[[बृहदारण्यकोपनिपन्मिताक्षरा Source: EB]]
[
[TABLE]
आदर्शपुस्तकसंज्ञाद्युल्लेखपत्रिका।
<MISSING_FIG href="../books_images/U-IMG-1732961997Screenshot2024-11-30154914.png"/>
अस्या नित्यानन्दविरचितबृहदारण्यकोपनिषन्मिताक्षरायाः पुस्तकानि यैः परहितैकपरायणमनीषया शोधनसमये संस्करणार्थं प्रदत्तानि तेषां नामग्रामादिनिर्देशः पुस्तकानां संज्ञाश्च कृतज्ञतया प्रकाश्यन्ते।
क. इति संज्ञितम्—समूलमिताक्षरापुस्तकम्, बडलीग्रामनिवासिनां वे. शा.
रा. रा. ‘मार्तण्डदीक्षित’ इत्येतेषाम्।
ख. इति संज्ञितम्—समूलमिताक्षरापुस्तकम्, पुण्यपत्तननिवासिनां वे. शा.
रा. रा. नीलकण्ठशास्त्रिणाम्।
ग. इति संज्ञितम्—समूलमिताक्षरापुस्तकम्, जामनगरनिवासिनां रा. रा.
‘हाथीमराम हरिशंकर’ इत्येतेषाम्।
घ. इति संज्ञितम्—समूलमिताक्षरापुस्तकम्, मोहमयीनगर निवासिनां श्री. वे.
रा. जयकृष्णमहाराजानाम्, लेखनकालोऽस्य विक्रम-संवत् १७४९।
ङ. इति संज्ञितम्—समूलमिताक्षरापुस्तकम्, पुण्यपत्तननिवासिनां रा. रा.
भाऊसाहेब नगरकर इत्येतेषाम्, लेखनकालोऽस्य शालि-
वाहनशकाब्दाः १७०५।
परिसमाप्तेयं सूचीपत्रिका।
<MISSING_FIG href="../books_images/U-IMG-1732962208Screenshot2024-11-30154935.png"/>
ॐ तत्सद्ब्रह्मणे नमः।
बृहदारण्यकोपनिषत्।
<MISSING_FIG href="../books_images/U-IMG-1732962702Screenshot2024-11-30160119.png"/>
नित्यानन्दमुनिविरचितमिताक्षराख्यया
व्याख्यया समेता।
<MISSING_FIG href="../books_images/U-IMG-1732962637Screenshot2024-11-14162430.png"/>
योऽनन्तोऽनन्तशक्तिः सृजति जगदिदं पालयत्यन्तरात्मा
संविश्यान्ते निपीय स्वकमहिमगतः सत्यचिन्मूर्तिरास्ते॥
योऽनुग्रः सज्जनानां परमहिततमः पापिनामुग्रमूर्तिः
सोऽस्माकं वाञ्छितानि प्रदिशतु भगवानात्मदः श्रीनृसिंहः॥१॥
यन्मूलप्रवहत्पवित्रपयसः संसेवनादेव मे
रागद्वेषमदाभिधा ग्रहगणा नेशुः स्म संतापिनः॥
यत्संसारपरिश्रमाषहदयासंशीतलामोदभा-
ग्वन्दे तत्पुरुषोत्तमाश्रमगुरोः पादारविन्दद्वयम्॥२॥
या काण्वोपनिषत्प्रसिद्धबृहदारण्यश्रुतेः सादरं
तद्भाष्यप्रमुखं1 विलोक्य विपुला टीका कृता ज्ञानिनाम्॥
रम्या तत्कलनासमर्थमतिभिर्मोक्षेच्छुभिर्योगिभिः
सुज्ञेया तु मिताक्षरा पुनरियं व्याख्या मया रच्यते॥३॥
उपनिषच्छब्देन तु मुख्यया वृत्त्या ब्रह्मविद्यैव वाच्या। उप समीपस्थं प्रत्यगात्मैकत्वं निश्चितं सत्तत्पराणां सहेतुसंसारं सादयतीत्युपनिषिदिति व्युत्पत्तेः। ग्रन्थस्तु विद्यासमर्पकत्वेनोपचारादुपनिषदित्युच्यते। बृहत्त्वं चास्य ब्रह्मविद्याहेतूनामन्तरङ्गबहिरङ्गभूतानां बहूनामिहोपदेशादर्थतो ग्रन्थपरिमाणतश्च बहुत्त्वात्। आरण्यकत्वं चास्य नियमपूर्वकमरण्येऽनूच्यमानत्वात्। ननु काण्डयोर्नियतपौर्वापर्ये कः संबन्ध इति चेच्छृणु। विद्योत्पत्त्यपेक्षितविवेकवैराग्यशमादिमुमुक्षुत्वसंपत्तिहेतुसत्त्वशुद्धिसंपादकतया कर्मकाण्डस्य प्राथम्यं तज्जनितशुद्ध्यपेक्षया तत्त्वज्ञानजनकत्वाज्ज्ञानकाण्डस्य नियतमुत्तरभावित्वमित्युपायोपेयभावः काण्डयोः संबन्ध इति ब्रूमः। तत्र ऋतुश्रेष्ठस्याप्युपास्तिसहितस्याश्वमेधस्य हिरण्यगर्भत्वरूपसंसारफलत्वमेवेति प्रदर्शिते किमु वक्तव्यमल्पीयसाम-
ॐ उषा वा अश्वस्य मेध्यस्य शिरः सूर्यश्च-
क्षुर्वातः प्राणो व्यात्तमग्निर्वैश्वानरः संवत्सर
आत्माऽश्वस्य मेध्यस्य द्यौः पृष्ठसन्तरिक्ष-
मुदरं पृथिवी पाजस्यं दिशः पार्श्वे अवान्तर-
दिशः पर्शव ऋतवोऽङ्गानि मासाश्चार्धमासाश्च
ग्निहोत्रादीनां संसारफलत्वमित्यर्थात्प्रदर्शनेन वैराग्योत्पत्तिर्भवत्वित्यभिप्रायेणाश्वमेधानधिकारिणामश्वमेधविज्ञानादपि तत्फलसिद्ध्यर्थं तावत्क्रत्वङ्गप्रधानभूताश्वविषयदर्शनमुषा वा इत्यादिप्रथमकण्डिकयाऽऽह—उषेति। उषा वै ब्राह्मो मुहूर्तः प्रसिद्धः। मेध्यस्य मेधार्हस्य यज्ञियस्याश्वस्य शिरस्युषादृष्टिः कर्तव्या कालावयवानां शरीरावयवानां च मध्य उषःशिरसोः प्रधानत्वसामान्यात्। अङ्गेष्वनङ्गमतिः पशुसंस्कारार्था। तथाचाश्वमेधाधिकारी सत्यश्वे कर्मणो वीर्यवत्त्वार्थंकालादिदृष्टिमश्वावयवेषु कुर्यात्तदनधिकारी त्वश्वाभावेऽप्यात्मानमश्वंकल्पयित्वा शिरःप्रभृतिषु कालादिदृष्टिकरणेन प्रजापतित्वं संपाद्य प्रजापतिरस्मीति ज्ञानात्तद्भावं प्रतिपद्यते कालाद्यात्मकत्वात्प्रजापतेः। सूर्यश्चक्षुरश्वचक्षुषि सूर्यदृष्टिः कर्तव्या। उषसः शिरसश्च सूर्यचक्षुषोरानन्तर्यसामान्यात्। अश्वस्य प्राणो वातो बाह्यो वायुरिति दृष्टिः कर्तव्येति सर्वत्र व्याख्येयं चलनत्वसामान्यात्। अश्वस्य व्यात्तं विवृतं मुखं वैश्वानरोऽग्निः। वैश्वानरग्रहणं तु क्रव्यादाग्निव्यावृत्त्यर्थम् “अग्निर्वाग्भूत्वा मुखं प्राविशत्” इति श्रुत्यन्तरात्। आत्माऽश्वशरीरं संवत्सरः। उभयोः शरीरकालावयवानां हस्तमासादीनामात्मत्वसामान्यात्। अश्वस्य मेध्यस्य पृष्ठं द्यौर्युलोक उर्ध्वत्वसामान्यात्। अश्वस्य मेध्यस्येति पुनर्वचनं तु प्रत्येकमनुषङ्गार्थम्। अश्वस्योदरमन्तरिक्षमाकाशः सुषिरत्वसामान्यात्। पाजस्यमित्यत्रार्थकाले जकारस्थाने दकारकरणेन पादा अस्यन्ते स्थाप्यन्तेऽस्मिन्निति पादस्यं2 पाजस्यं3 पादासनस्थानं खुरलक्षणं पृथिवी। आधारत्वादिसामान्यात्। अश्वपार्श्वे दिशः पूर्वाद्याश्चतस्रोऽपि। न च पार्श्वयोर्दिशां च संख्यावैषम्यात्तयोस्तद्दृष्टिकरणमयुक्तमिति वाच्यम्। अश्वस्य चरिष्णुत्वेन सर्वमुखत्वोपपत्तेरश्वपार्श्वाभ्यां क्रमेण सर्वदिक्संबन्धसामान्यात्। पर्शवः पार्श्वास्थीन्यवान्तरदिश आग्नेय्याद्याः। उभयोः पार्श्वदिक्संबन्धसामान्यात्। अङ्गान्यनुक्तानि वक्ष्यमाणशरीरावयवरूपाणि ऋतवो वसन्ताद्याः। उभयोः शरीरसंवत्सराङ्गत्वसामान्यात्। पर्वाणि संधयो मासाश्चैत्रादयोऽर्धमासाश्च शुक्ल-
पर्वाण्यहोरात्राणि प्रतिष्ठा नक्षत्राण्यस्थीनि
नमो माँसानि। ऊवध्यँसिकताः सिन्धवो
गुदा यकृच्च क्लोमानश्च पर्वता ओषधयश्च वन-
स्पतयश्च लोमान्युद्यन्पूर्वार्धो निम्लोचञ्जघ-
नार्धो यद्विजृम्भते तद्विद्योतते यद्विधूनुते तत्स्त-
नयति यन्मेहति तद्वर्षति वागेवास्य वाक्
॥१॥ अहर्वा अश्वं पुरस्तान्महिमाऽन्वजायत
———————————————————————————————————————————————————
पक्षादयः पुनः पुनरावर्त्यमानाः। उभयोः शरीरसंवत्सरसंधिसामान्यात्। प्रतिष्ठाः प्रतितिष्ठत्येतैरिति प्रतिष्ठाः पादा अहोरात्राणि प्राजापत्यदैवपित्र्यमानुषाणि बहुवचनात्। एताभ्यां4 ह्यश्वसंवत्सरात्मानौ प्रतितिष्ठत इति प्रतिष्ठितत्वसामान्यात्। अस्थीनि प्रसिद्धानि नक्षत्राणि शुक्लत्वसामान्यात्। मांसानि प्रसिद्धानि नभो नभस्था मेघा न प्रसिद्धमन्तरिक्षं तस्योदरत्वोक्तेरुभयो रुधिरोदकसेचकत्वसामान्यात्, ऊवध्यमर्धजीर्णमशनं सिकता वालुकाः। विश्लिष्टावयवत्वसामान्यात्। गुदा नाड्य एव सिन्धवो नद्यः स्यन्दनवत्त्वे सति बहुत्वसामान्यात्। यकृच्च क्लोमानश्च हृदयस्याधस्थौ दक्षिणोत्तरौ मांसपिण्डौ पर्वताः काठिन्योच्छ्रयत्वसामान्यात्। लोमान्योषधयो व्रीह्यादयः क्षुद्रत्वसामान्यात्। लोमग्रहणस्य केशानामप्युपलक्षणत्वेन केशा वनस्पतय आम्रादयो महत्त्वसामान्यात्। पूर्वार्धमश्वस्य नाभेरूर्ध्वभाग उद्यन्नुद्गच्छन्मध्याह्नपर्यन्तमूर्ध्वं गच्छन्सवितेति ध्येयं पूर्वत्वसामान्यात्। जघनार्थो नाभेरधोभागो निम्लोचन्नाम मध्याह्नादस्तं गच्छन्सविताऽपरत्वसामान्यात्। यद्विजृम्भत इत्यादौ प्रत्ययार्थस्याविवक्षितत्वाद्यद्विजृम्भणं गात्राणां विनामनेन मुखविदारणं तद्विद्योतनं प्रसिद्धमुभयोर्मुखमेघविदारकत्वसामान्यात्। यद्विधूननं गात्रकम्पनं तत्स्तनितं गर्जनशब्दसामान्यात्। यन्मेहनं मूत्रकरणं तद्वर्षणं भूसेचनत्वसामान्यात्। अस्याश्वस्य वाग्हेषितशब्दो वागेव हेषितशब्द एव। नात्राऽऽरोपणीयमस्तीत्यर्थः॥१॥
अथाश्वस्तुत्यर्थमेव तत्संज्ञपनात्प्रागूर्ध्वं च ग्रहवर्तनतत्स्थानविषयं दर्शनमाहअहर्वा इत्यादिसंबभूवतुरित्यन्तेन। पुरस्तात्संज्ञपनात्पूर्वमश्वमनुलक्षीकृत्य महिमा महत्त्वोपेतत्वान्महिमाख्यः सौवर्णो ग्रहोऽजायत प्रावर्तत सोऽहर्दिनं वै दीप्ति-
तस्य पूर्वे समुद्रे योनी रात्रिरेनं पश्चान्महिमाऽ-
न्वजायत तस्यापरे समुद्रे योनिरेतौ वा अश्वं
महिमानावभितः संबभूवतुः। हयो भूत्वा देवा-
नवहद्वाजी गन्धर्वानर्वाऽसुरानश्वो मनुष्यान्स-
मुद्र एवास्य बन्धुः समुद्रो योनिः॥२॥
इति प्रथमाध्यायस्य प्रथमं ब्राह्मणं समाप्तम्॥१॥
नैवेह किंचनाग्र आसीन्मृत्युनैवेदमावृतमासीत्।
———————————————————————————————————————————————————
सामान्यात्। तस्य सौवर्णस्य ग्रहस्य पूर्वे समुद्रे पूर्वः समुद्रोयोनिरासादनस्थानं पूर्वत्वसामान्यात्। योऽयं महिमा राजतो ग्रह एनमश्वमनुलक्षीकृत्य पश्चादश्वसंज्ञपनानन्तरमजायत प्रावर्तत स रात्रिर्वर्णसामान्याज्जघन्यत्वाद्वा। तस्य राजतस्य ग्रहस्यापरे समुद्रेऽपरः समुद्रो योनिरपरत्वसामान्यात्। एतौवै महिमानौग्रहावश्वमभितःपुरतःपृष्ठतश्च संबभूवतुः प्रावर्तेतामित्यश्वस्तुत्यर्थकं पुनर्वचनमश्वस्तुत्यर्थमेवैतद्रहदर्शनं न स्वतन्त्रमितिद्योतनार्थम्। अत एवाश्वस्य स्तुतिमाह—हयो भूत्वेत्यादिना। अत्र हयादयो जातिविशेषाः। सोऽश्वो हयो भूत्वा देवानवहद्देवत्वमगमयत्। तस्य प्रजापतिरूपत्वात्। देवानां वोढा वाऽभवत्। तथा बाजी भूत्वागन्धर्वानर्वा भूत्वाऽसुरानश्वो भृत्वा मनुष्यान्। अवहदिति प्रत्येकं संबध्यते। समुत्पद्य भूतानि द्रवन्ति लयं गच्छन्त्यस्मिन्निति समुद्रः परमात्मा स एवास्य बन्धुर्वध्यतेऽनेनेति बन्धुर्वन्धनम्। समुद्र एव पूर्वोक्तोयोनिरुत्पत्तिकारणम्। एवमसौ शुद्धजन्मा शुद्धस्थितिः शुद्धलयश्चेति स्तूयते। अप्सु योनिर्वा अश्व इति श्रुत्यन्तरात्प्रसिद्ध एवासौसमुद्रोयोनिरित्यर्थः॥२॥
इति श्रीबृहदारण्यकव्याख्यायां मिताक्षराख्यायां प्रथमाध्यायस्य
प्रथमं ब्राह्मणम्॥१॥
<MISSING_FIG href=”../books_images/U-IMG-1733039795Screenshot2024-11-14162430.png”/>
एवमश्वमेधे मुख्याङ्गभूताश्वविषयं दर्शनं विधायेदानीमाश्वमेधिकाग्निविषयंदर्शनं वक्तुं तत्स्तुत्यर्थतया तदुत्पत्तिप्रस्तावं तावदाह—नैवेत्यादिना। इह संसारमण्डलेऽग्रे मनआदेरुत्पत्तेः प्राक्किंचन किंचिदपि नामरूपविभक्तविशेषं नैवाऽऽसीन्न बभूव। तर्हि किं प्रागुत्पत्तेः शून्यमेव वभूवेत्यत आह—मृत्युनेति। मृत्युना याशबलितलक्षणमूलकारणेन सूत्रात्मरूपेण हिरण्यगर्भात्मकसूक्ष्मशरीरमापन्नेनामरूपप्रविभक्तं जगदावृतमासीन्न पुनः शून्यमासीद्यच्चाऽऽव्रियतेयेन चाऽऽ-
अशनाययाऽशनाया हि मृत्युस्तन्मनोऽकुरुताऽऽत्मन्वी
स्यामिति। सोऽर्चन्नचरत्तस्यार्चत आपोऽजायन्तार्चते वै
मे कमभूदिति तदेवार्कस्यार्कत्वं कँह वा अस्मै
भवति य एवमेतदर्कस्यार्कत्वं वेद॥१॥
आपोवा अर्कस्तद्यदपाँशर आसीत्तत्समहन्यत।
———————————————————————————————————————————————————
व्रियते तदुभयोः सर्वथाऽभावे मृत्युनैवेदमावृतमासीदिति नावक्ष्यन्न हि संभवति गगनकुसुमच्छन्नो वन्ध्यासुत इति। किंलक्षणेन मृत्युनेत्यत आह—अशनाययेति। अशितुमिच्छाऽशनाया तया लक्षणभूतया लक्षितेन मृत्युना बुद्ध्यादितादात्म्यमापन्नेनोक्तस्वरूपेणेत्यर्थः5। कथं तया मृत्युर्लक्ष्यते तत्राऽऽह—अशनायेति। अशनाया6 ह्यशनावान्प्रसिद्धो मृत्युर्यो ह्यशितुमिच्छति स तदिच्छान्तरमेव जन्तून्हन्तीति प्रसिद्धमित्यतस्तया7 तद्वान्मृत्युर्लक्ष्यत इति युक्तमित्यर्थः। एवं कार्यस्य प्रागवस्थामभिधाय तदुत्पत्तिप्रकारमाह—तदिति। स प्रकृतो हिरण्यगर्भाख्यो मृत्युर्यत्स्रष्टव्यालोचनक्षमं तन्मनःशब्दवाच्यं संकल्पादिलक्षणं करणमकुरुत कृतवान्। केनाभिप्रायेणेत्यत आह—आत्मन्वीति। अहमनेनाऽऽत्मना मनसाऽऽत्मन्वी मनस्वी स्यां भवेयमित्यभिप्रायेण। अभिव्यक्तीकृतस्य मनस उपयोगमाह—स इति। स मृत्युरर्चन्नर्चयन्पूजयन्नात्मानमेव कृतार्थोऽस्मीत्यचरच्चरणं कृतवान्। तस्य मृत्योरर्चतः पूजयत आपो रसात्मिकाः पूजाङ्गभूता अजायन्त। अत्र हैरण्यगर्भे सर्ग आकाशादिप्रभृतीनां त्रयाणां पञ्चीकृतानामुत्पत्त्यनन्तरमुत्पन्ना इति बोद्धव्यम्। अर्चते पूजां कुर्वते वै मे मह्यं कमुदकमभूदिति यस्मान्मृत्युरमन्यत तदेव तस्मादेव हेतोरर्कस्याग्नेर्वक्ष्यमाणस्याश्वमेधक्रतूपयोगिकस्यार्कत्वमेतन्नाम्नोपास्यत्वाय8। एतद्विधानविदोऽवान्तरफलमाह—कमिति। य एवं यथोक्तमेतदर्कस्यार्कत्वं9 वेद ह वै निश्चितमस्मा उपासकाय कमुदकं सुखं वा भवति नामसामान्यादित्यर्थः॥१॥
अथाद्भ्यःसकाशात्पृथिवीद्वाराऽग्न्युत्पत्तिमाह—आप इति। आपो वा अर्क इति गौण्या वृत्त्योच्यते। भूतान्तरसहितास्वप्सु कारणभूतासु पृथिवीद्वारा पार्थिवस्याग्नेः स्थितत्वादयमग्निरर्क इति च वक्ष्यमाणत्वात्। तत्तत्राप्सु भूतान्तरसहितासूत्पन्नासु सतीषु यदपां शर आसीत्कारणस्योच्छूनत्वलक्षणो दध्न इव मण्डभूतं बभूव तत्तेजसा बाह्यान्तः पच्यमानं समहन्यत संघातमापद्यत
सा पृथिव्यभवत्तस्यामश्राम्यत्तस्य श्रान्तस्य
तप्तस्य तेजोरसो निरवर्तताग्निः॥२॥
स त्रेधाऽऽत्मानं व्यकुरुताऽऽदित्यं तृतीयं वायुं
तृतीयँ स एष प्राणस्त्रेधा विहितः। तस्य प्राची
दिक्शिरोऽसौ चासौ चेर्मौ। अथास्य प्रतीची
दिक्पुच्छमसौ चासौ च सक्थ्यौ दक्षिणा
चोदीची च पार्श्वे द्यौः पृष्ठमन्तरिक्षमुदर-
———————————————————————————————————————————————————
कठिनमभूत्सा पृथिव्यभवत्। ताभ्योऽद्भयो विराट्शब्दवाच्यमण्डमभवदिति यावत्। तस्यां पृथिव्यामुत्पादितायां स मृत्युरश्राम्यल्लोकवच्छ्रमयुक्तो बभूव। तस्य मृत्योः श्रान्तस्यात एव तप्तस्य खिन्नस्य तेजोरसस्तेज एव रसस्तेजोरसोऽग्निरूपो विराडभिमानी प्रजापतिश्चतुर्मुखब्रह्मशब्दवाच्यः प्रथमशरीरी निरवर्ततोत्पन्न इत्यर्थः॥२॥
एवमुत्पन्नस्य विराजो ध्यानार्थमाह—स इति। स मृत्युर्हिरण्यगर्भात्मैव विराडनुपमर्दनेन त्रेधा त्रिप्रकारमात्मानं कार्यकरणसंघातं10 स्वयमेव व्यकुरुत व्यभजत्। कथं त्रेधेत्यत आह—आदित्यमिति। आदित्यं तृतीयमग्निवाय्वपेक्षया व्यकुरुत। तथाऽग्न्यादित्यापेक्षया वायुं तृतीयम्। तथा वाय्वादित्यापेक्षयाऽग्निं तृतीयमिति द्रष्टव्यम्। स त्रेधाऽऽत्मानमित्युपक्रमात्। सशब्देनाव्यवहितविराडात्मपरामर्शशङ्कां वारयति—स इति। स एष मृत्य्वात्मा प्राणः सूत्रभूत एवाग्निवाय्वादित्यरूपेण स्वोत्पन्नविराडनुपमर्दनेन त्रेधा विहितो विभक्त इत्यर्थः। अथास्य विराजोऽग्नेरर्कनाम्नोऽश्वस्येव संस्कारार्थं दर्शनमाह—तस्येति। तस्य चित्यस्याग्नेः शिरः प्राची दिगुत्कृष्टत्वसामान्यात्। अग्नेरीर्मौ बाहू असौ चासौ चैशान्याग्नेय्यौ पार्श्वदिक्संबन्धसामान्यात्। अन्ययोर्वाह्वोःपार्श्वसंबन्धो वर्तते। अनयोरपि दिशोः पार्श्वत्वेन कल्प्यमानदक्षिणोत्तरदिक्संबन्धः समान इत्यर्थः। अथानन्तरमस्य चित्याग्नेः प्राङ्मुखस्य पुच्छं जघन्यो भागः प्रतीची पश्चिमा दिग्जघन्यत्वसामान्यात्। अग्नेः सक्थ्यौ सक्थिनी पृष्ठनिष्ठोन्नतास्थिनी असौ चासौ च वायव्यनैर्ऋत्यौपृष्ठकोणत्वसामान्यात्। अग्नेः पार्श्वे दक्षिणा चोदीची चोभयदिक्संबन्धसामान्यात्। द्यौः पृष्ठमन्तरिक्षमुदर-
मियमुरः स एषोऽप्सु प्रतिष्ठितो यत्र क्व चैति
तदेव प्रतितिष्ठत्येवं विद्वान्॥३॥
सोऽकामयत द्वितीयो म आत्मा जायेतेति स
मनसा वाचं मिथुनँ समभवदशनाया मृत्यु-
स्तद्यद्रेत आसीत्स संवत्सरोऽभवत्। न ह पुरा
ततः संवत्सर आस तमेतावन्तं कालमबि-
भर्यावान्संवत्सरस्तमेतावतः कालस्य परस्ताद-
———————————————————————————————————————————————————
मित्युक्तार्थम्। उर इयं पृथिवी। अधोभागत्वसामान्यात्। अथोपास्याग्नेरप्रतिष्ठितत्वं गुणमाह—स इति। स एषोऽग्निः प्रजापतिरूपो लोककालाद्यात्मकोऽप्सु कारणभूतासु पञ्चीकृतासु प्रतिष्ठितः। एतद्गुणोपासनफलमाह—यत्रेति। अग्नेरेवमप्सु प्रतिष्ठितत्वं विद्वान्यत्र क्व चैति गच्छति तत्तत्रैव प्रतितिष्ठति प्रतिष्ठां प्राप्नोतीत्यर्थः॥३॥
यो मृत्युरबादिप्रतिपाद्येमं विराजमसृजतेत्युक्तः स केन व्यापारेणेत्याकाङ्क्षायामुत्तरो ग्रन्थः। यद्वा तेजोरसो निरवर्तताग्निरित्यत्रात्तुः सर्ग उक्तः संप्रति तस्य स्थित्यर्थमन्नसर्ग उच्यते स इति। स प्रकृतो मृत्युर्मनःकरणकः सूत्रात्माऽकामयत कामितवान्। किम्। सूक्ष्मशरीरापेक्षया द्वितीयो मे ममाऽऽत्मा शरीरं स्थूलं जायेतोत्पद्येतेति। स मृत्युर्मनसा पूर्वोत्पन्नेन वाचं वेदत्रयीलक्षणां मिथुनं द्वंद्वभावं समभवत्समभावयन्मनसा त्रय्यालोचनलक्षणं संभवनं कृतवान्। त्रयीविहितसृष्टिक्रमं मनसाऽन्वालोचयदिति यावत्। सोऽकामयतेत्यत्र सर्वनाम्नाऽव्यवहितपूर्वोक्तवैश्वानरपरामर्शशङ्का मा भूदित्येतदर्थं कामनावन्तं विशिनष्टि—अशनाया मृत्युरिति। एतन्मृत्योर्विशेषणं छान्दसम्। तथाचाशनायोपलक्षितो मृत्युः पूर्वोक्त एवात्र पराम्रष्टव्यो नेतरः। तत्तत्र मिथुने यद्रेतो बीजं प्रथमशरीरिणः प्रजापतेरुत्पत्तिकारणभूतं जन्मान्तरीयं ज्ञानकर्मरूपमासीत्तत्रय्यालोचनेन पश्यन्मृत्युस्तद्भावभावितः सन्नपः सृष्ट्वातेन रेतसा बीजेनाप्स्वनुप्रविश्याण्डरूपेण गर्भीभूतः स मृत्युः संवत्सरोऽभवत्संवत्सरकालनिर्माताऽऽदित्यो बभूव। ततस्तस्मात्संवत्सरकालनिर्मातुरादित्यात्मनो मृत्योः पुरा पूर्व संवत्सरकालविशेषो नाऽऽस न बभूव। हेति प्रसिद्धम्। तं संवत्सरकालनिर्मातारमन्तर्गर्भं प्रजापतिं यावानिह लोके संवत्सरः प्रसिद्ध एतावन्तं कालमबिभर्भृतवान्मृत्युः। एतावतः कालस्य संवत्सरमात्रस्य परस्तादूर्ध्वं तं वैराजम-
सृजत। तं जातमभिव्याददात्स भाणकरोत्सैव
वागभवत्॥४॥
स ऐक्षत यदि वा इममभिमँस्ये कनीयोऽत्रं
करिष्य इति स तया वाचा तेनाऽऽत्मनेदँस-
र्वमसृजत यदिदं किंचर्चोयजुँषि सामानि
च्छदाँसि यज्ञान्प्रजाः पशून्। स यद्यदेवासृ-
जत तत्तदत्तुमध्रियत सर्वंवा अत्तीति तददिते
रदि तित्वँ सर्वस्यैतस्यात्ता भवति सर्वमस्यान्नं
भवति य एवमेत ददितेरदितित्वं वेद॥५॥
———————————————————————————————————————————————————
सृजत सृष्टवानण्डमभिनदिति यावत्। तमेवं सृष्टं प्रथमशरीरिणं कुमारं मृत्युरत्तुमभिव्याददान्मुखव्यादानं कृतवान्। तेन तस्मिन्कृते11 सति स उत्पन्नः कुमारः स्वाभाविक्याऽविद्यया युक्तो भीतः सन्भाणित्येवं शब्दमात्रमकरोत्सैव वाक्शब्दसामान्यमभवज्जातमित्यर्थः॥४॥
अथर्गादिसृष्टिमुपदेष्टुं पीठिकामाह—स इति। स मृत्युरशनायावानपि कृतरवं कुमारमालोक्यैक्षतेक्षितवान्विचारमकरोत्। वै प्रसिद्धम्। इमं कुमारं स्रष्टव्यान्नहेतुभूतं यद्यहमभिमंस्ये हिंसिष्ये तदाऽन्नं कनीयोऽल्पीयः करिष्ये बीजभक्षणादिव। बहु च कर्तव्यं दीर्घकालभक्षणायेति विचार्य तद्भक्षणादुपरराम \। एवं स मृत्युः क्रमेण तया वाचा कुमारवदननिर्गतया तेनाऽऽत्मना कुमारस्वरूपमापन्नेनेदं वाच्यवाचकरूपं सर्वं जगदसृजत। किं च यदिदम्। ऋचो12 नियताक्षरपादबन्धसमन्विता मन्त्रविशेषाः। यजूंष्यनियताक्षरपादाः। ऋच एव स्तोभाक्षरसंयुक्ताः सामानि। छन्दांसि गायत्र्यादीनि। तैर्विशिष्टानेतान्मन्त्रानसृजतेति यावत्। यज्ञांस्तत्साध्यान्। प्रजास्तत्कर्त्रीः। पशूंश्च ग्राम्यारण्यान्कर्मसाधनीभूतानेवमसृजत। स मृत्युर्यद्यदेव क्रियां तत्साधनं फलं वाऽसृजत तत्तदत्तुं भक्षयितुमध्रियत धृतवान्मनः। सर्वं कृत्स्नं वा अत्ति यस्मात्तस्माददितेरदितिनाम्नो मृत्योरदितित्वं प्रसिद्धम्। एतद्गुणफलमाह—सर्वस्येति। य एतददितेर्मृत्योरदितित्वं गुणं यथोक्तं वेदोपासीत स सर्वात्मा भूत्वाऽदितिवत्सर्वस्यैतस्यात्ता भवति सर्वमन्नमेवास्य भवति सदा न कदाचिदस्यात्ताभवतीति वक्तुं पुनर्वचनमित्यर्थः॥५॥
सोऽकामयत भूयसा यज्ञेन भूयो यजेयेति।
सोऽश्राम्यत्स तपोऽतप्यत तस्य श्रान्तस्य
तप्तस्य यशो वीर्यमुदक्रामत्। प्राणा वै यशो
वीर्यं तत्प्राणेषूत्क्रान्तेषु शरीरँ श्वयितुमधि-
यत तस्य शरीर एव मन आसीत्॥६॥
सोऽकामयत मेध्यं म इदँ स्यादात्मन्व्य-
नेन स्यामिति। ततोऽश्वः समभवद्यदश्वत्त-
न्मेध्यमभूदिति तदेवाश्वमेधस्याश्वमेधत्वम्।
———————————————————————————————————————————————————
अथाश्वाश्वमेधयोर्निर्वचनमुपोद्घातपूर्वकमेष13 ह वा अश्वमेध इत्यतः प्राक्तनेनाऽऽह—सोऽकामयतेति। स मृत्य्वात्मा प्रजापतिर्भूयसा यज्ञेन भूयो दक्षिणावत्त्वेन भूयान्यज्ञोऽश्वमेधस्तेन भूयो यजेय पुनरपि यक्ष्य इत्यकामयत। भूयःशब्दस्तु पूर्वजन्मकरणापेक्षया। एवं महत्कार्यं कामयित्वा स मृत्य्वात्मा विराडश्राम्यल्लोकवत्। स तपोऽतप्यत तस्य श्रान्तस्य तप्तस्येति पूर्ववत्। यशो वीर्यमुदक्रामदित्येतयोः स्वयमेवार्थमाह—प्राणा इति। प्राणाश्चक्षुरादयो वै यशस्तद्धेतुत्वात्तथा शरीरे वीर्यं बलं त एव। न ह्युत्क्रान्तप्राणो यशस्वी बलवान्वा भवति। एवंभूतेषु प्राणेषूत्क्रान्तेषु शरीरान्निर्गतेषु प्रजापतेस्तच्छरीरं श्वयितुमुच्छूनभावं गन्तुमध्रियताऽऽरब्धममेध्यं चाभवत्। तस्य मृत्योः शरीरान्निर्गतस्यापि शरीर एव मन आसीदासङ्गाद्विषयासक्तस्येव विषय इत्यर्थः॥६॥
ननु तस्मिन्नेव शरीरे गतमनाः सन्किमकरोदित्यपेक्षायामाह—स इति। स शरीरान्निर्गतोऽपि प्रजापतिः सामर्थ्यातिशयान्ममेदं शरीरं मेध्यं मेधार्हं यज्ञियं स्याद्भवेदहं चानेन शरीरेणाऽऽत्मन्व्यात्मवाञ्शरीरवान्स्यां भवेयमित्यकामयत तत्पुरःसरं प्रविवेशेति यावत्। यद्यस्माच्छरीरं मद्वियोगाद्गतयशोवीर्यं सदश्वदश्वयत्ततस्तस्मादश्वः समभवत्तथाच शरीरतद्वतोरभेदविवक्षयाऽयमश्वः14 साक्षात्प्रजापतिरेवेति स्तूयते। गतयशोवीर्यत्वादमेध्यं सन्मत्प्रवेशात्तच्छरीरं मेध्यमभूदिति यस्मात्तदेव तस्मादेवाश्वमेधस्य क्रतोरश्वमेधत्वमश्वमेधनामलाभस्तथाच क्रियाद्यात्मकः क्रतुः साक्षात्प्रजापतिरेवेति स्तूयत इत्यर्थः। एवमुषा वा नैवेहेत्यादिनाऽश्वाग्न्योरुपासनमुक्तम्। इदानीं तदुभयमेकमेवेति विशिष्टोपासनं
एष ह वा अश्वमेधं वेद य एनमेवं वेद
तमनवरुध्येवामन्यत। तँसंवत्सरस्य परस्ता-
दात्मन आलभत पशून्देवताभ्यः प्रत्यौहत्।
तस्मात्सर्वदेवत्यं प्रोक्षितं प्राजापत्यमालभन्त
एष ह वा अश्वमेधो य एष तपति तस्य संव-
त्सर आत्माऽयमग्निरर्कस्तस्येमे लोका आत्मा-
———————————————————————————————————————————————————
विधातुं प्रधानविधिमाह—एष15 ह वा इति। यः कश्चिदेनमश्वमग्निरूपमर्कं चैवमुषा वा इत्यादिनोक्तरूपेण तमनवरुध्येवामन्यतेत्यारभ्य प्रदर्श्यमानप्रकारेणैष15ह वा अश्वमेधो य एष तपतीत्यादिना सो पुनरेकैव देवता भवति मृत्युरित्यन्तेन वक्ष्यमाणविशेषेण च विशिष्टं वेदोपास्ते स एषोऽश्वमेधं वेद नान्यस्तस्मादेवंविधमश्वमेधं प्रजापतित्वकाम उपासीतेति विशिष्टविधिरिति वाक्यार्थः। तत्र पशुविषयं तावद्दर्शनमाह—तमिति। प्रजापतिर्भूयोयज्ञेन भूयो यजेयेतिस्वीयसंकल्पानुगुणत्वेन स्वदेहस्यैवाश्वत्वं कल्पयित्वा तमश्वमनवरुध्येवावरोधमकृत्वेव मुक्तप्रग्रहमुत्सृष्टममन्यताचिन्तयत्। तमात्मरूपमश्वं संवत्सरस्य द्वादशमासपरिमितस्य कालस्य परस्तादूर्ध्वमात्मन आत्मार्थं प्रजापतिदेवताकत्वेनाऽऽलभताऽऽलम्भं कृतवान्। पशून्ग्राम्यानारण्यांश्च देवताभ्यः स्वावयवभूताभ्यः प्रत्यौहद्यथादैवतं प्रतिगमितवान्। तस्मादेवमन्योऽपि प्रजापतिवदुपासीतेति वाक्यार्थः। फलावस्थःप्रजापतिरित्थमश्वमेधोपासनमकरोदित्यत्राऽऽधुनिकानामाचारं प्रमाणयति तस्मादिति। यस्मात्प्रजापतिरेवमकरोत्तस्मादेव याज्ञिकाः प्राजापत्यं प्रजापतिदेवताकमत एव सर्वदेवत्यं सर्वदेवतार्थं प्रोक्षितं मन्त्रपूतमालभन्ते देवतोद्देशेनोपयुञ्जते। कल्पितबाह्यपशुहेतुकोभयविधस्यापि क्रतोः फलरूपेण प्रत्यक्षत्वमित्याह—एष इति। य एष सर्वलोकप्रत्यक्षः सविता तपति जगदवभासयत्येष वा एवोभयविधोऽश्वमेधः फलात्मनाऽवस्थितो दृश्यते। ननु कोऽसौ ऋतुफलात्मकः सविता मण्डलं देवता वेति संदेहे तत्स्वरूपमाह—तस्येति। तस्य क्रतुफलस्य संवत्सरः प्रसिद्ध आत्मा स्वरूपमहोरात्रादिद्वारा तन्निर्वर्तकत्वात्तथाच मण्डलाधिपतिरिति निश्चितम्। क्रतोरादित्यत्वमुक्त्वा तदङ्गस्याग्नेस्तदाह—अयमिति। योऽयं पार्थिवश्चित्योऽग्निः क्रत्वङ्गभूतस्तेजोरस इत्युक्तः स एष फलात्मकोऽर्कः सविता। नन्वेवं पूर्वोक्तस्यैवाग्नेरादित्यत्वं कस्मान्नियम्यत16 इत्यत आह—तस्येति। तस्य चित्यस्याग्नेरिमे भूरादयो लोका आत्मा-
नस्तावेतावर्काश्वमेधौ। सो17 पुनरेकैव देवता
भवति मृत्युरेवाप पुनर्मृत्युं जयति नैनं मृत्यु-
राप्नोति मृत्युरस्याऽऽत्मा भवत्येतासां देवताना-
मेको भवति॥७॥
इति प्रथमाध्यायस्य द्वितीयमग्निब्राह्मणम्॥२॥
———————————————————————————————————————————————————
नः स्वरूपभूताः शरीरावयवभूता इति यावत्। तस्य प्राची दिगित्यादिना पूर्वमप्युक्तत्वात्। इदानीमुभयोरेकत्वमनूद्य मृत्य्वात्मना सूत्रेण सहैकत्वं दर्शयति—तावेताविति। तावेतावुक्तरूपावर्काश्वमेधौ सा पुनरेकैव देवता का सा देवता किमुभयोरन्यतराऽन्यैव वेति वीक्षायामाह—मृत्युरिति। पूर्वमप्येकैव देवताऽऽसीत्सा पुनः क्रियाकारकफलभेदाय विभक्ता। एतच्चोक्तं स त्रेधेत्यादिना। सा पुनः क्रियादिनिर्वृत्त्युत्तरकालमेकैव देवता मृत्युफललक्षणा प्राणाख्या भवति। एवंभूताश्वमेधोपासकस्य फलमाह—अप पुनरिति। योऽश्वमेधं यथोक्तप्रकारेणोपास्तेऽहमेव मृत्य्वात्मा प्रजापतिरस्मीति स पुमान्पुनर्मृत्युमपजयति सकृन्मृत्वा पुनर्मरणाय न जायते। अपजितोऽपि मृत्युः शत्रुवदेनं पुनः प्राप्नुयादित्याशङ्कयाऽऽह—नैनमिति। एनमुपासकं मृत्युः पुनर्नाऽऽप्नोति। तत्र हेतुमाह—मृत्युरिति। मृत्युरस्यैवंविद आत्मा भवति। किंच फलभूतः सन्नेतासामग्निवाय्वादित्यात्मकानामेकोऽभिन्नो भवति सर्वात्मकः18 प्रजापतिरेव भवतीत्यर्थः॥७॥
इति श्रीबृहदारण्यकोपनिषद्व्याख्यायां मिताक्षराख्यायां प्रथमाध्यायस्य
द्वितीयं ब्राह्मणम्॥२॥
<MISSING_FIG href="../books_images/U-IMG-1732955652Screenshot2024-10-29184958.png"/>
एवमश्वमेधाग्निब्राह्मणाभ्यां समुच्चितयोः केवलयोर्वा ज्ञानकर्मणोर्मृत्य्यवात्मभावः परं फलमित्युक्तमिदानीं तयोर्यत उद्भवस्तस्योद्भावकस्योपास्यस्य प्राणस्य स्वरूपनिर्णयार्थमुद्गीथब्राह्मणमारभ्यते। प्राणोपास्तिर्हि ज्ञानकर्मोत्पत्तिप्रतिबन्धकीभूतरागाद्यपध्वस्तिहेतुस्तस्याः पाप्ममृत्य्वतिक्रमणावान्तरफलत्वात्। कोऽसौपाप्मा मृत्युः कुतो वा तस्योद्भवः केन वा तस्यातिक्रमणं कथं वेति
** द्वया ह प्राजापत्या देवाश्चासुराश्च। ततः कानी-**
यसा एव देवा ज्यायसा असुरास्त एषु लोके-
ष्वस्पर्धन्त ते ह देवा ऊचुर्हन्तासुरान्यज्ञ उद्गी-
थेनात्ययामेति॥१॥
** ते ह वाचमूचुस्त्वं न उद्गायेति तथेति तेभ्यो**
———————————————————————————————————————————————————
वीक्षायामेतत्सर्वं स्पष्टयितुमाख्यायिकामनुसृत्य द्वया हेत्यादिश्रुतिः प्रवर्तते। अत्र हशब्दः पूर्ववृत्तावद्योतकः। प्रजापतिशब्दश्च भविष्यद्वृत्तिमाश्रित्य यजमानविषयकः। तथाच द्वया द्विप्रकारा ह किल प्राजापत्याः प्रजापतेहिरण्यगर्भस्य• यजमानावस्थस्येमेऽपत्यभूता गोलकावस्था वागादयः प्राजापत्याः। के ते द्विमकारा इत्यत आह—देवाश्चासुराश्चेति। शास्त्रीयज्ञानकर्मवासनावासिता द्योतनात्मका देवाः। प्रत्यक्षानुमानजनितदृष्टप्रयोजनस्वाभाविकज्ञानकर्मवासनावा-डसिता असुराः। स्वेष्वेवासुषु रमणाद्देवेभ्योऽन्यत्वाद्वाऽसुराः। चौ समुच्चये मिथः। यस्माद्वागादीनामासुरी वृत्तिर्बहुला ततस्तस्माद्देवाः कानीयसाः कनीयांस एव कानीयसा अल्पीयांस एव शास्त्रप्रवृत्तेरत्यन्तं यत्नसाध्यत्वात्। ज्यायसा ज्यायांसो बहुतरा असुराः शास्त्रानाधेयस्वाभाविकप्रवृतेर्बहुलत्वात्19। ते देवा असुरा एषु लोकेषु ब्रह्मादिस्थावरान्तेषु शास्त्रीयेतरज्ञानकर्मसाध्येषु निमित्तभूतेषु सत्स्वस्पर्धन्त स्पर्धां कृतवन्तः। तेषां देवासुराणां सात्त्विकतामसानुसारेण शमकामादिवृत्त्युद्भवाभिभवौ स्पर्धा। कदाचित्प्राणानां शास्त्रजनितवृत्त्युद्भवाद्देवानां जये सति धर्मवृद्धेर्वागाद्युपहितस्य यजमानस्य धर्मप्राधान्यादा मानुषादा च प्रजापतेरुत्कर्षस्तद्विपरीतवृत्त्युद्भवात्त्वसुराणां जये सत्यधर्मवृद्धेरा मानुषादा च स्थाणोरपकर्षः। साम्ये च मनुष्यत्वप्राप्तिरित्यर्थः। ते देवा असुरैरभिभूयमाना ऊचुर्हन्तेदानीमस्मिन्यज्ञे ज्योतिष्टोमाख्य उद्गीथकर्मकर्तृप्राणस्वरूपाश्रयणेनासुरानभिभूय स्वं देवभावमत्ययामातिगच्छाम प्रतिपद्यामहा इत्यन्योन्यमुक्तवन्तः। उद्गीथकर्मकर्तृस्वरूपाश्रयणं च ज्ञानकर्मभ्यां भवति। तत्र कर्म तदेतानि जपेदिति विधास्यमानमन्त्रजपलक्षणम्। ज्ञानं त्विहाऽऽख्यायिकया परीक्ष्यमाणमशुद्धवागादिप्रत्याख्यानेन विशुद्धप्राणोपासनरूपमित्यर्थः॥१॥
तदुपास्यस्वरूपनिर्धारणाय परीक्षाप्रकारं दर्शयति—ते ह वाचमूचुरित्यादिकण्डिकापट्केन। ते पूर्वोक्ता देवा होक्तप्रकारेण निश्चित्य वाचं वागभि-
वागुदगायत्। यो वाचि भोगस्तं देवेभ्य
आगायद्यत्कल्याणं वदति तदात्मने। ते विदु-
रनेन वै न उद्गात्राऽत्येष्यन्तीति तमभिद्रुत्य
पाप्मनाऽविध्यन्स यः स पाप्मा यदेवेदमप्र-
तिरूपं वदति स एव स पाप्मा॥२॥
———————————————————————————————————————————————————
मानिनीमग्न्याख्यामेवोद्गानकर्त्रीमसतो मा सद्गमयेत्यादिमन्त्रप्रकाश्यां च देवतां मत्वा त्वं नोऽस्मभ्यमुद्गायौद्गात्रं कर्म कुर्वित्यूचुरुक्तवन्तः। एवं देवैर्नियुक्ता वाग्देवता तथेति तथाऽस्त्विति तान्नियोक्तृन्प्रत्युक्त्वा स्वसामर्थ्यमविचार्योद्गानकर्तृत्वं मन्त्रप्रकाश्यत्वं चाऽऽत्मनोऽङ्गीकृत्य तेभ्योऽर्थिभ्य उदगायदुद्गानं कृतवती। कः पुनरनेन कर्मणा कार्यविशेषः कृत इत्यपेक्षायां यथा प्रकृते ज्योतिष्टोम उद्गात्रा त्रिषु स्तोत्रेषु यजमानार्थमुद्गानं क्रियते नवस्ववशिष्टेषु स्वार्थं तद्वदत्रापि द्वादशस्तोत्रात्मके द्विविधं तदिति कथयंस्तं कार्यविशेषमाह—य इति। यो वाचि निमित्तभूतायां सत्यां संघातस्य भोगः सुखविशेषस्तं देवेभ्योऽर्थिभ्य आगायदुद्गानेन प्रापितवती। यत्पुनः कल्याणं शोभनं वदति यथाशास्त्रं वर्णानभिनिर्वर्तयति तदात्मने स्वार्थमेव तद्ध्यसाधारणं वाग्देवतायाः कर्म यत्सम्यग्वर्णोच्चारणम्। एवं वाग्देवतायाः कल्याणवदनरूपासाधारणविषयाभिषङ्गलक्षणं रन्ध्रंस्वावसरं प्रतिलभ्य तेऽसुराः स्वकार्योद्युक्ता इत्याह—त इति। तेऽसुराः20 कामादिस्वाधिकाराद्देवैः21 शमादिना कृत्वा प्रच्याव्यमाना देवहृद्गतमविदुर्विदितवन्तः। किं तदित्यत आह—अनेनेति। अनेन वा उद्गात्रा शास्त्रजनितकर्मज्ञानरूपेण नोऽस्मान्स्वाभाविककर्मज्ञानात्मकान्देवा अत्येष्यन्तीत्येवं विदित्वा तमुद्गातारं वाग्रूपमभिद्रुत्य वेगेनाभिगम्य स्वेनाऽऽसङ्गलक्षणेन पाप्मनाऽविध्यंस्ताडितवन्तः संयोजितवन्त इति यावत्। एवमसुरैः प्रजापतेर्वाचि पाप्मा क्षिप्त इति कुतोऽवगम्यत इत्याशङ्कायां प्रजास्वनुभूयमानपाप्मकार्यलक्षणलिङ्गेनानुमीयमानः पाप्मा प्रजाकारणे प्रजापतावप्यनुमानादित्याह—स य इति। स यः पाप्मा साधकावस्थस्य प्रजापतेर्वाचि प्रक्षिप्तः स एषोऽनुमानेन प्रत्यक्षी क्रियते। कोऽसौ। यदेव येनैव प्रयुक्ता सतीयं वागिदमप्रतिरूपमननुरूपं शास्त्रप्रतिषिद्धं स्त्रीवर्णनादि वदति स एव22। य एवं प्रजासु प्रतिकूलवदनहेतुत्वेनानुमितः स एव पाप्मा स कारणभूतप्रजापतिवाचि गतः कारणानुविधायि हि कार्यमित्यर्थः॥२॥
अथ ह प्राणमूचुस्त्वं न उद्गायेति तथेति तेभ्यः
प्राण उदगायद्यः प्राणे भोगस्तं देवभ्य आगा-
यद्यत्कल्याणं जिघ्रति तदात्मने। ते विदु-
रनेन वै न उद्गात्राऽत्येष्यन्तीति तमभिद्रुत्य
पाप्मनाऽविध्यन्स यः स पाप्मा यदेवेदमप्र-
तिरूपं जिघ्रति स एव स पाप्मा॥३॥
अथ ह चक्षुरूचुस्त्वं न उद्गायेति तथेति तेभ्य-
श्चक्षुरुदगायत्। यश्चक्षुषि भोगस्तं देवेभ्य
आगायद्यत्कल्याणं पश्यति तदात्मने। ते
विदुरनेन वै न उद्गात्राऽत्येष्यन्तीति तमभि-
द्रुत्य पाप्मनाऽविध्यन्स यः स पाप्मा यदेवे -
दमप्रतिरूपं पश्यति स एव स पाप्मा॥४॥
अथ ह श्रोत्रमूचुस्त्वं न उद्गायेति तथेति
तेभ्यः श्रोत्रमुद्गायद्यः श्रोत्रे भोगस्तं देवेभ्य
आगायद्यत्कल्याणँशृणोति तदात्मने। ते
विदुरनेन वै न उद्गात्राऽत्येष्यन्तीति तमभि-
द्रुत्य पाप्मनाऽविध्यन्स यः स पाप्मा यदेवे -
दमप्रतिरूपँ शृणोति स एव स पाप्मा॥५॥
अथ ह मन ऊचुस्त्वं न उद्गायेति तथेति तेभ्यो
मन उद्गायद्यो मनसि भोगस्तं देवेभ्य आगा-
यद्यत्कल्याणँ संकल्पयति तदात्मने ते विदु-
रनेन वै न उद्गात्राऽत्येष्यन्तीति तमभिद्रुत्य
—————————————————————————————————————————
अथ ह प्राणं घ्राणदेवतामूचुरित्यारभ्यैवमु खल्वित्यन्तः प्राक्तनो ग्रन्थः समानार्थकः। कल्याणाकल्याणकार्यदर्शनादनुक्तेष्वप्यासुरवेधोऽनुमीयत
पाप्मनाऽविध्यन्स यः स पाप्मा यदेवेदमप्र-
तिरूपँ संकल्पयति स एव स पाप्मैवमु
खल्वेता देवताः पाप्मभिरुपासृजन्नेवमेनाः
पाप्मनाऽविध्यन्॥६॥
** अथ हेममासन्यं प्राणमूचुस्त्वं न उद्गायेति
तथेति तेभ्य एष प्राण उदगायत्ते विदुरनेन
वै न उद्गात्राऽत्येष्यन्तीति तदभिद्रुत्य पाप्म-
नाऽविव्यत्सन्स यथाऽश्मानमृत्वा लोष्टो
विध्वँसेतैवँ हैव विधँसमाना विष्वञ्चो
विनेशुस्ततो देवा अभवन्पराऽसुरा भवत्या -**
———————————————————————————————————————————————————
इत्याह—एवमिति। एवं वागादिवदेव खल्वनुक्ता एतास्त्वगादिदेवताः पाप्मभिः स्वैः स्वैरिन्द्रियासङ्गैरुपासृजन्संसर्गं कृतवन्तस्तेषामपि कल्याणेतरस्पर्शवत्त्वात्। भेदभ्रमव्यावृत्त्यर्थमेतदेव व्याचष्टे—एवमिति। एता देवता एवं वागादिवत्पाप्मनाऽविध्यन्विद्धवन्तः। विपर्ययेण वा व्याख्यानव्याख्येयभाव इत्यर्थः॥३॥४॥५॥६॥
एते23 वागादयो मृत्योरतिक्रमणेऽसमर्था इति निश्चित्य मुख्यं प्राणं प्रार्थितवन्त इत्याह—अथेति। अथ वागादिषु नैराश्यानन्तरम्। हेममित्यभिनयेन प्रदर्श्यते। आसन्यमास्ये भवमासन्यं मुखान्तर्बिलस्थम्। मुख्यं प्राणमूचुरित्यादि समानम्। ततस्तेऽसुराः पूर्वाभ्यासवशात्तं मुख्यं प्राणमभिद्रुत्य पाप्मनोक्तलक्षणेनाविव्यत्सन्वेधितुमिच्छां कृतवन्तः संश्लिष्यमाणाः सन्तो विष्वञ्चो नानागतयो विशुरित्यन्वयः। तत्र स प्रसिद्धो दृष्टान्तो यथा लोके पाषाणचूर्णनाय प्रक्षिप्तोलोष्टः पांसुपिण्डोऽश्मानं पाषाणमृत्वा प्राप्य स्वयं विध्वंसेत विस्रंसेत विचूर्णी भवेदेवं हैवैवमेव खलु विध्वंसमाना विशीर्यमाणा असुरा अपि विनष्टाः। ततस्तस्मादसुरविनाशाद्देवत्वप्रतिबन्धकपाप्मभ्यो वियोगान्मुख्यप्राणाश्रयणवशाद्देवा24 वागादयो वक्ष्यमाणस्वस्वरूपेणाग्न्याद्यात्मकेनाभवन्। असुराः पराभूता अभवन्नित्यनुषङ्गः। न पुनः प्रारोहन्निति यावत्। उक्ताख्यायिकाक्रमेण यजमानावस्थप्रजापतिवदन्योऽप्याधुनिकस्तत्प्राप्तिकामोऽप्यु
त्मना पराऽस्य द्विषन्भ्रातृव्यो भवति य एवं
वेद॥७॥
ते होचुः क्व नु सोऽभूद्यो न इत्थमसक्तेत्ययमा-
स्येऽन्तरिति सोऽयास्य आङ्गिरसोऽङ्गानाँहि
रसः॥८॥
सा वा एषा देवता दूर्नाम दूरँ ह्यस्या
———————————————————————————————————————————————————
पासीतेति सफलामुपासनां विदधाति—भवतीति। एवं यथोक्तं वक्ष्यमाणदूर्नामादिगुणं च प्राणं यो वेदोपास्ते स आत्मना प्रजापतिस्वरूपेण भवति। अस्योपासकस्य प्रजापतित्वप्रतिपक्षीभूतः पाप्मा द्विषन्भ्रातृव्यो नित्यद्वेष्टा शत्रुर्यः स च पराभवति लोष्टवद्विशीर्णो भवतीत्यर्थः॥७॥
अथैवं वक्ष्यमाणत्वेन स्थितैरयास्याङ्गिरोदूर्भिर्गुणैर्विशिष्टासुकर्मकोपासनविधानपूर्वकं भवत्यात्मनेत्यादिनोक्तं द्विविधं25 प्रजापतिस्वरूपेण भवनं पाप्मशत्रुपराभवनं च फलमाख्यायिकामेवानुसृत्य स्पष्टयति—ते होचुरित्यारभ्याथाऽऽत्मन इत्यतः प्राक्तनेन। तत्र देवताभावफलासाधारणगुणकथनार्थमाह—त इति। ते वागादयः प्राणेन परिप्रापितदेवस्वरूपाः फलावस्थाः सन्तो हेत्यन्योन्यमूचुः26। कथम्। क्वन्विति वितर्के। यो नोऽस्मानित्थमसक्त संयोजितवान्देवभावायाऽऽत्मतत्त्वेनोपगमितवान्स27 क्व नु कस्मिन्नभूदित्येवं लोकवदुपकारिणं विचारयन्तः सन्तोऽयं प्राण आस्ये मुखे य आकाशस्तस्मिन्नन्तरे वर्तत इत्यध्यवस्यन्तः। अनयाऽऽख्यायिकया गुणद्वयं सिद्धमित्याह—सोऽयास्य इति यस्मादेवं वागादयः प्राणमास्येऽन्तरुपलभ्यायमास्येऽन्तरितिव्याजह्रुस्तस्मात्सोऽयास्योऽत28 एवाऽऽङ्गिरसः कार्यकरणानामात्मा29। तत्र हेतुर्हि यस्मादङ्गानां कार्यकरणानां रसस्तस्मादाङ्गिरस इत्यर्थः॥८॥
प्राणस्य स्वतःशुद्धत्वेऽप्यशुद्धवागादिसंबन्धादशुद्धत्वं स्यादिति शङ्कां वारयितुं पापहानिफलासाधारणगुणकं विशिष्टोपासनमाह—सेति। यां प्राप्यासुरा विनष्टा वा इत्ययमास्येऽन्तरिति निर्धारिता सा वा एषा वर्तमानोपासकशरीरस्था प्राणरूपा देवतैव दूर्नाम दूरित्येवं व्याख्याताऽतः शुद्धा। कथं दूर्नामत्वमित्यत आह—दूरं हीति। हि यस्मादस्याः प्राणदेवतायाः सकाशा-
मृत्युर्दूर ह वा अस्मान्मृत्युर्भवति य एवं वेद॥९॥
सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्यु-
मपहत्य यत्राऽऽसां दिशामन्तस्तमयांचकार तदासां
पाप्मनो विन्यदधात्तस्मान्न जनमियान्नान्तमियान्ने-
स्पाप्मानं मृत्युमन्ववायानीति॥१०॥ सा वा
एषा देवतैतासां देवतानां पाप्मानं मृत्युमपहत्या -
थैना मृत्युमत्यवहत्॥११॥ स वै वाचमेव
प्रथमामत्यवहत्सा यदा मृत्युमत्यमुच्यत सोऽग्निरभ-
———————————————————————————————————————————————————
न्मृत्युरासङ्गलक्षणः पाप्मा दूरं दूरे भवति। एतद्गुणविशिष्टप्राणविदः फलमाह—दूरमिति। य एवमुक्तप्रकारेण विशुद्धिगुणं प्राणं वेदोपास्तेऽस्मादुपासकान्मृत्युर्दूरं दूरे भवतीत्यर्थः॥९॥
एतदेव स्पष्टयति—सा वा एषा देवतेति30। सोक्तार्थैतासां वागादीनां देवतानां पाप्मानं मृत्युं मरणशीलमेभ्योऽपहत्यापच्छिद्य यत्राऽऽसां दिशामन्तः शास्त्रीयज्ञानादिसंस्कृतजनाधिष्ठितमध्यदेशादतिरिक्तो देशो दिशामन्तस्तत्तत्र दिशामन्ते तत्संस्थे जने च गमयांचकार *गमनं31 कृतवती32। यस्मात्तत्र दिगन्तस्थेऽन्त्यजन आसां वागादीनां पाप्मनो विन्यदधाद्विविधं न्यग्भावेन स्थापितवती तस्मात्तमन्त्यं जनं नेयाद्दर्शनसंभाषणादिभिर्न33 संसृजेत्तथाऽन्तं तज्जननिवासस्थानं नेयान्न गच्छेत्। नेदिति परिभयार्थे निपातः। यद्यहं गच्छेयं तदा निषेधातिक्रमात्पाप्मानं मृत्युमन्ववायान्यन्ववाप्स्यामीति भीत्या न गच्छेच्छिष्टमात्र इत्यर्थः॥१०॥
इदानीं संगृहीतं देवताभावफलं स्पष्टयति—सा वा एषेति कण्डिकया। अथ पापविमोकानन्तरमेना वागादिदेवताः कर्मभूता मृत्युं पूर्वोक्तमतीत्यावहत्स्वं स्वं रूपं प्रापितवतीत्यर्थः॥११॥
एवं सामान्योक्तमेव वहनं प्रत्येकमाह—स इति। स प्राणो वाचमेव वाग्देवतामेव प्रथमां प्रधानभूतामुद्गातुरत्यन्तसंनिहितत्वादत्यवदत्। सा वाग्यदा यस्मिन्काले मृत्युमतीत्यामुच्यत मोचिता स्वयं तदा वागेव स प्रसिद्धोऽग्निरभ-
वत्सोऽयमग्निः परेण मृत्युमतिक्रान्तो दीप्यते
॥१२॥ अथ प्राणमत्यवहत्स यदा मृत्युमत्यमु-
च्यत स वायुरभवत्सोऽयं वायुः परेण मृत्युम-
तिक्रान्तः पवते॥१३॥ अथ चक्षुरत्यवहत्तद्यदा
मृत्युमत्यमुच्यत स आदित्योऽभवत्सोऽसावा-
दित्यः परेण मृत्युमतिक्रान्तस्तपति॥१४॥
अथ श्रोत्रमत्यवहत्तद्यदा मृत्युमत्यमुच्यत ता
दिशोऽभवँस्ता इमा दिशः परेण मृत्युमति -
क्रान्ताः॥१५॥अथ मनोऽत्यवहत्तद्यदा मृत्यु-
मत्यमुच्यत स चन्द्रमा अभवत्सोऽसौ चन्द्रः
परेण मृत्युमतिक्रान्तो भात्येवँ ह वा एनमेषा
देवता मृत्युमतिवहति य एवं वेद॥१६॥
———————————————————————————————————————————————————
वत्पूर्वमप्यग्निरेव सती। तर्हि पूर्वस्मात्को विशेष इत्यत आह—सोऽयमिति सोऽयमतिक्रान्तः पापान्निष्क्रान्तोऽग्निः परेण मृत्युं मृत्योः परस्ताद्दीप्यते पूर्वं तु वागध्यात्मप्रतिबद्धो नेदानीमिव दीप्तिमानासीदित्यर्थः॥१२॥
अथानन्तरं प्राणं नासिकान्तःसंचारिणं घ्राणम्। पवते वाति। शेषं समानम्॥१३॥
तपति द्योतते॥१४॥
दिशः प्राच्यादयः॥१५॥
एवमेषामग्न्यादिदेवताप्राप्तावप्युपासकस्य किमायातमित्यत आह—एवमिति। य उपासक एवमग्न्याद्यात्मकवागादिपञ्चकविशिष्टं प्राणमात्मत्वेन वेद प्राणोऽहमित्युपास्ते तमेनमुपासकमेवं ह वै यजमानवदेवैषा प्राणदेवता मृत्युमतीत्यातिक्रमय्य वैराजं पदं वहति प्रापयतीत्यर्थः॥१६॥
अथाऽऽत्मनेऽन्नाद्यमागायद्यद्धि किंचान्नम-
द्यतेऽनेनैव तदद्यत इह प्रतितिष्ठति॥१७॥
ते देवा अब्रुवन्नेतावद्वाइदँ सर्व यदन्नं
तदात्मन आगासीरनु नोऽस्मिन्नन्न आभ-
जस्वेति ते वै माऽभिसंविशतेति तथेति
———————————————————————————————————————————————————
पुनः संघातविधारकत्वलक्षणं गुणान्तरमाह—अथेति। यथा वागादिभिरात्मार्थमागानं कृतं तथा प्राणोऽपि त्रिषु पवमानेषु साधारणं प्राजापत्यफलकमागानं कृत्वाऽथानन्तरमवशिष्टेषु नवसु स्तोत्रेष्वात्मन आत्मार्थमन्नं च तदाद्यं चान्नाद्यमागायत्। न केवलं प्रजापतिशरीरे प्राणस्यान्नस्वीकारे श्रुतिरेव मानं किंतु तत्कार्यभूतप्राणिष्वन्नस्वीकारदर्शनात्कारणेऽपि तदनुमेयमित्यभिप्रेत्याऽऽह—यद्धीति। हि यस्माल्लोके प्राणिभिर्यत्किंचन सामान्यतोऽन्नमात्रमद्यते भक्ष्यते तदन्नमात्रमनेनैव प्राणेनैवाद्यते तस्मात्स्वार्थमेतदागानम्। नन्वेतदवधारणं34 कथं प्राणवद्वागादीनामप्यन्नकृतोपकारदर्शनादित्यत आह—इहेति। इहास्मिन्प्राणेऽन्नं प्रतिष्ठितम्। अतो वागादीनां प्राणद्वारक एवान्नकृतोपकारो न तु स्वातन्त्र्येणेति। ननु तर्हि35 प्राणस्यापि वागादिवत्स्वार्थागानदासङ्गपाप्मवेधः36 स्यादित्याशङ्कायां37 वेहेति। इहान्ने देहाकारपरिणते प्राणः प्रतितिष्ठति तदनुसारिणश्च वागादयः स्थितिभाज इति प्राणान्नस्य स्वपरस्थित्त्यर्थत्वान्न पापवेधः प्राणस्येत्यर्थः38॥१७॥
उक्तं प्राणद्वारकं वागाद्यन्नकृतोपकारं दर्शयन्ती प्राणगुणान्तराणि विधातुं श्रुतिः प्रवर्तते—त इति। ते प्रकृता वागादयो देवाः प्राणं मत्यब्रुवन्नुक्तवन्तः इदं सर्वम्। वै प्रसिद्धम्। यदन्नं39 प्राणस्थितिकारणं तदेतावन्नातोऽधिकमस्ति तत्पुनस्त्वमात्मन आत्मार्थमागासीरागानेनाऽऽत्मसात्कृतवानसि। वयं चान्न मन्तरेण स्थातुं नोत्सहामहेऽतोऽनु पश्चान्नोऽस्मानस्मिन्नन्न आत्मार्थे तवान्न आभजस्वाऽऽभजयस्व। णिचो लोपश्छान्दसः। भागिनः कुर्विति तैरुक्त प्राणस्ते यूयं यद्यन्नार्थिनो वै तर्हि मामामभिसंविशत समन्तत आभिमुख्येय निविशतेत्यब्रवीदिति शेषः। एवं राज्ञा प्राणेनानुज्ञातास्ते देवास्तथाऽस्त्वित्य
———————————————————————————————————————————————————
॥१७॥ नन्वेवं प्राणस्यैव स्वातन्त्र्येणान्नकृतोपकारभाक्त्वं वागादीनां तु तद्वारवमिति कथं निश्चेतुं शक्यते यन्निश्चयादनेनैवेत्येवकारस्यापि सार्थकत्वं स्यादित्यतस्तं निर्णयं दर्शयति त।
तँसमन्तं परिण्यविशन्त। तस्माद्यदनेनान्न-
मत्ति तेनैतास्तृप्यन्त्येवँ ह वा एनँ स्वा
अभिसंविशन्ति भर्ता स्वानाँश्रेष्ठः पुर एता
भवत्यन्नादोऽधिपतिर्य एवं वेद य उ हैवं-
विदँस्वेषु प्रति प्रतिर्बुभूषति न हैवालं
भार्येभ्यो भवत्यथ य एवैतमनुभवति यो वैत-
मनु भार्याम्बुभूर्षति स हैवालं भार्येभ्यो भवति
॥१८॥ सोऽयास्य आङ्गिरसोऽङ्गानाँ हि रसः
———————————————————————————————————————————————————
ङ्गीकृत्य तं प्राणं परिवेष्ट्य समन्तं समन्तान्न्यविशन्त निश्चयेनाविशन्त। प्राणं परिवेष्ट्यनिविष्टवन्तो यस्मात्तस्माल्लोको यदन्नमनेन प्राणेनात्ति भक्षयति तेनैव प्राणान्नेनैता वागादयस्तृप्यन्ति न स्वातन्त्र्येण तेषामन्नसंबन्धोऽतोऽनेनैवेत्यवधारणं सार्थकम्। एतद्गुणविज्ञानफलं दर्शयन्सफलं गुणजातमुपदिशतिएवमिति। य उपासको वागादयः प्राणाश्रिताः स च प्राणोऽहमेवेति वेदोपास्ते तमेनमुपासकमेवं ह वै यथा प्राणं वागादय एवमेव खलु स्वा ज्ञातयोऽभिसंविशन्त्याश्रयन्ति। तथैवमभिनिविष्टानां भर्ता भवति। श्रेष्ठः पूज्यो भवति। पुरोऽग्रत एता गन्ता भवति। अन्नादो व्याधिरहितः सन्दीप्ताग्निर्भवति। अधिपतिरधिष्ठाय पालयिता च भवति। प्राणवदेव वागादीनामिति प्रत्येकं बोध्यम्। अयं तु गुणविधिरेव न त्वाङ्गिरसत्वादिवद्विशिष्टविधिः प्रत्येकं फलश्रुतेः। संप्रति विद्यां स्तोतुं तद्विद्यावद्विद्वेषिणो दोषमाह—य इति। उ आश्चर्ये। ह निश्चयेन य एवंविदं प्राणविदं प्रति स्वेषु ज्ञातीनां मध्ये प्रतिः प्रतिकूलःसन्बुभूषति भवितुमिच्छति प्रतिस्पर्धी भवितुं वाञ्छति स प्राणस्पर्धिनोऽसुरा इव भार्येभ्यो भरणीयेभ्यो न हैवालं भरणीयान्भर्तुं नैव पर्याप्तः। अथ प्राणविदनुरक्तस्य लाभं दर्शयति—अथेति। अथ पुनर्य एव ज्ञातीनां मध्य एतं प्राणविदं वागादय इव प्राणमनुगतो भवत्यनुरक्तो भवति यो वा अथ वैतमेवंविदमन्वेवानुवर्तयन्नेवाऽऽत्मीयान्भार्यान्बुभूर्षति प्राणानुवृत्त्या वागादिरिव भर्तुमिच्छति स एव ह निश्चयेन भार्येभ्योऽलं भर्तुमिति समानमित्यर्थः॥१८॥
पूर्वप्रतिज्ञातं40 यदाङ्गिरसत्वं तदेव41 सोऽयास्य आङ्गिरसोऽङ्गानां हि रस इत्य-
प्राणो वा अङ्गानाँ रसः प्राणो हि वा अङ्गानाँ
रसस्तस्माद्यस्मात्कस्माच्चाङ्गात्प्राण उत्क्रामति तदेव
तच्छुष्यत्येष हि वा अङ्गानाँ रसः॥१९॥ एष उ
एव बृहस्पतिर्वाग्वै बृहती तस्या एष पतिस्तस्मादु
बृहस्पतिः॥२०॥ एष उ एव ब्रह्मणस्पतिर्वाग्वै
ब्रह्म तस्या एष पतिस्तस्मादु ब्रह्मणस्पतिः॥२१॥
एष उ एवसाम वाग्वै सामैष सा चामश्चेति
———————————————————————————————————————————————————
नेनानूद्य प्राणो वै प्रसिद्धोऽङ्गानां रस इति प्रतिज्ञाते तत्कथमिति हेत्वपेक्षायां प्राणो हीत्यादिवाक्यम्। अत्रैवमन्वयो यस्मात्कस्माच्चाङ्गाद्यतः कुतश्चिदनिर्धारिताच्छरीरावयवात्प्राण उत्क्रामति तदेव तत्रैव तदङ्गं शुष्यति शोषमुपैति नान्यदिति। अन्वयव्यतिरेकाभ्यां हि यस्मात्प्राणो वा एवाङ्गानां रसः प्रसिद्धस्तस्मादेष हि वै प्राणोऽङ्गानां रूपकर्मात्मकानां कार्यकरणानां42 रस आत्मेत्युपसंहार इत्यर्थः॥१९॥
अथास्यैव नामराश्यात्मत्वं वक्तुमेष उ एवेत्यादिकण्डिकाचतुष्टयम्। तत्र तावदृगात्मत्वं प्राणस्य तत्त्वेनोपास्यत्वायाऽऽह—एष इति। उरप्यर्थः। एष प्राण एव बृहस्पतिरपि43। तच्छब्दवाच्यं प्रसिद्धदेवपुरोहितत्वं व्यावर्तयति—वाग्वै बृहतीति। वाग्वा अनुष्टुबिति श्रुत्यन्तराद्वात्रिंशदक्षरात्मकानुष्टुप्छन्दस्कर्श्रूपाया वाचो बृहत्यां षट्त्रिंशदक्षरच्छन्दस्कर्ग्रूपायामन्तर्भावाद्वाग्वै बृहतीत्युक्तम्। तस्या बृहत्या मध्यस्थत्वादुपलक्षणविधया सर्वच्छन्दस्कर्ग्ग्राहिकाया एष प्राणः पतिः स्थित्युत्पादनहेतुत्वात्तस्मादु बृहस्पतिरित्युपसंहार इत्यर्थः॥२०॥
तथा यजुर्वेदात्मकत्वमाह—एष इति। एष उ एव ब्रह्मणो यजुर्वेदस्य पतिः। कथम्। वाग्वै वाग्विशेषरूपं यजुरेव ब्रह्म वेदो वेदाधिकारात्तस्या एष पतिरित्यादि समानमित्यर्थः॥२१॥
अथास्य सामवेदात्मकत्वमाह—एष इति। एष उ एव साम। कथम्। वाग्वै सामैप स्त्रीलिङ्गशब्दवाच्यवस्तुमात्रविषयः साशब्दः सा वै वाक्। पुंलिङ्गशब्दाभिधेयवस्तुमात्रविषयोऽमशब्दः44। अम एष प्राणः केन मे पौंस्नानि45 नामान्याप्नोषीति प्राणेनेति ब्रूयात्केन मे स्त्रीनामानीति वाचेति श्रुत्यन्तरात्। नन्वेतावता कस्य सामत्वं मुख्यं निश्चितमित्यत आह—सा चामश्चेतीति। एतद्व्युत्प-
तत्साम्नः सामत्वम्। यद्देव समः प्लुषिणा समो
मशकेन समो नागेन सम एभिस्त्रिभिर्लोकैः
समोऽनेन सर्वेण तस्माद्देव सामाश्नुते साम्नः
सायुज्यँ सलोकतां य एवमेतत्साम वेद॥२२॥
एष उ वा उद्गीथः प्राणो वा उत्प्राणेन हीदँ
सर्वमुत्तब्धं वागेव गीथोच्च गीथा चेति स
उद्गीथः॥२३॥ तद्धापि ब्रह्मदत्तश्चैकितानेयो
———————————————————————————————————————————————————
त्तेर्वागुपसर्जनः प्राण एव मुख्यसामशब्दवाच्यो यस्मात्तस्मादध्येतृप्रसिद्धस्यापि साम्नो मुख्यसामशब्दवाच्यप्राणनिर्वर्त्यत्वेन गौणमेव सामत्वम्। अस्यैव प्राणस्य प्रकारान्तरेण सामत्वमुपासनार्थमाह—यदिति। यदु एवेति च्छेदः। उशब्दो विकल्पार्थः। यद्यस्माद्वाऽयं प्राणः सूत्रात्मा46 लिङ्गात्मना प्लुषिणा पुत्तिकाशरीरेण47 समस्तुल्यो मशकशरीरेण समो नागेन हस्तिशरीरेण सम एभिस्त्रिभिर्लोकैस्त्रैलोक्यात्मकविराट्शरीरेण समोऽनेन सर्वेण हिरण्यगर्भजगद्रूपेण समस्तुल्य एव गोत्वादिवत्कात्स्न्र्त्स्न्येन परिसमाप्तस्तस्मादु एव साम। एतद्गुणकप्राणोपासनफलमाह—अश्नुत इति। य एवं यथोक्तमेतत्सामगुणकं प्राणं वेदोपास्ते स साम्नः प्राणस्य सायुज्यं सयुग्भावं समानेन्द्रियाभिमानतामश्नुते व्याप्नोति सलोकतां प्राणसमानलोकतां वाऽश्नुते भावनातारतम्यात्फलतारतम्यमेतस्य सायुज्यादेः प्रधानफलत्वादयमपि विशिष्टविधिरेवेत्यर्थः॥२२॥
देहलीप्रदीपन्यायेनेमामेव फलश्रुतिमनुसृत्य गुणान्तरमाह—एष उ48 वा इति। एष प्राणो वा उद्गीथः। कथम्। हि यस्मात्प्राणेनेदं सर्वमुत्तब्धमुदूर्ध्वं स्तब्धमुत्तम्भितं विधृतमिति यावत्। तस्मात्प्राणो वा उत्। तथा वाचा49 यस्माद्नीयते तस्माद्वागेव गीथा। उद्गीथशब्दाभ्यां प्राण एववाच्य इत्याह—उच्च गीथा चेति। एतस्माद्विग्रहात्स वागुपसर्जनः प्राण एवोद्गीथ इत्यर्थः॥२३॥
उद्गीथदेवता प्राण एव न वागादिरित्युक्तार्थदार्ढ्यायाऽऽख्यायिकामाह—तदिति। तत्तत्रैतस्मिन्नर्थे हाऽऽख्यायिका प्रवृत्ता। चिकितानस्यापत्यं चैकितानिस्तस्यापत्यं युवा चैकितानेयो ब्रह्मदत्तनामा विश्वसृजामृषीणां सत्रे
राजानं भक्षयन्नुवाचायं त्यस्य राजा मूर्धानं
विपातयताद्यदितोऽयास्य आङ्गिरसोऽन्येनो-
दगायदिति वाचा च ह्येव स प्राणेन चोदगाय-
दिति॥२४॥ तस्य हैतस्य साम्नो यः स्वं वेद
भवति हास्य स्वं तस्य वै स्वर एव स्वं तस्मा-
दार्त्विज्यं करिष्यन्वाचि स्वरमिच्छेत तया
वाचा स्वरसंपन्नयाऽऽर्त्विज्यं कुर्यात्तस्माद्यज्ञे
स्वरवन्तं दिदृक्षन्त एव। अथो यस्य स्वं भवति
———————————————————————————————————————————————————
राजानं सोमं भक्षयन्नुवाच। किम्। अयास्याङ्गिरसशब्देनोद्गातोच्यते तादृक्प्राणोपासकत्वात्स यद्यदीतोऽस्माद्वागुपसर्जनीभूतात्प्राणात्पूर्वोक्तादन्येन देवतान्तरेणोदगायदुद्गानं निर्वर्तितवानिति यदि स्यात्तदा त्यस्य तस्यानृतवादिनो मम मूर्धानं शिरोऽयं भक्ष्यमाणः सोमो राजा विपातयताद्विस्पष्टं पातयतु। एवं प्राण एवोद्गातेत्याख्यायिकाया निर्धारितमर्थं श्रुतिः स्वेन वचसोपसंहरति—वाचेति। स उद्गाताऽयास्योपासनया तद्रूपभूतो वाचा प्राणप्रधानया प्राणेन च स्वात्मभूतेन50 ह्येवोदगायदित्यर्थः॥२४॥
एवमुद्गीथदेवता प्राण एवेति निर्धार्य तस्य स्वसुवर्णप्रतिष्ठागुणविधानार्थमुत्तरं कण्डिकात्रयंप्रवर्तते—तस्येति। तस्य विशुद्ध्यादिगुणवत्तया प्रकृतस्य हैतस्य बृहस्पत्यादिगुणवत्तया निरूपितस्य साम्नः प्राणस्य स्वं धनं यो वेदास्य विज्ञातुर्हस्वं धनं भवति। एवं गुणफलेन प्रलोभ्याभिमुखीकृतं शुश्रूषं प्रत्याह—तस्येति। तस्य वै साम्नः स्वर एव कण्ठादिमाधुर्यमेव स्वं भूषणम्। कथं त तत्संपादनीयमित्यत आह—तस्मादिति। यस्मादेवं तस्मादार्त्विज्यमृत्विक्कर्म करिष्यनुद्गाता वाचि स्वरमिच्छेत। तन्मात्रेण सौस्वर्यासंभवात्तद्धेतुदन्तधावनादि कुर्यादित्यर्थादवगम्यते। एतत्तु प्रासङ्गिकं फलम्। तयैवं संस्कृतया स्वरसंपन्नयाऽऽर्त्विज्यमृत्विक्कर्म कुर्यात्। सौस्वर्यस्य सामभूषणत्वे गमकं51 सदृष्टान्तमाह—तस्मादित्यादिना।52 तस्माच्छब्दस्तथार्थः। अथोशब्दो यथार्थः। तथाच यथा यस्य स्वं धनं भवति तं दिदृक्षन्ते लौकिकास्तथा यज्ञे स्वरव-
भवति हास्य स्वं य एवमेतत्साम्नः स्वं वेद
॥२५॥ तस्य हैतस्य साम्नो यः सुवर्णं वेद भवति
हास्य सुवर्ण तस्य वै स्वर एव सुवर्ण भवति
हास्य सुवर्णं य एवमेतत्साम्नः सुवर्ण वेद॥२६॥
तस्य हैतस्य साम्नो यः प्रतिष्ठां वेद प्रति ह
तिष्ठति तस्य वै वागेव प्रतिष्ठा वाचि हि खल्वेष
एतत्प्राणः प्रतिष्ठितो गीयतेऽन्न इत्यु हैक
आहुः॥२७॥
———————————————————————————————————————————————————
न्तमुद्गातारं दिदृक्षन्त एवं द्रष्टुमिच्छत्येव53 जना इत्यन्वयार्थः। एवं सिद्धं सफलं गुणविज्ञानमुपसंहरति—भवति हास्य स्वं य एवमेतत्साम्नः स्वं वेदेति। उक्तार्थम्। एतच्च कण्ठनिष्ठं माधुर्यंबाह्यं धनं सौस्वर्यस्य ध्वनिगतत्वादित्यर्थः॥ २५॥
इदानीं लाक्षणिकवर्णज्ञानपूर्वकं तदुच्चारणं वर्णनिष्ठत्वादान्तरं धनमाह—तस्येति। तस्य हैतस्य साम्नः सुवर्णं कण्ठ्योऽयं दन्त्योऽयमितिज्ञानपूर्वकं वर्णोच्चारणं ममैव सामशब्दवाच्यप्राणभूतस्याऽऽन्तरं धनमिति यो वेदास्योपासकस्य सुवर्णं लोकप्रसिद्धमेव भवति। किं तत्सुवर्णमिति शुश्रूषवे प्राह—तस्येति। तस्य साम्न्नः स्वर एव कण्ठ्यादिलक्षणो व्याख्यातः सुवर्णं भवति हास्य सुवर्णं य एवमेतत्साम्नः सुवर्णं वेदेति पूर्ववदुपसंहारः॥२६॥
प्रतितिष्ठत्यस्यामिति प्रतिष्ठा तां प्रतिष्ठां यो वेद स प्रतितिष्ठति तस्य वै साम्नो वागेव जिह्वामूलादीन्यष्टौ स्थानानि प्रतिष्ठा। हि यस्मादेष प्राणो वाचि जिह्वामूलीयादिस्थानेषु प्रतिष्ठितः सन्खलु निश्चितमेतद्गानं गीयते गीतिभावमापद्यते तस्माद्वागेव प्रतिष्ठेति संबन्धः। मतान्तरमाह—अन्न इति। अन्नेऽन्नपरिणामे देहे प्रतिष्ठितो गीयत इत्येक उ ह खल्वाहुरित्येकीयपक्षस्यानिन्दितत्वाद्विकल्पेन प्रतिष्ठागुणज्ञानं कुर्यात्। एतच्च स्वादिगुणविज्ञानमाङ्गिरसत्वादिवन्न याजमानिकं किंत्वौद्गात्रं यज्ञे स्वरवन्तं दिदृक्षन्त इति वचनादित्यर्थः॥२७॥
—————————————————————————————————————————
अथातः पवमानानामेवाभ्यारोहः स वै खलु
प्रस्तोता साम प्रस्तौति स यत्र प्रस्तुयात्तदेतानि
जपेत्। असतो मा सद्गमय तमसो मा ज्योतिर्गमय
मृत्योर्माऽमृतं गमयेति स यदाहासतो मा सद्गम-
येति मृत्युर्वा असत्सदमृतं मृत्योर्माऽमृतं गमयामृतं
मा कुर्वित्येवैतदाह तमसो मा ज्योतिर्गमयेति
———————————————————————————————————————————————————
इदानीं प्राणोपासकस्य मन्त्रजपविधित्सयाऽऽह54—अथेति। अथ प्राणविज्ञानकथनानन्तरं यस्माच्चैवंविदुषा देवभावाय प्रयुज्यमानमभ्यारोहफलं जपकर्मातस्तस्माद्विधीयते प्राणविद एवैतत्। अभ्यारोहोऽस्य वक्ष्यमाणजपकर्मणो नामधेयं प्राणविद्याविदाभिमुख्येन प्राणात्मानुमारोहत्यनेनेति व्युत्पत्तेः। अस्य च सर्वत्रोद्गानकाले प्राप्तौ पवमानानामेवेति कालनियमेऽपि पवमानेषु त्रिष्वपि कर्तव्यतायां प्राप्तायां पुनः कालसंकोचं करोति—स वै खलु प्रस्तोता साम प्रस्तौतीति। एतत्प्रसिद्धम्। ततः किं सिद्धमित्यत आह—स इति। स प्रस्तोता यत्र यस्मिन्काले साम प्रस्तुयात्प्रारभेत तत्तस्मिन्काल एतानि जपेत्। एतच्च याजमानिकमेव मन्त्राणां देवभावसाधनत्वादिप्रार्थनार्थत्वात्। एतानि कानीत्यपेक्षायामाह—असतो मा सद्गमय तमसो मा ज्योतिर्गमय मृत्योर्माऽमृतं गमयेतीति। अयमितिशब्दो मन्त्रत्रयसमाप्तिद्योतकः। मन्त्रार्थस्य तिरोहितत्वाद्ब्राह्मणं प्रतीकग्रहणपूर्वकं व्याचष्टे—स यदिति। स मत्रोऽसतो मा सद्गमयेति यदाह तत्र मृत्युर्वा असत्। मृत्युरिति देहेन्द्रियादीनां प्रवृत्तिहेतुस्वाभाविककर्मज्ञानयोरुक्तिः। तयोरत्यन्तमधःपातहेतुत्वादसच्छब्दवाच्यता। सदिति शास्त्रीयकर्मविज्ञाने उच्येते। तयोराध्यात्मिकपरिच्छेदाभिमानत्यागेन देवभावापत्तिहेतुतयाऽमरणहेतुत्वात्सच्छब्दवाच्यत्वमिति। पदार्थमुक्त्वा वाक्यार्थमाह—मृत्योरिति। मृत्योः स्वाभाविककर्मज्ञानात्मकान्मा माममृतं शास्त्रीयकर्मज्ञानात्मकं गमय देवभावसाधनस्वरूपतामापादयेति यावत्। अथ तात्पर्यार्थमाह—अमृतमिति। मा माममृतममृतत्वसाधनयोग्यस्वभावं कुरु संपादयेत्येवैतन्मन्त्रवाक्यमाहोक्तवत्। तथा द्वितीयं मन्त्रं व्याचष्टे—तमसो मा ज्योतिर्गमयेति। अस्मिन्मन्त्रे
मृत्युर्वैतमो ज्योतिरमृतं मृत्योर्माऽमृतं गमयामृतं
मा कुर्वित्येवैतदाह मृत्योर्माऽमृतं गमयेति नात्र
तिरोहितमिवास्ति। अथ यानीतराणि स्तोत्राणि
तेष्वात्मनेऽन्नाद्यमागायेत्तस्मादु तेषु वरं वृणीत
यं कामं कामयेत तँस एष एवंविदुद्गाताऽऽत्मने
वा यजमानाय वा यं कामं कामयते तमा-
गायति तद्धैतल्लोकजिदेव न हैवालोक्यताया
———————————————————————————————————————————————————
तमःशब्देनाशास्त्रीयकर्मज्ञानमूलमज्ञानमुच्यते तस्याऽऽवरणात्मकत्वात्। तदेव मृत्युर्वै मरणहेतुत्वात्। उक्ततमोविपरीतं दैवं स्वरूपज्ञानं ज्योतिरुच्यते प्रकाशस्वभावत्वात्। तदेवामृतममरणहेतुत्वादिति। पदार्थमुक्त्वा वाक्यार्थमाह—मृत्योरिति। मृत्योरज्ञानात्मकादासुरभावादमृतं ज्ञानात्मकं देवभावं गमय। तात्पर्यार्थमाह—अमृतमिति। अमृतं प्राजापत्यं55 फलभावं मा मां कुर्वित्येवैतदाह। एवमुक्तमन्त्रद्वयार्थाभ्यामनतिरिक्तार्थतया तृतीयमन्त्रस्याव्याख्येयत्वमाह—मृत्योरिति। मृत्योरसाधनभावादसाध्यभावाच्चामृतं साधनभावं साध्यभावं च गमयेत्यत्रास्मिंस्तृतीये मन्त्रे तिरोहितमिवाप्रकटमपूर्वं नास्ति पूर्वमन्त्रोक्तसाध्यसाधनभावसमुच्चितार्थकत्वात्। प्राणवदुद्गातुरपि स्वार्थं गानमस्तीत्याह—अथेति। अथ त्रिषु पवमानेषु यजमानोद्गानकरणानन्तरं यानीतराण्यवशिष्टानि नव स्तोत्राणि तेषु प्राणविदुद्गाताऽऽत्मन आत्मार्थमन्नाद्यमन्नं च तदाद्यं चान्नाद्यमागायेदागानेन संपादयेत्56। अस्योद्गातुः सर्वफलसाधकत्वमाह—तस्मादिति। यस्मात्स एष उद्गातैवंविद्यथोक्तप्राणवित्प्राणवदेवाऽऽत्मन आत्मार्थं वा यजमानाय वा यं कामं कामयेतेच्छति तमागायत्यागानेन साधयति च तस्मादु तस्मादेव यजमानस्तेषु नवसु स्तोत्रेषु प्रयुज्यमानेषु यं कामं कामयेत यं कामयमानः स्थितस्तं कामं वरं वृणीत प्रार्थयेदित्यन्वयार्थः। कर्मसमुच्चितादुपासनात्फलसिद्धौ शङ्काभावेऽपि केवलादुपासनात्तत्सिद्धिशंङ्का स्यात्तां निरस्यति—तदिति। य एतत्साम प्राणमेवं यथोक्तनिर्धारितमहिमानमा तदभिमानाभिव्यक्तेर्वेदोपास्ते तस्य कर्मानधिकृतस्यापि तद्धैतत्प्राणदर्शनं केवलमपि लोकजिदेव लोकसाधनमेव। न हैवालोक्यताया अलोक्यत्वा-
आशाऽस्ति य एवमेतत्साम वेद॥२८॥
इति प्रथमाध्यायस्य तृतीयं ब्राह्मणम्॥३॥
आत्मैवेदमग्र आसीत्पुरुषविधः सोऽनुवीक्ष्य
नान्यदात्मनोऽपश्यत्सोऽहमस्मीत्यग्रे व्याहरत्त-
तोऽहंनामाभवत्तस्मादप्येतर्द्यामन्त्रितोऽहमयमि-
त्येवाग्र उक्त्वाऽथान्यन्नाम प्रब्रूते यदस्य भवति
———————————————————————————————————————————————————
याऽऽशास्त्याशंसनं प्रार्थनमस्ति। तथाचोपासनासहितं कर्म सकदेवानुष्ठितं सददृष्टद्वारा फलसाधनं केवलोपासनं तु नैरन्तर्येणासकृदनुष्ठितं तत्साधनमित्येतदुभयविधमप्यन्तःकरणशुद्धिद्वारा वैराग्यहेतुरित्यर्थः॥२८॥
इति बृहदारण्यकव्याख्यायां मिताक्षराख्यायां प्रथमाध्यायस्य
तृतीयं ब्राह्मणम्॥३॥
<MISSING_FIG href="../books_images/U-IMG-1733307669Screenshot2024-11-14162430.png"/>
एवं ज्ञानकर्मभ्यां प्रजापतित्वप्राप्तिर्व्याख्याता। इदानीमस्य प्रजापतेः फलभूतस्य जगत्सर्जनादौ स्वातन्त्र्यादिविभूत्युपवर्णनेन57तं स्तोतुं ज्ञानकर्मणोर्वेदिकयोः फलोत्कर्ष आत्मैवेदमग्र आसीदिति पुरुषविधब्राह्मणेन तद्धेदमित्यतः प्राक्तनेन वर्ण्यते वक्ष्यमाणब्रह्मविद्याधिकारहेतुभूतवैराग्योत्पादनाय। तत्राऽऽत्मशब्दार्थश्च महर्षिभिरेवं स्मर्यते—
“यच्चाऽऽप्नोति यदादत्ते यच्चात्ति विषयानिह।
यदस्य सन्ततो भावस्तस्मादात्मेति कीर्त्यते”
इत्युपाधितो विशिष्टः स्वतश्च केवल इति। इदं दृश्यमानं शरीरभेदजातमग्रे शरीरोत्पत्तेः प्रागात्मैवाऽऽसीत्। कस्याऽऽत्मनोऽत्र ग्रहणमित्यत आह—पुरुषविध इति। पुरुषाकारः शिरःपाण्यादिलक्षणो मन्वादीनां स्रष्टा विराडात्मा58 स यजमानावस्थादर्शनादनु पश्चात्तत्फलं वीक्ष्य कोऽहं किंलक्षणोऽहमित्यालोच्याऽऽत्मनः स्वशरीरादन्यद्वस्त्वन्तरं नापश्यत्। आलोचनकार्यमाह—स इति। श्रौतज्ञानादिसंकृतसाधकावस्थप्रजापतिवत्फलावस्थोऽपि स विराडात्माऽहमस्मि सर्वात्मेत्यग्रे प्रथमं व्याहरव्द्याहृतवान्यस्मात्ततस्तस्मादहंनामाभवत्। यस्मादेवं तस्मात्तत्कार्यभूतोऽपि लोक एतर्ह्येतस्मिन्नपि काल आमन्त्रितः कस्त्वमिति पृष्टोऽहमयमित्येवाग्रे प्रथममुक्त्वाऽथानन्तरमन्यत्पिण्डविशेषविषयं यदस्य पुरुषस्य मातापितृकृतं भवति तन्नाम प्रब्रूते कथयति। एवमुपा-
स यत्पूर्वोऽस्मात्सर्वस्मात्सर्वान्पाप्मन औष-
त्तस्मात्पुरुष ओषति ह वै स तं योऽस्मात्पूर्वो
बुभूषति य एवं वेद॥१॥ सोऽबिभेत्तस्मादेकाकी
बिभेति स हायमीक्षां चक्रे यन्मदन्यन्नास्ति
कस्मान्नु बिभेमीति तत एवास्य भयं वीयाय
कस्माद्धयभेष्यद्द्वितीयाद्वै भयं भवति॥२॥
———————————————————————————————————————————————————
सनार्थं प्रजापतेरहंनामोक्त्वेदानीं पुरुषनामनिर्वचनमाह—स यदिति। स प्रजापतिः पूर्वस्मिञ्जन्मनि साधकावस्थायां कर्माद्यनुष्ठानैरहमिति भावनया चास्मात्प्रजापतित्वप्रतिपित्सुसमुदायात्सर्वस्मात्पूर्वो मुख्यः सन्सम्यक्कर्माद्यनुष्ठानैः कृत्वाऽऽसङ्गाज्ञानलक्षणान्सर्वान्पाप्मनः प्रजापतित्वप्राप्तिकारणप्रतिबन्धभूतान्यद्यस्मादौषददहत्तस्मात्पुरुषः। एतद्गुणविज्ञानफलमाह—ओषतीति। प्रजापतिवदन्योऽपि यः कश्चिदेवं वेद पुरुषगुणः प्रजापतिरहमस्मीत्युपास्ते स वै
सोऽप्योषति ह तं दहत्येवाभिभवत्येव। तं कं योऽस्मादेवंभूतोपासकात्पूर्वः प्रथमः सन्प्रजापतित्वमात्मनो बुभूषति भवितुमिच्छति तमित्यर्थः॥१॥
स्तोतुमभिप्रेतमेतत्प्राजापत्यफलं संसारविषयं नैवातिक्रामतीत्याह ततोऽभीष्टवैराग्यसिद्धये—स इति। योऽयं प्रथमशरीरी पुरुषविधो व्याख्यातः स प्रजापतिरबिभेद्भीतवान्। अहमेकाकी कोऽपि मां हनिष्यतीत्यात्मविषयविपरीतज्ञानवत्त्वाद्भयं प्राप्तः। अत्र कार्यगतभयलिङ्गं59 प्रमाणमाह—तस्मादिति। यस्माच्छरीरात्माभिमानतया प्रजापतिरेवमबिभेत्तस्मादद्यतनोऽप्येकाकी स्वविनाशमाशङ्कय बिभेति। किंच यथाऽस्मदादिभी रज्ज्वादौ सर्पादिभ्रमजनितभयनितृत्तये विचारेण तत्त्वज्ञानं संपाद्यते तथा प्रजापतिरपि भयतद्धेतुविपरीतधीध्वस्तिहेतुतत्त्वज्ञानं विचार्य संपादितवानित्यतोऽप्यस्य संसारान्तर्गतत्वमित्याशयेनाऽऽह—स इति। ह किल सोऽयं प्रजापतिरीक्षामीक्षणं विचारं चक्रे। कथम्। यद्यस्मान्मन्मत्तोऽन्यद्वस्त्वन्तरं प्रतिद्वंद्वीभूतं किमपि नास्ति तस्मादहंप्रत्यक्चैतन्याद्वितीयब्रह्मरूपः कस्मान्नु बिभेमीति। एवंविचारोत्पन्नतत्त्वज्ञानफलमाह—तत इति। तत एव यथाभूताद्वितीयात्मदर्शनादेवास्य प्रजापतेर्भयं सकारणं वीयाय विस्पष्टं गतवत्। उक्तार्थसमर्थनाय श्रुतिराह—कस्मादिति60। यद्वितीयाद्वै द्वितीयादेव भयं भवति न तु स्वस्मात्स्वस्य भयम्। द्वितीयं चावि-
स वै नैव रेमे तस्मादेकाकी न रमते स
द्वितीयमैच्छत्। स हैतावानास यथा
स्त्रीपुमाँसौ संपरिष्वक्तौ स इममेवाऽऽ-
त्मानं द्वेधाऽपातयत्ततः पतिश्चपत्नी
चाभवतां तस्मादिदमर्धबृगलमिव स्व
———————————————————————————————————————————————————
द्याकल्पितम् ‘मायामात्रमिदं द्वैतमद्वैतं परमार्थतः’ इति माण्डूक्यश्रुतेः। तत्त्वज्ञाने च सत्यज्ञानाभावात्तन्मूलद्वैतदर्शनानुपपत्तेरयं कस्माद्ध्यभेष्यत्कुतो भीतिमलप्स्यत61परमार्थनिरूपणावस्थायां न कुतश्चिदित्यर्थः॥२॥
एवं प्रजापतेर्भयाद्याविष्टत्वेन संसारान्तर्गतत्वमुक्त्वा तत्रैवारत्याविष्टत्वं हेत्वन्तरमाह—स इति। स वै विराडात्मा नैव रेम एकाकित्वादस्मदादिवदरत्याविष्टो बभूव62। निवृत्ताविद्यस्य पुरुषस्य स्वाधिकारसमाप्तिपर्यन्तमाधिकारिकजीवन्मुक्तानामिव प्रारब्धहेत्वविद्यालेशानुवृत्त्याऽरत्याद्युपपद्यत63 इत्यर्थः। कार्यस्थयाऽरत्या कारणस्थारतिरनुमेयेत्याह—तस्मादिति। यस्मात्प्रजापतिरेकाकी न रेमे तस्मादेवैकाकित्वादिधर्मवत्त्वादेवाऽऽधुनिकोऽप्येकाकी न रमते। अरत्याविष्टस्य प्रजापतेस्तन्निरसनोद्योगप्रकारमाह—स इति। स प्रजापतिर्द्वितीयमरत्यपनोदनसमर्थं स्त्रीवस्त्वैच्छदिष्टवान्। तस्यैवमिच्छतोऽतिविषयासक्तस्य स्त्रिया परिष्वक्तस्येवाऽऽत्मन्यभिमाने संजाते स ह प्रजापतिस्तेनैवाभिमानेन सत्यसंकल्पत्वादेतावानेतावत्परिमाण आस बभूव। कियत्परिमाण इत्यपेक्षायामाह—यथेति। यथा लोके स्त्रीपुमांसावरत्यपनोदनाय संपरिष्वक्तावन्योन्यं गाढमालिङ्गितौ यत्परिमाणौ स्यातां तथा तत्परिमाणो बभूव विराट्स्वरूपानुपमर्दनेनैव स विराडात्मेमं परिष्वक्तस्त्रीपुंसपरिमाणमात्मानं शरीरमेतावत्परिमाणं द्वेधाऽपातयद्विप्रकारं पातितवान्। ततस्तस्मात्पातनात्पतिर्मन्वाख्यः पत्नी शतरूपाख्या चाभवतां बभूवतुः। प्रसिद्धयोर्दंपत्योरुक्तनिर्वचने लोकानुभवमनुकूलयति—तस्मादिति। यस्मात्पतिपत्न्यावेकशरीरविभक्ते तस्मात्स्व आत्मन इदं शरीरं प्राग्दारपरिग्रहादर्धबृगलमिव बृगलं विदलमर्धं च तद्बृगलं चार्धबृगलम्। शुक्त्यादिविभागवद्विदलं64 प्रसिद्धम्। अत्राभियुक्त-
इति ह स्माऽऽह याज्ञवल्क्यस्तस्मादयमाकाशः
स्त्रिया पूर्यत एव ताँ समभवत्ततो मनुष्या
अजायन्त॥३॥सो हेयमीक्षां चक्रे कथं नु
माऽऽत्मन एवं जनयित्वा संभवति हन्त
तिरोऽसानीति सा गौरभवदृषभ इतरस्ताँ समे-
वाभवत्ततो गावोऽजायन्त वडवेतराऽभवदश्ववृष
इतरो गर्दभीतरा गर्दभ इतरस्ताँसमेवाभवत्तत
एकशफमजायताजेतराऽभवद्वस्त इतरोऽविरि-
तरा मेष इतरस्ताँ समेवाभवत्ततोऽजावयोऽ-
———————————————————————————————————————————————————
संमतिमाह—इतीति। यज्ञस्य वल्को वक्ता यज्ञवल्कस्तस्यापत्यं याज्ञवल्क्यो दैवरातिनामा हेतीत्थमाह स्मोक्तवान्। पुरुषार्धस्य विदलत्वे हेत्वन्तरमाह—तस्मादिति। यस्मात्पुरुषस्य शरीरमर्धंतस्मादयं पुरुषदेह आकाशः स्त्र्यर्धशून्य उद्वहनानन्तरं स्त्रिया पूर्यत एव शुक्त्यादिविभाग इव पुनः संपुटीकरणेन। अथ मिथुनद्वारिकां सृष्टिमाह—तामिति। स मन्वाख्यः पुरुषस्तां शतरूपाख्यामात्मनो दुहितरं पत्नीत्वेन कल्पितां समभवन्मिथुनभावेनोपगतवान्। ततस्तस्मात्तथाविधोपगमनान्मनुष्या अजायन्तोत्पन्ना इत्यर्थः॥३॥
इदानीं गवादिसृष्टिं प्रस्तौति—सेति। सेयं शतरूपा उ ह न सगोत्रां समानप्रवरां भार्यां विन्देतेति दुहितृगमनादौ स्मार्तं प्रतिषेधं स्मरन्तीक्षां विचारणां चक्रे। अयं मा मामात्मनः स्वस्मादेव जनयित्वोत्पाद्य कथं नु संभवत्युपभुङ्क्ते। यद्यप्ययं कामाभिभूतः स्मार्तं प्रतिषेधमस्मरन्मां न मुञ्चत्यहं तु तं स्मरन्ती हन्तेदानीं तिरोऽसानि जात्यन्तरेण तिरोभूताऽसानि भविष्यामीति विचार्य सा शतरूपा गौरभवदितरो मनुर्ऋषभो भूत्वा तामेव गां समभवत्पूर्ववत्संभोगं कृतवान्। ततस्तस्माद्गोवृषभसंबन्धाद्गावोऽजायन्त। इतरा शतरूपा वडवाऽश्वाऽभवत्। इतरो मनुरश्ववृषोऽश्वश्चासौ वृषश्चाश्ववृषः। इतरा शतरूपा गर्दभी। इतरो मनुर्गर्दभः। अभवदिति प्रत्येकं संबन्धः। तामेव वडवां गर्दभीं च समभवत्। ततो वडवाश्वसंयोगाद्गर्दभगर्दभीसंयोगाद्गर्दभाश्वजातीययोर्दांपत्याच्चैकशफमेकखुरमश्वाश्वतरगर्दभाख्यं त्रयमजायत। इतरा शतरूपाऽजाऽभवत्। इतरो मनुर्बस्तश्छागः। इतरा शतरूपाऽविः। इतरो मनुर्मेषः। तामेवाजामविंच समभवत्। ततः संभवनादजावयोऽजाश्चाववयश्चाजावयो जातिवि-
जायन्तैवमेव यदिदं किंच मिथुनमा पिपी-
लिकाभ्यस्तत्सर्वमसृजत॥४॥ सोऽवेदहं
वावसृष्टिरस्म्यहँ हीदँ सर्वमसृक्षीति ततः
सृष्टिरभवत्सृष्टयाँ हास्यैतस्यां भवति य
एवं वेद॥५॥ अथेत्यभ्यमन्थत्स मुखाच्च
योनेर्हस्ताभ्यां चाग्निमसृजत तस्मादेतदु-
भयमलोमकमन्तरतोऽलोमका हि योनि-
———————————————————————————————————————————————————
शेषा अजायन्त। विशेषाणामानन्त्येन प्रत्येकं वक्तुमशक्यत्वात्तिर्यक्सृष्टिं संक्षिप्योपसंहरति—एवमिति। यदिदं किंच यत्किंचेदं मिथुनं स्त्रीपुंसलक्षणं द्वंद्वमा पिपीलिकाभ्यः पिपीलिका अभिव्याप्य तत्सर्वं जगदेवमेव पशुन्यायेनैवासृजतेत्यर्थः॥४॥
वक्ष्यमाणाग्निसोमेन्द्रादिसृष्टिं सिद्धवत्कृत्य सृष्टिं सर्वामुपसंहरति—स इति। स प्रजापतिरिदं सर्वं जगत्सृष्ट्वाऽवेदवगतवान्। किम्। अहं वावाहमेव सृष्टिरस्मि सृज्यत इति सृष्टिः सृष्टं जगदहमेव। कुत एतदित्यत आह—अहं हीति। हि यस्मादिदं सर्वं जगदहमेवासृक्षि सृष्टवांस्तस्मान्मत्तो न भिद्यते मद्विवर्तत्वात्। यस्मादहं हीदं सर्वमसृक्षीत्युक्तं ततस्तस्मात्प्रजापतिः सृष्टिरभवत्सृष्टिनामा बभूव। स्रष्टुरेतद्गुणविदः फलमाह—सृष्ट्यामिति। प्रजापतिवदन्योऽपि यः कश्चित्साध्यात्माधिभूताधिदैवं जगदहमेवेति स्वात्मनोऽनन्यत्वेन वेदोपास्ते65 सोऽस्य प्रजापतेरेतस्यां सृष्ट्यां जगति ह खलु स्रष्टा66 भवतीत्यर्थः॥५॥
एवमनुग्राह्यसृष्टिमुक्त्वाऽनुग्राहकसृष्टिं प्रस्तौति—अथेति। अथशब्दोऽनुग्राह्यसृष्ट्यानन्तर्यार्थः। इतिशब्दो मन्थनप्रकाराभिनयप्रदर्शनार्थः। मुखे हस्तौ निक्षिप्याभ्यमन्थदाभिमुख्येन मन्थनमकरोदेवं मुखं हस्ताभ्यां निष्पिष्य स प्रजापतिर्मुखाद्योनेर्हस्ताभ्यां च योनिभ्यामग्निं ब्राह्मणजातेरनुग्राहकमसृजत। मुखादेरग्निं प्रति योनित्वे गमकमाह—तस्मादिति। यस्माद्दाहकस्याग्नेर्हस्तौ मुखं च योनिस्तस्मादेतदुभयमप्यन्तरतोऽभ्यन्तरेऽलोमकं लोमवर्जितम्। हस्तयोर्मुखे च योनिशब्दप्रयोगे निमित्तमाह—अलोमकेति। या हि स्त्रीणां योनिः
रन्तरतः। तंद्यदिदमाहुरमुं यजामुं यजेत्येकैकं
देवमेतस्यैव सा विसृष्टिरेष उ ह्येव सर्वे
देवाः। अथ यत्किंचेदमार्दंतद्रेतसोऽसृजत तदु
सोम एतावद्वाइदँसर्वमन्नं चैवान्नादश्चसोम
एवान्नमग्निरन्नादः सैषा ब्रह्मणोऽतिसृष्टिः।
यच्छ्रेयसो देवानसृजताथ यन्मर्त्यः सन्नमृता-
———————————————————————————————————————————————————
सा ह्यन्तरतोऽलोमकेत्येतत्सामान्यात्तयोरग्नियोनित्वम्। सृज्यस्य स्रष्टुरनन्यत्वात्सृष्टं सर्वं स्रष्टा प्रजापतिरेवेत्युक्तस्य स्तुतिविवक्षयाऽविद्वन्मतं निन्दितुमुपन्यस्यति—तदिति। प्रत्येकं देवतानां भिन्नत्वं मन्यमानाः केवलयाज्ञिका यदिदमाहुरमुमिन्द्रं यजामुमग्निं यजेत्येकैकं देवमुद्दिश्य तन्न तथाऽऽदरणीयमिति वाक्यशेषः। एतस्यानादरणीयत्वे हेतुं वदन्ननुग्राहकसृष्टिमुपसंहरति-एतस्येति। हि यस्माद्यः सर्वोऽपि देवभेद एतस्यैव प्रजापतेरेव सा विसृष्टिस्तस्मादेष उ ह्येव हिरण्यगर्भात्मा प्राणः सर्वे देवा नान्यद्देवतान्तरमस्तीत्यर्थः। एकस्यैव प्रजापतेर्द्विधोपास्यत्वायाग्निसर्गमुक्त्वाऽन्नसर्गमाह—अथेति। अथाग्निसर्गानन्तरं यत्किंचेदं लोक आर्द्रं द्रवात्मकं दृश्यते तत्प्रजापतिः स्वरेतसोऽसृजत सृष्टवान्। तदु सोम एव। स्रष्टव्यान्तरशङ्कां वारयति—एतावदिति। इदं सर्वं दृश्यमानं जगदेतावद्वा एतावदेव। कियत्। अन्नं चान्नादश्चैव नातिरिक्तम्। कस्य सोमत्वमग्नित्वं चेत्यपेक्षायामाह—सोम इति। यदद्यतेऽन्नं स सोम एव य एवान्नादः सोऽग्निरेवेत्यर्थः67। अनुग्राहकदेवस्रष्टृप्रजापत्युपासकस्य फलोक्त्यर्थमादौ देवसृष्टिं स्तौति—सैषेति। सैषाऽनुग्राहकदेवसृष्टिरनुग्राह्येभ्यो ब्रह्मणः प्रजापतेर्वाऽतिसृष्टिरधिकतरा68 कुतो यद्यस्मादनुग्राह्यापेक्षया69 स्वापेक्षया वा प्रजापतिः श्रेयसः प्रशस्यतरान्देवानसृजत। नन्वग्निर्मूर्धेत्यादिश्रुतेरग्न्यादयोऽस्यावयवास्तत्कथं तत्सृष्टिस्ततोऽप्यतिशयवतीति शङ्कते—अथेति। प्रजापतेर्यजमानावस्थापेक्षया देवसृष्टेरुत्कृष्टत्ववचनमविरुद्धमित्याशयेन परिहरति—यदिति। यद्यस्माद्यजमानावस्थः प्रजापतिर्मर्त्यः सन्मरणधर्मा सन्नमृतानमरणधर्मिणो देवान्क-
नसृजत तस्मादतिसृष्टिरतिसृष्टयाँ हास्यैतस्यां
भवति य एवं वेद॥६॥ तद्धेदं तर्ह्य-
व्याकृतमासीत्तन्नामरूपाभ्यामेव व्याक्रियता-
सौनामाऽयमिदँरूप इति तदिदमप्ये-
तर्हि नामरूपाभ्यामेव व्याक्रियतेऽसौनामाऽ-
यमिदँरूप इति स एष इह प्रविष्टः।
आ नखाग्रेभ्यो यथा क्षुरः क्षुरधानेऽवहितः
———————————————————————————————————————————————————
र्मज्ञानवह्निना सर्वान्पाप्मन ओषित्वाऽसृजत तस्मादियं देवसृष्टिरतिसृष्टिरुत्कष्टज्ञानकर्मणोः फलमिति70। प्रथमपक्षे त्वथशब्दो देवसृष्टेरतिसृष्टित्वहेत्वन्तरार्थ71 इत्यर्थः। एतादृशप्रजापत्युपासकस्य फलमाह—अतीति। य एवं सृष्ट्यात्मा प्रजापतिरहमेवेति72 वेद सोऽस्य प्रजापतेरेतस्यामतिसृष्टयां देवादिप्रपञ्चे ह भवति प्रजापतिवत्स्त्रष्टेति73 शेषः॥६॥
एतावतोक्तव्याकृतस्य जगतोऽव्याकृतावस्थां बीजभूतां सबीजसंसारोद्धरणायाऽऽह—तदिति। तदिदं व्याकृतं जगत्तर्हि तदोत्पत्तेः प्रागव्याकृतमनभिव्यक्तनामरूपं ह किलाऽऽसीत्। तदव्याकृत नामरूपाभ्यां नाम्ना रूपेणैव चन स्वरूपेण74 न प्रत्यगात्मना75 स्वयमेव व्याक्रियत। तदेव स्पष्टयति—असाविति। अयं पुरुषादिपदार्थोऽसौनामा देवदत्तो यज्ञदत्त इति वा नामास्येत्यसौनामा, इदं शुक्लं कृष्णं वा रूपमस्यासाविदंरूप इत्येवं व्याक्रियत इति संबन्धः। एतव्द्याकरणं सुप्तप्रबुद्धदृष्टान्तेन स्पष्टयति—तदिति। तदिदं सुप्तं सदव्याकृतं वस्त्वेतर्ह्येतस्मिन्नपि काले नामरूपाभ्यामेव व्याक्रियतेऽसौनामाऽयमिदँरूप इत्युक्तार्थम्। तद्धेदमित्यत्रोक्तमूलकारणस्य नामरूपाभ्यामित्युक्ते तत्कार्ये प्रवेशमाह—स इति। स एष परमात्मैवेह ब्रह्मादिस्तम्बपर्यन्तेषु देहेष्वव्याकृते नामरूपे व्याकुर्वन्प्रविष्टः सूर्यादिवत्प्रतिबिम्बीभूतः76। तथा परप्रत्यगभिधायकयोः सएषशब्दयोः सामानाधिकरण्येनोक्तैक्ये77 प्रविष्ट इति हेतूक्तिः। प्रवेशमर्यादामाह—आ नखेति। आ नखाग्रेभ्यो नखाग्रं मर्यादीकृत्य प्रविष्टः। तत्र दृष्टान्तद्वयमाह—यथेति। यथा क्षुरः क्षुरधाने क्षुरो धीयतेऽस्मिन्नापितोपस्कराधान
स्याद्विश्वंभरो वा विश्वंभरकुलाये तं न पश्यन्ति।
अकृत्स्रो हि स प्राणन्नेव प्राणोनाम भवति वदन्वा-
क्पश्यँश्चक्षुः शृण्वञ्श्रोत्रं मन्वानो मनस्तान्य-
स्यैतानि कर्मनामान्येव। स योऽत एकैकमुपास्ते
न स वेदाकुत्स्त्स्नोह्येषोऽत एकैकेन भवत्यात्मेत्ये-
———————————————————————————————————————————————————
