श्वेताश्वतरोपनिषत्

अथ चतुर्थोऽध्यायः

य एको वर्णो बहुधा शक्तियोगात्

वर्णाननेकान् निहितार्थो दधाति ।

विचैति चान्ते विश्वमादौ स देवः

स नो बुद्ध्या शुभया संयुनक्तु ॥ १ ॥

प्र. ब्रह्मणः सर्वविधकारणत्वं प्रपञ्चयिष्यन् तद्विषयबुद्धिप्रार्थनामन्त्रमाह - य

एक इति । ‘अकारो वै सर्वा वाक् । सैषा स्पर्शीष्मभिरभिव्यज्यमाना बह्वी नानाविधा

भवति’ (ऐ.उ.३-६-७) इति ऐतरेयश्रुतेः, एकः अवर्णः निहितार्थः अर्थः - परं ब्रह्म

स्ववाच्यत्वेन निहित: यस्मिन् तथोक्तः परमपुरुषार्थभूतब्रह्मवाचकः - ‘अकारेणोच्यते

विष्णुः’ (पाञ्चरात्रे) इति श्रुतेः तादृशो अवर्णः सर्वान् वर्णान् दधाति उत्पादयति ।

सः विश्वं-कृत्स्नप्रपञ्चम् अन्तकाले व्येति - अन्तर्भावितण्यर्थोऽयम् - गमयति

नाशयति । स देवः शुभया बुद्ध्या योजयतु । अत्र वाच्यवाचकयोरभेदोपचारात् स देव

इत्युक्तिः ॥ १ ॥

तदेवाग्निस्तदादित्यस्तद्वायुस्तदु चन्द्रमाः ।

तदेव शुक्रं तद्ब्रह्म तदापस्तत् प्रजापतिः ॥ २ ॥

प्र. तस्य देवस्य सर्वात्म्यमाह - तदेवाग्निरिति । शुक्रं - रोचिष्ठम् ।

नक्षत्रमण्डलमित्यर्थः । शिष्टं स्पष्टम् ॥ २ ॥

त्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारी ।

त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः ॥ ३ ॥

प्र. - तदेव सार्वात्म्यं संबोधनेनाह - त्वं स्त्रीति । दण्डेन आलम्बनेन जीर्णः वृद्धस्सन्

वञ्चसि - सञ्चरसि । अत्यल्पमिदमुच्यते । त्वमेव सर्वरूपो जातोऽसीत्यर्थः ॥ ३ ॥

नीलः पतङ्गो हरितो लोहिताक्षः

तडिद्गर्भ ऋतवः समुद्राः

अनादिमत्त्वं विभुत्वेन वर्तसे

यतो जातानि भुवनानि विश्वा ॥ ४ ॥

प्र. - नील इति । नील हरितः - लोहिताक्षभेदभिन्नः पतङ्गः - पक्षी त्वमेव:

(तटिद्गर्भः?) ऋतब: समुद्राश्च । त्वमेव अनादिः । यतो विश्वानि भूतानि जातानि,

तदपि त्वमेव; निखिलजगत्कारणमपि त्वमेवेत्यर्थः । नीलपतङ्गाद्यात्मत्वमपि न स्वरूपेण

अपि तु व्यापकत्वेनात्मत्वादित्येतत् प्रदर्शयति - विभुत्वेन वर्तस इति । यतस्त्वं व्याप्य

आत्मतया वर्तसे, तत सर्वात्मत्वमित्यर्थः ॥ ४ ॥

[चिदचिद्विवेकः]

अजामेकां लोहितशुक्लकृष्णां

बह्वीः प्रजाः सृजमानां सरूपाः ।

अजो ह्येको जुषमाणोऽनु शेते

जहात्येनां भुक्तभोगामजोऽन्यः ॥ ५ ॥

प्र. - ‘भोक्ता भोग्यं प्रेरितारं च मत्वा (श्वे.उ.१-१२) ‘क्षरं प्रधानम् अमृताक्षरम्’

इति पूर्वनिर्दिष्टचिदचिद्विवेकं दर्शति - अजामेकामिति । तेजोबन्नलक्षणविकारगतलोहित-

शुक्लकृष्णरूपयुक्तां स्वसमानरूपविविधभूतभौतिकस्रष्टीम् उत्पत्तिरहितां काञ्चन

कश्चिदविद्वान् उत्पत्तिराहित्येन तत्समान एव सन् तत्राहम्बुद्धया सेवमानः तामनुसृत्य शेते

तिष्ठति । अपरो विद्वान् । कञ्चित् कालं भुक्त्वा उत्पन्नवैराग्यः त्यजतीत्यर्थः ।

[अजामन्त्रार्थविचारः]

ननु अस्मिन् अजामन्त्रे स्वरसत एतावान् अर्थः प्रतीयते - काञ्चित् छार्गी

त्रिवणां स्वसरूपबहुप्रकाराम् (प्रजाकरीम्?) एकश्छागः प्रीयमाणोऽनुवर्तते, अन्यः

तामुपभुक्तां त्यजतीति । कथं भवदुक्तप्रकृतिरूपार्थग्रहणम्? यदि च अध्यात्मशास्त्रे

लौकिकार्थप्रतिपादनानौचित्यात् आध्यात्मिकार्थे पर्यवसानं कर्तव्यमिति, तर्हि ‘द्वा सुपर्णा’

इति मन्त्रो वृक्षसुपर्णपिप्पलशब्दैः शरीरजीवकर्मफलानां गोण्या वृत्त्या ग्रहणवत्,

‘गौरनाद्यन्तवती’ (मन्त्रि.उ.१-५) इत्यत्र गोशब्देन गौण्या वृत्त्या प्रकृतिग्रहणवत् इहापि

अजाशब्देन गौण्या वृत्त्या प्रकृतिग्रहणं युक्तम् । न तु यौगिकार्थग्रहणम् ।

रूढिपूर्वकलक्षणाविशेषरूपगौण्यपेक्षया योगदौर्बल्यस्य प्रोद्गात्रधिकरणे’ स्थितत्वात् ।

‘इतरथा प्रैतु होतुश्चमसः प्रोद्गातृणाम्’ इत्यत्रापि यौगिकवृत्त्या उद्गात्रादीनां चतुर्णां

ग्रहणं स्यादिति चेन्न -

मुख्यार्थानुपपत्तौ हि गौणार्थाश्रयणं युज्यते । उपपद्यते च अजाशब्दे यौगिकार्थस्य

मुख्यस्य ग्रहणम् । न चैव प्रोद्गातॄन्यायविरोधः । तत्र पाशन्यायेन बहुत्वाविवक्षा

नास्ति; प्रोद्गातृशब्दयौगिकार्थबहुत्वस्य सम्भवात् । ‘अदितिः पाशान् प्रमुमोक्तु’

(पू.मी.सू.९-३-५) इत्यत्र रूढ्यर्थस्य वा यौगिकार्थस्य वा पाशशब्दार्थस्य

बन्धनसाधनस्यासम्भवात् बहुत्वाविवक्षा । इह तु तत्सम्भवात् नाविवक्षेत्येवं (व?)

तदधिकरणस्थितिः ।

न तु रूढिपूर्वकलक्षणापेक्षया योगस्य जघन्यत्वमित्यपि । नन्वेवं सुब्रह्मण्यस्यापि

गानकारितया योगार्थत्वात् तस्यापि ग्रहणप्रसङ्ग इति चेन्न - तस्य सदसि स्थित्यभावेन

तत्साधारण्याभावात् । मीमांसेकैकदेशिभिः तत्साधारण्यस्याभ्युपेतत्वाञ्च ।

ततश्च यौगिकार्थस्य मुख्यस्य अजाशब्दार्थस्य सम्भवे पररीत्या छागत्वरूपणं

गौणवृत्याश्रयणञ्च अयुक्तम् । ‘गोरनाद्यन्तवती’ इत्यत्र गोशब्दे यौगिकार्थास्फुरणात्,

‘सर्वकामदुधाम्’ इति दोहनस्य गोशब्दरूढ्यर्थग्रहणनियामकस्य सत्त्वाञ्च तत्र तथा; इह

तु योगार्थस्फूर्तेः रूढ्यर्थग्रहणनियामकशब्दान्तरसमभिव्याहाराभावाञ्च यौगिकार्थ एव

ग्राह्यः ।

किञ्च इह रूढ्यर्थग्रहणे समभिव्याहतानाम्, ‘बह्वीः प्रजासृजमानाम्’ (मैत्रा.उ.२-६)

इत्यादीनां सङ्कोचः स्यात् । छाग्याः प्रकृतिवत् सकलप्रजास्रष्ट्त्वासम्भवात् ।

सकलप्रजासर्गकरप्रकृत्यामल्पप्रजासर्गकारिच्छागीत्वपरिकल्पनस्य विच्छित्तिविशेषाहेतुत्वात् ।

न चैवम् ‘आत्मानं रथिनं विद्धि’ (कठ.उ.१-३) इत्यादौ आत्मशरीरादौ रथिरथत्वादिकल्पनमपि

न विच्छित्तिविशेषजनकं स्यादिति वाच्यम् । तत्र रूप्यरूपकवाचिपदद्वयश्रवणबलेन

वशीकार्यताप्रतीत्युपयुक्ततया च रूपणमङ्गीक्रियते । प्रकृते तु रूप्यरूपकवाचिपदद्वयाश्रवणात्

तद्वदत्रोपयोगाभावाञ्च न छागत्वपरिकल्पनम् । ‘द्वा सुपर्णेति’ (श्वे.उ.४-६) मन्त्रेऽपि

वृक्षादिशब्दैर्योगवृत्त्या अर्थग्रहणं युक्तम् । समासोक्तया अर्थान्तर स्फूर्त्या

विच्छित्तिविशेषोऽस्तीत्येतावन्मात्रम् । यदि च न वृक्षादिशब्दैः यौगिकार्थग्रहणम् तर्हि,

‘गौरनाद्यन्तवतीतिवदस्तु । प्रकृते तु अजाशब्देन यौगिकार्थस्य स्फुटप्रतीतेः योग एव

ग्राह्यः । एतत् सर्वं ‘कल्पनोपदेशात्’ (ब्र.सू.१-४-१०) इति सूत्रभाष्यश्रुतप्रकाशिकयोः

स्पष्टम् । अनेन प्रकृतिस्वरूपं बद्धमुक्तस्वरूपञ्च उक्तम् ।

ननु अजाशब्देन अकार्यत्वप्रतिपादनात् सृजमानाम् इति कर्त्रर्थशानचा

स्वातन्त्र्यलक्षणकर्तृत्वप्रतीतेः अब्रह्मात्मिकैव प्रकृतिरनेन मन्त्रेण अभिधीयतामिति चेत्

एवमेव समन्वयाध्याये पूर्वपक्षे प्राप्ते उच्यते -

‘चमसवदविशेषात्’ (ब्र.सू.१-४-८) । ‘अर्वाग्बिलश्चमस ऊर्ध्वबुध्न: तस्मिन्

यशोनिहितं विश्वरूपाम्’ (बृ.उ.४-२-३) इति मन्त्रे, ‘अग्बिलश्चमस’ इति

ऊर्ध्वबिलतिर्यग्बुध्नप्रसिद्धचमसव्यावर्तकस्य शिरसश्चमसत्वप्रत्यायकस्य वाक्यशेषस्य

सद्भाववत् इह अस्वतन्त्रप्रकृतिव्यावर्तकस्य सांख्याभिमतस्वतन्त्रप्रकृतिप्रतिपादकस्य

