सामिधेनीषु होतुर्निमयमविशेषः, २-२५ आध्वर्यव आघारश्च
प्रजापतिऋषिः ।
मूलम् (संयुक्तम्)
निवी॑तम्मनु॒ष्या॑णाम्प्राचीनावी॒तम्पि॑तृ॒णामुप॑वीतन्दे॒वाना॒मुप॑ व्ययते देवल॒ख्ष्ममे॒व तत्कु॑रुते॒ तिष्ठ॒न्नन्वा॑ह
विश्वास-प्रस्तुतिः
निवी॑तम्मनु॒ष्या॑णाम्,
प्रा॒ची॒ना॒वी॒तम्पि॑तृ॒णाम् ।
उप॑वीतन्दे॒वाना॒मुप॑ व्ययते ।
मूलम्
निवी॑तम्मनु॒ष्या॑णाम्,
प्रा॒ची॒ना॒वी॒तम्पि॑तृ॒णाम् ।
उप॑वीतन्दे॒वाना॒मुप॑ व्ययते ।
भट्टभास्कर-टीका
1निवीतमित्यादि ॥ स्वाध्यायविधावुपवीतादीनां लक्षणं भविष्यति । अत्र तु तत एव प्राप्तत्वादर्थवादः । उक्तञ्च ‘निवीतमिति मनुष्यधर्मः शब्दस्य तत्प्रधानत्वात्’ इत्यत्र । उभावपि बाहू न्यग्भूतौ वीयेते तन्निवीतं मनुष्याणां स्वं मनुष्यकार्येषु प्रशस्तम् । प्राचीनो दक्षिणो बाहुरावीयते अधस्तात् क्रियते यत्र तत् प्राचीनावीतं पितृकर्मणि प्रशस्तम् । यज्ञसाधनभूतो दक्षिणो बाहुरुपवीतं समन्ताच्छाद्यते यत्र तद्यज्ञोपवीतम् । यथोक्तं - ‘दक्षिणं बाहुमुद्धरतेऽव धत्ते सव्यमिति’ इति । तत्र ‘सत्यभामा’ ‘भामा’ इतिवत् पदैकदेशो लुप्यते । गतार्थत्वादप्रयोगो लोपः । एतद्देवकर्मणि प्रशस्तम् । तस्माद्धोता सामिधेनीरनुब्रुवन् उपव्ययते उपवीतं करोति ।
विश्वास-प्रस्तुतिः
दे॒व॒ल॒ख्ष्ममे॒व तत्कु॑रुते॒ तिष्ठ॒न्नन्वा॑ह ।
मूलम्
दे॒व॒ल॒ख्ष्ममे॒व तत्कु॑रुते॒ तिष्ठ॒न्नन्वा॑ह ।
भट्टभास्कर-टीका
देवानामेव तेन लक्षणं कृतं भवति । ‘अनसन्तान्नपुंसकात्’ इत्यच्समासान्तः ॥
मूलम् (संयुक्तम्)
तिष्ठ॒न्न्॒ ह्याश्रु॑ततर॒व्ँवद॑ति॒ तिष्ठ॒न्नन्वा॑ह सुव॒र्गस्य॑ लो॒कस्या॒भिजि॑त्या॒ आसी॑नो यजत्य॒स्मिन्ने॒व लो॒के प्रति॑ तिष्ठति
विश्वास-प्रस्तुतिः
तिष्ठ॒न्न्॒ ह्याश्रु॑ततर॒व्ँवद॑ति॒ तिष्ठ॒न्नन्वा॑ह ।
मूलम्
तिष्ठ॒न्न्॒ ह्याश्रु॑ततर॒व्ँवद॑ति॒ तिष्ठ॒न्नन्वा॑ह ।
भट्टभास्कर-टीका
2तिष्ठन्नित्यादि ॥ लोके हि योऽतिशयेत आश्रोतुं भवती प्रतिश्रुतमिच्छति स तिष्ठन् वदन् दृश्यते । तस्मात्तिष्ठन्नब्रूयात् ।
विश्वास-प्रस्तुतिः
सु॒व॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै ।
आसी॑नो यजति ।
अ॒स्मिन्ने॒व लो॒के प्रति॑ तिष्ठति ।
मूलम्
सु॒व॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै ।
आसी॑नो यजति ।
अ॒स्मिन्ने॒व लो॒के प्रति॑ तिष्ठति ।
भट्टभास्कर-टीका
किञ्च - सुवर्गस्य लोकस्याभिजयाय भवति, प्रत्यासत्त्या, आभिमुख्याद्वा । आसित्वा यागे अस्मिन् लोके प्रतिष्ठित्यै भवति, एतल्लोकप्रत्यासत्या अविचलत्वाच्च ॥
मूलम् (संयुक्तम्)
