०३-०१

॥ श्रीः ॥ बृहदारण्यकोपनिषत् (शुक्लयजुर्वेदकाण्वशाखान्तर्गता) [उपक्रमशान्तिपाठः] हरिः ओम् पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ ॥ ओं शान्तिः शान्तिः शान्तिः ॥

शुक्लयजुर्वेदीयानां एषः शान्तिपाठमन्त्रः । परब्रह्मणः समग्रस्वरूपस्वभावप्रतिपादकः इति यथासिद्धान्तं विपुलविशदं विवरणं अर्हति । तथा हि - पूरी आप्यायने (धा.पा.१८०४) इत्यस्मात् चौरादिकत्वेन स्वार्थणिजन्तात् धातोः क्तप्रत्यये सति वा दान्त-शान्त-पूर्ण- दस्त-स्पष्ट-छन्न-ज्ञप्ताः (पा.सू.७-२-२७) इति पाणिनि सूत्रेण पूर्णशब्दोऽयं निपात्यते । इडागमाभावः निपातस्य फलम् । णिलोपः, रात् परत्वात् प्रत्ययतकारस्य नत्वं, तस्य णत्वं चेति पूर्णशब्दसिद्धौ प्रक्रिया । क्तप्रत्ययश्च इह कर्तरि कर्मणि वेति उभयथापि भाव्यम् । तत्र कर्तरि - ब्रह्मस्वरूपेण पूरयति - व्याप्नोति इत्यर्थः । कर्मणि तु ब्रह्म कल्याणगुणैः सम्भृतमित्यर्थः । असङ्कुचितवृत्तिनानेन पूर्णशब्देन सर्वत्र सर्वदा सर्वथा च पूर्णत्वं ब्रह्मणः प्रतिपाद्यते । तद्यथा - सर्वत्रेति सर्वदेशव्याप्तिविवक्षा । सर्वत्र पूर्णता नाम सर्वव्याप्तस्य तत्तद्देशावच्छेदेनापि परिसमाप्यवृत्तित्वपर्यवसानम् । तद्वा कथम्? न हि एकत्र पूर्णतया स्थितस्य अन्यत्र वृत्तिसम्भवः, इति शङ्का निरस्यते सिद्धान्तिभिः विशिष्टाद्वैतिभिः व्यक्तिषु परिसमाप्तामपि व्यापिनीं तार्किकाणां जाति निदर्शयद्भिरिति भाव्यम् । सर्वदा-इति कालानवच्छेदेन व्याप्तिविवक्षा । सर्वथा-इति व्याप्तिप्रकारविवक्षा च । तत्र स्वरूपतः गुणतश्चेति व्याप्तिप्रकारद्वैविध्यम् । तेन दीपादुत्पन्नप्रदीपन्यायेन परस्वरूपवत् उत्तरेषां ‘व्यूह-विभव-अन्तर्यामि-अर्चावताराणां अपि गुणैः पूर्णतासिद्धिः । एतदभिप्रायेणैव मन्त्रपदानि व्याख्येयानि । तथा हि - पूर्णमदः पूर्णमिदं इति पूर्णमिदं पूर्णमदः इति च पाठभेदः दृश्यते । तत्र विप्रकृष्टवाचिना अदश्शब्देन नित्यविभूतिवर्तिपरस्वरूपग्रहणम् । सन्निहितवाचिना इदंशब्देन च हृदयगुहावतिं अन्तर्यामिरूपं विवक्षितम् । पूर्णशब्दः

गुणपौष्कल्यवचनः । तथा च - परवासुदेवमूर्तिरिव अन्तर्यामिस्वरूपं च षाड्गुण्यपुष्कलमिति प्रथमवाक्यार्थः । अथ, पूर्णात् - पूर्वोक्तपरवासुदेवसकाशात् आविर्भूतं पूर्णं - व्यूहस्वरूपं, उदच्यते - बहुप्रकारं भवति । सङ्कर्षण-प्रद्युम्न-अनिरुद्ध-रूपेण द्वि-द्वि-गुणाविष्करणशालि सत् त्रिप्रकारं भवतीति भावः । तत्र व्यूहत्रये प्रतिव्यक्ति गुणद्वयमात्राविष्करणेऽपि स्वतः गुणषट्कमेव इति न न्यूनता भाव्या । इदं चोक्तं पाञ्चरात्रानुसारतः श्रीवत्सचिह्नगुरुभिः वरदराजस्तवे- गुणैष्षभिस्त्वेतैः प्रथमतरमूर्तिस्तव बभौ । ततस्तिस्रः तेषां त्रियुगयुगळैर्हि त्रिभिरभूत् ॥ ( १६* ) इत्यादिना ।* पूर्णस्य पूर्णं** - इह षष्ठ्यन्तपूर्णशब्दः सर्वावतारकन्दभूतं क्षीराब्धिशायि व्यूहरूपं वदति । तत्सम्बन्धि पूर्ण रामकृष्णादि विभवावतारजातम् । तत् (द्वितीयान्तम्) आदाय

स्वहेतुत्वेन स्वीकृत्य, पूर्णमेवावशिष्यते - अर्चावताररूपमेव चरमतया वर्तते सर्वसमाश्रयणोपयोगि नित्यसन्निहितं कल्याणगुणपूर्ण च, इति मन्त्रस्य पदार्थविवरणम् । एतेन परब्रह्मणः सर्वव्याप्तिः सर्वत्र गुणपौष्कल्यं च प्रतिपादितं भवति । अध्ययनारम्भे एवंविधपरिपूर्ण- ब्रह्मस्वरूपध्यानं शान्तिमन्त्रेणानेन विधित्सितमिति बोध्यम् । श्रीवचनभूषणस्य अरुम्बदाख्ये द्रविडभाषामयटिप्पणे समञ्जसमिदं विवरणं दृश्यम् । यद्यपि श्रीरङ्गरामानुजमुनीन्द्रः बृहदारण्यके (७-१) अयं मन्त्रः प्रकरणात् प्रणवस्तुति- परतया व्याख्यातः । तदेवम् - पूर्णमदः पूर्णमिदं इत्यनेन परोक्षप्रत्यक्षसर्वलोकानां वेदशब्दप्रभवत्वात् तद्व्याप्तत्वं प्रोच्य, (कारणेन कार्यस्य व्याप्तत्वात् कारणीभूतवेदशब्दव्याप्तता लोकानां इति) । एवं पूर्णात् (व्याप्तात् लोकात्) पूर्ण पूरणकर्तृव्याहृतिरूपभूर्भुवरादि शब्दजातम् उदच्यते - उत्कृष्टं भवति इति च व्याख्याय, पूर्णस्य पूर्णं - व्याप्तलोकस्य पूरकं व्याहतिरूपशब्दजातम्, आदाय - उपसंहृत्य, पूर्णं - तस्यापि व्यापकं ओङ्काररूपं वस्तु, अवशिष्यते - कार्यसर्वशब्दजाते नष्टेऽपि परिशिष्यते इति विवरणं कृतम् । अथ तैरेव अन्ते इदं च रुच्युत्पादनाय प्रणवस्तुतिमात्रम् । अन्यथा निमित्तकारणस्य व्याहत्यादेः कार्यव्यापकत्वासम्भवात् । उपादानभूतस्य भूतपञ्चकस्यैव व्यापकत्वसम्भवात् असामञ्जस्यं स्यात् इति समापितम् । तथापि एवं स्वेनैव रुच्युत्पादनाय प्रणवस्तुतिपरत्वोक्त्या अवास्तवमेवेदं प्रणवस्तुतिपरत्वमिति व्यञ्जनात्, युक्तं प्रणवप्रतिपाद्यस्य ब्रह्मण एव परत्वादिपञ्चकपरतया व्याख्यानमिति प्रतीमः । वस्तुतः इदं श्रीरङ्गरामानुजीयं विवरणं वाक्यान्वयाधिकरणगतश्रुतप्रकाशिका वचनविरुद्धमपि । तत्र हि व्यासार्यैः यादवप्रकाश- पक्षनिराससन्दर्भ परमात्मपरतयैव मन्त्रोऽयं विवृतः । तत्रेयं तदीयसूक्तिः परमात्मनः पूर्णत्वं च अणुमात्रेऽपि वस्तुनि स्थितस्य निरवधिकषाड्गुण्यविशिष्टतया प्रतिपत्तियोग्यत्वम् इति ॥ ॥ इति शान्तिपाठविवरणम् ॥ ***

[1. व्यूहः - पर एवोपासनार्थं जगत्सृष्ट्याह्यर्थञ्च वासुदेव - सङ्कर्षण - प्रद्युम्न -अनिरुद्ध भेदेन चतुर्धाऽवस्थितः । विभवः - तत्तत्सजातीयरूपेणाविर्भावः । अन्तर्यामि - स्वर्गनरकाद्यनुभवदशायामपि जीवात्मनः योगिभिः द्रष्टव्यतया हृदयप्रदेशावस्थितरूपम् । अर्चावतारः - देशकालविप्रकर्षरहितः आश्रिताभिमतद्रव्यादिकं शरीरतया स्वीकृत्य तस्मिन्नप्राकृतशरीरविशिष्टस्सन् अर्चकपराधीन-स्रानभोज्या- सनशयनसनस्थितिः सर्वसहिष्णुः परिपूर्णो गृहग्रामनगरप्रशस्तदेशशैलादिषु वर्तमानो मूर्तिविशेषः ।] बृ ह दा र ण्य को प नि ष त् तृतीयोऽध्यायः प्रथमं ब्राह्मणम् अश्वब्राह्मणम् [अश्वमेधीयाश्वस्य अङ्गेषु उषा आदि दृष्टिः] हरिः ओम् । उषा वा अश्वस्य मध्यस्य शिरः । सूर्यश्चक्षुर्वातः प्राणो व्यात्तमग्निर्वैश्वानरः संवत्सर आत्माऽश्वस्य मेध्यस्य । द्यौः पृष्ठमन्तरिक्षमुदरं पृथिवी पाजस्यं दिशः पार्श्वे अवान्तरदिशः पर्शवः, ऋतवोऽङ्गानि मासाश्चार्द्धमासाश्च च पर्वाण्यहोरात्राणि प्रतिष्ठा नक्षत्राण्यस्थीनि, नभो माँसानि । उवध्यँ सिकताः सिन्धवो गुदा यकृञ्च क्लोमानश्च पर्वता ओषधयश्च वनस्पतयश्च लोमानि । उद्यन् पूर्वार्धो निम्लोचन् जघनार्धो यद्विजृम्भते तद्विद्योतते यद्विधूनुते तत् स्तनयति, यन्मेहति तद्वर्षति, वागेवास्य वाक् ॥ प्रकाशिका रङ्गरामानुजमुनिविरचिता [मङ्गलाचरणम्] अतसीगुच्छसच्छायमञ्चितोरस्थलं श्रिया । अञ्जनाचलशृङ्गारमञ्जलिर्मम गाहताम् ॥ [आचार्यवन्दनम्] व्यासं लक्ष्मणयोगीन्द्रं प्रणम्यान्यान् गुरूनपि । बृहदारण्यकव्याख्यां करोमि विदुषां मुदे ॥ [अवतारिका]

