विश्वेदेवा ऋषयः।
विश्वास-प्रस्तुतिः
आयु॑ष्टे ..
मूलम्
आयु॑ष्टे ..
भट्टभास्कर-टीका
1अथ पौरोडाशिकमध्ये याज्याकाण्डं वैश्वदेवम् । ‘अग्निं वा एतस्य शरीरं गच्छति’ इत्यादेः पञ्चहविषो यागस्याग्नेयस्य पुरोऽनुवाक्या ‘आयुष्टे विश्वतो दधत्’ इत्यनुष्टुप् ॥ इतःप्रभृति चतुर्दशानां मन्त्राणां प्रतीकग्रहणम् । इयं ‘त्वमग्ने रुद्रः’ इत्यत्र व्याख्याता । अयं वरेण्यः अग्निस्ते तुभ्यं विश्वमायुर्दधातु । गतोऽपि प्राणः पुनस्त्वामागच्छतु । त्वयि यक्ष्मरोगं परासुवामि नाशयमीति ॥
-
आयु॑ष्टे वि॒श्वतो॑ दधद॒यम॒ग्निर्वरे᳚ण्यः ।
पुन॑स्ते प्रा॒ण आय॑ति॒ परा॒ यख्ष्मꣳ॑ सुवामि ते ॥- ‘अग्नय आयुष्मते पुरोडाशमष्टाकपालं निर्वपेद्यः कामयेत सर्वमायुरियाम्’ इत्यस्य पुरोनुवाक्या - आयुष्ट इत्यनुष्टुप् ॥ हे यजमान अयमग्निर्वरेण्यः वरणीयः । ‘वृञ एण्यः’, वृषादित्वादाद्युदात्तत्वम् । ते तुभ्यं विश्वतः विश्वमायुर्दधत् दधातु । ‘इतराभ्योपि दृश्यन्ते’ इति द्वितीयान्तात्तसिल् । दधातेर्लेटि ‘लेटोडाटौ’ इत्यडागमः, ‘घोर्लोपो लेटि वा’ इत्याकारलोपः । ‘युष्मत्तत्ततक्षुष्वन्तःपादम्’ इति संहितायां आयुस्सकारस्य षत्वम् । यदायं प्रसीदति तदानीं गतोपि प्राणः पुनरायति पुनराभिमुख्येनास्मान्प्राप्नोति । इ गतौ भौवादिक उदात्तेत् । यद्वा - पुनरपि त्वदीयः प्राण आयात्वस्य प्रसादेन । अहमपि तदर्थं त्वदीयं शत्रुपक्षं परासुवामि नाशयामि । षू प्रेरणे तौदादिक उदात्तेत् । ‘स एवास्मिन्नायुर्दधाति’ `इति ब्राह्मणम् ॥
विश्वास-प्रस्तुतिः
आयु॒र्दा अ॑ग्ने ..
मूलम्
आयु॒र्दा अ॑ग्ने ..
भट्टभास्कर-टीका
2तत्रैव याज्या - आयुर्दा अग्ने हविष इति त्रिष्टुप् ॥ इयमपि तत्रैव व्याख्याता । हे अग्ने अन्नस्य हविषो जुषाणः सेवमानः घृतारम्भः घृतस्योदकस्य योनिः त्वमस्यायुर्दा भवेति । किञ्च - घृतं मधुरसं चारु गव्यं पीत्वा इमं यजमानं पिता पुत्रमिवाभिरक्षत्विति ॥
-
आ॒यु॒र्दा अ॑ग्ने ह॒विषो॑ जुषा॒णो घृ॒तप्र॑तीको घृ॒तयो॑निरेधि ।
घृ॒तम्पी॒त्वा मधु॒ चारु॒ गव्य॑म्पि॒तेव॑ पु॒त्रम॒भि [27] र॒ख्ष॒ता॒दि॒मम् ॥-
तत्रैव याज्या - आयुर्दा इति त्रिष्टुप् ॥ हे अग्ने आयुर्दाः अस्य यजमानस्य आयुषो दाता एधि भव । ‘अन्येभ्योपि दृश्यते’ इति ददातेर्विचि कृदुत्तरपदप्रकृतिस्वरत्वम् । हविषो जुषाणः हविस्सेवमानः भुञ्जानः । ‘क्रियाग्रहणं कर्तव्यम्’ इति सम्प्रदनत्वाच्चतुर्थ्यर्थे षष्ठी । जुषी प्रीतिसेवनयोः तौदादिक अनुदात्तेत्, ताच्छीलिकश्चानश्, हविस्सेवनशीलः, लसार्वधातुकत्वाभावात् ‘चितः’ इत्यन्तोदात्तत्वम्, ‘बहुलं छन्दसि’ इति शपो लुक् । घृतप्रतीकः घृतारम्भः घृतं खल्वग्नेरारम्भः । यद्वा - आघाराभिप्रायमिदं घृतयागारम्भः । घृतयोनिः घृतकारणकः, ईदृशस्त्वमस्यायुर्दाः एधि इदं घृतं पीत्वा । कीदृशं? मधु मधुरं चारु शोभनं निर्मलं गव्यम् । ‘गोपयसोर्यत्’, ‘यतोऽनावः’ इत्याद्युदात्तत्वम् । कि बहुनेत्याह - पिता पुत्रमिवेमं यजमानं अभिरक्षतात् आभिमुख्येन रक्षतु ॥
-
आ॒यु॒र्दा अ॑ग्ने ह॒विषो॑ जुषा॒णो घृ॒तप्र॑तीको घृ॒तयो॑निरेधि ।
घृ॒तम्पी॒त्वा मधु॒ चारु॒ गव्य॑म्पि॒तेव॑ पु॒त्रम॒भि र॑ख्षतादि॒मम् ।-
1अवभृथमवैष्यन् आयुर्दा इति जुहोति त्रिष्टुभा ॥ व्याख्याता चेयं ‘त्वमग्ने रुद्रः’ इत्यत्र । हे अग्ने त्वमायुर्दाः, त्वमस्य हविषः जुषाणः सेवमानः घृतप्रतीकः घृतारम्भः घृतस्योदकस्य योनिः कारणं भव । किं च - मधुरं गव्यं चारु घृतमिदं पीत्वा पितेव पुत्रमिमं यजमानं अभिरक्षतादिति ॥
-
29 तृतीया - आयुर्दा इति ॥ व्याख्यातेयम् ‘त्वमग्ने रुद्रः’ इत्यत्र । हे अग्ने! हविषो जुषाणः प्रियमाणः सेवमानो वा घृतमतीको घृतयोनिः त्वमस्मभ्यमायुषो दाता एधि भव । किञ्च - मधु मधुरसं चारु स्वादु चरणशीलं गव्यं गोविकारं घृतं पीत्वा पिता पुत्रमिव इमं यजमानं अभिरक्षतात् आभिमुख्येन रक्षेति ॥(तै. ब्रा.१.२.१)
-
-
विश्वास-प्रस्तुतिः
आ प्या॑यस्व॒ ..
मूलम्
आ प्या॑यस्व॒ ..
भट्टभास्कर-टीका
3अथ सौम्यस्य पुरोऽनुवाक्या - आप्यायस्व समेतु त इति गायत्री ॥ इयञ्चाग्निकाण्डे ‘मा नो हिंसीत्’ इत्यत्र व्याख्यास्यते यत्राम्नायते । हे सोम आप्यायस्व वर्धस्व त्वत्प्रसादात् विश्वतः वृष्ण्यं शुक्लं समेतु समागच्छतु । भव च वाजस्यान्नस्य सङ्गथे सङ्गमनायैवेति ॥
सोमाय वाजिने श्यामाकं चरुं निर्वपेद्यः क्लैब्यात् बिभीयात्’ इत्यस्य पुरोनुवाक्या - आप्यायस्वेति गायत्री ॥ इयमग्निकाण्डे व्याख्यास्यते यत्राम्नायते प्रकृतौ हि हीयुः [‘मा नो हिंसीः’ ] इत्यत्र । इह तु प्रतीकग्रहणम् । हे सोम तव प्रसादात् वृष्णियं वीर्यं विश्वतः समेतु समागच्छताम् । त्वदर्थं च मामाप्यायस्व द्यध्यात् [दध्यादिना] । किञ्च - वाजस्यान्नस्य सङ्गथे सङ्गमनार्थं भवेति ॥
-
आ प्या॑यस्व॒ समे॑तु ते वि॒श्वत॑स्सोम॒ वृष्णि॑यम् ।
भवा॒ वाज॑स्य सङ्ग॒थे । -
अथ ‘रेतस्सौम्येन दधाति’ इत्यस्य पुरोनुवाक्या याज्या च - आप्यायस्व सं ते इति गायत्रीत्रिष्टुभौ ॥ एते च ‘मा नो हिंसीज्जनिता’ इत्यत्र व्याख्यास्येते यत्राम्नेयेते । इह तु प्रतीकग्रह्णमेतयोः । हे सोम आप्यायस्व वर्धस्व । ते तव विश्वतः वृष्णियं वीर्यं समेतु । तत्र आप्यायितस्त्वं वाजस्यान्नस्य क्षीरादेः संगथे संगमने अस्माकं भवेति ॥
-
3अथ सौम्यस्य पुरोऽनुवाक्या - आप्यायस्व समेतु त इति गायत्री ॥ इयञ्चाग्निकाण्डे ‘मा नो हिंसीत्’ इत्यत्र व्याख्यास्यते यत्राम्नायते । हे सोम आप्यायस्व वर्धस्व त्वत्प्रसादात् विश्वतः वृष्ण्यं शुक्लं समेतु समागच्छतु । भव च वाजस्यान्नस्य सङ्गथे सङ्गमनायैवेति ॥
-
अथ पत्नीसंयाजानां याज्यानुवाक्याः - आ प्यायस्वेत्याद्याः ॥ ‘आ प्यायस्व समेतु ते, संते पयांसि’ इति त्रिष्टुभौ ‘मा नो हिंसीत्’ इत्यत्र व्याख्याते ।
विश्वास-प्रस्तुतिः
सन्ते ..
मूलम्
सन्ते ..
भट्टभास्कर-टीका
4तत्रैव याज्या - सं ते पयांसीति त्रिष्टुप् ॥ इयमपि तत्रैवाम्नायते । हे सोम अभिमातीनां पाप्मनामभिभवितुस्तव प्रसादात् पयांसिच वाजाश्च वृष्णियानि च संयन्तु इमं सङ्गच्छन्तु । त्वं चाप्यायमानः दिवि द्युलोके अस्यामृतत्वाय उत्तमानि श्रवांसि अन्नानि धिष्व स्थापयेति ॥
सन्ते॒ पयाꣳ॑सि॒ समु॑ यन्तु॒ वाजा॒स्सव्ँवृष्णि॑यान्यभिमाति॒षाहः॑ ।
आ॒प्याय॑मानो अ॒मृता॑य सोम दि॒वि श्रवाꣳ॑स्युत्त॒मानि॑ धिष्व ॥ [32]
- (टीका)अथोत्तरां त्रिष्टुभमाह— सं ते पयाꣳ सीति । हे सोम ते तव पयांसि पातव्यानि क्षीरादीनि समु[सं]- यन्तु संप्राप्नुवन्तु । तथा वाजा अन्नान्यपि संयन्तु । वृष्णियानि रेतांस्यापि संयन्तु । कीदृशस्य तव। अभिमातिषाहः अभिमातिं पाम्मोनं सहते तिरस्करो तीत्यभिमातिषाट् तस्य । क्षीरादिसंपत्तौ सत्यां त्वमाप्यायमानो वर्धयमानोऽमृताय यजमानस्यामृतत्वाय देवताभावाय दिवि द्युलोके श्रवांसि श्रोतुं प्रियाण्युत्तमानि विचित्राण्यन्नानि धिष्व धारय संपादयेत्यर्थः । तदेतदृग्द्वयं सामान्याकारेण विनियुङ्के— “सौम्या व्यूहति सोमो वै रेतोधा रेत एव तद्दधाति” [सं. का. ५ प्र. २ अ. ६] इति। सोमो देवता यस्यामृचि प्रतीयते सेयमृक्सौमी । विश्वतः सोमेत्याद्यायामृ-च्यसौ प्रतीयते । अमृताय सोमेत्युत्तरस्यामृचि प्रतीयते । तया सौम्मा पूर्वं न्युप्ताः सिकता विविधं प्रसारयेत् । तथा सति सोमस्य रेतोधारकत्वात्तन्मत्रनिष्पाद्यव्यूहनेन यजमानो रेतो धारयति । मन्त्रद्वयस्य पुरुषभेदेन व्यवस्थां विधत्ते— “गायत्रिया ब्राह्मणस्य गायत्रो हि ब्राह्मणस्रिष्टुभा राजन्यस्य त्रैष्टुभो हि राजन्यः” (सं. का. ५ प्र. २ अ. ६) इति।
आ प्यायस्वेति गायत्री । सं त इति त्रिष्टप् ।
विश्वास-प्रस्तुतिः
अव॑ ते॒ हेड॒ ..