एकदेशेऽवहितः प्रवेशितः स्थितः स्याद्यथा वा विश्वंभरोऽग्निर्जाठरत्वेन विश्वस्य भरणाद्विश्वंभरकुलायेऽग्न्याधारभूतकाष्ठादिलक्षणे78 नीडे व्याप्य स्थितस्तथाऽऽत्मा सामान्यतः79 स्फूर्त्यात्मना देहं संव्याप्य स्थितो विशेषतश्च80द्रष्टा श्रोतेत्यात्मना देहमव्याप्य तदेकदेशे चक्षुःश्रोत्रादिनाडीषु स्थित इत्यर्थः। इदानीं व्याकृताज्जगत आत्मानं पृथक्कर्तुमाह—तमिति। तं प्राणनादिक्रियाविशिष्टमात्मानं पश्यन्तोऽपि केवलं पूर्णमात्मानं न पश्यन्ति नोपलभन्ते। तत्र हेतुमाह—अकृत्स्न इति। हि यस्मात्स प्राणनादिक्रियाविशिष्टोऽकृत्स्नोऽसंपूर्णः। कुत एतदित्यत आह—प्राणन्निति। प्राणन्नेव प्राणनक्रियां कुर्वन्नेवाऽऽत्मा प्राणो नाम भवति प्राणितीति व्युत्पत्तेर्नान्यक्रियां कुर्वन्। वदन्वदनक्रियां कुर्वन्वाग्वक्तीति व्युत्पत्तेः। एतच्चानुक्तकर्मेन्द्रियव्यापाराणामुपलक्षणपरम्। पश्यन्दर्शनक्रियां कुर्वन्नात्मा चक्षुर्द्रष्टा चष्ट इति व्युत्पत्तेः। शृण्वन्नात्मा श्रोत्रं शृणोतीति व्युत्पत्तेः। एतच्चानुक्तघ्राणादिव्यापारोपलक्षणपरम्। मन्वानो मननक्रियां कुर्वन्नात्मा मनो मनुत इति व्युत्पत्तेः। एतदपि पूर्ववत्सर्वान्तरात्मव्यापारोपलक्षणपरम्। तान्येतानि प्राणादिनामान्यस्याऽऽत्मनः कर्मनामान्येव कर्मकृतानि नामानि पाठकादिवन्न वस्तुविषयाण्यतो नाऽऽत्मादिशब्दवत्कृत्स्नवस्त्ववद्योतकानि। अकृत्स्नवित्तु नाऽऽत्मविदित्याह—स इति। स योऽतोऽस्मात्प्राणनादिक्रियासमुदायादेकैकं प्राणमिति वा चक्षुरिति वा विशिष्टमनुपसंहृतेतरविशिष्टक्रियात्मकमेवाऽऽत्मानमुपास्ते जानाति स नवेद न जानाति कृत्स्नमात्मानम्। कुत इत्यत आह—अकृत्स्न इति। हि यस्मादेष81 आत्माऽकृत्स्नोऽसमस्तोऽतः प्राणादिसमुदायादेकैकेन प्राणादिविशेषणेन विशिष्टो भवति। तद्दर्शी तु न ब्रह्मात्मदर्शी। कथं तर्हि तद्दर्शीत्यपेक्षायां विद्यासूत्रमाह—आत्मेति82। आत्मनः शब्दधियोरविषयत्वद्योतक इतिशब्दः। यस्य प्राणादि-
वोपासीतात्रह्येते सर्व एकं भवन्ति।
तदेतत्पदनीयमस्य सर्वस्य यदयमात्माऽ-
नेन न ह्येतत्सर्वं वेद। यथा ह वै पदेनानु
विन्देदेवं कीर्तिँ श्लोकं विन्दते य एवं
वेद॥७॥तदेतत्प्रेयः पुत्रात्प्रेयो वित्तात्प्रे-
योऽन्यस्मात्सर्वस्मादन्तरतरं यद्यमात्मा।
———————————————————————————————————————————————————
विशेषणान्युक्तानि83 यश्चतानि सर्वाण्याप्नुवन्नात्मेत्युच्यते तमात्मेत्येवोपासीत न केनचिद्विशेषणेन विशिष्टत्वेन84शब्दप्रत्ययागम्यमात्मानमनुसंदधीतेति यावत्। कुत इत्यपेक्षायां तत्र कृत्स्नत्वहेतुमाह—अत्रेति। अत्रास्मिन्निरुपाधिक आत्मन्येते सर्वे प्राणाद्युपाधिकृता विशेषा एकं भवन्त्यभिन्ना भवन्ति तस्मादात्मेत्येवोपासीत। नन्वनात्मनोऽपि विद्यमानत्वात्कथमात्मानुसंधान85 एव यत्नः क्रियत इत्यत आह—तदिति। तदेतत्पदनीयं गमनीयमन्वेषणीयम्। किं तत्। अस्य सर्वस्यानात्मपदार्थस्य संबन्धी यदयं प्रकृतः कृत्स्न आत्मा। अस्यैव पदनीयत्वे हेतुमाह—अनेनेति। इयमित्थंभावे तृतीया। अनेनाऽऽत्मज्ञानेन हि यस्मादेतत्सर्वमनात्मजातं वेद जानाति। कथं पुनरेतदसत्यादाचार्यादेः86 पदनीयमित्यत आह—यथेति। यथा ह वै लोके87 कल्पितेनापि पदेन गवादिखुराङ्कितेन देशेनान्विष्यमाणो88 नष्टं विवित्सितं गोसुवर्णादि वस्तु विन्देल्लभत89 एवं90 कल्पितश्रुत्यादिनाऽऽत्मनि91 लब्धेऽनु सर्वं लभते। इदानीं विज्ञानस्य गुणफलमाह—कीर्तिमिति। एवं यथोक्तं नामरूपानुप्रवेशेन ख्यातिं गतं लब्धप्राणादिरूपं श्लोकं चात्मानं यो वेद स कीर्तिं तद्वदेव प्रख्यातिं श्लोकं चेष्टैः सह संघातं विन्दते लभते92। यद्वा यथोक्तं वस्तु यो वेद स मुमुक्षूणामपेक्षितं कीर्तिशब्दितमैक्यज्ञानं तत्फलं च श्लोकशब्दितां मुक्तिमाप्नोतीति मुख्यमेव फलमित्यर्थः॥७॥
कुतोऽन्यत्सर्वमनादृत्याऽऽत्मतत्त्वमेव विज्ञेयमित्याशङ्कायां लोकदृष्ट्यवष्टम्भेनाऽऽह—तदिति। तदेतत्प्राणपिण्डसमुदायादन्तरतरं पुत्रात्प्रियत्वेन प्रसिद्धात्प्रेयः प्रियतरं वित्ताच्च दैवमानुषादपरज्ञानसुवर्णादेः प्रेयः प्रियतरं पुत्रादेरन्यस्मात्प्रियत्वेन प्रसिद्धात्सर्वस्मात्प्रेयः प्रियतरम्। किं तद्यदयमात्मा। नन्वना-
स योऽन्यमात्मनः प्रियं ब्रुवाणं ब्रूयात्प्रियँ
रोत्स्यतीतीश्वरो ह तथैव स्यादात्मानमेव प्रिय-
मुपासीत स य आत्मानमेव प्रियमुपास्ते न
हास्य प्रियं प्रमायुकं भवति॥८॥ तदाहुर्य-
द्ब्रह्मविद्यया सर्वं भविष्यन्तो मनुष्या मन्यन्ते।
किमु तद्ब्रह्मावेद्यस्मात्तत्सर्वमभवदिति॥९॥
———————————————————————————————————————————————————
त्मनोऽपि प्रियत्वमनुभूयत इत्यत आह—स इति। यः कश्चिदात्मवादी स आत्मनोऽन्यं पुत्रादिकं प्रियं ब्रूवाणं प्रति ब्रूयात्। किम्। तव पुत्रादिलक्षणं प्रियमभिप्रेतं तर्हि मन्दोऽसि यतस्तत्प्रियं रोत्स्यत्यावरणं प्राणरोधं प्राप्स्यति विनङ्क्ष्यतीति यावत्। स कस्मादेवं ब्रवीतीत्यपेक्षायामाह—ईश्वरो हेति। यस्मादेवं वक्तुमसावीश्वरो ह समर्थ एव तस्मादेवं वदेत्। कुतोऽस्येश्वरत्वमवगम्यत इत्याशङ्कायां यथाभूतार्थवादित्वादित्याह—तथेति। यस्मात्प्रियत्वेन कल्पितमनात्मवस्तु विनङ्क्षयतीति यत्तेनोक्तं तत्तथैव स्यात्संवाद्येव भवति तस्मादस्येश्वरत्वमवगम्यते। एवमात्मनि93 मुख्या प्रीतिरिति स्थिते फलितमाह—आत्मानमिति। तस्मादन्यत्प्रियमुज्झित्वाऽऽत्मानमेव प्रियमुपासीत। तत्फलमाह—स इति। स यः कश्चिदात्मैव प्रेमास्पदं नानात्मेति निश्चित्याऽऽत्मानमेव प्रियमुपास्तेऽस्योपासकस्य प्रियमात्मसुखं प्राणादिकं वा प्रमायुकं प्रमरणशीलं ह किल न भवतीत्येतन्नित्यानुवादो गुणफलं वा मुख्यस्य सर्वभावापत्तेर्वक्ष्यमाणत्वादित्यर्थः॥८॥
एवं सूत्रं व्याचिख्यासु ब्राह्मणं सूत्रितविद्याविवक्षितप्रयोजनाभिधानायोपोद्वातं करोति—तदिति। तद्वक्ष्यमाणं नित्यनिरतिशयश्रेयः प्रतिपित्सव आहुः। किं तत्। यद्ब्रह्मविद्यया ब्रह्म स्वात्मा तद्यया वेद्यते सा ब्रह्मविद्या तया ब्रह्मविद्यया सर्वं निरवशेषं भविष्यन्तो भविष्याम इत्येवं मनुष्या मन्यन्ते संभावयन्ति94। किमु तद्ब्रह्म किंवाऽवेत्को वा95सर्वभावप्रमाणकः96 सर्वभाव इति पृच्छति—किमिति। यस्माद्विज्ञानात्तद्ब्रह्म सर्वमभवत्तद्ब्रह्म किमु किमात्मस्वरूपमतिरिक्तं वा किंवाऽवेत्स्वरूपं तदतिरिक्तं वा जानीयाद्यस्मात्तत्सर्वमभवदिति97 सर्वभावापत्तिरपि किं विद्यमानैवाभिव्यज्यते नूतना वोत्पाद्यत इत्यर्थः॥९॥
ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेदहं
ब्रह्मास्मीति तस्मात्तत्सर्वमभवत्। तद्यो यो
देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां
तथा मनुष्याणां तद्धैतत्पश्यन्नृषिर्वामदेवः प्रति-
पेदेऽहं मनुरभवँसूर्यश्चेति। तदिदमप्येतर्हि य
एवं वेदाहं ब्रह्मास्मीति स इदँसर्वंभवति तस्य
———————————————————————————————————————————————————
एतेषां क्रमेणोत्तरमाह—ब्रह्मेति। अग्रे प्राक्प्रबोधादपीदं शरीरस्थं प्रमात्रादिसाक्षिभूतं त्वंपदलक्ष्यं ब्रह्मैवाऽऽसीत्तद्ब्रह्मविद्याविशिष्टतयाऽधिकारित्वेन98 व्यवस्थितं नासि त्वं संसारी किंतु सकलधर्मरहितं चिदानन्दैकरसं ब्रह्मैवासीति दयालुनाऽऽचार्येण कथंचिद्बोधितमात्मानमेवाहं ब्रह्म प्रमात्रादिसाक्ष्यशनायाद्यतीतं नेति नेत्यस्थूलादिलक्षणमस्मि भवामीत्येवमवेत्तस्मादेव विज्ञानातद्ब्रह्म सर्वमभवदब्रह्माध्यारोपणाविद्यापगमात्तत्कार्यस्यासर्वत्वस्य निवृत्तौ स्वाभाविकं सर्वत्वं प्राप्तमिति यावत्। ब्रह्मविद्यायामग्निहोत्रादाविव मनुष्यत्वाद्यधिकारिविशेषणनियमो नास्तीत्याह—तदिति। तत्तत्र देवानां मध्ये यो यो देवः प्रत्यबुध्यताऽऽत्मानं यथावत्प्रतिबोधितवान्बोधनादेव स99एव देवस्तद्ब्रह्म सर्वात्मकमभवन्न साधनान्तरेण। तथर्षीणां तथा मनुष्याणां मध्ये यो यः प्रत्यबुध्यत स100 तदभवदिति पूर्वेण संबन्धः। अस्या ब्रह्मविद्यायाः सर्वभावापत्तिः फलमित्येतस्यार्थस्य दार्ढ्याय श्रुतिर्मन्त्रानुदाहरति—तद्धैतदिति। तद्ब्रह्मैतदात्मानमेवाहं ब्रह्मास्मीति पश्यन्नेतस्मादेव दर्शनादृषिर्वामदेवाख्योऽहं मनुरभवं सूर्यश्चेति मन्त्रान्प्रतिपेदे प्रतिपन्नवान्ह किल। ननु महतां देवादीनां वीर्यातिशयत्वाद्ब्रह्मविद्यया सर्वभावापत्तिर्युज्यते कथं पुनः कलिकालवर्तिनां मनुष्याणां विशेषतोऽल्पवीर्यवत्तया सर्वभावापत्तिरित्यत आह—तदिदमिति। तदिदं प्रकृतं यत्सर्वभूतानुप्रविष्टं ब्रह्मैतर्ह्येतस्मिन्नपि काले यः कश्चिद्व्यावृत्तबाह्यौत्सुक्य आत्मानमेवोपाधिजनितभ्रान्तिविज्ञानाध्यारोपितविशेषवर्जितमहं सकलधर्मातीतं ब्रह्मैवास्मीति वेदानुसंधते स एतादृग्ब्रह्मज्ञानादविद्याकृतासर्वत्वनिवृत्त्येदं सर्वं भवति। नन्वविद्यावतः कर्मिणोऽमृतत्वप्राप्तिमुद्दिश्य कर्मभ्यो व्युत्थानमिच्छतो देवकृतविघ्नसंभववद्विद्यावतोऽपि वार्तमानिकस्य पुरुषस्य देवकृतविघ्नसंभवान्न विद्याफलप्राप्तिरित्यत आह—तस्येति। तस्य यथोक्तप्रकारेण ब्रह्मात्मज्ञानवतो
ह न देवाश्चनाभूत्या ईशते। आत्मा ह्येषाँ स
भवति। अथ योऽन्यां देवतामुपास्तेऽन्योऽ-
सावन्योऽहमस्मीति न स वेद यथा पशुरेवँ
स देवानाम्। यथा ह वै बहवः पशवो मनुष्यं
भुञ्ज्युरेवमेकैकः पुरुषो देवान्भुनक्त्येकस्मि-
न्नेव पशावादीयमानेऽप्रियं भवति किमु बहुषु
तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः॥१०॥
———————————————————————————————————————————————————
देवा महावीर्याश्चनाप्यभूत्यै सर्वात्मकब्रह्मभावप्राप्तिनिराकरणाय101 नेशते ह न102 समर्था भवन्ति। तत्र103 हेतुर्हि यस्मात्स ब्रह्मविदेषां देवानामात्मा104 शास्त्रप्रकाशि तब्रह्मस्वरूपो भवति। एवं सोपपत्तिकं विद्यासूत्रमुक्त्वाऽविद्यासूत्रमाह—अथेति। अथ सोपपत्तिविद्यासूत्रकथनानन्तरं105 यः कश्चिदब्रह्मवित्स्वात्मनि कर्तृत्वमङ्गीकृत्याऽऽत्मनो व्यतिरिक्तां देवतामन्योऽहमुपास्यदेवतायाः सकाशादन्योऽसौ मत्त उपासनीयो देव इत्येवं भेददृष्ट्योपास्ते स्तुतिनमस्कारादिना स उपासको न वेदोपास्योपासकयोस्तत्त्वं न जानाति। न केवलमेवंभूतोपासकोऽविद्यादोषवानेव किंतु पशुसदृशोऽपि भवतीत्याह—यथेति। यथा गवाश्वादिपशुर्दोहनवाहनाद्युपकारैरुपभुज्यत एवमेव सोऽविद्वान्दवानां मध्य एकैकस्यापि देवस्य पशुवदनेकैरुपकारैरुपभोग्यो भवति। लोकपशोर्मनुष्यपशौ यथोक्तं विशेषं वक्तुं श्रुतिः स्वयमेवाऽऽह—यथा हेति। यथा लोके गोश्वादयो बहवः पशवो मनुष्यमात्मनोऽधिष्ठातारं स्वामिनं दोहनवाहनादिना भुञ्ज्युः पालयेयुरेवं बहुपशुस्थानीयोऽयं कर्मी पुरुष एकैक एव देवान्स्तुतिनमस्कारादिक्रियया भुनक्ति पालयति। देवग्रहणमूषिपित्रादीनामप्युपलक्षणपरम्106। अत एव मनुष्याणां पशुभावाद्व्युत्थानं देवा द्विषन्तीत्याह—एकस्मिन्निति। यथा लोके बहुपशुमतोऽप्येकस्मिन्पशावादीयमाने व्याघ्रादिनाऽपह्वियमाणेऽप्रियं भवति तथा बहुषु बहु पशुस्थानीय एकैकस्मिन्पुरुषे पशुभावाद्व्युत्तिष्ठमाने देवानामप्रियं भवतीति किमु वक्तव्यम्। अत एवाविद्यावतां पशुभावाद्वयुत्थानसाधनं तत्त्वज्ञानमपि देवा द्विषन्तीत्याह—तस्मादिति। यस्मान्मनुष्याणां पशुभावाद्व्युत्थानं देवानामप्रियं तस्माद्यदेतद्ब्रह्मणस्तत्त्वं मनुष्याः कथंचन विद्युर्विजानीयुस्तदेषां देवानां न प्रियं नेष्टमित्यर्थः107॥१०॥
*
॥१०॥ अर्थे°।
ब्रह्म वा इदमग्र आसीदेकमेव तदेकँसन्न व्यभ-
वत्। तच्छ्रेयोरूपमत्यसृजत क्षत्त्रं यान्येतानि
देवत्रा क्षत्त्राणीन्द्रो वरुणः सोमो रुद्रः पर्जन्यो
यमो मृत्युरीशान इति। तस्मात्क्षत्त्रात्परं नास्ति
तस्माद्ब्राह्मणः क्षत्त्रियमधस्तादुपास्ते राजसूये क्षत्त्र
एव तद्यशो दधाति सैषा क्षत्त्रस्य योनिर्यद्ब्रह्म।
———————————————————————————————————————————————————
विद्यावत्सह कार्येणाविद्याऽपीह सूत्रिता तामेव प्रपञ्चयितुमध्यायशेषस्तत्राथेत्यभ्यमन्थदित्यत्रानुग्राहकदेवतासर्गं प्रक्रम्याग्नेरेव सृष्टिरुक्ता नेन्द्रादीनामत्र त्वविद्यां प्रस्तुत्य108तद्विवर्तत्वसिद्धये सोच्यते ब्रह्म वा इदमग्र आसीदेकमेवेत्यादिनाऽविद्वान्कैः कर्मभिः केषां देवानां भोग्य इति विशेषतोऽथोअयं वा आत्मेत्यादिना दर्शयितुम्। आत्मैवेदमग्र आसीदित्यत्र यदात्मशब्देनोक्तं स्रष्टृब्रह्म तदग्निं सृष्ट्वा तद्रूपं ब्राह्मणजात्यभिमानवदस्मिन्वाक्ये ब्रह्मशब्देनोच्यते। तथाचाग्रे क्षत्त्रादिसर्गात्पूर्वमिदं क्षत्त्रादिभेदजातं ब्रह्मैवैकमभिन्नमासीन्नाऽऽसीत्क्षत्त्रादिभेदः। तद्ब्राह्मणजात्यभिमान्यग्न्यात्मकं ब्रह्मैकं परिपालनादिकर्तृक्षत्त्रादिना रहितं सन्न व्यभवन्न विभूतवत्कर्मणे नालमासीत्। ततस्तत्पूर्वोक्तं109 ब्रह्माऽऽत्मनो ब्राह्मणजातिनिमित्तकर्मकर्तृत्वविभूत्यै श्रेयोरूपं प्रशस्तरूपमत्यसृजतातिशयेन सृष्टवत्। किं तत्। क्षत्त्रं क्षत्रियजातिम्। तामेव व्यक्तिभेदेन दर्शयति—यानीति। यान्येतानि प्रसिद्धानि देवत्रा देवेषु क्षत्त्राणि। एतानि कानीत्यपेक्षायामाह—इन्द्र इति। इन्द्रो देवानां राजा वरुणो यादसां सोमो ब्राह्मणानां रुद्रः पशूनां पर्जन्यो विद्युदादीनां यमो धर्मराजः पितॄणां मृत्युर्यमदूतो रोगादीनामीशान ईश्वरो दीप्तीनां राजेत्येवमादीनि देवक्षत्राणि। यस्मादत्यसृजतेत्युक्तेर्ब्राह्मणेभ्योऽप्यतिशयेन क्षत्त्रं सृष्टं तस्मात्कारणात्क्षत्त्रात्परमुत्कृष्टं नास्ति। क्षत्त्रस्य नियन्तृत्ववदुत्कर्षे हेत्वन्तरमाह—तस्मादिति। यस्मादयं ब्राह्मणजातेरपि नियन्ता तस्माद्ब्राह्मणः क्षत्रियस्य कारणभूतोऽप्यधस्ताद्व्यवस्थितः सत्राजसूये यज्ञ उपरि स्थितं क्षत्त्रियमुपास्ते। ब्राह्मणस्तदात्मीयं ब्राह्मणाख्यं यशः ख्यातिरूपं राजंस्त्वं ब्रह्मासीत्येवं क्षत्त्रे दधाति स्थापयत्येव। यशोविशेषणं वैवकारः। नन्वेवं क्षत्त्रे स्वकीयं यशः समर्पयतो ब्राह्मणस्यापकष्टत्वं स्यादित्यत आह—सैषेति। यद्ब्रह्म ब्राह्मणजातिः सैषा क्षत्रस्य योनिरु-
तस्माद्यद्यपि राजा परमतां गच्छति ब्रह्मै-
वान्तत उपनिश्रयति स्वां योनिं य उ एनँ
हिनस्ति स्वाँ स योनिमृच्छति स पापी-
यान्भवति यथा श्रेयाँसँ हिँसित्वा॥११॥
स नैव व्यभवत्स विशमसृजत यान्येतानि देव-
जातानि गणश आख्यायन्ते वसवो रुद्रा आ-
दिया विश्वेदेवा मरुत इति॥१२॥ स नैव
व्यभवत्स शौद्रं वर्णमसृजत पूषणमियं वै
पूषेयँ हीदँ सर्वं पुष्यति यदिदं किंच॥१३॥
———————————————————————————————————————————————————
त्पत्तिकारणमत उत्कृष्ट एव ब्राह्मणः। तस्माद्यद्यपि राजा राजसूयाभिषेककाले परमतां परमत्वं ब्रह्मत्वगुणं गच्छति प्राप्नोति तथाऽप्यन्ततोऽन्ते कर्मपरिसमाप्तौ ब्रह्मैव ब्राह्मणजातिमेव स्वां योनिं पुरोहितमुपनिश्रयत्याश्रयति। य उ यः पुनर्बलाभिमानात्प्रमादाद्वैनं स्वयोनिभूतं ब्राह्मणं हिनस्ति तिर्यग्भावेन पश्यति स स्वामात्मीयामेव योनिमृच्छति विच्छिनत्ति। स एतत्कर्म कृत्वा पापीयान्पापतरो भवति। यथा लोके श्रेयांसं प्रशस्यतरं हिंसित्वा परिभूयापरः पापीयान्भवति तद्वदित्यर्थः॥११॥
कर्माङ्गभूतद्रव्योपार्जनार्थं वैश्यसृष्टिमाह—स इति। स ब्राह्मणाभिमान्यग्निपुरुषः क्षत्त्रसर्गात्पूर्ववत्कर्मणे समर्थो नैव व्यभवद्वित्तोपार्जयितुरभावात्तदर्थं स ब्राह्मणाभिमान्यग्निर्विशमसृजत। कः पुनरसौ विट्। यान्येतानि देवजातानीति। स्वार्थे निष्ठा। य एते देवजातिभेदा गणशो गणं गणं कृत्वाऽऽख्यायन्ते कथ्यन्ते वसवोऽष्टव्यक्तिक एको गण एकादश रुद्रा द्वादशाऽऽदित्या विश्वाया अपत्यानि दश विश्वेदेवा मरुतः सप्तसंख्याताः सप्त गणाः॥१२॥
परिचारकसृष्टिमाह—स इति। स नैव व्यभवत्पूर्ववत्परिचारकाभावात्। स शौद्रं शूद्रमेव शौद्रं वर्णमसृजत। तं देवशूद्रमाह—पूषणमिति। पुष्यतीति पूषा तं पूषणम्। तमेव विशेषत आह—इयमिति। इयं वै पृथिवी पूषा। कथमित्यपेक्षायां स्वयमेव निर्वचनमाह—इयं हीति। इयं पृथिवी हि खल्विदं सर्वं यदिदं किंच यत्किंचेदं प्राणिजातं तत्पुष्यति पुष्णातीत्यर्थः॥१३॥
स नैव व्यभवत्तच्छ्रेयोरूपमत्यसृजत धर्मं तदे-
तत्क्षत्त्रस्य क्षत्त्रं यद्धर्मस्तस्माद्धर्मात्परं नास्त्यथो
अबलीयान्बलीयाँसमाशँसते धर्मेण यथा
राज्ञैवं यो वै स धर्मः सत्यं वै तत्तस्मात्सत्यं
वदन्तमाहुर्धर्मं वदतीति धर्मे वा वदन्तँ
सत्यं वदतीत्येतद्धयेवैतदुभयं भवति॥१४॥
तदेतद्ब्रह्म क्षत्त्रं विट्शूद्रस्तदग्निनैव देवेषु
ब्रह्माभवद्ब्राह्मणो मनुष्येषु क्षत्त्रियेण क्षत्त्रियो
———————————————————————————————————————————————————
क्षत्त्रस्योग्रत्वात्तन्नियन्तृधर्मसर्गमाह—स इति। स चतुरो वर्णान्सृष्ट्वाऽपि नैव व्यभवत्। तत्स्रष्टृब्रह्म श्रेयोरूपं धर्ममत्यसृजत। तदेतत्सृष्टं श्रेयोरूपं क्षत्त्रस्य क्षत्त्रं क्षत्त्रस्यापि नियन्तृयद्धर्मो यो धर्मश्चेतनभूतो देवतात्मकस्तस्मात्क्षत्त्रस्यापि क्षत्त्रान्नियन्तृभूताद्धर्मात्परं नियन्तृभूतं किंचिन्नास्ति तस्यैव सर्वनियन्तृत्वात्। तत्कथमित्यत आह—अथो इति। अथो अप्यबलीयान्दुर्बलतरो बलीयांसमात्मनो बलवत्तरमपि धर्मरूपेण बलेन जेतुमाशंसते कामयत इच्छति। तदेवोदाहरति—यथेति। यथा राज्ञा बलेनाल्पबलो बलीयांसं जेतुमाशंसत एवं तद्धर्मबलेनातः सिद्धं धर्मस्य सर्वनियन्तृत्वम्। अत्रैव पुनः सत्यादभिन्नत्वं हेत्वन्तरमाह—य इति। यो वै धर्मोऽनुष्ठीयमानो यागादिः स तत्प्रसिद्धं सत्यं वै ज्ञायमानः शास्त्रार्थ एव। अत्र लोकप्रसिद्धिं प्रमाणयति—तस्मादिति। यस्मादुभयोरभेदस्तस्माद्व्यवहारकाले सत्यं यथाशास्त्रार्थं वदन्तं पुरुषं धर्मं लोकानुष्ठेयत्वेन प्रसिद्धं लौकिकं न्यायं वदतीत्याहुर्धर्मसत्यविवेकज्ञा धर्मं वा वदन्तं सत्यं वदतीत्याहुः। उक्तमभेदमुपसंहरति—एतदिति। हि यस्मादेवं तस्मादेतदुभयं सत्यधर्माख्यं ज्ञायमानानुष्ठीयमानशास्त्रार्थलक्षणं वा एतद्धर्म एव भवतीत्यर्थः॥१४॥
यदर्थं देवब्राह्मणादिसर्ग उक्तस्तं मनुष्यब्राह्मणादिसर्गमुक्तानुवादपूर्वकमाह—तदिति। तदेतदुक्तं दैवं ब्रह्म क्षत्त्रं विट् शूद्र एवं सति तदग्निरूपापन्नंस्रष्टृब्रह्माग्निनैव केवलमग्निरूपेणैव क्षत्त्रादिविकारप्राप्तिमन्तरेण देवेषु ब्रह्म ब्राह्मणजातिरभवत्। तदेव देवब्राह्मणमग्निरूपं तेनैव रूपेण मनुष्येषु ब्राह्मणो ब्राह्मणजातिरभवदित्यनुषज्यते। क्षत्त्रियेणेन्द्रादिदेवक्षत्त्रियेण नियंत्त्रितोऽनुगृहीतश्च सन्मनुष्यक्षत्त्रियः सोमसूर्यवंश्यः पुरूरवइक्ष्वाकुप्रभृतिको देवमनुष्यब्राह्मणरू-
वैश्येन वैश्यः शूद्रेण शूद्रस्तस्मादग्नावेव देवेषु लोक-
मिच्छन्ते ब्राह्मणे मनुष्येष्वेताभ्याँहि रूपाभ्यां
ब्रह्माभवत्। अथ यो ह वा अस्माल्लोकात्स्वं
लोकमदृष्ट्वा प्रैति स एनमविदितो न भुनक्ति
यथा वेदो वाऽननूक्तोऽन्यद्वा कर्माकृतं यदिह
वा अप्यनेवंविन्महत्पुण्यं कर्म करोति तद्धा-
स्यान्ततः क्षीयत एवाऽऽत्मानमेव लोकमुपासीत
———————————————————————————————————————————————————
पेण विकृतात्स्त्रष्टृब्रह्मणः सकाशादभवत्। तथा वैश्येन वस्वादिदेववैश्येनाधिष्ठितः सन्मनुष्यवैश्योऽभवत्। शूद्रेण पूषरूपेण देवशूद्रेणाधिष्ठितः सन्मनुष्यशूद्रोऽभवत्। यस्मात्क्षत्त्रादिषु विकारापन्नं स्रष्टृब्रह्माग्नौ ब्राह्मणे वा विकृतं तस्माद्देवेषु देवानां मध्येऽग्नावेवाग्निसंबन्धं कर्म कृत्वैव लोकं कर्मफलमिच्छन्ते प्रार्थयन्ते। मनुष्येषु मनुष्याणां मध्ये110 मनुष्यत्ववमलम्ब्य कर्मफलसंपादनेच्छायामग्न्यादिसाध्यक्रियामन्तरेणापि ब्राह्मणे ब्राह्मणजातिप्राप्तौ तन्निमित्तजपादिकर्मणा लोकमिच्छन्त इति संबध्यते। कथमग्निब्राह्मणयोरेव111 कर्मफलमिच्छन्तीत्यतो हेतुमाह—एताभ्यामिति। हि यस्माद्यत्स्रष्टृब्रह्म तदेताभ्यामग्निब्राह्मणलक्षणाभ्यां रूपाभ्यां साक्षाद्रूप्यभवत्। यत्र देवाधीनः पुरुषार्थस्तत्राग्निसंबन्धं कर्म कर्तव्यम्। यत्र मनुष्याधीनः पुरुषार्थस्तत्र ब्रह्मावलम्ब्य कर्म कर्तव्यम्। केचिदग्न्यादिसाध्यकर्मणा मोक्षमिच्छन्ति तान्प्रत्याह—अथेति। अथशब्दः पूर्वपक्षव्यावृत्त्यर्थः। यो ह वै यः कश्चित्स्वं लोकं परमात्माख्यमहं ब्रह्मास्मीत्यदृष्ट्वाऽविदित्वाऽस्माल्लोकात्सांसारिकपिण्डग्रहणलक्षणात्प्रैति म्रियते तमेनं स स्वलोकः परमात्माऽविदितः सञ्शोकमोहादिदोषापनयनेन न भुनक्ति न पालयति। अत्र दृष्टान्तमाह—यथेति। यथा वेदो वाऽननूक्तोऽनधीतः कर्माद्यवबोधकत्वेन न भुनक्त्यन्यद्वा कृष्यादि कर्माकृतं स्वकीयफलदानेन न भुनक्ति तद्वत्। तथाऽप्यश्वमेधादिमहत्कर्मानुष्ठानान्मोक्षो भविष्यतीत्यत आह—यदिह वा इति। इह संसारमण्डले यः कश्चिन्महात्माऽप्यनेवंविदन्वयव्यतिरेकाभ्यां स्वं लोकमविद्वान्यन्महन्महामहिमाश्वमेधादि पुण्यं कर्म निरन्तरं करोति तत्कर्मास्याविदुषो ह निश्चितमन्ततः फलभोगावसाने क्षीयत एव कृतकत्वात्स्वप्नविभूतिवत्तस्मादात्मानमेव लोकं प्रत्यग्ब्रह्मैकत्वलक्षणमुपासीताशेषाना-
स य आत्मानमेव लोकमुपास्ते न हास्य
कर्म क्षीयते। अस्माद्धयेवाऽऽत्मनो यद्यत्का-
मयते तत्तत्सृजते॥१५॥अथो अयं वा
आत्मा सर्वेषां भूतानां लोकः स यज्जुहोति
यद्यजते तेन देवानां लोकोऽथ यदनुब्रूते तेन
ऋषीणामथ यत्पितृभ्यो निपृणाति यत्प्रजा-
मिच्छते तेन पितृणामथ यन्मनुष्यान्वासयते
यदेभ्योऽशनं ददाति तेन मनुष्याणामथ
यत्पशुभ्यस्तृणोदकं विन्दति तेन पशूनां
——————————————————————————————————————————————————
त्यदृष्टिपरिहारेण निरन्तरमनुसंदधीत। तत्फलमाह—स इति। स यः कश्चिदुक्तरीत्याऽऽत्मानमेव लोकमुपास्तेऽस्योपासकस्य ह निश्चितं कर्म न क्षीयते कर्माभावादेव। किंच स आत्मोपासको यद्यदिष्टं कामयते तत्तदस्माद्ध्येवाऽऽत्मनः सकाशात्सृजते न साधनान्तरमपेक्षत इत्यर्थः॥१५॥
एवमुपोद्धातप्रसङ्गागतं विदुषः स्वातन्त्र्यमुक्त्वोक्तपारतन्त्र्योऽविद्वान्केन केन कर्मणा कस्य कस्य पशुवदुपभोग्यो भवतीति प्रकृतापेक्षायामाह—अथो इति। अथो अप्ययं वै प्रकृतो गृही कर्माधिकृतोऽविद्वानात्मा शरीरद्वयविशिष्टः सर्वेषां देवादिपिपीलिकान्तानां भूतानां प्राणिनां लोको भोग्यो विहितवर्णाश्रमादिकर्मभिरुपकारित्वात्। एतदेव विशेषत आह—स इति। स गृही यज्जुहोति देवतोद्देशेन द्रव्यत्यागपूर्वकमाहुतिमग्नौ प्रक्षिपति यद्यजते देवतोद्देशेन द्रव्यत्यागकरोति तेन होमयागलक्षणेन कर्मणाऽवश्यकर्तव्येन112 प्रतिबद्धः113 सन्पशुवत्परतन्त्रभूतो देवानामिन्द्रादीनां लोको भोग्यः। अथापि यदनुब्रूते स्वाध्यायमधीतेऽहरहस्तेन ऋषीणां लोक इति प्रत्येकं संबध्यते। अथ यत्पितृभ्यः पिण्डोदकादि निपृणाति114 प्रयच्छति यच्च प्रजामिच्छत उत्पादयति तेनोभयविधकर्मणा पितृणाम्। अथ यन्मनुष्यान्गृहे भूम्युदकादिदानेन वासयते यच्चैभ्यो वसद्भयोऽर्थिभ्यो वाऽशनं भोजनं ददाति तेनोभयकर्मणा मनुष्याणाम्। अथ यत्पशुभ्यस्तृणोदकं विन्दति लम्भयति तेन पशूनाम्। आ पिपी-
यदस्य गृहेषु श्वापदा वयाँस्या पिपीलिकाभ्य
उपजीवन्ति तेन तेषां लोको यथा ह वै स्वाय
लोकायारिष्टिमिच्छेदेवँहैवंविदे सर्वाणि भूता-
न्यरिष्टिमिच्छन्ति तद्वा एतद्विदितं मीमाँ-
सितम्॥१६॥ आत्मैवेदमग्र आसीदेक एव
सोऽकामयत जाया मे स्यादथ प्रजायेयाथ वित्तं
———————————————————————————————————————————————————
लिकाभ्यः पिपीलिकाभिः सह श्वापदा मार्जारादयो वयांसि पक्षिणश्च115 यदस्य कर्मिणो गृहेषु कणबलिभाण्डक्षालनाद्युपजीवन्ति तेन तेषां लोक उपभोग्यः। एवमुपकारिणं देवादयोऽप्युपकुर्वन्तीत्याह—यथेति। यथा ह वै लोके स्वाय लोकाय स्वदेहायारिष्टिमविनाशमिच्छेत्पोषणरक्षणादिभिः पालयेदेवं दैवमेकैकंविदे सर्वभूतभोग्योऽहमित्यात्मानमृणिवत्परिकल्पितवते सर्वाणि भूतानि देवादीनि यथोक्तामरिष्टिमिच्छन्ति। ननु तथाऽपि नास्य होमादेरवश्यकर्तव्यत्वमित्यत आह—तदिति। तद्वा एतत्तदेतदेव यथोक्तानां कर्मणामवश्यकर्तव्यत्वं भूतयज्ञो मनुष्ययज्ञः पितृयज्ञो देवयज्ञो ब्रह्मयज्ञश्चेति पञ्चमहायज्ञप्रकरणे विदितं विज्ञातम्। ननु श्रुतमप्यविचारितं नानुष्ठेयमित्यत आह—मीमांसितमिति। ऋणं ह वाव जायते जायमानो योऽस्ति स देवेभ्य ऋषिभ्यः पितृभ्यो मनुष्येभ्य इत्यादिनैतदवश्यकर्तव्यत्वं विचारितमित्यर्थः॥१६॥
ननूक्तविद्याविद्यात्मकनिवृत्तिप्रवृत्तिमार्गयोस्तुल्यसामर्थ्यस्य116 ब्रह्मचारिणः स्वातन्त्र्ये सत्यपि येन प्रेरितो117 मनुष्यो ग्रहग्रस्त इवावशः स्वात्मलोकाद्बहिर्मुखीभूतो दुःखात्मके कर्मण्येव प्रवृत्तिमार्ग118 एव प्रवर्तते न निवृत्तौ स कः प्रवर्तक इत्यपेक्षायां काम एवेति निर्णयार्थमाह119—आत्मेति। आत्मैवेदमग्र आसीदित्यत्राऽऽत्मशब्देन स्वाभाविक्याऽविद्यया युक्तः कार्यकारणसंघातविशिष्टो ब्रह्मचार्युच्यते। तथाचाग्रे प्राग्दारसंबन्धादिदं प्रसिद्धं दारादिजातं ब्रह्मचार्यात्मैक एवाऽऽसीन्नाऽऽसीत्पृथक्स ब्रह्मचार्यात्मा स्वाभाविक्यविद्यावासनावासितोऽकामयत कामितवान्। कथमित्यत आह—जायेति। जाया कर्माङ्गहेतुभूता मे मम कर्तुः स्यात्। अथ पुत्रसाधनीभूतजायासंपत्त्यनन्तरं प्रजायेय प्रजारूपेणाहमेवोत्पद्येय। अथ कर्मसाधनीभूतं वित्तं दैवं मानुषं च देवताज्ञानगवादिल-
मे स्यादथ कर्म कुर्वीयेत्येतावान्वैकामो नेच्छँ-
श्चनातो भूयो विन्देत्तस्मादप्येतर्ह्येकाकी कामयते
जाया मे स्यादथ प्रजायेयाथ वित्तं मे स्यादथ
कर्म कुर्वीयेति स यावदप्येतेषामेकैकं न प्राप्नो-
त्यकृत्स्र एव तावन्मन्यते तस्यो कृत्स्नता मन
एवास्याऽऽत्मा वाग्जाया प्राणः प्रजा चक्षुर्मानुषं
वित्तं चक्षुषा हि तद्विन्दते श्रोत्रं दैवँ
———————————————————————————————————————————————————
क्षणं मे मम स्यात्। अथोभयविधवित्तसंपत्त्यनन्तरं नित्यनैमित्तिककाम्याख्यं त्रिविधमपि कर्माहं कुर्वीय। एतावान्वै प्रसिद्धजायापुत्रवित्तकर्माण्येव हि कामः कामयितव्यो विषयः। यद्यपि फलैषणाऽप्यस्ति तथाऽपीयं साधनैषणैव मनुष्यादिलोकरूपफलविषयाऽपि भवति साधनेच्छायास्तदर्थत्वादतोऽवधारणं युक्तम्। ननु तथाऽपि कामानामानन्त्यात्कथमवधारणमित्यत आह—नेति। यस्मादिच्छंश्चनेच्छन्नप्यतोऽस्मात्फलसाधनलक्षणाद्भूयोऽधिकतरं120 न विन्देन्न लभेतातोऽवधारणं युक्तम्। तथाचैवमविदुष एषणापरपर्यायः121 काम एव कर्ममार्गप्रवृत्तिहेतुरिति निश्चितेऽर्थ आधुनिकानां कामपूर्वकप्रवृत्तिं प्रमाणयति—तस्मादिति। यस्मादेवमविदुषः प्रजापतेश्च स वै नैव रेम इति स्त्र्यादिविषयेच्छाऽऽसीत्तस्मादप्येतर्हीदानींतनोऽपि स्वाभाविक्याऽविद्यया युक्त एकाकी कामयते जाया मे स्यादथ प्रजायेयाथ वित्तं मे स्यादथ कर्म कुर्वीयेत्येवं कामयमानः कामी यावदेतेषां यथोक्तानां जायादीनां मध्य एकैकमपि न प्राप्नोति तावदकृत्स्नोऽसंपूर्णोऽहमित्यात्मानं मन्यते। कृत्स्त्नत्वसंपादनासमर्थं प्रति तदुपायमाह—तस्येति। तस्य उ अकृत्स्नत्वाभिमानिनः कृत्स्नतैवं भवति। कथमित्यत आह—मन इति। अस्याकृत्स्नत्वाभिमानिनो मन एवाऽऽत्मेवाऽऽत्मा प्राधान्यसामान्यात्122। वाक्चोदनालक्षणशब्दव्यापारवती जायेव जाया भर्तृमनोनुवृत्तित्वसामान्यात्। प्राणः प्रजेव प्रजा वाङ्मनसाभ्यां123 जायापतिस्थानीयाभ्यां प्राणस्योत्पाद्यत्वसामान्यात्। चक्षुर्दर्शनक्रियावन्मानुषं मनुष्यसंबन्धि वित्तं कुतो हि यस्माच्चक्षुषा तत्प्रकृतं गवादिलक्षणं मानुषं वित्तं विन्दते लभत इति साधनत्वसामान्यात्। श्रोत्रं श्रवणक्रियावद्दैवं देवसंबन्धि वित्तं हि यस्मात्तद्दैवं वित्तं देवता-
श्रोत्रेण हि तच्छृणोत्यात्मैवास्य कर्माऽऽत्मना
हि कर्म करोति स एष पाङ्क्तो यज्ञः पाङ्क्तः पशुः
पाङ्क्तः पुरुषः पाङ्क्तमिदँ सर्वंयदिदं किंच
तदिदँसर्वमाप्नोति य एवं वेद॥१७॥
इति प्रथमाध्याये चतुर्थ ब्राह्मणम्॥४॥
यत्सप्तान्नानि मेधया तपसाऽजनयत्पिता। एक-
मस्य साधारणं हे देवानभाजयत्। त्रीण्या-
———————————————————————————————————————————————————
दिविषयविज्ञानलक्षणं श्रोत्रेण शृणोति वाक्याद्विज्ञानोत्पत्तेः श्रोत्राधीनत्वात्। एवं साधनं संपादितवतोऽस्याकृत्स्नत्वाभिमानिन आत्मैव शरीरमेव कर्म हि यस्मादात्मना शरीरेण कर्म करोत्येवं कृत्स्नता सिद्धा तस्मात्स एष पाङ्कः पञ्च भिर्निष्पाद्यः पाको यज्ञो दर्शनात्मकः। कथं पुनरस्य पञ्चत्वसंपत्तिमात्रेण यज्ञत्वमित्याशङ्कायां बाह्ययज्ञस्यापि पाङ्कत्वमाह—पाङ्क इति। पशुः पशुसाध्यो यज्ञः पाङ्कः पुरुषः पुरुषसाध्यो यज्ञः पात एव। किं बहुना पञ्चभूतात्मकं हैरण्यगर्भं जगदपि पाङ्कमेवेत्याह—पाङ्कमिति। इदं सर्वं कर्मसाधनफलात्मकं यदिदं किंच यत्किंचास्ति तत्सर्वं पाङ्कमेव। एतत्संपादनफलमाह—तदिति। य एवमुक्तप्रकारेण पाङ्कंयज्ञमात्मानं वेद संपादयति स तदिदं सर्वं जगदात्मत्वेनाऽऽप्नोतीत्यर्थः124॥१७॥
इति बृहदारण्यकमिताक्षराख्यव्याख्यायां चतुर्थं ब्राह्मणम्॥४॥
<MISSING_FIG href="../books_images/U-IMG-1733419965Screenshot2024-11-14162430.png"/>
एवं कामप्रयुक्तेन गृहस्थेनागृहस्थेन125 वा पाङ्कज्ञानकर्मभ्यां केवलज्ञानेन वा सृष्टस्याद्यमानत्वेनान्नभूतस्य126 जगत उपासनार्थं सप्तधा विभागेन निरूपयितुं सप्तान्नब्राह्मणं प्रवर्तते। तत्र सविनियोगान्नप्रकाशकसूत्रभूतान्मन्त्रानुदाहरति—यत्सप्तेति। पिता क्षेत्रज्ञो127 ज्ञानकर्माधिकारी मेधया पाङ्कोपासनया तपसा पाङ्केन कर्मणा सप्तान्नानि यत्प्रसिद्धमजनयत्तन्मध्ये यत्क्षुच्छान्तिकरं सर्वैरद्यते तदेकमन्नमस्य सर्वस्यात्तृवर्गस्य साधारणम्। द्वे अन्ने वक्ष्यमाणे हुतप्रहुताख्ये हविष्प्रक्षेपबलिहरणलक्षणे दर्शपूर्णमासाख्ये वा देवानभाजयद्देवसात्कृतवान्। त्रीणि
त्मनेऽकुरुत पशुभ्य एकं प्रायच्छनत्। तस्मिन्सर्वं
प्रतिष्ठितं यच्च प्राणिति यच्च न। कस्मात्तानि
न क्षीयन्तेऽद्यमानानि सर्वदा। यो वैताम-
क्षितिं वेद सोऽन्नमत्ति प्रतीकेन। स देवानपि-
गच्छति स ऊर्जमुपजीवतीति श्लोकाः॥१॥
यत्सप्तान्नानि मेधया तपसाऽजनयत्पितेति
मेधया हि तपसाऽजनयत्पिता। एकमस्य
साधारणमितीदमेवास्य तत्साधारणमन्त्रं यदिद-
मद्यते। स य एतदुपास्ते न स पाप्मनो व्यावर्तते
———————————————————————————————————————————————————
मनोवाक्प्राणलक्षणान्यन्नान्यात्मने स्वार्थमेवाकुरुत। एकं पयोघृतरूपमन्नं पशुभ्यश्चतुष्पाद्द्विपदात्मकेभ्यः प्रायच्छद्दत्तवान्। पयसोऽन्नत्वे हेतुमाह—तस्मिन्निति। यच्च प्राणिति प्राणचेष्टां करोति यच्च न प्राणचेष्टां करोति तत्सर्वं तस्मिन्पयसि प्रतिष्ठितम्। अग्निहोत्रादौ हूयमानस्य पयसः सर्वजगत्कारणत्वात् तानिसर्वैः सर्वदाऽद्यमानान्यन्नानि कस्मान्न क्षीयन्त इतिप्रश्नरूपो मन्त्रः। तत्र पुरुषेणानवरतमुत्पाद्यमानत्वादन्नक्षयो न भवतीत्युत्तरमभिप्रेत्यान्नाक्षयहेतुत्वेन लब्धपुरुषाक्षितित्वगुणविज्ञानफलमाह—यो वेति। यो वैतामक्षितिमन्नाक्षयकारणं वेद स प्रतीकेन मुखेन मुख्यया वृत्त्याऽन्नमत्ति स विज्ञाता देवानपिगच्छति देवत्वं प्राप्नोति स ऊर्जममृतं चोपजीवत्यमृतभोक्ता च भवतीति श्लोका मन्त्रा उक्ता इत्यर्थः॥१॥
एतेषां मन्त्राणां तिरोहितार्थत्वेन प्रतीकग्रहणपूर्वकं तद्व्याख्यानाय ब्राह्मणं प्रवर्तते। यत्सप्तान्नानि मेधया तपसाऽजनयत्पितेति मन्त्रभागो मेधया तपसा च हि पिता पूर्वोक्तोऽजनयदिति प्रसिद्धावद्योतकेन हिशब्देन व्याख्यातः। प्रसिद्धं ह्युक्तार्थकमेधातपसोर्जगत्कारणत्वम्। उक्तसप्तान्नविनियोजकं मन्त्रभागं प्रतीकपूर्वकं व्याचष्टे। एकमस्य साधारणमिति मन्त्रेऽस्य भोक्तृसमुदायस्य तत्साधारणमन्नमिदमेव। किम्। यदिदं सर्वैः प्राणिभिरहन्यहन्यद्यते भुज्यते। एतस्य सर्वसाधारणस्यान्नस्यासाधारणं कुर्वतो दोषमाह—स इति। स यः कश्चिदेतत्सर्वप्राणभृत्स्थितिहेतु साधारणमन्नमुपास्ते तत्परो भवति स्वशरीरस्थित्यर्थान्नप्रधानो नादृष्टार्थकर्मप्रधानो भवति स एवंभूतः पाप्मनोऽधर्मान्न व्यावर्तते न
मिश्रँ ह्येतत्। द्वेदेवानभाजयदिति हुतं च प्रहुतं च
तस्माद्देवेभ्यो जुह्वति च प्र च जुह्वत्यथो आहुर्दर्शपूर्ण-
मासाविति। तस्मान्नेष्टियाजुकः स्यात्। पशुभ्य एकं
प्रायच्छदिति तत्पयः। पयो ह्येवाग्रे मनुष्याश्च पश-
वश्चोपजीवन्ति तस्मात्कुमारं जातं घृतं वैवाग्रे प्रतिले-
हयन्ति स्तनं वाऽनुधापयन्त्यथ वत्सं जातमाहुरतृणाद
इति। तस्मिन्सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च नेति
पयसि हीदँ सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च न।
———————————————————————————————————————————————————
मुच्यते कुतो हि यस्मादेतदन्नं मिश्रं सर्वप्राणिसाधारणम्। द्वे अने पिता देवानभाजयदितिमन्त्रोक्तमन्नद्वयं हुतं चाग्नौ हवनं प्रहुतं च हुत्वा बलिहरणमेतदन्नद्वयं दैवं यस्मात्तस्मादिदानींतना अपि गृहिणो देवेभ्यो जुह्वति हुत्वा प्रजुह्वति च बलिहरणं128 च कुर्वते। एतस्य पूर्वपक्षत्वं सूचयितुं पक्षान्तरमाह—अथो इति। अथो अप्यन्य आहुर्ये द्वे अन्ने पित्रा प्रदत्ते न ते हुतप्रहुते किंतु दर्शपूर्णमासाविति यस्मात्तस्मान्नेष्टियाजुकः काम्येष्टियजनशीलो न स्यात्तथात्वे तयोरन्नयोर्देवान्नत्वव्याहतिरेव स्यात्। पशुभ्यो द्विपाच्चतुष्पाद्भ्यो यदेकमन्नं पिता प्रायच्छदिति मन्त्रोक्तं तदन्नं पयः। कुत एतदवगम्यत इत्यत आह—पय इति। हि यस्मादग्रे प्रथमं मनुष्याः पशवश्च पय एवोपजीवन्ति तस्माज्जातं कुमारं बालं त्रैवर्णिका जातकर्मण्यग्रे घृतं वैव घृतमेव सुवर्णयुक्तं प्रतिलेहयन्ति129 प्राशयन्ति स्तनं वाऽनु पश्चाद्धापयन्ति पाययन्ति। अत्रैवर्णिकानां तु यथासंभवम्। किंच। अथ द्विपात्पशषु पयसोऽन्नत्वे लोकप्रसिद्धिप्रमाणीकरणानन्तरं जातं वत्समाहुः कियत्प्रमाणो130 वत्सो जात इत्येवं पृष्टाः सन्त आहुरतृणाद इति तृणमत्तीति तृणादो न तृणादोऽतृणादः पयसैवाद्यापि वर्तत इति यावत्। तस्मिन्सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च नेति मन्त्रभागो यच्च प्राणिति मनुष्यपश्वादि यच्च न प्राणिति स्थावरादीदं सर्वं पयसि प्रतिष्ठितमिति हि प्रसिद्धं पयआहुतिविपरिणामत्वात्सर्वस्य जगत इति ब्राह्मणेन व्याख्यातः। इदं दर्शनं स्तोतुं मतान्तरमनूद्य
तद्यदिदमाहुः संवत्सरं पयसा जुह्वदप पुन-
र्मृत्युं जयतीति न तथा विद्याद्यदहरेव जुहोति
तदहः पुनर्मृत्युमपजयत्येवं विद्वान्सर्वँ हि
देवेभ्योऽन्नाद्यं प्रयच्छति। कस्मात्तानि न
क्षीयन्तेऽद्यमानानि सर्वदेति पुरुषो वा अक्षितिः
स हीदमन्नंपुनः पुनर्जनयते। यो वैतामक्षितिं
वेदेति पुरुषो वा अक्षितिः स हीदमन्नं
———————————————————————————————————————————————————
दूषयति—तदिति। प्रयोगैक्यविवक्षया संवत्सरं सायंप्रातराहुत्योरिष्टकायाः संवत्सराहोरात्रयोः पुरुषदेहार्धयोश्चाविवक्षितभेदेन षष्ट्यधिकशतत्रयसंख्याकाः प्रयोगभेदविवक्षया तु देहार्धादीनां विवक्षितभेदेन विंशत्यधिकसप्तशतसंख्याका आहुतीष्टकाहोरात्रनाड्यो भवन्तीत्येतत्संख्यासामान्येन पुरुषचित्याग्निसंवत्सरात्मकप्रजापतीनां समत्वं संपाद्य स प्रजापतिरहमस्मीति भावयन्संवत्सरं वर्षपर्यन्तं पयसा जुह्वद्धोमं कुर्वन्नग्नावप पुनर्मृत्युं जयति पुनर्मृत्युमपजयति पुनर्मरणाय न जायत इति यदिदं शाखान्तरीया आहुस्तत्तथा पूर्वोक्तप्रकारेण दर्शनं पयसः सर्वजगद्धेतुत्वलक्षणं न विद्यान्न जानीयात्। तर्हि कथं विद्यादित्यत आह—यदिति। एवं पयसि हीदँ सर्वं प्रतिष्ठितमित्युक्तप्रकारेण पयस्यन्तर्हितं विश्वमिति विद्वान्सन्यदहरेव यस्मिन्नेव दिवसे जुहोत्याहुतिप्रक्षेपं करोति तदहस्तस्मिन्नेव दिवसे मृत्युमपजयति न तु संवत्सरपर्यन्तमाहुत्यभ्यासापेक्षा। तत्र हेतुमाह—सर्वमिति। हि यस्मादेवमुक्तप्रकारेण विद्वान्सर्वंसमस्तमन्नाद्यमन्नं च तदाद्यं सोमात्मकं पयो यस्मिन्नेव दिवसे देवेभ्यः प्रयच्छति ददाति तस्माद्युक्तं तस्मिन्नेव दिवसे सर्वान्नमयसोमात्मकपयआहुतिमयमात्मानं कृत्वा सर्वदेवान्नस्वरूपेण सर्वैर्देवैरेकात्मभावं गत्वा सर्वदेवमयप्रजापतिर्भूत्वा पुनर्मृत्युमपजयतीति भावः। कस्माद्धेतोस्तानि सप्तान्नानि सर्वदा सर्वैरद्यमानानि न क्षीयन्त इति मन्त्रेण प्रश्ने कृते ब्राह्मणमुत्तरमाह—पुरुष इति। पुरुषो वै भोक्तैवाक्षितिरन्नाक्षयहेतुः। ननु प्रत्युत क्षयहेतुर्भोक्ता कथमक्षयहेतुरित्यत आह—स इति। हि यस्मात्स भोक्ताऽपीदं भुज्यमानं सप्तविधं कार्यकरणलक्षणं131 क्रियाफलात्मकं पुनः पुनर्भूयो भूयो जनयत उत्पादयति तस्माद्भोगकालेऽपि
धिया धिया जनयते कर्मभिर्यद्धैतन्न कुर्यात्क्षीयेत ह
सोऽन्नमत्ति प्रतीकेनेति मुखं प्रतीकं मुखेनेत्येतत्।
स देवानपिगच्छति स ऊर्जमुपजीवतीति प्रशँसा
॥२॥ त्रीण्यात्मनेऽकुरुतेति मनो वाचं प्राणं तान्यात्म-
नेऽकुरुतान्यत्रमना अभूवं नादर्शमन्यत्रमना अभूवं
नाश्रौषमिति मनसा ह्येव पश्यति मनसा शृणोति।
———————————————————————————————————————————————————
भुज्यमानादिविषयकरागद्वेषादिना विहितप्रतिषेधाद्युत्पत्तेरावश्यकत्वेन132 मेधातपोभ्यां पितुरिवास्य जनकत्वसंभवाद्भवत्येव पुरुषोऽक्षयहेतुः। यो वैतामक्षितिं वेदेति मन्त्रे पुरुषो वै भोक्ताऽक्षितिरुच्यते। कुतो हि यस्मात्स पुरुषो भोक्तापीदमन्नं सप्तविधं धिया धिया लोकशास्त्रसाधारणबुद्ध्या कर्मभिश्च जनयते। एतमेव हेतुं व्यतिरेक133द्वारेणोपपादयति134—यद्धैतदिति। यदि हैतत्सप्तविधमन्नं न कुर्यात्तर्हि सातत्येन भुज्यमानत्वात्क्षीयेत ह विच्छिद्येत किल। सोऽक्षितिगुणकसप्तान्नात्मकप्रजापतित्वं135 वेद। सोऽन्नमत्ति प्रतीकेनेति मन्त्रे प्रतीकं मुखं मुख्यत्वमुच्यते। तदेवाऽऽह—मुखेनेत्येतदिति। मुख्यत्वेन प्राधान्येनेति यावत्। स देवानपिगच्छति स ऊर्जमुपजीवतीति मन्त्रेणैतत्फलकथनं136 पूर्वोपास्तिफलप्रशंसाप्राशस्त्यमात्रं नापूर्वार्थोऽन्योऽस्तीत्यर्थः॥२॥
एवं मन्त्रक्रममुल्लङ्ध्यार्थक्रमवशात्साधनीभूतमन्नचतुष्टयं व्याख्यायेदानीं फलभूतमन्नत्रयं प्रतीकग्रहणपूर्वकं व्याकरोति—त्रीण्यात्मनेऽकुरुतेति। मन्त्रे मनो वाचं प्राणमित्येतानि त्रीण्यन्नानि पिताऽऽदौ सृष्ट्वाऽऽत्मन आत्मार्थमकुरुत कृतवान्। तेषां मध्ये मनसोऽस्तित्वे प्रमाणमाह137—अन्यत्रेति। पुरोऽवस्थितं गजं त्वं दृष्टवानिति केनचित्पृष्ट आहान्यत्र विषयान्तरे गतं मे मनो यस्य सोऽहमन्यत्रमना अभूवमासमतो नादर्शं तथेदं मदीयं वचस्त्वं श्रुतवानसीति पृष्ट आहान्यत्रमना अभूवमतो नाश्रौषं न श्रुतवानस्मीति। हि यस्मात्सर्वो लोक आत्मसाक्षिकमनसैव138 पश्यति मनसैव शृणोति तद्वैयग्र्ये दर्शनाद्यभावात्तस्मात्सिद्धं प्रत्यक्षादिप्रमाणकं मनसोऽस्तित्वम्। किं पुनर्मनसः स्वरूपमित्य-
कामः संकल्पो विचिकित्सा श्रद्धाऽ-
श्रद्धा धृतिरधृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं मन एव
तस्मादपि पृष्ठत उपस्पृष्टो मनसा विजानाति
यः कश्च शब्दो वागेव सा। एषा ह्यन्तमाय-
त्तैषा हि न प्राणोऽपानो व्यान उदानः समा-
नोऽन इत्येतत्सर्वं प्राण एवैतन्मयो वा अयमात्मा
———————————————————————————————————————————————————
तस्तदाह—काम इति। कामः स्त्र्यादिविषयसंबन्धाभिलाषः। संकल्प इदं नीलमिदं शुक्लमिति विषयविशेषावधारणम्। विचिकित्सा संशयज्ञानम्। श्रद्धाऽदृष्टार्थेष्वास्तिक्यबुद्धिः। अश्रद्धा तद्विपरीता बुद्धिः। धृतिर्धारणं देहाद्यवसादने सत्युत्तम्भनम्। अधृतिस्तद्विपर्ययः। ह्रीर्लज्जा। धीः प्रज्ञा। भीर्भयमित्येतदेवमादिकं सर्वंमन एव वृत्तिवृत्तिमतोरभेदात्। पुनरपि तत्सद्भावे प्रमाणमाह—तस्मादिति। यस्माच्चक्षुषो ह्यगोचरे पृष्ठतोऽपि केनचित्स्पृष्टः कश्चिद्धस्तस्यायं स्पर्शो जानोरयमिति मनसैव विजानाति विवेकेन प्रतिपद्यते तस्मादस्ति विवेककारणं मन इति। अथाऽऽध्यात्मिकवाचः स्वरूपमाह—य इति। यः कश्च शब्दो वस्तुप्रकाशरूपो वर्णावर्णात्मकः स सर्वोऽपि सा प्रकृता वागेव। अत्र हेतुमाह—एषेति। यद्वा तस्याः कार्यमाह—एषेति। हि यस्मादेषा प्रकाशमात्रस्वरूपा वागन्तमभिधेयनिर्णयावसानमायत्ताऽनुगताऽत एषाऽभिधेयनिर्णायका वाग्घि निश्चितं न प्रकाश्या किंतु प्रकाशिकैवेत्यर्थः। आध्यात्मिकप्राणकार्यरूपं प्राणास्तित्वे प्रमाणं कथयंस्तत्स्वरूपमाह—प्राण इति। प्राणिति पुरतो निःसरतीति प्राणो मुखनासिकाभ्यन्तरचारिणी हृदयसंबन्धिनी वायुवृत्तिः। मूत्रपुरीषादेरधोनयनादपानो नाभिमर्यादोऽधोवृत्तिः। हृदयमारभ्य नाभिपर्यन्तो व्यायमनकर्मा व्यानः प्राणापानयोर्नियमकर्मेति यावत्। वीर्यवत्कर्महेतुश्च। ऊर्ध्ववृत्तिरुदान आपादतलमस्तकस्थानो देहपुष्ट्यूर्ध्वगमनोत्क्रान्त्यादिहेतुः। भुक्तस्य पीतस्य च समं नयनात्समानः कोष्ठस्थानोऽन्नपक्ता। एतेषां वृत्तिविशेषाणां सामान्यभूतसामान्यदेहचेष्टाभिसंबन्धिवृत्तिस्वरूपः प्राणोऽन इति शब्देनोच्यते। एतत्सर्वं प्राणादिवृत्तिजातमाध्यात्मिको वृत्तिमान्प्राण एव वृत्तिवृत्तिमतोरभेदात्। एवमुक्तानां वागादीनां समुच्चितं139 स्वरूपं दर्शयति—एतदिति। अयमात्मा कार्यकरणसंघातः140 पिण्ड एत
वाङ्मयो मनोमयः प्राणमयः॥३॥
त्रयो लोका एत एव वागेवायं लोको मनोऽ-
न्तरिक्षलोकः प्राणोऽसौ लोकः॥४॥ त्रयो
वेदा एत एव वागेवग्र्वेदो मनो यजुर्वेदः प्राणः
सामवेदः॥५॥ देवाः पितरो मनुष्या एत
एव वागेव देवा मनः पितरः प्राणो मनुष्याः
॥६॥ पिता माता प्रजैत एव मन एव पिता
वाङ्माता प्राणः प्रजा॥७॥ विज्ञातं विजि-
ज्ञास्यमविज्ञातमेत एव यत्किंच विज्ञातं वाच-
स्तद्रूपं वाग्घिविज्ञाता वागेनं तद्भूत्वाऽवति
॥८॥ यत्किंच विजिज्ञास्यं मनसस्तद्रूपं
मनो हि विजिज्ञास्यं मन एनं तद्भूत्वाऽवति
॥९॥ यत्किंचाविज्ञातं प्राणस्य तद्रूपं प्राणो
ह्यविज्ञातः प्राण एनं तद्भूत्वाऽवति॥१०॥
———————————————————————————————————————————————————
न्मय एतद्विकारः। एतदेव विवृणोति—वाङ्मयो मनोमयः प्राणमय इति। एतत्स्पष्टार्थम्॥३॥
एवं वागादीनामाध्यात्मिकीं विभूतिमुक्त्वाऽऽधिभौतिकीं तामाह—त्रय इति। त्रयो लोका भूर्भुवः स्वरित्याख्या एते वाङ्मनःप्राणा एव। एतदेव विशेषतो विवृणोति—वागिति। वागेवायं भूर्लोकः। मनोऽन्तरिक्षलोकः। प्राणोऽसौ परोक्षः स्वर्लोकः॥४॥
एषामेव वागादीनां वेदत्रयात्मकत्वं देवपितृमनुष्यात्मकत्वं पितृमातृमजात्मकत्वं विज्ञातविजिज्ञास्याविज्ञातवस्त्वात्मकत्वं चाऽऽह—त्रयो वेदा एत एवेत्यादिकण्डिकाषट्केन। वाचो विज्ञातत्वे हेतुमाह—वागिति। हि यस्माद्वाग्विज्ञाता प्रकाशात्मकत्वात्। एवं वाग्विभूतिविदः फलमाह—वागिति। एनं वाग्विदं वाक्तद्भूत्वा विज्ञातस्वरूपं भूत्वाऽवति पालयति। विज्ञातस्वरूपेणैवान्नत्वमापद्यत इति यावत्॥५॥६॥७॥८॥९॥१०॥
तस्यै वाचः पृथिवी शरीरं ज्योतीरूपमयम-
ग्निस्तद्यावत्त्येव वाक्तावती पृथिवी तावानय-
मग्निः॥११॥ अथैतस्य मनसो द्यौः शरीरं
ज्योतीरूपमसावादित्यस्तद्यावदेव मनस्तावती
द्यौस्तावानसावादित्यस्तौ मिथुनँ समैतां
ततः प्राणोऽजायत स इन्द्रः स एषोऽसपत्नो
द्वितीयो वै सपत्नो नास्य सपत्नो भवति य
एवं वेद॥१२॥अथैतस्य प्राणस्याऽऽपः शरीरं
ज्योतीरूपमसौ चन्द्रस्तद्यावानेव प्राणस्तावत्य
———————————————————————————————————————————————————
एवं वागादीनामाधिभौतिकीं विस्तृतिमुक्त्वाऽऽधिदैविकीं141 तामाह—तस्या इति। तस्यै तस्याः प्रजापतेरन्नत्वेन प्रस्तुताया आधिदैविक्या वाचः पृथिवी शरीरमाधारो ज्योतीरूपं प्रकाशात्मकं करणभूतमाधेयरूपमयं पार्थिवोऽग्निः। अध्यात्मादेराधिदैविकांशत्वादंशांशिनोश्चाभेदादाधिदैविक्या वाचा सह तुल्यपरिमाणत्वमाह—तदिति। तत्तत्र वाचोऽध्यात्मादिभेदेन त्रैविध्ये सत्यध्यात्माधिभूतभेदभिन्ना वाग्यावत्येव यावत्परिमाणैव भवति तदाधारत्वेन व्यवस्थिता कार्यभूता पृथिव्यपि तावत्येव भवति। अयं च पार्थिवोऽग्निराधेयभूतो ज्योतीरूपः करणात्मा पृथिवीमनुप्रविष्टस्तावानेव भवतीत्यर्थः॥११॥
अथैतस्य मनसो द्यौः शरीरमित्यादि समानार्थकम्। मन एवास्याऽऽत्मा वाग्जाया प्राणः प्रजा मन एव पिता वाङ्माता प्राणः प्रजेत्यध्यात्माधिभूतप्रकरणयोरिवाऽऽधिदैविकयोरप्याह—ताविति। तावग्न्यादित्यावाधिदैविके वाङ्मनसे आधिदैविके मातापितरौ मिथुनं मैथुन्यं समैतां समगच्छेताम्। ततस्तयोः संगमनात्प्राणोऽन्नत्रयान्तर्गतप्राणाद्भिन्नोऽन्तरिक्षगो142 वायुः परिस्पन्दकर्मार्थमजायत स प्राण इन्द्रः परमेश्वरः। तथा स एष प्राणोऽसपत्नो न विद्यते सपत्नो यस्यासावसपत्नः। प्रतिपक्षत्वेनोपगतो द्वितीयो वै सपत्नः शत्रुर्भवति। असपत्नगुणकप्राणोपासनफलमाह—नास्येति। नास्योपासकस्य सपत्नः प्रतिपक्षो भवति य एवमसपत्नं प्राणं वेदेत्यर्थः॥१२॥
अथैतस्य प्राणस्यान्नत्वेन143 प्रकृतस्य न तु वाङ्मनःप्राणत्वेन144 निर्दिष्टस्याऽऽपः शरीरमित्यादि समानम्। अथैषामध्यात्माधिभौतिकाधिदैविकानां वाङ्मनः-
आपस्तावानसौ चन्द्रस्त एते सर्व एव समाः
सर्वेऽनन्ताः स यो हैतानन्तवत उपास्तेऽन्तव-
न्तँस लोकं जयत्यथ यो हैताननन्तानुपा-
स्तेऽनन्तँस लोकं जयति॥१३॥ स एष
संवत्सरः प्रजापतिः षोडशकलस्तस्य रात्रय
एव पञ्चदश कला ध्रुवैवास्य षोडशी
कला स रात्रिभिरेवाऽऽ च पूर्यतेऽप च क्षीयते
———————————————————————————————————————————————————
प्राणानां ध्यानार्थं समत्वादिगुणमाह—त इति। त एते वागादयः सर्व एव समास्तुल्याः145। केन रूपेणेत्यपेक्षायां वक्ति—सर्वेऽनन्ता इति। आधिदैविकरूपेणाशेषजगद्व्याप्तिमन्तो146 यावत्संसारभाविनो147 वा। एवमेवोपासनीया इत्याहान्यथोपासने दोषं वदन्148—स इति। स यः कश्चिद्धैतान्प्रजापतेः पितुरात्मभूतानन्तवतः परिच्छिन्नानध्यात्मरूपेणाधिभूतरूपेण वोपास्ते स उपासनानुरूपमन्तवन्तमेव लोकं फलं जयति साधयति परिच्छिन्न एव भवेन्न तेषामात्मभूतो भवति। अथ पुनर्यो हैतान्वागादीननन्तान्सर्वप्राण्यात्मभूतानपरिच्छिन्नानुपास्ते सोऽनन्तमेव लोकं जयत्यनन्तो भवतीत्यर्थः॥१३॥
यदधिदैवविषये पाङ्क्तकर्मफलं तदपि पाङ्क्तंवक्तव्यं तत्र मनोवाक्प्राणरूपा149 मातापितृप्रजा150 इत्येवंलक्षणं त्रयमुक्तम्। वित्तं कर्म चेत्यनुक्तत्वाद्वाच्यमित्येतदर्थः स एष इत्युत्तरो ग्रन्थः प्रवर्तते। योऽयं त्र्यन्नात्मा प्रजापतिः प्रकृतः स एष संवत्सरः संवत्सरात्मा षोडश कला अवयवा यस्य स षोडशकलः। ता एव षोडश कला आह—तस्येति। तस्य151कलात्मनः प्रजापते रात्रयोऽहोरात्राण्येवाहोरात्रसंबन्धिन्यस्तिथय एवपञ्चदश कलाः। ध्रुवैव नित्यैवास्य प्रजापतेः षोडशी षोडशानां पूरणी कला व्यवस्थिता। एतासां कलानां द्रव्यत्वं वक्तुं तत्साधर्म्यमाह—स इति। स प्रजापतिश्चन्द्रात्मा रात्रिभिरेवोक्तकलारूपाभिस्तिथिभिरेव प्रतिपदाद्याभिरुपचीयमानाभिः शुक्लपक्ष आपूर्यते वर्धते ताभिरेव रात्रिभिरपचीयमानाभिरपक्षीयते च152 कृष्णपक्षे यावद्ध्रुवैका कला व्यवस्थिता। एवं कलानां वित्तत्वे सिद्धे तदुपचयापचयौ कर्मे-
सोऽमावास्याँरात्रिमेतया षोडश्या कलया
सर्वमिदं प्राणभृदनुप्रविश्य ततः प्रातर्जायते
तस्मादेताँरात्रिं प्राणभृतः प्राणं न विच्छि-
न्द्यादपि कृकलासस्यैतस्या एव देवताया
अपचित्यै॥१४॥ यो वै स संवत्सरः प्रजा-
पतिः षोडशकलोऽयमेव स योऽयमेवंवित्पुरुष-
स्तस्य वित्तमेव पञ्चदश कला आत्मैवास्य
षोडशी कला स वित्तेनैवाऽऽ च पूर्यतेऽप च
क्षीयते तदेतन्नभ्यं यदयमात्मा प्रधिर्वित्तं
———————————————————————————————————————————————————
त्यभिप्रेत्याऽऽह—स इति। स प्रजापतिः153 कलात्माऽमावास्याममावास्यायां रात्रिं रात्रावेतया षोडश्या कलया सर्वमिदं प्राणभृत्स्थावरजङ्गमात्मकमोषध्यात्मनाऽनुप्रविश्यामावास्यां रात्रिमवस्थाय ततः परेद्युः प्रातर्जायते द्वितीयया कलया संयुक्तो भवति। प्रासङ्गिकमुपदिशति—तस्मादिति। यस्मादेष चन्द्र एतां रात्रिं सर्वप्राणिजातमनुप्रविष्टो ध्रुवया कलया वर्तते तस्माद्धेतोरेताममावास्यां रात्रिं प्राणभृतः प्राणिनः प्राणं न विच्छिन्द्यान्न प्रमापयेत्किं बहुना कृकलासस्यापि प्राणं न विच्छिन्द्यात्। स हि पापात्मा दृष्टोऽप्यमङ्गल इति कृत्वा स्वभावेनैव प्राणिभिर्हिंस्यते। विशेषतो निषेधप्रयोजनमाह—एतस्या एव सोमदेवताया अपचित्यै पूजार्थमित्यर्थः॥१४॥
यदेवमाधिदैविकैकलात्मकत्र्यन्नात्मप्रजापतेरुपासनमुक्तं154 तदहंग्रहेण कर्तव्यमित्यभिप्रेत्याऽऽह—य इति। यो वै स परोक्षोऽभिहितः संवत्सरः प्रजापतिः षोडशकलः स नैवात्यन्तं परोक्षो मन्तव्यो यस्मादयमेव स प्रत्यक्ष उपलभ्यते। को यः पुरुष एवंविद्यथोक्तं त्र्यन्नात्मकं प्रजापतिं स्वात्मभूतमेव वेद। सोऽयं प्रत्यक्षः प्रजापतिः केन सामान्येनेत्यत आह—तस्येति। तस्यैवंविदः पुरुषस्य गवादिवित्तमेव पञ्चदश कलाः कलावदुपचयापचयधर्मित्वाज्जगत्परिणामहेतुत्वाच्च। आत्मैव देह एवास्य विदुषः षोडशी कला ध्रुवास्थानीया स विद्वान्वित्तेनैवाऽऽपूर्यते चापक्षीयते च चन्द्रवत्। आत्मैव ध्रुवा कलेत्युक्तं तदेव रथचक्रदृष्टान्तेन स्पष्टयति—तदिति। तदेतन्नभ्यं नाभिश्चक्रपिण्डाकारस्तत्स्थानीयं नभ्यं किं तद्यदयमात्मा पिण्डः शरीरं बाह्यं वित्तं प्रधिः परिवारस्थानीयं चक्र-
तस्माद्यद्यपि सर्वज्यानिं जीयत आत्मना
चेज्जीवति प्रधिनाऽगादित्येवाऽऽहुः॥१५॥
अथ त्रयो वाव लोका मनुष्यलोकः पितृलोको
देवलोक इति सोऽयं मनुष्यलोकः पुत्रेणैव
जय्यो नान्येन कर्मणा कर्मणा पितृलोको
विद्यया देवलोको देवलोको वै लोकानाँ
श्रेष्ठस्तस्माद्विद्यां प्रशँसन्ति॥१६॥
———————————————————————————————————————————————————
पिण्डाकारे नेम्यादिवत्। एवं सति फलितमाह—तस्मादिति। यस्मादेवं तस्माद्यद्यपि सर्वज्यानिं155सर्वस्वापहरणं यथा स्यात्तथा जीयते हीयते सर्वस्वापहरणनिमित्तां ग्लानिं प्राप्नोति तथाऽपि चेद्यद्यात्मना नाभिस्थानीयेन जीवति तदा प्रधिना बाह्येन जायादिपरिवारेणागात्156। क्षीणोऽयमरनेमिविमुक्तरथचक्रमिवेत्येवाऽऽहुर्लौकिका इत्यर्थः॥१५॥
एवं पाङ्तेन दैववित्तात्मकविद्यासंयुक्तेन कर्मणा त्र्यन्नात्मकप्रजापतिभावो व्याख्यातोऽनन्तरं च जायादिवित्तं परिवारस्थानीयमित्युक्तं तत्र पुत्रकर्मापरविद्यानां लोकप्राप्तिसाधनत्वमात्रं सामान्येनावगतं न पुनः पुत्रादीनां लोकप्राप्तिं प्रतीदमस्येति विशेषसंबन्धोऽवगतोऽतस्तत्मदर्शनार्थमथ त्रयो वावेति कण्डिका प्रवर्तते। अथशब्दो वाक्योपक्रमार्थः। वावेत्यवधारणार्थः। शास्त्रोक्तसाधनार्हास्त्रय एव लोकाः। के त इत्यत आह—मनुष्यलोकः पितृलोको देवलोक इति। केन कः साध्य इत्यपेक्षायामाह—स इति। तेषां मध्ये सोऽयं मनुष्यलोकः157 पुत्रेणैव158। भोगांशे त्वयोगव्यवच्छेदार्थ एवकारः159। ज्योतिषेमं लोकमिति कर्मणाऽपि साध्यस्तथाऽपि पितृकर्तव्यशेषानुष्ठानांशे160 नापुत्रस्य लोकोऽस्तीति पुत्रेणैव साधनेन जय्यो जेतव्यः साध्यो नान्येन कर्मणा विद्यया वेति शेषः। कर्मणाऽग्निहोत्रादिना केवलेन पितृलोको जेतव्यो न पुत्रेण नापि विद्यया। विद्यया परया देवलोको जेतव्यो न पुत्रेण नापि कर्मणेत्यनुकृष्यते। देवलोको वै प्रसिद्धस्त्रयाणां लोकानां मध्ये श्रेष्ठः प्रशस्यतमस्तस्माद्देवलोकसाधनत्वाय विद्यां प्रशंसन्ति स्तुवन्तीत्यर्थः॥१६॥
अथातः संप्रत्तिर्यदा प्रेष्यन्मन्यतेऽथ पुत्रमाह
त्वं ब्रह्म त्वं यज्ञस्त्वं लोक इति स पुत्रः प्रत्या-
हाहं ब्रह्माहं यज्ञोऽहं लोक इति। यद्वै किंचा-
नूक्तं तस्य सर्वस्य ब्रह्मेत्येकता ये वै के च
यज्ञास्तेषाँ सर्वेषां यज्ञ इत्येकता ये वै के
च लोकास्तेषाँसर्वेषां लोक इत्येकतैतावद्वा
———————————————————————————————————————————————————
एवं साध्यलोकत्रयात्मकफलभेदेन विनियुक्तानि पुत्रादीनि त्रीणि साधनानि जायावित्तयोस्तु पुत्रकर्मार्थहेतुत्वेन161 न पृथक्साधनत्वं विद्याकर्मणोर्लोकजयहेतुत्वं तु स्वात्मप्रतिलाभेनैवेति प्रसिद्धं पुत्रस्य त्वक्रियात्मकत्वात्केन प्रकारेण लोकजयहेतुत्वमिति न ज्ञायतेऽतस्तत्कथनार्थमाह—अथात इति। अथ पुत्रादिसाधनानां साध्यविशेषसंबन्धकथनानन्तरं यतः पुत्र162स्यैतल्लोकसाधनत्वं163 कथमिति न ज्ञायतेऽतस्तत्कथयितुं संप्रत्तिः संप्रदानं पुत्रे हि पिता वक्ष्यमाणप्रकारेण स्वात्मव्यापारसंप्रदानं करोति तेन संप्रत्तिसंज्ञकमिदं कर्म। तत्कस्मिन्काले कर्तव्यमित्यपेक्षायामाह—यदेति। स पिता यदा यस्मिन्काले प्रैष्यन्प्रव्रजिष्यन्मरिष्यन्वाऽरिष्टादिदर्शनेन मन्यतेऽथ तदा पुत्रमाहूयाऽऽह किं त्वं ब्रह्म त्वं यज्ञस्त्वं लोक इति। स एवमुक्तः पुत्रः पूर्वमेवानुशिष्टत्वात्प्रत्याह प्रतिवचनमाहाहं ब्रह्माहं यज्ञोऽहं लोक इति। ब्रह्मादिवचनानां तिरोहितार्थंमत्वा श्रुतिस्तद्व्याकरोति—यदिति। यद्वै किंच यत्किंचानूक्तमवशिष्टमधीतमनधीतं च तस्य सर्वस्यैव ब्रह्मेत्येतस्मिन्पद एकतैकत्वमिति पदार्थः। योऽध्ययनव्यापारो मम कर्तव्य आसीदेतावन्तं कालं वेदविषयः स इत ऊर्ध्वं त्वं ब्रह्म त्वत्कर्तृकोऽस्त्विति वाक्यार्थः। तथा ये वै के च यज्ञा अनुष्ठेयाः सन्तो मयाऽनुष्ठिता अननुष्ठिताश्च तेषां सर्वेषां यज्ञ164 इत्येतस्मिन्पद एकतैकत्वमेकार्थत्वमिति यावत्। ये वै के च लोका मया जेतव्याः सन्तो जिता अजिताश्च तेषां सर्वेषां लोक165 इत्येतत्पद एकतेति पदार्थः। अनयोर्यज्ञलोकयोर्वाक्यार्थस्तु ब्रह्मवाक्यार्थवदूहनीयः। इत ऊर्ध्वं मया कर्तव्याध्ययनयज्ञलोकजयहेतुभूतक्रियासंकल्पस्त्वयि समर्पित इति वदतोऽस्य पितुर्वाक्यार्थोक्तिपूर्वकं166 श्रुतिराह—एतावदिति। एतावद्वा एतावत्परिमा-
इदँ सर्वमेतन्मा सर्वँ सन्नयमितोऽभुनजदिति
तस्मात्पुत्रमनुशिष्टं लोक्यमाहुस्तस्मादेनमनुशा-
सति स यदैवंविदस्माल्लोकात्प्रेत्यथैभिरेव प्राणैः
सह पुत्रमाविशति। स यद्यनेन किंचिदक्ष्ण-
याऽकृतं भवति तस्मादेनँ सर्वस्मात्पुत्रो मुञ्चति
तस्मात्पुत्रो नाम स पुत्रेणैवास्मिल्ँ लोके प्रतिति-
ष्ठत्यथैनमेते दैवाः प्राणा अमृता आवि-
शन्ति॥१७॥
———————————————————————————————————————————————————
णमेवेदं सर्वं यद्गृहिकर्तव्यं वेदाध्ययनयज्ञानुष्ठानलोकजयलक्षणमेतत्सर्वं मदधीनं सदतः परमयं पुत्रो मत्तोऽपच्छिद्य स्वाधीनकर्तव्यत्वमापद्येतोऽस्माद्बन्धहेतुभूताल्लोकान्मामभुनजत्पालयिष्यतीति167 ऌडर्थे लङ् छन्दसि कालनियमाभावात्। पुत्रानुशासनस्य फलमाह—तस्मादिति। यस्मादेवं संपन्नः पुत्रः पितरमस्माल्लोकात्कर्तव्यताबन्धनतो मोचयिष्यति तस्मात्पुत्रमनुशिष्टं लोक्यं पितृलोकहितमाहुर्ब्राह्मणास्तस्मादुक्तहेतोरेवाद्यतना अपि पुत्रवन्त एनं स्वपुत्रमनुशासति लोक्योऽयमस्माकं स्यादिति मन्वानाः। कृतसंप्रत्तिकः पिता किं करोतीत्यपेक्षायामाह—स इति। स पुत्रसमर्पितकर्तव्यताकः पिताऽहमस्म्यनन्तवाङ्मनःप्राणात्मेत्येवंविद्यदा यस्मिन्कालेऽस्माल्लोकात्प्रैति म्रियतेऽथ तदैभिरेव प्रकृतैर्वाङ्मनःप्राणैरेव सह पुत्रमाविशति व्याप्नोति फलरूपेण परत्र वर्तमानोऽपि सन्ननुशिष्टपुत्रात्मनाऽत्रापि वर्तत इति यावत्। पुत्रानर्वचनमाह—स यदीति। स पुत्रो यदि कदाचिदनेन पित्राऽक्ष्णया कोणच्छिद्रतः किंचिदकृतं कस्मिंश्चित्कर्मैकदेशे कर्तव्यं सद्विस्मृतमकृतं भवति तस्मादकृतात्कर्तव्यतारूपात्सर्वस्मात्सर्वलोकप्राप्तिप्रतिबन्धरूपात्पुत्रः स्वयं तत्सर्वमनुष्ठानेन पूरयित्वैनं पितरं मुञ्चति मोचयति यस्मात्पितुश्छिद्रपूरणेन पितरं त्रायते तस्मात्पुत्रो नाम। पितुः पुत्रतादात्म्येनैतल्लोकावस्थानमुक्तं निगमयति—स इति। स पिता मृतोऽपि सन्पुत्रेणाऽऽत्मनाऽस्मिल्ँ लोके प्रतितिष्ठति वर्तते। एवं प्रासङ्गिकं पुत्रत्वं निरूप्य प्रकृतं पितरमेवाधिकृत्याऽऽह—अथेति। पुत्रप्रकरणविच्छेदार्थोऽथशब्दः। एनं कृतसंप्रत्तिकं पितरमेते वागादयः प्राणा देवा हैरण्यगर्भा अमृता अमरणधर्माण आविशन्ति प्रविशन्तीत्यर्थः॥१७॥
पृथिव्यै चैनमग्नेश्चदैवी वागाविशति सा वै
देवी वाग्यया यद्यदेव वदति तत्तद्भवति॥१८॥
दिवश्चैनमादित्याच्च दैवं मन आविशति तद्वै दैवं
मनो येनाऽऽनन्द्येव भवत्यतो न शोचति॥१९॥
अद्भयश्चैनं चन्द्रमसश्च दैवः प्राण आविशति
स वै देवः प्राणो यः संचरँश्चासंचरँश्च
न व्यथतेऽथो न रिष्यति स एवंवित्स-
र्वेषां भूतानामात्मा भवति यथैषा देव-
तैवँ स यथैतां देवताँ सर्वाणि भूतान्यव-
न्त्येवँ हैवंविदँ सर्वाणि भूतान्यवन्ति।
———————————————————————————————————————————————————
तेषामावेशप्रकारमेवाऽऽह—पृथिव्या इति। पृथिव्या अग्नेश्चसकाशाद्दैव्याधिदैविकी वागेनं कृतसंप्रत्तिकं पितरमाविशति। सा हि दैवी वाक्पृथिव्यग्निलक्षणाऽऽध्यात्मिकासङ्गादिदोषैर्निरुद्धा विदुषस्तद्दोषापगम आवरणभङ्गे सत्युदकमितवप्रकाशं प्रदीपवच्च व्याप्नोतीत्यर्थः। सा पुनः कीदृग्विधेत्यत आह—सेति। सा वै दैवी वाग्भवति यया वाचा यद्यदेवाऽऽत्मने परस्मै वा वदति तत्तद्भवत्यनृतादिदोषरहितत्वादित्यर्थः॥१८॥
तथा दिवो द्युलोकादादित्याच्चैनं पितरं दैवं मन आविशति। किं तदित्यत आह—तदिति। तद्वै दैवं मनो येन मनसाऽऽनन्द्येव भवत्यथो अपि शोचत्यपि नेत्यर्थः॥१९॥
अद्भयश्चन्द्रमसश्च सकाशाद्दैवः प्राण एनं पितरमाविशति। क इत्यत आह—स इति। स वै दैवः प्राणो यो जङ्गमेषु संचरन्स्थावरेषु चासंचरन्न व्यथतेऽथो न रिष्यति न विनश्यत्यपि। एवंविदः फलमाह—स इति। य एवं यथोक्तं त्र्यन्नात्मस्वरूपं वेत्ति लभते स सर्वेषां भूतानामात्मा भवति यथैषा पूर्वसिद्धा हिरण्यगर्भदेवतैवं तद्वदस्य सर्वज्ञत्त्वंसर्वकृत्त्वंच सर्वात्मकत्वात्। किंच स इति *दृष्टान्तनिर्देशः168। यथैतां हिरण्यगर्भदेवतामिज्यादिभिः सर्वाणि भूतान्यवन्ति पालयन्ति पूजयन्त्येवं हैवंविदं सर्वाणि भूतान्यवन्तीज्यादिलक्षणां पूजां सततं
यदु किंचेमाः प्रजाः शोचन्त्यमैवाऽऽसां तद्भवति
पुण्यमेवामुं गच्छति न ह वै देवान्पापं गच्छति
॥२०॥ अथातो व्रतमीमाँसा प्रजापतिर्ह कर्माणि
ससृजे तानि सृष्टान्यन्योन्येनास्पर्धन्त वदिष्या-
म्येवाहमिति वाग्दध्रे द्रक्ष्याम्यहमिति चक्षुः
श्रोष्याम्यहमिति श्रोत्रमेवमन्यानि कर्माणि
यथाकर्म तानि मृत्युः श्रमो भूत्वोपयेमे
———————————————————————————————————————————————————
प्रयुञ्जते। नन्वस्य विदुषः सर्वप्राणिनामात्मत्वेन तत्कार्यकरणा169त्मत्वात्सर्वप्राणिदुःखैरस्य170 संबन्धः स्यादित्यत आह—यदिति। यदु किंच यत्किंचेमाः प्रजाः शोचन्त्यवसीदन्ति तच्छोकादिनिमित्तं दुःखमासां प्रजानाममैव स्वात्मभिः सहैव संयुक्तं भवति प्रजाभिः स्वगतं दुःखं स्वात्मनैवोपभुज्यत इति यावत्। अहंममाद्यभिमानत्वात्।171 अमुं प्राजापत्ये पदे वर्तमानं पुण्यमेव पुण्यफलं सुखमेव गच्छति। न ह वै नैव ह स्फुटं देवान्पापं पापफलं दुःखं गच्छत्यहंममाद्यभिमानाभावादस्मदादीनां स्वोदरवर्तिकृम्यादिगतदुःखमिवेत्यर्थः॥२०॥
तत इत्यादिवाक्याद्वाङ्मनःप्राणानां साम्यनिश्चयात्कस्य ध्यानं172 कर्तव्यमुपासकेन कस्य वा कर्म व्रतत्वेन धार्यमिति जिज्ञासायां तदुभयं निश्चेतुमाह—अथेति। अथोपासनोक्त्यनन्तरं यतो जिज्ञासायाः सत्त्वमत एषां वागादीनां मध्ये कस्य कर्म व्रतत्वेन धारयितव्यमिति मीमांसा पूजितो विचारः प्रवर्तते। तत्राऽऽख्यायिकां प्रणयति—प्रजापतिरिति। प्रजापतिर्ह किल कर्माणि वागादिकरणानि173 स्वकर्मार्थत्वात्ससृजे। तानि पुनः सृष्टान्यन्योन्येनेतरेतरमस्पर्धन्त। स्पर्धाप्रकारमाह174—वदिष्यामीति। वदिष्याम्येव स्वव्यापाराद्वदनादनुपरतैवाहं स्यामिति वाग्व्रतंदध्रेघृतवती। द्रक्ष्याम्यहमिति चक्षुर्व्रतं दध्रे। श्रोष्याम्यहमिति श्रोत्रं व्रतं दध्रे। एवं वागादिवदन्यानि कर्माणि घ्राणादीनि करणानि यथाकर्म यद्यस्य कर्म तत्तत्स्वीयव्यापारमनुसृत्य व्रतं दध्रिरे। ततो मृत्युर्मारिकः श्रमः श्रमरूपी भूत्वा तान्येवं व्रतं धारयमाणानि वागादीन्युपयेमे संजग्राह स्वकर्मभ्यः
तान्याप्रोत्तान्याप्त्वा मृत्युरवारुन्ध तस्माच्छ्रा-
म्यत्येव वाक्श्राम्यति चक्षुः श्राम्यति श्रोत्रम-
थेममेव नाऽऽप्रोद्योऽयं मध्यमः प्राणस्तानि
ज्ञातुं दध्रिरे। अयं वै नः श्रेष्ठो यः संचरँश्चासंच-
रँश्चन व्यथतेऽथो न रिष्यति हन्तास्यैव सर्वे
रूपमसामेति। त एतस्यैव सर्वे रूपमभवँस्त-
स्मादेत एतेनाऽऽख्यायन्ते प्राणा इति तेन ह वाव
———————————————————————————————————————————————————
प्रच्यावितवान्। कथमित्यपेक्षायामाह—तानीति। तानि करणानि स्वव्यापारे प्रवृत्तानि मृत्युराप्नोच्छ्रमरूपेणाऽऽत्मानं दर्शितवानाप्त्वा प्राप्य तानि मृत्युरवारुन्धावरोधं स्वकर्मभ्यः प्रच्यावनं कृतवान्। अत्र कार्यगतश्रमलिङ्गकं प्रमाणमाह—तस्मादिति। यस्मात्प्रजापतेर्वागादीनि श्रमविद्धानि तस्मादेवाद्यत्वेऽपितदीयप्रजानां वांक्स्वकर्मणि वदने प्रवृत्ता श्राम्यत्येव श्रमरूपिणा मृत्युना ग्रस्ता स्वकर्मणः175 प्रच्यवते। तथा श्राम्यति चक्षुः श्राम्यति श्रोत्रम् \। अथ वागादिषु भग्नव्रतेषु सत्सु योऽयं मध्यमः प्राण इममेव मुख्यं प्राणं श्रमरूपी मृत्युर्नाऽऽप्नोन्न प्राप्तवान्। अद्यतनप्रजागतप्राणे श्रमादर्शनात्। ततः किमित्यपेक्षायामाख्यायिकामेवानुसृत्याऽऽह—तानीति। तानि वागादीनि तं प्राणं ज्ञातुं दध्रिरे धृतवन्ति मनः। कथम्। अयं वै प्राणो नोऽस्माकं मध्ये श्रेष्ठो यस्माद्यः संचरंश्चासंचरंश्च न व्यथतेऽथो अपि न रिष्यति न विनश्यति। अस्य श्रेष्ठत्वे फलितमाह—हन्तेति। हन्तेदानीं सर्वे वयमस्यैव प्राणस्य रूपं स्वरूपमसाम प्रतिपद्येमहीति। एवं निश्चित्य ते सर्वे वागादय एतस्यैव प्राणस्य रूपमभवन्प्राणरूपमेवाऽऽत्मत्वेन प्रतिपन्नाः सन्तः प्राणव्रतमेव दध्रिरेऽस्मद्व्रतानि न मृत्योर्वारणाय पर्याप्तानीत्यभिप्रायेण। एवं करणानां प्राणरूपत्वमुक्त्वा तन्नामत्वमाह—तस्मादिति। यस्मात्प्रकाशात्मकानि करणानि चलनव्यापारपूर्वकाण्येव स्वव्यापारेषु लक्ष्यन्ते चलनात्मकश्च प्राणस्तस्मादेते वागादय एतेन प्राणाभिधानेनाऽऽख्यायन्ते वागादयोऽपि प्राणा इत्युच्यन्ते। संप्रति विद्याफलमाह—तेनेति। य एवं सर्वकरणानां प्राणात्मतां तच्छब्दाभिधेयतां च वेद स विद्वान्यस्मिन्कुले जातो भवति तत्कुलं तेन ह वाव तेनैव
तत्कुलमाचक्षते यस्मिन्कुले भवति य एवं
वेद य उ हैवंविदा स्पर्धतेऽनुशुष्यत्यनुशुष्य
हैवान्ततो म्रियत इत्यध्यात्मम्॥२१॥
अथाधिदैवतं ज्वलिष्याम्येवाहमित्यग्निर्दध्रे
तप्स्याम्यहमित्यादित्यो भास्याम्यहमिति
चन्द्रमा एवमन्या देवता यथादैवतँ स
यथैषां प्राणानां मध्यमः प्राण एवमे
तासां देवतानां वायुर्म्लोचन्ति ह्यन्या देवता
न वायुः सैषाऽनस्तमिता देवता यद्वायुः
॥२२॥ अथैष श्लोको भवति यतश्चोदेति
———————————————————————————————————————————————————
विदुषा तन्नाम्ना चाऽऽचक्षते लौकिका अमुष्येदं कुलमिति कथयन्ति। किं च यः कश्चिदु हैवंविदा प्राणात्मदर्शिना सह स्पर्धतें प्रतिपक्षी सन्सोऽस्मिन्नेव शरीरेऽनुशुष्य दीर्घकालं शोषं प्राप्यैव ह किलान्ततोऽन्ते म्रियते न सहसाऽनुपद्रुतः। एवमुक्तं प्राणदर्शनमुपसंहरति—इतीति। इत्येवं प्रदर्शितमध्यात्ममित्यर्थः॥२१॥
अथानन्तरमधिदैवतं देवताविषयं दर्शनमुच्यते। कस्य देवविशेषस्य व्रतधारणं श्रेय इति निर्णेतुं पूर्ववद्व्रतमीमांसा प्रारभ्यते। ज्वलिष्याम्येवाहमित्यग्निर्दध्रे तप्स्याम्यहमित्यादित्यो भांस्याम्यहमिति चन्द्रमा एवमन्या देवता विद्युदादिरूपाः। यथादैवतमिति। अध्यात्मवव्द्याख्येयम्। अत्रापि प्राणव्रतमेवाभग्नमित्याह—स इति। स दृष्टान्तो यथैषां प्राणानामाध्यात्मिकानां वागादीनां मध्ये मध्यमः प्राणो मृत्युनाऽनभिभूततया स्वेनैव प्राणव्रतेनाभग्नव्रत एवमेतासामग्न्यादीनां देवतानां मध्ये वायुरपि मृत्युनाऽनभिभूतः सन्स्वेनैव वायुव्रतेनाभग्नव्रतः। एतदेव प्रकटयति—म्लोचन्तीति। हि यस्मादाध्यात्मिकवागादिवदन्या अग्न्यादिदेवता म्लोचन्त्यस्तं यन्ति स्वकर्मभ्य उपरमन्ते न वायुरस्तं याति यथा मध्यमः प्राणस्तस्माद्यद्वायुर्योऽयं वायुः सैषा देवताऽनस्तमिताऽविनाशिव्रतेत्यर्थः॥२२॥
उक्तार्थदार्ढ्यया मन्त्रमाह—अथेति। अथाप्येतस्यैवार्थस्य प्रकाशक एष श्लोको मन्त्रोभवति। यतो यस्माद्वायोः प्राणाच्च क्रमेणाधिदैवतं सूर्योऽध्यात्मं च चक्षुः प्रातःकाले पुरुषप्रबोधकाले च यथाक्रममुदेत्युद्गच्छति यत्र वायौ
सूर्योऽस्तं यत्र च गच्छतीति प्राणाद्वाएष
उदेति प्राणेऽस्तमेति तं देवाश्चक्रिरे धर्मँ स
एवाद्य स उ श्व इति यद्वा एतेऽमुर्ह्यघ्रियन्त
तदेवाप्यद्य कुर्वन्ति। तस्मादेकमेव व्रतं चरे-
त्प्राण्याच्चैवापान्याच्च नेन्मा पाप्मा मृत्युरा-
प्नुवदिति यद्यु चरेत्समापिपयिषेत्तेनो एतस्यै
———————————————————————————————————————————————————
प्राणे चापरसंध्यासमये पुरुषस्य स्वापसमये च यथाक्रमं सूर्यश्चक्षुश्चास्तं गच्छतीति। मन्त्रप्रथमार्धस्य यच्छब्दार्थं ब्राह्मणभाग आह—प्राणादिति। प्राणादधिदैवाध्यात्मरूपादेष सूर्योऽधिदैवतमध्यात्मं च चक्षुरुदेति प्राणेऽस्तमेति। देवा वागादयोऽग्न्यादयश्च तं धर्मं वायुव्रतं प्राणव्रतं चावश्यानुष्ठेयमिति चक्रिरे धृतवन्तः। स एव प्राणवायुव्रतलक्षणो धर्म एवाद्येदानीमनुवर्तते। स उ स एव धर्मः श्वोऽपि भविष्यत्यपि कालेऽनुवर्तिष्यते देवैरिति। मन्त्रोत्तरार्धं संक्षेपतो ब्राह्मणश्रुतिर्व्याकरोति—यद्वा इति॥ अमुर्ह्यमुष्मिन्मीमांसावच्छिन्ने भूतकाल एते वागादयोऽग्न्यादयश्च यद्वै यदेव वायुव्रतं प्राणव्रतं चाध्रियन्त तदेवाद्यापि कुर्वन्त्यनुवर्तन्तेऽनुवर्तिष्यन्ते च। प्रकरणार्थमुपसंहरति—तस्मादिति। यस्माद्वागादयोऽग्न्यादयो वा परिस्पन्दविरहिणः सन्तः स्थातुमशक्ताः प्राणव्रतमेवैकं दध्रिरे तस्मादुपासकोऽप्येकमेव व्रतं चरेत्। किं तदित्यत आह—प्राण्यादिति। प्राण्यात्प्राणनव्यापारं कुर्यादपान्यादपानव्यापारं कुर्यादितरेन्द्रियव्यापारं हित्वा। एतत्प्राणव्रताकरणे बाधकमाह—नेदिति। नेन्मा मां पाप्मा मृत्युः श्रमरूप्याप्नुवत्प्राप्नुयाद्रसेत्। नेदिति परिभये। यद्यहमस्माद्व्रतात्प्रच्युतः स्यां ग्रस्तएवाहं मृत्युनेत्येवं त्रस्तो धारयेत्प्राणव्रतमित्यभिप्रायः। इदं च प्राणव्रतं सर्वेन्द्रियव्यापारोपरमरूपं संन्यासलक्षणमामरणमनुवर्तयेदित्याह—यदिति। यद्यु176चरेद्यदि कदाचित्प्रारभेत प्राणव्रतं तर्हि समापिपयिषेत्समापयितुमिच्छेत्। सर्वभूतेषु वागादयोऽग्न्यादयश्च मदात्मका एवाहं च सूत्ररूपप्राणात्मा सर्वपरिस्पन्दकृदित्येवमुपासकस्य फलमाह—तेनेति। तेन उ प्राणव्रतधारणेनैतस्यै
देवतायै सायुज्यँ सलोकतां जयति॥२३॥
इति प्रथमाध्याये पञ्चमं ब्राह्मणम्॥५॥
त्रयं वा इदं नाम रूपं कर्म तेषां नाम्नां वागि-
त्येतदेषामुक्थमतो हि सर्वाणि नामान्युत्ति-
ष्ठन्ति। एतदेषाँ सामैनद्धि सर्वैर्नामभिः सममे-
तदेषां ब्रह्मेतद्धि सर्वाणिनामानि बिभर्ति॥१॥
———————————————————————————————————————————————————
देवताया एतस्या एव सूत्ररूपप्राणदेवतायाः सायुज्यं सयुग्भावमेकात्मत्वं सलोकतामेकस्थानत्वं वा विद्यामान्द्यापेक्षया जयति प्राप्नोतीत्यर्थः॥२३॥
इति बृहदारण्यकव्याख्यायां मिताक्षराख्यायां प्रथमाध्याये
पञ्चमं ब्राह्मणम्॥५॥
<MISSING_FIG href="../books_images/U-IMG-1733561174Screenshot2024-11-14162430.png"/>
तदेवं योऽन्यां देवतामुपास्त इत्यत्र सूत्रिताया अविद्यायाः साध्यसाधनलक्षणो व्याकृताव्याकृतरूपो विस्तर इयता ग्रन्थेन निरूपितस्तस्यैवेदानीं नामरूपकर्मात्मनोपसंहारं प्रतिपत्तिसौकर्यहेतुभूतं ब्रह्मविद्याधिकारहेतुभूतवैराग्यप्रयोजनकं वक्तुमुपसंहारब्राह्मणं प्रवर्तते—त्रयमिति। इदं यथोक्तव्याकृताव्याकृतात्मकं जगत्त्रयं वै177त्र्यात्मकमेव। किं तत्त्रयमित्यत आह—नाम रूपं कर्मेति। कथमेतदवधार्यत इत्यत आह—तेषामिति। तेषां नामरूपकर्मणां मध्य एषां नाम्नां नामविशेषाणां देवदत्तो यज्ञदत्त इत्येवमादीनां वाक्शब्दसामान्यमित्येतदुक्थमुपादानकारणम्। अत्र हेतुमाह—अत इति। हि यस्मादतोऽस्माद्वाक्शब्दाभिधेयशब्दसामान्यमात्रात्सर्वाणि नामानि देवदत्त इत्येवमादीन्युत्तिष्ठन्त्युत्पद्यन्ते। कथमित्यत आह—एतदिति। एतद्वागभिधानं शब्दरूपमेषां नामविशेषाणां समत्वात्साम सामान्यं तत्र च विशेषाणां कल्पितत्वस्य प्रसिद्धत्वात्। समत्वं साधयति—एतदिति। एतद्वाग्रूपं शब्दसामान्यं सर्वैः स्वविशेषभूतैर्नामभिः सममविशेषेणानुस्यूतमिति हि प्रसिद्धं सामान्याननुविद्धस्य विशेषस्याभावात्। किंचैषां नामविशेषाणामेतत्पूर्वोक्तं शब्दसामान्यं ब्रह्माऽऽत्माऽतः शब्दमात्रात्तद्विशेषाणां न पृथगात्मलाभः। तदेव साधयति—एतद्धीति। हियस्मादेतद्वाग्रूपं शब्दसामान्यं सर्वाणि नामानि विशेषनामानि स्वरूपप्रदानेन बिभर्ति धारयति तस्माच्छब्दसामान्यरूपवाक्कार्यत्वात्तद्विशेषत्वात्तत्र कल्पितत्वादात्मत्वाच्च नामविशेषाणां वाङ्मात्रता सिद्धेत्यर्थः॥१॥
अथ रूपाणां चक्षुरित्येतदेषामुक्थमतो हि सर्वा-
णि रूपाण्युत्तिष्ठन्त्येतदेषाँ सामैतद्धि सर्वै रूपैः
सममेतदेषां ब्रह्मैतद्धि सर्वाणि रूपाणि बिभर्ति
॥२॥ अथ कर्मणामात्मेत्येतदेषामुक्थमतो
हि सर्वाणि कर्माण्युत्तिष्ठन्त्येतदेषाँसामैतद्धि
सर्वैः कर्मभिः सममेतदेषां ब्रह्मेतद्धि सर्वाणि
कर्माणि बिभर्ति तदेतत्त्रयँ सदेकमयमा-
त्माऽऽत्मो एकः सन्नेतत्त्रयं तदेतदमृतँ सत्त्येन
च्छन्नं प्राणो वा अमृतं नामरूपे सत्त्यं
———————————————————————————————————————————————————
अथ नामव्याख्यानानन्तरं रूपाणां सितादिरूपविशेषाणां चक्षुश्चक्षुर्विषयरूपसामान्यं ज्ञेयलक्षणमित्येतदेषां रूपविशेषाणामुक्थमित्यादि पूर्ववत् ॥२॥
अथ कर्मणां सर्वकर्मविशेषाणां मननदर्शनचलनात्मकानामात्माऽऽत्मशब्दवाच्यशरीरनिर्वर्त्यकर्मसामान्यमित्येतदेषामुक्थमित्यादि पूर्ववत्। एवं नामरूकर्मात्मा संक्षिप्तस्यापि जगतः178 संक्षेपान्तरमाह—तदिति। तदेतद्यथोक्तं179 नामरूपकर्माख्यं त्रयं परस्परं संहतं सत्त्रिदण्डविष्टम्भवदेकम्। केनाऽऽत्मनेत्यत आह—अयमिति। अयं प्रत्यक्ष आत्मा कार्य180 करणात्मसंघातः181 पिण्डः। एवं नामादित्रयस्य देहमात्रत्वे कथं व्यवहारासांकर्यमित्यत आह—आत्मेति। आत्मा पिण्ड एकः सन्नप्येतन्नामादित्रयं च भवति नामादिभिन्नस्य देहस्यागृह्यमाणत्वात्। एकस्निन्नपि संघाते कार्यकरणरूपेणावान्तरविभागमाह182—तदेतदिति। तदेतदमृतं सत्येन च्छन्नमित्यस्यार्थं स्वयमेवाऽऽह—प्राण इति। प्राणो वै लिङ्गात्मा183 करणात्मकोऽन्तरूपष्टम्भकश्चैतन्योपाधित्वेन व्यवस्थितोऽमृतममृतभूतः स्थूलदेहे नश्यत्यप्यामोक्षमविनाशित्वात्। नामरूपे पञ्चीकृतभूतात्मके कार्यभूते शरीरस्थे सत्यं सत्यशब्दवाच्ये184 सच्च त्यच्च सत्यमिति
ताम्यामयं प्राणश्छन्नः॥३॥
इति प्रथमाध्याये षष्ठं ब्राह्मणम्॥६॥
इति बृहदारण्यकोपनिषदि प्रथमोऽध्यायः॥१॥
<MISSING_FIG href="../books_images/U-IMG-1733557979Screenshot2024-11-14162430.png"/>
बृहदारण्यकक्रमेण तृतीयोऽध्यायः॥३॥
————————————————————————————————————————————————————
व्युत्पत्तेः। ताभ्यामुक्तनामरूपाभ्यां विराडात्मकस्थूलशरीरात्मकाभ्यामयमुक्तार्थः प्राणो लिङ्गात्मा सूत्राख्यश्छन्नोऽप्रकाशीकृतोऽतः185 प्रत्यगात्मतत्त्वं तु ततोऽपि सुतरां दुर्विज्ञेयमिति तद्विज्ञानाय महान्यत्नः कार्यो मोक्षहेतुत्वादतो186 देहद्वयाभिमानी दोषदृष्ट्या ततो विरक्तो विद्याधिकारीत्युपसंहारश्रुतेर्भावः॥३॥
इति श्रीबृहदारण्यकोपनिषन्मिताक्षरायां षष्ठं ब्राह्मणम्॥६॥
<MISSING_FIG href="../books_images/U-IMG-1733558375Screenshot2024-11-14162430.png"/>
इति श्रीपरमहंसपरिव्राजकाचार्यश्रीपुरुषोत्तमाश्रमपूज्यपादशिष्यनित्यानन्दाश्रमकृतायां
बृहदारण्यकव्याख्यायी मिताक्षराख्यायां प्रथमोऽध्यायः॥१॥
<MISSING_FIG href="../books_images/U-IMG-1733558408Screenshot2024-11-30154935.png"/>
अथ द्वितीयोऽध्यायः।
ॐ दृप्तबालाकिर्हानूचानो गार्ग्य आस स
होवाचाजातशत्रुं काश्यंब्रह्म ते ब्रवाणीति स
होवाचाजातशत्रुः सहस्रमेतस्यां वाचि दद्मो
जनको जनक इति वै जना धावन्तीति॥१॥
स होवाच गार्ग्यो य एवासावादित्ये पुरुष एत-
मेवाहं ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मै-
———————————————————————————————————————————————————
एवं सूत्रात्मनोपासनाद्देहद्वयात्मकाखिलजगतो विरक्तं प्रत्यात्मेत्येवोपासीतेत्यादिना सूत्रितायाः सफलात्मविद्याया विषयीभूतात्मतत्त्वयाथात्म्यांनिरुपणायोत्तराध्यायः प्रवर्तते। तत्र पूर्वाध्यायान्तोक्तसूत्रात्मानमेवाऽऽदित्यचन्द्रादिष्वात्मत्वेनोपास्य तद्रूपतामापन्नो गार्ग्यः187 सिद्धान्तंविवक्षितात्मयाथात्म्यनिरूपणाय पूर्वपक्षवाद्युपस्थाप्यते। मुख्यब्रह्मात्मदर्शी त्वजातशत्रुः सिद्धान्तं वदिष्यञ्श्रोता श्रुत्याऽजातशत्रुर्ब्राह्मणरूपयोपस्थाप्यते सुखबोधाद्यर्थम्188—दृप्तेति। दृप्तो गर्वितोऽसंपूर्णब्रह्मवित्त्वाद्वलाकाया अपत्यं बालाकिर्ह किलानूचानोऽनुवचनसमर्थो गर्गगोत्रापत्यं गार्योब्राह्मण आस बभूव। स पुनः कस्मिंश्चित्समयेऽजातशत्रुनामानं ब्रह्मवित्वान्न जातः शत्रुरस्येति योगात्काश्यंकाशिराजमभिगम्य हे राजंस्ते तुभ्यं मुख्यं ब्रह्म ब्रवाणि कथयामीत्युवाचोक्तवान्। स श्रद्धादिसंपन्नोऽजातशत्रुरेतस्यां ब्रह्म ब्रवाणीत्यस्यां वाचि वचनमात्रे सहस्रं गवां दद्म इति तं ब्राह्मणं प्रत्युवाच। ननु साक्षाद्ब्रह्मकथनमेव सहस्रदानेनिमित्तं कस्मान्नेष्यत इत्याशङ्कायां श्रुती राज्ञोऽभिप्रायमाह—जनक इति। जनको दित्सुर्जनकः शुश्रूषुरिति वै जानन्तो ब्रह्म शुश्रूषवो विवक्षवः प्रतिजिघृक्षवश्च जना ब्राह्मणा धावन्त्यभिगच्छन्त्यतोऽसावपि तथैव मामपि189 संभावयन्नागत इति ब्रह्मकथनं विनैव तद्वचनमात्रेणैव सहस्रं ददामीति राज्ञोऽभिप्राय इत्यर्थः॥१॥ .
