॥ श्रीः ॥

कृष्णयजुर्वेदीया

श्वेताश्वतरोपनिषत्

[शान्तिपाठः]

ओम् - पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।

पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः ।

स्थिरैरङ्गैस्तुष्टुवागंसस्तनूभिः व्यशेम देवहितं यदायुः ॥

सह नाववतु सह नौ भुनक्तु सहवीर्यं करवावहै ।

तेजस्वि नावधीतमस्तु मा विद्विषावहै ॥

॥ ओं शान्तिः शान्तिः शान्तिः ॥

प्रथमोऽध्यायः

हरिः ओम् । ब्रह्मवादिनो वदन्ति'

किं कारणं ब्रह्म कुत: स्म जाता: जीवाम केन क्व च सम्प्रतिष्ठाः ।

अधिष्ठिताः केन सुखेतरेषु वर्तामहे ब्रह्मविदो व्यवस्थाम् ॥ १ ॥

प्रकाशिका

श्रीरङ्गरामानुजमुनिविरचिता

[मङ्गलम्]

अतसीगुच्छसच्छायमञ्चितोर:स्थलं श्रिया ।

अञ्जनाचलशृङ्गारमञ्जलिर्मम गाहताम् ॥

(गुरुवन्दनम्।

व्यासं लक्ष्मणयोगीन्द्रं प्रणम्यान्यान् गुरूनपि ।

श्वेताश्वतरमन्त्राणां विवृति करवाण्यहम् ॥

स्वेतरसमस्तचेतनाचेतनविलक्षणपरमात्मस्वरूपनिर्दिधारयिषया

इयमुपनिषत्

आरभ्यते । विद्यास्तुत्यर्थमाख्यायिकामाह - ब्रह्मवादिनो बदन्ति इति । ब्रह्मवदनशीला

मुनयः वक्ष्यमाणाप्रकारेण वदन्ति स्म इत्यर्थः । किमिति । हे ब्रह्मविदः । जगतः कारणं

ब्रह्म किन्देवतारूपम्? कस्माद्ब्रह्मणोऽस्माकं जन्म स्थितिश्च संप्रतिष्ठाशब्दितो लयश्य ।

केन वा ब्रह्मण अधिष्ठिताः तत्परतन्त्रास्सन्तः, अनसि ऊतगोसंघवत्, जिहासितेषु

दुःखरूपेषु जन्मसु विशिष्टाम् अवस्थितिमनुसृत्य वर्तामहे । सुप्रतिष्ठेति पाठेऽप्ययमेवार्थः ।

[कालादीनां ब्रह्मकारणत्वनिराकरणम्

कालः स्वभावो नियतिर्यदृच्छा भूतानि योनिः पुरुष इति चिन्त्यम् ।

संयोग एषां न त्वात्मभावादात्माऽप्यनीशः सुखदुःखहेतोः ॥ २ ॥

ननु कारणं ब्रह्म सिद्धवत्कृत्य किन्देवतारूपमिति प्रश्न एवानुपपन्नः ।

तस्यैवानभ्युपगन्तव्यत्वात् । लोके हि कालज्ञाः कालमेव सर्वकारणमाचक्षते ।

लोकायतिकास्तु स्वभावमेव हेतुमाचक्षते । मीमांसकास्तु नियतिलक्षणं कर्मैव हेतुं

मन्यन्ते । अपरे अहेतुकत्वलक्षणं यादृच्छिकत्वम् । अपरे पञ्चभूतानि । प्रकृति केचित् ।

पुरुषं केचिदाचक्षते । तेषामन्यतमः पक्षोऽस्तु । किं ब्रह्मकारणवादाभ्युपगमेन इत्याशङ्क्याह

काल’ इति । कालादीनि कारणमित्येतन्न युक्तिसहम् । दोषाणां बहूनां स्फुरणात् ।

चिन्त्यम् न निश्चेतुं शक्यम्। अचेतनानां चेतनस्य वा प्रत्येकं हेतुत्वासम्भवात् इत्यर्थः ।

ननु एषां संयोगो हेतुर्भवितुमर्हति । न च एषां संयोजकाभावः शङ्कितव्यः ।

तेषां मध्ये आत्मनश्चेतनस्य संयोजकस्य सद्भावेन संयोगसम्भवात् इत्याशक्य आत्मनः

स्वातन्त्र्ये सुखभोक्तृत्वमेव स्यात् । न दुःखभोक्तृत्वम् । अतः सुखदुःखानुभवितः जीवस्यादि

न नियन्तृत्त्वं सम्भवतीत्याह - सयोगः - हेतोः । उक्तोऽर्थः । न त्वात्यभावात् इत्या

तु शब्दः एवार्थः । आत्मसद्भावात् संयोगः सम्भवतीत्येतत्रैवेत्यर्थः । ब्रह्मणोऽप्यपरिणामिन-

उपादानत्वं च न सम्भवतीति भावः ।

[देवशक्तिनिर्धारणम्]

ते ध्यानयोगानुगता अपश्यन् देवात्मशक्ति’ स्वगुणैनिंगूढाम् ।

यः कारणानि निखिलानि तानि कालात्मयुक्तान्यधितिष्ठत्येकः ॥ ३ ॥

प्र. - ते इति । एवं ध्यायनयोगयुक्ता मुनयः, ‘अपहतपाप्मा दिव्यो देव एको

नारायणः’ (अध्यात्म.उ.१) इति श्रुतिप्रसिद्धदेवशब्दितनारायणात्मिकां कार्योपयोग्य-

पृथक्सिद्धविशेषणत्वेन शक्तिशब्दितां सत्त्वरजस्तमोलक्षणस्वगुणोपेतां ब्रह्मणो

जगत्कारणत्वनिर्वाहिकां प्रकृतिं दृष्टवन्त इत्यर्थः । ततः परं तच्छरीरकं सर्वविधकारणं

सकलकारणाधिष्ठितारं समाभ्यधिकशून्यं परमात्मानमपि दृष्टवन्तः इत्याह - य: कारणानीति ।

उक्तोऽर्थः ॥ ३ ॥

तमेकनेमिं त्रिवृतं षोडशान्तं शतार्धारं विंशतिप्रत्यराभिः ।

अष्टकैः षड्भिर्विश्वरूपैकपाशं त्रिमार्गभेदं द्विनिमित्तैकमोहम् ॥ ४ ॥

प्र. - चित्तावतारसौकर्याय तं चक्रत्वेन रूपयति - तमेकनेमिमिति । परमात्मानं

प्रकृत्याख्यैकनेमियुक्तं सत्त्वरजस्तमोगुणैः त्रिप्रकारतया त्रिवृतं - षोडशसंख्यायुक्तान्तशब्दित-

विकारापेतं वाचकभूताकारादि पञ्चाशद्वर्णलक्षणारोपेतं द्वादशमासपञ्चद्वर्यनद्वयसंवत्सरात्मक-

विंशतिप्रत्यरयुक्तमित्यर्थः । प्रत्यराभिरिति लिङ्गव्यत्ययः छान्दसः । अरा हि नाभिनेमिमध्यवर्ति-

काष्ठविशेषाः । प्रत्यराश्च तद्दार्ढ्यार्थनिहिताः तन्मध्यवर्तिकाष्ठविशेषाः ।

अष्ट कैरिति । अणिमाद्यैश्वर्याष्टकमेकम्’, प्राच्यादिदिगष्टकमपरम्;

दिक्पालाष्टमेकम्’; ‘भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । अहंकार इतीयं में

भिन्ना प्रकृतिरष्टधा’ (भ.गी.७-४) इति गीतोक्तं प्रकृत्यष्टकम्। अष्टौ प्रकृतयः

इत्युक्तप्रकृत्यष्टकमन्यत् ब्रह्म प्रजापतिर्देवा गन्धर्वा यक्षराक्षसाः । पितरश्च पिशाचाश्च

इति देवाष्टकमेकम्, अष्टौ वसवः । इत्युक्तवस्वष्टकम् । अपहतपाप्मत्वादि

ब्राह्मगुणाष्टकम् दया सर्वभूतेषु शान्तिरनसूया शौचमनायासो मङ्गलकार्पण्यमस्पृहा

इति आत्मगुणाष्टकं वा । एवमेभिः (यथार्ह ?) षड्भिरष्टकैः’ उपेतम् । विश्वरूपः .