यत्क्रौ॒ञ्चम॒न्वाहा॑सु॒रन्तद्यन्म॒न्द्रम्मा॑नु॒षन्तद्यद॑न्त॒रा तथ्सदे॑वमन्त॒रानूच्यꣳ॑ सदेव॒त्वाय॑
विश्वास-प्रस्तुतिः
यत्क्रौ॒ञ्चम॒न्वाह, अ॑सु॒रन्तत् ।
यन्म॒न्द्रम्मा॑नु॒षन्तत् ।
यद॑न्त॒रा तथ्सदे॑वमन्त॒रानूच्यꣳ॑ सदेव॒त्वाय॑ ।
मूलम्
यत्क्रौ॒ञ्चम॒न्वाह, अ॑सु॒रन्तत् ।
यन्म॒न्द्रम्मा॑नु॒षन्तत् ।
यद॑न्त॒रा तथ्सदे॑वमन्त॒रानूच्यꣳ॑ सदेव॒त्वाय॑ ।
भट्टभास्कर-टीका
3क्रौञ्चम् ॥ क्रौञ्चमिव स्वरः शुष्कः मन्द्रः गभीरः तद्द्वयोरन्तरा मध्यमस्वरोऽभिधीयते । सदेवं देवसहितं तस्मान्मन्द्रक्रौञ्चयोरन्तरा मध्ये अनूच्यं मध्यस्थेन स्वरेणानुब्रुयात् । छान्दसः क्यच् ॥
मूलम् (संयुक्तम्)
वि॒द्वाꣳसो॒ वै [61] पु॒रा होता॑रोऽभूव॒न्तस्मा॒द्विधृ॑ता॒ अध्वा॒नोऽभू॑व॒न्न पन्था॑न॒स्सम॑रुख्षन्नन्तर्वे॒द्य॑न्यᳶ पादो॒ भव॑ति बहिर्वे॒द्य॑न्यः
विश्वास-प्रस्तुतिः
वि॒द्वाꣳसो॒ वै पु॒रा होता॑रोऽभूवन् ।
तस्मा॒द्विधृ॑ता॒ अध्वा॒नोऽभू॑वन् ।
मूलम्
वि॒द्वाꣳसो॒ वै पु॒रा होता॑रोऽभूवन् ।
तस्मा॒द्विधृ॑ता॒ अध्वा॒नोऽभू॑वन् ।
भट्टभास्कर-टीका
4विद्वांस इत्यादि ॥ पूर्वं विद्वांसः अध्वरज्ञा होतारोऽभूवन् ।
विश्वास-प्रस्तुतिः
न पन्था॑न॒स्सम॑रुख्षन् ।
मूलम्
न पन्था॑न॒स्सम॑रुख्षन् ।
भट्टभास्कर-टीका
समरुक्षन् अन्योन्यं समारूढा नाभूवन् । ‘शल इगुपधादनिटः क्सः’ ।
विश्वास-प्रस्तुतिः
अ॒न्त॒र्वे॒द्य॑न्यᳶ पादो॒ भव॑ति ।
ब॒हि॒र्वे॒द्य॑न्यः +++(पादो भवति)+++ ।
मूलम्
अ॒न्त॒र्वे॒द्य॑न्यᳶ पादो॒ भव॑ति ।
ब॒हि॒र्वे॒द्य॑न्यः +++(पादो भवति)+++ ।
भट्टभास्कर-टीका
तत्कथमिदानीं तैर्होत्रादिभिः कर्तव्यमित्याह – अन्तर्वेदीत्यादि । अन्तर्वेदि दक्षिणतः पादोऽवस्थाप्यः, इतरो बहिर्वेदि नातिदूरेऽवस्थाप्यः । अथानन्तरमेवमवस्थापितपादद्वयोऽनुब्रूयात्; अध्वनामसङ्कीर्णत्वाय असंरोहाय च भवति । अन्यः पन्थाः अन्यस्मिन् समारूढो न भवति । मार्गमोहश्च न भवतीत्यर्थः ॥
मूलम् (संयुक्तम्)
अथान्वा॒हाध्व॑ना॒व्ँविधृ॑त्यै प॒थामसꣳ॑रोहा॒याथो॑ भू॒तञ्चै॒व भ॑वि॒ष्यच्चाव॑ रु॒न्द्धेऽथो॒ परि॑मितञ्चै॒वाप॑रिमित॒ञ्चाव॑ रु॒न्द्धेऽथो᳚ ग्रा॒म्याꣳश्चै॒व प॒शूना॑र॒ण्याꣳश्चाव॑ रु॒न्द्धेऽथो᳚ [62] दे॒व॒लो॒कञ्चै॒व म॑नुष्यलो॒कञ्चा॒भि ज॑यति
विश्वास-प्रस्तुतिः
अथान्वा॒हाध्व॑ना॒व्ँविधृ॑त्यै प॒थामसꣳ॑रोह ।
अथो॑ भू॒तञ्चै॒व भ॑वि॒ष्यच्चाव॑ रुन्द्धे ।
मूलम्
अथान्वा॒हाध्व॑ना॒व्ँविधृ॑त्यै प॒थामसꣳ॑रोह ।
अथो॑ भू॒तञ्चै॒व भ॑वि॒ष्यच्चाव॑ रुन्द्धे ।
भट्टभास्कर-टीका
5अथो इत्यादि ॥ अन्तर्वेदि भूतं इष्टसाधनत्वेन परिनिष्पन्नत्वात्, बहिर्वेदि भविष्यत् अतथाभावात् ।
विश्वास-प्रस्तुतिः