एवमभिमुखीभूतं शुश्रूषं राजानं प्रति स गार्ग्योह किलोवाच। य एवासावादित्ये चक्षुषि चैकोऽभिमानी पुरुषश्चक्षुरादिद्वारा हृदि प्रविष्टोऽहं कर्ता भोक्ता चेत्यवस्थित एतमेव पुरुषमस्मिन्संघातेऽहं ब्रह्मोपासे निरन्तरं पश्याम्यतस्तमेव पुरुषं ब्रह्म ब्रवीमि त्वमप्युपास्स्वेत्युक्ते सोऽजातशत्रुर्हकिल मा मेति
तस्मिन्संवदिष्ठा अतिष्ठाः सर्वेषां भूतानां
मूर्धा राजेति वा अहमेतमुपास इति स
य एतमेवमुपास्तेऽतिष्ठाः सर्वेषां भूतानां मूर्धा
राजा भवति॥२॥ स होवाच गार्ग्यो य
एवासौ चन्द्रे पुरुष एतमेवाहं ब्रह्मोपास इति
स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा बृह-
न्पाण्डरवासाः सोमो राजेति वा अहमेतमुपा-
स इति स य एतमेवमुपास्तेऽहरहर्ह सुतः
प्रसुतो भवति नास्यान्नं क्षीयते॥३॥
———————————————————————————————————————————————————
हस्तेन वारयन्नुवाच हे गार्ग्यैतस्मिन्विज्ञेये ब्रह्मणि मा मा संवदिष्ठा मा संवादं कार्षीरहमिदं जानामि। मा मेति द्विरभ्यासस्तु गार्ग्यस्येषद्वाधनार्थः। ननु जानीषे त्वं ब्रह्ममात्रं न तु तद्विशेषणोपासनफलानीत्याशङ्कमानं गार्ग्यमुपलक्ष्य मैवं शङ्किष्ठा यस्मादिदं सर्वमहमपि जानामीत्याह—अतिष्ठा इति। अतीत्य सर्वाणि भूतानि तिष्ठतीत्यतिष्ठाः सर्वेषां भूतानां मूर्धा शिरः पूज्यो राजा च राजते दीप्यत इति व्युत्पत्तेरिति वा एवं विशेषणविशिष्टमेतद्ब्रह्माहं कार्यकरणसंघाते190 कर्तृभोक्तृ च पुरुषरूपमुपासेऽनवरतं पश्यामि य एवमुक्तगुणत्रयविशिष्टमेतमुपास्ते सोऽतिष्ठाः सर्वेषां भूतानां मूर्धा राजा च भवतीति यथागुणोपासनमेव हि फलम्॥२॥
एवं संवदेनाऽऽदित्ये ब्रह्मण्यजातशत्रुणा प्रत्याख्यातेऽनन्तरं चन्द्रमसि गार्ग्यः प्रतिपन्नवानित्याह। स होवाच गार्ग्यो य एवासौ चन्द्रे मनसि चैक इत्यादि पूर्ववत्। बृहन्महान्पाण्डरं शुक्लं वासो यस्यासौ पाण्डरवासाश्चन्द्राभिमानिनः प्राणस्याब्वासत्वात्। सोमो राजा चन्द्रसोमवल्ल्पात्मकः। अस्योपासकस्य प्रकृत्यात्मके यज्ञेऽहरहर्हकिल सोमः सुतः कृतकण्डनो भवति। विकृत्यात्मके च यज्ञे प्रसुतः प्रकृष्टं सुतरां कण्डितो191 भवति। उभयविधयज्ञानुष्ठानसामर्थ्यं भवतीत्यर्थः॥३॥
स होवाच गार्ग्यो य एवासौ विद्युति पुरुष
एतमेवाहं ब्रह्मोपास इति स होवाचाजातश-
त्रुर्मा मैतस्मिन्संवदिष्ठास्तेजस्वीति वा अहमेत-
मुपास इति स य एतमेवमुपास्ते तेजस्वी ह
भवति तेजस्विनी हास्य प्रजा भवति॥४॥
स होवाच गार्यो य एवायमाकाशे पुरुष एत-
मेवाहं ब्रह्मोपास इति स होवाचाजातशत्रुर्मा
मैतस्मिन्संवदिष्ठाः पूर्णमप्रवर्तीति वा अहमेतमु-
पास इति स य एतमेवमुपास्ते पूर्यते प्रजया
पशुभिर्नास्यास्माल्लोकात्प्रजोद्वर्तते॥५॥ स
होवाच गार्ग्यो य एवायं वायौ पुरुष एतमे-
वाहं ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैत-
स्मिन्संवदिष्ठा इन्द्रो वैकुण्ठोऽपराजिता सेनेति
वा अहमेतमुपास इति स य एतमेवमुपास्ते
जिष्णुर्हापराजिष्णुर्भवत्यन्यतस्त्यजायी॥६॥
———————————————————————————————————————————————————
तथा विद्युति त्वचि हृदि चैका देवता। गुणफले192 सुबोधे॥४॥
तथाऽऽकाशे हृद्याकाशे हृदये चैका पूर्णत्वगुणफलं पूर्यते प्रजया पशुभिः। अप्रवर्ति न प्रवर्तयति स्वयं वा न प्रवर्तत इत्यप्रवर्ति। एतद्गुणफलं नास्यास्माल्लोकात्मजोद्वर्तते विच्छिद्यते॥५॥
तथा वायौ प्राणे हृदि चैका तस्या विशेषणम्। इन्द्रः परमेश्वरः। वैकुण्ठोऽप्रसह्यः। न परैर्जिता सेना तद्रूपः। क्रमेणैतद्गुणत्रयफलमाह—स य इति। जयनशीलो जिष्णुः। न परैर्जितः स्वभावो यस्येत्यपराजिष्णुः। अन्यतो मातृसपत्नीतो मात्रन्तराद्वा जाता अन्यतस्त्यास्ताञ्जेतुं शीलमस्येत्यन्यतस्त्यजायी॥६॥
स होवाच गाग्र्यो य एवायमग्नौपुरुष एतमे-
वाहं ब्रह्मोपास इति स होवाचाजातशत्रुर्मा
मैतस्मिन्संवदिष्ठा विषासहिरिति वा अहमेतमु-
पास इति स य एतमेवमुपास्ते विषासहिर्ह
भवति विषासहिर्हास्य प्रजा भवति॥७॥
स होवाच गाग्र्यो य एवायमप्सु पुरुष एतमे-
वाहं ब्रह्मोपास इति स होवाचाजातशत्रुर्मा
मैतस्मिन्संवदिष्ठाःप्रतिरूप इति वा अहमेत-
मुपास इति स य एतमेवमुपास्ते प्रतिरूपँ है-
वैनमुपगच्छति नाप्रतिरूपमथो प्रतिरूपोऽस्मा-
ज्जायते॥८॥ स होवाच गार्ग्यो य एवाय-
मादर्शे पुरुष एतमेवाहं ब्रह्मोपास इति स
होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा रोचिष्णु-
रिति वा अहमेतमुपास इति स य एतमेवमुपास्ते
रोचिष्णुर्ह भवति रोचिष्णुर्हास्य प्रजा भवत्यथो
यैः संनिगच्छति सर्वाँस्तानतिरोचते॥९॥
———————————————————————————————————————————————————
अग्नौ वाचि हृदि चैका तस्या विशेषणं विषासहिः सहत इति सासहिर्विशेषेण प्रक्षिप्तं सर्वंभस्मीकरणेन सहत इति विषासहिरग्निः फलोक्तौ विषासहिःपरेषां मर्षयिता॥७॥
अप्सु रेतसि हृदि चैका तस्या विशेषणं प्रतिरूपोऽनुरूपः श्रुत्याद्यनुकूलः फलं प्रतिरूपं श्रुत्यादिशासनानुरूपमेवैनमुपगच्छति नाप्रतिरूपं न विपरीतमथो अप्यस्मादुपासकात्प्रतिरूपः श्रुत्याद्यनुकूल एव पुत्रो जायते न विपरीत इत्यर्थः॥८॥
आदर्शे प्रसादस्वाभाव्ये तादृशे खड्गादौ च हार्दे चैका तस्या विशेषणं रोचिष्णुर्दीप्तिस्वभावः॥९॥
स होवाच गाग्र्यो य एवायं यन्तं पश्चाच्छ-
ब्दोऽनूदेत्येतमेवाहं ब्रह्मोपास इति स होवा-
चाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा असुरिति वा
अहमेतमुपास इति स य एतमेवमुपास्ते सर्वँ
हैवास्मिल्ँ लोक आयुरेति नैनं पुरा कालात्प्राणो
जहाति॥१०॥ स होवाच गाग्र्यो य एवायं
दिक्षु पुरुष एतमेवाहं ब्रह्मोपास इति स होवा-
चाजातशत्रुर्मा मैतस्मिन्संवदिष्ठाद्वितीयोऽन-
पग इति वा अहमेतमुपास इति स य एतमे-
वमुपास्ते द्वितीयवान्ह भवति नास्माद्गणश्छिं-
द्यते॥११॥ स होवाच गाग्र्यो य एवायं
छायामयः पुरुष एतमेवाहं ब्रह्मोपास इति स
होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा मृत्यु-
रिति वा अहमेतमुपास इति स य एतमेवमु-
पास्ते सर्वँहैवास्मिल्ँ लोक आयुरेति नैनं पुरा
कालान्मृत्युरागच्छति॥१२॥
———————————————————————————————————————————————————
यन्तं गच्छन्तं पश्चात्पृष्ठतः शब्दोऽनुदेत्युत्पद्यते। यश्चाध्यात्मं जीवनहेतुःप्राणस्तमेकीकृत्योपासे तस्य विशेषणमसुर्जीवनहेतुः फलं सर्वं संपूर्णं यावत्कर्मोपात्तमायुरस्मिल्लोँक एति गच्छति कर्मपरिच्छिन्नकालात्पूर्वमेनंरोगादिना पीड्यमानमपि प्राणो न जहाति न त्यजति॥१०॥
दिक्षु कर्णयोर्हृदि चैका देवताऽश्विनौ तस्यां विशेषणं द्वितीयो द्वितीयवत्त्वमनपगतत्वमन्योन्यमबियुक्तता च दिशामश्विनोश्चैवंधर्मित्वात्। तादृशमेव फलं द्वितीयवान्साधुभृत्यादिमानस्मादुपासकाद्गणः समूहश्च न विच्छिद्यते॥११॥
छायायां बाह्ये तमस्यध्यात्मं चाऽऽवरणात्मकेऽज्ञाने हृदि चैका तस्या विशेषणं मृत्युः फलं च शब्दब्रह्मोपासकस्येवैतावांस्तु विशेषो यन्मृत्योरागमनात्प्राग्रोगादिपीडाया अप्यभावः॥१२॥
स होवाच गार्ग्यो य एवायमात्मनि पुरुष
एतमेवाहं ब्रह्मोपास इति स होवाचाजातश-
त्रुर्मा मैतस्मिन्संवदिष्ठा आत्मन्वीति वा अह-
मेतमुपास इति स य एतमेवमुपास्त आत्मन्वी
ह भवत्यात्मन्विनी हास्य प्रजा भवति स ह
तूष्णीमास गार्ग्यः॥१३॥ स होवाचाजात-
शत्रुरेतावन्नू३ इत्येतावद्धीति नैतावता विदितं
भवतीति स होवाच गार्ग्य उप त्वा
यानीति॥१४॥ स होवाचाजातशत्रुः
प्रतिलोमं चैतद्यद्ब्राह्मणः क्षत्रियमुपेयाद्ब्रह्म
मे वक्ष्यतीति व्येव त्वा ज्ञपयिष्यामीति
———————————————————————————————————————————————————
व्यस्तानि ब्रह्माण्युपदिश्य समस्तमुपदिशति—स होवाचेति। आत्मनि प्रजापतौ बुद्धौ च हृदि चैका तस्या विशेषणमात्मन्वीवश्य आत्मा विद्यते यस्यासावात्मन्वी स्वतन्त्रः। फलमात्मन्वीत्यादि। एवमजातशत्रुणा स्वयं परिज्ञातत्वेनैव क्रमेण प्रत्याख्यातेषु ब्रह्मसु स गाग्र्यो ह किलाप्रतिभासमानोत्तरस्तूष्णीमवाक्शिरा आस॥१३॥
तमेवंभूतमालक्ष्य सोऽजातशत्रुर्होवाच। किमेतावदेव ब्रह्म निर्ज्ञातमाहोस्विदधिकमप्यस्तीति विचारार्था प्लुतिः। गार्ग्य आह—एतावद्धीति। एतावदेव नातः परं विदितमस्ति। अजातशत्रुराह—नेति। नैतावता मुख्यं ब्रह्म त्वया विदितं भवतीति वदता राज्ञाऽधिकमपि ज्ञातव्यमस्तीत्युक्तं भवति। तच्चानुपसन्नाय न वक्तव्यमित्याचारविधिज्ञः स गार्ग्यः स्वयमेव ह किलोवाच यथाऽन्यः शिष्यो गुरुमुपेयात्तथाऽहं त्वा त्वामुपयान्युपेयामित्यर्थः193॥१४॥
एवमुक्ते सोऽजातशत्रुर्होवाच प्रतिलोमं विपरीतं चैतद्यद्ब्राह्मण उत्तमवर्ण आचार्यत्वेऽधिकृतः सन्क्षत्त्रियमनाचार्यस्वभावमुपेयादुपगच्छेच्छिष्यवृत्त्या ब्रह्म मे वक्ष्यतीत्येवं तस्माद्धे गार्ग्य त्वमाचार्य एव तिष्ठाहं तु त्वां यस्मिञ्ज्ञाते सर्वविद्भवेत्तद्ब्रह्म विज्ञपयिष्याम्येव विज्ञापनमेव194 करिष्यामि। एवं प्रतिज्ञातब्र-
तं पाणावादायोत्तस्थौ तौ ह पुरुषँसुप्तमाज-
ग्मतुस्तमेतैर्नामभिरामन्त्रयांचक्रे बृहन्पाण्डर-
वासः सोम राजन्निति सनोत्तस्थौ तं पाणि-
नाऽऽपेषं बोधयांचकार स होत्तस्थौ॥१५॥
स होवाचाजातशत्रुर्यत्रैष एतत्सुप्तोऽभूद्य एष
विज्ञानमयः पुरुषः क्वैष तदाऽभूत्कुत एतदा-
गादिति तदु ह न मेने गार्ग्यः॥१६॥
———————————————————————————————————————————————————
ह्मबोधो यथा स्यात्तथोपक्रमत इत्याह—तमिति। तं गार्ग्यं सलज्जं राजा पाणौ हस्त आदाय गृहीत्वा तस्य विश्वासजननायोत्तस्थावुत्थितवान्। ततस्तौ हगार्ग्याजातशत्रू क्वचिद्राजगृहप्रदेशे सुप्तं पुरुषं प्रत्याजग्मतुरागतौ। तंतु सुप्तपुरुषं बृहन्पाण्डरवासः सोम राजन्नित्येतैर्नामभिरामन्त्रयांचक्रे राजा। एवमामन्त्रितोऽपि सुप्तः पुरुषो नोत्तस्थौ नैवोत्थितः। तमप्रतिबुध्यमानं पुरुषं पाणिना हस्तेनाऽऽपेषमापिष्याऽऽपिष्य बोधयांचकार बोधितवान्। ततः स पुरुषो ह किलोत्तस्थावुत्थितवान्। तथाच बृहन्नित्यादिप्राणात्मचन्द्रादिनाम्ना संबोधनेन गार्ग्याभिमतप्राणदेवतातिरिक्त एवाऽऽत्माऽस्मिञ्शरीरे कर्ता भोक्ता न प्राण इति निश्चितम्। अन्यथोच्छ्वासनिश्वासरूपेण व्याप्रियमाणस्य प्राणस्य संबोधनाश्रवणमनुत्थानं च न स्यात्। आपेषणेन च संघातो भोक्ता नेति निर्णीतमन्यथा स्पर्शमात्रेणाप्युत्थानं स्यादित्यर्थः॥१५॥
अस्याऽऽत्मनः स्वाभाविकस्वरूपबोधनेच्छया सोऽजातशत्रुः स्वयमेव गार्ग्यं प्रत्युवाच हे गार्ग्य य एष प्रसिद्धो विज्ञानमयो विज्ञायतेऽनेनेति विज्ञानं बुद्धिस्तन्मयस्तत्प्रायः पुरुषः पुरि देहे शयनात्कल्पितानात्मनः पूरणात्पुरुष एष यत्र यस्मिन्पाणिपेषणप्रतिबोधात्प्राक्काल एतत्स्वपनं यथा भवति तथा सुप्तोऽभूत्तदैष विज्ञानमयः क्व कस्मिन्स्वाभाव्ये कीदृग्विधे स्वरूपे स्थितोऽभूत्कुतः कीदृग्विधात्स्वरूपात्प्रच्युतः सन्नेतदागमनं यथा स्यात्तथाऽऽगादागतः पाणिपेषणोत्तरकाल इति। एवं पृष्टो गार्ग्यः किमुक्तवानित्यत आह—तदिति। तदु ह यद्विज्ञानमयस्य स्वापे संवेशनस्थानं यतश्च स्थानाज्जागरिते कार्यकरणसंघातचेतयितृत्वेनाऽऽगमनं195 तत्स्थानं स्वरूपभूतं गार्ग्यः किल न मेने नैव ज्ञातवानित्यर्थः॥१६॥
स होवाचाजातशत्रुर्यत्रैष एतत्सुप्तोऽभूद्य एष
विज्ञानमयः पुरुषस्तदेषां प्राणानां विज्ञानेन
विज्ञानमादाय य एषोऽन्तर्हृदय आकाशस्त-
स्मिञ्शेते तानि यदा गृह्णात्यथ हैतत्पुरुषः
स्वपिति नाम तद्गृहीत एव प्राणो भवति
गृहीता वाग्गृहीतं चक्षुर्गृहीतँ श्रोत्रं गृहीतं
मनः॥१७॥
——————————————————————————————————————————————————
तदपि जाग्रदादौ कर्तृत्वभोक्तृत्वादि नाऽऽत्मनः स्वाभाविकं किं तु वागाद्युपाधिसंबन्धकृतमेव सुषुप्तौ तद्व्यतिरेकेण कर्तृत्वादेर्व्यतिरेकदर्शनादिति दर्शयितुं प्रथमप्रश्नस्योत्तरं तदनुवादपूर्वकमाहेत्याह। स होवाचाजातशत्रुर्यत्र196 यस्मिकाले सुप्तो197 विशेषविज्ञानरहितोऽभूद्य एष विज्ञानमयः पुरुषस्तत्तस्मिन्काल एषां198 चिदात्मतदाभासप्राणानां199 वागादीनां विज्ञानं स्वविषयप्रकाशनसामर्थ्यं विज्ञानेन चैतन्याभासलक्षणेन200 करणेनाऽऽदाय201 गृहीत्वाऽन्तर्हृदये हृदयमध्ये हृदयाकाशे202 हृदयकोटरे203 हृदयस्थायां बुद्धौ यो वेदान्तप्रसिद्ध एष विद्वदनुभवसिद्ध204 आकाशः परमात्मा जीवस्य स्वाभाविकस्वरूपभूतस्तस्मिन्परमात्मन्यसंसारिस्वभावे लिङ्गोपाधिकृतं विशेषात्मस्वभावमुत्सृज्य शेते वर्तते। तथाच श्रुत्यन्तरम्—“सता सोम्य205 तदा संपन्नो भवति” इति। एतत्कथमवगम्यत इत्यपेक्षायां नामप्रसिद्ध्येत्याह—तानीति। तानि वागादीनि यदा गृह्णात्यादत्तेऽथ तदा ह किल पुरुष इति पुरुषस्य स्वपितीत्येतन्नाम यौगिकं206 भवति स्वमेवाऽऽत्मानमपीत्यपिगच्छतीति व्युत्पत्तेः स्वमपीतो भवति तस्मादेनँ स्वपितीत्याचक्षत इति श्रुत्यन्तरे स्वयमेव नामनिर्वचनसामर्थ्यात्। एवं नामप्रसिद्धेरस्यासंसार्यात्मस्वरूपावस्थानेऽवगतेऽप्यत्र का वा युक्तिरित्यत आह—तदिति। तत्तत्र स्वापकाले गृहीत एव प्राणो घ्राणेन्द्रियं वाक्चक्षुः श्रोत्रं मनश्च गृहीतं भवति। तथाचैतत्संबन्धाभावात्स्वापे कर्तृत्वाद्यसंबन्धो जाग्रदादौ चैतत्संबन्धात्कर्तृत्वाद्यतस्तदुपाधिकमेवेति निश्चितम्॥१७॥
स यत्रैतत्स्वप्न्यया चरति ते हास्य लोका-
स्तदुतेव महाराजो भवत्युतेव महाब्राह्मण
उतेवोच्चावचं निगच्छति स यथा महा-
राजो जानपदान्गृहीत्वा स्वे जनपदे यथा-
कामं परिवर्तेतैवमेवैष एतत्प्राणान्गृहीत्वा स्वे
शरीरे यथाकामं परिवर्तते॥१८॥
———————————————————————————————————————————————————
ननु स्वप्ने वागादिसंबन्धाभावेऽपि207 कर्तृत्वादिसंसारस्य दर्शनाद्व्यतिरेकासिद्धिरित्याशङ्कायां तत्रापि जाग्रद्वासनायाः सत्त्वात्तत्परिकल्पितस्य च स्वप्नप्रपञ्चस्य मिथ्यात्वान्न व्यतिरेकासिद्धिरतोऽस्य स्वतः शुद्धत्वमेवेत्यभिप्रेत्याऽऽह—स इति। स प्रकृत आत्मा यत्र यस्मिन्काले दर्शनलक्षणया स्वप्न्यया स्वप्नवृत्त्याचरति वर्तते तदा ह प्रसिद्धा अस्याऽऽत्मनस्ते वक्ष्यमाणा लोकाः कर्मफलानि। के त इत्यत आह—तदिति। तत्तत्र स्वप्नकाल उतापि महाराज इव भवति न पुनर्जागरित इव साक्षान्महाराजत्वम्। तथोत महाब्राह्मण इवोताप्युच्चं देवत्वाद्यवचं तिर्यक्त्वादीत्युच्चावचमिव निगच्छति। तथाचेवशब्दप्रयोगद्व्यभिचारदर्शनाच्चैते208 लोका मृषैव नास्याऽऽत्मभूता इति209। दृश्यत्वान्नाडीषुदृष्टस्वाप्निकपदार्थानां योग्यदेशकालाद्यभावाच्च ते मिथ्याभूता एव। ननु देहाद्बहिरेव स्वाप्निकपदार्थदर्शनान्न योग्यदेशाद्यसंभव इत्याशङ्कायां210दृष्टान्तपूर्वकमुत्तरमाह—स यथेति। स दृष्टान्तो यथा महाराजः सार्वभौमो211 देहस्थ एव सन्पर्यङ्के212 शयान उपसंहृतकरणः स्वप्नान्पश्यञ्जानपदाञ्जनपदे देशे संजाताञ्जा213ग्रद्वासनापरिकल्पितात्राजोपकरणभूतान्भृत्यादीन्गृहीत्वोपादाय214 स्व आत्मीये जनपदे215 जयादिनो216पार्जिते217 देशे यथाकामं218 काममनतिक्रम्य यथेच्छं परिवर्तते परिक्रामेज्जाग्रत्कालवदुपगतप्रकृतिं219 तदवच्छिन्नांश्च भोगान्भुञ्जानमिव स्वात्मानं पश्यतीति यावत्। एवमेष विज्ञानमय आत्मा। एतदिति क्रियाविशेषणम्। प्राणान्वागादीञ्जागरितस्थानेभ्यो गृहीत्वा संहृत्य स्वे शरीरे स्वे देह एव यथाकामं परिवर्तते न बहिरित्यर्थः॥१८॥
अथ यदा सुषुप्तो भवति यदा न
कस्यचन वेद हिता नाम नाड्यो
द्वासप्ततिः सहस्राणि हृदयात्पुरीततम-
भिप्रतिष्ठन्ते ताभिः प्रत्यवसृप्य पुरीतति
शेते स यथा कुमारो वा महाराजो वा
———————————————————————————————————————————————————
यथाकामं परिवर्तत इत्युक्तत्वात्कामादिसंबन्धस्यास्य स्वाभाविकत्वादशुद्धत्वमित्याशङ्कायां तत्संबन्धस्य सुषुप्तौ व्यतिरेकदर्शनेनास्वाभाविकत्वाच्छुद्धत्वमेव स्वाभाविकमिति वक्तुमाह—अथेति। अथ220पुनर्जाग्रत्स्वप्नयोर्व्यतिरेकशुद्धिकथनानन्तरमवस्थाद्वयद्रष्टा221 यदा यस्मिन्काले सुषुप्तौ विशेषज्ञानविक्षेपाभावेन संप्रसन्नः स्वस्वरूपब्रह्मैकतां222 गतो भवति तदा सुतरां शुद्धः सलिलमिव त्यक्तान्यसंबन्धः223। कदा सुषुप्तो भवति। यदा यस्मिन्काले न कस्यचन न कंचन विषयं वेद जानाति तदा सुषुप्तो भवति। केन क्रमेणेत्यत आह—हिता224 इति। हितफलप्राप्तिनिमित्तत्वाद्धिता इत्येवं नाम्न्यो नाड्यः शिरा देहस्यान्नपरिणामहेतुभूतास्ताश्च द्वाभ्यां सहस्राभ्यामधिका सप्ततिर्द्वासप्ततिः सहस्राणि225। ताः पुनर्हृदयात्पुरीततमभिप्रतिष्ठन्ते हृदयं नामोदरवक्षःप्रदेशयोर्मध्यस्थितः पुण्डरीकाकारो मांसपिण्डस्तत्परिवेष्टनं पुरीतदित्युच्यते। इह पुनस्तदुपलक्षितं शरीरं पुरीतदिति कथ्यते। तथाच हृदयात्पुरीततं शरीरमभिप्रतिष्ठन्तेऽभितो निःसरन्ति कृत्स्त्रं शरीरं व्याप्नुवत्योऽश्वत्थपर्णराजय इव बहिर्मुख्यः226 प्रवृत्ता इति यावत्। ततः किमित्यत आह—ताभिरिति। ताभिर्नाडीभिः कृत्वा प्रसिद्धाज्जागरणाज्जाग्रद्विषयाया बुद्धेः कर्मवशात्प्रत्यवसर्पणमनु विज्ञानमय इन्द्रियाणि प्रत्यवसृप्योपसंहृत्य पुरीतति शरीरे शेते दुःखाननुविद्धसुखस्वाभाव्ये वर्तते। ननु पूर्वं विज्ञानमयो हृदयाकाशे ब्रह्मणि शेत इत्युक्त्वेदानीं227 पुरीतच्छयनमाचक्षाणस्य कथं न पूर्वापरविरोधः स्यादिति चेत्सत्यं स्वाभाविक एव स्वात्मनि वर्तमानोऽपि कर्मानुगतबुद्ध्यनुवृत्तित्वात्पुरीतति शेत इत्युपचारादुच्यतेऽतो नोक्तविरोधः। उक्तं शयनं दृष्टान्तपूर्वकमाह—स इति। स228यथा कुमारो वाऽत्यन्तं बालो महाराजो वाऽत्यन्तं वश्य-
महाब्राह्मणो वाऽतिघ्नीमानन्दस्य गत्वा शयी-
तैवमेवैष एतच्छेते॥१९॥ स यथोर्णनाभि-
स्तन्तुनोच्चरेद्यथाऽग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चर-
न्त्येवमेवास्मादात्मनः सर्वे प्राणाः सर्वे लोकाः
सर्वे देवाः सर्वाणि भूतानि व्युच्चरन्ति तस्यो-
पनिषत्सत्यस्य सत्यमिति प्राणा वै सत्यं तेषा-
मेष सत्यम्॥२०॥
इति श्रीबृहदारण्यकोपनिषदि द्वितीयाध्यायस्य प्रथमं ब्राह्मणम्॥१॥
———————————————————————————————————————————————————
प्रकृतिको महाब्राह्मणो वाऽत्यन्तं परिपक्वविद्याविनयसंपन्नो यथोक्तकार्यतिघ्नीमतिशयेन दुःखं हन्तीत्यविघ्न्यानन्दस्य सुखस्यावस्था तां गत्वा प्राप्य शयीत दुःखाननुविद्धसुखस्वाभाव्येऽवतिष्ठेतैवमेवैष विज्ञानमयः सर्वसंसारधर्मातीत एतच्छयनं यथा स्यात्तथा शेते सुषुप्तौ वर्तत इत्यर्थः॥१९॥
एवं क्वैष तदाऽभूदितिपूर्वप्रश्नप्रतिवचनेनास्य स्वतोसंसारित्वकथनद्वारा ब्रह्मत्वमुक्तमिदानीं तस्याद्वितीयत्वं प्रकटयितुं कुत एतदागादिति द्वितीयप्रश्नस्य प्रतिवचनं क्वेत्याद्यधिकरणादिभेदभ्रमनिवृत्तय आह—स इति। स दृष्टान्तो यथोर्णनाभिरूर्णनाभिर्लूताख्यः कीटविशेषोऽसहाय एव संस्तन्तुं सृष्ट्वा तेन तन्तुना स्वात्मनोऽप्रविभक्तेनोच्चरेदुद्गच्छेत्। यथा वैकरूपादेकस्मादग्नेः सकाशात्क्षुद्रा अल्पा विस्फुलिङ्गा अग्न्यवयवा व्युच्चरन्ति विविधं नानामुखेनोच्चरन्त्युद्गच्छन्ति प्रसर्पन्ति। असहायस्याविक्रियस्य च कारणत्वे यथेमौदृष्टान्तावेवमेव विज्ञानमयस्य प्राक्प्रबोधात्स्वापे स्वरूपभूत आकाश इत्युक्त इत्येतस्मादात्मनः सकाशात्सर्वे प्राणा वागादयः सर्वे लोका भूरादयः सर्वकर्मफलभूताः सर्वे देवाः प्राणलोकाधिष्ठातारोऽग्न्यादयः सर्वाणि भूतानि ब्रह्मादिस्तम्बपर्यन्तानि प्राणिजातानि व्युच्चरन्ति जलबुद्बुदादिवत्स्थितिं229 लयं च यस्मिन्गच्छन्ति तस्याऽऽकाशशब्देनोक्तस्याऽऽत्मनो ब्रह्मण उपनिषदिति नामोप समीपं नि नितरां230 सादयति गमयति विज्ञानात्मानमिति व्युत्पत्तेः। काऽसावुपनिषदित्यत आह—सत्यस्य सत्यमितीति। किं पुनः सत्यं किंवासत्यस्य सत्यमित्यत आह—प्राणा इति। प्राणा वै सत्यं सच्च त्यच्चेति व्युत्पत्तेः। तेषां प्राणानां मध्य एष उक्त आत्मा सत्यमबाध्यं तत्त्वम्॥२०॥
इति बृहदारण्यकोपनिषन्मिताक्षरायां द्वितीयाध्यायस्य प्रथमं ब्राह्मणम्॥१॥
यो ह वै शिशुँ साधानँ सप्रत्याधानँ सस्थू-
णँ सदामं वेद सप्त ह द्विषतो भ्रातृव्यान-
वरुणद्धि। अयं वाव शिशुर्योऽयं मध्यमः-
प्राणस्तस्येदमेवाऽऽधानमिदं प्रत्याधानं प्राणः
स्थूणाऽन्नं दाम॥१॥
———————————————————————————————————————————————————
एवं प्राणा वै सत्यमित्यादिब्राह्मणभागेन व्याख्याताया अप्युपनिषदो विशेषतोऽर्थप्रकटनाय ब्राह्मणद्वयं तत्र प्राणा वै सत्यमित्यन्तेनोक्तप्राणोपनिषद्व्याख्यानाय231 शिशुब्राह्मणं प्रवर्तते—यो हेति। यो ह वै साधानं सप्रत्याधानं सस्थूणं सदामं च शिशुं वेदोपास्ते स ह किल सप्त चक्षुर्द्वयनासिकाद्वयश्रोत्रद्वयमुखात्मकसप्तच्छिद्रायतनानि सप्तसंख्याकानीन्द्रियाणि विषयासक्तत्वाद्द्विषतो भ्रातृव्याञ्शत्रूनवरुणद्धि जितेन्द्रियो भवति। एवं फलेन प्रलोभितं को वा शिश्वादिपदार्थ इत्युत्पन्नजिज्ञासं प्रति तानाह—अयमिति। अयं वावायमेक शिशुः शिशुरिव शिशुर्विषयेष्वितरकरणवदनासक्तत्वात्। कोऽसौ योऽयं मध्यमः शरीरमध्यस्थः प्राणो लिङ्गशरीरात्मा बृहन्पाण्डरवास इत्याद्युक्तः षड्वीशशङ्कूनित्यादिना वक्ष्यमाणस्तस्य शिशोः प्राणस्य वत्सस्थानीयस्य करणात्मन इदं कार्यात्मकं शरीरमेवाऽऽधानमाधीयतेऽस्मिन्नित्याधानमधिष्ठानं तस्य प्राणस्येदं प्रसिद्धं शिरो मस्तकं प्रत्याधानं तत्र हि श्रोत्रादिच्छिद्रेषु प्रत्येकमाधीयत इति व्युत्पत्तेः। प्राणो बलापरपर्यायान्नपानादिजनिता शक्तिः स्थूणाऽवष्टम्भो बलावष्टम्भेनैव प्राणस्यास्मिञ्शरीरेऽवस्थानात्232। यद्वा प्राण उच्छ्वासनिश्वासकर्मा वायुः शारीरः स्थूलशरीरपक्षपाती स्थूणा। तस्य शिशोर्भुक्तमन्नमशितं233 दाम वत्सस्येव बन्धनरज्जुः। तद्ध्यन्नं त्रिधा परिणम्यमानं सूक्ष्ममध्यमरूपेण द्विरूपदामलक्षणमुभयतःपाशभूतं सद्यथाक्रमं लिङ्गपक्षपातिशिश्वाख्यप्राणस्थूलशरीरयोः234 स्थूलवाय्वाख्यायामन्नपानजशक्त्याख्यायां वा स्थूणायां बन्धनहेतुस्तस्य कर्मक्षयात्क्षयात्प्राणोत्क्रान्तेरित्यर्थः॥१॥
इदानीं तस्यैव शिशोः प्रत्याधाने शिरस्यारूढस्य चक्षुषि काश्चनोपनिषदः
तमेताः सप्ताक्षितय उपतिष्ठन्ते तद्या इमा अक्ष-
न्लोहिन्यो राजयस्ताभिरेनँरुद्रोऽन्वायत्तोऽथ
या अक्षन्नापस्ताभिः पर्जन्यो या कनीनका
तयाऽऽदित्यो यत्कृष्णं तेनाग्निर्यच्छुक्लंतेनेन्द्रोऽ-
धरयैनं वर्तन्या पृथिव्यन्वायत्ता द्यौरुत्तरया
नास्यान्नं क्षीयते य एवं वेद॥२॥ तदेष
श्लोको भवति। अर्वाग्बिलश्चमस ऊर्ध्वबुध्न-
स्तस्मिन्यशो निहितं विश्वरूपम्। तस्याऽऽ-
सत ऋषयः सप्त तीरे वागष्टमी ब्रह्मणा संवि-
दानेति। अर्वाग्बिलश्चमस ऊर्ध्वबुध्न इतीदं
तच्छिर एष ह्यर्वाग्बिलश्चमस ऊर्ध्वबुध्नस्तस्मि-
———————————————————————————————————————————————————
प्रदर्श्यन्ते—तमिति। तमुक्तार्थकं प्राणमेता वक्ष्यमाणाः सप्तसंख्याका अक्षयहेतुत्वादक्षितय उपतिष्ठन्त उपस्थानं कुर्वन्ति। कास्ता इत्यत आह—तदिति। तत्तत्र या इमाः प्रसिद्धा अक्षन्नक्षणि लोहिन्यो लोहिता राजयो रेखास्ताभी रेखाभिर्द्वारिभूताभिरेनं मध्यमं प्राणं रुद्रोऽन्वायत्तोऽनुगत उपतिष्ठत इति यावत्। तथाऽथानन्तरं या अक्षन्नापो धूमादिसंयोगेनाभिव्यज्यमानास्ताभिः पर्जन्यो देवतात्माऽन्वायत्तो या कनीनका चक्षुषि दृक्शक्तिस्तयाऽऽदित्योऽन्वायत्तः। यत्कृष्णं चक्षुषि तेनाग्निरन्वायत्तो यच्छुक्लं चक्षुषि तेनेन्द्रोऽन्वायत्तोऽधरयाऽधस्तन्या वर्तन्या पक्ष्मणैनं मध्यमं प्राणं पृथिव्यन्वायत्ता द्यौः स्वर्ग उत्तरयोपरिभागस्थया वर्तन्याऽन्वायत्ता। एवंविधोपास्तिफलमाह—नेति। य एवमुक्तप्रकारेण प्राणान्नभूताः सप्ताक्षितीर्वेदास्योपासकस्यान्नं न क्षीयत इत्यर्थः॥२॥
उक्ता रुद्रादिदेवताः प्राणोपासनाद्वागाद्यात्मिका एव संवृत्ता इति वागादय एवात्र रुद्रादिशब्दाभिधेया इत्यभिप्रेत्योक्तेऽर्थे मन्त्रसंमतिमाह—तदिति। तत्तत्रैतस्मिन्नर्थ एष श्लोको मन्त्रो भवत्यर्वाग्बिल इत्यादिर्मन्त्रसमाप्तिद्योतकेतिशब्दान्तः। तं प्रतीकपूर्वकं व्याकरोति—अर्वाग्बिलश्चमस ऊर्ध्वबुध्न इति। अस्मिन्मन्त्रभागे तत्प्राणस्य प्रत्याधानत्वेनोक्तमिदं प्रसिद्धं शिर एवार्वाग्बिलोऽर्वाङ्मुख ऊर्ध्वबुध्न ऊर्ध्वासनश्चमसः पात्रमिवोक्तम्। कथं हि यस्मादेष शिरोलक्षणश्चमसोऽर्वाग्बिलोऽधस्थितस्यैव मुखस्य बिलरूपत्वाच्छिरसो बुध्नाकारस्योपरिभागे दृश्यमानत्वाच्च तस्माच्छिर एवोक्तलक्षणश्चमसः। तस्मिञ्शिरसि विश्व-
यो ह वै शिशुँ साधानँ सप्रत्याधानँ सस्थू-
णँ सदामं वेद सप्त ह द्विषतो भ्रातृव्यान-
वरुणद्धि। अयं वाव शिशुर्योऽयं मध्यमः-
प्राणस्तस्येदमेवाऽऽधानमिदं प्रत्याधानं प्राणः
स्थूणाऽन्नं दाम॥१॥
———————————————————————————————————————————————————
एवं प्राणा वै सत्यमित्यादिब्राह्मणभागेन व्याख्याताया अप्युपनिषदो विशेषतोऽर्थप्रकटनाय ब्राह्मणद्वयं तत्र प्राणा वै सत्यमित्यन्तेनोक्तप्राणोपनिषद्व्याख्यानाय235 शिशुब्राह्मणं प्रवर्तते—यो हेति। यो ह वै साधानं सप्रत्याधानं सस्थूणं सदामं च शिशुं वेदोपास्ते स ह किल सप्त चक्षुर्द्वयनासिकाद्वयश्रोत्रद्वयमुखात्मकसप्तच्छिद्रायतनानि सप्तसंख्याकानीन्द्रियाणि विषयासक्तत्वाद्द्विषतो भ्रातृव्याञ्शत्रूनवरुणद्धि जितेन्द्रियो भवति। एवं फलेन प्रलोभितं को वा शिश्वादिपदार्थ इत्युत्पन्नजिज्ञासं प्रति तानाह—अयमिति। अयं वावायमेक शिशुः शिशुरिव शिशुर्विषयेष्वितरकरणवदनासक्तत्वात्। कोऽसौ योऽयं मध्यमः शरीरमध्यस्थः प्राणो लिङ्गशरीरात्मा बृहन्पाण्डरवास इत्याद्युक्तः षड्वीशशङ्कूनित्यादिना वक्ष्यमाणस्तस्य शिशोः प्राणस्य वत्सस्थानीयस्य करणात्मन इदं कार्यात्मकं शरीरमेवाऽऽधानमाधीयतेऽस्मिन्नित्याधानमधिष्ठानं तस्य प्राणस्येदं प्रसिद्धं शिरो मस्तकं प्रत्याधानं तत्र हि श्रोत्रादिच्छिद्रेषु प्रत्येकमाधीयत इति व्युत्पत्तेः। प्राणो बलापरपर्यायान्नपानादिजनिता शक्तिः स्थूणाऽवष्टम्भो बलावष्टम्भेनैव प्राणस्यास्मिञ्शरीरेऽवस्थानात्236। यद्वा प्राण उच्छ्वासनिश्वासकर्मा वायुः शारीरः स्थूलशरीरपक्षपाती स्थूणा। तस्य शिशोर्भुक्तमन्नमशितं237 दाम वत्सस्येव बन्धनरज्जुः। तद्ध्यन्नं त्रिधा परिणम्यमानं सूक्ष्ममध्यमरूपेण द्विरूपदामलक्षणमुभयतःपाशभूतं सद्यथाक्रमं लिङ्गपक्षपातिशिश्वाख्यप्राणस्थूलशरीरयोः238 स्थूलवाय्वाख्यायामन्नपानजशक्त्याख्यायां वा स्थूणायां बन्धनहेतुस्तस्य कर्मक्षयात्क्षयात्प्राणोत्क्रान्तेरित्यर्थः॥१॥
इदानीं तस्यैव शिशोः प्रत्याधाने शिरस्यारूढस्य चक्षुषि काश्चनोपनिषदः
तमेताः सप्ताक्षितय उपतिष्ठन्ते तद्या इमा अक्ष-
न्लोहिन्यो राजयस्ताभिरेनँरुद्रोऽन्वायत्तोऽथ
या अक्षन्नापस्ताभिः पर्जन्यो या कनीनका
तयाऽऽदित्यो यत्कृष्णं तेनाग्निर्यच्छुक्लंतेनेन्द्रोऽ-
धरयैनं वर्तन्या पृथिव्यन्वायत्ता द्यौरुत्तरया
नास्यान्नं क्षीयते य एवं वेद॥२॥ तदेष
श्लोको भवति। अर्वाग्बिलश्चमस ऊर्ध्वबुध्न-
स्तस्मिन्यशो निहितं विश्वरूपम्। तस्याऽऽ-
सत ऋषयः सप्त तीरे वागष्टमी ब्रह्मणा संवि-
दानेति। अर्वाग्बिलश्चमस ऊर्ध्वबुध्न इतीदं
तच्छिर एष ह्यर्वाग्बिलश्चमस ऊर्ध्वबुध्नस्तस्मि-
———————————————————————————————————————————————————
प्रदर्श्यन्ते—तमिति। तमुक्तार्थकं प्राणमेता वक्ष्यमाणाः सप्तसंख्याका अक्षयहेतुत्वादक्षितय उपतिष्ठन्त उपस्थानं कुर्वन्ति। कास्ता इत्यत आह—तदिति। तत्तत्र या इमाः प्रसिद्धा अक्षन्नक्षणि लोहिन्यो लोहिता राजयो रेखास्ताभी रेखाभिर्द्वारिभूताभिरेनं मध्यमं प्राणं रुद्रोऽन्वायत्तोऽनुगत उपतिष्ठत इति यावत्। तथाऽथानन्तरं या अक्षन्नापो धूमादिसंयोगेनाभिव्यज्यमानास्ताभिः पर्जन्यो देवतात्माऽन्वायत्तो या कनीनका चक्षुषि दृक्शक्तिस्तयाऽऽदित्योऽन्वायत्तः। यत्कृष्णं चक्षुषि तेनाग्निरन्वायत्तो यच्छुक्लं चक्षुषि तेनेन्द्रोऽन्वायत्तोऽधरयाऽधस्तन्या वर्तन्या पक्ष्मणैनं मध्यमं प्राणं पृथिव्यन्वायत्ता द्यौः स्वर्ग उत्तरयोपरिभागस्थया वर्तन्याऽन्वायत्ता। एवंविधोपास्तिफलमाह—नेति। य एवमुक्तप्रकारेण प्राणान्नभूताः सप्ताक्षितीर्वेदास्योपासकस्यान्नं न क्षीयत इत्यर्थः॥२॥
उक्ता रुद्रादिदेवताः प्राणोपासनाद्वागाद्यात्मिका एव संवृत्ता इति वागादय एवात्र रुद्रादिशब्दाभिधेया इत्यभिप्रेत्योक्तेऽर्थे मन्त्रसंमतिमाह—तदिति। तत्तत्रैतस्मिन्नर्थ एष श्लोको मन्त्रो भवत्यर्वाग्बिल इत्यादिर्मन्त्रसमाप्तिद्योतकेतिशब्दान्तः। तं प्रतीकपूर्वकं व्याकरोति—अर्वाग्बिलश्चमस ऊर्ध्वबुध्न इति। अस्मिन्मन्त्रभागे तत्प्राणस्य प्रत्याधानत्वेनोक्तमिदं प्रसिद्धं शिर एवार्वाग्बिलोऽर्वाङ्मुख ऊर्ध्वबुध्न ऊर्ध्वासनश्चमसः पात्रमिवोक्तम्। कथं हि यस्मादेष शिरोलक्षणश्चमसोऽर्वाग्बिलोऽधस्थितस्यैव मुखस्य बिलरूपत्वाच्छिरसो बुध्नाकारस्योपरिभागे दृश्यमानत्वाच्च तस्माच्छिर एवोक्तलक्षणश्चमसः। तस्मिञ्शिरसि विश्व-
न्यशो निहितं विश्वरूपमिति प्राणा वै यशो
विश्वरूपं प्राणानेतदाह तस्याऽऽसत ऋषयः
सप्त तीर इति प्राणा वा ऋषयः प्राणानेतदाह
वागष्टमी ब्रह्मणा संविदानेति वाग्ध्यष्टमी
ब्रह्मणा संवित्ते॥३॥ इमावेव गोतमभरद्वाजा-
वयमेव गोतमोऽयं भरद्वाज इमावेव विश्वामि-
त्रजमदग्नी अयमेव विश्वामित्रोऽयं जमद-
ग्निरिमावेव वसिष्ठकश्यपावयमेव वसिष्ठोऽयं
कश्यपो वागेवात्रिर्वाचा ह्यन्नमद्यतेऽत्तिर्ह वै
———————————————————————————————————————————————————
रूपं नानारूपं यशो निहितं स्थितं यथा सोमश्चमस इति मन्त्रः। प्राणाः श्रोत्रादयः सप्त पूर्वोक्तास्तेषु प्रसृता वायवश्च। वै प्रसिद्धम्। विश्वरूपं239 नानार्थावभासित्वान्नानात्मकं शिरसि निहितं240 यशः शब्दादिप्रकाशकं प्राणात्मकमेव शब्दादिप्रकाशनरूपं यशोहेतुत्वात्प्राणानामतः प्राणानेवैतद्यश इत्याह। तस्य शिरोलक्षणस्य चमसस्य तीरे पार्श्वे सप्त ऋषय आसते वर्तन्त इति मन्त्रः। प्राणाः करणाश्रयाः सप्त वायव एव ऋषयः प्रसिद्धऋषिवदेषां शब्दादिविषयदृष्टत्वात्तदाश्रयत्वेन तद्रूपत्वाद्वर्षित्वमतः प्राणानेतदाह। ब्रह्मणा वेदराशिना सह संविदाना संसर्गं प्राप्नुवती शब्दानुच्चारयन्ती वागष्टम्यष्टसंख्यापूरणीति मन्त्रोक्तेऽर्थे ब्राह्मणं हेतुमाह—वागिति। हि यस्मादष्टमी वाग्ब्रह्मणा वेदेन संवित्ते संसर्गं प्राप्नोति। शब्दोच्चारणक्रियावत्त्वेनाष्टमत्वं श्रोत्रादिषु सप्तमत्वं तु चर्वणक्रियोपाधिनेत्यर्थः॥३॥
के ते प्राणा इत्यपेक्षायामाह—इमाविति। इमौ प्रसिद्धावेव कर्णौ गोतमभरद्वाजौ। अयमेव दक्षिणः कर्णो गोतमोऽयमेवोत्तरः कर्णो भरद्वाजो विपर्ययेण वा। तथेमावेव चक्षुषी विश्वामित्रजमदग्नी अयमेव दक्षिणं विश्वामित्रोऽयमेवोत्तरं जमदग्निः। इमावेव नासापुटे वसिष्ठकश्यपौ। अयमेव दक्षिणपुटो वसिष्ठोऽयमेवोत्तरः कश्यपः। रसाभिव्यक्तिहेतुचर्वणक्रियावती वागेवात्रिः सप्तमः। हि यस्माद्वाचाऽन्नमद्यते भक्ष्यते तस्माद्वाचोऽत्तिरिति ह वै प्रसिद्धं
नामैतद्यदत्रिरिति सर्वस्यात्ता भवति
सर्वमस्यान्नं भवति य एवं वेद॥४॥
इति बृहदारण्यकोपनिषदि द्वितीयाध्यायस्य द्वितीयं ब्राह्मणम्॥२॥
द्वे वा ब्रह्मणो रूपे मूर्तंचैवामूर्तं च
मर्त्यं चामृतं च स्थितं च यच्च सच्च
त्यं च॥१॥ तदेतन्मर्तं यदन्यद्वा-
योश्चान्तरिक्षाच्चैतन्मर्त्यमेतत्स्थितमेतत्स-
———————————————————————————————————————————————————
नामैतदेव यदत्रिरिति श्रुत्या व्यपदिश्यते नाम तत्परोक्षेण परोक्षप्रिया इव हि देवा इति श्रुतेरित्यर्थः। श्रुत्या व्याख्यातमन्त्रोक्तोपासनफलमाह—सर्वस्येति। य एवमुक्तं प्राणयाथात्म्यं वेद स मध्यमप्राणो भूत्वाऽऽधानप्रत्याधानगतः सर्वस्यान्नजातस्यात्ता भोक्ता भवति सर्वमस्योपासकस्यान्नं भवति नात्त्रित्यर्थः॥४॥
इति बृहदारण्यकव्याख्यायां मिताक्षराख्यायां द्वितीयाध्यायस्य
द्वितीयं ब्राह्मणम्॥२॥
<MISSING_FIG href="../books_images/U-IMG-1733740691Screenshot2024-11-14162430.png"/>
अथ कथमेतेषां241 प्राणानां सत्यत्वं कथं वा ततोऽप्यात्मनः सत्यत्वमिति जिज्ञासायां मूर्तामूर्तब्राह्मणं प्रवर्तते—द्वे वावेति242। यदपोहद्वारेण नेति नेतीत्यादिना निरूपयिषितं ब्रह्म तस्य ब्रह्मणो मायामये द्वे वाव द्वे एव रूपे रूप्यते ज्ञाप्यतेऽरूपं ब्रह्म याभ्यामविद्याध्यारोपिताभ्यां रूपाभ्याम्। के ते इत्यत आह—मूर्तं चामूर्तं चेति। चकार243 एवकारानुषङ्गार्थः। अन्तर्णीतोत्तरविशेषणत्वेनावधारितमूर्तामूर्तयोरिव244 तान्यपि द्विरूपब्रह्मण एव विशेषणान्याह। मर्त्यं च मरणधर्मिअमृतं च तद्विपरीतम्। स्थितं च स्थास्नु परिच्छिन्नमिति यावत्। यच्चैति व्याप्नोतीति यत्स्थितविपरीतम्। सच्च प्रत्यक्षेणोपलभ्यमानासाधारणधर्मवत्। त्यं च तद्विपरीतम्॥१॥
के ते मूर्तामूर्ते कस्य वा कानि विशेषणानीति विशेषो न ज्ञायत इत्यत आह—तदिति। यद्वायोश्चान्तरिक्षाच्चान्यत्परिशिष्टं पृथिव्यादिभूतत्रयं तदेतन्मूर्तं मूर्छितावयवं घनमत एवैतद्भूतत्रयं मर्त्यमत एवैतत्स्थितमत एवैतत्सत्। विपर्ययेण
त्तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यै -
तस्य सत एष रसो य एष तपति सतो ह्येष
रसः॥२॥ अथामूर्तं वायुश्चान्तरिक्षं चैतद-
मृतमेतद्यदेतत्त्यं तस्यैतस्यामूर्तस्यैतस्यामृतस्यै-
तस्य यत एतस्य त्यस्यैष रसो य एष एतस्मि
न्मण्डले पुरुषस्त्यस्य ह्येष रस इत्यधिदैवतम्
॥३॥ अथाध्यात्ममिदमेव मूर्तं यदन्यत्प्राणाच्च
यश्चायमन्तरात्मन्नाकाश एतन्मर्त्यमेतत्स्थितमे-
तत्सत्तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थित-
स्यैतस्य सत एष रसो यच्चक्षुः सतो ह्येष रसः
॥४॥ अथामूर्तं प्राणश्च यश्चायमन्तरात्मन्नाकाश
———————————————————————————————————————————————————
वा हेतुहेतुमद्भावः। उक्तविशेषणचतुष्टयवद्भूतत्रयस्य सारिष्टं कार्य विशेषणानुवादपूर्वकमाह—तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत इति। विशेषणविशिष्टस्य पृथिव्यादिभूतत्रयस्यैष एव रसः सारः। कः। य एष मण्डललक्षणस्तपति। तत्र हेतुः। हि यस्मान्मूर्तादिविशेषणचतुष्टयं मण्डलेऽवसीयते तस्मात्सतः सदादिचतुष्टयविशेषणविशिष्टस्य भूतत्रयस्यैष मण्डलभूतो रसः। एतच्चाऽऽधिदैविककार्यात्मकस्य ब्रह्मणो रूपम्॥२॥
अथानन्तरं वायुश्चान्तरिक्षं चामूर्तं मूर्तविपरीतं ब्रह्मणो रूपम्। शेषं पूर्ववत्। य एतस्मिन्मण्डले पुरुषःकरणात्मको हिरण्यगर्भो विराडात्मा। एतच्चाऽऽधिदैविककरणात्मकस्य ब्रह्मणो रूपम्। एवमुक्तमाधिदैविकं विभागमुपसंहरति—इत्यधिदैवतमिति॥३॥
अथानन्तरमध्यात्मविभाग उच्यते। तत्रेदमेव मूर्तम्। किम्। यत्प्राणाच्च शरीरस्थादुच्छ्वासात्मकाद्वायोर्यश्चायमन्तरात्मनि शरीर आकाशस्तस्माच्चान्यच्छरीरारम्भकं भूतत्रयम्। शेषं पूर्ववद्वेदनीयम्245॥४॥
एवमध्यात्मकार्यात्मकस्य ब्रह्मणो रूपं निरूप्य करणात्मकस्य तदाह—अथेति। अथानन्तरं प्राणश्च यश्चायमन्तरात्मन्नाकाशः पूर्वोक्तो मूर्तमि-
एतदमृतमेतद्यदेतत्त्यं तस्यैतस्यामूर्तस्यैतस्यामृ-
तस्यैतस्य यत एतस्य त्यस्यैष रसो योऽयं
दक्षिणेऽक्षन्पुरुषस्त्यस्य ह्येष रसः॥५॥
तस्य हैतस्य पुरुषस्य रूपं यथा माहार-
जनं वासो यथा पाण्ड्वाविकं यथेन्द्रगोपो
यथाऽग्न्यर्चिर्यथा पुण्डरीकं यथा सकृ-
द्विद्युत्तँ सकृद्विद्युत्तेवह वा अस्य श्रीर्भ -
वति य एवं वेदाथात आदेशो नेति नेति
———————————————————————————————————————————————————
त्यादि पूर्ववत्। योऽयं दक्षिणेऽक्षन्दक्षिणेऽक्षणि पुरुषो लिङ्गशरीरात्मेत्यर्थः॥५॥
अथास्य करणात्मनो वासनामयं रूपमाह—तस्येति। तस्याऽऽधिदैविकस्य हैतस्याऽऽध्यात्मिकस्य लिङ्गपुरुषस्य मनसो वासनामयमिदं रूपम्। यथा लोके महारजनं हरिद्रा तया रक्तं माहारजनं वासो वस्त्रम्। एवं स्त्र्यादिविषयसंयोगे सति तादृशं रञ्जनाकारमुत्पद्यते। यथा चावेरिदमाविकमूर्णादीषत्पाण्डुरं तथाऽन्यद्वासनारूपं लिङ्गस्य जायते। यथा चेन्द्रगोपः कीटविशेषःकौसुम्भवदत्यन्तं रक्तो भवत्येवमेवास्य वासनारूपं भवति। यथा चाग्न्यर्चिर्भास्वरं भवति तथा क्वचित्कस्यचिद्वासनारूपं भवति। यथा च पुण्डरीकं शुक्लं तद्वदपि कस्यचिद्वासनारूपं भवति। यथा च सकृद्विद्युतं विद्योतनं सर्वतः प्रकाशकं भवति तथा ज्ञानप्रकाशविवृद्ध्यपेक्षया कस्यचिद्धिरण्यगर्भादेर्वासनारूपमुपजायते सत्त्वादितारतम्यादित्यर्थः246। यथोक्तहिरण्यगर्भवासनारूपोपासनफलमाह—सकृदिति। एवं यथोक्तमन्त्यं हिरण्यगर्भीयवासनारूपं यो वेदास्योपासकस्य सकृद्विद्युत्तेवविद्योतनमिव श्रीः ख्यातिर्भवति ह वै भवत्येवेत्यर्थः। तदेवं सत्यस्येति षष्ठ्यन्तं स्थूलसूक्ष्मप्रपञ्चात्मकं हेयभूतं सत्यशब्दार्थं व्याख्यायोपादेयभूतप्रथमान्तसत्यशब्दार्थव्याख्यानायोत्तरः संदर्भः प्रवर्तते—अथात इति। अथ सत्यस्य स्वरूपनिर्देशानन्तरं यत्सत्यस्य सत्यं तदेवावशिष्यते। यस्मादतस्तस्मात्तस्य ब्रह्मणो नेति नेतीत्येतादृश आदेशो निर्देशः। तथाच नेति नेतीति वीप्सया मूर्तामूर्ततद्वासनात्मकाविद्यातत्कार्य247तदभावादिस-
न ह्येतस्मादिति नेत्यन्यत्परमस्त्यथ नाम-
धेयँसत्यस्य सत्यमिति प्राणा वै सत्यं तेषा-
मेष सत्यम्॥६॥
इति श्रीबृहदारण्यकोपनिषदि द्वितीयाध्यायस्य तृतीयं ब्राह्मणम्॥३॥
मैत्रेयीति होवाच याज्ञवल्क्य उद्यास्यन्वा
अरेऽहमस्मात्स्थानादस्मि हन्त तेऽनया कात्या-
यन्याऽन्तं करवाणीति॥१॥
———————————————————————————————————————————————————
र्वनिषेधावधित्वेन तत्साक्षित्वेन च साक्षाद्ब्रह्म निर्दिष्टं भवति248निरवधिकस्य निःसाक्षिकस्य च निषेधस्यासंभवात्। ननु कस्मादेव ब्रह्म निर्दिश्यत इत्यत आह—न हीति। विषयीकर्तव्या यावन्तः पदार्थास्ते सर्वे नकारद्वयस्य विषयाः सन्तो निर्दिश्यन्त इति कृत्वा नेति नेत्यस्मादन्यत्परं निर्देशनं हि यस्मान्नास्ति तस्मादयमेव निर्देशो ब्रह्मणः। यद्वा हि यस्मादेतस्माद्ब्रह्मणो व्यतिरिक्तं नास्ति। अतो नेत्युच्यते न पुनर्ब्रह्मैव नास्तीत्यभिप्रायेण तथोच्यते। कुत एतदवगम्यते। यतो निषिद्धादपरमार्थभूतादन्यदनिषिद्धं परं परमार्थभूतं ब्रह्मास्तीत्यतोऽवगम्यते। तस्योपनिषदिति प्रतिज्ञातमुपसंहरति—अथेति। यत उक्तप्रकारेण परमार्थसत्यं परं ब्रह्मैवाथातो युक्तमुक्तं ब्रह्मण उपनिषदिति नामधेयं नामैव नामधेयम्। किं तत्। सत्यस्य सत्यं प्राणा वै सत्यं तेषामेष सत्यमित्युक्तार्थम्॥६॥
इति बृहदारण्यकोपनिषन्मिताक्षरायां द्वितीयाध्यायस्य
तृतीयं ब्राह्मणम्॥३॥
<MISSING_FIG href="../books_images/U-IMG-1733743310Screenshot2024-11-14162430.png"/>
चतुर्थाध्यायस्य तार्तीयविद्यासूत्रस्य स्फुटव्याख्यानार्थत्वेन ब्रह्म ते ब्रवाणीत्यारभ्य नेति नेतीत्यन्तेन व्याख्यातब्रह्मविद्याङ्गतया संन्यासविधानाय मैत्रेयीब्राह्मणमारभ्यते—मैत्रेयीति। याज्ञवल्क्यो नाम ऋषिर्हे मैत्रेयीति स्वभार्यां संबोध्योवाच। किमरे मैत्रेय्यस्माद्गार्हस्थ्यात्स्थानादाश्रमादुद्यास्यन्वा ऊर्ध्वं पारिव्राज्याख्यमाश्रमान्तरं यास्यन्नेवाहमस्मि भवाम्यतो हन्त तेऽनुमतिं प्रार्थयामीत्यर्थः। किंच ते तवानया द्वितीयया भार्यया कात्यायन्या सहान्तं विच्छेदं करवाणि द्रव्यविभागेन विभक्तां कृत्वा गमिष्यामीत्यर्थः॥१॥
सा होवाच मैत्रेयी यन्नु म इयं भगोः सर्वा
पृथिवी वित्तेन पूर्णा स्यात्कथं तेनामृता स्या-
मिति नेति होवाच याज्ञवल्क्यो यथैवोपकर-
णवतां जीवितं तथैव ते जीवितँ स्यादमृत-
त्वस्य तु नाऽऽशाऽस्ति वित्तेनेति॥२॥ सा
होवाच मैत्रेयी येनाहं नामृता स्यां किमहं तेन
कुर्यां यदेव भगवान्वेद तदेव मे ब्रूहीति॥३॥
स होवाच याज्ञवल्क्यः प्रिया बतारे नः सती
प्रियं भाषस एह्यास्ख व्याख्यास्यामि ते व्या-
चक्षाणस्य तु मे निदिध्यासस्वेति॥४॥
———————————————————————————————————————————————————
सैवमुक्ता मैत्रेयी होवाच। भगो भगवन्। नु वितर्के। मे मम यद्यदीयं सर्वा सागरपरिखा पृथिवी वित्तेन धनेन पूर्णा स्यात्तदा कथं किं तेन पृथिवीपूर्णवित्तसाध्येनाग्निहोत्रादिकर्मणाऽहममृताऽमरणधर्मिणी मुक्ता स्यां भवेयमिति पृष्टे नेति नैवामृता स्या इत्युत्तरं ह किल याज्ञवल्क्य उवाचोक्तवान्। किं तर्हि तेन भवेदित्यत आह—यथेति। यथैव लोक उपकरणवतां साधनसंपत्तियुक्तानां जीवितं सुखोपभोगसंपत्त्याकालक्रमणं तथैव तद्वदेव ते तव जीवितं स्यान्न तु पुनर्वित्तेन वित्तसाध्येन कर्मणाऽमृतत्वस्य मोक्षस्याऽऽशाऽस्त्याशाऽपि न कर्तव्येत्यर्थः॥२॥
सैवमुक्ता मैत्रेयी ह प्रत्युवाच। यद्येवं येनाहममृता न स्यां तेन कर्मणाऽहं किं कुर्यां किंतु यदेवामृतत्वसाधनं भगवान्वेद विजानाति तदेवामृतत्वसाधनं मे मह्यं ब्रूह्युपदिशेत्यर्थः॥३॥
स एवमुक्तो याज्ञवल्क्यो बतेत्यनुकम्प्योवाच। अरे मैत्रेयि नोऽस्माकं त्वं पूर्वमपि प्रिया सतीष्टा भवतीदानीमपि प्रियं मच्चित्तानुकूलमेव भाषसेऽतस्त्वमेह्यास्वोपविश यत्तवेष्टममृतत्वसाधनमात्मज्ञानं तद्व्याख्यास्यामि कथयिष्यामि। व्याचक्षाणस्य तु व्याख्यानं कुर्वतो मे मम वाक्यान्यर्थतो निदिध्यासस्व निश्चयेन ध्यातुमिच्छेत्यर्थः॥४॥
स होवाच न वा अरे पत्युः कामाय पतिः
प्रियो भवत्यात्मनस्तु कामाय पतिः प्रियो
भवति। न वा अरे जायायै कामाय जाया
प्रिया भवत्यात्मनस्तु कामाय जाया प्रिया
भवति। न वा अरे पुत्राणां कामाय पुत्राः
प्रिया भवन्त्यात्मनस्तु कामाय पुत्राः प्रिया
भवन्ति। न वा अरे वित्तस्य कामाय वित्तं प्रियं
भवत्यात्मनस्तु कामाय वित्तं प्रियं भवति। न
वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवत्यात्म-
नस्तु कामाय ब्रह्म प्रियं भवति। न वा अरे
क्षत्त्रस्य कामाय क्षत्त्रं प्रियं भवत्यात्मनस्तु कामाय
क्षत्त्रं प्रियं भवति। न वा अरे लोकानां
कामाय लोकाः प्रिया भवन्त्यात्मनस्तु कामाय
लोकाः प्रिया भवन्ति। न वा अरे देवानां
कामाय देवाः प्रिया भवन्त्यात्मनस्तु कामाय
देवाः प्रिया भवन्ति। न वा अरे भूतानां
कामाय भूतानि प्रियाणि भवन्त्यात्मनस्तु
कामाय भूतानि प्रियाणि भवन्ति। न वा अरे
सर्वस्य कामाय सर्वंप्रियं भवत्यात्मनस्तु कामाय
———————————————————————————————————————————————————
स याज्ञवल्क्योऽमृतत्वसाधनज्ञानाङ्गभूतं सकलसुखसाधनेभ्यो वैराग्यमुत्पादयन्नुवाच। अरे मैत्रेयि वै प्रसिद्धमेतल्लोके यत्पत्युर्भर्तुः कामाय प्रयोजनाय पतिर्भार्यायाः प्रियो न भवति। किं तर्ह्यात्मनस्तु कामायैव भार्यायाः पतिः प्रियो भवति। तथा न वा अरे जायाया इत्यादि समानं249 विशेषं तु प्रसिद्धार्थ250 कम्251। अयं तु तदेतत्प्रेय इत्यादेर्वृत्तिस्थानीयः। यस्मादेवमात्मसुखसाधनत्वादन्यत्र गौणी प्रीतिरात्मनि तु मुख्या तस्मादरे मैत्रेयि परमप्रेमास्पदमात्मा
सर्वं प्रियं भवति। आत्मा वा अरे द्रष्टव्यः
श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेय्या-
त्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञा-
नेनेदँ सर्वं विदितम्॥५॥ ब्रह्म तं परादा-
द्योऽन्यत्राऽऽत्मनो ब्रह्म वेद क्षत्त्रं तं परादाद्योऽ-
न्यत्राऽऽत्मनः क्षत्त्रं वेद लोकास्तं परादुर्योऽ-
न्यत्राऽऽत्मनो लोकान्वेद देवास्तं परादुर्योऽन्य-
त्राऽऽत्मनो देवान्वेद भूतानि तं परादुर्योऽन्य-
त्राऽऽत्मनो भूतानि वेद सर्वं तं परादाद्योऽन्य-
त्राऽऽत्मनः सर्वं वेदेदं ब्रह्मेदंक्षत्त्रमिमे लोका
इमे देवा इमानि भूतानीदँ सर्वं यदय-
मात्मा॥६॥
———————————————————————————————————————————————————
वै, आत्मैव द्रष्टव्यः साक्षाद्रूपदर्शनविषयतामापादयितव्यः। केनोपायेनेत्यतआह—श्रोतव्य इति। श्रोतव्य आचार्यागमतः पश्चान्मन्तव्यस्तर्कतस्ततो निदिध्यासितव्यो निश्चयेन ध्यातव्यः। इत्येतैरुपायैरात्मनि साक्षात्कृते किं स्यादित्यत आह—आत्मन इति। हे मैत्रेयि श्रवणेन कृत्वोत्पनेन मत्या मननेन विज्ञानेन च निदिध्यासनेन दृढीकृतेनाऽऽत्मनो वै दर्शनेन साक्षात्काररूपेणेदं सर्वं स्थावरजङ्गमात्मकमनात्मभूतमखिलं विदितमेवेति॥५॥
ननु कथमन्यस्मिन्विदितेऽन्यद्विदितं भवेदित्याशङ्कायामात्मव्यतिरेकेणान्यस्याभावादित्याह—ब्रह्मेति। यः कोऽप्यात्मनः सकाशादन्यत्र पार्थक्येन ब्रह्म ब्राह्मणजातिं वेद मन्यते तमयथार्थदर्शिनं ब्रह्म ब्राह्मणजातिः परादात्पराकुर्यात्कैवल्यासंबन्धिनं कुर्यादयमनात्मस्वरूपेण मां पश्यतीत्यपराधात्परमात्मा हि सर्वेषामात्मा क्षत्त्रं तं परादादित्यादि पूर्ववत्। उक्तं सर्वमनूद्य तस्याऽऽत्मानतिरिक्तत्वमित्युपसंहरति—इदं ब्रह्मेत्यादिना। यदयं योऽयमात्मा द्रष्टव्य इति प्रकृतः स एवेदं सर्वमुक्तमनुक्तं च न ततः पृथगस्तीत्यर्थः॥६॥
कथमेतदवगन्तुं शक्यत इत्याशङ्कायां स्फुरणात्मस्वरूपव्यतिरेकेण किंचिदपि ग्रहीतुं न शक्यत इति तु प्रसिद्धम्। यद्व्यतिरेकेण च यस्याग्रहणं तस्य तदा-
स यथा दुन्दुभेर्हन्यमानस्य न बाह्याञ्शब्दा-
ञ्शक्नुयाद्ग्रहणाय दुन्दुभेस्तु ग्रहणेन दुन्दु-
भ्याघातस्य वा शब्दो गृहीतः॥७॥ स यथा
शङ्खस्य ध्मायमानस्य न बाह्याञ्शब्दाञ्श-
क्नुयाद्ग्रहणाय शङ्खस्य तु ग्रहणेन शङ्ख-
ध्मस्य वा शब्दो गृहीतः॥८॥ स यथा
वीणायै वाद्यमानायै न बाह्याञ्शब्दाञ्श-
क्नुयाद्ग्रहणाय वीणायै तु ग्रहणेन वीणा-
वादस्य वा शब्दो गृहीतः॥९॥ स यथाऽऽ-
र्द्रैधाग्नेरभ्याहितात्पृथग्धूमा विनिश्चरन्त्येवं
———————————————————————————————————————————————————
त्मकत्वमेवेति व्याप्तौ दृष्टान्तत्रयमाह—स इति। स दृष्टान्तो यथा लोके दुन्दुभेर्भेर्यादेर्हन्यमानस्य दण्डादिना ताड्यमानस्य बाह्यान्वहिर्भूतान्दुन्दुभिशब्दसामान्यान्निकृष्टान्दुन्दुभिशब्दविशेषानुच्चनीचादीन्ग्रहणाय ग्रहीतुं न शक्नुयान्न समर्थो भवेत्। कथं तर्हि तेषां ग्रहणमित्यत आह—दुन्दुभेरिति। दुन्दुभेस्तु दुन्दुभिशब्दसामान्यस्य ग्रहणेन तु दुन्दुभ्याघातस्य वा दुन्दुभेर्हननोत्पन्नवीरादिनवरसाद्यन्यतमरसविशेषितध्वनेर्वा ग्रहणेन तु शब्दो दुन्दुभिशब्दविशेषो गृहीतः स्यात्। तथाच यथैवं शब्दविशेषाः शब्दसामान्यान्नाातरिच्यन्ते तथा स्फुरणात्मकब्रह्मसामान्यात्स्फोर्यमाणाः पदार्था नातिरिच्यन्त इत्यर्थः॥७॥
स यथा शङ्खस्य ध्मायमानस्य शब्देनाऽऽपूर्यमाणस्येत्यादि समानम्॥८॥
तथा वीणायै वाद्यमानाया इति चतुर्थ्यौषष्ठ्यर्थे। समानमन्यत्। अनेकदृष्टान्तोदाहरणं त्वनेकविलक्षणाश्चेतनाचेतनरूपाः सर्वेऽपि पदार्थाः स्थितिकाले प्रज्ञानघनप्रत्यगात्मैकसत्ताका इति द्योतनार्थमित्यर्थः॥९॥
एवं स्थितिकाले जगतो ब्रह्मैकत्वमवगमय्योत्पत्तिकालेऽपि तथाऽवगमयितुं कार्याणामुत्पत्तेः प्राक्कारणादभिन्नत्वे दृष्टान्तमाह—स इति। स दृष्टान्तो यथाऽऽर्द्रैरेघोभिः काष्ठैरिद्धोऽग्निरार्द्रैधाग्निस्तस्मादभ्याहितादभितः प्रज्वलितात्पृथङ्नानाप्रकारं धूमाः। धूमग्रहणं विस्फुलिङ्गादीनामप्युपलक्षणपरम्। धूमविस्फुलिङ्गादयो विनिश्चरन्ति विनिर्गच्छन्ति। तथा, ऋग्वेदादिप्रपञ्च उत्पत्तेः प्राङ्न ब्रह्मणः पृथगस्तीत्यभिप्रेत्य दार्ष्टान्तिकमाह—एवमिति। यथा दृष्टान्त
वा अरेऽस्य महतो भूतस्य निश्वसितमेत-
द्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस
इतिहासः पुराणं विद्योपनिषदः श्लोकाः
सूत्राण्यनुव्याख्यानानि व्याख्यानान्य-
स्यैवैतानि निश्वसितानि॥१०॥ स यथा
सर्वासामपाँसमुद्र एकायनमेवँ सर्वेषाँ
स्पर्शानां त्वगे कायनमेवँ सर्वेषाँ
———————————————————————————————————————————————————
एवं वै, एवमेवारे मैत्रेय्यस्य प्रकृतस्य परमात्मनो महतोऽनवच्छिन्नस्य भूतस्य परमार्थस्वभावस्यैतद्वक्ष्यमाणं निश्वसितमिव निश्वसितमप्रयत्नोत्पादितम्। किमेतदित्यत आह—यदिति। यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इति चतुर्विधमन्त्रजातमुच्यते। अथर्वणाऽङ्गिरसा च दृष्टा मन्त्रा अथर्वाङ्गिरसः। इतिहास उर्वशीपुरूरवसोः संवादादिरूपो ब्राह्मणभागो यथोर्वशी हाप्सरा इत्यादिब्राह्मणमेव। पुराणमसद्वा इदमग्र आसीदित्यादि। विद्या देवजनविद्या। उदकुम्भं निधाय दास्यो मार्जालीयं परिनृत्यन्तीत्यादिब्राह्मणमेव। उपनिषदः प्रियमित्येतदुपासीतेत्याद्याः। श्लोका ब्राह्मणप्रभवा मन्त्रा अर्वाग्बिल इत्याद्याः। सूत्राणि वेदे वस्तुसंग्राहकाणि वाक्यान्यात्मेत्येवोपासीतेत्येवमादीनि। अनुव्याख्यानानि वस्तुसंग्राहकवाक्यानां विवरणवाक्यानि यथा प्राणा वै सत्यमित्येवमादीनां शिशुमूर्तामूर्तब्राह्मणे। व्याख्यानानि मेधया हि तपसाऽजनयत्पितेत्येवमादीनि। एतान्युक्तानि ऋग्वेदादीनि मन्त्रब्राह्मणात्मकान्यस्यैवेश्वरस्य निश्वसितानि। तथाच पुरुषबुद्धिप्रयत्नपूर्वकत्वमन्तरेणैव नियतरचनावतः पूर्वसिद्धस्यैव वेदस्य सुप्तप्रबुद्धवत्सृष्टिसमयेऽभिव्यक्तत्वोक्तेर्वेदः स्वार्थे निरपेक्ष एव प्रमाणम्। अत एवेदं सर्वं यदयमात्मेति वेदस्याप्रामाण्यकारणनिरासार्थं वाऽस्याः श्रुतेः प्रवृत्तिरस्त्वित्यर्थः252॥१०॥
अथ प्रलयकालेऽप्यस्य प्रपञ्चस्य ब्रह्मात्मकत्वमिति दृष्टान्तपूर्वकमाह—स इति। स दृष्टान्तो यथा येन प्रकारेण सर्वासां नद्यादिगतानामपां समुद्रोऽब्धिरुदकसामान्यमेकायनमेकाश्रयोऽविभागप्राप्तिर्यथाऽयं दृष्टान्त एवं सर्वेषां स्पर्शानां मृदुकठिनादीनां वायोरात्मभूतानां त्वगेकायनं त्वग्विषयस्पर्शसामा-
रसानां जिह्वैकायनमेवँ सर्वेषाँ गन्धानां ना-
सिके एकायनमेवँ सर्वेषाँ रूपाणां चक्षुरेकाय-
नमेवँ सर्वेषाँशब्दानाँ श्रोत्रमेकायनमेवँ
सर्वेषाँ संकल्पानां मन एकायनमेवँ सर्वासां
विद्यानाँहृदयमेकायनमेवँ सर्वेषां कर्मणाँ
हस्तावेकायनमेवँ सर्वेषामानन्दानामुपस्थ
एकायनमेवँ सर्वेषां विसर्गाणां पायुरेकायन-
मेवँ सर्वेषामध्वनां पादावेकायनमेवँ सर्वेषां
वेदानां वागेकायनम्॥११॥ स यथा सैन्धव-
खिल्य उदके प्रास्त उदकमेवानुविलीयेत
———————————————————————————————————————————————————
न्यमात्रमाश्रयः। तथा रसानामब्विशेषाणां जिह्वा विषयसामान्यम्। गन्धानां पृथिवीविशेषाणां नासिके गन्धसामान्यम्। रूपाणां तेजोविशेषाणां चक्षुर्विषयसामान्यम्। शब्दानामाकाशविशेषाणां श्रोत्रं विषयसामान्यम्। एतान्यपि विषयविशेषसामान्यानि253 मनोविषयसंकल्पेऽन्तर्भवन्ति। तेषां संकल्पपूर्वकत्वात्। सर्वेषां संकल्पविशेषाणां मनो विषयसामान्यं संकल्पमात्रमयनं तस्याध्यवसायपारतन्त्र्यदर्शनाद्बुद्धिविषयविशेषेषु विद्याशब्दवाच्येष्वध्यवसायेष्वन्तर्भावः। तासां सर्वासां विद्यानां हृदयं बुद्धिसामान्यं विज्ञानमात्रमेकायनं तदपि कारणभूते प्रज्ञानघने ब्रह्मणि लीयत इति बोध्यम्। तथा सर्वेषां कर्मणां हस्तावेकायनमित्यादिना कर्मेन्द्रियाणां तद्विषयविशेषाणां च तत्तत्सामान्येषु लयस्तेषां च प्राणे तस्यापि कारणात्मनीत्यभिप्रायतः श्रुत्योच्यत इत्यर्थः॥११॥
एवं प्राकृतिकमलयदर्शनेन सर्वमूलप्रकृतिभूतमद्वयात्मतत्त्वमवगमितं तस्येदं सर्वं यदयमात्मेति प्रतिज्ञातत्वात्। इदानीं ब्रह्मविद्ययाऽविद्यानिरासद्वारेण योऽयमात्यन्तिकप्रलयस्तं दृष्टान्तपूर्वकमाह—स इति। स दृष्टान्तो यथा सैन्धवखिल्यः सिन्धुरुदकं तत्र भवः सैन्धवः स चासौ खिल्यश्च सैन्धवखिल्यो लवणशकल उदके प्रास्तः प्रक्षिप्तः सन्खिल्यारम्भकत्वेन तदवयवभूतमुदकं विलीयमानमनु पश्चाद्विलीयेतैवोदकभावमापद्यत एव। अस्य विलीनस्य खिल्य-
न हास्योद्ग्रहणायेव स्यात्। यतो
यतस्त्वाददीत लवणमेवैवं वा अर
इदं महद्भूतमनन्तमपारं विज्ञानघन
एवैतेभ्यो भूतेभ्यः समुत्थाय तान्ये-
वानु विनश्यति न प्रेत्य संज्ञाऽस्ती -
त्यरे ब्रवीमीति होवाच याज्ञवल्क्यः
॥१२॥ सा होवाच मैत्रेय्यत्रैव
———————————————————————————————————————————————————
स्योद्ग्रहणायोद्धृत्य पूर्ववद्ग्रहीतुं न ह नैव कश्चित्सुनिपुणोऽपि शक्तः स्यात्। अत्रेवशब्दोऽनर्थकः। कस्माद्यतो यतो यस्माद्यस्माद्देशात्तदुदकमाददीत गृहीत्वाऽऽस्वादयेत्तत्र तत्र लवणरसमेव254 तदुदकं न तु खिल्यभावो ग्रहीतुं शक्यते। यथाऽयं दृष्टान्त एवं वै, एवमेवारे मैत्रेयि विलीनखिल्यभावमिदं ब्रह्माऽऽत्मतत्वं महदनवच्छिन्नं भूतं कूटस्थमनन्तं न विद्यतेऽन्तः कारणं पूर्वावधिभूतं यस्य तदनन्तम्। अपारं न विद्यते पार उत्तरावधिभूतं कार्यं यस्य तदपारम्। विज्ञानघन एव विज्ञप्तिर्विज्ञानघनो जात्यन्तराननुविद्धस्वभावः। विज्ञानं चासौ घनश्चेति विज्ञानघनो विशुद्धज्ञप्तिमात्रैकरस एवाऽऽत्मा, एतेभ्यः पूर्वब्राह्मणे षष्ठयन्तसत्यशब्दवाच्येभ्यो भूतेभ्यः शरीरकरणविषयाकारपरिणतेभ्यो निमित्तभूतेभ्यो मनुष्योऽहं ब्राह्मणोऽहमित्यादिखिल्यभावेन समुत्थाय सम्यगुत्थाय जलाच्चन्द्रादिप्रतिबिम्बवत्तानि प्रकटीभूतानि खिल्यभावसंपादकानि भूतानि विनश्यन्ति सन्त्यनु पश्चादुदकाद्यपगमे चन्द्रादिप्रतिविम्बादिवत्खिल्यभावो विनश्यति। तथाचाविद्यातत्कार्यरूपखिल्यहेत्वपगमे प्रत्यगात्मा परमात्मैकत्वेन संसारधर्मानागन्धितोऽनन्तोऽपारः प्रज्ञप्तिमात्रस्वरूप एव। अस्यां च कैवल्यावस्थायां विशेषज्ञानं नास्तीत्याह—नेति। अरे मैत्रेय्येवं कार्यकरणसंघातेभ्यो विमुक्तस्य ब्रह्मविदः प्रेत्य विमोकानन्तरमयमसावमुष्य पुत्रो ममेदं क्षेत्रं धनं सुखी दुःखीत्येवमादिलक्षणा विशेषसंज्ञा विशेषज्ञानं नास्तीत्यहं ब्रवीमीत्येवं ह किल परमार्थदर्शनं याज्ञवल्क्यो भार्याया उवाचेत्यर्थः॥१२॥
सैवं प्रबोधिता मैत्रेयी होवाचात्रैवैकस्मिन्नेव वस्तुनि ब्रह्मात्मनि पूर्वं विज्ञा-
मा भगवानममूहन्न प्रेत्य संज्ञाऽस्तीति स
होवाच न वा अरेऽहं मोहं ब्रवीम्यलं
वा अर इदं विज्ञानाय॥१३॥ यत्र
हि द्वैतमिव भवति तदितर इतरं जिघ्रति
तदितर इतरं पश्यति तदितर इतरँ शृणोति
तदितर इतरमभिवदति तदितर इतरं मनुते
तदितर इतरं विजानाति यत्र वा अस्य सर्व-
———————————————————————————————————————————————————
नघन एवेति प्रतिज्ञाय पुनर्न प्रेत्य संज्ञाऽस्तीति विरुद्धं वदन्भगवान्पूजावान्मा माममूमुहम्मोहितवानित्युक्तः स याज्ञवल्क्यो ह प्रतिवचनमुवाच। अरे मैत्रेय्यहं मोहं मोहनवाक्य नैव ब्रवीमि न प्रेत्य संज्ञाऽस्तीति तु विशेषज्ञानाभावस्यैवोक्तत्वादत अरे मैत्रेयीदं शृणु यन्महद्भूतमनन्तमपारं प्रज्ञानघनस्वरूपं यथाव्याख्यातमिदमेव विज्ञानाय विज्ञातुमलं युक्तं स्वप्रकाशत्वादिति याज्ञवल्क्य उक्तवानित्यर्थः॥१३॥
अथैवमुक्तं विशेषविज्ञानाभावमन्वयव्यतिरेकाभ्यां दृढीकुर्वन्नाह—यत्रेति। (यत्र255 यस्मिन्नविद्याकल्पिते कार्यकरणसंघातोपाधिजनिते विशेषात्मनि खिल्यभावे हि प्रसिद्धं द्वैतमिव परमार्थतोऽद्वैते ब्रह्मणि भिन्नमिवाऽऽत्मनो वस्त्वन्तरं भासमानं भवति तत्तत्र तस्मिन्काल इतरोऽसौ परमात्मनः खिल्यभूत आत्मा परमार्थचन्द्रादेरिवोदकचन्द्रादिप्रतिबिम्बो द्रष्टेतरेण चक्षुरादिकरणेनेतरं द्रष्टव्यं रूपादिपदार्थं पश्यति। तथा) यत्र यस्मिन्नविद्याविलासकाले हि प्रसिद्धं द्वैतमिवैकस्मिन्नेवाऽऽत्मनि भासमानं भवति तत्तत्र तस्मिन्काल इतरो घ्रातेतरं गन्धं घ्राणेन जिघ्रति तद्विशेषविज्ञानेन संबध्यते। एवमेव तदितर इतरं पश्यतीत्यादौ योजनीयम्। एतावतैतेभ्यो भूतेभ्य इत्यत्र सूचितो भूताविद्योपाधिकः संसारो व्याख्यातः। इदानीं महद्भूतमनन्तमपारमित्यादिसूचितं ब्रह्मात्मदर्शनं व्याख्यास्यन्भूतोपाध्यभावेन विशेषविज्ञानलक्षणसंसाराभाव इति व्यतिरेकमाह—यत्र वा इति। यत्र यस्यां विद्यावस्थायामस्य ब्रह्मविदः सर्वं
मात्मैवाभूत्तत्केन कं जिघ्रेत्तत्केन कं पश्येत्त-
त्केन कँशृणुयात्तत्केन कमभिवदेत्तत्केन कं
मन्वीत तत्केन कं विजानीयात्। येनेदँ सर्वं
विजानाति तं केन विजानीयाद्विज्ञातारमरे केन
विजानीयादिति॥१४॥
इति बृहदारण्यकोपनिषदि द्वितीयाध्याये चतुर्थं ब्राह्मणम्॥४॥
इयं पृथिवी सर्वेषां भूतानां मध्वस्यै
पृथिव्यै सर्वाणि भूतानि मधु
———————————————————————————————————————————————————
कर्तृकर्मक्रियाफलादिकं प्रत्यग्याथात्म्यविज्ञानविलापितं सदात्मैवाभूत्तत्तत्र तस्यामवस्थायां केन करणेन कः कं विषयं जिघ्रेन्न कोऽपि केनापि किमपि जिघ्रेत्कारणाभावात्। तथा तत्केन कं पश्येदित्यादि। एवं कैवल्यावस्थायां विशेषविज्ञानाभावमन्वयव्यतिरेकाभ्यां प्रतिपाद्य तत्रैव कैमुतिकन्यायं दर्शयितुमविद्यावस्थायामपि साक्षिणो ज्ञानाविषयत्वमाह—येनेति। यत्राप्यविद्यावस्थायामन्योन्यं जानाति तत्रापि येन कूटस्थबोधेन व्याप्तो लोकः सर्वं जानाति तं साक्षिणं केन करणेन को वा विज्ञाता विजानीयान्न केनापि चक्षुरादेर्विषयग्रहण एवोपक्षीणत्वात्। किं पुनर्वक्तव्यं विद्यावस्थस्यासंसारिण आत्मनो ज्ञानाविषयत्वमित्याह—विज्ञातारमिति। अरे मैत्रेयि यः पुनः केवलोऽद्वयो विद्यावस्थो विज्ञातैव वर्तते तं विज्ञातारं केन विजानीयान्न केनापीत्यर्थः॥१४॥
इति बृहदारण्यकव्याख्यायां मिताक्षराख्यायां द्वितीयाध्याये
चतुर्थं ब्राह्मणम्॥४॥
<MISSING_FIG href="../books_images/U-IMG-1733473872Screenshot2024-11-14162430.png"/>
अथाऽऽत्मा मन्तव्यो दुन्दुभ्याघातदृष्टान्तप्रबोधितैर्हेतुभिश्चित्सामान्यचिदुत्पत्तिचिदेकप्रलयात्मकैरित्युक्तहेत्वसिद्धिशङ्कां परिहर्तुं मधुब्राह्मणम्। अथवैतैर्हेतुभिः साधितमिदं सर्वं यदयमात्मेत्यस्यैव पूर्वप्रतिज्ञातस्य निगमनार्थमिदम्। यद्वा स वा अयं पुरुषो जायमान इत्यादौ प्रतिदेहमात्मोत्पत्तिप्रलयश्रवणादात्मनो नानात्वमसक्तौ तन्निवृत्त्यर्थमिदमारभ्यते—इयमिति। इयं प्रसिद्धा पृथिवी सर्वेषां भूतानां ब्रह्मादिस्तम्बपर्यन्तानां प्राणिनां मध्विव मधु कार्यं तथाऽस्यै पृथिव्यै, अस्याः पृथिव्याः सर्वाणि भूतानि मधु कार्यं शरीराणां
यश्चायमस्यां पृथिव्यां तेजोमयोऽमृतमयः
पुरुषो यश्चायमध्यात्मँ शारीरस्तेजोमयोऽ-
मृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं
ब्रह्मेदँ सर्वम्॥१॥ इमा आपः सर्वेषां
भूतानां मध्वासामपाँसर्वाणि भूतानि मधु
यश्चायमास्वप्सु तेजोमयोऽमृतमयः पुरुषो
यश्चायमध्यात्मँरैतसस्तेजोमयोऽमृतमयः पुरु-
षोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदँ
सर्वम्॥२॥ अयमग्निः सर्वेषां भूतानां मध्व-
स्याग्नेःसर्वाणि भूतानि मधु यश्चायमस्मि-
न्नग्नौ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं
———————————————————————————————————————————————————
पृथिव्यादिकार्यत्वात्। किंचास्यां पृथिव्यां यश्चायं तेजोमयश्चिन्मात्रप्रकाशमयोऽमृतमयोऽमरणधर्मा पुरुषः। यश्चायमध्यात्ममात्मानं शरीरमधिकृत्य वर्तत इत्यध्यात्मम्। शरीरे भवः शारीरो लिङ्गाभिमानी पृथिव्यंशमात्राभिमानी। तेजोमयोऽमृतमयः पुरुषोऽयमुभयविधोऽपि पुरुषः सर्वेषां भूतानामुपकारकत्वात्कारणत्वेन256 मधु। सर्वाणि च भूतान्यस्य कार्यत्वेन मध्विति चशब्दाद्व्याख्येयम्। तथाचैतच्चतुष्टयं मध्वात्मकं सहाध्यात्माधिदैवं साधिभूतमिदं कृत्स्त्रं जगदेकैकस्य भोग्यत्वेनावतिष्ठमानं परस्परमुपकार्योपकारकभूतत्वात्स्वप्नवदेककारणपूर्वकमिति सिद्धं यस्मात्तस्मात्तदेकं ब्रह्मैवावधेयमितरविकारजातस्य वाचारम्भणमात्रत्वादित्याशयेनाऽऽह—अयमिति। योऽयं पूर्वं मैत्रेय्या इदं सर्वं यदयमात्मेति प्रतिज्ञातः स एवाऽऽत्माऽयमुक्तचतुर्विधमध्वात्मको नान्य इदं चतुष्टयकल्पनाधिष्ठानब्रह्मविषयं विज्ञानममृतममृतत्वसाधनमिदमेवाऽऽत्मतत्त्वंब्रह्म ते ब्रवाणीत्यध्यायादौ प्रकृतं ब्रह्मेदमेव सर्वं नान्यत्किंचिदस्तीत्यर्थः॥ १॥
एवमन्येऽपि पर्याया ज्ञेयाः। रेतसि भवो रैतसः पुरुषोऽबध्यात्ममपां तत्र विशेषतोऽवस्थानादापो रेतो भूत्वेत्यादिश्रुतेः॥ २॥
वाङ्मयस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स
योऽयमात्मेदममृतमिदं ब्रह्मेदँ सर्वम्॥३॥
अयं वायुः सर्वेषां भूतानां मध्वस्य वायोः
सर्वाणि भूतानि मधु यश्चायमस्मिन्वायौ तेजो-
मयोऽमृतमयः पुरुषो यश्चायमध्यात्मं प्राणस्ते-
जोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मे-
दममृतमिदं ब्रह्मेदँ सर्वम्॥४॥ अयमादित्यः
सर्वेषां भूतानां मध्वस्याऽऽदित्यस्य सर्वाणि
भूतानि मधु यश्चायमस्मिन्नादित्ये तेजोमयोऽ-
मृतमयः पुरुषो यश्चायमध्यात्मं चाक्षुषस्ते-
जोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमा-
त्मेदममृतमिदं ब्रह्मेदँ सर्वम्॥५॥
इमा दिशः सर्वेषां भूतानां मध्वासां दिशाँ
सर्वाणि भूतानि मधु यश्चायमासु दिक्षु तेजो-
मयोऽमृतमयः पुरुषो यश्चायमध्यात्मँ श्रौत्रः
प्रातिश्रुत्कस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स
योऽयमात्मेदममृतमिदं ब्रह्मेदँ सर्वम्॥६॥
अयं चन्द्रः सर्वेषां भूतानां मध्वस्य चन्द्रस्य
सर्वाणि भूतानि मधु यश्चायमस्मिँश्चन्द्रे तेजो-
———————————————————————————————————————————————————
वाङ्मयो वागभिमान्यग्नेरध्यात्मम्॥३॥
प्राणो घ्राणेन्द्रियं वायोरध्यात्मम्॥४॥
चाक्षुष आदित्यस्याध्यात्मम्॥५॥
यद्यपि दिशां श्रोत्रमध्यात्मं तथाऽपि प्रतिश्रुत्कायां प्रतिश्रवणवेलायां विशेषतः संनिहितो भवतीति प्रातिश्रुत्कविशेषणम् ॥६॥
मयोऽमृतमयः पुरुषो यश्चायमध्यात्मं मान-
सस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽ-
यमात्मेदममृतमिदं ब्रह्मेदँ सर्वम्॥७॥
इयं विद्युत्सर्वेषां भूतानां मध्वस्यै विद्युतः
सर्वाणि भूतानि मधु यश्चायमस्यां विद्युति
तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं तैज-
सस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽय-
मात्मेदममृतमिदं ब्रह्मेदँसर्वम्॥८॥
अयँस्तनयित्नुः सर्वेषां भूतानां मध्वस्य स्तन-
यित्नोः सर्वाणि भूतानि मधु यश्चायमस्मिन्स्त-
नयित्नौ तेजोमयोऽमृतमयः पुरुषो यश्चायम-
ध्यात्मँशाब्दः सौवरस्तेजोमयोऽमृतमयः पुरु-
षोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदँ
सर्वम्॥९॥ अयमाकाशः सर्वेषां भूतानां
मध्वस्याऽऽकाशस्य सर्वाणि भूतानि मधु य-
श्चायमस्मिन्नाकाशे तेजोमयोऽमृतमयः पुरुषो
यश्चायमध्यात्मँ हृद्याकाशस्तेजोमयोऽमृतमयः
पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदँ
सर्वम्॥१०॥
———————————————————————————————————————————————————
मानसश्चन्द्रमसोऽध्यात्मम्॥७॥
त्वक्तैजसो विद्युतोऽध्यात्मम्॥८॥
शब्दे भवः शाब्दः स्वरे भवः सौवरः पर्जन्यस्याध्यात्मम्। अत्रापि स्वरे विशेषतो भावात्सौवरविशेषणम्॥९॥
हृदयाकाश आकाशस्याध्यात्मम्॥१०॥
यत्प्रयुक्ता एते भूतगणा देवतागणाश्च शरीरिभिः संबध्यमाना मधुत्वेनोप-
अयं धर्मः सर्वेषां भूतानां मध्वस्य धर्मस्य
सर्वाणि भूतानि मधु यश्चायमस्मिन्धर्मे तेजो-
मयोऽमृतमयः पुरुषो यश्वायमध्यात्मं धार्मस्ते-
जोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मे-
दममृतमिदं ब्रह्मेदँसर्वम्॥११॥ इदँ सत्यँ
सर्वेषां भूतानां मध्वस्य सत्यस्य सर्वाणि भूतानि
मधु यश्चायमस्मिन्सत्ये तेजोमयोऽमृतमयः
पुरुषो यश्वायमध्यात्मँसात्यस्तेजोमयोऽमृ-
तमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं
ब्रह्मेदँ सर्वम्॥१२॥ इदं मानुषँसर्वेषां भूतानां
मध्वस्य मानुषस्य सर्वाणि भूतानि मधु यश्चा-
यमस्मिन्मानुषे तेजोमयोऽमृतमयः पुरुषोऽयमेव
स योऽयमात्मेदममृतमिदं ब्रह्मेदँ सर्वम्॥१३॥
__________________________________________________________________
कुर्वन्ति तद्वक्तव्यमित्यत आह—अयं धर्म इत्यादिना। तच्छ्रेयोरूपमित्यादौ व्याख्यातः क्रियाद्यात्मनाऽयमिति प्रत्यक्षेण निर्दिष्टो धर्मोऽपूर्वाख्यः सामान्यरूपेण विशेषरूपेण च कार्यारम्भकस्तत्र पृथिव्यादिप्रयोक्तरि धर्मे सामान्यरूपेण तदारम्भकत्वमाह—यश्चायमस्मिन्धर्म इत्यादिना। कार्यकरणसंघातकर्तरि तु विशेषरूपेण कार्यारम्भकत्वमाह—यश्चायमध्यात्ममित्यादिना॥११॥
सत्यमपि धर्मवद्द्विविधं तत्र सामान्यरूपं पृथिव्यादिषु कारणत्वेनानुगतमित्याह—यश्चायमस्मिन्सत्य इति। विशेषरूपं तु संघाते तत्त्वेनानुगतमित्याह—अध्यात्मं सात्य इति। सत्ये भवः सात्य इत्यर्थः॥१२॥
सत्यधर्माभ्यां प्रागुक्तोऽयं257 संघातविशेषो येन जातिविशेषेण संयुक्तो भवति तं निर्दिशति—इदं मानुषमिति। सर्वजात्युपलक्षणपरम्। सा च जातिर्यद्यप्येकैव तथाऽपि निर्देष्टृशरीराच्छरीरान्तरगता बाह्येत्यभिप्रेत्य तद्विशिष्टं पुरुषं निर्दिशति—यश्चायमस्मिन्मानुष इति। निर्देष्टृशरीरनिष्ठा स्वाध्यात्मिकीति तद्विशिष्टं निर्दिशति—यश्चायमध्यात्मं मानुष इति॥१३॥
अयमात्मा सर्वेषां भूतानां मध्वस्याऽऽत्मनः
सर्वाणि भूतानि मधु यश्चायमस्मिन्नात्मनि
तेजोमयोऽमृतमयः पुरुषो यश्चायमात्मा तेजो-
मयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेद-
ममृतमिदं ब्रह्मेदँसर्वम्॥१४॥ स वा अय-
मात्मा सर्वेषां भूतानामधिपतिः सर्वेषां भूता-
नाँराजा तद्यथा रथनाभौच रथनेमौ चाराः
सर्वे समर्पिता एवमेवास्मिन्नात्मनि सर्वाणि
भूतानि सर्वे देवाः सर्वे लोकाः सर्वे प्राणाः सर्व
एत आत्मानः समर्पिताः॥१५॥
___________________________________________________________________
यः पुनर्मानुषादिजातिविशिष्टः संघातस्तस्य मधुत्वमाह—अयमात्मोक्तजातिविशिष्टो देहो न तु चेतनो यश्चायमस्मिन्नात्मनि तेजोमयोऽमृतमयः पुरुषः सोऽमूर्तरसः सर्वात्मकश्चेतनो निर्दिश्यते। अत्राध्यात्मविशेषाभावात्स न निर्दिश्यत इत्यभिप्रेत्याऽऽह—यश्चायमात्मा परिशिष्टो विज्ञानमयोऽसंघातवांश्चेतनस्तेजोमयोऽमृतमयः पुरुषः॥१४॥
अस्यान्त्यपर्यायोक्तस्याऽऽत्मनः स्वरूपमाह—स वा इति। यस्मिन्विध्वस्तव्याकृताव्याकृतात्मके परमात्मनि खिल्यदृष्टान्तवचनेन विज्ञानात्मा प्रवेशितः स वै स एवायमात्माऽव्यवहितपूर्वपर्याये तेजोमय इत्यादिना निर्दिष्टो विज्ञानात्मा विद्वान्सर्वेषां भूतानामधिपतिः स्वतत्रपतिर्न कुमारामात्यादिवत्स्वातत्र्यं किंतु सर्वेषां भूतानां राजाऽविलुप्तात्मदर्शित्वादप्रधर्षणीयोऽस्मिन्सर्वात्मभूते ब्रह्मविदि सर्वं जगत्समर्पितमिति दृष्टान्तपूर्वकमाह—तदिति। तत्प्रसिद्धं निंदर्शनं यथा रथनाभौ च रथचक्रपिण्डिकायां रथनेमौ च वलयभूतायां सर्वेऽराः समर्पिता आरोपिताः। यथाऽयं दृष्टान्त एवमेवास्मिन्नात्मनि परमात्मभूते ब्रह्मविदि सर्वाणि भूतानि ब्रह्मादिस्तम्बपर्यन्तानि सर्वेऽग्न्यादयो देवाः सर्वे भूरादयो लोकाः सर्वे प्राणा वागादयः सर्वे चैत आत्मानो जलचन्द्रवत्प्रतिशरीरानुप्रवेशिनोऽविद्याकल्पिताः समर्पिता इत्यर्थः॥१५॥
एवं साकल्येन निरूपिताया ब्रह्मविद्यायाः स्तुत्यर्थं प्रवर्ग्यप्रकरणस्थाख्या-
इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच
तदेतदृषिः पश्यन्नवोचत्। तद्वां नरा सनये
दँस उग्रमाविष्कृणोमि तन्यतुर्न वृष्टिम्।
दध्यङ्ह यन्मध्वाथर्वणो वामश्वस्य शीर्ष्णाप्र
यदीमुवाचेति॥१६॥ इदं वै तन्मधु दध्य-
ङ्ङाथर्वणोऽश्विभ्यामुवाच तदेतदृषिः पश्यन्न-
वोचत्। आथर्वणायाश्विना दधीचेऽश्व्यँ
शिरः प्रत्यैरयतम्। स वां मधु प्रवोचदृताय-
________________________________________________________________________
यिकासंक्षेपकौ मन्त्रौ258 स्वप्रस्तावक ब्राह्मणपूर्वको प्रवर्तेते—इदमिति। यत्प्रवर्ग्यप्रकरणे सूचितं परं तु नाऽऽविष्कृतं तद्वा इदं मध्विहानन्तरनिर्दिष्टं दध्यङ्नामा ब्राह्मणोऽथर्वणो गोत्रापत्यमाथर्वणोऽश्विभ्यां देवभिषग्भ्यामुवाचोक्तवान्। तदेवैतदृषिर्मन्त्रस्तद्द्रष्टा वा पश्यन्नवोचत्प्रकटयामास। कथं हे नराकारावश्विनौ भवद्भ्यां लुब्धप्राकृतजनवत्सनये लाभाय याद्दंसः कर्मोग्रं क्रूरं कृतं रहसि वां युवयोस्तद्दंसः कर्माऽऽविष्कृणोमि प्रकटं करोमि कः कामिव तन्यतुः पर्जन्यो दृष्टिं न दृष्टिमिव। अत्र नकार इवार्थः। यत्कक्ष्यत्वेन वक्ष्यमाणमात्मज्ञानाख्यं मधु दध्यङ्नामाऽऽथर्वणो वां युवाभ्यामश्वस्य शीर्णा शिरसा प्र यदीमुवाच प्र यत्, ईमिति च्छेदः। यत्प्रोवाच तदप्याविष्कृणोमीति संबन्धः। हईमनर्थकौ निपातौ। इतिशब्दो मन्त्रसमाप्तिद्योतकः॥१६॥
आविष्कृणोमीति प्रतिज्ञाते क्रूरकर्ममधुनी के ते इत्यपेक्षायामिदं वै तन्मध्वित्याद्युक्तार्थब्राह्मणानुवादपूर्वकमत्रमाहे259—आथर्वणायेति। हे अश्विना, अश्विनौ। आथर्वणाय दधीचे दध्यङ्नाम्ने। अश्व्यमश्वस्येदमश्व्यं शिरो ब्राह्मणशिरश्छेदपूर्वकं प्रत्यैरयतं प्रतिगमितवन्तौ युवामिति द्विशिरश्छेदलक्षणमुग्रं कर्म कृतं पश्चात्स चाऽऽथर्वणो ब्राह्मणो वां युवाभ्यां त्वाष्ट्रं मधु त्वष्टाऽऽदित्यस्तसंबन्धिविज्ञानं यज्ञस्य शिरश्छेदप्रतिसंधानादिविषयं प्रवोचदुक्तवानित्यन्वयः। स किमित्येवं जीवितसंदेहमारुह्य260 स्वशिरश्छेदपूर्वकं तत्र संधिताश्वशिरसा मधूक्तवानित्यत आह—ऋतायन्निति। पूर्वं प्रतिज्ञातं सत्यं परिपालयितुमिच्छन्।
त्वाष्ट्रं यद्दस्रावपि कक्ष्यं वामिति॥१७॥
इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच
तदेतदृषिः पश्यन्नवोचत्। पुरश्चक्रे द्विपदः
पुरश्चक्रे चतुष्पदः। पुरः स पक्षी भूत्वा पुरः
पुरुष आविशदिति। स वा अयं पुरुषः सर्वा-
सु पूर्षु पुरियो नैनेन किंचनानावृतं नैनेन
किंचनासंवृतम्॥१८॥
________________________________________________________________________
किंच हे दस्रौ परबलानामुपक्षपयितारौ शत्रूणां वा हिंसितारौ हेऽश्विनौ वां युवाभ्यां न केवलमुक्तार्थकं त्वाष्ट्रं मध्वेव प्रावोचदपि तु यत्कक्ष्यं गोप्यं रहस्यं परमात्मसंबन्धिविज्ञानं मधुब्राह्मणेनोपसंहृतं तृतीयचतुर्थाध्यायाभ्यां च प्रकटितं तदपि युवाभ्यामवोचदित्यर्थः॥१७॥
प्रथमद्वितीययोः प्रवर्ग्यकर्मार्थयोरध्याययोरर्थ आख्यायिकोपसंहर्तृमन्त्रवाक्याभ्यां दर्शितः। इदानीं ब्रह्मविद्यार्थयोस्तु तृतीयचतुर्थाध्याययोरुत्तराभ्यामृग्भ्यामर्थः प्रकाशयितव्य इत्यत इदं वै तदित्युक्तार्थब्राह्मणपूर्वकं प्रवर्तते—पुर इति। प्रकरणादीश्वरोऽव्याकृते नामरूपे व्याकुर्वाणः प्रथमं भूतादिसर्गपुरःसरं पञ्चीकृतेभ्यो भूतेभ्यो भूरादील्लोँकान्सृष्ट्वा पुरः शरीराणि चक्रे कृतवान्। द्विपदो द्वाभ्यां पदाभ्यामुपलक्षिता मनुष्यपक्ष्यादिशरीररूपाः काश्चन चक्रे। तथा चतुष्पदश्चतुष्पादोपलक्षिताः पश्वादिशरीरात्मिकाः पुरश्चक्रे। एवं शरीराणि नानाविधानि सृष्ट्वा स ईश्वरः पुरः स्वप्रवेशात्पूर्वं पक्षी लिङ्गशरीरं भूत्वा पुरः शरीराणि पुरुषः पुरुषरूपः सन्नाविशत्प्रविवेश। इतिशब्दो मन्त्रसमाप्तिद्योतकः। कथमात्मनः पुरुषत्वमित्याशङ्कायां ब्राह्मणश्रुतिः स्वमुखेन तद्व्युत्पादयति—स इति। स वै स एवायमात्मा सृष्ट्यादिकर्तृतया प्रकृतः सर्वासु पूर्षु शरीरेषु शयनात्पुरुषो भवति तामेव व्युत्पत्तिं विशदयति पुरि शेत इति पुरिशयः सन्पुरुष इत्युच्यते। नन्वेवमाधाराधेयनिर्देशाद्द्वैतापत्तिः स्यादित्यत आह—नेति। एनेनानेन परमात्मना किंचन किंचिदप्यनावृतमनाच्छादितं नास्ति तथैनेनं किंचनासंवृतमननुप्रवेशितं नास्ति। तथाच परमात्मैवान्तर्बहिर्भावेन कार्य261करणरूपेण व्यवस्थितो न ततोऽन्यत्किंचिदस्तीत्यर्थः॥१८॥
इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच
तदेतदृषिः पश्यन्नवोचत्। रूपँ रूपं प्रति
रूपो बभूव तदस्य रूपं प्रतिचक्षणाय।
इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य
हरयः शता दशेति। अयं वै हरयोऽयं
वै दश च सहस्राणि बहूनि चानन्ता
नि च तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यमय-