विराट्पुरषः । स एव मुख्यः (एको?) पाशः । स्वाश्रितजगन्नैश्चल्यहेतुतया विराट्पुरुषः

ब्रह्मचक्रस्य पाशरूप इत्यर्थः । त्रिमार्गभेदं द्विनिमित्तैकमोहं - देवयानपितृयाणक्षुद्रजन्तु-

भवनलक्षणमार्गत्रययुक्तम्, तत्र च पितृयाणक्षुद्रजन्तुभवनलक्षणमार्गद्वयहेतु-

भूतदेहात्मैक्यमोहमित्यर्थः अपश्यन्निति पूर्वेण सम्बन्धः ॥ ४ ॥

पञ्चस्त्रोतोम्बुं पञ्चयोन्युग्रवक्त्रां पञ्चप्राणोमि पञ्चबुद्ध्यादिमूलाम् ।

पञ्चावर्ता पञ्चदुःखौघवेगां पञ्चाशद्भेदां पञ्चपर्वामधीमः ॥ ५ ॥

प्र. - एवं चक्रत्वेन रूपयित्वा तच्छक्तित्वेन निर्दिष्टां प्रकृतिं वैराग्याय नदीत्वेन

रूपयति - पञ्चस्रोतः इति । स्रोतोरूपेणाविच्छिन्नतया प्रवर्तमानानि तमोक्षराव्यक्त-

महदहङ्काररूपाणि अम्बुस्थानीयानि यस्याः सा तथोक्ता । महाभूतोपादानतया योनिभूतानि

पञ्च तन्मात्राण्येव उग्रवक्त्राणि प्रवाहमुखरूपाणि यस्याः सा पञ्चयोन्युग्रवक्त्रा ।

प्राणापानादय: पञ्च ऊर्मिस्थानीया यस्याः सा पञ्चप्राणोर्भि: । बुद्धेः ज्ञानस्यादिभूतानि

पञ्च ऊर्मिस्थानीया यस्या सा पञ्चबुद्ध्यादिमूला । पञ्च कर्मेन्द्रियाणि आवर्तस्थानीयानि

यस्याः सा पञ्चावर्ता । पञ्च महाभूतानि अत्यन्तप्रतिकूलतया प्रवर्तमानानि अत्यन्तप्रतिकूलतया

प्रवर्तमानानि ओघ वेगस्थानीयानि यस्याः सा पञ्चदुःखौघवेगा । अकारादिपञ्चादशद्वर्ण-

लक्षणनामभेदयुक्ताम् ; ‘तमो मोहो महामोहस्तामिस्रो ह्यन्धसंज्ञितः" (भवसं.उ-१०) इति

पुराणप्रसिद्धपञ्चसृष्टिलक्षणपर्वपञ्चकयुक्तां ब्रह्मात्मिकां प्रकृतिं तदधिष्ठितारञ्च परमात्मानम्

अधीम: - स्मराम इति अपश्यन् इति पूर्वेणान्वयः ॥ ५ ॥

सर्वाजीवे सर्वसंस्थे बृहन्ते अस्मिन् हंसो भ्राम्यते ब्रह्मचक्रे ।

पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति ॥ ६ ॥

एवं, किं कारणं ब्रह्म? कुतः स्म जाता? इति चिन्तायाः, देवात्मशक्तिं, यः

कारणानि निखिलानि तानि इत्यनेन च देवशब्दितनारायण एव सर्वकारणम्,

अपरिणामिनोऽपि तस्य कारणत्वनिर्वाहिका प्रकृतिरिति निस्तारो दर्शितः । अधिष्ठिता:

केन सुखेतरेषु इति चिन्तायाः निस्तारं दर्शयति - सर्वाजीवे इति । सर्वान् आजीवयतीति

सर्वाजीवम् । अनेन, जीवाम केन इत्यस्योत्तरमुक्तं भवति । बृहन्ते - बृहतीत्यर्थः ।

अतश्च निरतिशयबृहत्वादेव सर्वसंस्थत्वादिकं युज्यते इति भावः । तादृशे ब्रह्मरूपे

चक्रे, हन्ति-गच्छति अनेकजन्मसहस्रसञ्चरणशील इति हंस: जीवः परवशतया, ‘भ्रामयन्

सर्वभूतानि यन्त्रारूढानि मायया’ (भ.गी.१८-६१) इत्युक्तरीत्या ब्रह्मचक्रेण भ्राम्यमाणोऽयं

भ्रमयतीत्यर्थः । एतज्ज्ञानस्य फलमाह-पृथगात्मानमिति’ । उक्तरीत्या भ्रमयितृत्वेन

परमात्मानम् , तेन - भ्राम्यमाणं तच्छरीरभूतञ्च स्वात्मानं मत्वा - तज्ज्ञानप्रीतेन परमात्मना

प्रसन्नेन जुष्ट: - प्रीत्या विषयीकृतस्सन् मुक्तिं प्राप्नोतीत्यर्थः । ततश्च अमृतत्वं

फलप्राप्तिहेतुभूतज्ञानविषयस्य प्रेर्यप्रेरकलक्षणजीवपरभेदस्य परमार्थत्वमुक्तं भवति ।

अपरमार्थज्ञानस्य मोक्षहेतुत्वासम्भवादिति द्रष्टव्यम् ॥ ६ ॥

उद्गीतमेतत् परमं तु ब्रह्म तस्मिंस्त्रयं सुप्रतिष्ठाक्षरं च ।

अत्रान्तरं ब्रह्मविदो विदित्वा लीना ब्रह्मणि तत्परा योनिमुक्ताः ॥ ७ ॥

उद्गीतमिति । एतञ्चक्ररूपतया प्राङ्निर्दिष्टमेव, ‘नारायणः परं ब्रह्म (तै.ना.१३)

‘स्वे महिम्नि प्रतिष्ठितः, (छां.उ.७-२४-२) ‘एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्ति’

(बृ.उ.५-८-८) इत्यादिवेदान्तवाक्येषु परब्रह्मत्वेन स्वप्रतिष्ठत्वेन अक्षरत्वेन च उद्गीतं

उच्चैर्गीतम् । उद्गीथमिति पाठेऽपि स एवार्थः । तस्मिन् स्वप्रतिष्ठाक्षररूपे ब्रह्मणि

प्रकृतिपुरुषकालरूपं त्रयमाश्रितमित्यर्थः । अत्रान्तरमिति । तत्पराः ब्रह्मपराः

ब्रह्मेप्सवः अत्र ईदृशे (शं) प्रकृतिपुरुषकालानां विवेके (कं) तेषां परमात्मनश्च

अपृथक्सिद्धतया आधाराधेयभावलक्षणम् अन्तरम् - अतिशयितं भेदं विदित्वा

प्रकृतिबन्धनिर्मुक्तास्सन्तः परमं साम्यं प्राप्य भिन्नतया अदर्शनलक्षणलयं गता इत्यर्थः ॥ ७ ॥

संयुक्तमेतत् क्षरमक्षरं च व्यक्ताव्यक्तं भरते विश्वमीशः ।

अनीशश्चात्मा बध्यते भोक्तृभावात् ज्ञात्वा देवं मुच्यते सर्वपाशै: ॥८॥

प्र. - ननु प्रकृतिसम्मन्धे जीवपरयोरविशिष्टे सति जीवस्य कुतो बन्धः? परस्य

कुतो नेत्यत्राह - संयुक्तमिति । ईश: परमात्मा व्यक्तरूपं, क्षरमचिद्वर्गम् अव्यक्तं .

अक्षरं चिद्वर्गञ्च परस्परसंयुक्तं बोभर्ति; न तु बध्यते अनीशो जोवस्तु बध्यते

कर्मफलभोकृत्वाभिसन्धिलक्षणभावसत्वात् । परमात्मनस्तु (परमात्मा तु?) ‘न माँ

कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा’ (भ.गी.४.१४) इत्युक्तरीत्या तस्य

कर्मफलस्पृहाभावेन कर्मरूपाभावात्, स्वसंयुक्ततया प्रकृतिभरणेऽपि अपहतपाप्मत्वात्

प्रकृतिसम्बन्धप्रतिभटः तत्प्रतिभटज्ञाने विषयश्चेति निर्गळितार्थः ॥ ८ ॥

[जीवपरमात्मकथनम्]

ज्ञाज्ञौ द्वावजावीशनीशावजा ह्येका भोक्तृभोगार्थयुक्ता ।

अनन्तश्चात्मा विश्वरूपो ह्यकर्ता त्रयं यदा विन्दते ब्रह्ममेतत् ॥ ९ ॥

प्र. - परस्परवैलक्षण्यमेव प्रपञ्चयति - ज्ञाज्ञौ इति । पूर्वनिर्दिष्टयोर्मध्ये एकः सर्वज्ञः

अत एव ईशश्च । अपरस्तु अज्ञ: अनीशश्च । उत्पत्तिराहित्यं तु द्वयोरपि समानम् । ईशनीशौ

इति दीर्घाभावः छान्दसः । भोक्तुः जीवस्य भोगरूपप्रयोजनयुक्ता उत्पत्तिरहिता काचनान्या

प्रकृतिः इत्यर्थः । एवं तृतीयं उत्पत्तिराहित्येन समानमपि परस्परं विलक्षणमित्यर्थः ।

ननु प्रकृतेः जीवभोगोपकरणत्ववत् परमात्मनोऽपि भोगार्थत्वं कुतो न भवेत् ?

