०३-०२

बृहदारण्यकोपनिषत् तृतीयोऽध्यायः Part 2 एष उ एव बृहस्पतिः । वाग्वै बृहती । तस्या एष पतिः । तस्मादु बृहस्पतिः ॥ २० ॥

प्र. -एष उ एव बृहस्पतिः इति । उः चार्थे । बृहस्पतिश्च एष एवेत्यर्थः । तत्र हेतुमाह - वाग्वै ‘बृहती’ इति । बृहत्याख्यच्छन्दसो वाग्रूपत्वादिति भावः । तस्याः

तादृश्या वाचः एषः- प्राणः पतिः रक्षकः इत्यर्थः । वागादिसत्तायाः तदधीनत्वादिति भावः ॥ २० ॥

एष उ एव ब्रह्मणस्पतिः । वाग्वै ब्रह्म । तस्या एष पतिः ब्रह्मणस्पतिः ॥ २१ ॥

प्र. - एष उ एव ब्रह्मणस्पतिः इति । ब्रह्म शब्दः वेदपरः । शिष्टं पूर्ववत् ॥ २१ ॥

एष उ एव साम । वाग्वै सा अमैषः । सा च अमश्चेति तत् साम्नस्सा- मत्वम् । यद्वेव समः पॢषिणा समो मशकेन समो नागेन समः एभिः त्रिभिर्लोकैः समोऽनेन सर्वेण, तस्माद्वैव साम । अश्नुते साम्नः सायुज्यं सलोकतां जयति, य एवमेतत् साम वेद ॥ २२ ॥

प्र. - एष उ एव साम इति । एष उ एव - वाग्विशिष्टो मुख्यप्राण एव साम । सा च अमश्चेति सामशब्दनिर्वचनात् । सा इति स्त्रीलिङ्गेन तच्छब्देन वाक् परामृश्यते । अम गतिभाजनशब्देषु (धा.पा.४६५) इति गमनार्थादमतेरः। अमति’ - गच्छति इति अमः प्राणः । तदुपपादयति - वाग्वै सा अम एष इति - उक्तोऽर्थः । प्रकारान्तरेण सामशब्दनिर्वचनमाह - यद्वेव पॢषिणा इत्यादि । यद्वेव - यत् उ एव इति पदच्छेदः ।

शब्दः वा अर्थः । यस्मादेव वा पॢषिणा - पुत्तिका शरीरेण समः, मशकशरीरेण समः, हस्तिशरीरेण समः, समष्टिजीवभूतत्रैलोक्यशरीरकब्रह्मणः शरीरेणापि समः, देवमनुष्यादिसर्वप्राणशरीरेणापि समः । यथा घटप्रदीपप्रभा तावन्मात्रव्यापिनी, प्रासाद- प्रदीपप्रभा च प्रासादव्यापिनी, एवं प्राणोऽपि ब्रह्मादिपिपीलिकान्तशरीरेषु तत्तत् शरीरानुरूपव्याप्तिमत्त्वेन समः, तस्माद्वै साम- तस्मादेव वा सामेत्यर्थः । एतदेव वाक्यमवलम्ब्य मुख्यप्राणस्य विभुत्वं पूर्वपक्षीकृत्य इन्द्रियाणामिव मुख्यप्राणस्यापि उत्क्रान्त्यादि श्रवणात् अणुत्वमिति प्राणपादे अणुश्च (ब्र.सू.२-४-१२) इति सूत्रेण सिद्धान्तितम् । एतत् ज्ञानस्य फलमाह - अश्नुते साम्नः सायुज्यं सलोकतां जयति य एवमेतत् साम वेद इति । साम्नः सामशब्दितस्य प्राणस्य सायुज्यम्

प्राणदेवतासमानभोगताम् अश्नुते । सलोकतां जयति - सालोक्यं प्राप्नोति, य एवं वेद

सामशब्दनिरुक्तं सर्वदा अनुसन्धत्ते ॥ २२ ॥

एष उ वा उद्गीथः । प्राणो वा उत् । प्राणेन हीदँ सर्वमुत्तब्धम् । वागेव गीथा उच्च गीथा चेति स उद्गीथः ॥ २३ ॥

प्र– एष उ वा उद्गीथः इति । एष उ वा - एष एव वाक्प्राणसमुदायः’ उद्गीथः - उद्गीथाख्यप्राणभक्तिरित्यर्थः । तदुपपादयति - प्राणो वा उत् । प्राणेन हीदँ सर्वम् इत्यादिना । उत्तब्धम् - धृतमित्यर्थः । शिष्टं स्पष्टम् ॥ २३ ॥

तद्धापि ब्रह्मदत्तः चैकितायनेयो राजानं भक्षयन् उवाच-अयं त्यस्य राजा मूर्धानं विपातयतात्, यदितो अयास्याङ्गिरसो अन्येनोदगायदिति । वाचा च ह्येव स प्राणेन चोदगायदिति ॥ २४ ॥

प्र. - तद्धापि ब्रह्मदत्तश्चैकितायनेयो राजानं भक्षयन् उवाच इति । तत् - तत्र, आख्यायिकेति शेषः । ह शब्दः प्रसिद्धी । आख्यायिकाऽपि प्रसिद्धा अस्तीत्यर्थः । चैकितायनेयः - ‘चिकितस्य’ अपत्यं चैकितिः ‘अत इब्’ (पा.सू.४-१-९५) तरय गोत्रापत्यं युवा चैकितायनः फक्’ । तस्य अयनादेशः । चैकितायनस्य अपत्यं चैकितायनेयः । चैकितायनेयो ब्रह्मदत्तनामा ऋषिः राजानम् - सोमं भक्षयन्नुवाच । किमिति? अयं त्यस्य राजा मूर्धानंविपातयतात् । अयम् - भक्ष्यमाणो राजा - सोमः त्यस्य -अन्यस्य शिरः विपातयतु । ननु किं तेनापराद्धम् इत्याशङ्क्याह . यदितो अयास्य आङ्गिरसो अन्येन उदगायत् इति । यत् - यस्मात् कारणात् इतः

अस्मात् अयास्य आङ्गिरसः - मुख्यप्राणात् अन्येन - देवतान्तरेण अन्यः उदगायत् - उद्गानं कृतवान् । अयास्याङ्गिरसशब्दितमुख्यप्राणवेदनमन्तरेण देवतान्तरदृष्टिं कृत्वा यस्तूद्गायति, तस्य सोमं पिबतो मूर्धा पततु इत्यर्थः । इति शब्दो ब्रह्मदत्तवचस्समाप्तौ । वाचा च ह्येव स प्राणेन चोदगायत् । हि - यस्माद्धेतोः सोमं पिबन् शपथं कृतवान्, तस्मात् ब्रह्मदत्तः अयास्य आङ्गिरस शब्दित वाक् सहित प्राणवेदनमेव कृत्वा उद्गानं कृतवान् इत्यर्थः ॥ २४ ॥ तस्य हैतस्य साम्नो यः स्वं वेद भवति हास्य स्वम् । तस्य वै स्वर एव स्वम् । तस्मादार्त्विज्यं करिष्यन् वाचि स्वरमिच्छेत् । स तया वाचा स्वरसंपन्नयाऽऽर्त्विज्यं कुर्यात् । तस्माद्यज्ञे स्वरवन्तं दिदृक्षन्त एव; अथो यस्य स्वं भवति । भवति हास्य स्वम्, य एवमेतत् साम्नः स्वं वेद ॥ २५ ॥

प्र–तस्य हैतस्य साम्नो यः स्वं वेद भवति हास्य स्वम् इति । एतस्य-

प्रकृतस्य सामशब्दवाच्यस्य तस्य- प्राणस्य यः स्वं वेद, तस्य स्वम् - धनं भवति इति प्रथमतः प्रलोभ्य शुश्रूषामुत्पाद्याह - तस्य वै स्वर एव स्वम् इति । स्वरः - कण्ठध्वनिः । तस्मादाऽऽर्त्विज्यं करिष्यन् वाचि स्वरम् इच्छेत् इति । ऋत्विजः कर्म आर्त्विज्यम् - औद्गात्रादिकं करिष्यन् वाचि स्वरम् - कण्ठध्वनिम् इच्छेत् । इच्छेत् इति पदव्यत्ययः छान्दसः । यथा कण्ठध्वनिर्भवति, तमुपायं मधुपिप्पलीसेवादिलक्षणं कुर्यादित्यर्थः ।स तया इत्यादि स्पष्टम् । तस्माद्यज्ञे स्वरवन्तं दिदृक्षन्त एव इति । यस्मात् स्वर एव साम्नः स्वम्, तस्माद्यज्ञे स्वरवन्तमेव स्तोतारं दिदृक्षन्ते । जना इति शेषः । अथो यस्य स्वम् भवति इति । यस्य स्वम् - धनमस्तीत्यर्थः । अथ शब्दो वाक्यान्तरापक्रमे । अत्यल्पमिदमुच्यते स्वरवन्तं दिदृक्षन्त इति; यस्य स्वम् - धनमस्ति तं सर्वं दिदृक्षन्त

इत्यर्थः । अतः स्वर एव स्वमिति निर्दिष्टस्वरवतो दिदृक्षितत्वं युज्यत इत्यर्थः । सामस्वरे स्वत्ववेदनस्य फलमाह - भवति ह्यस्य स्वम् इत्यादि । स्पष्टोऽर्थः ॥ २५ ॥

तस्य हैतस्य साम्नो यस्सुवर्णं वेद, भवति हास्य सुवर्णम् । तस्य वै स्वर एव सुवर्णम् । भवति हास्य सुवर्णम्, य एवमेतत् साम्नः सुवर्णं वेद ॥ २६ ॥

प्र– तस्य हैतस्य साम्नोः यः सुवर्णं वेद भवति हास्य सुवर्णम् इति । साम्नः प्रकृतस्य सामशब्दितस्य । अन्यः स्पष्टार्थः । एवं फलप्रदर्शनेन शुश्रूषामुत्पाद्याह - तस्य वै स्वर एव सुवर्णम् इति । क्रुष्टप्रथमादिलक्षणसामस्वरविदः स्वर एव सुवर्णम्

भूषणम् इत्यर्थः । सामस्वरे सुवर्णत्व ज्ञानस्य फलमाह - भवति हास्य सुवर्णम् इत्यादि ।स्पष्टोऽर्थः ॥

तस्य हैतस्य साम्नो यः प्रतिष्ठां वेद, प्रति ह तिष्ठति । तस्य वै वागेव प्रतिष्ठा । वाचि हि खल्वेष एतत्प्राणः ‘प्रतिष्ठितो गीयते इत्युहैक’ आहुः ॥ २७ ॥

प्र. - तस्य हैतस्य साम्नो यः प्रतिष्ठां वेद प्रति ह तिष्ठति इति । एवं फल प्रदर्शनेन पूर्ववच्छुश्रूषाम् उत्पाद्याह - तस्य वै वागेव प्रतिष्ठा इति । तस्य सामशब्दितस्य प्राणस्येत्यर्थः । कुत इत्यत्राह-वाचि हि खल्वेष एतत्प्राणः प्रतिष्ठितो गीयते इत्युहैक आहुः । एषः - मुख्यप्राणो वाचि - वागिन्द्रियस्थानभूतजिह्वामूलीय स्थानेषु प्रतिष्ठितस्सन् एतत् साम गीयते- सामभावमापन्न उद्गीयत इत्येक आहुः ।

शब्दोऽवधारणे । पूर्वत्र इह प्रतितिष्ठतीति - प्राणस्य अन्नप्रतिष्ठितत्वोक्तेः वाक्छब्दित जिह्वामूलादि प्रतिष्ठितत्वं एकीयमतमिति भावः ॥ २७ ॥