_______________________________________________________________________
एवं शरीरे प्रविष्टः परमात्मा किंरूप इत्यत आह—रूपमिति। स ईश्वरो रूपं रूपमुपाधिभेदं देहं देहं प्रति प्रतिरूपो रूपान्तरं प्रतिबिम्बो बभूवानुरूपो वेत्यवच्छेदपक्षात्प्रतिबिम्बपक्षः श्रेयानिति बोध्यम्। ननु किमर्थमसौ प्रतिबिम्बभावमापद्यते तत्राऽऽह—तदिति। तत्प्रतिबिम्बत्वमस्य निरुपाधिकस्याऽऽत्मनो रूपं स्वरूपं प्रतिचक्षणायाऽऽत्मयाथात्म्यप्रतिख्यापनायान्यथाऽनाद्यनिर्वचनीयाविद्यापटावृतस्य बुद्धिवृत्त्युपाधिप्रतिबिम्बाभावे स्वरूपप्रकाशानुपपत्तेः। नन्वसङ्गादिलक्षणस्यास्य प्रतिबिम्बभावे किं कारणमित्यपेक्षायामात्माज्ञानमेवोपादानमित्याह—इन्द्र इति। इन्द्रः परमेश्वरः। मायाभिरिति बहुवचनं विक्षेपाणां बाहुल्यात्। मायाभिर्मायया नामरूपविषयमिथ्याभिमानात्मना परिणतया पुरुरूपो बहुरूप ईयते प्रतीयते मिथ्यैव जलसूर्यवत्। तथाऽपि परस्य बहुत्वे किं निमित्तमित्यत आह—युक्ता इति। रथयुक्तवाजिवदस्य प्रतीचो रथस्थानीये शरीरे युक्ताः प्रत्यञ्चं स्वविषयान्प्रति हरन्तीति हरय इन्द्रियाणि शता शतानि दश च। इतिशब्दो मन्त्रसमाप्तिद्योतकः। नन्वस्य हरय इति संबन्धप्रतीतेर्द्वैतापत्तिरित्यतस्तदर्थमाह—अयमिति। अयमात्मा वा एवहरय इन्द्रियादिरूपेणास्यैवाविद्यया भानादतोऽयमात्मा वा एव दश च सहस्राणि बहूनि चानन्तानि च हरिशब्दितानीन्द्रियाणि प्राणिबाहुल्यात्। इदानीमस्य पारमार्थिकं स्वरूपमाह—तदिति। न विद्यते पूर्वं कारणं यस्य तदपूर्वं न विद्यतेऽपरं कार्यं यस्य तदनपरं न विद्यतेऽन्तराले जात्यन्तरं वस्तु यस्य तदनन्तरम्। न विद्यते बाह्यं बहिर्भूतं वस्तु यस्मात्तदबाह्यम्। यदेतादृशं ब्रह्म तदेवैतत्समस्तं जगन्न तद्व्यतिरेकेणास्ति। किं पुनस्तद्ब्रह्माऽऽत्मनोऽर्थान्तरं नेत्याह—अयमिति
मात्मा ब्रह्म सर्वानुभूरित्यनुशासनम्॥१९॥
इति बृहदारण्यकोपनिषदि द्वितीयाध्याये पञ्चमं ब्राह्मणम्॥५॥
अथ वँशः पौतिमाष्यो गौपवनाद्रौपवनः पौति-
माष्यात्पौतिमाष्यो गौपवनाद्रौपवनः कौशिका-
त्कौशिकः कौण्डिन्यात्कौण्डिन्यः शाण्डिल्या-
च्छाण्डिल्यः कौशिकाच्च गौतमाच्च गौतमः॥१॥
आग्निवेश्यादाग्निवेश्यः शाण्डिल्याच्चानभिम्लाता-
च्चानभिम्लात आनभिम्लातादानभिम्लात आन-
भिम्लातादानभिम्लातो गौतमाद्गौतमः सैतवप्रा-
चीनयोग्याभ्याँसैतवप्राचीनयोग्यौ पाराशर्या-
त्पाराशर्यो भारद्वाजाद्भारद्वाजो भारद्वाजाच्च गौत-
माच्च गौतमो भारद्वाजाद्भारद्वाजः पाराशर्यात्पा-
राशर्यो बैजवापायनाद्बैजवापायनः कौशिकायनेः
कौशिकायनिः॥२॥
__________________________________________________________________________________
अयं प्रत्यगात्मैव ब्रह्म। कोऽसौ प्रत्यगात्मा तत्राऽऽह—सर्वानुभूरिति। यः सर्वमनुभवति स सर्वानुभूर्द्रष्टा श्रोता मन्ता विज्ञाता स एव प्रत्यगात्मा। अयमेव सर्ववेदान्तानामर्थ इत्युपसंहरति—इतीति। इतीत्थमनुशासनं सर्ववेदान्तोपदेशः। एतदमृतमभयं चेत्यनर्थनिवृत्तिद्वारकानन्दावाप्तिरूपोभयप्रयोजनकः शास्त्रार्थः समाप्तः॥१९॥
इति बृहदारण्यकोपनिषद्व्याख्यायां मिताक्षराख्यायां द्वितीयाध्यायस्य
पञ्चमं मधुब्राह्मणम्॥५॥
अथैवंनिरूपितब्रह्मविद्यास्तुत्यर्थं तदुत्पत्तये जपार्थं तस्या असांप्रदायिकत्वशङ्कापरिहारार्थमध्यापनार्थं च वंशब्राह्मणमारभ्यते—अथेति। अथानन्तरं वंशः शिष्यावसानोपलक्षणभूतात्पौतिमाष्यादारभ्य तदादिर्वेदाख्यब्रह्ममूलप-
घृतकौशिकाद्घृतकौशिकः पाराशर्यायणात्पा-
राशर्यायणः पाराशर्यात्पाराशर्यो जातूकर्ण्या-
ज्जातूकर्ण्य आसुरायणाच्च यास्काच्चाऽऽसुराय-
णस्त्रैवणेस्त्रैवणिरौपजन्धनेरौपजन्धनिरासुरेरासु-
रिर्भारद्वाजाद्भारद्वाज आत्रेयादात्रेयो माण्टेर्मा-
ण्टिर्गौतमाद्गौतमो गौतमाद्गौतमो वात्स्या-
द्वात्स्यः शाण्डिल्याच्छाण्डिल्यः कैशोर्यात्का-
प्यात्कैशोर्यः काप्यः कुमारहारितात्कुमारहा-
रितो गालवाद्गालवो विदर्भीकौण्डिन्यादिदर्भी-
कौण्डिन्यो वत्सनपातो बाश्रवाद्दत्सनपाद्वाश्रवः
पथः सौभरात्पन्थाः सौभरोऽयास्यादाङ्गिरसा-
दयास्य आङ्गिरस आभूतेस्त्वाष्ट्रादाभूतिस्त्वाष्ट्रो
विश्वरूपात्त्वाष्ट्राद्विश्वरूपस्त्वाष्ट्रोऽश्विभ्यामश्विनौ
दधीच आथर्वणाद्दध्यङ्ङाथर्वणोऽथर्वणो दैवा-
दथर्वा दैवो मृत्योः प्राध्वँसनान्मृत्युः प्राध्वँ-
सनः प्रध्वँसनात्प्रध्वँसन एकर्षेरेकर्षिर्विप्र-
चित्तेर्विप्रचित्तिर्व्यष्टेर्व्यष्टिः सनारोः सनारुः
सनातनात्सनातनः सनगात्सनगः परमेष्ठिनः
__________________________________________________________________________________
तोऽयं वंशः पर्वणः पर्वणो भिद्यते। अत्र प्रथमान्तः शिष्यः पञ्चम्यन्त चार्यो बोद्धव्यः। परमेष्ठी विराड्ब्रह्मणो हिरण्यगर्भाद्विद्यां प्राप्तोऽस्य स्वयंतवेदत्वात्तत आचार्यपरम्परा नास्ति। यत्पुनर्ब्रह्म वेदाख्यं तत्स्वयंभु नित्यं स्यैव वेदरूपेणावस्थानात्। आदावन्ते च कृतमङ्गला ग्रन्थाः प्रचारिणो
परमेष्ठी ब्रह्मणो ब्रह्म स्वयंभु ब्रह्मणे नमः॥३॥
इति बृहदारण्यकोपनिषदि द्वितीयाध्याये षष्ठं ब्राह्मणम्॥६॥
इति बृहदारण्यकोपनिषदि द्वितीयोऽध्यायः॥२॥
-
*
बृहदारण्यकक्रमेण चतुर्थोऽध्यायः॥४॥
__________________________________________________________________________
भवन्तीति द्योतयितुमाह—ब्रह्मण इति। ब्रह्मणे स्वयंभुवे वेदरूपेणावस्थिताय नमो वामनःकायकृतः प्रह्वीभावोऽस्त्वित्यर्थः॥१॥२॥३॥
इति बृहदारण्यकोपनिषन्मिताक्षरायां द्वितीयाध्याये षष्ठं ब्राह्मणम्॥६॥
-
*
इति श्रीपरमहंस परिव्राजकाचार्यपुरुषोत्तमाश्रमपूज्यपादशिष्यनित्यानन्दाश्रमकृतायां
बृहदारण्यकोपनिषद्व्याख्यायां मिताक्षराख्यायां द्वितीयोऽध्यायः॥२॥
<MISSING_FIG href="../books_images/U-IMG-1732884616Screenshot2024-11-29181945.png"/>
अथ तृतीयोऽध्यायः।
ॐ जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे तत्र
ह कुरुपञ्चालानां ब्राह्मणा अभिसमेता बभूवु-
स्तस्य ह जनकस्य वैदेहस्य विजिज्ञासा बभूव
कः स्विदेषां ब्राह्मणानामनूचानतम इति स ह
गवाँसहस्रमवरुरोध दश दश पादा एकैकस्याः
शृङ्गयोराबद्धा बभूवुः॥१॥ तान्होवाच
ब्राह्मणा भगवन्तो यो वो ब्रह्मिष्ठःस एता गा
उदजतामिति ते ह ब्राह्मणा न दधृषुरथ
_______________________________________________________________________________
एवमागमप्रधानेन मधुकाण्डेनोक्तमेवार्थमुपपत्त्यानिरूपयितुं तत्प्रधानं मुनिकाण्डमारभ्यते। तत्रोपपत्तीनां वादजल्परूपेण द्वैविध्यात्तावत्पञ्चमेऽध्याये जल्पकथया युक्तयो निरूप्यन्ते तन्निरूपणाय तत्प्रस्तावं कर्तुमाख्यायिकां विज्ञानस्तुत्यर्थं विद्याप्राप्त्युपायदानप्रदर्शनार्थं चाश्वलब्राह्मणेनाऽऽरचयति—जनको ह वैदेह इत्यादिना। विदेहानां वंशे भवो वैदेहो जनको नाम ह किल बभूव। स च बहुदक्षिणेन यज्ञेन शाखान्तर एतन्नाम्ना प्रसिद्धेन बहुदक्षिणाविशिष्टेनाश्वमेधादिना वा, ईजेऽयजत्। तत्र तस्मिन्यज्ञे ह विद्वाद्बाहुल्येन प्रसिद्धानां कुरूणां पञ्चालानां च देशानां ब्राह्मणा अभिसमेता अभिसंगता बभूवुः। तान्दृष्ट्वा तस्य ह जनकस्य वैदेहस्य कःस्वित्कोनु खल्वेषां ब्राह्मणानां मध्येऽनूचानतमोऽतिशयेनानूचानोऽनुवचनसमर्थो ब्रह्मिष्ठ इति विजिज्ञासा विशेषेण ज्ञातुमिच्छा बभूव। पश्चात्स जनको ह तद्विज्ञानोपायभूतं गवां सहस्रं गोष्ठेऽवरुरोधावरोधं कारयामास। तासामेकैकस्या गोः शृङ्गयोर्विषये दश दशपादाः पलस्य चतुर्थो भागः पाद एवंभूताः सुवर्णस्य दश दश पादा आबद्धा बभूवुः। शृङ्गयोरिति द्विवचनात्प्रतिशृङ्गं पञ्च पञ्च पादा आबद्धा इत्यर्थः॥१॥
एवं गा अवरुध्य जनकस्तान्ब्राह्मणान्ह किलोवाच भो ब्राह्मणा भगवन्तः पूजार्हाइति संबोध्य यो वो युष्माकं मध्ये ब्रह्मिष्ठोऽतिशयेन ब्रह्मज्ञः स एता अवरुद्धा गा उदजतामुत्कालयतु स्वगृहं प्रति नयत्वित्युक्ते ते ब्राह्मणा ह किल न दधृषुर्न प्रगल्भाः संवृत्ता आत्मनो ब्रह्मिष्ठतां प्रति-
ह याज्ञवल्क्यः स्वमेव ब्रह्मचारिणमुवाचैताः
सोम्योदज सामश्रवा३ इति ता होदाच-
कार ते ह ब्राह्मणाश्चुक्रुधुः कथं नो ब्रह्मिष्ठो
ब्रुवीतेत्यथ ह जनकस्य वैदेहस्य होताऽ-
श्वलो बभूव स हैनं पप्रच्छ त्वं नु खलु
नो याज्ञवल्क्य ब्रह्मिष्ठोऽसी३ इति स होवा-
च नमो वयं ब्रह्मिष्ठाय कुर्मो गोकामा एव
वयँ स्म इति तँ ह तत एव प्रष्टुं दध्रे
होताऽश्वलः॥२॥
_________________________________________________________________________________
ज्ञातुमिति शेषः। अथानन्तरं याज्ञवल्क्यो ह किल स्वमात्मीयमेव ब्रह्मचारिणमन्तेवासिनमुवाच। किं हे सोम्य सामश्रवा३ इति प्लुतिर्दूरादाह्वानार्था। सामविधिं शृणोतीति सामश्रवास्तत्संबोधनं सामश्रवः। एता गा उदजोद्गमयास्मद्गृहान्प्रति। एवं गुरुवचनं श्रुत्वा ह किल ब्रह्मचारी ता गा उदाचकारोत्कालितवान्नीतवानाचार्यगृहं प्रति। एवं ब्रह्मिष्ठाय निर्दिष्टगवामपहरणाद्याज्ञवल्क्येन स्वात्मनो ब्रह्मिष्ठत्वस्वीकरणादस्माकमब्रह्मिष्ठता प्रतिज्ञायत इति मन्वानास्ते ह ब्राह्मणाश्चुक्रुधुः क्रोधं कृतवन्तः। तेषां क्रोधाभिमायमाह—कथमयं नोऽस्माकमेकैकप्रधानानामग्रे ब्रह्मिष्ठोऽस्मीति ब्रुवीत कथयेत्। इतिशब्दोऽभिप्रायसमाप्तिद्योतकः। अथ क्रोधानन्तरं ह जनकस्य यजमानस्याश्वलो नाम होतर्त्विग्बभूवाऽऽसीत्। स ब्रह्मिष्ठाभिमानी राजाश्रयत्वाद्धृष्टः सन्नेनं याज्ञवल्क्यं पप्रच्छ। कथं हे याज्ञवल्क्य नोऽस्माकमग्रे त्वं नु खलु ब्रह्मिष्टोऽसी३ इति प्लुतिर्निर्भर्त्सनार्था। अनौद्धत्यं ब्रह्मविदो लिङ्गमिति सूचयन्ती श्रुतिर्याज्ञवल्क्यकृतमुत्तरं दर्शयति—स इति। स याज्ञवल्क्यो होवाच। वयं ब्रह्मिष्ठाय नमस्कुर्मः। किमिति तर्हि ब्रह्मिष्ठपणभूता गावः स्वगृहं प्रति प्रस्थापिता इत्यत आह—गोकामा इति। वयं गोकामा एव स्मोऽतो गोग्रहणं कृतवन्त इति मुनिनोक्ते ततो ब्रह्मिष्ठपणस्वीकरणादेव होताऽश्वस्तं प्रष्टुं दध्रे धृतवान्मनः॥२॥
मधुकाण्डगतोद्गीथब्राह्मणोक्तमुख्यप्राणदर्शनं वागादीनां पाप्ममृत्योरतिक्रमणपूर्वकमग्न्यादिभावप्राप्तिसाधनमित्युक्तं परं तु तेषां तद्भावप्राप्तौ
याज्ञवल्क्येति होवाच यदिदँसर्वं मृत्यु-
नाऽऽप्तँ सर्वं मृत्युनाऽभिपन्नं केन यजमानो
मृत्योराप्तिमतिमुच्यत इति होत्रर्त्विजाऽग्निना
वाचा वाग्वै यज्ञस्य होता तद्येयं वाक्सोऽ-
यमग्निः स होता स मुक्तिः साऽति
मुक्तिः॥३॥ याज्ञवल्क्येति होवाच
यदियँसर्वमहोरात्राभ्यामाप्तँसर्वमहोरा-
त्राभ्यामभिपन्नं केन यजमानोऽहोरात्रयो-
_______________________________________________________________________________
प्रत्येकं साधनविशेषस्तु नोक्तः स वक्तव्यस्तस्योद्गीथोपासनाङ्गत्वादित्यतस्तद्वकुं याज्ञवल्क्येत्ययं प्रश्नप्रतिवचनात्मकः संदर्भः प्रवर्तते। तत्र प्रष्टुं यन्मनसि धृतं तत्प्रश्नं हे याज्ञवल्क्येति संबोध्योवाच। अस्य कर्मणो यदिदं साधनजातमृत्विगग्न्यादिलक्षणं मृत्युना कर्मलक्षणेन स्वाभाविकाज्ञानजासङ्गसहितेनाऽऽप्तंव्याप्तम्। न केवलं व्याप्तं किंत्वभिपन्नं च मृत्युना ग्रस्तं च। अतः केन दर्शनलक्षणेन साधनेन यजमानो मृत्योराप्तिमतीत्य मृत्युगोचरत्वमतिक्रम्य मुच्यते स्वतन्त्रो262मृत्योरवश्यो भवतीत्यश्वलेन पृष्ट उत्तरमाह—होत्रर्त्विजाऽग्निना वाचेति। अस्याभिप्रेतार्थं श्रुतिः स्वयमेव व्याचष्टे—वाग्वा इति। यज्ञो वै यजमान इति श्रुतेर्यज्ञस्य यजमानस्य याऽध्यात्मं वाक्सैवाधियज्ञेहोता तत्तत्रैवं सति येयं यजमानस्य वाक्सोऽयं प्रसिद्धोऽग्निरधिदैवतरूपः। स एव वागैक्यमापन्नोऽग्निर्होता। स होताऽग्निरूपेण दृष्टो मुक्तिर्मृत्योरतिक्रमणरूपमुक्तेः साधनं सोक्तरूपा मुक्तिरतिमुक्तिः फलरूपाग्न्यादिभावापत्तिरूपातिमुक्तेः साधनम्। तथाचाध्यात्माधियज्ञीयसाधनद्वयस्य वाग्घोतृलक्षणस्य परिच्छिन्नस्यापरिच्छिन्नाधिदैवताग्निरूपेण दृष्टिरहमपरिच्छिन्नाग्न्यात्मकयजमानवाग्रूपोऽग्निरित्येतादृशी यज्ञसमये क्रियमाणा यजमानस्याध्यात्मपरिच्छेदरूपमृत्युमतिक्रम्य फलभूतान्यादिभावापत्तिरूपातिमुक्तिसाधनमित्यर्थः संपन्नः॥३॥
उक्तमृत्युशब्दितकाम्यकर्मादिसाधनविपरिणामहेतुत्वाद्वृद्धिक्षयरहितसूर्यकृताहोरात्रलक्षणकालरूपान्मृत्योरतिक्रमणं केन दर्शनेन स्यादित्याह—याज्ञवल्क्येति होवाच यदिदँ सर्वमहोरात्राभ्यामाप्तमित्यादिना। अर्थस्तु पूर्ववत्।
राप्तिमतिमुच्यत इत्यध्वर्युणर्त्विजा चक्षुषाऽऽदि-
त्येन चक्षुर्वै यज्ञस्याध्वर्युस्तद्यदिदं चक्षुः सोऽसा-
वादित्यः सोऽध्वर्युः स मुक्तिः साऽतिमुक्तिः॥४॥
याज्ञवल्क्येति होवाच यदिदँसर्वं पूर्वपक्षाप-
रपक्षाभ्यामाप्तँसर्वंपूर्वपक्षापरपक्षाभ्यामभि-
पन्नं केन यजमानः पूर्वपक्षापरपक्षयोराप्तिमति-
मुच्यत इत्युद्गात्रर्त्विजा वायुना प्राणेन प्राणो
वै यज्ञस्योद्वाता तद्योऽयं प्राणः स वायुः स
उद्गाता स मुक्तिः साऽतिमुक्तिः॥५॥ याज्ञव-
ल्क्येति होवाच यदिदमन्तरिक्षमनारम्बणमिव
केनाऽऽक्रमेण यजमानः स्वर्गंलोकमाक्रमत
इति ब्रह्मणर्त्विजा मनसा चन्द्रेण मनो वै
यज्ञस्य ब्रह्मा तद्यदिदं सोऽसौ चन्द्रः स
ब्रह्मा स मुक्तिः साऽतिमुक्तिरित्यतिमोक्षा
________________________________________________________________________
पूर्ववद्यजमानचक्षुरध्वर्योरादित्यात्मनाऽध्वर्युकर्तृकं ध्यानमृत्य्वतिक्रमसाधनमित्युत्तरमाह—अध्वर्युणेत्यादिना॥४॥
अथ वृद्धिक्षयादिविशिष्टचन्द्रकर्तृकतिथ्यादिलक्षणकालातिक्रमणसाधनं पृच्छति—याज्ञवल्क्येति होवाच यदिदँ सर्वं पूर्वपक्षापरपक्षाभ्यामित्यादिना। यजमानप्राणोद्गात्रोर्वाय्वात्मना ध्यानमुद्गातृकर्तृकं यजमानस्य पक्षद्वयमुक्तिसाधनमित्युत्तरमाह—उद्गात्रविजेत्यादिना॥५॥
स एवं कालादिमृत्युकृतपरिच्छेदान्मुच्यमानः किमालम्बने फलं प्राप्नोतीति पृच्छति—याज्ञवल्क्येति होवाचेत्यादिना। यदिदं प्रसिद्धमन्तरिक्षमाकाशमनारम्बणमनालम्बनमिव भासतेऽतः केनाऽऽक्रमेणावष्टम्भेन यजमानः स्वर्गं लोकं कर्मफलमाक्रमते प्राप्नोतीति। याजमानिकमनोब्रह्मणोश्चन्द्रात्मना ब्रह्मर्त्विकृतं ध्यानमवलम्बनमित्युत्तरमाह—ब्रह्मर्त्विजेत्यादिना। एवमनुक्तत्वगादीनामपि वाय्वात्मना दर्शनं द्रष्टव्यमित्यभिप्रेत्योपसंहरति—इतीति। इत्येवंप्रकारा अतिमोक्षा अतिमोक्षो विद्यते येषां त इत्यतिमोक्षाः।
**अथ संपदः॥६॥ याज्ञवल्क्येति होवाच कतिभि-
रयमद्यर्ग्भिर्होताऽस्मिन्यज्ञे करिष्यतीति तिसृ-
भिरिति कतमास्तास्तिस्र इति पुरोनुवाक्या
च याज्या च शस्यैव तृतीया किं ताभिर्ज-
यतीति यत्किंचेदं प्राणभृदिति॥७॥
याज्ञवल्क्येति होवाच कत्ययमद्याध्वर्युर-
स्मिन्यज्ञ आहुतीर्होष्यतीति तिस्र इति
कतमास्तास्तिस्र इति या हुता उज्ज्व-
लन्ति या हुता अतिनेदन्ते या हुता
अधिशेरते किं ताभिर्जयतीति या हुता **
________________________________________________________________________
अथानन्तरं संपद उच्यन्ते। अल्पीयःस्वग्निहोत्रादिषु महतां कर्मणां तत्फलकामनया कर्मत्वादिसामान्यात्संपादनं फलस्यैव वा संपादनमधिकारिकृतं संपन्नामकं कर्मोच्यत इत्यर्थः॥६॥
एतत्कर्म प्रकटयितुमश्वलप्रश्नमवतारयति—याज्ञवल्क्येति होवाचेति। कतिभिः कति संख्याभिर्ऋग्भिर्ऋग्जातिभिरयं होताऽस्मिन्यज्ञे शंसनं करिष्यतीति पृष्ठे तिसृभिरृग्जातिभिरित्युत्तरमुक्तवन्तं प्रति पुनस्तासां स्वरूपं पृच्छतिकतमा इति। किंस्वरूपास्तास्तिस्र ऋग्जातय इति पृष्ट उत्तरमाह—पुर इति। पुरोनुवाक्या च प्रयोगकालात्प्राग्घोत्रा प्रयुज्यमानर्ग्जातिः। याज्या च यागार्थं प्रयुज्यमानर्ग्जातिः। शस्या शस्त्रार्थं प्रयुज्यमानर्ग्जातिः। तृतीया तृतीयसंख्यापूरणी। एतासां फलं पृच्छति—किमिति। ताभिः पुरोनुवाक्याद्याभिर्ऋरग्जातिभिर्यजमानः किं जयति किं फलं प्राप्नुयात्। उत्तरमाह—यदिति। प्राणि(ण)भृत्प्राणिजातं यत्किंचास्ति तत्सर्वं जयति सर्वंप्राणात्मकभूरादिलोकत्रयस्य संख्यासामान्यात्पुरोनुवाक्यादिषु तिसृषु संपादनादित्यर्थः॥७॥
एवमृरग्जातिषु फलसंपादनेऽभिहितेऽध्वर्युकृताहुतिषु तत्संपादनजिज्ञासया पृच्छति—याज्ञवल्क्येति होवाच कत्ययमद्याध्वर्युरित्यादिना। समानार्थमेतत्।या हुताः समिदाज्याहुतय उज्ज्वलन्ति या हुता मांसाद्याहुतयोऽतिनेदन्तेऽतीव शब्दं कुर्वन्ति या हुताः पयःसोमाहुतयोऽध्यधो गत्वा भूमेरधः शेरते किं ताभिर्जयतीत्यत आह—या इति। या आहुतयो हुता
उज्ज्वलन्ति देवलोकमेव ताभिर्जयति दीप्यत
इव हि देवलोको या हुता अतिनेदन्ते पितृलो-
कमेव ताभिर्जयत्यतीव हि पितृलोको या हुता
अधिशेरते मनुष्यलोकमेव ताभिर्जयत्यध इव
हि मनुष्यालेकः॥८॥ याज्ञवल्क्येति होवाच
कतिभिरयमद्य ब्रह्मा यज्ञं दक्षिणतो देवता-
भिर्गोपायतीत्येकयेति कतमा सैकेति मन एवे-
त्यनन्तं वै मनोऽनन्ता विश्वे देवा अनन्तमेव
स तेन लोकं जयति॥९॥ याज्ञवल्क्येति
होवाच कत्ययमद्योद्गाताऽस्मिन्यज्ञे स्तोत्रियाः
स्तोष्यतीति तिस्र इति कतमास्तास्तिस्र इति
पुरोनुवाक्या च याज्या च शस्यैव तृतीया
_______________________________________________________________________
उज्ज्वलन्ति ताभिराहुतिभिर्देवलोकमेव जयति। एताभिः263 साक्षाद्देवलोकाख्यं फलमेव मया निर्वर्त्यत इति ध्यानेन संपादयति। कथमित्यपेक्षायामुज्ज्वलत्वसामान्यादित्याह—दीप्यत इति। हि यस्माद्देवलोको दीप्यत इवोज्ज्वल इवेत्यभिनयप्रदर्शनार्थः। तथा या हुता अतिनेदन्त इत्यादि समानम्। हि यस्मादतीवातिकुत्सितशब्द इव पितृलोकस्तत्संबन्धायां हि संयमन्यां पुर्यां वैवस्वतेन यात्यमानानां हा हतोऽस्मि मुञ्च मुञ्चेति कुत्सितशब्दो भवति। उपरितनलोकापेक्षया पापप्रचुरत्वेनाधोगमनापेक्षया च मनुष्यलोको ह्यध264एवेत्यर्थः॥८॥
अद्यायं ब्रह्माऽऽह्रनीयस्य दक्षिणतो ब्रह्मासने स्थित्वा कतिभिर्देवताभिर्यज्ञं गोपायति रक्षति मनसा ध्यानेनैव व्याप्रियतेऽतो मन एवैका देवता तया यज्ञं गोपायति। अस्मिन्मनसि संपाद्यमानं फलमपृष्टमपि मुनिराह—अनन्तमिति। यस्मादनन्तं वै प्रसिद्धं वृत्तिभेदेन मनोवृत्त्यधिष्ठातारो विश्वेदेवाश्चानन्तास्तस्मात्स उपासको मनस्तद्देवतयोरानन्त्यदृष्ट्यारोपेणानन्तसामान्यादनन्तमेव लोकं जयतीत्यर्थः॥९॥
स्तोत्रिया गीतिविशिष्टा ऋग्जातयः। समानमन्यत्। एताः पूर्वोक्ताः पुरोनुवाक्यादयो गीतिरूपेण वर्तमाना अधियज्ञसंज्ञका इत्येतत्पूर्वमवगतं परं तु
कतमास्ता या अध्यात्ममिति प्राण एव पुरो-
नुवाक्याऽपानो याज्या व्यानः शस्या किं
ताभिर्जयतीति पृथिवीलोकमेव पुरोनुवाक्यया
जयत्यन्तरिक्षलोकं याज्यया द्युलोकँ शस्यया
ततो ह होताऽश्वल उपरराम॥१०॥
इति बृहदारण्यकोपनिषदि तृतीयाध्यायस्य प्रथमं ब्राह्मणम्॥१॥
अथ हैनं जारत्कारव आर्तभागः पप्रच्छ
याज्ञवल्क्येति होवाच कति ग्रहाः कत्य-
तिग्रहा इति। अष्टौ ग्रहा अष्टावतिग्रहा
________________________________________________________________________
केन रूपेणैताः पुनरध्यात्मं भवतीति पृच्छति—कतमा इति। या अध्यात्मं स्तोत्रियास्तिस्र ऋचः कास्ता इति पृष्ट उत्तरमाह—प्राण इति। प्राण एव पुरोनुवाक्या पशब्दसामान्यात्। अपानो याज्या, उभयोः प्राणपुरोनुवाक्याभ्यामानन्तर्यादिसामान्यात्। व्यानः शस्या, अप्राणन्ननपानन्नृचमभिव्याहरतीति श्रुत्यन्तरात्। एवं प्राणादिषु पुरोनुवाक्यादिदृष्टिकरणस्य फलं पृच्छति—किं ताभिर्जयतीति। पृष्ट उत्तरमाह—पृथिवीलोकमेव पुरोनुवाक्यया जयत्यन्तरिक्षलोकं याज्यया द्युलोकं शस्यया जयति प्रथममध्यमोत्तमत्वसामान्यात्। एतत्तु यत्किंचेदं प्राणभृदिति सामान्योक्तस्यैव विशेषतः कथनम्। ततोऽनन्तरं होताऽश्वलो नायमस्मद्गोचर इत्यभिप्रायेणोपररामेत्यर्थः॥१०॥
इति बृहदारण्यकोपनिषन्मिताक्षरायां तृतीयाध्यायस्य
प्रथममश्वलब्राह्मणम्॥१॥
-
*
एवं कालकर्मलक्षणान्मृत्योरतिमुक्तिरूपोपासनफलस्यापि सूत्रान्तर्गतस्य मृत्युग्रस्तत्वकथनाय मृत्युस्वरूपं कथयितुं मुक्त्यतिमुक्तिमतियोगिभूतान्पदार्थांस्तावदाख्यायिकामनुसृत्याऽऽह—अथ हैनं जारत्कारव इति। अथाश्वलोपरमानन्तरं जरत्कारुगोत्रो जारत्कारव ऋतभागस्यापत्यमार्तभागो हे याज्ञवल्क्येति तत्संबोधनम्। होवाच। ततः संबोधनेनाभिमुखीकृतमेनं प्रकृतं याज्ञवल्क्यं मुक्त्यतिमुक्तिप्रतियोगित्वेन सामान्यतः प्रसिद्धा ग्रहाः कति कतिसंख्याका अतिग्रहाश्च कतीति संख्यां पप्रच्छ। उत्तरमाह—अष्टौ ग्रहा अष्टावतिग्रहा
इति ये तेऽष्टौ ग्रहा अष्टावतिग्रहाः कतमे त इति
॥१॥ प्राणो वै ग्रहः सोऽपानेनातिग्राहेण गृही
तोऽपानेन हि गन्धाञ्जिघ्रति॥२॥ वाग्वै ग्रहः स
नाम्नाऽतिग्राहेण गृहीतो वाचा हि नामान्य-
भिवदति॥३॥ जिह्वा वै ग्रहः सरसेनातिग्राहेण
गृहीतो जिह्वया हि रसान्विजानाति॥४॥ चक्षुर्वै
ग्रहः स रूपेणातिग्राहेण गृहीतश्चक्षुषा हि
रूपाणि पश्यति॥५॥ श्रोत्रं वै ग्रहः स
शब्देनातिग्राहेण गृहीतः श्रोत्रेण हि शब्दा-
ञ्शृणोति॥६॥ मनो वै ग्रहः स कामेना-
तिग्राहेण गृहीतो मनसा हि कामान्कामयते
॥७॥ हस्तौ वै ग्रहः स कर्मणाऽतिग्राहेण गृहीतो
हस्ताभ्याँ हि कर्म करोति॥८॥ त्वग्वै ग्रहः
स स्पर्शेनातिग्राहेण गृहीतस्त्वचा हि स्पर्शा-
न्वेदयत इत्येतेऽष्टौ ग्रहा अष्टावतिग्रहाः॥९॥
________________________________________________________________________
इति। संख्येयान्पृच्छति—ये तेऽष्टौ ग्रहा अष्टावतिग्रहाश्चोक्तास्ते कतमे क इत्यर्थः॥ १॥
उत्तरमाह—प्राण इति। प्राणो घ्राणो वै प्रसिद्धो वायुसहितो ग्रहो ग्रहचत्परवशहेतुत्वात्। सोऽपानेन गन्धेनातिग्राहेणेति दैर्घ्यंछान्दसम्। अतिग्रहेणगृहीतः। अपानगन्धग्रहयोरविनाभावात्। कथं तेन गृहीत इत्यत आह—अपानेनेति। अपानशब्देनात्रान्तर्मुखः श्वास उच्यते। तेन हि समाहृतान्गन्धाल्लोँको जिघ्रत्यतस्तेन प्राणो गृहीत इत्यर्थः॥२॥
वागध्यात्मपरिच्छिन्नासङ्गास्पदीभूतानृतादिवदनेषु प्रयुक्ता वै प्रसिद्धो ग्रहः। स नाम्ना वक्तव्येन विषयेणातिग्राहेण गृहीतः। वक्तव्यासङ्गेन हि प्रयुक्ता वाक्सर्वानर्थैर्युज्यत इति प्रसिद्धमित्यभिप्रेत्याऽऽह—वाचेति। हि यस्माल्लोको नामव्याप्तविषयावच्छिन्नया वाचा नामान्यभिवदतीत्यर्थः॥३॥।
एवं जिह्वाद्यास्त्वक्पर्यन्ता ग्रहा रसाद्याः स्पर्शपर्यन्ताश्चातिग्रहाः कण्डिकाषट्कप्रतिपाद्या वेदितव्याः॥४॥५॥६॥७॥८॥९॥
याज्ञवल्क्येति होवाच यदिदँसर्वं मृत्योरन्नं
का स्वित्सा देवता यस्या मृत्युरन्नमित्यग्निर्वै
मृत्युः सोऽपामन्नमप पुनर्मृत्युं जयति॥१०॥
याज्ञवल्क्येति होवाच यत्रायंपुरुषो
म्रियत उदस्मात्प्राणाः क्रामन्त्याहो३ नेति
नेति होवाच याज्ञवल्क्योऽत्रैव समवनीयन्ते
________________________________________________________________________
एवं ग्रहातिग्रहान्मुक्त्यतिमुक्तिप्रतियोग्भूितान्बन्धनाख्यानभिधायेदानीमतिमुक्तित्वेनोक्तस्य ज्ञानकर्मफलभूतस्यापि सूत्रपदस्य पूर्वोक्तरीत्या वागाद्यात्मकाग्न्याद्यभिन्नत्वेन ग्रहातिग्रहरूपमृत्य्वात्मकत्वात्ततोऽप्यतिमुक्त्यर्थं तन्मारकं मृत्य्वन्तरं पृच्छति—याज्ञवल्क्येति होवाचेति। यदिदं व्याकृतं सर्वं मृत्योरन्नंमृत्युना ग्रस्तमुत्पत्तिविनाशशालित्वान्मृत्युरपि यस्या देवताया अन्नं भवेत्सा देवता कविदिति वितर्के। यदि मृत्योरपि मृत्य्वन्तरं मुनिर्ब्रूयात्तर्हि तस्यापि मृत्य्वन्तरमित्यनवस्था स्याद्यदि न ब्रूयात्तदा ग्रहातिग्रहलक्षणान्मृत्योर्मोक्षो नोपपद्यते तस्य मारकाभावादिति प्रष्टुरभिप्रायः। उत्तरमाह—अग्निरिति। अग्निर्वै प्रसिद्धो मृत्युः सर्वान्नभक्षकत्वात्सोऽप्यग्निरपामन्नमद्भिरद्यमानत्वात्। यद्वाऽग्निर्हिरण्यगर्भ आपस्तु तत्कारणमव्याकृतम्। अग्निर्वै सर्वा देवता आपो वा इदमासन्निति च श्रुतेरित्येवं मृत्योरपि मृत्युर्दृष्टस्तद्वत्सर्वमृत्युर्ब्रह्मात्मसाक्षात्कारलक्षणश्चरमान्तःकरणवृत्तिरूपः कतकरेणुवत्स्वपरविरोधिभूतो वर्ततेऽतो नानवस्थेति भावः। एवमुक्तसर्वमृत्यूत्पादने किं फलमित्यत आह—अप पुनरिति। ब्रह्मात्मसाक्षात्कारेण मृत्युना ग्रहादिविलाससहितानाद्यज्ञानमृत्यौ नाशिते सति विद्वान्पुनर्मृत्युं पुनर्भरणमपजयति निराकरोति तदर्थं नैवोत्पद्यत इत्यर्थः॥१०॥
एतदेवोक्तं फलं विशदीकर्तुं पृच्छति—याज्ञवल्क्येत्यादिना। परमात्मसाक्षात्काररूपेण महामृत्युना सविलासाज्ञानमृत्यौ नाशिते सति मुक्तो विद्वानयं पुरुषो यत्र यस्मिन्काले म्रियते तदाऽस्मान्म्रियमाणाद्विदुषः सकाशात्प्राणा वागादयो ग्रहा मुक्तिप्रतिबन्धकीभूतान्तस्थवासनामयनामाद्यतिग्रहसहिता उदूर्ध्वमुत्क्रामन्त्याहोस्विन्नेति प्लुतिर्विचारणार्था। इति पृष्ठे नेति नोत्क्रामन्तीत्युवाच याज्ञवल्क्यः। किंत्वत्रैव परे ब्रह्मण्येकतां गतेऽस्मिन्नेव विदुष्येव समवनीयन्ते
**स उच्छ्रयत्याध्मायत्याध्मातो मृतः शेते॥११॥
याज्ञवल्क्येति होवाच यत्रायं पुरुषो म्रियते
किमेनं न जहातीति नामेत्यनन्तं वै नामानन्ता
विश्वे देवा अनन्तमेव स तेन लोकं जयति॥१२॥
याज्ञवल्क्येति होवाच यत्रास्य पुरुषस्य मृत-
स्याग्निं वागप्येति वातं प्राणश्चक्षुरादित्यं मन-
श्चन्द्रं दिशः श्रोत्रं पृथिवी शरीरमाकाशमात्मौ-
षधीर्लोमानि वनस्पतीन्केशा अप्सु लोहितं च
रेतश्चनिधीयते क्वायं तदा पुरुषो भवतीत्याहर **
________________________________________________________________________
प्रविलीयन्त ऊर्मय इव समुद्रे। तर्हि मृतप्रसिद्धिः कथमित्यपेक्षायां तस्या देहविषयत्वादित्याह—स इति। स मुक्तदेह उच्छ्वयत्युच्छूनतां प्रतिपद्यते। आध्मायति दृतिवद्बाह्येन वायुना पूर्यते। आध्मातो मृतो निश्चेष्टः शेतेऽतो देहस्यैव मरणधर्मतेत्यर्थः॥११॥
नन्वेवं प्राणादीनां लयेऽप्यन्यस्य संसारहेतुभूतस्य कर्मादेर्लयश्चेन्न स्यात्तदा विदुषः पुनः संसारापत्तिरन्यथा हि मोक्ष इत्यभिप्रायवान्पृच्छति—याज्ञवल्क्येति होवाचेति। यत्र यस्मिन्कालेऽयं पुरुषो विद्वान्प्रियते तदैनं किं न जहाति न त्यजतीत्युत्तरमाह—नामेतीति। सर्वमेवैनं जहाति नाममात्रं तु न जहाति तत्कुतः। अनन्तं नित्यं वै नाम प्रसिद्धं शुको मुक्त इतिवद्व्यवहारपारम्पर्यात्। ब्रह्मविद्यां स्तोतुं किंचिदाह—अनन्ता इति। अनन्ता वै प्रसिद्धा विश्वेदेवा अतस्तन्नामानन्त्याधिकृतान्विश्वान्देवान्यो विद्वान्ब्रह्मास्मीति दर्शनेनाऽऽत्मत्वेनोपगच्छति। स तेन दर्शनेनानन्तमेव लोकं जयतीत्यर्थः॥१२॥
अथोक्तग्रहातिग्रहलक्षणमृत्योः किं प्रयोजकं यत्प्रयुक्तेन मृत्युनाऽविद्वान्वध्यत इति तत्स्वरूपनिर्धारणार्थं पृच्छति—याज्ञवल्क्येति होवाचेति। यत्र यस्मिन्समयेऽस्याविदुषः पुरुषस्य शिरःपाण्यादिविशिष्टस्य वाग्वागधिष्ठात्री देवताऽग्निमप्येत्यपिगच्छति। प्राणो घ्राणस्तदधिष्ठात्री वातमप्येतीति सर्वत्र संबध्यते। आत्मशब्देनात्राऽऽत्माभिव्यक्त्यधिष्ठानं हृदयाकाशमुच्यते। तदाकाशं महाकाशमध्येति। तदा तस्मिन्कालेऽयं पुरुषः क्वकस्मिन्नाश्रितो भवति। किमाश्रितः कार्यकरणसंघातमुपादत्त इति पृष्ट उत्तरं वक्तुमुपोद्घातमाह—आहरेति।
सोम्य हस्तमार्तभागाऽऽवामेवैतस्य वेदिष्यावो
न नावेतत्सजन इति। तौ होत्क्रम्य मन्त्रयां-
चक्राते तौह यदूचतुः कर्म हैव तदूचतुरथ
यत्प्रशशँसतुः कर्म हैव तत्प्रशशँसतुः पुण्यो
वै पुण्येन कर्मणा भवति पापः पापेनेति ततो
ह जारत्कारव आर्तभाग उपरराम॥१३॥
इति बृहदारण्यकोपनिषदि तृतीयाध्याये द्वितीयं ब्राह्मणम्॥२॥
________________________________________________________________________
हे सोम्य265 हस्तमाहर देहि। हे, आर्तभागाऽऽवामेकान्ते गत्वैतस्य त्वत्पृष्टस्य यत्तत्वं वेदितव्यं तद्वेदिष्यावः। कुतो यस्मान्नावावयोरेतद्वस्तु सजने जनसमुदायसंयुक्ते देशे निर्णेतुं न शक्यतेऽत्रानेकवादिविप्रतिपत्तेरित्येवमुक्त्वा यन्निर्णीतं तच्छ्रुतिः स्वमुखेनैवाऽऽचष्टे— ताविति। तौ ह याज्ञवल्क्यार्तभागौ सजनदेशादुत्क्रम्य मन्त्रयांचक्राते। आदौ लौकिकवादिपक्षाणामेकैकं परिगृह्य विचारितवन्तौ। तौ ह विचार्य यदूचतुः सर्वानेव स्वभाववादादिपूर्वपक्षानपोह्य तच्छृणु। तत्तत्र विचारावस्थायामेकान्ते स्थित्वा कर्म हैवाऽऽश्रयं पुनः पुनः कार्य266करणोपादानहेतुमूचतुः। न केवलमूचतुरथापि तु कालेश्वराद्यभ्युपगतेषु हेतुषु यत्तौ प्रशशंसतुः कर्मैव ह तत्प्रशशंसतुः। कर्मैव प्रधानं कारणमिति प्रशंसापदोपपादितं प्राधान्यमुपसंहरति—पुण्य इति। यस्मादेवं ग्रहातिग्रहादिरूपकार्य267करणोपादानं कर्म प्रयुक्तमिति निश्चितं तस्मात्पुण्येन शास्त्रविहितेन कर्मणा देवादिषु जायमानः पुण्यः पुण्यात्मा वै भवति। पापेन शास्त्रनिषिद्धेन कर्मणा स्थावरादिषु जायमानः पापः पापात्मा भवति। तत एवं प्रश्ननिर्णयानन्तरं जारत्कारव आर्तभागो मनसाऽप्यचिन्तनीयपराजयोऽयमित्यभिप्रायेणोपरराम॥१३॥
इति बृहदारण्यकोपनिषन्मिताक्षरायां तृतीयाध्याये द्वितीयमार्तभागब्राह्मणम्॥२॥
-
*
ननु पुण्योत्कर्षात्फलोत्कर्षप्रसिद्धेर्महापुण्योत्कर्षान्मोक्षो भविष्यतीत्याशङ्कानिरासार्थं तदुत्कर्षस्य व्याप्तिस्तु संसारान्तर्गतसूत्रपदान्तैवेति कथयितुं तद्व्या-
अथ हैनं भुज्युर्लाह्यायनिः पप्रच्छ याज्ञव-
ल्क्येति होवाच मद्रेषु चरकाः पर्यव्रजाम
ते पतञ्चलस्य काप्यस्य गृहानैम तस्याऽऽ-
सीद्दुहिता गन्धर्वगृहीता तमपृच्छाम कोऽ-
सीति सोऽब्रवीत्सुधन्वाऽऽङ्गिरस इति तं यदा
लोकानामन्तानपृच्छामाथैनमब्रूम क्व पारि-
क्षिता अभवन्निति क्व पारिक्षिता अभवन्स
त्वा पृच्छामि याज्ञवल्क्य क्क पारिक्षिता
अभवन्निति॥१॥ स होवाचोवाच वै
________________________________________________________________________
प्तिमाख्यायिकामनुसृत्य भुज्युब्राह्मणमाह—अथेति। अथ जारत्कारवोपरमानन्तरं भुज्युरिति नामवाल्लँह्यस्यापत्यं लाह्यस्तदपत्यं लाह्यायनिरेनं पप्रच्छेत्यादि पूर्ववत्। स्वविद्याया गुरूपदेशपूर्वकत्वं ज्ञापयितुमाख्यायिकामारचयति—मद्रेष्विति। मद्रेषु देशेष्वध्ययनार्थं व्रतचरणाच्चरका विद्यार्थिन ऋत्विजो वा पर्यव्रजाम पर्यटितवन्तः। ते वयं काप्यस्य कपिगोत्रस्य पतञ्चलस्य पतञ्चलनाम्नो गृहानावसथानैम गतवन्तः। तस्य पतञ्चलस्य दुहिता पुत्री गन्धर्वेणामानुषेण केनचित्सत्त्वेन गृहीताऽऽविष्टाऽऽसीत्। तं दुहितर्याविष्टं गन्धर्वं प्रति कोऽसि कस्त्वं किंनामाऽसीति सर्वे वयमपृच्छाम। स पुनरस्मान्प्रत्यब्रवीन्नाम्नाऽहं सुधन्वा गोत्रेणाऽऽङ्गिरस इति। तत्स्वरूपं ज्ञात्वा तं गन्धर्वं प्रति यदा यस्मिन्काले लोकानामन्तानवसानान्यपृच्छामाथ तदैनं गन्धर्वंप्रति पारिक्षिताः परितो दुरितं क्षीयते येन स परिक्षिदश्वमेधस्तद्याजिनः पारिक्षिताः क्वाभूवन्क्वगता बभूवुरित्यब्रूम पृष्टवन्तो वयमित्यतः क्वपारिक्षिता अभवन्निति प्रश्नस्य गन्धर्वदत्तोत्तरज्ञः सोऽहं हे याज्ञवल्क्य क्वपारिक्षिता अभवन्निति त्वा त्वां पृच्छामि मम गन्धर्वोपदिष्टं त्वं चेज्जानासि तर्हि वद नो चेत्त्वमज्ञानादिना निगृहीत इति भावः॥१॥
तां268 परिहर्तुमिच्छन्स याज्ञवल्क्यो ह भुज्युं प्रति गन्धर्वोक्तप्रत्युक्तिमुवाच। हे भुज्यो स गन्धर्वस्तुभ्यमिति वै उवाच। इतीति किं त इदानींतनाः पारि-
सोऽगच्छन्वै ते तद्यत्राश्वमेधयाजिनो गच्छ-
न्तीति क्व न्वश्वमेधयाजिनो गच्छन्तीति
द्वात्रिँशतं वै देवरथाह्न्यान्ययं लोक-
स्तँसमन्तं पृथिवी द्विस्तावत्पर्येति ताँ
समन्तं पृथिवीं द्विस्तावत्समुद्रः पर्येति तद्या-
वती क्षुरस्य धारा यावद्वामक्षिकायाः पत्रं
तावानन्तरेणाऽऽकाशस्तानिन्द्रः सुपर्णो भूत्वा
वायवे प्रायच्छत्तान्वायुरात्मनि धित्वा तत्राग-
मयद्यत्राश्वमेधयाजिनोऽभवन्नित्येवमिव वै स
________________________________________________________________________
क्षितास्तत्राऽऽगच्छन्यत्र पूर्वतना अश्वमेधयाजिनो गच्छन्ति। पूर्वतना अश्वमेधयाजिनः क्वनु कुत्र गच्छन्तीति पृष्टे तद्वक्तुं तावद्भुवनकोशपरिमाणमाह—द्वात्रिंशतमिति। देव आदित्यस्तस्य रथो देवरथस्तस्यैकाहोरात्रावच्छिन्नगतिवेगेन यावान्देशो मीयते तावान्देश एकदेवरथाह्न्यंतस्य द्वात्रिंशत्संख्यया गणने कृते सति द्वात्रिंशतं वै प्रसिद्धानि देवरथाह्न्यानि भवन्त्येतावत्परिमाणोऽयं ससागरः269 सर्वप्राणिभोगहेतुभूतो लोको लोक्यते सूर्यादिभिः प्रकाश्यत इति लोकोऽतः परमलोकस्तं च लोकं समन्तं समन्ततः पृथिवी द्विस्तावल्लोकपरिमाणाद्द्विगुणपरिमाणा पर्येति परितो व्याप्य तिष्ठति। तां च पृथिवीं पृथिवीपरिमाणाद्द्विस्तावद्विगुणपरिमाणः समुद्रः समन्तं पर्येति व्याप्नोति। अयं तु समुद्रो घनोदक इति पुराणे प्रसिद्धः। एवमुक्तस्य ब्रह्माण्डस्य कपालयोर्विवरपरिमाणं सदृष्टान्तमाह—तदिति। तत्तत्र व्यवहारभूमौ यावती यावत्परिमाणा क्षुरस्य धाराऽग्रं वाऽथवा यावत्सौक्ष्म्येण युक्तं मक्षिकायाः पत्रं पक्षस्तावत्परिमाणः कपालयोरन्तरेण मध्य आकाशोऽवकाशः। यद्विवक्षयेदं सर्वमुक्तं तदाह—तानिति। तेनाऽऽकाशद्वारेण तान्पारिक्षितानिन्द्रो विराडात्मभूतोऽश्वमेधे श्येनाकारेण चितोऽग्निः सुपर्णः पक्षपुच्छाद्यात्मकः पक्षी भूत्वा वायवे प्रायच्छत्प्रदत्तवान्स्वस्य स्थूलत्वेनोक्तच्छिद्रद्वारा वहिर्गमनासंभवात्। वायुः पुनस्तान्पारिक्षितानात्मनि स्वस्मिन्धित्वा स्थापयित्वा स्वात्मभूतान्कृत्वा तत्रागमयद्यत्र पूर्वेऽतिक्रान्तकालिका अश्वमेधयाजिनोऽभवन्निति। एवमाख्यायिकया निर्णीतमर्थं मुनिरुपसंहरति—एवमिति। हे भुज्यो, एवमिवैवमेव वै स गन्धर्वस्तुभ्यं
वायुमेव प्रशशँस तस्माद्वायुरेव व्यष्टिर्वायुः
समष्टिरप पुनर्मृत्युं जयति य एवं वेद ततो ह
मुज्युर्लाह्यायनिरुपरराम॥२॥
इति बृहदारण्यकोपनिषदि तृतीयाध्यायस्य तृतीयं ब्राह्मणम्॥३॥
अथ हैनमुषस्तश्चाक्रायणः पप्रच्छ याज्ञ-
वल्क्येति होवाच यत्साक्षादपरोक्षा-
________________________________________________________________________
वायुमेव सूत्रमेव पारिक्षितगतिस्थानं प्रशशंस प्रकर्षेण कथयामासेति समाप्तं मुनिवचनम्। एवमाख्यायिकानिर्वृत्तमर्थं श्रुतिः स्वमुखेनैवास्मभ्यं कथयति—तस्मादित्यादिना। यद्वाऽभवन्नित्यत्रस्थ इतिशब्द आख्यायिकासमाप्त्यर्थः। ते पूर्वेऽपि क्वेत्यादिप्रकृतप्रश्नस्यैव शेषभूतं श्रुतिरेव स्वमुखेनाऽऽह—एवमिति। एवमिवैवमेव वै स गन्धर्वो वायुमेव क्रियाशक्तिप्रधानं सूत्रमेव प्रशशंस संस्तुतयामासास्यैवास्मिंश्चराचरे जगति सामान्यविशेषरूपेणान्तर्बहिश्च व्याप्यावस्थानाद्देवतान्तराणां त्वण्डाद्बहिर्गमनाशक्तेः। यस्मादेवं तस्माद्वायुरेव व्यष्टिरध्यात्माधिभूताधिदैवविभागेन व्यावृत्तरूपा विविधाऽष्टिर्व्याप्तिः। तथा वायुरेव समष्टिः समाऽनुगतरूपा केवलेन सूत्रात्मनाऽष्टिर्व्याप्तिः। एतद्विज्ञानफलमाह—अपेति। य एवं समष्टिव्यष्टिरूपवाय्वात्मकत्वेनाऽऽत्मानं वेदोपगच्छति स पुनर्मृत्युं पुनर्मरणमपजयति तावद्यावत्तत्रावस्थानं न सर्वथा270। ततो ह भुज्युर्लाह्यायनिरुपरराम।अतः स एवामतिभारूपं निग्रहं प्राप्त इत्यर्थः॥२॥
इति बृहदारण्यकोपनिषन्मिताक्षरायां तृतीयं भुज्युब्राह्मणम्॥३॥
-
*
एवं यदबोधात्पुण्यपापप्रयुक्तैर्ग्रहातिग्रहैर्ग्रस्तस्ताननवरतं त्यजन्नुपाददच्चाऽऽब्रह्मस्थावरं पुण्योत्कर्षादप्यविमुच्यमानः संसरत्येवेति ब्राह्मणत्रयेणोक्तम्। इदानीमस्य तदात्मैक्यबोधार्थमध्यायशेषः प्रवर्तते। तत्रैवं संसरतो मुमुक्षोरत्राधिकृतस्य किं वास्तवं स्वरूपमिति जिज्ञासायां देहेन्द्रियाद्यतिरिक्तागौणब्रह्माभिन्नं प्रत्यगात्मत्वमिति तत्स्वरूपनिर्णयायोषस्तब्राह्मणारम्भः—अथेति। अथानन्तरं चक्रस्यापत्यं चाक्रायण उषस्तनामा ब्राह्मण एनं पप्रच्छेत्याधुक्तार्थम्। यदिति परमात्मतत्त्वं विशेष्यं तस्यापरोक्षादित्यन्तं विशेषणं परोक्षत्वादिभ्रमव्युदासार्थम्। य इति जीवात्मा विशेष्यस्तस्य सर्वान्तर इति विशेषणं
द्ब्रह्मय आत्मा सर्वान्तरस्तं मे व्याचक्ष्वेत्येष त
आत्मा सर्वान्तरः कतमो याज्ञवल्क्य सर्वान्तरो
यः प्राणेन प्राणिति स त आत्मा सर्वान्तरो
योऽपानेनापानीति स त आत्मा सर्वान्तरो
यो व्यानेन व्यानीति स त आत्मा सर्वान्तरो
य उदानेनोदानिति स त आत्मा सर्वान्तर एष
त आत्मा सर्वान्तरः॥१॥
______________________________________________________________________
परिच्छिन्नत्वादिभ्रमव्यावृत्त्यर्थम्। तथाच यद्ब्रह्म बृहत्तमं साक्षा271त्स्वरूपत एवापरोक्षादपरोक्षं न तु घटादिवद्वृत्तिव्याप्यत्वेन। यद्वा साक्षादगौणं न तु मनो ब्रह्मेत्यादिवद्गौणम्272। तदेव प्रत्यगात्मेत्याह—य इति। य आत्मा प्रत्यगात्मा सर्वान्तरः सर्वस्याभ्यन्तरस्तं ब्रह्माभिन्नं प्रत्यगात्मानं मे मह्यंव्याचक्ष्व विस्पष्टं कथय शृङ्गे गृहीत्वा गामिव दर्शयेति यावत्। तथाचोक्तविशेषणैः शोधितयोस्तत्त्वं पदार्थयोर्यद्य इति शब्दाभ्यां सामानाधिकरण्यादनुगतचिद्धातुमत्यगात्मत्वं जीवस्य स्वाभाविकं स्वरूपं पृष्टमिति भावः। उत्तरमाह—एष त आत्मा सर्वान्तर इति। एतद्विशेषणं साक्षादित्यादिविशेषणानामुपलक्षणपरम्। तथाच य उक्तविशेषणैरुपलक्षितो ब्रह्मात्मैकत्वलक्षणः स एष ते तव कार्य273करणसंघातस्याऽऽत्मा। पुनः पृच्छति—कतम इति। हे याज्ञवल्क्य स्थूलसूक्ष्मदेहबुद्धिसाक्षिषु मध्ये कतमः सर्वान्तरः सर्वान्तरत्वादिविशेषणैर्विशिष्टस्तवाभिमत इति पृष्चरमपक्षं गृहीत्वोत्तरमाह—य इति। यः प्राणेन मुखनासिकासंचारिणा प्राणिति प्राणचेष्टां करोति येनाचेतनः प्राणः प्राणनक्रियाविशिष्टो दारुयन्त्रस्येव क्रियत इति यावत्। स ते तव कार्य273करणसंघातस्योक्तविशेषणविशिष्टो विज्ञानमयः। एवं योऽपानेनेत्यादि व्याख्येयम्। व्यानीतीत्यादौ दैर्घ्यं छान्दसम्। एवमुपपादितं स्वरूपमुपसंहरति—एष त इति। यः प्रसिद्धः कार्य274करणसंघातप्रेरयिता स एष ते तव संघातस्याऽऽत्मा सर्वान्तरः साक्षी विज्ञानमय इत्यर्थः॥१॥
स होवाचोषस्तश्चाक्रायणो यथा विब्रूयाद-
सौ गौरसावश्व इत्येवमेवैतद्व्यपदिष्टं भवति
यदेव साक्षादपरोक्षाद्ब्रह्मय आत्मा सर्वान्तरस्तं
मे व्याचक्ष्वेत्येष त आत्मा सर्वान्तरः कतमो
याज्ञवल्क्य सर्वान्तरः। न दृष्टेर्द्रष्टारं पश्येर्न
श्रुतेः श्रोतारँ शृणुया न मतेर्मन्तारं मन्वीथा न
विज्ञातेर्विज्ञातारं विजानीयाः। एष त आत्मा
सर्वान्तरोऽतोऽन्यदार्तंततो होषस्तश्चाक्रायण
उपरराम॥२॥
इति बृहदारण्यकोपनिषदि तृतीयाध्यायस्य चतुर्थं ब्राह्मणम्॥४॥
________________________________________________________________________
प्रश्नप्रतिवचनयोर्वैयधिकरण्यमाशङ्कते—स होवाचोषस्तश्चाक्रायणो हे मुने यथा कश्चिद्गामश्वं वा प्रत्यक्षं दर्शयामीति पूर्वं प्रतिज्ञाय पश्चाद्यश्चलत्यसौ गौर्यो धावत्यसावश्व इति चलनादिलिङ्गौर्विब्रूयाद्व्यपदिशेदेवमात्मानं प्रत्यक्षं दर्शयामीति मत्प्रश्नानुसारेण प्रतिज्ञाय पश्चात्प्राणनादिलिङ्गैरेतदात्मस्वरूपं व्यपदिष्टं भवति। तथाच ते प्रतिज्ञाहान्यादिनिग्रहस्थानं स्यात्। अतस्त्वं गोतृष्णानिमित्तं छलवादं परित्यज्य मत्प्रश्नानुसार्युत्तरं वदेत्यभिप्रायवान्पूर्वोक्तं प्रश्नमनुवदति—यदेवेत्यादिव्याचक्ष्वेत्यन्तेन। मया तु पूर्वकृता प्रतिज्ञाऽनुवर्त्यत एवेत्याशयवान्पूर्वोक्तमुत्तरमनुवदति—एष त आत्मा सर्वान्तर इति। नन्वसौ गौरसावश्व इतिवत्प्रत्यक्षेणासावात्मेति दर्शयेति मत्प्रश्नो नानुसृतः स्यादित्याशयवान्पूर्वोक्तं प्रश्नान्तरमनुवदति—कतमो याज्ञवल्क्य सर्वान्तर इति। सत्यमेतादृशश्चेत्तव प्रश्नस्तर्हि नैवानुसृत आत्मनस्तदविषयत्वेन तथा द्रष्टुमशक्यत्वादित्यभिप्रेत्याऽऽह—नेति। दृष्टेर्दर्शनवृत्तेरनित्याया लौकिक्या द्रष्टारमलौकिक्या स्वात्मरूपया नित्यदृष्ट्या व्याप्तारं हे, उषस्त त्वं न पश्येर्न पश्यसि न कदाचिदपि विषयत्वेन तव दृष्टेर्द्रष्टा स्यादिति। तथा श्रुतेः श्रवणवृत्तेर्मतेः केवलाया मनोवृत्तेर्विज्ञातेः केवलाया बुद्धिवृत्तेः। शेषं सुबोधम्। एवमुक्तदृष्ट्यादिसाक्षिणोऽन्यात्किंचिद्वास्तवं नास्तीत्युपसंहरति—एष त आत्मा सर्वान्तर इति। अतोऽस्मादुक्तरूपादात्मनोऽन्यदार्तं विनाशिरज्जुसर्पादिवन्मिथ्याभूतमिति यावत्। ततो होषस्तश्चाक्रायण उपररामेति पूर्ववदित्यर्थः॥२॥
इति बृहदारण्यकोपनिषन्मिताक्षरायां तृतीयाध्यायस्य चतुर्थमुषस्तब्राह्मणम्॥४॥
अथ हैनं कहोलः कौषीतकेयः पप्रच्छ याज्ञ-
वल्क्येति होवाच यदेव साक्षादपरोक्षाद्ब्रह्म य
आत्मा सर्वान्तरस्तं मे व्याचक्ष्वेत्येष त आत्मा
सर्वान्तरः। कतमो याज्ञवल्क्य सर्वान्तरो योऽश-
नायापिपासे शोकं मोहं जरां मृत्युमत्येति। एतं वै
तमात्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च वित्तै-
षणायाश्च लोकैषणायाश्च व्युत्थायाच भिक्षाचर्यं
_______________________________________________________________________
ब्राह्मणत्रयेण सप्रयोजकं बन्धनमभिहितं चतुर्थे च बद्धस्यास्तित्वव्यतिरिक्तत्वे विनिश्चिते अधुना तस्य सहेतुबन्धध्वंसि ससंन्यासं सम्यग्ज्ञानं वक्तुं कहोलब्राह्मणमारभ्यते—अथेति। अथानन्तरं हैनं कहोलो नामतः कुषीतकस्यापत्यं कौषीतकेयः पप्रच्छेत्यादि समानम्। किंचिद्विशेषकथनाय पूर्वोक्ते एव प्रश्नमतिवचने अनुवदति—यदेव साक्षादित्यारभ्य योऽशनायेत्यतः प्राक्तनेन ग्रन्थेन। अत्र यदेवेत्येवकारप्रक्षेपस्तु य एवाऽऽत्मोषस्तेन पृष्टस्तमेवाहं पृच्छामीति विद्यैक्यद्योतनार्थः। यद्विशेषकथनायायमनुवादस्तं पूर्वानुक्तं विशेषमाह—य इति। योऽशनायाऽशितुमिच्छाऽशनाया पातुमिच्छा पिपासा ते अशनापिपासे अत्येति। शोकशब्देनारतिवाचिना तत्कार्यभूतः कामोऽत्रोच्यते। मोहो विपरीतप्रत्ययप्रभवो मनस्यविवेको भ्रमादिशब्दवाच्यो जराशरिरगतो विपरिणामः। तदवसानभूतः शरीरस्यविच्छेदो मृत्युः समस्तमत्येत्यतिक्रामतीति प्रत्येकं संबध्यते स एषत आत्मा सर्वान्तर इत्यर्थः। एवमुक्तज्ञानाङ्गं संन्यासं विदधाति—एतं वै तमित्यादिना। तमित्युषस्तब्राह्मणोक्तलक्षणं त्वंपदार्थरूपं परामृशति। एतमिति कहोलब्राह्मणोक्तमशनायादिरहितं तत्पदार्थरूपं परामृशति। सामानाधिकरण्यात्तु सिद्धमेकत्वं वैशब्दोऽवधारयति। तथाचैतमेवतं तमेवैतमित्येवं ब्रह्मैक्यरूपमात्मानं सर्वसंसारविनिर्मुक्तं नित्यतृप्तमहमेवास्मीति श्रुत्याचार्याभ्यां विदित्वा ज्ञात्वा ब्राह्मणा ब्रह्मनिष्ठा ब्राह्मण्यजातिमन्तो वा। पुत्रार्थमेषणा पुत्रोत्पत्तिमुद्दिश्य दारग्रहणेच्छालक्षणा। उपासनागवादिलक्षणदैवमानुषवित्तोदापानं वित्तैषणा। लोकैषणा पुत्रेणेमं लोकं जेष्यामि केवलकर्मणा पितृलोकमुपासनासहितेन केवलया वा तया देवलोकमिति बुद्ध्या तत्साधनानुष्ठानमेताभ्य एषणाभ्यो व्युत्थाय वैपरीत्येनोत्थाय संन्यासं कृत्वाऽथानन्तरं शेषकाले देहस्थित्यर्थं भिक्षाचर्यं भिक्षार्थं चरणं
चरन्ति या त्द्येव पुत्रैषणा सा वित्तैषणा
या वित्तैषणा सा लोकैषणोभे त्द्येते एषणे
एव भवतः। तस्माद्ब्राह्मणः पाण्डित्यं
निर्विद्य बाल्येन तिष्ठासेत्। बाल्यं च
पाण्डित्यं च निर्विद्याथ मुनिरमौनं च
मौनं च निर्विद्याथ ब्राह्मणः स ब्राह्मणः
केन स्याद्येन स्यात्तेनेदृश एवातोऽ-
________________________________________________________________________
संचरणं चरन्ति कुर्वन्ति। फलेच्छासाधनं संक्रामतीति न्यायाल्लोकैषणैवैकेत्याह—येति। या हि प्रसिद्धा पुत्रैषणा सैव वित्तैषणा दृष्टफलसाधनत्वादिसामान्यात्। या पुत्रैषणयैकत्वमापन्ना वित्तैषणा कर्मभूता सा लोकैषणैव साध्यलोकैषणाप्रयुक्तत्वात्साधनैषणायाः। एवमेकत्वेऽपि लोकैषणायाः साधनमन्तरेणासिद्धेः साध्यसाधनभेदेन द्वैविध्यमाह—उभे इति। हि यस्मादुभे एते साध्यसाधनरूपे एषणे एव भवत इति। यस्मात्पूर्वे ब्राह्मणाः क्रमेण तमेतमात्मानं विदित्वा व्युत्थानादि चक्रुस्तस्मादद्यतनोऽपि ब्राह्मण आपा275तदर्श्येषणाभ्यो व्युत्थाय पाण्डित्यं276शास्त्रोत्था बुद्धिः पण्डा तद्वान्पण्डितस्तस्य कर्म वेदान्तवाक्यविचारलक्षणं श्रवणापरपर्यायं पाण्डित्यं निर्विद्य निःशेषं कृत्वाऽनन्तरं बाल्येन तिष्ठासेच्छ्रवणज्ञानोत्पन्नाशेषानात्मदृष्टितिरस्करणसामर्थ्यं बलं तस्य भावो बाल्यं तेन ज्ञानबलभावेन विषयानाकृष्टचित्तः संस्तिष्ठासेत्स्थातुमिच्छेत्। बाल्यशब्दाभिधेयं मननं कुर्यादिति यावत्। बाल्यं च पाण्डित्यं च निर्विद्य निःशेषं कृत्वाऽथानन्तरं मुनिर्मौनवान्धारावाहिकात्मप्रत्ययप्रवाहवांस्तिष्ठासेदित्यनुषज्यते निदिध्यासनं कुर्यादिति यावत्। एवममौनं चोक्तार्थपाण्डित्यबाल्यशब्दाभिधेयं श्रवणमननाख्यं निर्विद्य मौनं चोक्तार्थमुनिशब्दवाच्यं निदिध्यासनाख्यं निर्विद्याथानन्तरं ब्राह्मणो निरुपचरितब्राह्मण्यवान्साक्षात्कृतब्रह्मैव स्यात्कृतकृत्यो भवेदिति यावत्। उक्तब्राह्मण्यसाधनं साधनान्तरशङ्कया277 पृच्छति—स इति। स ब्राह्मणः केन साधनेन स्यात्। उत्तरमाह—येनेति। तेनोक्तनैष्कर्म्यसाधनेन स्याद्येनानवाप्तज्ञानोऽपीदृश उक्तब्राह्मणसदृश एव भवेत्। उक्तं ब्रह्मैक्य278मुपसंहरति—अत इति। अतोऽस्माद्ब्राह्म-
न्यदार्तं ततो ह कहोलः कौषीतकेय उपरराम॥१॥
इति बृहदारण्यकोपनिषदि तृतीयाध्यायस्य पञ्चमं ब्राह्मणम्॥५॥
अथ हैनं गार्गी वाचक्नवी पप्रच्छ याज्ञवल्क्ये-
ति होवाच यदिदँसर्वमप्स्वोतं च प्रोतं च
कस्मिन्नु खल्वाप ओताश्चप्रोताश्चेति वायौ
गार्गीति कस्मिन्नु खलु वायुरोतश्चप्रोतश्चेत्य-
न्तरिक्षलोकेषु गार्गीति कस्मिन्नु खल्वन्तरिक्ष-
लोका ओताश्च प्रोताश्चेति गन्धर्वलोकेषु गा-
र्गीति कस्मिन्नु खलु गन्धर्वलोका ओताश्च प्रो-
ताश्चेत्यादित्यलोकेषु गार्गीति कस्मिन्नु खल्वा-
दित्यलोका ओताश्चप्रोताश्चेति चन्द्रलोकेषु
गार्गीति कस्मिन्नु खलु चन्द्रलोका ओताश्च
प्रोताश्चेति नक्षत्रलोकेषु गार्गीति कस्मिन्नु खलु
ण्यावस्थानादशनायाद्यतीतात्मरूपादन्यदेषणालक्षणं वस्त्वन्तरमार्तमार्तिपरिगृहीतं स्वप्नमायामरीच्युदकादिवदसारमित्यर्थः॥१॥
इति बृहदारण्यकोपनिषन्मिताक्षरायां तृतीयाध्याये पञ्चमं
कहोलब्राह्मणम्॥५॥
-
*
यः सर्वान्तर इत्युक्तस्तन्निर्णयार्थं शाकल्यब्राह्मणात्प्राक्तनं ब्राह्मणत्रयं प्रवर्तते तत्रानात्मभूतान्सर्वपदार्थांस्तावद्गार्गीब्राह्मणेनाऽऽह—अथेति। अथानन्तरमेनं मुनिं गार्गी नामतो वचक्नोर्दुहिता वाचक्नवी पप्रच्छेत्यादि पूर्ववत्। किं हे मुने यदिदं सर्वं भूभूधरादि पार्थिवं धातुजातमप्सूदके स्वकारण ओतं च दीर्घतन्तुवत्प्रोतं च तिर्यक्तन्तुवदन्यथा सक्तुमुष्टिवद्विशीर्येत। तथाच यथेयं पञ्चीकृता पृथिवी कार्यत्वात्स्वकारणभूतासु पञ्चीकृतास्वप्स्वोतप्रोता तद्वदपामपि कार्यत्वात्कस्मिन्नु खल्वाप ओताश्च प्रोताश्वेत्यनुमानविधया पृष्ट उत्तरमाह—वायाविति। हे गार्गि वायौपञ्चीकृत ओताश्चप्रोताश्च कस्मिन्नु खलु वायुरोतश्च प्रोतश्चेत्यन्तरिक्षलोकेषु पक्ष्यादिगतिहेतुभूतेषु पञ्चीकृतभूतात्मकेष्वा-
नक्षत्रलोका ओताश्च प्रोताश्चेति देवलोकेषु
गार्गीति कस्मिन्नु खलु देवलोका ओताश्च
प्रोताश्चेतीन्द्रलोकेषु गार्गीति कस्मिन्नु खल्वि-
न्द्रलोका ओताश्चप्रोताश्चेति प्रजापतिलो-
केषु गार्गीति कस्मिन्नु खलु प्रजापतिलोका
ओताश्च प्रोताश्चेति ब्रह्मलोकेषु गार्गीति
कस्मिन्नु खलु ब्रह्मलोका ओताश्च प्रोता-
श्चेति स होवाच गार्गि माऽतिप्राक्षीर्मा ते
मूर्धा व्यपप्तदनतिप्रश्न्यां वै देवतामतिपृच्छसि
गार्गि माऽतिप्राक्षीरिति ततो ह गार्गी वाचक्न-
व्युपरराम॥१॥
इति बृहदारण्यकोपनिषदि तृतीयाध्यायस्य षष्ठं ब्राह्मणम्॥६॥
-
*
काशेष्वित्यादौ। सर्वत्रैकैकस्मिन्नपि बहुवचनं त्वारम्भकभूतानां बहुत्वापेक्षया। प्रजापतिलोका विराट्शरीरारम्भकपञ्चीकृतपञ्चमहाभूतात्मका ब्रह्मलोकेषु हिरण्यगर्भलोकेष्वपञ्चीकृतपञ्चभूतात्मकेषु। समानमन्यत्। एवं ब्रह्मलोकाश्रयं सूत्रात्मानमपि पृच्छन्तीं निषेधयति—स इति। स याज्ञवल्क्यो होवाच। किं हे गार्गि यस्यां ब्रह्मलोका ओतप्रोतभावेन वर्तन्ते तां प्राणात्मभूतां सूत्रदेवता मानुमानिकत्वप्रश्नविषयतामतीत्य वर्तमानामनुमानेन मा प्राक्षीर्मा पृच्छ। निषेधातिक्रमणे दोषमाह—मा त इति। पृच्छन्त्याश्चते तव मूर्धा शिरो मा व्यपप्तद्विस्पष्टं मा पतेत्। तत्पातप्रसङ्गंप्रकटयन्प्रतिषेधमुपसंहरति—अनतिप्रश्न्यामिति। देवतायाः स्वप्रश्न आगमविषयस्तमतिक्रान्तो गार्ग्यः प्रश्न आनुमानिकत्वात्स प्रश्नो यस्या इन्द्रादिदेवताया विद्यते साऽतिप्रश्न्या। इयं तु नातिप्रश्न्याऽनतिप्रश्न्या स्वप्रश्नविषयैव केवलागमगम्येति यावत्। तामनतिप्रश्न्यां सूत्रदेवतां वा अतिपृच्छसि। अतो गार्गि मर्तुंचेन्नेच्छसि तर्हि मा प्राक्षीरित्यनुग्रहार्थो निषेधः। ततो ह गार्गी वाचक्नव्युपररामेत्युपसंहारः पूर्ववत्॥१॥
इति बृहदारण्यकोपनिषन्मिताक्षरायां षष्ठं गार्गीब्राह्मणम्॥६॥
-
*
अथ हैनमुद्दालक आरुणिः पप्रच्छ याज्ञव-
ल्क्येति होवाच मद्रेष्ववसाम पतञ्चलस्य
काप्यस्य गृहेषु यज्ञमधीयानास्तस्याऽऽसीद्भार्या
गन्धर्वगृहीता तमपृच्छान कोऽपीति सोऽब्र-
वीत्कबन्ध आथर्वण इति सोऽब्रवीत्पतञ्चलं
काप्यं याज्ञिकाँश्चवेत्थ नु त्वं काप्य तत्सूत्रं
येनायं च लोकः परश्च लोकः सर्वाणि
च भूतानि संदृब्धानि भवन्तीति सोऽ-
ब्रवीत्पञ्चलः काप्यो नाहं तद्भगवन्वेदेति
सोऽब्रवीत्पञ्चलं काप्यं याज्ञिकाँश्च वेत्थ
नु त्वंकाप्य तगन्तर्यामिणं य इमं
_______________________________________________________________________
एवं सूत्रादर्वाक्तनं व्यापकमुक्त्वेदानीं तदागमैकगम्यं सूत्रं तदन्तर्गतमन्तर्यामिणं च जगज्जन्मादिहेतुभूतं वक्तुमन्तर्यामिब्राह्मणमारभ्यते। अथ हैनमुद्दालको नामतोऽरुणस्यापत्यमारुणिः पप्रच्छेत्यादि पूर्ववत्। स्वस्य सूत्रादिविद्याया गुरुपूर्वकत्वेनाऽऽगमविषयत्वं ज्ञापयितुमाख्यायिकामारचयति—मद्रेष्विति। मद्रेषु देशेष्ववसामोषितवन्तो वयं पतञ्चलनाम्नः काप्यस्य कपिगोत्रस्य गृहेषु यज्ञमधीयाना यज्ञशास्त्राध्ययनं कुर्वाणाश्छात्रा आस्म। तस्य पतञ्चलस्य भार्या गन्धर्वेणामानुषेण सत्त्वविशेषेण गृहीताऽऽविष्टाऽऽसीत्। तं गन्धर्वं पतञ्चलसहिता वयं याज्ञिकास्त्वं कोऽसीत्यपृच्छाम। एवं पृष्टः स गन्धर्वोऽस्मभ्यमब्रवीत्। किम्। अहं नाम्ना कबन्धोऽथर्वणोऽपत्यमाथर्वण इति। स गन्धर्वः पतञ्चलं काप्यं याज्ञिकांश्च प्रत्यब्रवीत्। किं हे काप्य तत्सूत्रं त्वं नु वितर्के वेत्थ जानीषे। किं तत्सूत्रमित्याकाङ्क्षायां तद्विशिनष्टि—येनेति। येन सूत्रेणायं च लोक इदं च जन्म परश्च लोकः परं च जन्म सर्वाणि च भूतानि ब्रह्मादिस्तम्बपर्यन्तानि संदृब्धानि संग्रथितानि भवन्तीति पृष्टः स पतञ्चलः काप्योऽब्रवीत्। किं हे भगवन्पूजावन्नहं तत्सूत्रं न वेदेत्युक्ते स गन्धर्वः पुनः पतञ्चलं काप्यं याज्ञिकांश्चास्मान्प्रत्यब्रवीत्। किं हे काप्य त्वं तं सूत्रान्तर्गतमन्तर्यामिणं वेत्थ नु। कोऽसावन्तर्यामीत्याकाङ्क्षायां तं विशिनष्टि। य इमं
च लोकं परं च लोकँ सर्वाणि च भूतानि
योऽन्तरो यमयतीति सोऽब्रवीत्पञ्चलः काप्यो
नाहं तं भगवन्वेदेति सोऽब्रवत्पितञ्चलं काप्यं
याज्ञिकाँश्चयो वै तत्काप्य सूत्रं विद्यात्तं
चान्तर्यामिणमिति स ब्रह्मवित्स लोकवित्स
देववित्स वेदवित्स भूतवित्स आत्मवित्स सर्व-
विदिति तेभ्योऽब्रवीत्तदहं वेद तच्चेत्त्वं याज्ञ-
वल्क्य सूत्रमविद्वाँस्तं चान्तर्यामिणं ब्रह्मग-
वीरुदजसे मूर्धा ते विपतिष्यतीति वेद वा अहं
_______________________________________________________________________
च लोकं परं च लोकं सर्वाणि च भूतानीत्युक्तार्थम्। योऽन्तरोऽभ्यन्तरः सन्यमयति नियमयति दारुयन्त्रमिव भ्रमयति। स्वं स्वमुचितव्यापारं कारयतीति यावत्। अत्र प्रथमयच्छब्दस्तमित्यनुवादार्थः। एवमुक्तः स पतञ्चलं काप्यो हे भगवन्निति विनयेनाब्रवीन्नाहं तं सूत्रान्तर्गतमन्तर्यामिणं वेदेति। विनयं दृष्ट्वा स गन्धर्वः स्वस्याऽऽचार्यत्वकामः सन्फलेन प्रलोभयितुं पतञ्चलः काप्यं याज्ञिकांश्चाब्रवीत्। किं हे काप्य तत्सूत्रं तं सूत्रनियन्तृत्वेन तदन्तर्गतमन्तर्यामिणं चोक्तप्रकारकं यो वै कश्चिद्विद्यात्स ब्रह्मवित्परमात्मवित्स लोकान्भूरादीनन्तर्यामिणा नियम्यमानान्वेत्ति। स देवांश्चाग्न्यादील्लोँकिनस्तेन नियम्यमानान्वेत्ति। स वेदांश्च सर्वप्रमाणभूतान्वेत्ति। स भूतानि ब्रह्मादीनि सूत्रेण ध्रियमाणानि तदन्तर्गतेनान्तर्यामिणा नियम्यमानानि वेत्ति। स आत्मानं च कर्तृभोक्तृत्वविशिष्टमन्तर्यामिणा नियम्यमानं वेत्ति। स सर्वंच जगत्ताभ्यां विधार्य नियम्यमानं वेत्तीति तेभ्य एवं सूत्रान्तर्यामिफलश्रुत्याऽभिमखीभूतेभ्य आचार्यमुख्येभ्योऽस्मभ्यं गन्धर्वः सूत्रान्तर्यामिणोः स्वरूपमब्रवीत्तत्स्वरूपमहं वेद गन्धर्वाल्लब्धागमः सञ्जानामि। किमेतावतेत्यत आह। हे याज्ञवल्क्य चेद्यदि त्वं तदुक्तविशेषणविशिष्टं सूत्रं तदन्तर्यामिणं चाविद्वानब्रह्मवित्सन्ब्रह्मगवीर्ब्रह्मविदां स्वभूता गा अन्यायेनोदजस उन्नयसि तर्हि मच्छापदग्धस्य ते तव मूर्धा शिरो विपतिष्यतीति। एवमुक्तो याज्ञवल्क्य आहे—वेदेति।
गौतम तत्सूत्रं तं चान्तर्यामिणमिति यो वा
इदं कश्चिद्ब्रूयाद्वेद वेदेति यथा वेत्थ तथा
ब्रूहीति॥१॥ स होवाच वायुर्वैगौतम तत्सूत्रं
वायुना वै गौतम सूत्रेणायं च लोकः परश्चलोकः
सर्वाणि च भूतानि संदृब्धानि भवन्ति तस्माद्वै
गौतम पुरुषं प्रेतमाहुर्व्यस्रँसिषतास्याङ्गा-
नीति वायुना हि गौतम सूत्रेण संदृब्धानि
भवन्तीत्येवमेवैतद्याज्ञवल्क्यान्तर्यामिणं ब्रूहीति
॥२॥ यः पृथिव्यां तिष्ठन्पृथिव्या अन्तरो
________________________________________________________________________
गौतम इति गोत्रं यस्य स गौतमस्तत्संबोधनं हे गौतमोद्दालकोऽहं तत्सूत्रं तं चान्तर्यामिणं वेदेत्युक्ते गौतमः प्रत्याह—य इति। वेद वेदेतीदं वै यः कश्चित्प्राकृतोऽपि ब्रूयादात्मानं श्लाघयन्किंतेन गर्जितेन यथा वेत्थ जानासि तथा ब्रूहीति॥१॥
स एवमुक्तो याज्ञवल्क्यो होवाच। किं हे गौतम तद्गन्धर्वोक्तं सूत्रं वायुर्वै वायुरेव। तथाच समष्टिव्यष्टिरूपेण सामान्यविशेषसर्वकर्मतदाश्रयत्वाद्वायोरात्मीयाभिमानिलिङ्गतादात्म्यापन्नो जीवोऽत्र फलरूपो वायुरुच्यते न तु वायुमात्रं तस्य विधारणेऽस्वातन्त्र्यात्। उक्तस्य वायुतत्त्वस्य सूत्रत्वं विद्वत्यसिद्ध्या साधयति—वायुना वै गौतमेत्यादिनोक्तार्थेन। पुनर्लोकप्रसिद्ध्याऽपि तत्साधयति—तस्मादिति। हे गौतम यस्मात्सूत्रात्मकेन वायुना सर्वं विधृतं तस्मात्प्रेतं मृतं पुरुषं शरीरं मृतलक्षणज्ञा आहुः कथयन्ति। किमस्य मृतस्याङ्गानि करचरणादीनि व्यस्रंसिषत विशीर्णान्यभवन्। सूत्रापगमे मणय इवेत्यतो हे गौतम समष्टिप्राणात्मकेन वायुनैव सूत्रेणाङ्गादीनि संदृब्धानि संग्रथितानि भवन्तीति निगमितं निरूपितं सूत्रस्वरूपमङ्गीकृत्योद्दालकोऽन्तर्यामिस्वरूपं पृच्छति—एवमिति। एतत्सूत्रस्वरूपमेव सम्यगुक्तं हे याज्ञवल्क्येदानीं सूत्रगतस्वरूपमन्तर्यामिणं ब्रूहीति॥२॥
एवमुक्त आह—य इति। यः पृथिव्यां तिष्ठन्वर्तमानो भवति सोऽन्तर्यामीत्युक्ते पृथिव्यवस्थितानां सर्वप्राणिनामन्तर्यामित्वप्रसङ्गस्तद्व्यावृत्त्यर्थं विशिनष्टि—पृथिव्या अन्तरोऽभ्यन्तर इति। तथाऽप्येतादृशपृथिव्यभिमानिदेवतायामतिप्रसङ्गस्तस्याश्च नियम्यमानसूत्रात्मकत्वान्नान्तर्यामित्वमतो विशिनष्टि।
यं पृथिवी न वेद यस्य पृथिवी शरीरं यः
पृथिवीमन्तरो यमयत्येष त आत्माऽन्तर्याम्य-
मृतः॥३॥ योऽप्सु तिष्ठन्नद्भ्योऽन्तरो
यमापो न विदुर्यस्याऽऽपः शरीरं योऽपोऽन्तरो
यमयत्येष त आत्माऽन्तर्याम्यमृतः॥४॥
योऽग्नौ तिष्टन्नग्नेरन्तरो यमग्निर्नवेद यस्याग्निः
शरीरं योऽग्निमन्तरो यमयत्येष त आत्माऽन्त-
मृतः॥५॥ योऽन्तरिक्षे तिष्ठन्नन्तरिक्षा-
दन्तरो यमन्तरिक्षं न वेद यस्यान्तरिक्षँ शरीरं
योऽन्तरिक्षमन्तरो यमयत्येव त आत्माऽन्तर्या-
म्यमृतः॥६॥ यो वायौ तिष्ठन्वायोरन्तरो यं
वायुर्न वेद यस्य वायुः शरीरं यो वायुमन्तरो
यमयत्येष त आत्माऽन्तर्याम्यमृतः॥७॥
यो दिवि तिष्टन्दिवोऽन्तरां यं द्यौर्न वेद यस्य
द्यौः शरीरं यो दिवमन्तरो यमयत्येष त
________________________________________________________________________
यं पृथिवीं पृथिव्यभिमानिदेवता न वेद मय्यन्यः कश्चिद्वर्तत इति न जानाति। नन्वियं हि पृथिवी देवता कार्यकारणवती तस्यामन्योऽपिनियन्ता चेत्सोऽपि राजादिवत्तद्वान्वाच्यस्तथाच नासावी वरोऽस्मदादिवदित्यत आह—यस्येति। पृथिवी पृथिवीदेवताया यच्छरीरं यस्यान्तर्यामिणो न स्वतः। शरीरग्रहणं करणानामप्युपलक्षणपरम्। न तस्य कार्यंकरणं च विद्यत इति मन्त्रवर्णात्। नन्वेतादृशोऽन्तर्याम्येव नास्ति तत्सत्तायां प्रमाणाभावादित्याशङ्कायां भीषाऽस्माद्वातः पवते। एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यावित्यादिश्रुतिप्रमाणमभिप्रेत्याऽऽह—य इति। य ईश्वरोऽभ्यन्तरः सन्पृथिवीं पृथिव्यभिमानिनीं देवतां सूत्रात्मभूतां यमयति स्वव्यापारे तत्कर्मसाक्षितया नियमेन प्रवर्तयत्येष ते तव कार्यकरणसंघातस्याऽऽत्माऽन्तर्याम्यिमृतः सर्वसंसारधर्मवर्जित इत्यर्थः॥३॥
एवमेव योऽप्सु निष्ठन्योऽग्नौ योऽन्तरिक्षे यो वायौ यो दिवि य आदित्ये
आत्माऽन्तर्याम्यमृतः॥८॥ य आदित्ये तिष्ठ-
न्नादित्यादन्तरो यमादित्यो न वेद यस्याऽऽ-
दित्यः शरीरं य आदित्यमन्तरो यमयत्येष त
आत्माऽन्तर्याम्यमृतः॥९॥ यो दिक्षु तिष्ठ-
न्दिग्भ्योऽन्तरो यं दिशो न विदुर्यस्य दिशः
शरीरं यो दिशोऽन्तरो यमयत्येष त आत्माऽ-
न्तर्याम्यमृतः॥१०॥ यश्चन्द्रतारके तिष्ठँ-
श्चन्द्रतारकादन्तरो यं चन्द्रतारकं न वेद यस्य
चन्द्रतारकँशरीरं यश्चन्द्रतारकमन्तरो यमय-
त्येष त आत्माऽन्तर्याम्यमृतः॥११॥ य
आकाशे तिष्ठन्नाकाशादन्तरो यमाकाशो न
वेद यस्याऽऽकाशः शरीरं य आकाशमन्तरो
यमयत्येष त आत्माऽन्तर्याम्यमृतः॥१२॥
यस्तमसि तिष्ठँस्तमसोऽन्तरो यं तमो न वेद
यस्य तमः शरीरं यस्तमोऽन्तरो यमयत्येष त
आत्माऽन्तर्याम्यमृतः॥१३॥ यस्तेजसि
तिष्ठँस्तेजसोऽन्तरो यं तेजो न वेद यस्य तेजः
शरीरं यस्तेजोऽन्तरो यमयत्येष त आत्माऽन्त-
र्याम्यमृत इत्यधिदैवतमथाधिभूतम्॥१४॥
________________________________________________________________________
यो दिक्षु यश्चन्द्रतारके य आकाशे यस्तमसि बाह्य आवरणात्मके यस्तेजसीत्यधिदैवतमन्तर्यामिविषयं दर्शनं देवतासूक्तमित्यर्थः। अथानन्तरमधिभूतं भूतेष्वन्तर्यामिविषयदर्शनमुच्यत इत्यर्थः॥४॥५॥६॥७॥॥८॥९॥१०॥११॥१२॥१३॥१४॥
यः सर्वेषु भूतेषु तिष्ठन्सर्वेभ्यो भूतेभ्योऽन्तरो
यँसर्वाणि भूतानि न विदुर्यस्य सर्वाणि
भूतानि शरीरं यः सर्वाणि भूतान्यन्तरो यमय-
त्येष त आत्माऽन्तर्याम्यमृत इत्यधिभूतमथा-
ध्यात्मम्॥१५॥ यः प्राणे तिष्ठन्प्राणादन्तरो
यं प्राणो न वेद यस्य प्राणः शरीरं यः प्राण-
मन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः
॥१६॥ यो वाचि तिष्ठन्वाचोऽन्तरो यं वाङ्न
वेद यस्य वाक्शरीरं यो वाचमन्तरो यमय-
त्येष त आत्माऽन्तर्याम्यमृतः॥१७॥ यश्च-
क्षुषि तिष्ठँश्चक्षुषोऽन्तरो यं चक्षुर्न वेद यस्य
चक्षुः शरीरं यश्चक्षुरन्तरो यमयत्येष त आत्माऽ-
न्तर्याम्यमृतः॥१८॥ यः श्रोत्रे तिष्ठञ्श्रो-
त्रादन्तरो यँश्रोत्रं न वेद यस्य श्रोत्रँशरीरं
यः श्रोत्रमन्तरो यमयत्येष त आत्माऽन्तर्याम्य-
मृतः॥१९॥ यो मनसि तिष्ठन्मनसोऽन्तरो यं
मनो न वेद यस्य मनः शरीरं यो मनोऽन्तरो
यमयत्येष त आत्माऽन्त र्याम्यमृतः॥२०॥
यस्त्वचि तिष्ठँस्त्वचोऽन्तरो यं त्वङ्न वेद
यस्यत्वक्शरीरं यस्त्वचमन्तरो यमयत्येष त
_______________________________________________________________________
यः सर्वेषु भूतेष्वित्यधिभूतमधिभूतेषु ब्रह्मादिस्तम्बपर्यन्तेष्वन्तर्यामिदर्शनमुक्तम्। अथाध्यात्ममध्यात्मभूतेषु प्राणादिष्वन्तर्यामिदर्शनमुच्यत इत्यर्थः॥१५॥
यः प्राणे वायुसहिते घ्राणेयो वाचि यश्चक्षुषियः श्रोत्रे यो मनसि
आत्माऽन्तर्याम्यमृतः॥२१॥ यो विज्ञाने
तिष्ठन्विज्ञानादन्तरो यं विज्ञानं न वेद यस्य
विज्ञानँशरीरं यो विज्ञानमन्तरो यमयत्येष
त आत्माऽन्तर्याम्यमृतः॥२२॥ यो रेतसि
तिष्ठन्रेतसोऽन्तरो यँरेतो न वेद यस्य रेतः
शरीरं यो रेतोऽन्तरो यमयत्येष त आत्माऽ-
न्तर्याम्यमृतोऽदृष्टो द्रष्टाऽश्रुतः श्रोताऽमतो
मन्ताऽविज्ञातो विज्ञाता नान्योऽतोऽस्ति द्रष्टा
नान्योऽतोऽस्ति श्रोता नान्योऽतोऽस्ति मन्ता
नान्योऽतोऽस्ति विज्ञातैष त आत्माऽन्तर्या-
म्यमृतोऽतोऽन्यदार्तं ततो होद्दालक आरुणि-
रुपरराम॥२३॥
इति बृहदारण्यकोपनिषदि तृतीयाध्यायस्य सप्तमं ब्राह्मणम्॥७॥
________________________________________________________________________
यस्त्वचि यो विज्ञाने बुद्धौ तन्मये शरीरे यो रेतसि प्रजनन इत्येते पर्याया बोद्धव्याः। ननु महाभागाः पृथिव्यादिदेवता मनुष्यादिवदात्मनो नियन्तारमन्तर्यामिणं कुतो न विदुरित्यत आह—अदृष्ट इति। न दृष्टोऽदृष्टः कस्यचिच्चक्षुर्दर्शनस्य विषयत्वमनापन्नः सन्स्वयं द्रष्टा भवति दृशिस्वरूपत्वाच्चक्षुषि संनिहितत्वाच्च। तथाऽश्रुतः श्रोत्रगोचरतामनापन्नः सन्स्वयं श्रोताऽमतोऽसंकल्पत्वान्मनसो विषयतामनापन्नः सन्मन्ता। अविज्ञातो विज्ञानविषयतां सुखादिवदनापन्नः सन्विज्ञाता बुद्धिषु संनिहितत्वात्। ननु तथाऽप्येवं नियन्तृनियन्तव्यादिभेदेन द्रष्टृद्रष्टव्यादिभेदेन च भेदः स्यादित्याशङ्कायामाह—नेति। अतोऽस्मादन्तर्यामिणः सकाशादन्यो द्रष्टा नास्त्येव। एवमेव नान्योऽतोऽस्ति श्रोतेत्यादि योजनीयम्। उपपादितमन्तर्यामिस्वरूपमुपसंहरति—एष त इति। यस्माददृष्टश्रुतादिरूपः सन्नेव द्रष्ट्रादिरूपस्तस्मादेष एवेश्वर आत्मा सर्वकर्मफलविभागकर्ता ते तवान्तर्याम्यमृतोऽतोऽस्मादीश्वरात्मनोऽन्यदार्तं ततो होद्दालक आरुणिरुपररामेत्युक्तार्थम्॥१६॥१७॥१८॥१९॥२०॥२१॥२२॥२३॥
इति मिताक्षरायां तृतीयाध्याये सप्तममन्तर्यामिब्राह्मणम्॥३॥
अथ ह वाचक्रव्युवाच ब्राह्मणा भगवन्तो हन्ता-
हमिमं द्वौप्रश्नौप्रक्ष्यामि तौ चेन्मे वक्ष्यति न
वै जातु युष्माकमिमं कश्विद्ब्रह्मोद्यं जेतेति
पृच्छ गार्गीति॥१॥ सा होवाचाहं
वैत्वा याज्ञवल्क्य यथा काश्यो वा वैदेहो
वोग्रपुत्र उज्ज्यं धनुरधिज्यं कृत्वा द्वौ बाण-
वन्तौ सपत्नातिव्याधिनौ हस्ते कृत्वोपो-
त्तिष्ठेदेवमेवाहं त्वा द्वाभ्यां प्रश्नाभ्यामुपोदस्थां
________________________________________________________________________
पूर्वब्राह्मणे सूत्रान्तर्यामिणौ निर्धारितौ तदुभयविधमप्यात्मनः सोपाधिकं रूपमिदानीं निरुपाधिकमशनायादिविनिर्मुक्तं साक्षादित्यादिलक्षणं वक्तुमक्षरब्राह्मणं प्रवर्तते—अथेति। अथ सोपाधिकब्रह्मस्वरूपनिर्धारणानन्तरं वाचक्नवी वचक्नोर्दुहिता गार्गी पूर्वं मूर्धपातभयादुपरता सती पुनरुवाच। किं हे ब्राह्मणा भगवन्तः पूजावन्तः शृणुत मे मम वचोऽहमिदानीमिमं याज्ञवल्क्यं पुनर्द्वौ प्रश्नौ प्रक्ष्यामि प्रष्टुमिच्छामि हन्त यद्यनुमतिर्भवतामस्ति भवदनुमत्या हि मे मूर्धपातो न भवेत्तौ प्रश्नौ चेन्मे मम कथंचिद्वक्ष्यति कथयिष्यति तर्हि जातु कदाचिद्युष्माकंमध्ये कश्चित्कोऽप्यन्यतम इमं याज्ञवल्क्यं ब्रह्मोद्यं ब्रह्मवादिनं न वै नैव जेता भवेदिति। एवमुक्ता ब्राह्मणा हे गार्गि मा भैः279 पृच्छ कुरु प्रश्नमित्यनुज्ञां दत्तवन्त इत्यर्थः॥१॥
सैवं लब्धानुज्ञा गार्गी ह याज्ञवल्क्यं प्रत्युवाच। किं हे याज्ञवल्क्य त्वा त्वां द्वौ प्रश्नौप्रक्ष्यामीत्यनुषज्यते। कौ ताविति जिज्ञासायां तयोर्दुरुत्तरत्वं द्योतयितुं दृष्टान्तपूर्वकं तावाह—यथेति। यथा काश्यो वा काशिषु भवः काश्यो वा शूरत्वेन प्रसिद्धः। वैदेहो वा विदेहानां राजोग्रपुत्रः शूरान्वय उज्ज्यमवतारितज्याकं धनुः पुनरधिज्यं कृत्वाऽऽरोपितज्याकं विधाय द्वौ बाणवन्तौ शराग्रे यो वंशखण्डः संधीयते स बाण उच्यते स विद्यते ययोस्तौ बाणवन्तौ शरौ। कथंभूतौ सपत्नातिव्याधिनौ सपत्नाः शत्रवस्तानतिशयेन वेद्धुंशीलं ययोस्तौ सपत्नातिव्याधिनौ हस्ते कृत्वोपतिष्ठेत शत्रोः समीपत आत्मानं दर्शयेदेवमेवाहं त्वां शरस्थानीयाभ्यां द्वाभ्यां प्रश्नाभ्यामुपोदस्थां
तौ मे ब्रूहीति पृच्छ गार्गीति॥२॥ सा
होवाच यदूर्ध्वं याज्ञवल्क्य दिवो यदवाक्पृ-
थिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च
भवच्च भविष्यच्चेत्याचक्षते कस्मिँस्तदोतं च
प्रोतं चेति॥३॥ स होवाच यदूर्ध्वं गार्गि
दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी
इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षत
आकाशे तदोतं च प्रोतं चेति॥४॥ सा
होवाच नमस्तेऽस्तु याज्ञवल्क्य यो म एतं
व्यवोचोऽपरस्मै धारयस्वेति पृच्छ गार्गीति॥५॥
________________________________________________________________________
त्वत्समीप उत्थितवत्यस्मि। त्वं ब्रह्मिष्ठत्वप्रतिज्ञावांश्चेत्तर्हि तौ प्रश्नौ तयोर्मया क्रियमाणयोः प्रश्नयोरुत्तरं मे मह्यं ब्रूहीत्युक्तो मुनिर्हे गार्गि पृच्छ यथेच्छमित्युक्तवानित्यर्थः॥२॥
सैवमुक्ता गार्गी होवाचापृच्छत्। किं हे याज्ञवल्क्य यद्दिवो घुसंशितादुपरितनाण्डकपालादूर्ध्वमुपर्यस्ति यच्च पृथिव्या अधस्तनाण्डकपालादर्वागधो वर्तते यच्च द्यावापृथिव्यन्तरा द्यावापृथिव्योरण्डकपालयोर्मध्येऽस्ति ये चेमे प्रसिद्धे द्यावापृथिवी स्तः। यच्च भूतमतीतं यच्च भवद्वर्तमानं भविष्यच्च वर्तमानकालादूर्ध्वकालभाविलिङ्गगम्यं वर्तत इत्येवमाचक्षते कथयन्त्यागमविदः। एतत्सर्वं जगद्द्वैतजातं यस्मिनेकी भवति तत्सूत्रसंज्ञकं पूर्वोक्तं कस्मिन्नोतं च प्रोतं चास्विव पृथिवीत्यर्थः॥३॥
स याज्ञवल्क्यो होवाच। हे गार्गि यत्त्वयोक्तं यदूर्ध्वं दिव इत्यादि तत्सूत्रं व्याकृतजगदात्मकमाकाशेऽव्याकृतशब्दवाच्येऽविद्याशबलित ईश्वरेऽन्तर्यामिणि नारायणाख्य ओतं च प्रोतं चेत्यादि त्रिष्वपि कालेष्वित्यर्थः॥४॥
सैवमुत्तरितप्रथमप्रश्ना गार्गी होवाच हे याज्ञवल्क्य यस्त्वं ममैतं दुर्वचनं प्रश्नं व्यवोचो विशेषेणोत्तरितवानस्यतस्ते तुभ्यं नमोऽस्तु। अथापरस्मै द्वितीयप्रश्नाय धारयस्व दृढीकुर्वात्मानम्। इतर आह पृच्छ गार्गीति॥५॥
सा होवाच यदूर्ध्वं याज्ञवल्क्य दिवो यद-
वाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं
च भवच्च भविष्यच्चेत्याचक्षते कस्मिँस्तदोतं
च प्रोतं चेति॥६॥ स होवाच यदूर्ध्वं
गार्गि दिवो यदवाक्पृथिव्या यदन्तरा द्यावा-
पृथिवी इमे यद्भूतं च भवच्च भविष्यच्चे-
त्याचक्षत आकाश एव तदोतं च प्रोतं
चेति कस्मिन्नु खल्वाकाश ओतश्चप्रोतश्चेति॥७॥
स होवाचैतद्वै तदक्षरं गार्गि ब्राह्मणा
अभिवदन्स्त्यथूलमनण्वह्रस्वमदीर्घमलोहितम-
स्नेहमच्छायमतमोऽवाय्वनाकाशमसङ्गमरसम-
गन्धमचक्षुष्कमश्रोत्रमवागमनोऽतेजस्कमप्राण-
_______________________________________________________________________
एवमुक्तस्यैवार्थस्यावधारणार्थं पूर्वोक्तमेव प्रश्नं तदनुवादपूर्वकमुक्तमेव प्रतिवचनं चोभाभ्यां क्रमेणानूद्यते—साहोवाचेत्यारभ्य कस्मिन्नु खल्वित्यतः प्राक्तनेन। द्वितीयं पृच्छति। कस्मिन्नु खल्वाकाश ओतश्चप्रोतश्चेत्युक्तार्थम्॥६॥७॥
स याज्ञवल्क्यो होवाच। हे गार्गि यत्त्वंपृष्टवत्यसि कस्मिन्नु खल्वित्यादिनाऽव्याकृताधिष्ठानं तद्वा अव्याकृताधिष्ठानमेतदक्षरं न क्षरति न क्षीयत इति वाऽक्षरं शुद्धं ब्रह्म ब्राह्मणा ब्रह्मविदोऽभिवदन्ति कथयन्ति। किं तद्ब्रूहीति श्रुतौ द्रष्टव्यम्। गार्गीप्रश्नानन्तरमितर आह—अस्थूलमिति। स्थूलाद्भिन्नमस्थूलम्। अस्तु तर्ह्यणु, इत्यत आह—अनणु, अणुभिन्नम्। एवमेव सर्वत्र निषेध्याशङ्कापूर्वकं तन्निषेधकपदानामुत्थानं बोद्धव्यम्। अह्रस्वमदीर्घमिति द्रव्यत्वमयोजकपरिमाणनिषेधेन द्रव्यत्वं निषिद्धम्। लौहित्यमग्निरूपं तद्भिन्नम्॥ स्नेहोऽब्गुणस्तद्भिन्नमिति मूर्तद्रव्यत्वं निषिद्धम्। तथा छायाऽदीप्तिस्तमो ध्वान्तं तदुभयभिन्नमिति किंचिदतिरिक्तत्वशङ्का निराकृता। तथाऽवाखनाकाशमित्यमूर्तद्रव्यत्वं निषिद्धम्। अस्तु तर्हि वासनासङ्गदर्शनात्तदात्मकमित्यत आह—असङ्गम्। अरसमगन्धमित्यरूपाद्युपलक्षणपरम्। चक्षुर्भिन्नं न विद्यते चक्षुर्यस्येति वाऽचक्षुष्कम्। तथाऽश्रोत्रमवागमनः। एतत्सर्वेन्द्रियनिषेधोपलक्षणपरम्। वृत्तिरूपविज्ञानलक्षणं तेजो न विद्यते यस्येत्यादि नञर्थः पूर्ववत्। प्राणोऽ-
ममुखममात्रमनन्तरमबाह्यं न तदश्नाति किंचन
न तदश्नाति कश्चन॥८॥ एतस्य वा अक्षरस्य
प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठत
एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावाष्ट-
थिव्यौ विधृते तिष्ठत एतस्य वा अक्षरस्य
प्रशासने गार्गि निमेषा मुहूर्ता अहोरात्राण्य-
र्धमासा मासा ऋतवः संवत्सरा इति विधृता-
स्तिष्ठन्त्येतस्य वा अक्षरस्य प्रशासने गार्गि
प्राच्योऽन्या नद्यः स्यन्दन्ते श्वेतेभ्यः पर्वतेभ्यः
प्रतीच्योऽन्या यां यां च दिशमन्वेतस्य वा अक्ष-
रस्य प्रशासने गार्गि ददतो मनुष्याः प्रशँसन्ति
________________________________________________________________________
ध्यात्मं मुखं प्रसिद्धम्। मीयते येन तन्मात्रं मानं मेयान्वयरूपम्। अन्तरं छिद्रम्। न विद्यते बाह्यं यस्येत्यबाह्यम्। अपरिच्छिन्नमिति यावत्। अनात्मव्यक्तीनामानन्त्येन प्रत्येकं निषेधाशक्तेर्भोक्तृभोग्यात्मनैकीकृत्य निषेधति—नेति। तदक्षरं किंचन किंचिदपि विषयं नाश्नाति न भुङ्क्तेकश्चन कोऽपि लोकस्तदक्षरं नाश्नातीत्यर्थः॥८॥
एवमशेषविशेषणनिषेधावधित्वेन तत्साक्षित्वेन चाक्षरास्तित्वे सिद्ध इदानीं तस्यैवाऽऽविद्यकेशितव्यसंबन्धादीश्वरात्मभूतस्यास्तित्वमनुमानविधयाऽऽह—एतस्येति। हे गार्ग्येतस्योक्तरूपस्याक्षरस्य प्रशासन आज्ञायां सूर्याचन्द्रमसौ विधृतौ नियमितौ तिष्ठतो वर्तेते भृत्यादिवत्। तथा यदक्षरप्रशासने द्यावापृथिव्यौ विधृते तिष्ठतो हस्तन्यस्तपाषाणादिवचदस्ति। तथा निमेषादयः कालावयवाः सर्वजनिमतः कलयितारो गणकवद्यस्य प्रशासने विधृतास्तिष्ठन्ति तदस्ति। तथा प्राच्यः प्रागञ्चनाः पूर्वदिग्गमना अन्या गङ्गाद्या नद्यःश्वेतेभ्यो हिमवदादिभ्यः पर्वतेभ्यः स्यन्दन्ते स्रवन्ति। तथा प्रतीच्यः प्रतीचीदिग्गमनाः सिन्ध्वाद्या नद्योऽन्याश्च या या नद्यो यां यां दिशमनुप्रवृत्तास्ता यदक्षरप्रशासनादद्यापि तथैव प्रवर्तन्ते तदस्ति। तथा ददतो दुःखार्जितान्गोहिरण्यादीन्प्रयच्छतः पुरुषान्मनुष्या हिरण्यदा अमृतत्वं भजन्त इतिप्रमाणज्ञाः प्रशंसन्ति स्तुतिं कुर्वते। तथा चैतस्य प्रशंसनस्य फलसंबन्धपूर्वक-
यजमानं देवा दर्वीं पितरोऽन्वायत्ताः॥९॥
यो वा एतदक्षरं गार्ग्यविदित्वाऽस्मिल्ँ लोके
जुहोति यजते तपस्तप्यते बहूनि वर्षसह-
स्राण्यन्तवदेवास्य तद्भवति यो वा एतदक्षरं
गार्ग्यविदित्वाऽस्माल्लोकात्प्रैति स कृपणोऽथ
य एतदक्षरं गार्गि विदित्वाऽस्माल्लोकात्प्रैति स
ब्राह्मणः॥१०॥ तद्वा एतदक्षरं गार्ग्यदृष्टं
द्रष्टुश्रुतँ श्रोत्रमतं मन्त्रविज्ञातं विज्ञातृ
_______________________________________________________________________
त्वेन तत्कर्त्रक्षरं सिद्धम्। न च स्वातत्र्येण देवादिकर्तृक एव फलसंबन्ध इति वाच्यं तेषामपीश्वराधीनत्वादित्याह—यजमानमिति। देवा इन्द्रादयोऽन्यथा जीवितुं समर्था अपि जीवनं280 निमित्तीकृत्य पुरोडाशाद्युपजीवनप्रयोजनेनानीश्वरमपि यजमानमन्वायत्ता अनुगताः। तथा पितरोऽर्यमादयो दर्वी दर्वीहोममन्वायत्ता इति संबन्धः। तथाच देवादीनामे281तादृग्घीनवृत्त्याश्रयणमक्षरास्तित्वे लिङ्गमित्यर्थः॥९॥
किंच यदज्ञानज्ञानाभ्यां संसारमुक्ती तदस्त्यक्षरमिति साधयितुं कर्मणामेव मोक्षहेतुत्वमिति पक्षं निराकरोति—यो वा इति। हे गार्गि यो वै कश्चित्पुरुष एतदक्षरमविदित्वाऽविज्ञायास्मिन्कर्मलोके जुहोति देवतोद्देशेन संकल्पितं द्रव्यमग्नौ प्रक्षिपति यजते देवतोद्देशेन द्रव्यं संकल्पयति तपश्चान्द्रायणादि तप्यत आचरति यद्यपि बहूनि वर्षसहस्राणि तथाऽप्यस्य कर्तुस्तत्साङ्गमपि क्रियमाणं कर्मान्तवदेवान्तवत्फलकमेव भवति न नित्यमोक्षफलकम्। तथाच हे गार्गि यो वा एतदक्षरमहं ब्रह्मास्मीत्यविदित्वाऽस्मात्कर्मलोकात्प्रैति म्रियते स कर्मी कृपणो दीनः पणीकृतदासवत्कर्मफलस्यैव भोक्ता न मोक्षस्य। अथ तु य एतदक्षरं श्रुत्याचार्योपदेशतोऽहं ब्रह्मास्मीति विदित्वाऽस्माल्ँ लोकात्प्रैति स ब्राह्मणो ब्रह्मभूतो मुक्त इत्यर्थः॥१०॥