वाक्यशेषस्य अभावेन स्वतन्त्रा प्रकृतिरिहाभिधीयत इति निर्णयासंभवात् । ब्रह्मात्मकत्वेऽपि

जनिराहित्यस्योपपत्तेः । परतन्त्रेऽपि तक्षादौ, ‘तक्षति काष्ठम्’ इति कर्त्रर्थप्रत्ययदर्शनेन

तावन्मात्रेण अपरतन्त्रप्रकृतित्वनिश्चयासंभवात् ।

ननु ब्रह्मात्मकप्रकृतिग्रहणेऽपि नियामकाभावात् सन्देह एव स्यात् । तत्राह,

‘ज्योतिरुपक्रमा तु तथा ह्यधीयत एके’ (ब्र.सू.१-४-९) । ‘अथ यदतः परा दिवो

ज्योतिर्दीप्यते’ (छां.उ.३-१३-७) इत्यादौ ज्योतिश्शब्देन ब्रह्मनिर्देशदर्शनात् इह सूत्रेऽपि

ज्योतिश्शब्देन ब्रह्मोच्यते । उपक्रमशब्दः कारणत्वार्थकस्सन् आत्मत्वं लक्षयति ।

मृत्कारणकस्य घटादेः मृदात्मकत्वदर्शनात् । तथा च (ततश्च) ज्योतिरुपक्रमा

ब्रह्मात्मिका इत्यर्थः । ब्रह्मात्मिकैवाजेह मन्त्रे ग्राह्या । उपक्रमे - ‘देवात्मशक्तिं स्वगुणैः,

निरूढाम्’ इति ब्रह्मात्मकाजाया एव प्रतिपादितत्वात् । तैत्तिरीये, ‘अणोरणीयान् महतो

महीयान्’ (तै.ना.८१) इति ब्रह्म प्रस्तुत्य, ‘सप्त प्राणाः प्रभवन्ति तस्मात्’ (तै.ना.४-२)

इति प्राणोपलक्षितसकलप्रपञ्चोत्पत्तिमभिधाय निर्विकारस्य ब्रह्मणः अपरिणामितया

सकलप्रपञ्चोपादानत्वं न सम्भवतीति शङकावारणाय पठितस्यास्य मन्त्रस्य

ब्रह्मात्मकप्रकृतिपरत्वस्य वक्तव्यतया इहापि तथात्वावश्यम्भावाञ्च ब्रह्मात्मिकैव प्रकृतिः

अजामन्त्रप्रतिपाद्या ।

ननु आकाशादीनां ब्रह्मोपादानकत्वेन ब्रह्मात्मकत्ववत् प्रकृतेरपि ब्रह्मोपादानकत्वेन

ब्रह्मात्मकत्वस्य वक्तव्यतया अनुत्पन्नायाश्च तस्याः ब्रह्मोपादानकत्वासम्भवेन ब्रह्मात्मकत्वासम्भव

इत्याशङ्क्याह, - ‘कल्पनोपदेशाच्च मध्वादिवदविरोध:’ (ब्र.सू.१-४-१०) । कल्पनं

सृष्टिः । ‘धाता यथा पूर्वमकल्पयत्’ (तै.आर.१०-१-१४) इति प्रयोगदर्शनात् । अस्मान्मायी

सृजते विश्वमेतत्’ (श्वे.उ.४-९) इति मायाशब्दितप्रकृतेः ब्रह्मोपादेयप्रपञ्चसृष्टौ हेतुत्वावेदनात्

इत्यर्थः । प्रकृतेरब्रह्मात्मकत्वे च तस्याः ब्रह्मात्मकत्वं सिद्धम् । अपृथक्सिद्धत्वाधारत्वमात्रेणापि

आत्मत्वोपपत्त्या अजन्याया अपि प्रकृतेः ब्रह्मात्मकत्वं सम्भवत्येवेति ब्रह्मात्मकत्वमविरुद्धम् ।

मध्वादिवत् । अत्र मधुशब्देन, ‘असावादित्यो देवमधु’ (छां.उ.३-१-१) इति निर्दिष्टो आदित्य

उच्यते । आदित्यवदित्यर्थः । यथा आदित्यस्य ‘नैवोदेता नास्तमेता’ इत्यकार्यतया श्रुतस्यैव,

‘य आदित्ये तिष्ठन्’ (बृ.उ.५-७-१३) इत्यादिना ब्रह्मात्मकत्वञ्च, एवमनादेरप्युपपद्यते

ब्रह्मात्मकत्वमिति स्थितम् । प्रकृतमनुसरामः ॥ ५ ॥

[जीवब्रह्मवैलक्षण्यम्]

‘द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।

तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्योऽभिचाकशीति ॥ ६ ॥

प्र. - प्रकृतिसम्बन्धाविशेषेऽपि जीवस्य भोक्तृत्वम् न परमात्मन इत्येतत्

दृष्टान्तमुखेन प्रदर्शयति - द्वा सुपर्णेति । युज्यते इति युक्छब्दो गुणपरः । समानगुणक:

सयुक् इति व्यासार्येविवृतत्वात् । सखायौ परस्पराविनाभूतौ गमनसाधनत्वेन

पर्णशब्दितपक्षसदृशज्ञानादिगुणवन्तौ समानम् एकं वृक्षं - वृक्षवत् छेदनार्हं शरीरं

समाश्रितौ । तयोर्मध्ये एको जीवः परिपक्वं पिप्पलं-अश्वत्थफलसदृशं कर्मफलम्

अश्नाति । इतरस्तु परमात्मा अनश्नन्नेव अपहतपाप्मत्वादि महामहिमशाली वर्तत

इत्यर्थः । अत्र शरीर तदाश्रयजीव परवाचिशब्दनिगरणेन विषयिवाचकवृक्षसुपर्णादिशब्दै:

वृक्षत्वाद्यध्यवसानलक्षणारूपकातिशयोक्तिः विच्छित्तिविशेषायेति केचित् । वृक्षादिशब्देन

योगवशात् शरीरादिप्रतीतिः; न तु रूपकातिशयोक्तिरित्यन्ये ॥ ६ ॥

समाने वृक्षे पुरुषो निमग्नोऽ-

नीशया शोचति मुह्यमानः ।

जुष्टं यदा पश्यत्यन्यमीश-

मस्य महिमानमिति वीतशोकः ॥ ७ ॥

प्र. - समान इति । अनीशया भोग्यभूतया प्रकृत्या मुह्यमान: - ‘पराभिध्यानात्तु

तिरोहितम्’ (ब्र.सू.३-२-४) इति सूत्रोक्तन्यायेन तिरोहितपरमात्माशेषत्वज्ञानानन्द-

लक्षणस्वस्वरूपस्सन् वृक्षवच्छेदनार्हे एकस्मिन् शरीरे जीवः, ‘स्थूलोऽहं’ ‘कृशोऽहं’

इति तादात्म्यबुद्ध्या पांसूदकवत् तदेकतामापन्नस्सन् तत्संसर्गकृतानि दुःखान्यनुभवति ।

यदा असौ जीवो निमग्नात् स्वस्मात् धारकत्वनियन्तृत्वशेषत्वादिना विलक्षणं स्वकर्मभिः-

प्रीतं परमात्मानम्,अखिलजगदीशानलक्षणमस्य महिमानञ्च पश्यति; तदा वीतशोको

भवतीत्यर्थः । केचित्तु - अनीशया - अनीशत्वेन असमर्थत्वेन शोचन् स्वोद्धरणसमर्थं

स्वयं पङ्कादौ अनिमग्नं स्वस्मिन् प्रतीतिमन्तं तदुद्धरणसामर्थ्यलक्षणमहिमानं च दृष्ट्वा

वीतशोको भवति । तत्समाधिरत्रानुसन्धेय: । ‘अनीशया प्रकृत्या’ इति भाष्यमपि

अर्थतो व्याख्यानपरम् । न त्वनीशाशब्दार्थतयेति वदन्ति ॥ ७ ॥

ऋचोऽक्षरे परमे व्योमन्

यस्मिन् देवा अधि विश्वे निषेदुः ।

यस्तन्न वेद किमृचा करिष्यति

य इत् तद् विदुस्त इमे समासते ॥ ८ ॥

प्र. ऋच इति । न क्षरतीत्यक्षरम् । तादृशे ऋच: ऋक्छब्दोपलक्षितवेदजातस्य

परमे व्योमन् परमाकाशे परमतात्पर्यविषये यस्मिन्नक्षरे सर्वे देवाः समाश्रिताः, तत्

अक्षरं यो न वेद; स अधीतेन ऋग्वेदादिना किं करिष्यति? ‘स्थाणुरयं भारवाह: (हारः)

किलाभूदधीत्य वेदं न विजानाति योऽर्थम्’ । ‘एतद्वै तदक्षरं गार्गि अविदित्वाऽस्मिन्

लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राणि, अन्तवदेवास्य तद् भवतीति’

(बृ.उ.५-८-८) श्रुतेः । ये च तदक्षरं जानन्ति, ते निरस्तप्रतिकूला: सुखमासते इत्यर्थः । इमं

मन्त्रं विश्वदेवशब्दितनित्यसूर्याश्रयपरमस्थानपरतयापि योजयन्ति । तदक्षरे परमे व्योमन्’

(तै.ना.१-२) इत्यस्य वेदार्थसङ्ग्रहे स्थानपरतया योजितत्वात् ॥ ८ ॥

छन्दांसि यज्ञाः क्रतवो व्रतानि

भूतं भव्यं यच्च वेदा वदन्ति ।

अस्मान्मायी सृजते विश्वमेतत्

तस्मिँश्चान्यो मायया संनिरुद्धः ॥ ९ ॥

प्र. - छन्दांसीति । वेदं वैदिकमर्थजातं मायाप्रेरकः परमात्मा अस्मात्

मायाशब्दितात् साधनात् सृजते । अतश्च अपरिणामिनोऽप्युपादानत्वमविरुद्धम् । ननु

जीवस्य स्रष्टत्वं किं न स्यात् इत्याशङ्क्याह - तस्मिंश्चान्यो मायया संनिरुद्धः । अन्यो

जीवः तदाश्रितमायामोहितः । अतः तस्य मायाप्रेरकत्वाभावान्न स्रष्टुत्वमिति भावः ॥ ९ ॥

मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् ।

तस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत् ॥ १० ॥

प्र. - माया नाम का? तत्प्रेरकश्च क इत्यत्राह - मायां तु इति । त्रिगाणात्मिकां

प्रकृतिं विचित्राश्चर्यसर्गहेतुतया मायाशब्दितं विद्यात् । मायाप्रेरकस्तु महेश्वर इति

विद्यात् इत्यर्थः । न च महेश्वरशब्दो देवतान्तरवाचक इति शङ्क्यम् । तैत्तिरीयके -

‘यद्वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः ।

तस्य प्रकृतिलीनस्य य परः स महेश्वरः’ ॥ (तै.ना.१२-३)

इत्यकारवाच्यस्यैव नारायणस्य महेश्वरशब्दार्थत्वाभिधानादिति द्रष्टव्यम् । तस्यापृथक्सिद्ध-