[अभ्यारोहमन्त्रः] अथातः पवमानानामेवाभ्यारोहः । स वै खलु प्रस्तोता साम प्रस्तौति । स यत्र प्रस्तुयात्, तदैतानि जपेत् - असतो मा सद्गमय, तमसो मा ज्योतिर्गमय मृत्योर्मा अमृतं गमयेति । स यदाहासतो मा सद्गमयेति, मृत्युर्वा असत् सदमृतं मृत्योर्माऽमृतं गमय अमृतं मा कुर्वित्येवैतदाह । तमसो मा ज्योतिर्गमयेति । मृत्युर्वे तमो ज्योतिरमृतम् । मृत्योर्माऽमृतं गमय अमृतं मा कुर्वित्येवैतदाह । मृत्योर्माऽमृतं गमयेति । नात्र तिरोहितमिवास्ति । अथ यानीतराणि स्तोत्राणि तेष्वात्मने अन्नाद्यमागायेत् । तस्माद् तेषु बरं वृणीतं यं कामं कामयेत् तम् । स एष एवंविदः उद्गाताऽऽत्मने वा यजमानाय वा यं कामं कामयते तमागायति। तद्धैतल्लोकजिदेव । न हैवालोक्यताया आशास्ति, य एवमेतत् साम वेद ॥ २८ ॥ ॥ इति तृतीयाध्याये तृतीयं ब्राह्मणम् ॥

प्र. - एवमुद्गातृप्राणविद्योपदेशानन्तरं एवम्भूत प्राणविदमुद्गातारं प्रति प्रार्थनारूपाणां ब्रह्मलोकाभ्यारोहहेतुतया अभ्यारोह शब्दिताना मन्त्राणां प्रयोगकालं मन्त्रार्थञ्च आह - अथातः पवमानानामेव अभ्यारोहः ’ - इति । बहिष्पवमानामाध्यन्दिनपवमानाऽऽर्भव- पवमानभेदभिन्नानां त्रयाणां पवमानानामेव अभ्यारोहः - अध्यारोहमन्त्रः इति संज्ञेति शेषः । नेतरेषाम् आज्यपृष्टादिस्तोत्राणाम् इत्यर्थः । एतेषाम् अभ्यारोहमन्त्राणां जपकालं वक्तुं प्रथमं प्रस्तोतृसंज्ञार्थमाह - स वै खलु प्रस्तोता साम प्रस्तौति । यः साम प्रस्तौति, स एव खलु प्रस्तोतेत्यर्थः । स यत्र प्रस्तुयात् तदैतानि जपेत् इति । सः

‘प्रस्तोता यत्र- यदा प्रस्तौति, तदा एतानि - यजूंषि यजमानो जपेदित्यर्थः । यजूंषि पठति - असतो मा सद्गमय तमसो मा ज्योतिर्गमय मृत्योर्मा अमृतं गमयेति इति । एतानि यजूंषि स्वयमेव व्याचष्टे - स यदाह असतो मा सद्गमयेति मृत्युर्वा असत्सदमृतं मृत्योर्मा अमृतं गमय अमृतं मा कुरु इत्येवैतदाह इति । मा - मां असतः सद्गमय

मृत्योः अमृतं कुरु । मृत्योः - संसारात् उद्धृत्यामृतं कुरु इत्यर्थः । स यदाह - अनेन मन्त्रेण यत् प्रतिपाद्यमाह, तदमृतं मा कुरु इत्येतदाह इत्यन्वयः । एवमुत्तरत्रापि द्रष्टव्यम् । मृत्योर्मा अमृतं गमयेति नास्ति तिरोहितमिव अस्ति इति । तृतीयपर्यायः स्पष्टार्थ इत्यर्थः । अथ यानीतराणि स्तोत्राणि तेष्वात्मने अन्नाद्यम् आगायेत् इति । यस्मात् कारणात् त्रिष्वपि पवमानेषु उद्गाता एभिः यजुर्मन्त्रैः यजमानेन स्वगतं फलं याचितः; अतः यजमानगामि फलमुद्दिश्यैव आगायेत् । पवमानत्रयव्यतिरिक्तेषु आज्यादिषु नवसु स्तोत्रेषु आत्मने स्वार्थम् अन्नाद्यमुद्दिश्य आगायेत् इत्यर्थः । तस्माद् तेषु वरं वृणीत यं कामं कामयेत् तम् इति । तस्माद्धेतोः तेषु - पवमानव्यतिरिक्तस्तोत्रेषु यं कामं कामयेत - तं वरं वृणीतेत्यर्थः । स एष एवंविद उद्गाता इत्यादि । तमागायति . तमुद्दिश्य आगायति । आगानेन तं संपादयति इत्यर्थः । तद्धैतल्लोकजिदेव इति । - प्रसिद्धं पूर्वोक्तं तदेतत् - प्राणवेदनं लोकजिदेव- ब्रह्मलोकसाधनमेवेत्यर्थः। न हैवालोक्यताया आशास्ति, य एवमेतत् साम वेद इति । सामशब्दनिर्दिष्टं प्राणं एवम् - अयास्याङ्गिरसत्वादि प्रागुक्त गुणविशिष्टं यो वेद- य उपास्ते सः अलोक्यतायाः- लोक्यता लोकार्हता तदभावः अलोक्यता- ब्रह्मलोकार्हत्वाभावतो भीत्या न हैवाशास्ति - नैवाशास्ते । साधनान्तरं नाभिलषति, तस्य कृतार्थत्वादिति भावः ॥ २८ ॥

॥ इति तृतीयाध्याये तृतीयब्राह्मणप्रकाशिका ॥ तृतीयाध्याये चतुर्थं ब्राह्मणम् आत्मब्राह्मणम् [सर्गारम्भे आत्मसद्भावः] आत्मैवेदमग्र आसीत् पुरुषविधः । सोऽनुवीक्ष्य नान्यदात्मनोऽपश्यत् । सोऽहमस्मीत्यग्रे व्याहरत् । ततोऽहन्नामाभवत् । तस्मादप्येतामन्त्रितो ऽहमयमित्येव अग्रे उक्त्वाऽथान्यन्नाम प्रब्रूते यदस्य भवति । स यत् पूर्वोऽस्मात् सर्वस्मात् सर्वान् पाप्मन ‘औषत् तस्मात् पुरुषः। औषति ह वै स तं योऽस्मात् पूर्वो बुभूषति, य एवं वेद ॥ १ ॥

प्र. -अथ नारायण तदुपासन - तत्प्राप्तीनां ‘परमतत्त्वहितपुरुषार्थत्वम् तत्प्रसङ्गात् सनकादियोगीश्वर लक्षणातिसृष्टेः विसृष्ट्यपेक्षया’ अतिशयितत्वं च वक्तुमुपक्रमते आत्मैवेदमग्र आसीत् पुरुषविधः इत्यादिना । इदं - जगत्, अग्रे - सृष्टेः प्राक् पुरुषविधः

आत्मैव आसीत् । अस्य वाक्यस्य कारणवाक्यत्वात् आत्म शब्दः नारायणपरः । स यो हैतमग्निं ‘वैश्वानरं पुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेद’ ‘अन्वयं पुरुषविदः’ (तै.आन-२) इत्यादौ पुरुषविधशब्दस्य भगवति प्रयुक्तत्वाञ्च । पुरुषस्य विधेव विधा यस्य सः पुरुषविधः - पुरुषाकारः इत्यर्थः। अस्यात्मनः पुरुषविधत्वं च आनन्दमयत्वं ज्ञापयति, आत्मन आकाशः सम्भूतः (तै.आन-१) इत्युपक्रम्य, अन्योन्तर आत्माऽऽनन्दमयः (तै.आन-५) इत्युक्त्वा तस्य पुरुषविधत्वप्रतिपादनात् इति व्यासार्यैः सर्वव्याख्यानाधिकरणे (श्री.भा.१-४-८) हि उक्तम् । सोऽनुवीक्ष्य नान्यदात्मनो अपश्यत् । सः- पुरुषः अनुवीक्ष्य - अन्वीक्ष्य साक्षत्कुर्वन् आत्मनोऽन्यम् - विभक्तं नापश्यत्। सृष्टेः प्राक् तमः परे देव एकी भवति (सुबा.उ.३-२-२) इत्युक्तरीत्या अयःपीताम्बुवत् चिदचित्प्रपञ्चस्य परमात्मना अविभक्त्तत्वात् इति भावः । सोऽहमस्मीत्यग्रे व्याहरत् ततोऽहन्नामाभवत् इति। अहम् इति हिरण्यगर्भनाम । अहमभिमानाश्रयव्यष्टिपुरुषाणां प्रथमजत्वात् हिरण्यगर्भस्य । उक्तञ्च मोक्षधर्मे भृगुभरद्वाजसंवादे- तस्मात् पद्यात् समभवत् ब्रह्मा वेदमयो निधिः ॥

अहङ्कार इति ख्यातः सर्वभूतात्मभूतकृत् ॥ (म.भा.शां.१७५-१५,१६) इति तस्मादयमर्थः- अहमस्मि - अहङ्कारः स्याम् , चतुर्मुखः स्यामिति सङ्कल्प’वाक्यम् अग्रे - ब्रह्मसृष्टिपूर्वकाले व्याजहार’ । ततो अहन्नामा - चतुर्मुखः अभवदिति । तस्मादप्येतर्हि आमन्त्रितो अहमयम् इत्येवाग्र उक्त्वा अथ अन्यन्नाम प्रब्रूते यदस्य भवति इति । यस्माद्धेतोः भगवता प्रथमतश्चतुर्मुखे अहंशब्दः प्रयुक्तः तस्माद्धेतोः एतर्ह्यपि ‘अस्मिन्नपि’ काले केनचित् पुंसा ‘आमन्त्रितोऽयं जनः अहमित्येवाग्रे उक्त्वा अथ

पश्चात् अस्य यत् पित्रादिकृतं नाम भवति तद्वदतीत्यर्थः । स यत् पूर्वो अस्मात् सर्वस्मात् सर्वान् पाप्मन औषत्तस्मात् पुरुषः इति। सः आत्मा यस्मात् कारणात् अस्मात् - दृश्यमानात् जगतः सर्वस्मात् पूर्वः, यस्मात् च हेतोः सर्वान् पाप्मन औषत् - अदहत् - उष दाहे (धा.पा.६९६) तस्मात् ‘कारणात् पुरुषशब्दवाच्य इत्यर्थः । अत्र सः इत्यनेन नाव्यवहितस्यापि अहन्नाम्नो ग्रहणमुचितम्, तस्य “कर्मवश्यस्य स्वयं सर्वपापप्रदाहकत्वाद्यसंभवादिति द्रष्टव्यम् । पूर्वत्वं चात्र कारणत्वम् । ततश्च सर्वकारणत्वे सति सर्वपापप्रदाहकत्वं पुरुषशब्दप्रवृत्तिनिमित्तमिति भावः। **

पुरसंज्ञे शरीरेऽस्मिन् शयनात् पुरुषो हरिः ।

शकारस्य षकारोऽयं व्यत्ययेन प्रयुज्यते ॥

इति भगवदसाधारणपुरुषशब्देन उपक्रमात् इयम् उपनिषत् नारायणपरेति अवगन्तव्यम्। तवेदनस्य फलमाह - औषति ह वै स तं यः अस्मात् पूर्वो बुभूषति य एवं वेद इति । य एवम् - पुरुषत्वनिरुक्तिक्रमं वेद - निरन्तरम् अनुसन्धत्ते, सः तम् औषति - दहति किम् इत्यत्राह - यः अस्मात् - इति । पूर्वो बुभूषति - श्रेष्ठो भवितुम् इच्छति । यः अस्मात् - उपासकात् श्रेष्ठो भूयासमिति इच्छति इत्यर्थः। विजिगीषुं तिरस्करोतीति पिण्डितार्थः ॥ १ ॥

सोऽबिभेत् । तस्मादेकाकी बिभेति । स हायम् ईक्षाञ्चक्रे - यन्मदन्य न्नास्ति कस्मान्नु बिभेमीति । तत एवास्य भयं वीयाय । कस्माद्ध्यभेष्यत् ? द्वितीयाद्वै भयं भवति ॥ २ ॥