अथाक्षरस्येश्वरत्वोपाधिविनिर्मुक्तं स्वाभाविकं स्वरूपमाह—तद्वा इति। हे गार्गि, एतद्वै तदक्षरमस्थूलादिवाक्येनावगमितमदृष्टं केनचिन्न दृष्टं दृष्ट्यंविषयत्वात्स्वयं तु द्रष्टृ दृशिस्वरूपत्वात्। एवमश्रुतं श्रोत्रित्यादि व्याख्येयम्। तस्य
नान्यदतोऽस्ति द्रष्टृ नान्यदतोऽस्ति श्रोतृ
नान्यदतोऽस्ति मन्तृ नान्यदतोऽस्ति विज्ञात्रे-
तस्मिन्नु खल्वक्षरे गायकाश ओतश्चप्रोत-
श्चेति॥११॥ सा होवाच ब्राह्मणा भगवन्त-
स्तदेव बहु मन्येध्वं यदस्मान्नमस्कारेण मुच्येध्वं
न वै जातु युष्माकमिमं कश्चिद्ब्रह्मोद्यं जेतेति
ततो ह वाचक्रव्युपरराम॥१२॥
इति बृहदारण्यकोपनिषदि तृतीयाध्यायस्याष्टमं ब्राह्मणम्॥८॥
________________________________________________________________________
नानात्वशङ्कां निराकरोति—नेति। अस्मात्प्रकृतादक्षरादन्यद्द्रष्टृदर्शनक्रियाकर्तृ नास्त्येतदेव तत्कर्तृ समानमन्यत्। एवं सजातीयस्वगतनानात्वे निराकृत्येदानीं विजातीयानामनात्मनां रज्जुभुजंगादिवत्परिकल्पितत्वप्रदर्शनेन तन्नानात्वमुपसंहारव्याजेन निषेधति। एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्चेत्युक्तार्थम्॥११॥
सोक्तमश्नद्वयनिर्णयश्रोत्री गार्ग्युवाच। किं हे ब्राह्मणा भगवन्तः प्रश्नौ चेन्मह्यं वक्ष्यति तदा न वै जातु युष्माकमिमं कश्चिद्ब्रह्मोद्यं जेतेति युष्मान्प्रति पूर्वोक्तं यन्मम वचनं तदेव वचनं बहु मन्येध्वं बहुमानविषयं कुरुध्वं प्रमाणी कुरुध्वं यद्यस्माद्दुर्वचौ प्रश्नावनेनोत्तरितौ तस्मादस्माद्याज्ञवल्क्यान्नमस्कारेण मुच्येध्वमस्मै नमस्कारं कृत्वाऽनुज्ञां प्राप्य यूयं मुच्यध्वमस्य पराजयो मनसाऽपि न शङ्कनीयः। तत एवं ब्राह्मणानां हितोपदेशानन्तरं वाचक्रव्युपररामेत्यर्थः॥१२॥
इति बृहदारण्यकव्याख्यायां मिताक्षरायां तृतीयाध्यायेऽष्टमं गार्गिब्राह्मणम्॥८॥
-
*
एवं यत्साक्षादित्यादि प्रस्तुत्य सर्वान्तरत्वनिरूपणद्वारा साक्षित्वादिकमार्थिकं ब्राह्मणत्रयेण निर्धारितमिदानीं यदन्तर्यामिब्राह्मणे यः पृथिव्यामित्यादिश्रुत्या नियम्यसर्वापेक्षया कारणात्मनो नियन्तृत्वमुक्तं तदत्र पूर्वोक्तप्रकारानुसारेण प्राणसमानशब्दाभ्यामनूद्यतदेवाऽऽलम्ब्य नियम्यदेवताविशेष-
अथ हैनं विदग्धः शाकल्यः पप्रच्छ कति देवा
याज्ञवल्क्येति स हैतयैव निविदा प्रतिपेदे
यावन्तो वैश्वदेवस्य निविद्युच्यन्ते त्रयश्चत्री
च शता त्रयश्च त्री च सहस्रेत्योमिति होवाच
कत्येव देवा याज्ञवल्क्येति त्रयस्त्रिँशदित्यो-
मिति होवाच कत्येव देवा याज्ञवल्क्येति
षडित्योमिति होवाच कत्येव देवा याज्ञवल्क्येति
त्रय इत्योमिति होवाच कत्येव देवा याज्ञ-
वल्क्येति द्वावित्योमिति होवाच कत्येव देवा
याज्ञवल्क्येत्यध्यर्ध इत्योमिति होवाच कत्येव
देवा याज्ञवल्क्येत्येक इत्योमिति होवाच कतमे
ते त्रयश्च त्री च शता त्रयश्चत्री च सहस्रेति॥१॥
_______________________________________________________________________
विस्तार282संकोचोक्तिद्वारा साक्षित्वादिरूपमात्मसंबन्धितया साक्षान्निर्णेतुं शाकल्यब्राह्मणमारभ्यते—अथेति। अथानन्तरमेनं याज्ञवल्क्यं शकलस्यापत्यं शाकल्यो विदग्ध इत्येवंनामा ब्राह्मणः पप्रच्छ। किं हे याज्ञवल्क्य कति कियत्संख्याका देवा इति। एवं पृष्टः स याज्ञवल्क्यो यावन्तो यावत्संख्याका देवा वैश्वदेवस्य शस्त्रस्य निविद्युच्यन्ते श्रूयन्ते तावतो देवान्हैतया वक्ष्यमाणया निविदा निवेद्यते ज्ञाप्यते संख्याऽनयेति निवित्तया प्रतिपेदे ज्ञातवान्। तान्येव निवित्संज्ञकानि मन्त्रपदानि दर्शयति—त्रय इति। त्रयश्च देवास्त्री च शता त्रीणि च शतानि पुनस्त्रयश्च त्रीच सहस्रा त्रीणि च सहस्राणि। इयं तु मध्यमसंख्या बहुवचनादुत्तमाऽनन्तसंख्याऽप्युक्तेति वेदितव्याऽनन्ता वै विश्वे देवा इति श्रुतेः। उक्तसंख्यां शाकल्योऽङ्गी करोतीत्याह—ओमिति होवाचेति। पुनस्तेषामेव देवानांसंकोचविषयां संख्यां पृच्छति—कत्येव देवा याज्ञवल्क्येति। षट्प्रश्नान्मति क्रमेण त्रयस्त्रिंशत्षट्त्रयो द्वावध्यर्ध एक इति प्रतिवचन उक्ते सत्योमित्यङ्गीकारोक्तिरित्यर्थः। अथ संख्येयस्वरूपं पृच्छति। कतमे ते त्रयश्च त्रीच शता त्रयश्च त्री च सहस्रेत्युक्तार्थम्॥१॥
स होवाच महिमान एवैषामेते त्रयस्त्रिँशत्त्वेव
देवा इति कतमे ते त्रयस्त्रिँशदित्यष्टौ वसव
एकादश रुद्रा द्वादशाऽऽदित्यास्त एकत्रिँश-
दिन्द्रश्चैव प्रजापतिश्च त्रयस्त्रिँशाविति॥२॥
कतमे वसव इत्यग्निश्चपृथिवी च वायुश्चान्त-
रिक्षं चाऽऽदित्यश्च द्यौश्च चन्द्रमाश्च नक्षाणि
चैते वसव एतेषु हीदँसर्वँ हितमिति तस्मा-
द्वसव इति॥३॥ कतमे रुद्रा इति दशेमे
पुरुषे प्राणा आत्मैकादशस्ते यदाऽस्माच्छरी-
रान्मर्त्यादुत्क्रामन्त्यथ रोदयन्ति तद्यद्रोदयन्ति
तस्माद्रुद्रा इति॥४॥
________________________________________________________________________
स एवं पृष्टो याज्ञवल्क्यो होवाच। किम्। एषां त्रयस्त्रिंशतो283 देवानामेते त्रयश्च त्री च शतेत्यादयो महिमानो विभूतयः। परमार्थतस्तु त्रयस्त्रिंशत्त्वेव देवाः। कतमे ते त्रयस्त्रिंशदिति शाकल्येन पृष्ट इतर आह—अष्टौ वसव एकादश रुद्रा द्वादशाऽऽदित्यास्त एत एकत्रिंशदिन्द्रश्चैव प्रजापतिश्चेति त्रयस्त्रिंशौ त्रयस्त्रिंशतां पूरणावित्यर्थः॥२॥
एवं संकोचादिभूतसंख्यानिर्णये कृते संख्येयान्देवान्क्रमेण पृच्छति—कतमे वसव इति। उत्तरमाह—अग्निश्च पृथिवी च वायुश्चान्तरिक्षं चाऽऽदित्यश्चद्यौश्चचन्द्रमाश्चनक्षत्राणि चैते वसवः। कथं हि यस्मादेतेष्वग्न्यादिषु कर्मफलसाधनात्मकं सर्वंवसु हितं स्थितं तस्माद्वसव इत्यर्थः॥३॥
तथा कतमे रुद्रा इति पुरुषे शरीरिणीमे प्रसिद्धा दश प्राणाः ज्ञानेन्द्रियकर्मेन्द्रियरूपा आत्मा मनश्चैकादश एकादशानां पूरणः। कथमेषां रुद्रत्वमित्यतं आह—तइति। यदा यस्मिन्काले मर्त्यान्म्रियमाणाच्छरीरात्तेप्राणा उत्क्रामन्त्यथ तदा रोदयन्ति संबन्धिभूतान्। तत्तस्मिन्नुत्क्रान्तिकाले यस्माद्रोदयन्ति तस्माद्रुद्रा इति सिद्धनिर्वचनप्रदर्शनमित्यर्थः॥४॥
कतम आदित्या इति द्वादश वैमासाः संव-
त्सरस्यैत आदित्या एते हीदँसर्वमाददाना
यन्ति ते यदिदँसर्वमाददाना यन्ति तस्मा-
दादित्या इति॥५॥ कतम इन्द्रः कतमः
प्रजापतिरिति स्तनयित्नुरेवेन्द्रो यज्ञः प्रजापति-
रिति कतमः स्तनयित्नुरित्यशनिरिति कतमो
यज्ञ इति पशव इति॥६॥ कतमे षडित्य-
ग्निश्च पृथिवी च वायुश्चान्तरिक्षं चाऽऽदित्यश्च
द्यौश्चैते षडेते हीदँसर्वँ षडिति॥७॥ कतमे
ते त्रयो देवा इतीम एव त्रयो लोका एषु हीमे
सर्वे देवा इति कतमौ तौ द्वौ देवावित्यन्नं चैव
________________________________________________________________________
कतम आदित्या इति। संवत्सरात्मकस्य कालस्य येऽवयवा वै प्रसिद्धा द्वादश मासाः स्वाभिमानिदेवताविशिष्टा एत आदित्याः। कथं हि यस्मादेते मासाभिमानिनो देवाः पुनः पुनः परिवर्तमानाः प्राणिनामायुरादीनाददाना गृह्णन्त एव यन्ति गच्छन्ति। ते यस्मादिदं सर्वमाददाना यन्ति तस्मादादिस्या इति सिद्धोऽर्थः॥५॥
कतम इन्द्रः कतमः प्रजापतिरिति। स्तनयित्नुर्मेघनादाभिमानिनी देवतैवेन्द्रो यज्ञः प्रजापतिः। कतमः स्तनयित्नुरिति। अशनिर्वज्रापरपर्यायं बलं तस्य मेघनादाभिमानीन्द्रनिष्ठत्वादिन्द्रत्वम्। कतमो यज्ञ इति पशव इति। तेषां यज्ञसाधनत्वादित्यर्थः॥६॥
कतमे षडिति। अग्निश्च पृथिवी च वायुश्चान्तरिक्षं चाऽऽदित्यश्च द्यौश्चैते षडिति। हि यस्मात्त्रयस्त्रिंशदाद्युक्तमिदं सर्वं देवजातं षडेतेऽग्न्यादय एव तस्मात्तेष्वन्तर्भूताः सन्तः षडेव देवा भवन्तीत्यर्थः॥७॥
कतमे ते त्रयो देवा इति। इमे पूर्वकण्डिकोक्तपृथिव्यन्तरिक्षद्युरूपा एव त्रयो लोकाः क्रमेणाग्निवाय्वादित्यात्मनैकीकृत्य त्रयो देवा इत्युच्यन्ते। कथं हि यस्मादेषु त्रिषु लोकेष्विमेऽग्निवाय्वादित्यान्तर्भूताः सर्वे देवा वर्तन्त इत्याधाराधेययोरभेदात्तथोक्तमित्यर्थः। कतमौ तौ द्वौ देवावित्यन्नं चैव
प्राणश्चेति कतमोऽध्यर्ध इति योऽयं पवत इति
॥८॥ तदाहुर्यदयमेक इवैव पवतेऽथ कथमध्यर्ध
इति यदस्मिन्निदँसर्वमध्यार्घ्नोत्तेनाध्यर्ध इति कतम
एको देव इति प्राण इति स ब्रह्म त्यदित्याच-
क्षते॥९॥ पृथिव्येव यस्याऽऽयतनमग्निर्लोको
मनोज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्याऽऽत्मनः
परायणँस वै वेदिता स्याद्याज्ञवल्क्य वेद वा
अहं तं पुरुषँसर्वस्याऽऽत्मनः परायणं यमात्थ
_______________________________________________________________________
प्राणश्चेति। अत्रैवोक्तदेवानामन्तर्भाव इत्यर्थः। कतमोऽध्यर्ध इति। योऽयं बाह्योवायुः पवते वाति सोऽध्यर्ध इत्यर्थः॥८॥
तत्तत्राध्यर्धशब्दस्य वायुविषयत्व उक्ते सति शाकल्यादयो वादिन आहुश्चोदयन्ति। किम्। यद्यतोऽयं वायुरेक एव पवते वात्यथातः कथमिवाध्यर्ध इति शङ्किते योगमाश्रित्य परिहरति—यदिति। यद्यस्मादस्मिन्वायौ सतीदं सर्वं चराचरमध्यधिकमार्ध्नोद्वृद्धिं प्रापत्तेन हेतुनाऽध्यर्धो वायुरित्यर्थः। कतम एको देव इति प्राण इति। कोऽसावित्यपेक्षायामाह—स इति। स प्राणो ब्रह्म सूत्रात्मरूपेण सर्वकार्याणां भरणात्कारणभूतो ब्रह्मेति भण्यते। तस्मात्तं प्राणं ब्रह्म त्यदिति परोक्षाभिधायकेन शब्देनाऽऽचक्षते प्राणविदः साक्षान्निर्देष्टुमशक्यत्वादित्यर्थः॥९॥
तदेवं संकोचविस्ताराभ्यां प्राणस्वरूपमुक्तं तस्यैवेदानीं पुनरष्टधा भेदो ध्यानसौकर्यार्थमुच्यते—पृथिवीति। पृथिव्येव यस्य देवस्याऽऽयतनमाश्रयः शरीरमग्निर्लोको लोकयत्यनेनेति लोको लोकनसाधनं यस्य। मनोज्योतिर्ज्योतिःशब्दाभिधेयं विज्ञानं संकल्पविकल्पात्मकं प्रति हेतुभूतं यस्य। पुनः कथंभूतं पृथिव्यभिमानिनं पुरुषं सर्वस्याऽऽत्मनः शरीरस्य बीजस्थानीयपितृजास्थिमज्जाशुक्ररूपस्य284 कारणस्य च परायणं परमाश्रयस्तं पृथिव्यभिमानिनं पुरुषं यो वै विद्यात्स वै स एव285वेदिता विद्वान्स्याद्धे286 याज्ञवल्क्येति प्रश्नः। यद्येतद्वेदनेन पाण्डित्यं स्यात्तर्हि त्वं यं पुरुषं सर्वस्याऽऽत्मनः परायणमात्थ कथयसि तं
य एवायँ शारीरः पुरुषः स एष वदैव
शाकल्य तस्य का देवतेत्यमृतमिति होवाच
॥१०॥ काम एव यस्याऽऽयतनँहृदयं लोको
मनोज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्याऽऽ-
त्मनः परायणँ स वै वेदिता स्याद्याज्ञ-
वल्क्य वेद वा अहं तं पुरुषँसर्वस्याऽऽत्मनः
परायणं यमात्थ य एवायं काममयः पुरुषः स
एष वदैव शाकल्य तस्य का देवतेति स्त्रिय
इति होवाच॥११॥
________________________________________________________________________
पुरुषमहंवेद वै वेदैवेतिमुनिवचनानन्तरं यदि वेत्थ तं ब्रूहि तर्हि किंविशेषणोऽसावितिश्रुतिद्रष्टव्यशाकल्यमश्नानन्तरमुत्तरमाह—य इति। य एवायं प्रसिद्धः शारीरः शरीरे पार्थिवांशमात्रे भवो जनकत्वेन स्थितो मातृजत्वङ्मांसरुधिरलक्षणकोशत्रयरूपः शारीरः पुरुषः स एष त्वया पृष्टः। एतावता समाप्तं दर्शनमिति मन्यमानं शाकल्यं प्रत्याह—वदेति। हे शाकल्य वदैव पृच्छैव यद्यत्र प्रष्टव्यं विशेषणान्तरं जानासि। एवं संक्षोभितः शाकल्योऽमर्षवशेनाऽऽह—तस्येति। तस्य मातृजकोशत्रयात्मकस्य शरीरस्य का देवता किमुत्पत्तिकारणमत्र प्रकरणे देवताशब्देन सर्वत्रोत्पत्तिकारणस्यैव विवक्षितत्वात्। तं प्रति मुनिराहेति श्रुतिरस्मान्प्रत्याह—अमृतमिति होवाचेति। लोहितादिहेतुभूतो मातृजग्धान्नरसोऽमृतमित्युच्यते तत्कारणमित्युवाच याज्ञवल्क्यः। तथाच या सामान्याश्रिता शाकल्यपृच्छा पृथिव्यभिमानिनी देवता सैव मातृजकोशत्रयात्मनाऽवस्थितेति मुनिना विशेषाश्रितोत्तातो न प्रश्नप्रतिवचनयोर्वैयधिकरण्यम्। सामान्यतोऽयमेवार्थः सर्वेषु पर्यायेषु बोद्धव्यो विशेषस्तु कथ्यते॥१०॥
काम इति। कामो योषित्समागमेच्छा। हृदयं बुद्धिः। लोक आलोकस्तेन हि सर्वं पश्यति। कामायतनस्य देवस्य विशेषायतनमपिकामएवेत्याह—य एवायमिति। काममयः कामायतन एवावच्छेदान्तराभावात्। तस्योत्पत्तिकारणं पृच्छति—तस्येति। तस्य कामस्य का देवता किमुत्पत्तिकारणनिति पृष्टेस्त्रिय इति होवाच। स्त्रीतो हि कामो जायत इत्यर्थः॥११॥
रूपाण्येव यस्याऽऽयतनं चक्षुर्लेको मनोज्यो-
तिर्यो वै तं पुरुषं विद्यात्सर्वस्याऽऽत्मनः परा-
यणँ स वै वेदिता स्याद्याज्ञवल्क्य वेद वा
अहं तं पुरुषँसर्वस्याऽऽत्मनः परायणं यमात्थ
य एवासावादित्ये पुरुषः स एष वदैव शाकल्य
तस्य का देवतेति सत्यमिति होवाच॥१२॥
आकाश एव यस्याऽऽयतनँश्रोत्रं लोको
मनोज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्याऽऽत्मनः
परायणँस वै वेदिता स्याद्याज्ञवल्क्य
वेद वा अहं तं पुरुषँसर्वस्याऽऽत्मनः परायणं
यमात्थ य एवायँ श्रौत्रः प्रातिश्रुत्कः पुरुषः स
एष वदैव शाकल्य तस्य का देवतेति दिश
इति होवाच॥१३॥ तम एव यस्याऽऽयतनँ
हृदयं लोको मनोज्योतिर्यो वै तं पुरुषं विद्या-
त्सर्वस्याऽऽत्मनः परायणँस वै वेदिता स्याद्या-
ज्ञवल्क्य वेद वा अहं तं पुरुषँसर्वस्याऽऽ-
त्मनः परायणं यमात्थ य एवायं छायामयः
पुरुषः स एष वदैव शाकल्य तस्य का देवतेति
मृत्युरिति होवाच॥१४॥
__________________________________________________________
रूपाणीति। रूपाणि शुक्लादीन्यभास्वराणि तैः स्वप्रकाशनायाऽऽदित्ये रविमण्डले पुरुषो विशेषायतन आरब्धस्तस्य सत्यशब्दितमध्यात्मं चक्षुरुत्पादकं चक्षोः सूर्यो अजायतेति श्रुतेः॥१२॥
आकाश इति। श्रोत्रे भवः श्रौत्रस्तत्रापि प्रतिश्रवणवेलायां विशेषतो भवतीति प्रातिश्रुत्कस्तस्योत्पत्तिकारणं दिशो दिशस्तत्राधिदैवतमिति श्रुतेः॥१३॥।
तम इति। तमः शार्वराद्यन्धकारस्तदाश्रितस्य विशेषायतनं छायाऽज्ञानं तन्मयस्योत्पादको मृत्युरीश्वरो मृत्युनैवेदमावृतमासीदिति श्रुतेः॥१४॥
रूपाण्येव यस्याऽऽयतनं चक्षुर्लोको मनोज्यो-
तिर्यो वै तं पुरुषं विद्यात्सर्वस्याऽऽत्मनः परा-
यणँ स वै वेदिता स्याद्याज्ञवल्क्य वेद
वा अहं तं पुरुषँ सर्वस्याऽऽत्मनः परायणं
यमात्थ य एवायमादर्शे पुरुषः स एष वदैव
शाकल्य तस्य का देवतेत्यसुरिति होवाच॥१५॥
आप एव यस्याऽऽयतनँ हृदयं लोको मनो-
ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्याऽऽत्मनः
परायणँ स वै वेदिता स्याद्याज्ञवल्क्य
वेद वा अहं तं पुरुषँसर्वस्याऽऽत्मनः परायणं
यमात्थ य एवायमप्सु पुरुषः स एष वदैव
शाकल्य तस्य का देवतेति वरुण इति होवाच
॥१६॥ रेत एव यस्याऽऽयतनँहृदयं लोको
मनोज्योतिर्योवै तं पुरुषं विद्यात्सर्वस्याऽऽ-
त्मनः परायणँस वै वेदिता स्याद्याज्ञ-
वल्क्य वेद वा अहं तं पुरुषँसर्वस्याऽऽत्मनः
परायणं यमात्थ य एवायं पुत्रमयः पुरुषः स
एष वदैव शाकल्य तस्य का देवतेति प्रजाप-
तिरिति होवाच॥१७॥
________________________________________________________________________
रूपाणीति। रूपाणि भास्वराणि। आदर्शे प्रतिबिम्बाश्रये। पुरुषस्तस्योत्पादकोऽसुः प्राणस्तेन हि बलापरपर्यायेण निघृष्यमाणे दर्पणादौ प्रतिबिम्बोदय उत्पद्यत इत्यर्थः॥१५॥
आप इति। अप्सामान्याश्रितोऽप्सु विशेषभूतासु वाप्यादिगतासु वर्तमानः पुरुषस्तस्योत्पादको वरुण इति प्रसिद्धम्॥१६॥
रेत इति। पुत्रशब्देन पितुर्जातान्यस्थिमज्जाशुक्राणि तस्योत्पादकः मजापतिः पितेत्यर्थः॥१७॥
शाकल्येति होवाच याज्ञवल्क्यस्त्वाँ स्विदिमे
ब्राह्मणा अङ्गारावक्षयणमक्रता३ इति॥१८॥
याज्ञवल्क्येति होवाच शाकल्यो यदिदं कुरु-
पञ्चालानां ब्राह्मणानत्यवादीः किं ब्रह्म विद्वा-
निति दिशो वेद सदेवाः संप्रतिष्ठा इति यद्दिशो
वेत्थ सदेवाः सप्रतिष्ठाः॥१९॥ किंदेव-
तोऽस्यां प्राच्यां दिश्यसीत्यादित्यदेवत इति
________________________________________________________________________
एवमष्टधा प्रविभक्तः प्राणदेवः सूत्रात्मा सामान्यविशेषावच्छेदेन287 तत्कारणात्मना च त्रिधा विभक्त इत्युक्तं तस्यैव पुनः पञ्चधा पञ्चदिग्विभागेन ध्यानं वक्तव्यमित्येतदर्थं श्रुतिः प्रवर्तत इति श्रौती संगतिः। तत्र मुनिरवशिष्टं यदप्यस्य तन्मां पृच्छत्विति चेतसि निधाय तूष्णींभूतं शाकल्यं ग्रहेणेवाऽऽवेशयन्नाह—यद्वा मुनिरतिप्रश्नादनर्थं पश्यन्करुणयाऽऽह—शाकल्येति। हे शाकल्येमे ब्राह्मणाः। स्विद्वितर्के। नूनं त्वामङ्गारावक्षयणमङ्गारा अवक्षीयन्ते निरुध्यन्ते यस्मिंस्तदङ्गारावक्षयणं संदंशनाद्यक्रता३ इति प्लुतिर्विचारार्थऽक्रत कृतवन्त इति याज्ञवल्क्य उवाच। त्वं त्वङ्गारस्थानीयेन मयाऽऽत्मानं दह्यमानं न जानासीति भावः॥१८॥
एवमुक्तं हितोपदेशं शाकल्यो विपरीतार्थं गृहीत्वा चोदयतीत्याह—याज्ञवल्क्येति। हे याज्ञवल्क्य त्वं कुरुपञ्चालानां ब्राह्मणान्यदिदमत्यवादीरत्युक्तवानसि स्वयं भीतास्त्वामङ्गारावक्षयणं कृतवन्त इति तत्किं ब्रह्म विद्वान्सन्नेवं ब्राह्मणानधिक्षिपसीति शाकल्य उवाच। एवमुक्तो याज्ञवल्क्यो मम दिग्विषयं ब्रह्मज्ञानमस्तीत्याह—दिश इति। दिशो वेद जानामि न केवलं दिङ्मात्रं जानेऽपि तु सदेवा देवैरधिष्ठातृभिः सह वर्तमानाः सप्रतिष्ठाः प्रतिष्ठाभिः सह वर्तमाना इति। मुन्युक्तं शाकल्योऽनूद्य पृच्छति—यदिति। यद्यदिसदेवाः सप्रतिष्ठा दिशो वेत्थ जानासि॥१९॥
तर्हि हे याज्ञवल्क्य त्वमस्यां प्राच्यां दिशि किंदेवतोऽसि का देवता यस्यासौकिंदेवतः काऽधिष्ठातृदेवतया त्वं प्राचीदिग्रूपेण संपन्न इति यावत्।अस्याः का देवतेति प्रष्टव्येऽप्येवं प्रश्नकरणं तु मुनेर्दिगुपासनातादात्म्यसंपत्तिरिहैव जातेति बोधयितुम्। इतर आह—आदित्य इति। प्राच्यां दिशि
स आदित्यः कस्मिन्प्रतिष्ठित इति चक्षुषीति
कस्मिन्नु चक्षुः प्रतिष्ठितमिति रूपेष्विति चक्षु-
षा हि रूपाणि पश्यति कस्मिन्नु रूपाणि प्रति-
ष्ठितानीति हृदय इति होवाच हृदयेन हि
रूपाणि जानाति हृदये ह्येव रूपाणि प्रतिष्ठि-
तानि भवन्तीत्येवमेवैतद्याज्ञवल्क्य॥२०॥
किंदेवतोऽस्यां दक्षिणायां दिश्यसीति यमदेवत
इति स यमः कस्मिन्प्रतिष्ठित इति यज्ञ इति
कस्मिन्नु यज्ञः प्रतिष्ठित इति दक्षिणायामिति
कस्मिन्नु दक्षिणा प्रतिष्ठितेति श्रद्धायामिति
यदा ह्येव श्रद्धत्तेऽथ दक्षिणां ददाति श्रद्धायाँ
ह्येव दक्षिणा प्रतिष्ठितेति कस्मिन्नु श्रद्धा प्रति-
__________________________________________________________
ममाऽऽदित्यो देवता यस्य सोऽहमादित्यदेवतस्तया प्राचीदिग्रूपत्वमापन्न इति यावत्। अथ प्रतिष्ठां पृच्छति—स आदित्यः कस्मिन्प्रतिष्ठित इति। स्वोत्पत्तिकारण एव प्रतिष्ठितत्वमाह—चक्षुषीति। चक्षोः सूर्यो अजायतेति श्रुतेः। पुनश्चक्षुरुत्पादकं पृच्छति—कस्मिन्नु चक्षुः प्रतिष्ठितमिति। उत्तरमाह—रूपेष्विति। अत्र हेतुमाह—चक्षुषा हि रूपाणि पश्यतीति। अतो रूपारब्धं चक्षुर्व्यञ्जकस्य व्यङ्ग्यसमानजातीयत्वात्। रूपोत्पादकं पृच्छति—कस्मिन्नु रूपाणि प्रतिष्ठितानीति। उत्तरमाह—हृदय इति होवाच। हृदयस्थबुद्धौ। अत्र हेतुर्हि यस्माद्धृदयेन तत्स्थबुद्ध्या सर्वाणि रूपाणि जानाति स्मरति बुद्ध्यभिन्नमनोमात्रकल्पितानीति यावत्। तस्माद्धृदये ह्येव सर्वाणि वासनात्मकानि रूपाणि प्रतिष्ठितानि भवन्तीत्युपसंहृते शाकल्योऽङ्गी करोति—एवमिति। हे याज्ञवल्क्यैतदुक्तमेवमेव मयाऽप्येवं ज्ञायत इत्यर्थः॥२०॥
एवमेव सर्वत्र सामान्यतोऽर्थो बोद्धव्यो विशेषस्तु कथ्य—किंदेवतोऽस्यामिति। यमो धर्मराजो यज्ञे प्रतिष्ठितः। स यमो हि दक्षिणां दिशं यज्ञेन यजमानो जयत्यतः कारणे हि कार्यप्रतिष्ठा युज्यते। यज्ञश्च दक्षिणायां प्रतिष्ठितः। तया हि यज्ञो निष्क्रीयत ऋत्विग्भ्यः। दक्षिणा च श्रद्धायां भक्ति-
ष्ठितेति हृदय इति होवाच हृदयेन हि श्रद्धा
जानाति हृदये ह्येव श्रद्धा प्रतिष्ठिता भवतीत्ये-
वमेवैतद्याज्ञवल्क्य॥२१॥ किंदेवतोऽस्यां
प्रतीच्यां दिश्यसीति वरुणदेवत इति स वरुणः
कस्मिन्प्रतिष्ठित इत्यप्स्विति कस्मिन्नवापः प्रति-
ष्ठिता इति रेतसीति कस्मिन्नु रेतः प्रतिष्ठितमिति
हृदय इति तस्मादपि प्रतिरूपं जातमाहुर्हृदया-
दिव सृप्तो हृदयादिव निर्मित इति हृदये ह्येव रेतः
प्रतिष्ठितं भवतीत्येवमेवैतद्याज्ञवल्क्य॥२२॥
किंदेवतोऽस्यामुदीच्यां दिश्यसीति सोमदेवत
इति स सोमः कस्मिन्प्रतिष्ठित इति दीक्षाया-
मिति कस्मिन्नु दीक्षा प्रतिष्ठितेति सत्य इति
तस्मादपि दीक्षितमाहुः सत्यं वदेति सत्ये ह्येव
दीक्षा प्रतिष्ठितेति कस्मिन्नु सत्यं प्रतिष्ठितमिति
हृदय इति होवाच हृदयेन हि सत्यं जानाति
हृदये ह्येव सत्यं प्रतिष्ठितं भवतीत्येवमेवैतद्या-
____________________________________________________________________________
सहितदित्सुत्वलक्षणायामास्तिक्यबुद्धौ। श्रद्धा च हृदयवृत्तिरतो हृदये प्रतिष्ठितेत्यर्थः॥२१॥
किमिति। वरुणोऽप्सु प्रतिष्ठितः श्रद्धा वा आपः श्रद्धातो वरुणमसृजतेति श्रुतेः। आपश्च रेतसि रेतसो ह्यापः सृष्टा इति श्रुतेः। तच्च हृदये। तत एव हिकामिनो रेतः स्कन्दति। कामश्च हृदयवृत्तिः। सा च वृत्तिमति तिष्ठत्येव। अत्रैव लोकप्रसिद्धिमाह—तस्मादपीति। तस्मादेव प्रतिरूपमनुरूपं पुत्रं जातमाहुर्लौकिकाः। अस्य पितुर्हृदयादिवायं पुत्रः सृप्तो निःसृतो हृदयादिव निर्मित इत्यर्थः॥२२॥
किमिति। सोमदेवत इत्यत्र सोमलतां सोमदेवतां चैकीकृत्य निर्देशः। स सोमो दीक्षायां दीक्षितो हि यजमानः सोमं क्रीणाति। सा च सत्ये यस्मात्प्रतिष्ठिता तस्मादपि तस्मादेव दीक्षितं सत्यं वदेत्याहुःकारणनाशे कार्यनाशो
ज्ञवल्क्य॥२३॥ किंदेवतोऽस्यां ध्रुवायां
दिश्यसीत्यग्निदेवत इति सोऽग्निः कस्मिन्प्रति-
ष्ठित इति वाचीति कस्मिन्नु वाक्प्रतिष्ठितेति
हृदय इति कस्मिन्नु हृदयं प्रतिष्ठितमिति॥२४॥
अहल्ँलिकेति होवाच याज्ञवल्क्यो यत्रैतदन्य-
त्रास्मन्मन्यासै यद्ध्येतदन्यत्रास्मत्स्याच्छ्वानो
वैतदद्युर्वयाँसिवैतद्विमथ्नीरन्निति॥२५॥
कस्मिन्नु त्वं चाऽऽत्मा च प्रतिष्ठितौ स्थइति
प्राण इति कस्मिन्नु प्राणः प्रतिष्ठित इत्यपान
इति कस्मिन्न्वपानः प्रतिष्ठित इति व्यान
______________________________________________________________________________
मा भूदित्यभिप्रायवन्तः पण्डिता इत्यर्थः॥२३॥
किमिति। मेरोः समन्ततो वसतामव्यभिचारादूर्ध्वा दिग्ध्रुवेत्युच्यते। तस्यां प्रकाशभूयस्त्वादग्निर्देवता। स च वाचि। सा च हृदीत्यर्थः॥२४॥
एवमाद्यद्वितीयादिपञ्चमदिक्पर्यायक्रमेण रूपकर्मनाम्नां सर्वजगदात्मकानां मनोविलासरूपत्वादर्थान्मनोद्वारा हृद्युपसंहार उक्तस्तच्च सर्वात्मकं हृदयं कस्मिन्नु प्रतिष्ठितमिति पृष्ट उत्तरमाह—अहल्लिँकेति। अहनि लीयत इति व्युत्पत्तेर्नूनं त्वं प्रेतिभूतोऽसीति लक्ष्यते यतो यत्किंचित्प्रेतवद्भाषस इति प्रेतनाम्ना शाकल्यं संबोधयन्याज्ञवल्य उवाच। किं यत्रैतद्धृदयं शरीरस्याऽऽत्मभूतमस्मदस्मत्त एतस्माच्छरीरादन्यत्र वर्तत इति यदि मन्यासै मन्यासैतदा शरीरं मृतमेव स्यादिति शेषः। एतमेव विशंदयति—यदिति। यद्यदि ह्येतद्धृदयमस्मच्छरीरादन्यत्र स्याद्भवेत्तदा श्वानो वैतच्छरीरमद्युर्भक्षयेयुः। वयांसि वा पक्षिणो वा गृध्रादय एतच्छरीरं विमथ्नीरन्विलोडयेयुर्विकर्षेरन्नतः शरीर एव हृदयं प्रतिष्ठितं तदपि हृदय इत्यर्थादुक्तमित्यर्थः॥२५॥
एवमन्योन्यप्रतिष्ठितयोः स्थूलसूक्ष्मशरीरयोः कार्यत्वात्तेअपि कुत्र प्रतिष्ठिते इति पृच्छति—कस्मिन्निति। कस्मिन्नुत्वं च शरीरमात्मा च हृदयं चेत्येतौ युवां प्रतिष्ठितौ स्थ इति पृष्ट उत्तरमाह—प्राण इति। प्राण ऊर्ध्ववृत्यात्मके प्रतिष्ठितः (तौ)। स चापानेऽधोवृत्तिरूपेऽन्यथोर्ध्वमेव गच्छेत्। स चापानो व्याने मध्यस्थवृत्तिरूपेऽन्यथोभयोरूर्ध्वाधोगमनमेव भवेत्। स च
इति कस्मिन्नु व्यानः प्रतिष्ठित इत्युदान इति
कस्मिन्नूदानः प्रतिष्ठित इति समान इति स
एष नेति नेत्यात्माऽगृह्यो न हि गृह्यतेऽशीर्यो
न हि शीर्यतेऽसङ्गो न हि सज्यतेऽसितो न
व्यथते न रिष्यति। एतान्यष्टावायतनान्यष्टौ
लोका अष्टौ देवा अष्टौ पुरुषाः स यस्तान्पुरु-
षान्निरुह्य प्रत्युह्यात्यक्रामत्तं त्वौपनिषदं पुरुषं
_____________________________________________________________________________
व्यान उदाने नाभिस्थवृत्तिरूपे कीलकस्थानीये त्रयाणां बन्धनरूपे। स चोदानः समाने सूत्रात्मशब्दवाच्ये। सोऽप्यन्तर्यामिणि। सोऽप्यक्षरे कूटस्थे ब्रह्मणीत्यप्यर्थाद्दर्शितमेवेति मत्वा श्रुतिः स्वमुखेनैव तस्य ब्रह्मणः स्वरूपमाह—स इति। स यः सूत्राश्रयान्तर्यामित्वकल्पनाधिष्ठानभूतः स परमात्मैष प्रत्यगात्मैव मूर्तामूर्तब्राह्मणे नेति नेतीत्येवं सकलोपाधिनिषेधेन निर्दिष्ट आत्माऽगृह्यः करणागोचरः। कुतो हि यस्माच्छब्दप्रत्यययोः प्रवृत्तिनिमित्तसकलकार्यधर्मातीतत्वान्न गृह्यते। तथाऽशीर्योऽपक्षयधर्मरहितो हि यस्मान्न शीर्यते नापक्षीयते शरीरादेरेव तद्धर्मत्वात्। तथाऽसङ्गः सङ्गित्वधर्महीनोहि यस्मान्न सज्यते288 केनचित्सह न संबध्यते मूर्तस्यैव तद्धर्मत्वात्। तथाऽसितोऽबद्धो बाह्याभ्यन्तरशून्यो न व्यथते। यस्मादेवमादिधर्मै रहितस्तस्मान्न रिष्यति न विनश्यतीत्यर्थः। अथ पुनः पूर्वामेवाऽऽख्यायिकामनुसृत्यायं प्रेतीभूतो ब्रह्मवित्सन्नेव मां ब्रह्म पृच्छतीति सापराधित्वं संपादयितुं मुनिः पृच्छति—एतानीति। एतान्युक्तानि पृथिव्यादीन्यष्टावायतनान्यष्टौ लोका अग्न्यादयोऽष्टौदेवा अमृतमिति होवाचेत्यादयोऽष्टौ पुरुषाः शारीरः पुरुष इत्याद्युक्तास्ताञ्शारीरमभृतीनष्टौ पुरुषान्स यः कश्चिद्ब्रह्मज्ञश्चतुष्कभेदेन निरुह्यनिश्चयेनोह्यगमयित्वा लोकस्थितिमुपपाद्य पुनः प्राचीदिगादिद्वारेण स्वात्मनि हृदये प्रत्युह्योपसंहृत्य पश्चाद्धृदयाद्यात्मत्वलक्षणमपि समानान्तमुपाधिधर्ममत्यक्रामदतिक्रान्तवान्स्वेनैवाऽऽत्मना व्यवस्थितस्तं ब्रह्मज्ञमौपनिषदमुपनिषत्स्वेव विज्ञेयं पुरुषमशनायादिधर्मविवर्जितं हे शाकल्य त्वा त्वां पृच्छामि। तं चेत्पुरुषं मे मह्यं न वित्रक्ष्यसिविस्पष्टं न कथयिष्यसितर्हि ते तवाब्रह्मविदो ब्रह्मवित्त्वाभिमानिनो मूर्धा शिरो विपतिष्यति विस्पष्टं पतिष्यति।
पृच्छामि तं चेन्मे न विवक्ष्यसि मूर्धा ते विप-
तिष्यतीति। तँह न मेने शाकल्यस्तस्य ह
मूर्धा विपपातापि हास्य परिमोषिणोऽस्थीन्य-
पजह्रुरन्यन्मन्यमानाः॥२६॥ अथ होवाच
ब्राह्मणा भगवन्तो यो वः कामयते स मा
पृच्छतु सर्वे वा मा पृच्छत यो वः कामयते
तं वः पृच्छामि सर्वान्वा वः पृच्छामीति ते
ह ब्राह्मणा न दधृषुः॥२७॥
______________________________________________________________________________
इतिशब्द आख्यायिकासमाप्तिद्योतकः। एवं शापे दत्ते किं वृत्तमिति जिज्ञासायां श्रुतिः स्वमुखेनैवाऽऽह—तमिति। तमौपनिषदं पुरुषं शाकल्यो न मेने ह न ज्ञातवान्किल। तस्य ह शाकल्यस्य मूर्धा विपपात पतितः। ब्रह्मविद्विद्वेषे परलोकविघातोऽपि स्यादिति दर्शयितुमष्टाध्याय्यां निर्वृत्ताख्यायिकार्थमिह सूचयति—अपीति। न केवलमसौ मृत एव किंत्वस्यास्थीन्यप्यग्निहोत्रेण संस्कारार्थं शिष्यैश्चैलखण्डेन बद्ध्वा गृहान्प्रति नीयमानानि परिमोषिणस्तस्करा अन्यद्धनमेतैर्नीयतइति मन्यमानाः सन्तोऽपजह्रुरपहृतवन्तइत्यर्थः॥२६॥
यस्य ब्रह्मणो नेति नेत्यन्यप्रतिषेधद्वारेण निर्देशः कृतस्तस्येदानीं विधिमुखेन निर्देशः कर्तव्यो जगतो मूलं च वक्तव्यमित्येतदर्थं श्रुतिराख्यायिकामेव पुनरनुसृत्य ब्राह्मणानुमतिमन्तरेण गोग्रहणस्यानर्थपर्यवसायित्वात्तदनुमतिसंपत्तिहेतुभूतं पराजयं कर्तुं मुनिस्तान्पृच्छतीत्याह—अथेति। अथ शाकल्यशिरः पातं दृष्ट्वा ब्राह्मणानां तूष्णींभावानन्तरं भो ब्राह्मणा भगवन्त इति संबोध्य तान्प्रति होवाच। किं वो युष्माकं मध्ये यो याज्ञवल्क्यं पृच्छामीति कामयत इच्छति स मा मां पृच्छतु वाऽथवा सर्वे यूयं मा मां पृच्छत। यद्वा वो युष्माकं मध्ये याज्ञवल्क्यो मां पृच्छत्वितियः कामयते तं पुरुषं वो युष्माकं मध्ये वर्तमानमहं पृच्छामि वाऽथवा सर्वान्वो युष्मानहं पृच्छामीत्येवमुक्ता अपि ते ब्राह्मणा न दधृषुर्न प्रगल्भाः संवृत्ताः किंचिदपि प्रत्युत्तरं दातुमित्यर्थः॥२७॥
तान्हैतैः श्लोकैः पप्रच्छ—
यथा वृक्षो वनस्पतिस्तथैव पुरुषोऽमृता॥
तस्य लोमानि पर्णानि त्वगस्योत्पाटिका बहिः॥१॥
त्वच एवास्य रुधिरं प्रस्यन्दि त्वच उत्पटः॥
तस्मात्तदातृण्णात्प्रैति रसो वृक्षादिवाऽऽहतात्॥२॥
माँसान्यस्य शकराणि कीनाटँस्राव तत्स्थिरम्॥
अस्थीन्यन्तरतो दारूणि मज्जा मज्जोपमा कृता॥३॥
यद्वृक्षो वृक्णो रोहति मूलान्नवतरः पुनः॥
मर्त्यः स्विन्मृत्युना वृक्णः कस्मान्मूलात्प्ररोहति॥४॥
_________________________________________________________________________________
जगत्कारणं प्रष्टुं पुरुषवृक्षयोस्तावच्छ्लोकत्रयेण साधर्म्यमाह—तानिति। तानप्रगल्भानपि ब्राह्मणानेतैर्वक्ष्यमाणैः श्लोकैः पप्रच्छ ह किल। यथा लोके वृक्षस्तद्विशेषणं वनस्पतिस्तथैव तत्सधर्मैव पुरुष इत्येतदमृषा न मिथ्या सत्यमेव यतस्तस्य पुरुषस्य लोमानि तत्स्थानीयानि वनस्पतेः पर्णानि। त्वगस्य पुरुषस्य वृक्षस्य तु तत्स्थानीया बहिरुत्पाटिका सर्वापेक्षया बहिर्भूता नीरसा त्वक्। त्वचः सकाशादेवास्य पुरुषस्य रुधिरं प्रस्यन्दि निःसरति। वृक्षस्यापि त्वचः सकाशादेवोत्पटो निर्यासः प्रस्यन्दी। एवमुक्तं साधर्म्यमनुभवेन निगमयति— तस्मादिति। यस्माद्वनस्पतेः पुरुषस्य च सर्वं समानं तस्मादाहताच्छिन्नाद्वृक्षाद्वनस्पते रस इव निर्यास इवाऽऽतृणाद्धिंसितात्पुरुषात्तद्रुधिरं प्रैति निर्गच्छति। किंच। अस्य पुरुषस्य मांसानि तत्स्थानीयानि वनस्पतेः शकराणि शकलानि। कीनाटं नाम वृक्षस्य शकलेभ्योऽभ्यन्तरं काष्ठसंलग्नं वल्कलरूपमुच्यते तत्स्थानीयं पुरुषस्य स्नावास्थिसंलग्नो धातुविशेषस्तदुभयं स्थिरं दृढं पुरुषस्य स्नावभ्योऽन्तरतोऽस्थीनि भवन्ति तत्स्थानीयानि वृक्षस्याभ्यन्तरतो दारूणि काष्ठानि। मज्जाशब्देनोभयत्रास्थिकाष्ठगतस्नेह उच्यते। स च वृक्षपुरुषयोर्मज्जैव मज्जाया उपमा कृता नान्यो विशेष इत्यर्थः। अथ तयोर्वैधर्म्यकथनपुरःसरं जगत्कारणं पृच्छति—यदिति। यद्यदि वृक्षो वृक्णश्छिन्नः पुनः पुनरपि मूलान्नवतरः पूर्वस्मादभिनवतरः प्ररोहति प्रादुर्भवति। मर्त्यो मनुष्यः स्वित्पुनर्मृत्युना यमेन वृक्णो मारितः कस्मान्मूलात्कारणात्प्ररोहति पुनर्जायत इति भवतोऽहं
रेतस इति मा वोचत जीवतस्तत्प्रजायते॥
धानारुह इव वै वृक्षोऽञ्जसा प्रेत्य संभवः॥५॥
यत्समूलमावृहेयुर्वृक्षं न पुनराभवेत्॥
मर्त्यः स्विन्मृत्युना वृक्णः कस्मान्मूलात्प्ररोहति॥६॥
जात एव न जायते को न्वेनं जनयेत्पुनः।
विज्ञानमानादं ब्रह्म रातिर्दातुः
_______________________________________________________________________________
पृच्छामीत्यर्थः। तत्र शङ्कामुद्भाव्य निराचष्टे—रेतस इति। हे ब्राह्मणा रेतसः सकाशात्पुरुषः प्ररोहतीति मा वोचत मैवं वक्तुमर्हथ। यतस्तद्रेतो जीवतः पुरुषात्प्रजायते न मृतात्। जीवंश्चकोऽपि नास्ति मृतपुरुषशब्देन प्रलीनसर्वशरीरादिजगज्जातस्यैवोच्यमानत्वादत एव दृष्टान्ते वृक्षमात्रसंग्राहकं वनस्पतिविशेषणं कृतं तस्माद्रेतोभावान्न तत्कारणम्। अपि च। धाना बीजं तस्याः सकाशाद्रोहतीति धानारुहो वृक्षोऽञ्जसा सम्यक्संभवो दृष्टः काण्डरुहोऽपि। इवशब्दोवैधर्म्यदृष्टान्तार्थः। वै प्रसिद्धिद्योतनार्थः। तथाच यथा वै वृक्षः प्रेत्य मृत्वा काण्डरुहो धानारुहश्चाञ्जसा संभवतीति प्रसिद्धं न तथा मृतस्य पुरुषस्य पुनरुत्पत्तौ किंचिदपि कारणं दृश्यते भवितव्यं च तेनेत्यर्थः। ननु सकारणकनष्टवृक्षवज्जगतोऽपि तथा289 नाशात्पुनरनुत्पत्तेर्न कारणान्वेषणेति चेत्सत्यम्। यद्यदि वृक्षं सह मूलेन कारणमात्रेणाऽऽवृहेयुरुत्पाटयेयुस्तदा पुनरागत्य न भवेन्न तिष्ठेत्। तद्वत्सम्यग्ज्ञानाभावाज्जगतः कारणेऽनुन्मूलिते सति मर्त्यः स्विन्मृत्युना वृक्णः कस्मान्मूलात्प्रारोहतीति वः पृच्छामीत्यर्थः। स्वभाववादमवलम्ब्य चोदयति—जात एवेति। यस्तु मृतः स पुनर्नैव जायते जातत्वादेव। जनिष्यमाणस्य हि कारणचिन्ता न जातस्यातोऽत्र प्रश्न एवानुपपन्न इति चेन्नेति पृथग्वाक्यम्।यन्मतं जात एवेति तन्न। किं तर्हि मृतः पुनरपि जायत एवान्यथा कृतनाशाकृताभ्यागमः स्यादतो वः पृच्छाम्येनं मृतं पुरुषमनु पश्चात्पुनः को जनयेदिति। एवं पृष्टा जगन्मूलानभिज्ञा याज्ञवल्क्येन जिता गावश्व हृता इत्याख्यायिकां समाप्य जगन्मूलं विधिमुखव्यपदेशकशब्दैः श्रुतिः स्वमुखेनैवास्मभ्यमुपदिशति—विज्ञानमिति। विज्ञप्तिर्विज्ञानं कूटस्थचिन्मात्ररूपमेव। तच्चाऽऽनन्दं दुःखाननुविद्धाविक्रियमाणसुखस्वरूपं तदेवाऽऽनन्दात्मकं विज्ञानं ब्रह्म त्रिविधपरिच्छेदशून्यं यत्साक्षादपरोक्षादित्याद्युक्तलक्षणम्। रातिर्बन्धुः। यद्वा रातिरिति प्रथमा षष्ठ्यर्थे। रातेर्धनस्य दातुः कर्मकर्तुर्यजमानस्याविद्यावतः
परायणं तिष्ठमानस्य तद्विद इति॥७॥२८॥
इति बृहदारण्यकोपनिषदि तृतीयाध्यायस्य नवमं ब्राह्मणम्॥९॥
इति बृहदारण्यकोपनिषदि तृतीयोऽध्यायः॥३॥
-
*
बृहदारण्यकक्रमेण पञ्चमोऽध्यायः॥५॥
__________________________________________________________________________________
परमयनं परा गतिर्जगत उपादानं च। तथैषणाभ्यो व्युत्थाय तस्मिन्नेव मोहातीतेब्रह्मणि तिष्ठतीति तिष्ठमानस्तस्य तिष्ठमानस्य तदेव ब्रह्म वेत्तीति तद्वित्तस्य तद्विदो ब्रह्म परायणं परमा गतिः परिसमाप्तिर्नदीनामिव समुद्र इत्यर्थः॥२८॥
इति बृहदारण्यकोपनिषन्मिताक्षरायां तृतीयाध्याये नवमं
शाकल्यब्राह्मणम्॥९॥
-
*
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीपुरुषोत्तमाश्रमपूज्यपादशिष्यश्रीनित्यानन्दाश्रमवि-
रचितायां बृहदारण्यकव्याख्यायां मिताक्षराख्यायां तृतीयोऽध्यायः॥३॥
<MISSING_FIG href="../books_images/U-IMG-1733813430Screenshot2024-12-10121948.png"/>
अथ चतुर्थोऽध्यायः
ॐ जनको ह वैदेह आसांचक्रेऽथ ह याज्ञ-
वल्क्य आवव्राज तँहोवाच याज्ञवल्क्य
किमर्थमचारीः पशूनिच्छन्नण्वन्तानिति। उभ-
यमेव सम्राडिति होवाच॥१॥ यत्ते कश्चिद-
ब्रवीत्तच्छृणवामेत्यब्रवीन्मे जित्वा शैलिनिर्वाग्वै
ब्रह्मेति यथा मातृमान्पितृमानाचार्यवान्बू-
यात्तथा तच्छैलिनिरब्रवीद्वाग्वै ब्रह्मेत्यवदतो
______________________________________________________________________________
एवं पञ्चमे जल्पन्यायेन ब्रह्म निर्धारितं तदेवेदानीं वादन्यायेन निर्णेतुं षष्ठोऽध्याय आरभ्यते। तत्र पञ्चमान्ते यद्विज्ञानमानन्दं ब्रह्म साक्षादित्यादिलक्षणमुक्तं तस्यैव वागाद्यधिष्ठात्रग्न्यादिदेवतासु ब्रह्मदृष्टिद्वारा निर्णयाय प्राथमिके षडाचार्यकूर्चब्राह्मणे विद्याग्रहणोपायाचारादिशिक्षार्थमाख्यायिकामनुसृत्य प्रवर्तते—जनको हेति। जनको ह वैदेह आसांचक आसनं कृतवात्राजानं द्रष्टुकामानां तद्दर्शनयोग्यावसरज्ञापनार्थमर्थिभ्यो राजाऽऽस्थायिकां दत्तवानिति विवक्षितोऽर्थः। अथैतस्मिन्नवसरे ह तज्ज्ञो याज्ञवल्क्योऽनुग्रहाद्यर्थमावव्राजाऽऽगतवान्। तमागतं मुनिं ह यथावत्संपूज्य जनक उवाच। हे याज्ञवल्क्य किमर्थमचारीरागतोऽसि किं पुनरपि पशून्गा इच्छन्नाहोस्विदण्वन्तान्सूक्ष्मवस्तुनिर्णयान्तान्प्रश्नान्मत्तः श्रुत्वा मम तदुत्तरं वक्तुमागतोऽसीति पृष्टः किमुक्तवानित्यत आह—उभयमिति। हे सम्राड्हे सार्वभौमोभयमेव ममाऽऽगमने निमित्तमिति मुनिरुवाचेत्यर्थः॥१॥
राज्ञाऽज्ञातमर्थं तमुपदेष्टुकामो मुनिः पृच्छति—यदिति। हे राजंस्ते तव कश्चिदाचार्यो यदब्रवीत्तद्वयं शृणवामोपदेशस्य सदसत्परीक्षार्थम्। इतर आह—अब्रवीदिति। शिलिनस्यापत्यं शैलिनिर्जित्वेतिनामवान्मे मह्यंवाग्वै वागभिमानिनी देवताऽग्निर्ब्रह्मेत्यब्रवीदुक्तवान्। शैलिनिनोपदिष्टमर्थं स्तोतुकामस्तस्याऽऽप्तत्वप्रयोजकीभूतं शुद्धित्रयमाह—यथेति। माता यस्य पुत्रस्यानुशासित्री विद्यते स मातृमान्। तत ऊर्ध्वं यस्य पिताऽनुशासिता वर्तते स पितृमान्। उपनयनादूर्ध्वमासमावर्तनाद्यस्याऽऽचार्योऽनुशासिता विद्यते स आचार्यवानित्याप्तत्वप्रयोजकीभूतशुद्धित्रययुक्तः कश्चिदाचार्यो यथा स्वशिष्याय ब्रूयात्तथा शैलिनिस्तुभ्यं तद्वाग्वै ब्रह्मेत्यब्रवीत्। अत्र मुनिरेव हेतुमाह—अवदत
हि किँस्यादित्यब्रवीत्तु ते तस्याऽऽय-
तनं प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा एतत्स-
म्राडिति स वै नो ब्रूहि याज्ञवल्क्य वागे-
वाऽऽयतनमाकाशः प्रतिष्ठा प्रज्ञेत्येतदुपासीत
का प्रज्ञता याज्ञवल्क्य वागेव सम्राडिति
होवाच वाचा वै सम्राड्बन्धुः प्रज्ञायत
ऋग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इति-
हासः पुराणंविद्या उपनिषदः श्लोकाः
सूत्राण्यनुव्याख्यानानि व्याख्यानानीष्टँहुत-
माशितं पायितमयं च लोकः परश्च
_______________________________________________________________________________
इति। अवदतो मूकस्य किं हि स्यान्न हि तस्येह वाऽमुत्र वा किंचिदपि प्रयोजनं स्यात्। यथोक्तब्रह्मविद्यया कृतकृत्यत्वं मन्वानं प्रति मुनिराह—अब्रवीदिति। हे राजंस्ते तुभ्यं तस्य वाग्देवस्य ब्रह्मण आयतनं शरीरं प्रतिष्ठां च त्रिष्वपि कालेष्वाश्रयं च तु पुनः किमब्रवीदिति पृष्टो राजाऽऽह—नेति। तदुभयं शैलिनिर्मे मम नाब्रवीत्। तर्हि हे सम्राडेतदुपासनमेकपाद्वै, एकः पादो यस्येत्येकपादेव त्रिभिः पादैर्हीनत्वादनुपास्यमेवेत्येवं मुनिनोक्तो राजा सविस्मयं पृच्छति—स इति। हे याज्ञवल्क्य सत्वंविद्वान्वै नोऽस्मभ्यं ब्रूहि कथयेत्युक्तो मुनिराह—वागिति। वागेव वागिन्द्रियमेवोक्तवाग्देवस्य ब्रह्मण आयतनं शरीरम्। आकाशोऽव्याकृताख्योऽन्तर्यामी तस्योत्पत्तिस्थितिलयकालेषु प्रतिष्ठाऽऽश्रयः। एतद्वाग्देवताख्यं ब्रह्म प्रज्ञेत्येतदुपनिषदा290 नाम्नोपासीत चतुर्भिः पादैः पूर्णत्वेन फलदत्वात्। वाग्देवब्रह्मस्वरूपात्प्रज्ञोपनिषत्प्रतिष्ठायतनवद्भिन्नाऽभिन्ना वेति जिज्ञासया पृच्छति—केति। हे याज्ञवल्क्य का प्रज्ञतेति पृष्टो मुनिरुवाचोक्तवान्हे सम्राड्वाग्देवब्रह्मैव प्रज्ञा न ततो भिन्नेति। अत्र हेतुमाह291—वाचेति। हे सम्राड्वाचा वै वाग्देवतयैव बन्धुः प्रज्ञायते केनचिदयमस्मद्बन्धुरित्युक्ते प्रकर्षेण ज्ञायते। तथर्ग्वेदादिव्याख्यानान्तं मैत्रेयीब्राह्मणोक्तार्थम्। इष्टं यागनिमित्तं धर्मजातम्। हुतं होमनिमित्तम्। आशितमन्नदाननिमित्तं पायितं पेयदाननिमित्तं धर्मजातम्। अयं च लोक इदं च जन्म परश्च
लोकः सर्वाणि च भूतानि वाचैव सम्राट्प्रज्ञा-
यन्ते वाग्वै सम्राट्परमं ब्रह्म नैनं वाग्ज-
हाति सर्वाण्येनं भूतान्यभिक्षरन्ति देवो भूत्वा
देवानप्येति य एवं विद्वानेतदुपास्ते हस्त्यृ-
षभँसहस्रं ददामीति होवाच जनको वैदेहः
स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नान-
नुशिष्य हरेतेति॥२॥ यदेव ते कश्चिदब्रवीत्तच्छृ-
णवामेत्यब्रवीन्म उदङ्कः शौल्बायनः प्राणो वै
ब्रह्मेति यथा मातृमान्पितृमानाचार्यवान्ब्रूयात्तथा
तच्छौल्बायनोऽब्रवीत्प्राणो वै ब्रह्मेत्यप्राणतो हि
किँस्यादित्यब्रवीत्तु ते तस्याऽऽयतनं प्रतिष्ठां न
मेऽब्रवीदित्येकपाद्वाएतत्सम्राडिति स वै नो ब्रूहि
याज्ञवल्क्य प्राण एवाऽऽयतनमाकाशः प्रतिष्ठा प्रिय-
मित्येनदुपासीत का प्रियता याज्ञवल्क्य प्राण एव
_______________________________________________________________________________
लोकः प्रतिपत्तव्यं च जन्म सर्वाणि च भूतानि वाचैत्र सम्राट्मज्ञायन्तेऽतो वाग्वै वाग्देवतैव परमं ब्रह्मेति चिन्तयेत्। एवमुपासितुः फलमाह—नेति। य एवमुक्तप्रकारेण विद्वानेतद्वाग्देवतारूपं ब्रह्मोपास्त एनमुपासकं वाग्देवता न जहाति। सर्वाणि च भूतान्येनमुपासकमभिक्षरन्ति बलिदानाद्युपहारैः संयोजयन्ति। स इहैव देवो भूत्वाऽऽविर्भुदिवभावो भूत्वा पुनः शरीरपातोत्तरकालं देवानप्येत्यपिगच्छति। विद्यांनिष्क्रयार्थं प्रतिजज्ञ इत्याह—हस्तीति। हस्तितुल्य ऋषभो यस्मिन्सहस्रे विद्यते तत्तथा। एवंभूतं गोसहस्रं ददामीति जनको वैदेह उवाच। एवमुक्तः स याज्ञवल्क्य उवाच। किम्।अननुशिष्य शिक्षामकृत्वा शिष्यं कृतार्थमकृत्वा ततो धनं न हरेतेति मे मम पिताऽमन्यत मन्यते स्म ममाप्येतदेव मतमित्यर्थः॥२॥
तथोदङ्को नामतः शुल्बस्यापत्यं शौल्बायनः प्राणो वायुदेवता तस्याःप्राणो292ऽध्यात्मं वायुसहितं घ्राणेन्द्रियमेवाऽऽयतनमित्यादि समानम्। प्राणदेव
सम्राडिति होवाच प्राणस्य वै सम्राट्कामाया-
याज्यं याजयत्यप्रतिगृह्यस्य प्रतिगृह्णात्यपि तत्र
वधाशङ्कं भवति यां दिशमेति प्राणस्यैव सम्राट्
कामाय प्राणो वै सम्राट् परमं ब्रह्म नैनं प्राणो
जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति देवो भूत्वा
देवानप्येति य एवं विद्वानेतदुपास्ते हस्त्यृषभँ
सहस्रं ददामीति होवाच जनको वैदेहः स
होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननु-
शिष्य हरेतेति॥३॥ यदेव ते कश्चि-
दब्रवीत्तच्छृणवामेत्यब्रवीन्मे बर्कुर्वार्ष्णश्चक्षुर्वै
ब्रह्मेति यथा मातृमान्पितृमानाचार्यवान्ब्रूया-
त्तथा तद्वार्ष्णोऽब्रवीच्चक्षुर्वैब्रह्मेत्यपश्यतो हि
किँस्यादित्यब्रवीत्तु ते तस्याऽऽयतनं प्रतिष्ठां
न मेऽब्रवीदित्येकपाद्वा एतत्सम्राडिति स
वै नो ब्रूहि याज्ञवल्क्य चक्षुरेवाऽऽयतन-
माकाशः प्रतिष्ठा सत्यमित्येनदुपासीत का
_____________________________________________________________________________
एव प्रियोपनिषदित्यत्र हेतुमाह—प्राणस्येति। हे सम्राट् प्राणस्य वै कामाय प्राणाभिरक्षणार्थाय हि पुमानयाज्यं पतितादिकमपि याजयति। तथाऽप्रतिगृह्यस्योग्रादेः प्रतिगृह्णाति। अपि च धनाद्यर्थं यां तस्करादिसंकीर्णामपि दिशमेति गच्छति तत्र तस्यां दिशि वधनिमित्तमाशङ्कं वधाशङ्कं वधाशङ्का भवति तथाऽपि गच्छत्येव प्राणस्यैव सम्राट्कामायातः प्राणो वै सम्राट्परमं ब्रह्मेत्यर्थः॥३॥
बर्कुरिति नामतः। वृष्णस्यापत्यं वार्ष्णश्चक्षुरिति तदधिष्ठात्री देवताऽऽदित्यस्तस्य चक्षुरेव चक्षुरिन्द्रियमेवाऽऽयतनम्। सत्यमित्यादित्यब्रह्मण उप-
सत्यता याज्ञवल्क्य चक्षुरेव सम्राडिति होवाच
चक्षुषा वै सम्राट् पश्यन्तमाहुरद्राक्षीरिति स
आहाद्राक्षमिति तत्सत्यं भवति चक्षुर्वै सम्राट्
परमं ब्रह्म नैनं चक्षुर्जहाति सर्वाण्येनं भूता-
न्यभिक्षरन्ति देवो भूत्वा देवानप्येति य एवं
विद्वानेतदुपास्ते हस्त्यृषभँसहस्रं ददामीति
होवाच जनको वैदेहः स होवाच याज्ञवल्क्यः
पिता मेऽमन्यत नाननुशिष्य हरेतेति॥४॥
यदेव ते कश्चिदब्रवीत्तच्छृणवामेत्यब्रवीन्मे गर्द-
भीविपीतो भारद्वाजः श्रोत्रं वै ब्रह्मेति यथा मातृ-
मान्पितृमानाचार्यवान्ब्रूयात्तथा तद्भारद्वाजोऽ-
ब्रवीच्छ्रोत्रं वै ब्रह्मेत्यशृण्वतो हि किँ स्यादि-
त्यब्रवीत्तु ते तस्याऽऽयतनं प्रतिष्ठां न मेऽब्रवी-
दित्येकपाद्वाएतत्सम्राडिति स वै नो ब्रूहि याज्ञ-
वल्क्य श्रोत्रमेवाऽऽयतनमाकाशः प्रतिष्ठाऽ-
नन्त इत्येनदुपासीत काऽनन्तता याज्ञवल्क्य
दिश एव सम्राडिति होवाच तस्माद्वै सम्रा-
डपि यां कां च दिशं गच्छति नैवास्या अन्तं
_______________________________________________________________________________
निषत्। तस्य सत्यत्वं साधयति—चक्षुषेति। हे सम्राट् चक्षुषा पश्यन्तं वै पुरुषं प्रति लोका आहुस्त्वं हस्तिनमद्राक्षीरिति स चेत्तान्प्रत्यद्राक्षमित्याह तदा तत्सत्यमेव भवत्यव्यभिचारात्। यत्पुनरहमश्रौषमिति श्रोता वदति तदनृतमपि क्वचिद्भवति व्यभिचारादित्यर्थः॥४॥
गर्दभीविपीत इति नामतो भारद्वाजो गोत्रतः श्रोत्रं तदभिमानिनी दिग्देवतोच्यते श्रोत्रमेव श्रोत्रेन्द्रियमेवाऽऽयतनम्। दिशोऽनन्तत्वं साधयति—तस्मादिति। कश्चिद्यां कां प्राचीमुदीचीं वा दिशं गच्छति सोऽस्या दिशोऽन्तं नैव गच्छति नैव प्राप्नोत्यतोऽनन्ता हि दिशः। तथाऽपि श्रोत्रब्रह्मणः किमा-
गच्छत्यनन्ता हि दिशो दिशो वै सम्राट् श्रोत्रँ
श्रोत्रं वै सम्राट् परमं ब्रह्म नैनँश्रोत्रं जहाति
सर्वाण्येनं भूतान्यभिक्षरन्ति देवो भूत्वा देवान-
प्येति य एवं विद्वानेतदुपास्ते हस्त्यृषभँसहस्रं
ददामीति होवाच जनको वैदेहः स होवाच
याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य
हरेतेति॥५॥ यदेव ते कश्चिदब्रवीत्तच्छृणवा-
मेत्यब्रवीन्मे सत्यकामो जाबालो मनो वै
ब्रह्मेति यथा मातृमान्पितृमानाचार्यवान्ब्रूयात्तथा
तज्जाबालोऽब्रवीन्मनो वै ब्रह्मेत्यमनसो हि किँ
स्यादित्यब्रवीत्तु ते तस्याऽऽयतनं प्रतिष्ठां न
मेऽब्रवीदित्येकपाद्वा एतत्सम्राडिति स वै नो
ब्रूहि याज्ञवल्क्य मन एवाऽऽयतनमाकाशः
प्रतिष्ठाऽऽनन्द इत्येनदुपासीत काऽऽनन्दता
याज्ञवल्क्य मन एव सम्राडिति होवाच मनसा
वै सम्रट्स्त्रियमभिहार्यते तस्यां प्रतिरूपः पुत्रो
जायते स आनन्दो मनो वै सम्राट् परमं ब्रह्म
नैनं मनो जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति
__________________________________________________________________________________
यातमित्यत आह—दिशो वै सम्राट्श्रोत्रमिति। कथमेतदिति चेच्छृणु। आकाशमेव तत्तत्प्रदेशसंबन्धं सत्तत्तद्दिगाख्यां लभते तदतिरिक्तदिक्सद्भावे प्रमाणाभावादतो न293कदाचिदनुपपत्तिरित्यर्थः॥५॥
सत्यकामो नामतो जबालाया अपत्यं जाबालः। मनो वै ब्रह्मेति तदधिष्ठात्री चन्द्रदेवतोच्यते। मन एवाऽऽयतनमिति करणोक्तिः। मनस आनन्दत्वं साधयति—मनसेति। हे सम्राट्स्त्रियमभिकाङ्क्षमाणो मनसा वै स्त्रियं प्रत्यभिहार्यते नीयते तया संबध्यते तस्यां स्त्रियां प्रतिरूपोऽनुरूपः पुत्रो जायते स
देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते
हस्त्यृषभँसहस्रं ददामीति होवाच जनको
वैदेहः स होवाच याज्ञवल्क्यः पिता मेऽमन्यत
नाननुशिष्य हरेतेति॥६॥ यदेव ते कश्चि-
दब्रवीत्तच्छृणवामेत्यब्रवीन्मे विदग्धः शाकल्यो
हृदयं वै ब्रह्मेति यथा मातृमान्पितृमानाचार्य-
वान्ब्रूयात्तथा तच्छाकल्योऽब्रवीद्धृदयं वै ब्रह्मे-
त्यहृदयस्य हि किँस्यादित्यब्रवीत्तु ते
तस्याऽऽयतनं प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा
एतत्सम्राडिति स वै नो ब्रूहि याज्ञवल्क्य
हृदयमेवाऽऽयतनमाकाशः प्रतिष्ठा स्थितिरित्ये-
नदुपासीत का स्थितता याज्ञवल्क्य हृदयमेव
सम्राडिति होवाच हृदयं वै सम्राट्सर्वेषां भूता-
नामायतनँहृदयं वै सम्राट् सर्वेषां भूतानां
प्रतिष्ठाहृदये ह्येव सम्राट्सर्वाणि भूतानि प्रति-
ष्ठितानि भवन्ति हृदयं वै सम्राट्परमं ब्रह्म
नैनँहृदयं जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति
देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते
हस्त्यृषभँसहस्रं ददामीति होवाच जनको
________________________________________________________________________________
पुत्र आनन्दस्तद्धेतुत्वादित्यर्थः॥६॥
विदग्धो नामतः शकलस्यापत्यं शाकल्यः। हृदयं वै ब्रह्मेति हृदयाभिमानिनी देवता प्रजापतिरुच्यते। हृदयमेवाऽऽयतनमित्याध्यात्मिकहृदयोक्तिः। हृदयस्य स्थिततां साधयति—हृदयं वै सम्राट्सर्वेषां भूतानामायतनमिति। तस्य सर्वभूतायतनत्वं विशदयति—हृदयं वै सम्राट्सर्वेषां भूतानां प्रतिष्ठेति। एतदेकमेवोपासनं सर्वेषु पर्यायेषु वागाद्यायतनप्रतिष्ठाशब्दैः क्रमेण सूक्ष्मस्थूल-
वैदेहः स होवाच याज्ञवल्क्यः पिता मेऽ-
मन्यत नाननुशिष्य हरेतेति॥७॥
इति बृहदारण्यकोपनिषदि चतुर्थाध्यायस्य प्रथमं ब्राह्मणम्॥१॥
जनको ह वैदेहः कूर्चादुपावसर्पन्नुवाच नमस्तेऽस्तु
याज्ञवल्क्यानु मा शाधीति स होवाच यथा वै
सम्राण्महान्तमध्वानमेष्यन्रथं वा नावं वा समाददी-
तैवमेवैताभिरुपनिषद्भिः समाहितात्माऽस्येवं वृन्दा-
रक आढ्यः सन्नधीतवेद उक्तोपनिषत्क इतो वि-
__________________________________________________________________________________
तत्कारणत्वेन सूत्रविराडन्तर्यामिणामेवोपास्यमानत्वात्प्रतिपर्यायं फलश्रुतौ देवानितिबहुवचनप्रयोगाच्चेत्यर्थः॥७॥
इति बृहदारण्यकमिताक्षरायां चतुर्थाध्यायस्य प्रथमं ब्राह्मणम्॥१॥
-
*
इदानीं तैर्ज्ञेयस्य ब्रह्मणो जागरादिद्वारा ज्ञानार्थं कूर्चब्राह्मणमारभ्यते। जनको ह वैदेहः कूर्चादासनविशेषादुत्थाय संभावितोपदेशलाभार्थं मुनेरुप समीपमवसर्पंस्तत्पादयोः पतन्सन्नुवाच। हे याज्ञवल्क्य ते तुभ्यं नमोऽस्तु त्वं तु मा मामनुशाधि शिक्षय। येन विनाऽहमकृतार्थ इत्युक्तं त्वया तत्तत्त्वज्ञानमुपदिशेति यावत्। मुमुक्षवे द्वयं वाच्यं ज्ञानं तत्साधनं च तत्र ज्ञानसाधनं राज्ञोऽस्तीति दृष्टान्तपूर्वकं कथयतीत्याह—स इति। स एवं प्रार्थितो याज्ञवल्क्य उवाच। हे सम्राड्यथा लोके पुमान्महान्तं दीर्घमध्वानं मार्गं स्थलेन जलेन वैष्यन्गमिष्यन्यथाक्रमं रथं नावं वा समाददीत सम्यक्प्रकारेणाऽऽददीत गृह्णीयादेवमेवैताभिः प्रियमित्याद्युक्ताभिरुपनिषद्भिः समाहितात्मा संयुक्तात्मा समाहितचेतस्कोऽसि। किंच। एवं वृन्दारकः पूज्य आढ्य ईश्वरो धनादिसंपन्नः सन्नधीतो वेदो येन स त्वमधीतवेद आचार्यैरुक्ता उपनिषदो यस्मै स त्वमुक्तोपनिषत्क इत्यतिसाधनसंपन्नत्वाद्राज्ञो न तद्वक्तव्यम्। ज्ञानं चेन्न भविष्यति तर्हि तद्वक्तव्यमित्याशयवान्मुनिस्तदस्ति न वेति बोद्धुं ज्ञानसाध्यां प्रनाड्योपासनफलभूतां मुक्तिं पृच्छति—इत इति। इतोऽस्माद्देहाद्वि
मुच्यमानः क्व गमिष्यसीति नाहं तद्भगवन्वेद
यत्र गमिष्यामीत्यथ वै तेऽहं तद्वक्ष्यामि यत्र
गमिष्यसीति ब्रवीतु भगवानिति॥१॥ इन्धो
ह वै नामैष योऽय दक्षिणेऽक्षन्पुरुषस्तं वा
एतमिन्धँसन्तमिन्द्र इत्याचक्षते परोक्षेणैव
परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विषः॥२॥
अथैतद्वामेऽक्षणि पुरुषरूपमेषाऽस्य पत्नी
विराट् तयोरेष सँस्तावो य एषोऽन्तर्हृदय
_________________________________________________________________________________
मुच्यमान एताभिर्नौरथस्थानीयाभिरुपासनाभिः समाहितः सन्क्वकस्मिन्गमिष्यसि किं वस्तु प्राप्स्यसीति पृष्टो राजाऽऽह—नेति। हे भगवन्पूजावन्नहंतद्गन्तव्यं वस्तु न वेद न जाने यत्र गमिष्यामि यत्र गतः कृतार्थः स्यामित्युक्ते मुनिराह—अथवा इति। ते तुभ्यमहं तद्वस्तु वक्ष्यामि कथयिष्यामि यत्र गमिष्यसि यत्र गतः कृतार्थः स्याः। राजाऽऽहयदि मां प्रति भगवान्प्रसन्नोऽस्ति तर्हि ब्रवीतु कथयत्वित्यर्थः॥१॥
अथ विश्वतैजसप्राज्ञानुवादेन वक्तव्यतया प्रतिज्ञातं तुरीयं ब्रह्म प्रतिपादयितुमादौ वैश्वानराभिन्नं विश्वं जाग्रदभिमानिनं दर्शयति—इन्ध इति। इध्यते दीप्यते जागरिते स्थूलार्थभोक्तृत्वेन सदा स्फुरणादिन्धो ह वै नाम प्रसिद्ध एष आदित्यान्तर्गतश्चक्षुर्वै ब्रह्मेत्याद्युक्तः। कः। योऽयं दक्षिणेऽक्षन्नक्षणि पुरुषोऽध्यात्मरूपमापन्नस्तं वा एतं पुरुषमिन्धं सन्तं दीप्तिगुणत्वात्प्रत्यक्षं सन्तमिन्द्र इति परोक्षेणेवेतीवशब्दोऽवधारणार्थः। परोक्षेणैवाऽऽचक्षते। कुतो हि यस्माद्देवाः परोक्षप्रिया इव परोक्षनामग्रहणप्रिया एव लोकवत्। अपि च। प्रत्यक्षं नाम द्विषन्तीति प्रत्यक्षद्विषश्च लोकवदित्यर्थः॥२॥
अथैतदेवोक्तं पुरुषरूपं स्वरूपं वामेऽक्षणि गतं सदस्यैवोक्तस्येन्द्रस्य भोक्तुर्वैश्वानरस्यैषा विराट्पत्नी भोग्यत्वात। तथाच यदेतन्मिथुनं जागरिते विश्वशब्दवाच्यं तदेवैकं स्वप्नेतैजसशब्दवाच्यमित्यर्थादुक्तमेव। अत एवास्य स्वप्नावस्थस्य मिथुनस्य स्थानमाह—तयोरिति। तयोरिन्द्रेन्द्राण्योः स्वप्नावस्थामापन्नयोरेष संस्तावःसंस्तुतो मिथः संगतिं गच्छतो यत्र ससंस्तावः। कोऽसौ। य एष प्रसिद्धोऽन्तर्हृदये हृदयस्य मांसपिण्डस्यान्तर्मध्य
आकाशोऽथैनयोरेतदन्नं य एषोऽन्तर्हृदये लोहितपि-
ण्डोऽथैनयोरेतत्प्रावरणं यदेतदन्तर्हृदयं जालकमिवा-
थैनयोरेषा सृतिः संचरणी यैषा हृदयादूर्ध्वा नाद्यु-
च्चरति यथा कशः सहस्रधा भिन्न एवमस्यैता हिता
नाम नाड्योऽन्तर्हृदये प्रतिष्ठिता भवन्त्येताभिर्वा एत-
दास्रवदास्रवति तस्मादेष प्रविविक्ताहारतर इवैव भव-
त्यस्माच्छारीरादात्मनः॥३॥
_______________________________________________________________________________
आकाशः सुषिरः स इत्यर्थः। अथैनयोरुक्तावस्थयोरिन्द्रेन्द्राण्योरेतद्वक्ष्यमाणमन्नं भोज्यं स्थितिहेतुः। किं द्य एषोऽन्तर्हृदये लोहित पिण्डो लोहितपिण्डो भुक्तान्नस्याणिष्ठो रसो नाडीगतो मध्यमस्य तु पिण्डोपचयहेतुत्वात्स्थूलस्य चाधोगतत्वात्। ननु भुक्तवतोः स्वपतोश्च लोकवत्प्रावरणेन भाव्यमित्यपेक्षायामाह—अथेति। एनयोः पूर्वोक्तयोरेतत्प्रावरणं किं यदेतदन्तर्हृदये जालकमिवानेकनाडीछिद्रबहुत्वाज्जालकवत्प्रतिभासमानम्। अथ स्वापानन्तरं जाग्रत्स्थानमाजिगमिषतोरेनयोर्दंपत्योरेषा सृतिर्मार्गः संचरणी संचरतः स्वप्नाज्जागरितमनयेति संचरणी। का सा। यैषा हृदयाद्धृदयदेशादूर्ध्वाभिमुखा सती नाड्युच्चरत्युद्गच्छति एवमन्या अपि नाड्यः सन्तीत्युक्त्वा सर्वासां परिमाणं दृष्टान्तपूर्वकमाह—यथेति। यथा लोक एकः केशः सहस्रधा भिन्नोऽत्यन्तं सूक्ष्मो भवत्येव सूक्ष्मा अस्य पुरुषस्य देहसंबन्धिन्य एताः स्वप्नाज्जाग्रद्गमनादिहेतुभूता नाड्यो हिता नाम हिता इत्येवं नाम्नाख्यातास्ताश्चान्तर्हृदये मांसपिण्डे प्रतिष्ठिता भवन्ति हृदयाच्च विप्ररूढास्ताः सर्वत्र कदम्बकेसरवत्प्रसृता इत्यर्थः। उक्तनाडीनामुपयोगकथनपूर्वकं सूक्ष्मतमत्वकथनप्रयोजनमाह—एताभिरिति। एताभिर्नाडीभिरत्यन्तं सूक्ष्माभिर्वा एवैतत्पूर्वोक्तं सूक्ष्मतममन्नमास्रवद्गच्छद्देहं व्याप्नुवदास्रवति करणान्तःकरणाद्यात्मकलिङ्गोपाधिकं विज्ञानमयमाप्नोति स्थित्यर्थम्। यस्मादेवं तस्मादेष तैजसः प्रविविक्ताहारतरः प्रविविक्तादपि प्रविविक्ततरः सूक्ष्मतम आहारो यस्य स प्रविविक्ताहारतर इवैव भवति। किमपेक्षयेत्यत आह—अस्मादिति। अस्माच्छारीरात्स्थूलशरीरोपाधेर्वैश्वानरादात्मनः सकाशात्तस्य हि स्थूलमूत्रपुरीषाद्यपेक्षया प्रविविक्तलोहितादिहेतुमध्यमरसः स्थितिहेतुः। तथाच पूर्वस्येवशब्दस्योपमार्थत्वाद्यथा प्रविविक्ताहारो विश्वस्तथाऽयं तैजसो न प्रविविक्ताहार एव किं तु प्रविविक्ताहारतर इति योजना॥३॥
तस्य प्राची दिक्प्राञ्चः प्राणा दक्षिणा दिग्द-
क्षिणे प्राणाः प्रतीची दिक्प्रत्यञ्चः प्राणा उदी-
ची दिगुदञ्चः प्राणा ऊर्ध्वा दिगूर्ध्वाः प्राणा
अवाची दिगवाञ्चः प्राणाः सर्वा दिशः सर्वे
प्राणाः स एष नेति नेत्यात्माऽगृह्यो न
हि गृह्यतेऽशीर्यो न हि शीर्यतेऽसङ्गो न
हि सज्यतेऽसितो न व्यथते न रिष्यत्यभयं
वै जनक प्राप्तोऽसीति होवाच याज्ञवल्क्यः।
स होवाच जनको वैदेहोऽभयं त्वा गच्छ-
ताद्याज्ञवल्क्य यो नो भगवन्नभयं वेदयसे
_______________________________________________________________________________
अथास्यावच्छेदकाध्यात्मप्राणलयमाह294—तस्येति। तस्य वैश्वानरात्तैजसं सूत्राभिन्नं प्राप्तस्य ये प्राञ्चः प्रागञ्चन्ति गच्छन्तीति प्राञ्चः प्राणा नासाद्वाराऽग्रतः संचरन्तस्ते प्राची दिगेव संवृत्ता प्रत्यक्कारणात्मनिं लीना इति यावत्। एवं दक्षिणा दिग्दक्षिणे प्राणा इत्यादि व्याख्येयम्। तथाचोपाधिभूतानां प्राणानां कारणे लयं दर्शयन्ती श्रुतिरुपहितस्यापि सूत्राभिन्नस्य तैजसस्य प्राज्ञाभिन्नकारणात्मनीश्वर उपसंहारोऽर्थात्कृत एवेति मत्वा तस्येश्वरात्मभूतस्योपासितुरीश्वरत्वोपाधिविनिर्मुक्तं स्वरूपमाह—स एष नेति नेत्यादिन रिष्यतीत्यन्तेनोक्तार्थेन। एवं ब्राह्मणाभ्यामुक्तोपासनवशादुत्पनैकात्म्यज्ञानफलं मुनिरुक्तवानित्याह—अभयमिति। हे जनक त्वमभयं जन्ममरणादिनिमित्तभयशून्यं वै निश्चयेन प्राप्तोऽसीति याज्ञवल्क्य उवाच। एतावताऽथ वै तेऽहं तद्वक्ष्यामीतिप्रतिज्ञातज्ञानसिद्धिर्मयि जातेति बोधयन्पूर्वदक्षिणाया ज्ञानाननुरूपत्वेन दक्षिणान्तरं प्रतिजज्ञ इत्याह—स इति। स जनक उवाच। हे याज्ञवल्क्य त्वा त्वामप्यभयं गच्छताद्गच्छतु यस्त्वं नोऽस्मान्हे भगवन्नभयं ब्रह्म वेदयसे ज्ञापयस्यविद्याव्यवधानापनयेन साक्षा-
नमस्तेऽस्त्विमे विदेहा अयमहमस्मि॥४॥
इति बृहदारण्यकोपनिषदि चतुर्थाध्यायस्य द्वितीयं ब्राह्मणम्॥२॥
जनकँह वैदेहं याज्ञवल्क्यो जगाम स मेने
न वदिष्य इत्यथ ह यज्जनकश्च वैदेहो याज्ञ-
वल्क्यश्चाग्निहोत्रे समूदाते तस्मै ह याज्ञ-
वल्क्यो वरं ददौ सह कामप्रश्नमेव वत्रे तँ
हास्मै ददौ तँसम्राडेव पूर्वः पप्रच्छ
॥१॥ याज्ञवल्क्य किंज्योतिरयं पुरुष इति।
_________________________________________________________________________________
दात्मानमेव दत्तवते ते तुभ्यं नमो नमस्कारोऽस्त्वन्यत्किं देयमिमे विदेहास्तव यथेष्टं भोगाय सन्तु। अयं चाहं तव दासभावेन स्थितोऽस्मि यथेष्टं मां राज्यं च प्रतिपद्यस्वेत्यर्थः॥४॥
इति श्रीबृहदारण्यकोपनिषन्मिताक्षरायां चतुर्थाध्याये द्वितीयं
ब्राह्मणम्॥२॥
_______
अथैवमुक्तजाग्रदाद्यवस्थामवलम्ब्योक्तमेवाऽऽत्मानं महता तर्केण विस्तरतोऽधिगमयितुं ज्योतिर्ब्राह्मणं ब्रह्मविद्यास्तुत्याद्यर्थमाख्यायिकामनुसृत्य प्रवर्तते—जनकमिति। जनकं वैदेहं प्रति याज्ञवल्क्यो योगक्षेमार्थं जगाम गतवान्। स गच्छन्याज्ञवल्क्यो राज्ञेऽहं किंचिदपि न वदिष्य इति मेने विचारयामास। यद्वा। एनेन राज्ञा सहाहं संवदिष्य इत्यभिप्रायवान्याज्ञवल्क्यो वैदेहं जनकं जगाम। ननु न वदिष्य इति संकल्पेऽपि वदने को हेतुः संवदिष्यइति द्वितीयपक्षेऽपि वा को हेतुरित्यपेक्षायामुभयत्रापि वरदानमेव हेतुरिति कर्मकाण्डवृत्ताख्यायिकयाऽऽह—अथेति। ह किल यद्यत्र कर्मकाण्डे वैदेहो जनको याज्ञवल्क्यश्च परस्परमग्निहोत्रे निमित्ते समुदाते संवादं कृतवन्तौ तत्र राज्ञोऽग्निहोत्रविषयं विज्ञानं विशदमुपलभ्य परितुष्टो याज्ञवल्क्यस्तस्मै जनकाय ह किल वरं ददौ। स च जनको ह कामप्रश्नमेवेच्छाप्रश्नमेव वरं वव्रे वृतवान्। तं च वरं याज्ञवल्क्यो हास्मै राज्ञे ददौ दत्तवानेतद्वशादेव तं तूष्णींभूतमपि याज्ञवल्क्यं ह पूर्वःपूर्वं सम्राडेव पप्रच्छ॥१॥
हे याज्ञवल्क्यायं पुरुषः कार्यकरणसंघातरूपः शिरःपाण्यादिमान्पिण्डः किं ज्योतिरस्य विद्यते स किंज्योतिर्येन ज्योतिषाऽनुगृहीतोऽयमासनादिव्यवहारं
आदित्यज्योतिः सम्राडिति होवाचाऽऽदित्ये-
नैवायं ज्योतिषाऽऽस्ते पल्ययते कर्म कुरुते
विपल्येतीत्येवमेवैतद्याज्ञवल्क्य॥२॥ अस्त-
मित आदित्ये याज्ञवल्क्य किंज्योतिरेवायं
पुरुष इति चन्द्रमा एवास्य ज्योतिर्भवतीति
चन्द्रमसैवायं ज्योतिषाऽऽस्ते पल्ययते कर्म
कुरुते विपल्येतीत्येवमेवैतद्याज्ञवल्क्य॥३॥
अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्त-
मिते किंज्योतिरेवायं पुरुष इत्यग्निरेवास्य
ज्योतिर्भवतीत्यग्निनैवायं ज्योतिषाऽऽस्त पल्य-
यते कर्म कुरुते विपल्येतीत्येवमेवैतद्याज्ञवल्क्य
॥४॥ अस्तमित आदित्ये याज्ञवल्क्य चन्द्रम-
स्यस्तमिते शान्तेऽग्नौ किंज्योतिरेवायं पुरुष इति
वागेवास्य ज्योतिर्भवतीति वाचैवायं ज्योति-
________________________________________________________________________________
करोति तत्किंदेहादि तदतिरिक्तं वेति प्रष्टुरभिप्रायज्ञो मुनिरयं ह्यतिरिक्तज्योतिरेव पृच्छतीति तथाविधमेवेतरज्योतीरहितस्वप्नावस्थायां विविक्ततया बोधयितुं जागरिते तावद्दृष्टान्तभूतान्यादित्यादिवागन्तानि ज्योतींष्युपन्यस्यतीत्याह—आदित्येति। आदित्यो ज्योतिरस्येत्यादित्यज्योतिः सम्राडिति होवाच याज्ञवल्क्यः। तदेवोपपादयति—आदित्येनेति। आदित्येनैव चक्षुषोऽनुग्राहकेण देहकरणाद्यतिरिक्तेनैव ज्योतिषाऽयं प्रकृतः295 पुरुष आस्त उपविशति पल्ययते पर्येति गच्छतीति यावत्। गत्वा क्षेत्रादौ कर्म कुरुतेपश्चाद्विपल्येति विपर्येति भूयो निवर्तत इत्यर्थः। एवमुक्तं देहादिव्यतिरिक्तं ज्योतिरङ्गी करोति—एवमेवैतद्याज्ञवल्क्येति॥२॥३॥४॥
आदित्यादित्रयं प्रभावन्मण्यादीनामप्युपलक्षणपरम्। ततोऽपि पुंस्प्रवृत्तिदर्शनात्। वागेवेति शब्दोऽत्र गृह्यते नेन्द्रियम्। कथमस्य ज्योतिष्ट्वमित्यपेक्षायां शब्दसंस्कृतश्रोत्राधिष्ठातृमनोविवेकेन पुंस्प्रवृत्तिदर्शनादित्यभिप्रेत्याऽऽह—
षाऽऽस्ते पल्ययते कर्म कुरुते विपल्येतीति
तस्माद्वै सम्राडपि यत्र स्वः पाणिर्न विनिर्ज्ञा-
यतेऽथ यत्र वागुच्चरत्युपैव तत्र न्येतीत्येवमेवै-
तद्याज्ञवल्क्य॥५॥ अस्तमित आदित्ये याज्ञ-
वल्क्य चन्द्रमस्यस्तमिते शान्तेऽग्नौशान्तायां
वाचि किंज्योतिरेवायं पुरुष इत्यात्मैवास्य
ज्योतिर्भवतीत्यात्मनैवायं ज्योतिषाऽऽस्ते पल्य-
यते कर्म कुरुते विपल्येतीति॥६॥
कतम आत्मेति योऽयं विज्ञानमयः प्राणेषु
_____________________________________________________________________________
तस्मादित्यादिना। यस्माच्छब्दाख्यवाचा ज्योतिषाऽयं व्यवहरति तस्मात्प्रसिद्धमस्य ज्योतिष्ट्वम्। कथं हे सम्राड्यत्र यस्मिन्काले प्रावृड्रात्र्यादौ स्वोऽपि स्वकीयोऽपि पाणिर्न विनिर्ज्ञायते विस्पष्टं न दृश्यतेऽथ तस्मिन्काले बाह्यज्योतिषोऽभावेन सर्वचेष्टानिरोधे प्राप्ते यत्र यस्मिन्प्रदेशे वागुच्चरत्युद्भवति पश्वादेस्तेन शब्देन ज्योतिषा तत्र तस्मिन्प्रदेश उपन्येत्युपगच्छत्येव संनिहितो भवति मार्गंगृहं वा प्रपद्यत इति यावत्। एतद्वाग्ज्योतिर्ग्रहणं गन्धादेरप्युपलक्षणपरं तेषामपि शब्दवत्प्रवृत्त्यादिहेतुत्वादित्यर्थः॥५॥
एतावता यो व्यवहारः स व्यवहर्तृदेहेन्द्रियाद्यतिरिक्तज्योतिःसाध्यो यथाऽऽदित्यादिसाध्यो जाग्रव्यद्व्यवहार इति व्याप्तौ सिद्धायां स्वप्नादावपि बन्धुसमागमादिकार्यदर्शनाद्भवितव्यं तत्राप्यतिरिक्तेन केनचिज्ज्योतिषेत्यनुमानतो ज्योतिर्मात्रेऽवबुद्धेऽप्युपन्यस्तानां तत्रानुपलब्धिबाधितत्वात्किं तदिति विशेषं पृच्छति—अस्तमित आदित्य इत्यादिना। उत्तरमाह—आत्मैवास्य ज्योतिर्भवतीति। तस्याऽऽत्मज्योतिषोऽर्थादन्तस्थत्वेन सूर्यादिविलक्षणस्य कार्येणाव्यभिचारमाह—आत्मनैवायं ज्योतिषाऽऽस्त इत्यादिना॥६॥
यद्यपि संघातानुग्राहकमात्मज्योतिः संघातातिरिक्तं न्यायतो निर्णीतं तथाऽपि सूक्ष्मन्यायस्य दुर्विज्ञेयत्वादनुग्राहकस्यानुग्राह्यसमानजातीयत्वदर्शनाच्चाऽऽत्मस्वरूपं संदिहानः पृच्छति—कतम आत्मेति। इह बुद्ध्यादयो बहवः पदार्थाः सन्ति तेषु कतम आत्मेति पृष्ठे तत्स्वरूपं प्राणादिभिन्नत्वेन दर्शयति—योऽयमिति। हे राजन्यस्त्वया पृष्टः सोऽयं विज्ञानमयो विज्ञायतेऽनेनेतिव्युत्पत्तेर्विज्ञानं बुद्धिस्तन्मयस्तत्प्रायः। प्राणेष्विति सामीप्यलक्षणा सप्तमी।
हृद्यन्तर्ज्योतिः पुरुषः स समानः सन्नुभैलोकाव-
नुसंचरति ध्यायतीव लेलायतीव स हि स्वप्नो भूत्वेमं
लोकमतिक्रामति मृत्यो रूपाणि॥७॥ स वा अयं
पुरुषो जायमानः शरीरमभिसंपद्यमानः पाप्मभिः
______________________________________________________________________________
बुद्धिकर्मेन्द्रियपञ्चवाय्वाख्यपञ्चदशप्राणसमीपस्थो हृद्यन्तर्ज्योतिरिति लक्षणया हृदयस्थबुद्धावन्तर्वर्तमानं ज्योतिरात्माऽऽत्मनैवायं ज्योतिषेत्युपक्रमात्। पुरुषः पूर्णस्तथाच विज्ञानमयः प्राणेषु ज्योतिर्हृदि पुरुष इत्येतैः पञ्चविशेषणैः क्रमेण बुद्धिप्राणादितत्सदृशबुद्धिवृत्त्यव्यापकत्वानीत्येताः पञ्च शङ्का निरस्ता इत्यर्थः। एवं सूक्ष्मदेहाद्यतिरिक्तस्य नित्यमुक्तस्याऽऽत्मनोऽविद्यया बुद्ध्यध्यासादेव संसारित्वमिति दर्शयितुमाह—स इति। स हृद्यन्तर्ज्योतीरूप आत्मा समानः सन्प्रकृतत्वात्संनिहितत्वाच्च बुद्ध्या सदृशः सन्नन्योन्यधर्माद्यध्यासे सति तप्तायःपिण्डवत्तादात्म्यापन्नः सन्नेवोभौ लोकौ प्रतिपन्नप्रतिपत्तव्याविहलोकपरलोकावनुक्रमेणोपात्तदेहं त्यजन्नन्यांश्चोपाददत्संचरति न स्वतः। एतदेव प्रत्यक्षेणाभिनीय दर्शयति—ध्यायतीति। यतो ध्यानव्यापारवती बुद्धिरतस्तद्गतः सन्नवभासयन्नात्माऽपि ध्यायतीव ध्यानं करोतीवेति ज्ञायते न तु परमार्थतस्तत्करोति। तथा लेलायतीव बुद्ध्यादिकरणेषु प्राणादिवायुषु चलत्सु तदाभासकतया तत्समान आत्माऽपि चलतीव न तु परमार्थतः। कुतो हेतोरेतदवगम्यत इत्यत आह—स इति। हि यस्मात्स आत्मा स्वप्नोभूत्वा स्वप्नाकारपरिणतधीवृत्त्यवभासकत्वेन तदाकारो भूत्वेमं लोकं जागरितव्यवहारलक्षणं कार्यकरणसंघातात्मकमतिक्रामति तदभिमानं त्यजतीति यावत्। तथा मृत्यो रूपाणि चातिक्रामति। मृत्युरज्ञानम्। रूप्यते निरूप्यते ज्ञाप्यते यैरहंकारादिभिस्तानि मृत्यो रूपाण्यतिक्रामत्यतः संचरणादिकं नाऽऽत्मनः स्वाभाविकं स्वभावस्य वहन्युष्णत्वस्येव स्वसद्भावे सत्यतिक्रमणायोगादित्यर्थः॥ ७॥
यथैवमेकस्मिन्देहे स्वप्नजागरिते संचरत आत्मनो देहाद्यतिरिक्तत्वं तथेहलोकपरलोकयोः संचारोक्त्याऽपि तद्व्यतिरेकित्वमाह—स इति। सोऽयं प्रकृतः पुरुषो जायमान उत्पद्यमानो न घटादिवत्स्वरूपतः किंतु शरीरमभिसंपद्यमानस्तत्राऽऽत्मभावं प्रतिपद्यमानो वा एव सन्पाप्मभिर्लक्षणया धर्माधर्माश्रयैः कार्य-
सँसृज्यते स उत्क्रामन्त्रियमाणः पाप्मनो
विजहाति॥८॥ तस्य वा एतस्य पुरुषस्य
द्वे एव स्थाने भवत इदं च परलोकस्थानं च
संध्यं तृतीयँस्वप्रस्थानं तस्मिन्संध्ये स्थाने
तिष्ठन्नेते उभेस्थाने पश्यतीदं च परलो-
कस्थानं च। अथ यथाक्रमोऽयं परलो-
कस्थाने भवति तमाक्रममाक्रम्योभयान्पा-
प्मन आनन्दाँश्च पश्यति स यत्र प्रस्वपि-
________________________________________________________________________________
करणैः संसृज्यते संयुज्यते। स एव पुनर्देहाद्यारम्भकीभूतकर्मक्षये सति म्रियमाण इत्यस्य व्याख्योत्क्रामञ्शरीरान्तरं प्रत्यूर्ध्वं क्रामंस्तानेव संसृष्टान्पाप्मनः कार्यकरणलक्षणान्विजहाति परित्यजत्यभिमानत्यागमात्रेणेत्यर्थः॥८॥
एवमागमतः परलोकास्तित्वे सिद्धेऽपि तत्र प्रत्यक्षं वाच्यमतस्तद्वक्तुं यद्वाऽऽत्मज्योतिः समानः सन्पाप्मनो विजहातीत्येतान्सूचितांस्त्रीन्पदार्थान्स्वप्नावष्टम्भेन निर्णेतुमाह—तस्येति। तस्य वै प्रसिद्धस्यैतस्य प्रकृतस्य पुरुषस्य द्वे एव स्थाने भवतो न न्यूने। के ते। इदं च प्रत्यक्षतोऽनुभूयमानं वर्तमानं जन्मैकम्। द्वितीयं तु परलोक एव स्थानं परलोकस्थानं भावि जन्म। एतयोः संधौ भवं संध्यं तृतीयं त्रयाणां पूरणं स्वप्नस्थानं तस्मिन्संध्ये स्वप्नस्थाने तिष्ठन्वर्तमानः सन्निदं च परलोकस्थानं चेत्येते उभे स्थाने पश्यति। किमाश्रितः केन विधिना296परलोकं पश्यतीत्यत आह—अथेति297। अथ यथाक्रम आक्रामत्यनेनेत्याक्रम आश्रयोऽवष्टम्भो विद्याकर्मपूर्वप्रज्ञालक्षणो यादृश आक्रमो यस्य सोऽयं यथाक्रमः। अयं पुरुषः परलोकस्थाने प्रतिपत्तव्ये निमित्ते यादृशेनाऽऽक्रमेण संयुक्तो भवति तमाक्रमं बीजभूतमाक्रम्यावष्टभ्योभयान्पाप्मनः पापफलानि दुःखान्यानन्दांश्च धर्मफलभूतान्सुखविशेषान्पश्यत्येवंप्रकारेण धर्माद्देवताप्रसादाद्वाऽन्त्ये वयसि यदिहासंभाव्यमानं स्वप्नेपश्यति तत्पारलौकिकमेवेत्यर्थः। स खल्वात्मा बाह्यैर्ज्योतिर्भिरसंस्पृष्टः स्वयमेव यथा ज्योतिर्भवति तथेदं स्वयंज्योतिष्ट्वंसाक्षात्स्वप्नावष्टम्भेनाऽऽह—स इति। स प्रकृत आत्मा यत्र यस्मिन्काले प्रस्वपिति प्रकर्षेण स्वप्नमनुभवति तदा किमाश्रयः केन प्रकारेण298 स्वप्नं
त्यस्य लोकस्य सर्वावतो मात्रामपादाय स्वयं
विहत्य स्वयं निर्माय स्वेन भासा स्वेन ज्योति-
षा प्रस्वपित्यत्रायं ज्योतिर्भवति॥९॥ न तत्र
रथा न रथयोगा न पन्थानो भवन्त्यथ रथान्र-
थयोगान्पथः सृजते न तत्राऽऽनन्दा मुदः
प्रमुदो भवन्त्यथाऽऽनन्दान्मुदः प्रमुदः सृजते न
तत्र वेशान्ताः पुष्करिण्यः स्रवन्त्यो भव-
न्त्यथ वेशान्तान्पुष्करिण्यः स्रवन्त्यः सृजते।
______________________________________________________________________________
प्रतिपद्यत इत्याशङ्कायामाह—अस्येति। अस्य दृष्टस्य लोकस्य जागरितलक्षणस्य देहस्य कथंभूतस्य सर्वावतः सर्वा भूतभौतिकमात्रा अध्यात्मादिविभागयुक्ता अस्य संसर्गकारणभूता विद्यन्त इति सर्वावांस्तस्य सर्वावतो मात्रामे299कदेशमवयवं वासनात्मकमपादाय गृहीत्वा स्वयमात्मनैवाऽऽदित्यादिजाग्रद्देहं विहत्य निहत्य निःसंबोधमपाद्य300 स्वयमेव स्वकर्मानुसारिस्वप्नदेहं प्रातिभासिकं निर्माय निष्पाद्य स्वेनाऽऽत्मीयेन भासा दीप्त्या मात्रोपादानलक्षणान्तःकरणवृत्तिप्रकाशरूपेणेति यावत्। स्वेनाऽऽत्मज्योतिषाऽलुप्तदृक्स्वभावेन निर्मितं वस्तु विषयीकुर्वन्प्रस्वपित्यत्रास्यां स्वापावस्थायामयं पुरुष आत्मा स्वयमेव ज्योतिर्भवति तदाऽऽदित्यादेरभावादिन्द्रियाणां चोपसंहृतत्वान्मनसश्च विषयाकारेणैवोपक्षयादिति परिशेषादित्यर्थः॥९॥
ननु स्वप्नेऽपि सर्वस्याऽऽदित्यादेर्दृश्यमानत्वात्कथं परिशेषात्स्वयंज्योतिष्ट्वसिद्धिरित्याशङ्कायां तस्य सर्वस्य वासनामात्रनिर्मितत्वादित्याह—नेति। तत्र स्वप्ने रथाः प्रसिद्धा रथैर्युज्यन्त इति रथयोगा अश्वादयः पन्थानो मार्गा न भवन्तीति प्रत्येक301मभिसंबध्यते न सन्ति। अथापि रथान्रथयोगान्पथो वासनात्मकान्सृजते। न तत्र स्वप्नआनन्दाः सुखसामान्यानि मुदः पुत्रादिसंबन्धनिमित्ता हर्षा मुद एव प्रकर्षोपेताः प्रमुदो भवन्ति। अथाऽऽनन्दान्मुदः प्रमुदः सृजते। न तत्र वेशान्ताः क्षुद्रसरांसि पुष्करिण्यस्तडागाः स्रवन्त्यो नद्यो भवन्ति। अथ वेशान्तान्पुष्करिण्यः स्रवन्त्य इति प्रथमा द्वितीयार्थे सृजते। कुतः।
स हि कर्ता॥१०॥ तदेते श्लोका भवन्ति।
स्वप्नेन शारीरमभिप्रहत्यासुप्तः सुप्तानभिचाक-
शीति। शुक्रमादाय पुनरैति स्थानँहिरण्मयः
पुरुष एकहँसः॥११॥ प्राणेन रक्षन्नवरं
कुलायं बहिष्कुलायादमृतश्चरित्वा। स ईयतेऽ-
मृतो यत्र कामँहिरण्मयः पुरुष एकहँसः॥१२॥
स्वप्नान्त उच्चावचमीयमानो रूपाणि
देवः कुरुते बहूनि। उतेव स्त्रीभिः सह मोदमानो
________________________________________________________________________________
हि यस्मात्स आरोपितजीवात्मा कर्ता परिणम्यमानवासनादिसाक्षित्वेन न स्वत इत्यर्थः॥१०॥
तत्तत्रोक्तेऽर्थे स्वयंज्योतिष्ट्वादिलक्षण एते श्लोका मन्त्रा भवन्ति। तत्र स्वप्नप्रवेशतत्साक्षित्वमाह—स्वप्नेनेति। आत्मा स्वप्नेन स्वप्नभावेन वासनामात्रोपग्रहेण शारीरमिति स्वार्थे वृद्धिः शरीरमभिप्रहत्य निश्चेष्टमापाद्यालुप्तदृग्रूपत्वात्स्वयमसुप्तः सन्सुप्तानस्तमितानन्तःकरणवृत्त्याश्रितान्सर्वपदार्थानभितश्चाकशीत्यलुप्ततयाऽऽत्मदृष्ट्या पश्यत्यवभासयतीत्यर्थः302। स्वाप्नभोगक्षयेऽथ जागरितमेतीत्याह—शुक्रमिति। शुक्रं शुद्धं ज्योतिष्मदिन्द्रियादिमात्रारूपमादाय गृहीत्वा पुनः कर्मवशाज्जागरितस्थानमैति, आ, एत्यागच्छति हिरण्मयश्चैतन्यज्योतिःस्वभावः पुरुषः पुरुष एकहंस एक एव जाग्रत्स्वप्नेहलोकपरलोकादीन्हन्ति गच्छति हिनस्ति वेत्येकहंस इत्यर्थः॥११॥
पुनरपि स्वप्नगताविशेषानाह—प्राणेनेति। प्राणेन पञ्चवृत्तिकेनावर निकृष्टशुचित्वात्कुलायं कौ लीयत इति कुलायं नीडं शरीरं रक्षन्मृतमिति भ्रान्तिर्मा भूदिति संरक्षयन्स्वयं त्वमृतोऽसङ्गः संस्तस्मात्कुलायाद्बहिश्चरित्वा बुद्धिसंपर्कवशाद्बहिश्चरणमिव कृत्वा यत्र कामं यत्र यत्र विषयेषूद्भूतवृत्तिः कामो भवति तं कामममृतोऽमरणधर्मा सन्नीयते गच्छति प्राप्नोतीत्यर्थः॥१२॥
तथा स्वप्नान्ते स्वप्नस्थान उच्चं देवादिभावमवचं तिर्यगादिभावं चेयमानो गम्यमानः प्राप्नुवन्देवो द्योतनात्मको रूपाणि वासनामयानि शरीरजातानि बहून्यसंख्येयानि कुरुते। उतापि स्त्रीभिः सह मोदमान इव क्रीडमान इवोत-
जक्षदुतेवापि भयानि पश्यन्॥१३॥ आरा-
ममस्य पश्यन्ति न तं पश्यति कश्चनेति।