अष्टाध्यायात्मके बृहदारण्यके प्रवर्योपसत्प्रतिपादक प्रथमद्वितीयाध्यायौ उपेक्ष्योत्तरोऽध्यायगणो व्याख्यायते । यद्यपि उषा वा अश्वस्य इत्यादिकमपि अश्वमेधादि- कर्मविषयकमेव, तथापि ब्रह्मदृष्टिः विधिरूपतया ब्रह्मात्मकत्व प्रतिपादनपरतया’ यथाकथञ्चित् ब्रह्मसम्बन्धित्वेन तद्व्याख्यानस्योचितत्वात् । अत एवाश्वमेधब्राह्मणादेब्रह्मपरोपनिषद्भाग- सङ्गतिरुपपद्यते। न च प्रवर्ग्योपसत्पराध्यायद्विकस्य ब्रह्मपर आरण्यकमध्ये विद्यासन्निधौ पाठाद्विद्यार्थत्वं शङ्क्यम्; वेधाद्यर्थभेदात् (ब्र.सू.३-३-२५) इति अधिकरणे शुक्रं प्रविध्य हृदयं प्रविध्य (अथर्व.उ.१) तेजस्वि नावधीतमस्तु (तै.आन.१) इत्यादीनां शत्रुहृदय- वेधाध्ययनादि प्रकाशकानां मन्त्राणां, देवा ह वै सत्रं निषेदुः (शत.ब्रा.१४-१-१) इति बृहदारण्यक आरम्भपठितब्राह्मणप्रतिपादितप्रवर्ग्यादेः च कर्मणः, लिङ्गादिबलेन अन्यत्र विनियुक्तत्वेऽपि विद्यासन्निधिपाठाऽऽनर्थक्यपरिहाराय विद्यार्थत्वं इति पूर्वपक्षे, विद्यासन्निधिपाठस्य दिवाकीर्त्यत्वारण्यपाठ्यत्वादिसौकर्यार्थतया अपि उपपत्तेः बलवद्भिः लिङ्गादिभिः अभिचाराध्ययनज्योतिष्टोमादि अर्थत्वं इति वेधाद्यर्थभेदात् (ब्र.सू.३-३-२५) इति सूत्रेण सिद्धान्तितत्वात् । तस्य च सूत्रस्य अयं अर्थः - ‘मन्त्रप्रतिपाद्यस्य वेधाद्यर्थस्य विद्यार्थत्वाभावेन विद्यार्थात् भेदात् तत्प्रकाशनद्वारा विद्याशेषत्वमपि इत्यभिचारादिशेषत्वम्’ इति । ततः च न विद्यार्थत्वशङ्कायाः अवकाशः । सर्वकर्मश्रेष्ठ अश्वमेधाङ्गभूते अश्वे-यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति (छां.उ.१-१-१०) इति कर्मवीर्यवत्तरत्वापादिका विश्वरूपत्व उपासना उपदिश्यते- उषा वा अश्वस्य मध्यस्य शिरः । मेघः। - यज्ञः, तं अर्हति इति मेध्यः । यज्ञार्थस्य पशोः यत् शिरः तत् उषाः - ब्राह्मः मुहूर्तः । लिङ्गव्यत्ययः छान्दसः । उषसः अहर्मुखत्वेन अहश्शिरस्त्वात् पशोः शिरसि तद्बुद्धिः उपपद्यते इति द्रष्टव्यम् । आदित्यादिमतयश्च अङ्ग उपपत्तेः (ब्र.सू.४-१-६) इति अधिकरणे य एव असौ तपति तं उद्गीथं उपासीत (छां.उ.१-३-१) इत्यत्र कर्माङ्गभूते उद्गीथे आदित्यदृष्टिः कर्तव्या, उत आदित्ये उद्गीथदृष्टिः इति विशये, ब्रह्मदृष्टिरुत्कर्षात् (ब्र.सू.४-१-५) इति सूत्रोक्तन्यायेन उत्कृष्टदृष्टेः एव अपकृष्टे कर्तव्यत्वात् कर्माङ्गस्य उद्गीथस्य कर्मोपकारकत्वेन उत्कृष्टतया तद्बुद्धिः एव आदित्ये कर्तव्या इति पूर्वपक्षे प्राप्ते-आदित्यादिमतयश्च अङ्गे उपपत्तेः (ब्र.सू.४-१-६) इति सूत्रेण सिद्धान्तितम् । अत्र च शब्दः अवधारणे । अङ्ग एव आदित्यादिमतयः कार्याः, कर्माराध्यतया आदित्यादीनां एव उत्कृष्टत्वस्य उपपत्तेः इति तदर्थः । ततः च अश्वस्य शिरःप्रभृति अवयवेषु कर्माङ्गभूतेषु एव उष आदि बुद्धिः, कार्या, न तु उष आदौ शिर आदिबुद्धिः । सूर्यश्चक्षुः इति - अश्वस्य चक्षुस्सूर्यः । सूर्याधिष्ठातृकत्वात् तद्बुद्धिस्तत्र कार्येत्यर्थः । वातः प्राणः अश्वस्य प्राण एव वातः । वाय्ववस्थाविशेषत्वात्प्राणस्य तद्बुद्धिस्तत्र कार्येत्यर्थः । व्यात्तमग्निः वैश्वानरः विवृतं मुखमेव वैश्वानरोऽग्निः । अग्निर्वाग्भूत्वा मुखं प्राविशत् (ऐत.उ.१-२-४) इति अग्नेर्मुखाधिष्ठा- तृत्वात् तद्बुद्धिस्तत्र कार्येत्यर्थः । संवत्सरः इति - संवत्सरः अश्वस्य मध्यस्य आत्मा

स्वरूपमित्यर्थः । ऋतवोऽङ्गानि इत्यादिना संवत्सरावयव ऋतुमासादीनां तदवयवत्वेन निरूपयिष्यमाणत्वात् संवत्सरस्यावयविशरीरात्मकत्वम् । अश्वस्य मध्यस्य इति सर्वत्रानुषङ्गार्थं पुनर्वचनम् । संवत्सर शब्देन संवत्सराभिमानी प्रजापतिर्वा विवक्षितः । द्यौः पृष्ठम् - ऊर्ध्वत्वसामान्यात् । अन्तरिक्षमुदरम् - अवकाशत्वसाम्यात् । पृथिवी पाजस्यम् । भुजान्तरामित्यर्थः । द्यौः पृष्ठमन्तरिक्षमुदरमियमुर (बृ.उ.१-२-३) इत्यग्नेरुरसि पृथिवीदृष्टि- दर्शनात् । दिशः पार्श्वे - दिशः दक्षिणोत्तरत्वाद्याश्रयत्वात्पार्श्वे । अवान्तरदिशः पर्शवः वायव्याद्या अवान्तरदिशः पार्श्वास्थीनी । ऋतवोऽङ्गानि - स्पष्टोऽर्थः । मासाश्चार्धमासाश्च पर्वाणि इति । पर्वाणि अङ्गसन्धयः । समविभागसाम्यात् । अहोरात्राणि प्रतिष्ठा - पादा इत्यर्थः । नक्षत्राण्यस्थीनि - शुक्लत्वसाम्यात् । नभो

मांसानि अस्थ्यात्मकनक्षत्रसंपृक्तत्वात् । उवध्यं सिकताः अर्धजीर्णं घासाद्यशनं सिकताः । विश्लिष्टावयवसाम्यात् । सिन्धवो गुदाः । गुदा इति अवयवाभिप्रायेण बहुवचननिर्देशः । सिन्धवः - नद्य इत्यर्थः । यकृच्च क्लोमानश्च पर्वताः

हृदयस्याधःप्रदेशवर्तिदक्षिणोत्तरमांसखण्डौ यकृत्क्लोमशब्दवाच्यौ । क्लोमानः - इति एकस्मिन् व्यत्ययाद्बहुवचनम् । पर्वताः - काठिन्योन्नतत्वपिण्डाकारत्वसाम्यात् । ओषधयश्च वनस्पतयश्च लोमानि - सूक्ष्मत्वसाम्यात् । उद्यन् पूर्वार्धः सूर्य इति शेषः । उद्यन् सूर्यः शरीरपूर्वार्ध इत्यर्थः । निम्लोचन् जघनार्धःनिम्लोचन् - अस्तं गच्छन् सूर्यः अपरार्धः, पूर्वापरत्व- साम्यात् । यद्विजृम्भते तद्विद्योतते - मुखव्यादानमेवान्तरप्रकाशहेतुत्वात् विद्युत् । यद्विधूनुते तत्स्तनयति - रोमविधूननमेव सशब्दत्वात् मेघनिर्घोषः । यन्मेहति तद्वर्षति

मूत्रोत्सर्जनमेव सेचनत्वसाम्यावर्षणम् । वागेवास्य वाक् - नात्र कल्पनापेक्षा ॥ १ ॥

[अश्चानुबन्धिषु दृष्टिः] अहर्वा अश्वं पुरस्तान्महिमाऽन्वजायत । तस्य पूर्वे समुद्रे योनिः। रात्रिरेनं पश्चान्महिमान्वजायत । तस्यापरे समुद्रे योनिः । एतौ वा अश्वं महिमानावभितः संबभूवतुः। हयो भूत्वा देवानवहद्वाजी गन्धर्वानर्वाऽसुरानश्वो मनुष्यान् । समुद्र एवास्य बन्धुः समुद्रो योनिः॥ २ ॥ ॥ इति तृतीयाध्याये प्रथमं ब्राह्मणम् ॥

प्र. - अहर्वा अश्वमिति - अश्वस्याग्रतः पृष्ठतश्च सौवर्णराजतौ महिमाख्यौ ग्रहौ पात्रविशेषौ स्तः । तयोर्मध्ये अश्वं पुरस्तात्- अश्वस्य पुरस्तात् यो महिमा

महिमाख्यो ग्रहविशेषः । सः अहरेव अन्वजायत -समपद्यत । तत्राहर्भावना कर्तव्येति यावत् । अह्न इव सौवर्णपात्रस्यापि पीतप्रभत्वात् । तस्य पूर्वे समुद्रे योनिः - पूर्वः समुद्रो योनिः - आसादनस्थानम् । सौवर्णपात्रग्रहासादनस्थाने पूर्वसमुद्रबुद्धिः कार्येत्यर्थः । यद्वा - महिमान्वजायत इत्यत्रानुर्लक्षणार्थः । कर्मप्रवचनीयत्वात्तद्योगे अश्वमिति द्वितीया । रात्रिरेनम् इति । एनम् - अस्य अश्वस्य पश्चाद्यो राजतो महिमाख्यो ग्रहविशेषः । सः रात्रिरन्वजायत - रात्रिस्समपद्यतेत्यर्थः । चन्द्रिकाधवलत्वसाम्यात् । तस्यापरे समुद्रे योनिः - पश्चिमस्समुद्रः तदासादनस्थानमित्यर्थः । एतौ वा इति - एतौ वै महिमाख्यौ ग्रहौ अश्वस्य पूर्वोत्तरपार्श्वयोः प्रतिष्ठितावित्यर्थः । अतः सर्वतो महिमशाल्यश्व इति स्तुत्वा हयवाज्यर्वाश्वरूपैश्चितुर्भिर्जातिविशेषैर्देवगन्धर्वासुरमनुष्यवोढृत्वेनाश्वं स्तौति - हयो भूत्वा देवानवहत् इत्यादिना । समुद्र एवास्य बन्धुः इति । अस्य अश्वस्य समुद्रो बन्धुः । तत्र बन्धुदृष्टिः कर्तव्येत्यर्थः । तत्र हेतुमाह - समुद्रो योनिः इति - उच्चैश्श्रवसोऽश्वस्य वारुणाश्वानां च तस्मादुत्पत्तिदर्शनात् समुद्रो योनित्वेन ध्यातव्य इत्यर्थः ॥ २ ॥ **॥ इति तृतीयाध्याय प्रथमब्राह्मण प्रकाशिका ॥ तृतीयाध्याये द्वितीयं ब्राह्मणम् अश्वमेधब्राह्मणम् [अश्वमेधादौ दृष्टिविधानाय मृत्युकर्तृकसृष्टिवर्णनम्] नैवेह किञ्चनाग्र आसीत् । मृत्युनैवेदमावृतमासीदशनायया । अशनाया हि मृत्युः। तन्मनोऽकुरुत आत्मन्वी स्यामिति । सोऽर्चनचरत् । तस्यार्चत आपोऽजायन्त । अर्चते वै मे कमभूदिति । तदेवार्कस्यार्कत्वम् । कँ ह वा अस्मै भवति, य एवमेतदर्कस्यात्वं वेद ॥ १ ॥ **