प्रत्युत एकैकशरीरजीवभोगार्थत्वे सकलशरीरकपरमात्मभोगार्थत्वमवर्जनीयमेवेति; अत्राह

अनन्तश्चेति । विश्वशरीरकस्यापि परमात्मनः, ‘नान्तं गुणानां गच्छन्ति तेनानन्तोऽयमुच्यते’

इत्युक्तरीत्या सत्यकामत्वाद्यनन्तगुणाश्रयस्य निरपेक्षस्य जीववत् कर्मफलाभिसन्धिपूर्वककर्तृत्वा-

भावान्न तद्भोगार्थत्वं प्रकतेरिति भावः । एतादृशवैलक्षण्यज्ञानस्य फलमाह - त्रयमिति ।

एतत् त्रयं यदा विन्दते परस्परवैलक्षण्येन दर्शनसमानाकारध्यानेन विषयीकरोति,

तदा ब्रह्म भवति-मुक्तो भवतीत्यर्थः । एवमेव व्यासार्यै:, ‘चमसवदविशेषात्’ (ब्र.सू.१-४-८)

इत्यत्र व्याख्यातम् । ब्रह्ममिति छान्दसं रूपम् ॥ ९ ॥

[क्षराक्षरविवरणम्।

क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः ।

तस्याभिध्यानाद्योजनात्तत्स्वभावाद्भूयश्चान्ते विश्वमायानिवृत्तिः ॥ १० ॥

प्र. - संयुक्तमिति मन्त्रनिर्दिष्टक्षराक्षराशब्दार्थं विवृण्वन् परस्परवैलक्षण्यज्ञानमात्रेण

मुक्तौ, मनननिदिध्यासनवैयर्थ्यमिति शङ्काञ्च शमयति क्षरं प्रधानमित्यादिना ।

‘प्रधानं प्रकृतिः स्त्रियाम्’ (अ.को.१-४-१५८) इति प्रधानशब्दिता प्रकृति: क्षरमित्युच्यते ।

भोग्यमात्मनो भोगार्थं हरतीति हरो जीवः । सः अमृताक्षरम् । अमृतत्वात्

मरणधर्मशून्यत्वात् अक्षरमित्यर्थः ।क्षरात्मानो…. एकः - क्षराक्षरशब्दितचेतनाचेतनवर्गेशिता,

‘अपहतपाप्मा दिव्यो देव एको नारायणः’ (अध्यात्म.उ.१) इति निर्दिष्टो नारायण इत्यर्थः ।

तस्याभिध्यानात् इति । अभिध्यानम् - आरम्भणसंशीलनम् । योजनं - योगः ।

तत्त्वभावः - तत्त्वाविर्भावः । एतैः अन्ते - शरीरावसाने भूयः समस्तप्रकृतिसम्बन्धनिवृत्तिः

इत्यर्थः । ततश्च त्रयं वेदा विन्दते ब्रह्ममेतत्’ इति मन्त्रोक्ता मुक्तिः ब्रह्मोपासनकालीन-

ब्रह्मानुभवरूपा इत्यर्थः ॥ १० ॥

ज्ञात्वा देवं सर्वपाशापहानिः क्षीणः क्लेशर्जन्ममृत्युप्रहाणिः ।

तस्याभिध्यानात् तृतीयं देहभेदे विश्वैश्वर्यं केवल आप्तकामः ॥ ११ ॥

प्र. - ज्ञानसाध्यमुक्तिक्रमं दर्शयति - ज्ञात्वेति । दर्शनसमानाकारज्ञानेन विषयीकृत्य

सर्वपाशशब्दितपापहानिर्भवति । ‘तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ’ (ब्र.सू.४-१-१३)

इति सूत्रे दर्शनसमानाकारज्ञानारम्भसमये पूर्वोत्तरपुण्यापुण्यकर्मणाम्, ‘उपासनावसाने

क्षमिष्ये’ इति भगवत्संकल्परूपाश्लेषविनाशौ भवत इत्युक्तेः । क्षीणै:

क्लेशसाधनशरीरेन्द्रियादिभिः सह जन्ममृत्युप्रापककर्मणाम् , क्षान्तमिति सङ्कल्परूपा

प्रकृष्टा हानिर्भवति । ‘साम्पराये तर्तव्याभावात्’ (ब्र.सू.३-३-२७) इत्यत्र सकलपुण्यापुण्यकर्मणां

पूर्वं दर्शनसमानाकारज्ञानारम्भसमये, क्षमिष्ये इति भगवत्सङ्कल्पाश्लेषविनाशवतां

क्षान्तमिति सङ्कल्परूपं प्रकृष्टहान्यभ्युपगमात् । तस्याभिध्यानपरमफलीभूतम-

पहतपाप्मत्वादिलक्षणं विश्वातिशायि तृतीयमैश्वर्यं तु प्राकृतदेहभिन्नशुद्धसत्वमयदेहभेदे

भवति । केवल: - प्रकृतिसम्बन्धविनिर्मुक्त एव देशविशेषविशिष्टं ब्रह्म प्राप्य आप्तकामो

भवति; न तु प्रकृतिमण्डले इति भावः ॥ ११ ॥

एतज्ज्ञेयं नित्यमेवात्मसंस्थं नातः परं वेदितव्यं हि किञ्चित् ।

भोक्ता भोग्यं प्रेरितारञ्च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्ममेतत् ॥ १२ ॥

प्र. एतज्ज्ञेयं - किञ्चित् । एवम्भूतं परं ब्रहा आत्पनि अन्तर्यामितया

संस्थितं ज्ञेयम् । ज्ञातवतश्च ज्ञातव्यान्तरं नावशिष्यते । भोक्ता - ग्राह्यमेतत् ।

‘भोक्तशरीरकत्व भोग्यशरीरकत्वमपहतपाप्मत्वादिविशिष्टसत्यज्ञानादिस्वरूपत्वम् इति

विधात्रयविशिष्टं ब्रह्म ज्ञातव्यम्’ इति वेदार्थसंग्रहे वर्णितम् । केचित्तु, भोक्ता भोग्यं

प्रेरिता इत्येतत् त्रिविधं प्रोक्तमेतत् सर्वं मत्वा ब्रह्म भवति - मुक्तो भवतीत्यर्थः ।

इत्युपसंहारः इति बदन्ति । प्रेरिता इति वक्तव्ये प्रेरितारमिति छान्दसं रूपम् ॥ १२ ॥

वह्नेर्यथा योनिगतस्य मूर्तिः न दृश्यते नैव च लिङ्गनाशः’ ।

स भूय एवेन्धनयोनिगृह्यः तद्वोभयं वै प्रणवेन देहे ॥ १३ ॥

ननु एतत् ज्ञेयं नित्यमेवात्मसंस्थम् इति अनुपपन्नम् । आत्मसंस्थस्य

परस्यानुपलम्भात् इत्याशक्य, यथा अरणिगतस्य वह्नेः प्रत्यक्षेणानुपलम्भेऽपि मथने

धूमोपलम्भात् न तत्सत्ता अपह्नवार्हा, एवं प्रत्यक्षाद्यग्राह्यस्याप्यात्मसंस्थस्य परमात्मनः

प्रणवनिर्मथने उपलभ्यमानत्वात् न तत्सत्ता अपह्रवार्हा इत्याह-वह्नेरिति । योनिगतस्य

कारणभूतारणिगतस्य मूर्तिः - स्वरूपं प्रत्यक्षेण न दृश्यते । लिङ्गं तु दृश्यते । पश्चात्

मथने सति इन्धनयोनितया इन्धनप्रभवतया गृह्यते । तद्वत् प्रणवेन परमात्मशरीरभूते

जीवे शोध्यमाने पूर्वमप्रतीतस्य अन्तर्यामिण: सूक्ष्मवस्राञ्चलान्तर्गतमाणिक्यवत्

प्रत्यग्वस्त्वन्तर्गतस्योपलब्धिर्भवतीत्यर्थः । तद्वोभयम् इत्यत्र वाशब्दः इवार्थः ॥ १३ ॥

आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् ।

ध्याननिर्मथनाभ्यासात् देवं पश्येन्निगूढवत् ॥ १४ ॥

प्र. - प्रणवेन प्रकाशप्रकारमेव दर्शयति - आत्मानमिति । स्वात्मनि प्रणवेन

ध्यायमाने तदन्तर्गत आत्मा निगूढवत् स्थितः प्रकाशत इत्यर्थः ॥ १४ ॥

तिलेषु तैलं दधनीव सर्पिरापः स्त्रोतस्स्वरणीषु चाग्निः ।

एवमात्माऽऽत्मनि गृह्यतेऽसौ सत्येनैनं तपसा योऽनुपश्यति ॥ १५ ॥

प्र. - तदेव प्रपञ्चयति - तिलेषु - पश्यति । यथा तिलादिस्थिततैलादिकं

यन्त्रपीडनाधुपायेन गृह्यते, एवं सत्यतपोलक्षणोपायेन परमात्मा गृह्यत इत्यर्थः ॥ १५ ॥

सर्वव्यापिनमात्मानं क्षीरे सर्पिरिवार्पितम् ।

आत्मविद्यातपोमूलं तत् ब्रह्मोपनिषत्परम् तद्ब्रह्मोपनिषत्परम् ॥ १६ ॥

॥ इति प्रथमोऽध्यायः ॥

सर्वव्यापिनमिति । क्षीरार्पितसर्पिस्समतया सर्वव्याप्तम् आत्मानं

प्रत्यगात्मविद्यया तपसा च ज्ञेयमुपनिषदां परं - प्रतिपाद्यं तत् परं ब्रह्म विद्यादित्यर्थः ।

द्विवचनम् आदरार्थमध्यायसमाप्तिद्योतनार्थञ्च ॥ १६ ॥

॥ इति प्रथमाध्याय प्रकाशिका ॥

अथ द्वितीयोऽध्यायः

युञ्जानः प्रथमं मनस्तत्त्वाय सविता धियः ।

अग्निं ज्योतिर्निचाय्य पृथिव्या अध्याभवत् ॥ १ ॥

आत्मासंस्थपरमात्मप्रतीत्यौपयिकेन्द्रियनिग्रहरूपतपस्सिद्ध्ययनुगुणं

भगवत्प्रार्थनामन्त्रमाह - युञ्जानः इति । धियः सविता - प्रेरकः परमात्मा पृथिव्याः

अधि ऊर्ध्व अग्निं ज्योतिः - अग्निरूपं ज्योतिः - निचाय्य - संपूज्य अग्निहोत्रादिकर्म