तं नाऽऽयतं बोधयेदित्याहुः। दुर्भिषज्यँ
हास्मै भवति यमेष न प्रतिपद्यते। अथो
खल्वाहुर्जागरितदेश एवास्यैष इति यानि ह्येव
जाग्रत्पश्यति तानि सुप्त इत्यत्रायं पुरुषः स्वयं
ज्योतिर्भवति सोऽहं भगवते सहस्रं ददाम्य-
________________________________________________________________________________
जक्षदिव बन्ध्वादिभिः सह हसन्निवापि भयानि बिभेत्येभ्य इति भयानि सिंहव्याघ्रादीनि पश्यन्निव भवतीत्यर्थः॥१३॥
प्रदर्शितस्वनप्रयोजनं स्वयंज्योतिष्ट्वमित्यभिप्रेत्याऽऽह—आराममिति। अस्याऽऽत्मन आराममाक्रीडनं स्वप्ननिर्माणलक्षणमेव पश्यन्ति जना न तु तमात्मानं विविक्तदृग्रूपमपि कश्चन कोऽपि पश्यतीत्यनुक्रोशति श्रुतिः। इतिशब्दो मन्त्राणां समाप्तिद्योतकः। स्वप्ने तस्य विविक्तत्वेलोकप्रसिद्धिरप्यस्तीत्याह—तमिति। तं गाढं सुषुप्तं पुरुषमायतं भृशमत्यर्थंन बोधयेदिति चिकित्सका आहुः कथयन्ति नूनं तर्हि ते विविक्तस्थानावस्थानज्ञा इत्यवगम्यते। कुत एवमनुशासतीत्यत आह—दुर्भिषज्यमिति। यस्माद्देशाच्छुक्रमादायापसृतस्तं यमिन्द्रियदेशमेष आत्मा पुनर्न प्रतिपद्यते सहसा प्रबोधितः कदाचिद्व्यत्यासेनेन्द्रियमात्राः प्रवेशयति ततञ्चाऽऽन्ध्यादिदोषप्राप्तावस्मै देहाय ह स्फुटं दुर्भिषज्यं दुःखेन भिषक्कर्म भवति। अथान्यदीयं मतं स्वयंज्योतिष्ट्वविघातकं दुष्टमिति बोधयितुमुपन्यस्यति—अथो इति। अथो अपि खल्वन्य आहुः किमेष प्रसिद्धो जागरितदेश एवास्य स्वप्नस्य विषयो न तु स्वप्नोऽतिरिक्तः। कुतः। हि यस्माद्यानि हस्त्यादिपदार्थजातानि जाग्रज्जागरिते देशे पश्यति तान्येव सुप्तोऽपि पश्यति। एवं च स्वयंज्योतिष्ट्वंविघटितमेव स्वप्नेहि तत्सिद्धिस्तस्य चास्मिन्मते जागरानतिरेकादिति। नैतत्सारम्। स वा अयमित्यादिना स्वप्नस्य जाग्रद्भिन्नत्वेनोक्तत्वात्। अत एवायं पूर्वपक्षःस वा अयमित्यादिसिद्धान्तग्रन्थात्प्रागेव बोध्यः पाठक्रमादर्थक्रमस्य बलीयस्त्वात्। अत एवोक्तोत्तराभिप्रायवती श्रुतिः स्वप्ने निरूपितं स्वयंज्योतिष्ट्वमुपसंहरति—अत्रेति। अत्रास्यां स्वप्नावस्थायामयं पुरुषः स्वयं ज्योतिर्भवतीति मुनिकृतोपसंहारं श्रुतवान्राजाऽऽह—स इति। यस्त्वयैवं बोधितः सोऽहं भगवते तुभ्यं सहस्रं ददाम्यर्थाद्भवामिति संबध्यते।
त ऊर्ध्वं विमोक्षाय ब्रूहीति॥१४॥ स वा
एष एतस्मिन्संप्रसादे रत्वा चरित्वा दृष्ट्वैव
पुण्यं च पापं च पुनः प्रतिन्यायं प्रति-
योन्याद्रवति स्वप्नायैव स यत्तत्र किंचित्प-
श्यत्यनन्वागतस्तेन भवत्यसङ्गो ह्ययं पुरुष
इत्येवमेवैतद्याज्ञवल्क्य सोऽहं भगवते सहस्रं
ददाम्यत ऊर्ध्वं विमोक्षायैव ब्रूहीति॥१५॥
_______________________________________________________________________________
कतम आत्मेति पृष्टे योऽयं विज्ञानमय इत्यादिना देहेन्द्रियमनोबुद्धिप्राणाहंकृतिविलक्षणं स्वरूपं यद्यप्युक्तं तथाऽपि भयादिहेतुकामकर्मादिसकलसंसारधर्मातीतं तु नोक्तमतस्तत्पृच्छति—अत इति। यतः स्वयंज्योतिष्ट्वरूपो मोक्षैकदेश एव निर्णीतोऽतः कारणादूर्ध्वं विमोक्षाय विशेषेण मोक्षो भवत्यनेनेति विमोक्षः सम्यग्ज्ञानं तदर्थं ब्रूहि। यथा मोहत्रासादिजनकः कर्माख्यो मृत्युरात्मनः स्वभावो न भवति तथोपदिशेत्यर्थः॥१४॥
एवं नियुक्तो मुनिरवस्थात्रयेऽपि तथोपदेष्टुमवस्थात्रयं कण्डिकात्रयेणाऽऽहस इति। स प्रकृतस्वप्नावस्थ एष स्वयंज्योतिरात्मा वै प्रसिद्ध एतस्मिन्संप्रसादे सम्यक्प्रसीदत्यस्मिन्निति संप्रसादः सुषुप्तं स्थानं तस्मिन्स्थित्वा कर्माख्यं मृत्युमतिक्रामतीति शेषः। केन क्रमेण संप्रसीदतीत्यपेक्षायामाह—रत्वेति। पूर्वंस्वप्ने रत्वा रमणं क्रीडां कृत्वा चरित्वेतस्ततो विहरणं कृत्वा दृष्ट्वैवपुण्यं च पुण्यफलं सुखं पापं च तत्फलं दुःखं चानुभूयैव पुनः संप्रसादे संप्रसन्नो भवतीति संबन्धः। संप्रसादानन्तरं पुनः प्रतिन्यायं प्रति पूर्वस्माद्गमनात्मातिलोम्येन निश्चयेनाऽऽयो गमनं यथा स्यात्तथा प्रतियोनि स्वप्नस्थानं प्रत्याद्रवत्यागच्छति किमर्थं स्वप्नायैव स्वप्नानुभावायैवेत्यर्थः। यद्वा स वा एष संप्रसादे रत्वेति रमणं स्वरूपानन्दानुभव आनन्दभुगिति श्रुतेः। चरणं तु सुषुप्तावीश्वरात्मसंपत्तिः सता सोम्य तदा संपन्नो भवतीति श्रुतेः। पुण्यदर्शनं त्वानन्दानुभवस्तस्य तत्फलत्वात्सुखमहमस्वाप्समित्यनुभवात्। पापदर्शनं त्वज्ञानानुभवस्तस्य तत्फलत्वान्न किंचिदवेदिषमित्यनुभवादिति। स आत्मा तत्र स्वप्ने यत्किमपि पुण्यापुण्यफलं पश्यति तेन दृष्टेनानन्वागतोऽननुबद्धो भवति कुतो हि यस्मादयं पुरुषोऽसङ्गस्तस्मादसंबद्ध इत्युक्तमङ्गी करोति—एवमिति। हे याज्ञवल्क्यैतद्भगवतोक्तं स्वप्नादावात्मनः कर्मासंबद्धत्वमेवमेव। समानमन्यत्॥१५॥
स वा एष एतस्मिन्स्वप्ने रत्वा चरित्वा दृष्ट्वैव
पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्या-
द्रवति बुद्धान्तायैव स यत्तत्र किंचित्पश्यत्यन-
न्वागतस्तेन भवत्यसङ्गो ह्ययं पुरुष इत्येवमेवै-
तद्याज्ञवल्क्य सोऽहं भगवते सहस्रं ददाम्यत
ऊर्ध्वं विमोक्षायैव ब्रूहीति॥१६॥ स वा एष
एतस्मिन्बुद्धान्ते रत्वा चरित्वा दृष्ट्वैव पुण्यं
च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति
स्वप्नान्तायैव॥१७॥ तद्यथा महामत्स्य उभे
कूले अनुसंचरति पूर्वं चापरं चैवमेवायं पुरुष
एतावुभावन्तावनुसंचरति स्वप्नान्तं च बुद्धान्तं च
॥१८॥ तद्यथाऽस्मिन्नाकाशे श्येनो वा सुपर्णो
वा विपरिपत्य श्रान्तः सँहत्य पक्षौ संलयायैव
______________________________________________________________________________
एवं स्वप्नवज्जागरेऽपि स्वतो वस्तुतः कर्मासंबद्धत्वमेवेति दर्शयितुमाह—स इति। स वा एष संप्रसादात्प्रत्यागतो बुद्धान्तायैव जागरणायैव॥१६॥
स वा एष स्वप्नात्प्रत्यागतः स्वप्नान्तायैव स्वप्नस्यान्तो लयो यस्मिन्स स्वप्नान्तः सुषुप्तिस्तस्मै। यद्वा स्वप्नान्तायैव स्वप्नायैव स्वप्नान्तं च बुद्धान्तं चेति वक्ष्यमाणत्वात्॥१७॥
स्वप्नबुद्धान्तयोः संचरन्नप्यात्माऽसङ्गत्वात्तद्धर्मैरवशीकृत एवेत्येतदृष्टान्तपूर्वकमाह—तदिति। तत्र दृष्टान्तो यथा लोके महामत्स्यो महांश्चासौ मत्स्यश्च महामत्स्यो नादेयस्रोतसाऽवशीकृतो नद्याः पूर्वं चापरं चेत्युभे कूले तीरे तटावनुक्रमेण संचरति ताभ्यां भिन्नः सन्यथाऽयं दृष्टान्त एवमेवायं पुरुषः स्वप्नान्तं चस्वप्नंबुद्धान्तं च जागरितमित्येतावुभावन्तावनुक्रमेण संचरत्यतस्ताभ्यां भिन्नस्तद्धर्मासंस्पृष्ट इत्यर्थः॥१८॥
अथैवं संप्रसादेऽपि तद्विलक्षणत्वं दर्शयितुं दृष्टान्तपूर्वकमाह—तदिति। तत्प्रसिद्धं निदर्शनं यथा लोकेऽस्मिन्प्रसिद्ध आकाशे श्येनो वा महाकायो मन्दवेगः सुपर्णो वा वेगवत्तरोऽल्पविग्रहः पक्षी विपरिपत्य विविधं परिपतनं कृत्वा श्रान्तः खिन्नः सन्पक्षौ संहत्य संप्रसार्य संलयायैव सम्यग्लीयतेऽस्मिन्
ध्रियत एवमेवायं पुरुष एतस्मा अन्ताय धावति
यत्र सुप्तो न कंचन कामं कामयते न कंचन
स्वप्नं पश्यति॥१९॥ ता वा अस्यैता हिता
नाम नाड्यो यथा केशः सहस्रधा भिन्नस्तावताऽ-
णिम्ना तिष्ठन्ति शुक्लस्य नीलस्य पिङ्गलस्य
हरितस्य लोहितस्य पूर्णा अथ यत्रेनं घ्नन्तीव
जिनन्तीव हस्तीव विच्छाययति गर्तमिव पतति
यदेव जाग्रद्भयं पश्यति तदत्राविद्यया मन्य-
__________________________________________________________________________________
इति संलयस्तस्मै संलयाय नीडायैव प्रियते स्वात्मनैव स्वयम्। यथाऽयं दृष्टान्त एवमेवायं पुरुषो जाग्रत्स्वप्नयोः परिभ्रमणेन श्रान्तः सन्नेतस्मै प्रसिद्धायान्ताय जाग्रत्स्वप्नयोरन्तोऽवसानं यस्मिन्नज्ञाते ब्रह्मणि तदन्तं303 तस्मा अन्ताय स्वनीडाय धावति। अन्तशब्दस्य यथोक्तब्रह्मविषयत्वं परिशेषयितुं विशेषणद्वयमाह—यत्रेति। यत्र यस्मिन्नन्ते सुप्तः सन्न कंचन काममभिलषणीयं कामयते न कंचन स्वप्नं पश्यतीत्यर्थः॥१९॥
शरीरद्वयावस्थाद्वयतद्धर्मादिना नाऽऽत्मनः स्वाभाविकः संबन्धस्तेषां स्वकारणे सुषुप्तेऽव्याकृताख्येऽविद्यामात्रव्यवहिते लीनत्वादित्युक्तमिदानीमविद्यासंबन्धोऽपि न स्वाभाविक इति दर्शयितुं तस्यास्तावत्स्वकार्यद्वारा प्रत्यक्षत्वमुपोद्घातपूर्वकमाह—ता वा अस्येति। ता वै प्रसिद्धा अस्य शिरःपाण्यादिलक्षणस्य पुरुषस्यैता हिता नाम नाड्यो यथा केशः सहस्रधा भिन्नस्तावता तावत्परिमाणेनाणिम्नाऽणुत्वेन तिष्ठन्ति। ताश्च शुक्लस्य रसस्य नीलस्य पिङ्गलस्य हरितस्य लोहितस्य पूर्णा एतैः शुक्लादिभी रसविशेषैः पूर्णाः। अथैतास्वविद्याकार्यभूते लिङ्गे व्यवतिष्ठमाने सति यत्र यस्मिन्स्वप्नकाल एनं स्वप्नदृशं घ्नन्तीव तस्करादयोऽन्ये केचन जिनन्तीव वशी कुर्वन्तीव दासरूपेण कदाचिद्धस्तीव विच्छाययति विच्छादयति द्रावयति। तथा गर्तं जीर्णकूपादिकं प्रति पततीव न वस्तुतः। किं तत इत्यत आह—यदिति। यदेव जाग्रज्जागरिते भयं भयहेतुं पश्यति तदेव भयकारणमत्रास्मिन्स्वप्नेऽविद्यया वासनात्मिकया निकृष्टाधर्मोद्भासितया मन्यते पश्यति। एवं भयादिकार्यद्वाराऽधर्मसहकारिकामविद्यामात्मनोऽस्वभावभूतां दर्शयित्वाऽथ धर्मसहकृतां तां तथा दर्शयति—
तेऽथ यत्र देव इव राजेवाहमेवेदँसर्वोऽ-
स्मीति मन्यते सोऽस्य परमो लोकः॥२०॥
तद्वा अस्यैतदतिच्छन्दा अपहतपाप्माभयँ
रूपम्। तद्यथा प्रियया स्त्रिया संपरिष्वक्तो
न बाह्यं किंचन वेद नाऽऽन्तरमेवमेवायं
पुरुषः प्राज्ञेनाऽऽत्मना संपरिष्वक्तो न बाह्यं
_______________________________________________________________________________
अथेति। विद्यायामुत्कृष्यमाणायां सत्यां यत्र स्वप्नेदेव इव राजेवेति स्वात्मानं मन्यते पश्यति जाग्रत्कालीनदेवाद्युपासनजनिततत्तद्वासनावशात्। मोक्षावस्थायामस्या विनाशित्वादपि नेयं स्वाभाविकीत्यभिप्रेत्याऽऽत्मस्वभावभूतं मोक्षस्वरूपमपि प्रत्यक्षमित्याह—अहमिति304। तादृशजाग्रद्वासनावासितः स्वप्नेऽपीदं सर्वमहमेव चिन्मात्रं न तु मदतिरेकेणास्त्यतोऽहं सर्वः पूर्णोऽस्मीति मन्यते जानाति स सर्वात्मभावोऽस्याऽऽत्मनः305 पूर्वोक्ताल्ँ लोकानपेक्ष्य परमः पूर्णो लोको विद्यया संपादितः स्वाभाविकः पूर्ववदिवशब्दप्रयोगाभावादित्यर्थः॥२०॥
सर्वोऽस्मीत्यादिना संगृहीतमेवाऽऽत्मलोकं व्यक्ताविद्याहीनानां सुषुप्त्यवस्थामवलम्ब्य कण्डिकाद्वयेन प्रकटी करोति—तदिति। तद्वै प्रसिद्धमस्य सर्वात्मभावमापन्नस्यैतद्रूपमित्यन्वयः। किं तत्। अतिच्छन्दा इति दैर्घ्य306विसर्गौछान्दसौ। अतिच्छन्दमतिक्रान्तश्छन्दः कामो यस्मात्तदतिच्छन्दं कामवर्जितम्। तथाऽपहतः पाप्मा धर्माधर्मलक्षणो यस्मिन्रूपे तदपहतपाप्म। तथाऽभयं न विद्यते भयं यत्र रूपे तदभयं रूपमित्यर्थः। नन्वविद्याकामकर्मादीनामिवोक्तस्वयंज्योतिष्ट्वस्यापि सुषुप्तावदर्शनात्तदपि नाऽऽत्मनः स्वाभाविकमित्याशङ्कायां तत्रादर्शने विशेषज्ञानाभाव एव हेतुरिति दृष्टान्तपूर्वकमाह—तद्यथेति। तत्तत्र सुषुप्तावेकत्वे सति विशेषज्ञानाभावेऽयं दृष्टान्तो यथा प्रियया मनोहरणसमर्थया स्त्रिया संपरिष्वक्तः सम्यक्परिष्वक्तो व्यामिश्रीभावमापन्नः कामुकः संभोगफलमनुभवन्स्वस्माद्बाह्यं बहिर्भूतं किंचन किंचिदपि वस्तु न वेद न जानाति न चाऽऽन्तरं दुःखादिलक्षणं वेद। यथाऽयं दृष्टान्त एवमेवायं जलचन्द्रवत्कार्य307करणप्रविष्टः क्षेत्रज्ञः पुरुष उपाधिविलयात्प्राज्ञेन स्वाभाविकेनाविद्यासाक्षिणाऽऽत्मना संपरिष्वक्तोऽत्यन्तमेकीभूतः सर्वात्मा308 न बाह्यं
किंचन वेद नाऽऽन्तरं तथा अस्यैतदाप्तकाम-
मात्मकाममकाम रूप शोकान्तरम्॥२१॥
अत्र पिताऽपिता भवति माताऽमाता लोका अ-
लोका देवा अदेवा वेदा अवेदाः। अत्र स्तेनोऽस्तेनो भ-
वति भ्रूणहाऽभ्रूणहा चाण्डालोऽचाण्डालः पौल्कसोऽ-
_____________________________________________________________________________
किंचन वेद न चाऽऽन्तरमेकीभूतत्वान्न तु स्वरूपात्मकस्य स्वयंज्योतिष्ट्वस्याभावादिति प्रासङ्गिकमुक्त्वा प्रकृतमतिच्छन्दवाक्योक्तमेव रूपं स्पष्टयति—तद्वा इति। अस्य सुषुप्तौ सर्वात्मत्वमापन्नस्याऽऽत्मनस्तदेतत्प्रकृतं रूपमाप्तकामं काम्यन्त इति कामाः सुखादय आप्ता यस्मिन्रूपे तदाप्तकामम्। एवं सति हिरण्यगर्भतुल्यत्वं स्यादित्यत आह—आत्मकाममिति। आत्मैव कामः सुखसाक्षात्कारलक्षणो यस्मिन्विज्ञानानन्दरूपे ब्रह्मणि तदात्मकामम्। अत एवैतदकामं कामरहितं रूपं काम्याभावादत एव शोकान्तरं शोकच्छिद्रं शोकशून्यमित्यर्थः॥२१॥
एवं प्रत्यक्षतः कामादिसंबन्धराहित्यमुक्त्वेदानीं तद्धेतुकर्माख्याविद्यासंबन्धरहितत्वमाह— अत्रेति। अत्र सुषुप्ते स्थाने प्रकृतरूपस्याऽऽत्मनः पिता जनयिताऽप्यपिता भवति। कर्महेतुकं हि जनयितृत्वं तदतिक्रमश्चापहतपाप्मेत्युक्तस्तथा माता जनयित्र्यप्यमाता तद्धेतुकर्माभावात्। लोकाः कर्मविद्याभ्यां जिता जेतव्याश्चालोकाः कर्मादिसंबन्धात्ययात्। देवाः कर्माङ्गभूता अदेवाः। वेदाः साध्यसाधनसंबन्धाभिधायका अप्यवेदाः संपद्यन्ते तस्मिन्काले। किंच। अत्र सुषुप्तस्थाने स्तेनोऽत्र ब्राह्मणसुवर्णहर्तोच्यते भ्रूणहत्यासहपाठात्स तेन घोरकर्मणाऽपि तस्मिन्काले मुक्तो भवत्यतोऽस्तेनस्तथा भ्रूणहा मुख्यब्राह्मणहन्ताऽभ्रूणहा। न केवलमागन्तुकेन विनिर्मुक्तः309 किं तर्ह्यत्यन्तनिकृष्टजातिमापकेण सहजेनापि कर्मणा विनिर्मुक्त एवायमित्याह—चाण्डाल इति। चाण्डालो ब्राह्मण्यां शूद्राज्जातो जात्या चण्डालः स एव चाण्डालोऽप्यचाण्डालो भवति तदा तज्जातिनिमित्तकर्मासंबन्धात्। शूद्रायां ब्राह्मणाज्जातो निषादस्तस्मात्क्षत्रियायां जातः पुल्कसः स एव पौल्कसोऽ-
पौल्कसः श्रमणोऽश्रमणस्तापसोऽतापसोऽन-
न्वागतं पुण्येनानन्वागतं पापेन तीर्णो हि तदा
सर्वाञ्छोकान्हृदयस्य भवति॥२२॥ यद्वै तन्न
पश्यति पश्यन्वै तन्न पश्यति न हि द्रष्टुर्दृष्टेर्विप-
रिलोपो विद्यतेऽविनाशित्वात्। न तु तद्द्वि-
तीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत्॥२३॥
_____________________________________________________________________________
प्यपौल्कसः। किंच श्रमणः परिव्राट्स यत्कर्मनिमित्तो भवति तेन तदा विनिर्मुक्तत्वादश्रमणः। तथा तापसो वानप्रस्थोऽतापसः। संबन्धजनकानां कर्मणामानन्त्याद्द्विधोपसंहृत्य तदतीतत्वमाह—अनन्वागतमिति। तत्प्रकृतमास्मरूपं पुण्येन शास्त्रविहितेन कर्मणाऽनन्वागतमसंबद्धं तथा पापेन विहिताकरणप्रतिषिद्धक्रियाकरणलक्षणेनाप्यनन्वागतमात्मरूपम्। कुत इत्यपेक्षायां तद्धेतुकामात्ययादित्याह—तीर्ण इति। हि यस्मादतिच्छन्दादिवाक्योक्तरूप आत्मा तदा तस्मिन्सुषुप्तिकाले हृदयस्य हृदयस्थाया बुद्धेः संबन्धिनः सर्वाञ्शोकांस्तद्धेतुभूतान्कामांस्तीर्णोऽतिक्रान्तो भवतीत्यर्थः॥२२॥
स्त्रीपुंस्परिष्वङ्गदृष्टान्तेनैकत्वापत्तिवशाद्विशेषज्ञानाभावो न स्वयंज्योतिष्ट्वाभावादित्युक्तमेव चोद्यपूर्वकं स्पष्टी करोति—यदिति। तत्तत्र सुषुप्तावात्मा न वै नैव पश्यतीति यज्जानीषे तन्न तथा यतस्तत्र स्वरूपचैतन्येन सर्वसाक्षित्वात्पश्यन्वै, एव सन्द्रष्टव्यं310 पदार्थजातं न पश्यतीत्यपि संभवतीति स्वरूपदर्शनं विशेषादर्शनं च प्रतिज्ञायत इत्यर्थः। तत्र प्रथमप्रतिज्ञायां हेतुमाह—न हीति। द्रष्टुर्या सर्वसाक्षिभूता दृष्टिर्यद्वा द्रष्टुः कूटस्थचिन्मात्ररूपस्य स्वरूपभूता या दृष्टिस्तस्या हि यस्माद्विपरिलोपो विनाशो न विद्यतेऽग्न्युष्णत्ववत्। अत्रापि हेतुरविनाशित्वाद्विनाशहेतुपरिणामहीनत्वादित्यर्थः। विशेषज्ञानाभावरूपद्वितीयप्रतिज्ञायां हेतुमाह—न त्विति। तत्तत्र सुषुप्तौ तत आत्मस्वरूपाद्द्वितीयं प्रमातृस्वरूपं साभासान्तःकरण311लक्षणमात्मस्वरूपादन्यच्च312चक्षुरादिलक्षणं करणं विभक्तं च रूपादिलक्षणं प्रमेयं न त्वस्ति यत्प्रमेयं प्रमाता प्रमाणेन पश्येदित्यर्थः॥२३॥
यद्वैतन्न जिघ्रति जिघ्रन्वै तन्न जिघ्रति न हि
घ्रातुर्घ्रातेर्विपरिलोपो विद्यतेऽविनाशित्वान्न तु
तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यज्जिघ्रेत्
॥२४॥ यद्वै तन्न रसयते रसयन्वै तन्न रसयते न
हि रसयितू रसयतेर्विपरिलोपो विद्यतेऽविनाशि-
त्वान्न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्र-
सयेत्॥२५॥यद्वै तन्न वदति वदन्वै तन्न वदति न
हि वक्तुर्वक्तेर्विपरिलोपो विद्यतेऽविनाशित्वान्न तु
तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्वदेत्॥२६॥
यद्वै तन्न शृणोति शृण्वन्वै तन्न शृणोति न हि
श्रोतुः श्रुतेर्विपरिलोपो विद्यतेऽविनाशित्वान्न
तु तद्वितीयमस्ति ततोऽन्यद्विभक्तं यच्छृणुयात्
॥२७॥ यद्वै तन्न मनुते मन्वानो वै तन्न मनुते
न हि मन्तुर्मतेर्विपरिलोपो विद्यतेऽविनाशि-
त्वान्न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं
यन्मन्वीत॥२८॥ यद्वै तन्न स्पृशति स्पृशन्वै
तन्न स्पृशति न हि स्पष्टः स्पृष्टेर्विपरिलोपो
विद्यतेऽविनाशित्वान्न तु तद्द्वितीयमस्ति ततोऽ-
न्यद्विभक्तं यत्स्पृशेत्॥२९॥ यद्वै तन्न विजानाति
विजानन्वै तन्न विजानाति न हि विज्ञातुर्विज्ञा-
तेर्विपरिलोपो विद्यतेऽविनाशित्वान्न तु तद्द्वि-
तीयमस्तिततोऽन्यद्विभक्तंयद्विजानीयात्॥३०॥
_______________________________________________________________________________
एवमेव यद्वै तन्न जिघ्रति न रसयते न वदति न शृणोति न मनुते न स्पृशति न विजानातीत्येते पर्याया बोद्धव्याः॥२४॥२५॥२६॥२७॥२८॥२९॥३०॥
यत्र वा अन्यदिव स्यात्तत्रान्योऽन्यत्पश्येदन्योऽ-
न्यज्जिघ्रेदन्योऽन्यद्रसयेदन्योऽन्यद्वदेदन्योऽन्यच्छृणु-
यादन्योऽन्यन्मन्वीतान्योऽन्यत्स्पृशेदन्योऽन्यद्विजा-
नीयात्॥३१॥ सलिल एको द्रष्टाऽद्वैतो भव-
त्येष ब्रह्मलोकः सम्राडिति हैनमनुशशास
याज्ञवल्क्य एषाऽस्य परमा गतिरेषाऽस्य परमा
संपदेषोऽस्य परमो लोक एषोऽस्य परम आनन्द
_______________________________________________________________________________
एवं सुषुप्तावविद्योत्थद्वैताभावाद्विशेषज्ञानाभाव इति व्यतिरेकमुक्त्वा जाग्रदादौ तु तस्मिन्सति तदित्यन्वयमाह—यत्रेति। यत्र यस्मिञ्जागरिते स्वप्नेवाअन्यदिवाऽऽत्मनो वस्त्वन्तरमिवाविद्याप्रत्युपस्थापितं स्यात्तत्र वै तत्रैवावस्थाविशेषेऽन्योऽन्यमिवाऽऽत्मानं मन्यमानोऽन्यत्स्वस्माद्विभक्तमिवाविद्योत्थं वस्त्वन्तरं पश्येदुपलभेत। अन्योऽन्यज्जिघ्रेदित्यादि समानमित्यर्थः॥३१॥
प्राज्ञेनाऽऽत्मना संपरिष्वक्तस्य यद्वै तन्न पश्यतीत्यादिना विस्तरेणोक्तं स्वरूपमुपसंहरति—सलिल इति। यस्मादेवमन्वयव्यतिरेकाभ्यामाविद्यक एवान्तःकरणादि संबन्धस्तस्मात्सलिल इव सलिलः सलिलवच्छुद्धो विजातीयभेदरहित एकः सजातीयभेदशून्यो यस्मादेवं तस्मादद्रष्टा। यद्वा जडत्वशङ्काव्यावृत्त्यर्थं द्रष्टेति313 पदच्छेदः। कूटस्थज्योतिः। अद्वैतो द्विधेतं द्वीतं तस्य भावो द्वैतं तन्न विद्यते यस्मिन्सोऽद्वैत एकरसः स्वगतभेदशून्यो भवति। अत ऊर्ध्वमित्यादि पुनः पुनः पृष्टस्योत्तरं मुनिरुक्तवानिति श्रुतिराह—एष इति। हे सम्राडेष संनिहितः सुषुप्त्यवस्थामापन्नः प्रत्यगात्मा ब्रह्मलोको लोकनं लोको ब्रह्मैव लोको ब्रह्मलोकः स्वयंज्योतीरूपं ब्रह्मैवेत्युक्तप्रकारेण ह किलैनं जनकं याज्ञवल्क्योऽनुशशासानुशिष्टवान्। पुनः कथमिति वीक्षायामाह—एषेति। अस्य बुद्ध्युपाधिकस्यैषाऽतिच्छन्दवाक्योक्ता परमा नैष्ठिकी गतिरन्या ब्रह्मादिगतयस्त्वपरमास्तासामत्रैव समाप्तेः। एषाऽस्य विज्ञानमयस्य परमोत्कृष्टा संपद्विभूतिरकृतकत्वात्। अस्य विज्ञानमयस्यैष यथोक्तः सुषुप्तौ परमात्मैक्यलक्षणः परमो मोक्षरूपो लोको लोकनाल्लोकः स्वयंज्योतिःस्वभावः। अस्य सुषुप्तस्यैष स्वरूपानुभवलक्षण आनन्दः परमः साध-
एतस्यैवाऽऽनन्दस्यान्यानि भूतानि मात्रामुप-
जीवन्ति॥३२॥ स यो मनुष्याणाँराद्धः
समृद्धो भवत्यन्येषामधिपतिः सर्वैर्मानुष्यकै-
र्भोगैः संपन्नतमः स मनुष्याणां परम आन-
न्दोऽथ ये शतं मनुष्याणामानन्दाः स एकः
पितृणां जितलोकानामानन्दोऽथ ये शतं
पितृणां जितलोकानामानन्दाः स एको गन्धर्व-
लोक आनन्दोऽथ ये शतं गन्धर्वलोक आनन्दाः
स एकः कर्मदेवानामानन्दो ये कर्मणा देवत्व-
मभिसंपद्यन्तेऽथ ये शतं कर्मदेवानामानन्दाः स
एक आजानदेवानामानन्दो यश्च श्रोत्रियोऽ-
_______________________________________________________________________________
नासाध्यो निरतिशयः। किंच। एतस्यैव ब्रह्मानन्दस्य मात्रां कलां विषयेन्द्रियसंबन्धकाले विभाव्यमानामन्यान्याविद्यकानि ब्रह्मादिस्तम्बपर्यन्तानि भूतान्युपजीवन्त्युपभुञ्जतेऽन्यस्याऽऽनन्दस्याभावादित्यर्थः॥३२॥
एतमेव परमानन्दमतिशयानन्दप्रतिपादनद्वारा बोधयति—स य इति। मनुष्याणां मध्ये स यः कश्चिद्भोगक्षमावयवैराध्यात्मिकै राद्धः संसिद्धो बाह्यैश्चभोगसाधनैः स्रक्चन्दनादिभिः समृद्धो भवति। किंचान्येषां समानजातीयानां स्वतन्त्रोऽधिपतिर्न माण्डलिकः। समृद्धिपदेनैव दिव्यसाधनसंपत्तिरप्युक्तैवेति शङ्कां वारयितुमुक्तमेव स्पष्टयति—सर्वैरिति। मनुष्येषु भवैर्मानुष्यकैर्भोगैर्भोगोपकरणैः सर्वैः समस्तैः संपन्नतमोऽतिशयेन संपन्नो युधिष्ठिरादितुल्यः स मनुष्याणां परम आनन्द आनन्दानन्दिनोरभेदात्। अथ मनुष्याणां य उक्तप्रकाराः शतं शतगुणिता आनन्दा आनन्दभेदाः स एकः पितॄणां किंलक्षणानां जितलोकानां श्राद्धादिकर्मभिः पितृतोषणद्वारा जितो लोको यैस्ते जितलोकास्तेषां जितलोकानामानन्दः। तथा स शतगुणीकृत एक एव गन्धर्वानन्दः। सोऽपि शतगुणित एक एव कर्मदेवानामानन्दः। के ते। ये कर्मणा श्रौतेनाग्निहोत्रादिना देवत्वमभिसंपद्यन्ते देवलोकं प्राप्नुवन्ति। सोऽपि शतगुणितः सन्नेक एवाऽऽजानदेवानां निसर्गसिद्धानां सृष्ट्यादिभूतानां यष्टव्यानामानन्दः। यश्च श्रोत्रियः सार्थैकशाखाध्ययनवा -
वृजिनोऽकामहतोऽथ ये शतमाजानदेवानामा-
नन्दाः स एकः प्रजापतिलोक आनन्दो
यश्चश्रोत्रियोऽवृजिनोऽकामहतोऽथ ये शतं
प्रजापतिलोक आनन्दाः स एको ब्रह्मलोक
आनन्दो यश्च श्रोत्रियोऽवृजिनोऽकामहतोऽथैष
एव परम आनन्द एष ब्रह्मलोकः सम्राडिति
होवाच याज्ञवल्क्यः सोऽहं भगवते सहस्रं
ददाम्यत ऊर्ध्वं विमोक्षायैव ब्रूहीत्यत्र ह
याज्ञवल्क्यो बिभयांचकार मेधावी राजा
सर्वेभ्यो माऽन्तेभ्य उदरौत्सीदिति॥३३॥
_________________________________________________________________________________
न्वृजिनं पापं न विद्यते यस्य सोऽवृजिनः पापरहितो यथोक्तकारित्वात्। अकामहतो न कामहत आजानदेवानन्दावधिपूर्वानन्देषु वितृष्णः। एवंभूतस्याप्याजानदेवोपासकस्य तदानन्दसमान आनन्द इत्यन्वाकृष्यते चकारात्। स आजानदेवानन्दः शतगुणीकृतः सन्नेक एव प्रजापतिलोके विराट्शरीर आनन्दः। स शतगुणीकृतः सन्नेक एव ब्रह्मलोके हिरण्यगर्भात्मन्यानन्दः। अत्रापि श्रोत्रियावृजिनत्वयोस्तुल्यत्वेऽप्यकामहतत्वोत्कर्षहेतुकानन्दशतगुणोत्तरोत्तरा वृद्धिः। न केवलमानन्दतारतम्यं यत्र विश्रान्तं स परमानन्द इत्यनुमानादेव संसिद्धःकिंतु हिरण्यगर्भान्तानन्दाद्वितृष्णस्यानुभवसिद्धोऽपीत्याह—अथेति। अथ यत्र सुखोत्कर्षतारतम्यं विश्रान्तं स परमानन्दो निरतिशयानन्दः प्रत्यगात्मस्वरूपभूत एष वितृष्णः श्रोत्रियप्रत्यक्ष एष एव ब्रह्मलोकः सम्राडित्यादि समानम्। अत्र विमोक्षायेत्यस्मिन्वाक्ये श्रुते सति हकिल याज्ञवल्क्यो बिभयांचकार भीतवान्। कुतो यतोऽयं राजा मेधावी प्रज्ञाशाल्यतो मा मां सर्वेभ्योऽन्तेभ्यः प्रश्ननिर्णयावसानेभ्य उदरौत्सीदावृणोत्पुनः पुनरवरोधं कृतवान्मदीयं सर्वं ज्ञानं कामप्रश्नव्याजेन ग्रहीतुमित्यर्थः॥३३॥
यद्यपि पूर्वंस्वप्नजागरणयोः संचरणोक्त्या सुषुप्त्युक्त्या च सहेतुकौ संसारमोक्षावुक्तौ तथाऽपि तावुभौ तयोर्दृष्टान्तत्वेनैव राज्ञा गृहीतत्वात्पुनःप्रश्नकरणोपपत्तेः स वा एष इत्यादिनु कामयमान इत्यन्तेनाथाकामयमान
स वा एष एतस्मिन्स्वप्नान्ते रत्वा चरित्वा
दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रति-
योन्याद्रवति बुद्धान्तायैव॥३४॥ तद्य-
थाऽनः सुसमाहितमुत्सर्जद्यायादेवमेवायँ
शारीर आत्मा प्राज्ञेनाऽऽत्मनाऽन्वारूढ उत्स-
र्जन्याति यत्रैतदूर्ध्वोच्छ्वासी भवति॥३५॥
स यत्रायमणिमानं न्येति जरया वोपत-
पता वाऽणिमानं निगच्छति तद्यथाऽऽम्रं
________________________________________________________________________________
इत्याद्या शारीरकब्राह्मणसमाप्तेश्च क्रमेण ससाधनसंसारमोक्षरूपौ दार्ष्टान्तिकौ कथ्येते। तत्र सहेतुकस्य संसारस्य दृष्टान्तकथनार्थं तावत्पूर्वं बुद्धान्ते रत्वेत्याद्युक्तमात्मानं जाग्रद्भूमिं प्रापयितुमाह—स वा एष एतस्मिन्स्वप्नान्ते रत्वेत्याद्युक्तार्थम्॥३४॥
स्वप्नजागरणप्राप्तिवल्लोकाल्लोकान्तरप्राप्तिंदृष्टान्तपूर्वकमाह—तदिति। तत्तत्र दृष्टान्तो यथा लोकेऽनः शकटं सुष्ठु भृशं वा समाहितमुलूखलादिगृहोप314स्कारैः संपन्नं भाराक्रान्तं सदुत्सर्जन्नानाविधशब्दं कुर्वद्यायाद्गच्छेच्छाकटिकेनाधिष्ठितं सद्यथाऽयं दृष्टान्त एवमेवायं शारीरः शरीरे स्थूलशरीरे भवः शारीर आत्मा लिङ्गात्मविशिष्टं लिङ्गशरीरमेव वक्ष्यमाणविद्यादिसंभारसभृतं प्राज्ञेन स्वयंज्योतिःस्वभावेनाऽऽत्मना स्वचिदाभासद्वाराऽन्वारूढः। अन्वारूढोऽधिष्ठितो व्याप्तो भानुना स्वप्रतिबिम्बद्वारा व्याप्तोदपात्रवन्मरणकालीनानेकवेदनार्त उत्सर्जन्हिक्काशब्दं कुर्वन्याति गच्छति। कस्मिन्काल इति वीक्षायामाह—यत्रेति। एतदूर्ध्वोच्छ्वासित्वमस्य यथा स्यात्तथाऽवस्था यत्र यस्मिन्काले भवति तस्मिन्काल इत्यर्थः॥३५॥
ऊर्ध्वोच्छ्वासित्वमपि कदा स्यादित्यत आह—स इति। सोऽयं प्रकृतः शिरःपाण्यादिमान्देहो यत्र यस्मिन्कालेऽणिमानमणोर्भावं कार्श्यंनितरामेति गच्छति तस्मिन्काले। तत्प्राप्तिरपि कस्माद्धेतोरिति वीक्षायामाह—जरयेति। जरया वा प्रसिद्धयोपतपता वोपतपतीत्युपतपञ्ज्वरादिरोगस्तेनोपतपता वाऽणिमानं कार्श्यं निगच्छति। एवं सति यदोत्सर्जन्या315ति तदा कथं शरीरं मुञ्चतीति वीक्षायां तत्सदृष्टान्तमाह—तदिति। तत्तत्र दृष्टान्तो यथा लोक आम्रं
वोदुम्बरं वा पिप्पलं वा बन्धनात्प्रमुच्यत एव-
मेवायं पुरुष एभ्योऽङ्गेभ्यः संप्रमुच्य पुनः
प्रतिन्यायं प्रतियोन्याद्रवति प्राणायैव॥३६॥
तद्यथा राजानमायान्तमुग्राः प्रत्येनसः सूतग्रा-
मण्योऽन्नैः पानैरावसथैः प्रतिकल्पन्तेऽयमाया-
त्ययमागच्छतीत्येवँहैवंविदँसर्वाणि भूतानि
प्रतिकल्पन्त इदं ब्रह्माऽऽयातीदमागच्छतीति॥३७॥
_________________________________________________________________________________
बोदुम्बरं वा पिप्पलं वा फलं बन्धनाद्रसेन बध्यते फलं यस्मिंस्तद्बन्धनं वृन्तं तस्माद्बन्धनाद्वातादिनिमित्तवशात्प्रमुच्यते विच्छिद्यत एवमेवायं पुरुषः पूर्वोक्तलिङ्गात्मा चिदाभासप्रकाशितः सन्नेभ्योऽङ्गेभ्यो देहावयवेभ्यश्चक्षुरादीन्द्रियस्थानेभ्यः संप्रमुच्य सम्यगेकीभावेन प्रकर्षेण निर्लेपेन प्रमुच्य पुनर्वारंवारं प्रतिन्यायं प्रतिगमनं यथागतं तथा प्रतियोनि योनिं योनिं प्रत्याद्रवत्यागच्छति। किमर्थं प्राणायैव माणव्यूहायैव प्राणानां स्थानविशेषविन्यासेनावस्थानाय देहान्तरग्रहणमित्यर्थः॥३६॥
तत्सिद्धिः कुतोऽस्य वृत्तेत्यतस्तामपि सदृष्टान्तमाह—तद्यथेति। तत्तत्र दृष्टान्तो यथा लोके राजानमायान्तमागच्छन्तमुग्रा जातिविशेषाः क्रूरकर्माणो वा प्रत्येनस एनः पापं तद्वन्तं पापिनं प्रति शासनार्थं नियुक्ताः प्रत्येनसः सूतग्रामण्यः सूता ब्राह्मण्यां क्षत्रियाज्जाता ग्रामण्यो ग्रामनेतारस्ते राज्ञ आगमनं बुद्ध्वाऽन्नैर्भक्ष्यादिप्रकारैः पानैर्मदिरादिभिरावसथैश्च प्रासादादिभिर्निष्पन्नैरेव प्रतिकल्पन्ते प्रतीक्षन्ते। किं कुर्वन्तः। अयं राजाऽऽयात्ययमागच्छत्येवं वदन्तः। पुनरुक्तिरादरार्था। एवं हैवंविदं कर्मफलवेदितारं संसारिणं सर्वाणि भूतानि शरीरारम्भकाणि करणानुग्राहकाणि चाऽऽदित्यादीनि संसारिकर्मप्रयुक्तानि भोगसाधनशरीरादिभिः प्रतिकल्पन्ते प्रतीक्षन्ते स्वात्मनि देहाद्याकारपरिणत आत्माभिव्यक्तिमाकाङ्क्षन्ते। कथम्। इदं ब्रह्म भोक्तृ कर्तृ चास्माकमायातीदमागच्छतीत्येवमस्मिन्संसारिणि ब्रह्मशब्दप्रयोगस्तु वस्तुतस्तस्य तदभिन्नत्वात्। अत्र शरीरारम्भकमात्मनो वर्तत इत्येतावानेवांशो विवक्षितो न तु पूर्वं भूतानि राजभृत्यवदेहमारभ्य प्रतीक्षन्ते पश्चादात्मा राजवत्तत्र गच्छतीत्यंशोऽपि। शरीरारम्भकभूतैः सहैवाऽऽत्मनो गमनमिति राद्धान्तस्थितिरित्यर्थः॥३७॥
तद्यथा राजानं प्रयियासन्तमुग्राः प्रत्येनसः
सूतग्रामण्योऽभिसमायन्त्येवमेवेममात्मानमन्त-
काले सर्वे प्राणा अभिसमायन्ति यत्रैतदूर्ध्वो-
च्छ्वासी भवति॥३८॥
इति बृहदारण्यकोपनिषदि चतुर्थाध्यायस्य तृतीयं ब्राह्मणम्॥३॥
स यत्रायमात्माऽबल्यं न्येत्य संमोहमिव न्येत्य-
थैनमेते प्राणा अभिसमायन्ति स एतास्तेजो-
मात्राः समभ्याददानो हृदयमेवान्ववक्रामति
________________________________________________________________________________
अथ लोकान्तरं गच्छन्तं संसारिणं केऽनुगच्छन्ति कथं वेति जिज्ञासायां दृष्टान्तपूर्वकमाह—तदिति। तत्तत्र दृष्टान्तो यथा प्रयियासन्तं गच्छन्तं राजानं पूर्वोक्ता उग्रादयोऽभि आभिमुख्येन सम्यगेकीभावेनाऽऽयन्त्यागच्छन्ति राज्ञा सहानाज्ञप्ता एवमेवेममात्मानं भोक्तारं प्रयियासन्तमन्तकाले मरणकाले सर्वे प्राणा वागादयोऽभिसमायन्त्यनाकारिता एव सन्तस्तत्कर्मप्रेरिताः। को वाऽन्तकाल इत्यत आह—यत्रैतदूर्ध्वोच्छ्वासी भवतीत्युक्तार्थम्॥३८॥
इति बृहदारण्यकव्याख्यायां मिताक्षराख्यायां चतुर्थाध्यायस्य
तृतीयं ब्राह्मणम्॥३॥
-
*एभ्योऽङ्गेभ्यः संप्रमुच्येत्यादिना वैराग्यार्थं सूत्रितं संप्रमोक्षणं कस्मिन्काले कथं वेति जिज्ञासायां सविस्तरं वर्णयितुं शारीरकब्राह्मणं नु कामयमान इत्यन्तं प्रवर्तते—स इति। तद्यथाऽन इत्यादौ प्रकृतः सोऽयमात्मा यत्र यस्मिन्काले जराद्युक्तहेतुभिरभिभवे सत्यबल्यमिवाबलभावमिव दौर्बल्यमिव नितरामेत्य प्राप्य यदा संमोहमिव संमूढतामिवाविवेकतामिव नि एति यात्यथ तदैनमात्मानं करणस्वामिनं प्रति प्राणा वागादयोऽभिसमायन्ति। कथं स316प्रकृतोऽविद्वानात्मा तेजसो मात्रा अवयवा मीयन्ते विषया याभिस्तास्तेजोमात्राश्चक्षुरादिकरणानि समभ्याददानः सम्यङ्निःशेषमाभिमुख्येनाऽऽददान उपसंहरमाणो हृदयमेव हृदयस्थां बुद्धिमेवान्ववक्रामत्यन्वागच्छति बुद्धावेवाभिव्यक्त-
स यत्रैष चाक्षुषः पुरुषः पराङ्पर्यावर्ततेऽथारू-
पज्ञो भवति॥१॥ एकी भवति न पश्यती-
त्याहुरेकी भवति न जिघ्रतीत्याहुरेकी भवति न
रसयत इत्याहुरेकी भवति न वदतीत्याहुरेकीभव-
ति न शृणोतीत्याहुरेकी भवति न मनुत इत्याहुरे-
कीभवति न स्पृशतीत्याहुरेकी भवति न विजाना-
तीत्याहुस्तस्य हैतस्य हृदयस्याग्रं प्रद्योतते तेन
प्रद्योतेनैष आत्मा निष्क्रामति चक्षुष्टो वा मूर्ध्नो
वाऽन्येभ्यो वा शरीरदेशेभ्यस्तमुत्क्रामन्तं
प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तँसर्वे प्राणा
_______________________________________________________________________________
विज्ञानोभवति। एवं सति किं स्यादिति वीक्षायामाह—स इति। स चाक्षुषः पुरुष आदित्यांशो भोक्तृकर्मक्षये सति यत्र यस्मिन्काले पराङ्भोक्तृभोगेभ्यो विमुखः सन्स्वांशिभूतदेवतारूपं प्रति पर्यावर्तत आसमन्ताद्भावेन परिवर्ततेऽथ तदा मुमूर्षुररूपज्ञो भवति रूपं न जानातीत्यर्थः॥१॥
कुत इत्यत आह—एकीति। आदित्यांशे317 तस्मिन्नेकीभूते सति यदा चक्षुर्लिङ्गात्मनैकी भवति तदा मुमूर्षुः पार्श्वस्थान्न पश्यतीत्याहुः। एवमेवैकी भवति न जिघ्रतीत्यादि। एवमुपसंहृते सति यन्निष्क्रमणं तत्साधनीभूतं व्यापारमाह—तस्येति। तस्य लिङ्गोपाधिकस्य हैतस्य प्रकृतस्योपसंहृतकर्णस्य मुमूर्षोर्हृदयस्य हृदयच्छिद्रस्याग्रं नाडीमुखं प्रद्योतते स्वप्न इव चैतन्यज्योतिषा प्राप्यदेहविषयबुद्धिवृत्त्यात्मना प्रकाशते। तेन प्रद्योतेन प्रद्योतित एष लिङ्गोपाधिक आत्मा निष्क्रामति निर्गच्छति318। ननूक्तप्रद्योतनेन कर्मार्जितं लोकं पश्यन्नात्मा मरणकाले हृदयात्केन मार्गेण निर्गच्छतीत्यत आह—चक्षुरिति। चक्षुष्टो वा चक्षुर्द्वारा निष्क्रामति यद्यादित्यलोकप्राप्तिनिमित्तं ज्ञानं कर्म वा स्यात्। मूर्ध्नो वा ब्रह्मरन्धद्वारा यदि ब्रह्मलोकप्राप्तिनिमित्तं स्यात्। अन्येभ्यो वा शरीरदेशेभ्यः श्रोत्रादिभ्यः सकाशाद्यथाज्ञानकर्मवशान्निष्क्रामतीति प्रत्येकं संबध्यते। तमेवमुत्क्रामन्तं विज्ञानमयं राजस्थानीयमन्वनुसृत्य प्राणः प्रधानस्थानीय उत्क्रामति। तं च प्राणमनुत्क्रामन्तं सन्तं सर्वे प्राणा वागादयः परिवा-
अनूत्क्रामन्ति सविज्ञानो भवति सविज्ञानमे-
वान्ववक्रामति तं विद्याकर्मणी समन्वारभेते
पूर्वप्रज्ञा च॥२॥ तद्यथा तृणजलायुका तृण-
स्यान्तं गत्वाऽन्यमाक्रममाक्रम्याऽऽत्मानमुप-
सँहरत्येवमेवायमात्मेदँशरीरं निहत्याविद्यां
गमयित्वाऽन्यमाक्रममाक्रम्याऽऽत्मानमुपसँह-
रति॥३॥
______________________________________________________________________________
रस्थानीया अनूत्क्रामन्ति। अत्रानुशब्दो विज्ञानमयादेः प्राधान्यद्योतको न त्वनुक्रमद्योतकस्तस्येहासंभवात्। उक्तं हृदयप्रद्योतनमेव स्पष्टयति—सेति। मुमूर्षुः सविज्ञानकर्मोद्भासितसंस्कारजनितेन विज्ञानेन भाविदेहविषयकेण सह वर्तमानः स्वप्नइव विशेषविज्ञानो भवत्युत्क्रान्तिकाले। अत एव तदनन्तरमपि सविज्ञानमेव विशेषविज्ञानोद्भासितमेवगन्तव्यमन्ववक्रामत्यनुगच्छति। उत्सर्जन्यातीत्युक्तस्य शाकटिकवत्किंसंभारस्थानीयं पाथेयं किंवा गन्तव्यशरीराद्यारम्भकमित्यत आह—तमिति। विद्याशब्देनेह प्रमाणाप्रमाणजनितज्ञानमात्रं विहितप्रतिषिद्धादिरूपमात्मज्ञानव्यतिरिक्तमुच्यते। शास्त्रालोकस्वभावोत्पन्नदृष्टादृष्टार्थरूपं वाङ्मनः कायसाध्यं सर्वं कर्मशब्देनोच्यते। तदुत्पन्नफलभोगजनितः संस्कारो हृद्याश्रितः पूर्वमज्ञोच्यते। कार्यकारणकोट्योर्द्वैराश्यसिद्ध्यर्थं समासतदकरणे। तथाच तं परलोकाय गच्छन्तं विद्याकर्मणी समन्वारभेते सम्यगन्वारभेते अन्वालभेते अनुगच्छतः पूर्वप्रज्ञा च समन्वारभते। तस्मादेतत्त्रयं शुभमेवानुष्ठेयं तत्फलायेति प्रकरणार्थः॥२॥
एवं संभृतविद्यादिसंभारो देहान्तरं प्रतिपद्यमानः कथं प्रतिपद्यत इत्यतो दृष्टान्तपूर्वकमाह—तदिति। तत्तत्र दृष्टान्तो यथा येन प्रकारेण तृणजलायुका तृणस्यान्तमवसानं गत्वाऽन्यमाक्रममाक्रम्यत इत्याक्रमोऽवष्टम्भस्तमाक्रमं तृणान्तररूपमाक्रम्याऽऽश्रित्याऽऽत्मानमात्मनः पूर्वावयवमुपसंहरत्यग्रिमावयवस्थान एवमेवायमात्मेदं शरीरं पूर्वोपात्तं निहत्य स्वप्नप्रतिपित्सुरिव पातयित्वाऽविद्यां गमयित्वाऽचेतनं कृत्वाऽन्यमाक्रमं शरीरान्तरमारभ्यमाणमाक्रम्य प्रसारितया वासनयैव केवलं गृहीत्वा तत्राऽऽत्मानमुपसंहरति तत्रैवाहमित्यात्मभावं प्रतिपद्यते न तु पूर्वदेहे। एतादृशावेव ग्रहणत्यागौ न विपरीतार्थकावित्यर्थः॥३॥
तद्यथा पेशस्कारी पेशसो मात्रामपादा-
यान्यन्नवतरं कल्याणतरँरूपं तनुत एव-
मेवायमात्मेदँशरीरं निहत्याविद्यां गम-
यित्वाऽन्यन्नवतरं कल्याणतरँरूपं कुरुते
पित्र्यं वा गान्धर्वं वा दैवं वा प्राजापत्यं वा
ब्राह्मं वाऽन्येषां वा भूतानाम्॥४॥ स वा
अयमात्मा ब्रह्म विज्ञानमयो मनोमयः
प्राणमयश्चक्षुर्मयः श्रोत्रमयः पृथिवीमय
______________________________________________________________________________
एवं शरीरान्तरं तद्यथा राजानमित्याद्युक्तभूतपञ्चकारभ्यमाणं प्रति गच्छतस्तत्किं भूतपञ्चकं नित्योपात्तमेव पूर्वदेहोपमर्देन देहान्तरमारभत आहोस्विदन्यदेवान्यं देहमारभत इति संदेहे द्वितीयपक्षे मानाभावादित्यभिप्रेत्य प्रथमपक्षमेवाङ्गीकृत्य दृष्टान्तपूर्वकमाह— तदिति। तत्तत्र दृष्टान्तो यथा लोके पेशःसुवर्णं तत्करोतीति पेशस्कारी सुवर्णकारः पेशसः सुवर्णस्य मात्रामपादायापच्छिद्य गृहीत्वाऽन्यत्पूर्वस्माद्रचनाविशेषान्नवादपि नवतरमभिनवतरं कल्याणात्कल्याणतरं रूपं तनुते निर्मिनोति। एवमेवायमात्मेत्यादि पूर्ववत्। रूपान्तरं संस्थानविशेषं देहान्तरं कुरुते। किं तदित्यत आह—पित्र्यं वेति। पितृभ्यो हितं पित्र्यं पितृलोकभोगयोग्यम्। तथा गान्धर्वं वा दैवं वा प्राजापत्यं चिराड्लोकभोगयोग्यम्। ब्रह्मा हिरण्यगर्भस्तल्लोकभोगयोग्यम्। किं बहुना यथाकर्म यथाश्रुतमन्येषां भूतानां प्रेततिर्यगादीनां वा संबन्धि शरीरं कुरुत इति प्रत्येकं संबध्यते॥४॥
योऽयमात्मनः संसारबन्धः स वास्तवो न भवति किंत्वौपाधिक एवेति निरुपाधिकं स्वरूपं दर्शयंस्तानुपाधीन्पुञ्जीकृत्य दर्शयति—स इति। स वा एवप्रकृतोऽयं संसार्यात्मोपाध्यतीतो ब्रह्मैवाशनायाद्यतीतं परमात्मैव सन्विज्ञानमयो बुद्धिप्रायस्तदैक्याध्यासात्। मनोमयस्तत्सांनिध्यात्। एतदुभयं तु क्रमेण चित्ताहंकारयोरप्युपलक्षणपरम्। प्राणः पञ्चवृत्तिकस्तन्मयस्तत्संबन्धाद्विचलतीव लक्ष्यते। तथा बाह्यचक्षुरादिसंबन्धाच्चक्षुर्मयो रूपादिदर्शनकाले श्रोत्रमयः शब्दश्रवणकाले। एतत्त्वितरेन्द्रियाणामप्युपलक्षणपरम्। एवं सूक्ष्मशरीरविशिष्टस्य स्थूलशरीरारम्भकभूतमयत्वमाह—पृथिवीति। पार्थिवशरीरारम्भे पृथिवीमयो
आपोमयो वायुमय आकाशमयस्तेजोमयोऽ-
तेजोमयः काममयोऽकाममयः क्रोधमयोऽक्रोध-
मयो धर्ममयोऽधर्ममयः सर्वमयस्तद्यदेतदिदं-
मयोऽदोमय इति यथाकारी यथाचारी तथा
भवति साधुकारी साधुर्भवति पापकारी पापो
भवति पुण्यः पुण्येन कर्मणा भवति पापःपापेन।
_____________________________________________________________________________
भवति। वरुणलोकेष्वाप्यशरीरारम्भ आपोमयः। तथा वायुमय आकाशमयस्तेजोमय एतानि शरीराणि तेजोमयानीति दर्शयितुमन्ते तद्ग्रहणं कृतम्। अन्यानि तु पशुप्रेतादिशरीराण्यतेजोमयानीत्यभिप्रेत्याऽऽह—अतेजोमय इति। एवं कार्यकरणसंघातविशिष्टः सन्कामादिग्रस्तो भवतीत्याह—काममय इति। प्राप्ताप्राप्तवस्त्वन्तरदर्शनेन तद्विषयाभिलाषः कामस्तन्मयस्तस्य विवेकादिना प्रशमे सति चित्तस्य शान्तत्वमकामस्तन्मयः। काम एवाशान्तः सन्केनचित्प्रतिहन्यमानश्चेत्तदा क्राधरूपेण परिणमते तन्मयः क्रोधमयः। स केनचिदुपायेन निवर्तितः स्यात्तदा प्रशान्तचित्तमक्रोधस्तन्मयोऽक्रोधमयः। एतदुभयाभावोभयमयत्वाभ्यां क्रमेण धर्ममयोऽधर्ममयश्च भवति। एतदुभयमयस्तु सर्वमयो भवति व्यक्ताव्यक्तस्य जगत उभयकार्यत्वात्। नन्वव्यक्तमयत्वं कथमवगन्तुं शक्यत इत्यपेक्षायां दृश्यमानचेष्टादिलक्षणेनेदंमयत्वलिङ्गेन तत्कारणभूतं परोक्षमपि भावनात्मकमदोमयत्वमनुमेयमित्यभिप्रेत्याऽऽह—तदिति। यस्मादयमात्मेदंमयो गृह्यमाणविषयादिमयस्तस्माददोमयः कार्येणानुमीयमानभावनात्मकविषयादिमय इति तदिदं सर्वमयत्वं सिद्धम्। उक्तविज्ञानमयादिवाक्यार्थमुपसंहरति—यथेति। यथा कर्तुं शीलमस्यास्तीति यथाकारी। यथा चरितुं शीलमस्यास्तीति यथाचारी। स तथा तादृशो भवति। करणचरणाभ्यां नियतानियते क्रिये विवक्षिते इत्यभिप्रेत्य तदनुवादपूर्वकं तथाशब्दं व्याकरोति—साध्विति। साधुकारी साधुरुत्कृष्टः पित्रादिलोके भवति। पापकारी पापो निकृष्ट एव स्थावरादौ भवति। नन्वभ्यासादेव पुण्यपापसंबन्धो भवति न तु सकृदनुष्ठानादिति शङ्काबीजं ताच्छील्यप्रत्ययं विहाय तामपाकरोति—पुण्य इति। पुण्यः पुण्यवान्पुण्येन कर्मणा भवति। पापः पापवान्पापेन कर्मणा भवत्येवा319भ्यासात्तु तत्फलातिशयोभवतीत्यर्थः। पुण्यपापयोरेव संसारासाधारणकारणत्वमित्युक्तं पूर्वपक्षीकृत्यावि-
अथो खल्वाहुः काममय एवायं पुरुष इति स
यथाकामो भवति तत्क्रतुर्भवति यत्क्रतुर्भवति
तत्कर्म कुरुते यत्कर्म कुरुते तदभिसंपद्यते॥५॥
तदेष श्लोको भवति—तदेव सक्तः सह कर्मणैति
लिङ्गं मनो यत्र निषक्तमस्य। प्राप्यान्तं कर्मण-
स्तस्य यत्किंचेह करोत्ययम्। तस्माल्लोकात्पुनरै-
त्यस्मै लोकाय कर्मण इति नु कामयमानोऽ-
_______________________________________________________________________________
द्यामूलकः काम एव संसारासाधारणकारणमिति सिद्धान्तमाह—अथो इति। अथोक्तपूर्वपक्षानन्तरमन्ये खलु पुनर्बन्धमोक्षकुशला अयं पुरुषः काममय एव कामो विषयादीच्छा तन्मय एवेत्याहुर्धर्मादीनामप्येतन्मूलत्वात्कामान्यः कामयते मन्यमानः स कामभिर्जायते तत्र तत्र। अकामतः क्रिया काचिद्दृश्यते नेह कस्यचिदित्यादिश्रुतिस्मृतिभ्यां कामतारतम्यात्प्रायश्चित्ततारतम्यविधानाच्च। कया प्रनाड्या कामस्य तत्कारणत्वमिति वीक्षायामाह—स इति। स आत्मा सामान्यतः काममयः सन्यथाकामो यादृशकामविशेषेण युक्तो भवति तत्तादृशः320 क्रतुरध्यवसायः क्रियाहेतुभूतोऽस्य भवति। यत्क्रतुर्यादृशकर्मविषयेण क्रतुना युक्तो भवति तत्कर्म तादृशं कर्म कुरुते। यत्कर्म यादृशं कर्म कुरुते तदभिसंपद्यते तदीयं फलं प्राप्नोतीत्यर्थः॥५ ॥
तत्तत्र ब्राह्मणोक्तेऽर्थ एष सार्धश्लोको मन्त्रो भवति। अस्योद्भूताभिलाषस्यः लिङ्गं सप्तदशावयवात्मकं मनःनधानत्वान्मनःशब्दवाच्यं यद्वा प्रमात्रादिसाक्षी येन साक्ष्येण मनसा लिङ्ग्यते तन्मनो लिङ्गं यत्र यस्मिन्गन्तव्ये फले निषक्तं निश्चयेन सक्तं भवति तत्र सक्त आसक्तः सन्फलारम्भकीभूतकर्मणा सह तदेव गन्तव्यं फलमेति गच्छति। नन्वेतद्भोगानन्तरं कामाभावान्मुक्तो भविष्यतीत्यत आह—प्राप्येति। अयं फलासक्तः कामीहास्मिल्ँ लोके यत्किंचित्करोति तस्य कर्मणो भोगेनान्तमवसानं प्राप्य तस्माद्भुक्तभोगाल्लोकात्पुनरैत्यागच्छत्यस्मा अस्मिन्मनुष्यलोके कर्मणे कर्मकरणार्थम्। एवं कामासाधारणकारणकं संसारमुसपंहरति—इतीति। इत्येवं नु खलु कामयमानः संसरति। एतावता जागराद्यवस्थाद्वयस्य दार्ष्टान्तिकभूतः संसारो दर्शितः। इदानीं सुषुप्त्युक्तरूपस्या-
थाकामयमानो योऽकामो निष्काम आप्त-
काम आत्मकामो न तस्य प्राणा उत्क्रा-
मन्ति ब्रह्मैव सन्ब्रह्माप्येति॥६॥ तदेष
श्लोको भवति—यदा सर्वे प्रमुच्यन्ते कामा
येऽस्य हृदि श्रिताः। अथ मर्त्योऽमृतो भव-
त्यत्र ब्रह्म समश्नुत इति। तद्यथाऽहिनिर्ल्व-
_______________________________________________________________________________
तिच्छन्दादिवाक्योक्तस्य दार्ष्टान्तिकभूतं ससाधनं मोक्षमाह—अथेति। अथशब्दः संसारप्रकरणविच्छेदार्थः। यस्मादेवं कामयमान एव संसरति तस्मादकामयमानोऽर्थान्नैव संसरति किंतु ब्रह्मैव सन्ब्रह्माप्येतीत्यन्वयः। तर्हि कुतोऽकामयमानः स्यादित्यत आह—योऽकाम इति। बाह्यशब्दाद्यर्थविषयककामरहितः। तदपि कुत इत्यत आह—निष्काम इति। अन्तस्था वासनात्मकाः कामा निष्क्रान्ता यस्मात्स निष्कामः। अत्रापि हेतुः। आप्ताः कामा येन स आप्तकामः। अत्रापि हेतुः। आत्मैव कामो यस्य स आत्मकामो हिरण्यगर्भादिशरीरविषयकामरहित इत्यर्थः। शब्दादिसाध्यसुखस्याऽऽत्ममात्रत्वात्तदप्यात्मकामत्वमर्थादात्मैकत्वज्ञानेनाविद्योच्छेदादिति बोद्धव्यम्। एवं व्यावृत्तकामः कुतो न संसरति। यतस्तस्य प्राणा वागादयो नोत्क्रामन्ति कामाभावेन कर्माभावे सति गमनकारणाभावादतः स जीवन्नेवोक्तरूप321ब्रह्मैव सन्ब्रह्माप्येति प्राप्नोति देहाद्यावरणविच्छेदापेक्षयाऽप्येतीवेत्युपचर्यते नित्यप्राप्तत्वादेवेत्यर्थः॥६॥
तत्तस्मिन्नुक्ते मोक्षतत्साधनेऽर्थ एष श्लोको भवति। अस्याऽऽत्मकामस्य ब्रह्मविदो यदा यस्मिन्काले हृदि श्रिता ये प्रसिद्धाः सर्व इहामुत्रार्थेन्द्रियप्रवृत्तिहेतुभूताः कामा वासनात्मकाः प्रमुच्यन्ते समूलतो विशीर्यन्ते। अथातो हेतोस्तदा मर्त्यो मरणधर्माऽपि सन्नमृतो भवति। किं तदमृतत्वं क्व वेत्यत आह—अत्रेति। अत्रास्मिन्नेव शरीरे स्थितः सन्ब्रह्म समश्नुते ब्रह्मभूतो भवति। नन्वसौ विद्योत्पत्तावपि पूर्ववद्देह एव चेद्वर्तते तर्हि तस्या वैयर्थ्यमेव स्यादित्याशङ्कानिरसनार्थं दृष्टान्तपूर्वकमाह—तदिति। तत्तत्र322जीवन्मुक्तदेहेजीवन्मुक्तेच दृष्टान्तो यथा लोकेऽहिः सर्पो निलीयते यस्यां साऽहिनिर्ल्व-
यनी वल्मीके मृता प्रत्यस्ता शयीतैवमेवेदँ
शरीरँशेतेऽथायमशरीरोऽमृतः प्राणो ब्रह्मैव
तेज एव सोऽहं भगवते सहस्रं ददामीति
होवाच जनको वैदेहः॥७॥ तदेते श्लोका
भवन्ति–अणुः पन्था विततः पुराणो माँ
स्पृष्टोऽनुवित्तो मयैव। तेन धीरा अपियन्ति
ब्रह्मविदः स्वर्गं लोकमित ऊर्ध्वो विमुक्ताः॥८॥
________________________________________________________________________________
यनी सर्पत्वङ्मृताऽहिदेहविनिर्मुक्ता वल्मीके सर्पाश्रये प्रत्यस्ता प्रक्षिप्ता सर्पेणानात्मभावेन त्यक्ता शयीत वर्तेत सर्पश्च तत्र निर्ममाहंकृतिक एवमेवेदं शरीरं स्थूलं सूक्ष्मं च जीवन्मुक्तेनानात्मभावेन त्यक्तं मृतमिव संबन्धवर्जितं शेते। अथातः कारणादयं जीवन्मुक्तोऽप्यशरीर एव सर्पवत्तत्र निर्ममाहंकृतित्वादत एवामृतः शरीरस्यैव तद्धर्मित्वादत एव प्राणः प्राणितीति प्राणः साक्षी न पञ्चवृत्तिकः प्राणस्य माणं प्राणबन्धनं हि सोम्य मन इति श्रुतेरात्मप्रकरणाच्च। स च ब्रह्मैवाशनायादिवर्जितः परमात्मैव। किं पुनस्तत्तेज एव विज्ञानज्योतिरेव प्रज्ञानेत्रमिति श्रुतेः। अतः पूर्ववद्देहित्वाभावान्न विद्यावैयर्थ्यमित्यर्थः। यद्यपि मोक्षतत्साधनज्ञानतत्साधनसंन्यासस्याप्युक्तत्वेऽपि शमाद्युपबृंहितस्यानुक्तत्वात्तच्छुश्रूषालिङ्गं सहस्रदानमित्यभिप्रायज्ञा श्रुतिराह—सोऽहमिति। सोऽहमित्थं विमोचितवते भगवते सहस्रं ददामीति होवाच जनको वैदेहः॥७॥
तत्र तावदथाकामयमान इत्यादिना ज्ञानसाध्यैव मुक्तिरिति संक्षिप्तार्थस्यैव विवरणभूताञ्श्लोकानुदाहरति—तदिति। तत्तस्मिन्नात्मकामस्य ब्रह्मविदो मुक्तिरित्युक्तेऽर्थ एते श्लोका भवन्ति। अणुः स्थूलादिनिखिलविशेषातीतत्वात्। विततो विस्तीर्णो दुर्विज्ञेयत्वादनन्तात्मावगाहित्वाद्वा। पुराणश्चिरंतनो नित्यश्रुतिप्रकाशितत्वात्। एवंभूतः पन्था ऐकात्म्यज्ञानलक्षणो मार्गो मां स्पृष्टः शास्त्रादेर्मामनुप्राप्तो मया प्राप्त इति वा। किंच। मयैवानुवित्तोऽपि विद्यापरिपाकापेक्षया फलावसानलक्षणां निष्ठां नीतः। एवेत्ययमन्ययोगव्यवच्छेदार्थो न भवतीत्यभिप्रेत्याऽऽह—तेनेति। अन्येऽपि ये ब्रह्मविदः प्रज्ञावन्तो धीरा निर्द्वंद्वा जीवन्त एव विमुक्ताः सन्त इतोऽस्माच्छरीरपातादूर्ध्व ऊर्ध्वमनन्तरमेव तेन ब्रह्मविद्यामार्गेण स्वर्गं परमानन्दलक्षणं प्रकरणाल्लोकं स्वप्रकाशं यन्ति गच्छन्ति॥८॥
तस्मिञ्छुक्लमुत नीलमाहुः पिङ्गलँहरितं
लोहितं च। एष पन्था ब्रह्मणा हानुवित्तस्ते-
नैति ब्रह्मवित्पुण्यकृत्तैजसश्च॥९॥ अन्धं तमः
प्रविशन्ति येऽविद्यामुपासते। ततो भूय इव
ते तमो य उ विद्यायाँरताः॥१०॥
_______________________________________________________________________________
अस्मिन्मार्ग उपासकानां विप्रतिपत्तेर्दुर्विज्ञेयत्वं द्योतयितुं दर्शयति—तस्मिन्निति। तस्मिन्ब्रह्मज्ञानलक्षणे मोक्षमार्गे शुक्लंशुद्धं ब्रह्मेत्याहुः। अपरे तु शरद्व्योमवन्नीलमन्ये तु वह्निज्वालावत्पिङ्गलं केचिद्वैदूर्यमणिवद्धरितमपरे तु जपाकुसुमवल्लोहितं च ब्रह्मेत्याहुः। अयं तूपासनामार्ग एव। तया प्राप्यादित्यादिदेवतानां तत्प्राप्तिद्वाराणां च नाडीनां शुक्लस्य नीलस्येत्याद्युक्तरूपाणांतादृग्वर्णत्वान्नमोक्षमार्गस्तस्य निर्गुणब्रह्मविद्यारूपत्वादित्यभिप्रेत्याऽऽह—एष इति। एष ज्ञानलक्षणः पन्थामार्गोब्रह्मणा ह परमात्मस्वरूपेण ब्राह्मणेन त्यक्तसर्वैषणेनानुवित्तः पूर्वोक्तनिष्ठां प्रापितः। एवं विप्रतिपत्तिनिराकरणद्वारा मोक्षमार्गं निर्धार्य तेन धीरा इत्युक्तं निगमयति—तेनेति। अन्योऽपि ब्रह्मवित्तेन ब्रह्मविद्यामार्गेण मोक्षमेति प्राप्नोति। ब्रह्मवित्त्वेहेतुस्तैजसस्तेजसि शुद्धसत्त्वे भवस्तैजसः। तत्रापि हेतुः पुण्यकृत्पुण्यं स्वाश्रमोक्तं कर्म करोतीति पुण्यकृच्चेति चकार उक्तक्रमसद्भावसूचनार्थस्तदुक्तम् —
“कषाये कर्मभिः पक्वेततो ज्ञानं प्रवर्तते” इति।
न तु ज्ञानकर्मणोः समुच्चयार्थः।
“त्यज धर्ममधर्मंच उभे सत्यानृते त्यज।
उभे सत्यानृते त्यक्त्वा येन त्यजसि तं त्यज”॥
इत्यादिना मोक्षसाधनस्य सर्वक्रियोपरमस्योक्तत्वात्॥९॥
प्रस्तुतज्ञानमार्गस्तुत्यर्थं मार्गान्तरं निन्दति—अन्धमिति। अन्धमदर्शनात्मकं तमो मोहादिपदवाच्यं प्रविशन्ति प्रपद्यन्ते। के येऽविद्यां साध्यसाधनात्मककर्मलक्षणामुपासते। ततस्तस्मादपि भूय इव बहुतरमिव ते तमः प्रविशन्ति। के य उ तु विद्यायां कर्मार्थायां त्रय्यामेव रता आसक्ता विधिप्रतिषेधपर एववेदो नान्योऽस्तीत्युपनिषदर्थानपेक्षिण इत्यर्थः। अतो युक्तं तेषामधःपतनम्॥१०॥
अनन्दा नाम ते लोका अन्धेन तमसाऽऽ-
वृताः। ताँस्ते प्रेत्याभिगच्छन्त्यविद्वाँसोऽ-
बुधो जनाः॥११॥ आत्मानं चेद्विजानी-
यादयमस्मीति पूरुषः। किमिच्छन्कस्य कामाय
शरीरमनुसंज्वरेत्॥१२॥ यस्यानुवित्तः प्रति-
बुद्ध आत्माऽस्मिन्संदेघे गहने प्रविष्टः। स
विश्वकृत्स हि सर्वस्य कर्ता तस्य लोकः स उ
लोक एव॥१३॥
______________________________________________________________________________
संसारतमःप्रवेशेऽपि तेषां किमनिष्टमित्यत आह—अनन्दा इति। ये लोका अन्धेन तमसाऽऽवृता व्याप्तास्ते लोका अनन्दा अनानन्दास्तीव्रदुःखान्विता नाम प्रसिद्धास्ताल्लोँकांस्ते प्रेत्य मृत्वाऽभिगच्छन्ति प्राप्नुवन्ति। के येऽविद्वांसो न केवलं सामान्यतोऽविद्वांसः किंत्वबुध इति किबन्तबहुवचनान्त आत्मावगमवर्जिता जनाः प्राकृता जननधर्मिणो वेत्यर्थः॥११॥
एवं मन्त्रद्वयाभ्यामात्मज्ञानाभावे दोषमुक्त्वेदानीं पुनरपि प्रकृतमार्गस्यैव स्तुत्यर्थं तन्निष्ठस्य क्लेशहानिमाह—आत्मानमिति। अयं परमात्माख्यः पुरुषोऽहमेवास्मीत्यात्मानं हृदयस्थमशनायाद्यतीतं चेत्कथंचित्सत्त्वशुद्धितो जानीयात्तर्हि स किमिच्छन्सर्वस्याऽऽत्ममात्रत्वात्किमतिरिक्तं फलमिच्छेन्न किंचिदपि। एतदेव प्रकटयति—कस्येति। कस्य कामाय कस्मै फलाय शरीरमनुसंज्वरेच्छरीरतापमनुतप्येत दुःखी न भवेदित्यर्थः॥१२॥
किंच। अस्मिन्प्रसिद्धे संदेघे तेजोबन्नादिभिर्भूतैः संदिह्यत उपचीयत इति संदेहो देहः। घकारश्छान्दसः। तस्मिन्संदेघे। किंलक्षणे गहन आध्यात्मिकाद्यनेकार्थसंकीर्णत्वाद्दुर्विज्ञेये विषमे जलसूर्यवत्मविष्ट आत्मा यस्य ब्राह्मणस्य येन वाऽनुवित्तोऽनुलब्धः प्रतिबुद्धोऽहमस्मि परं ब्रह्मेत्येवं प्रत्यगात्मत्वेन साक्षात्कृतश्च वर्तते स ब्राह्मणो विश्वकृद्विश्वस्य कर्ता। इदं किमस्य नामेत्यत आह—स हीति। हि यस्मात्स ब्राह्मणः सर्वस्य कर्ता। एतदपि परप्रयुक्तं भविष्यतीत्यत आह—तस्येति। तस्य ब्राह्मणस्य सर्वोऽपि प्रपञ्चो लोक आत्मा। तर्हि द्वैतापत्तिरित्यत आह—स इति। स उ सोऽपि ब्राह्मणः सर्वस्य प्रपञ्चस्य लोक एवाऽऽत्मैवेत्यर्थः॥१३॥
इहैव सन्तोऽथ विद्मस्तद्वयं न चेदवेदि-
र्महती विनष्टिः। ये तद्विदुरमृतास्ते
भवन्त्यथेतर दुःखमेवापियन्ति॥१४॥
यदैतमनुपश्यत्यात्मानं दवमञ्जसा।
इशानं भूतभव्यस्य न ततो विनुगुप्सते॥१५॥
यस्मादर्वाक्संवत्सरोऽहोभिः
परिवर्तते। तद्दवा ज्योतिषां ज्योतिरा-
युर्होपासतेऽमृतम्॥१६॥ यस्मिन्पञ्च
________________________________________________________________________________
न केवलं श्रौतमेव कृतकृत्यत्वं किंत्वानुभविकमपीत्याह—इहैवेति। इहैव देहएवाज्ञाननिद्रार323हितः अन्तो वयमथ कथंचित्तद्ब्रह्मतत्त्वमात्मत्वेन विद्मो जानीमः। न चेद्वि324दितवन्तस्तदाऽहमवेदिर्वेदनं वेदः सोऽस्यास्तीति वेदी वेद्येव वेदिर्न वेदिरवेदिः स्यां तदा महत्यनन्तपरिमाणा जन्ममरणादिलक्षणा विनष्टिर्विनशनं स्यात्। उक्तमेव प्रपञ्चयति–य इति। एवं येऽप्यन्ये तद्ब्रह्म विदुस्तेऽप्यमृता मुक्ता भवन्ति। अथ पुनर्ये नैवं विदुस्त इतरे जन्ममरणादिलक्षणं दुःखमेवापयन्ति प्रतिपद्यन्ते॥१४॥
यदेति। यदा पुनराचार्याल्लब्धप्रसादः सन्ननु पश्चादेतं हृदयस्थमात्मानं देवं द्योतनात्मकं भूतभव्यस्य कालत्रयस्येशानं स्वामिनमञ्जसा साक्षादात्मत्वेन पश्यति तदा ततस्तस्मादात्मभूताद्देवान्न विजुगुप्सते गुप्तिं नेच्छति। यद्वा ततो दर्शनात्कमपि न निन्दत्यात्मानं परं वा न गईतीत्यर्थः॥१५॥
नन्वीश्वरस्यापि कालावच्छिन्नत्वात्कथं तदीश्वरत्वमित्यत आह—यस्मादिति। अयं संवत्सराख्यः कालः स्वावयवैरहोभिरहोरात्रैः कार्यजातं परिच्छिन्दन्यस्मादीश्वरादर्वागेव परिवर्तते न तमपि परिच्छिनत्ति तदेवेश्वरात्मकं ज्योतिषामादित्यादीनामपि ज्योतिरवभासकममृतममरणधर्मकमायुरित्येवं ह किल देवा उपासते325ऽनुसंदधते तेनाऽऽयुष्मन्तो ज्योतिष्मन्तश्चैते प्रसिद्धा अत आयुष्कामेणापि तद्गुणं ब्रह्मोपास्यमित्यर्थः॥१६॥
एतदेवामृतत्वं सर्वाधिष्ठानत्वेन साधयति—यस्मिन्निति। यस्मिन्ब्रह्मणि पूर्ववाक्योक्तषष्ठ्यन्तज्योतिषा सह प्राणश्चक्षुः श्रोत्रं मनश्चेति पञ्च पञ्चसंख्याकाः
पञ्चजना आकाशश्चप्रतिष्ठितः। तमेव मन्य आत्मानं
विद्वान्ब्रह्मामृतोऽमृतम्॥१७॥ प्राणस्य प्राणमुत
चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रं मनसो ये मनो विदुः।
ते निचिक्युर्ब्रह्म पुराणमग्र्यम्॥१८॥ मनसैवानुद्र-
ष्टव्यं नेह नानाऽस्ति किंचन। मृत्योः स मृत्युमाप्नो-
ति य इह नानेव पश्यति॥१९॥ एकधैवानुद्रष्टव्य-
मेतदप्रमयं ध्रुवम्। विरजः पर आकाशादज आत्मा
महान्ध्रुवः॥२०॥
__________________________________________________________________________________
पञ्चजनाः पञ्चजनसंज्ञकाः प्रतिष्ठिता आकाशश्चाव्याकृताख्यः सूत्राधारभूतः प्रतिष्ठितस्तमेवाऽऽत्मानं ब्रह्मामृतं विद्वानहममृत इति मन्ये॥१७॥
कथं पुनरेवंविधवेदनोत्पत्तिः स्यादित्यत आह—प्राणस्येति। तद्ब्रह्म प्राणस्यानात्मजडरूपस्यापि प्राणनादिक्रियां कुर्वतः प्राणं तत्सत्तास्फूर्तिप्रदत्वेन। तथा चक्षुष उतापि चक्षुरुत श्रोत्रस्य श्रोत्रं मनसो मन इत्येवमात्मानं ये विदुस्ते ब्राह्मणा अग्र्यमग्रे भवमत एव पुराणं चिरंतनं ब्रह्म निचिक्युर्निश्चयेन ज्ञातवन्तः॥१८॥
केन साधनेनेत्यत आह—मनसेति। आचार्योपदेशादनु पश्चात्तत्संस्कृतेन मनसैव ब्रह्म द्रष्टव्यं न साधनान्तरेण। यतो वाचो निवर्तन्ते, अप्राप्य मनसा सहेत्यादिश्रुत्या फलव्याप्यत्वस्यैव निराकृतेर्वृत्तिव्याप्यत्वस्य चाविद्यानिवृत्तये दृष्टत्वात्। नन्वेवं द्रष्ट्टद्रष्टव्यादिभावेन भेदः स्यादित्यत आह—नेति। इह द्रष्टव्ये ब्रह्मणि किंचन किंचिदपि नाना भेदः परमार्थतो नास्ति। तदेव भेददर्शननिन्दया द्रढयति—मृत्योरिति। य इह ब्रह्मणि नानेव पश्यति स मृत्योमरणात्पुनर्मृत्युं मरणमाप्नोति जन्मादिद्वारेणेत्यर्थः॥१९॥
द्वैताभावे कथं द्रष्टव्यमित्यत आह—एकधेति। एकधैवैकेनैव रूपेण विज्ञानघनैकरसलक्षणेन श्रवणाद्यनुद्रष्टव्यं यस्मात्तस्मादेतद्ब्रह्माप्रमयमप्रमेयं स्फुरणाव्याप्यत्वादेकत्वाच्च।ध्रुवं नित्यं कूटस्थम्। एतदेव सोपस्करं साधयति—विरज इति। धर्माधर्मादिलक्षणं रजो विगतं यस्मात्स विरजोऽत आकाशादव्याकृताख्यात्परो व्यतिरिक्तोऽत एवाजोजन्मादिरहित आत्मैवंभूतो महान्परिमाणतो महत्तरो व्यावृत्त्यनु326गमरहितत्वादत एव327ध्रुवोऽविनाशी॥२०॥
तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः।
नानुध्यायाद्बहूञ्छब्दान्वाचो विग्लापनँहि
तदिति॥२१॥ स वा एष महानज आत्मा
योऽयं विज्ञानमयः प्राणेषु य एषोऽन्तर्हृदय
आकाशस्तस्मिञ्छेते सर्वस्य वशी सर्वस्येशानः
सर्वस्याधिपतिः स न साधुना कर्मणा भूयान्नो
___________________________________________________________________________________
यथोक्तवस्तुदर्शनं निगमयति—तमिति। धीरो धीमान्ब्राह्मणस्तमेवोक्तरूपमात्मानं विज्ञाय पदार्थशुद्धिं संपाद्य शास्त्रत उपदेशतश्च प्रज्ञां वाक्यार्थभूतामशेषशोकाकाङ्क्षाशान्तिलक्षणां स्वरूपाभिव्यक्तिरूपां मोक्षसंपादिकां कुर्वीत संपादयेत्। बहुशास्त्राध्ययने दोषमाह—नेति। बहून्प्रभूताञ्शब्दान्नानुध्यायान्नानुचिन्तयेत्। कुतो हि यस्मात्तद्बहुशब्दाध्ययनं वाचो वागिन्द्रियस्य विग्लापनं विशेषेण ग्लानिकरं श्रमकरम्। इतिशब्दो मन्त्रोदाहरणसमाप्तिद्योतकः॥२१॥
अथ विविदिषावाक्येन ब्रह्मात्मनि काम्यराशिवर्जितस्य कृत्स्नस्य वेदराशेर्विनियोगकथनार्थं तावदस्मिन्नध्याय उक्तं सफलमात्मज्ञानं स वा एष इत्याद्यसंभेदायेत्यन्तेनानुवदति। स वै ज्योतिर्ब्राह्मणोक्तो जीव एषोऽत्राव्यवहितोक्तः परमात्मा। एवमुक्तमैक्यं प्रकटीकर्तुमेषशब्देन विरज इत्याद्युक्तः परमात्माऽभिमत इति द्योतयितुं तत्स्थं विशेषणद्वयमाह—महानज आत्मेति। ‘सशब्देन ज्योतिर्ब्राह्मणोक्तो जीवोऽभिमत इति द्योतयितुं तत्स्थमपि विशेषण328द्वयमाह—योऽयं विज्ञानमयः प्राणेष्विति। उभयोरैक्यलक्षणो वाक्यार्थः सामानाधिकरण्येनाभिमत इति द्योतयितुं तत्रैवोक्तमाह य इति। संप्रसादकाले329 य एषोऽन्तर्हृदय आकाशः परमात्माख्यो बुद्ध्याश्रयो वा तस्मिन्क्रमेण विज्ञानमयः शेत एकीभूतो वर्तते बुद्ध्यादिसाक्षिरूपेण वा वर्तते। एतद्विज्ञानफलमक्षरब्राह्मणोक्तमाह—सर्वस्येति। सर्वस्य ब्रह्मेन्द्रादेर्वशी सर्वो हीन्द्रादिगणोऽस्य वशे वर्तते। कुतो यतः सर्वस्येशानः। तस्य राजकुमारेशितृतुल्यत्वं व्यावर्तयति—सर्वस्याधिपतिरिति। सर्वस्याधिष्ठाय पालयिता स्वतन्त्र इति यावत्। नन्वेवं सत्येतस्य राजवद्धर्मादिसंबन्धः स्यादित्यत आह—स इति। सोऽधिपतिर्विद्वान्साधुना शास्त्रविहितेन कर्मणा पूर्वावस्थातो भूयान्न भवति न
एवासाधुना कनीयानेष सर्वेश्वर एष भूताधिप
तिरेष भूतपाल एष सेतुर्विधरण एषां लोकाना
मसंभेदाय तमेतं वेदानुवचनेन ब्राह्मणा विवि
दिषन्ति यज्ञेन दानेन तपसाऽनाशकेनैतमेव
विदित्वा मुनिर्भवत्येतमेव प्रव्राजिनो लोकमि
च्छन्तः प्रव्रजन्त्यतद्ध स्म वै तत्पूर्वे विद्वाँसः
___________________________________________________________________________________
वर्धतेऽसाधुना शास्त्रप्रतिषिद्धेन कर्मणा नो एव कनीयानल्पीयान्न भवत्येव। कस्माद्यस्मादेष विद्वान्सर्वस्य धर्मादेरपीश्वरो नियमनशीलः। कृतो यत एष विद्वान्भूतमात्रस्य स्थावरजङ्गमात्मकस्याधिपतिस्तत्सत्तानियामकः। तथैष भूतानि जनिमत्कार्यरूपाणि स्वचेतनदानेन पालयतीतिभूतपालः। किंच। एष सेतुरिव सेतुः। किंलक्षणो विधरणो वर्णाश्रमादिव्यवस्थाविधारकः। किमर्थम्। एषां भूरादिब्रह्मलोकान्तानामसंभेदायासांकर्यायैकवर्णता मा भूदिति राजवैलक्षण्यान्नास्य तद्वद्धर्मादिसंबन्ध इत्यर्थः। एवमनुवादप्रयोजनीभूतं वेदविनियोगमाह—तमिति। ब्राह्मणा द्विजास्तमेतं मन्त्रोक्तविशेषणमौपनिषदं पुरुषं वेदानुवचनेन वेदस्य मन्त्रब्राह्मणात्मकस्यानु पश्चाद्गुरूच्चारणानन्तरं वचनं पठनं नित्यस्वाध्यायलक्षणं तेन वेदानुवचनेनान्तःकरणशुद्धिद्वारा विविदिषन्ति वेदितुमिच्छन्ति न तु विदन्त्येव। तथा यज्ञेन द्रव्ययज्ञेन ज्ञानयज्ञेन च दानेन श्रद्धादिसंयुक्तेन तपसा किंलक्षणेनानाशकेन कामानशनलक्षणेन विविदिषन्तीति प्रत्येकं संबन्धः। यद्वाऽनाशकपदं न तपोविशेषणं किंतु स्वतन्त्रंमरणावधिक भोजनाभाववाचकम्। तस्मिन्पक्षे ब्रह्मचर्याद्याश्रमस्था ब्राह्मणाः क्रमेण वेदानुवचनादिना विविदिषन्ति। वेदनेच्छातः किं स्यादित्यत आह—एतमिति। उक्तोपायैर्बुद्धि शुद्धिद्वारा विविदिषोत्पत्तौ श्रवणादिक्रमेणैतं मन्त्रब्राह्मणोक्तमात्मानमेव विदित्वा न कर्मादिकं मुनिर्मननशीलो योगी भवतीति यावत्। किंच। एतमेवाऽऽत्मलोकमिच्छन्तः प्रार्थयन्तो विविदिषन्तः प्रव्राजिनः प्रव्रजनशीला मुमुक्षवः प्रव्रजन्ति प्रकर्षेण सर्वाणि कर्माणि न्यस्यन्तीति संन्यासो विधीयत आग्नेयोऽष्टाकपालो भवतीतिवत्। कथमेतन्निश्चेतुंशक्यत इत्यतस्तन्निर्णयहेतुभूतं तदर्थवादमाह—एतदिति। तदेतत्पारि व्राज्ये स्पष्टं कारणं हकिल वै स्मार्यते। पूर्वेऽतिक्रान्तकालिका विद्वांस
प्रजां न कामयन्ते किं प्रजया करिष्यामो येषां।
नोऽयमात्माऽयं लोक इति ते ह स्म पुत्रैषणा-
याश्च वित्तैषणायाश्च लोकैषणायाश्चव्युत्था-
याथ भिक्षाचर्यं चरन्ति या ह्येव पुत्रैषणा सा
वित्तैषणा या वित्तैषणा सा लोकैषणोभे ह्येते
एषणे एव भवतः। स एष नेति नेत्यात्माऽ-
गृह्यो न हि गृह्यतेऽशीर्यो न हि शीर्यतेऽसङ्गो
न हि सज्यतेऽसितो न व्यथते न रिष्यत्येतमु
हैवैते न तरत इत्यतः पापमकरवमित्यतः कल्या
णमकरवमित्युभे उ हैवैष एते तरति नैनं कृता
कृते तपतः॥२२॥
___________________________________________________________________________________
आत्मज्ञाः प्रजां तदुपलक्षिते कर्मवित्ते च न कामयन्ते स्म पुत्रादिसाधनानि नानुतिष्ठन्ति। केनाभिप्रायेणेत्यत आह—किमिति। येषां नोऽस्माकं परमार्थदर्शिनामयं नित्यसंनिहितोऽशनायाद्यतीत आत्मैवायं लोकः पुरुषार्थस्ते वयं पुत्रादिभिः किं करिष्याम इत्यभिप्रायसमाप्तिद्योतक इति शब्दः। तर्हि ते किं कृतवन्त इत्यत आह—ते ह स्मेत्येतदाद्येषणे एव भवत इत्यन्तम्। उक्तार्थवाद एव विधिनिश्चायकस्तस्य विधिमन्तरेणानन्वयात्। तस्मात्संन्यासादिनैवाऽऽत्मलोकः प्राप्योन कर्मादिना तस्योत्पाद्यादिविलक्षणत्वादित्याह—स एष नेति नेत्यादिन रिष्यतीत्यन्तेन शाकल्यब्राह्मणोक्तार्थकेन। एतद्रूपस्य सर्वैषणाविनिवृत्तस्य किं स्यादित्यत आह—एतमिति। एतमुक्तरूपं परमात्मभूतमु ह प्रसिद्धमेते वक्ष्यमाणे नैव तरतो नैव व्याप्नुतः। के ते इत्यत आह—अत इति।अतोऽस्माद्देहसंबन्धाविवेककृतरागादेः पापमकरवं कृतवानतो मे नरको भविष्यतीति परितापं तथाऽतः फलकामनिमित्तात्कल्याणं यज्ञादिशोभनं कर्माकरचमतो मे स्वर्गो भबिष्यतीतिहर्षश्चेत्येते उभे न तरतः। कुत इत्यत आह—उभे इति। एष ब्रह्मविदुभे पुण्यपापलक्षणे कर्मणी उ हैव तरत्यतिक्रामति। अत एवैनं ब्रह्मविदं कृतं नित्याद्यनुष्ठानमकृतं तस्यैवाकरणमेते अपि फलदानप्रत्यवायोत्पादनाभ्यां न तपतो नोद्वेजयतः ॥२२॥
तदेतदृचाऽभ्युक्तम्—एष नित्यो महिमा ब्राह्म-
णस्य न वर्धते कर्मणा नो कनीयान्। तस्यैव
स्यात्पदवित्तं विदित्वा न लिप्यते कर्मणा पाप-
केनेति। तस्मादेवंविच्छान्तो दान्त उपरत-
स्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवाऽऽत्मानं
पश्यति सर्वमात्मानं पश्यति नैनं पाप्मा
तरति सर्वं पाप्मानं तरति नैनं पाप्मा तपति
___________________________________________________________________
एवमुक्ते ब्रह्मविद्याफले मन्त्रं संवादयति—तदिति। तदेतद्ब्राह्मणेनोक्तं वस्तुतत्वमृचामन्त्रेणाभ्युक्तं प्रकाशितम्। ब्राह्मणस्य ब्रह्मविदस्त्यक्तसर्वैषणस्यैष साधननिस्पृहो नेति नेत्यादिलक्षणः स्वरूपभूतो महिमैश्वर्यविशेषः स्वाभाविकत्वान्नित्यः। कुतो यतः शुभकर्मणैष महिमा न वर्धते वृद्धिलक्षणां विक्रियां न प्राप्नोति। तथाऽशुभेन कर्मणा नो कनीयान्नाप्यपक्षयलक्षणां विक्रियां प्राप्नोत्यतस्तस्यैव महिम्नस्त्वंपदार्थभूतस्य पदं गम्यं स्वरूपं तत्पदार्थभूतं ब्रह्म तस्य पदस्य विद्वेदिता स्यान्मुमुक्षुः। तस्मिन्सति किं स्यादित्यत आह—तमिति। तं महिमानं पदं विदित्वा ज्ञात्वा पापकेन धर्माधर्मलक्षणेन कर्मणा न लिप्यत उभयस्यापि संसारबन्धहेतुत्वान्न संबध्यते। इतिशब्द ऋक्समाप्तिद्योतकः। तर्ह्येतद्वेदनं कथं स्यादित्यत आह—तस्मादिति। यस्मादुक्तलक्षणो महिमा तस्मादेवंवित्कर्मादिसंबन्धशून्य इत्यापाततो जानन्प्रथमं दान्त उपरतबाह्येन्द्रियव्यापारोऽनन्तरं शान्तोऽन्तःकरणतृष्णातो निवृत्तस्तत उपरतसर्वेषणाविनिर्मुक्तो विधिना त्यक्तसर्वकर्मा संन्यासी तितिक्षुर्जीवनाविच्छेदिशीतोष्णादिद्वंद्वसहिष्णुः समाहितः सम्यगात्मन्याहितचित्तो भूत्वाऽऽत्मन्येवस्वे कार्यकरणसंघात एवाऽऽत्मानं प्रत्यक्चेतयितारं पश्यति साक्षात्करोति। किमेतावत्परिच्छिन्नमेव नेत्याह—सर्वमिति। सर्वं समस्तमेवाऽऽत्मानं पश्यति न तदतिरिक्तं किमपि। ततः किं स्यादित्यत आह—नेति। एवमात्मानं पश्यन्तमेनं ब्राह्मणं पाप्मा धर्माधर्मकाम्यनिषिद्धलक्षणो न तरति न प्राप्नोति। कुतो यतोऽयमुक्तरूपं सर्वं पाप्मानं तरत्यात्मभावेन व्याप्नोति।किंच। एनं पाप्मा कृताकृतलक्षणः स्वफलोत्पादनेन न तपति। कुतो यतोऽयं
सर्वं पाप्मानं तपति विपापो विरजोऽविचि-
कित्सो ब्राह्मणो भवत्येष ब्रह्मलोकः सम्राडेनं
प्रापितोऽसीति होवाच याज्ञवल्क्यः सोऽहं
भगवते विदेहान्ददामि मां चापि सह दास्या-
येति॥२३॥ स वा एष महानज आत्माऽन्नादो
वसुदानो विन्दते वसु य एवं वेद॥२४॥ स
वा एष महानजआत्माऽजरोऽमरोऽमृतोऽभयो
___________________________________________________________________
सर्वंपाप्मानं कृताकृतलक्षणं सर्वात्मदर्शनवह्निना तपति भस्मी करोति। अत एव विगतं पापं धर्माधर्मलक्षणं यस्य स विपापः। विगतो रजः कामो यस्य स विरजः। अत एवाविचिकित्सश्छिन्न संशयः। एवंभूत एतस्यामवस्थायां मुख्यब्राह्मणो भवतीतरत्र त्वमुख्यः। एवमुपदिष्टां सफलां विद्यां मुनिरुपसंहरतीत्याहं—एष इति। हे सम्राडेष सर्वात्मलक्षणो ब्रह्मैव लोको ब्रह्मलोकस्त्वमेनं प्रोपितोऽसीति ह याज्ञवल्क्य उवाच। राजाऽपि स्वात्मनो विद्यालाभं द्योतयितुं तन्निष्क्रयार्थमाह स इति। सोऽहमेवं त्वया ब्रह्मभावं प्रापितो भगवते तुभ्यं विदेहान्देशान्ददामि मां चापि सह विदेहैर्लोकैर्दास्याय दासकर्मणे ददामि। इतिशब्द आख्यायिकयोक्तसफलविद्यासमाप्तिद्योतकः॥२३॥
अथ सोपाधिकब्रह्मध्यानं सफलं प्रतिपत्तिसौकर्यार्थ श्रुतिरेवाऽऽह—स वा इति। यो राजमुन्याख्यायिकोक्तः स वा एष महानज आत्माऽन्नादः सर्वभूतस्थः सन्सर्वान्नात्ता। यद्वा जगदात्मकस्यान्नस्यात्ता संहारकः। यद्वाऽन्नमासमन्ताद्ददातीत्यन्नादः। वसु धनं भोगसाधनं कर्मफलं ददातीति वसुदानः। य एवमुक्तगुणमात्मानं वेदाहं ग्रहेणोपास्ते स वसु कर्मफलजातं विन्दते लभते। अन्नं च सर्वभूतेष्वत्ति सर्वात्मत्वात्। एतच्च रातिरित्यादेः प्रपञ्च इत्यर्थः॥२४॥
अथ तिष्ठमानस्येत्याद्युक्तं निर्गुणब्रह्मज्ञानं सफलमाह—स इति। स वा एष उक्तरूपो विज्ञानमयो महानवच्छेदकोपाधिरहितोऽत एवं स्वतोऽजो जन्मरहित आत्मात एवाजरो जरारहितोऽत एवामरः प्राणत्यागरूपमरणरहितोऽत एवामृतो निरन्वयनाशशून्योऽत एवाभयोभयहेत्वविद्यापगमादत एव
ब्रह्माभयं वै ब्रह्माभयँ हि वै ब्रह्म भवति य
एवं वेद॥२५॥
इति बृहदारण्यकोपनिषदि चतुर्थाध्यायस्य चतुर्थंब्राह्मणम्॥४॥
अथ ह याज्ञवल्क्यस्य द्वेभार्ये बभूवतुर्मैत्रेयी
च कात्यायनी च तयोर्ह मैत्रेयी ब्रह्मवादिनी
बभूव स्त्रीप्रज्ञैव तर्हि कात्यायन्यथ ह याज्ञव-
ल्क्योऽन्यद्वृत्तमुपाकरिष्यन्॥१॥ मैत्रे-
यीति होवाच याज्ञवल्क्यः प्रव्रजिष्यन्वा अरेऽ-
हमस्मात्स्थानादस्मि हन्त तेऽनया कात्याय-
न्याऽन्तं करवाणीति॥२॥ सा होवाच मैत्रेयी
यन्नु म इयं भगोः सर्वा पृथिवी वित्तेन पूर्णा
स्यात्स्यां न्वहं तेनामृताऽऽहो३ नेति नेति
होवाच याज्ञवल्क्यो यथैवोपकरणवतां जीवितं
___________________________________________________________________
ब्रह्म सत्यज्ञानादिलक्षणम्। नन्वभयत्वेऽप्यस्य ब्रह्मत्वं कथमित्यत आह—अभयमिति। अभयं वै प्रसिद्धं ब्रह्म। एवं यथोक्तमात्मानमभयं ब्रह्म यो वेद सोऽभयं ब्रह्मैव हि भवति मुक्तो भवति। एवं श्रुत्या सफलोऽपि सर्वोपनिष-दर्य एतावदेवैतज्ज्ञात्वा कृतकृत्यो भवेदिति करुणया निरूपितः। सृष्ट्यादिनिरूपणं हि केवलस्वरूपबोधनार्थमेव न तु तत्र तात्पर्यमत एव तत्र तत्रान्ते नेति नेत्यादिनिर्देशः क्रियत इति समापितः शास्त्रार्थः सकलोऽपि॥२५॥
इति श्रीबृहदारण्यकव्याख्यायां मिताक्षराख्यायां चतुर्थाध्यायस्य चतुर्थं ब्राह्मणम्॥४॥
__________
एवमागमोपपत्तिप्रधानाभ्यां मधुमुनिकाण्डाभ्यां निरूप्यान्तेऽप्युपसंहृतस्य निगमनार्थमागमप्रधानं मैत्रेयीब्राह्मणमारभ्यते—अथेति। अथ हेतूपदेशानन्तरं प्रतिज्ञातोऽर्थो निगम्यते ह किल याज्ञवल्क्यस्य मैत्रेयी कात्यायनी चेति द्वे भार्ये पत्न्यौ बभूवतुस्तयोर्मध्ये ह मैत्रेयी ब्रह्मवादिनी ब्रह्मवदनशीला बभूव यस्मिन्काले तर्हि तस्मिन्काले कात्यायनी तु स्त्रीप्रज्ञैव स्त्रिया उचिता या प्रज्ञा गृहप्रयोजनान्वेषणलक्षणा सैव विद्यते यस्यां सा स्त्रीप्रज्ञैव बभूवेत्यनुषङ्गः।
तथैव ते जीवितँस्यादमृतत्वस्य तु नाऽऽशाऽ-
स्ति वित्तेनेति॥३॥ सा होवाच मैत्रेयी येनाहं
नामृता स्यां किमहं तेन कुर्यां यदेव भगवान्वेद
तदेव मे ब्रूहीति॥४॥ स होवाच याज्ञवल्क्यः
प्रिया वै खलु नो भवती सती प्रियमवृधद्धन्त
तर्हि भवत्येतद्व्याख्यास्यामि ते व्याचक्षाणस्य
तु मे निदिध्यासस्वेति॥५॥ स होवाच
न वा अरे पत्युः कामाय पतिः प्रियो भव-
त्यात्मनस्तु कामाय पतिः प्रियो भवति। न
वा अरे जायायै कामाय जाया प्रिया भवत्या-
त्मनस्तु कामाय जाया प्रिया भवति। न
वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्त्या-
रमनस्तु कामाय पुत्राः प्रिया भवन्ति। न
वा अरे वित्तस्य कामाय वित्तं प्रियं भवत्या-
त्मनस्तु कामाय वित्तं प्रियं भवति। न वा
अरे पशूनां कामाय पशवः प्रिया भवन्त्या-
त्मनस्तु कामाय पशवः प्रिया भवन्ति।
न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भव-
त्यात्मनस्तु कामाय ब्रह्म प्रियं भवति। न
वा अरे क्षत्त्रस्य कामाय क्षत्त्रं प्रियं भवत्या-
त्मनस्तु कामाय क्षत्रं प्रियं भवति। न वा
___________________________________________________________________
अथैवं सति ह याज्ञवल्क्यः पूर्वस्माद्गार्हस्थ्यलक्षणाद्वृत्तादन्यत्पारिव्राज्यलक्षणं वृत्तमुपाकरिष्यन्नुपाचिकीर्षुः सन्हे मैत्रेयीति ज्येष्ठां भार्यामामत्र्य होवाचेत्यादि पूर्वमैत्रेयीब्राह्मणसमानार्थम्। स्यां न्वहमित्यत्र नु अहमिति च्छेदः॥१॥२॥३॥४॥
प्रिया वै खल्वित्यादौ भवती त्वं पूर्वमपि नोऽस्मभ्यं प्रियैव सती-
अरे लोकानां कामाय लोकाः प्रिया भव-
न्त्यात्मनस्तु कामाय लोकाः प्रिया भवन्ति।
न वा अरे देवानां कामाय देवाः प्रिया भव-
न्त्यात्मनस्तु कामाय देवाः प्रिया भवन्ति।
न वा अरे वेदानां कामाय वेदाः प्रिया भव-
न्त्यात्मनस्तु कामाय वेदाः प्रिया भवन्ति।
न वा अरे भूतानां कामाय भूतानि प्रियाणि
भवन्त्यात्मनस्तु कामाय भूतानि प्रियाणि भव-
न्ति। न वा अरे सर्वस्य कामाय सर्वं प्रियं
भवत्यात्मनस्तु कामाय सर्वं प्रियं भवति।
आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो
निदिध्यासितव्यो मैत्रेय्यात्मनि खल्वरे दृष्टे
श्रुते मते विज्ञात इदँ सर्वं विदितम्॥६॥
ब्रह्म तं परादाद्योऽन्यत्राऽऽत्मनो ब्रह्म वेद
क्षत्रं तं परादाद्योऽन्यत्राऽऽत्मनः क्षत्रं वेद
लोकास्तं परादुर्योऽन्यत्राऽऽत्मनो लोकान्वेद
देवास्तं परादुर्योऽन्यत्राऽऽत्मनो देवान्वेद
वेदास्तं परादुर्योऽन्यत्राऽऽत्मनो वेदान्वेद भूता-
नि तं परादुर्योऽन्यत्राऽऽत्मनो भूतानि वेद
सर्वं तं परादाद्योऽन्यत्राऽऽत्मनः सर्वंवेदेदं
ब्रह्मेदंक्षत्रमिमे लोका इमे देवा इमे वेदा
इमानि भूतानीदँसर्वंयदयमात्मा॥७॥
स यथा दुन्दुभेर्हन्यमानस्य न बात्द्याञ्छब्दा-
ञ्छक्नुयाद्ग्रहणाय दुन्दुभेस्तु ग्रहणेन दुन्दु-
भ्याघातस्य वा शब्दो गृहीतः॥८॥ स
यथा शङ्खस्य ध्मायमानस्य न बाह्याञ्छ-
ब्दाञ्छक्नुयाद्ग्रहणाय शङ्खस्य तु ग्रह-
णेन शङ्ध्मस्य वा शब्दो गृहीतः॥९॥
स यथा वीणायै वाद्यमानायै न बात्द्या-
ञ्छब्दाञ्छक्नुयाद्ग्रहणाय वीणायैतु ग्रह-
णेन वीणावादस्य वा शब्दो गृहीतः॥१०॥
स यथाऽऽर्द्रैधाग्नेरभ्याहितस्य पृथग्धूमा विनि-
श्चरन्त्येवं वा अरेऽस्य महतो भूतस्य निश्व-
सितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गि-
रस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः
सूत्राण्यनुव्याख्यानानि व्याख्यानानीष्टँ हु-
तमाशितं पायितमयं च लोकः परश्चलोकः
सर्वाणि च भूतान्यस्यैवैतानि सर्वाणि निश्वसि-