मूलम्
अव॑ ते॒ हेड॒ ..
भट्टभास्कर-टीका
5अथ वारुणस्य पुरोनुवाक्या - अव ते हेड इति त्रिष्टुप् ॥ इयं ‘वैश्वानरो नः’ इत्यत्र व्याख्याता । हे वरुण नमोभिः नमस्कारैरन्नैर्वा यज्ञैश्च हविर्भिश्च हविष्मद्भिर्वा यज्ञैः तव हेडः क्रोधं अवेमहे अवनयामः । हे असुर प्राणप्रद प्रकृष्टचेतस्क राजन् अस्मभ्यमस्मदर्थं क्षयन्निवसन् अस्माकं कृतानि पापानि शिश्रथः श्लथयेति ॥
-
अव॑ ते॒ हेडो॑ वरुण॒ नमो॑भि॒रव॑ य॒ज्ञेभि॑रीमहे ह॒विर्भिः॑ ।
ख्षय॑न्न॒स्मभ्य॑मसुर प्रचेतो॒ राज॒न्नेनाꣳ॑सि शिश्रथᳵ कृ॒तानि॑ ॥ -
अथ त्रिहविषि मध्यमस्य वारुणस्य पुरोनुवाक्या - अवते हेड इति त्रिष्टुप् ॥ हे वरुण ते तव हेडः क्रोधमभिशस्त्यादिहेतुं नमोभिर्नमस्कारैरवेमहे अपनयामः । ई गतौ, शपो लुक् । यज्ञैश्च पूजामन्त्रैश्च हविर्भिः पुरोडाशादिभिश्चावेमहे अपनयामः । ततस्त्वमस्मभ्यमस्मदर्थमेव हे क्षयन्निवसन् अस्मदुपकारायैव यतमान । क्षियतेर्व्यत्ययेन शप्, क्षयतिरेव वा निवासकर्मा, षाष्ठिकमामन्त्रिताद्युदात्तत्वम् । अस्मदीयानि कृतान्येनांसि पापानि शिश्रथः श्रथय हे असुर रक्षसां निरसितः प्रचेतः प्रकृष्टमते राजन् सदा दीप्यमान ॥
विश्वास-प्रस्तुतिः
उदु॑त्त॒मम् ..
मूलम्
उदु॑त्त॒मम् ..
भट्टभास्कर-टीका
6तत्रैव याज्या - उदुत्तममिति त्रिष्टुप् ॥ इयमपि तत्रैव व्याख्याता । हे वरुण उत्तमं उत्तमफलप्राप्तिहेतुं ऊर्ध्वकर्षणं वा पाशं कर्मपाशं अस्मत्त उच्छ्रथाय ऊर्ध्वमुत्क्षिप्य उत्कृष्य नाशय । अधमं निकृष्टफलप्राप्तिहेतुं अधःपतनहेतुं वा कर्मपाशमवश्रथय अधस्तादपकृष्य नाशय । मध्यमं पाशं विश्रथय विष्वङ्नाना विकृष्य नाशय । अथैवं त्वया कृते वयमनागसः क्षालितसर्वकर्माणः तव व्रते कर्मणि उपासनात्मनि स्याम अदितये अखण्डितैश्वर्याय हे आदित्य देवानामादिभूत अदितेर्वा अपत्येति ॥
-
उदु॑त्त॒मव्ँव॑रुण॒ पाश॑म॒स्मदवा॑ध॒मव्ँवि म॑ध्य॒मꣵ श्र॑थाय ।
अथा॑ व॒यमा॑दित्य [49] व्र॒ते तवाना॑गसो॒ अदि॑तये स्याम ॥- तत्रैव याज्या - उदुत्तममिति त्रिष्टुप् ॥ हे वरुण उत्तमं पाशमस्मत्सकाशादुच्छ्रथाय ऊर्ध्वमुच्छ्रथय । अधममवश्रथय अधस्तादवकृष्य नाशय । मध्यमं विश्रथय विष्वक्कृत्य नाशय । श्रथ दौर्बल्ये चुरादिरदन्तः, वर्णव्यत्ययेनोपान्त्यस्य दीर्घत्वम् ।
अत्र केचित् - उद्भूतादिभूतमध्यस्थशक्तितया धर्मपाशानां त्रैविध्यमाहुः । उत्तमाधममध्यमदेहप्रभवतया त्वन्ये । +++(केचित्, अन्ये इति पक्षद्वयम् उल्लिखितम् । अस्य विवरणं न लब्धम्)+++ ऊर्ध्वाधोमध्यमगतिहेतुत्वेनापरे । अथानन्तरं वयमनागसः विमुक्तसर्वपापाः तव व्रते कर्मणि स्याम योग्या भवेम । अदितये अखण्डितत्वाय अदीनत्वाय वा स्यामेति । हे आदित्य अदितेः पुत्र । यद्वा - इत्थमनागसस्सन्तो वयमदितये अनभिशस्तये स्याम । किमर्थं? तव व्रते कर्मणि कर्मार्थं योग्यतार्थमिति । अनागस इति बहुव्रीहौ व्यत्ययेन ‘नञ्सुभ्याम्’ इति न प्रवर्तते, लुप्तमत्वर्थीयो वा अनागस्विन इति ॥
विश्वास-प्रस्तुतिः
प्र णो॑ दे॒वी ..
मूलम्
प्र णो॑ दे॒वी ..
भट्टभास्कर-टीका
7अथ सारस्वतस्य पुरोनुवाक्या - प्राणो देवीति गायत्री ॥ ‘अग्नाविष्णू महि’ इत्यत्र व्याख्याता । सरस्वती देवी वाजवतीभिः क्रियाभिः तद्वती धियामवित्री अस्मान्वाजैरन्नैः प्रावत्विति । प्रकर्षेण रक्षत्विति ॥
- प्र णो॑ दे॒वी सर॑स्वती॒ वाजे॑भिर्वा॒जिनी॑वती । धी॒नाम॑वि॒त्र्य॑वतु ॥
- तत्रैव ‘सरस्वत्याज्यभागा’ इत्यत्र पुरोनुवाक्या - प्र ण इति गायत्री ॥ देवी सरस्वती वाजेभिः वाजैः रसैर्नो ऽस्मान् प्रावतु प्रकर्षेण रक्षत्वन्नादि दत्वा । सरस्वती विशेष्यते - वाजिनीवती वाजवत्क्रियावती धीनां धियां अवित्री अभिमतप्रदानेन तर्पयित्री । यद्वा - धीनेति वाङ्नाम । अस्माकं धीनां वाचं प्रावतु, अभिमतप्रदानेन अवित्री पालयित्री तृप्ता वा अस्मदभिमतं शत्रुमारणं करोत्विति । यद्वा - अस्मद्दत्तैर्वाजैः पुरोडाशादिभिरन्नैः देवी प्रकर्षेणावतु । ‘उपसर्गाद्बहुलम्’ इति नसो णत्वम् । धीनामिति । छान्दसो नुट्, ‘नामन्यतरस्याम्’ इति नाम उदात्तत्वम् ॥
विश्वास-प्रस्तुतिः
आ नो॑ दि॒वो ..
मूलम्
आ नो॑ दि॒वो ..
भट्टभास्कर-टीका
8तत्रैव याज्या - आ नो दिव इति त्रिष्टुप् ॥ इयमपि तत्रैव व्याख्याता । यजमानस्य वाजनीया देवी सरस्वती दिवः विप्रकृष्टाद्वा देशात् बृहतो वा पर्वतात् विषमाद्देशादागच्छतु । अस्माकमिमं यज्ञं अस्माकमाह्वानं सेवमाना घृताची घृताञ्चना उदकाञ्चना वा उशती कामयमाना अस्मत्स्तोत्रं हविर्वा शग्मां शक्तां वाचं शृणोत्विति ॥
-
आ नो॑ दि॒वो बृ॑ह॒तो पर्व॑ता॒दा सर॑स्वती यज॒ता ग॑न्तु य॒ज्ञम् ।
हव॑न्दे॒वी जु॑जुषा॒णा घृ॒ताची॑ श॒ग्मान्नो॒ वाच॑मुश॒ती शृ॑णोतु ॥- तत्रैव याज्या - आ न इति त्रिष्टुप् ॥ पर्वतादा इति प्रथमपादान्तः । सरस्वती देवी यजता यष्टव्या । यजेः क्तिच्[क्तः] । दिवः द्युलोकात् नः अस्माकं यज्ञमागन्तु आगच्छतु यद्यप्यनुच्छ्रिते प्रदेशे स्थिता शीघ्रमागच्च्छतु । छान्दसश्शपो लुक् ।
किञ्च - बृहतो महतः अपि पर्वतादागच्छतु प्रकृष्टाद्विषमाच्च प्रदेशादागच्छत्वित्यर्थः ।
किञ्च - हवमस्माकमाह्वानम् । ‘भावेनुपसर्गस्य’ इत्यप्, सम्प्रसारणं च । जुजुषाणा सेवमाना प्रीयमाणा वा घृताची घृतमाज्यभागं प्रत्यञ्चती । ‘चौ’ इति पूर्वपदस्य दीर्घत्वमन्तोदात्तत्त्वं च । शग्मां सुखां समर्थां वा अस्माकं स्तुतिरूपां शृणोतु उशती कामयमाना अस्मत्प्रत्तानि हवींषि स्तोत्राण्येव वा । वष्टेश्शतरि ‘शतुरनुमः’ इति नद्या उदात्तत्वम् >
- तत्रैव याज्या - आ न इति त्रिष्टुप् ॥ पर्वतादा इति प्रथमपादान्तः । सरस्वती देवी यजता यष्टव्या । यजेः क्तिच्[क्तः] । दिवः द्युलोकात् नः अस्माकं यज्ञमागन्तु आगच्छतु यद्यप्यनुच्छ्रिते प्रदेशे स्थिता शीघ्रमागच्च्छतु । छान्दसश्शपो लुक् ।
-
10अथ याज्या - नोस्मार्कं यज्ञं सरस्वती यजता यजनीया दिवोन्तरिक्षादागच्छतु, बृहतो वा पर्वतादागच्छतु । सर्वं हवं जुषाणा सेवमाना घृताची उदकस्याञ्चती उशती हवींषि कामयमाना नोस्माकं शग्मां शक्तां वाचं शृणोत्विति ॥
विश्वास-प्रस्तुतिः
अग्ना॑विष्णू॒ ..
मूलम्
अग्ना॑विष्णू॒ ..