प्र. अश्वमेधाङ्गभूतचित्याग्नौ तदङ्गभूतसंवत्सरकाले च ब्रह्मदृष्टिं विधित्सन् प्रथमतो अग्नेरुत्पत्तिप्रकारमाह - नैवेह किञ्चनाग्र आसीत् इत्यादिना । केचित्तु नात्र दृष्टिर्विधीयते, अपि तु तात्त्विकतदात्मकत्वानुसन्धानसिद्धये परमात्मन उत्पत्त्यादिकमाम्नायते इत्याहुः । नोभयथापि विरोधं पश्यामः । इह - ‘जगति’ किञ्चन - परिदृश्यमानं स्थूलावस्थं वस्तु अग्रे - सृष्टेः प्राक् नैवासीत् । अत्र अग्रे नैवासीत् इत्यनेन न शून्यत्वमुच्यते, असत्कार्यानभ्युपगमात् तथा हि सति शशविषाणादेर प्युत्पत्तिप्रसङ्गात् । घटः प्राक्नैवासीदिति प्रतीतेर्घटत्वावस्थापूर्वभाविपिण्डत्वावस्थाविषयकत्वदर्शनेन इहापि, ‘नाग्र आसीत्’ इति प्रतीतेः परिदृश्यमानस्थूलावस्थाविरोध्यवस्थावत्त्वमेवार्थः । ननु परिदृश्यमानमिदं जगत् दृश्यमानस्थूलावस्थाविरोधिनी कामवस्थामभजदित्यय आह मृत्युनैवेदमावृत- मासीदशनायया इति । कारणवाक्यत्वादत्र मृत्युशब्देन मृत्युसंज्ञकाचिच्छरीरपरमात्मोच्यते । यस्याव्यक्तं शरीरं, यस्याक्षरं शरीरं, यस्य मृत्युश्शरीरं, एष सर्वभूतान्तरात्मा अपहतपाप्मा दिव्यो देव एको नारायणः (सुबा.उ.७) इति सुबालश्रुतौ मृत्युशब्दस्य तमसि प्रयुक्तत्वात् । अत्र अशनाया नाम सञ्जिहीर्षा । अशनायोदन्याधनाया बुभुक्षापिपासागर्धेषु (पा.सू.७.४.३४) इति बुभुक्षार्थे निपातितोऽशनायाशब्दः सञ्जिही लक्षयित्वा तद्वतिलक्षितलक्षणया वर्तते । ततश्चायमर्थः - सञ्जिहीर्षुणा तमश्शरीरेण परमात्मना परिदृश्यमानं स्थूलावस्थं जगत् आवृतमासीत् - तिरोहितस्थूलावस्थमासीत् । स्थूलावस्थां विहाय तमश्शरीरकपरमात्मा- वस्थमासीदित्यर्थः । अशनायाशब्दस्य मृत्युशब्दिते परमात्मनि प्रयोगे हेतुमाह - अशनाया हि मृत्युः इति । लोके बुभुक्षाविशिष्टो हि पुरुषो जन्तून् हिनस्ति । अतो बुभुक्षायाः मरणहेतुत्वेन मृत्युत्वं प्रसिद्धमित्यर्थः । यद्यपि तत्रत्याशनायामृत्युशब्दयोर्भिन्नत्वात् प्रकृते मृत्युशब्दप्रतिपाद्यस्य तमश्शरीरकपरमात्मनः सञ्जिहीर्षा वाच्यशनायाशब्दप्रयोगविषयतायां न तदुपपादकम्, तथाप्येकशब्दरूषितत्वेनार्थद्वयैकीकरणेन श्रुतिप्रवृत्तिरुपपद्यत इति द्रष्टव्यम् । तन्मनोऽकुरुतात्मन्वी स्यामिति इति । तदिति लिङ्गव्यत्ययः छान्दसः । सः - मृत्युः, तमश्शरीरकः परमात्मा, अहं आत्मन्वी - शरीरीचेतनाचेतनप्रपञ्चशरीरकस्यामिति सङ्कल्प्यमनः कृतवानित्यर्थः । न च साञ्जिहीर्षोः सिसृक्षाकार्यमनस्सृष्टिविरुद्धेति वाच्यम् । सृष्ट्वा संहरिष्यामीत्येवंभूतसृष्टिसंहारलक्षणविहारेच्छया एव अशनाया शब्देन विवक्षितत्वात् । अत्र मनश्शब्देन ‘मनोमहान्मतिब्रह्म’ (अ.को.) इति नामपाठात् महत्तत्वमुच्यते । तच्चोप- लक्षणमहङ्करादिभूतावधिकसृष्टेरपि । मनश्शब्दस्यान्तःकरणार्थकत्वेपि मनश्शब्दः स्वपूर्वभावि महदादीनामप्युपलक्षकः, महदादिसृष्ट्यभावे मनस्सृष्ट्यभावात् । अन्यत्सर्वं पूर्ववत् । आत्मशब्दात् ‘तदस्यास्तीत्यस्मिन्’ (पा.सू.५.२.९४) इति अर्थे विनिप्रत्ययः छान्दसः । सोर्चन्नचरत् इति । अर्चन् - प्रीणयन् । आत्मानमिति शेषः । कर्मकारकञ्च स्वयमेव, अश्रुताध्याहारादपि प्रकृतस्यैव कर्मत्वोपपत्तेः । अर्चन् इत्यत्र लक्षणहेत्वोः क्रियायाः (पा.सू.३-२-१२६) इति हेतौ शतृप्रत्ययः । जगद्व्यापारलीलया स्वात्मानं प्रीणयितुमचरदित्यर्थः । उक्तं हि भगवता बादरायणेन जगत्सृष्टेर्लीलारस एव प्रयोजनमिति । तथाहि - द्वितीयाध्याये स्मृतिपादे - जन्मजरामरणादिदुःखबहुळं जगत्सृजतोऽ’वाप्त- समस्तकामस्य परमात्मनः प्रवृत्तेः स्वार्थत्वपरार्थत्वासम्भवात् , प्रयोजनानुद्देशेन प्रेक्षावत्प्रवृत्तेर- योगात्, प्रवृत्तिर्नोपपद्यते इति न प्रयोजनवत्त्वात् (ब्र.सू.२-१-३२) इति सूत्रेण पूर्वपक्षं कृत्वा, लोकवत्तु लीला कैवल्यम् (ब्र.सू.२-१-३३) वैषम्यनघृण्ये न सापेक्षत्वात् तथा हि दर्शयति (ब्र.सू.२-१-३४) न कर्माविभागादिति चेन्नानादित्वादुपपद्यते चाप्युपलभ्यते च (ब्र.सू.२-१-३५) सर्वधर्मोपपत्तेश्च (ब्र.सू.२-१-३६) इति चतुर्भिस्सूत्रैः सिद्धान्तितम् । तेषां चायमर्थः यथा महाराजस्यापि केवललीलप्रयोजनाः ‘कन्दुकादिक्रीडाः दृष्टाः । एवं परमात्मनोऽपि केवललीलार्था जगत्सृष्ट्यादि प्रवृत्तिरिति लोकवत् इति सूत्रस्यार्थः । ननु विषमं देवमनुष्यतिर्यगादि सृजतः परमात्मनो वैषम्यं प्रसजेत्, अतिघोरनरकादि- सृष्ट्या निर्घृणत्वञ्च प्रसजेदिति चेत् - न । तत्तत्कर्मानुसारेण कर्मसापेक्षतया सृजतो न पक्षपातादिप्रसक्तिः । साधुकारी साधुर्भवति पापकारी पापो भवति । (बृ.उ.६-४-५) ‘निमित्तमात्रमेवासौ सृज्यानां सर्गकर्मणि । प्रधानकारणीभूता यतो वै सृज्यशक्तयः’ ॥ (वि.पु.१-४-५१) निमित्तमात्रं साधारणमित्यर्थः । सृज्यशक्तयः - कर्माणीत्यर्थः - इति श्रुतिस्मृतिलक्षणं प्रमाणं दर्शयति । अतो वैषम्यनैर्घृण्ये नेति वैषम्यनैर्घृण्यसूत्रस्यार्थः । ननु प्रळये जीवस्य ब्रह्मणा । अविभागेन तदाश्रितानां च कर्मणामभावात् सर्गाद्यसृष्टौ स्वेच्छया तरतमभावापन्नं जगत्सृजतो वैषम्यादिकमपरिहार्यमिति, न कर्माविभागात् इति सूत्रखण्डेन परिचोद्य, नानादित्वादुपपद्यते चाप्युपलभ्यते च (ब्र.सू.२-१-३५) इति सूत्रखण्डेन परिहृतम् । जीवानामनादित्वात्, तदानीं कर्मणामपि सत्वात् न वैषम्यादिप्रसङ्गः । न च जीवानामनादित्वे प्रळये, सदेव सोम्येदमग्र आसीत् (छां.उ.६-२-१) इति अविभागो नोपपद्यते इति वाच्यम् - अविभक्तनामरूपतया भेदकाकारास्फुरणमात्रेणाविभाग- व्यवहारोपपत्तेः । तदनादित्वं च श्रुतिस्मृतिषूपलभ्यते न जायते म्रियते वा विपश्चित् (कठ.उ.२-१-१८) प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि (भ.गी.१३-१९) इति इति सूत्रार्थः । सर्वधर्मोपपत्तेश्च (ब्र.सू.२-१-३६) प्रधानादिष्वसम्भावितानामपि सृष्ट्युपयुक्त- सार्वज्ञ्यसर्वशक्तित्वादिसकलधर्माणां परमात्मन्येव उपपत्तेश्च परमात्मैव जगत्कारणमिति सृष्टिीलाप्रयोजनत्वं स्थितम् । अतः सोऽर्चन्नचरत् इत्यस्योक्त एवार्थः । तस्यार्चत आपोऽजायन्त । अर्चतः

प्रीणनाय प्रवृत्तस्य तस्य - परमात्मनः सकाशादाप उत्पन्ना इत्यर्थः । तत्र चापां प्राधान्यात् अप्छब्दप्रयोगः । अपां सृष्टिश्च स्रष्टुर्नारायणत्वे लिङ्गम् । एको ह वै नारायणः (महा.ना.१-१) इत्युपक्रम्य ता इमा आपः इति श्रुतेः । अर्चते वै मे कमभूत्

इति वै शब्दोऽवधारणे । अर्चनप्रवृत्ताय मे - मह्यं कम् - जलं अभूदिति स परमात्मा अमन्यतेत्यर्थः । तदेवार्कस्यार्कत्वम् इति। यस्माद्धेतोरेवममन्यत, अत एतत्तदेवार्क शब्दितस्य परमात्मनः अर्कशब्दप्रवृत्तौ निमित्तमित्यर्थः । अर्कशब्दितत्त्वं च परमात्मनः अर्को वाजसनिशृङ्गी (स.ना.८५) इति भगवन्नामसहस्रपाठादिति द्रष्टव्यम् । एतत्सर्वं सर्व- व्याख्यानाधिकरणे व्यासार्यैः स्पष्टमुक्तम् । नामनिरुक्तिज्ञानस्य फलमाह - कं ह वा अस्मै भवति इति । कं - सुखं, हः - प्रसिद्धौ । वै शब्दोऽवधारणे । सुखमेवेत्यर्थः । शिष्टं स्पष्टम् ॥ १ ॥

[चित्याग्निसृष्टिः]

आपो वा अर्कः । तद् यदपां शर आसीत् तन् समहन्यत । सा पृथिव्य- भवत् । तस्यामश्राम्यत् । तस्य श्रान्तस्य तप्तस्य तेजोरसं निरवर्तताग्निः ॥२॥ प्र. - अण्डस्य भगवदात्मकभूतपरिणामत्वं वक्तुम् अपां भगवदात्मकत्वमाह - आपो वा अर्क इति । आपः - अर्कशब्दित भगवदात्मिका इत्यर्थः । तद्यदपां शर आसीत् इति । दध्नोमण्डांश इव भूतान्तरसंसृष्टानामपां यः शरः - सारांश आसीत, तत् समहन्यत - बाह्येन तेजसा पच्यमानं सत् सङ्घातभावमापद्यत । सा पृथिव्यभवत् - तत इति शेषः । ततः - संहन्यमानेभ्यो भूतेभ्यः सा पृथिवी - अण्डरूपा पृथिव्यभवत् । ता - आपः तद्धिरण्मयमण्डमभवत् (महो.१-४) इति महोपनिषदैकार्यात् । तस्यामश्राम्यत्

इति । तस्यां - अण्डाकारेण परिणतायां पृथिव्यां सत्यामिति शेषः । मृत्युशब्दितः परमात्मा । अश्राम्यत् अत्र ‘श्रान्तिशब्दः करणलक्षणया यत्नपरः । अयततेत्यर्थः । तस्य श्रान्तस्य तप्तस्य तेजोरसो निरवर्तताग्निः इति। तस्य -परमात्मनः श्रान्तस्य-

कृतयत्नस्य, तप्तस्य - सृज्यवर्गपर्यालोचनवतः शरीरात् तेजोरसः । तेजस्सारभूतोऽग्निः निरवर्तत । एवमेव व्यासार्यैरुक्तम् ॥ २ ॥