अथो॒ परि॑मितञ्चै॒वाप॑रिमित॒ञ्चाव॑ रुन्द्धे ।
मूलम्
अथो॒ परि॑मितञ्चै॒वाप॑रिमित॒ञ्चाव॑ रुन्द्धे ।
भट्टभास्कर-टीका
अन्तर्वेदि परिमितं इतरदपरिमितम् ।
विश्वास-प्रस्तुतिः
अथो᳚ ग्रा॒म्याꣳश्चै॒व प॒शूना॑र॒ण्याꣳश्चाव॑ रुन्द्धे ।
मूलम्
अथो᳚ ग्रा॒म्याꣳश्चै॒व प॒शूना॑र॒ण्याꣳश्चाव॑ रुन्द्धे ।
भट्टभास्कर-टीका
अन्तर्वेदि ग्राम्याः पशवो यज्ञसाधनत्वात् । बहिरारण्याः विपर्ययत्वात् । अत्र गोश्वाजाविपुरुषगर्दभोष्ट्रा ग्राम्याः पशवः । द्विखुरश्वापदपक्षिसरीसृपहस्तिमर्कटनादेया आरण्याः ।
विश्वास-प्रस्तुतिः
अथो᳚ देवलो॒कञ्चै॒व म॑नुष्यलो॒कञ्चा॒भि ज॑यति ।
मूलम्
अथो᳚ देवलो॒कञ्चै॒व म॑नुष्यलो॒कञ्चा॒भि ज॑यति ।
भट्टभास्कर-टीका
अन्तर्वेदि देवलोकः । बहिर्वेदि अन्यः ॥
प्राजापत्यं काण्डम्
मूलम् (संयुक्तम्)
दे॒वा वै सा॑मिधे॒नीर॒नूच्य॑ य॒ज्ञन्नान्व॑पश्य॒न्थ्स प्र॒जाप॑तिस्तू॒ष्णीमा॑घा॒रमाघा॑रय॒त्ततो॒ वै दे॒वा य॒ज्ञमन्व॑पश्य॒न्यत्तू॒ष्णीमा॑घा॒रमा॑घा॒रय॑ति य॒ज्ञस्यानु॑ख्यात्यै
विश्वास-प्रस्तुतिः
दे॒वा वै सा॑मिधे॒नीर॒नूच्य॑ य॒ज्ञन्नान्व॑पश्यन् ।
मूलम्
दे॒वा वै सा॑मिधे॒नीर॒नूच्य॑ य॒ज्ञन्नान्व॑पश्यन् ।
भट्टभास्कर-टीका
6देवा वै सामिधेनीरनूच्येत्यादि ॥ समाप्तं हौत्रम् । अतःपरं दार्शपौर्णमासिकमाध्वर्यवं प्राजापत्यमेव काण्डम् । सामिधेन्यनुवचनानन्तरं यज्ञप्रयोगं देवा नान्वपश्यन् अनन्तरं कर्तव्यं नाजानन् ।
विश्वास-प्रस्तुतिः
स प्र॒जाप॑तिस्तू॒ष्णीमा॑घा॒रमाघा॑रयत् ।
ततो॒ वै दे॒वा य॒ज्ञमन्व॑पश्यन् ।
मूलम्
स प्र॒जाप॑तिस्तू॒ष्णीमा॑घा॒रमाघा॑रयत् ।
ततो॒ वै दे॒वा य॒ज्ञमन्व॑पश्यन् ।
भट्टभास्कर-टीका
स इत्यादि । प्रजापतिरुत्तरं परिधिसन्धिं अन्ववहृत्य दक्षिणाप्राञ्चमाघारं तूष्णीमाघारयत् आज्यमक्षारयत् ।
विश्वास-प्रस्तुतिः
यत्तू॒ष्णीमा॑घा॒रमा॑घा॒रय॑ति य॒ज्ञस्यानु॑ख्यात्यै ।
मूलम्
यत्तू॒ष्णीमा॑घा॒रमा॑घा॒रय॑ति य॒ज्ञस्यानु॑ख्यात्यै ।
भट्टभास्कर-टीका
यज्ञस्यानुक्रमेण ख्यात्यै भवति ॥
मूलम् (संयुक्तम्)
अथो॑ सामिधे॒नीरे॒वाभ्य॑न॒क्त्यलू᳚ख्षो भवति॒ य ए॒वव्ँवेदाथो॑ त॒र्पय॑त्ये॒वैना॒स्तृप्य॑ति प्र॒जया॑ प॒शुभिः॑ [63] य ए॒वव्ँवेद
विश्वास-प्रस्तुतिः
अथो॑ सामिधे॒नीरे॒वाभ्य॑नक्ति।
मूलम्
अथो॑ सामिधे॒नीरे॒वाभ्य॑नक्ति।
भट्टभास्कर-टीका
7अथो इत्यादि ॥ सामिधेनीभिर्हुतानां समिधामियमभ्यक्तिः क्रियते अञ्जनस्थानीयत्वात् । यथोक्तम् - ‘अभ्यञ्जनं वाव स्त्रिया अन्नम्’ इति ।
विश्वास-प्रस्तुतिः
अलू᳚ख्षो भवति ।
य ए॒वव्ँवेद॑ ।
मूलम्
अलू᳚ख्षो भवति ।
य ए॒वव्ँवेद॑ ।
भट्टभास्कर-टीका