प्र. - सोऽबिभेत् इति । सः ‘अहन्नामा चतुर्मुखः अबिभेत् - आत्मन एकाकि तां दृष्ट्वा अस्थानभयाविष्टः अभवदित्यर्थः। अत्र सः इति न परमप्रकृतस्य परमात्मनः परामर्शः सम्भवति, तस्य ‘अपहतपाप्मत्वेन भयसम्बन्धाभावादिति द्रष्टव्यम् । तस्मादेकाकी बिभेति इति । अत एव हि लोके ‘अद्यतनोपि’ असहायो बिभेति इत्यर्थः। स हायमी- क्षाञ्चक्रे इति । ह शब्दः वृत्तार्थस्मरणे । सः -अयं चतुर्मुखः एवम् ईक्षाञ्चक्रे - इत्थम् अचिन्तयत् इत्यर्थः । किमिति? यन्मदन्यन्नास्ति कस्मान्नु बिभेमीति इति। यत्

यस्माद्धेतोः मत् - मत्तः अन्यत् - मत्प्रतिद्वन्द्वि वस्त्विह नास्ति, कुतोऽहं बिभेमीति । लोके हि प्रतिद्वन्द्विसत्वे असहायत्वं भयहेतुः । तदभावे असहायत्वं न भयहेतुरिति भावः। तत एवास्य भयं वीयाय इति । तत एव - विवेकरूपात् ‘ज्ञानादस्य हिरण्यगर्भस्य भयं वीयाय - वीतमीत्यर्थः । उक्तमर्थम् श्रुतिः स्वयमेव अनुमोदते - कस्माद्ध्यभेष्यत् द्वितीयाद्वै भयं भवतीति । द्वितीयस्य प्रतिद्वन्द्विन एव भयहेतुत्वम्, अतः तस्यैव अभावे कुतो भयं प्राप्स्यतीति भावः । हिरण्यगर्भस्यापि शरीरपरिग्रहानन्तरमेव भयोत्पते शरीरित्वम् कष्टमिति भावः। अत्र अद्वैतसाक्षात्कारात् भयं निवृत्तमिति नार्थः । तथा सति आत्मरतेः तस्योत्तरत्र नैव रेमे इत्यादिना अरतिरिरंसा प्रतिपादनविरोधात् । प्रारब्धवशात् अरतिरिरंसानुवृत्तौ भयमपि तद्वशात् कुतो नानुवर्ततेत्यास्तां तावत् ॥ २ ॥

[स्त्रीपुरुषरूपेण आविर्भूय मनुष्यादिसृष्टिः] स वै नैव रेमे । तस्मादेकाकी न रमते । स द्वितीयमैच्छत् । स हैतावानास, यथा स्त्रीपुमांसौ संपरिष्वक्तौ । स इममेवात्मानं द्वेधा अपातयत् । ततः पतिश्च पत्नी च अभवताम् । तस्मादिदम् अर्धबृगलमिव स्व इति ह स्माह याज्ञवल्क्यः । तस्मादयमेकांशः’ स्त्रिया पूर्यत एव । ताँ समभवत् । ततो मनुष्या अजायन्त ॥ ३ ॥

प्र– स वै नेव रेमे इत्यादि । सः - चतुर्मुखः नैव रेमे । इष्टार्थसंयोगजा प्रीतिः रतिः । तां न लब्धवान् इत्यर्थः । तस्मादेकाकी न रमते इति । यस्मादेकाकिनः चतुर्मुखस्य न रतिः अत एव अद्यापि असहायस्य रतिः नोपलभ्यत इत्यर्थः। स द्वितीयमैच्छत् इति । सः

प्रजापतिः द्वितीयं रन्तुमैच्छत् इत्यर्थः । स हैतावानास यथा स्त्रीपुंसौ संपरिष्वक्तौ

इति । शब्दः वृत्तार्थस्मरणे । यथा लोके स्त्रीपुंसौ रत्यर्थ संपरिष्वक्तौ यत्परिमाणो

स्याताम् , तत् परिमाणो विवृद्धौ बभूवेत्यर्थः । स इममेवात्मानं द्वेधा अपातयत् इति । सः

प्रजापतिः इमम् - विवृद्धम् आत्मानं - शरीरं द्वेधा अपातयत् । ततः पतनादेव पतिपत्नी- शब्दवाच्यौ दम्पती अभवतामित्यर्थः । उक्तञ्च श्रीविष्णुपुराणे - ब्राह्मणोऽभून्महान् क्रोधः त्रैलोक्यदहनक्षमः। (वि.पु.१-७-१)

भ्रूकुटीकुटिलात् तस्य ललाटात् क्रोधदीपितात् ।

समुत्पन्नस्तदा रुद्रो मध्याह्नार्कसमप्रभः॥

अर्धनारीनरवपुः प्रचण्डोऽतिशरीरवान् ।

विभजाऽऽत्मानमित्युक्त्वा तं ब्रह्मान्तर्दधे ततः ॥

तथोक्तोऽसौ द्विधास्त्रीत्वं पुरुषत्वं तथाकरोत् ॥

(वि.पु.१.७-११,१२.१४) इति ।

श्रीभागवते च - कस्य रूपमभूद्द्वेधा यत् कायमभिचक्षते ।

ताभ्यां रूपविभागाभ्यां मिथुनं समपद्यत ॥ (भाग.३-१२-५२) इति।

तस्मादिदम् अर्धबृगलमिव स्व इति ह स्माह याज्ञवल्क्यः इति । तस्माद्धेतोः इदं शरीरं स्वः स्वस्य आत्मन इति यावत् । विभक्तिव्यत्ययः छान्दसः । विवाहात् प्राक् अर्धबृगलमिव - अर्धविदलमिव इति ह याज्ञवल्क्य आह स्म उक्तवान् । तस्मादयमेकांशः स्त्रिया पूर्यत एव इति । यस्मात् विवाहात् प्राक् अर्धविदलम् तस्मात् एकांशः पुरुषशरीरार्धभागः विवाहे सति स्त्रिया पूर्यते । अर्धो वा एष आत्मनो यत् पत्नी इति श्रुतेरित्यर्थः। आकाशः स्त्रिया पूर्यत इति पाठेऽपि आकाशः पूरणीयावकाशः इत्यर्थः । तां समभवत् इति । ताम् शतरूपाख्यां आत्मनो दुहितरं स प्रजापतिः समभवत् - मैथुन्यम् उपगतवान् । ततः - तस्मात् सङ्गमात् मनुष्या उत्पन्ना इत्यर्थः । उक्तञ्च विष्णुपुराणे - शतरूपाश्च तां नारी तपोनिर्धूतकल्मषाम् ।

स्वायम्भुवो मनुर्देवः पत्नीत्वे जगृहे प्रभुः ॥ (वि.पु.१.७.१७) इति ॥ ३ ॥

सो हेयमीक्षाञ्चक्रे-कथन्नु मा आत्मन एव जनयित्वा सम्भवति? हन्त तिरोऽसानीति । सा गौरभवत्, ऋषभ इतरः । तां समेवाभवत् । ततो गावोऽजायन्त । वडबेतराऽभवत्, अश्ववृष इतरः । गर्दभीतरा, गर्दभ इतरः । ताँ समेवाभवत् । तत एकशफमजायत । अजेतराऽभवत् बस्त इतरः अविरितरा, मेष इतरः । तां तां समेवाभवत्’ । ततोऽजावयोऽजायन्त । एवमेव यदिदं किञ्च मिथुनमापिपीलिकाभ्यः तत् सर्वमसृजत ॥ ४ ॥

प्र. - सो हेयमीक्षाञ्चक्रे इति । सा उ ह इयम् इति पदच्छेदः । ‘सेयं ह - प्रसिद्धा शतरूपा’ कन्या ईक्षाञ्चक्रे - इत्थम् अचिन्तयत् इत्यर्थः । चिन्ताप्रकारमेवाह - कथन्नु मा आत्मन एव जनयित्वा सम्भवति इति । नु इति वितर्के कथंनु - कथं वा मा - मां आत्मन एव उत्पाद्य सम्भवति - उपगच्छति। इति वितर्क्य, ततः तत्रोपायं निश्चित्याह - हन्त तिरोसानीति । हन्त इत्युपायदर्शनजहर्षे । तिरोसानि - जात्यन्तरेण तिरोहिता भवानि इति निश्चितवतीत्यर्थः । इति ईक्षित्वा सा शतरूपा गौरभवत्वृषभ इतरः इति । इतरः मनुः वृषभः - ‘पुंगवः अभूत् । ताम् - गोरूपां शतरूपां समेवाभवत् - समभवदेव । पुनरपि मैथुन्यम् उपगतवान् इत्यर्थः। ततो गावो अजायन्त इति । स्पष्टोऽर्थः । वडबेतरा अभवत् इति । इतरा -शतरूपा वडबा-

अश्वा अभवत् । अश्ववृष इतरःइतरस्तु - मनुः अश्ववृषः - पुमश्वो अभवदत्यर्थः । वृषः वृष सेचने (धा.पा.७०६) रेतस्सेक्तेत्यर्थः । तत एकशफमजायत इति। अश्वाश्वतरगर्दभादयः अजायन्त इत्यर्थः । इतरत् स्पष्टम् । अजेतरा अभवत् वस्त इतरः

इत्यादि । बस्तः - छागः। तां तां समेवाभवत् इति । [तां तां इति वीप्सा] ताम् - अजां ताम् - अविञ्च समभवदेव इत्यर्थः । इतरस्य स्पष्टोऽर्थः॥ ४ ॥

सोऽवैदहं वाव सृष्टिरस्मि, अहं हीदं सर्वम् असृक्षीति । ततः सृष्टिरभवत् । सृष्ट्यां हास्येतस्यां भवति, य एवं वेद ॥ ५ ॥

प्र. - सोऽवैदहं वाव सृष्टिरस्मि अहं हीदं सर्वं असृक्षीति इति । हि -‘यस्मात् अहं इदं सर्वं जगत् असृक्षि - सृष्टवानस्मि । तस्मात् अहं वाव अहमेव सृष्टिः। सृज्यते इति सृष्टिः जगदुच्यते। अहमेव सृष्टिरिति - मत्सृष्टमिदं जगदहमेवेति सः प्रजापतिः अवैत् - ज्ञातवान् इत्यर्थः । ततः सृष्टिरभवत् इति । यस्माद्धेतोः प्रजापतिः अहमेव सृष्टिरिति अभेदोपचारेण ‘स्वस्मिन् सृष्टिशब्द’ प्रायुंक्त, ततः स सृष्टिनामा अभवदित्यर्थः । सृष्ट्यां हास्यैतस्यां भवति, य एवं वेद इति । य एवम् - सृष्टिनिरुक्तिं वेद , सः अस्य

प्रजापतेः एतस्यां सृष्टौ ब्रह्मसृष्टौ ह प्रसिद्धः मुख्यो भवतीत्यर्थः ॥ ५ ॥

[अग्न्यादिदेवता सृष्टिरूपविसृष्टिः]

अथेत्यभ्यमन्यत् स मुखाच्च योनेर्हस्ताभ्याञ्चाग्निमसृजत । तस्मात् एतदुभय- मलोमकमन्तरतः । अलोमका हि योनिरन्तरतः । तद् यदिदमाहुरमुं यजामुं यजेत्येकैकं देवम्, एतस्यैव सा विसृष्टिः । एष उ होव सर्वे देवाः । अथ यत् किञ्चेदमार्द्रम् तद् रेतसोऽसृजत । तदु सोमः । एतावद्वा इदं सर्वम्, अन्नच्चेवान्नादश्च । सोम एव अन्नमग्निरन्नादः । सैषा ब्रह्मणोऽतिसृष्टिः यच्छ्रेयसो देवानसृजत । अथ यन्मर्त्यस्सन् अमृतान- सृजत, तस्मादतिसृष्टिः । अतिसृष्ट्यां हास्यैतस्यां भवति, य एवं वेद ॥६॥