विशेषणतया तदंशभूतैर्जीवैः सर्वमचेतनं व्याप्तम् इत्यर्थः । ततश्च जगदन्तर्गताः

तदपृथक्सिद्धविशेषणतया तदंशभूता इत्यर्थः ॥ १० ॥

यो योनिं योनिमधितिष्ठत्येको

यस्मिन्निदं सञ्च विचैति सर्वम् ।

तमीशानं वरदं देवमीड्यं

निचाय्येमां शान्तिमत्यन्तमेति ॥ ११ ॥

प्र. यो योनिमिति । योनिशब्देन जगद्योनिभूता प्रकृतिः उच्यते इति

व्यासायैर्व्याख्यातम् । न च तथा सति तस्या एकत्वात् वीप्सानुपपत्तिरिति शंक्यम् -

महदादीनामपि पञ्चभूतात्मकजगद्योनित्वेन वीप्सोपपत्तेः । ततश्च जगद्योनिभूतान्

प्रकृतिमहादादीन् योऽधितिष्ठति, यस्मिंश्च विश्वमेतत् उत्पत्तिकाले वियदादिरूपेण व्येति -

वैविध्यम् एति; संहारकाले च समेति - ऐक्यं गच्छति । तादृशम् आश्रिताभीष्टदायिनं

तमेव दर्शनसमानज्ञानेन विषयीकृत्य रागद्वेषादिप्रागभावासहकृतत्वलक्षणात्यन्तिकत्वोपेतां

श्रुत्यादिसिद्धां सर्वानर्थशान्तिमाप्नोतीत्यर्थः । यस्मिन्निदं सञ्च विचैति सर्वमिति

प्रतिपाद्यमानमुपादानत्वं निर्विकारस्य आत्मनः कथमिति शङ्कावारणाय, योनिं

योनिमधितिष्ठति इति प्रकृत्यादिशरीरकत्वादुपपद्यत इति शिष्यानुग्रहार्थं पुनः पुनः

कथनमिति द्रष्टव्यम् ॥ ११ ॥

यो देवानां प्रभवश्चोद्भवश्च

विश्वाधिपो रुद्रो महर्षिः ।

हिरण्यगर्भं पश्यत जायमानं

स नो बुद्ध्या शुभया संयुनक्तु ॥ १२ ॥

प्र. तज्ज्ञाने तदनुग्रह एव कारणमिति तं प्रार्थयते - यो देवानामिति । यो

देवानां जायमानं हिरण्यगर्भम्, असावप्रतिहतज्ञानादियुक्तस्स्यात् इति सानुग्रहम्

ऐक्षत । स मां वीक्षतामिति भावः ॥ १२ ॥

यो देवानामधिपो यस्मिन् लोका अधिश्रिताः ।

य ईशे अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम ॥ १३ ॥

प्र. - यो देवानामधिप इति । सर्वचिदचित्प्रपञ्चशेषिणे सर्वाधारभूताय सकलनियन्त्रे

तस्मै परमात्मने पुरोडाशादि हविषा पूजां कुर्वीमहीत्यर्थः । यज्ञादिभिः तदाराधान

तदुपासनद्वारा तत्प्राप्तिसाधनमिति भावः ॥ १३ ॥

सूक्ष्मातिसूक्ष्मं कलिलस्य मध्ये

विश्वस्य स्रष्टारमनेकरूपम् ।

विश्वस्यैकं परिवेष्टितारं

ज्ञात्वा शिवं शान्तिमत्यन्तमेति ॥ १४ ॥

प्र. - सूक्ष्मातिसूक्ष्ममिति । सूक्ष्मवस्तुष्यपि अन्तःप्रवेशयोग्यं कार्यब्रह्माण्डमध्ये

हिरण्यगर्भप्रजापत्याद्यनेकरूपेणावस्थाय विश्वस्रष्टारं सर्वान्तर्यामित्वेऽप्यनवद्यमद्वितीयं

परमात्मानं ज्ञात्वा मुक्तो भवति इत्यर्थः ॥ १४ ॥

स एव काले भुवनस्य गोप्ता

विश्वाधिपः सर्वभूतेषु गूढः ।

यस्मिन् युक्ता ब्रह्मर्षयो देवताश्च

तमेवं ज्ञात्वा मृत्युपाशाँश्छिनत्ति ॥ १५ ॥

प्र. - स एव काल इति । ब्रह्मविदो मुनयो देवताश्च यत्र मनो योजयन्ति; स

एव परमात्मा कर्मपरिपाककालविशेषे जगतः गोप्ता - संसारमोचकः, कुतः? विश्वाधिपः

सर्वभूतेषु गूढः । सर्वशेषित्वात् सर्वान्तर्यामित्वाञ्च इत्यर्थः । शेषशेषिभावशरीरात्मभाव-

सम्बन्धसत्वात् तादृशस्य शक्तस्य मोचकत्वौचित्यादिति भावः । तमेवमिति । अनेनाऽऽकारेण

तं जानन् दर्शनसमानाकारज्ञानेन विषयीकुर्वन् मुक्तो भवति इत्यर्थः ॥ १५ ॥

घृतात्परं मण्डमिवातिसूक्ष्म

ज्ञात्वा शिवं सर्वभूतेषु गूढम् ।

विश्वस्यैकं परिवेष्टितारं

ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥ १६ ॥

प्र. - घृतात्’ इति । यथा घृतस्य सारांशः सूक्ष्मः क्षीरव्यापी एवं सर्वत्र सूक्ष्मतया

दुर्ज्ञानतया वर्तमानात्वेऽप्यनवद्यतया मङ्गलभूतं भगवन्तं ज्ञात्वा मुक्तो भवतीत्यर्थः ॥ १६ ॥

एष देवो विश्वकर्मा महात्मा

सदा जनानां हृदये संनिविष्टः ।

हृदा मनीषा मनसाऽभिक्लुप्तो

य एतद्विदुरमृतास्ते भवन्ति ॥ १७ ॥

प्र. - एष देव इति । विश्वं कर्म - क्रियते इति कर्म - कार्य यस्य स तथोक्तः ।

जगत्कर्ता इत्यर्थः इतरत् उक्तार्थम् ॥

यदा तमस्तन्न दिवा न रात्रि-

र्न सत्र चासच्छिव एव केवलः ।

तदक्षरं तत्सवितुर्वरेण्यं

प्रज्ञा च तस्मात्प्रसृता पुराणी ॥ १८ ॥

प्र. - गायत्रीप्रतिपाद्यत्वमपि तस्यैव इत्याह यदा तम इति । यस्मिन् काले

सदसच्छब्दितमूर्तामूर्तप्रपञ्चं दिवारावविभागञ्चान्तरेण तमोमात्रमवस्थितम्, तस्मिन् काले,

‘ब्रह्मादिषु प्रलीनेषु नष्टे स्थावरजङ्गमे । आभूतसंप्लवे प्राप्ते प्रलीने प्रकृतौ महान् ‘एकस्तिष्ठति

विश्वात्मा स तु नारायणः प्रभुः’। (महा.भा.शा.प.२१०-२४) इत्युक्तरीत्या

ज्ञानसङ्कोचलक्षणाशुभमन्तरेण केवलं शुभतयाऽवस्थितम् । तदेव क्षरणशून्यं वस्तु

सवितृमण्डलमध्यवर्ति’; वरणीयं भजनीयञ्च तदेव । तस्मादेव हेतोः सृष्टिकाले प्रज्ञाना

सङ्कुचितज्ञानस्य नित्यस्य प्रसरणमिति भावः । प्रज्ञा च तस्मात् इत्यनेन, ‘धियो यो

नः प्रचोदयात्’ (ऋ.वे.३-४-१०) इत्यशंप्रतिपाद्यत्वमपि तस्यैवेत्युक्तं भवति ॥ १८ ॥

नैनमूर्ध्वं न तिर्यञ्चं ने मध्ये परिजग्रभत् ।

न तस्य प्रतिमा अस्ति यस्य नाम महद्यशः ॥ १९ ॥

प्र. - नैनमिति । ऊर्ध्वस्थाण्वादिरूपतया, पश्वादितिर्यग्रूपतया तदुभयविलक्षण-

मनुष्यादिरूपतया सन्तमत्येनं कोऽपि जनः परितः सम्यक् समन्तात् न जग्रभत् -

नाग्रहीत् । यद्वा ऊर्ध्वदेशादिषु न कोपि ज्ञातवान् । तस्य विभुत्वादिति भावः । यस्य

महद्यश इति नाम यस्त्वपरिच्छिन्नकीर्तिः प्रसिद्धः, तस्य सदृशं किमपि वस्तु नास्ति

इत्यर्थः ॥ १९ ॥

न संदृशे तिष्ठति रूपमस्य

न चक्षुषा पश्यति कश्चनैनम् ।

हृदा हृदिस्थं मनसा च

एनमेवं विदुरमृतास्ते भवन्ति’ ॥ २० ॥

न सन्दृशे तिष्ठति रूपमस्य

न चक्षुषा पश्यति कश्चनैनम् ।

हृदा मनीषा मनसाऽभिक्लुप्तो

य एनम् (एतत्) विदुरमृतास्ते भवन्ति ॥ (कठ,ठ.६-९)

प्र. - न सन्दृशे तिष्ठति इति । अस्य रूपम् - स्वरूपं विग्रहो वा, व्यापकत्वादेव

सन्दर्शनविषये अभिमुखतया न तिष्ठति इत्यर्थः । अथवा दृश्यं नीलरूपादिकं नास्ति

इत्यर्थः । अत एव न चक्षुषा पश्यति कश्चनैनम् इति । स्पष्टोऽर्थः । हृदा मनीषा

इत्यादि । अयमंशः, ‘सर्वत्र प्रसिद्धोपदेशात् (ब्र.सू.१-२-१) इत्यत्र व्यासार्यै: हृदा इति

भक्तिरुच्यते । मनीषा इति धृतिः । ‘न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति

कश्चनैनम्’ इति पूर्वार्धमेकरूपं पठित्वा, भक्त्या च धृत्या च समाहितात्मा ज्ञानस्वरूपं

परिपश्यतीह’ (महा.भा.१२-२१-६४) इति महाभारते उक्तम् अभिक्लुप्तः - ग्राह्यः इति

विवृतः । धृत्या समाहितात्मा, भक्त्या पुरुषोत्तमं पश्यति साक्षात्करोति प्राप्नोति इत्यर्थः ।

‘भक्त्या त्वनन्यया शक्यः’ (भ.गी.११-५४) इत्यनेनैकार्थ्यात् इति वेदार्थसङ्ग्रहे प्रतिपादितम्:

य एनं विदुः इति स्पष्टोऽर्थः ॥

[ज्ञानप्राप्त्यर्थं ईश्वरप्रार्थना]

अजात इत्येवं कश्चिद्भीरुः प्रपद्यते ।

रुद्र यत् ते दक्षिणं मुखं तेन मां पाहि नित्यम् ॥ २१ ॥

प्र. - अजात इति । हे संसाररुग्द्रावक ! त्वम् । अजातः - जननादिलक्षणसंसारहीन

इति मत्वा कश्चित् - पुरुषापशदः अहं दाक्षिण्यशालि

‘उदग्रपीनांसविलम्बिकुण्डलालकावलीबन्धुरकम्बुकन्धरम्,

प्रबुद्धमुग्धाम्बुजचारुलोचनं सविभ्रमभ्रूलतमुज्ज्वलाधरम्,

शुचिस्मितं कोमलगण्डमुन्नसं ललाटपर्यन्तविलम्बितालकं’ ॥ मुखं प्रपद्यते - प्रपद्ये -

ध्यायामि । प्रपद्यत इति पुरुषव्यत्ययः छान्दसः । तेन - ध्यानेन मां नित्यं पाहि

निरस्तसंसारं कुरु इत्यर्थः । स्तनन्धयप्रजाया अवतरणमुखभूतस्तनवत् अवतरणमुखभूतं

चरणारविन्दं प्रपद्य इति वाऽर्थः ॥ २१ ॥

मा नस्तोके मा न आयुषि

मानो गोषु मानो अश्वेषु रीरिष: ।

वीरान्मानो रुद्र बीमतो

वधीर्हविष्मन्त: सदसि त्वां हवानहे ॥ २२॥

॥ इति शोऽध्यायः ॥

प्र. मा न स्तोक इति । अपत्यपुत्रायुर्गवाश्वादिप्रवणतया मां मा हिंसो:

रिष हिंसायाम् (धा.पा.६१४) इति धातुः । हे संसाररुग्द्रावकः । त्वम् अस्मदपचारेण

भामित: - कुपितस्सन् वीर्ययुक्तान् ज्ञानवैराग्यादीन् मोक्षौपयिकान् मा वधीः-मा

हिंसीः । त्वत्पूजोपकरणपुरोडाशादिलक्षणहविरादियुक्ताः सन्तः त्वां सदसि हवामहे .