एवं विद्वानलूक्षो भवति । लूक्षो दुर्गतः । लुब्ध इत्येके ।अभ्यञ्जनादिसमृद्धो भवति ।
विश्वास-प्रस्तुतिः
अथो॑ त॒र्पय॑त्ये॒वैनाः᳚ ।
तृप्य॑ति प्र॒जया॑ प॒शुभिः॑ ।
य ए॒वव्ँवेद॑ ।
मूलम्
अथो॑ त॒र्पय॑त्ये॒वैनाः᳚ ।
तृप्य॑ति प्र॒जया॑ प॒शुभिः॑ ।
य ए॒वव्ँवेद॑ ।
भट्टभास्कर-टीका
तर्पयत्येवेति । अग्नौ प्रक्षेपं विस्मृत्य यथातृप्ता एव भवन्ति तथा करोत्यनेन ॥
मूलम् (संयुक्तम्)
यदेक॑याघा॒रये॒देका᳚म्प्रीणीया॒द्यद्द्वाभ्या॒न्द्वे प्री॑णीया॒द्यत्ति॒सृभि॒रति॒ तद्रे॑चये॒न्मन॒सा घा॑रयति॒ मन॑सा॒ ह्यना᳚प्तमा॒प्यते
विश्वास-प्रस्तुतिः
यदेक॑याघा॒रये॒देका᳚म्प्रीणीयात् ।
मूलम्
यदेक॑याघा॒रये॒देका᳚म्प्रीणीयात् ।
भट्टभास्कर-टीका
8यदेकयेत्यादि ॥ यद्येकया वाचा मन्त्रात्मिकया आघारयेत् एकामेव सामिधेनीं प्रीणीयात् ।
विश्वास-प्रस्तुतिः
यद्द्वाभ्या॒न्द्वे प्री॑णीयात् ।
मूलम्
यद्द्वाभ्या॒न्द्वे प्री॑णीयात् ।
भट्टभास्कर-टीका
द्वाभ्यां द्वे ।
विश्वास-प्रस्तुतिः
यत्ति॒सृभि॒रति॒ तद्रे॑चयेत् ।
मूलम्
यत्ति॒सृभि॒रति॒ तद्रे॑चयेत् ।
भट्टभास्कर-टीका
यदिति । तिसृभिस्तदतिरेचयेत् । आघारमात्रं तिसृभिः क्रियते इत्यतिरेकोयम् ।
विश्वास-प्रस्तुतिः
मन॒सा घा॑रयति॒ मन॑सा॒ ह्यना᳚प्तमा॒प्यते ।
मूलम्
मन॒सा घा॑रयति॒ मन॑सा॒ ह्यना᳚प्तमा॒प्यते ।
भट्टभास्कर-टीका
तस्माद्गत्यभावात् मनसा तूष्णीं आघारयति । एवं ह्यनाप्तं आप्तुमयोग्यं ह्याप्तं भवति ॥
विश्वास-प्रस्तुतिः
ति॒र्यञ्च॒मा घा॑रय॒त्यछ॑म्बट्कारम् ।
मूलम्
ति॒र्यञ्च॒मा घा॑रय॒त्यछ॑म्बट्कारम् ।
भट्टभास्कर-टीका
9तिर्यञ्चमिति ॥ सर्वगतिको दण्डवत् धारकत्वात् तिरश्चीनआघारोग्नेरनार्तत्वाय भवति ॥
मूलम् (संयुक्तम्)
वाक्च॒ मन॑श्चार्तीयेताम॒हन्दे॒वेभ्यो॑ ह॒व्यव्ँव॑हा॒मीति॒ वाग॑ब्रवीद॒हन्दे॒वेभ्य॒ इति॒ मन॒स्तौ प्र॒जाप॑तिम्प्र॒श्ञमै॑ताम्
विश्वास-प्रस्तुतिः
वाक्च॒ मन॑श्चार्तीयेताम् ।
मूलम्
वाक्च॒ मन॑श्चार्तीयेताम् ।
भट्टभास्कर-टीका
10वाक्चेत्यादि ॥ ऋतिस्सौत्रो धातुः घृणायां वर्तते । तस्माल्लुङ्, ‘ऋतेरीयङ्’ ‘आडजदीनाम्’ । वाक्च मनश्च देवेषु आर्तीयेतां आदरातिशयमकुरुताम् ।
विश्वास-प्रस्तुतिः
अहन्दे॒वेभ्यो॑ ह॒व्यव्ँव॑हा॒मीति॒ वाग॑ब्रवीत् ।
मूलम्
अहन्दे॒वेभ्यो॑ ह॒व्यव्ँव॑हा॒मीति॒ वाग॑ब्रवीत् ।
भट्टभास्कर-टीका
अहमेव देवभेयो हव्यं वहानीति वागब्रवीत् ।
विश्वास-प्रस्तुतिः
अ॒हन्दे॒वेभ्य॒ इति॒ मनः॑ ।
मूलम्
अ॒हन्दे॒वेभ्य॒ इति॒ मनः॑ ।
भट्टभास्कर-टीका
मनश्चाहमेव वहानीत्यब्रवीत् ।
विश्वास-प्रस्तुतिः
तौ प्र॒जाप॑तिम्प्र॒श्ञमै॑ताम् ।
मूलम्
तौ प्र॒जाप॑तिम्प्र॒श्ञमै॑ताम् ।