भट्टभास्कर-टीका
9अथाग्नावैष्णवस्य याज्या - अग्नाविष्णू इति त्रिष्टुप् ॥ तत्रैव व्याख्याता । हे अग्नाविष्णू युवयोस्तत् महित्वं माहात्म्यं महान्तौ युवां घृतस्य गुह्यानि नामानि पुरोडाशादीनि वीतं खादतम् । यज्ञगृहे शोभनानि स्तोत्राणि वर्धयन्ति । युवयोः जिह्वा प्रत्येकं घृतमुच्छ्रितं पिबति ॥
-
अग्ना॑विष्णू॒ महि॒ तद्वा᳚म्महि॒त्वँ.. .
व्वी॒तङ्घृ॒तस्य॒ गुह्या॑नि॒ नाम॑ ।
दमे॑दमे स॒प्त रत्ना॒ दधा॑ना॒
प्रति॑ वाञ्जि॒ह्वा घृ॒तमा च॑रण्येत् ॥ -
अथ याज्याकाण्डं वैश्वदेवम् । तत्र ‘आग्नावैष्णवमेकादशपालं निर्वपेदभिचरन्त्सरस्वत्याज्यभागा स्याद्बार्हस्पत्यश्चरुः’ इत्यस्याग्नावैष्णवस्य पुरोनुवाक्या - अग्नाविष्णू महीति त्रिष्टुप् ॥
हे अग्नाविष्णू महि महत् महनीयं पूजनीयम् । ‘इन् सर्वधातुभ्यः’ इति महेरिन् । तत् वक्ष्यमाणं वां युवयोः महित्वं माहात्म्यं ततो युवां वीतं घृतस्य गुह्यानि नाम । ‘सुपां सुलुक्’ इति शसो लुक् । आज्यसान्नाय्यपशुपुरोडाशादिगुह्यनामवन्ति घृतसम्बन्धीनि वस्तून्यश्नीतम् । वी गत्यादिषु । पादादित्वान्न निहन्यते । प्रति प्रत्येकं वां युवयोः दमेदमे गृहेगृहे सर्वेषु यज्ञगृहेषु । ‘अनुदात्तं च’ इति द्वितीयस्यानुदात्तत्वम् । सप्त सृप्तानि सप्तसङ्ख्यानि वा अर्चींषि रत्ना रत्नानि रमणीयानि । ‘शेश्छन्दसि’ इति लोपः । दधाना । दधानौ सन्तौ । ‘सुपां सुलुक्’ इति द्विवचनस्याकारः । दधानौ वीतमिति ।
किञ्च - प्रति प्रत्येकं वां युवयोः जिह्वा घृतमाचरण्येत् आभिमुख्येन प्राप्नोतु भक्षयत्वित्यर्थः । एतद्वां महिमेति पूर्वेणान्वीयते । चरण गतौ, कण्ड्वादिः ॥
विश्वास-प्रस्तुतिः
अग्ना॑विष्णू ..
मूलम्
अग्ना॑विष्णू ..
भट्टभास्कर-टीका
10तत्रैव याज्या - अग्नाविष्णू इति त्रिष्टुप् ॥ तत्रैव व्याख्याता ॥
-
अग्ना॑विष्णू॒ महि॒ धाम॑ प्रि॒यव्ँवा᳚व्ँवी॒थो घृ॒तस्य॒ गुह्या॑ जुषा॒णा ।
दमे॑दमे सुष्टु॒तीर्वा॑वृधा॒ना प्रति॑ वाञ्जि॒ह्वा घृ॒तमुच्च॑रण्येत् ॥ -
तत्रैव याज्या - अग्नाविष्णू इति त्रिष्टुप् ॥ हे अग्नाविष्णू वां युवयोः धाम स्थानं तेजो वा महि महत् महनीयं वा प्रियमिष्टं युवयोः ।
किञ्च - वीथो घृतस्य गुह्या गुह्यानि स्वरूपाणि चरुपुरोडाशरूपाणि । पूर्ववच्छेर्लोपः । जुषाणा जुषमाणौ प्रीयमाणौ (अग्नीयः) शपश्श्लुः । पूर्ववदाकारः । दमेदमे । गतम् । सुष्टुतीश्शोभनस्तुतिकाः गिरः वावृधाना वावृधानौ वर्धयन्तौ दधानौ । यद्वा - सुष्टुतीः क्रिया वर्धयन्तौ । ऋत्विगादिना क्विन् । प्रवर्तयन्तौ । अन्तर्भावितण्यर्थाद्वृधेर्लट् शानच् ‘बहुलं छन्दसि’ इति शपश्श्लुः, ‘तुजादीनाम्’ इत्यभ्यासस्य दीर्घत्वम्, ‘छन्दस्युभयथा’ इत्यार्धधातुकत्वाल्लसार्वधातुकत्वाभावः । छान्दसो वा लिटः कानजादेशः ; ताच्छीलिको वा चानश् । यस्मादेवं तस्माद्वां युवयोः जिह्वा प्रत्येकं घृतमुच्चरण्येत् प्राप्नोतु भक्षयतु ॥
विश्वास-प्रस्तुतिः
इ॒मम्मे॑ वरुण ..
मूलम्
इ॒मम्मे॑ वरुण ..
भट्टभास्कर-टीका
11’यावतोऽश्वान् प्रतिगृह्णीयात् तावतो वारुणान् चतुष्कपालान्निर्वपेत्’ इत्यस्याः पुरोऽनुवाक्या - इमं मे वरुण श्रुधी हवम् इति गायत्री ॥ ‘इन्द्रं वो विश्वतस्परीन्द्रं नरः’ इत्यत्र व्याख्याता । हे वरुण इमं मे हवं आह्वानं श्रुधि शृणु । अद्यास्मिम् कर्मणि मां मृडय त्वामहं अवस्युः रक्षणाय आचके आभिमुख्येन भजे ॥
- इ॒मम्मे॑ वरुण श्रुधी॒ हव॑म॒द्या च॑ मृडय ।
त्वाम॑व॒स्युराच॑के ।- अथ ‘ये कृष्णास्स्युस्तं वारुणं चरुं निर्वपेत्’ इत्यस्याः पुरोनुवाक्या - इमं म इति गायत्री । श्रुधीति प्रथमपादान्तः ॥ हे वरुण इममस्मदीयं हवमाह्वानं श्रुधि शृणु । ‘बहुलं छन्दसि’ इति शपो लुक् । ‘श्रुशृणुपृकृवृभ्यः’ इति धिभावः । श्रुत्वा चाद्यैव मां मृडय सुखय । यस्मादहं त्वामवस्युः रक्षणमात्मन इच्छन् । ‘क्याच्छन्दसि’ इत्युप्रत्ययः । आचके आभिमुख्येन शब्दयामि प्रार्थये । कै गै शब्दे ॥
विश्वास-प्रस्तुतिः
तत्त्वा॑ या॒मि ..
मूलम्
तत्त्वा॑ या॒मि ..
भट्टभास्कर-टीका
12तत्रैव याज्या - तत्त्वा यामि ब्रह्मणा वन्दमान इति त्रिष्टुप् ॥ इयमपि तत्रैव व्याख्याता । हे वरुण अहं ब्रह्मणा मन्त्रेण हविषा त्वां वन्दमानः स्तुवन् अहं त्वामभियाचे यजमानोऽपि तदेव हविर्भिराशास्ते त्वमपि तत्? अहेडमानः अक्रुध्यन् इह कर्मणि बुद्ध्यस्व । किंपुनः तत्? हे वरुण उरु शंसमानः अस्माकमायुर्मा प्रमोषीरिति ॥
- तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदाशा᳚स्ते॒ यज॑मानो ह॒विर्भिः॑ ।
अहे॑डमानो वरुणे॒ह बो॒द्ध्युरु॑शꣳस॒ मा न॒ आयु॒ᳶ प्रमो॑षीः ॥ - तत्रैव याज्या - तत्त्वेति त्रिष्टुप् ॥ हे वरुण ब्रह्मणा मन्त्रेण त्वामेव वन्दमानः स्तुवन्नहं तत्तदर्थम् । चतुर्थ्या लुक् । तदर्थमेव त्वां यामि भजे । यद्वा - तदेव त्वां यामि याचे । छान्दसोन्त्यलोपः, परस्मैपदं च । यजमानोपि सर्वस्तदेवाशास्ते हविर्भिश्चरुपुरोडाशादिभिः हे उरुशंस महास्तुतिक त्वमपि तामस्मदीयां विज्ञापनां इह कर्माणि अहेडमानः अक्रुद्ध्यन् बोधि बुध्यस्व । पूर्ववद्विकरणस्य लुक्, ‘हुझल्भ्यो हेर्धिः’, ‘वा छन्दसि’ इत्यपित्त्वादेव ङित्त्वाभावाद्गुणः, अन्त्यलोपश्छान्दसः । किम्पुनस्तत्प्रार्थनीयमित्याह - नः अस्माकं आयुर्दीप्तिमन्नं वा मा प्रमोषीः मा छेत्सीः तदर्थं विशं च रा[राष्ट्रं चा]वगमयेति भावः ॥
विश्वास-प्रस्तुतिः
उदु॒ त्यम् ..
मूलम्
उदु॒ त्यम् ..
भट्टभास्कर-टीका
13’यद्यपरं प्रतिग्राही स्यात् सौर्यमकेकपालमनु निर्वपेत्’ इत्यस्याः पुरोनुवाक्या - उदु त्यं जातवेदसमिति गायत्री ॥ इयं ग्रहप्रश्ने व्याख्याता । त्यं तं इमं जातवेदसं जातानां वेदितारं सूर्यं देवं केतवः रश्मयः उद्वहन्ति सर्वस्य लोकस्य दर्शनार्थमिति ॥
-
उदु॒ त्यञ्जा॒तवे॑दसन्दे॒वव्ँव॑हन्ति के॒तवः॑ ।
दृ॒शे विश्वा॑य॒ सूर्य᳚म् ॥-
अथ दाक्षिणं काण्डं सौम्यमेव । तत्र शौरीभ्यामृग्भ्यां गार्हपत्ये जुहोति - उदुत्यमिति प्रथमा गायत्री, द्वितीया त्रिष्टुप् ॥
-
तत्र प्रथमा - ‘उदायुषा’ इत्यत्र व्याख्याता । त्यं तं इमं देवं जातवेदसं जातप्रज्ञं जातानां वेदितारं केतवो रश्मय उद्वहन्ति ऊर्ध्वं वहन्ति दृशे द्रष्टुं विश्वाय विश्वार्थं, विश्वो लोको यथैनं पश्येदिति । ‘सुवर्गाय वा एतानि लोकाय हुयन्ते यद्दाक्षिणानि’ इत्यादि ब्राह्मणम् ॥
-
[ सौर्यर्चा कृष्णाजिनं पुरस्तात्प्रत्यानह्यत्यूर्ध्वग्रीवम् - उदुत्यमिति गायत्र्या ॥
त्यं तं जातवेदसं जातानां वेदितारम् । ‘गतिकारकयोरपि’ इत्यसुन्प्रत्ययः । जातप्रज्ञानं वा सूर्यं देवं देवनादिगुणयुक्तं उद्वहन्ति ऊर्ध्वं वहन्ति केतवो रश्मयः दृशे द्रष्टुम् । ‘दृशे विख्ये च’ इति निपात्यते । विश्वाय विश्वार्थं विश्वं लोको यथा एनं पश्येत् तदनुरूपमुद्वहन्ति । स्मैभावाभावश्छान्दंसः । क्रियमाणेन का सङ्गतिः? उच्यते - एतस्य कर्मणस्सामर्थ्यादेतदेवं भवतीति ॥]
-
विश्वास-प्रस्तुतिः
चि॒त्रम् ..
मूलम्
चि॒त्रम् ..