प्र.- अर्थत्यभ्यमन्यत् इति । सः - चतुर्मुखः अथ इति मङ्गलशब्दोच्चारण पूर्वकम् अभ्यमन्यत्। एवं मुखाच्च हस्ताभ्याञ्च मन्थनं कृत्वा योनेः कारणभूतात् मुखात् हस्ताभ्याञ्च अग्निमसृजत इत्यर्थः । तस्मादेतदुभयम् अलोमकम् अन्तरतः इति एतदुभयम् - फूत्कारनिर्मन्थनसाधनमुखहस्तात्मकमुभयं तस्मात् - अग्रेर्योनित्वात् अन्तरतः - मध्ये अलोमकम् - लोमशून्यमित्यर्थः । अग्नियोनित्वात् मुखस्य हस्तयोः अन्तरतः लोमशून्यत्वसिद्ध्यर्थं योनेरन्तरतो निर्लोमकत्वप्रसिद्धिं दर्शयति - अलोमका हि योनिरन्तरतः इति । स्पष्टोऽर्थः । तद्यदिदमाहुरमुं यजामुं यजेत इति । तत् - तस्माद्धेतोः यज्ञे याज्ञिकाः अमुं यज अमुं यजेति यदिदं वचनम् एकैकं देवम् - इन्द्रादि- लक्षणं निर्दिश्याहुः, सा - तद्वचननिर्दिष्ट इन्द्रादिदेवविषयिणी सर्वा विसृष्टिः विविधसृष्टिः एतस्य - प्रजापतेरेव । अग्निद्वारा सर्वदेवतासृष्टिरपि प्रजापतिकर्तृकैवेत्यर्थः । सर्वस्य यष्टव्यदेवजातस्य अग्न्यधीनसत्ताकत्वादिति भावः । एष ह्येव इति । अत एत तत्सृष्टत्वादेव सर्वे देवाः एष उ ह्येव - ‘एष प्रजापतिरेव’। कार्यकारणयोः अभेदोपचारात् तथोक्तिः। अथ यत्किञ्चेवम् आर्द्रम् इति । अथ इति वाक्यान्तरोपक्रमे । यत्किञ्चेदं कार्यम् आर्द्रम् - द्रवरूपं दृश्यते,. तद्रेतसो असृजत ‘तद्रेतसा’ प्रजापतिः असृजतेत्यर्थः। शिश्नाद्रेतो रेतस आपः …इति श्रुतेः । तदुसोम इति । उः अवधारणे । तदु - तद्द्र्व- द्रव्यमेव सोमः सोमरसः । एतावद्वा इदम् इति । इदम् सर्वम् - कार्यजातम् एतावद्वै - एतावदेव । किं तत् ? अन्नं चैव अन्नादश्च - अन्नान्नादात्मकम् इत्यर्थः। सर्वस्य जगतः अन्नान्नादात्मकत्वे अग्नीषोमात्मकत्वम् आयातमित्याह - सोम एवान्नम् अग्निरन्नादः इति । सोमस्य ‘भक्ष्यमाणत्वात् अन्नत्वम्, अग्नेः ताद्दाहकतया अन्नादत्वम् । अतो जगत् अग्निषोमात्मकमिति भावः। सैषा ब्रह्मणोऽतिसृष्टिर्यच्छ्रेयसो देवान् असृजत इति । यत् - यस्मात् श्रेयसः - श्रेष्ठान् ऊर्ध्वरेतसः सनकसनन्दनादीन् देवान् असृजत, सैषा ब्रह्मणो अतिसृष्टिः - अतिशयिता सृष्टिः अतिसृष्टिः । कथम् अतिशयितसृष्टित्वम् इत्यत आह अथ यन्मर्त्यस्सन् अमृतान् - असृजत, तस्मादति सृष्टिः इति । अथ यत् यस्मात् प्रजापतिः स्वयम् मर्त्यस्सन् - मरणधर्मा सन् अमृतान् मुक्तियोग्यान् ज्ञानवैराग्यादिसम्पन्नान् मुमुक्षून् सनकसनन्दनादीन् असृजत , तस्मात् सा अतिसृष्टिः इत्यर्थः । अतिसृष्ट्यां

हास्यैतस्यां भवति इति । य एवं वेद - य एवं प्रकारेण ज्ञानवान्, स एतस्यां अस्य-

‘चतुर्मुखस्य अतिसृष्टौ’ प्रसिद्धः मुख्यो भवतीत्यर्थः । ज्ञानवैराग्यमुमुक्षासम्पन्नो भवतीति यावत् ॥ ६ ॥

[अव्याकृतरूपेण आदौ स्थितिः]

**
तद्धेदं तर्ह्यव्याकृतमासीत् । तन्नामरूपाभ्यामेव व्याक्रियत असौनामाऽयमिदंरूप
इति । तदिदमप्येतर्हि नामरूपाभ्यामेव व्याक्रियते असौनामायमिदंरूप इति ।
स एष इह प्रविष्ट आनखाग्रेभ्यः, यथा क्षुरः क्षुरधाने अवहितः स्यात्,
विश्वम्भरो वा विश्वम्भरकुलाये । तं न पश्यति’ अकृत्स्नो हि सः ।
प्राणन्नेव प्राणो नाम भवति, वदन् वाक्, पश्यंचक्षुः, शृण्वन् श्रेत्रम्,
मन्वानो मनः । तान्यस्यैतानि कर्मनामान्येव ।
स योऽत एकैकमुपास्ते, न स वेद । अकृत्स्नो ह्येषोऽत एकैकेन भवति।
आत्मेत्येव उपासीत । अत्र ह्येते सर्व एकं भवन्ति ।
तदेतत् पदनीयमस्य सर्वस्य, यदयमात्मा । अनेन ह्येतत् सर्वं वेद। यथा
ह वै पदेनानुविन्देत् एवम् । कीर्तिं श्लोकं, विन्दते, य एवं वेद ॥ ७ ॥
प्र. - ननु** आत्मैवेदमग्र आसीत्** इत्ययुक्तम्**,** यदिदं किञ्च** मिथुनमापिपीलिकाभ्यः
तत्सर्वम् असृजत इति सृष्टतया निर्दिष्टस्य मिथुनादिरूपस्य प्रपञ्चस्य इदंशब्दनिर्दिष्टस्य
आत्मभिन्नत्वेन आत्मैवेदमग्र आसीत् इति वक्तुमयुक्तत्वात् इत्याशङ्क्य इदमादि-
नामरूपभाक्त्वात् इदंशब्दवाच्यमपि तच्छरीरं ब्रह्मैव । तस्य च ‘आत्मैवेदमग्र आसीत्’
इत्यात्मशब्दवाच्य सूक्ष्मचिदचिद्विशिष्टब्रह्माभेद उपपद्यत इत्येतत् तदर्थोऽत्र सन्दर्भ आरभ्यते-
तद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यामेव व्याक्रियत इति । शब्दो वृत्तार्थस्मरणे
तदिदम् - मिथुनादिलक्षणं जगत् तर्हि तदासृष्टेः प्राक् अव्याकृतमासीत् - अव्यक्तमासीत्,
अव्यक्तशरीरकं ब्रह्मासीत् इत्यर्थः; नामरूपाभ्यां न व्याकृतमिति व्युत्पत्या अव्याकृतशब्दस्य
अव्यक्तवचनत्वात् । अव्यक्तत्वञ्च नामरूपविशिष्टतया अनभिव्यक्तत्वम् । अव्याकृत शब्दस्य
तच्छरीरकब्रह्मपरत्वे युक्तिः समनन्तरमेव स्पष्टयिष्यते। तदेव अव्याकृतशरीरं ब्रह्मैव-
नामरूपाभ्याम् इति इत्थंभावे तृतीया - नामरूपवत्तया व्याक्रियत - व्याकृतमासीत् ।
व्याङ्भ्याम् उपसर्गाभ्याम्, विविच्य समन्तात्कृतमासीत् इत्यर्थः । तदेव दर्शयति
असौनामायमिदंरूप इति । असौ नामा देवमनुष्यादिनामा, इदंरूपः - करचरणादिरूपवान्
इत्येवं अयम् - पूर्वोक्त आत्मैव व्याक्रियतेत्यर्थः । तदिदमप्येतर्हि नामरूपाभ्यामेव व्याक्रियते असौनामाऽयमिदंरूप इति इति । अनेन वाक्येन सृषट्यादिकालिके अप्रत्यक्षे
अव्याकृतनामरूपव्याकरणे सुग्रहत्वाय निदर्शनमुच्यते । तत् - पूर्वं तथा नामरूपाभ्यां
व्याकरणाद्धेतोः एतदपि - इदानीमपि इदम् - उत्पद्यमानं चराचरव्यक्तिजातम् , इदं रूपोऽयम् - एतादृशसंस्थानवानयम् असौ नामा - देवदत्त यज्ञदत्तादिनामवानिति
नामरूपाभ्यामेव व्याक्रियते । इत्थमेव आदावपि नामरूपाभ्यां व्याकरणमवधेयम् इत्यर्थः ।
उभयत्र, असौ नामा इति छान्दसोऽलुक् । अदोनामेति वक्तव्ये, असौ नामेति लिङ्गव्यत्ययोऽपि
छान्दसः । ततश्च नामरूपवत्वमव्याकृतशब्दितस्य ब्रह्मणः सिद्धमिति सर्वाणि च नामानि
तत्प्रवृत्तिनिमित्तभूतानि च रूपाणि तदीयान्येव । अतः इदमादिशब्दैरपि तस्यैव
निर्देशसम्भवात् ‘आत्मैवेदमग्र आसीत्’ इत्यभेदनिर्देशे न अनुपपत्तिरिति भावः । नामरूपाभ्यामेव इत्यत्र एवकारो भिन्नक्रमः । तदेव नामरूपाभ्याम् स्वयमेव
व्याक्रियतेत्यर्थः । व्याक्रियत इत्यत्र कर्मकर्तरि लकारः । कर्त्रन्तराक्षेपे गौरवात् तदात्मानं
स्वयमकुरुत (तै.आन.७) इत्यनेन ऐकार्थ्यात् । उक्तञ्च भगवता भाष्यकृता - तदेव
अविभक्तनामरूपं ‘ब्रह्मसंज्ञ’ सत्यसंकल्पं स्वेनैव विभक्तनामरूपं स्वयमेव व्याक्रियत
इत्युच्यते इति । ननु अव्याकृतमासीत् इत्यत्र क्तप्रत्ययस्य कर्मार्थकत्वमेव वक्तव्यम्; न तु
कर्मकर्त्रर्थकत्वम् । न च कर्मकर्तर्यपि कर्मवद्भावेन क्तप्रत्ययसिद्धिरस्तु इति वाच्यम् लान्तस्य
यः कर्मणा तुल्यक्रियः कर्ता, तस्यैव कर्मवद्भावविधानात् । ‘कृत्यर्थखलर्थेषु’ कर्मवद्भावा-
भावात् अवश्यं कर्मण्येव क्तः वक्तव्यः। ततश्च तदवैरूप्याय व्याक्रियत इत्यत्रापि
कर्मण्येव लकारः अस्त्विति चेन्न - एवकारेण कर्त्रन्तरव्यवच्छेदात् कर्त्रन्तराक्षेपे गौरवाञ्च
व्याक्रियतेति लकारस्य कर्मकर्तर्येव अभ्युपगन्तव्यत्वात्, वैरूप्यस्यापि सोढव्यत्वात् ।

[तस्यात्मनः सर्वत्रान्तःप्रवेशः]