भट्टभास्कर-टीका
अथ तौ तथा श्रद्धातिशयेन विप्रतिपद्यमानौ वाङ्मनसाख्यौ पदार्थौ पुत्रौ वा प्रजापतेः । लिङ्गव्यत्ययेन वा ‘नपुंसकमनपुंसकेन’ इति बाध्यते । प्रजापतिं प्रश्नमैतां प्रष्टव्यत्वेनागच्छताम् ॥
मूलम् (संयुक्तम्)
सो᳚ऽब्रवीत् [64] प्र॒जाप॑तिर्दू॒तीरे॒व त्वम्मन॑सोऽसि॒ यद्धि मन॑सा॒ ध्याय॑ति॒ तद्वा॒चा वद॒तीति॒ तत्खलु॒ तुभ्य॒न्न वा॒चा जु॑हव॒न्नित्य॑ब्रवी॒त्तस्मा॒न्मन॑सा प्र॒जाप॑तये जुह्वति॒ मन॑ इव॒ हि प्र॒जाप॑तिᳶ प्र॒जाप॑ते॒राप्त्यै॑
विश्वास-प्रस्तुतिः
सो᳚ऽब्रवीत् प्र॒जाप॑तिः ।
दू॒तीरे॒व त्वम्मन॑सोऽसि ।
यद्धि मन॑सा॒ ध्याय॑ति॒ तद्वा॒चा वद॒तीति॑ ।
मूलम्
सो᳚ऽब्रवीत् प्र॒जाप॑तिः ।
दू॒तीरे॒व त्वम्मन॑सोऽसि ।
यद्धि मन॑सा॒ ध्याय॑ति॒ तद्वा॒चा वद॒तीति॑ ।
भट्टभास्कर-टीका
11सोब्रवीदित्यादि ॥ ‘सुपां सुलुक्’ इति हल्ङ्यादिलोपापवादः स्वादेशः । वाचमब्रवीत् प्रजापतिः - मनस्याध्यातस्य बहिःख्यापयित्रीति दूतस्थानीयैव त्वमसि । तस्मान्मन एव हविर्वोढुमर्हतीति ।
विश्वास-प्रस्तुतिः
तत्खलु॒ तुभ्य॒न्न वा॒चा जु॑हव॒न्नित्य॑ब्रवीत् । तस्मा॒न्मन॑सा प्र॒जाप॑तये जुह्वति ।
मूलम्
तत्खलु॒ तुभ्य॒न्न वा॒चा जु॑हव॒न्नित्य॑ब्रवीत् । तस्मा॒न्मन॑सा प्र॒जाप॑तये जुह्वति ।
भट्टभास्कर-टीका
अथ वाक् प्रजापतिमब्रवीत् - तर्हि केचिदपि तुभ्यं न वाचा मन्त्रेण जुहुवन्न जुहुयुः । तस्माद्वाचश्शापात्प्रजापतये मनसैव जुह्वतीति । लेटि तस्यार्धधातुकत्वेन ङित्वाभावाद्गुणः, अन्त्यादेशश्च, द्विविकरणत्वेन शबपि मध्येऽवतिष्ठते ।
विश्वास-प्रस्तुतिः
मन॑ इव॒ हि प्र॒जाप॑तिᳶ प्र॒जाप॑ते॒राप्त्यै॑ ।
मूलम्
मन॑ इव॒ हि प्र॒जाप॑तिᳶ प्र॒जाप॑ते॒राप्त्यै॑ ।
भट्टभास्कर-टीका
मन इव हीति । व्यापकत्वेन प्रजापतितुल्यत्वेन मनसा होमः प्रजापतेराप्त्यै भवति ॥
मूलम् (संयुक्तम्)
परि॒धीन्थ्सम्मा᳚र्ष्टि पु॒नात्ये॒वैना॒न्त्रिर्म॑ध्य॒मन्त्रयो॒ वै प्रा॒णाᳶ प्रा॒णाने॒वाभि ज॑यति॒ त्रिर्द॑ख्षिणा॒र्ध्य॑न्त्रयः॑ [65] इ॒मे लो॒का इ॒माने॒व लो॒कान॒भि ज॑यति॒ त्रिरु॑त्तरा॒र्ध्य॑न्त्रयो॒ वै दे॑व॒याना॒ᳶ पन्था॑न॒स्ताने॒वाभि ज॑यति
विश्वास-प्रस्तुतिः
प॒रि॒धीन्थ्सम्मा᳚र्ष्टि ।
पु॒नात्ये॒वैना॒न्त्रिर्म॑ध्य॒मम् ।
त्रयो॒ वै प्रा॒णाᳶ प्रा॒णाने॒वाभि ज॑यति ।
त्रिर्द॑ख्षिणा॒र्ध्य॑म् ।
त्रय॑ इ॒मे लो॒का इ॒माने॒व लो॒कान॒भि ज॑यति ।
त्रिरु॑त्तरा॒र्ध्य॑म् ।
त्रयो॒ वै दे॑व॒याना॒ᳶ पन्था॑न॒स्ताने॒वाभि ज॑यति ।
मूलम्
प॒रि॒धीन्थ्सम्मा᳚र्ष्टि ।
पु॒नात्ये॒वैना॒न्त्रिर्म॑ध्य॒मम् ।
त्रयो॒ वै प्रा॒णाᳶ प्रा॒णाने॒वाभि ज॑यति ।