आराधयामः । इदित्यवधारणे । त्वामेवेत्यर्थः ॥ २२ ॥

॥ इति चतुर्थाध्यायप्रकाशिका ॥

अथ पञ्चमोऽध्यायः

[विद्याविद्ययो: लक्षणम्]

द्वे अक्षरे ब्रह्मपरे त्वनन्ते

विद्याविद्ये निहिते यत्र गूढे ।

क्षरं त्वविद्या ह्यमृतं तु विद्या

विद्याविद्ये ईशते यस्तु सोऽन्यः ॥१॥

प्र. पुनरपि ब्रह्ममाहात्म्यं (तादात्म्यं) चिदचिद्विवेकञ्च प्रपञ्चयति - द्वे अक्षरे

इति । ब्रह्मपरे ब्रह्माराधनरूपे अनन्ते - असंख्यातव्यक्तिके नित्यानित्यफलसाधनतया

(क्षरामृतशब्दिते) विद्याविद्याशब्दिते (ते?) ज्ञानरूपकर्मरूपे (द्वे?) यत्र अक्षरे - आत्मनि

दुर्मोचतया लग्ने, सोऽप्यन्यः, आभ्यां समाराध्यमानः तत्फलप्रदश्चान्यः इत्यर्थः ॥ १ ॥

यो योनिं योनिमधितिष्ठत्येको

विश्वानि रूपाणि योनीश्च सर्वाः ।

ऋषिं प्रसूतं कपिलं यस्तमग्रे

ज्ञानैर्बिभर्ति जायमानं च पश्येत् ॥ २ ॥

प्र. - योनिमिति । सर्वाणि समष्टिव्यष्टिरूपाणि तत्तद्योनीश्च सर्वाः योऽधितिष्ठति,

यस्तु अग्रे - सृष्टि-पूर्वसमये प्रसूतं कपिलं ज्ञानादियुक्तं बिभर्ति - कृतवान् जायमानदशायाञ्च

सानुग्रहमेक्षतः सोऽप्यन्य इति पूर्वेण संबन्धः ॥ २ ॥

एकैकं जालं बहुधा विकुर्वन्न

स्मिन् क्षेत्रे संहरत्येष देवः ।

भूयस्सृष्ट्वा पतयस्तथेशः

सर्वाधिपत्यं कुरुते महात्मा ॥ ३ ॥

प्र. - एकैकमिति । यस्मिन् क्षेत्रे प्रकृतिरूपे जालवद् बन्धके महदादिकार्यवर्ग

विविधतया कुर्वन् पुनश्च संहरति; तस्मिन्नेव प्रकृतिरूपे क्षेत्रे कल्पान्तरेऽपि भूयः

प्रजापत्युपलक्षितं प्रपञ्चं सृष्ट्वा सर्वदा सर्वेषां नियन्तृतया आस्ते यतोऽसौ (ततो?)

महामहिमशाल्यात्मा इत्यर्थः ॥ ३ ॥

सर्वा दिश ऊर्ध्वमधश्चतिर्यक्

प्रकाशयन् भ्राजते यद्वनड्वान् ।

एवं स देवो भगवान् वरेण्यो

योनिस्वभावानाधितिष्ठत्येकः ॥ ४ ॥

प्र. - ननु एतस्य कथं युगपत् सर्वयोन्यधिष्ठातृत्वम् उपपद्यत इत्यत्राह - सर्वा

दिश इति । कालचक्र परिवर्तनहेतुतया अनुडुच्छब्दवाच्यः सूर्यः तिर्यगूर्ध्वमधश्च

युगपद्भासयन् यत् - यथा भासते; तथा मुमुक्षुभिर्वरणीयो भजनीयो भगवानेक एव

सर्वयोन्यधितिष्ठति भवतीत्यर्थः ॥ ४ ॥

[सर्वदेवोपास्यत्वम्]

यच्च स्वभावं पचति विश्वयोनिः

पाच्यांर्श्च सर्वान् परिणामयेत् यः ।

सर्वमेतद्विश्वमधितिष्ठत्येको

गुणाँश्च सर्वान् विनियोजयेद्यः ॥ ५ ॥

तद्वेदगुह्योपनिषत्सु गूढं

तद्ब्रह्मा वेदते ब्रह्म योनिम् ॥

ये पूर्वं देवा ऋषयश्च तद्विदु-

स्ते तन्मया अमृता वै बभूवुः ॥ ६ ॥

प्र. - यच्चेति । यच्चेति लिङ्गव्यत्ययश्छान्दसः । यः सर्वेषामग्निजलादिवस्तूनाम्

उष्णानुगुणस्वभावं पचति सङ्कल्पलक्षणपाकेन निर्वर्तयति; यश्च पाच्यान्

परिणामयोग्यान् परिणामयति । सत्वा (सत्या) दींश्च गुणान् प्रवर्तयति, स परमात्मा

सर्वप्रकृत्यधिष्ठाता इत्यर्थः । तद्वेदेति । तेषु - प्रसिद्धेषु वेदेषु गुह्योपनिषत्सु (च)

तात्पर्यविषयतया प्रतिपाद्यं ब्रह्मणो वेदस्य योनिभूतं तत् परं ब्रह्म सकलवेदप्रवर्तकः

ब्रह्मा चतुर्मुखः वेदते - जानाति । अतादृशो न जानाति । ये च पूर्वं देवा ऋषयश्च

तत् ज्ञातवन्तः, ते सर्वे (तत्स?) समानाकारा मुक्ता बभूवुः इत्यर्थः ॥ ५, ६ ॥

गुणान्वयो यः फलकर्मकर्ता

कृतस्य तस्यैव स चोपभोक्ता ।

स विश्वरूपस्त्रिगुणस्त्रिवर्त्मा

प्राणाधिपः संचरति स्वकर्मभिः ॥ ७ ॥

प्र. - एवं परमात्मस्वरूपं तज्ज्ञानस्यामृतसाधनत्वञ्च उक्त्वा जीवस्वरूपं शोधयति .

गुणान्वय इति । सत्वरजस्तमोगुणानामन्वयो यस्य स तथोक्तः । सत्वादिगुणान्वितः

सन् फलसाधनभूतं कर्म यः करोति, स एव तस्यैव फलं भुङ्क्ते । एवं नियतकर्तृत्व

भोक्तृत्वशाली स्थावरनरपक्ष्यादिरूपयुक्तः कामक्रोधलोभरूपगुणत्रययुक्तो देवयानपितृयाण-

कष्टगतिरूपमार्गत्रययुक्तः प्राणसहचरितस्सन् कर्मपाशबद्धः सञ्चरति इत्यर्थः ॥ ७ ॥

अङ् गुष्ठमात्रो रवितुल्यरूपः

सङ्कल्पाहङ्कारसमन्वितो यः ।

बुद्धेर्गुणेनात्मगुणेन चैव

आराग्रमात्रो ह्यवरोऽपि दृष्टः ॥८॥

प्र. अङ् गुष्ठमात्र इति । बुद्धेः अन्तःकरणस्य सत्वरजस्तमोलक्षणगुणकारितेन

आत्मधर्मभूतनानाविधार्थविषयकाध्यवसायेन युक्तः तत्कार्येण तत्तत्फलसंकल्पेन

आढ्योऽभिजनवानस्ति इत्यहङ्कारेण (च?) युक्तस्सन् आत्मवत् स्वप्रकाशः, अङ् गुष्ठमात्रं

पुरुषं निश्चकर्ष यमो बलात्’ इत्युक्तरीत्या अङ् गुष्ठपरिमाणः शास्त्रेषु दृष्टः । ततोऽपि

अवरः - हीनपरिमाण: आराग्रमात्र इत्यपि दृष्टः - शास्त्रेषु दृष्ट इत्यर्थः ॥ ८ ॥

[जीवात्मनः लक्षणम्]

वालाग्रशतभागस्य शतधा कल्पितस्य च ।

भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते ॥ ९ ॥

प्र. - स्वमतमुपन्यस्यति - वालाग्रेति । वालाग्रशतांश - शतांशतुल्यपरिमाण

एव जीवो मोक्षे धर्मभूतज्ञानविकासेन विभुत्वलक्षणानन्त्याय प्रभवतीत्यर्थः ॥ ९ ॥

नैव स्त्री न पुपानेष न चैवायं नपुंसकः ।

यद्यच्छरीरमादत्ते तेन तेन संयुज्यते ॥ १० ॥

प्र. - श्रीनपुंसकत्वादिकमपि तस्य तादृशशरीरसम्बन्धकृतम् न ( स्वाभाविकम्

इत्याह नैव स्त्रीति । स्पष्टोऽर्थः ॥ १० ॥

सङ्कल्पनस्पर्शनदृष्टिहोमै

र्गासाम्बुवृष्ट्या ऽऽत्मविवृद्ध जन्म ।

कर्मानुगान्यनुक्रमेण देही

स्थानेषु रूपाप्यभिसम्प्रपद्यते ॥ ११ ॥

प्र. - देहप्राप्तौ हेतुमाह - सङ्कल्पेनेति । पुण्यविषयक सङ्कल्पगङ्गादिलक्षण-

पुण्यवस्तुस्पर्श तादृशवस्तुदर्शन यागहोमादिभिरात्मनो विवृद्धियुक्तं जन्य उत्कृष्टं जन्य

इति यावत् - अनेनक्रमेण (?) कर्मानुसारीणि रूपाणि तेषु तेषु ब्राह्मणादिषु योनिषु

(अनुक्रमेण) पर्यायेण प्रपद्यत इत्यर्थः ॥ ११ ॥

स्थूलानि सम्माणि बहूनि चैव

रूपाणि देही स्वगुणैर्वृणाति ।

क्रियागुणैरात्मगुणैश्च तेषां

संयोगहेतुरपरोऽपि दृष्ट: ॥ ११ ॥

प्र. - स्थूलानीति । मशकमातङ्गादिस्थूलसूक्ष्मशरीराणि बहुविधान्यपि

तत्तत्फलाभिसन्ध्यादिलक्षणरागादिरूपात्मगुणप्रयुक्तयागादिरूपक्रियालक्षणै: गुणैर्हेतुभि:

भजते । तादृशात्मगुणयोगे च पूर्वपूर्वं कर्मैव हेतुर्दृष्ट: इत्यर्थः ॥ १५ ॥

अनाद्यनन्तं कलिलस्य मध्ये

विश्वस्य स्रष्टारमनेकरूपम् ।

विश्वस्यैकं परिवेष्टितारं

ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥ १३ ॥

प्र. अनाद्यनन्तमिति । कलिलस्य - कार्यस्य मध्ये स्थित्वा हिरण्यगर्भ-

प्रजापत्याद्यनेकरूपतया विश्वस्य स्रष्टारम् इत्यर्थः । शिष्टं पूर्ववत् ॥ १३ ॥

भावग्राह्यमनीडाख्यं भावाभावकरं शिवम् ।

कलासर्गकरं देवं ये विदुस्ते जहुस्तनुम् ॥ १४ ॥

॥ इति पञ्चमोऽध्यायः ॥

प्र. - भावेति । भावग्राह्यं - भक्तिग्राह्यं अनीडत्वेन - अनिलयत्वेन अनाधारत्वेन

आख्यायमानं विश्वस्य भावाभावकरं - सर्गसंहारकारकं सर्वदा अशुभासृष्टं विद्यासर्गकारणं