ननु आत्मनः कथं देवमनुष्यादिनामरूपवत्वम् देवमनुष्यादिशरीरे तस्य
अवर्तमानत्वादिति इमां शङ्कां व्यावर्तयति - स एष इह प्रविष्टः आनखाग्रेभ्यः इति ।
एषः - अव्याकृतशरीरकः सः - पूर्वमात्मशब्दितः परमात्मा इह - कार्यवर्गे आनखाग्रेभ्यः प्रविष्टः - कारणावस्थायां चिदचितोः व्याप्य स्थितत्वात् कार्यावस्थायामपि तयोः परिपूर्ण
एव स्थित इत्यर्थः । प्रविष्टः - अन्तर्यामिरूपेणेति शेषः । तत्र द्रष्टान्तम् आह- यथा क्षुरः क्षुरधाने अवहितः स्यात् विश्वम्भरो वा विश्वम्भर कुलाये इति । क्षुरो धीयते
अस्मिन्निति क्षुरधानम् - क्षुरकोशः । तस्मिन् यया क्षुरः अवहितः - पिहिताप्रविष्टः, विश्व
बिभर्ति वैश्वानराग्निरूपेणेति विश्वम्भरः - अग्निः। ‘सः तस्य विश्वम्भरस्याग्नेः कुलाये .
हनीडे - दारुणीति यावत् - यथा पिहितप्रविष्टः तथा इह प्रविष्ट इति पूर्वेणान्चयः । तत्र पश्यत्यकृत्स्रो हि सः इति । यस्तिलतैलवत् सर्वस्वरूपव्याप्तं परमात्मानं न पश्यति सः
अकृत्स्नः- अपूर्णस्वरूपः। असत्कल्प इति यावत् ।

[तस्यैव प्राणवागादित्वम्]

परमात्मन एव सर्वनामरूपवत्वमुपपादयति - प्राणन्नेव प्राणो नाम भवति इत्यादिना । प्राणन्नेव - प्राणनक्रियां कुर्वन्नेव परमात्मा प्राणनामा’ भवति । प्राणितीति
प्राणः इति व्युत्पत्तेरित्यर्थः । वदन् वाक् - वदनक्रियां कुर्वन्नेव वाङ्नामा भवति ।
वक्तीति वाक्पश्यंश्चक्षुः - दर्शनक्रियां कुर्वन् चक्षुर्नामा भवति। चष्ट इति चक्षुः ।
शृण्वन् सन् श्रोत्रं भवति । शृणोतीति हि श्रोत्रम्। मन्वानः- मननं कुर्वन्नेव मनो
भवति । मनुत इति हि मनः । तान्येतानि प्राणादिनामानि अस्य ‘परमात्मनः पाचक-
लावकादिवत् कर्मनामान्येव । अतः स परमात्मैव प्राणवागादिद्वारा प्राणनवदनादिकर्ता,
तथा तत्तच्छब्दप्रवृत्तिनिमित्तभूत जातिगुणक्रियाद्याश्रयः स एवेति तस्यैव तत्तत्प्रवृत्तिनिमित्तक-
चराचरशब्दवाच्यत्वमपि इति सर्वनामरूपाश्रयत्वं परमात्मनो अस्तीति भावः। अत्र
प्राणानादिकरणेषु प्राणादिषु कर्तृत्वोपचारः प्राधान्यादवगन्तव्यः ।

[कारणत्वाधिकरणम्]

इदञ्च वाक्यं का रणत्वेन च आकाशादिषु (ब्र.सू.अ.१-४-४) इत्यधिकरणे समन्वयाध्याये
चिन्तितम् । तथाहि - सदेव सोम्येदमग्र आसीत् (छा.उ.६-२-१) इति क्वचित् सत्पूर्विका
सृष्टिराम्नायते । असद्वा इदमग्र आसीत् (शत.ना.मा.पा.६-१-१,तै.आन.७-१) इति क्वचित्
असत्पूर्विका। अतो वेदान्तेषु सृष्टिरव्यवस्थितेति जगतो ब्रह्मैककारणत्वम् निश्चेतुं न
शक्यम् । तद्धेदं तर्ह्यव्याकृतमासीत् तन्नामरूपाभ्यां व्याक्रियत (बृ.उ.३-४-७) इति
अव्याकृतकर्तृकसृष्टेराम्नातायाःसाङ्ख्यस्मृत्यनुरोधित्वात् प्रधानमेव जगत्कारणम् । अत
ईक्षणादयो गौणा नेतव्याः इति पूर्वपक्षे प्राप्ते - कारणत्वेन च आकाशादिषु यथाव्यपदिष्टोक्तेः
(ब्र.सू.१-४-१४) समाकर्षात् (ब्र.सू.१-४-१५) इति सूत्राभ्यां सिद्धान्तितम् । जन्माद्यस्य यतः (ब्र.सू.१-१-२) इत्यादि सूत्रेषु प्रतिपादितम् सर्वज्ञं सत्यसङ्कल्पं ब्रह्म
यथाव्यपदिष्टम् इत्युच्यते । तस्यैव, आत्मन आकाशस्सम्भूतः (तै.आन.१-१) इत्यादिषु
वाक्येषु आकाशादिकारणत्वेनोक्तेः। समाकर्षात् (ब्र.सू.१-४-१५) असद्वा इदमग्र आसीत्
(शत.ब्रा.मा.पा.६-१-१, तै.आन.७-१) इत्यत्र सोऽकामयत (तै.आन.६-२) इति प्रकृतस्य
ब्रह्मण एव । तदप्येष श्लोको भवति (तै.आन.६-३) इति समाकृष्य असद्वा इदमग्र
आसीत् (शत.ब्रा.मा.पा.६-१-१,तै.आन.७-१) इत्यभिधानात् असच्छब्दः सूक्ष्म-
चिदचि द्विशिष्टब्रह्मपरः’, तद्धेदं तर्ह्यव्याकृतमासीत् (बृ.उ.३-४-७) इत्यत्रापि अव्याकृतस्य
स एष इह प्रविष्टः आनखाग्रेभ्यः पश्यँश्चक्षुः इत्यादिना उत्तरत्र समाकृष्यमाणत्वात् ।
पश्यत्वादीनामचेतनेऽभावात् । अव्याकृतशब्दोऽपि अव्याकृतशब्दित अव्यक्तशरीरक-
परमात्मपर एवेत्यर्थः इति निर्णीतम् ।

[स्मृत्यधिकरणम्]

तथा साङ्ख्य यस्मृतिश्च नानुरोद्धव्येति स्मृतिपादे, स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्न
अन्यस्मृत्यनकाशदोषप्रसङ्गात् (ब्र.सू.२-१-१) इत्यधिकरणे स्थितम् । तत्र हि सदेव
सोम्येदमग्र आसीत् (छां.उ.६-२-१) तद्धेदं तर्ह्यव्याकृतमासीत् (बृ.उ.३-४-७)
इत्येवंरूपश्रुतीन परस्परविरुद्धार्थतया प्रतीयमानानां स्वतोऽर्थनिर्णयासमर्थानां तत्त्वप्रतिपादक-
सर्वज्ञ’कपिलप्रगीतस्मृत्यनुसारेणैव’ अर्थो निर्णेतव्यः। इतरथा साङ्ख्य स्मृतेः मन्वादिस्मृतिवत्
कर्मस्वरूपे सावकाशत्वाभावेन अनवकाशत्वरूपो दोषः प्रसज्येत इति पूर्वपक्षं कृत्वा - यद्वै
किञ्च मनुः अवदत् तद् भेषजम् (तै.सं.२-२-१०) इति श्रुतिप्रतिपादितप्रामाण्यानां
श्रुत्यविरुद्धानांभूयसीनां मन्वादिस्मृतीनां प्रधानकारणवादेऽनवकाशप्रसङ्गेन श्रुतिविरुद्धायाः
एतादृश्या एकस्याः साङ्ख्यस्मृतेरेव अनादरणीयत्वमुचितम् । मन्वादिस्मृतयो हि ऐककण्ठ्येन
सर्वज्ञं ‘परमात्मानं जगत्कारणम्’ अभिदधति । यथाऽऽह मनुः- आसीदिदं तमोभूतम् (म.स्मृ.१-५) इत्यारभ्य-
ततःस्वयंभूर्भगवान् अव्यक्तो व्यञ्जयन्निदम् ।
महाभूतादिवृत्तौजाः प्रादुरासीत् तमोनुदः॥
सोऽभिध्याय शरीरात् स्वात् सिसृक्षुः विविधाः प्रजाः।
अप एव ससर्जादौ तासु वीर्यम् अपासृजत् ॥ (म.स्मृ.१-६-८) इति ।

भगवद्गीतासु च -
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा । (भ.गी.७-६)
अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ॥ (भ.गी.१०-८) इति।

महाभारते च -
कुतः सृष्टमिदं सर्वं जगत् स्थावरजङ्गमम् ।
प्रलये च कमप्येति तं मे ब्रूहि पितामह ॥ (म.भा.शां.८-१) इति पृष्ट आह .
नारायणो जगन्मूर्तिरनन्तात्मा सनातनः । (म.भा.शां.८-१२) इति ।

तथा-
तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम । (म.भा.शां.८-१३) इति;
अव्यक्तं पुरुषे ब्रह्मनिष्क्रिये संप्रलीयते । (म.भा.शा.८-१४) इति च । आह च भगवान् पराशरः-
विष्णोः सकाशात् उद्भूतं जगत् तत्रैव च स्थितम् ।
स्थितिसंयमकर्ताऽसौ जगतोऽस्य जगञ्च सः ॥
(वि.पु.१-१-३१) इति। आह च आपस्तम्बः-
पूः प्राणिनः सर्वगुहाशयस्य अहन्यमानस्य विकल्मषस्य (आप.ध.सू.२२-६) इत्यारभ्य;
तस्मात् कार्याः प्रभवन्ति सर्वे स मूलं शाश्वतिकः स नित्याः (आप.ध.सू.२६-१-२) इति । न च मन्वादिस्मृतीनां कर्मस्वरूपे सावकाशत्वम् । कर्माराध्यपरमात्मस्वरूपेऽपि तात्पर्यात्।
ननु कपिलेन मन्वाद्यभिमतस्य परमात्मनः अनुपलब्धेः तस्य अप्रामाणिकत्वमिति चेत्, तत्राह- इतरेषाञ्च अनुपलब्धः (ब्र.सु.२-१-२)। इतरेषां मन्वादीनां वैदिकानां बहूनां
साङ्ख्योक्तप्रकारेण तत्वानुपलब्धेः साङ्ख्यस्मृतिः अननुरोद्धव्या इति सिद्धान्तः कृतः।

[रचनानुपपत्यधिकरणम्]