(दिकं) कृत्वा मनः तत्त्वाय - साक्षात्काराय पृथिवीनिष्ठाग्निज्योतिस्सदृश-

स्वात्मनिष्ठपरमात्मतत्त्वसाक्षात्काराय युञ्जानः - नियुञ्जानः आभवत् - भवति इत्यर्थः ।

(तत्त्वसाक्षात्काराय परमात्मनि मनो नियञ्जानो भवतु इत्यर्थः) ॥ १ ॥

युक्तेन मनसा वयं देवस्य सवितुः सवे ।

सुवर्गेयाय शक्त्या ॥ २ ॥

प्र. - युक्तेनेति । सवितुः - प्रेरकस्य परमात्मनः सवे - अनुज्ञायां सत्याम्

अनुज्ञया इति यावत् । युक्तेन मनसा -आत्मप्रवणेन चेतसा युक्ता वयं सुवर्गेयाय

स्वर्गशब्दितभगवल्लोकसाधनाय परमात्मनिदिध्यासनाख्यकर्मणे शक्त्या युक्ता

भवेम इत्यर्थः ॥ २ ॥

युक्त्वाय मनसा देवान् सुवर्यतो धिया दिवम् ।

बृहज्ज्योतिः करिष्यतः सविता प्रसुवाति तान् ॥ ३ ॥

प्र. - परमात्मा प्रणिपातमात्रेण कथमनुज्ञां प्रयच्छेत् इत्याशङ्क्य भगवदन्तरङ्गभूत-

विष्वक्सेनाद्याचार्यप्रणामपूर्वकं भगवत्प्राप्तौ यतमानानामनुज्ञां प्रयच्छतीत्याह

युक्त्वायेति । सुवः स्वर्ग लोकं भगवल्लोकं यतः गतान् देवान् - पूर्वाचार्यान्

मनसा युक्त्वाय - छन्दसि, क्त्वो यक् (पा.सू.७-१-४७) इति यक् । मनसा युक्त्वाय

प्रणम्येति यावत् । दिवं द्योतमानं निरतिशयबृहत्त्वयुक्तं परमात्मरूपं ज्योतिः धिया

उपासनरूपज्ञानेन करिष्यतः - विषयीकरिष्यतः, ध्यातुं, प्रवृत्तानिति यावत् तान्

मुमुक्षून् सविता- प्रेरकः परमात्मा प्रसुवाति - अनुजानाति इत्यर्थः (इति वयं

मन्यामहे इति शेषः) ॥ ३ ॥

युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः ।

विहोत्रा दधे वायुनाविदेक इन्महीदेवस्य सवितुः परिष्टुतिः ॥ ४ ॥

परमात्मनि मनोयोगः तत्समाराधनं कर्म च, केषाञ्चिदेव भवतीत्याह -

युञ्जत इति । ‘विप्रो विप्रत्वं गच्छते तत्त्वदर्शी’ इत्युक्तरीत्या विप्राः - तत्त्वदर्शिनः

परमात्मनि मनः नियुञ्चते - योजयन्ति । धियः ध्यानानि च योजयन्ति । विप्रस्य -

प्रा पूरणे’ (धा.पा.१०६१) - पूर्णस्य, बृहतो गुणैः बृहत्त्वाश्रयस्य विपश्चितः

सर्वज्ञस्य महीदेवस्य - मह्या - भूम्या समेतस्य देवस्य - श्रीभूमिसमेतस्य सवितुः

प्रेरकस्य वयुनावित् - वयुनं ज्ञानम् । वयुनाविदिति छान्दसो दीर्घः - तस्य

सावज्ञ्यादिमहिमवित् इत्यर्थः । तदाश्रयः एक इत् - एक एव परिष्टुतिः - परिष्टुतीरित्यर्थः ।

छान्दसं । हस्वत्वम् (परिचर्येति?) परिचर्या इति यावत् । होत्रा - ऋत्विग्भिः,

मन्त्रेणेति बार्थः विदधे - कृतवान् इत्यर्थः । ब्रह्मस्वरूपविदेव तत्परिचर्याकारी; तेन

कृतमेव भगवत्परिचरणं भगवत्प्रीणनं भवतीत्यर्थः ॥ ४ ॥

युजे वां ब्रह्म पूर्व्यं नमोभिर्विश्लोक एतु पथ्येव सूरेः ।

शृण्वन्तु विश्वे अमृतस्य पुत्रा आ ये धामानि दिव्यानि तस्थुः ॥ ५ ॥

प्र. - युजे वाम् इति । दिव्यस्थानस्थिताः सर्वे ब्रह्मपुत्राः मत्प्रार्थनां शृण्वन्तु ।

सूरेः - नित्यसूरिकर्तृका, स्तुतिपथादनपेतत्वेन पथ्या - स्तुतिः । वां पूर्व्यं व:

पूर्वमित्यर्थः । वचनव्यत्ययश्छान्दसः । सा (सः) तादृशं ब्रह्म यथा प्राप्नोति, एवं युजे .

योगाय - ब्रह्मप्राप्तये इति यावत् । मया कृतः विश्लोकः - विविधः श्लोकः स्तोत्ररूप:

एतु - प्राप्नोतु । नित्यसूरिकृतां स्तुतिं यथा भगवान् अङ्गीकरोति, एवम् अङ्गीकरोतु

इत्यर्थः । ततश्च योगप्रवृत्तेः प्राक् भगवत्स्तुतिः कर्तव्या इत्युक्तं भवति ॥ ५ ॥

अग्निर्यत्राभिमथ्यते वायुर्यत्राधिरुध्यते ।

सोमो यत्रातिरिच्यते तत्र सञ्जायते मनः ॥ ६ ॥

प्र. - योगमारम्भमाणस्य शीतोष्णदेशः परिहर्तव्य इत्याह - अग्निरिति । अभिमथ्यते -

अभितो निवार्यते । अधिरुध्यते - आधिक्येन रुध्यते । वायुर्यत्र न वातीत्यर्थः । सोमशब्देन

हिमं लक्ष्यते । अतिश्येन रिच्यते - निरस्यते । तत्र मनः प्रत्यक्प्रवणं जायत इत्यर्थः ॥६॥

सवित्रा प्रसबेन जुषेत ब्रह्म पूर्व्यम् ।

तत्र योनिं कृण्वसे न हि ते पूर्तिमक्षिपत् ॥ ७ ॥

सवित्रा इति । एवं गुरुप्रणामभगवत्स्तुतिप्रसन्नेन सवित्रा कृतेन प्रसवेन-

अनुज्ञया तदनुज्ञातस्सन् इति यावत् । पूर्व्यम् - पूर्वपृष्टं (श्रेष्टं) ब्रह्म जुषेत - सेवेत ।

ध्यायेदिति यावत् । तत्र - परमात्मनि योनिं - स्थानं - मनसि इति शेषः कृण्वसे -

कुरुष्व । तथा सति ते पूर्तिं - मनोरथपूर्तिं तत् - ब्रह्म नाक्षिपत् - न क्षिपति । न

निरस्यतीत्यर्थः लडर्थे लङ् ॥ ७ ॥

त्रिरुन्नतं स्थाप्य समं शरीरं हृदीन्द्रियाणि मनसा संनिवेश्य ।

ब्रह्मोडुपेन प्रतरेतविद्वान् स्त्रोतांसि सर्वाणि भयावहानि ॥ ८ ॥

योगदशेतिकर्तव्यतामाह - त्रिरुन्नतमिति । उर:कण्ठशिरःप्रदेशेषु उन्नतम्

इतरत्र समं शरीरं स्थापयित्वा सर्वाणीन्द्रियाणि हृदयकुहरे संनिवेश्य ब्रह्मोडुपेन - प्रणवलक्षण

(ब्रह्मस्वरूप) प्लवेन ब्रह्मध्यानेन इत्यर्थः । सर्वाणि भयावहानि नानाविधानि जन्म

स्रोतांसि तरेत् इत्यर्थः ॥ ८ ॥

प्राणान् प्रपीड्येह स युक्तचेष्टः क्षीणे प्राणे नासिकयोच्छ्वसीत ।

दुष्टाश्वयुक्तमिव वाहमेनं विद्वान् मनो धारयेताप्रमत्तः ॥ ९ ॥

प्राणायामप्रकारमाह प्राणान् इति । ‘युक्ताहारविहारस्य युक्तचेष्टस्य

कर्मसु’ (भ.गी.६-१७) इत्युक्तरीत्या मितायासः प्राणवायुं निरुध्य निरुद्देषु

अत्यन्तपीडापरिहाराय नासिकया रेचनं कुर्यात् । ततश्चावहितस्सन्, दुष्टाश्वयुक्तं रथं