(कारिणं?) ये पूर्व ज्ञातवन्तः, ते प्रकृतिविनिर्मुक्ता बभूवुः इत्यर्थः ॥ १४ ॥

(द्विरुक्तिरध्यायसमाप्त्यर्था)

॥ इति पञ्चमाध्यायप्रकाशिका ॥

अथ षष्ठोऽध्यायः

[भगवत: कालस्वभावादेः कारणत्वम् ]

स्वभावमेके कवयो वदन्ति

कालं तथान्ये परिमुह्यमानाः ।

देवस्यैष महिमा लोके

येनेदं भ्राम्यते ब्रह्मचक्रम् ॥१॥

प्र. - पुनरपि परमात्मनो गुणान् वक्तुमध्यायान्तरारम्भः स्वभावमिति ।

केचन लोकायतिकाः’ जगच्चक्रपिरवृत्तिहेतुं स्वभावं वदन्ति । अन्ये भगवन्मायामोहिताः

कालकर्मादिकं वदन्ति । तदिदमौपनिषदपरमपुरुषवरणीयता हेतुभूतगुणविशेषविरहिणां

जल्पितम् । परमात्ममहिम्नैव ब्रह्माश्रितं जगच्चक्रं बम्भ्रमीति इत्यर्थः । अथवा - ब्रह्म -

प्रकृतिः । प्रकृतिप्राकृतचक्रं बम्भ्रमीति इत्यर्थः ॥ १ ॥

[परब्रह्मणः महिमा]

येनावृतँ नित्यमिदँ हि सर्व

ज्ञः कालकालो गुणी सर्वविद्यः ।

तेनेशितं कर्म विवर्तते ह

पृथ्व्याप्यतेजोऽनिलखानि चिन्त्यतम् ॥ २ ॥

प्र. - येनावृतमिति । यो नित्यं सर्ववस्तुव्यापकः सर्वज्ञः ‘कालं स पचते तत्र

न कालस्तत्र वै प्रभुः’ (महा.भा.मो.प.२५-९) इत्युक्तरीत्या कालस्यापि पाचकः,

‘तेजोबलैश्वर्यमहावबोधसुवीर्यशक्त्यादिगुणेकराशिः, (वि.पु.६-५-८५), सर्वज्ञानप्रकार-

(प्रकारज्ञान?) वान्, तेनेशितं कर्म विवर्तते । क्रियत इति कर्मेति कार्यतया कर्मशब्दितं

पञ्चभूतात्मकं जगत् तेन - परमात्मना, स्यादिति सङ्कल्पमात्रविषयीकृतं सत् विवर्तते

निष्पद्यत इत्येतदेव हदि चिन्तनीयमित्यर्थः ॥ २ ॥

तत्कर्म कृत्वा विनिवर्त्य भूय -

स्तत्त्वस्य तत्त्वेन समेत्य योगम् ।

एकेन द्वाभ्यां त्रिभिरष्टभिर्वा

कालेन चैवात्मगुणेश्च सूक्ष्मै: ॥ ३ ॥

आरभ्य कर्माणि गुणान्वितानि

भावांश्च सर्वान् विनियोजयेद्यः ।

तेषामभावे कृतकर्मनाशः

कर्मक्षये याति स तत्त्वतोऽन्यः ॥ ४ ॥

प्र. तत्कर्मेत्यादि । ‘तत्त्वं नारायणः’ (तै.ना.११) इति श्रुतेः नारायण एव

तत्त्वम् । ततश्चायमर्थः इतरेभ्यो विनिवर्त्य तत्त्वस्य - भगवतः समाराधनं नित्यनैमित्तिक

लक्षणं कर्म भूयः कृत्वा, एकेन - जायमानदशाप्रसृतभगवत्कटाक्षेण द्वाभ्याम् । ‘यस्य

देवे परा भक्तिः यथा देवे तथा गुरौ (श्वे.उ.६-२३) इत्युक्तरीत्या देवगुरुभक्तिभ्याम्,

त्रिभिः - बाल्यपाण्डित्यमौनै: अष्टभिः योगाङ्गैश्च……? सहितस्सन् तत्त्वेन परमात्मना

शेषत्वज्ञानलक्षणयोगं प्राप्य प्रारब्धत्वगुणयुक्तानि कर्माणि अवलम्ब्य वर्तमानान् सर्वान्

भावान् - कामान् स्वस्मै विनियोजयति - भुङ्क्ते । स तेषां - कर्मफलभोगानाम्

अवसाने फलाय वर्गितया कर्मणां नाशात्, ‘तस्य तावदेव चिरम्’ (छां.उ.६-१४-२)

इत्युक्तरीत्या कर्मक्षये ब्रह्म याति - प्राप्नोति । स तत्त्वत: परमात्मनोऽन्य एव । अतो

नैक्यशङ्का कार्येति भावः ॥ ३,४ ॥

[कर्मणां विनियोगः]

आदिः स संयोगनिमित्तहेतुः

परस्त्रिकालादकलोऽपि दृष्टः ।

तं विश्वरूपं भवभूतमीड्यं

देवं स्वचित्तस्थमुपास्य पूर्वम् ॥ ५ ॥

स वृक्षकालाकृतिभिः परोऽन्यो

यस्मात् प्रपञ्चः परिवर्ततेऽयम् ।

धर्मावहं पापनुदं भगेशं

ज्ञात्वात्मस्थममृतं विश्वधाम ॥ ६ ॥

प्र. - परमात्मोपासनमपि स्वात्मोपासनपूर्वकं कर्तव्यम् इत्याह - आदिरिति ।

सः पूर्वमन्त्रोक्तजीवः संयोगे समीचीनपरमात्मयोगे तत्प्राप्तौ आदिकारणम् - प्रधान-

हेतुरिति यावत् - कालत्रयपरिच्छिन्नात् परत्वेन भिन्नत्वेन निरवयवत्वेन शास्त्रदृष्टः । तं

कर्मवशात् अनन्तशरीरं भवभूतं - भवं - संसारं भूतं - प्राप्तम् - संसारिणमिति यावत् ।

ईड्यं स्तुत्यम् । अपहतपाप्मत्वादिगुणकमिति यावत् । अत एव देवं. द्योतमानं

स्वप्रकाशज्ञानानन्दरूपं प्रथमत उपास्य, स वृक्षेति । यस्मादयं चिदचित्प्रपञ्च; परिवर्तते,

स वृक्षकालाकृतिभ्यः परः उत्कृष्टः - वृक्ष ‘शब्देन छेदनार्हप्रकृतिप्राकृतमुच्यते - आसमन्तात्

कृतिः यत्नो यस्येति आकृतिः कर्ता जीवः । प्रकृतिकालजीवेभ्यः उत्कृष्ट इत्यर्थः ।

ज्ञानोत्पत्तिप्रतिबन्धकपापानि अपनुद्य तदनुकूलपुण्यप्रवर्तकम्,

‘ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः ।

ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा’ ॥ (वि.पु.६-५-७४) इत्युक्तानां

ज्ञानादीनामीश्वरं विश्वस्य धाम - भूतमाधारभूतं मरणाद्यवद्यशून्य स्वात्मनि अन्तर्यामितया

वर्तमानं ज्ञात्वा मुक्तो भवतीत्यर्थः ॥ ५,६ ॥

[ज्ञानिनां तत्त्वानुभवः]

तमीश्वराणां परमं महेश्वरं

तं देवतानां परमञ्च देवतम् ।

पति पतीनां परमं परस्तात्

विदाम देवं भुवनेशमीड्यम् ॥ ७ ॥

प्र. - तमीश्वराणामिति । विदाम इति ज्ञानप्रार्थना । शिष्टं स्पष्टम् ॥ ७ ॥

न तस्य कार्य करणञ्च विद्यते

न तत्समश्चाभ्यधिकश्च दृश्यते ।

परास्य शक्तिर्विविधैव श्रूयते ।

स्वाभाविकी ज्ञानबलक्रिया च ॥८॥

प्र. न तस्येति । कार्य शरीरम् । करणम् - इन्द्रियम् । ज्ञानबलाभ्यां

संहिता सृष्टिसंहारादिलक्षणक्रिया ज्ञानबलक्रिया’ । शिष्टं स्पष्टम् ॥ ८ ॥

न तस्य कश्चित पतिरस्ति लोके

न चेशिता नैव च तस्य लिङ्गम् ।

स कारणं करणाधिपाधियो

न चास्य कश्चिज्जनिता न चाधिप: ॥ १ ॥

प्र. - न तस्य कश्चिदिति लिङ्गं - ज्ञापकहेतुः । करणाधिपो जीव:

शेषमतिरोहितार्थम् ।

[मुक्तये प्रार्थना]

यस्तन्तुनाभ इव तन्तुभिः प्रधानजैः स्वभावतः ।

देव एकः समावृणोति स नो दद्याद् ब्रह्माप्ययम् ॥ १० ॥

प्र. यस्तन्तुनाभ इति । लूताख्यः कीटविशेषः स्वसंनिहितजन्तुविशेषं यथा

तन्तुभिः आवृणोति, एवं प्रकृतिजैः प्राकृतैः तत्त्वैः स्वभावतः स्वेच्छातः चिद्वर्गमावृणोति

लुप्तज्ञानं करोति (यः?) स देवोऽस्माकं ब्रह्मणि अप्ययमात्यन्तिकं लयं करोतु

मुक्तस्य ब्रह्मण्यप्ययो नाम भेदकाकारास्फुरणम् ॥ १० ॥

एको देवः सर्वभूतेषु गूढः

सर्वव्यापी सर्वभूतान्तरात्मा ।

कर्माध्यक्षः सर्वभूताधिवासः

साक्षी चेता केवलो निर्गुणश्च ॥ ११ ॥

प्र. - एको देव इति । इतराविदिततया वर्तमानः, सर्वव्यापितया सर्वभूतात्मा

तच्छरीरेष्वनुप्रविष्टः, कर्मसु प्रेरकः, चेता - ‘चिञ् चयने’ (धा.पा.१२५२) इति हि

धातुः - सकलप्रपञ्चनिर्माता, त (अ) थापि गुणत्रयवश्यत्वाभावात् (च?) केवलोदासीनः,

ईशः (?) ‘अपहतपाप्मा दिव्यो देव एको नारायणः’ (अध्यात्म,उ.१) इति प्रसिद्धो

दिव्यो देव एक एव इत्यर्थः ॥ ११ ॥

एको वशी निष्क्रियाणां बहूना-

मेकं बीजं बहुधा यः करोति ।

तमात्मस्थं येऽनुपश्यन्ति धीराः

तेषां सुखं शाश्वतं नेतरेषाम् ॥ १२ ॥

प्र. एको वशी इति । निष्क्रियाणां स्वतः प्रवृत्तिरहितानां सर्वचेतनानां

वशी - स्वाधीनसर्वचेतनवर्ग इति यावत् - एकं जगबीजमव्यक्तलक्षणं महदहङ्कारादिरूपेण

यो बहुधा करोति, तं स्वान्तर्यामिणं ये जानन्ति; त एव मुक्ता भवन्ति इत्यर्थः ॥ १२ ॥

‘नित्यो नित्यानां चेतनश्चेतनाना

मेको बहूनां यो विदधाति कामान् ।

तत्कारणं सांख्ययोगाधिगम्यं

ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥ १३ ॥

प्र. नित्य इति । अनित्यानां चेतनानां बहूनां नित्य एक एव चेतनस्सन् (यः?)