[चित्याग्नयङ्गेषु दृष्टिः] स त्रेधात्मानं व्याकुरुत आदित्यं तृतीयं वायुं तृतीयम् । स एष प्राणस्रोधा विहितः । तस्य प्राची दिक् शिरोऽसौ चासौ चेर्मौ । अथास्य प्रतीची दिक् पुच्छमसौ चासौ च सक्थ्यौ । दक्षिणा चोदीची च पार्श्वे । द्यौः पृष्टमन्त- रिक्षमुदरमियमुरः । स एषोऽप्सु प्रतिष्ठितः । यत्र क्व चैति तदेव प्रतितिष्ठत्येवं विद्वान् ॥ ३ ॥

प्र. - स त्रेधात्मानं व्याकुरुत इति । सः - अग्निरात्मानं त्रेधा व्यभजदित्यर्थः । आदित्यं तृतीयं वायुं तृतीयम् इति । अग्न्यादित्यवाय्वात्मना त्रेधा विभक्त इत्यर्थः । त्रयाणां मध्ये चित्याग्निः अंशी; वाय्वादित्यावंशाविति भावः । अग्निवाय्वपेक्षया आदित्यस्य तृतीयत्वम् । अग्न्यादित्यापेक्षया वायोस्तृतीयत्वम् । स एष प्राणस्रोधा विहितः इति । यः त्रेधा विभक्तः अग्निवाय्वादित्यात्मना - वाय्वादित्यांशको यः एषोग्निः - स एष प्राणः - परमात्मेत्यर्थः । तत्र तद्दृष्टिः कर्तव्येति यावत् । स एषोग्निरर्क इति उत्तरत्राग्नौ अर्कशब्दित परमात्मा ध्यानस्य वक्ष्यमाणत्वात् इति द्रष्टव्यम् । तस्य प्राची दिक् शिर

इति । तस्य - अग्नेः शिर आदौ प्रागादि बुद्धिः कर्तव्येत्यर्थः । शिरसः प्राचीनसम्बन्धित्वात्तत्र तप्टुद्धिः कर्तव्या । एवमुत्तरत्रापि द्रष्टव्यम् । असौ चासौ चेर्मौ इति । ‘ईशान्याग्नेयौ’ । ईर्मौ - बाहू । अथास्य प्रतीची दिक्पुच्छम् । पुच्छे प्रतीचित्वबुद्धिः कर्तव्या । तत्सम्बन्धित्वादिति भावः । असौ चासौ च सक्थ्यौ इति । वायव्यनैऋत्यौ सक्थिनी - ऊरु इति यावत् । सक्थ्याविति छान्दसः प्रयोगः । दक्षिणा चोदीची च पार्श्वे । दक्षिणोत्तरपार्श्वे अपि दक्षिणोत्तरदिग्द्वयम् । ‘तद्दिग्वर्तित्वादिति भावः। द्यौः इत्यादि । इयं - पृथिवीत्यर्थः । शिष्टं स्पष्टम् । स एषोप्सु प्रतिष्ठित इति । स एषः - अग्निः । अप्सु प्रतिष्ठितत्वं च उक्तरीत्या तन्मूलोत्पत्तिकत्वादिति द्रष्टव्यम् । यत्र क्व चैति तदेव प्रतितिष्ठति य एवं विद्वान् इति । एवं विद्वान् यत्र क्व च - प्रदेशे एति - गच्छति । तदेव - ‘तत्रैव प्रतितिष्ठति - प्रतिष्ठां लभत इत्यर्थः ॥ ३ ॥

[मृत्युकर्तृकसंवत्सरसृष्टिः] सोऽकामयत द्वितीयो म आत्मा जायतेति । स मनसा वाचं मिथुनँ समभवदशनाया मृत्युः । तद्यद्रेत आसीत्, स संवत्सरोऽभवत् । न ह पुरा ततः संवत्सर आस । तमेतावन्तं कालमबिभः, यावान् संवत्सरः । तमेतावतः कालस्य परस्तादसृजत । तं जातमभिव्याददात् । स भाणमकरोत् सैव वागभवत् ॥ ४ ॥

प्र. - एवमर्कप्राणशब्दितपरमात्मदृष्टिविशिष्टमश्वमेधाङ्गभूतचित्याग्निमुत्पत्त्यादि- प्रकारोपेतमुपवर्ण्य अश्वमेधाङ्गभूतसंवत्सरकालं मृत्युशब्दितपरमात्मदृष्टिविशिष्टं प्रतिपादयितुमुपक्रमते - सोऽकामयत इत्यादिना । सः अशनाया मृत्युः - पूर्वोक्तः सञ्जिहीर्षुः मृत्युशब्दितः परमात्मा पूर्वसृष्टाग्निरूपात्मापेक्षया द्वितीय आत्मा आत्मान्तरं मे जायतामिति सङ्कल्पं कृतवान् । सङ्कल्प्य च त्रयीलक्षणां वाचं मनसा मिथुनं

द्वन्द्वभावं समभवत् - संभावितवान् । स्रक्ष्यमाणप्रपञ्चपरिज्ञानाय । नामरूपञ्च भूतानां कृत्यानां च प्रपञ्चनम् । वेदशब्देभ्य एवादौ देवादीनां चकार सः ॥ (वि.पु.१-५-६४) इति न्यायेन साक्षाद्वा चतुर्मुखशरीरकतया वा त्रयीं पर्यालोचितवान् इत्यर्थः । तद्यद्रेत आसीत्स संवत्सरो भवत् इति । मनसा त्रयी पर्यालोचनलक्षणसंभोगे यद्रेतः - बीजम् । कारणमुत्पन्नं इदमित्थं कर्तव्यमिति निश्चयात्मकम् । तेन संवत्सरः - संवत्सरलक्षण- कालशरीरकः संवत्सरो विश्वकर्मा, संवत्सरः प्रजापतिः, प्रजापतिः संवत्सरो महान् कः? इति संवत्सराभिमानितया प्रसिद्धः प्रजापतिः द्वितीय आत्मा अभवदित्यर्थः । यद्यपि संवत्सरकालस्यैवाश्वमेधाङ्गत्वम् न तदभिमानि प्रजापतेः । तथापि तयोरभेदोपचारेण श्रुतिप्रवृत्त्युपपत्तिरिति द्रष्टव्यम् । न ह पुरा ततस्संवत्सर आस इति । ततः . तस्मादिदं इत्यं कर्तव्यमिति निश्चयरूपात् रेतश्शब्दितात् कारणात् पुरा - प्रथमतः - सद्य एवेति यावत् । सद्य एव संवत्सररूप आत्मा न बभूव । द्वादशमासपरिमाणस्य संवत्सरस्य सद्यो निष्पत्त्यसम्भवादिति भावः । तमेतावन्तं कालमबिभ इति । यावान् संवत्सरः - यावता कालेन संवत्सरः पूर्णोऽभवत् । तावन्तं कालं रेतश्शब्दितकारणाकारेण अबिभः - भरणं कृतवानित्यर्थः । अबिभ इति “भृञ् भरणे’ (धा.पा.८९८) इति धातोर्लङि रूपम् । तमेतावतः कालस्य परस्तादसृजत इति । एतावतः कालस्य परस्तात् । द्वादशसु मासेषु पूर्णेषु संवत्सररूपं द्वितीयमात्मानम् असृजतेत्यर्थः । तं जातमभिव्याददात् इति । जातं तं संवत्सरं अभि - अभिमुखीकृत्य, व्याददात् - विशिष्य पुत्रत्वेन परिजग्राहेत्यर्थः । स भाणमकरोत् इति । सः - संवत्सर आत्मा बालस्वभावत्वात् भाणिति शब्दमकरोत् । सैव वागभवत् - भूरादिव्याहतिरूपा वागभवदित्यर्थः ॥ ४ ॥

[संवत्सरकर्तृक सर्वसृष्टिः] स ऐक्षत, यदि वा इममभिमँस्ये कनीयोऽन्नं करिष्य इति । स तया वाचा तेनात्मना इदं सर्वमसृजत, यदिदं किञ्चऋचो यजूँषि सामानि च्छन्दाँसि यज्ञान् प्रजाः पशून् । स यद्यदेवासृजत तत्तदत्तुमध्रियत । सर्वं वा अत्तीति तददितेरदि- तित्वम् । सर्वस्यैतस्यात्ता भवति, सर्वमस्यान्नं भवति, य एवमेतददितेरदितित्वं वेद ॥ ५॥

प्र. - स ऐक्षत इत्यादि । यद्यहमिमं संवत्सरं सृष्ट्वा आत्मानं कृतकृत्यतया अभिमँस्ये , ततः अन्नं कनीयः करिष्ये - अन्नमल्पीय एव स्यादिति यावत् । अत्तव्यस्य भूयसोऽर्थस्याभावात् इति सः मृत्युः ऐक्षत - अचिन्तयदित्यर्थः । स तया इति । सः - मृत्युशब्दितः परमात्मा, तया वाचा संवत्सरनिष्पादितया भूरादिव्याहृतिलक्षणया वाचा, तेनात्मना - संवत्सररूपेणात्मना च निमित्तभूतेन, यदिदं किञ्च तत्सर्वमसृजत इत्यर्थः । स भूरिति व्याहरत् (ते.ब्रा.२-२-४) आदी वेदमयी दिव्या यतस्सर्वाः प्रसूतयः इत्यादिना भूरादिशब्दस्य सृज्यमान प्रपञ्चहेतुत्वगमनात्, संवत्सराख्यकालस्यापि कार्यमात्रहेतुत्वाचा इति भावः । यदिदं किञ्च इत्येतत्प्रपञ्चयति ऋचो यजूँषि इत्यादि । छन्दांसि - गायत्र्यादीनि शिष्टं स्पष्टम् । ‘ननु त्रय्या’ मिथुनीभूतया कथं ऋगादीनां सृष्टिः, तेषां तदभिन्नत्वादिति चेन्न । कर्मसु विनियुक्तत्वावस्थाविशिष्टतया ऋगादीनामुत्पत्तिसम्भवात् । सर्वप्रत्यक्षगोचरतया वा । स यद्यत् इति । सः - मृत्युः परमात्मा यद्यदेवासृजत - तत्तत् सृष्टं सर्वं, अत्तुं . संहर्तुं अध्रियत - ऐच्छदित्यर्थः । सर्वं वा अत्तीति तददितेरदितित्वाम् इति । अदितेः . अदितिशब्दवाच्यस्य परमात्मनः सर्वात्तृत्वत्वादेवादितिशब्दप्रवृत्तिनिमित्तात् अदितित्व- मित्यर्थः । नामनिरुक्तज्ञानस्य फलमाह - सर्वस्य इति । अत्ता भवति - अनुभविता भवति । अन्नं भवति अनुभाव्यं भवति । न चैकस्य भोक्तृत्वोक्तौ तत्प्रतिसम्बन्धिन इतरस्य भोग्यत्वं सिद्धमिति तत्कथनवैयर्थ्यं शङ्कनीयम् । तद्दाढ्यार्थतया तत्प्रपञ्चनरूपत्वेनादोषात् ॥ ५ ॥

[अश्वस्य सृष्टिप्रकारं अश्वमेधनिर्वचनं अश्वमेधे आदित्यदृष्टिश्च] सोऽकामयत भूयसा यज्ञेन भूयो यजेयेति । सोऽश्राम्यत्। स तपोऽतप्यत । तस्य श्रान्तस्य तप्तस्य यशोवीर्यमुदक्रामत् । प्राणा वै यशोवीर्यम् । तत् प्राणेषुक्रान्तेषु शरीरं श्वयितुमध्रियत । तस्य शरीर एव मनः आसीत् ॥ ६ ॥

प्र. एवमश्वमेधाङ्गभूतयोरग्निसंवत्सरयोः सृष्टिप्रकारादिकं उक्त्वा अश्वस्य सृष्टि प्रकारं, अश्वमेधनिर्वचनं, अश्वमेधे आदित्यदृष्टिं च वक्तुमारभते - सोऽकामयत

इति । सः प्रजापतिशरीरकः परमात्मा अकामयत । किमति? भूयसा महता यज्ञेन परमात्मानं भूयः - मुहुर्मुहुः यजेयेति । यद्वा - भूयश्शब्दो भूमवाची । भूमानं