तानि॥११॥ स यथा सर्वासामपाँसमुद्र
एकायनमेवँ सर्वेषाँस्पर्शानां त्वगेकायनमे-
वँ सर्वेषां गन्धानां नासिके एकायनमेवँ
सर्वेषाँ रसानां जिह्वैकायनमेवँ सर्वेषाँ
रूपाणां चक्षुरेकायनमेवँ सर्वेषाँ शब्दानाँ
श्रोत्रमेकायनमेवँ सर्वेषाँ संकल्पानां मन
एकायनमेवँ सर्वासां विद्यानाँहृदयमेकायन-
मेवँ सर्वेषां कर्मणाँहस्तावेकायनमेवँ सर्वे-
षामानन्दानामुपस्थ एकायनमेवँ सर्वेषां
विसर्गाणां पायुरेकायनमेवँ सर्वेषामध्वना
___________________________________________________________________
दानीमपि प्रियमवृधद्वर्धितवत्यसि तर्हि हे भवति ते तुभ्यमित्यर्थः॥५॥॥६॥७॥८॥९॥१०॥
पादावेकायनमेवँ सर्वेषां वेदानां वागेकाय-
नम्॥१२॥ स यथा सैन्धवधनोऽनन्तरोऽ-
बाह्यः कृत्स्नो रसघन एवैवं वा अरेऽयमात्माऽ-
नन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एवैतेभ्यो
भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य
संज्ञाऽस्तीत्यरे ब्रवीमीति होवाच याज्ञ-
वल्क्यः॥१३॥ सा होवाच मैत्रेय्यत्रैव
मा भगवान्मोहान्तमापीपिपन्न वा अहमिमं
विजानामीति स होवाच न वा अरेऽहं मोहं
ब्रवीम्यविनाशी वा अरेऽयमात्माऽनुच्छित्ति-
धर्मा॥१४॥ यत्र हि द्वैतमिव भवति
तदितर इतरं पश्यति तदितर इतरं जिघ्रति
तदितर इतरँ रसयते तदितर इतरमभिवदति
तदितर इतरँ शृणोति तदितर इतरं मनुते
तदितर इतरँ स्पृशति तदितर इतरं विजा-
नाति यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्ये-
त्तत्केन कं जिघ्रेत्तत्केन कँरसयेत्तत्केन कम-
भिवदेत्तत्केन कँशृणुयात्तत्केन कं मन्वीत
तत्केन कँस्पृशेत्तत्केन कं विजानीयाद्येनेदँ
सर्वं विजानाति तं केन विजानीयात्स एष
नेति नेत्यात्माऽगृह्यो न हि गृह्यतेऽशीर्यो न
_________________________________________________________________
इष्टँहुतमित्यादि षडाचार्यब्राह्मणोक्तार्थम्॥११॥१२॥१३॥
मोहान्तं मोहमध्यमापीपिपदापादितवानसीत्यर्थः॥१४॥
चतुर्ष्वप्यध्यायेषूपायभेदेनोक्तमुपेयमात्मतत्त्वमेकमेवेत्युपसंहरति—स एष
हि शीर्यतेऽसङ्गोन हि सज्यतेऽसितो न व्यथते
न रिष्यति विज्ञातारमरे केन विजानीयादित्यु-
क्तानुशासनाऽसि मैत्रेय्येतावदरे खल्वमृतत्व-
मिति होक्त्वा याज्ञवल्क्यो विजहार॥१५॥
इति बृहदारण्यकोपनिषदि चतुर्थाध्यायस्य पञ्चमं ब्राह्मणम्॥५॥
अथ वँशः पौतिमाष्यो गौपवनाद्गोपवनः
पौतिमाष्यात्पौतिमाष्यो गौपवनाद्गौपवनः
कौशिकात्कौशिकः कौण्डिन्यात्कौण्डिन्यः
शाण्डिल्याच्छाण्डिल्यः कौशिकाच्च गौतमाच्च
गौतमः॥१॥ आग्निवेश्यादाग्निवेश्यो गार्ग्य-
द्गार्ग्योगार्ग्याद्गार्ग्योगौतमाद्गौतमः सैतवा-
त्सैतवः पाराशर्यायणात्पाराशर्यायणो गार्ग्या-
यणाद्गार्ग्यायण उद्दालकायनादुद्दालकायनो
जाबालायनाज्जाबालायनो माध्यंदिनायना-
न्माध्यंदिनायनः सौकरायणात्सौकरायणः का-
षायणात्काषायणः सायकायनात्सायकायनः
कौशिकायनेः कौशिकायनिः॥२॥ घृत-
कौशिकाद्घृतकौशिकः पाराशर्यायणात्पारा-
शर्यायणः पाराशर्यात्पाराशर्यो जातूकर्ण्याज्जा-
___________________________________________________________________
नेति नेत्यादिना शाकल्यब्राह्मणोक्तार्थेन। यतोऽरे मैत्रेय्येतावदेव ससंन्यासं नेति नेत्याद्युक्तरूपमात्मज्ञानमेवामृतत्वममृतत्वसाधनं त्वया विज्ञेयमित्युक्त्वा ह याज्ञवल्क्यो विजहार प्रतिज्ञातं संन्यासं कृतवानित्यर्थः। अन्यत्पाठान्तरमपि समानार्थं सुखबोधं चेत्युपरम्यते। एतावता परिसमाप्तो ब्रह्मविद्याख्यः शास्त्रार्थः सकलोऽपि॥१५॥
इति श्रीबृहदारण्यकमिताक्षरायां चतुर्थाध्याये पञ्चमं
मैत्रेयीब्राह्मणम्॥ ५॥
_________
अथ साङ्गोपाङ्गात्मविद्याकथनानन्तरं याज्ञवल्कीयकाण्डस्य वंशः कथ्यते।
तूकर्ण्य आसुरायणाच्च यास्काच्चाऽऽसुरायण-
स्त्रैवणेस्त्रैवणिरौपजन्धनेरौपजन्धनिरासुरेरासुरि-
र्भारद्वाजाद्भारद्वाज आत्रेयादात्रेयो माण्टेर्मा-
ण्टिर्गौतमाद्गौतमोगौतमाद्गौतमो वात्स्याद्वा-
त्स्यः शाण्डिल्याच्छाण्डिल्यः कैशोर्यात्का-
प्यात्कैशोर्यः काप्यः कुमारहारितात्कुमारहा-
रितो गालवाद्गालवो विदर्भीकौण्डिन्याद्विदर्भी-
कौण्डिन्यो वत्सनपातो बाभ्रवाद्वत्सनपाद्बा-
भ्रवः पथः सौभरात्पन्थाः सौभरोऽयास्यादाङ्गि-
रसादयास्य आङ्गिरस आभूतेस्त्वाष्ट्रादाभूति-
स्त्वाष्ट्रो विश्वरूपात्त्वाष्ट्राद्विश्वरूपस्त्वाष्ट्रोऽश्वि-
भ्यामश्विनौ दधीच आथर्वणाद्दध्यङ्ङाथर्व-
णोऽथर्वणो दैवादथर्वा दैवो मृत्योः प्राध्वँ
सनान्मृत्युः प्राध्वँसनः प्रध्वँसनात्प्रध्वँ-
सनएकर्षेरेकर्षिर्विप्रचित्तेर्विप्रचित्तिर्व्यष्टेर्व्यष्टिः
सनारोः सनारुः सनातनात्सनातनः सनगात्स-
नगः परमेष्ठिनः परमेष्ठी ब्रह्मणो ब्रह्म स्वयंभु
ब्रह्मणे नमः॥३॥
इति बृहदारण्यकोपनिषदि चतुर्थाध्याये षष्ठं ब्राह्मणम्॥६॥
इति श्रीबृहदारण्यकोपनिषदि चतुर्थोऽध्यायः॥४॥
____________
बृहदारण्यकक्रमेण षष्ठोऽध्यायः॥६॥
शेषं मधुकाण्डवंशब्राह्मणव्द्याख्येयम्॥१॥२॥३॥
इति श्रीबृहदारण्यकमिताक्षरायां चतुर्थाध्याये षष्ठं
वंशब्राह्मणं समाप्तम्॥६॥
___________
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीपुरुषोत्तमाश्रमपूज्यपादशिष्यनित्यानन्दाश्रमविरचितायां मिताक्षराख्यायां बृहदारण्यकव्याख्यायां चतुर्थोऽध्यायः॥४॥
अथ पञ्चमोऽध्यायः।
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते। ॐ
खं ब्रह्म। खं पुराणं वायुरं खमिति ह
स्माऽऽहकौरव्यायणीपुत्रो वेदोऽयं ब्राह्मण
___________________________________________________________________
एवं काण्डद्वयाभ्यां निरूपितस्यैव निरुपाधिकब्रह्मण उपाधिवैशिष्ट्यमापन्नस्याभ्युदयक्रममुक्तिकर्मसमृद्ध्यर्थान्युपासनानि विधातुं खिलकाण्डं पूर्वानुक्तवक्तव्यत्वेन परिशिष्टलक्षणं प्रवर्तते। तत्र सर्वोपास्त्यङ्गभूतानोंकारो दमो दानं दयेत्येतान्विधित्सन्ती श्रुतिस्तावदुपास्यब्रह्मणः शुद्धत्वप्रसिद्धये तादृशं स्वरूपं मन्त्रेणानुवदति—पूर्णमिति। अदः परोक्षं ब्रह्म पूर्णमाकाशवव्द्यापि निरन्तरं निरुपाधिकं यदिदं नामरूपोपाधिविशिष्टं व्यवहारापन्नंतदपि स्वेन निरुपाध्यात्मरूपेणैव पूर्णं न तु विशिष्टेन। एवं तत्त्वंपदयोः क्रमेण लक्ष्यांशमुक्त्वा तयोरेव वाच्यांशं कथयंस्त्वंपदार्थस्य पूर्णत्वे हेतुमाह—पूर्णादिति। तदिदं विशेषरूपायन्नं ब्रह्म पूर्णात्कारणात्मनः सकाशात्पूर्णमवोदच्यत उद्रिच्यत उद्गच्छति पूर्णात्मस्वभावस्य त्यागायोगात्। एतज्ज्ञानफलं लक्ष्ययोरैक्यापत्तिरूपमाह—पूर्णस्येति। पूर्णस्य कार्यात्मनो ब्रह्मणः पूर्णं पूर्णत्वमेकरसत्वलक्षणमादाय गृहीत्वाऽऽत्मस्वरूपैकरसत्वमापाद्य विद्ययाऽऽविद्यकोपाधिसंसर्गतिरस्कारपूर्वकं पूर्णमेव निरन्तरं प्रज्ञानघनैकरसस्वभावं केवलं ब्रह्मवशिष्यते। अयं तु ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेदहं ब्रह्मास्मीति तस्मात्तत्सर्वमभवदित्युपक्रमस्थश्रुत्यर्थ एव मन्त्रेणोपसंहृतः सर्वस्य ब्रह्मात्मैकत्वनिर्णयार्थमित्यर्थः। अथ ब्रह्मण ओंकारालम्बनत्वेन ध्यानमाह—ॐ खं ब्रह्मेति मन्त्रः। ओंकारः खं ब्रह्मेति ध्येयः शालग्रामो विष्णुरितिवत्। अत्र ब्रह्मविशेषणस्य खशब्दस्य कोऽर्थं इत्यतो ब्राह्मणं तदर्थमाह—खमिति। खमिति पुराणं चिरंतनमेव ब्रह्मोच्यते। कल्पान्तरमाह—वायुरं खमिति। वायुर्विद्यते यस्मिंस्तद्वायुरं खं भौतिकाकाशं तदवच्छिन्नं ब्रह्मोंकारालम्बनमिति कौरव्यायणीपुत्रो हाऽऽह स्मोक्तवानितीक्षया ध्यानं कर्तव्यमित्यर्थः। एवं प्रतीकपक्षमुक्त्वा यथोक्तब्रह्मण ओंकारवाच्यत्वमिति पक्षान्तरमाह—वेद इति। अयमोंकारो वेद इति ब्राह्मणा ब्रह्म-
विदुर्वेदैनेन यद्वेदितव्यम्॥१॥
इति बृहदारण्यकोपनिषदि पञ्चमाध्यायस्य प्रथमं ब्राह्मणम्॥१॥
त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यमूषुर्देवा मनुष्या असुरा उषित्वा ब्रह्मचर्यं देवा ऊचुर्ब्रवीतु नो भवानिति तेभ्यो हैतदक्षरमुवाच द इति व्यज्ञासिष्टा३ इति व्यज्ञासिष्मेति होचुर्दाम्यतेति न आत्थेत्योमिति होवाच व्यज्ञासिष्टेति॥१॥ अथ हैनं मनुष्या ऊचुर्ब्रवीतु नो भवानिति तेभ्यो हैतदेवाक्षरमुवाच द इति व्यज्ञासिष्टा३ इति व्यज्ञासिष्मेति होचुर्दत्तेति न
___________________________________________________________________
विदो विदुर्ज्ञातवन्तः। कुतो यस्माद्यद्वेदितव्यं ज्ञातव्यं ब्रह्मैनेनोंकारेण वेद जानाति प्रसिद्ध वेदस्यापि वेदत्वं वेदन हेतुत्वादेवेत्यर्थः॥१॥
इति मिताक्षरायां पञ्चमाध्याये प्रथमं ब्राह्मणम्॥१॥
-
*
एवमाभ्यन्तरं सर्वोपास्तिसाधनमोंकारमुक्त्वा बाह्यं शमादित्रयं विधातुं तावदर्थवादमाह—त्रया इति। त्रयस्त्रिप्रकाराः प्राजापत्याः प्रजापतेरपत्यभूताः प्रजापतौ विराडात्मनि पितरि समीपे शिष्याः सन्तो ब्रह्मचर्यमूषुरुषितवन्तः। के त इत्यत आह—देवा मनुष्या असुरा इति। एते त्रयो ब्रह्मचर्यमुषित्वा प्रथमं देवाः पितरमूचुः। किं भवान्नोऽस्मभ्यमनुशासनं न्नवीतुकथय। तेभ्यो हैवमर्थिभ्यो द इत्येतदक्षरं वर्णमात्रमुवाचोक्त्वा च पिता पप्रच्छ किं मयोपदिष्टस्याक्षरस्यार्थं यूयं व्यज्ञासिष्टा३ इति प्लुतिर्विचारार्था विज्ञातवन्तो न वेति। देवा ऊचुर्व्यज्ञासिष्म विज्ञातवन्तो वयमिति। तार्ह किं मयोक्तमित्युच्यतामित्यत आह—दाम्यतेति। स्वभावतोऽदान्ता अदमनशीला यूयमतो दाम्यत दान्ता भवतेति त्वं नोऽस्मानात्थ कथयसीति स्वाभिप्रायानुसारेण देवा ज्ञातवन्त इत्यर्थः। पितोवाच—ओमिति। अङ्गीकृतमेव स्पष्टयति—व्यज्ञासिष्टेति। सम्यग्विज्ञातं भवद्भिरित्यर्थः॥१॥
तथा स्वभावतो लुब्धा यूयमतो दत्त यथाशक्त्यन्नादिकं विभजतेति
आत्थेयोमिति होवाच व्यज्ञासिष्टेति॥२॥
अथ हैनमसुरा ऊचुर्ब्रवीतु नो भवानिति तेभ्यो
हैतदेवाक्षरमुवाच द इति व्यज्ञासिष्टा३ इति
व्यज्ञासिष्मेति होचुर्दयध्वमिति न आत्थेयो-
मिति होवाच व्यज्ञासिष्टेति तदेतदेवैषा देवी
वागनुवदति स्तनयित्नुर्द द द इति दाम्यत
दत्त दयध्वमिति तदेतत्रयँ शिक्षेद्दमं दानं
दयामिति॥३॥
इति बृहदारण्यकोपनिषदि पञ्चमाध्यायस्य द्वितीयं ब्राह्मणम्॥२॥
एष प्रजापतिर्यद्हृदयमेतद्ब्रह्मेतत्सर्वं तदेतत्त्र्य-
___________________________________________________________________
मनुष्यपर्यायतात्पर्यार्थः। समानमन्यत्॥२॥
तथा स्वभावतो हिंसादिपरा यूथमतो दयध्वं प्राणिषु दयां कुरुतेत्यासुरपर्यायार्थः। एवं प्राजापत्यमनुशासनं प्रागासीदित्यत्र लिङ्गमाह—तदिति। तदेतत्प्रजापतेरनुशासनमेषा दैवी वागनुवदति। का कथं वेत्यत आह—स्तनयित्नुरिति। स्तनयित्नुर्मेघदेवो द द द इत्यनुवदति। अस्याः कोऽर्थ इत्यत आह—दाम्यत दत्त दयध्वमिति। एतत्रितयोपलक्षणार्थं त्रिदकारोच्चारणमित्यर्थः। यं स्तोतुमयमर्थवादः प्रवृत्तस्तं विधेयमाह—तदिति। यस्मात्प्रजापतिः स्तनयित्नुरूपेणानुशास्त्येव तत्तस्मात्कारणाद्दमं दानं दयामित्येतत्रयं शिक्षेदुपादद्यादाधुनिको मनुष्य इत्यर्थः॥३॥
इति श्रीबृहदारण्यके मिताक्षरायां पञ्चमाध्याये द्वितीयं ब्राह्मणम्॥२॥
___________
अथ सोपाधिकस्य ब्रह्मणो ध्यानभेदोक्त्यर्थमुत्तरग्रन्थजातं प्रवर्तते। तत्रैवमनुशासिता प्रजापतिः क इत्यत आह—एष इति। एष प्रजापतिः को यत्सर्वदिग्देवताश्रयत्वेन शाकल्यब्राह्मणोक्तमेतद्धृदयं हृदयस्था बुद्धिरित्यर्थः। नन्वेतस्य सूक्ष्मत्वात्कथं प्रजापतिना सहाभेद इत्यत आह—एतत्सर्वमिति। एतद्धृदयं सर्व सर्वात्मकं शाकल्यब्राह्मणोक्तरीत्यैव। अस्योपास्यत्वार्थं ब्रह्मत्वमाह—एतद्ब्रह्मेति। एतहृदयं ब्रह्मेत्येवं निरन्तरमुपास्यम्। हृदयनामाक्षरोपासनार्थमाह—तदिति। तदेतद्धृदयमिति नाम त्र्यक्षरं त्रीण्यक्षराणि यस्येति
क्षरँहृदयमिति हृ इत्येकमक्षरमभिहरन्त्यस्मै
स्वाश्चान्ये च य एवं वेद द इत्येकमक्षरं दद-
त्यस्मै स्वाश्चान्ये च य एवं वेद यमित्येकमक्ष-
रमेति स्वर्गं लोकं य एवं वेद॥१॥
इति बृहदारण्यकोपनिषदि पञ्चमाध्यायस्य तृतीयं ब्राह्मणम्॥३॥
तद्वै तदेतदेव तदास सत्यमेव स यो हैतं महद्यक्षं प्रथ-
मजं वेद सत्यं ब्रह्मेति जयतीमाल्ँ लोकाञ्जित इन्न्वसावस-
_________________________________________________________________
व्युत्पत्तेः। कानि तानीति वीक्षायां क्रमेण सफलं त्रयमाह—हृ इति। यस्मादस्मै हृदयब्रह्मणे स्वा इन्द्रियाण्यन्ये च विषयाः शब्दादयः स्वं स्वं कार्यमभिहरन्ति हृदयं च भोक्त्रर्थं स्वविषयसुखादिकमभिहरति तस्माद्धृदयनामाक्षरत्वेन संबद्धमेकमक्षरं हृतेर्हरतिकर्मणो हृ इत्येतद्रूपं यो वेदास्मै विदुषे स्वा ज्ञातयोऽन्ये च संबन्धिनोऽभिहरन्ति बलिमिति वाक्यशेषः। तथा यस्मादस्मै पूर्वोक्तब्रह्मणे स्वा अन्ये चोक्ताः स्वं स्वं वीर्यमाददति तस्माद्ददातेर्द इत्येद्रूपंपूर्ववद्योवेदास्मै स्वाश्चान्ये च स्वं स्वं वीर्यमाददति। यस्माच्चोक्तब्रह्म प्रति स्वाअन्ये च यन्ति तस्मादिणो गत्यर्थस्य यमित्येतद्रूपं पूर्ववद्यो वेद स स्वर्गं लोकं प्रत्येतीत्येतद्विज्ञानानुरूपं फलम्। एतदक्षरोपासनमुपास्यहृदय-ब्रह्मणः स्तुत्यर्थं न त्विदमक्षरोपासनमपि स्वतन्त्रमित्यर्थः॥१॥
इति बृहदारण्यके पञ्चमाध्याये तृतीयं ब्राह्मणम्॥३॥
_________
एतस्यैव हृदयब्रह्मणः सत्यात्मनोपासनमाह—तदिति। तद्वै हृदयं ब्रह्म तद्विधान्तरमेतदेव वक्ष्यमाणप्रकारं तदेव हृदयं ब्रह्माऽऽसवर्तते। कोऽसौ प्रकार इत्यत आह—सत्यमिति। यद्वदयात्मनोक्तं तत्सत्यमेव सच्च त्यच्च सत्त्यंपञ्चभूतात्मकमाधिदैविकं तत्त्वं हिरण्यगर्भात्मकमित्यर्थः। तस्य स्वरूपकथनपूर्वकं तद्विज्ञानफलमाह—स इति। यः साधको हैतं महदपरिच्छेद्यमतो यक्षं पूज्यं प्रथमजैसर्वस्माद्विराडादेः सकाशात्पूर्वोत्पन्नमेवंविधं सत्यं ब्रह्म वेदोपास्ते स इमान्भूरादीलोँकाञ्जयति सत्यब्रह्मवत्। किंच। इन्नु, इत्थं यथा सत्यब्रह्मणाऽनृतशत्रुर्जितस्तथोपासकेनाप्यसौ शत्रुर्जितस्तथाभूतः सन्नसच्च नष्टश्च भवेदिति। कथमेतदुपासकस्यैतत्फलमित्यपेक्षायामुक्तानुवादपूर्वकं
द्य एवमेतन्महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति
सत्यँ ह्येव ब्रह्म॥१॥
इति बृहदारण्यकोपनिषदि पञ्चमाध्यायस्य चतुर्थं ब्राह्मणम्॥४॥
आप एवेदमग्र आसुस्ता आपः सत्यमसृजन्त
सत्यं ब्रह्म ब्रह्म प्रजापतिं प्रजापतिर्देवाँस्ते
देवाः सत्यमेवोपासते तदेतत्र्यक्षरँ सत्यमिति
स इत्येकमक्षरं तीत्येकमक्षरं यमित्येकमक्षरं
प्रथमोत्तमे अक्षरे सत्यं मध्यतोऽनृतं तदेतदनृ-
___________________________________________________________________
आह—य एवमेतं महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति। हि यस्मात्सत्यमेव तथोक्तरीत्या लोकजिच्छत्रुजिच्च तस्मात्तदुपासकस्याप्युपासनानुरूपमुक्तफलं ×मेवेत्यर्थः॥१॥
इति श्रीबृहदारण्यकमिताक्षरायां पञ्चमाध्याये चतुर्थं ब्राह्मणम्॥४॥
_______
अथास्य सत्यब्रह्मणः स्तुत्यर्थं प्रथमजत्वं साधयति—आप इति। आपः पयः××माद्यात्मिका हूयमानाः सूक्ष्मभूता भूतान्तरसहिता जगद्वीजभूता अव्याकृता-××नवस्थिता एवेदं सर्वं विकारजातं जगदग्रे सृष्टेः पूर्वमासुर्नान्यत्किंचित्। ता ×कलक्षणाः पुनरापः सत्यं सूत्रात्मकं हिरण्यगर्भमसृजन्त सृष्टवत्यः। तस्य हृद×ब्रह्मणो भेदशङ्कां वारयति—सत्यं ब्रह्मेति। एवं प्रथमजत्वं प्रसाध्य महत्त्वं ×धयति—ब्रह्मेति। तत्सत्यं ब्रह्म हिरण्यगर्भाख्यं प्रजानां पतिं विराजमसृ××। स च प्रजापतिर्देवानसृजतेत्यनुषङ्गः। अथ यक्षत्वमाह—त इति। तस्मादेवं सृष्टास्ते देवाः पितरमपि विराजमतीत्य सत्यमेव सत्यं ब्रह्मैवोपा×त्रेऽतो यक्षमित्यर्थः। हृदयब्रह्मवदस्यापि वर्णत्रयात्मकं नामाऽऽह—तदिति। ×तत्सत्यमिति नाम त्र्यक्षरम्। तत्र स इत्येकमक्षरं तीत्येकमक्षरमंत्र हलन्तत×रनिर्देशार्थमिकारोऽतुबन्धः। यमित्येकमक्षरम्। तेषां स्वरूपमाह— प्रथमेति। ×वां मध्ये प्रथमोत्तमे अक्षरे सकारयकारौ सत्यममृतं सस्वरत्वात्। मध्यतो द्वयेवर्तमानं तकाराक्षरमनृतं मृत्युरूपं निःस्वरत्वात्। तदेतदनृतं तकाराक्षरं
तमुभयतः सत्येन परिगृहीतँ सत्यभूयमेव
भवति नैवं विद्वाँसमनृतँहिनस्ति॥१॥
तद्यत्तत्सत्यमसौ स आदित्यो य एष एतस्मि-
न्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन्पुरुषस्तावे-
तावन्योन्यस्मिन्प्रतिष्ठितौ रश्मिभिरेषोऽस्मिन्प्र-
तिष्ठितः प्राणैरयममुष्मिन्स यदोत्क्रमिष्यन्भ-
वति शुद्धमेवैतन्मण्डलं पश्यति नैनमेते रश्मयः
प्रत्यायन्ति॥२॥
_________________________________________________________________
मृत्युरूपमुभयतः पूर्वोत्तरतः सत्येन सकारयकारलक्षणेन परिगृहीतं व्याप्तमन्तर्भावितमतस्तस्याकिंचित्करत्वात्सत्यभूयमेव सत्यबाहुल्यमेव भवति। ज्ञानानुरूपं फलमाह—नेति। एवं सत्यबाहुल्यमनृतस्याकिंचित्करत्वं च विजानन्तमेनं विद्वांसमनृतं कदाचित्प्रमादोक्तं न हिनस्ति स्वफलदानेन न व्याप्नोतीत्यर्थः॥१॥
अस्यैव पुनः स्थानविशेष उपासनमाह—तदिति। तद्यत्सत्यं ब्रह्म पूर्वोक्तं तदसौ स प्रसिद्ध आदित्यः। कः। य एष एतस्मिन्प्रसिद्धे मण्डले पुरुषोऽभिमानी यश्च दक्षिणेऽक्षन्दक्षिणेऽक्षणि पुरुषः। तयोर्भेदशङ्कयोपासनभेदशङ्कां वारयति—ताविति। तावेतावादित्याक्षिस्थौ पुरुषावेकस्यैव सत्यब्रह्मणः स्थानविशेषौ यस्मात्तस्मादन्योन्यस्मिन्नादित्यश्चक्षुषि चाक्षुषश्चाऽऽदित्ये प्रतिष्ठितौ। कथमित्यत आह—रश्मिभिरिति। आदित्योऽस्मिंश्चक्षषि रश्मिभिः प्रकाशैरुपकुर्वन्प्रतिष्ठितः। अयं च चाक्षुषः प्राणैश्चक्षुरादिभिरिन्द्रियैर्मण्डलं प्रकाशयन्नमुष्मिन्नादित्ये प्रतिष्ठितः। अथ संसारिणः सावधानार्थं प्रासङ्गिकमरिष्टदर्शनमाह—स इति। स भोक्ता विज्ञानमयो यदा यस्मिन्काल उत्क्रमिष्यन्प्राणांस्त्यक्ष्यन्भवति तदा विज्ञानमय एतद्रविमण्डलं शुद्धमेव विरश्म्येव केवलं पश्यति। प्रकृतमुपकार्योपकारकत्वं निगमयति—नेति। एते रश्मय एनं चाक्षुषपुरुषं न प्रत्यायन्ति पूर्ववन्न पुनरावर्तन्ते भोक्तृकर्मक्षये सतीत्यर्थः॥२॥
य एष एतस्मिन्मण्डले पुरुषस्तस्य भूरिति
शिर एकँ शिर एकमेतदक्षरं भुव इति बाहू द्वौ
बाहू द्वेएते अक्षरे स्वरिति प्रतिष्ठा द्वेप्रतिष्ठे
द्वेएते अक्षरे तस्योपनिषदहरिति हन्ति पाप्मानं
जहाति च य एवं वेद॥३॥ योऽयं दक्षिणेऽ-
क्षन्पुरुषस्तस्य भूरिति शिर एकँ शिर एक-
मेतदक्षरं भुव इति बाहू द्वौ बाहू द्वेएते अक्षरे
स्वरिति प्रतिष्ठा द्वेप्रतिष्ठे द्वे एते अक्षरे तस्यो-
पनिषदहमिति हन्ति पाप्मानं जहाति च य
एवं वेद॥४॥
इति बृहदारण्यकोपनिषदि पञ्चमाध्यायस्य पञ्चमं ब्राह्मणम्॥५॥
___________________________________________________________________
अथैवमुक्तसत्यब्रह्मण एव व्याहृत्यवयवकत्वेन ध्यानमाह—य इति। य एष एतस्मिन्मण्डले पुरुषः सत्यनामा तस्य भूरिति प्रथमा व्याहृतिः शिरः। कुतः। यथा शिर एकं तथा भूरित्यक्षरमप्येकमित्येकत्वसामान्यात्। भुव इति बाहू हस्तौ द्वौ बाहू द्वे एते अक्षरे इति द्वित्वसामान्यात्। स्वरिति प्रतिष्ठा प्रतितिष्ठत्याभ्यामिति प्रतिष्ठे पादौ द्वे प्रतिष्ठे सुवरिति वर्णविश्लेषेणैते द्वे अक्षरे इति द्वित्वसामान्यात्। तस्य व्याहृत्यवयवस्य सत्यब्रह्मणोऽहरित्युपनिषद्देवतामुपनयतीत्युपनिषद्रहस्यं नामाभिधानमनेनाभिधीयमानमेतल्लोकवदभिमुखी भवति। उपास्तिफलमाह—हन्तीति। अहरित्येतद्रूपं हन्तेर्जहातेश्च यो वेद स पाप्मानं हन्ति जहाति च त्यजति च॥ ३॥
एवमाधिदैविकमुक्त्वाऽऽध्यात्मिकमाह—योऽयं दक्षिणेऽक्षन्नित्याद्युक्तार्थेन। अत्राप्यहमित्येतद्रूपं हन्तेर्जहातेर्वा यो वेदेति समानमित्यर्थः॥४॥
इति बृहदारण्यकोपनिषन्मिताक्षरायां पञ्चमाध्याये पञ्चमं ब्राह्मणम्॥५॥
_________
मनोमयोऽयं पुरुषो भाःसत्यस्तस्मिन्नन्तर्हृदये
यथा व्रीहिर्वा यवो वा स एष सर्वस्येशानः
सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं
किंच॥१॥
इति बृहदारण्यकोपनिषदि पञ्चमाध्यायस्य षष्ठं ब्राह्मणम्॥६॥
विद्युद्ब्रह्मेत्याहुर्विदानाद्विद्युद्विद्यत्येनं पाप्मनो
य एवं वेद विद्युद्ब्रह्मेति विद्युद्ध्येयेव ब्रह्म॥१॥
इति बृहदारण्यकोपनिषदि पञ्चमाध्यायस्य सप्तमं ब्राह्मणम्॥७॥
___________________________________________________________________
तस्यैव सत्यब्रह्मणः पुनर्मनउपाधित्वेनोपासनमाह—मन इति। अयं पुरुषो मनोमयो मनः प्रायस्तस्मिन्नुपलभ्यमानत्वादत एव भाःसत्यो भा एव सत्यं स्वरूपं यस्य स भाः सत्यो भास्वरः। तस्य ध्यानार्थमौपाधिकं परिमाणमाह—तस्मिन्निति। यथा व्रीहिर्वा यवो वा परिमाणत एवंपरिमाणो विज्ञानमयस्तस्मिन्प्रसिद्धेऽन्तर्हृदये हृदयमध्ये योगिभिर्दृश्यत इति शेषः। स्वाभाविकं त्वानन्त्यमित्यभिप्रेत्याऽऽह—स एष सर्वस्येशान इत्यायुक्तार्थम्। एतदेव निगमयति—यदिदं किंचेति। यत्किंचेदं जगत्तसर्वं प्रशास्तीत्यर्थः॥ १॥
इति बृहदारण्यकोपनिषन्मिताक्षरायां पञ्चमाध्याये
षष्ठं ब्राह्मणम्॥६॥
-
*
सत्यस्यैवाशेषपापध्वंसफलकमुपासनान्तरमाह—विद्युदिति। विद्युद्ब्रह्मेत्याहुर्ब्राह्मणाः। तस्य निर्वचनमाह—विदानादिति। विदानान्मेऽद्य पापान्धकारविदारणाद्विद्युत्। एतदुपासनफलमाह—विद्यतीति। यो विद्युद्ब्रह्मेति वेदैनमुपासकमाश्रित्य वर्तमानान्पाप्मनो विद्यत्यवखण्डयति विनाशयति ब्रह्मेत्यर्थः। अस्योपासनानुगुणत्वमाह—विद्युदिति। हि यस्माद्ब्रह्म विद्युत्तमोमूलकपापविदारकमेवेत्यर्थः॥१॥
इति बृहदारण्यकोपनिषन्मिताक्षरायां पञ्चमाध्याये
सप्तमं ब्राह्मणम्॥७॥
वाचं धेनुमुपासीत तस्याश्चत्वारः स्तनाः स्वा-
हाकारो वषट्कारो हन्तकारः स्वधाकारस्तस्यै
द्वौ स्तनौ देवा उपजीवन्ति स्वाहाकारं च वष-
ट्कारं च हन्तकारं मनुष्याः स्वधाकारं पित-
रस्तस्याः प्राण ऋषभो मनो वत्सः॥१॥
इति बृहदारण्यकोपनिषदि पञ्चमाध्यायस्याष्टमं ब्राह्मणम्॥८॥
अयमग्निर्वैश्वानरो योऽयमन्तः पुरुषे ये-
नेदमन्नं पच्यते यदिदमद्यते तस्यैष घो-
षो भवति यमेतत्कर्णावपिधाय शृणोति
____________________________________________________________________
अथ पुनस्तस्यैव वाङ्मयधेनुसंबन्धेनोपासनमाह—वाचमिति। वाचं वेदत्रयीलक्षणां धेनुरिव धेनुस्तामुपासीत। तत्र साम्यमाह—तस्याश्चत्वार इत्यादिना। तेषां विनियोगमाह—तस्या इति। तस्या धेन्वा द्वौ स्तनौ देवा उपजीवन्ति। कौ स्वाहाकारं च वषट्कारं चैताभ्यां हि देवेभ्यो हविर्दीयते। हन्तापेक्षितं गृहाणेत्युक्त्वा मनुष्येभ्योऽन्नं दीयतेऽतो हन्तकारं मनुष्या उपजीवन्तीति संबध्यते। तथा स्वधाकारं पितरः। तस्या उत्पादको वा स्तन्यमस्रवहेतुर्वा क इत्यत आह—तस्या इति। प्राण ऋषभ इव ऋषभः। प्राणबलेन हि वाक्प्रसूयतेऽप्राणस्य तदुच्चारणादर्शनात्। मनो वत्स इव। वत्समनसा ह्यालोच्य वाक्स्वाहाकाराद्यर्थं क्षरतीत्यर्थः॥१॥
इति बृहदारण्यकोपनिषन्मिताक्षरायां पञ्चमेऽष्टमं ब्राह्मणम्॥८॥
__________
प्रकृतस्यैव330सत्यब्रह्मणो जाठराग्नित्वेनापरोक्षत्वं दर्शयितुं तत्त्वेनोपासनमाह— अयमग्निर्वैश्वानर इति। को योऽयमन्तः पुरुषे शरीरे। स किं शारीर इति नेत्याह— येनेति। येनाग्निनेदमन्नं पच्यते। किं तद्यदिदमद्यते भुज्यते तस्य पक्ता विराडात्मा जाठरोऽग्निः। तत्सद्भावे किं मानमित्यत आह— तस्येति। तस्याग्रेरेष घोषः शब्दो भवति। कोऽङ्गुलिभ्यां कर्णावपिधाय पिधानं कृत्वा यं घोषमेतच्छ्रवणं यथा स्यात्तथा शृणोति। प्रासङ्गिकमरिष्टदर्श-
स यदोत्क्रमिष्यन्भवति नैनं घोषँशृणोति॥१॥
इति बृहदारण्यकोपनिषदि पञ्चमाध्यायस्य नवमं ब्राह्मणम्॥९॥
यदा वै पुरुषोऽस्माल्लोकात्प्रैति स वायुमाग-
च्छति तस्मै स तत्र विजिहीते यथा रथचक्रस्य
खं तेन स ऊर्ध्व आक्रमते स आदित्यमाग-
च्छति तस्मै स तत्र विजिहीते यथा लम्ब-
रस्य खं तेन स उर्ध्व आक्रमते स चन्द्रमस-
मागच्छति तस्मै स तत्र विजिहीते यथा
दुन्दुभेः खं तेन स ऊर्ध्व आक्रमते स लोक-
मागच्छत्यशोकमहिमं तस्मिन्वसति शाश्वतीः
समाः॥१॥
इति बृहदारण्यकोपनिषदि पञ्चमाध्यायस्य दशमं ब्राह्मणम्॥१०॥
__________________________________________________________________
नमाह— स इति। सोऽत्र शरीरे भोक्ता यदोत्क्रमिष्यन्नुत्क्रमणं करिष्यन्भवति तदा नैनं घोषं शृणोति॥१॥
इति श्रीबृहदारण्यकव्याख्यायां मिताक्षरायां नवमं ब्राह्मणम्॥९॥
__________
अत्र प्रकरण उक्तोपासनानां गतिमनुक्तफलं चाऽऽह— यदेति। यदा यस्मिन्काले पुरुषो विद्वानस्माल्लोकात्प्रैति शरीरं त्यजति तदा स उपासको वायुमागच्छति। स च वायुः स्तिमितोऽभेद्योऽन्तरिक्षस्थस्तस्मै प्राप्तायोपासकाय तदर्थं तत्र स्वात्मनि विजिहीते स्वावयवान्विगमयत्यात्मानं छिद्री करोतीति यावत्। कियत्परिमाणमित्यत आह—यथेति। यथा यावत्परिमाणं रथचक्रस्य खं छिद्रं तेन च्छिद्रेण स विद्वानूर्ध्व331 ऊर्ध्वमाक्रमते। ततः क गच्छतीत्यत आह—स आदित्यमित्यादिना। अत्र लम्बरस्य डम्बराख्यस्य वादिन्नविशेषस्य। शेषं स्पष्टार्थम्। एवं गच्छतः क्व विश्राम इत्यत आह—स इति। स उपासको लोकं प्रजापतिमागच्छति। किंविशिष्टमशोकं दुःखरहितमहिमं हिमादिदुःखसाधनरहितं तस्मिल्ँ लोके शाश्वतीर्नित्या बहून्समाः संवत्सरान्वसति॥१॥
इति बृहदारण्यकोपनिषन्मिताक्षरायां पञ्चमाध्याये दशमं ब्राह्मणम्॥१०॥
एतद्वै परमं तपो यद्व्याहितस्तप्यते परमँहैव
लोकं जयति य एवं वेदैतद्वै परमं तपो यं प्रेत-
मरण्यँहरन्ति परमँहैव लोकं जयति य
एवं वेदैतद्वै परमं तपो यं प्रेतमग्नावभ्यादधति
परमँ हैव लोकं जयति य एवं वेद॥१॥
इति बृहदारण्यकोपनिषदि पञ्चमाध्यायस्यैकादशं ब्राह्मणम्॥११॥
अन्नं ब्रह्मेत्येक आहुस्तन्न तथा पूयति वा अन्न-
मृते प्राणात्प्राणो ब्रह्मेत्येक आहुस्तन्न तथा
शुष्यति वै प्राण ऋतेऽन्नादेते ह त्वेव देवते
एकधाभूयं भूत्वा परमतां गच्छतस्तद्ध स्माऽऽह
__________________________________________________________________
अथ यादृच्छिकज्वरादिहेतुकमनात्मोपासनत्रयं सफलमाह—एतदिति। यद्व्याहितो व्याधितो ज्वरादिना परिगृहीतः संस्तप्यते दुःखं प्राप्नोत्येतद्वै परमं तप इति चिन्तयेदनिन्दन्नविषीदंश्च दुःखत्वसामान्यात्। तत्फलमाह— परममिति। य एवं ज्वरादिपीडनं तप इति यो वेद स परमं तपोनुरूपमेव लोकं ह जयति। तथा यं प्रेतं मामृत्विगादयोऽरण्यं प्रत्यभिहरन्त्येतद्वै परमं तप इति मुमूर्षावस्थायां चिन्तयेद्वानप्रस्थवद्ग्रामादरण्यगमनसामान्यात्। परमं तपोनुरूपमित्यादि समानम्। तथा यं प्रेतं मां ज्ञातयोऽग्नावभ्यादधति प्रक्षिपन्त्येतद्वै परमं तप इति मरणात्प्रागेव चिन्तयेदग्निप्रवेशसामान्यात्। स परममग्निप्रवेशानुरूपं लोकं जयतीत्यर्थः॥१॥
इति बृहदारण्यकोपनिषन्मिताक्षरायां पञ्चमाध्याय एकादशं
ब्राह्मणम्॥११॥
______
अथ पुनरन्नप्राणोपाधिकं वीरगुणकं ब्रह्मोपासनमेव विधातुं तावद्युक्ती आह—अन्नमिति। अन्नं ब्रह्मेत्येक आचार्या आहुस्तत्तथा न ग्रहीतव्यं यतः प्राणाद्भक्षकादृते विनाऽन्नं पूयति वै क्लिद्यते पूतिभावमापद्यत इति प्रसिद्धम्। तथा प्राणो ब्रह्मेत्येक आहुस्तदपि तथा न ग्राह्यं यतोऽन्नाददनीयादृते प्राणः शुष्यति वै शोषमुपैतीति प्रसिद्धम्। ब्रह्म तु क्लेदशोषवर्जितम्। एवमेकैकस्य ब्रह्मत्वानुपपत्तेर्हैते एव तु देवते अन्नप्राणलक्षणे एकधाभूयमेकधाभावं भूत्वा गत्वा परमतां परमत्वं गच्छतो ब्रह्मत्वं प्राप्नुतः। एवं युक्तितस्तदेतदन्नप्राणैक-
प्रातृदः पितरं किँस्विदेवैवं विदुषे साधु कुर्यां
किमेवास्मा असाधु कुर्यामिति स ह स्माऽऽह
पाणिना मा प्रातृद कस्त्वेनयोरेकधाभूयं भूत्वा
परमतां गच्छतीति तस्मा उ हैतदुवाच वीत्यन्नं
वै व्यन्ने हीमानि सर्वाणि भूतानि विष्टानि
रमिति प्राणो वै रं प्राणे हीमानि सर्वाणि
भूतानि रमन्ते सर्वाणि ह वा अस्मिन्भूतानि
विशन्ति सर्वाणि भूतानि रमन्ते य एवं वेद॥१॥
इति बृहदारण्यकोपनिषदि पञ्चमाध्यायस्य द्वादशं ब्राह्मणम्॥१२॥
__________________________________________________________________
त्वरूपं ब्रह्माध्यवस्य ह प्रातृदनामर्षिर्हृष्टः सन्स्वपितरं प्राह स्म। किं यथा मया ब्रह्म परिकल्पितमेवमेव ब्रह्म विदुषे साधु शोभनं पूजां किंस्वित्कुर्यांतथाऽसाध्वशोभनं वाऽस्मै विदुषे किमेव कुर्यां न किंचिदपि कृतकृत्यत्वात्। एवं वदन्तं पुत्रं सत्कृत्य पिता पाणिना हस्तेन वारयन्नाह स्म। किं हे प्रातृद मैवं वोचो यत एनयोरन्नप्राणयोरेकधाभूयं भूत्वा परमतां332को नु गच्छति न कोऽपि तस्मान्नैवं वक्तुमर्हसि कृतकृत्योऽसाविति। तर्हि ब्रवीतु भवान्कथं परमतां गच्छतीति जिज्ञासायामाह—तस्मा इति। तस्मै प्रातृदाय, उ ह पितैतद्वक्ष्यमाणं गुणद्वयमुवाच। किं तदित्यतः क्रमेणाऽऽह—वीति। किं तद्वीत्यपेक्षायामाह—अन्नं वै वीति। कुतो हि यस्मादिमानि सर्वाणि भूतान्यन्ने विष्टान्याश्रितानि। द्वितीयमाह— रमिति। किं तद्रमित्यत आह—प्राणो वै रमिति। कुतो हि यस्मात्प्राणे बलाश्रये सति सर्वाणि भूतानि रमन्ते यथेष्टं विहरन्ति तस्मादेतदुभयगुणके प्राणान्ने अग्निसोमात्मके एकीभूते ब्रह्मेत्येवमेवोपास्यमिति समुदायार्थः। उपासनफलमाह—सर्वाणीति। य एवमुभयगुणकं वेदास्मिन्विदुषि सर्वाणि भूतानि विशन्त्यन्नगुणविज्ञानात्सर्वाणि भूतानि रमन्ते प्राणगुणविज्ञानादित्यर्थः॥१॥
इति श्रीबृहदारण्यकव्याख्यायां मिताक्षराख्यायां पञ्चमाध्याये
द्वादशं ब्राह्मणम्॥१२॥
उक्थं प्राणो वा उक्थं प्राणो हीदँसर्वमुत्थापय-
त्युद्धास्मादुक्थविद्वीरस्तिष्ठत्युक्थस्य सायुज्यँ
सलोकतां जयति य एवं वेद॥१॥ यजुः प्राणो
वै यजुः प्राणे हीमानि सर्वाणि भूतानि युज्यन्ते
युज्यन्ते हास्मै सर्वाणि भूतानि श्रैष्ठ्याय यजुषः
सायुज्यँसलोकतां जयति य एवं वेद॥२॥
साम प्राणो वै साम प्राणे हीमानि सर्वाणि
भूतानि सम्यञ्चि सम्यञ्चि हास्मै सर्वाणि
भूतानि श्रेष्ठ्याय कल्पन्ते साम्नः सायुज्यँ
सलोकतां जयति य एवं वेद॥३॥
_________________________________________________________________________________
अस्यैव ब्रह्मणः पुनरुक्थादिगुणपूगविशिष्टत्वेनोपासनमाह—उक्थमिति। यतः प्राणो वा उक्थमतस्तमुक्थं महाव्रते क्रतौ प्रधानभूतं शस्त्रमुपासीतोभयोः प्राधान्यसामा333न्यात्। कथमस्योक्थत्वमित्यत आह—प्राण इति। प्राणे हि सतीदं चराचरं जीवः कर्म चोत्थापयत्युत्पादयति तं विना तयोरुत्थापकत्वायोगात्। अस्योपासनस्य दृष्टादृष्टरूपं फलमाह—उदिति। य एवमुक्तरूपं प्राणं वेदोत हास्मादुपासकादुक्थविद्वीरः पुत्र उत्तिष्ठत्युत्पद्यते। उक्थस्य प्राणस्य सायुज्यं सलोकतां वोपासनतारतम्याज्जयति प्राप्नोति॥१॥
यजुरिति। प्राणो वै यजुरतः प्राणो यजुरित्युपासीत। कुतोऽस्मिन्यजुःशब्दप्रवृत्तिरित्यत आह—प्राण इति। हि यस्मात्प्राणे सति सर्वाणि भूतानि युज्यन्तेऽतो युनक्तीति यजुरिति योगात्। य एवं वेदास्मै विदुषे ह सर्वाणि भूतानि श्रैष्ठ्याय श्रेष्ठभावायायं नः श्रेष्ठो भवत्वित्यभिप्रायेण युज्यन्त उद्यमन्ते। समानमन्यत्॥२॥
सामेति। यतः प्राणो वै सामातस्तत्सामेत्युपासीत। सामत्वमपि कुतः प्राणे हि सतीमानि भूतानि सम्यञ्चि सम्यगञ्चन्तीति सम्यञ्चि संगच्छन्ते। अस्मै विदुषे सर्वाणि भूतानि सम्यञ्चिसंगच्छन्ते। न केवलमेतावन्मात्रमपि तु श्रेष्ठ्याय श्रेष्ठत्वाय च सामर्थ्यं कल्पन्त इत्यादि समानम्॥३॥
क्षत्त्रं प्राणो वै क्षत्त्रं प्राणो हि वै क्षत्त्रं त्रायते
हैनं प्राणः क्षणितोः प्र क्षत्त्रमत्रमाप्रोति क्षत्त्रस्य
सायुज्यँसलोकतां जयति य एवं वेद॥४॥
इति बृहदारण्यकोपनिषदि पञ्चमाध्यायस्य त्रयोदशं ब्राह्मणम्॥१३॥
भूमिरन्तरिक्षं द्यौरित्यष्टावक्षराण्यष्टाक्षरँह वा
एकं गायत्र्यै पदमेतदु हैवास्या एतत्स याव-
देषु त्रिषु लोकेषु तावद्ध जयति योऽस्या एत-
देवं पदं वेद॥१॥
_________________________________________________________________________________
क्षत्त्रमिति। यस्मात्प्राणो वै क्षत्त्रं तस्मात्तं क्षत्त्रमित्युपासीत। कुतः। प्राणो हि वै प्रसिद्धं क्षत्त्रम्। तदपि कुतो यस्मादेनं देहं प्राणः क्षणितोः शस्त्रादिहिंसितात्पुनर्मांसपूरणं कुर्वंस्त्रायते पालयति ह तस्मात्क्षतत्राणात्प्राणो वै क्षत्त्रम्। य एवं वेद स प्रकर्षेण क्षत्त्रं प्रक्षत्त्रं किंविशिष्टमत्रं न त्रायतेऽन्येन केनचिदित्यत्रं क्षत्त्रमाप्नोति। शेषं पूर्ववत्॥४॥
इति बृहदारण्यकोपनिषन्मिताक्षरायां पञ्चमेऽध्याये
त्रयोदशं ब्राह्मणम्॥१३॥
_________
एवं ब्रह्मणो हृदयाद्यनेकोपाधिविशिष्टस्योपासनमुक्तमिदानीमुक्तसर्वोपाध्युप334संहारिगायत्र्युपाधिविशिष्ट स्योपासनमाह—भूमिरिति। भूमिरन्तरिक्षं द्यौरिति वर्णविश्लेषेणाष्टौ त्रैलोक्यनामाक्षराणि प्रसिद्धानि। तथा तत्सवितुर्वरेण्यमिति विश्लेषेणाष्टावक्षराणि यस्य तदिदमष्टाक्षरं ह वै गायत्र्यै गायत्र्या एकं पदं प्रथमः पाद इत्युभयोरुक्ताष्टत्वसामान्यस्य किं प्रयोजनमित्यत आह—एतदिति। अस्या गायत्र्या एतत्प्रथमपादस्वरूपमुह खल्वेतदेव भूम्यादित्रैलोक्यलक्षणमेवेत्युपासीत। एतत्फलमाह—स इति। यः पुमानस्या गायत्र्या एतदुक्तत्रैलोक्यात्मकं पदं पादमेवमुक्तरीत्या वेद स पुमान्यावदेषु त्रिषु लोकेषु जेतव्यमस्ति तावत्सर्वं ह खलु जयतीत्यर्थः॥१॥
ऋचो यजूँषि सामानीत्यष्टावक्षराण्यष्टाक्षरँ
ह वा एकं गायत्र्यै पदमेतदु हैवास्या एतत्स
यावतीयं त्रयी विद्या तावद्ध जयति योऽस्या
एतदेवं पदं वेद॥२॥प्राणोऽपानो व्यान
इत्यष्टावक्षराण्यष्टाक्षरँह वा एकं गायत्र्यै पद-
मेतदु हैवास्या एतत्स यावदिदं प्राणि तावद्ध
जयति योऽस्या एतदेवं पदं वेदाथास्या एतदेव
तुरीयं दर्शतं पदं परोरजा य एष तपति यद्वै
चतुर्थंतत्तुरीयं दर्शतं पदमिति ददृश इव त्द्येष
परोरजा इति सर्वमु त्द्येवैष रज उपर्युपरि तपत्येवँ
_________________________________________________________________
ऋच इति। तथा, ऋचो यजूंषिं सामानीत्यष्टौ त्रैविद्यनामाक्षराणि। तथाऽष्टाक्षरं ह वा एकं द्वितीयं गायत्रीपदमित्युभयोरष्टत्वसामान्यात्। अस्या गायत्र्या एतद्द्वितीयं पदमु हैतदेव त्रैविद्यात्मकमेवेत्युपासीत। तत्फलमाह—स इति। योऽस्या एतद्द्वितीयं पदमेवं वेद स यावतीयं त्रयी विद्या त्रय्या विद्यया यावत्फलजातमवाप्यते तावद्ध जयति॥२॥
तृतीयपादस्योक्तोभयविधजगद्विधारकप्राणाद्यात्मत्वमाह–प्राण इति। प्राणोऽपानो व्यान इति विश्लेषेणाष्टौ प्राणाद्यभिधानाक्षराणि। अस्या गायत्र्या एतत्तृतीयं पदमेतत्प्राणाद्येवेति यो वेद स यावदिदं प्राणिजातं तावद्ध जयति। समानमन्यत्। एवं क्रमेण रूपनामकर्मात्मकत्रिपदाया गायत्र्या अभिधानभूताया अभिधेयभूतादित्यात्मकहिरण्यगर्भाभिधानाय चतुर्थंपदमाह—अथेति। अथ शब्दात्मकगायत्रीकथनानन्तरमस्यास्त्रिपदाया गायत्र्या अभिधेयभूतमेतदेव तुरीयं दर्शतं पदं परोरजा य एष तपति। एतानि पदानि श्रुतिः स्वयमेव व्याकरोति—यदिति। यच्चतुर्थं वै प्रसिद्धं लोके तदत्र तुरीयशब्देनोच्यते। दर्शतं पदमित्यस्य कोऽर्थ इत्यत आह—दर्शतमिति। एष मण्डलान्तर्गतः पुरुषो हि यस्माद्ददृश इव न तु साक्षादृश्यत ईश्वरस्यातीन्द्रियत्वादतो दर्शतं पदमित्युच्यत इत्यर्थः। परोरजा इत्यस्यार्थस्तु सर्वमेव उ रजो रजोजातं कामात्मकं लोकात्मकं वोपर्युपरि हि यस्मादेष सविता तपति तपन्वर्ततेऽतो रजसः पर इति परोरजा उच्यत इत्यर्थः। एतच्चतुर्थपादविज्ञानफलमाह—एवमिति।
हैव श्रिया यशसा तपति योऽस्या एतदेवं पदं
वेद॥३॥ सैषा गायत्र्येतस्मिँस्तुरीये दर्शते पदे
परोरजसि प्रतिष्ठिता तद्वै तत्सत्ये प्रतिष्ठितं चक्षुर्वै
सत्यं चक्षुर्हि वै सत्यं तस्माद्यदिदानीं द्वौ विव-
दमानावेयातामहमदर्शमहमश्रौषमिति य एवं
ब्रूयादहमदर्शमिति तस्मा एव श्रद्दध्याम तद्वै
तत्सत्यं बले प्रतिष्ठितं प्राणो वै बलं तत्प्राणे
प्रतिष्ठितं तस्मादाहुर्बलँसत्यादोगीय इत्येव-
म्वेषा गायत्र्यध्यात्मं प्रतिष्ठिता सा हैषा
————————————————————————————————————
एवं सवितृवदेव ह श्रिया सर्वाधिपत्यलक्षणया वसुलक्षणया वा यशसा335च ख्यात्या तपति प्रकाशते य एवमस्या गायत्र्या एतत्तुरीयं दर्शतं पदं वेद॥३॥
एवमभिधानाभिधेयात्मिकां गायत्रीमुक्त्वाऽभिधानस्याभिधेयतन्त्रत्वमाह—सेति। सैषैवमुक्तरूपा त्रिपदा गायत्र्येतस्मिन्नुक्तलक्षणे तुरीये दर्शते पदे परोरजसि मूर्तमूर्तरसभूत आदित्ये प्रतिष्ठिता तद्वै तत्तुरीयं पदमितरपदसहितं सत्ये प्रतिष्ठितम्। किं तत्सत्यमित्यत आह—चक्षुर्वै सत्यमिति। कुतोऽध्यात्मं चक्षुः सत्यमिति ह वै प्रसिद्धम्। कथं यद्यस्मादेको ब्रूतेऽहं गजादि वस्त्वदर्शं दृष्टवानस्म्यपरो ब्रूते तद्वस्तु तथा न भवतीत्यहमश्रौषमित्येवं विवदमानौ विरुद्धं भाषमाणौ द्वाविदानीमेयातामागच्छेतां तयोर्मध्ये य एवाहमदर्शमिति ब्रूयात्तस्मा एव श्रद्दध्याम श्रद्धां करवाम न पुनरहमश्रौषमिति ब्रुवते। श्रुत्यपेक्षया हि दृष्टिर्बलीयसी। तस्मात्सत्यप्रतिपत्तिहेतुत्वाच्चक्षुः सत्यम्। तद्वै तत्तुरीयपदाश्रयं सत्यं बले प्रतिष्ठितम्। किं तद्बलं प्राणो वै बलं तत्तस्मिन्बलात्मके प्राणे सत्यं प्रतिष्ठितं यस्मात्तस्माल्लोका बलं सत्यादोगीय ओजीय ओजस्तरं बलवत्तरमित्याहुः। एवमुक्तन्यायेनाऽऽदित्यचक्षुरादिव्यवस्थितिद्वारा उ एषा गायत्र्यध्यात्ममध्यात्मे प्राणे सर्वदेवाद्यात्मके सूत्रात्मभूते प्रतिष्ठिताऽतोऽध्यात्मप्राणरूपा सती जगत आत्मेति यावत्। अत एवास्याः सर्वजगज्जीवनहेतुत्वमपीति गायत्रीनामनिर्वचनेनाऽऽह—सेति। सैषा मुख्यमाणात्मिका गायत्री ह गाय-
गयाँस्तत्रे प्राणा वै गयास्तत्प्राणाँस्तत्रे
तद्यद्रयाँस्तत्रे तस्माद्गायत्री नाम स यामेवा-
मूँसावित्रीमन्वाहेषैव सा स यस्मा अन्वाह
तस्य प्राणाँस्त्रायते॥४॥ताँहैतामेके सावि-
त्रीमनुष्टुभमन्वाहुर्वागनुष्टुबेतद्वाचमनुब्रूम इति न
तथा कुर्याद्गायत्रीमेव सावित्रीमनुब्रूयाद्यदि ह
वा अप्येवंविद्बह्विव प्रतिगृह्णाति न हैव तद्गा-
यत्र्या एकंचन पदं प्रति॥५॥
—————————————————————————————————————
न्तीति गयास्तान्गयांस्तत्रे त्रातवती। के ते गयाः प्राणा वागादयो वै गयाः शब्दनिष्पत्तिहेतुत्वात्तत्तान्प्राणांस्तत्रे। तत्तत्र प्रयोक्तृशरीरे यद्यस्माद्गयांस्तत्रे तस्माद्गायत्रीति नाम प्रसिद्धम्। अस्या एव ब्राह्मण्यमूलत्वेन स्तुत्यर्थंसावित्रीत्वमाह—स इति। स आचार्योऽष्टवर्षं माणवकमुपनीय यामेवामूं सावित्रीं सवितृदेवताकां पादशोऽर्धर्चशः समस्तां चान्वाह सा सावित्र्येषैवोक्तजगत्प्राणात्मिका गायत्र्येव नान्या। कुतो यतः स गायत्र्युपासक आचार्यो यस्मै बटव इमामन्वाहानुवक्ति तस्य प्राणान्सा नरकादिपतनात्त्रायते तस्माद्गायत्र्येव सावित्रीत्यर्थः॥४॥
मतान्तरमनूद्य दूषयति—तामिति। एके शाखिनस्तत्सवितुर्वृणीमहे वयं देवस्य भोजनम्। श्रेष्ठं सर्वधातमं तुरं भगस्य धीमहीत्यनुष्टुप्छन्दस्कां तामेतामेव ह सावित्रीमुपनीतायान्वाहुरनुवदन्ति। तेषामभिप्रायमाह—वागिति। वागनुष्टुब्वाक्च सरस्वत्यतो वयमेतदनुष्टुब्लक्षणां वाचं सरस्वतीमेवापेक्ष्यमाणां माणवकायानुब्रूम इति वदन्तस्तामेवोपदिशन्तीत्यर्थः। एतद्दूषयति—नेति। यच्छाखान्तरीया आहुस्तन्मृषैवातस्तथा न कुर्यादनुष्टुप्सावित्रीं बटवे नोपदिशोल्किं तर्हि गायत्रीमेव सावित्रीमनुब्रूयात्तदुपदेशे हि सर्वमप्युपदिष्टं स्यात्तस्या एव त्रैलोक्याद्यात्मकत्वो336क्तेर्नानुष्टुभ इत्यर्थः। अथ गायत्रीविदं स्तौति—यदीति। यद्यप्येवमुक्तरूपगायत्रीविद्बह्विव वस्तुतो विद्वत्स्वरूपाद्बहुत्वाभावाद्बह्विव ह वै प्रतिगृह्णाति तथाऽपि तत्प्रतिग्रहजातं गायत्र्या एकंचनैकमपि पदं पादविज्ञानफलं प्रति नैव ह पर्याप्तं दूरतस्तु दोषाधायकत्वमित्यर्थः॥५॥
स य इमाँस्त्रील्लोँकान्पूर्णान्प्रतिगृह्णीयात्सोऽ-
स्या एतत्प्रथमं पदमाप्नुयादथ यावतीयं त्रयी
विद्या यस्तावत्प्रतिगृह्णीयात्सोऽस्या एतद्द्वि-
तीयं पदमाप्नुयादथ यावदिदं प्राणि यस्ताव-
त्प्रतिगृह्णीयात्सोऽस्या एतत्तृतीयं पदमाप्नुया-
दथास्या एतदेव तुरीयं दर्शतं पदं परोरजा य
एष तपति नैव केनचनाऽऽप्यं कुत उ एताव-
त्प्रतिगृह्णीयात्॥६॥ तस्या उपस्थानं गाय-
त्र्यस्येकपदी द्विपदी त्रिपदी चतुष्पद्यपदसि न
———————————————————————————————————————
एतदेव विशेषत आह—स इति। स यो गायत्रीविदिमान्भूरादींस्त्रील्लोँकान्गवादिधनपूर्णान्प्रतिगृह्णीयात्स प्रतिग्रहोऽस्या गायत्र्या एतत्प्रथमं पदमाप्नुयात्प्रथमपादविज्ञानफलं भुक्तं स्यान्न त्वधिकदोषोत्पादकः। तथाऽथ पुनर्यावतीयं त्रयी विद्या प्रसिद्धा तावत्तदवच्छिन्नं वस्तु यः प्रतिगृह्णीयात्सोऽस्या एतद्द्वितीयं पदमाप्नुयात्तद्विज्ञानफलं भुक्तं स्यात्। तथा यावदिदं प्राणि यस्तावत्प्रतिगृह्णीयात्सोऽस्या एतत्तृतीयं पदमामुयात्तद्विज्ञानफलं भुक्तं स्यात्। एतत्तु कल्पयित्वैव श्रुत्या स्तुत्यर्थमेवोच्यते वस्तुत एतादृशदातृप्रतिग्रहीत्रोरभावान्नरकादिहेतुपरिग्रहस्य निषिद्धत्वादात्मसाक्षात्कारातिरिक्तस्य सर्वपापप्रदाहकत्वासंभवाच्च। तुरीयपदविज्ञानफलक्षयस्तु संभावयितुमपि न शक्यत इत्याह—अथेति। अथ पादत्रयविज्ञानफलभोगोक्त्यनन्तरमस्या एतदेव तुरीयं दर्शतं पदं परोरजा य एष तपत्येतद्विज्ञानफलस्यानन्तत्वात्तद्विज्ञानफलं केनचनापि प्रतिग्रहादिना नैवाऽऽप्यं प्राप्यं कुत उ एतावत्मतिगृह्णीयात्तद्विज्ञानफलसमानप्रतिग्राह्यवस्तुनोऽभावादतो न तत्क्षय इत्यर्थः॥६॥
उक्तविज्ञानसंग्राहकं मन्त्रमैहिकादिफलोपायकथनार्थमवतारयति— तस्या इति। तस्या गायत्र्या उपस्थानमुपेत्य स्थानं नमस्करणमनेन मन्त्रेण कर्तव्यमिति यावत्। कोऽसावित्यत आह—गायत्रीति। हे गायत्रि त्वं त्रैलोक्यात्मकपादेनैकपद्यसि भवसि त्रैविद्यपादेन त्वं द्विपदी प्राणाद्यात्मकपादेन त्वं त्रिपदी मण्डलान्तर्गतपुरुषलक्षणेन पादेन त्वं चतुष्पदी। असीति प्रत्येकं संबध्यते। एवमेतैश्चतुर्भिः पादैस्त्वमुपासकैः पद्यसे ज्ञायसे। तथा हे गायत्रि निरुपाधिकेन स्वेनाऽऽत्मना त्वमपदसि पद्यते येन तत्पदं न विद्यते पदं यस्याः सा
हि पद्यसे। नमस्ते तुरीयाय दर्शताय पदाय
परोरजसेऽसावदो मा प्रापदिति यं द्विष्याद-
सावस्मै कामो मा समृद्धीति वा न हैवास्मै स
कामः समृध्यते यस्मा एवमुपतिष्ठतेऽहमदः प्राप-
मिति वा॥७॥एतद्ध वै तज्जनको वैदेहो बुडिल-
माश्वतराश्विमुवाच यन्नु हो तद्गायत्रीविदब्रूथा अथ
कथँहस्तीभूतो वहसीति मुखँत्द्यस्याः सम्राण्न
विदांचकारेति होवाच तस्या अग्निरेव मुखं यदि
———————————————————————————————————————
त्वमपदसि। कुतो हि यस्मात्केनापि न पद्यसे न ज्ञायसे नेति नेत्यादिलक्षणत्वात्। अतस्ते तुभ्यं व्यवहारविषयाय दर्शताय पदाय परोरजसे नमोऽस्तु नमस्कारोऽस्तु। तत्प्रयोजनमाह—असाविति। असौ शत्रुः पाप्मा त्वत्प्राप्तिविघ्नकरोऽदः पापरूपस्य शत्रोर्यत्त्वत्प्राप्तिविघ्नकर्तृत्वं तच्च मम मा प्रापन्माप्राप्नोतु। इतिशब्दः पापक्षयफलोपस्थानमन्त्रपरिसमाप्त्यर्थः। अथास्मिन्मन्त्र ऊहप्रदर्शनेनाऽऽभिचारिकमुपस्थानान्तरमाह—यमिति। विद्वान्यं प्रति स्वयं द्विष्याद्द्वेषं कुर्यादसौ शत्रुरमुकनामेति तन्नाम गृहीत्वाऽस्मै शत्रवे कामोऽभिलषितोऽर्थो मा समृद्धि337 समृद्धिं मा प्राप्नोत्विति वाऽसावदो मा प्रापदित्यस्मिन्स्थान ऊहं कृत्वोपतिष्ठेत् (त)। एतत्फलस्य यादृच्छिकत्वशङ्कां वारयतिनेति। यस्मै यदर्थमेवमुपतिष्ठते तस्मै शत्रवे कामो ह नैवर्ध्यते समृध्यते। तथाऽहमदस्तदभिलषितं मदभिलषितं वा प्रापं प्राप्नुयामिति वोहं कृत्वोपतिष्ठेदि(ते)त्यर्थः॥७॥
अथ गायत्रीविज्ञानसंपूर्तये तन्मुखं विधातुं स्तुतिभूतं तदर्थवादमाह—एतदिति। तत्तत्र गायत्रीविज्ञानविषय एतद्ध वै स्मर्यते जनको वैदेहो बुडिलं नामतोऽश्वतराश्वस्यापत्यमाश्वतराश्विं प्रत्युवाच। किं यन्न्विति वितर्के हो अहो आश्चर्यमेतत्तदिति यदर्थो यस्त्वं गायत्रीविदस्मीत्यब्रूथा अथ कथं तर्हि प्रतिग्रहदोषेण हस्तीभूतो वहसीत्येतदुभयं परस्परविरुद्धमित्यथशब्दार्थः। एवमुक्तो बुडिल आह—मुखमिति। हे सम्राडस्या गायत्र्या मुखमहं न विदांचकार न विज्ञातवानस्मीति ह तमुवाचेत्युक्त इतर आह—तस्या इति। तस्या गायत्र्या अग्निरेव मुखम्। तद्विज्ञानफलमाह—यदीति। यथा लोका यदि
ह वा अपि बह्विवाग्नावभ्यादधति सर्वमेव
तत्संदहत्येवँहैवैवंविद्यद्यपि बह्विव पापं कुरुते
सर्वमेव तत्संप्साय शुद्धः पूतोऽजरोऽमृतः संभ-
वति॥८॥
इति बृहदारण्यकोपनिषदि पञ्चमाध्यायस्य चतुर्दशं ब्राह्मणम्॥१४॥
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम्। तत्त्वं
पूषन्नपावृणु सत्यधर्माय दृष्टये। पूषन्नकर्षे यम
———————————————————————————————————————
ह वा अपि बह्विव बहुतरमपीन्धनमग्नावभ्यादधति निक्षिपन्ति तत्सर्वमग्निर्दहत्येव। यथाऽयं दृष्टान्त एवमेव ह गायत्र्या अग्निर्मुखमित्येवंविदुपासकः स्वयमग्निमुखगायत्र्यात्मा सन्यद्यपि बह्विवबह्वेव पापं प्रतिग्रहादिदोषं कुरुते तत्सर्वं पापजातं संप्साय सम्यग्भक्षयित्वाऽग्निवच्छुद्धः पापसंस्पर्शरहितः पूतश्च प्रतिग्रहजनितपापफलसंबन्धरहितश्च संभवति। गायत्रीविज्ञानस्य क्रममुक्तिफलत्वं दर्शयति—अजर इति। एवं गायत्र्यात्माऽजरोऽमरश्च संभवतीत्यर्थः॥८॥
इति मिताक्षरायां पञ्चमाध्याये चतुर्दशं ब्राह्मणम्॥१४॥
_________
अथाग्नेश्चतुर्थपादोक्तसवितुश्चोपस्थानं समुच्चयकारिणो वक्तुमाह—हिरण्मयेनेति। हिरण्मयेन ज्योतिर्मयेन मण्डलेन पात्रेण पात्रवदाच्छादकेन दर्शनप्रतिबन्धकीभूतेन सत्यस्य सत्याख्यस्य ब्रह्मणो रखेर्मुखं स्वरूपं द्वारं वाऽपिहिमाच्छादितं वर्तते घर्मादिदानेन जगत्पुष्णातीति पूषा सविता तत्संबुद्धिर्हे पूषंस्तन्मुखं त्वमपावृणु, अपावृतं कुरु दर्शनप्रतिबन्धकमपनय। सत्या अवितथाः सत्यसंकल्पादिश्रुत्युक्ता धर्मा यस्य मम सोऽहं सत्यधर्मस्तस्मै तदात्मभूताय मह्यं दृष्टये338 तव सत्यात्मन उपलब्धये स्वात्माभिन्नसवितृदर्शनाय। तमेवानेकैर्विशेषणैः संबोधयन्प्रार्थयते—पूषन्निति। हे पूषन्हे, एकर्षे गमनाद्दर्शनाद्वा, ऋषिरेकश्चासावृषिश्चेति व्युत्पत्तेः। हे यम सर्वस्य जगतो नियमनात्।
सूर्य प्राजापत्य व्यूह रश्मीन्। समूह तेजो
यत्ते रूपं कल्याणतमं तत्ते पश्यामि। योऽसा-
वसौ पुरुषः सोऽहमस्मि। वायुरनिलममृतम-
थेदं भस्मान्तँशरीरम्। ॐ क्रतो स्मर
कृतँस्मर क्रतो स्मर कृतँस्मर। अग्ने
नय सुपथा राये अस्मान्विश्वानि देव वयु-
नानि विद्वान्। युयोध्यस्मज्जुहुराणमेनो
——————————————————————————————————————
हे सूर्य सुष्ठ्वीरयते तोयादीन्रसान्रश्मीन्प्राणादीन्धियो वा जगत इति व्युत्पत्तेः। प्रजापतेरीश्वरस्य हिरण्यगर्भस्य वाऽपत्यं प्राजापत्यो हे प्राजापत्य रश्मीन्व्यूह विगमय विनाशय। रश्मयो न विगमयितुं शक्याः स्वाभाविकस्य तत्त्वायोगादित्यत आह—समूहेति। तव तेजः समूह संक्षिप संकोचय विद्योतनेनेव रश्मीनां चक्षुरभिभावकत्वमपसारय। किमर्थमेवं प्रार्थ्यत इत्यत आह—यदितिते तव यत्कल्याणतममतिशयेन कल्याणं सत्यज्ञानादिलक्षणं रूपं तत्ते रूपमहं पश्याम्यनुभवामि। कथमित्यत आह—य इति। योऽसौ भूर्भुवः स्व इति– व्याहृत्यवयवकोऽसावादित्यस्थः पुरुषः पुरुषाकृतित्वात्सोऽहमस्म्यमृत इति संबन्धः। कथमीदृग्विधत्वं तत्र देहेन्द्रियाद्यवच्छिन्नत्वादित्यत आह—वायुरिति। एवंभूतस्य मे शरीरपाते सति तत्स्थो वायुराध्यात्मिकः प्राणोऽनिलं बाह्यं वायुममृतमाधिदैविकं प्रति गच्छतु। एतत्त्वितरेन्द्रियोपलक्षणपरम्। अथेदं शरीरमपि भस्मान्तं सत्पृथिवीं प्रति यातु। भस्मान्तलिङ्गात्कर्मिण एवैतदुपस्थानमिति गम्यते। एवमादित्योपस्थानमुक्त्वाऽग्नेस्तदाह— ओमिति। हे ओमवतीत्यों सर्वरक्षको जाठरप्रतीकत्वेनोक्तोऽग्निः। स च क्रतुसाध्यत्वेन मनोमयत्वात्क्रतुस्तत्संबोधनं हे क्रतो त्वं स्मर्तव्यं स्मर। अन्तकाले हि त्वया स्मृते सतीष्टा गतिः प्राप्यतेऽतः प्रार्थ्यते। किं यन्मया कृतं कर्मोपासनं च तत्स्मर। क्रतो स्मर कृतं स्मरेति पुनरुक्तिरादरार्था। किंच। हे देव द्योतनात्मकाग्ने त्वं विश्वानि सर्वाणि वयुनानि प्रज्ञानानि तदुपलक्षितानि कर्माणि च विद्वान्हि त्वमतोऽस्मांस्त्वदुपासकान्सुपथा शोभनेनोत्तरमार्गेण पुनरावृत्तिरहितेन नय प्रापय। किमर्थम्। राये धनाय कर्मफलभोगायेति यावत्। किंच। अस्मदस्माकं जुहुराणं कुटिलं देवयानप्राप्तिप्रतिबन्धकमेनः पापं सर्वंयुयोध्यपनय। वयं तु देहावसानकालेऽन्य-
भूयिष्ठां ते नमउक्तिं विधेम॥१॥
इति बृहदारण्यकोपनिषदि पञ्चमाध्यायस्य पञ्चदशं ब्राह्मणम्॥१५॥
इति बृहदारण्यकोपनिषदि पञ्चमोऽध्यायः॥५॥
_________
बृहदारण्यकक्रमेण सप्तमोऽध्यायः॥७॥
—————————————————————————————————————
त्कर्तुमशक्ता अत इदानीं ते तुभ्यं भूयिष्ठां बहुतमां नमउक्तिं नमस्कारवचनं विधेम समर्पयेम नमस्कारमन्त्रेण परिचरेमेत्यर्थः॥१॥
इति मिताक्षरायां पञ्चमेऽध्याये पञ्चदशं ब्राह्मणम्॥११॥
_______
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीपुरुषोत्तमाश्रमपूज्यपादशिष्यनित्यानन्दाश्र-
मविरचितायां शुक्लयजुःशाखान्तर्गतकण्वशाखायां बृहदारण्यकोपनिषत्का-
ण्डव्याख्यायां मिताक्षराख्यायां पञ्चमोऽध्यायः॥५॥
ॐ यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च
श्रेष्ठश्चस्वानां भवति प्राणो वै ज्येष्ठश्चश्रेष्ठश्च
ज्येष्ठश्च श्रेष्ठश्च स्वानां भवत्यपि च येषां बुभू-
षति य एवं वेद॥१॥ यो ह वै वसिष्ठां वेद
वसिष्ठः स्वानां भवति वाग्वै वसिष्ठा वसिष्ठः
स्वानां भवत्यपि च येषां बुभूषति य एवं
वेद॥२॥
—————————————————————————————————————
अथावशिष्टब्रह्मोपासनं श्रीमन्थादिकर्म च वक्तुमष्टमोऽध्यायः प्रवर्तते। तत्र पूर्वं सत्स्वपि वागादिषु प्राणस्यैव गायत्र्यात्मकत्वं किमित्युक्तमित्यतस्तद्वक्तुं यद्वा सत्स्वपि चक्षुरादिषूद्गीथब्राह्मण उद्गीथयजुःसामादिभावैः प्राणस्यैव किमित्युपासनमुक्तमिति हेतुमात्राकाङ्क्षायां तन्मात्रं ज्येष्ठत्वादिरूपं वक्तुं पूर्वोक्तोपासनाया अशेषं स्वतन्त्रमेव प्राणोपासनमाह—य इति। यः कश्चिज्ज्येष्ठं च श्रेष्ठं च ज्येष्ठश्रेष्ठगुणं वेद स स्वानां ज्ञातीनां मध्ये ज्येष्ठश्च श्रेष्ठश्च भवति ह वै भवत्येव। तर्ह्युच्यतां कोऽसावेतादृगित्यपेक्षायामाह—प्राणो वै ज्येष्ठश्चेति। निषेककालमारभ्य चक्षुराद्यपेक्षया प्राणस्यैव गर्भवृद्धिहेतुत्वेन प्रथमवृद्धिलाभात्प्राणो ज्येष्ठः श्रेष्ठश्च। तत्त्वं त्विह संवादेन दर्शयिष्यते। उक्तफलोपसंहारपूर्वकं फलान्तरमाह—ज्येष्ठश्चेति। य एवं यथोक्तगुणं प्राणं वेद स ज्येष्ठश्च श्रेष्ठश्च स्वानां ज्ञातीनां मध्ये भवति। अपि चान्यदपि येषां स्वज्ञातिव्यतिरिक्तानां मध्ये ज्येष्ठश्चश्रेष्ठश्चभविष्यामीति बुभूषति भवितुमिच्छति तेषामपि स तादृश एव भवतीत्यर्थः॥१॥
इदानीं प्राणस्यैव वसिष्ठत्वप्रतिष्ठात्वसंपत्त्वायतनत्वमप्रजाति339त्वलक्षणाः पञ्चगुणा इति दर्शयितुं प्रथमं तेषामेकैकस्य क्रमेण वाक्चक्षुःश्रोत्रमनोरेतसां गुणत्वमाह—य इति। यो ह वै वसिष्ठां वेदेत्यादिपञ्चकण्डिकाभिरासु च प्रतिवाक्योत्थानं व्याख्यानं च पूर्ववदूह्यम्। पदविशेषस्तु व्याख्यायते। वाग्वै वसिष्ठा वसति वासयति चान्यान्वस्ते वेति व्युत्पत्तेः। वाग्ग्मिनो ह्यतिशयेन वसन्ति वासयन्ति चान्यानभिभवन्ति वेत्यर्थः क्रमेण निवासाच्छादनार्थकधातुश्रयणाद्बोद्धव्यः। समानमन्यत्॥२॥
यो ह वै प्रतिष्ठां वेद प्रतितिष्ठति समे प्रतिति-
ष्ठति दुर्गे चक्षुर्वै प्रतिष्ठा चक्षुषा हि समे च
दुर्गे च प्रतितिष्ठति प्रतितिष्ठति समे प्रतिति-
ष्ठति दुर्गे य एवं वेद॥३॥ यो ह वै संपदं
वेद सँहास्मै पद्यते यं कामं कामयते श्रोत्रं
वै संपच्छ्रोत्रे हीमे सर्वे वेदा अभिसंपन्नाः सँ
हास्मै पद्यते यं कामं कामयते य एवं वेद॥४॥
यो ह वा आयतनं वेदाऽऽयतनँस्वानां भव-
त्यायतनं जनानां मनो वा आयतनमायतन
स्वानां भवत्यायतनं जनानां य एवं वेद॥५॥
यो ह वै प्रजातिं वेद प्रजायते ह प्रजया पशुभी
रेतो वै प्रजातिः प्रजायते ह प्रजया पशुभिर्य
एवं वेद॥६॥
———————————————————————————————————————
यो ह वा इति। चक्षुर्वै प्रतिष्ठा प्रतितिष्ठत्यनेनेति व्युत्पत्तेः। हि यस्माच्चक्षुषा पश्यन्समे देशे काले च प्रतितिष्ठति। तथा दुर्गे दुर्गमे देशे विषमे कण्टकाद्युपद्रुते काले च दुर्भिक्षादियुक्ते प्रतितिष्ठति॥३॥
यो ह वै संपदं संपद्गुणं वेद स यं कामं कामयते तस्मा उपासकाय स कामः संपद्यते हैव। कोऽसावित्यत आह—श्रोत्रं वै संपदिति। कुतो हि यस्माच्छ्रोत्रे सतीमे प्रसिद्धाः सर्वे वेदा अभिसंपन्नाः प्राप्तास्तद्विहितकर्मायत्तकामसंपत्तयश्च भवन्ति॥४॥
यो ह वा आयतनमाश्रयं वेद स स्वानां ज्ञातीनां तदन्येषां च जनानामायतनमाश्रयः। तर्हि किं तदित्यत आह—मन इति। मनो वा आयतनमिन्द्रियाणां विषयाणां च मनःसंकल्पितानि हीन्द्रियाणि प्रवर्तन्ते तत्प्रकाशिताश्च विषया मनोधिष्ठिताः सन्त आत्मनो भोग्यत्वं प्रतिपद्यन्ते॥५॥
यो ह वै प्रजातिं340 वेद स प्रजया पशुभिश्च प्रजायते संपन्नो भवति। तर्हि कोऽसावित्यत आह—रेतो वै प्रजाति341रिति। रेतःशब्देनात्र प्रजननेन्द्रियमुपलक्ष्यत इन्द्रियमकरणात्प्रजोत्पत्तिहेतुत्वाच्चेत्यर्थः॥६॥
तेहेमेप्राणा अहँश्रेयसे विवदमाना ब्रह्म
जग्मुस्तद्धोचुः को नो वसिष्ठ इति तद्धोवाच
यस्मिन्व उत्क्रान्त इदशरीरं पापीयो
मन्यते स वो वसिष्ठ इति॥७॥ वाग्घो-
च्चक्राम सा संवत्सरं प्रोष्याऽऽगत्योवाच क-
थमशकत मदृते जीवितुमिति ते होचुर्यथाऽ-
कला अवदन्तो वाचा प्राणन्तः प्राणेन पश्य-
न्तश्चक्षुषा शृण्वन्तः श्रोत्रेण विद्वाँसो मन-
सा प्रजायमाना रेतसैवमजीविष्मेति प्रविवेश
ह वाक्॥८॥
————————————————————————————————————————
एवमुक्ता वसिष्ठादिगुणाः प्राणगता एवेति दर्शयितुमाख्यायिकामधिकरोति—त इति। ते ह किलेमे प्रकृताः प्राणा वागादयोऽहंश्रेयसेऽहं श्रेयानित्येतस्मै प्रयोजनाय विवदमाना विरुद्धं वदमाना ब्रह्म प्रजापतिं विराडात्मानं जग्मुर्गतवन्तः। तत्र च गत्वा तद्ब्रह्म प्रजापतिं होचुर्नोऽस्माकं मध्ये को वसिष्ठ इति पृष्ठे तद्ब्रह्म ह तान्प्रत्युवाच। किं वो युष्माकं मध्ये यस्मिन्नुत्क्रान्ते निर्गते सतीदं शरीरं पूर्वावस्थातोऽप्यतिशयेन पापमिति पापीयो मन्यते लोकः स वो युष्माकं मध्ये वसिष्ठो नेतर इत्यर्थः॥७॥
एवं ब्रह्मणोक्ता वागादय आत्मनो वीर्यपरीक्षणाय क्रमेणोच्चक्रमुस्तत्र प्रथममस्माच्छरीराद्ध वागुच्चक्राम। सा तु निर्गम्य संवत्सरमन्यत्र प्रोष्य प्रवासं कृत्वा पुनरागत्येतरान्प्राणान्प्रत्युवाच। किं यूयमस्मिञ्शरीरे कथं मदृते मां विना जीवितुमशकत शक्ता इत्युक्ते ते ह वाचं प्रत्यूचुः। किम्। यथाऽकला मूका वाचाऽवदन्तो वदनक्रियामकुर्वन्तोऽपि प्राणेन प्राणन्तश्चक्षुषा पश्यन्तः श्रोत्रेण शृण्वन्तो मनसा विद्वांसः कर्तव्याकर्तव्यादि जानन्तो रेतसा प्रजननेन्द्रियेण प्रजायमानाः प्रजामुत्पादयन्तो वयमजीविष्मेत्येवमुक्ते नाहं वसिष्ठेति निश्चित्य वाक्तस्मिञ्शरीरे प्रविवेश प्रविष्टवतीत्यर्थः॥८॥
चक्षुर्होच्चक्राम तत्संवत्सरं प्रोष्याऽऽगत्योवाच
कथमशकत मदृते जीवितुमिति ते होचुर्य-
थाऽन्धा अपश्यन्तश्चक्षुषा प्राणन्तः प्राणेन वद-
न्तो वाचा शृण्वन्तः श्रोत्रेण विद्वाँसो मनसा
प्रजायमाना रेतसैवमजीविष्मेति प्रविवेश ह
चक्षुः॥९॥ श्रोत्रँ होच्चक्राम तत्संवत्सरं
प्रोष्याऽऽगत्योवाच कथमशकत मदृते जीवितु-
मिति ते होचुर्यथा बधिरा अशृण्वन्तः श्रोत्रेण
प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा
विद्वाँसो मनसा प्रजायमाना रेतसैवमजीवि-
ष्मेति प्रविवेश ह श्रोत्रम्॥१०॥ मनो
होच्चक्राम तत्संवत्सरं प्रोष्याऽऽगत्योवाच
कथमशकत मदृते जीवितुमिति ते होचुर्यथा
मुग्धा अविद्वाँसो मनसा प्राणन्तः प्राणेन
वदन्तो वाचा पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण
प्रजायमाना रेतसैवमजीविष्मेति प्रविवेश ह
मनः॥११॥ रेतो होच्चक्राम तत्संवत्सरं
प्रोष्याऽऽगत्योवाच कथमशकत महते जीवितु-
मिति ते होचुर्यथा क्लीबा अप्रजायमाना रेतसा
प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा
शृण्वन्तः श्रोत्रेण विद्वाँसो मनसैवमजीवि-
ष्मेति प्रविवेश ह रेतः॥१२॥
______________________________________________________________________
एवं चक्षुः श्रोत्र मनोरेतः प्रजननेन्द्रियमित्येते पर्याया व्याख्येयाः॥९॥१०॥११॥१२॥
अथ ह प्राण उत्क्रमिष्यन्यथा महासुहयः
सैन्धवः पड्वीशशङ्कून्संवृहेदेवँ हैवेमान्प्राणा-
न्संववर्ह ते होचुर्मा भगव उत्क्रमीर्न वै शक्ष्या-
मस्त्वदृते जीवितुमिति तस्यो मे बलिं कुरुतेति
तथेति॥१३॥ सा ह वागुवाच यद्वा अहं
वसिष्ठाऽस्मि त्वं तद्वसिष्ठोऽसीति यद्वा अहं
प्रतिष्ठाऽस्मि त्वं तत्प्रतिष्ठोऽसीति चक्षुर्यद्वा
अहँसंपदस्मि त्वं तत्संपदसीति श्रोत्रं यद्वा
अहमायतनमस्मि त्वं तदायतनमसीति मनो
यद्वाअहं प्रजातिरस्मि त्वं तत्प्रजातिरसीति
रेतस्तस्यो मे किमन्नं किं वास इति
______________________________________________________________________
अथ वागादिपरीक्षणप्रकारप्रदर्शनानन्तरं यथा लोके महांश्चासौ सुहयश्च महासुहयः परिमाणतो महाञ्शोभनलक्षणोपेतो हयः सुहयः सिन्धुदेशे भवः सैन्धवः पड्वीशाः पदनशीलाः पदः पादास्तेषां संहतिः पड्वी तस्या ईशा नियामकाः पड्वीशाश्चते शङ्कवश्च पड्वीशशङ्कवः पादबन्धनशङ्कवस्तान्संवृहेदुद्यच्छेत्परीक्षणायाश्वारोह आरूढे सति युगपच्चतुरोऽपि शङ्कुनुत्खनेदिति यावत्। यथाऽयं दृष्टान्त एवमेव ह मुख्यमाण उत्क्रमिष्यन्निमान्वागादीन्प्राणान्संववर्ह चिच्छेद342 स्वस्थानाद्धंशितवान्। एतावता किं सिद्धमित्यपेक्षायामाह—त इति। ते वागादयो होचुर्हे भगवो भगवंस्त्वं मोत्क्रमीर्यस्माद्वयं त्वदृते त्वां विना जीवितुं नैव शक्ष्यामः। यद्येवं मच्छ्रेष्ठताऽत्र भवद्भिर्विज्ञाता तर्हि तस्यो भवतां श्रेष्ठस्य मे मम बलिं करं कुरुत प्रयच्छत पराजितैर्हि विजयिने करो दीयत इति। इतरे तथाऽस्त्वित्यङ्गीचक्रुः॥१३॥
तत्र प्रथमं बलिदानाय प्रवृत्ता सा वाग्घोवाच। किं यद्वा अहं वसिष्ठाऽस्मि यन्मम वसिष्ठत्वं त्वं तद्वसिष्ठोऽसि तद्वसिष्ठत्वगुणस्तवैवेति यावत्। तथा यद्वा अहं प्रतिष्ठाऽस्मि त्वं तत्प्रतिष्ठोऽसीति चक्षुरुवाचेति प्रत्येकं सर्वत्र संबध्यते। समानमन्यद्रेत इत्यन्तम्। एवं वागादिभिर्दत्तं बलिदानमङ्गीकृत्यान्नवाससी पृच्छति—तस्येति। तस्यो मे मम प्राणस्य किमन्नं किं वास इत्येवं पृष्टा
यदिदं किंचाऽऽ श्वभ्य आ कृमिभ्य आ
कीटपतङ्गेभ्यस्तत्तेऽन्नमापो वास इति न ह
वा अस्यानन्नं जग्धं भवति नानन्नं प्रतिगृहीतं
य एवमेतदनस्यान्नं वेद तद्विद्वाँसः श्रोत्रिया
अशिष्यन्त आचामन्त्यशित्वाऽऽचामन्त्येतमेव
तदनमनग्नं कुर्वन्तो मन्यन्ते॥१४॥
इति बृहदारण्यकोपनिषदि षष्ठाध्यायस्य प्रथमं ब्राह्मणम्॥१॥
——————————————————————————————————————
इतरे प्रत्यूचुर्यदिदं किंचाऽऽश्वभ्य आ कृमिभ्य आ कीटपतङ्गेभ्यः श्वान्नं कृम्यन्नं कीटान्नं पतङ्गान्नं चेत्येतैः सह यदिदं किंच यत्किंचित्प्राण्यन्नं लोके दृश्यते तत्सर्वमेव ते तव प्राणस्यान्नमिति दृष्टिः कर्तव्या। तथा भक्ष्यमाणा आपः सर्वास्तव वास आच्छादनस्थानीया इति दृष्टिः कर्तव्या। इत्येवं कर्तव्यत्वेन विधित्सितयोर्दर्शनयोः क्रमेण343स्तुत्यर्थवादमाह—नेति। य एतत्सर्वप्राणिभिरद्यमानं सर्वमनस्य प्राणस्यैवान्नमित्येवं वेदास्य प्राणान्नविदो यदि कदाचिदनन्नमक्षणेऽप्यनन्नमनदनीयं नैव ह किल जग्धं भक्षितं भवति। तथा यद्यप्ययममतिग्राह्यं हस्त्यादिकं प्रतिगृह्णाति तथाऽप्यनन्नमप्रतिग्राह्यं नैव परिगृहीतं भवति तद्दोषेण न लिप्यत इति केवलं विद्यैव स्तूयते न वस्तुतस्तद्दोषाभावः। अभक्ष्यभक्षणाप्रतिग्राह्यप्रतिग्रहयोर्निषिद्धत्वात्। यस्मात्प्राणस्याऽऽपो वासस्तत्तस्माद्विद्वांसो ब्राह्मणाः श्रोत्रिया अशिष्यन्तो भोक्ष्यमाणा अप आचामन्त्यशित्वा च भुक्त्वा चाऽऽचामन्त्यो भक्षयन्ति। केनाभिप्रायेणेत्यपेक्षायामाह—एतमिति। एतनेवानं प्राणं तत्तेनोभयतोऽपोभक्षणेनानग्नमाच्छादितं कुर्वन्तो मन्यन्तेऽतः प्रायत्यार्थोक्ते स्मार्त आचमन एव वासोदृष्टिः कार्या न पुनः प्राणविदो वासार्थमाचमनान्तरं विधीयत इत्यर्थः॥१४॥
इति श्रीबृहदारण्यकव्याख्यायां मिताक्षराख्यायां नित्यानन्दाश्रमविरचितायां
षष्ठाध्याये प्रथमं ब्राह्मणम्॥१॥
-
*
** **अस्य खिलाधिकारत्वाज्ज्ञानकर्मकाण्डयोर्यदनुक्तं तद्वक्तव्यमित्येतदर्थमिदं प्रवृत्तम्। तत्र पूर्वमग्ने नय सुपथेति विशेषणादनेकमार्गसद्भाव उक्तः। ते के
श्वेतकेतुर्ह वा आरुणेयः पञ्चालानां परिषद-
माजगाम स आजगाम जैवलिं प्रवाहणं परि-
चारयमाणं तमुदीक्ष्याभ्युवाद कुमारा३ इति
स भो३ इति प्रतिशुश्रावानुशिष्टोऽन्वसि पित्रे-
त्योमिति होवाच॥१॥ वेत्थ यथेमाः
प्रजाः प्रयत्यो विप्रतिपद्यन्ता३ इति नेति
होवाच वेत्थो यथेमं लोकं पुनरापद्यन्ता३
————————————————————————————————————————
मार्गा इति जिज्ञासायां कर्मणा पितृलोक इत्याद्युक्तज्ञानरहितस्य केवलकर्मणस्तत्सहितस्य च ज्ञानस्य निषिद्धयोश्च तयोरुद्गीथब्राह्मणे पाप्मत्वेनोक्तयोः क्रमेण दक्षिणोदगधोमार्गा एतावदर इत्युक्तमोक्षमार्गविजातीया इति कथयितुं पञ्चाग्निविद्यास्तुत्याद्यर्थकाख्यायिकापूर्वकं श्वेतकेतुब्राह्मणं प्रवर्तते— श्वेतकेतुरिति। श्वेतकेतुर्नामतोऽरुणस्यापत्यमारुणिस्तस्यापत्यमारुणेयो ह किल पित्राऽनुशिष्टः सन्वै स्वकीयपाण्डित्यख्यापनाय पञ्चालानां देशविशेषाणां परिषदं सभामाजगामाऽऽगत्य344ब्राह्मणाञ्जित्वा राजानमपि जेष्यामीति गर्वेण स श्वेतकेतुर्जैवलिं जीवलस्यापत्यं पञ्चालराजानं परिचारयमाणं स्वभृत्यैरात्मनः परिचर्यांकारयन्तं प्रवाहणनामानं प्रत्याजगाम। स राजा पूर्वमेव तस्य विद्याभिमानगर्वं श्रुत्वा ब्राह्मणस्य शमादिकमुचितमतो विनेतव्योऽयमिति मत्वा तं श्वेतकेतुमुदीक्ष्योत्प्रेक्ष्याऽऽगतमात्रेण कुमारा३ इति बालवत्संबोध्याभ्युवादाभ्युक्तवान्प्लुतेर्भर्त्सनार्थत्वाद्भर्त्सितवानिति यावत्। सोऽपि कुमारः क्रोधाद्भो३ इति गुरोरिव प्लुत्या संबोध्य प्रतिशुश्राव। एवं प्रत्याश्रावितो राजा तं पृच्छति हे कुमार किं त्वं पित्रानुशिष्टोऽनुशिक्षितोऽसि नुन वा। इतर ओमनुशिष्टोऽस्म्येवेत्युवाच यदि ते संशयस्तर्हि पृच्छेत्यर्थः॥१॥
यद्येवं तर्हीमाः प्रसिद्धाः प्रजाः प्रयत्यो म्रियमाणा नाडीमार्गेणाभ्युदयं गच्छन्त्यो यन्मार्गद्वैविध्यप्रतिपत्त्या यथा लोकवद्विप्रतिपद्यन्ता३ इति प्लुतिरत्र विचारार्था। विप्रतिपद्यन्ता विप्रतिपद्यन्ते तद्विप्रतिपत्तिविषयं मार्गद्वयं किं वेत्थ जानासीत्युक्त इतरो नेति होवाचोक्तवान्। पुनर्द्वितीयं पृच्छति—वेत्थेति। इमाः परलोकं गताः प्रजाः पुनरिमं लोकं यथाऽऽपद्यन्ता आपद्यन्त आगच्छन्ति तथा
इति नेति हैवोवाच वेत्थो यथाऽसौ लोक
एवं बहुभिः पुनः पुनः प्रयद्भिर्न संपू-
र्यता३ इति नेति हैवोवाच वेत्थो यति-
थ्यामाहुत्याँ हुतायामापः पुरुषवाचो भूत्वा
समुत्थाय वदन्ती३ इति नेति हैवोवाच वेत्थो
देवयानस्य वा पथः प्रतिपदं पितृयाणस्य वा
यत्कृत्वा देवयानं वा पन्थानं प्रतिपद्यन्ते पितृ-
याणं वाऽपि हि न ऋषेर्वचः श्रुतं
द्वे सृती अशृणवं पितृणामहं देवाना-
मुत मर्त्यानां ताभ्यामिदं विश्वमेजत्समेति
————————————————————————————————————————
किं त्वं वेत्थ उ इत्युक्त इतरो नेति हैवोवाच। तृतीयं पृच्छति—वेत्थेति। एवं प्रसिद्धेन जरादिमरणहेतुना पुनः पुनः प्रयद्भिर्म्रियमाणैर्बहुभिः प्राणिभिरसौ परलोको यथा येन प्रकारेण न संपूर्यता इति न संपूर्यते तत्किं वेत्थ उ इत्युक्त इतरो नेति होवाच। चतुर्थं पृच्छति—वेत्थेति। यतिभ्यां यत्संख्याकायामाहुत्यां हुतायामापः पुरुषाकारपरिणताः सत्यः पुरुष इति वाग्वाचकभूता यासां ताः पुरुषवाचः पुरुषशब्दवाच्या भूत्वा समुत्थाय सम्यगुत्थायोद्भूताः सत्यो वदन्ति यद्वदनादिव्यापारं कुर्वन्ति तत्किं वेत्थ उ इत्युक्त इतरो नेति हैवोवाच। पञ्चमं पृच्छति—वेत्थेति। देवयानस्य पथो मार्गस्य प्रतिपदं प्रतिपद्यन्तेऽनयेति प्रतिपत्साधनं तां प्रतिपदं पितृयाणस्य वा पथः प्रतिपदं वेत्थ उ। किं तत्प्रतिपच्छब्दवाच्यमित्यपेक्षायामाह— यदिति। यत्कर्म कृत्वा देवयानं पन्थानं मार्गंपितृयाणं वा पन्थानं प्रतिपद्यन्ते सा प्रतिपदित्यर्थः। ननु मार्गद्वयं नास्त्येव तत्सद्भावे प्रमाणाभावादित्यत आह—अपीति। हि यस्मात्कर्मविपाकप्रक्रियायां मार्गद्वयप्रकाशकमृषेर्मन्त्रस्यापि वचो वाक्यं नोऽस्माकं श्रुतमस्ति। किं तदित्यत आह—द्वे इति। अहं मर्त्यानां मरणधर्माणां मनुष्याणां मनुष्यसंबन्धिनी द्वे सृती मार्गशृणवं श्रुतवानस्मि। तयोर्मध्य एका पितृणां पितृलोकसंबद्धा पितृलोकप्रापिकेति यावत्। द्वितीया तु, उतापि देवानां देवलोकसंबद्धा। अधिकृतानां मार्गान्तरशङ्कां वारयति—ताभ्यामिति। इदं विश्वं समस्तं जगदेजद्गच्छत्स्थानात्स्थानान्तरं प्राप्नुवत्सत्ताभ्यां सृतिभ्यामेव समेति सम्यग्ग-
यदन्तरा पितरं मातरं चेति नाहमत एकंचन
वेदेति होवाच॥२॥ अथैनं वसत्योपमन्त्र-
यांचक्रेऽनादृत्य वसतिं कुमारः प्रदुद्राव स आज-
गाम पितरं तँहोवाचेति वाव किल नो
भवान्पुराऽनुशिष्टानवोच इति कथँ सुमेध इति
पञ्च मा प्रश्नान्राजन्यबन्धुरप्राक्षीत्ततो नैकंचन
वेदेति कतमे त इतीम इति ह प्रतीकान्युदाज-
हार॥३॥ स होवाच तथा नस्त्वं तात जानीथा
यथा यदहं किंच वेद सर्वमहं तत्तुभ्यमवोचं
———————————————————————————————————————
च्छति। ते च सृती क वर्तेते इति वीक्षायामाह—यदिति। यद्ययोः पितरं मातरं च पितृमात्रोश्चान्तरा पितृमातृस्थानीययोर्द्यावापृथिव्योरण्डकपालयोर्मध्ये वर्तते। इतिशब्दो मन्त्रसमाप्तिद्योतकः। इतर आह—नेति। अतोऽस्मात्प्रश्नसमुदायादेकंचनैकमपि प्रश्नमहं न वेदेत्युवाच॥२॥
अथैवं विद्याभिमानगर्वापनयनानन्तरमेनं प्रकृतं श्वेतकेतुं वसत्या वसतिप्रयोजनेन राजोपमन्त्रयांचक्र इह वसतु भवानर्घ्यपाद्यादिकं गृहाणेत्युपमन्त्रणं कृतवान्। स तु कुमारः श्वेतकेतुर्वसतिमनादृत्यानङ्गीकृत्य प्रदुद्राव गतवान्। स कुमारो निर्गत्य पितरं प्रत्याजगामाऽऽगत्य तं पितरं प्रत्युवाच। कथमित्येवं वाव किल भवान्पुरा समावर्तनकाले नोऽस्माननुशिष्टानवोचोऽवोचत्सर्वाभिर्विद्याभिरननुशिष्ट्वैवेति। सोपालम्भं पुत्रवचः श्रुत्वा पिताऽऽह—कथमिति। हे सुमेधः सुष्ठु मेधा यस्येति व्युत्पत्तेः कथं त्वं नानुशिष्टोऽसि। तत्कारणं पुत्र आह—पञ्चेति। राज्ञः पुत्रा राजन्या बन्धवो यस्य स राजन्यबन्धुर्मा मां पञ्च पञ्चसंख्याकान्प्रश्नानप्राक्षीत्पृष्टवान्। ततस्तस्मात्प्रश्नपञ्चकादेकंचनैकमपि प्रश्नमहं न वेद न ज्ञातवानस्मीति। कतमे ते राजकृताः प्रश्ना इति पित्रोक्तः पुत्र इमे ते प्रश्ना इति ह प्रतीकानि मुखानि प्रश्नैकदेशानुदाजहारोदाहृतवान्॥३॥
स पिताऽऽह पुत्रक्रोधमुपशमयन्नुवाच। हे तात वत्स यथा येन प्रकारेण यत्किंच यत्किंचिद्विज्ञानजातमहं वेद तत्सर्वं तथा तेन प्रकारेण तुभ्यमवोचमित्येवं नोऽस्मांस्त्वं जानीथास्त्वत्तः कोऽन्यो मम प्रियतरोऽस्ति यदर्थमहं
प्रेहि तु तत्र प्रतीत्य ब्रह्मचर्यं वत्स्याव इति
भवानेव गच्छत्विति स आजगाम गौतमो
यत्र प्रवाहणस्य जैवलेरास तस्मा आसनमाहृ-
त्योदकमाहारयांचकाराथ हास्मा अर्घ्यं चकार
तँहोवाच वरं भगवते गौतमाय दद्म इति
॥४॥ स होवाच प्रतिज्ञातो म एष वरो यां
तु कुमारस्यान्ते वाचमभाषथास्तां मे ब्रूहीति
॥५॥ स होवाच दैवेषु वै गौतम तद्वरेषु
मानुषाणां ब्रूहीति॥६॥
——————————————————————————————————————————————————
रक्षिष्ये राजपृष्टां तु विद्यां तद्वंशमात्रस्थत्वादहमपि न जानामीति भावः। तद्विज्ञानं चेदवाप्तुमिच्छसि तर्हि प्रेह्यागच्छ तत्र राज्ञः345 समीपे प्रतीत्य गत्वा तु वयं ब्रह्मचर्यं वत्स्यावो विद्यार्थमिति पित्रोक्त इतर आह भवानेव गच्छत्विति। अहं तु तस्य मुखं निरीक्षितुं नोत्सह इत्युक्तः स आरुणिर्गौतमो गोत्रतस्तत्राऽऽजगामाऽऽगतवान्। कुत्र यत्र प्रवाहणस्य जैवलेरिति षष्ठीद्वयं प्रथमार्थे। जीवलस्यापत्यं जैवलिः प्रवाहणनामा राजाऽऽसाऽऽस्थायिकां कृतवान्। ततो राजा तस्मै गौतमायानुरूपमासनमाहृत्यार्घ्यपाद्यादिसिद्धय उदकं भृत्यैराहारयांचकार। अथानन्तरमस्मै पुरोधसा सार्धं मन्त्रपूर्वकमर्घ्यं चकार मधुपर्कादिकं च कृत्वा तं गौतमं प्रति होवाच। किं गौतमाय भगवते तुभ्यं वरमपेक्षितलक्षणं वयं दद्म इति॥४॥
एवमुक्तः स गौतमो होवाच। किं हे राजन्नेष मे मम वरस्त्वया याचनीयत्वेन प्रतिज्ञातस्तर्हि याच्यते कुमारस्य मत्पुत्रस्यान्ते समीपे यां तु प्रश्नरूपां वाचमभाषथास्तां मे ब्रूहीति॥५॥
एवं प्रार्थितः स राजा होवाच।हे गौतम यस्त्वया प्रार्थ्यते वरस्तदयं वै वरो दैवेषु देवप्रार्थनीयेषु वरेषु मध्ये वर्तते। स हि मनुष्याप्रार्थ्योऽतो मनुष्याणां गोश्वादिलक्षणानां वराणां मध्येऽन्यतमं वरं ब्रूहि प्रार्थयेति॥६॥
स होवाच विज्ञायते हास्ति हिरण्यस्या-
पात्तं गोअश्वानां दासीनां प्रवाराणां परिधा-
नस्य मा नो भवान्बहोरनन्तस्यापर्यन्तस्या-
भ्यवदान्यो भूदिति स वै गौतम तीर्थेने-
च्छासा इत्युपैम्यहं भवन्तमिति वाचा ह
स्मैव पूर्व उपयन्ति स होपायनकीर्त्यो-
वास॥७॥ स होवाच तथा नस्त्वं
गौतम माऽपराधास्तव च पितामहा यथेयं
विद्येतः पूर्वं न कस्मिँश्श्चन ब्राह्मण उवास
———————————————————————————————————————
एवमुक्तः स गौतमो होवाच मम बहुतरस्य हिरण्यस्यापात्तं प्राप्तमस्त्येतत्त्वयाऽपि ह विज्ञायते। तथा गवामश्वानां दासीनां प्रवाराणां परिवाराणां परिधानस्य परिधानयोग्यस्य क्षौमादेरप्यपात्तमित्यादि प्रत्येकं संबध्यतेऽतो मानुषो न प्रार्थ्यते। एवं सति भवान्भाग्यवांस्त्वमन्यस्मिन्नर्थिजने वदान्यो भूत्वा नोऽस्मानेवाभि प्रति बहोः प्रभूतस्यानन्तस्यानन्तफलस्यापर्यन्तस्यापरिसमाप्तिकस्य पुत्रपौत्रादिगामिकस्यैवंभूतस्य दैववित्तस्यावदान्यः कदर्यो मा भूदित्येवं प्रार्थितवन्तं प्रति राजाऽऽह— स इति। हे गौतम स त्वं तीर्थेन वा उपसदनशास्त्रविहितेन मार्गेण मत्तो विद्यामवाप्तुमिच्छासै, इच्छस्वान्यथाऽदेयत्वादिति। एवं राज्ञा स्मारितशास्त्रार्थो गौतम आह—उपैमीति। अहं भवन्तमुपैमि शिष्यत्वेनोपगच्छामीति। नन्वेवं शिष्यवृत्तिं कुर्वाणस्य शास्त्रविरोधः स्यादित्यतः श्रुतिराह—वाचेति। पूर्वे ह किल ब्राह्मणा विद्यामर्थयमानाः सन्त आपदि क्षत्त्रियान्वैश्यान्वा शिष्यवृत्त्या वाचैवोपगच्छन्ति स्म नोपायनशुश्रूषादिभिरतः स गौतमो होपायनमुपगमनं पादोपसर्पणं तस्य कीर्त्या कीर्तनमात्रेणैवोवासोषितवान्नोपायनं चकारेत्यर्थः॥७॥
स राजा पीडितं ब्राह्मणं मत्वा तं क्षमापयन्होवाच। हे गौतम तव च पितामहा अस्मत्पितामहेषु यथाऽपराधं क्षमन्ते तथा त्वमपि नोऽस्मान्प्रति माऽपराधा अपराधं मा कार्षीरस्मदीयोऽपराधः क्षन्तव्य इति यावत्। यत इयं विद्येतः पूर्वं कस्मिंश्चन कस्मिंश्चिदपि ब्राह्मणे नोवास नोषितवतीति त्वमपि जानीषे किंतु सर्वदा क्षत्त्रियपरम्परयैवाऽऽगताऽतः सा स्थितिर्मयाऽपि रक्षणीया यदि रक्षितुं शक्यत इत्यभिप्रायेणोक्तं दैवेषु गौतम तद्वरेषु मानुषाणां
तां त्वहं तुभ्यं वक्ष्यामि को हि त्वैवं ब्रुवन्तम-
र्हति प्रत्याख्यातुमिति॥८॥ असौ वै लोकोऽ-
ग्निर्गौतम तस्याऽऽदित्य एव समिद्रश्मयो
धूमोऽहरर्चिर्दिशोऽङ्गारा अवान्तरदिशो विस्फु-
लिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति
तस्या आहुत्यै सोमो राजा संभवति॥९॥
———————————————————————————————————————