भट्टभास्कर-टीका
14तत्रैव याज्या - चित्रं देवानामिति त्रिष्टुप् ॥ इयमपि तत्रैव व्याख्याता । देवानामनीकस्थानीयं मित्रादीनां चक्षुस्स्थानीयं उदेति । अयं जगतः तस्थुषश्च आत्मा । सूर्यः द्यावापृथिवी अन्तरिक्षं आपूरयति तेजसेति ॥
-
चि॒त्रन्दे॒वाना॒मुद॑गा॒दनी॑क॒ञ्चख्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः ।
आऽप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑ख्ष॒ꣳ॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ॥- अथ द्वितीया - चित्रं चायनीयं देवानामनीकं सङ्घातरूपम्मण्डलम् । यद्वा - देवानां रश्मीनां अनीकं मुखं समुदायस्थानं वा । मित्रादीनां देवानामपि चक्षुस्स्थानं , तेपि हि तेन प्रकाशितं पश्यन्ति । यद्वा - मित्रत्वादिपदप्राप्तिहेतुत्वाच्चक्षुरित्युपचर्यते । उपलक्षणं चैतत्, सर्वदेवतापदलाभहेतुत्वात्; भवति मण्डलोपासनमिति । इर्दृशमण्डलमुदगात् उदेति । छान्दसो लुङ्, ‘गातिस्था’ इति सिचो लुक् । यदा ईदृशम्मण्डलमुदेति तदा तन्मण्डलान्तर्गतो भगवान् सूर्यः जगतो जङ्गमस्य तस्थुषः स्थावरस्य च विश्वस्यात्मा द्यावापृथिवी द्यावापृथिव्यौ अन्तरिक्षं च रश्मिभिराप्राः आपूरयति । प्रा पूरणे पुरुषव्यत्ययः, अदादित्वाच्छपो लुक् । द्यौश्च पृथिवी च द्यावापृथिव्यौ । ‘दिवो द्यावा’ इति द्यावादेशः, ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घः’, ‘देवताद्वन्द्वे च’ इति पूर्वोत्तरयोर्युगपत्प्रकृतिस्वरत्वम्, पृथिवीशब्दो ङीषन्तोन्तोदात्तः । ईदृशो भगवाननेन होमेनास्माकमभिमतं साधयत्विति ॥
विश्वास-प्रस्तुतिः
अ॒पान्नपा॒दा ह्यस्था॑दु॒पस्थ॑ञ्जि॒ह्माना॑मू॒र्ध्वो वि॒द्युत॒व्ँवसा॑नः ।
तस्य॒ ज्येष्ठ॑म्महि॒मान॒व्ँवह॑न्ती॒र्हिर॑ण्यवर्णा॒ᳶ परि॑ यन्ति य॒ह्वीः ।
मूलम्
अ॒पान्नपा॒दा ह्यस्था॑दु॒पस्थ॑ञ्जि॒ह्माना॑मू॒र्ध्वो वि॒द्युत॒व्ँवसा॑नः ।
तस्य॒ ज्येष्ठ॑म्महि॒मान॒व्ँवह॑न्ती॒र्हिर॑ण्यवर्णा॒ᳶ परि॑ यन्ति य॒ह्वीः ।
भट्टभास्कर-टीका
15’अपोनप्त्रीयं चरुं पुनरेत्य’ इत्यस्य पुरोनुवाक्या - अपां नपादिति त्रिष्टुप् ॥ अपां नपात् चतुर्थोऽग्निः उपस्थं अन्तरिक्षं मेघं वा अपामुपस्थानमास्थादातिष्ठति हि । ‘हि च’ इति निघाताभावः । जिह्मानां कुटिलगतीनां अपामूर्ध्वः उपरिवर्ती विद्युतं वसानः विद्युद्रूपेणात्मानं छादयन् तासामुपस्थमातिष्ठति । हि यदेवं तस्मात्ता आपस्तस्याग्नेरपां नपादो ज्येष्ठं प्रशस्तं महिमानं माहात्म्यं वहन्तीः वहन्त्यः ख्यापयन्त्यः अनेन हि मेघं भित्त्वा वयं प्रवर्तिता इति कृतज्ञतामिव दर्शयन्त्यः हिरण्यवर्णास्तेजोरूपा एव भासमानाः यह्वीः यह्व्यः महत्यः तमग्निं परियन्ति परिगच्छन्ति परित इवासते ॥
विश्वास-प्रस्तुतिः
सम॒न्या यन्त्युप॑ यन्त्य॒न्यास्स॑मा॒नमू॒र्वन्न॒द्यᳶ॑ पृणन्ति ।
तमू॒ शुचि॒ꣳ॒ शुच॑यो दीदि॒वाꣳस॑म॒पान्नपा॑त॒म्परि॑ तस्थु॒रापः॑ ।
मूलम्
सम॒न्या यन्त्युप॑ यन्त्य॒न्यास्स॑मा॒नमू॒र्वन्न॒द्यᳶ॑ पृणन्ति ।
तमू॒ शुचि॒ꣳ॒ शुच॑यो दीदि॒वाꣳस॑म॒पान्नपा॑त॒म्परि॑ तस्थु॒रापः॑ ।
भट्टभास्कर-टीका
16तत्रैव याज्या - समन्या यन्तीति त्रिष्टुप् ॥ अन्या आपः संयन्ति सङ्गच्छते एकीभूताः प्रवहन्ति अन्या उपयन्ति परितस्सङ्गता इव त्वां मध्येन प्रवहन्ति । ततः सर्वा अपि समानं नद्यो भूत्वा और्वं और्वस्याग्नेराधारं महान्तं आपगाः पृणन्ति पूरयन्ति । पृण प्रीणने । अथ तं तत्रस्थं और्वं शुचिं शुद्धं दीदिवांसं मध्ये दीप्यमानम् । दीदितिर्दीप्तिकर्मा छान्दसः, क्वसौ ‘वस्वेकाजाद्ध्वसाम्’ इति नियमादिडभावः । ईदृशं अपां नपातं शुचयः आपः परितस्सर्वतोप्युपतस्थुः तिष्ठन्ति । छान्दसो लिट् । ‘एकान्याभ्यां समर्थाभ्याम्’ इति प्रथमस्याम्रेडितस्याख्यातस्य निघाताभावः । उ अवधारणे, पादपूरणे वा । ‘अन्येषामपि दृश्यते’ इति सांहितिको दीर्घः ॥
विश्वास-प्रस्तुतिः
तमस्मे॑रा युव॒तयो॒ युवा॑नम्मर्मृ॒ज्यमा॑ना॒ᳶ परि॑ य॒न्त्यापः॑ ।
स शु॒क्रेण॒ शिक्व॑ना रे॒वद॒ग्निर्दी॒दाया॑नि॒ध्मो घृ॒तनि॑र्णिग॒फ्सु ।
मूलम्
तमस्मे॑रा युव॒तयो॒ युवा॑नम्मर्मृ॒ज्यमा॑ना॒ᳶ परि॑ य॒न्त्यापः॑ ।
स शु॒क्रेण॒ शिक्व॑ना रे॒वद॒ग्निर्दी॒दाया॑नि॒ध्मो घृ॒तनि॑र्णिग॒फ्सु ।
भट्टभास्कर-टीका
17अथात्रैव याज्या विकल्प्यते - तमस्मेरा इति त्रिष्टुप् ॥ तमग्निमपां नपातं मर्मृज्यमानाः अत्यर्थमलङ्कुर्वाणाः । मृजू शौचालङ्कारयोः । अस्मेरा विदग्धा युवतयो युवानं युवराजमिव आपः परियन्ति परितस्सेवन्ते । यद्वा - नित्यतरुणमग्निं नित्यतरुण्यः आपः परियन्ति । स चाग्निस्तास्वप्सु मध्ये शुक्रेण निर्मलेन शिक्वना रोचिषा इत्थंभूतः रेवत् रेवान् महाधनः राजेव । छान्दसो लिङ्गव्यत्ययः । सलिलव्यतिरिक्तेन काष्ठादीन्धनरहितो दीदाय दीप्यते । छान्दसो लिट्, छान्दसो द्विर्वचनाभावः, दीधिङो वा वर्णव्यत्ययः । तेन जक्षित्यादिना अभ्यस्तत्वाद्द्विर्वचनाभावः । घृतनिर्णिक्, घृतेनोदकेन वा एषणीयः, घृतनिर्णेजनमस्येति बहुव्रीहिः । यद्वा - तेजोरूपमानः । एवं महानुभावोयं अस्मान् प्रतिग्रहदोषापनयेन शोधयत्विति ॥
विश्वास-प्रस्तुतिः
इन्द्रा॒वरु॑णयोर॒हꣳ स॒म्राजो॒रव॒ आ वृ॑णे ।
ता नो॑ मृडात ई॒दृशे᳚ ।
मूलम्
इन्द्रा॒वरु॑णयोर॒हꣳ स॒म्राजो॒रव॒ आ वृ॑णे ।
ता नो॑ मृडात ई॒दृशे᳚ ।
भट्टभास्कर-टीका
18 ‘यः पापना गृहीतस्स्यात्तस्मा एतामैन्द्रावरुणीं पयस्यां निर्वपेत्’ इत्यस्याः पुरोनुवाक्या - इन्द्रावरुणयोरहमिति गायत्री ॥ इन्द्रावरुणयोस्सम्राजोः सम्यक् दीप्यमानयोः अवः रक्षणं यादृशं तदीयं रक्षणं तदहमावृणे आभिमुख्येन याचे । ता तौ च नः अस्मान् मृडातः सुखयेताम् । ईदृशे विशिष्टे रक्षणे स्थित्वा मृडयताम् । लेट्यागमः ॥
विश्वास-प्रस्तुतिः
इन्द्रा॑वरुणा यु॒वम॑ध्व॒राय॑ नो वि॒शे जना॑य॒ महि॒ शर्म॑ यच्छतम् । दी॒र्घप्र॑यज्यु॒मति॒ यो व॑नु॒ष्यति॑ व॒यञ्ज॑येम॒ पृत॑नासु दू॒ढ्यः॑ ।
मूलम्
इन्द्रा॑वरुणा यु॒वम॑ध्व॒राय॑ नो वि॒शे जना॑य॒ महि॒ शर्म॑ यच्छतम् । दी॒र्घप्र॑यज्यु॒मति॒ यो व॑नु॒ष्यति॑ व॒यञ्ज॑येम॒ पृत॑नासु दू॒ढ्यः॑ ।
भट्टभास्कर-टीका
19तत्रैव याज्या - इन्द्रावरुणा युवमिति जगती ॥ हे इन्द्रावरुणा इन्द्रावरुणौ । ‘सुपां सुलुक्’ इत्यादिनाऽऽकारः । युवं युवां नः अस्मभ्यं महि महत् शर्म सुखं पापयक्ष्माभावप्रभवं यच्छतं दत्तम् । अध्वराय यज्ञाय दर्शपूर्णमासादियज्ञनिर्वहणं यथा भवेत् विशे च यथा पुत्रादिका प्रजा मां न निवर्तते जनाय चान्यस्मै सुहृदादये स यथा मां न त्यजेत् । यदुक्तमध्वराद्यर्थमिति तदेव प्रकटीकरोति - दीर्घप्रयज्युः दीर्घकालं यावज्जीवं प्रकर्षेणानतिपत्त्या कर्तव्यो दर्शपूर्णमासादियज्ञो दीर्घप्रयज्युः । यजेः औणादिको युप्रत्ययः, दासीभारादिः द्रष्टव्यः । वचनव्यत्ययो वा । दीर्घकालकर्तव्या दर्शपूर्णमासादयः प्रकृष्टा यागा येषां तानस्मानतिक्रम्य यो वनुष्यति अभिभवति पापयक्ष्मा । वनेरुसिप्रत्ययान्तात्क्यचि षत्वम् । तं तावद्वयं जयेम न तेन वयं जीयेमहि । किंच - पृतनासु सङ्ग्रामेषु दूढ्यः दुर्धियश्च जयेमेत्येव । कैश्चिद्दुर्बुद्धिभिः न वयं जीयेमहि पृषोदरादित्वादभीष्टस्वरूपसिद्धिः ॥
विश्वास-प्रस्तुतिः
आ नो॑ मित्रावरुणा ..