त्रिर्द॑ख्षिणा॒र्ध्य॑म् ।
त्रय॑ इ॒मे लो॒का इ॒माने॒व लो॒कान॒भि ज॑यति ।
त्रिरु॑त्तरा॒र्ध्य॑म् ।
त्रयो॒ वै दे॑व॒याना॒ᳶ पन्था॑न॒स्ताने॒वाभि ज॑यति ।
भट्टभास्कर-टीका
12परिधीनित्यादि ॥ गतम् । मध्यमादीनां प्राणादिजयहेतुत्वं यथाकथञ्चिदुत्प्रेक्ष्यम् । केचिदाहुः - देहमध्यस्थप्राणादिस्थानीया मध्यमा । दक्षिणभूगोळस्य प्रकाशत्वेन लोकत्वात् दक्षिणा लोकस्थानीया । उत्तरगोळस्याप्रकाशत्वात् देवपथतुल्या उत्तरा इति । ‘दिक्पूर्वपदाट्ठञ्च’ इति अर्धान्ताद्यत्प्रत्ययः ॥
मूलम् (संयुक्तम्)
त्रिरुप॑ वाजयति॒ त्रयो॒ वै दे॑वलो॒का दे॑वलो॒काने॒वाभि ज॑यति॒ द्वाद॑श॒ सम्प॑द्यन्ते॒ द्वाद॑श॒ मासाः᳚ सव्ँवथ्स॒रस्स॑व्ँवथ्स॒रमे॒व प्री॑णा॒त्यथो॑ सव्ँवथ्स॒रमे॒वास्मा॒ उप॑ दधाति सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै
विश्वास-प्रस्तुतिः
त्रिरुप॑ वाजयति ।
त्रयो॒ वै दे॑वलो॒का दे॑वलो॒काने॒वाभि ज॑यति ।
द्वाद॑श॒ सम्प॑द्यन्ते ।
द्वाद॑श॒ मासाः᳚ सव्ँवथ्स॒रः ।
स॒व्ँव॒थ्स॒रमे॒व प्री॑णाति ।
अथो॑ सव्ँवथ्स॒रमे॒वास्मा॒ उप॑ दधाति ।
सु॒व॒र्गस्य॑॑ लो॒कस्य॒ सम॑ष्ट्यै ।
मूलम्
त्रिरुप॑ वाजयति ।
त्रयो॒ वै दे॑वलो॒का दे॑वलो॒काने॒वाभि ज॑यति ।
द्वाद॑श॒ सम्प॑द्यन्ते ।
द्वाद॑श॒ मासाः᳚ सव्ँवथ्स॒रः ।
स॒व्ँव॒थ्स॒रमे॒व प्री॑णाति ।
अथो॑ सव्ँवथ्स॒रमे॒वास्मा॒ उप॑ दधाति ।
सु॒व॒र्गस्य॑॑ लो॒कस्य॒ सम॑ष्ट्यै ।
भट्टभास्कर-टीका
13त्रिरुप वाजयतीति ॥ अग्निं त्रिर्विधूनयति । देवलोकस्थानीयस्याग्नेः उपवाजनेन लोकत्रयावाप्तिः । सत्यलोकान्तास्त्रयो देवलोकाः । वातेर्णिजन्तस्य ‘वोविधूनने जुक्’ इति जुगागमः । द्वादशत्वान्वयात् द्वादशमासात्मकः संवत्सरोऽत्र संपादितो भवति । स च स्वर्गावाप्तिहेतुरिति ॥
मूलम् (संयुक्तम्)
आघा॒रमा घा॑रयति ति॒र इ॑व [66] वै सु॑व॒र्गो लो॒कस्सु॑व॒र्गमे॒वास्मै॑ लो॒कम्प्र रो॑यत्यृ॒जुमा घा॑रयत्यृ॒जुरि॑व॒ हि प्रा॒णस्सन्त॑त॒मा घा॑रयति प्रा॒णाना॑म॒न्नाद्य॑स्य॒ सन्त॑त्यै
विश्वास-प्रस्तुतिः
आ॒घा॒रमा घा॑रयति ।
ति॒र इ॑व वै सु॑व॒र्गो लो॒कः ।
सु॒व॒र्गमे॒वास्मै॑ लो॒कम्प्र रो॑यति ।
मूलम्
आ॒घा॒रमा घा॑रयति ।
ति॒र इ॑व वै सु॑व॒र्गो लो॒कः ।
सु॒व॒र्गमे॒वास्मै॑ लो॒कम्प्र रो॑यति ।
भट्टभास्कर-टीका
14आघारमित्यादि ॥ धारां; तिरश्चीनत्वेन तिरोभूतात्मानं स्वर्गमस्मै प्ररोचयति दीपयति वा ।
विश्वास-प्रस्तुतिः
ऋ॒जुमा घा॑रयति ।
ऋ॒जुरि॑व॒ हि प्रा॒णस्सन्त॑त॒मा घा॑रयति ।
मूलम्
ऋ॒जुमा घा॑रयति ।
ऋ॒जुरि॑व॒ हि प्रा॒णस्सन्त॑त॒मा घा॑रयति ।
भट्टभास्कर-टीका
ऋजुरिति । अकुटिलधारामाघारयति ।