कामान् विदधाति, तज्ज्ञानं मुक्ति (हेतु?) रित्यर्थः । अत्र नित्यचेतनानाम् अनित्यत्त्वम्

धर्मभूतज्ञानसंकोचादिधर्मयोगादिति द्रष्टव्यम् । नित्यानां मध्ये नित्यः अत्यन्तनित्यः,

चेतनानां मध्ये चेतन: परमचेतनः इत्यर्थाश्रयणेऽपि न दोषः । नित्यत्वं चेतनत्वतारतम्यञ्च

विवक्षाविशेषेण द्रष्टव्यम् । सांख्ययोगाधिगम्यं - सांख्य योगशास्त्रयोः तात्पर्यविषयभूतम् ।

‘सांख्यं योग: पाञ्चरात्रं वेदः पाशुपतं तथा । आत्मप्रमाणान्येतानि’ (महा.भा.शां.प.३५०-१)

इत्युक्तेरिति भावः ॥ १३ ॥

‘न तत्र सूर्यो भाति न चन्द्रतारकं

नेमा विद्युतो भान्ति कुतोऽयमग्निः ।

तमेव भान्तमनु भाति सर्वं

तस्य भासा सर्वमिदं विभाति ॥ १४ ॥

न तत्रेति । अयं मन्त्रः अन्यत्र बहुकृत्वो व्याकृतः ॥ १४ ॥

एको हँसो भुवनस्यास्य मध्ये

स एवाग्निः सलिले संनिविष्टः ।

तमेव विदित्वाऽति मृत्युमेति

नान्यः पन्था विद्यतेऽयनाय ॥ १५ ॥

प्र. एक इति । भुवनस्य चिदचित्प्रपञ्चस्य मध्ये, पक्षिसंघे राजहंसवत्

विराजमानः । ‘यमन्तस्समुद्रे कवयोः वदन्ति’ (तै.ना.१-३) इति समुद्रसलिलसंनिविष्टः

स एव अग्नि: - अग्रनेता मोक्षप्रदः संसारपाशदाहकः इति वार्थः । शिष्टं स्पष्टम् ॥ १५ ॥

स विश्वकृत् विश्वविदात्मयोनिर्ज्ञ:

कालकालो गुणी सर्वविद्यः ।

प्रधानक्षेत्रज्ञपतिर्गुणेश:

संसारमोक्षस्थितिबन्धहेतुः ॥ १६ ॥

प्र. स विश्वेति । विश्वकृत् - सर्वकर्ता, विश्ववित् - सर्व प्राप्तः, ‘विद्लृ

लाभे’ (धा.पा.१४३३) इति हि धातुः आत्मयोनि: - आत्मा योनिः स्थानं यस्य स तथोक्तः ।

जीवान्तर्यामीत्यर्थः । ज्ञः-सर्वज्ञ: कालकालः कालस्यापि नियन्ता; सर्वविद्यः

सर्वविद्याप्रवर्तकः, प्रधानक्षेत्रज्ञपति: - प्रकृतिजीवयोः शेषी, गुणेश: - ज्ञानादिषाड्गुण्यपरिपूर्णः,

संसारस्य - प्रकृतिसम्बन्धलक्षणस्य मोक्षे च तत्स्थितौ च हेतुरित्यर्थः ॥ १६॥

स तन्मयो ह्यमृत ईशसंस्थो

ज्ञः सर्वगो’ भुवनस्यास्य गोप्ता ।

य ईशेऽस्य जगतो नित्यमेव

नान्यो हेतुर्विद्यत ईशनाय ॥ १७ ॥

प्र. स तन्मय इति । सः परमात्मा तन्मयः - तत्प्रचुरः । तदात्मक एव;

नान्यात्मकः । अनन्यप्रेर्य इति यावत् । अमृतः असंसारी । ईशे - ईशनव्यापारे

सम्यक् स्थितिः यस्येति तथोक्तः । य ईशे-यो नित्यमीष्टे । यस्य च ईशनम्

अनन्यहेतुकं नित्यम् । मोक्षदशायामप्यनपायी इत्यर्थः । शिष्टं स्पष्टम् ॥ १७ ॥

[भगवच्छरणागतिः]

यो ब्रह्माणं विदधाति पूर्वं

यो वै वेदाँश्च प्रहिणोति तस्मै ।

तँ ह देवमात्मबुद्धिप्रकाशं

मुमुक्षुर्वै’ शरणमहं प्रपद्ये ॥ १८ ॥

प्र. - ‘पुरुषान्नपरं किञ्चित् सा काष्ठा सा परा गतिः’ (कठ.उ.३-११) इति वशीकार्य-

परम्परा विश्रान्तिभूमिभूतभगवद्वशीकरणोपायभूतप्रपदनमन्त्रमाह - यो ब्रह्मणम् इति । य:

स्वनाभिपद्मे ब्रह्माणमुत्पाद्य तस्य वेदप्रदानेन जगत्सर्गशक्तिमहितवान्, तं स्वविषयबुद्धि-

प्रकाशहेतुं मुमुक्षुः अहं शरणं प्रपद्ये इत्यर्थः । आत्मबुद्धेः प्रकाशो यस्मात् स आत्मबुद्धि-

प्रकाशः । तद्विषयबुद्धिस्फुरणस्य तदनुग्रहायतत्वात् इत्यर्थः ॥ १८ ॥

निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्।

अमृतस्य परं सेतुं दग्धेन्धनमिवानलम्॥१९॥

यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवा:।

तदा देवमविज्ञान दु:खस्यान्तो भविष्यति॥२०॥

प्र. उक्तब्रह्मज्ञानाभावे मोक्षसंभावनैव नास्तीत्याह - निष्कलमिति मन्त्रद्वयेन ।

आकाशस्य चर्मकटादिवत् वेष्टनं यदा अल्पशक्तयो मनुष्याः करिष्यन्ति, तदा निष्कलं -

निरवयवं निष्क्रियं - कृतकृत्यं शान्तम् - अशनायाधूर्मिषट्करहितं निरवद्यम्

आश्रितपराङ्मुखत्यावद्यरहित निरञ्जनम् - असङ्गस्वभावम् अमृतस्य मोक्षस्य परं -

मुख्यं सेतुं दग्धेन्धनानलवत् स्वप्रकाशकं देवमविज्ञाय दुःखस्य नाशो भवति । यथा

आकाशस्य चर्मवत् वेष्टनमसंभावितम्, एवं परमात्मज्ञानमन्तरेण मोक्षोऽसंभावित

इत्यर्थः ॥ १५,२० ॥

तपः प्रभावाद्देवप्रसादाच्च

ब्रह्म ह श्वेताश्वतरोऽथ विद्वान् ।

अत्याश्रमिभ्यः परमं पवित्रं

प्रोवाच सम्यगृषि संघजुष्टम् ॥ २१ ॥

प्र. तप इति । ‘मनसश्चेन्द्रियाणाञ्च ऐकाग्र्यं परमं तपः’ ()

इत्युक्तचित्तैकाग्र्यलक्षणतपः प्रभावाच्च (त् परमात्मानुग्रहाच्च?) संपन्नब्रह्मविज्ञान;

श्वेताश्वतरनामा ऋषिः अत्याश्रमिभ्यः ‘अति पूजायाम्" (धा.पा.६१) पूज्याश्रययुक्तेभ्यः

परमहंससन्यासिभ्यः ऋषिसंधैः वामदेवादिभिः जुष्टं - सेवितं परमं पवित्रं ब्रह्म

प्रोवाच इत्यर्थः ॥ २१ ॥

[ब्रह्मविद्याधिकारनिरूपणम्]

वेदान्ते परमं गुह्यं पुराकल्पे प्रचोदितम् ।

नाप्रशान्ताय दातव्यं नापुत्रायाशिष्याय वा पुनः ॥ २२ ॥

प्र. - वेदान्त इति । वेदान्तेषु अतिरहस्यतया निगूढं पुराकल्पे ब्रह्मणे उपदिष्टमेतत्

विज्ञानं शान्तेभ्यः पुत्रेभ्यः शिष्येभ्य एव प्रब्रूयात् नान्येभ्यः इत्यर्थः ॥ २२ ॥

यस्य देवे परा भक्तिः यथा देवे तथा गुरो ।

तस्यैते कथिता हार्था: प्रकाशन्ते महात्मनः ॥

प्रकाशन्ते महात्मनः इति ॥ २३ ॥

॥ इति षष्ठोऽध्यायः ॥

॥ श्वेताश्वतरोपनिषत् समाता ॥

प्र. - भगवद्विषये गुरुविषये च उत्कृष्टभक्तिशून्यानाम् उक्तार्था उपदिष्टा अपि

दर्शाना इत्याह - यस्य देवे इति । यस्य भगवत्युत्कृष्टा भक्तिः तत्तुल्या गुरावपि भक्तिः,

तस्यैव महात्मनः एते अर्था भासन्ते। नेतरेषामित्यर्थः । द्विरुक्तिरध्यायसमात्यर्था

(आदरार्था च)।

एतदध्यायान्तर्गतवाक्यविषयमधिकरणं लिख्यते -

तृतीयाध्याये उभयलिङ्गपादे वेदान्ते जगत्कारणतया प्रतिपाद्यमानस्यात्मनः, ‘अथ

च आत्मा स सेतुर्विधृतिः’ (छां.उ.८.४.१) इति सेतुत्वश्रवणात् सेताश्च

प्राप्यान्तरप्रापकत्वस्यैव दर्शनेन ब्रह्मणोऽपि प्राप्यान्तरप्रापकतैव (प्रतीयते); न तु स्वयं

प्राप्यता । किञ्च - ‘एते सेतुं तीर्त्वा’ इति तरितव्यत्वाभिधानेन एतस्य प्राप्यत्वाभावाविष्करणात्

वेदान्तेषु, ‘चतुष्पात् ब्रह्म षोडशकलम्’ (छां.उ. ३-८-२) इत्युन्मानश्रवणात् नेदमपरिमितम्,

अपरिमितस्पोन्मानासंभवात् । अतो वेदान्तेषु अपरिमितत्वेन प्रतीयमानमन्यदेवेति प्रतीयते ।

किञ्च • ‘अमृतस्य परं सेतुम्’ (श्वे.उ.६-१९) इति अमृतस्य वस्त्वन्तरस्य

प्राप्यतापकत्वलक्षणः सम्बन्धः षष्ठ्या प्रतीयते । न हि स्वस्मिन्नेव प्राप्यप्रापकत्वलक्षणः

सम्बन्धः संभवति । किञ्च - ‘तेनेदं पूर्णं पुरुषेण सर्व’ (श्वे.उ.३-९)मिति प्रतिपादितपुरुषादपि,

‘ततो यदुत्तरतरम्’ (श्वे.उ.३-२०) इत्यधिकृत्य निर्देशात् परस्मादपि ब्रह्मणः परमन्यत्

व्यपदिश्यते । अत एभ्यो हेतुभ्यः परस्मादपि ब्रह्मणः अन्यत् परमभ्युपगन्तव्यमिति,

‘परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः’ (ब्र.सू.३-२-३०) इति सूत्रेण पूर्वपक्षे प्राप्ते उच्यते ।