तथा साङ्ख्याभिमतस्य प्रधानस्य जगत्सृष्टृत्वं न युक्तिसहमिति तर्कपादे रचनानुपपत्तेः (ब्र.सू.अ.२-२-१) इत्यधिकरणे स्थितम् । तथाहि - रचनानुपपत्तेश्च नानु पानं प्रवत्तेश्च (ब्र.सू.२-२-१) । सत्त्वरजस्तमोमयसुखदुःखमोहात्मकं जगत् तत्स्वरूपोपादा न कं कार्य त्वात् इत्यनुमानसिद्धं साङ्ख्याभिमतं प्रधानं न जगत्कारणम् अनुमीयते इति व्युत्पत्य । अनुमानशब्दः आनुमानिकप्रधानपरः - तादृशस्य प्रधानस्य तादृशस्वभावाभिज्ञचेतन अनधिष्ठितत्वेन विचित्रप्रपञ्चरचनासामर्थ्यानुपपत्तेः । तादृशचेतनाधिष्ठितस्यैव दार्वादेरचेतनस्य कार्यप्रवृत्तेः दर्शानाञ्च न प्रधानं जगत्कारणमित्यर्थः । पयोम्बुवञ्चेत् तत्रापि (ब्र.सू.२-२-२) । ननु पयसः चेतनानधिष्ठितस्यापि दधिभावेन परिणामवत्, वारिदमुक्तजलस्य नालिकेररसात्
आत्मना परिणामवत् चेतनानधिष्ठितस्यापि प्रधानस्य परिणामः किं न स्यादिति चेन्न
तत्रापि प्राज्ञाधिष्ठानमस्त्येव; तस्यापि पक्षत्वादित्यर्थः । अन्यत्राभावाञ्च न तृणादिवत्
(ब्र.सू.२-२-४) । धेन्वाधुपयुक्ततृणादेः प्राज्ञानधिष्ठितस्यापि क्षीराकारेण परिणामदर्शनात्
इत्युदाहरणान्तरावलम्बनेन शङ्का । धेन्वाद्युपयुक्तातृणवत् अनडुदाधुपयुक्ततृणादेः क्षीरभावेन परिणामाभावात् तत्रापि प्राज्ञादिष्ठानमपेक्षितमिति परिहाराभिप्रायः । पुरुषाश्म-वदिति चेत् तथापि (ब्र.सू.२-२-५)। दृक्छक्तियुक्त पुरुषसन्निधानात् दृक्छक्तिशून्योऽप्यन्धो यथा प्रवर्तते, यथा अयस्कान्ताश्मसन्निधानात् अयसः अचेतनस्य प्रवृत्तिः एवं चिन्मात्रात्मक- पुरुषसन्निधानात् अचेतनं प्रधानं जगत्सर्गे प्रवर्तते इति चेत् - तथापि प्रधानस्य स्रष्टृत्वं नोपपद्यते । पुरुषस्य चिन्मात्रवपुषः तदनुगुणोपदेशादिव्यापाराभावात्, सन्निधानमात्रस्य प्रयोजकत्वे नित्यसर्ग प्रसङ्गात् । अङ्गित्वानुपपत्तेश्च (ब्र.सू.२-२-६) प्रलये साम्यावस्थानां सत्त्वरजस्तमसाम् उत्कर्षापकर्षलक्षण अङ्गागिभाववशेन जगत्सृष्टिः ‘वक्तव्या । सा नोपपद्यते । कालविशेषे अङ्गागिभावे नियामकाभावात् इत्यर्थः। अन्यथाऽनुमितौ च
ज्ञशक्तिवियोगात् (ब्र.सु.२-२-७) । दूषितप्रकारातिरिक्तप्रकारेण प्रधानानुमानेऽपि ज्ञातृत्व-
शक्त्यभावात् ‘जगत्स्रष्टृत्वं प्रधानस्य नोपपद्यते । अभ्युपगमेऽप्यर्थाभावात् (ब्र.सू.२-२-८)
आनुमानिकप्रधानाभ्युपगमेऽपि पुरुषस्य तन्मते चिन्मात्रत्वेन निष्क्रियत्वेन भोगाप-
वर्गयोरभावात् पुरुषभोगाद्यर्था प्रधानप्रवृत्तिरिति नोपपद्यते । अतो व्यर्थः प्रधानाभ्युपगमः । विप्रतिषेधाञ्चासमञ्चसम् (ब्र.सू.२-२-९) । पुरुषो न संसरति न मुच्यते – इत्युक्त्वा ‘पुरुषभोगाद्यर्था’ प्रधानप्रवृत्तिरित्याधुपपादयत् साङ्ख्यदर्शनं पूर्वोत्तरविरोधाच्च असमञ्जसमिति स्थितम् । ततश्च साङ्ख्याभिमतप्रधानस्य तुच्छत्वात्। तद्धेदं तर्ह्यव्याकृतम् आसीत्
(बृ.उ.३-४-७) इत्यत्र न तत्प्रतिपादकत्वशङ्कावकाशः । प्रकृतमनुसरामः स योऽत एकैकमुपास्ते न स वेद । अतः - अस्माद्धेतोः सर्वनामरूपविशिष्टं
परमात्मानं विहाय, एकैकम् - एकैकनामरूपविशिष्टं जीवमुपास्ते, न स वेद -स नोपास्ते। तदुपासनम् उपासनमेव न भवतीत्यर्थः। उपासनशब्दमध्यपठितत्वात्
विदिरुपासनपरः । उक्तं च व्यासार्यैः लघुसिद्धान्ते - न स वेद इत्यस्य, स योऽत एकैक-
मुपास्ते इत्येतद्वाक्यपूर्वकत्वात् उपक्रमोपसंहारयोः उपासनशब्दः, मध्ये वेदनशब्दः
इति । कुत इत्यत्राह - अकृत्स्रो ह्येषोऽत एकैकेन भवति इति। अतः - ब्रह्मण एव
सर्वनामरूपविशिष्टतया सर्वात्मत्वात् ‘एकैकेन नामरूपेण विशिष्टः एषः -जीवः
अकृत्स्नः - अपूर्णा भवतीत्यर्थः । एकैकेनेति इत्थंभूतलक्षणतृतीया’ । तस्माद्धेतोः, आत्मेत्येव उपासीत । अत्र ह्येते सर्व एकं भवन्ति इति । ‘एकैक ‘नामरूपं जीवं विहाय सर्वनामरूपभाजं
परमात्मानमुपासीत । अत्र - परमात्मनि हि ‘यस्मात् सर्वे’ पदार्थाः शरीरतया एकं भवन्ति । न तु स्वरूपैक्यम्ः जडाजडयोः ऐक्यासम्भवात् : शरीर-शरीरिणोश्च पृथक्-
स्थित्याद्यभावेन एकत्वव्यवहारस्य दृष्टत्वादिति द्रष्टव्यम्। ततश्च देवदत्तस्य आत्मा
यज्ञदत्तस्य आत्मेति किञ्चित्प्रतियोगिकतयोपासने हि न सर्वान्तर्भावः । आत्मत्वेनैव
उपासने सङ्कोचकाभावात् असङ्कुचितं सर्वात्मत्वं लभ्यते इति भावः । यद्वा-स योऽत एकैकमुपास्ते न स वेद इति । यस्मात् नामरूपात्मक
प्रपञ्च विशिष्टं ब्रह्म , अतः यः एकैकं विशेषणांशं विशेष्यांशं वा पृथक्सिद्धतया उपास्ते न
स वेद । तत् उपासनमेव न भवतीत्यर्थः। कुत इत्यत्राह - अकृत्स्रोह्येषोऽत एकैकेन भवत्यात्मेत्येवोपासीत इति । हि - यस्मात् एषः विशिष्टपदार्थः एकैकेन - विशेषणांशेन
विशेष्यांशेन वा अकृत्स्नः - अपूर्णो भवति - केवलविशेषणांशेऽपि पूर्णता नास्ति ।
केवलविशेष्यांशेऽपि पूर्णता नास्ति । यतः अतः आत्मेत्येव नामरूपात्मकचिदचित्प्रपञ्चा-
पृथक्सिद्धविशेष्यत्वेन उपासीत इत्यर्थः । अत्र ह्येते सर्वं एकं भवन्ति इति । अत्र हि
विशिष्टे सर्वे पदार्थाः एकं भवन्ति - अन्तर्भवन्ति इत्यर्थः । विशिष्टे विशेषण विशेष्ययोः
अन्तर्भूतत्वादिति भावः । एतदेव अभिप्रेत्य ‘आत्मेति तु उपगच्छन्ति (ब्र.सू.४-१-८)
इत्यत्र व्यासार्यैः अकृत्स्नःअपूर्णः । विशिष्ट एव हि पूर्णः इत्युक्तम् । तदेतत् पदनीयम् अस्य सर्वस्य इति । तदेतत् परमात्मस्वरूपम् अस्य सर्वस्य नामरूपात्मकप्रपञ्चस्य पदनीयम् - प्रपदनीयम् प्रपत्तव्यमित्यर्थः । पदेर्धातोः अनीयर्
प्रत्ययः । अथवा पदनीयम् - ज्ञातव्यमिति वा अर्थः । तत्र हेतुमाह यदयमात्मा इति ।
अस्य सर्वस्य इत्येतदत्रापि ‘काकाक्षिन्यायेन अन्वेति । यत् - यस्मात् कारणात् अस्य -
सर्वस्य अयमात्मा, अत इत्यर्थः । तमेवैकं जानथात्मानं (मुं.उ.२-२-५) इति आत्मन एव
ज्ञातव्यत्वाभिधानादिति भावः । अनेन ह्येतत् सर्वं वेद इति । अनेन आत्मना अभिज्ञातेन
सर्वं वेद - सर्वज्ञो भवतीत्यर्थः । ‘अत्र दृष्टान्तमाह - यथा’ ह वै पदेन अनुविन्दे
देवम्
इति ।** ह वै** शब्दौ प्रसिद्धौ । यथा चोराद्यपहृतं गवादिधनं** पदेन** - तत्पदाङ्कितप्रतिपदेन
‘लभते’, एवं पदनीयत्वेन प्राङ् निर्दिष्टेन’ सर्वस्य पदभूतेन ब्रह्मणा सर्वम् अनुविन्देत् वेदेत्यर्थः । अनुङ्गिकञ्च फलमाह - कीर्तिं श्लोकं विन्दते य एवं वेद इति । कीर्तिम् -
ख्यातिसामान्यम् , श्लोकम् - पुण्यश्लोकत्वं च लभत इत्यर्थः ॥ ७ ॥
**
[आत्मनः पदनीयत्वं प्रेयस्त्वच्च]**

**
तदेतत् प्रेयः पुत्रान् ‘प्रेयो मित्रात्’ प्रेयो वित्तात् प्रेयोऽन्यस्मात्
सर्वस्मादन्तरतरो’ यदयमात्मा। स योऽन्यमात्मनः प्रियं ब्रुवाणं ब्रूयात् प्रियं रोत्स्यति इतीश्वरो ह तथैव स्यात् । आत्मानमेव प्रियमुपासीत । स य आत्मानमेव
प्रियमुपास्ते, न हास्य प्रियं प्रमायुकं भवति ॥ ८ ॥**

प्र- तदेतत् प्रेयः पुत्रात् प्रेयो मित्रात् प्रेयो वित्तात् प्रेयोऽन्यस्मात्
सर्वस्मादन्तरतरी यदयमात्मा
इति ।** यत्** - यस्मात् कारणात् अयं सर्वेषां** ‘अन्तरतर**:
अभ्यन्तरतरः ‘अत्यन्तान्तरङ्गः - मुख्य’ इति यावत् तादृश आत्मा, तत् - तस्माद्धेतोः
एतत् - एषः पुत्रमित्रादिप्रियान्तरापेक्षया अतिप्रियतरः इत्यर्थः । स योऽन्यमात्मनः प्रियं ब्रुवाणं ब्रूयात् प्रियं रोत्स्यतीतीश्वरो ह तथैव स्यात् इति। स यः -एववित्
आत्मनोऽपि परमात्मापेक्षयापि अन्यत् प्रिय अस्तीति ब्रुवाणं प्रति वः ईश्वरः- प्रयं
रोत्स्यति - प्रियनिरोधमीश्वरः करिष्यतीति यदि ब्रूयात्, तथैव भवेदित्यर्थः । आत्मानमेव प्रियमुपासीत इति। तस्माद्धेतोः निरतिशयप्रियम् परमात्मानमेव उपासीतेत्यर्थः ।
‘परमात्मनो हि अनुभूयमानस्य निरतिशयानन्दताया प्रियत्वमानन्दवल्ल्यादिसिद्धं द्रष्टव्यम्।
स य आत्मानमेव प्रियमुपास्ते इत्यादि । प्रमायुक्तम् - प्रकृष्टं मायुः मरणं यस्य तत् ।
प्रमायुक्तं न भवति - अविनष्टं भवतीत्यर्थः । शिटं स्पष्टम् ॥८॥

[अहं ब्रह्मास्मीत्युपासनविधानोद्धातः]

**
तदाहुः यद ब्रह्मविद्यया सर्वं भविष्यन्तो मनुष्या मन्यन्ते, किमु तद्
‘ब्रह्मावैत्’, यस्मात् तत् सर्वम् अभवदिति ॥ ९ ॥
प्र. - तदाहुः** इति ।** तत्** - वक्ष्यमाणं** आहुः** - पप्रच्छुः इत्यर्थः ।** यद् ब्रह्मविद्यया
सर्वं भविष्यन्ती मनुष्या मन्यन्ते किमु तद्ब्रह्मावैत्, यस्मात् तत् सर्वमभवदिति** ।
इदं हि वाक्यं व्यासार्यैः, ‘यद्ब्रह्मविद्यया सर्वं भविष्यन्तः - सर्वशब्दवाच्य परमात्मपर्यन्ता-
विर्भाव’कामाः मनुष्या मन्यन्ते, किमु तद्ब्रह्मावैत् यस्मात्तत्सर्वमभवदिति - तत् ब्रह्म किं वेद्यं वस्त्वन्तरमवैत् यस्माद्वेदनात् तत् सर्वमभवदिति ब्रह्मणोऽपि परं तदुपास्यं
वस्त्वस्ति न वेति बुभुत्सा उत्थापिता इति सर्वव्याख्यानाधिकरणे व्याख्यातम् ॥ ९ ॥