विश्वास-प्रस्तुतिः
प्रा॒णाना॑म॒न्नाद्य॑स्य॒ सन्त॑त्यै ।
मूलम्
प्रा॒णाना॑म॒न्नाद्य॑स्य॒ सन्त॑त्यै ।
भट्टभास्कर-टीका
प्राणानामन्नाद्यस्य अविछेदाय भवति । रक्षसामपहत्यै भवति ॥
मूलम् (संयुक्तम्)
अथो॒ रख्ष॑सा॒मप॑हत्यै॒ यङ्का॒मये॑त प्र॒मायु॑कस्स्या॒दिति॑ जि॒ह्मन्तस्या घा॑रयेत्प्रा॒णमे॒वास्मा᳚ज्जि॒ह्मन्न॑यति ता॒जक्प्र मी॑यते
विश्वास-प्रस्तुतिः
अथो॒ रख्ष॑सा॒मप॑हत्यै ।
यङ्का॒मये॑त प्र॒मायु॑कस्स्या॒दिति॑ ।
जि॒ह्मन्तस्या घा॑रयेत् ।
प्रा॒णमे॒वास्मा᳚ज्जि॒ह्मन्न॑यति ।
ता॒जक्प्र मी॑यते ।
मूलम्
अथो॒ रख्ष॑सा॒मप॑हत्यै ।
यङ्का॒मये॑त प्र॒मायु॑कस्स्या॒दिति॑ ।
जि॒ह्मन्तस्या घा॑रयेत् ।
प्रा॒णमे॒वास्मा᳚ज्जि॒ह्मन्न॑यति ।
ता॒जक्प्र मी॑यते ।
भट्टभास्कर-टीका
15यमित्यादि ॥ गतम् । जिह्मं कुटिलम् ॥
मूलम् (संयुक्तम्)
शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यदा॑घा॒र आ॒त्मा ध्रु॒वा [67] आ॒घा॒रमा॒घार्य॑ ध्रु॒वाꣳ सम॑नक्त्या॒त्मन्ने॒व य॒ज्ञस्य॒ शिर॒ᳶ प्रति॑ दधाति
विश्वास-प्रस्तुतिः
शिरो॒ वा ए॒तद्य॒ज्ञस्य॑ ।
यदा॑घा॒र आ॒त्मा ध्रु॒वाऽऽघा॒रमा॒घार्य॑ ध्रु॒वाꣳ सम॑नक्ति ।
आ॒त्मन्ने॒व य॒ज्ञस्य॒ शिर॒ᳶ प्रति॑ दधाति ।
मूलम्
शिरो॒ वा ए॒तद्य॒ज्ञस्य॑ ।
यदा॑घा॒र आ॒त्मा ध्रु॒वाऽऽघा॒रमा॒घार्य॑ ध्रु॒वाꣳ सम॑नक्ति ।
आ॒त्मन्ने॒व य॒ज्ञस्य॒ शिर॒ᳶ प्रति॑ दधाति ।
भट्टभास्कर-टीका
16शिरो वा इत्यादि ॥ आघारशेषेण ध्रुवादिसमञ्जनादात्मनि यज्ञस्य शिरः प्रतिहितं भवति ॥
मूलम् (संयुक्तम्)
अ॒ग्निर्दे॒वाना᳚न्दू॒त आसी॒द्दैव्योऽसु॑राणा॒न्तौ प्र॒जाप॑तिम्प्र॒श्ञमैता॒ꣳ॒ स प्र॒जाप॑तिर्ब्राह्म॒णम॑ब्रवीदे॒तद्वि ब्रू॒हीत्या श्रा॑व॒येती॒दन्दे॑वाश्शृणु॒तेति॒ वाव तद॑ब्रवीद॒ग्निर्दे॒वो होतेति॒ य ए॒व दे॒वाना॒न्तम॑वृणीत
विश्वास-प्रस्तुतिः
अ॒ग्निर्दे॒वाना᳚न्दू॒त आसी᳚त् ।
दैव्योऽसु॑राणाम् +++(दूत आसीत्)+++ ।
मूलम्
अ॒ग्निर्दे॒वाना᳚न्दू॒त आसी᳚त् ।
दैव्योऽसु॑राणाम् +++(दूत आसीत्)+++ ।
भट्टभास्कर-टीका
17अग्निर्देवानामित्यादि ॥ अध्वर्युप्रवरविधिः । दैव्य इति वक्ष्यमाणत्वान्मानुषोग्निर्गृह्यते । स च ब्राह्मण एषः देवानां यागे हविषो वोढाऽऽसीत्; दैव्योऽग्निरसुराणामासीत् । ‘देवाद्यञञौ’ इति यञ् ।
विश्वास-प्रस्तुतिः
तौ प्र॒जाप॑तिम्प्र॒श्ञमै॑ताम् ।
मूलम्
तौ प्र॒जाप॑तिम्प्र॒श्ञमै॑ताम् ।
भट्टभास्कर-टीका
तौ प्रजापतिं प्रश्नमैतां प्रष्टव्यत्वेनागच्छतां कतरो नो हविषा यष्टुमर्हतीति ।
विश्वास-प्रस्तुतिः
स प्र॒जाप॑तिर्ब्राह्म॒णम॑ब्रवीत् ।
ए॒तद्वि ब्रू॒हीत्या श्रा॑व॒येत ।
