१० नैमित्तिक्यः काम्याश्च सामिधेन्यः

प्रजापतिऋषिः ।

मूलम् (संयुक्तम्)

त्रीꣳ स्तृ॒चाननु॑ ब्रूयाद्राज॒न्य॑स्य॒ त्रयो॒ वा अ॒न्ये रा॑ज॒न्या᳚त्पुरु॑षा ब्राह्म॒णो वैश्य॑श्शू॒द्रस्ताने॒वास्मा॒ अनु॑कान्करोति

विश्वास-प्रस्तुतिः

त्रीꣳ स्तृ॒चाननु॑ ब्रूयाद्राज॒न्य॑स्य ।
त्रयो॒ वा अ॒न्ये ।

रा॑ज॒न्या᳚त्पुरु॑षा ब्राह्म॒णो वैश्य॑श्शू॒द्रः ।

ताने॒वास्मा॒ अनु॑कान्करोति ।

मूलम्

त्रीꣳ स्तृ॒चाननु॑ ब्रूयाद्राज॒न्य॑स्य ।
त्रयो॒ वा अ॒न्ये ।

रा॑ज॒न्या᳚त्पुरु॑षा ब्राह्म॒णो वैश्य॑श्शू॒द्रः ।

ताने॒वास्मा॒ अनु॑कान्करोति ।

भट्टभास्कर-टीका

1पुनरपि सामिधेनीरेवाधिकृत्योच्यते - त्रींस्तृचानिति ॥ नवेत्यवचनादावृत्तौ एव नवर्चः । आद्यास्तिस्रः तिसृभिरुक्ता इत्येके । त्रित्वान्वयात् ब्राह्मणादीन् अस्यानुकान् कमितॄन् करोति । ‘अनुकाभिक’ इति निपात्यते ॥

मूलम् (संयुक्तम्)

पञ्च॑द॒शानु॑ ब्रूयाद्राज॒न्य॑स्य पञ्चद॒शो वै रा॑ज॒न्य॑स्स्व ए॒वैन॒ꣵ॒ स्तोमे॒ प्रति॑ ष्ठापयति

विश्वास-प्रस्तुतिः

पञ्च॑द॒शानु॑ ब्रूयाद्राज॒न्य॑स्य ।
प॒ञ्च॒द॒शो वै रा॑ज॒न्यः॑ ।
स्व ए॒वैन॒ꣵ॒ स्तोमे॒ प्रति॑ ष्ठापयति ।

मूलम्

पञ्च॑द॒शानु॑ ब्रूयाद्राज॒न्य॑स्य ।
प॒ञ्च॒द॒शो वै रा॑ज॒न्यः॑ ।
स्व ए॒वैन॒ꣵ॒ स्तोमे॒ प्रति॑ ष्ठापयति ।

भट्टभास्कर-टीका

2पञ्चदशो वा इति ॥ प्रजापतेरुरोबाहुप्रभवत्वाद्द्वयोः । पूर्वेण सहास्य विकल्पः ॥

मूलम् (संयुक्तम्)

त्रि॒ष्टुभा॒ परि॑ दध्यादिन्द्रि॒यव्ँवै त्रि॒ष्टुगि॑न्द्रि॒यका॑म॒ᳵ खलु॒ वै रा॑ज॒न्यो॑ यजते त्रि॒ष्टुभै॒वास्मा॑ इन्द्रि॒यम्परि॑ गृह्णाति॒ यदि॑ का॒मये॑त [57] ब्र॒ह्म॒व॒र्च॒सम॒स्त्विति॑

विश्वास-प्रस्तुतिः

त्रि॒ष्टुभा॒ परि॑ दध्यत्।
इ॒न्द्रि॒यव्ँवै त्रिष्टुक् ।
इ॑न्द्रि॒यका॑म॒ᳵ खलु॒ वै रा॑ज॒न्यो॑ यजते ।
त्रि॒ष्टुभै॒वास्मा॑ इन्द्रि॒यम्परि॑ गृह्णाति । यदि॑ का॒मये॑त ब्रह्मवर्च॒सम॒स्त्विति॑ ।

मूलम्

त्रि॒ष्टुभा॒ परि॑ दध्यत्।
इ॒न्द्रि॒यव्ँवै त्रिष्टुक् ।
इ॑न्द्रि॒यका॑म॒ᳵ खलु॒ वै रा॑ज॒न्यो॑ यजते ।
त्रि॒ष्टुभै॒वास्मा॑ इन्द्रि॒यम्परि॑ गृह्णाति । यदि॑ का॒मये॑त ब्रह्मवर्च॒सम॒स्त्विति॑ ।