[‘अहम् ब्रह्मास्मि’ इत्युपासनौचित्यनिरूपणम्, उपासकस्य
देवैरनभिभाव्यत्वम्, अन्येषां दैवपशुत्वं च]

ब्रह्म वा इदमग्र आसीत् । तदात्मानमेवावैदहं ब्रह्मास्मीति । तस्मात् तत्
सर्वमभवत् । तद्यो यो देवानां प्रत्यबुध्यत, स एव तदभवत् तथर्षीणाम्, तथा
मनुष्याणाम् । तद्धेतत् पश्यन् ऋषिर्वामदेवः प्रतिपेदे अहं मनुरभवं सूर्यश्चेति ।
तदिदमप्येतर्हि य एवं वेद अहं ब्रह्मास्मीति, स इदं सर्वं भवति ।
तस्य ह न देवाश्चनाभूत्या ईशते । आत्मा ह्येषां स भवति ।
अथ योऽन्यां देवतामुपास्ते अन्योऽसावन्योऽहमस्मीति न स वेद । यथा पशुरैवं स देवानाम् । यथा ह वै बहवः पशवो मनुष्यं भुञ्ज्युः एवमेकैकः पुरुषो
देवान् भुनक्ति । एकस्मिन्नेव पशावादीयमानेऽप्रियं भवति, किमु बहुषु? तस्मादेषां
तन्न यम्, यदेतन्मनुष्या विद्युः ॥ १० ॥
**
प्र. - ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावैदहं ब्रह्मास्मीति तस्मात्तत्सर्व-
मभवदिति
इति । इदमपि वाक्यं व्यासार्यैः उपास्यान्तरशून्यमित्युत्तरमाह - तदात्मानमेवावैदहं
ब्रह्मास्मीति तस्मात्तत्सर्वमभवत् इति आत्मानमेव अवैत् । नतु अन्यदुपास्यम् । तस्मात्
तत् सर्वम् अभवदित्यर्थः। अन्यवेदनस्य उपायत्वनिषेधे तात्पर्यम्ः न तु स्ववेदनस्य
उपायत्वविधाने । यथा, स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः
(श्वे.उ.६-९) इति कारणानन्तरनिषेधेन परमकारणत्वसिद्धिः । एवमुपास्यान्तरनिषेधेन
ब्रह्मणः परमोपास्यत्वमिह विविक्षितम् इति सर्वव्याख्यानाधिकरणे विवृतम् । अत्र आत्मेतरत्
न अवैत् इति वक्तव्ये, आत्मानमेवावैदहं ब्रह्मास्मीति इत्युक्तिः तदिदमप्येतर्हि य एवं वेद
अहं ब्रह्मास्मीति इत्यादिना वक्ष्यमाणब्रह्मवेदन प्रशंसाहेतुसिद्ध्यर्था । ब्रह्म वा इदमग्र
आसीत् इति तस्य ब्रह्मणः जगत्कारणत्वोक्तिश्च, कारणं तु ध्येयः (अथर्वशिखा.३) इति
कारणस्यैव ध्येयतया सर्वकारणस्य ब्रह्मणः कारणान्तराभावादेव ध्येयान्तरं नास्तीति
द्योतनार्थेति तात्पर्य द्रष्टव्यम् । एवमुपास्यान्तरशून्यं ब्रह्म ज्ञातवतः फलमाह - तद्यो यो देवानां प्रत्यबुध्यत,
स एव तदभवत्। तथर्षीणाम्, तथा मनुष्याणाम्
इति । देवानाम् ऋषीणां मनुष्याणां
वा मध्ये’ यो यो ब्रह्म प्रत्यबुध्यत, स सर्व एव तदभवत् - सर्वमभवत् । सर्वशब्दवाच्य-
परमात्मपर्यन्ताविर्भाववान् अभवदित्यर्थः । सर्वात्मभूतपरमात्मात्मको अभवत् ।
सर्वेणैकात्म्यं, प्राप्तवानिति यावत् । ऐकात्म्यस्य नित्यप्राप्तस्य प्राप्तव्यत्वासम्भवात् तत्साक्षात्कारः
फलमिति फलति । तदेवाह - तद्वैतत् पश्यन् ऋषिर्वामदेवः प्रतिपेदे अहं मनुरभवम्
सूर्यश्चेति
इति। ह शब्दो वृत्तार्थस्मरणे।
तदेतत्** - ब्रह्म** पश्यन्** - उपासीनो वामदेवर्षिः
अहं मनुरभवं सूर्यश्चेति - मदात्मैव मन्वादीनामात्मेति प्रतिपेदे। मन्वादिना सर्वेण
स्वस्येकात्म्यं साक्षात्कृतवानित्यर्थः । तदितमप्येतर्हि य एवं वेद अहं ब्रह्मास्मीति स
इदं सर्वं भवति
इति । एतर्ह्यपि - एतस्मिन्नपि काले** तदिदं ब्रह्म अहमस्त** - सर्वात्मक-
ब्रह्मात्मकोऽहमस्मीत्येवं यो यो वेद, ‘स सर्वोऽपि इदं सर्वं भवति - एतत्सर्वात्मक-
ब्रह्मपर्यन्ताविर्भाववान् भवतीत्यर्थः। ततश्च ब्रह्मात्मकत्वोपासनस्य सर्वैकात्म्य-
साक्षात्कारहेतुत्वं पूर्वकाले एव, नास्मिन् काले इति न मन्तव्यमिति भावः । तस्य ह न देवाश्चनाभूत्या ईशते इति । तस्य - ब्रह्मविदः देवाश्चन - देवा
अपि अभूत्यै - मुक्त्यैश्वर्यविधाताय नेशते - न समर्थाः कुतोऽन्ये इति भावः । च न

शब्दोऽप्यर्थः। व्यवधानं छान्दसम् । तत्र हेतुमाह - आत्मा ह्येषां स भवति इति। सः
ब्रह्मवित् यस्मात् देवानामपि आत्मा - ‘नियन्ता भवति । ब्रह्मविद्याप्रभावेन वशित्वादि-
सिद्धिमत्तया तानपि नियन्तुं शक्त इत्यर्थः। अतः तस्य मुक्त्यैश्वर्यव्याघाते न कोऽपि
समर्थं इत्यव्याहता एवंविदो मुक्तिरिति भावः । एवं ब्रह्मात्मविदां कृतार्थतामुक्त्वा अतादृशामनर्थं दर्शयति- अथ योऽन्यां
देवतामुपास्ते अन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवं स देवानाम्

इति। यः पुमान् धारकत्वनियन्तृत्वादिना स्वस्मात् आत्मत्वेन अन्यां देवतां -
परमात्मरूपाम्, असौ - देवता अन्यः - धारकत्वनियन्तृत्वादिना आत्मभूतादन्यः अहं
च धार्यत्वनियाम्यत्वादिप्रयुक्त तच्छरीरत्वाश्रयात् अन्यः - भिन्न इत्युपास्ते, न स वेद .
‘सः अज्ञ’ इत्यर्थः । यथा इत्यादि यथा लोके पशुःमनुष्याणां शेषभूतः, एवं स देवानां
पशुः। तक्तिङ्करतया शेषभूतः इत्यर्थः । यथा ह वै बहवः पशवो मनुष्यं भुञ्ज्युः
एवमेकैकः पुरुषो देवान् भुनक्ति
इति ।** ह वै** शब्दःप्रसिद्ध्यर्थे । यथा बहवः पशवः
एकं मनुष्यं दोहवाहादिक्रियाभिः भुञ्ज्युः - परिपालयन्ति, एवमेकैकः अब्रह्मवित् पुरुषः
शुश्रूषया अग्नीन्द्रादीन् देवान् भुनक्ति - परिपालयति, प्रीणयति । तक्तिङ्करो भवतीति
यावत् । एतावांस्तु विशेषः - बहवः पशवः एकस्य किङ्कराः । अब्रह्मवित् पुरुषस्तु
एकैक एव सर्वदेवानां किङ्कर इति । ततः फलितमाह - एकस्मिन्नेव पशावादीयमानेऽप्रियं
भवति, किमु बहुषु । तस्मादेषां तन्न प्रियम्, यदेतन्मनुष्या विद्युः
इति । लोके हि
पशुस्वामिन आच्छिद्य राजचोरादिभिः, एकस्मिन् पशौ आदीयमाने ‘गृह्यमाणे
अप्रियं भवति, किमुत बहुषु पशुषु ह्रियमाणेषु । तस्मात् एषां देवानां तत् प्रियं न
भवति। मनुष्या ब्रह्म विद्युः - ब्रह्मज्ञानिनो भवन्तीति यदेतत् , तन्न प्रियमित्यन्वयः ।
अतः स्वकिङ्करतया पशुभूता मनुष्याः ब्रह्मविद्यां प्राप्य पशुभावात् मुच्येरन्निति बुद्ध्या
यथाशक्ति देवतेभ्यो विघ्नमाचरन्तीति भावः । अतः । श्रेयांसि बहुविघ्नानि ’ इति न्यायेन
विघ्रबाहुल्यजटिलेऽपि ब्रह्मज्ञाने विघ्नवारणक्षमभगवत्प्रणामार्चनादिकम् अनुतिष्ठन् अवहितो
ब्रह्मविद्यायां यतेतेति भावः ।

[आत्मवोपासनाधिकरणार्थतत्त्वम्]

आत्मेत्येव उपासीत इति वाक्यं भगवता बादरयणेन चतुर्थाध्याये चिन्तितम् ।
तत्र हि - पृथगात्मानं प्रेरितारञ्च मत्वा जुष्टस्ततस्तेनामृतत्वमेति (श्वे.उ.१-६) इति
जीवेश्वरपृथक्त्वज्ञानस्य अमृतत्वसाधनत्वश्रवणात् स्वात्मानं प्रति अपृथक्सिद्ध
विशेष्यत्वलक्षणमात्मत्वं ब्रह्मणो नास्त्येव। अत एव आत्मेत्येव उपासीत इति करणेन
दृष्टिविधित्वं सूच्यते। तादृशी च’ दृष्टिः ‘न मोक्षार्थोपासनविषया । ततश्च मोक्षोपासने
तात्त्विकविषयत्ववश्यम्भावेन अतस्मिन् तदारोपरूपदृष्टिविधेरयुक्तत्वात् पृथक्त्वेनैव
अनुसन्धानं कार्यम् न तु अपृथक्सिद्धविशेष्यत्वरूपात्मत्वेनेति पूर्वपक्षे पठति-आत्मेति
तूपगच्छन्ति ग्राहयन्ति च (ब्र.सू.४-१-३) इति । त्वं वा अहमस्मि भगवो देवते, अहं वै
त्वमसि भगवो देवते (वरा.उ.२-३४) इति पूर्वे उपासितारः आत्मत्वेन उपगच्छन्ति- उपासत इत्यर्थः। य आत्मनि तिष्ठन् इत्यादीनि न शास्राणि प्रत्यगात्मापेक्षया आत्मतां
ग्राहयन्ति प्रतिपादयन्ति । न च पृथक्त्वानुसन्धानस्य विरोधः शक्यः । किञ्चिज्ज्ञत्वसर्वज्ञत्वादि-
लक्षणभेदकाकारस्य पारमर्थिकत्वात् भेदरूपं पृथक्त्वमस्त्येव । नियमेन आधारत्वलक्षणम्
अपृथक्सिद्धविशेष्यत्वरूपम् आत्मत्वमप्यस्त्येव । न हि ईदृशं आत्मत्वं भेदविरोधि।
अतः आत्मेत्येव उपासीत इति विधिवशात् आत्मत्वेनैव उपासनं कर्तव्यमिति स्थितम् ।
प्रकृतमनुसरामः ॥ १० ॥