इ॒दन्दे॑वाश्शृणु॒तेति॑ ।
मूलम्
स प्र॒जाप॑तिर्ब्राह्म॒णम॑ब्रवीत् ।
ए॒तद्वि ब्रू॒हीत्या श्रा॑व॒येत ।
इ॒दन्दे॑वाश्शृणु॒तेति॑ ।
भट्टभास्कर-टीका
अथ स प्रजापतिः ब्राह्मणं मानुषमग्निं दूत्ये स्थापयितुकामोऽ ब्रवीत् - आश्रावयेति । यदिदमध्वर्युणा त्वां प्रत्युच्यते एतद्विब्रूहि आचक्ष्वेति । सोऽपीदं देवाः शृणुतेति ।
विश्वास-प्रस्तुतिः
वाव तद॑ब्रवीत् ।
अ॒ग्निर्दे॒वो होतेति॑ ।
य ए॒व दे॒वाना॒न्तम॑वृणीत ।
मूलम्
वाव तद॑ब्रवीत् ।
अ॒ग्निर्दे॒वो होतेति॑ ।
य ए॒व दे॒वाना॒न्तम॑वृणीत ।
भट्टभास्कर-टीका
देवेभ्य आवेदनार्थं वावेति तदब्रवीत् । ततः ‘अग्निर्देवो होता’ इत्यादिना वाक्येन य एव दूतो ब्राह्मणात्माऽग्निः तमेवावृणीत - अयमग्निर्देवो होता ब्राह्मणात्मा देवान् यष्टुमर्हति विद्वान् आश्रावणादितत्त्वज्ञः । चिकित्वा महाज्ञानः - मनुरिव भारत इव जमदग्निरिवोर्व इवाप्नुवान इव च्यवन इव भृगुरिवेति । एवमिति । ऊर्ध्वानृषीन्प्रवृणानो होतारं वृणीते ॥
मूलम् (संयुक्तम्)
ततो॑ दे॒वाः [68] अभ॑व॒न्परा॑सुरा॒ यस्यै॒वव्ँवि॒दुषᳶ॑ प्रव॒रम्प्र॑वृ॒णते॒ भव॑त्या॒त्मना॒ परा᳚स्य॒ भ्रातृ॑व्यो भवति
विश्वास-प्रस्तुतिः
ततो॑ दे॒वा अभ॑वन् ।
परा॑सुरा॒ +++( अभवन् )+++ ।
यस्यै॒वव्ँवि॒दुषᳶ॑ प्रव॒रम्प्र॑वृ॒णते ।
भव॑त्या॒त्मना॒ परा᳚स्य॒ भ्रातृ॑व्यो भवति ।
मूलम्
ततो॑ दे॒वा अभ॑वन् ।
परा॑सुरा॒ +++( अभवन् )+++ ।
यस्यै॒वव्ँवि॒दुषᳶ॑ प्रव॒रम्प्र॑वृ॒णते ।
भव॑त्या॒त्मना॒ परा᳚स्य॒ भ्रातृ॑व्यो भवति ।
भट्टभास्कर-टीका
18ततो देवा इत्यादि ॥ गतम् ॥
मूलम् (संयुक्तम्)
यद्ब्रा᳚ह्म॒णश्चाब्रा᳚ह्मणश्च प्र॒श्ञमे॒याता᳚म्ब्राह्म॒णायाधि॑ ब्रूया॒द्यद्ब्रा᳚ह्म॒णाया॒ध्याहा॒त्मनेऽध्या॑ह॒ यद्ब्रा᳚ह्म॒णम्प॒राहा॒त्मन॒म्परा॑ह॒ तस्मा᳚द्ब्राह्म॒णो न प॒रोच्यः॑ ॥ [69]
विश्वास-प्रस्तुतिः
यद्ब्रा᳚ह्म॒णश्चाब्रा᳚ह्मणश्च प्र॒श्ञमे॒याता᳚म् ।
ब्रा॒ह्म॒णायाधि॑ ब्रूयात् ।
यद्ब्रा᳚ह्म॒णाया॒ध्याहा॒त्मनेऽध्या॑ह ।
यद्ब्रा᳚ह्म॒णम्प॒राहा॒त्मन॒म्परा॑ह ।
मूलम्
यद्ब्रा᳚ह्म॒णश्चाब्रा᳚ह्मणश्च प्र॒श्ञमे॒याता᳚म् ।
ब्रा॒ह्म॒णायाधि॑ ब्रूयात् ।
यद्ब्रा᳚ह्म॒णाया॒ध्याहा॒त्मनेऽध्या॑ह ।
यद्ब्रा᳚ह्म॒णम्प॒राहा॒त्मन॒म्परा॑ह ।
भट्टभास्कर-टीका
19यद्ब्राह्मणश्चेत्यादि ॥ ब्राह्मणाब्राह्मणयोः प्रश्नार्थमागतयोः ब्राह्मणायाधिकं पक्षपातेन ब्रूयात् । गतमन्यत् ।
विश्वास-प्रस्तुतिः
तस्मा᳚द्ब्राह्म॒णो न प॒रोच्यः॑ ॥
मूलम्
तस्मा᳚द्ब्राह्म॒णो न प॒रोच्यः॑ ॥
भट्टभास्कर-टीका
अनादरेण वचनं परोच्य इति । छान्दसः क्यच् ॥
इति द्वितीये पञ्चमे एकादशोऽनुवाकः ॥