‘सामान्यात्तु’ (ब्र.सू.३-२-३१) । ‘य आत्मा सेतुः’ इति व्यपदेशः, ‘एषां

लोकानामसभेदाय’ (छां.उ.८.४-२) इति वाक्यशेषश्रुतासंकरकारित्वलक्षण-

धर्मसामान्यनिबन्धनः। ‘एतं सेतुं तीर्त्वा’ (छां.उ.८-४-२) इत्यत्र तरतिश्च प्राप्तिवचनः,

वेदान्त तरतीतिवत्। नोल्लङ्घनवचनः ।

यदुक्तम् उन्मानव्यपदेशादस्य परिमितत्वं प्रतीयत इति, तत्राह - ‘बुद्ध्यर्थः पादवत्’

(ब्र.सू.३-२-३२) । यथा ‘मनो ब्रह्मत्युपासीतेत्यध्यात्मम्’ (छां.उ.३-१८-४) ‘तदेतच्चतुष्पाद्

ब्रह्म वाक् पाद:, प्राणः पादः, चक्षुः पादः, श्रोत्रं पादः इत्यध्यात्मम्’ (छां.उ.३-१८-२)

इत्यत्र ब्रह्म प्रतीकभूतमन आदौ वागादिपादत्वव्यपदेश उपासनार्थः, न तु तात्विकः,

मनसो वागादिपादत्वासम्भवात् - एवम् अपरिच्छिन्नस्य ब्रह्मणः ‘प्राची दिक् कला,

प्रतीची दिक् कला, दक्षिणा दिक् कला, उदीची दिक् कला । एष वै सोम्य चतुष्कल:

पादो ब्रह्मणः प्रकाशवान् नाम’ (छां.उ.४-५-२) इत्युक्तदिगादिलक्षणचतुष्कल-

पादसम्बन्धासम्भवात् उपासनार्थ एव ।

ननु स्वयमनुन्मितस्य कथमुपासनार्थतयाऽप्युन्मान प्रतीतिः? तत्राह, ‘स्थानविशेषात्

प्रकाशादिवत्’ (ब्र.सू.३-२-३३) । यथा प्रकाशाकाशादेरपरिच्छिन्नस्यापि वातायनाद्यपाधि-

वशेन परिच्छिन्नत्वाऽनुसन्धानम्, एवम् इहापि अभिव्यक्तिस्थानभूतप्रा (वा?) गाद्युपाधिवशेन

उन्मितत्वानुसन्धानमुपपद्यते ।

यदुक्तम्, ‘अमृतस्य परं सेतुम्’ इति सम्बन्धव्यपदेशे अमृतात् भेदोऽवगम्यत

इति तत्राह - उपपत्तेश्च (ब्र.सू.३-२-३४) । ‘यमेवैष वृणुते तेन लभ्यः’ (मुं.उ.३-२-३)

इति स्वप्राप्तेः स्वयमेव साधनतया जोघुष्यमाणे ब्रह्मणि स्वेनैव प्राप्यप्रापकत्वलक्षण-

सम्बन्धव्यपदेशस्यापि नानुपपत्तिः ।

यदुक्तम् - ‘ततो यदुत्तरतरम्’ इति अधिकं वस्तु प्रतिपाद्यते इति, तत्राह

‘तथान्यप्रतिषेधात्’ (ब्र.सू.३-२-३५) ‘यस्मात् परं नापरमस्ति’ (श्वे.उ.३-९) इति

तदतिरिक्तोत्कृष्टवस्तुनो निषेधेन तद्विरुद्धतया, ततो यदुत्तरतरम् इति वाक्ये

तदधिकवस्तूपक्षेपासम्भवात्, ततो यदुत्तरतरम्’ इत्येतत् पूर्वोप (पूर्वप्रति) पादितस्य

पुरुषपारम्यस्य उपरि उपसंहाररूपम् । एतच्च पूर्वत्र तन्मन्त्रव्याख्यायां स्पष्टीकृतम् ॥

अनेन ‘सर्वगतत्वमायामशब्दादिभ्यः’ (ब्र.सू.३-२-३६) । अनेन - ब्रह्मणा सर्वगतत्वं -

सर्वस्य जगतो व्याप्तत्त्वम् आयामशब्दादिभ्योऽवगम्यते । आयामशब्दस्तावत् ‘तेनेदं

पूर्णं पुरुषेण सर्वम् अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः’ (तै.ना.११) इत्यादि ।

आदि शब्देन, ‘ब्रह्मैवेदं सर्वम्’ (मुं.उ.२-३-११) इत्यादयो गृह्यन्ते । अतो न परब्रह्मणोऽन्यत्

प्राप्यमस्तीति स्थितम् ॥

अस्याश्च उपनिषदः कृत्स्नाय भगवत्परत्वं सर्वव्याख्यानाधिकरणे व्यासार्यै:

समर्थितम् । तदुच्यते । प्रथमद्वितीयखण्डयोः, ‘देवात्मशक्तिम्’ ‘व्यक्ताव्यक्तं’ ‘भरते विश्वमीशः

‘यदात्मतत्वेन तु ब्रह्मतत्वम्’, ‘ज्ञात्वा देवम्’, ‘एष हि देवः प्रदिशोऽनु सर्वाः’ इति देवात्मेशब्रह्मशब्दैः

परमात्मा निर्दिश्यते । ते च शब्दाः ‘अपहतपाप्मा दिव्यो देव एको नारायणः’ (अध्यात्म.उ.१)

‘विश्वं नारायणं देवम् आत्मा नारायणः परः’ (तै.ना.उ) ‘अङ् गुष्ठमात्रः पुरुषोऽङ् गुष्ठञ्च

ममाश्रितः । ईशः सर्वस्य जगतः’ (कठ.उ.४-१२) ‘येनाक्षरं पुरुष वेद सत्यं प्रोवाच तां

तत्त्वतो ब्रह्मविद्याम्’ (मुं.उ.१-२-१३) इत्यादिवाक्यगत नारायणप्रत्यभिज्ञापकाः ।

अत्रेशशब्दश्च न रूढ्या प्रयुक्तः अपि तु गुणयोगात् । अनीशश्चात्मा, ‘ज्ञाज्ञौ द्वावजानीशौ,

(श्वे.उ.१-९) ‘ईशः सर्वस्य’ इति निर्देशस्य सप्रतिसंबन्धितया अवयव (वार्थ)

विवक्षाज्ञापकत्वात् ॥ अनन्तश्चात्मा विश्वरूपो ह्यकर्ता इत्यत्रानन्तशब्दो योगरूढः ।

रूढ्यविवक्षानिमित्तसप्रतियोगिकनिर्देशाभावात् ।

तृतीये च खण्डे, ‘य एतद्विदुरमृतास्ते भवन्ति’ (श्वे.उ.३-१) इत्यनेन ‘अम्भस्य

पारे’ (महा.ना.१) इत्यनुवाकः प्रत्यभिज्ञाप्यते । स हि परमपुरुष विषयः । एवमुपक्रमो

भगवत्परः । एको हि रुद्र इत्यस्यानन्तरम्, ‘विश्वतः चक्षुरुत विश्वतोमुखः’ इति मन्त्रश्च

भगवत्प्रत्यभिज्ञापकः । तस्य विद्युद्वर्णपुरुषविषयत्वात् । ‘द्यावाभूमी जनयन् देव एकः’

(ऋ.वे.१०-८१-३) इति च, ‘शीर्ष्णो द्यौः समवर्तत पभ्द्यां भूमिः’ (ऋ.वे.१०-९०-१४) इत्यस्य

प्रत्यभिज्ञापकम् । ‘यो देवानां प्रभवश्चोद्भवश्च विश्वाधिको रुद्रो महर्षिः । हिरण्यगर्भ

जनयामास पूर्वम्’ (श्वे.उ.३-४) इत्येतत्तु यच्छब्दयोगात् अनुवादरूपतया

प्रमाणान्तरसापेक्षतया दुर्बलम् । इदं रुद्रस्य ब्रह्मचशतपथब्राह्मणावगत-हिरण्यगर्भजन्यत्वविरोधि

हिरण्यगर्भजनकत्वं न प्रतिपादयितुं प्रभवति । ब्रह्मचे ‘तदिदास भुवनेषु ज्येष्ठं यतो जज्ञे

उग्रस्त्वेष नृम्णः । सद्यो जज्ञानो निरिणाति शत्रून्’ (ऋ.वे.१०-१२०-१) इति हिरण्यगर्भस्रष्ट्त्वं

रुद्रशब्दरूढ्यर्थस्य प्रतिपाद्यते । सुबालोपनिषदि, ‘ललाटात् क्रोधजो रुद्रः’ (सुबा.उ.२-१)

इति नारायणात् उत्पन्नत्वं प्रतीयते; महोपनिषदि ‘सोऽन्यं कामं मनसा ध्यायीत । त्र्यक्षः

शूलपाणिः पुरुषोऽजायत’ इति । नारायणोपनिषदि ‘नारायणाद्रुद्रो जायते’ (ना.उ.१)

इति । बृहदारण्यके, ‘ब्रह्म वा इदम्’ (बृ.उ.३-४-११) इति ब्रह्म प्रस्तुत्य, ‘इन्द्रो

वरुणः सोमो रुद्रः पर्जन्यः’ (बृ.उ.३-४-११) इति इन्द्रादि तुल्यतया रुद्रस्यापि ब्रह्मणः

सकाशादुत्पत्तिः प्रतिपाद्यते । शतपथे अष्टमूर्तिब्राह्मणे, ‘भूतानां च प्रजापतिः संवत्सरमुषसि

रेतोऽसिञ्चत् । संवत्सरे कुमारोऽजायत । सोऽरोदीत् । तं प्रजापतिरब्रवीत्, कुमारः।

किं रोदिषीति । सोऽब्रवीत्, अनपहतपाप्मा वा अहमस्मीति अनाहितनाम् नाम मे धेहि

पाप्मनोऽपहत्या’ इति । तं पुनः प्रजापतिरब्रवीत्, ‘रुद्रोऽसीति’ () इत्यादिना रुद्रस्य

चतुर्मुखजन्यत्वम् अनपहतपाप्मत्वादिकमावेद्यते । तथा शैलालिब्राह्मणे चतुर्मुखस्रष्टत्वं रुद्रस्य

प्रतिपाद्यते । साम्नि च विरूपाक्षाय दन्ताञ्जये (दत्ताञ्जलये) ब्रह्मणः पुत्राय इति ब्रह्मणः

पुत्रत्वं प्रतीयते । सोऽब्रवीत् । वरं वृणौ । अहमेव पशूनामधिपतिरसानीति । तस्माद्रुद्र:

पशूनाम् अधिपतिः इति वरदानलब्धपशुपतिं भावः श्रूयते, विष्णुरेवा(ष)ऽस्य प्रभृधे

हविर्भि: विधेहि रुद्रियं महत्त्वम् (गी.सं.र.) इति विष्ण्वाराधनलब्धमहिमत्वं रुद्रस्य

श्रूयते । अतो हिरण्यगर्भजन्यत्वेन, नारायणजन्यत्वेन च अनपहतपाप्मत्वेन, कर्माधीन

ऐश्वर्यवत्त्वेन च श्रुतस्य रुद्रस्य तद्विरुद्धहिरण्यगर्भजनकत्वस्य अवताररूपोत्पत्तिरिति

विरोधपरिहरास्य वा असम्भवात् । कल्पभेदेन एकस्यैव रुद्रस्य हिरण्यगर्भरूपात् स्वस्मादुत्पत्ति:

कल्पान्तरे रुद्ररूपात् तस्मात् हिरण्यगर्भरूपतयोत्पत्तिरिति कल्पनस्यापि; कार्यत्वेन

कर्मवश्यत्वेन (च?) प्रतिपादिते तस्मिन्नसम्भवात् । इन्द्रादीनामपि तथात्वापाताञ्च ।

तस्य विश्वाधिकत्वरूप-विशेषणासम्भवाञ्च । ततश्च रुद्र शब्दस्य कार्यरुद्रव्यतिरिक्तविषयत्वे

सति, अस्य वाक्यस्य अनुवादरूपतया, ‘नारायणाद् ब्रह्मा जायते’ इत्यादि योग्यार्थप्रापक-

वाक्यानुगुण्येन भगवत्परत्वनिश्चयः । रुद्रस्य हिरण्यगर्भजनकत्वाभावेन रूढ्यर्थत्यागे

स्वीकार्ये हिरण्यगर्भशब्दस्य रूढिं परित्यज्य स्कन्दपरत्वमाश्रीयतां, प्रसिद्धस्य रुद्रस्य

स्कन्दजनकत्वसम्भवात् इत्यपि शङ्का निरस्ता, विश्वाधिकत्वादिविशेषणानां रुद्रे असम्भवात्

अतो रुद्रशब्दो भगवत्परः, ‘रुद्रो बहुशिराः’ (स.ना.११५) इति सहस्रनामपाठात् ॥

‘या ते रुद्र शिवा तनू’ रित्यस्यानन्तरम्, ततः परं ब्रह्म परं बृहन्तमिति वाक्यम्,

‘नारायणः परं ब्रह्म’ (महा.उ.९-४) इति महोपनिषत्प्रत्यभिज्ञापकम् । ईशं तं ज्ञात्वा

अमृता भवन्ति इत्यत्र ईशशब्दः पूर्ववत् योगिकः । वैरूप्यायोगात् । वेदाहमित्यनन्तरवाक्यस्य

एतच्छब्दः पूर्वरुद्रशब्दवाच्यस्य महापुरुषत्वमवगमयति । प्रकृतपरामर्शित्वात् । ‘ततो

यदुत्तरमिति’ वाक्यमपि, ‘परमतः सेतून्मान’ (ब्र.सू.३-२-३०) इत्यत्रोपपादितरीत्या

प्रकृतोपसंहारपरम् । सर्वाननशिरोग्रीवत्वञ्च पुंसूक्तार्थस्मारकम् । सर्वव्यापिपदं तु,

व्याप्य नारायणः इत्येतत् स्मारयति । भगवच्छब्दस्तु, भगवान् पवित्रं वासुदेवः पवित्रम्,

परं पवित्रं भगवान् वासुदेवः ये भगवन्तं वासुदेवमेवं विदुः इति वासुदेवासाधारणः ।

अत एव हि स्मर्यते,

‘एवमेष महाशब्दो मैत्रेय भगवानिति ।

परमब्रह्मभूतस्य वासुदेवस्य नान्यगः’ ॥ (वि.पु.६-५-७६) इति ।

सत्त्वस्यैष प्रवर्तकः इति सत्त्वप्रवर्तकत्वं च भगवत इति स्थितम्। ‘यो ह खलु वा

अस्य सात्त्विकोंशः सोऽसौ ब्रह्मचारिणः योयं विष्णुः’ (३-२) इति मैत्रायणीश्रुतेः ।

‘अङ् गुष्ठमात्रः पुरुषोऽन्तरात्मेति अन्तरात्मत्वञ्च सुबालोपनिषत्प्रत्यभिज्ञापकम् । हृदा

मनीषा इति तु विद्युद्वर्णपुरुषस्मारकम् । अनन्तरम्, ‘सहस्राशीर्षा’ इत्यादि

पुरुषसूक्तमन्त्रद्वयमधीतम् । ‘सर्वस्य प्रभुमीशानम्’ इत्येतत् नपुंसकत्वात् यौगिकमेव । न तु

रूढम्; पुल्लिङ्गताप्रसंगात् । ‘सर्वस्य शरणं सुहृत्’ इत्येतत्तु, ‘निवासः शरणं सुहृद्गतिर्नारायणः’

इति श्रुतिप्रत्यभिज्ञापकम् । ‘तमाहुरग्र्यं पुरुषं महान्त’मिति महापुरुष एव स्पष्टमुक्तः ।

धातृशब्दमपि महापुरुषशब्देन ऐकार्थयति अणोरणीयानिति मन्त्रः ।

चतुर्थे च खण्डे, ‘द्वा सुपर्णा’ इत्यादिवाक्यद्वयम् मुण्डकोपनिषदैकार्थ्यात्

परमपुरुषपरम् । अत: ‘मायिनं तु महेश्वरम्’ (श्वे.उ.) इत्यत्र महेश्वरशब्दो मायाप्रेरकत्वपरः ।

सर्वलोकमहेश्वरम् (भ.गी.५-२९) ‘क्षीरोदस्योत्तरे तीरे जग्मुर्लोकहितार्थिनः’ ( )

इत्यारभ्य ‘ततः स्वस्थो महेश्वरः’ ( ) इत्यादिषु महेश्वरशब्दो भगवति प्रयुक्तः । ‘येनेदं

सं च वि चैति सर्वम्’ इति प्रकृतं सर्वस्य नियन्तृत्वमेव तमीशानं वरदमित्यत्रोच्यते । पूर्वम्

‘अङ् गुष्ठमात्रः पुरुषोऽन्तरात्मा’ इति पुरुषस्योक्तत्वात् । तत्र च, ‘ईशानो भूतभव्यस्य’

इति श्रुत्यन्तरप्रसिद्धेशानशब्दस्य प्रतिसम्बन्ध्यभिधानेन रूढिविरहावगमात् भूतभव्यशब्द-

निर्दिष्टस्यैवेह सर्वशब्दप्रतिपन्नत्वाञ्च तद्वदेव रूढितिरहः सिद्धः । य ईशोऽस्य द्विपदश्चतुष्पदः

त (क) स्मै देवाय हविषा विधेम’ इत्यत्र हिरण्ययगर्भ इत्यष्टर्चतुल्यविषयत्वं प्रतीयते ।

तञ्च भगवत्परमित्युपपादितम् । एवं भगवत्परानेकोपनिषदेकार्थ्यप्रतीतेः, ज्ञात्वा शिवम्,

शिव एव केवल: इति शिवशब्दद्वयं तत्परम् । एवं मुहुरभ्यस्यमानस्यापि शिवशब्दस्य,

आकाशं प्रत्यस्तं यन्ति, आकाशो ह्येवैभ्यो ज्यायान् इत्यत्र अभ्यस्ताकाश (शब्द?)

स्येव रूढार्थत्याग उपपन्नः । किञ्च सर्वव्यापी च भगवान् तस्मात् सर्वगताः शिवः इत्ययं

शिवशब्दः प्राकरणिकशिवशब्दानां माङ्गल्यपरत्वमेव सूचयति । सर्वगतत्वेऽपि

भगवच्छब्दवाच्यत्वात् निर्दोष इति हि तस्य वाक्यस्यार्थः । अन्यथा सर्वव्यापिसर्वगतपदयोः

पुनरुक्तिप्रसंगात् । ‘तदक्षरं तत् सवितुर्वरेण्यम्’ इत्यनेन ‘अक्षरं प्रभुम् तत्सवितुर्वरेण्यं

ध्रुवमचलममृतं विष्णुसंज्ञं सर्वाधारं धाम’ ( ) इति श्रुतिद्वयैकार्थ्यमवगम्यते । ‘हृदा

मनीषा’ इति वाक्यम्, ‘नैनमूर्ध्वं न तिर्यञ्चमि ति मन्त्रद्वयमध्यगतवाक्यस्थ शिवशब्दस्य

परमपुरुषविषयतां गमयति । तद्धि त्रयं रुद्रान्तर्वतिविद्युद्वर्णपुरुषविषयम् । अतः, मा न

स्तोक इति मन्त्रस्थ रुद्रशब्दोऽप्यवयवशक्त्या अपर्यवसानवृत्त्या वा भगवद्विषयः ।

(अत:?) पञ्चमखण्डे, भावाभावकरं शिवमिति शिवशब्दो व्याख्यातः ॥

षष्ठे च - यः कालकाल: इति कालस्यापि परिच्छेदकः काल उक्तः । नायमन्तकः ।

भगेशमित्यनेनापि भगवच्छब्दवाच्यानामेश्वर्यादीनांषण्णामीश्वरत्वमेव प्रतीयते । ऐश्वर्य-

निरङकुशमेवोक्तम्, ‘तमीश्वराणां परमं महेश्वर मिति । ईश्वराणामिति प्रतिसम्बन्धिनिर्देशात्

महेश्वरपदे रूढिर्न शक्यशङ्का । देवतानां परमं च दैवतमित्यनन्तरनिर्देशवत् । तद्धि

वाक्यं देवतापारम्यपरम् । तत्र च दैवतप्रतिशब्दो न क्वचित् देवताविशेष रूढौ ।

तत्स्थानीयश्च महेश्वरशब्दः । अतो न रूट्युन्मेषः । ‘न तत्समश्च’, ‘परास्य शक्तिः’

इत्यादिभिश्च तत्पारम्योपपादनात् । ‘एको देवः, एको नारायणः’ इत्यनेनेकार्थ्यात् । न

तत्र सूर्यो भाति इति मन्त्रश्च कठवल्ल्यधीतत्वात् विष्णोः प्रत्यभिज्ञापकः । नान्यः पन्था

इति, पुंसूक्तं स्मारयति । ईशादिशब्दानां यौगिकत्वम् ईशानत्वस्य निरुपाधिकत्वञ्च

दर्शयति - स ईशोऽस्येति । यो ब्रह्माणं विदधाति पूर्वम्, शरणं प्रपद्ये, अमृतस्य परं सेतुं

इति निर्देशाश्च नारायणत्वसाधकाः । य इत्यनुवादरूपत्वात्; ब्रह्मणो भगवन्नाभिसंभव(त्व)स्य

प्रमाणप्रतिपन्नत्वात्; निवासः शरणं सुहृत् इति श्रुतेः, अमृतस्यैष सेतुः इति मुण्डके

श्रवणात् । यदा चर्मवदाकाशम् इति वाक्यम् उपायान्तराभावपरम्, ‘नान्यः पन्था’

इत्युक्तार्थविवरणरूपम् ।

एवमुपक्रमोपसंहारादिभिः भगवत्परत्वावगमात् बहूपनिषच्छ्रुतयोग्यार्था -

साधारणाभ्यस्त नारायणशब्दानुरोधेनैव नानार्थसाधारणैकैकोपनिषत्पठित योग्यार्थ-

शिवादिशब्दानां नेयत्वाच्चास्या उपनिषदो भगवत्परत्वं सिद्धमिति ॥

क्षेमाय यः करुणया क्षितनिर्जराणां

भूमावजृम्भयत भाष्यसुधामुदारः ।

वामागमाध्वगवदावदतूलवातो

रामानुजः स मुनिराद्रियतां मदुक्तिम् ॥

॥ इति श्रीमत्ताताचार्यचरणारविन्दचञ्चरीकस्य वात्स्यानन्तार्यपादसेवासमधिगत-

शारीरकमीमांसाभाष्यहृदयस्य परकालमुनिपादसेवासमधिगतपारमहंसस्य

श्रीरङ्गरामानुजमुनेः कृतिषु श्वेताश्वतरोपनिषत् प्रकाशिका सम्पूर्णा ॥