ब्रूहीति न पुनरदेयेयमित्यभिप्रायेणातः परं तु न शक्यते रक्षितुमतस्तामेतादृशीं तु विद्यामहं तुभ्यं वक्ष्यामि। कुतो रक्षितुं न शक्यत इत्यत आह—को हीति। तवाहं शिष्योऽस्मीत्येवं ब्रुवन्तं त्वा त्वां भवन्तं हि यस्मात्कोऽप्यन्योऽपि प्रत्याख्यातुं नार्हति तस्मादहं पुनः कथं तुभ्यं न वक्ष्यामीत्यर्थः॥८॥
तत्र प्रथमादीनां चतुर्थप्रश्ननिर्णयाधीनत्वात्तावत्तस्य निर्णयार्थमाह— असाविति। हे गौतमासौ वै प्रसिद्धो द्युलोक आहवनीयोऽग्निरिति दृष्टिः कर्तव्या। तस्य द्युलोकाग्नेरादित्य एव समिदिति पश्येदिन्धनत्वसामान्यात्। तथा रश्मयो धूमस्तयोरादित्यसमिद्भ्यामुद्भवत्वसामान्यात्। अहरर्चिरुभयोः प्रकाशकत्वसामान्यात्। दिशोऽङ्गारा उभयोरुपशान्तत्वसामान्यात्। अवान्तरदिशो विस्फुलिङ्गा उभयोर्विक्षेपात्मकत्वसामान्यात्। तस्मिन्नेतस्मिन्नेवंगुणविशिष्टे द्युलोकाग्नौ देवा इन्द्रादयः श्रद्धां द्रव्यस्थानीयां जुह्वति प्रक्षिपन्ति। तस्या आहुत्या इति चतुर्थीद्वयं पञ्चम्यर्थे सर्वपर्यायेषु तस्या आहुतेः सकाशात्सोमः पितॄणां ब्राह्मणानां च राजाऽधिपतिः संभवत्युत्पद्यते। ननु द्युलोकदेवश्रद्धासोमादेः कथमाहवनीयहोतृहूमानोत्पत्तित्वादेः संभव इति चेच्छृणु। ते वा एते आहुती हुते उत्क्रामतस्ते अन्तरिक्षमाविशतस्ते अन्तरिक्षमेवाऽऽहवनीयं कुर्वाते इत्यादिश्रुतेः शरीरपातोत्तरकालमाहवनीयादिविस्फुलिङ्गान्तैः साधनैर्विशिष्टं सयजमानमेवाग्निहोत्रमपूर्वीभूतमुत्क्रम्याऽऽहवनीयस्थानीयं द्युलोकमारभते। तत्र गता यजमानप्राणा एवाऽऽधिदैविकभूता इन्द्रादिशब्दवाच्याः सन्तस्तत्र भोक्तृत्वलक्षणं होतृत्वमापद्यन्ते। तत्र श्रद्धा वा आप इति श्रुतेस्तच्छब्देनोच्यमानं भूतान्तरसहितानामपां सोमाद्यात्मकानां कर्तुः शरीरारम्भाय द्युलोकमवेशनमेव होमः। तस्माच्चन्द्रमण्डलान्तर्गतस्य शुभ्ररूपेण दृश्यमानस्य सोमस्य शुक्लपक्ष आप्यायनमेवोत्पत्तिरित्यनवद्यम्। विस्तृतं चैतदस्माभिर्बृहदारण्यकार्थप्रकाशिकायामित्युपरम्यते॥९॥
पर्जन्यो वा अग्निर्गौतम तस्य संवत्सर एव
समिदभ्राणि धूमो विद्युदर्चिरशनिरङ्गारा ह्रादु-
नयो विस्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवाः
सोमँराजानं जुह्वति तस्या आहुत्यै वृष्टिः
संभवति॥१०॥ अयं वै लोकोऽग्निर्गौतम
तस्य पृथिव्येव समिदग्निर्धूमो रात्रिरर्चिश्चन्द्रमा
अङ्गारा नक्षत्राणि विस्फुलिङ्गास्तस्मिन्नेतस्मि-
न्नग्नौ देवा वृष्टिं जुह्वति तस्या आहुत्या अन्नँ
संभवति॥११॥
————————————————————————————————————————
स सोमः पर्जन्याग्नौ हुतः सन्वृष्टिरूपेण परिणमत इत्याह— पर्जन्य इति। हे गौतम पर्जन्यो वै वृष्ट्युपकरणाभिमानी देवतात्माऽग्निः स चाऽऽहुत्यावृत्तिक्रमेण द्वितीय आहुत्याधारस्तस्य संवत्सरः समित्संवत्सरेण हि शरदादिग्रीष्मान्तैः स्वावयवैर्विपरिवर्तमानेन पर्जन्याग्निर्दीप्यते। अभ्राणि धूमस्तेषां धूमप्रभवत्वाद्धूमवदुपलक्षकत्वाद्वा। विद्युदर्चिः प्रकाशनसामान्यात्। अशनिः प्रकाशाश्रयभूतोऽङ्गारा उपशान्तत्वकाठिन्यत्वसामान्याभ्याम्। ह्रादुनयो ह्रादनयः स्तनयित्नुशब्दा विस्फुलिङ्गा विक्षेपानेकत्वसामान्याभ्याम्। तस्मिन्नेतस्मिन्पर्जन्याग्नौ देवाः प्रागुक्ताः सोमं राजानं प्रागुक्तं जुह्वति तस्याः सोमाहुतेर्वृष्टिः संभवत्युत्पद्यते॥१०॥
एवमुत्पन्ना दृष्टिरस्मिल्ँ लोके हुता सत्यन्नरूपेण परिणमत इत्याह—अयमिति। हे गौतमायं वै लोकः पृथिव्यभिमानिदेवताया देहभूतस्तृतीयोऽग्निस्तस्याग्नेः पृथिव्येव पृथिव्यभिमानिदेवतैव समित्तया ह्ययं लोकः समिध्यते। अग्निर्धूम उभयोः पार्थिवद्रव्याश्रितत्वेनोत्थानसामान्यात्। रात्रिरर्चिरुभयोः समित्संबन्धप्रभवत्वसामान्यादग्नेः समित्संबन्धेन ह्यर्चिः संभवति। तथा पृथिवीसमित्संबन्धेन रात्रिस्तस्या हि पृथिवीछायारूपत्वात्। चन्द्रमाः सोमाश्रयोऽप्रकाशरूपोऽङ्गारास्तयो रात्र्यर्चिर्भ्यामुद्भवत्वप्रकाशाश्रयत्वादिसामान्यात्। नक्षत्राणि विस्फुलिङ्गा विक्षेपत्वसामान्यात्। तस्मिन्नेतस्मिन्नेतल्लोकाग्नौ देवा वृष्टिं जुहति तस्या आहुतेरन्नमदनीयं व्रीह्यादि संभवति॥११॥
पुरुषो वा अग्निर्गौतम तस्य व्यात्तमेव समि-
त्प्राणो धूमो वागर्चिश्चक्षुरङ्गाराः श्रोत्रं विस्फु-
लिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति
तस्या आहुत्यै रेतः संभवति॥१२॥
योषा वा अग्निर्गौतम तस्या उपस्थ एव
समिल्लोमानि धूमो योनिरर्चिर्यदन्तः करोति
तेऽङ्गारा अभिनन्दा विस्फुलिङ्गास्तस्मिन्नेत-
स्मिन्नग्नौ देवा रेतो जुह्वति तस्या आहुत्यै
पुरुषः संभवति स जीवति यावज्जीव-
——————————————————————————————————————
तदन्नं पुनः पुरुषाग्नौ हुतं सद्रेतोरूपेण परिणमत इत्याह—पुरुष इति। हे गौतम वै प्रसिद्धः शिरःपाण्यादिमान्पुरुषश्चतुर्थोऽग्निस्तस्य व्यात्तं विवृतं मुखं समित्समिधाऽग्निरिव पुरुषोऽपि वचनस्वाध्यायादौ विवृतेन मुखेन दीप्यते प्राणोऽध्यात्मवायुर्धूमो मुखसमिद्भ्यामुत्थानत्वसाम्यात्। वाक्शब्दोऽर्चिरुभयोरभिधेयव्यञ्जकत्वसामान्यात्। चक्षुरङ्गाराः प्रकाशाश्रयत्वादिसामान्यात्। श्रोत्रं विस्फुलिङ्गा विक्षेपसामान्यात्। तस्मिन्नेतस्मिन्पुरुषाग्नौ देवा आध्यात्मिका वागादयोऽन्नं जुह्वति तस्या आहुते रेतः संभवति॥१२॥
तत्पुनर्योषाग्नौ हुतं सत्पुरुषाकारेण परिणमत इत्याह—योषेति। हे गौतम योषास्त्री वै पञ्चमोऽग्निस्तस्या उपस्थ उपस्थेन्द्रियमेव समित्तेन हि सा समिध्यते। लोमानि धूम उभयोरुपस्थसमिद्भ्यमुत्थानसामान्यात्। योनिरिन्द्रियाश्रयप्रदेशोऽर्चिर्वर्णसामान्यात्। अन्तर्योनिमध्ये यन्मै346थुनव्यापाररूपं कर्म करोति तेऽङ्गारा उभयोस्तेजोवीर्याद्युपशान्तिकरत्वसामान्यात्। तत्कर्मवशादुत्पन्ना अभिनन्दाः सुखलवा विस्फुलिङ्गाः क्षुद्रत्वसामान्यात्। तस्मिन्नेतस्मिन्योषिदग्नौ देवा अध्यात्मप्राणरूपा रेतो जुह्वति तस्या आहुतेः पुरुषः शिरःपाण्यादिमान्संभवतीत्येवं क्रमेण यतिथ्यामाहुत्यां हुतायामापः पुरुष347वचो भवन्तीति चतुर्थप्रश्ननिर्णय उक्तः। एवमुत्पन्नस्य स्वाभाविकं व्यापारमाह—स इति। एवं क्रमेण जातः पुरुषो जीवति कियन्तं कालमित्यत आह—यावदिति। यावत्कालपर्यन्तमस्मिञ्शरीरे स्थितिनिमित्तं कर्म विद्यते तावत्कालं जीवति।
त्यथ यदा म्रियते॥१३॥ अथैनमग्नये हरन्ति
तस्याग्निरेवाग्निर्भवति समित्समिद्धूमो धूमोऽ-
र्चिरर्चिरङ्गारा अङ्गारा विस्फुलिङ्गा विस्फुलिङ्गा-
स्तस्मिन्नेतस्मिन्नग्नौदेवाः पुरुषं जुह्वति तस्या
आहुत्यै पुरुषो भास्वरवर्णः संभवति॥१४॥
ते य एवमेतद्विदुर्ये चामी अरण्ये श्रद्धाँ सत्य-
मुपासते तेऽर्चिरभिसंभवन्त्यर्चिषोऽहरह्न आपू-
र्यमाणपक्षमापूर्यमाणपक्षाद्यान्षण्मासानुदङ्ङा-
—————————————————————————————————————
अथ तत्क्षये सति यदा यस्मिन्काले म्रियते॥१३॥
अथ तदैनं मृतमग्नयेऽग्न्यर्थमन्त्याहुत्या ऋत्विजो हरन्ति तस्याऽऽहुतिभूतस्य होमाधिकरणं प्रसिद्धोऽग्निरेवाग्निर्भवति न परिकल्प्योऽग्निस्तथा प्रसिद्धैव समित्समिद्धमो धूमोऽर्चिरर्चिरङ्गारा अङ्गारा विस्फुलिङ्गा विस्फुलिङ्गा यथाप्रसिद्धमेवैतत्सर्वम्। तस्मिन्नेतस्मिन्मसिद्धेऽग्नौ देवा ऋत्विजः पुरुषमन्त्याहुतिं जुह्वति प्रक्षिपन्ति। तस्या आहुतेः पुरुषो भास्वरवर्णोऽतिशयेन दीप्तिमाभिषेकादिभिरन्त्येष्ट्यन्तैः कर्मभिः संस्कृतत्वात्संभवति निष्पद्यते॥१४॥
एवं पञ्चाग्निविदो मृतस्य गतिं वक्तुं मार्गविप्रतिपत्तितत्साधनयोः प्रथमपञ्चमयोः प्रश्नयोर्निर्णया348र्थमाह—त इति। ये गृहिणस्त्रैवर्णिका एवमुक्तसमिदादिविशिष्टान्पञ्चाग्नीन्विदुर्ये चामी वानप्रस्थाः श्रवणाद्यनधिकृता आश्रमधर्ममात्रनिरताः संन्यासिनश्चारण्ये स्त्रीजनासंकीर्णे देशे श्रद्धापूर्वकं सत्यं हिरण्यगर्भाख्यं ब्रह्मोपासते तउभयविधा अर्चिरर्चिरभिमानिनीं देवतामातिवाहिकीमभिसंभवन्ति प्रतिपद्यन्ते। ब्रह्मवित्संन्यासिनां तु न तस्य प्राणा उत्क्रामन्तीत्युक्तत्वात्। नैष्ठिकब्रह्मचारिणां च गुरुकुलवासादेरुत्तरमार्गप्रतिपत्तिः स्मर्यते-
‘अष्टाशीतिसहस्राणां मुनीनामूर्ध्वरेतसाम्।
उत्तरेणार्यम्णः पन्थास्तेऽमृतत्वं हि भेजिरे’ इति॥
अर्चिषः सकाशादहरहर्देवतामातिवाहिकीमभिसंभवन्तीति प्रत्येकं संबध्यते। अह्न आपूर्यमाणपक्षं शुक्लपक्षदेवतामापूर्यमाणपक्षाद्यान्षण्मासानुदङ्ङ्त्ततंदिश-
दित्यएति मासेभ्यो देवलोकं देवलोकादादि-
त्यमादित्याद्वैद्युतं तान्वैद्युतान्पुरुषो मानस एत्य
ब्रह्मलोकान्गमयति ते तेषु ब्रह्मलोकेषु पराः
परावतो वसन्ति तेषां न पुनरावृत्तिः॥१५॥
अथ ये यज्ञेन दानेन तपसा लोकाञ्जयन्ति ते
धूममभिसंभवन्ति धूमाद्रात्रिँरात्रेरपक्षीय-
माणपक्षमपक्षीयमाणपक्षाद्यान्षण्मासान्दक्षि-
णाऽऽदित्य एति मासेभ्यः पितृलोकं पितृलो-
काञ्चन्द्रं ते चन्द्रं प्राप्यान्नं भवन्ति ताँस्तत्र
देवा यथा सोमँराजानमाप्यायस्वापक्षीय-
—————————————————————————————————————————
मादित्यः सूर्य एति तान्षण्मासानुत्तरायणाभिमानिदेवतारूपान्प्रतिपद्यन्ते। मासेभ्य उक्तषण्मासेभ्यो देवलोकं तदभिमानिनीं देवतां देवलोकादादित्यं प्रसिद्धमादित्याद्वैद्युतं विद्युदभिमानिनीं देवतां तान्वैद्युतान्विद्युद्दवताप्राप्तान्मानसो ब्रह्मणा मनसा सृष्टो ब्रह्मलोकवासी पुरुषः कश्चिदेत्याऽऽगत्य ब्रह्मलोकान्प्रति गमयति नयति। अत्र बहुवचनं तूपासनातारतम्येन सायुज्याद्यपेक्षया। ते ब्रह्मलोकप्राप्तास्तेषु ब्रह्मलोकेषु पराः प्रकृष्टाः सन्तः परावतः प्रकृष्टान्ब्राह्ममानमितान्संवत्सराञ्शतसंख्याकान्वसन्ति। तेषां न पुनरस्मिन्कल्प आवृत्तिरंस्ति कल्पान्तरे त्वावर्तन्ते। तेषामिहेति माध्यंदिनादिश्रुतौ विशेषणात्। यद्वा तत्राऽऽत्मैक्यज्ञानोत्पत्त्यपेक्षयाऽत्यन्तमेवानावृत्तिरित्यर्थः॥१५॥
एवं देवयानमार्गं ससाधनमुक्त्वा पितृयाणमार्गमाह—अथेति। अथ पुनर्ये नैवं विदुः केवलकर्मिणो यज्ञेन दर्शपूर्णमासादिना दानेन सत्पात्रादौ द्रव्यत्यागेन तपसा कृच्छ्रचान्द्रायणादिना लोकान्पितृलोकाञ्जयन्ति प्राप्नुवन्ति ते तत्प्राप्तिसाधनमार्गभूतं धूमं धूमाभिमानिनीं देवतामभिसंभवन्ति प्रतिपद्यन्ते। धूमाद्रात्रिं रात्रिदेवतां रात्रेरपक्षीयमाणपक्षं कृष्णपक्षदेवतामपक्षीयमाणपक्षाद्यान्षण्मासान्दक्षिणां दिशं प्रत्यादित्य एति तान्षण्मासदेवता-विशेषान्प्रतिपद्यन्ते। तेभ्यो मासेभ्यः पितृलोकं पितृलोकाच्चन्द्रं ते कर्मिणश्चन्द्रं प्राप्यान्नंभवन्ति भोग्यत्वं प्रतिपद्यन्ते। कथमित्यपेक्षायामाह—तानिति। यथा यज्ञ ऋत्विजश्चमसस्थं सोमं राजानमाप्यायस्वाऽऽप्याय्याऽऽप्याय्य पुनः पुनराप्यायनं कृत्वाऽपक्षी-
स्वेत्येवमेनाँस्तत्र भक्षयन्ति तेषां यदा तत्पर्य-
वैत्यथेममेवाऽऽकाशमभिनिष्पद्यन्त आकाशा-
द्वायुं वायोर्वृष्टिं वृष्टेः पृथिवीं ते पृथिवीं प्राप्यान्नं
भवन्ति ते पुनः पुरुषाग्नौ हूयन्ते ततो योषाग्नौ
जायन्ते लोका प्रत्युत्थायिनस्त एवमेवानुपरि-
वर्तन्तेऽथ य एतौ पन्थानौ न विदुस्ते कीटाः
पतङ्गा यदिदं दन्दशूकम्॥१६॥
इति बृहदारण्यकोपनिषदि षष्ठाध्यायस्य द्वितीयं ब्राह्मणम्॥२॥
———————————————————————————————————————————————————
यस्व पुनः पुनर्भक्षणेनापक्षयं ह्रासं कृत्वा भक्षयन्ति। यथाऽयं दृष्टान्त एवमेवानन्नभूतांस्तत्र चन्द्रलोके लब्धशरीरानेतान्कर्मिण उपकरणभूतांस्तत्र सोमलोके स्वकर्मानुरूपफलदानलक्षणमाप्यायनं कृत्वा देवाःस्वनियोगकरणेन श्रमलक्षणमपक्षयं कुर्वन्तो भक्षयन्त्युपभुञ्जते सेवकमिव राजेत्यर्थः। एवं ते य एवमेतद्विदुर्ये चामी यज्ञेनेत्यादिना चोभयमार्गप्रतिपत्तिसाधनोक्त्या पञ्चमं प्रश्नं तेऽर्चिरभिसंभवन्ति ते धूममित्यादिना चोत्तरदक्षिणमार्गप्रदर्शनेन प्रथमं प्रश्नं च निर्णीयेदानीमेतल्लोकप्राप्तिप्रकारप्रदर्शनेन द्वितीयतृतीयप्रश्नयोर्निर्णयमाह—तेषामिति। तेषां कर्मिणां यदा यस्मिन्काले तद्यज्ञादिपितृलोकप्रापकं कर्म पर्यवैति परिगच्छति क्षीयतेऽथ तदा त इममेव प्रसिद्धमाकाशमभिनिष्पद्यन्ते तच्छरीरारम्भककर्मक्षयात्तदारम्भकीभूताः श्रद्धाशब्दवाच्या आपो विलीयमाना आकाशवत्सूक्ष्मभूताः सत्य आकाशं प्राप्नुवन्ति। आकाशाद्वायुमितस्ततो भ्राम्यमाणं प्रतिपद्यन्ते। वायोर्वृष्टिं प्रतिपद्यन्ते। वृष्टेः पृथिवीं प्राप्नुवन्ति। ते कर्मिणः पृथिवीं प्राप्यान्नं भवन्त्यन्नेन व्रीह्यादिना संश्लेषं प्राप्नुवन्ति। ते पुनः पुरुषाग्नौ हुता रेतोभूता योषाग्नौ हुताः पुरुषाख्याः कर्मानुतिष्ठन्तो म्रियमाणाः पुनरावर्त्यमाना इत्येवमेवानु वारंवारं घटीयन्त्रवच्चक्रीभूताः परिवर्तन्ते परिभ्रमन्त्यनवरतमित्यर्थः। एवं स्थानद्वयमावृत्तिसहितमुक्त्वा स्थानान्तरमाह—अथेति। अथ पुनर्य उत्तरं दक्षिणं चेत्येतौ पन्थानौ न विदुस्तत्प्रतिपत्तिहेतुभूतं ज्ञानं वा कर्म वा नानुतिष्ठन्ति ते पुनः कीटा गोमयादिकुत्सितस्थानेषु कृमयो भवन्ति। पतङ्गा349भवन्ति यदिदं यच्चेदं दन्दशूकं दशनशीलं दंशमशक-
स यः कामयेत महत्प्राप्नुयामित्युदगयन आपूर्यमा-
णपक्षस्य पुण्याहे द्वादशाहमुपसद्व्रती भूत्वौदु-
म्बरे कँसे चमसे वा सर्वौषधं फलानीति
संभृत्य परिसमुह्य परिलिप्याग्निमुपसमाधाय परि-
स्तीर्याऽऽवृताऽऽज्यँसँस्कृत्य पुँसा नक्षत्रेण मन्थँ
———————————————————————————————————————————————————
पन्नगादि दृश्यते तत्सर्वं यथाकर्म तारतम्येन भवन्तीति कष्टा हीयं गतिस्तस्मात्सदेवानुष्ठेयम्। तथाच परलोकगतानामाकाशादिद्वारा पुनरावृत्तिकथनेन द्वितीयतृतीयप्रश्नौ निर्णीतावित्यर्थः॥१६॥
इति बृहदारण्यक व्याख्यायां मिताक्षराख्यायां षष्ठाध्याये
द्वितीयं ब्राह्मणम्॥२॥
<MISSING_FIG href="../books_images/U-IMG-1733894616Screenshot2024-11-14162430.png"/>
———————————————————————————————————————————————————
अथैतद्दक्षिणमार्गप्राप्तिहेतुभूतकर्मसाधनीभूतवित्तोपायभूतमप्रत्यवायद्वारकं श्रीमन्थाख्यं कर्म साधिकार्यादि कथयितुमिदं ब्राह्मणं प्रवर्तते—स य इति। यः कर्माधिकृतो गृही प्राणविन्महन्महत्त्वं प्राप्नुयां महान्स्यामिति कामयते स उदगयन उदगुदीचि, आदित्यस्यायनं गमनं यस्मिन्काले स उदगयनस्तस्मिंस्तत्राप्यापूर्यमाणपक्षस्य शुक्लपक्षस्य पुण्याहे पुण्यदिवसे कर्मसिद्धिकरे यस्मिन्कर्म चिकीर्षितं ततः प्राक्पुण्याहमेवाऽऽरभ्य द्वादशाहं द्वादशदिवसपर्यन्तमुपसद्व्रती भूत्वोपसदो ज्योतिष्टोम इष्टिविशेषास्तासु यद्व्रतं स्तनोपचयापचयाभ्यां पयोभक्षणादिरूपं तत्केवलमुपचयादीतिकर्तव्यताशून्यं पयोभक्षणादिमात्रं विद्यते यस्य स उपसद्व्रती भूत्वौदुम्बरवृक्षमये कथंभूते कंसे कंसाकारे वर्तुलाकारे चमसे चमसाकारे वा पात्रे सर्वौषधं सर्वासामोषधीनां वक्ष्यमाणव्रीह्यादिधान्यानां समूहं सर्वौषधं फलानि च यथासंभवमभक्ष्यादिवर्जितानीत्येवमादि संभरणीयं संभृत्य परिसमुह्योपलिप्येत्यादिभूसंस्कारं कृत्वा तत्राग्निमुपसमाधायेत्येकवचनसमाधानादिश्रवणात्स्मार्तमेवाऽऽवसथ्याग्निंसंस्थाप्य तस्य परितः प्रागग्रानुदगग्रान्वा दर्भानास्तीर्याऽऽस्तीर्येत्यादिस्वगृह्योक्तं सर्वं कृत्वाऽऽवृदितिकर्तव्यता तयाऽऽवृताऽस्य कर्मणः स्मार्तत्वात्स्थालीपाकोक्तेतिकर्तव्यतयाऽऽज्यं विलापनादिना संस्कृत्य वक्ष्यमाणेध्मानां चाऽऽधानादिकं कृत्वा। कदेत्यत आह—पुंसेति। पुंसा पुंनाम्ना हस्तादिनक्षत्रेण युक्तोक्तपुण्याहे मन्थं वक्ष्यमाणत्वेनो-
संनीय जुहोति। यावन्तो देवास्त्वयि जातवेद-
स्तिर्यञ्चो घ्नन्ति पुरुषस्य कामान्। तेभ्योऽहं भा-
गधेयं जुहोमि ते मा तृप्ताः सर्वैः कामैस्तर्पयन्तु
स्वाहा। या तिरश्चीनिपद्यतेऽहं विधरणी इति तां
त्वा घृतस्य धारया यजे सँराधनीमहँस्वाहा
॥१॥ ज्येष्ठाय स्वाहा श्रेष्ठाय स्वाहेत्यग्नौ हुत्वा
मन्थे सँस्त्रवमवनयति प्राणाय स्वाहा वसिष्ठायै
स्वाहेत्यग्नौहुत्वा मन्थे सँस्रवमवनयति वाचे
स्वाहा प्रतिष्ठायै स्वाहेत्यग्नौ हुत्वा मन्ये सँ-
स्रवमवनयति चक्षुषे स्वाहा संपदे स्वाहेत्यग्नौ
हुत्वा मन्थे सँस्रवमवनयति श्रोत्राय स्वाहाऽऽ-
———————————————————————————————————————————————————
क्तसर्वौषधादीनां पिष्टं तेषां तथाकर्तव्यत्वेन वक्ष्यमाणत्वादुक्ते कंसे चमसे वा वक्ष्यमाणदधिमधुघृतैरुपसिच्य वक्ष्यमाणोपमन्धिनीद्वयमध्य एकया मन्थिन्योपमन्थ्यैवंभूतं मन्थं संनीयाग्नेःस्वस्य च मध्ये दक्षिणाश्रिते देशे संस्थाप्य वक्ष्यमाणौदुम्बरेण स्रुवेण संस्कृतमाज्यं गृहीत्वा वक्ष्यमाणैर्मन्त्रैर्जुहोति जुहुयात्। ते क इति वीक्षायामाहुतिद्वयाङ्गभूतं मन्त्रद्वयं देवताप्रार्थनार्थकं तावदाह—यावन्त इति। जातं जातं वेत्ति जाते जाते प्राणिनि जाठरत्वेन विद्यत इति वा जातवेदास्तस्य संबुद्धिर्भो जातवेदस्त्वयि त्वदधीना यावन्तो देवास्तिर्यञ्चो वक्रमतयः सन्तः पुरुषस्य मम कामानभीप्सितार्थान्घ्नन्ति प्रतिबध्नन्ति तेभ्यो देवेभ्योऽहं भागधेयमाज्यभागं जुहोमि त्वय्यर्पयामि। ते तु देवास्तृप्ता भूत्वा सर्वैरपि कामैः पुरुषार्थैर्मा मां तर्पयन्तु प्रीणयन्तु स्वाहेति प्रथमाहुतिप्रक्षेपमन्त्रः। भो जातवेदो या देवता तिरश्चीतिरोऽञ्चतीति तिरश्ची कुटिलमतिर्भूत्वाऽहमेव विधरणी सर्वस्य धारयित्रीति च मत्वा त्वास्वां निपद्यते त्वामाश्रित्य वर्तते तां संराधनीं सर्वसाधनीं देवतामहं घृतस्य धारया यजे स्वाहेत्याहुतिद्वये संस्रवावनयनं न कर्तव्यमश्रुतत्वादित्यर्थः॥१॥
अथ षड्द्वंद्वाहुतीः प्रतिद्वंद्वं संस्रवावनयनयुक्ताः समन्त्रा आह। ज्येष्ठाय स्वाहा श्रेष्ठाय स्वाहेत्यग्नौ हुत्वा संस्रवं स्त्रुवावलिप्तमाज्यं मन्थे पूर्वो-
यतनाय स्वाहेत्यग्नौ हुत्वा मन्थे सँस्त्रवमवन-
यति मनसे स्वाहा प्रजात्यै स्वाहेत्यग्नौ हुत्वा
मन्थे सँस्रवमवनयति रेतसे स्वाहेत्यग्नौ
हुत्वा मन्थे सँस्रवमवनयति॥२॥
अग्नये स्वाहेत्यग्नौ हुत्वा मन्थे सँस्रवमवन-
यति सोमाय स्वाहेत्यग्नौ हुत्वा मन्थे सँस्रव-
मवनयति भूः स्वाहेत्यग्नौ हुत्वा मन्थे सँ-
स्रवमवनयति भुवः स्वाहेत्यग्नौ हुत्वा मन्थे
सँस्रवमवनयति स्वः स्वाहेत्यग्नौ हुत्वा मन्थे
सँस्रवमवनयति भूर्भुवः स्वः स्वाहेत्यग्नौ
हुत्वा मन्थे सँस्रवमवनयति ब्रह्मणे स्वाहे-
त्यग्नौ हुत्वा मन्थे सँस्रवमवनयति क्षत्त्राय
स्वाहेत्यग्नौहुत्वा मन्थे सँस्रवमवनयति
भूताय स्वाहेत्यग्नौ हुत्वा मन्थे सँस्रवमवन-
यति भविष्यते स्वाहेत्यग्नौ हुत्वा मन्थे सँ-
स्रवमवनयति विश्वाय स्वाहेत्यग्नौहुत्वा मन्थे
सँस्रवमवनयति सर्वाय स्वाहेत्यग्नौ हुत्वा
मन्थे सँस्रवमवनयति प्रजापतये स्वाहेत्यग्नौ
हुत्वा मन्थे सँस्रवमवनयति॥३॥
———————————————————————————————————————————————————
क्तेऽवनयति सिञ्चेदित्यारभ्य रेतसे स्वाहेत्यग्नौ हुत्वा मन्ये सँस्रवमवनयतीत्यतः प्राक्तनेन॥२॥
तदारभ्याऽऽतृतीयकण्डिकासमाप्तेश्चतुर्दशाऽऽहुतीः प्रत्येकं संस्रवावनयनयुक्ताः समन्त्रका आह—रेतसे स्वाहेत्यादिना। एतच्च मन्थद्रव्यं द्वितीययोपमन्थिन्या पुनर्मन्थनीयं तस्या अन्यत्र विनियोगादर्शनादिति बोद्धव्यम्॥३॥
अंथैनमभिमृशति श्रमदसि ज्वलदसि पूर्णमसि
प्रस्तब्धमस्येकसभमसि हिंकृतमसि हिंक्रिय-
माणमस्युद्गीथमस्युद्गीयमानमसि श्रावितमसि
प्रत्याश्रावितमस्यार्द्रे संदीप्तमसि विभूरसि प्रभू-
रस्यन्नमसि ज्योतिरसि निधनमसि संवर्गोऽ-
सीति॥४॥ अथैनमुद्यच्छत्यामँस्यामँ-
हि ते महि स हि राजेशानोऽधिपतिः स माँ
राजेशानोऽधिपतिं करोत्विति॥५॥
———————————————————————————————————————————————————
अथैवमालोडनानन्तरमेनं मन्थंहस्तेनाभिमृशत्यभिमर्शनं कुर्यान्मन्त्रं पठंस्तदर्थं च स्मरन्। कोऽसौ मन्त्र इत्यत आह—भ्रमदंसीति। हे मन्थ तव चलनात्मकप्राणदेवतात्मकत्वात्तद्रूपेण350 त्वं भ्रमदसि। अग्निरूपेण त्वं ज्वलदसि। ब्रह्मरूपेण त्वं पूर्णमसि। नभोरूपेण त्वं प्रस्तब्धं निष्क्रियमसि। या खल्वेका सभा जगदात्मिका सा त्वदात्मिकैवेति त्वमेक्सभमसि। यज्ञारम्भे प्रस्तोत्रा यद्धिंकृतं तत्त्वमसि। तेनैव च यज्ञमध्यहिंक्रियमाणं त्वमसि। यज्ञारम्भ उद्गातृकृतमुद्गीथं त्वमसि। तेनैव च यज्ञमध्य उद्गीयमानं त्वमसि। अध्वर्युणा श्रावितमाश्रावितं त्वमसि। आग्नीध्रेण च त्वं प्रत्याश्रावितमसि। आर्द्रे मेघोदरे विद्युद्रूपेण त्वं संदीप्तमसि। विविधं भवसीति त्वं विभुर्व्यापकोऽसि। भाग्यरूपेण त्वं प्रभुः समर्थोऽसि। भोग्यरूपेण सोमात्मनाऽवस्थितत्वात्त्वंमन्नमसि। भोक्तृरूपेणाग्न्यात्मना त्वं ज्योतिरसि। कारणत्वात्त्वमध्यात्माधिदैवयोर्निधनं लयस्थानमसि। वागादीनामग्न्यादीनां च संहरणत्वात्त्वं351संवर्गोऽसीति॥४॥
अथैवमभिमर्शनानन्तरमेनं मन्त्रपूतं मन्थंसचमसमुद्यच्छति हस्ते गृह्णाति। तन्मन्त्रमाह—आमंसीति। हे मन्थ त्वमामंसि, आसमन्ताद्भावेन सर्वंजानासि। वयं च ते तव महि महत्तरं रूपमामंहि मन्यामहे जानीमः। स हि प्राणस्त्वं राजा न केवलं राजैवापि त्वीशान ईशानशक्तिमत्त्वेऽपि राजकुमारवन्न परतन्त्रः किंत्वधिपतिः स्वतन्त्रः। एवंगुणविशिष्टः स राजेशानो भवान्मा मामधिपतिं तथाभूतमेव करोत्विति॥५॥
अथैनमाचामति तत्सवितुर्वरेण्यम्। मधु वातो
ऋतायते मधु क्षरन्ति सिन्धवः। माध्वीर्नः
सन्त्वोषधीः। भूः स्वाहा। भर्गो देवस्य
धीमहि। मधु नक्तमुतोषसो मधुमत्पार्थिवँ
रजः। मधु द्यौरस्तु नः पिता। भुवः स्वाहा।
धियो यो नः प्रचोदयात्। मधुमान्नो वन-
स्पतिर्मधुमाँ अस्तु सूर्यः। माध्वीर्गावो भवन्तु
नः। स्वः स्वाहेति सर्वां च सावित्रीमन्वाह
सर्वाश्चमधुमतीरहमेवेदँ सर्वंभूयासं भूर्भुवः
स्वः स्वाहेत्यन्तत आचम्य पाणी प्रक्षाल्य
जघनेनाग्निं प्राक्शिराः संविशति प्रातरा-
———————————————————————————————————————————————————
अथानन्तरमेनं हस्ते गृहीतं मन्थं ग्रासचतुष्टयं कृत्वा पृथक्पृथक्संस्थाप्य प्रथमग्रासमाचामति भक्षयति। तन्मन्त्रमाह—तदिति। सवितुः सर्वप्रसवहेतोस्तद्वरेण्यं वरणीयं वाता वायुप्रभेदा मधु सुखमृतायत ऋतायन्ते वान्ति। सिन्धवो नद्यो मधु मधुररसान्क्षरन्ति स्रवन्ति। ओषधीश्च नोऽस्मान्प्रति माध्वीर्मधुररसाः सन्तु। भूर्भूर्लोकः। स्वाहेति मन्त्रेण प्रथमं ग्रासं भक्षयित्वा भर्गस्तेजो देवस्य द्योतनवतः सवितुर्धीमहि चिन्तयेमहि। नक्तं रात्रिरुताप्युषसो दिवसाश्चमधु प्रीतिकराः सन्तु। पृथिव्या मातुः संबन्धि पार्थिंवं रजो मधुमदनुद्वेगकरमस्तु। द्यौर्द्युलोकः पिता नोऽस्माकं मधुकरोऽस्तु। भुवर्भुवर्लोकः। स्वाहेति द्वितीयं ग्रासं भक्षयित्वा यः सविता नोऽस्माकं धियो बुद्धीः शुभविषये प्रेरयेत्तस्य तद्वरेण्यं भर्गो धीमहीति पूर्वेण संबन्धः। वनस्पतिः सोमो नोऽस्माकं मधुमाननुद्वेगकरोऽस्तु। सूर्यश्च मधुमानस्तु नोऽस्माकं गावो रश्मयो दिशो वा माध्वीः सुखकरा भवन्तु। स्वः स्वर्लोकः। स्वाहेति मन्त्रेण तृतीयं ग्रासं भक्षयित्वा सर्वां च सावित्रीं गायत्रीं सर्वाश्च मधुमत्तीरुक्त्वाऽनु पश्चादहमेवेदं सर्वं भूयासमित्याह वदेत्ततो भूर्भुवः स्वः स्वाहेति निरवशेषं यथा स्यात्तथा चतुर्थंग्रासं भक्षयेत्। पात्रं प्रक्षाल्य तदुदकमपि पिवेत्। अन्ततो भक्षणान्त आचम्याऽऽचमनं कृत्वा पाणी हस्तौ प्रक्षाल्य शुद्धाचमनं विधाय जघनेनाग्निमग्नेः पश्चिमतः प्राक्शिरा रात्रौ संविशति शयीत। ततः प्रातः
दित्यमुपतिष्ठते दिशामेकपुण्डरीकमस्यहं मनु-
ष्याणामेकपुण्डरीकं भूयासमिति यथेतमेत्य
जघनेनाग्निमासीनो वँशं जपति॥६॥
तँहैतमुद्दालक आरुणिर्वाजसनेयाय याज्ञव-
ल्क्यायान्तेवासिन उक्त्वोवाचापि य एनँ
शुष्के स्थाणौ निषिञ्चज्जायेरञ्छाखाः प्ररो-
हेयुः पलाशानीति॥७॥ एतमु हैव वाजस-
नेयो याज्ञवल्क्यो मधुकाय पैङ्ग्यायान्तेवासिन
उक्त्वोवाचापि य एनँ शुष्के स्थाणौ निषि-
ञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति॥८॥
एतमु हैव मधुकः पैङ्ग्यश्चूलाय भागवित्तयेऽ-
न्तेवासिन उक्त्वोवाचापि य एनँशुष्के
स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पला-
शानीति॥९॥ एतमु हैव चूलो भागवित्तिर्जा-
———————————————————————————————————————————————————
ध्यापूर्वकं प्रातरुदयसमय आदित्यं वीक्षमाणस्तमुपतिष्ठत उपस्थानं मन्त्रेण पर्यात्। तन्मन्त्रमाह—दिशामिति। हे सूर्य यथा त्वं दिशामेकपुण्डरीकमखश्रेष्ठोऽसि तथाऽहं मनुष्याणामेकपुण्डरीकमुक्तार्थं भूयासं भवेयमिति मन्त्रेणोस्थानानन्तरं पूर्वं शयनाद्यथेतं गतं तथैत्य गत्वा जघनेनाग्निमग्नेः पश्चिमदेश उदासीन उपविष्टः सन्वंशमेतद्विद्योपदेशकाचार्यपरम्परालक्षणं जपति जपेत्॥६॥
तद्वंशमाह—तमिति। तं मन्थमेतमुक्तकर्तव्यताकं ह किलारुणस्यापत्यमारुणिद्दालकनामा वाजसनेयाय याज्ञवल्क्यायान्तेवासिने शिष्यायोक्त्वोपदिश्योचोक्तवान्। किमपि च यः प्राणोपासक एनमुक्तविधया संस्कृतं मन्थं दि शुष्के स्थाणौ वृक्षे निषिञ्श्चेत्प्रक्षिपेत्तर्हि तस्मिन्स्थाणौ शाखा अवयवा येरन्नुत्पद्येरन्। पलाशानि पर्णानि च प्ररोहेयुरुद्गच्छेयुरत इदं कर्म ध्रुवफमिति स्तूयते॥७॥
तथैतमु हैव वाजसनेय इत्यादितमेतदित्यतःप्राक्तनवंशजपसमाप्तिकमिदं
नकय आयस्थूणायान्तेवासिन उक्त्वोवाचापि य
एनँशुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररो-
हेयुः पलाशानीति॥१०॥ एतमु हैव जानकि-
रायस्थूणः सत्यकामाय जाबालायान्तेवासिन
उक्त्वोवाचापि य एनँ शुष्के स्थाणौ निषि-
ञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति॥११॥
एतमु हैव सत्यकामो जाबालोऽन्तेवासिभ्य
उक्त्वोवाचापि य एनँ शुष्के स्थाणौ निषि-
ञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति तमेतं
नापुत्राय वाऽनन्तेवासिने वा ब्रूयात्॥१२॥
चतुरौदुम्बरो भवत्यौदुम्बरः स्रुव औदुम्ब
रश्चमस औदुम्बर इध्म औदुम्बर्या उप-
मन्थन्यौ दश ग्राम्याणि धान्यानि भवन्ति
व्रीहियवास्तिलमाषा अणुप्रियंगवो गोधूमाश्च
———————————————————————————————————————————————————
कर्म। तद्विद्यासंप्रदानमाह—तमिति। तं तदेतन्मन्थविज्ञानमपुत्राय पुत्रेभ्यो व्यतिरिक्ताय वाऽनन्तेवासिने वा शिष्यव्यतिरिक्ताय कस्मैचिदपि न ब्रूयान्नोपदिशेदित्यर्थः॥८॥९॥१०॥११॥१२॥
सर्वौषधत्वेन सामान्यत उक्तं विशेषतश्च वक्ष्यमाणत्वेन स्थितं सर्वमाह—चतुरिति। उदुम्बरस्य विकार औदुम्बरश्चतुश्चतुःसंख्याको भवति। तदेवाऽऽह—औदुम्बरः स्रुव औदुम्बरश्चमस औदुम्बर इध्म औदुम्बर्या उपमन्थन्यावित्येतत्प्रसिद्धार्थकम्352। मन्थोपादानभूतानि ग्राम्याणि धान्यानि दशेति विशेषणं नियमार्थं न त्वन्यव्यावृत्त्यर्थमतोऽधिकग्रहणेऽप्यदोषः। कानि तानीत्यत आह। व्रीहियवास्तिलमाषाः प्रसिद्धाः। अणुमोरियमिति353 विन्ध्याचलप्रदेशे प्रसिद्धम्। प्रियंगवः कङ्गुशब्दवाच्यत्वेन गुर्जरदेशे प्रसिद्धाः। गोधूमाश्च
मसूराश्चखल्वाश्चखलकुलाश्चतान्पिष्टा-
न्दधनि मधुनि घृत उपसिञ्चत्याज्यस्य
जुहोति॥१३॥
इति बृहदारण्यकोपनिषदि षष्ठाध्यायस्य तृतीयं ब्राह्मणम्॥३॥
एषां वै भूतानां पृथिवी रसः पृथिव्या
आपोऽपामोषधय ओषधीनां पुष्पाणि
पुष्पाणां फलानि फलानां पुरुषः पुरुषस्य
रेतः॥१॥ स ह प्रजापतिरीक्षां चक्रे ह-
न्तास्मै प्रतिष्ठां कल्पयानीति स स्त्रियँ
ससृजे ता सृष्ट्वाऽध उपास्त तस्मा-
———————————————————————————————————————————————————
मसूराश्च प्रसिद्धाः। खल्वाश्च निष्पावा वल्लशब्दवाच्याः। खलकुलाः कुलत्थाः। तानेतान्व्रीह्यादीन्कृतपिष्टान्पात्रे निक्षिप्य दधिमधुघृत उपसिच्याक्तान्कृत्वाऽऽज्यभागान्तं स्वगृह्योक्तविधिना कृत्वाऽऽज्यस्याऽऽहुतीर्जुहोत्येतत्पूर्वोक्तेन सहास्य संबन्धं द्योतयितुमुक्तमित्यर्थः॥१३॥
इति बृहदारण्यकव्याख्यायां मिताक्षराख्यायां षष्ठाध्याये
तृतीयं ब्राह्मणम्॥३॥
<MISSING_FIG href="../books_images/U-IMG-1733995121Screenshot2024-11-14162430.png"/>
एवं प्राणोपासकस्य वित्तार्थिनः श्रीमन्थाख्यं कर्मोपदिश्य तस्यैव विशिष्टपुत्रार्थिनः पुत्रमन्थाख्यं कर्म वक्तुमुत्तरं ब्राह्मणं प्रवर्तते। तत्राऽऽदौ पुत्रोत्पत्तिहेतुरेतोबीजं स्तोतुमाह—एषामिति। एषां वै प्रसिद्धानां चराचराणां भूतानां पृथिवी रसः सारभूता मधुब्राह्मणे तत्कारणत्वोक्तेः। पृथिव्या आपो रसोऽस्त्रोतं चेत्यपां पृथिवीकारणत्वोक्तेः। अपामोषधयो रस ओषधीनामपकार्यत्वात्। तथौषधीनां पुष्पाणि पुष्पाणां फलानि फलानां पुरुषः पुरुषस्य रेतो रसः॥१॥
स हेति। स प्रजापतिर्विराडात्मा देक्षामालोचनां चक्रे कृतवान्। कथम्। हन्तास्मै सर्वसारभूताय रेतसे योग्यां प्रतिष्ठां कल्पयानीति विचार्य स प्रजापतिः स्त्रियं पत्नीशब्देनोक्तां शतरूपाख्यां ससृजे। तां सृष्ट्वा प्रजापतिरधःप्रदेशे योन्याख्य उपास्त मैथुनाख्यमुपासनं कृतवान्यस्मात्तस्मादद्यतनोऽपि
स्त्रियमध उपासीत स एतं प्राञ्चं ग्रावाणमा-
त्मन एव समुदपारयत्तेनैनामभ्यसृजत्॥२॥
तस्या वेदिरुपस्थो लोमानि बर्हिश्चर्माधिषवणे
समिद्धो मध्यतस्तौ मुष्कौ स यावान्ह वै
वाजपेयेन यजमानस्य लोको भवति तावा-
नस्य लोको भवति य एवं विद्वानधोपहासं
चरत्यासाँ स्त्रीणाँसुकृतं वृङ्क्तेऽथ य इद-
मविद्वानधोपहासं *चरत्यस्य स्त्रियः सुकृतं
वृञ्जते॥३॥ एतद्ध स्म वै तद्विद्वानुद्दालक
———————————————————————————————————————————————————
स्त्रियमधःप्रदेशेऽवाच्यकर्मणोपासीत। नन्वेतत्किमर्थं विधीयतेऽस्य स्वभावत एव प्राप्तत्वादित्यतोऽत्र वाजपेयदृष्टिकरणार्थमिति तत्साधर्म्यमाह—स इति। स पशुकर्मणि प्रवृत्तः काम्यात्मनः स्वीयमेवैतं प्राञ्चंप्रागञ्चमानं ग्रावाणं सोमाभिषवोपलस्थानीयं प्रजननेन्द्रियं समुदपारयदुत्पूरितवान्स्त्रीव्यञ्जनाभिमुखं कृतवांस्तेन पाषाणवत्कठिनेनैनां स्त्रियमभ्यसृजदभिसमन्ततो मुहुर्मुहुः संसर्गं कृतवान्॥२॥
तस्याः स्त्रिया उपस्थ एव वेदिः प्रसिद्धसाधर्म्यात्। तत्स्थानि लोमानि बर्हिः। योनिस्थचर्माऽऽनडुहं चर्म। तौ तत्स्थौ पुरुषस्य दक्षिणोत्तरौ मुष्कौवृषणावधिषवणे दक्षिणोत्तरे सोमाभिषवफलके इत्यन्वयः। स्त्रीव्यञ्जनस्य मध्यतो मध्यदेशः समिद्धो दीप्तोऽग्निः। अस्मिन्वाजपेयदृष्टिकरणे किं स्यादित्यत आह—स इति। स प्रसिद्धो यावत्परिमाणो लोको वाजपेयेन यजमानस्य भवति तावानस्यैवमवाच्यकर्मोपासितुर्लोको भवति। किंच। य एवं यथोक्तं वाजपेयसाम्यमस्य कर्मणो विद्वानधोपहासमवाच्यं कर्म चरत्यनुतिष्ठति स स्त्रीणां सुकृतं शुभं कर्म वृङ्क्त आवर्जयति स्वीकरोति। अथ पुनर्योऽस्य वाजपेयसंपन्नत्वं रेतसः सारतमत्वं चाविद्वानधोपहासं चरत्यस्याविदुषः सुकृतं स्त्रियो वृञ्जत उपभुञ्जते॥३॥
अविदुष एतद्गर्हितमित्यत्रानेकाचार्यसंमतिमाह—एतदिति। उद्दालक
आरुणिराहैतद्धस्म वै तद्विद्वान्नाको मौद्गल्य
आहैतद्ध स्म वै तद्विद्वान्कुमारहारित आह
बहवो मर्या ब्राह्मणायना निरिन्द्रिया विसुकृ-
तोऽस्माल्लोकात्प्रयन्ति य इदमविद्वाँसोऽधोप-
हासं चरन्तीति बहु वा इदँ सुप्तस्य वा जाग्रतो
वा रेतः स्कन्दति॥४॥तदभिमृशेदनु वा
मन्त्रयेत यन्मेऽद्य रेतः पृथिवीमस्कान्त्सीद्यदोष-
धीरप्यसरद्यदपः। इदमहं तद्रेत आददे पुनर्मामै-
त्विन्द्रियं पुनस्तेजः पुनर्भगः। पुनरग्निर्धिष्ण्या
———————————————————————————————————————————————————
आरुणिर्हतदेतदवाच्यं कर्म वाजपेयसंपन्नं विद्वानाह स्म तथा नाको मौद्गल्यः कुमारहारितश्चाऽऽह स्म। किम्। बहवो मर्या मरणधर्माणो मनुष्या ब्राह्मणा अयनं येषां ते ब्राह्मणायना ब्राह्मणजातिमात्रोपजीविनो ब्राह्मणाभासा निरिन्द्रिया विश्लिष्टेन्द्रिया विसुकृतो विगतपुण्याः सन्तोऽस्माल्लोकात्प्रयन्ति परलोकभ्रष्टाः सन्तो नरकं गच्छन्ति। के ते। ये पशुकर्माण इदं वाजपेयसंपन्नत्वमविद्वांसोऽविजानन्तोऽधोपहासं चरन्तीति। श्रीमन्धकर्म कृत्वा पत्न्या ऋतुकालं ब्रह्मचर्येण प्रतीक्षमाणस्य सुप्तस्य जाग्रतो वा रागबाहुल्याद्बहु वा स्वल्पं वा यदिदं रेतः स्कन्दति निःसरति॥४॥
तदा तत्स्कन्नं रेतो हस्तेनाभिमृशेत्स्पृशेदनु पश्चान्मन्त्रयेच्च वाशब्दोऽत्र चार्थः। तन्मन्त्रमाह—यदिति। मे ममाद्याप्राप्तकाले यद्रेतः पृथिवीं प्रत्यस्कान्त्सीत्स्कन्नमासीद्यदोषधीः प्रति च पूर्वमप्यसरदगमद्यच्चापः स्वयोनिं प्रति गतमभूत्तदिदं रेतः संप्रत्यहमाददे गृह्णामीति मन्त्रेणानामिकाङ्गुष्ठाभ्यामादाय गृहीत्वा भ्रुवौ स्तनौ वाऽन्तरेण भ्रुवोः स्तनयोर्वा मध्ये निमृज्याल्लेपयेदित्यन्वयः। केन मन्त्रेणेत्यत आह—पुनर्मामित्यादिना। रेतोरूपेण बहिर्निर्गतमिन्द्रियं पुनर्मां प्रत्यैतु354 समागच्छतु। तेजस्त्वग्गता कान्तिः। साऽपि रेतोनिर्गमनान्निर्गता पुनर्मामैत्वित्यनुषङ्गः। तथा भगः सौभाग्यं ज्ञानं वा पुनरायातु। अग्निर्धिष्ण्यं स्थानं येषां देवानां तेऽग्निधिष्ण्या देवाः।
यथास्थानं कल्पन्तामित्यनामिकाङ्गुष्ठाभ्यामा-
दायान्तरेण स्तनौ वा भ्रुवौ वा निमृज्यात्॥५॥
अथ यद्युदक आत्मानं पश्येत्तदभिमन्त्रयेत
मयि तेज इन्द्रियं यशो द्रविणँसुकृतमिति
श्रीर्ह वा एषा स्त्रीणां यन्मलोद्वासास्तस्मान्म-
लोद्वाससं यशस्विनीमभिक्रम्योपमन्त्रयेत॥६॥
सा चेदस्मै न दद्यात्काममेनामवक्रीणीयात्सा
चेदस्मै नैव दद्यात्काममेना यष्ट्या वा पाणिना
वोपहत्यातिक्रामेदिन्द्रियेण ते यशसा यश
———————————————————————————————————————————————————
रेफश्छान्दसः। ते देवास्तद्रेतो यथास्थानं कल्पन्तां कल्पयन्तु। इतिशब्दो मन्त्रसमाप्तिद्योतक इत्यर्थः॥५॥
निमित्तान्तरे प्रायश्चित्तकथनार्थोऽथशब्दः। यदि कदाचित्प्रमादत उदके रेतःसिक्स्वस्याऽऽत्मानं छायां पश्येत्तदा तदुदकमभिमन्त्रयेत। तन्मन्त्रमाह—मयीति। इन्द्रियं रेतो मय्यस्त्वित्यध्याहारः। किंलक्षणमिन्द्रियम्। तेजो विज्ञानं यशः कीर्तिर्द्रविणं वित्तं सुकृतं सत्कर्मेति। एतानि विशेषणानि तु तादृग्गुणपुत्रोत्पादनहेतुत्वात्। इतिशब्दः पूर्ववत्। अथ यस्यां पुत्रो जनयितव्यस्तां स्तौति—श्रीरिति। स्त्रीणां मध्ये हैषा पत्नी श्रीर्गुणाढ्या यद्यस्मान्मलोद्वासा उद्गतमलवद्वस्त्रा तस्मात्तां मलोद्वाससं यशस्विनीं कीर्तिमतीं वक्ष्यमाणत्रिरात्रव्रतं कृत्वा चतुर्थेऽह्नि स्नातामभिक्रम्याभिगम्येदमद्याऽऽवाभ्यां कार्यं यद्विशिष्टपुत्रोत्पादनमित्यभिमन्त्रयेत कथयेत॥६॥
सा चेदस्मै कामाकुलाय मैथुनं कर्तुं न दद्यात्तदैनां स्वभार्यां कामं यथाभिलषितभोग्यादिभिरवक्रीणीयाद्वशीकुर्यात्। एवमपि सा चेदस्मै पशुकर्म कर्तुमवकाशं नैव दद्यात्तदैनां भार्यां यष्ट्या दण्डेन पाणिना हस्तेन वोपहत्य संताड्य कामं यथेष्टमतिक्रामेदभिगच्छेत्। एवं बलात्कारासंभवे पुनरुपायान्तरमाह—इन्द्रियेणेति। शप्स्यामि त्वां दुर्भगां करिष्यामीति प्रख्याप्येन्द्रियेण पञ्चमेन्द्रियेण यशसा यशोहेतुना कृत्वा ते तव यशो यशोहेतुपुत्रो355
आदद इत्ययशा एव भवति॥७॥ सा
चेदस्मै दद्यादिन्द्रियेण ते यशसा यश आद-
धामीति यशस्विनावेव भवतः॥८॥ स
यामिच्छेत्कामयेत मेति तस्यामर्थं निष्ठाय
मुखेन मुखँसंधायोपस्थमस्या अभिमृश्य जपे-
दङ्गादङ्गात्संभवसि हृदयादधिजायसे। स त्वम-
ङ्गकषायोऽसि दिग्धविद्धामिव मादयेमाममूं
मयीति॥९॥ अथ यामिच्छेन्न गर्भं दधीतेति
तस्यामर्थं निष्ठाय मुखेन मुखँसंधायाभिप्रा-
ण्यापान्यादिन्द्रियेण ते रेतसा रेत आदद इत्यरेता
———————————————————————————————————————————————————
त्तिकरं रेतोऽहमाददे गृह्णामीति मन्त्रेण शपेत्। सा चैवं शप्ता सत्ययशा पुत्रैव भवति॥७॥
एवं शापभयात्सा चेदस्मा अवाच्यं कर्म कर्तुमवकाशं दद्यात्तदा सेन्द्रियेणोक्तलक्षणेन ते तव यश आदधाम्यारोपयामीत्यनेन मन्त्रेणनिवर्तिते सति यशस्विनावेवोभावपि भवत इत्यर्थः॥८॥
अथ या भर्तुर्द्वेषिणी भवति तस्यास्तद्विषये प्रीतिसंपत्त्युपायमाह—स। स पूर्वोक्तमन्थकर्मण्यधिकृतः कामीयं मा मां कामयेताभिलषेतेति भार्यांयामिच्छेत्तस्यां योनावर्थं प्रजननेन्द्रियं निष्ठाय निक्षिप्य स्त्रीमुखेन सह मुखं संधाय मेलयित्वा तस्या उपस्थं पाणिनाऽभिमृश्य स्पृष्ट्वा जपेन्मन्त्रम्। आऽऽह—अङ्गादिति। हे रेतस्त्वं मदीयात्सर्वस्मादङ्गात्संभवसि समुत्पद्यसे षतञ्च हृदयान्नाडीद्वारेणाधिजायसे प्रकटी भवसि। एवंविधः स त्वमङ्गानां यो रसोऽसि। अतो दिग्धविद्धामिव विषलिप्तशरविद्धां मृगीमिवेमाममूं भार्यां मयि विषये मादय मदयुक्तां कुरु मद्वशां कुर्वित्यर्थः॥९॥
अथशब्दः कामनान्तरोपक्रमार्थः। यौवनादिभ्रंशभयाद्यां स्वभार्यामिच्छेन दधीत न धारयेदिति तस्यामर्थमित्यादि पूर्ववत्। अभिप्राण्यापान्याकर्मकाले प्रथमं स्वीयपुंस्त्वद्वारा तदीयस्त्रीत्वे वायुविसर्जनरूपमभिप्राणनं तेनैव द्वारेण तदादानलक्षणमपाननं च कुर्यात्। तन्मत्रमाह—येणेति। इन्द्रियेण रेतसा ते रेत आदद इत्यनेनैव मन्त्रेणैवं कृते सत्यरेता
एव भवति॥१०॥ अथ यामिच्छेद्दधीतेति
तस्यामर्थं निष्ठाय मुखेन मुखँ संधाया-
पान्याभिप्राण्यादिन्द्रियेण ते रेतसा रेत
आदधामीति गर्भिण्येव भवति॥११॥ अथ
यस्य जायायै जारः स्यात्तं चेद्द्विष्यादामपा-
त्रेऽग्निमुपसमाधाय प्रतिलोमँ शरबर्हिस्ती-
र्त्वा तस्मिन्नेताः शरभृष्टीः प्रतिलोमाः सर्पि-
षाऽक्ता जुहुयान्मम समिद्धेऽहौषीः प्राणा-
पानौ त आददेऽसाविति मम समिद्धेऽ-
हौषीः पुत्रपशूँस्त आददेऽसाविति मम
समिद्धेऽहौषीरिष्टासुकृते त आददेऽसाविति
———————————————————————————————————————————————————
एव सा भवति॥१०॥
अथ गर्भं दधीतेति यामिच्छेक्त्तस्यामर्थमित्यादि पूर्ववदपान्याभिप्राण्यात्स्वकीयपञ्चमेन्द्रियेण तदीयपञ्चमेन्द्रियाद्रेतः स्वीकृत्य तत्पुत्रोत्पत्तिसमर्थं कृतमिति मत्वा स्वकीयरेतसा सह तस्मिन्निक्षिपेदित्येतादृशमपाननपूर्वकमभिप्राणनं कर्मेन्द्रियेण रेतसा रेत आदधामीत्यनेन मन्त्रेणैवं कृते सति सा गर्भियेव भवति॥११॥
अथ यस्य गृहिणो जायायै जायाया भार्याया जार उपपतिः स्यात्तं चेज्जारं स्वाभाविकः पतिर्द्विष्यात्तदाऽऽमपात्रेऽपक्कमृन्मये भाजन उल्लेखनादिपञ्चभूसंस्कारपूर्वकमग्निमुपसमाधाय प्रतिलोमं दक्षिणाग्रं पश्चिमाग्रं वा यथा स्यात्तथा शरमयंं बर्हिस्तीर्त्वाऽऽस्तीर्य तस्मिन्नग्नावेताः प्रसिद्धाः शरभृष्टीर्वाणेषीकाः प्रतिलोमा विपरीताग्राः सर्पिषाऽक्ता घृताक्ता जुहुयात्। तन्मन्त्रमाह—ममेति। मम स्वभूते योषाग्नौ यौवनादिना समिद्धेऽहौषी रेतो हुतवानस्यतोऽपराधिनस्ते तव प्राणापानावादद इति मन्त्रमुच्चार्य फडित्युक्त्वा होमं कुर्यादन्ते चासावित्यात्मनः शत्रोर्वा नाम गृह्णीयात्। तथा मम समिद्धेऽहौषीरिति शत्रोरपराधं ज्ञाप्य पुत्राश्च पशवश्च पुत्रपशवस्तान्पुत्रपशूंश्चाहमादद इति पूर्ववद्द्वितीयाहुतिं हुत्वाऽन्तेऽसाविति नाम गृह्णीयात्। तथा मम समिद्धेऽहौषीरित्यत इष्टासुकृते श्रौतस्मार्ते कर्मणी त्वदीये अहमादद इति तृतीयामाहुतिं हुत्वाऽसावित्युच्चारयेत्।
मम समिद्धेऽहौषीराशापराकाशौ त आददेऽ-
साविति स वा एष निरिन्द्रियो विसुकृतोऽ-
स्माल्लोकात्प्रैति यमेवंविद्ब्राह्मणः शपति तस्मा-
देवंविच्छ्रोत्रियस्य दारेण नोपहासमिच्छेदुत
ह्येवंवित्परो भवति॥१२॥ अथ यस्य
जायामार्तवं विन्देत्त्र्यहं कँसेन पिबेदहतवासा
नैनां वृषलो न वृषल्युपहन्यात्त्रिरात्रान्त आप्लुत्य
व्रीहीनवघातयेत्॥१३॥ स य इच्छे-
———————————————————————————————————————————————————
तथा मम समिद्धेऽहौषीरित्यत आशा प्रार्थना पराकाशः प्रतिज्ञा तस्या निष्पादितस्य कर्मणः प्रतीक्षा तावाशापराकाशौ ते तवाऽऽदद इति चतुर्थाहुतिं हुत्वाऽसावित्युच्चारयेदिति। यथोक्ताभिचारकर्मद्वारा शापदानफलमाह—स इति। एवंविन्मन्थकर्म विद्वान्प्राणदर्श्येवयं ब्राह्मणं शपति स वा एष ब्राह्मणो निरिन्द्रियो निर्गतेन्द्रियो विसुकृद्विगतपुण्यकर्मा सन्नस्माल्लोकात्प्रैति गच्छति। तस्मादुक्तवक्ष्यमाणहेतोरेवंवित्परदारगमने यथोक्तवक्ष्यमाणानिष्टविच्छ्रोत्रियस्य दारेण सह नोपहासमिच्छेन्नर्मापि न कुर्यात्किमुताधोपहासम्। हि यस्मादुतैवंविदप्युक्तकर्मादिविच्छ्रोत्रियोऽपि परः शत्रुर्भवति तस्मादिदं पापकर्म न कार्यमित्यर्थः॥१२॥
एवं प्रासङ्गिकमिदमाभिचारिकं कर्मोक्त्वेदानीं प्रकृतऋतुकालानुष्ठेयं व्रतकलापमाह—अथेति। अथ यदा यस्य मन्थविधिज्ञस्य जायामार्तवमृतुभावं (वो) विन्देत्प्राप्नुयात्तदा तस्य भार्या तदारभ्य त्र्यहं दिवसत्रयं कंसे कांस्यपात्रे न पिवेन्नाश्रीयादहतवासा अनुपहतवासाश्च स्यात्स्नानोत्तरकाल इति बोध्यम्। एनां व्रतस्थां वृषलः शूद्रो नोपहन्यान्न स्पृशेद्वृषली तद्भार्या च नोपहन्यात्। एवं त्रिरात्रान्ते चतुर्थेऽहनि प्रातःकाल आप्लुत्य356 स्नात्वा पूर्वोक्ताहतवस्त्रादिविशिष्टां व्रीहीनवघातयेच्चरुश्रपणार्थम्॥१३॥
तस्मिन्नेव दिवसे चरुहोमानन्तरं यथाकामं पक्त्वा भक्षणीयमिति क्रममभिप्रेत्य तथा भक्षणं तावदाह—स य इच्छेदित्यारभ्याथातः प्रातरेवेत्यतः प्राक्त-
**त्पुत्रो मे शुक्लो जायेत वेदमनुब्रुवीत सर्व-
मायुरियादिति क्षीरौदनं पाचयित्वा सर्पि-
ष्मन्तमश्नीयातामीश्वरौ जनयितवै॥१४॥
अथ य इच्छेत्पुत्रो मे कपिलः पिङ्गलो जायेत
द्वौ वेदावनुब्रुवीत सर्वमायुरियादिति दध्योदनं
पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौजन-
यितिवै॥१५॥ अथ य इच्छेत्पुत्रो मे श्यामो
लोहिताक्षो जायेत त्रीन्वेदाननुबुवीत सर्वमायु-
रियादित्युदौदनं पाचयित्वा सर्पिष्मन्तमश्री-
यातामीश्वरौ जनयितवै॥१६॥ अथ य
इच्छेद्दुहिता मे पण्डिता जायेत सर्वमायु-
रियादिति तिलौदनं पाचयित्वा सर्पिष्म-
न्तमश्नीयातामीश्वरौ जनयितवै॥१७॥
अथ य इच्छेत्पुत्रो मे पण्डितो विजिगीथः **
———————————————————————————————————————————————————
नेन। मे मम पुत्रः शुक्लो बलदेववद्गौरः शुद्धो वा जायेतैकं वेदमनुब्रुवीत पठेत्सर्वं शतवर्षप्रमितमायुरियादवाप्नुयादिति य इच्छेत्स क्षीरौदनं क्षीरेणौदनं स्वभार्ययैव पाचयित्वा सर्पिष्मन्तं घृताप्लुतं तमोदनं कृत्वा तौ दंपती अश्नीयातां ततश्च तौ यथोक्तपुत्रं जनयितवै जनयितुमीश्वरौ समर्थौ॥१४॥
कपिलो वर्णतः पिङ्गलः पिङ्गलाक्षः357। दध्यौदनं पाचयित्वा दध्ना चरुं श्रपथित्वा॥१५॥
उदौदनमुदक ओदनं पाचयित्वेति क्षीरादिव्यावृत्त्यर्थम्॥१६॥
दुहिता कन्या पण्डिता स्त्र्युचितगृहकर्मणि कुशला शास्त्रेऽनधिकारात्॥१७॥
विविधं गीतो विजिगीथः प्रख्यातः समितिं विद्वत्सभां प्रति गच्छतीति
समितिंगमः शुश्रूषितां वाचं भाषिता जायेत
सर्वान्वेदाननुब्रुवीत सर्वमायुरियादिति माँसौ-
दनं पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ
जनयितवा औक्षेण वाऽऽर्षभेण वा॥१८॥
अथाभिप्रातरेव स्थालीपाकावृताऽऽज्यं चेष्टि-
त्वा स्थालीपाकस्योपघातं जुहोत्यग्नये स्वाहाऽ-
नुमतये स्वाहा देवाय सवित्रे सत्यप्रसवाय
स्वाहेति हुत्वोद्धृत्य प्राश्नाति प्राश्येतरस्याः
प्रयच्छति प्रक्षाल्य पाणी उदपात्रं पूरयित्वा
तेनैनां त्रिरभ्युक्षत्युत्तिष्ठातो विश्वावसोऽन्या-
मिच्छ प्रपूर्व्यां सं जायां पत्या सहोति॥१९॥
——————————————————————— ————————————————————————————
समितिंगमः शुश्रूषितां श्रोतुमीप्सितां वाचं वाणीं भाषिता जायेत। मांसमिश्रितमोदनं मांसौदनम्। तस्य नियममाह—औक्ष्णेन वाऽऽर्षभेण वेति। उक्षा रेतःसेचनसमर्थः पुंगवस्तदीयं मांसमौक्ष्णम्। ततोऽप्यधिकवया ऋषभस्तदीयं मांसमार्षभम्। एतच्च भिन्नदेशकालादिविषयमत्र निषिद्धत्वात्तत्स्थानेऽत्र मृगादिमांसं क्रीत्वा ग्राह्यम्॥१८॥
कदा पुनरित्थमोदनादि कर्तव्यमित्यत आह—अथेति। अथ चतुर्थदिवसे प्रातरेव संध्याद्यनुष्ठानपूर्वकं भार्याकण्डिततण्डुलानादाय स्थालीपाकावृता स्थालीपाकविधिनाऽऽज्यं चेष्टित्वा संस्कृत्यैतच्चर्वादिसंस्काराणामप्युपलक्षणम्। ततः स्थालीपाकस्योपघातमत्र कर्मणि षष्ठी स्थालीपाकमुपहत्योपहत्य स्वल्पं स्वल्पं गृहीत्वा प्रधानाहुतीर्जुहोति। तन्मन्त्रानाह—अग्नये स्वाहाऽनुमतये स्वाहा देवाय सवित्रे सत्यप्रसवाय स्वाहेति। एतत्प्रधानाहुतित्रयं हुत्वा स्विष्टकृदाहुतिं च पश्चात्स्थालीस्थं चरुशेषं पात्र उद्धृत्य सर्पिषाऽक्तं कृत्वा पतिः प्रथमं प्राश्नाति प्राश्य च तदेवोच्छिष्टमितरस्याः पत्न्याः पत्न्यै प्रयच्छति। ततः पाणी हस्तौ प्रक्षाल्य शुद्धाचमनं कृत्वोदपात्रं पूरयित्वा तेनोदकेनैनां भार्यां त्रिस्त्रिवारमभ्युक्षति। तन्मन्त्रमाह—उत्तिष्ठेति। भो विश्वावसो गन्धर्व त्वमतो मद्भार्यातः सकाशादुत्तिष्ठान्यां कामपि प्रफर्व्यं(पूर्व्यां) पीवरीं तरुणीं सह पत्या क्रीडमानामिच्छाहं पुनः स्वीयामिमां जायां समुपैमीति मन्त्रपाठस्तु सकृदेवेत्यर्थः॥१९॥
अथैनामभिपद्यतेऽमोऽहमस्मि सा त्वँ सा
त्वमस्यमोऽहं सामाहमस्मि ऋक्त्वं द्यौरहं
पृथिवी त्वं तावेहि सँरभावहै सह रेतो
दधावहै पुँसे पुत्राय वित्तय इति॥२०॥
अथास्या ऊरू विहापयति विजिहीथां द्यावा-
पृथिवी इति तस्यामर्थं निष्ठाय मुखेन मुखँ
संधाय त्रिरेनामनुलोमामनुमार्ष्टि विष्णुर्यो-
निं कल्पयतु त्वष्टा रूपाणि पिँशतु।
आसिञ्चतु प्रजापतिर्धाता गर्भंदधातु ते।
———————————————————————————————————————————————————
अथैवं गन्धर्वं प्रस्थाप्य यथाकामं क्षीरौदनादिभोजनानन्तरमेनां भार्यामभिपद्यते मन्त्रेणाऽऽलिङ्गयेत्358। तन्मन्त्रमाह—अम इति। अहं पतिरमः प्राणोऽस्मि त्वं सा वागसि। कथमावयोरुक्तरूपत्वमित्याशङ्कायां वाचः प्राणाधीनत्वं प्रसिद्धमित्यभिप्रेत्य सा त्वमस्यमोऽहमिति पुनर्वचनम्। तथाऽहं सामास्मि त्वं च ऋगसि। ऋक्पत्न्योर्गानावाच्यकर्मसमये सामपुरुषयोराधारत्वसामान्यात्। द्यौरहं जनकत्वात्पृथिवी त्वं मातृत्वात्। तावावां संरभावहै संरम्भमुद्यमं करवावहै, एहि त्वमागच्छ। कोऽसौ संरम्भः सह मिलित्वा रेतो दधावहै रेतोधारणमावाभ्यां कार्यमयमेव संरम्भः। स किमर्थं पुंसे पुंस्त्वविशिष्टाय पुत्राय वित्तये लाभायेति॥२०॥
अथाऽऽलिङ्गनानन्तरमस्याः पत्न्या ऊरू विहापयति विश्लेषयति। तन्मन्त्रमाह—विजिहीथामिति। हे द्यावापृथिवी ऊरुरूपे युवां विजिहीथां विश्लिष्टे भवेतमिति मन्त्रेणावकाशे कृते सति तस्यां योनावर्थंप्रजननेन्द्रियं निष्ठाय निक्षिप्य मुखेन मुखं संधायानन्तरमेनां भार्यामनुलोमां मूर्धानमारभ्य पादान्तं359 त्रिस्त्रिवारं पाणिनाऽनुमार्ष्टि मार्जनं कुर्यात्। तन्मन्त्रानाह—विष्णुरिति। विष्णुर्व्यापनशीलो भगवांस्तव योनिं कल्पयतु पुत्रोत्पत्तिसमर्थां करोतु। त्वष्टा सविता तवमे सुतस्य वा रूपाण्यवयवान्पिंशतु विभागशो दर्शनयोग्यान्करोतु। प्रजापतिर्विराडात्मा मदात्मना स्थित्वा त्वयि रेत आसिञ्चतु प्रक्षिपतु। धाता पुनः सूत्रात्मा ते तव गर्भं त्वदात्मना स्थित्वा दधातु धारयतु पुष्णातु। दर्शा360-
**गर्भं धेहि सिनीवालि गर्भं धेहि पृथुष्टुके। गर्भं
ते अश्विनौ देवावाधत्तां पुष्करस्रजौ॥२१॥
हिरण्मयी अरणी याभ्यां निर्मन्थतामश्विनौ।
तं ते गर्भं हवामहे दशमे मासि सूतये।
यथाऽग्निगर्भा पृथिवी यथा द्यौरिन्द्रेण
गर्भिणी। वायुर्दिशां यथा गर्भ एवं
गर्भं दधामि तेऽसाविति॥२२॥
सोष्यन्तीमद्भिरभ्युक्षति। यथा वायुः पुष्क-
रिणीँ समिञ्जयति सर्वतः। एवा ते
गर्भ एजतु सहावैतु जरायुणा। इन्द्रस्यायं
व्रजः कृतः सार्गलः सपरिश्रयः। तमिन्द्र **
———————————————————————————————————————————————————
हर्देवता सिनीवाली तस्या विशेषणं पृथुष्टुके पृथुर्विस्तीर्णा स्तुतिर्यस्याः सा पृथुष्टुका त्वदात्मना वर्तमाना तस्याः संबुद्धिर्हे पृथुष्टुके सिनीवालि गर्भं धेहि धारय। अश्विनौ देवौ सूर्याचन्द्रमसौ किंलक्षणौ पुष्करस्रजौ स्वकीयरश्मिमालिनौ तव गर्भं मदात्मना स्थित्वाऽऽधत्तां गर्भाधानं कुरुताम्॥२१॥
हिरण्मयी ज्योतिर्मयी अरणी प्रागासतुर्याभ्यामरणीभ्यां पुराऽमृतरूपं गर्भमश्विनौदेवभिषजौ निर्मन्थतां मथितवन्तौ। तं तथाभूतं गर्भं ते तव जठरे हवामहे दधामहे दशमे मासि सूतये प्रसवार्थमित्यर्थः। एवमाधीयमानं गर्भं दृष्टान्तेन दर्शयति—यथेति। यथा पृथिव्यग्निगर्भा यथा वा द्यौर्द्युलोक इन्द्रेण सूर्येण गर्भिणी। यथा वा दिशां वायुर्गर्भ एवं गर्भं ते तव दधामि असावहमिति स्वात्मनो नाम गृह्णाति भार्याया वाऽन्त इत्यर्थः॥२२॥
प्रसवकाले सोष्यन्तीं प्रसवं प्राप्नुवतीं भार्यां भर्ता मन्त्राभ्यामद्भिः कृत्वाऽभ्युक्षति। तावाह—यथेति। यथाऽयं वायुः पुष्करिणीं तडागं सर्वतः समिञ्जयति स्वरूपोपघातमकृत्वा चालयति एवा, एवमेव ते गर्भ एजतु चलतु जरायुणा गर्भवेष्टनचर्मणा मांसपेशीलक्षणेन सहावैतु निर्गच्छतु। इन्द्रस्य प्राणस्य गर्भस्य वाऽयं योन्यात्मको व्रजो मार्गः सार्गलः सर्गकाले गर्भाधानकाले वाऽर्गलया निरोधेन सह वर्तमानः कृतः सपरिश्रयः परिश्रयेण परिवेष्टनेन जरायुणा सहितः। तं मार्गं प्राप्य हे इन्द्र प्राण प्रसूतिमारुतात्मंस्त्वं
**निर्जहि गर्भेण सावराँ सहेति॥२३॥
जातेऽग्निमुपसमाधायाङ्क आधाय कँसे पृष-
दाज्यँ संनीय पृषदाज्यस्योपघातं जुहोत्य-
स्मिन्सहस्रं पुष्यासमेधमानः स्वे गृहे।
अस्योपसन्द्यां मा च्छैत्सीत्प्रजया च पशु-
भिश्चस्वाहा। मयि प्राणाँस्त्वयि मनसा
जुहोमि स्वाहा। यत्कर्मणाऽत्यरीरिचं यद्वा
न्यूनमिहाकरम्। अग्निष्टत्स्विष्टकृद्विद्वान्स्विष्टँ
सुहुतं करोतु नः स्वाहोति॥२४॥ अथा-
स्य दक्षिणं कर्णमभिनिधाय वाग्वागिति
त्रिरथ दधि मधु घृतँसंनीयानन्तर्हितेन **
———————————————————————————————————————————————————
गर्भेण सह निर्जहि निर्गच्छ निःसरणानन्तरं निर्गम्यमाना मांसपेशी सावरा तां च निर्गमयेत्यर्थः॥२३॥
पुत्रे जाते सति पिता तमङ्क उत्सङ्ग आधाय संस्थाप्याग्निमुपसमाधाय कंसे कांस्यपात्रे पृषदाज्यं दधिमिश्रितं घृतं संनीयावस्थाप्य पृषदाज्यस्योपघातं पृषदाज्यमुपहत्योपहत्य स्वल्पं स्वल्पं गृहीत्वा जुहोति। तन्मन्त्रनाह—अस्मिन्निति। अस्मिन्स्वेगृहेऽहमेव पुत्ररूपेणैधमानो वर्धमानो मनुष्याणां सहस्रं पुष्यासमनेकपोषको भूयासम्। अस्य मत्पुत्रस्योपसन्द्यां संततौ प्रजया पशुभिश्च सह श्रीर्मा च्छैत्सीन्मा विच्छिन्ना भूत्स्वाहेति होमः। मयि पितरि ये प्राणाः सन्ति तान्प्राणांस्त्वयि पुत्रे मनसा जुहोमि समर्पयामि स्वाहेति प्रधानं कर्म कृत्वा प्रकृतेन कर्मणा कृतेन यदत्यरीरिचमतिरिक्तं कृतवानस्मि यद्वा, इह कर्मणि किंचिन्न्यूनमकरमकरवं तत्सर्वं विद्वानग्निः स्विष्टं करोतीति स्विष्टकृद्भूत्वा स्विष्टमनधिकं सुहुतमन्यूनं च नोऽस्माकं करोतु स्वाहेति॥२४॥
अथ स्विष्टकृद्धोमानन्तरमस्य शिशोर्दक्षिणं कर्णंपिता स्वमुखे निधाय त्रयीलक्षणा वाक्त्वयि प्रविशत्वित्यभिप्रायवान्वाग्वागिति361 त्रिवारं जपति। अथानन्तरं दधि मधु घृतं संनीयैकीकृत्यानन्तर्हितेन वस्त्वन्तराव्यवहि-
जातरूपेण प्राशयति। भूस्ते दधामि भुवस्ते
दधामि स्वस्ते दधामि भूर्भुवः स्वः सर्वं
त्वयि दधामीति॥२५॥ अथास्य नाम करोति
वेदोऽसीति तदस्य तद्गुह्यमेव नाम भवति
॥२६॥ अथैनं मात्रे प्रदाय स्तनं प्रयच्छति
यस्ते स्तनः शशयो यो मयोभूर्यो रत्नधा वसु-
विद्यः सुदत्रः। येन विश्वा पुष्यसि वार्याणि
सरस्वति तमिह धातवेऽकरिति॥२७॥ अथास्य
मातरमभिमन्त्रयते। इलाऽसि मैत्रावरुणी (णि) वीरे
———————————————————————————————————————————————————
तेन जातरूपेण हिरण्येन प्राशयति भूस्त्वयि दधामीत्यादिचतुर्भिर्मन्त्रैः प्रत्येकम्॥२५॥
अथानन्तरमस्य शिशोर्नाम करोति वेदोऽसीति वेदोऽनुभवः सर्वस्य निजं रूपं परमात्मलक्षणमसीति तदेतन्नामास्य शिशोर्गुह्यं गोप्यं भवति॥२६॥
अथानन्तरमेनं स्वाङ्कस्थं पुत्रं तन्मात्रे प्रदाय तस्याः स्तनं पिता पुत्रस्य मुखे प्रयच्छति। तन्मन्त्रमाह—य इति। हे सरस्वति यस्ते स्तनः शशयः362 शयः कर्मफलं शेतेऽस्मिन्कर्तेति व्युत्पत्तेस्तेन सह वर्तत इति सशयः। यद्वा शं सुखं तस्य हेतुभूतं शयः स्थितिः स्थानं स्तनोत्थानदेशरूपं यस्य स्तनस्य स शशयोऽस्मिन्पक्षे नाक्षरव्यत्यासः। मयः सुखं भर्भावयतीति मयोभूः। यद्वा मयोभूः सर्वप्राणिनां स्थितिहेत्वन्नरूपेण जातो यो रत्नधा रत्नानां धनानां दाता। यद्वा रत्नस्य रमणीयस्यान्नस्य पयसश्च धाता। वसु कर्मफलं तद्विन्दतीति वसुविद्यः सुष्ठु ददातीति सुदत्रः कल्याणदः। येन स्तनेन विश्वा विश्वानि वार्याणि वरणीयानि देवादिभूतानि त्वं पुष्यसि तं स्तनं मदीयपुत्रस्य धातवे पानायेह मदीयभार्यास्तने प्रविष्टा सत्यकरकरोः कृतवत्यसि प्रयच्छेति यावत्॥२७॥
अथानन्तरमस्य पुत्रस्य मातरमभिमन्त्रयते। तन्मत्रमाह—इलेति। इला भोग्याऽसि मित्रावरुणाभ्यां संभूतो मि(मै)त्रावरुणो वसिष्ठस्तस्य भार्यामैत्रावरुणी हे मैत्रावरुण्यरुन्धति वीरे पुरुषे मयिनिमित्तभूते सति भवती
वीरमजीजनत्। सा त्वं वीरवती भव याऽस्मा-
न्वीरवतोऽकरदिति। तं वा एतमाहुरतिपिता
बताभूरतिपितामहो बताभूः परमां बत काष्ठां
प्रापच्छ्रिया यशसा ब्रह्मवर्चसेन य एवंविदो
ब्राह्मणस्य पुत्रो जायत इति॥२८॥
इति बृहदारण्यकोपनिषदि षष्ठाध्यायस्य चतुर्थं ब्राह्मणम्॥४॥
अथ वँशः। पौतिमाषीपुत्रः कात्यायनीपुत्रा-
त्कात्यायनीपुत्रो गौतमीपुत्राद्गौतमीपुत्रो भार-
द्वाजीपुत्राद्भारद्वाजीपुत्रः पाराशरीपुत्रात्पाराश-
रीपुत्र औपस्वस्तीपुत्रादौपस्वस्तीपुत्रः पाराश-
रीपुत्रात्पाराशरीपुत्रः कात्यायनीपुत्रात्कात्याय-
नीपुत्रः कौशिकीपुत्रात्कौशिकीपुत्र आलम्बी-
———————————————————————————————————————————————————
वीरं पुत्रमजीजनज्जनितवती सा त्वं वीरवती जीवद्बहुपुत्रा भव। या भवत्यस्मान्वीरवतः पुत्रसंपन्नानकरदकरोत्कृतवतीति। एवं मन्त्रवद्गर्भाधानादौ कृते सति किं स्यादित्यत आह—तमिति। तं वा एतमुक्तविधिनोत्पन्नं363 पुत्रमाहुः। किमसौ पितरमतीत्याभूर्वर्तत इत्यतिपिता बत विस्मयोऽभूः। तथा पितामहमतीत्याभूर्वर्तत इत्यतिपितामहो बताभूः। कैरित्यत आह—परमामिति। श्रिया लक्ष्म्या यशसा कीर्त्या ब्रह्मवर्चसेन ब्रह्मतेजसा च परमां काष्ठां बताहो प्रापदिति स्तुत्यो भवतीत्यर्थः। न केवलं पुत्र एवापि तु यस्यैवंविदो ब्राह्मणस्य पुत्रो जायते स पिताऽप्येवं स्तुत्यो भवतीति शेषः॥२८॥
इति श्रीपरमहंसपरिव्राजकाचार्यश्रीपुरुषोत्तमाश्रमपूज्यपादशिष्यनित्यानन्दाश्रमविरचितायां बृहदारण्यकव्याख्यायां मिताक्षराख्यायां षष्ठाध्याये चतुर्थं ब्राह्मणम्॥४॥
_______
अथानन्तरं समस्तस्यैव प्रवचनस्य वंशो न खिलकाण्डमात्रस्य तस्य सर्ववेदपरिशिष्टरूपत्वात्। अयं तु स्त्रीप्राधान्येनोच्यते स्त्रीसंस्कारार्थपुत्रमन्थकर्म-
**पुत्राच्च वैयाघ्रपदीपुत्राच्च वैयाघ्रपदीपुत्रः काण्वी-
पुत्राच्च कापीपुत्राच्च कापीपुत्रः॥१॥
आत्रेयीपुत्रादात्रेयीपुत्रो गौतमीपुत्राद्गौतमीपुत्रो
भारद्वाजीपुत्राद्भारद्वाजीपुत्रः पाराशरीपुत्रात्पा-
राशरीपुत्रोवात्सीपुत्राद्वात्सीपुत्रः पाराशरीपुत्रा-
त्पाराशरीपुत्रो वार्कारुणीपुत्राद्वार्कारुणीपुत्रो
वार्कारुणीपुत्राद्वार्कारुणीपुत्र आर्तभागीपुत्रादा-
र्तभागीपुत्रः शौङ्गीपुत्राच्छौङ्गीपुत्रः सांकृतीपु-
त्रात्सांकृतीपुत्र आलम्बायनीपुत्रादालम्बाय-
नीपुत्र आलम्बीपुत्रादालम्बीपुत्रो जायन्तीपु-
त्राज्जायन्तीपुत्रो माण्डूकायनीपुत्रान्माण्डूकाय-
नीपुत्रो माण्डूकीपुत्रान्माण्डूकीपुत्रः शाण्डिली-
पुत्राच्छाण्डिलीपुत्रो राथीतरीपुत्राद्राथीतरी-
पुत्रो भालुकीपुत्राद्भालुकीपुत्रः क्रौञ्चिकीपुत्राभ्यां
क्रौञ्चिकीपुत्रौवैदभृतीपुत्राद्वैदभृतीपुत्रः कार्श-
केयीपुत्रात्कार्शकेयीपुत्रः प्राचीनयोगीपुत्रा-
त्प्राचीनयोगीपुत्रः सांजीवीपुत्रात्सांजीवीपुत्रः
प्राश्नीपुत्रादासुरिवासिनः प्राश्नीपुत्र आसु-
रायणादासुरायण आसुरेरासुरः॥२॥ **
याज्ञवल्क्याद्याज्ञवल्क्य उद्दालकादुद्दालकोऽ-
———————————————————————————————————————————————————
सांनिध्यात्। समानमन्यत्। आदित्येन सूर्येण प्रोक्तान्यादित्यानि। यद्वाऽऽदित्यात्महिरण्यगर्भात्मकानि। शुक्लानि शुद्धानि। यद्वा ब्राह्मणेनामिश्रितमन्त्रात्मकानि364 यजूंषि वाजसनेयेन याज्ञवल्क्येनाऽऽख्यायन्ते प्रकटी क्रियन्त इत्यर्थः। इदं त्वाचार्यपरम्पराकथनं सर्वासु वाजिशाखासु365 वेदाख्यब्रह्माऽऽ-
रुणादरुण उपवेशेरुपवेशिः कुश्रेःकुश्रिर्वा-
जश्रवसो वाजश्रवा जिह्वावतो बाध्योगा-
ज्जिह्वावान्बाध्योगोऽसिताद्वार्षगणादसितो वार्ष-
गणो हरितात्कश्यपाद्धरितः कश्यपः शिल्पा-
त्कश्यपाच्छिल्पः कश्यपः कश्यपान्नैध्रुवेः
कश्यपो नैध्रुविर्वाचो वागम्भिण्या अम्भि-
ण्यादित्यादादित्यानीमानि शुक्लानि यजूँषि
वाजसनेयेन याज्ञवल्क्येनाख्यायन्ते॥३॥
समानमा सांजीवीपुत्रात्सांजीवीपुत्रो माण्डू-
कायनेर्माण्डूकायनिर्माण्डव्यान्माण्डव्यः कौ-
त्सात्कौत्सो माहित्थेर्माहित्थिर्वामकक्षायणा-
वामकक्षायणः शाण्डिल्याच्छाण्डिल्यो वा-
त्स्याद्वात्स्यः कुश्रेःकुश्रिर्यज्ञवचसो राजस्त-
म्बायनाद्यज्ञवचा राजस्तम्बायनस्तुरात्काव-
षेयात्तुरः कावषेयः प्रजापतेः प्रजापतिर्ब्र-
ह्मणो ब्रह्म स्वयंभु ब्रह्मणे नमः॥४॥
इति बृहदारण्यकोपनिषदि षष्ठाध्यायस्य पञ्चमं ब्राह्मणम्॥५॥
इति वाजसनेयके बृहदारण्यकोपनिषदि षष्ठोऽध्यायः॥६॥
__________
इति वाजसनेयकबृहदारण्यकक्रमेणाष्टमोऽध्यायः॥८॥
———————————————————————————————————————————————————
रभ्य पाठव्युत्क्रमेणाऽऽसांजीवीपुत्रात्सांजीवीपुत्रपर्यन्तं समानम्। आदिमध्यान्तेषु कृतमङ्गला ग्रन्थाः प्रचारिणो भवन्तीति शिक्षयितुमाह—ब्रह्मणे नम इति॥१॥२॥३॥४॥
इति श्रीबृहदारण्यकव्याख्यायां मिताक्षराख्यायां षष्ठाध्याये पञ्चमं ब्राह्मणम्॥५॥
यः सद्भूनिलयस्त्रिकाण्डकषडध्यायप्रभेदस्फुट-
स्कन्धः सत्पदपल्लवालिविलसच्छाखामयब्राह्मणः॥
ब्रह्मात्मैक्यफलः सुवाक्यकुसुमो वंशालवालाम्बुपः
संसेव्यः सततं बुधैः स बृहदारण्याह्वकल्पद्रुमः॥१॥
भाष्यवार्तिकतट्टीकामन्थन्याऽऽरण्यकं दधि॥
विमध्य बुद्धिरज्ज्वेदं नवनीतं समुद्धृतम्॥२॥
महतामाशयं बोद्धुं मादृशः कः क्षमो भवेत्॥
तथाऽपि श्रद्धयाऽस्माभिः सारमेतत्समुद्धृतम्॥३॥
यत्पादपद्ममकरन्दरसानभिज्ञा
विश्राममाविधिपदादपि संचरन्तः॥
न प्राप्नुवन्ति पशुकर्मरता धनेहा-
स्तस्मै नृसिंहवपुषे हरये नमस्ते॥४॥
एकं यद्बीजमेतज्जनयति सकलं नोप्तमन्यैर्न सिक्तं
न क्लेद्यं नैव दाह्यं भवति न च पुनः कालतो यस्य नाशः॥
यत्सत्तामात्रजीवी त्रिभुवनसुतरुर्भाति नानारसाढ्य-
स्तन्नः पायादपायात्सुखकरममलं श्रीनृसिंहाभिधानम्॥५॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीपुरुषोत्तमाश्रमपूज्यपादशिष्यनित्यानन्दाश्रममुनि-
विरचितायां बृहदारण्यकव्याख्यायां मिताक्षराख्यायां षष्ठोऽध्यायः॥६॥
<MISSING_FIG href="../books_images/U-IMG-1734746925Screenshot2024-12-21073739.png"/>
समाप्तेयं बृहदारण्यकोपनिषन्मिताक्षरा।
]
-
“क. मुखान्विलो” ↩︎
-
“खप्रादास्यं” ↩︎
-
“ख. पादस्यं” ↩︎
-
“ख. भ्यां त्वश्व” ↩︎
-
“ग, घ, ‘न्नेनाऽऽत्मस्व’” ↩︎
-
“क. ख. या हि प्रसि” ↩︎
-
“ग. घ. त्यर्थः” ↩︎
-
“क. ग. घ. ‘रर्क्यस्या” ↩︎
-
“दर्क्यस्या’।” ↩︎
-
“क. ख. घ. ‘र्यकार’” ↩︎
-
“क. ख. ग. घ. तत्कृते” ↩︎
-
“क. ख. घ. ऋचः समानाक्ष’” ↩︎
-
“क. ख. ष वा” ↩︎
-
“क. तद्धेतो” ↩︎
-
“ग. घ. स्मादवगम्य।” ↩︎
-
“सेति पाठः क्वचित्।” ↩︎
-
“ग. घ. त्मकप्र” ↩︎
-
" ग. घ. नादेय" ↩︎
-
“ग. राः कर्मादि " ↩︎
-
“क. ग. घ. रा देवैः” ↩︎
-
“क. ग. घ. व। ए।” ↩︎
-
“ग. घ. एवं” ↩︎
-
“ख. ग. घ. ‘यव’” ↩︎
-
“क. ग. घ. धं फ” ↩︎
-
“ग घ हेत्थमू " ↩︎
-
“ग. घ. त्मत्वेनो” ↩︎
-
व्याजह्रुस्तस्मात्सोऽयास्योऽत “क. ख. यास्य आङ्गि” ↩︎
-
“ख. र्यकार।” ↩︎
-
“ग. तेत्युक्तार्थः। एता।” ↩︎
-
“* गमयतेर्ल्युट्। कारितवतीति पाठे गमेर्ल्युट्।” ↩︎
-
“ख. कारितवती” ↩︎
-
“ग. यात्तं दर्श” ↩︎
-
“ग. घ. ननु” ↩︎
-
“ग. घ. तर्ह्येतस्या” ↩︎
-
“ख. ‘नात्पाप्म” ↩︎
-
“ग. घ. दित्यत आह इहे।” ↩︎
-
“ग. घ. °र्थः” ↩︎
-
“क. ख. ‘न्नं देहृद्वयस्थि” ↩︎
-
“ग. घ. पूर्वोक्तायास्यत्वेन प्र” ↩︎
-
“ग. घ. देतत्सोऽया” ↩︎
-
“क. घ. ‘र्यकार’” ↩︎
-
“ख. ‘पि। एत’” ↩︎
-
“ग. घ. ‘योऽमःश’” ↩︎
-
“क. ख. ग. घ. पौंस्यानि” ↩︎
-
“क. ‘त्रात्म’ । ग. घ. ‘त्रात्मलि’।” ↩︎
-
“ख. घ. पुत्रिका’” ↩︎
-
“क. ख. उ एवेति” ↩︎
-
“ग. घ. वागेव गीथोद्गीथाभिव्यक्तिरूपा। उ’।” ↩︎
-
“ग. ग. ‘तेनोद’” ↩︎
-
“ग, घ ‘मकमा’” ↩︎
-
“ग घ ‘दिति। यस्मात्स्वभूतेन स्वरेण भूषितं साम तस्माद्यज्ञे।” ↩︎
-
“ग. घ. ‘च्छन्त एव जनाः। एतदेव दृष्टान्तेन साधयति—अथेति। अथो अपि यस्य स्वं धनं भवति तं दिदृक्षन्ते लौकिकाः। ए’।” ↩︎
-
“क. ‘धिमाह” ↩︎
-
“ख. ‘पत्यफ’” ↩︎
-
“ग. घ. संपादितवान्” ↩︎
-
“ख. घ. ‘न स्तो’” ↩︎
-
“ग घ ‘त्मा सोऽनुवी’” ↩︎
-
“ग घ. ‘लिङ्गकं प्र’।” ↩︎
-
“क. ख. ‘ति। द्विती’” ↩︎
-
“ख. °त न। ग. घ. °त भीतवान्न कु” ↩︎
-
“ग. घ. ‘व। कार्य” ↩︎
-
“ख. ‘त्याद्युपपत्तेरित्य” ↩︎
-
“क. दिव” ↩︎
-
“ग. घ. वेदास्योपासकस्यैत’” ↩︎
-
“ग. घ. स्रष्टृत्वं” ↩︎
-
“ग. घ. ‘रेव। सैषा सृष्टिर्ब्रह्म’” ↩︎
-
“ग. घ. ‘तेरतिसृष्टिरात्मनोऽप्यधिकतरा य’” ↩︎
-
“ग. घ. ‘स्माच्छ्रेय’ " ↩︎
-
“ग घ. ‘मित्य’” ↩︎
-
“क ख ‘ष्टिहे’” ↩︎
-
“ग. घ. ‘वेदास्योपासकस्यैत’” ↩︎
-
“ग. घ. त्स्रष्टृत्वमिति” ↩︎
-
“ग. घ. ‘पेण च स्व’। ख. ‘पेण न प्रः’” ↩︎
-
“ख. ‘ना व्या’” ↩︎
-
“ग. घ. ‘तः। प्रवे’” ↩︎
-
“ख. ‘नोक्त्यैक्ये” ↩︎
-
“ख. ‘येऽस्याऽऽधा’” ↩︎
-
“ग. घ. ‘न्यतो ‘वि’” ↩︎
-
“ग घ ‘श्च सुषुप्त्यादौ व्याप्य स्थि’” ↩︎
-
“ग. घ. ‘स्तोऽत एकै’” ↩︎
-
“ग. घ. ‘ति। यस्य” ↩︎
-
“क. ख. ग. घ. ‘नि ता’” ↩︎
-
“ग. घ. ‘न तत्र हे’” ↩︎
-
“ग. घ. ‘मात्मोपासने नियमविधानं क्रि’” ↩︎
-
“ग. घ. ‘तत्पदनी’” ↩︎
-
“ग. घ. ‘के प’” ↩︎
-
“क. ख. ‘शेन वाऽन्वि’” ↩︎
-
“ख ‘न्देल्लिङ्गेन लभ’” ↩︎
-
" ग. घ. ‘वं श्रु’ " ↩︎
-
“क. ख. ‘नाऽऽत्मानमन्विष्यमाणो लभ’” ↩︎
-
“ग. घ. ‘भत इत्य’।” ↩︎
-
“ख. ‘वमनात्मन्यमु’ " ↩︎
-
“ख. ग. घ. ‘न्ति। किं त’” ↩︎
-
“ग. घ. वा स्वभाव इ’” ↩︎
-
“क.‘र्व इ’” ↩︎
-
“क. ख. °ति तदपि किमिति सूत्रितब्रह्मविद्याधिकारी प्रमेयप्रमाणप्रश्न इ°” ↩︎
-
“क. ख. ग. घ. ‘ब्रह्मवि’” ↩︎
-
" ग. घ. स स ए’” ↩︎
-
“क. ख. ग. घ. स स त’” ↩︎
-
“ख. घ. ‘भावाभवनाय” ↩︎
-
“ख. घ. न पर्याप्तास्तत्र” ↩︎
-
“ग. तत्कुतः। हि य’” ↩︎
-
“ग. ‘वादी ना’ " ↩︎
-
“ग. घ. °त्तिकवि°” ↩︎
-
“ग. °नामुप’” ↩︎
-
“ग, घ °र्थः " ↩︎
-
“ग. घ. ‘त्य सो’” ↩︎
-
“रा. घ. ‘र्वोक्तेन ब्रह्मात्मना ब्रा’” ↩︎
-
“ग. घ. °ध्ये यं कमपि मनुष्यमव°” ↩︎
-
“घ.°णलक्षणयो°” ↩︎
-
“क. °र्तव्यत्वेन” ↩︎
-
“घ °बद्धो यागपशु°” ↩︎
-
“क. निमृणा°” ↩︎
-
“क. ख. ग. घ. °णश्चास्य” ↩︎
-
“ग. घ. ननु येन प्रयुक्तो मनु’” ↩︎
-
“ख. रितः प्र°” ↩︎
-
“ग. घ. प्रवर्तत इति स।” ↩︎
-
“ख. ग. ‘र्णयमा’” ↩︎
-
“ख, ग, घ °लतत्साध°” ↩︎
-
“क. एवैष°” ↩︎
-
“क. ग. घ. °न्यत्वसा°” ↩︎
-
“क. ख. ग. घ.°ङ्मनोभ्यां” ↩︎
-
“क. °प्नोति सर्वकर्मफलं प्राप्नोती°। ग. घ. °प्नोति स सर्वकर्मफलं प्राप्नोती°” ↩︎
-
“ख. ग. °स्थेन” ↩︎
-
" ख. ‘स्याऽऽद्यत्वे’” ↩︎
-
“ख. °त्रज्ञा°” ↩︎
-
“ख, ग, घ, ‘णं कु’” ↩︎
-
“क. घ. प्रलिले°” ↩︎
-
“ख ग घ °यत्परिमा°” ↩︎
-
“ख. ग. घ. ‘र्यकार’” ↩︎
-
“ख.°द्युपपत्ते°” ↩︎
-
“ग. °रेकेणो°” ↩︎
-
“ख. °द्वारोप°” ↩︎
-
“ख घ. ‘तिवेदकोऽन्न’” ↩︎
-
“ग. घ. °धनमुपासनप्र°” ↩︎
-
“ख. °माणान्याह” ↩︎
-
“ख. °क्षिकं मं°” ↩︎
-
“ग. घ.°तं रू°” ↩︎
-
“क. घ.°र्यकार°” ↩︎
-
“ख. विभूति°” ↩︎
-
“ग. घ. °णो वा°” ↩︎
-
“ग. घ. °स्याऽऽपः” ↩︎
-
“ख. °नःप्रजात्वे°” ↩︎
-
“ग. घ. °स्तुल्या अशेष°” ↩︎
-
“ग घ °मन्तोऽत एवानन्ता या°” ↩︎
-
“ग. घ. °विनः। ए।” ↩︎
-
“क. ग, घ वदति” ↩︎
-
“क. ख. ग. घ. °रूपमा°” ↩︎
-
“क. ख. ग. घ. °पिताप्रजेत्ये°” ↩︎
-
“क.ग. °स्य काला°” ↩︎
-
“क च जगत्परिणामरूपकृ°। ख च जगत्परिणामरूपं कृ°” ↩︎
-
“ग. °तिः काला°” ↩︎
-
“ग. °ककाला°” ↩︎
-
“ख. ॰ज्यानिः स° " ↩︎
-
“घ. ‘त्। जीवंश्चेत्तर्ह्यरनेमिस्थानीयेन वित्तेन पुनरुपचीयत इत्यभिप्रायः। क्षी°” ↩︎
-
“क. ख. °कः। भो°” ↩︎
-
“ग. घ. °व साधने°” ↩︎
-
“क. ख.°रः। नापुत्रस्य लोकोऽस्तीति पुत्रेणैव ज्यो’” ↩︎
-
“क. ख. °शे पु°” ↩︎
-
" ग, घ °र्थत्वे°” ↩︎
-
“ग. °त्रस्य लोक°” ↩︎
-
“घ. °स्यैव लोक°” ↩︎
-
“ग. घ. यज्ञे त्वयि त्वेकता” ↩︎
-
“ग. घ. लोके त्वयीत्येकते°” ↩︎
-
“घ. °तुरभिप्रायं श्रु°” ↩︎
-
“घ. °मापाद्याद्ये°” ↩︎
-
“अत्र दार्ष्टान्तिकनिर्देश इत्यपेक्षितम्” ↩︎
-
“क. °र्यकार’” ↩︎
-
" घ °त्मकत्वा’” ↩︎
-
“ग घ °नवत्त्वात्” ↩︎
-
“ख साधनं” ↩︎
-
“ग. घ. °नि क’” ↩︎
-
“ग घ °रमेवाऽऽह” ↩︎
-
“ख. ग. घ. °र्मतः प्र°” ↩︎
-
“क. ख. ग. °द्युच्चरे°” ↩︎
-
“क. वै त्रयात्म°” ↩︎
-
“क. ग. घ. °तः पुनः सं’” ↩︎
-
“क. ग. °थोक्तना’” ↩︎
-
“क. ग. °र्यकार°” ↩︎
-
“ग. घ. °संवृत्तः पि°” ↩︎
-
“क. ग. घ °र्वकार°” ↩︎
-
“क. °त्मा कार’” ↩︎
-
“घ. °च्ये पृथिव्यप्तेजांसि सच्छब्दवाच्यानि वाय्वाकाशौत्यच्छब्दवाच्यौ स°” ↩︎
-
" ख. °तो वः प्र°” ↩︎
-
“ग. ध. °त्वादिति भावः” ↩︎
-
“ग, घ. गार्ग्योवि°” ↩︎
-
“क. ग. °धार्थ°” ↩︎
-
“ग. घ. मां” ↩︎
-
“क. ख. ग. घ. °र्यकार°” ↩︎
-
“ख सुतो” ↩︎
-
“घ. ले च सु°” ↩︎
-
“क. ग. घ. °याम्युपे°” ↩︎
-
“ख. °ज्ञापितमे°” ↩︎
-
“क. ख. घ. °र्यकार°” ↩︎
-
“ख. °र्यन्निमित्तं शृण्वेषां।” ↩︎
-
“ग. घ. °प्तोऽभू°” ↩︎
-
“ग. घ. °षां प्रा°” ↩︎
-
“क. °दात्मा त°” ↩︎
-
“ग. घ. °णेनान्तःक°” ↩︎
-
“ख. °णेन जीव आदा°” ↩︎
-
“ख. °दयस्था°” ↩︎
-
“ग. घ. °रे यो°” ↩︎
-
“ग. घ. °वयसि°” ↩︎
-
“क. ख. सौम्य।” ↩︎
-
“ग. घ. गौणं” ↩︎
-
“ख.ºन्धात्कर्तृº” ↩︎
-
“ख. ºगाद्दृश्यº” ↩︎
-
“ग. घ. ‘ति। उक्तमर्थे दृष्टान्तपूर्वकमाº” ↩︎
-
“क. ख. ºयां जाग्रद्दृष्टाº” ↩︎
-
“ग घ ºभौमः पर्यº” ↩︎
-
" ख. सञ्जº” ↩︎
-
“ख. ºतान्राº” ↩︎
-
“ग. घ. ºतानन्यांश्च तथाविधान्गृº” ↩︎
-
“क. ख. जयाº” ↩︎
-
“ख. ºयाद्युपाº” ↩︎
-
“ग. घ. ºते यº " ↩︎
-
“ख. ºमं यो यः कामोऽस्य भवति तं तं काº” ↩︎
-
“ख. ºमेदेवमात्मैतद्ग्रहणं यथा स्यात्तथा प्राº” ↩︎
-
“क. ख. ºथ जाग्रº” ↩︎
-
“ग. घ. ºयोर्द्रष्टाº " ↩︎
-
“क. ग. घ. ºह्यैक्यतां” ↩︎
-
“क. ग. घ. त्यक्त्वाऽन्यसंबन्धम्। कº” ↩︎
-
“क. ख. ग. घ. हितेति” ↩︎
-
“क. ग. घ. °णि। अत्रालुक्समासः। ताः” ↩︎
-
“क. ख. ग. घ. ºर्मुखाः प्रº” ↩︎
-
“क. ग. ºत्युक्तत्वादिदाº” ↩︎
-
“क. ग. घ. स दृष्टान्तो यº” ↩︎
-
“ख. जले बु” ↩︎
-
“ख निरन्तरं।” ↩︎
-
“घ. ºमित्यंशेनोंº” ↩︎
-
“ग. घ. ºत् । तस्यान्नं भुक्तमशनं दाम वत्सस्येव बन्धनं रज्जुरित्यर्थः " ↩︎
-
“क. ख. ºमशनं दाº” ↩︎
-
“ख. ºलवाº” ↩︎
-
“घ. ºमित्यंशेनोº” ↩︎
-
“ग. घ. ºत्। तस्यान्नं भुक्तमशनं दाम वत्सस्येव बन्धनं रज्जुरित्यर्थः” ↩︎
-
“क. ख. ºमशनं दाº।” ↩︎
-
“ख. लवाº” ↩︎
-
“ग. घ. ºपं विषयाणामनेकत्वेनानेकरूपं शिº” ↩︎
-
“ग. घ. ºतं शब्दादिज्ञानलक्षणं यशस्तद्धेतुº” ↩︎
-
“ख ग घ ङ ºमेषां” ↩︎
-
“ख. ति। ºद्वे एव ब्रह्मणो रूपे ब्रह्मणः परमार्थरूपस्याविद्यारोपिते द्वेएव रूपे ताभ्यां हि तद्रूप्यते। यº” ↩︎
-
“ग. घ. ºकारोऽवधारणार्थे। मूº” ↩︎
-
“ग. न. °र्तयोः प्रत्येकमर्थप्रतिपादकानि विº” ↩︎
-
“ख. घ. ङ ºवदूहनीº।” ↩︎
-
“ख. ङ. र्थः। चरमोक्त” ↩︎
-
“ग घ र्यस” ↩︎
-
“ग, घ ति तस्य नि” ↩︎
-
“ख. ङ. नं प्र” ↩︎
-
“ख. ङ. र्थकं च। अ” ↩︎
-
“क. म्। किंच। अ” ↩︎
-
“ख. ङ. ‘रस्तीत्य” ↩︎
-
“ख यसा” ↩︎
-
“क. णमे” ↩︎
-
“धनुश्चिह्नान्तर्गतः पाठः क. पुस्तकस्थोऽनपेक्षितः” ↩︎
-
“क. ख. घ. ङ. ‘त्वात्कर’” ↩︎
-
“ख ग घ ङ. प्रोक्तोऽयं।” ↩︎
-
“क. ग. ०न्त्रौ चेन्द्रप्र०।” ↩︎
-
“क.ह०—इदमिति। आ०।” ↩︎
-
" ग. ०ह्य शि०।”
↩︎ -
“कङ. ०र्यकार०।” ↩︎
-
“ख ग घ ङ. स्त्रोभ०।”
↩︎ -
“ग. घ. एतद्दे’।” ↩︎
-
“ख. ङ. ‘ध इवे’।” ↩︎
-
“क. सौम्य।” ↩︎
-
“क. ग. र्यकार।” ↩︎
-
“क. ग. ङ. र्यकार।” ↩︎
-
“ख ङ. तत्। घ. तं।” ↩︎
-
“क. सप्तसा।” ↩︎
-
“ग. सर्वदा।” ↩︎
-
“ग..घ. क्षादव्यवहितमपरोक्षाद्विभक्तिव्यत्ययेनापरोक्षमगौणं न तु म।” ↩︎
-
“ग. घ म्। य भा।” ↩︎
-
“क. ख. ग. र्यकार।” ↩︎
-
“ग. आत्मद।” ↩︎
-
“ख. ङ. त्यं साङ्गवेदाध्ययनजाता बु।” ↩︎
-
“ग. घ.शङ्कायां पृ।” ↩︎
-
“ग. घ. ब्रह्मात्मैक्य।” ↩︎
-
“भैषीरित्युचितम्।” ↩︎
-
“क. ग. ‘वननिमित्तां कृपणां वृत्तिं चरुपु।”
↩︎ -
“क. ग. ‘नामपि मनुष्याधीनत्वादेता’।” ↩︎
-
“क ख ग घ विस्तर।” ↩︎
-
“क.ख.घ. शतां दे।” ↩︎
-
“ख. ग. घ. ङ. ‘स्य कर’।” ↩︎
-
“ग. घ. ‘व हे याज्ञवल्क्य वे।” ↩︎
-
“ग घ न्स्यात्। इति चेत्तर्हिहेशाकल्य त्वं।”
↩︎ -
“ग. घ. देनैतँ।” ↩︎
-
“क. घ. सज्जते।” ↩︎
-
“तथेत्यनपेक्षितम्। " ↩︎
-
“ख. ङ. ‘तन्नाम्नो’।” ↩︎
-
“ख ग घ ङ हेतुनाह।” ↩︎
-
“रा. घ. णो घ्रा।” ↩︎
-
“ग. घ. न काचि।” ↩︎
-
“क. °ह। स एष हृदयभूतस्तैजसः सूक्ष्मभूतेन प्राणेन विध्रियमाणः प्राण एव भवति। तस्येति। तस्य वै तस्य पुरुषस्य विदुषः क्रमेण वैश्वानरात्तैजसं प्राप्तस्य तस्य। अकार्यकारणाखण्डतुरीयपदाविष्टस्य तैजसस्याध्यात्मादिपरिच्छिन्नाः प्राणाः सर्वासु दिक्षु स्थिताः। विदुषस्तुरीयपदप्राप्तस्यपरिच्छेदहेतुनाशात्तस्मिन्नेकीभूताः सन्तस्तत्तद्दिमात्रसंवृत्ताः। तस्य।” ↩︎
-
“कु. प्राकृतः।” ↩︎
-
“क. ङ. ना वा प।” ↩︎
-
“क. ग. घ. ङ. ‘ति। य’।” ↩︎
-
“ख. ग. घ. ङ. ण च स्व’।” ↩︎
-
“ख. ग. घ. ङ. त्रामंशं वा।” ↩︎
-
“क. ख. ‘मापद्य।” ↩︎
-
“क. ‘त्येकं सर्वत्राभि। ख. ङ. त्येकं सर्वञ्भिः सं’।” ↩︎
-
“ख. ग, घ, ङ. र्थः। अथ।” ↩︎
-
“क. ख. ग. घ. ङ. दन्तस्तस्मा।” ↩︎
-
“ङ. °ति। एता°।” ↩︎
-
“ख ग घ ङ. °नः प°।” ↩︎
-
“ग. घ. दैर्ध्यं छान्दसम्। अ°।” ↩︎
-
“क. ग. घ. ङ. °र्यकार°।” ↩︎
-
" क. ग. °र्वात्मना न।” ↩︎
-
“ख ग घ ङ. ‘र्मुक्तोऽपि तु सहजेनापीत्याह।” ↩︎
-
“ख ग घ ङ. सन्न पश्यतीत्यपि भवति। तत्र।” ↩︎
-
“ख ग घ ङ णमन्य।” ↩︎
-
“ग.घ. चक्षु।” ↩︎
-
“ख ग घ ङ. ‘ति च्छे’।” ↩︎
-
“ख. ङ. पस्करैः।” ↩︎
-
“क. ख, ग, घ, ङ. र्जद्याति।” ↩︎
-
“ख ग घ ङ स आत्मा।” ↩︎
-
“क. ग. घ. ङ, त्यांशस्तस्मि।” ↩︎
-
“ख ग घ ङ. ति। केन मार्गेणेत्य’।” ↩︎
-
“क. ग. घ. ‘वात्यन्ताभ्या’।” ↩︎
-
“क. ख. ग. घ. ॰दृशक्र॰।” ↩︎
-
“क. ॰रूपः किंतु तप्तलोहनिक्षिप्तोदक बिन्दुवद्ब्रह्मै॰।” ↩︎
-
“ग, घ. ‘त्र दृ’।” ↩︎
-
“क. ॰द्रापिहि॰। ग. घ. ॰द्राहि॰।” ↩︎
-
“ग. घ. चेदह॰।” ↩︎
-
“ख ग घ ङ. ॰ते। अ॰।” ↩︎
-
" क. ग, घ. ॰त्तयननु॰।” ↩︎
-
“ग. घ. ॰व सर्वस्माद्ध्रुवो॰।” ↩︎
-
“क. ग. घ. ‘णमा’।” ↩︎
-
“ङ.॰ले सुषुप्तिकाले य।” ↩︎
-
“ख ग घ ङ. ‘व ब्र’।” ↩︎
-
“क. ख. घ. ङ. ‘र्ध्वमा’।” ↩︎
-
“ख. घ. ङ. ‘तां कस्तु गं’।” ↩︎
-
“ख ग घ ङ. ‘न्यत्वसा’।” ↩︎
-
“क. ‘पास्त्युपा’।” ↩︎
-
“क. ‘सा ख्या’ ।” ↩︎
-
“क. “कत्वेनोक्तेo।” ↩︎
-
“घ. समर्धि।” ↩︎
-
“ख ग घ ङ. ‘ये स्वा’” ↩︎
-
“क. ख. ‘जापति0।” ↩︎
-
“क. ख. ङ. ‘जापतिं।” ↩︎
-
“क ख ग घ ङ ‘जापति’।” ↩︎
-
“ख ङ. चखान।” ↩︎
-
“ग. ण श्रुत्य’। ङ. ॰ण स्तुत्यस्तुतिबोधकमर्थं।” ↩︎
-
“ख, ग, घ, ङ. त्य जित्वा।” ↩︎
-
“क. ग घ ङ. राज्ञि ।” ↩︎
-
“ख. ङ. यन्मिथु।” ↩︎
-
“ङ. बवाची।” ↩︎
-
“क. ङ. र्णयमा।” ↩︎
-
“ख. ङ. ङ्गाश्च य°” ↩︎
-
“क. घ. ङ. त्तक” ↩︎
-
“ख, संवर’” ↩︎
-
“ख.ग.घ. मन्थिन्या” ↩︎
-
“ख. घ ङ. ‘य इति” ↩︎
-
“ग घ ङ. प्रत्येतु” ↩︎
-
“घ ङ. तुभूतपु” ↩︎
-
“क. ख. ग. घ. आप्लूय” ↩︎
-
“क. ग. घ. पिङ्गाक्षः” ↩︎
-
“ङ. लिङ्गेत्” ↩︎
-
“ख. ग. घ. ङ. दान्तां त्रि” ↩︎
-
“क. ख. ग. घ. ङ. दर्शनाही देव’” ↩︎
-
“ख, ग, घ, ङ. न्वागि” ↩︎
-
“ख ग घ यः क” ↩︎
-
“क. ख. विधानो” ↩︎
-
“क. ख. ङ. णेनं मि” ↩︎
-
“ग. घ. वाजसनेयिशा” ↩︎