यथा सारथिः स्ववशं करोति, तथा मनोनिरोधज्ञो मनः स्ववशं कुर्यात् इत्यर्थः ॥ ९ ॥

समे शुचौ शर्करावह्निवालुकाविवर्जिते शब्दजलाश(श्र)यादिभिः ।

मनोऽनुकूले न तु चक्षुपीडने गुहानिवाताश्रयणेन योजयेत् ॥ १० ॥

योगानुष्ठानयोग्यं देशं विस्तरेणाह - सम इति । निम्नोन्नतत्वादिरहिते

परिशुद्धे क्षुद्रपाषाणवह्निसिकतारहिते वाद्यध्वनिजलाशयाद्यत्यन्तसामीप्यरहिते मनोनुकूले

चक्षुःपीडाहेतुभूतौष्ण्या(ल्कादि) रहिते गुहादिलक्षणनिवातदेशाश्रयणेन योगमनुतिष्ठेत् इत्यर्थः ।

सूत्रितञ्चैतत्, ‘यत्रैकाग्रता तत्राविशेषात्’ (ब्र.सू.४-१-११) इति ॥

तत्र हि, आसीनस्तिष्ठन् गच्छन् वोपासीत अविशेषात् इति पूर्वपक्षे (श्रिते)

उच्यते - ‘आसीनः सम्भवात्’ (ब्र.सू.४-१-७) । आसीन एव उपासीत । तस्यैव

उपासनस्य सम्भवात् । तिष्ठतो गच्छतश्च यत्नसापेक्षत्वात्, शयानस्य निद्राप्रसक्तेश्च,

उपासनस्य ध्यानरूपत्वाञ्च एकाग्रचित्ततावश्यम्भावात् , चित्तैकाग्र्यस्य आसनसापेक्षत्वाञ्च

आसीन एव कुर्यात् । अचलवञ्चापेक्ष्य’ (ब्र.सू.४-१-९) ध्यायतीव पृथिवी ध्यायतीवान्तरिक्षम्’

(छां.उ.७-६-१) इत्यादिषु निश्चलत्वधर्मेण ध्यातृसाम्यव्यपदेशदर्शनात् ध्यातृनिश्चलत्वस्या-

पेक्षितत्वात् निश्चलत्वस्य च आसिकामन्तेरणासम्भवात् आसीन एव कुर्यात् । ‘स्मरन्ति

च’ (ब्र.सू.४-१-१०), ‘उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये’ (भ.गी.६-१२) इति ।

‘यत्रैकाग्रता तत्राविशेषात्’ (ब्र.सू.४-१-११) ‘समे शुचौ’ शर्करावह्निवालुकाविवर्जिते’ इत्यविशेषेण

एकाग्रतानुकूलदेशविशेषस्यैवाङ्गत्वकीर्तनात् तेनैव (च) न्यायेन एकाग्रतानुकूलस्य

आस(साध)नस्यापेक्षितत्वमस्तीति अवसीयते इति स्थितम् । प्रकृतमनुसरामः ॥ १० ॥

नीहारधूमार्कानिलानलानां खद्योतविद्युत्स्फटिकशशिनाम् ।

एतानि रूपाणि पुरस्सराणि ब्रह्मण्यभिव्यक्तिकराणि योगे ॥ ११ ॥

योगमभ्यस्यतो ब्रह्माभिव्यक्तिप्राचीनानि तञ्चिह्नानि आह - नीहारेति ।

प्रथमतो नीहारवत् स्फुरति, ततो धूमार्कानि (न) लाद्याकारतया स्फुरति । एवम्भूतानि

स्फुरणानि पूर्वप्रवृत्तानि आगामि ब्रह्माभिव्यक्तिचिह्नानि इत्यर्थः ॥ ११ ॥

पृथ्व्यप्तेजोऽनिलखे समुत्थिते पञ्चात्मके योगगुणे प्रवृत्ते ।

न तस्य रोगो न जरा न मृत्युः प्राप्तस्य योगाग्निमयं शरीरम् ॥ १२ ॥

प्र. - योगाभ्यासस्य कायसिद्धिफलकत्वमाह - पृथ्वीति । गुणो - गुणनमभ्यासः ।

योगाभ्यासे प्रवृत्ते सति योगमहिम्ना सत्त्वप्रचुरभूतारब्धे पाश्चभौतिके शरीरे समुत्थिते

तादृशसर्वरोगादिदाहसमर्थत्वेनाग्निरूपेण योगनारब्धशरीरयुक्तस्य पुंसौ रोगादिर्न (सं)

भवतीत्यर्थः ॥ १२ ॥

लघुत्वमारोग्यमलोलुपत्वं वर्णप्रसादं स्वरसौष्ठवञ्च ।

गन्धः शुभो मूत्रपुरीषमल्पं योगप्रवृत्तिं प्रथमां बदन्ति ॥ १३ ॥

प्र. - लघुत्वम् इति । स्पष्टोऽर्थः ॥ १३ ॥

यथैव बिम्बं मृदयोपलिप्तं तेजोमयं भ्राजते तत्सुधान्त(क्त)म् ।

तद्वाऽऽत्मतत्त्वं प्रसमीक्ष्य देही एकः कृतार्थो भवते बीतशोकः ॥ १४ ॥

प्र. - योगमभ्यस्यतो ब्रह्मोपलब्धिप्रकारं तत्फलञ्चाह - यथैवेति । मृदा अयसा

बा उपलिप्त: - निर्मितः प्रतिमाविशेषः सुधाविशेषान्त (विशेषाख्य?) रञ्जकद्रव्यलिप्तस्सन्

तेजोमयतया दीप्यते । तद्वत् सुधाविशेषलिप्ततेजोमयप्रतिमासमं दर्शनसमानाकारध्यानेनोपलभ्य कश्चित् पुरुषधौरेयो निवृत्तसंसारगन्ध: सिद्धार्थो भवतीत्यर्थः । तद्वा इत्यत्र वा शब्द: इवार्थः ।

तद्वत् सतत्तवं प्रसपीक्ष्येति पाठेऽव्ययमैवार्थः । केचित्तु सुधान्तमिति मत्वा सुधौतमित्यर्थे

(सुधातरित्यर्थे) सुधान्तमिति शब्द इत्यपि वदन्ति ॥ १४ ॥

यदात्मतत्त्वेन तु ब्रह्मतत्त्वं दीपोपमेनह युक्तः प्रपश्येत् ।

अजं ध्रुवं सर्वतत्वैर्विशुद्धं ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥ १५॥

प्र. - यदाऽऽत्मेति । यदा योगयुक्त: परमात्मप्रतीत्युपायभूतेन प्रणयप्रतिपादित-

परमात्मशेषभावेन प्रत्यगात्मना साधनेन(सम्बन्धेन तत्स्थं परम् अनादिम् अनन्तं हेयप्रतिभटं

अस्रभूषाध्यायोक्तरीत्या सर्वतत्त्वात्मकास्त्रभूषणोपेतं परं ब्रह्म सूक्ष्मवस्त्रान्तरितमाणिक्यवत्

(यदा) पश्येत्, तदा सर्वं (बन्धक)कर्महानिर्भवतीत्यर्थः ॥ १५ ॥

एष हि देवः प्रदिशोऽनु सर्वाः पूर्वो हि जातः स उ गर्भ अन्तः ।

स एव जातः स जनिष्यमाण: प्रत्यङ् जनास्तिष्ठति विश्वतोमुखः ॥ १६ ॥

प्र. तस्य सर्वात्मकत्वं प्रपञ्चयति - एष हि इति । हे जनाः इति परस्परं

मुनीनां संबोधनम्। ‘दिव्यो देव एको नारायणः’ (अध्यात्म.उ.१) इति देवत्वेन प्रसिद्धः

परमात्मैव सर्वाः प्रदिशः प्रकृष्टदिग्वर्तिपदार्थविशेषाः इत्यर्थः । नु शब्दश्चार्थे । पूर्वं

हिरण्यगर्भरूपेणोत्पन्नोऽप्ययमेव विश्वतोमुखः - सर्वविधो गर्भस्थजन्तुः (जातः)

जनिष्यमाणश्च स एवेत्यर्थः ।

ननु भिन्नभिन्नजीवानां कथमेकात्मकत्वमित्याशक्य आह - प्रत्यङ्’ इति । अहमिति

भासमानत्वं प्रत्यक्त्वम् । सर्वेषां प्रबुद्धानां वामदेवादीनामात्मनाम् अहमिति प्रतीतौ

परमात्मनोऽपि भासमानतया तस्य सर्वं प्रति प्रत्यक्त्वात् तस्य सर्वान् प्रति आत्मत्वमुपपद्यते ।

न चारमदाद्याहम्बुद्धौ परमात्मनोऽभानात् कथमस्मदादीन् प्रति प्रत्यक्त्वमिति वाच्यम्

दोषवशादभानेऽपि योग्यत्वसत्वेनादोषात् ॥ १६ ॥

यो देवो अग्रौ यो अप्सु यो विश्वं भुवनमाविवेश ।

व ओषधीषु’ यो वनस्पतिषु तस्मै देवाय नमो नमः ॥ १७ ॥

॥ इति द्वितीयाध्यायः ॥

प्र. - अन्तर्यामितया सर्वात्मत्वम्। न तु स्वरूपेणेत्येतत् प्रदर्शयति • यो देव:

इति । स्पष्टोऽर्थः ॥ १७ ॥

॥ इति द्वितीयाध्याय प्रकाशिका ॥

अथ तृतीयोऽध्यायः

[भगवानेव मोक्षप्रद:]

