ऋत्विग्-वरणम्

आर्षे॒यव्ँ वृ॑णीते॒ - बन्धो॑रे॒व नैत्य्, अथो॒ सन्त॑त्यै।
प॒रस्ता॑द् अ॒र्वाचो॑ वृणीते॒ +++(=गोत्रकथने विपरीतक्रमः)+++ - तस्मा॑त् प॒रस्ता॑द् अ॒र्वाञ्चो॑ मनु॒ष्या॑न्, पित॒रोऽनु॒ प्र पि॑पते+++(=पिबन्ति)+++ ॥ [50]

आर्षेयव्ँवृणीते बन्धोरेव नैत्यथो सन्तत्यै परस्तादर्वाचो वृणीते तस्मात्परस्तादर्वाञ्चो मनुष्यान्पितरोऽनु प्र पिपते ॥ [50]