परमात्मानं यजेयेतीत्यर्थः । सोऽश्राम्यत् इति महायज्ञसामग्र्यसम्पत्त्या श्रान्त इवाभवत् । स तपोऽतप्यत इति । परमात्मानमुद्दिश्य तपश्चचारेत्यर्थः । तस्य श्रान्तस्य इति । यशश्च वीर्यं च यशोवीर्यम् । यशोवीर्यशब्दार्थमेवाह - प्राणा वे यशोवीर्यम् इति । यशसो वीर्यस्य च प्राणायत्तत्वात् प्राणा एव यशोवीर्यम् इत्यर्थः । ततश्च यशोवीर्यमुदक्रामत्

इत्यस्य प्राणा उदक्रामन्नित्यर्थः । तत्प्राणेषूत्क्रान्तेषु इति । प्राणेषु उत्क्रन्तेषु सत्सु तत् . प्रजापतेश्शरीरं श्वयितुमध्रियत - उच्छूनतां गन्तुं प्रवृत्तम् । तस्य शरीर एव मन आसीत्

इति । तस्य - प्रजापतेः ‘शरीरान्निर्गतस्यापि तस्मिन्नेव शरीरे मन आसीत् । मया त्यक्तं स्थूलं शरीरमच्छूनं हेयमासीदिति शरीरविषय एव चिन्ता सर्वदा संवृता इत्यर्थः ॥६॥

[संवत्सरेण यज्ञार्थं स्वशारीरस्याश्वीकरणम्] सोऽकामयत मेध्यं म इदँ स्यात्, आत्मन्व्यनेन स्यामिति । ततोऽश्वः समभवत् । यदश्वत् तन्मेध्यमभूदिति । तदेवाश्वमेघस्याश्वमेधत्वम् । एष ह वा अश्वमेधं वेद, य एनमेवं वेद । तमनवरुध्यैवामन्यत । तें संवत्सरस्य परस्तादात्मन आलभत। पशून् देवताभ्यः प्रत्यौहत् । तस्मात् सार्वदैवत्यं प्रोक्षितं प्राजापत्य-मालभन्ते। एष वा अश्वमेधो य एष तपतिः तस्य संवत्सर आत्मा । अयमग्निरर्कः, तस्येमे लोका आत्मानः । तावेतावर्काश्वमेधो । सो पुनरेकैव देवता भवति मुत्युरेव । अप पुनर्मृत्युं जयति, नैनं मृत्युराप्नोति, मृत्युरस्यात्मा भवत्येतासां देवतानामेको भवति ॥ ७ ॥ ॥ इति तृतीयाध्याये द्वितीयं ब्राह्मणम् ॥

प्र. - सोऽकामयत इति । एवं चिन्ताविशिष्टः प्रजापतिः मे - मदीयं इदं - शरीरं मेध्यं - यज्ञार्हं स्यात् । अनेन च शरीरेणाहं आत्मन्वी - शरीरी स्यामित्येवं अकामयत - समकल्पयत् । एवं सङ्कल्प्य पुनरपि सः प्राणस्सन् प्रजापतिः ‘तत्र प्रविष्ट इति भावः । ततोश्वस्समभवत् इति । ततः - प्रजापतिना पुनरनुप्रविष्टात् स्थूलशरीरात् उपादानभूता- दश्वरूपस्सन् प्रजापतिरुत्पन्न इत्यर्थः । यदश्वयत् इत्यादि । यत् - यस्मात्कारणात् प्रजापते- श्शरीरमुत्क्रान्तेषु प्राणेषु अश्वयत् - उच्छूनं, तत एव मेध्यञ्चाभवत्, तदेव पश्चादश्वरूपं मेध्यमभूत् । तत एवास्याश्वरूपस्य प्रजापतेरश्वमेधत्वम् । अश्वयदित्यश्वः । मेधार्हत्वान् मेधः । यद्यप्यश्वमेधशब्दो यागनाम, तथापि यागद्रव्ययोरभेदोपचारात् तथोक्तिरुपपद्यत इति द्रष्टव्यम् । यागपरत्वेऽपि न दोषः - यज्ञार्थकमेधशब्दस्वारस्यात् इति वदन्ति । एष ह वा इत्यादि । य एनम् - पशु एवं यथोक्तनिर्वचनं वेद - स एवाश्वमेधवेत्ता, नान्य इत्यर्थः । तमनवरुध्यैवामन्यत इति । तम् - अश्वरूप पशुं अनवरुध्य - अवरोधनमकृत्वा संवत्सरमात्रमुत्सृष्टबन्धनमेव कृत्वा, परमात्मानमनेन यक्ष्य इत्यवमन्यत इत्यर्थः । तं संवत्सरस्य परस्तादात्मन आलभत पशून् देवताभ्यः प्रत्यौहत् इति । संवत्सरस्य परस्तात् - पूर्णं संवत्सरे ततः परं प्रजापतिः, आत्मने स्वान्तर्यामिणे परमात्मने तम् - अश्वं, आलभत - अश्वालम्भं कृतवान् । ग्राम्यानारण्यानप्यन्यान् पशून् अग्नीन्द्रादिभ्यः देवताभ्यः प्रत्यौहत् - ‘परि विभज्यालभतेत्यर्थः । तस्मात्सर्वदैवत्यं प्रोक्षितं प्राजापत्य- मालभन्ते इति । तस्माद्धेतोरिदानीन्तना अपि यजमानाः सर्वदेवतासमष्टिभूतप्रजापतिरूप परमात्मदेवताकत्वेन ‘सर्वदैवयं प्रोक्षणपर्यग्निकरणादि संस्कृतं प्रजापतिदेवताकमश्वम् आलभन्ते इत्यर्थः । एष वा अश्वमेधो य एष तपति इति । तपत आदित्यस्य दृष्टिरश्वमेधे कर्तव्या इत्यर्थः । तत्र युक्तिमाह - तस्य संवत्सर आत्मा । तस्य - अश्वमेधशब्दितस्य संवत्सर आत्मा । अश्वस्य मेध्यस्य (बृ.उ.३-१-१) इति पूर्वब्राह्मणे उक्तत्वात् संवत्सरात्मकत्वं सिद्धम् । संवत्सरादिकालचक्रप्रवर्तकस्यादित्यस्य संवत्सरात्मकत्वात् संवत्सरात्मके मेध्येऽश्वे संवत्सरात्मकादित्याध्यासो युज्यत इत्यर्थः । अयमग्निरर्क इति । अयं

चित्याग्निः अर्कः - पूर्वमर्कशब्दनिर्दिष्टः परमात्मेत्यर्थः । तत्र तदध्यासः कर्तव्य इति यावत् । तत्र युक्तिंं वक्ति - तस्येमे लोका आत्मान इति । तस्य अध्यस्यमानस्य परमात्मनः स्वर्गाद्या इमे लोका आत्मानः - शरीरभूता इत्यर्थः । द्यौः पृष्ठमन्तरिक्षमुदरम् इत्यादिना चित्याग्नेः सर्वलोकशरीरकत्वस्य प्रतिपादितत्वात् धुलोकादिशरीरके चित्याग्नौ प्रतीके तादृशस्य परमात्मनोऽध्यसनम्, अश्वस्य च ‘संवत्सर आत्म’ इत्युक्तत्वात् तस्मिन् अश्वमेधे संवत्सरात्मकादित्याध्यसनं च युज्यत इति भावः । तावेतावर्काश्चमेघौ इति । अर्कशब्देन ‘अयमग्निरर्क’ इत्यर्कशब्दितश्चित्याग्निरुच्यते । तावेतौ - चित्याग्न्यश्वमेधौ प्रागुक्तेदृशमहिमशालिनावित्यर्थः । सो पुनरेकैव देवता भवति इति । उ शब्दोऽव- धारणार्थः । अग्न्यश्वमेधाभ्यामेतादृशदृष्टिविशिष्टाभ्यां प्रीणनीया देवतैकैव भवतीत्यर्थः । सा केत्याशङ्क्याह - मृत्युरेव इति । परमात्मैवैत्यर्थः । यद्वा - तावेतावग्न्यश्वमेधौ अप्ययकाले मृत्युशब्दितः परमात्मैवेत्यर्थः । एतादृशानुसन्धानविशिष्टाग्न्यश्वमेधयोः प्रयोजनमाह - अपपुनर्मृत्युं जयति इति । अपमृत्युं जयति इत्यर्थः । नैनं मृत्युराप्नोति

इति । एनं संसारो नाप्नोतीत्यर्थः । ननु ब्रह्मज्ञानसाध्यायाः संसारनिवृत्तेः कथं दृष्टिविशिष्टचित्याग्न्यश्वमेध- साध्यत्वमित्यत्राह - मृत्युरस्यात्मा भवति इति । मृत्युः - परमात्मा अस्य - अश्वमेधानुष्ठातुः आत्मा भवति - आत्मत्वेनावगतो भवतीत्यर्थः । नित्यसिद्धस्यात्मत्वस्यासाध्यत्वात् । ततश्चाग्न्यश्वयोर्ब्रह्मात्मकत्वावगमद्वारा संसारनिवृत्तिहेतुत्वमुपपद्यत इति भावः । एतासां देवतानाम् इति । अग्नीन्द्रादिसायुज्यकामस्य तदपि भवतीत्यर्थः ॥ ७ ॥ ॥ इति तृतीयाध्याय द्वितीयब्राह्मण प्रकाशिका ॥ तृतीयाध्याये तृतीयं ब्राह्मणम् उद्गीथं ब्राह्मणम् [मुख्यप्राणदृष्टिविधानाय देवासुरस्पर्धाख्यायिका]

द्वया ह प्राजापत्या देवाश्चासुराश्च । ततः कानीयसा एवं देवाः, ज्यायसा असुराः । स एषु लोकेष्वस्पर्धन्त । ते ह देवा ऊचुर्हन्ताऽसुरान् यज्ञ उद्गीथेनात्यया इति ॥१॥ प्र. - अथ कर्माङ्गभूतोद्गातरि मुख्यप्राणदृष्टिं विधातुमाख्यायिका आह - द्वया ह वै प्राजापत्या देवाश्चासुराश्च इत्यादिना । ह शब्दो वृत्तार्थस्मरणे। प्रजापतेरपत्यानि प्राजापत्याः। ‘दित्यदित्यादित्य (पा.सू.४-१८५) इत्यादिना अपत्यार्थे ण्यप्रत्ययः । द्वयाः

द्विविधाः द्विप्रकाराः इत्यर्थः । द्वित्रिभ्यां तयस्यायज्वा (पा.सू.५-२-४३) इत्ययच्प्रत्ययः । के ते? देवाश्चासुराश्चततः कानीयसा इति । ततः तत्र, तेष्वित्यर्थः । देवाः कानीयसाः कनीयांसः। स्वार्थे अण् । अल्पीयांस इति यावत् । ज्यायसाः

ज्यायांसः, भूयांसः । भूयांसोऽसुरा इति श्रुत्यन्तरात् । त एषु लोकेष्वस्पर्धन्त इति । ते - देवासुराः एषु लोकेषु - त्रैलोक्यराज्यनिमित्ते अस्पर्धन्त - परस्परविजिगीषां कृतवन्त इत्यर्थः । ते ह देवा ऊचुः इत्यादि । हन्त इत्यसुरविजयोपायदर्शनजहर्षे । अत्रोद्गीथशब्द उद्गातृपरः । उत्तरत्र उद्गातुरेवाध्यस्तप्राणभावस्योपास्यताप्रतीतेः । उद्गात्रात्येष्यन्ति इति (बृ.उ.३-३-२) इति उत्तरत्र बहुकृत्व उद्गातृशब्दस्याभ्यसिष्यमाणतया तदनुरोधेन ‘प्रक्रमस्थ उद्गीथशब्दस्य उद्गातृपरत्वस्य वक्तव्यत्वात् । सति बाधके कर्मवाचिशब्दस्य लक्षणया कर्तृपरत्वयोगात् ॥ १ ॥ यद्वा उद्गीथशब्दः उद्गातृविशेषणभूतोद्गीथपर इति न लक्षणा । तथा च असुरान् अस्मिन् यज्ञे यज्ञाङ्गभूते उद्गीथेन अध्यस्तप्राणभावेनोद्गानकर्त्रा - यज्ञांगभूतोद्गातरि प्राणदृष्टिरूपोपासनेनेति यावत् । अत्ययाम - अतितरेम, जयेम; अन्यथा भूयसामसुराणां अल्पीयोभिः स्वैः - दृष्टोपकरणैर्जेतुमशक्यत्वादिति देवा हर्षेणान्योन्यं उक्तवन्त इत्यर्थः ।