य एको जालसानीशत ईशनीभिा सर्वान् लोकानीशत ईशनीभिः ।

प एवैक उद्भवे सम्भवे य एतद्विदुरमृतास्ते भवन्ति ॥ १॥

प्र. • उत्तशानस्य फलमाह • य एक इति । ‘अपहतपाप्मा दिव्यो देव’

(अध्यात्म उ- १) इति देवत्वेन श्रुतिप्रसिद्ध: परमात्मा प्रकृतिशब्दितमायारूपवागुरा युक्तस्सन्

ईशानसमर्थाभि: ज्ञानबक्रियाशक्तिभिः मायाजालगोचरान् प्राकृतांश्च(न्)लोकानीष्टे

सदगोचरान् अप्राकृतांश्च लोकान् ईष्टे । यश्च जगतः उद्भवे उत्पत्ती, सम्भवे

समीत्येकीकारे लयापरपर्याये एकीभावे च (क)ईष्टे, रज्ज्ञानं मोक्षसाधनमित्यर्थः ॥ १ ॥

एको हि रुद्रो न द्वितीयाय तस्थुः य इमान् लोकानीशत ईशनीभिः ।

प्रत्यङ्जनास्तिष्ठति सञ्चुकोचामलकाले संसृज्य विश्वा भुवनानि गोपाः ॥ २ ॥

प्र. -

ननु य एतद्विदुरमृतास्ते भवन्ति’ इति पूर्वमन्त्रे सर्वलोकेश नारायणस्यैव मोक्षसाधनज्ञानविषयतया मोचकत्वमिति यदुक्तम्, तदयुक्तम् । जगत्कारणत्वेन प्रसिद्धानां

ब्रह्मादीनां ज्ञानस्यैव मोक्षसाधनत्वमिति वक्तुमुचितत्वात् इत्याशंक्याह-एको हीति ॥हे

जनाः! ‘सर्वलोकानीशत ईशनीभिः, प्रत्यक्तिष्ठति इति निर्दिष्टः विश्वा भुवनानि

संसृज्य सृष्ट्वा अन्तकाले सञ्चुकोच - संहृतवान्, गोपाः - गोप्ता रक्षिता च यः, स एक एव

रुद्रः - संसाररुजं द्राव(द्रव)यतीति रुद्रः - संसारमोचक इत्यर्थः । द्वितीयाय - द्वितीयत्वाय सहायतया न केऽपि तस्थुः सहायतया वा उपायान्तरतया वा केऽपि न स्थितवन्तः ।

मोचकोऽन्यः कोऽपि नास्ति । ‘वेदाहमेतं पुरुषं महान्तं’ (पु.सू.१६) इति महापुरुषं प्रस्तुत्य, ‘तमेवं विद्वानमृत इह भवति, नान्यः पन्था विद्यते’ (पु.सू.१७) इति मार्गान्तर निषेधात् । अत्र

रुद्रशब्दो (यौगिकः?); रूढ्यर्थापेक्षया प्रकृतौपयिकस्य मानान्तराविरुद्धस्य संसारमोचकत्व-लक्षण-यौगिकार्थस्य
मनसि विपरिवर्तमानस्य शारीरकापशूद्रन्यायेन बलवत्वात् ।
अस्याश् चोपनिषदो भगवत्-परत्वस्य साधयिष्यमाणत्वाच् च
नात्र चोद्यावकाशः ॥ २ ॥

विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्यात् ।

सं बाहुभ्यां नमति संपतत्रैः द्यावापृथिवी जनयन् देव एकः ॥३॥

प्र। विश्वत इति । ‘अनेकबाहूदरवक्त्रनेत्रम्’ (भ.गी.११-१६) इत्युक्तरीत्या

अनन्तनयनाननपाणिपादादियुक्तनित्यदिव्यविग्रहयुक्त: असहाय एव धुपृथिव्यादिसर्वप्रपञ्च

(वि) निर्माता जीवान् बाहुभ्यां पतत्रशब्दितैः पद्भिश्च संन(संध)मति संयोजयति ।

करणकलेबरसंयोगं करोतीत्यर्थः । सर्वेषां शरीरेन्द्रियसंबंन्धं कुर्वन् स्वयमनन्याधीनानन्त-

शरीरेन्द्रियवान् इत्यर्थः ॥ ३ ॥

यो देवानां प्रभवश्चोद्भवश्च विश्वाधिको रुद्रो महर्षिः ।

हिरण्यगर्भ जनयामास पूर्वं स नो बुद्ध्या शुभया संयुक्तु ॥ ४ ॥

प्र। परमात्मोपलब्धिप्रार्थनामन्त्रमाह - यो देवानामिति । ‘यान्येतानि देवत्रा

क्षत्राणि, इन्द्रो वरुणः सोमो रुद्रः पर्जन्यो यमो मृत्युरीशानः’ (बृ.उ.३-४-११) इति

बृहदारण्यकोक्तरीत्या इन्द्रवरुणरुद्रादीनामुद्भव: उद्भवति अस्मात् इत्युद्भवः । प्रकर्षेण

भवत्यस्मादिति प्रभवः । प्रकर्षेण भवनं देवाधिपतित्वादिरूपेणास्य प्रभवनम् । ‘अहं हि

सर्वयज्ञानां भोक्ता च प्रभुरेव च (भ.गी.९-२४) इति कर्मफलदायित्वलक्षणप्रभुत्वस्य भगवद्धर्मत्वेन

प्रजापतिपशुपतित्वादिप्रापकत्वलक्षणस्य प्रभवनस्य भगवदधीनत्वादिति द्रष्टव्यम् ।

विश्वाधिकः। “विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्’ (भ.गी.१०-४२) इत्युक्तरीत्या

विश्वस्य सर्वस्यापि तदेकदेशैकदेशतया तस्य विश्वाधिकत्वम् । संसाररुजां द्रावकतया

रुद्रत्वम्, निरतिशयसार्वयादियुक्ततया महर्षित्वञ्च भगवतो युज्यते । एवम्भूतो भगवान्,

‘यत्राभिपद्मादभवन्महात्मा प्रजापतिर्विश्वसृड्विश्वरूपः, (महो.१-४) तत्र ब्रह्मा चतुर्मुखोऽजायत

नारायणाद्ब्रह्माजायत’ (ना.उ.१) इत्युक्तरीत्या हिरण्यगर्भं सर्वेषां देवानां सृष्टेः प्राक्

जनयामास । सः - देव: परमात्मविषयतया शुभया बुद्ध्या योजयतु इत्यर्थः ॥ ४ ॥

या ते रुद्र ! शिवा तनूरघोरा पापकाशिनी ।

तया न स्तनुवा शन्तमया गिरिशन्ताभिचाकशीहि ॥५॥

प्र. - ‘अदृष्टपूर्वं हषितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे ।

तदेव मे दर्शय देव रूपं प्रसीद देवेश जगन्निवास’ ॥ (भ.गी.११-४५)

इत्युक्तरीत्या सौम्यदिव्यमङ्गलविग्रहविशिष्टतया भगवत्प्रकाशप्रार्थनामन्वमाह या ते

रुद्रेति । हे रुद्र ! संसाररुग्द्रावक! प्रसिद्धरुद्रव्यावर्तनाय तं विशिनष्टि-गिरिशन्तेति । गिरिशं

तनोतीति गिरिशन्तः । रुद्रस्य स्रष्टा इत्यर्थः । या शिवा अघोरा च पापकाशिनी

पापकमशितुं शीलमस्या इति पापकाशिनी पापदाहिका वैष्णवी सात्त्विकी तनुः तादृश्या

शन्तमया - सुखप्रदया अत्यन्तानुकूलया तन्वा - विग्रहेण अभिचाकशीहि - प्रकाशस्व

इत्यर्थः ॥ ५ ॥

यामिषुं गिरशन्त हस्ते बिभर्ष्यस्तवे ।

शिवां गिरित्र! तां कुरु मा हिंसी: पुरुषं जगत् ॥ ६ ॥

प्र. - यामिषुमिति । गिरित्र । गीः

प्रतिपाद्यते इति वेदान्तप्रतिपाद्यत्वं गिरित्रशब्दार्थः । गिरिशन्त इत्यस्य पूर्ववदर्थः । हे

गिरित्र! गिरिशन्त! ते हस्ते शिवां यामिषुं बिभर्षि - यत् आयुधं बिभर्षीत्यर्थः । तामिषुम्

अस्तवे - ‘असु क्षेपे’ (धा.पा.१२१०) मद्ब्रह्मज्ञानविरोधिक्षेपाय कुरु । गच्छतीति जगत्,

संसारपथचङ्क्रम्यमाणं पुरुषं मा हिंसी: - संसारान्धकूपपतितं मा कार्षीरित्यर्थः ॥ ६ ॥

ततः परं ब्रह्म परं बृहन्तं यथानिकायं सर्वभूतेषु गूढम् ।

विश्वस्यैकं परिवेष्टितारमीशं तं ज्ञात्वा अमृता भवन्ति ॥ ७ ॥

प्र ततः परमिति । उक्तप्रकारेण तत्प्रार्थनानन्तरम् बृहन्तं

निरतिशयबृहत्वाश्रयम्, अत एव परं, यथानिकायं मशकमातङ्गादिशरीरानुरूप्येण

सर्वभूतेषु अनुभूतेषु अनुप्रविश्य अन्तर्यामितया वर्तमानम् विश्वं व्याप्य स्थितं तमीश्वरं