मूलम्
आ नो॑ मित्रावरुणा ..
भट्टभास्कर-टीका
20’आ नो मित्रावरुणा’ ‘प्र बाहवा सिसृतं’ इति द्वे गायत्रीत्रिष्टुभौ व्याख्याते ॥ ‘अग्नाविष्णु महि’ इत्यत्र । अनयोश्चात्र प्रतीकग्रहणम् । तयोः कच्चित् मैत्रावरुणे विनियोगः द्रष्टव्यः । प्रायश्चित्ते वा । तत्र प्रथमा - हे मित्रावरुणौ अस्माकं गव्यूतिं घृतैरुक्षतम् । हे शोभनकर्माणौ मधुरसेन लोकानुक्षतमिति ॥
- आ नो॑ मित्रावरुणा घृ॒तैर्गव्यू॑तिमुख्षतम् ।
मध्वा॒ रजाꣳ॑सि सुक्रतू ॥
8’मैत्रावरुणमेककपालं निर्वपेद्वशायै काले’ इत्यस्य पुरोनुवाक्या - आ न इति गायत्री ॥ हे मित्रावरुणा मित्रावरुणौ । पूर्ववदाकारः । घृतैरुदकैः गव्यूतिं गोप्रचारम् । गावो यूयन्ते मिश्र्यन्तेस्यामित्यधिकरणे क्तिन्, दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम्, ‘गोर्यूतौ छन्दसि’ इत्यवादेशः । उपलक्षणं चैतत् । सर्वमप्यस्मदीयं क्षेत्रमोक्षतं आसिञ्चतं समन्तादभिवर्षतम् । यद्वा - गव्यूतिं व्रजं घृतैर्घृतदुग्धाभिस्समन्तादुक्षतं बहुदोग्ध्रीकं कुरुतम् ।
किञ्च - हे सुक्रतू शोभनकर्माणौ शोभनप्रज्ञानौ वा मध्वा मधुना मधुरसेन जलेन घृतेनैव वा रजांसि लोकान् सर्वानपि समन्तादुक्षतमित्येव ॥
मैत्रावरुणयागस्य याज्या ९ मन्त्रः
विश्वास-प्रस्तुतिः
प्र बा॒हवा᳚ ..
मूलम्
प्र बा॒हवा᳚ ..
भट्टभास्कर-टीका
21द्वितीया - प्र बाहवेति ॥ बाहुबलवन्तौ युवां अस्मान् जीवयितुमागच्छतम् । आगत्य च अस्माकं गव्यूतिं घृतेन सर्वतः उक्षतम् । हे युवानौ नित्यतरुणौ अस्मान् जनेषु श्रवयतमाख्यापयतम् । इमानि च महाह्वानानि शृणुतमिति ॥
-
प्र बा॒हवा॑ सिसृतञ्जी॒वसे॑ न॒ आ नो॒ गव्यू॑तिमुख्षतङ्घृ॒तेन॑ ।
आ नो॒ जने᳚ श्रवयतय्ँयुवाना श्रु॒तम्मे॑ मित्रावरुणा॒ हवे॒मा ॥ -
तत्रैव याज्या - प्र बाहवेति त्रिष्टुप् ॥ बाहोर्बलं बाहुशब्देनोच्यते । अर्श आदित्वादच् । बाहवा बाहवौ बाहुबलवन्तौ युवाम् । छान्दसं प्रत्ययात्पूर्वस्योदात्तत्वम् । प्रसिसृतमागच्छतम् । यद्वा - बाहवा बाहुबलेन सह बाहुबलवन्तावागच्छतम् । तृतीयैकवचनस्य नाभावाभावे गुणश्छान्दसः । किमर्थं ? नो ऽस्मान् जीवसे जीवयितुम् । ‘तुमर्थे सेसेन्’ इत्यसेप्रत्ययः । अस्माकं वा जीवसे जीवनाय । असुन्याद्युदात्तत्वाभावश्छान्दसः । आगत्य च नोस्माकं गव्यूतिं घृतेन समन्तादुक्षतमिति गतम् । किञ्च - नो ऽस्मान् जने जनेषु जनपदेषु समन्ताच्छ्रावयतम् । यद्वा - अस्माकं जनपदेषु युवयोर्बाहुबलं ख्यापयतम् । शृणोतेर्णिचि वृद्ध्यभावश्छान्दसः । हे युवाना युवानौ नित्यतरुणौ मिश्रितौ वा । पूर्ववदाकारः । हे मित्रावरुणा मित्रावरुणौ इमा इमान् अस्मदीयान् हवा हवान् आह्वानानि । पूर्ववच्छस आकारः, ह्वयतेः पूर्ववदप्सम्प्रसारणं च । श्रुतं शृणुतम् । शपो लुक्, पादादित्वान्न निहन्यते ॥
विश्वास-प्रस्तुतिः
त्वन्नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान्दे॒वस्य॒ हेडोऽव॑ यासिसीष्ठाः ।
यजि॑ष्ठो॒ वह्नि॑तम॒श्शोशु॑चानो॒ विश्वा॒ द्वेषाꣳ॑सि॒ प्र मु॑मुग्ध्य॒स्मत् ।
मूलम्
त्वन्नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान्दे॒वस्य॒ हेडोऽव॑ यासिसीष्ठाः ।
यजि॑ष्ठो॒ वह्नि॑तम॒श्शोशु॑चानो॒ विश्वा॒ द्वेषाꣳ॑सि॒ प्र मु॑मुग्ध्य॒स्मत् ।
भट्टभास्कर-टीका
22अथ त्वं नो अग्ने स त्वं नो अग्ने इति गायत्रीत्रिष्टुभौ ॥ क्वचिदाग्निवारुणे विनियोगो द्रष्टव्यः । प्रायश्चित्ते वा । तत्र प्रथमा - हे अग्ने विद्वान् सर्वार्थसाधनो वा यज्ञे स त्वं देवस्य वरुणस्य हेडः क्रोधः अनादरो वा पाशग्रहणादिकः नः अस्माकं अस्मत्संबन्धि अवयासिसीष्ठाः अपनय । अवपूर्वात् यासेर्ण्यन्तादाशीर्लिङि इडादावपि णिलोपश्छान्दसः । ‘छन्दस्युभयथा’ इति लिङ्वा सार्वधातुकत्वादिडभावो ङित्त्वं च । किं च – यजिष्ठः यष्टृतमः । यष्टृशब्दात् ‘तुश्छन्दसि’ इतीष्ठन् प्रत्ययः । ‘तुरिष्ठमेयस्सु’ इति तृशब्दस्य लोपः । वह्नितमः हविषां वोढृतमः शोशुचानः अतिशयेन दीप्यमानः । ‘अभ्यस्तानामादिः’ इत्याद्युदात्तत्वम् । ईदृशः त्वं विश्वानि वरुणव्यतिरिक्तान्यपि द्वेष्टॄणि वा रक्षःप्रभृतीनि अस्मत् अस्मत्तः प्रमुमुग्धि प्रकर्षेण मोचय । ‘बहुर्लं छन्दसि’ इति शपश्लुः ॥
विश्वास-प्रस्तुतिः
स त्वन्नो॑ अग्नेऽव॒मो भ॑वो॒ती नेदि॑ष्ठो अ॒स्या उ॒षसो॒ व्यु॑ष्टौ ।
अव॑ यख्ष्व नो॒ वरु॑णम् [72] ररा॑णो वी॒हि मृ॑डी॒कꣳ सु॒हवो॑ न एधि ।
मूलम्
स त्वन्नो॑ अग्नेऽव॒मो भ॑वो॒ती नेदि॑ष्ठो अ॒स्या उ॒षसो॒ व्यु॑ष्टौ ।
अव॑ यख्ष्व नो॒ वरु॑णम् [72] ररा॑णो वी॒हि मृ॑डी॒कꣳ सु॒हवो॑ न एधि ।
भट्टभास्कर-टीका
23अथ द्वितीया - हे अग्ने स त्वं नः अस्माकं अवमः अविता भव ऊत्या गमनेन । यद्वा - ऊत्या रक्षणेन अवमः अर्वाचीनः प्रत्यासन्नो भव । अस्या उषसो रात्रेरवसाने प्रातरेव अस्माकं नेदिष्ठः अन्तिकतमः अस्मिन् दिवसे प्रातरेव अस्मत्पार्श्वमागतस्त्वमिदानीं तत्क्षणेनापि प्रत्यासन्नतरो भवेति । ‘अन्तिकबाढ योर्नेदसाधौ’ । किञ्च - रराणः अस्मदीये परिचरणे रममाण अस्माकं वरुणं वारकं वरुणप्रवर्तितं वा पापरोगादिकमवयक्ष्व नाशय । ‘बहुलं छन्दसि’ इति शपो लुक् । रातेः शानचि अन्त्यलोपश्छान्दसः, पूर्वपदाद्युदात्तत्वम् । तदर्थं वीहि भुङ्क्ष्व मृडीकं सुखहेतुमिदं हविः । किञ्च - नः अस्माकं सुहवः शोभनाह्वानश्च एधि भव । आह्वानप्रयोजनस्य सद्यस्सम्पत्तिः शोभनत्वम् । ‘आद्युदात्तं द्व्यच्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् ॥
विश्वास-प्रस्तुतिः
प्रप्रा॒यम॒ग्निर्भ॑र॒तस्य॑ शृण्वे॒ वि यथ्सूर्यो॒ न रोच॑ते बृ॒हद्भाः ।
अ॒भि यᳶ पू॒रुम्पृ॑तनासु त॒स्थौ दी॒दाय॒ दैव्यो॒ अति॑थिश्शि॒वो नः॑ ।
मूलम्
प्रप्रा॒यम॒ग्निर्भ॑र॒तस्य॑ शृण्वे॒ वि यथ्सूर्यो॒ न रोच॑ते बृ॒हद्भाः ।
अ॒भि यᳶ पू॒रुम्पृ॑तनासु त॒स्थौ दी॒दाय॒ दैव्यो॒ अति॑थिश्शि॒वो नः॑ ।
भट्टभास्कर-टीका
24’यो भ्रातृव्यवान् स्यात् स स्पर्धमान एतयेष्ट्या यजेताग्नये प्रवते पुरोडाशमष्टाकपालं निर्वपेदग्नये विबाधवतेऽग्नये प्रतीकवते’ इत्यस्यां त्रिहविष्कायां ‘अग्नये प्रवते’ इत्यस्य पुरोनुवाक्या - प्रप्रेति त्रिष्टुप् ॥ ‘प्रसमुपोदः पादपूरणे’ इति द्विर्वचनम् । अयमग्निर्भरतस्य यजमानस्य भरणात् भरतः । औणादिकोतच्प्रत्ययः । प्रशृण्वे प्रकर्षेण शृणोतु । आह्वानप्रयोजनं शीघ्रं करोत्वित्यर्थः । लिटि ‘लोपस्त आत्मनेपदेषु’ इति तलोपः । अग्निर्विशेष्यते - यत् योऽग्निः सूर्य इव बृहद्विरोचते अत्यर्थं दीप्यते । भाः भासनशीलः । ‘भ्राजभास’ इति क्विप् । यश्चाग्निः पृतनासु सङ्ग्रामेषु पूर्वमाप्यायमानं शत्रुम् । पूरी आप्यायने, औणादिक उप्रत्ययः । पूर्वं महान्तमपि शत्रुमभितस्थौ अभितिष्ठति । अधितिष्ठति आक्रामति । किंच - योऽस्माकमतिथिर्भूत्वा दीदाय दीप्यते । छान्दसो लिट्, अतिथिः विशेष्यते - दैव्यः दिवि भवः । ‘देवाद्यञञौ’ शिवः कल्याणगमनः । यद्वा - सोऽस्माकमस्त्विति सामर्थ्याल्लभ्यते ॥
विश्वास-प्रस्तुतिः
प्र ते॑ यख्षि॒ प्र त॑ इयर्मि॒ .