[गुणोपसंहारपादविचारः]

तथा हि गुणोपसंहारपादे अन्यथात्वाधिकरणे (ब्र.सू.अ.३-३-२) - अत्रोद्गीथशब्दः केवलोद्गीथपर इति अन्यथात्वं शब्दादिति चेन्नाविशेषात् (ब्र.सू.३-३-६) इति सूत्रेण पूर्वपक्षं कृत्वा - न वा प्रकरणभेदापरोवरीयस्त्वादिवत् (ब्र.सू.३-३-७) संज्ञातश्चेत्तदुक्तमस्ति तु तदपि (ब्र.सू.३-३-८) व्याप्तेश्च समञ्जसम् (ब्र.सू.३-३-९) इति त्रिभिस्सूत्रैः, अत्रोद्गीथ- शब्दस्योद्गातृगीयमानोद्गीथपरतया कृत्स्नोद्गीथगानकर्तरि मुख्यप्राणदृष्टिरूपाया उद्गीथविद्याया उद्गीथाङ्गभूते प्रणवे मुख्यप्राणदृष्टिरूपा छान्दोग्योपात्त उद्गीथविद्या भिद्यत इति सिद्धान्तितम् । इत्थं हि तत्र भाष्यम् - अस्ति हि उद्गीथविद्या वाजिनां छन्दोगानां च । वाजिनां तावत् - द्वया ह वै प्राजापत्या देवाश्चासुरश्च इत्यारभ्य ते ह देवा ऊचुः हन्तासुरान् यज्ञ उद्गीथेनात्ययाम इत्युद्गीथेनासुरविध्वंसनं प्रतिज्ञाय उद्गीथे वागादिमनःपर्यन्तदृष्टावसुरैरभिभवमुक्त्वा अथ हेममास प्राणमूचुः इत्यादिनोद्गीथे प्राणदृष्ट्या असुरपराभवमुक्त्वा भवत्यात्मना परास्य द्विषन् भ्रातृव्यो भवति य एवं वेद इति शत्रुपराजयफलायोद्गीथे प्राणदृष्टिः विहिता । एवं छन्दोगानामपि देवासुरा ह वै यत्र संयेतिरे (छां.उ.१-२-१) इत्यारभ्य, तद्ध देवा उद्गीथमाजहुरनेनैनानभिभविष्याम (छां.उ.१-२-१) इत्युद्गीथेनासुरपराभवं प्रतिज्ञाय तद्वदेव उद्गीथे वागादिदृष्टौ दोषमभिधाय अथ ह य एवायं मुख्यः प्राणस्तमुद्गीथमुपासाञ्चक्रिरे (छां.उ.१-२-७) इत्यादिनोद्गीथे प्राणदृष्ट्यासुरपराभवमुक्त्वा यथाश्मानमाखणमृत्वा विध्वंसते एवं ह वै स विध्वंसते य एवंविदि पापं कामयते (छां.उ.१-२-८) इति शत्रुपराभवायोद्गीथे प्राणदृष्टिविहिता । वेदना विषयविधिप्रत्ययाश्रवणेपि फलसाधनत्वश्रवणात् वेदनविषयो विधिः कल्प्यते । उद्गीथविद्यायाः क्रत्वर्थत्वेन क्रतुसाद्गुण्यफलकत्वेप्यार्थवादिकमपि फलं तदविरुद्धं ग्राह्यमेवेति देवताधिकरणे (ब्र.सू.अ.१-३-७) प्रतिपादितम् । तत्र संशय्यते, किमत्र विद्यैक्यं उत नेति । किं युक्तम्? विद्यैक्यमिति । कुतः? उभयत्रोद्गीथस्यैव अध्यस्तप्राणभावस्य उपास्यत्वश्रवणात् चोदनाद्यविशेषात् । फलसंयोगस्तावच्छत्रुपरिभवरूपो न विशिष्यते । रूपमप्यध्यस्तप्राणभावोद्गीथाख्योपास्यैक्यादविशिष्टम् । चोदना च विदिधात्वर्थ- गताऽविशिष्टा । आख्या चोद्गीथविद्येत्यविशिष्टा । अत्र सिद्धान्तच्छायया परिचोद्य परिहरति - अन्यथात्वं शब्दादिति चेन्नाविशेषात् इति (ब्र.सू.३-३-६) यदुक्तं विद्यैक्यमिति, तन्नोपपद्यते, रूपभेदात् । रूपान्यथात्वं हि शब्दादेव प्रतीयते । वाजसनेयके हि - अथ हेममासन्यं प्राणमूचुस्त्वं न उद्गायेति तथेति तेभ्य एष प्राण उदगायत् (बृ.उ.३-३-७) इत्युद्गानस्य कर्तरि प्राणदृष्ट्याऽसुरपराभवमुक्त्वा, य एवं वेद इति कर्तर्येव प्राणदृष्टिरेवंशब्दादवगम्यते । छान्दोग्ये - अथ ह य एवायं मुख्यप्राणस्तमुद्गीथमुपासाञ्चक्रिरे (छां.उ. १-२-७) इत्युद्गानस्य कर्मण्येवोद्गीथे प्राणदृष्टिर्विहिता । अत एकत्र कर्तरि प्राणदृष्टिशब्दात् अन्यत्र कर्मणि प्राणदृष्टिशब्दाञ्च रूपान्यथात्वं स्पष्टम् । रूपान्यथात्वे च विधेयभेदे सति केवलचोदनाद्यविशेषाऽकिञ्चित्कर इति विद्याभेद इति चेत् - तन्न। अविशेषात् । अविशेषेण ह्युभयत्रोद्गीथसाधनकः परपरिभवः उपक्रमे प्रतीयते । वाजसनेयके - ते ह देवा ऊचुर्हन्तासुरान् यज्ञ उद्गीथेनात्याम इत्युपक्रमे श्रूयते । छान्दोग्येपि - तद्ध देवा उद्गीथमाजहुरनेनैनानभिभविष्याम (छां.उ.१-२-१) इति । अत उपक्रमाविरोधाय तेभ्य एष प्राण उदगायत् इत्यध्यस्तप्राणभाव उद्गीथः उद्गानकर्मभूत एव पाकादिष्वोदनादिवत् सौकर्यातिशयविवक्षया कर्तृत्वेनोच्यते । अन्यथोपक्रमगत उद्गीथशब्दः कर्तरि लाक्षणिकः स्यात् । अतः विद्यैक्यमिति प्राप्ते प्रचक्ष्महे - न वा प्रकरणभेदात् परोवरीयस्त्वादिवत् (ब्र.सू.३-३-७)। न वेति पक्षं व्यावर्तयति । न चैतदस्ति, यद्विद्यैक्यमिति । कुतः? प्रकरणभेदात् । ओमित्येतदक्षरमुद्गीथमुपासीत’ (छां.उ.१-१-१) इति प्रकृतमुद्गीथावयवभूतं प्रणवं प्रस्तुत्य एतस्य वा अक्षरस्योपव्याख्यानं भवति । देवासुरा ह वै यत्र संयेतिरे इत्यारभ्य अथ य एवायं मुख्यप्राणस्तमुद्गीथमुपासाञ्चक्रिरे इत्युद्गीथावयवभूतप्रणवविषयमुपासनं छन्दोगा अधीयते । वाजसनेयिनस्तु तादृशप्राचीन प्रकरणाभावात् हन्तासुरान्यज्ञ उद्गीथेनात्ययाम इति कृत्स्नमुद्गीथं प्रस्तुत्य अथ हेममासन्यं प्राणमूचुस्त्वं न उद्गाय (बृ.उ.३-३-७) इत्यादिकृत्स्रोद्गीथविषयमधीयते । ततः प्रकरणभेदेन विधेयभेदः - विधेयभेदे च रूपभेद इति न विद्यैक्यम् । किञ्च अथ ह य एवायं मुख्यप्राणस्तमुद्गीथमुपासाञ्चक्रिरे इति पूर्वप्रकृत उद्गीथावयवभूतः प्रणव एवाध्यस्तप्राणभावः छन्दोगानां उपास्यः । वाजिनां तु कृत्स्नस्यैवोद्गीथस्य कर्तोद्गाता प्राणदृष्ट्या उपास्य इति । अथ हेममासन्यं प्राणमूचुस्त्वं न उद्गायेति, तथेति तेभ्य एष प्राण उदगायत् इत्युद्गातरि प्राणाध्यासं निर्दिश्य - य एवं वेद इत्युद्गातेवाध्यस्तप्राणभाव उपास्यो विधीयते । अतश्च रूपभेदः । न च उद्गातर्युपास्ये विहिते उद्गीथेनात्ययाम इत्याख्यायिकोपक्रमविरोधः शङ्कनीयः । उद्गातुरुपासने उद्गीथस्योद्गानकर्मभूतस्यावश्यापेक्षितत्वात् तस्यापि परपरिभवाख्यं फलंप्रति हेतुत्वात् । अतो रूपभेदाद्विद्याभेद इति चोदनाऽविशेषेऽपि न विद्यैक्यम् । परोवरीयस्त्वादिवत् । यथैकस्यामेव शाखायामुद्गीथावयवभूते प्रणवे परमात्मदृष्टिविधानसाम्येऽपि हिरण्मय- पुरुषदृष्टिविधानात् परोवरीयस्त्वादिगुणविशिष्टदृष्टिविधानमर्थान्तरभूतम् । संज्ञातश्चेत्तदुक्तमस्ति तु तदपि (ब्र.सू.३-३-८)। उद्गीथविद्येति संज्ञैक्यात् तत् विद्यैक्तमुक्तं चेत्, तत् . संजैक्यं विधेयभेदेप्यस्त्येव । यथाग्निहोत्रसंज्ञा नित्याग्निहोत्रे कुण्डपायिनामयनाग्निहोत्रे च। यथा चोद्गीथविधेति छान्दोग्यप्रथमप्रपाठकोपात्तासु बह्वीषु विद्यासु । व्याप्तेश्च समञ्जसम् (ब्र.सू.३-३-९) । छान्दोग्ये प्रथमप्रपाठके उत्तरास्वपि विद्यासुद्गीथावयवस्य प्रणवस्य प्रथमप्रस्तुतस्योपास्यत्वेन व्याप्तेश्च तन्मध्यगतस्य तद्ध देवा उद्गीथमाजह्नुः इत्युद्गीथशब्दस्य प्रणवविषयत्वमेव समञ्जसम् । अवयवे च समुदायशब्दः ‘पटो दग्धः’ इत्यादिषु दृश्यते । अतश्चोद्गीथावयवभूतः प्रणव एवोद्गीथशब्दनिर्दिष्ट इति स एव प्राणदृष्ट्या उपास्यः छान्दोग्ये प्रतिपत्तव्यः । वाजसनेयके तु कृत्स्नोद्गीथविषय उद्गीथशब्द इति कृत्स्नोद्गीथस्य कर्तोद्गाता प्राणदृष्ट्या उपास्य इति विद्यानानात्वं सिद्धमिति । अतोऽत्रोद्गीथशब्दः उद्गातृगीयमानोद्गीथपर एव । न तु तद्ध देवा उद्गीथमाजहुरनेनैनानभिभविष्यामः (छां.उ.१-२-१) इति छान्दोग्यगतोद्गीथशब्दात् स्वतन्त्रोद्गीथपर इति द्रष्टव्यम् ॥ १ ॥

[वागादिकं प्रति वेदोक्तवाक्यानि]

ते ह वाचमूचुस्त्वं न उद्गायेति । तथेति तेभ्यो वागुदगायत् । यो वाचि भोगस्तं देवेभ्य आगायत्, यत् कल्याणं वदति तदात्मने । तेऽविदुरनेन वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य पाप्मनाऽविध्यन् । स यः स पाप्मा यदेवेदमप्रति- रूपं वदति स एव । स पाप्मा ॥ २ ॥