ज्ञात्वा मुक्ता भवन्ति इत्यर्थः ॥ ७ ॥

वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् ।

तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय ॥ ८ ॥

प्र. - तज्ज्ञानस्य मोक्षसाधनत्वमुक्त्वा इतरस्य तन्निषेधेति - वेदाहमेतमिति ।

प्रकृतेः परस्तात् ज्योति: महापुरुषं (ज्योतिर्मयवपुषं ?) तमेव पुरुषं विदित्वा’ मृत्युशब्दितं

संसारमतिक्रामति । अयनाय तत्प्राप्तये अन्यो मार्गो नास्ति । एतमर्थमहं वेद - जानामि ।

अस्मिन्नर्थे विवादो नास्तीति मुनीनां परस्परं वचनमिदम् ॥ ८ ॥

[नित्यनिरामयविग्रहत्वम् (परमात्मनः उत्कृष्टत्वम्)]

यस्मात्परं नापरमस्ति किञ्चित्

यस्मानननाणीयो न ज्यायोऽस्ति कश्चित् ।

वृक्ष इव स्तब्धो दिवि तिष्ठत्येक

स्तेनेदं पूर्णं पुरुषेण सर्वम् ॥ ९ ॥

ननु आत्मज्ञानस्यैव ‘तरति शोकमात्मवित्’ (छां.उ.७-१-३) इति

मोक्षहेतुत्वमुच्यते । कथमादित्यवर्णविग्रहपुरुषज्ञानस्येत्याशङ्क्य अस्यैव पुरुषस्य व्यापकत्वात्

आत्मत्वमपि तस्यैवेत्याह - यस्मादिति । ‘तथान्यप्रतिषेधात्’ (ब्र.सू.३-२-३५) इति सूत्रे,

यस्मादपरं परं नास्ति । केनापि प्रकारेण उत्कृष्टं नास्तीत्यर्थः । इति भाषितम् ।

व्यासार्यैश्च, यस्मादित्यस्य परमित्यनेनान्वयोऽस्तु । यस्मादुत्कृष्टं नास्तीत्यर्थः । इत्यशङ्क्य,

तथा सति अपरम् इत्यस्य वैयर्थ्यप्रसङ्गात् । न च परञ्चापरञ्च नास्तीति उत्कृष्टापकृष्ट-

वस्तुनिषेधकत्वं शक्यशङ्कम् - नञ् आवृत्तिप्रसङ्गात् । अतो यस्मादित्यस्यापर-

मित्यनेनैवान्वयः । यस्मादन्यत् सर्वोत्कृष्टं नास्तीत्यर्थाश्रयणे तदन्यस्य उत्कृष्टस्य वस्तुन

एवाभावात् समाभ्यधिकनिषेधः फलति इति वर्णितम् । यदपेक्षया अतिशयेनान्त:प्रवेशयोग्यं

वस्तु नास्ति, यस्माञ्चाधिकं विवृद्धं किमपि वस्तु नास्ति; यश्चाप्राकृते लोके

अवाप्तसमस्तकामतया ब्रह्मादिकमपि तृणीकृत्य वृक्ष इव अप्रणतस्वभावस्तिष्टति; तेन,

‘भगवानिति शब्दोऽयं तथा पुरुष इत्यपि ।

निरुपाधी च वर्तेते वासुदेव सनातने’ ॥ (पाद्मोत्तर ६-२५४-६६) इत्युक्तप्रकारेण

पुरुषशब्दितेन भगवता वासुदेवेनेदं सर्वं ब्याप्तमित्यर्थः । अनेन, जीवाम केन? इति

चिन्ताया निस्तारो दर्शितः । पूर्ण मिति व्याप्त्या आत्मात्वे कथिते देहभूतस्य जीववर्गस्य

तदधीनजीवनत्वमुक्तं भवति ॥ ९ ॥

ततो यदुत्तरतरं तदरूपमनामयम् ।

य एतद्विदुरमृतास्ते भवन्ति अथेतरे दुःखमेवापियंति ॥ १० ॥

प्र. - यस्माद्धेतोः पुरुषापेक्षयोत्कृष्टं वा समं वा नास्ति । तस्मात् तदेव सर्वोत्तरं

कर्मकृतरूपरहितं तत्कृतामयशब्दितदुःखशून्यञ्च । तज्ज्ञानमेव मोक्षसाधनमित्युपसंहरति-

ततो यदिति । ‘तथान्यप्रतिषेधात्’ (ब्र.सू.३-२-३५) इति सूत्रे, ततो यदुत्तरमिति

पूर्वनिर्दिष्टात् पुरुषात् अधिकं वस्तु न प्रतिपाद्यते इत्युक्त्वा तर्हि, ततो यदुत्तरमिति

किमुच्यते इति परिचोद्य, पूर्वत्र ‘वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् ।

तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय’ (श्वे.उ.३-८) इति परस्य

ब्रह्मणो महापुरुषस्य वेदनमेवामृतत्वसाधनम्, नाऽन्योऽमृतत्वस्य पन्था इत्युपदिश्य,

तदुपपादनाय, ‘यस्मात् परन्नापरमस्ति किञ्चित् यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित् ।

वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम्’ (श्वे.उ.३-९) इति पुरुषस्य

परत्वं तद्व्यतिरिक्तस्य परत्वासम्भवञ्च प्रतिपाद्य, ‘ततो यदुत्तरतरं तदरूपमनामयम् । य

एतद्विदुरमृतास्ते भवन्ति अथेतरे दुःखमेवापियन्ति’ (श्वे.उ.३-२) इति पूर्वोक्तमर्थं हेतुतो

निमगयति । यत् उत्तरतरं पुरुषतत्त्वं, तदेवारूपमनामयं यतः, ततो ये एतत् पुरुषतत्त्वं

विदुः, त एवामृता भवन्ति; अथेतरे दुःखमेवापियन्ति इति भाषितम् । अत्र ततश्शब्दः

पूर्वोक्तहेतूपसंहारार्थः । न तु पूर्वप्रतिपादितपुरुषस्य प्रतिपिपादयिषितवस्त्वन्तरावधित्वप्रतिपादनपर

इति द्रष्टव्यम् । केचिदाचार्याः, ‘तेनेदं पूर्णमिति पूर्ववाक्ये सर्वमिदमिति प्रथमान्तनिर्दिष्टतया

प्रधानस्य जगत एव, ततो यदुत्तरतरम् इत्यत्र तच्छब्देन ग्रहणमित्युक्तः । तदपि

युक्तमिति वेदार्थसंग्रहव्याख्यानेऽप्युक्तम् ॥ १० ॥

सर्वाननशिग्रीवः सर्वभूतगहाशयः ।

सर्वव्यापी स भगवाँस्तस्मात् सर्वगनश्शिव: ॥ १५ ॥

प्र, • नन् ‘तेने पूर्णं पुरुषेण सर्वमिति’ (श्वे.उ.३.१) सर्वशरीरसम्बन्धावगमात्

हेयसाबन्धोऽवर्जनीय हत्याशङ्क्याह । सर्वाननेति । सर्वशरीराणां तच्छरीरत्वेन

सर्वाननीशीरोग्रीवत्वम् । सर्वभूतहृदयगुहाश्रयत्वात् सर्वभूतगुहाशयत्वम् । अनेनाऽऽकारेण

सर्वव्याप्यपि यतो भगवान्, (तस्मात् ?)

ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषत:

भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः ॥ (बि.पु ६-५-७९) इति हेय.

प्रतिभटत्ववाचिभगवच्छब्दार्थतया तस्य पुरुषस्य सर्वगतत्वेऽपि शिवत्वमेव न त्वशुभ

सम्बध इति भावः ॥ ११ ॥

महान् प्रभुर्वै पुरुषः सत्त्वस्यैष प्रवर्तकः ।

सुनिर्मलामिमां शान्तिमीशानो ज्योतिरव्ययः ॥ १२ ॥

प्र. - तज्ज्ञानस्यैव मोक्षसाधनत्वमित्येतत् द्रढयति - महान् इति । वैशब्दोऽवधारणे ।

पुरुष एव महान् प्रभुः - फलप्रदानसमर्थः । ‘अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च’

(भ.गी.९-२४) इत्युक्तः (इत्यत्र?) प्रभुः - फलप्रदः इति भगवता भाष्यकृता व्याख्यातत्वात्

प्रकृते मोक्षरूपफलस्य प्रस्तुतत्वात् महच्छब्दसमभिव्याहाराञ्च महाफलरूपमोक्षप्रदः स

एवेति तस्य मोक्षहेतुत्वं पूर्वोक्तं स्थिरमिति तत्र हेतुमाह - सत्त्वस्यैष प्रवर्तक इति ।

‘जायमानं हि पुरुषं यं पश्येन्मधुसूदनः ।

सात्त्विकः स तु विज्ञेयः स वै मोक्षार्थचिन्तकः’ ॥ (महा.भा.मो.प.३४९-७३)

इत्युक्तरीत्या मोक्षार्थज्ञानहेतुसत्त्वगुणोन्मेषहेतुभूतकटाक्षशालितया स एव मोक्षप्रद इत्यर्थः ।