मन्म॒ भुवो॒ यथा॒ वन्द्यो॑ नो॒ हवे॑षु ।
धन्व॑न्निव प्र॒पा अ॑सि॒ त्वम॑ग्न ..
इय॒ख्षवे॑ पू॒रवे᳚ प्रत्न राजन्न् । [73]
मूलम्
प्र ते॑ यख्षि॒ प्र त॑ इयर्मि॒ .
मन्म॒ भुवो॒ यथा॒ वन्द्यो॑ नो॒ हवे॑षु ।
धन्व॑न्निव प्र॒पा अ॑सि॒ त्वम॑ग्न ..
इय॒ख्षवे॑ पू॒रवे᳚ प्रत्न राजन्न् । [73]
भट्टभास्कर-टीका
25तत्रैव याज्या - प्र ते यक्षीति त्रिष्टुप् ॥ ‘इयक्षवे’ इति चतुर्थपादादिः । हे अग्ने त्वां प्रयक्षि प्रकर्षेण यजे । छान्दसो लिट् । ते तव मन्म मननमनुध्यानं प्र इयर्मि प्रकर्षेण गच्छामि । यद्वा - ते त्वदीयं मन्म मननीयं प्रकेर्षेण सम्पादयामि । ऋ गतौ, शपः श्लुः । ‘अर्तिपिपर्त्योश्च’ इत्यभ्यासस्येत्वम्, ‘अभ्यासस्यासवणे’ इतीयङ् । मन्यतेरौणादिको मनिन् प्रत्ययः । यथा त्वमस्माकं हवेषु यज्ञेषु पुनःपुनः वन्द्यः स्तुत्यः भवः भवेः यथा ते श्रद्धयैव [द्धैव] पुनःपुनरस्मान् पुनातु धनकामादिना तथा वयं मन्तव्याः इति । ‘ईडवन्द’ इत्याद्युदात्तत्वम् । भवतेर्लेट्, शपो लुकि अडागमे ‘भू सुवोस्तिङि’ इति गुणाभावः । पादादित्वान्न निहन्यते । कः पुनः तव विशेषः इति चेदिदमुच्यते - हे अग्ने धन्वन् निर्जले प्रदेशे प्रपेव शीतलपानीयपूर्णशालेवासि भक्तानां सकलक्लेशनिवृत्तिहेतुत्वात् । तस्य इयक्षवे इयक्षा यष्टुमिच्छा यजनकार्येच्छा । छान्दस आदिवणर्लोपः । पूरवे महात्मने पूरयित्रे वा हविषां हे प्रत्न पुराण राजन् दीप्यमान सर्वदा राजनशील ॥
विश्वास-प्रस्तुतिः
वि पाज॑सा॒ ..
मूलम्
वि पाज॑सा॒ ..
भट्टभास्कर-टीका
26’अग्नये विबाधवते’ इत्यस्य पुरोनुवाक्या - वि पाजसेति त्रिष्टुप् ॥ इयमग्निकाण्डे व्याख्यास्यते यत्राम्नायते । प्रतीकग्रहणं त्वस्याः पृथुना पाजसा बलेन शोशुचानः दीप्यमानस्त्वं द्विषो बाधस्व रक्षांसि च अमीवा रोगाश्च । तव सुशर्मणः शोभनशरणस्य शोभनसुखस्य वा बृहतः महात्मनः शर्मणि अहं स्याम् । सदा वर्षीय अग्नेः अङ्गनादिगुणयुक्तस्य सुहवनस्य शोभनाह्वानस्य प्रणीतौ परिचरणे वर्तमान इति ॥
विश्वास-प्रस्तुतिः
वि ज्योति॑षा ।
मूलम्
वि ज्योति॑षा ।
भट्टभास्कर-टीका
27तत्रैव याज्या - वि ज्योतिषेति त्रिष्टुप् ॥ इयं तु ‘कृणुष्व पाजः’ इत्यत्र व्याख्याता । प्रतीकं गृह्यते अस्याः । अयमेवाग्निः बृहता ज्योतिषा विभाति विश्वानि च महित्वा माहात्म्यानि आविष्कृणुते आविष्कृणुतां वा । किंच - अदेवीः अदेवनशीलाः दुरेवाः दुखेन एतव्याः काममायाः प्रसहते प्रकर्षेणाभिभवति अभिभवतु वा । अपिच - रक्षसां च विनाशाय आत्मीये शृङ्गे शृङ्गस्थानीये ज्वाले शिशीते तीक्ष्णीकुरुते कुरुतां वा । एवं महानुभावोऽयमस्माकं भ्रातृव्यं विनाशयत्विति ॥
-
वि ज्योति॑षा बृह॒ता भा᳚त्य॒ग्निरा॒विर्विश्वा॑नि कृणुते महि॒त्वा ।
प्रादे॑वीर्मा॒यास्स॑हते दु॒रेवा॒श्शिशी॑ते॒ शृङ्गे॒ रख्ष॑से वि॒निख्षे᳚ ॥ -
अथ याज्या - वीति ॥ अयमग्निर्बृहता ज्योतिषा महता तेजसा इत्थंभूतस्सन् विभाति विशेषेणाभाति महाननेनास्मदीयेन हविषा । ‘बृहन्महतोरुपसङ्ख्यानम्’ इति तृतीयाया उदात्तत्वम् । किन्च - विश्वानि महित्वा माहात्म्यानि । ‘शेश्छन्दसि’ इति लोपः । आविष्कृणुते आविष्कुर्वीत । किञ्च - अदेवीः अदेवनशीलाः आसुरीर्मायाः प्रसहते अभिभवेत् । दुरेवाः दुःखेनैतव्याः दुष्प्रधर्षा इति यावत् । एतेर्वः, कृदुत्तरपदप्रकृतिस्वरत्वम् । किञ्च - शृङ्गे शृङ्गस्थानीये प्रधाने आत्मीये ज्वाले शिशीते तीक्ष्णीकुरुते । श्यतेर्व्यत्ययेन आत्मनेपदम्, पूर्ववच्छपश्श्लुः, इत्वं चाभ्यासस्य, ‘तास्यनुदात्तेत्’ इति लसार्वधातुकानुदात्तत्वे ‘अनुदात्ते च’ इत्याद्युदात्तत्वम् । किमर्थं शिशीत इत्याह – रक्षसे विनिक्षे रक्षोविनाशार्थम् । पूर्ववत्कर्मणस्सम्प्रदानत्वम् । विनिक्षे - णिक्षि चुम्बने ‘कृत्यार्थे तवैकेन्’ इति केन्प्रत्ययः, कृदुत्तरपदप्रकृतिस्वरत्वम् । ज्वालाभ्यां रक्षसश्चुम्बनं दाह एव, रक्षसो दाहार्थं शृङ्गे तीक्ष्णीकरोत्विति । यद्वा - णिजेश्शोधनकर्मणः ‘तुमर्थे सेसेनसे’ इति क्सेप्रत्ययः, ‘परादिश्छन्दसि बहुलम्’ इत्युत्तरपदाद्युदात्तत्वम् । सनि वा व्यत्ययेन गुणाभावः । विनाशे बन्धनं विनाशनमेव ॥
-
14तत्रैव याज्या - वि ज्योतिषेति त्रिष्टुप् ॥ इयमपि ‘कृणुष्वपाजः’ इत्यत्र व्याख्याता । इह तु प्रतीकं गृह्यते । अयमग्निर्बृहता ज्योतिषा विभाति विशेषेण भायात् अनेन हविषा ।
किञ्च - विश्वानि महित्वा माहात्म्यानि आविष्कृणुते आविष्कुर्वीत । किञ्च - अदेवीः अदेवनशीला आसुरीर्मायाः दुरेवाः दुष्प्रधर्षाः प्रसहते अभिभवेत् । किञ्च - शृङ्गे शृङ्गस्थानीये आत्मीये प्रधाने ज्वाले शत्रूणां वा हिंसके शिशीते तीक्ष्णीकुर्यात् । किमर्थम्? रक्षसे विनिक्षे रक्षसो विनाशार्थं ज्वालाभ्यां निक्षणं चुम्बनं शोधनं वा विनाशोवेति स एव महानुभावोग्निरनुगमनदोषमुपशमय्यात्मनः परापतितं ज्योतिरवरुन्ध इति ॥ -
12 तत्रैव याज्या - वि ज्योतिषेति त्रिष्टुप् ॥ इयमपि ‘कृणुष्व पाजः’ इत्यत्र व्याख्याता । प्रतीकग्रहणमत्रास्या गृह्यते । अयमग्निः बृहता ज्योतिषा विभाति विविधं भाति, विश्वानि च महित्वा माहात्म्यानि आविष्कृणुते आविष्करोति । अदेवीः अदेवन शीलाश्च दुरेवाः दुःखेन गन्तव्या मायाः प्रसहते प्रकर्षेणाभिभवतु । किं च – शृङ्गे गोशृङ्गस्थानीये ज्वाले शिशीते निशितीकरोति । किमर्थं? रक्षसो विनाशार्थमिति ॥
विश्वास-प्रस्तुतिः
स त्वम॑ग्ने॒ प्रती॑केन॒ प्रत्यो॑ष यातुधा॒न्यः॑ ।
उ॒रु॒ख्षये॑षु॒ दीद्य॑त् ।
मूलम्
स त्वम॑ग्ने॒ प्रती॑केन॒ प्रत्यो॑ष यातुधा॒न्यः॑ ।
उ॒रु॒ख्षये॑षु॒ दीद्य॑त् ।
भट्टभास्कर-टीका
28’अग्नये प्रतीकवते’ इत्यस्य पुरोनुवाक्या - स त्वमिति गायत्री ॥ हे अग्ने स त्वं प्रतीकेन ज्वालाया उपक्रमणमात्रेण प्रत्योषं प्रतिमुखं प्रत्येकं वा यातुधान्यः यातुधानीः यातुधानजातीः क्षयेषु यज्ञगृहेषु । ‘क्षयो निवासे’ इत्याद्युदात्तत्वम् । उरु महत् दीद्यत् जाज्वल्यमानः । दीद्यतिश्छान्दसः । अभ्यस्तसंज्ञिकत्वान्नुमभावः । ‘अभ्यस्तानामादिः’ इत्याद्युदात्तत्वम् ॥
विश्वास-प्रस्तुतिः
तꣳ सु॒प्रती॑कꣳ सु॒दृश॒ꣵ॒ स्वञ्च॒मवि॑द्वाꣳसो वि॒दुष्ट॑रꣳ सपेम ।
स य॑ख्ष॒द्विश्वा॑ व॒युना॑नि वि॒द्वान्प्र ह॒व्यम॒ग्निर॒मृते॑षु वोचत् ।
मूलम्
तꣳ सु॒प्रती॑कꣳ सु॒दृश॒ꣵ॒ स्वञ्च॒मवि॑द्वाꣳसो वि॒दुष्ट॑रꣳ सपेम ।
स य॑ख्ष॒द्विश्वा॑ व॒युना॑नि वि॒द्वान्प्र ह॒व्यम॒ग्निर॒मृते॑षु वोचत् ।
भट्टभास्कर-टीका