प्र.-ते ह वाचमूचुस्त्वं न उद्गायति इति । त्वं न उद्गाता भवति यागभिमानिनीं देवतां प्राथितवन्त इत्यर्थः । तथेति तेभ्यो वागुदगायत् इति । तथेत्यङ्गीकृत्य तेभ्यः - देवेभ्यो वागुद्गानं कृतवतीत्यर्थः । दृष्टिविधिप्रकरणत्वा- दसम्भवदर्थकत्वाच्च आवित्यादिमतयश्चांग उपपत्तेः’ (ब्र.सू.४-१-६) इति न्यायेन क्रत्वङ्गभूते उद्गातरि वाग्दृष्टिं कृतवन्त इत्यर्थः । यो वाचि भोगस्तं देवेभ्य आगायद्यत्कल्याणं वदति तदात्मन इति । वाचि निमित्ते यो भोगः गानादिजन्यो यः सुखानुभवः । तम् - भोगं देवेभ्य आगायत् । देवानां भोगमुद्दिश्य आगायत् - गानं कृतवती । गानेन देवानां भोगं सम्पादितवतीति यावत् । यत् कल्याणवार्ताभिलपनरूपं वागिन्द्रियकार्यं, तदप्यात्मने ‘वाक्सम्पादितवती’त्यर्थः । तेऽविदुरनेन इति । ते - असुराः अविदुः . ज्ञानवन्त इत्यर्थः । किमिति? अनेन - वाग्रूपेणोद्गात्रा नः अस्मान् अत्येष्यन्ति

ज्येष्यन्तीति । तमभिद्रुत्य इति । तं - उद्गातारं अभिद्रुत्य - शीघ्रं प्राप्य पाप्मना अविध्यन् - पापेन संयोजितवन्तः। स यः सपाप्मायदेव इति । यः स पाप्मा

तद्वेधनसाधनभूतः, स तु यदेवेदं अप्रतिरूपं - अनुचितमशिवानृतपैशुन्यादि वदति, स एव - तद्रूप एव; स पाप्मेत्यर्थः । अयं भावः - वागिन्द्रियमसुराः क्रोधाद्युत्पादनद्वारा परुषातिवादपैशुन्यादिदूषितमकुर्वन्निति । ततश्चासुरबुद्धिकार्या तत्तदिन्द्रियाणां पापप्रवृत्तिरिति भावः ॥ २ ॥

[वागादीनां असुरपराभूतत्वम्]

अथ ह प्राणमूचुस्त्वं न उद्गायेति । तथेति तेभ्यः प्राण उदगायत् । यः

प्राणे भोगस्तं देवेभ्य आगायत् यत् कल्याणं जिघ्रति तदात्मने । तेऽविदुरनेन वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य पाप्मनाऽविध्यन् । स यः स पाप्मा यदेवेदमप्रतिरूपं जिघ्रति स एव । स पाप्मा ॥ ३ ॥ अथ ह चक्षुरूचुस्त्वं न उद्गायेति । तथेति तेभ्यश्चक्षुरुदगायत् । यश्चक्षणि भोगस्तं देवेभ्य आगायत्; यत् कल्याणं पश्यति तदात्मने । तेऽविदुरनेन वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य पाप्मनाऽविध्यन् । स यः स पाप्मा यदेवेदमप्रतिरूपं पश्यति स एव । स पाप्मा ॥ ४ ॥ अथ ह श्रोत्रमूचुस्त्वं न उद्गायेति । तथेति तेभ्यश्श्रोत्रमुदगायत् । यः श्रोत्रे भोगस्तं देवेभ्य आगायत् यत् कल्याणँ शृणोति तदात्मने ।तेऽविदुरनेन वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य पाप्मनाऽविध्यन् । स यः स पाप्मा यदेवेदमप्रतिरूपं शृणोति स एव । स पाप्मा ॥ ५ ॥ अथ ह मन ऊचुस्त्वं न उद्गायेति । तथेति तेभ्यो मन उदगायत् । यो मनसि भोगस्तं देवेभ्य आगायत्; यत् कल्याणं सङ्कल्पयति तदात्मने । तेऽविदुरनेन वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य पाप्मनाऽविध्यन् । स यः स पाप्मा यदेवेदमप्रतिरूपैं सङ्कल्पयति स एव । स पाप्मा । एवमु खल्वेता देवताः पाप्मभिरुपासृजन् । एवमेनाः पाप्मनाऽविध्यन् ॥ ६॥

प्र.-अथ ह प्राणमूचुः इत्यादि । प्राणम् - घ्राणम् । शिष्टं स्पष्टम् ॥ ३-५ ॥ उक्तमर्थं निगमयति - एवमु खल्वेताः इति । शब्दः अवधारणे । एवमेव खलु उक्तया रीत्या एता देवताः - वागाद्याः उक्ताः अनुक्ताष्टा पाप्मभिः - अनृतवदनादिलक्षणैः उपासृजन् - ‘उपगतवत्यः’ इत्यर्थः । एवमेनाः पाप्मना अविध्यन् इति । एवम् - उक्तया रीत्या असुराः एनाः - वागादिदेवताः । पाप्मना अविध्यन् - अनृतादिपाप्मना वेधनं कृतवन्तः इत्यर्थः ॥ ६ ॥

[मुख्यप्राणस्य असुरपरिभवितृत्वम्]

अथ हेममासन्यं प्राणमूचुस्त्वन्न उद्गायेति । तथेति तेभ्य एष प्राण उदगायत् । तेऽविदुरनेन वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य पाप्मना’ऽविव्यत्सन्’ । स यथाऽश्मानमृत्वा लोष्टो विध्वँसेत, एवँ हैव विध्वँसमाना विष्वञ्चो विनेशः । ततो देवा अभवन् पराऽसुराः । भवत्यात्मना, पराऽस्य द्विषन् पाप्मा भ्रातृव्यो भवति य एवं वेद ॥ ७ ॥

प्र. अथ हेममासन्यं प्राणम् इति । ‘आसन्यं’ - मुख्यमित्यर्थः । यद्वा आस्ये भवः आसन्यः । आस्य शब्दस्य । पद्दन्’…. (पा.सू.६-१-६३) इत्यादिना आसन्नादेशः । मुख्यमिति यावत् । तं प्राणं देवाः ऊचुः उक्तवन्तः । किमिति? त्वं न उद्गायेति

स्पष्टोऽर्थः । तेभ्य एष प्राण उदगायत् इति - उद्गातरि मुख्यप्राणदृष्टिं कृतवन्तः इत्यर्थः । तथैव हि व्याख्यातं व्यासार्यैः अन्यथात्वं शब्यात (अ.सू.३-३-६) इत्यधिकरणे । तेऽविदुः

इत्यादि । ‘अवित्सन् - बेद्धुमैच्छन् । व्यध ताडने (धा.पा.११८२) तस्मात् सीन नेट्। अकित्वान्न सम्प्रसारणम् । शिष्टं स्पष्टम् । स यथा अश्मानं ऋत्वा लोष्टो विध्वंसेत

इति । यथा अश्मचूर्णनाय ‘क्षिप्तः लोष्टः - पांसुपिण्डः अश्मानम्-पाषाणं ऋत्वा

प्राप्य विध्वंसेत - चूर्णीभवेत् । सः दृष्टान्तो यथा, तथा अध्यस्त मुख्यप्राणभावोद्गात्रु- पासनानिष्ठान् देवान् प्राप्य विध्वंसमानाः - चूर्णीभवन्तः विष्वञ्चः - नानागतयः विनष्टाः अभवन्नित्यर्थः । ततो देवाः अभवन् पराऽसुराः इति। ततः परं देवाः देवा जाता, द्योतमाना अभवन्नित्यर्थः । यद्वा देवाः अभवन् - सत्तां अलभन्तेत्यर्थः । विजयिनो अभवन्निति वा अर्थः । असुरास्तु परा अभवन् - पराभूता अभवन् । भवत्यात्मना पराऽस्य द्विषन् भ्रातृव्यो भवति य एवं वेद इति । यः उद्गातारम् अध्यस्तप्राणभावमुपास्ते, सः आत्मना भवति - उत्तरो भवतीत्यर्थः । यद्वा, आत्मना मनसा समीचीनेन युक्तो भवतीत्यर्थः । अस्य द्विषन् द्विषश्शतुर्वा (वा.१५२२) वचनमिति कर्मणि षष्टी । एनं प्रति द्वेषं कुर्वन् शत्रुः पाप्मा च पराभूतो भवतीत्यर्थः । भवत्यात्मना परास्य द्विषन् भ्रातृव्यो भवति य एवं वेद इति शत्रुपराजयफलायोद्गीथे प्राणदृष्टिविहिता भाष्यस्योपलक्षणतया पाप्मपराभवस्य, आत्मना भवनस्य च फलत्वप्रतिपादनस्य न विरोध इति द्रष्टव्यम् । यद्वा अस्य द्विषन् भ्रातृव्यः आत्मना स्वत एव पराभवति, पाप्मा च भवति

निन्दादियुक्तश्च भवतीत्यर्थः ॥ ७ ॥

[मुख्यप्राणस्य आङ्गीरस नामधेयम्]

ते होचुः, क्व नु सोऽभूत्, यो न इत्थमसक्तेति । अयमास्येऽन्तरिति । सोऽयास्य आङ्गिरसः । अङ्गानौं हि रसः ॥ ८ ॥

प्र.- ते होचुः क न सोऽभूद्यो नः इत्थमसक्तेति इति । ते ह देवाः ऊचुः । किमति? यः मुख्यप्राणः नः अस्माकम् इत्थम् - उक्तरूप शत्रुपराजयम् असक्तः . संयोजितवान् । षञ्जेः सिचि व्यत्ययेनात्मनेपदे झलो झलि (पा.सू.८-२-२६) इति सिज्लोपे तस्य ‘छान्दसेन ञित्त्वे सिद्धत्वेन’ ‘अनिदिताम्’ (पा.सू.६-४-२४) इत्यनुनासिकलोपः; कुत्वम् । यः संयोजितवान्, सः क्व नु कस्मिन् देशे प्रतिष्ठितः इत्यूचुः - ‘मन्त्रयाञ्चक्रुः’ इत्यन्वयः । एवं सम्मन्त्र्य ददृशुः, अयमास्येन्तरिति सोऽयास्यः इति अन्तरास्ये अयमिति प्रत्यक्षतो दृष्टो यः प्राणः सोऽयास्यः । आङ्गिरसो अङ्गानां रसः इति । अङ्गानां प्राणो हि रसः, अतः आङ्गिरसः इत्यर्थः ॥ ८ ॥

[मुख्यप्राणस्य दूर्नामकत्वम्]

सा वा एषा देवता दूर्नाम । दूर ह्यस्या मृत्युः । दूरँ ह वा अस्मान् मृत्युर्भवति य एवं वेद ॥ ९ ॥

प्र. सा वा एषा देवता दूर्नाम दूरं ह्यस्या मृत्युः इति । हि - यस्मात् कारणात् अस्याः मुख्यप्राणरूपाया देवतायाः मृत्युः दूरं भवति, तस्मात् प्राणस्य दूर्नामत्वं इत्यर्थः । दूर्नामकत्वेन प्राणविद्यायाः फलमाह - दूरं ह वा इत्यादिना । स्पष्टोऽर्थः ॥ ९ ॥

[मुख्यप्राणेन वागादिषु आपादित दोषबहिष्करणम्]

सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्युमपहत्य यत्रासां दिशामन्तस्तद्गमयाञ्चकार । तदासां पाप्मनो विन्यदधात् । तस्मान्न जनमियात्, नान्तमियात्। नेत् पाप्मानं मृत्युमन्ववायानीति ॥ १० ॥

प्र. - सा वा एषा देवता इति । सा उद्गातरि अध्यस्योपासिता एषा-

मृत्युदूरत्वेन दूर्नामिका मुख्यप्राणरूपा देवता पूर्वमसुरैः अनृतादिपाप्मभिः संयोजितानां वागादिदेवतानां मृत्युम् - मरणादिदुःखहेतुतया मृत्युशब्दितं पाप्मानं अपहत्य - वागादि- देवताभ्यः आच्छिद्य, यत्र आसां दिशामन्तः - सर्वदिगन्तप्रदेशः तद्गमयाञ्चकार । दूर्नामत्याद्दूरं मृत्युं निनायेत्यर्थः । तदासां पाप्मनो विन्यदधात् इति । आसाम् । वागादिदेवतानां पाप्मनः पापानि तत् - तेषु दिगन्तदेशेषु विन्यदधात् - विशिष्य निधानं कृतवतीत्यर्थः । तस्मातन्न जनमियात् नान्तमियात् इति । यस्मात् कारणात् प्रत्यन्तदेशानां वागादिदेवताविनिर्मुक्त अनृतादिलक्षण पापनिधानाश्रयतया म्लेच्छदेशत्वम् ,अत एव तत्र देशे जनम् - जननम् - उत्पत्तिमिति यावत् । अन्तम् - मरणं च नेयात् - न प्राप्नुयात् । तत्र देशे उत्पत्तिमरणे अशोभने इति यावत् । नेत् पाप्मानं मृत्युम् अन्ववायानीति इति । नेत् - नैवेत्यर्थः । पाप्मानं मृत्यु नैव अन्वावायानि नानुगच्छेयमिति भीतस्सन् उत्पत्तिमरणे न प्राप्नुयात् इत्यन्वयः । उत्पत्तिमरणे ‘तादृशदेशे यथा न भवतः, तथा यतेत इति यावत् ॥ १० ॥