अत एव ज्योतीरूपनिरतिशयदीप्तियुक्तादित्य (वर्णविग्रहः?) पुरुषो अव्ययो भगवानेव

सुनिर्मलामिमां - मोक्षरूपां रागाद्युपद्रवशान्तिम् ईशानः - ईष्टे इत्यर्थः ॥ १२ ॥

अङ् गुष्टमात्रः पुरुषोऽन्तरात्मा

सदा’ जनानाँ हृदये सन्निविष्टः ।

हृदा मनीषा मनसाभिक्लुप्तो

य एतद्विदुरमृतास्ते भवन्ति ॥ १३ ॥

तज्ज्ञानसाधनमाह अङ् गुष्टमात्र इति । सर्वेषामन्तरात्मा असो

हृदयगुहानिहितत्वनिबन्धनाङ्गुष्टपरिमाणयुक्तः पुरुषः हृदा - भक्त्या मनीषा - धृत्या

युक्तेनं मनसा अभिक्लुप्तः

ग्राह्यः हृन्मनीषशब्दयोः भक्तिधृतिपरत्वम् ‘सर्वत्र

प्रसिद्धोपदेशात्’ (ब्र.सू.१-२-१) इत्यत्र व्यासार्यै: वर्णितम् । शिष्टं स्पष्टम् ॥ १३ ॥

[परमपुरुषस्य महिमा]

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।

स भूमिं विश्वतो वृत्वाऽत्यतिष्ठत् दशाङ् गुलम् ॥ १४ ॥

अङ् गुष्ठमात्रशब्दश्रवणकृतपरिच्छेदभ्रान्तिं व्युदस्यति सहस्रति ।

अनन्तशिरोनयनादिदिव्यविग्रहयुक्तविराड्रूपि सन् - दशाङ् गुलशब्देनावयवो लक्ष्यते ।

भूमिशब्देन ब्रह्माण्डम् पञ्चभूतपञ्चतन्मात्रारूपदशावयवयुक्तब्रह्माणमतिक्रम्य परमपदे स्थित

इत्यर्थः ।

(सर्वं पुरुषात्मकम् ]

पुरुष एवेदँ सर्वं यद्भूतं यच्च भव्यम्।

उतामृतत्वस्येशानी यदन्नेनातिरोहति ॥ १५ ॥

प्र. यस्मात् पुरुषेण व्याप्तमिदं सर्वम्, अतः भूतभव्योपलक्षितं प्रपञ्चजातं

पुरुषात्मकमेवेत्याह · पुरुष एवेति । (उक्तोऽर्थः) उताऽमृतेति । अत्रामृतशब्देन

मुक्तिवाचिना मुक्तिस्थानं लक्ष्यते । अप्राकृतभोग्यभोगोपकरणसमृद्धं यदमृतवं परमपदम्

अन्ने प्रकृतिप्राकृतसम्बन्धे नातिरोहति - नोत्पद्यते; तस्याप्यमृतत्वस्यासौ ईशान इत्यर्थः ।

अतश्चोभयविभूतिनायकत्वमुक्तं भवति ॥ १५ ॥

सर्वतः पाणिपादं तत् सर्वतोक्षिशिरोमुखम् ।

सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ १६ ॥

सर्वत इति । सर्वतः पाणिपादादिकार्यकारि तत्तत्कार्यमुखेन सर्वमावृत्य

तिष्ठतीत्यर्थः । गीताभाष्ये च ‘सर्वतः पाणिपादं तत्’ (भ.गी.१३-१३) इति

श्लोकव्याख्यानसमये, ‘परस्य ब्रह्मणः अपाणिपादस्यापि सर्वतः पाणिपादादिकार्यकृत्त्वं

श्रूयते । प्रत्यगात्मनोऽपि पॅरिशुद्धस्य तत्साम्यापत्या सर्वतः पाणिपादादिकार्यकृत्वं श्रुतिसिद्धमेव;

‘निरञ्जनः परमं साम्यमुपैति’ (मुं.उ.३-१-३) इति हि श्रूयते’ - इति भाषितम् ॥ १६ ॥

सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ।

सर्वस्य प्रभुमीशानं सर्वस्य शरणं सुहत् ॥ १७ ॥

सर्वेन्द्रियेति । सर्वेन्द्रियगुणै: - सर्वेन्द्रियजन्यज्ञानै: आभासः

प्रकाशो यस्य तत् तथोक्तम् । इन्द्रियवृत्या विज्ञातुं समर्थमित्यर्थः ।

सर्वेन्द्रियवत्वमप्यैच्छिकमेव न स्वाभाविकमित्याह - सर्वेन्द्रियविवर्जितमिति । सर्वस्य

प्रभुमिति । प्रभुत्वं सेवाफलप्रदत्वेन, ईशानत्वं नियन्तृतया इति द्रष्टव्यम् । ‘निवासः

शरणं सुहृद्गतिः नारायणः’ (सुबा.उ. ६ खं) इति श्रुतेः निरवधिकवात्सल्यशालि प्राप्यञ्च

इत्यर्थः । अत्र ईशानशब्दस्य नपुंसकलिङ्गत्वात् न देवताविशेषप्रत्यायकत्वशङ्कावकाश

इति व्यासार्वैर्वर्णितम् ॥ १७ ॥

[जीवविलक्षणत्वम्]

नवद्वारे पुरे देही हंसो लेलायते बहिः ।

वशी सर्वस्य लोकस्य स्थावरस्य चरस्य च ॥ १८ ॥

प्र. - ननु सर्वतः पाणिपादत्वादिकं गीतासु परिशुद्धात्मस्वरूपेण प्रसिद्धम् ।

ततश्च परिशुद्धस्वरूपस्यैव सर्वप्रभुत्वेशानत्वादिकमवगम्यत इति शिष्यशङ्कां शमयति

नवद्वार इति । मलप्रस्रवणद्वारतया हेयैः नवभिर्द्वारैर्युक्ते पुरवत् स्वात्यन्तभिन्ने

अहमित्यभिमन्यमानो नानादेहसञ्चरणजंघालतया हंसशब्दितो जीवो नानादेहेषु उच्चावचयोनिषु

लेलायते - गतागतं कुर्वन् परतन्त्रतया बम्भ्रमीतीति । अतः तस्य सर्वप्रभुत्वे का प्रसक्तिः?

अतः ततः बहिः - बाह्य एव स्थावरजङ्गमात्मकसर्वलोकसंसारतन्त्रवाहीत्यर्थः ॥ १८ ॥

[अभेदव्यबहारनिर्वाहकत्त्वम्]

अपाणिपादो जवनो ग्रहीता

पश्यत्यचक्षुः स शृणोत्यकर्णः ।

स वेत्ति वेद्यं न च तस्यास्ति वेत्ता

तमाहुरग्र्यं पुरुषं महान्तम् ॥ १९ ॥

प्र. - अपाणीति । पाणिपादाद्यभावेऽपि तत्कार्यकारी इतरावेद्यः स्वयं सर्वज्ञः

यः, तमादिकारणं महापुरुषं वदन्तीत्यर्थः ।

अणोरणीयान् महतो महीया-

नात्मा गुहायां निहितोऽस्य जन्तोः ।

तमक्रतुं पश्यति वीतशोको

धातुः प्रसादान्महिमानमीशम्’ ॥ २० ॥

प्र. - अणोरिति । सकलसूक्ष्मवस्त्वन्तःप्रवेशयोग्यसौक्ष्मवान् निरतिशयबृहत्वशाली

एवम्भूतः अस्य जन्तोः

प्राणिनो जीवस्य आत्मा प्रेरकस्सन् सर्वजीवस्य हृदय-

गुहायामास्ते । जन्तोरित्येतत् आत्मा इत्यत्रापि च संबध्यते; आकाङ्क्षासत्त्वात् ।

गुहायाम् इति निर्दिष्टहृदयगुहायामपि ‘सम्बध्यते । तादृशम् अक्रतुं - कर्मलेपशून्यं

महामहिमशालिनमीशं यदा पश्यति, तदा धातुः धारकस्य परमात्मनः प्रसादात्

वीतशोको भवति । ‘प्रसीदत्यच्युतस्तस्मिन् प्रसन्ने क्लेशसंक्षयः’ इति स्मृतेः । ततश्च

ध्यानसाध्यपरमात्मप्रसादनिर्वर्त्यतया ज्ञाननिवर्त्यत्वेन (प्रसादनिवर्त्यतया (ज्ञाननिवर्त्यत्वेन?)

बन्धस्य मिथ्यात्वं प्रत्युक्तम् ॥ २० ॥

वेदाहमेतमजरं पुराणं

सर्वात्मानं सर्वगतं विभुत्वात् ।

जन्मनिरोधं प्रवदन्ति’ यस्य

ब्रह्मवादिनो हि प्रवदन्ति नित्यम् ॥ २१ ॥

॥ इति तृतीयोध्यायः ॥

वेदाहमिति यस्य विभुत्वेन जन्माभावं प्रकर्षेण वदन्ति, तमजरं पुरातनं

सर्वगतत्वात् सर्वात्मानं अहं वेद - जाने इत्येवं ब्रह्मवादिनः नित्यं वदन्तीत्यर्थः ॥ २१ ॥

॥ इति तृतीयाध्याय प्रकाशिका ॥

….Continued