29तत्रैव याज्या - तं सुप्रतीकमिति त्रिष्टुप् ॥ तमग्निं सुप्रतीकं शोभनावयवं शोभनोपक्रमं वा । कृदुत्तरपदाद्युदात्तत्वम् । सुदृशं सुष्ठु द्रष्टारं अभिमतानाम् । क्विपि कृदुत्तरपदप्रकृतिस्वरत्वम् । शोभनदृष्टिं वा । ‘नञ्सुभ्याम्’ इत्युत्तरपादान्तोदात्तत्वम् । स्वञ्चं शोभनगतिं विदुष्टरं विद्वत्तमम् । अयस्मयादित्वेन भत्वात् द्वयोरसम्प्रसारणम् । सपेम परिचरेम, भजेम वा । षप समवाये स चाग्निः विश्वानि वयुनानि ज्ञानानि यक्षत् । लेटि ‘सिब्बहुलं लेटि’ इति सिप् । सर्वार्थसाधनो वा यज्ञः, मदीयं च हव्यं अमृतेषु देवेषु प्रवोचत् प्रब्रवीतु । देवसदसि ख्यापयतु वा । छान्दसे लुङि ‘वच उम्’ इति उमागमः । ‘बहुलं छन्दस्यमाङ्योगेऽपि’ इत्यडभावः ॥
विश्वास-प्रस्तुतिः
अ॒ꣳ॒हो॒मुचे॑ वि॒वेष॒ यन्मा॒ वि न॑ इ॒न्द्रेन्द्र॑ ख्ष॒त्रमि॑न्द्रि॒याणि॑ शतक्र॒तोऽनु॑ ते दायि ॥ [74] अ॒ꣳ॒हो॒मुचे॑
मूलम्
अ॒ꣳ॒हो॒मुचे॑ वि॒वेष॒ यन्मा॒ वि न॑ इ॒न्द्रेन्द्र॑ ख्ष॒त्रमि॑न्द्रि॒याणि॑ शतक्र॒तोऽनु॑ ते दायि ॥ [74] अ॒ꣳ॒हो॒मुचे॑
भट्टभास्कर-टीका
30’यो भ्रातृव्यवान् स्यात् स स्पर्धमान एतयेष्ट्या यजेतेन्द्रायांहोमुचे पुरोडाशमेकादशकपालं निर्वपेदिन्द्राय वैमृधायेन्द्रायेन्द्रियावते’ इत्यस्यास्त्रिहविष्कायाः क्रमेण याज्यानुवाक्याः - अंहोमुच इत्याद्याः षडृचः ॥ आसां प्रतीकग्रहणम् । अत्र तृतीयाऽनुष्टुप्, पञ्चमी गायत्री । अन्यास्त्रिष्टुभः । सर्वाश्चैता ‘इन्द्रं वो विश्वतस्परि’ इत्यत्र व्याख्याताः । ‘इन्द्रायांहोमुचे’ इयस्य पुरोनुवाक्या - अंहसां मोचयित्रे इन्द्राय ओषिष्ठदाव्ने दावेन दग्धृतमस्यादित्यस्यापां दापयित्रे, तस्मै वा वृष्ट्यर्थमपां दात्रे सुमतिं शोभनां मनीषां प्रभरेम प्रकर्षेण स्वीकुर्मः । गृणानाः स्तुवन्तो वयम् । त्वं च तया स्तुत्या तुष्टः इदं हव्यं प्रतिगृभाय । हे इन्द्र यजमानस्य कामा मनोरथाः सत्या अमोघा भवन्तु ॥
-
अ॒ꣳ॒हो॒मुचे॒ प्र भ॑रेमा मनी॒षामो॑षिष्ठ॒दाव्न्ने॑ सुम॒तिङ्गृ॑णा॒नाः ।
इ॒दमि॑न्द्र॒ प्रति॑ ह॒व्यङ्गृ॑भाय स॒त्यास्स॑न्तु॒ यज॑मानस्य॒ कामाः᳚ ॥- ‘इन्द्रायांहोमुचे पुरोडाशमेकादशकपालं निर्वपेद्यः पाप्मना गृहीतस्स्यात्’ इत्यस्य पुरोनुवाक्या - अंहोमुच इति त्रिष्टुप् ॥ अंहसः पापाद्विमोक्त्रे, ओषिष्ठदाव्ने दावेनोषिष्ठः दग्धृतमः आदित्यः तस्मै उदकस्य दात्रे, वर्षार्थं वा तस्य दापयित्रे ; यथा - ‘आदित्याज्जायते वृष्टिः’ इति । उष दाहे, तृजन्तात् ‘तुश्छन्दसि’ इतीष्ठन्प्रत्ययः, ‘तुरिष्ठेमेयस्सु’ इति तृशब्दस्य लोपः, ददातेः ‘आतो मनिन्’ इति वनिप्प्रत्ययः ।
हे इन्द्र ईदृशाय तुभ्यं गृणानास्स्तुवन्तः वयं मनीषां बुद्धिं प्रभरेम त्वत्स्तुत्यर्थं प्रकर्षेण स्वीकुर्मः । कीदृशीं ? सुमतिं शोभमानाम् । ‘नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् । त्वां तोषयेमेत्येवंरूपाम् । त्वं च तया स्तुत्या तुष्ट इदं हव्यं प्रतिगृभाय प्रतिगृह्णीष्व । ‘हृग्रहोर्भः’ इति भः, ‘छन्दसि शायजपि’ । यजमानस्य कामा मनोरथाः अंहसो मुच्येयेत्येवमादयः सत्या अमोघा भवन्तु ॥
- ‘इन्द्रायांहोमुचे पुरोडाशमेकादशकपालं निर्वपेद्यः पाप्मना गृहीतस्स्यात्’ इत्यस्य पुरोनुवाक्या - अंहोमुच इति त्रिष्टुप् ॥ अंहसः पापाद्विमोक्त्रे, ओषिष्ठदाव्ने दावेनोषिष्ठः दग्धृतमः आदित्यः तस्मै उदकस्य दात्रे, वर्षार्थं वा तस्य दापयित्रे ; यथा - ‘आदित्याज्जायते वृष्टिः’ इति । उष दाहे, तृजन्तात् ‘तुश्छन्दसि’ इतीष्ठन्प्रत्ययः, ‘तुरिष्ठेमेयस्सु’ इति तृशब्दस्य लोपः, ददातेः ‘आतो मनिन्’ इति वनिप्प्रत्ययः ।
विश्वास-प्रस्तुतिः
वि॒वेष॒ यन्मा॒
मूलम्
वि॒वेष॒ यन्मा॒
भट्टभास्कर-टीका
31अथ याज्या - विवेषेति ॥ यत् यस्मान्मां धिषणा तादृशी बुद्धिः जजान विवेष व्याप्तवती तस्मादहं जजान जातवानस्मि नो चेदजातसम एव स्याम् । धिषणा विशेष्यते - पार्यात् पारेभवादन्त्यादह्नः पुरा पूर्वं यावन्मरणादिन्द्रं स्तवै स्तुत्या तोषयमीति इयं धिषणा मां विवेश । पुनश्च धिषणा विशेष्यते - यस्यां सत्यामंहसः पापात् पीपरत् पारयति उत्तारयति । पुरुषं यथा अंहस उत्तारितानस्मान् उभये उभयकुलप्रभवा अपि हवन्ते आह्वयन्ति मां रक्ष मां रक्षेति नदीमध्ये नावाऽऽयान्तं नाविकं उभयतः स्थिता यथा आह्वयन्ति भो भो मामुत्तारय मामुत्तारयेति ॥
-
वि॒वेष॒ यन्मा॑ धि॒षणा॑ ज॒जान॒ स्तवै॑ पु॒रा पार्या॒दिन्द्र॒मह्नः॑ ।
अꣳह॑सो॒ यत्र॑ पी॒पर॒द्यथा॑ नो ना॒वेव॒ यान्त॑मु॒भये॑ हवन्ते ॥- 10तत्रैव याज्या - विवेषेति त्रिष्टुप् ॥ यद्यस्मान्मां धिषाणा तादृशी बुद्धिः विवेष व्याप्तवती तस्मादहं जजान जातवानस्मि ; नो चेदहमजातसम एव स्याम् । अपदात्परत्वान्न निहन्यते । ‘समानवाक्ये निघातादयः’ इति वचनाज्जजानेति न निहन्यते । का पुनस्सा धिषणेत्याह - पार्यात्पारेभवात् अत्यन्तादह्नो दिवसात् पुरा पूर्वं यावन्मरणदिवसं इन्द्रं स्तवै स्तुत्या तोषयामीतीयं धिषणा जजान ममोदपादि, अतो जातवानस्मि ।
पुनश्च धिषणा विशेष्यते - यत्र यस्यां धिषणायां सत्यां इन्द्र अंहसः पापात् पीपरत्पारयति उत्तारयति पुरुषम् । पार तीर कर्मसमाप्तौ, छान्दसो लुङ्, ‘चङ्यन्यतरस्याम्’ इत्युत्तरपदान्तोदात्तत्वम् । यद्वा - यत्राह्नि अस्मानिन्द्रोंहसः पारयति उत्तारयति तत्पार्यमहरिति निर्वचनं क्रियते । आ तत इन्द्रं स्तवै, यावदंहोविमोचनमित्यर्थः । अथ प्रारतरणं विशेष्यते - यथा अंहस उत्तारितानस्मानुभये उभयकुलप्रभवा अपि हवन्ते आह्वयन्ति आत्मरक्षार्थं मां रक्ष मां रक्षेति । यथेति निपातो यद्वृत्तप्रतिरूपकः ।
यथा गणकाराः - ‘मात्रायां वेळायां यथा पुरा हो अहो अथो मनो’ इति । तेनाख्यातं निहन्यते । यथा नदीमध्ये नावा यान्तमुभयतस्स्थिता आह्वयन्ति भो मामुत्तारय मामुत्तारयेति, तथांहस उत्तारिणी धिषणा बुद्धिर्मां विवेष व्याप्ता भवतु, अतो जजानाहमिति । तस्मात्तादृशधिषणं मामिन्द्रोंहसो मुञ्चत्विति ॥
- 10तत्रैव याज्या - विवेषेति त्रिष्टुप् ॥ यद्यस्मान्मां धिषाणा तादृशी बुद्धिः विवेष व्याप्तवती तस्मादहं जजान जातवानस्मि ; नो चेदहमजातसम एव स्याम् । अपदात्परत्वान्न निहन्यते । ‘समानवाक्ये निघातादयः’ इति वचनाज्जजानेति न निहन्यते । का पुनस्सा धिषणेत्याह - पार्यात्पारेभवात् अत्यन्तादह्नो दिवसात् पुरा पूर्वं यावन्मरणदिवसं इन्द्रं स्तवै स्तुत्या तोषयामीतीयं धिषणा जजान ममोदपादि, अतो जातवानस्मि ।
विश्वास-प्रस्तुतिः
वि न॑ इ॒न्द्र
मूलम्
वि न॑ इ॒न्द्र
भट्टभास्कर-टीका
32अथ ‘इन्द्राय वैमृधाय’ इत्यस्य पुरोऽनुवाक्या - वि न इन्द्रेति ॥ हे इन्द्र नः अस्माकं मृधः योद्धॄन् विजहि विविधं मारय । किञ्च - पृतन्यतः सङ्ग्रामं कर्तुमिच्छतः पुरुषान्नीचान्न्यग्भूतान् यच्छ उपरमय । किंच - योऽस्मानभिदासति उपक्षपयति तमधस्पदमेव कृधि अस्मत्पादयोः पतितं प्रणतं पतितशिरस्कं कुरु ॥
-
वि न॑ इन्द्र॒ मृधो॑ जहि नी॒चा य॑च्छ पृतन्य॒तः ।
अ॒ध॒स्प॒दन्तमी᳚ङ्कृधि॒ यो अ॒स्माꣳ अ॑भि॒दास॑ति ॥- 12इन्द्राय वैमृधाय पुरोडाशमेकादशकपालं निर्वपेद्यम्मृधोभि प्रवेपेरन्राष्ट्राणि वाभि समियुरिन्द्रमेव वैमृधम्’ इत्यस्य पुरोनुवाक्या - वि न इन्द्रेत्यनुष्टुप् ॥ हे इन्द्र नोस्माकं मृधः योद्धॄन् अस्माभिर्युद्ध्यमानान् विजहि विविधं मारय ।