[मुख्यप्राणेन वागादीनां यथावत् रक्षणम्]

सा वा एषा देवतैतासां देवतानां पाप्मानां मृत्युमपहत्याथैना मृत्युमत्यवहत् ॥ ११ ॥

प्र. - सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्युम् अपहत्य अथ एनाः मृत्युम् अत्यवहत् इति । सैषा मुख्यप्राणदेवता । आसाम् - वागादिदेवतानां पाप्मानं मृत्युम् अपहत्य- ततः आच्छिद्य अथ - तदनन्तरं एनाः -वागादिदेवताः मृत्युमतीत्यावहत्, मृत्युमतिक्रान्तं स्वरूपं प्रापयदित्यर्थः ॥ ११ ॥ स वै वाचमेव प्रथमामत्यवहत्, सा यदा मृत्युमत्यमुच्यत, सोऽग्निरभवत् । सोऽयमग्निः परेण मृत्युमतिक्रान्तो दीप्यते ॥ १२ ॥

प्र .-तदेव प्रपञ्चयति - स वै वाचमेव प्रथमां अत्यवहत् इत्यादिना । सः - प्राणः प्रथमाम् - इतरदेवतासु प्रधानभूतां वाचम् अत्यवहत् - मृत्युमत्यक्रामयत् इत्यर्थः सा - वाक् यदा मृत्युमत्यमुच्यत - मृत्योरतिमुक्ताः - अन्यन्तमुक्ता आसीत्, सोऽग्नि - रभवत् । तदेति शेषः । सः इति अग्न्यपेक्षया पुल्लिङ्गनिर्देशः । यद्यपि वागभिमानिनी देवता सर्वदा अग्निरेव - तथापि अपगतदोषतया अग्रनयनादिप्रवृत्तिनिमित्तपौष्कल्यशालितया अग्निरभवत् । अद्य रामस्य रामत्वम् इत्यादिवदिति भावः । तदेवाह - सोऽयमग्निः परेण मृत्युमतिक्रान्तो दीप्यत इति । एवं मृत्युमतिक्रान्तो अग्निः निरस्तपापरूपमलतया मृत्युं परेण - मृत्योः परस्तात् दीप्यत इत्यर्थः ॥ १२ ॥

अथ प्राणमत्यवहत् । स यदा मृत्युमत्यमुच्यत, स वायुरभवत् । सोऽयं वायुः परेण मृत्युमतिक्रान्तः पवते ॥ १३ ॥ अथ चक्षुरत्यवहत् । तद् यदा मृत्युमत्यमुच्यत, स आदित्योऽभवत् । सोऽसावादित्यः परेण मृत्युमतिक्रान्तः तपति ॥ १४ ॥ अथ श्रोत्रमत्यवहत् । तद्यदा मृत्युमत्यमुच्यत, ता दिशोऽभवन् । ता इमा दिशः परेण मृत्युमतिक्रान्ताः ॥ १५ ॥ अथ मनोऽत्यवहत् । तद्यदा मृत्युमत्यमुच्यत, स चन्द्रमा अभवत् । सोऽसौ चन्द्रः परेण मृत्युमतिक्रान्तो भाति । एवँ ह वा एनमेषा देवता मृत्युमतिवहति य एवं वेद ॥ १६ ॥

प्र. - एवमुत्तरत्रापि द्रष्टव्यम् ॥ १३-१४ ॥ अतिक्रान्ता इति । अत्र भान्तीति शेषः । दिक् शब्दः दिग्देवतापरः ॥ १५ ॥ एवं ह वा एनमेषा देवता मृत्युम् अतिवहति य एवं वेद इति । यः पुमान् वागाद्यभिमानि अग्न्यादिदेवतानां मृत्य्वतिवहनकर्म वेद, तमेनमेषा प्राणदेवता मृत्युमति- वहति - अतितारयतीत्यर्थः । शिष्टं स्पष्टम् ॥ १६ ॥

[मुख्यप्राणेन स्वार्थगृहीतस्य अन्नस्य वागादिभ्योऽपि विभजनम्]

अथात्मनेऽन्नाद्यमागायत् । यद्धि किञ्चान्नमद्यते, अनेनैव तदद्यते । इह प्रतितिष्ठति ॥ १७ ॥

प्र. अथात्मने अन्नाद्यम् आगायत् इति। यो वाचि भोगस्तम् देवेभ्य आगायत् यत् कल्याणं वदति तदात्मने इति यजमानगामिफलव्यतिरिक्तं कल्याणवदनादिकं यथा वागाद्या देवता आगायन् , तथा प्राणोऽप्यात्मने अन्नाद्यम् आगायत् । अन्नमत्तीत्यन्नादः । तस्य भावः अन्नाद्यम् । आदिवृद्ध्यभावः छान्दसः। अथवा अन्नं च तत् आद्यं च अन्नाद्यम् । आद्यम् - अदनार्हम् । भक्षणार्हमित्यर्थः । आगायत् - गानसामर्थ्येन उपास्थापयत् । संपादितवान् इत्यर्थः। यद्धि किञ्चान्नमद्यते, अनेनैव तदद्यते इति । अत्र अनशब्दः प्राणवाची । अद्यमानं सर्वं प्राणेनैव अद्यत इत्यर्थः । इह प्रतितिष्ठति

इति ।इह -अन्ने सत्येव प्राणः प्रतिष्ठितो भवतीत्यर्थः । तस्मादन्नस्य प्राणाहारत्वात् अन्नादत्वं सिद्धमिति भावः ॥ १७ ॥

ते देवा अब्रुवन्, एतावद्वा इदँ सर्वं यदन्नम् । तदात्मन आगासीः । अनु नोऽस्मिन्नन्न आभजस्वेति । ते वै माऽभिसंविशतेति । तथेति तँ समन्तं परिण्य- विशन्त । तस्माद्यदनेनान्नमत्ति, तेनैतास्तृप्यन्ति । एवँ ह वा एनँ स्वा अभिसंविशन्ति, भर्ता स्वानाँ श्रेष्ठः पुर एता भवत्यन्नादोऽधिपतिर्य एवं वेद । य उ हेवंविदँ स्वेषु

प्रति प्रतिबुभूषति’, न हैवालं भार्येभ्यो भवति । अथ य एवैतमनुभवति, यो वै तमनु भार्यान् बुभूर्षति, स हैवालं भार्येभ्यो भवति ॥ १८॥

प्र- ते देवा अब्रुवन् इति । वागाद्याः ते देवाः प्राणमब्रुवन् । किमिति? एतावद्वा इदं सर्वं यदन्नम्, तदात्मन आगासीः, अनुनोऽस्मिन्नन्न आभजस्वेति इति । यदिदमन्नमस्ति, एतावद्वै सर्वमिदम् । तत् - तादृशमन्नम् आत्मने - स्वार्थमागासीः । वयञ्च अन्नार्थिनः, अन्नं विना स्थातुम् अशक्यत्वात् । तस्मादस्मिन्नन्ने अनु - त्वद्भोगानन्तरं नः -अस्मान् आभजस्व आङ् ईषदर्थे अन्तर्भावितण्यर्थोऽयं भजिः-भाजय, अल्पाल्पभागवतः कुरु इत्यर्थः । सः एवमुक्तः प्राणः प्रत्याह -ते वै माऽभिसंविशतेति । ते वै -तादृशाः अन्नार्थिनः यूयं मा - माम् अभि - अभितः संविशत - उपविशत इत्यब्रवीत् । तथेति तं समन्तं परिण्यविशन्त इति । वागाद्या देवताः तथेति प्रतिश्रुत्य समन्तात् - परितः न्यविशन्त - निविष्टा इत्यर्थः । भागिनश्च अभवन्निति भावः । तस्मात् यदनेन अन्नमत्ति तेनैताः तृप्यन्ति इति । तस्माद्धेतोः अनेन- प्राणेन सहितस्सन् जीवो यदन्नमत्ति, तेनैवान्नेन वागाद्याः तृप्यन्ति । प्राणे अन्नेन आप्यायिते वागाद्याः प्राणा अन्नेन आप्यायिता भवन्तीत्यर्थः ॥ एतद्वेदनस्य फलमाह- एवं ह वा एनं स्वा अभिसंविशन्ति, भर्ता स्वानाँ श्रेष्ठः पुर एता भवति अन्नादो अधिपतिः य एवं वेद इति । यस्तु एवं वेद - उपास्ते, तादृशं एनम् - विद्वांसम्, यथा वागाद्याः प्राणस्य परितो निविष्टाः, एवं स्वाः - ज्ञातयः अभितः संविशन्ति - परितः उपासते । स्वानाम् - ज्ञातीनां भर्ता - पोषकः श्रेष्ठश्च पुर एता - अग्रेसरः अन्नादः अरोगदृढगात्रतया अभिमतान्नभोक्ता अन्येषां अधिपतिश्च भवतीत्यर्थः । य उ हैवंविदँ स्वेषु प्रति प्रतिबुभूषति न हैवालं भार्येभ्यो भवति इति । एवं विधम् - एतादृश प्राणविद्यानिष्ठं प्रति स्वेषु - ज्ञातिषु प्रति - प्रतिभटः, छान्दसस्सुलोपः । बुभूषति - भवितुमिच्छति, प्रतिस्पर्धी भवितुं इच्छतीत्यर्थः प्रतिपत्तिर्बुभूषति इति पाठेऽपि स एवार्थः । सः भार्येभ्यः - भर्तव्यभार्यापुत्रादिभ्यः - भार्यापुत्रादिभरणाय इति यावत् । नालं भवति - पुत्रकळत्रादि भरणेपि असमर्था भवतीत्यर्थः । अथ य एवैतम् अनुभवति यो वै तमनुभार्यान् बुभूर्षति स एवालं भार्येभ्यो भवति । अथ शब्दः प्रकृतमपेक्ष्यार्थान्तरपरत्वे । ज्ञातीनां मध्ये य एतम् - प्राणविदम् अनुभवति - अनुगतो यो वा एतम् - प्राणविदम् अनु - अनुसृत्य भार्यान् - भर्तव्यान् पुत्रकळत्रादीन् बुभूर्षति - भर्तुम् इच्छति । भृञः सनि उदोष्ठ्यपूर्वस्य (पा.सू.७-१-१०२) इत्युत्वम् । स एवालं भार्येभ्यो भवति - उक्तोऽर्थः ॥ १८ ॥

[मुख्यप्राणस्य अनेकादि नामनिर्देशेन तन्निर्वचनम्]

सोऽयास्य आङ्गिरसोऽङ्गानाँ हि रसः । प्राणो वा अङ्गानाँ रसः । प्राणो हि वा अङ्गानाँ रसः । तस्मात् यस्मात् कस्माच्चाङ्गात् प्राण उत्क्रामति, तदैव तच्छुष्यति । एष हि वा अङ्गानाँ रसः ॥ १९ ॥

प्र -पूर्वमुक्तमेव अयास्यत्वम् आङ्गिरसत्वञ्च विद्याभेदभ्रमापनुत्तये पुनराह सोऽयास्य इत्यादिना । सोऽयास्य आङ्गिरसोऽङ्गानां हि रसः प्राणो वा अङ्गानां रसः इत्यन्तेन उक्त एवार्थः स्मारितः । पुनस्तमेवार्थ प्रसिद्ध्योपपादयति - प्राणो हि वा

इत्यादिना । हि - यस्मात् प्राणानाम् अङ्गरसत्वम् , तस्मात् यस्मात् कस्माश्चिदङ्गात्

प्राण उत्क्रामति, तदैव तदङ्गं शुष्यति । नीरसत्वादिति भावः ॥ १९ ॥