[देवलोके इन्द्रादिक्षत्रसृष्टिः]

**
ब्रह्म वा इदमग्र आसीदेकमेव । तदेकं सन्न व्यभवत् । तच्छ्रेयोरूपमत्यसृजत
क्षत्रम्, यान्येतानि देवत्रा क्षत्राणीन्द्रो वरुणः सोमो रुद्रः पर्जन्यो यमो मृत्युरीशान इति। तस्मात् क्षत्रात् परं नास्ति । तस्मात् ब्रह्मणः क्षत्रियमधस्तात् उपास्ते
राजसूये । क्षत्र एव तद्यशो दधाति ।
सैषा क्षत्रस्य योनिर्यत् ब्रह्म । तस्मात् यद्यपि राजा परमतां गच्छति,
ब्रह्मैवान्तत उपनिः अयति स्वां योनिम् । य उ एने हिनस्ति, स्वां स योनिमृच्छेति।
स पापीयान् भवति, यथा श्रेयांसं हिंसित्वा ॥ ११ ॥**

प्र. - स मुखाच्च योनेर्हस्ताभ्याञ्च अग्रिम् असृजत इति तस्य श्रान्तस्य तप्तस्य
तेजोरसो निरवर्तताग्निः इति च ब्राह्मणवर्णानिवसष्टिः प्रागुक्ता । इदानीम् इन्द्रादिरूपक्षत्रादि-
सृष्टिं वक्तुम् आत्मैवेदम् अग्र आसीत् इत्यादिनोक्तमेवप्रपञ्चस्य ब्रह्मोपादनकत्वम्,
बहुकृत्वोऽपि पथ्यं वदितव्यम् इति नीतिमनुसृत्य शिष्यावधानाय पुनरपि स्मारयति
ब्रह्म वा इदमग्र आसीदेकमेव इति । स्पष्टोऽर्थः । तदेकं सन्न व्यभवत् इति । न व्यभवत् - वैभवं न प्राप्तमित्यर्थः । न च अग्नि
सृष्ट्यनन्तरं ब्रह्मणः कथमेकत्वोक्तिरिति वाच्यम् । तदविवक्षया एकत्वोक्तत्युपपत्तेरिति
द्रष्टव्यम् । तदच्छ्रेयोरूपम् अत्यसृजत क्षत्रम् इति । क्षत्रम् - क्षत्रियाख्यं श्रेयः - श्रेष्ठं
रूपम् - शरीरभूतम् अत्यसृजत - अतिक्रान्ततया सर्वाधिकतया ससर्जेत्यर्थः । तदेव
प्रपञ्चयति - यान्येतानि देवत्रा क्षत्राणीन्द्रो वरुणः सोमो रुद्रः पर्जन्यो यमो मृत्युरीशान
इति
इति ।** देवत्रा** - देवेषु । ‘देवमनुष्य’ (पा.सू.५-४-५६) इत्यादिना सप्तम्यर्थे
त्राप्रत्ययः । देवेषु इन्द्रवरुणादीनि यान्येतानि क्षत्राणि, तानि ससर्जेत्यर्थः। ब्रह्म बृहस्पतिः
क्षत्रमिन्द्रः मरुतो वै देवानां विशः (तै.सं.५-४-७) इति श्रुतेः इन्द्रादीनां क्षत्रियत्वम् ।
देवेष्वपि तपोविशेषणवर्णविशेषसम्भवात् अभिमानित्वाद्वा क्षत्रियत्वं द्रष्टव्यम् । उभयमपि
व्यासार्यैः वर्णितम् । तस्मात् क्षत्रात् परं नास्ति इति । यस्माद्धेतोः इन्द्रादयो देवश्रेष्ठा
अपि क्षत्रियाः, तस्मात् क्षत्रियात् परम् श्रेष्ठं नास्तीत्यर्थः । तस्माद्ब्राह्मणः क्षत्रियमधस्तात्
उपास्ते राजसूये
इति । यस्मात् क्षत्रियः श्रेष्ठः** तस्मात् ब्राह्मणपि राजसूय** यज्ञे
क्षत्रियमधस्तात् - क्षत्रियस्य अधस्तात् - ततोऽन्यत्रापि दृश्यते इति द्वितीया - उपास्ते -
उपविशति इत्यर्थः । क्षत्र एव तद्यशो दधाति इति । राजसूये राज्ञा ब्रह्मन् इत्यामन्त्रितः
ऋत्विक् राजानमाह - त्वं राजन् ब्रह्मासि इति श्रवणात् तद्यशः - ब्राह्मणत्वप्रयुक्तं यशो राजसूये क्षत्रे - क्षत्रिये एव ब्राह्मणो यस्मात् कारणात् आदधाति, तस्माच्च हेतोः क्षत्रिय
एव श्रेष्ठ इत्यर्थः । सैषा क्षत्रस्य योनिः यद्ब्रह्म इति । एवं विधस्यापि क्षत्रस्य, ब्रह्म - ‘ब्राह्मण
इति यत्, सा योनिरित्यर्थः’ । राजसूये क्षत्रियगतातिशयस्यापि ब्राह्मणधीनत्वात् यजन
अध्ययनयोः तदधीनत्वाच्च क्षत्रियस्य श्रैष्ठ्यं ब्राह्मणानुग्रहप्रयुक्तमिति भावः । योनिशब्दाभि-
प्रायेण सैषा इति स्त्रीलिङ्गनिर्देशः । तस्माद्यद्यपि राजा परमतां गच्छति, ब्रह्मवान्तत
उपनिश्रयति स्वां योनिम्
इति । तस्मादेव हेतोः यद्यपि राजसूयाभिषेकदशायां
परमताम् - श्रेष्ठतां राजा - क्षत्रियो गच्छति, कर्मावसाने तु स्वां योनिम् - स्वयोनिभूतं
ब्रह्म -ब्राह्मणमेव उपनिःश्रयति - याजनादिकार्याय ब्राह्मणसमीपमुपेत्य निहीनतया
श्रयतीत्यर्थः । य उ एनं हिनस्ति स्वां स योनिमृच्छति इति । य उ -यस्तु क्षत्रियः
एनम् - ब्राह्मणं हिनस्ति , सः स्वां योनिं स्वोत्पतिस्थानमेव ऋच्छति - हिनस्तीत्यर्थः ।
‘मातृपितृहा’ भवतीति यावत् । तदेव विवृणोति स पापीयान् भवति, यथा श्रेयांसं
हिंसित्वा
इति ।** यथा श्रेयांसम्** - पित्रादिकं हिंसित्वा पापीयान् भवति, एवं पापीयान्
भवतीत्यर्थः ॥ ११ ॥

[देवलोके वैश्यादिसृष्टिः]

**
स नेव व्यभवत् । स विशमसृजत, यान्येतानि देवजातानि गणश
आख्यायन्ते - वसवो रुद्रा आदित्या विश्वे देवा मरुत इति ॥ १२ ॥
स नैव व्यभवत् । स शौद्रं वर्णमसृजत पूषणम् । इयं वै पूषा । इयं हीदँ
सर्वं पुष्यति, यदिदं किञ्च ॥ १३ ॥
प्र**-** स नैव व्यभवत् । स विशमसृजत** इति । सः परमात्मा क्षत्रं सृष्ट्वापि
न व्यभवत् - विभुत्वं नाप्तवान् । ततो विशम् - वैश्यमसृजतेत्यर्थः । तदेव दर्शयति - यान्येतानि देवजातानि गणश आख्यायन्ते-वसवो रुद्रा आदित्या विश्वेदेवा
मरुत
इति ।** देवजातानि** - देवसमूहाः** गणशः** - गणरूपेण आख्यायन्ते । वसुरुद्रादित्य-
विश्वदेवमरुतां गणदेवतात्वप्रसिद्धेः ॥ २२ ॥ स नैव व्यभवत् । स शौद्रं वर्णम् असृजत पूषणम् इति । स्पष्टोऽर्थः । इयं
वै पूषा, इयं हि इदं सर्वं पुष्यति यदिदं किञ्च
इति ।** इयम्** - पृथिव्येव पूषा इत्युच्यते ।
हि - यस्मात् यदिदं किञ्च - दृश्यमानम् इदं सर्वं पुष्यति । अतः पृथिव्या एव सर्वकार्य-
पोषकत्वात् पृथिव्येव पूषा इत्यर्थः । यथा अग्रीन्द्रादीनां ब्राह्मणत्वक्षत्रियत्वाश्रयत्वम् ,
एवं पृथिव्या अपि शूद्रत्वाश्रयत्वं तदभिमानित्वं वा द्रष्टव्यम् ॥ २३ ॥

[क्षत्र - क्षत्रभूत धर्मसृष्टिः]

स नैव व्यभवत् । स तच्छ्रेयोरूपमत्यसृजत धर्मम् । तदेतत् क्षत्रस्य क्षत्रम्, यद्धर्मः । तस्मात् धर्मात् परं नास्ति । अथो अबलीयान् बलीयाँसम् आशँसते धर्मेण, यथा राज्ञैकम् । यो वै स धर्मः सत्वं वै तत् । तस्मात् सत्यं वदन्तमाहुः धर्मं वदतीति, धर्म वा वदन्तँ सत्यं वदतीति । एतद्ध्येवैतत् उभयं भवति ॥ १४ ॥

प्र. - स नैव व्यभवत् । तच्छ्रेयोपमत्यसृजत धर्मम् इति । एवं चातुर्वर्ण्यं- सृष्ट्यनन्तरमपि सः आत्मा नैव व्यभवत् - विभूतिं न आप्तवान् । अतो विभूति वृद्धयर्थं तच्छ्रेयोरूपम् - तस्य श्रेयोरूपत्वेन प्राङ्निर्दिष्टस्य क्षत्रियस्यापि श्रेयोरूपं धर्मं सृष्टवानित्यर्थः । तदेतत् क्षत्रस्य क्षत्रं यद्धर्मः इति । तदेतत् - धर्म इत्युक्तमेतत् वस्तु क्षत्रस्य ‘क्षत्रम्’ - सर्वनियन्तृतया उग्रादपि क्षत्रानियन्तृतया उग्रमित्यर्थः । तस्माद्धर्मात्परं नास्ति । तस्मात् धर्मात् परम् - अधिकं किमपि नास्ति इत्यर्थः । अथो अबलीयान् बलीयांसम् आशंसते धर्मेण, यथा राज्ञा, एवम् इति । अथो शब्दः अप्यर्थः । अबलीयानथो - ‘अबलिष्टोपि’ पुमान् बलीयांसं पुमांसं जेतुमाशंसते धर्मेण - धर्मबलेन । यथा राजा एवम् इति । यथा राजबलमवलम्ब्य दुर्बलो बलीयांसं’ जिगीषति तथेत्यर्थः । लोकेऽस्मिन् दुर्बलस्य दारादिकम् अपहरन् बलवानपि बाधितो दृष्टः । अतः बलवतः तस्य धर्मविरोधिनः तद्दण्डनं धर्मेणैव कृतमिति गम्यत इति भावः । यो वै स धर्मः, सत्यं वै तत् इति । यः क्षत्रादपि श्रेयोभूतः वै प्रसिद्धो धर्मः, सः सत्यं वै सत्यवदनमेव इत्यर्थः । तत्र युक्तिमाह - तस्मात् सत्यं वदन्तमाहुः धर्म वदतीति, धर्म वा वदन्तँ सत्यं वदतीति

इति । स्पष्टोऽर्थः । एतद्ध्येवैतदुभयं भवति इति । एतद्ध्येव - सत्यवदनमेव एतदुभयम् - सत्यधर्मलक्षणोभयरूपं भवति । तस्मात् सत्यवदनं सर्वशेषभूतमिति भावः ॥ १४ ॥