किञ्च – पृतन्यतस्सङ्ग्रामं कर्तुमिच्छतः पुरुषान् नीचान् न्यग्भूतान् यच्छ उपरमय मारयेति यावत् । न्यक्शब्दाद्द्वितीयाबहुवचनस्य स्थाने व्यत्ययेन तृतीयैकवचनम्, ‘अञ्चेश्छन्दस्यसर्वनामस्थानम्’ इति तस्या उदात्तत्वम् । पृतनायाः क्यचि ‘कव्यध्वरपृतनस्य’ इति लोपः, ‘शतुरनुमः’ इति शस उदात्तत्वम् ।
किञ्च - योस्मानभिदासति अभिदासयति उपक्षयति । दसु उपक्षये, ण्यन्ताल्लेट्, ‘छन्दस्युभयथा’ इति शप आर्धधातुकत्वाण्णिलोपः, उदात्तनिवृत्तिस्वरो व्यत्ययेन न प्रवर्तते । तमुपक्षयकारीणमधस्पदमेव कृधि कुरु । ईमित्यवधारणे । अस्मत्पादयोरधः प्रणिपतितशिरस्कं कुर्विति यावत् । ‘बहुलं छन्दसि’ इति शपो लुक्’, श्रुशृणुपॄकृवृभ्यश्छन्दसि’ इति धिभावः । ‘अधश्शिरसी पदे’ इत्यधश्शब्दस्य संहितायां सत्वम् ॥
- 12इन्द्राय वैमृधाय पुरोडाशमेकादशकपालं निर्वपेद्यम्मृधोभि प्रवेपेरन्राष्ट्राणि वाभि समियुरिन्द्रमेव वैमृधम्’ इत्यस्य पुरोनुवाक्या - वि न इन्द्रेत्यनुष्टुप् ॥ हे इन्द्र नोस्माकं मृधः योद्धॄन् अस्माभिर्युद्ध्यमानान् विजहि विविधं मारय ।
विश्वास-प्रस्तुतिः
इन्द्र॑ ख्ष॒त्र
मूलम्
इन्द्र॑ ख्ष॒त्र
भट्टभास्कर-टीका
33तत्रैव याज्या - इन्द्रेति ॥ हे इन्द्र वामं वननीयं क्षत्रमोजः अभ्यजायथाः अभिलक्ष्य जातो हे चर्षणीनां मनुष्याणां वृषभ कामानां वर्षितः तादृशस्त्वमस्मांश्चामित्रयन्तं शत्रुभावमिच्छन्तं जनं अपानुदः । किंच – देवेभ्यो हविःप्रदानादिव्यवहारिभ्यो यजमानेभ्यः - उरुं विस्तीर्णं लोकं स्थानं अकृणोः कुरु । उ इत्यवधारणे ॥
-
इन्द्र॑ ख्ष॒त्त्रम॒भि वा॒ममोजोऽजा॑यथा वृषभ चर्षणी॒नाम् ।
अपा॑नुदो॒ जन॑ममित्र॒यन्त॑मु॒रुन्दे॒वेभ्यो॑ अकृणोरु लो॒कम् ॥- 13तत्रैव याज्या - इन्द्र क्षत्रमिति त्रिष्टुप् ॥ हे इन्द्र वामं वननीयं क्षत्रं क्षत्रियस्य भावं धनं वा ओजो बलं चाभ्यजायथाः अभिलक्ष्य जातोसि । वरिष्ठेन क्षत्रादिना लक्ष्यमाणजनन इत्यर्थः । चर्षणीनां मनुष्याणां वृषभ कामानां वर्षितः अभिमतस्य दातरित्यर्थः । पूर्ववन्नाम उदात्तत्वम् । एवं सामर्थ्यमुपकारतस्स्वभावतश्च प्रतिपाद्य इदानीं स्वाभिमतं प्रार्थयते - तादृशस्त्वमस्मास्वमित्रयन्तं शत्रुभावमिच्छन्तं जनमपानुदः अपनुद अपकृष्यनाशय । छान्दसो लङ् ।
किञ्च – देवेभ्यो हविःप्रदानादिव्यवहारिभ्य उरुं विस्तीर्णं लोकं स्थानमकृणोः कुरु । छान्दसो लङ्, ‘धिन्विकृण्व्योरच’ इत्युप्रत्ययः । उ इति पादपूरणे अवधारणे वा । देवेभ्य इति षष्ठ्यर्थे वा चतुर्थी । देवानां विस्तीर्णं लोकमस्मभ्यं देहीति ॥
- 13तत्रैव याज्या - इन्द्र क्षत्रमिति त्रिष्टुप् ॥ हे इन्द्र वामं वननीयं क्षत्रं क्षत्रियस्य भावं धनं वा ओजो बलं चाभ्यजायथाः अभिलक्ष्य जातोसि । वरिष्ठेन क्षत्रादिना लक्ष्यमाणजनन इत्यर्थः । चर्षणीनां मनुष्याणां वृषभ कामानां वर्षितः अभिमतस्य दातरित्यर्थः । पूर्ववन्नाम उदात्तत्वम् । एवं सामर्थ्यमुपकारतस्स्वभावतश्च प्रतिपाद्य इदानीं स्वाभिमतं प्रार्थयते - तादृशस्त्वमस्मास्वमित्रयन्तं शत्रुभावमिच्छन्तं जनमपानुदः अपनुद अपकृष्यनाशय । छान्दसो लङ् ।
विश्वास-प्रस्तुतिः
इन्द्रि॒याणि॑ शतक्र॒तो
मूलम्
इन्द्रि॒याणि॑ शतक्र॒तो
भट्टभास्कर-टीका
34अथ ‘इन्द्रायेन्द्रियावते’ इत्यस्य पुरोनुवाक्या - इन्द्रियाणीति ॥ हे इन्द्र शतक्रतो यानि तव इद्रियाणि वीर्याणि पञ्चसु जनेषु निषादपञ्चमेषु ब्राह्मणादिषु देवमनुष्यपितृरक्षोगन्धर्वेषु वा त्वया दत्तानि तिष्ठन्ति तान्यहमावृणे आभिमुख्येन याचे । तव प्रसादान्मदभिमतान्यपि साधयन्त्विति ॥
- इ॒न्द्रि॒याणि॑ शतक्रतो॒ या ते॒ जने॑षु प॒ञ्चसु॑ ।
इन्द्र॒ तानि॑ त॒ आ वृ॑णे ॥- ‘इन्द्रायेन्द्रियावते पुरोडाशमेकादशकपालं निर्वपेत्’ इत्यस्य पुरोनुवाक्या - इन्द्रियाणीति गायत्री ॥ हे इन्द्र शतक्रतो या यानि ते तवेन्द्रियाणि वीर्याणि पञ्चसु जनेषु निषादपञ्चमेषु ब्राह्मणादिषु देवमनुष्यपितृरक्षोगन्धर्वेषु वा त्वया दत्तानि तिष्ठन्ति । यद्वा - पञ्चसु जनेषु निमित्तभूतेषु पञ्चजनपरिपालनार्थानि यानि तव वीर्याणि त्वयि तिष्ठन्ति तान्यहमावृणे आभिमुख्येन याचे ते तवैव प्रसादान्मदभिमतान्यपि साधयन्त्विति प्रार्थये । त्वं च तथानुज्ञातुमर्हसि, यथाहं पशुमान्त्स्यामिति । यद्वा - मय्यपि तानि वीर्याणि सन्त्विति याचे, त्वं च तानि देहि । ‘स एवास्मा इन्द्रियं पशून्प्र यच्छति पशुमानेव भवति’ इति ब्राह्मणम् ॥
विश्वास-प्रस्तुतिः
अनु॑ ते दायि .. ॥ [74]
मूलम्
अनु॑ ते दायि .. ॥ [74]
भट्टभास्कर-टीका
35अथ याज्या - अनु त इति ॥ हे इन्द्र यजत्र यष्टव्य ते तुभ्यं दायि दीयते । देवेभिः ऋत्विग्भिः सामर्थ्याद्धविः कृत्स्नमपि तुभ्यमेव दीयते त्वत्प्रधानत्वाद्देवानाम् । यद्वा - तुभ्यमेव दायि दीयतां सत्त्रेषु सर्तव्येषु यज्ञेषु सर्वैरपि । देवान्तरेभ्य इन्द्रस्य विशेषानाचष्टे - महे महते इन्द्रियाय वीर्याय महता इन्द्रियेण तद्वानयमिति कृत्वा । अनुवृत्रहत्ये वृत्रं हतवानयमिति कृत्वा । अनुक्षत्रं धनवानयमिति कृत्वा । अनुसहं बलवानयमिति कृत्वा । नृषह्ये सर्वेषां नृणामभिभवितेति कृत्वा । सर्वत्र लक्षणे अनोः कर्मप्रवचनीयत्वम् ॥
-
अनु॑ ते दायि म॒ह इ॑न्द्रि॒याय॑ स॒त्रा ते॒ विश्व॒मनु॑ वृत्र॒हत्ये᳚ ।
अनु॑ [46] ख्ष॒त्त्रमनु॒ सहो॑ यज॒त्रेन्द्र॑ दे॒वेभि॒रनु॑ ते नृ॒षह्ये᳚ ॥- 4तत्रैव याज्या - अनु त इति त्रिष्टुप् ॥ हे इन्द्र यजत्र यष्टव्य । यजेरत्रः । ते तुभं दायि दीयते देवेभिः ऋत्विग्भिः ; सामर्थ्याद्धविरिति गम्यते । विश्वं कृत्स्नमपि तुभ्यमेव दीयते, त्वत्प्रधानत्वाद्देवानाम् । यद्वा - विश्वं हविस्तुभ्यमेव दीयतां किमन्यैर्देवैः । छान्दसो लुङ् । ‘अमाङ्योगेपि’ इत्यडभावश्छान्दसः । सत्रा सत्रेषु सर्तव्येषु यज्ञेषु सर्वेष्वपि । सप्तम्या आकारः । देवतान्तरेभ्य इन्द्रस्य विशेषानाचष्टे - महे महते इन्द्रियाय वीर्याय अनु । द्वितीयार्थे चतुर्थी । महदिन्द्रियहेतुभावमनुशब्दो द्योतयति । महतेन्द्रियेण तद्वानयमिति कृत्वा तुभ्यमेव दीयते । अनु वृत्रहत्ये वृत्रहत्याम् । ‘सुपां सुलुक्’ इति द्वितयीया एकारः । वृत्रं हतवानयमिति कृत्वा । क्षत्रं धनं, धनवानिति कृत्वा । सहो बलं, बलवानिति कृत्वा । अनु नृषह्ये, नृषह्यं नॄणां शत्रूणामभिभवितृत्वम्, सर्वेषां नॄणामयमभिभवितेति कृत्वा । ‘शकिसहोश्च’ इति भावे यत्, पूर्ववद्वितीयाया एकारः, सुषामादित्वात्षत्वम् ॥
इति श्रीभट्टभास्करमिश्रविरचिते ज्ञानयज्ञाख्ये यजुर्वेदभाष्ये द्वितीये काण्डे पञ्चमे प्रश्ने द्वादशोनुवाकः ॥
समाप्तश्च प्रपाठकः ॥