपकरोति । अतः तदुपकारः प्राणप्रयुक्त इति भावः ॥ १० ॥
[वागधिष्ठातृप्रदर्शनम्]
तस्यै वाचः पृथिवी शरीरं ज्योतीरूपमयमग्निः । तद्यावत्येव वाक् तावती, पृथिवी तावानयमग्निः ॥११॥
प्र . - एवं प्रशस्य त्रयाणामाधारा’नधिष्ठातृृंश्च दर्शयति - तस्यै वाचः पृथिवी शरीरं ज्योतीरूपमयमग्निः इति । तस्यै - तस्याः, विभक्तिव्यत्ययश्छान्दसः । तस्य वागिन्द्रियस्य पृथिवी शरीरम् - आयतनम् । ‘कण्ठादिस्थानाष्टकगोलस्थं पार्थिवांशमाश्रित्य वागिन्द्रियं तिष्ठति इत्यर्थः । ज्योतीरूपं - ज्योतिर्मयमधिष्ठातृदेवतास्वरूपम् अयमग्निः इत्यर्थः । तद्यावत्येव वाक् तावती पृथिवी तावानयमग्निः इति । तत् - एवं पृथिव्यग्नयोः ‘वागिन्द्रियं प्रति’ आधारत्वात् अधिष्ठातृत्वाच्च यावती वाक्- यत्र यत्र वागिन्द्रियं वर्तते, तावती पृथिवी - तत्र तत्र तदधिष्ठानतया पृथिव्यप्यस्ति । तावानयमग्निः
तदधिष्ठातृतया अग्निरप्यस्ति इत्यर्थः ॥ ११ ॥
[मनोऽधिष्ठातृप्रदर्शनम्]
अथैतस्य मनसः द्यौः शरीरं ज्योतीरूपमसावादित्यः । तद्यावदेव मनस्तावती- द्यौस्तावानसौ आदित्यः । तौ मिथुनँ समैताम् । ततः प्राणोऽजायत । स इन्द्रः । स एषोऽसपत्नः । द्वितीयो वै सपत्नः । नास्य सपत्नो भवति, य एवं वेद ॥ १२ ॥
प्र - अथैतस्य मनसो द्यैश्शरीरम् इति । इह घुशब्दः आकाशपरः, न तु लोकविशेषपरः, अनुपपत्तेः । न हि स्वर्गलोक एव मनसोऽधिष्ठानम्। अन्येषाममनस्कत्व- प्रसङ्गात् । धुशब्दो हि लोकविशेष इव नभो मात्रे च वर्तते । सुरलोको द्योदिवौ वे स्त्रियाम् (अ.को.१-१-६) इतिवत्; द्यो दिवौ द्वे स्त्रियामभ्रं व्योमपुष्करमम्बरम् (अ.को.१-२-१) इति च ‘त्रिकाण्डोक्तेः । तत्रापि सामर्थ्यात् हृदयाकाशे पर्यवस्यति । हृदयच्छिद्ररूपाकाश आयतनमित्यर्थः । ज्योतीरूपमसावादित्यः तद्यावदेवमनस्तावती द्यौस्तावानसावादित्य इत्यस्य पूर्ववदर्थः । अत्र मनस आदित्याधिष्ठानकत्वमपि श्रुतिप्रामाण्यात् अभ्युपगन्तव्यमिति द्रष्टव्यम् । तौ मिथुनं समैताम् । तौ - अग्न्यादित्यौ मिथुनं समैतां - मिथुनोभावम् अगच्छताम् । ततः प्राणो अजायतेति । अस्यायमभिप्रायः - आदित्याधिष्ठेयमनःपूर्विका अग्न्यधधिष्ठेय वाक् प्रवृत्तिः । तदुभयपूर्विका पञ्चवृत्तिप्राणाधीना शरीरप्रवृत्तिरिति । स इन्द्रस्स एषोऽसपत्नः इति । सः प्राणः ‘इन्द्रः - परमेश्वर्यशाली इत्यर्थः । इन्द्रियान्तरापेक्षया प्राणस्य ईश्वरत्वादिति भावः । स एषः -प्राणः असपत्न इत्यर्थः। प्राणस्य असपत्नत्वं चक्षुरादिषु स्वसदृशप्रतिस्पर्धिरहितत्वम् । सपत्नशब्दार्थकथनेन श्रुति तदेव विवृणोति - द्वितीयो वै सपत्नः इति । एवं मनोवाक्प्रवृत्तिपूर्वकशरीरप्रवृत्तिहेतोः प्राणस्य इन्द्रत्वासपत्नगुणवेदिनः फलमाह - नास्य सपत्नो भवति, य एवं वेद इति । स्पष्टोऽर्थः ॥ १२ ॥