भट्टभास्कर-टीका

3त्रिष्टुभेति ॥ ‘र्त्वं वरुण उत’ इति । इन्द्रिर्यं वा इति । तद्धेतुत्त्वात्ताच्छब्द्यम् ॥

मूलम् (संयुक्तम्)

गायत्रि॒या परि॑ दध्याद्ब्रह्मवर्च॒सव्ँवै गा॑य॒त्री ब्र॑ह्मवर्च॒समे॒व भ॑वति

विश्वास-प्रस्तुतिः

गायत्रि॒या परि॑ दध्यात् ।
ब्र॒ह्म॒व॒र्च॒सव्ँवै गा॑य॒त्री ।
ब्र॒ह्म॒व॒र्च॒समे॒व भ॑वति ।

मूलम्

गायत्रि॒या परि॑ दध्यात् ।
ब्र॒ह्म॒व॒र्च॒सव्ँवै गा॑य॒त्री ।
ब्र॒ह्म॒व॒र्च॒समे॒व भ॑वति ।

भट्टभास्कर-टीका

4गायत्रियेति ॥ ‘आजुहोत’ इत्येतया । ‘पृथुपाजाः’ ‘तंसबाधः’ इत्येते धाय्यास्थाने निधेये ॥

मूलम् (संयुक्तम्)

स॒प्तद॒शानु॑ ब्रूया॒द्वैश्य॑स्य सप्तद॒शो वै वैश्य॒स्स्व ए॒वैन॒ꣵ॒ स्तोमे॒ प्रति॑ ष्ठापयति

विश्वास-प्रस्तुतिः

स॒प्त॒द॒शो वै वैश्यः॑ ।
स॒प्तद॒शानु॑ ब्रूया॒द्वैश्य॑स्य ।
स्व ए॒वैन॒ꣵ॒ स्तोमे॒ प्रति॑ ष्ठापयति।

मूलम्

स॒प्त॒द॒शो वै वैश्यः॑ ।
स॒प्तद॒शानु॑ ब्रूया॒द्वैश्य॑स्य ।
स्व ए॒वैन॒ꣵ॒ स्तोमे॒ प्रति॑ ष्ठापयति।

भट्टभास्कर-टीका

5सप्तदशेति ॥ द्वयोरपि मध्यदेशप्रभवत्वात् प्रजापतेः ।

मूलम् (संयुक्तम्)

जग॑त्या॒ परि॑ दध्या॒ज्जाग॑ता॒ वै प॒शवᳶ॑ प॒शुका॑म॒ᳵ खलु॒ वै वैश्यो॑ यजते॒ जग॑त्यै॒वास्मै॑ प॒शून्परि॑ गृह्णाति

विश्वास-प्रस्तुतिः

जग॑त्या॒ परि॑ दध्यात् ।
जाग॑ता॒ वै प॒शवः॑ ।
प॒शुका॑म॒ᳵ खलु॒ वै वैश्यो॑ यजते ।
जग॑त्यै॒वास्मै॑ प॒शून्परि॑ गृह्णाति ।

मूलम्

जग॑त्या॒ परि॑ दध्यात् ।
जाग॑ता॒ वै प॒शवः॑ ।
प॒शुका॑म॒ᳵ खलु॒ वै वैश्यो॑ यजते ।
जग॑त्यै॒वास्मै॑ प॒शून्परि॑ गृह्णाति ।

भट्टभास्कर-टीका

जगत्येति । ‘जनस्य गोपाः’ इत्येतया, जगतीशब्द उत्सादिः ॥

मूलम् (संयुक्तम्)

एक॑विꣳशति॒मनु॑ ब्रूयात्प्रति॒ष्ठाका॑मस्यैकवि॒ꣳ॒शस्स्तोमा॑नाम्प्रति॒ष्ठा प्रति॑ष्ठित्यै [58]

विश्वास-प्रस्तुतिः

एक॑विꣳशति॒मनु॑ ब्रूयात् ।
प्र॒ति॒ष्ठाका॑मस्यैकवि॒ꣳ॒शः ।
स्तोमा॑नाम्प्रति॒ष्ठा प्रति॑ष्ठित्यै ।

मूलम्

एक॑विꣳशति॒मनु॑ ब्रूयात् ।
प्र॒ति॒ष्ठाका॑मस्यैकवि॒ꣳ॒शः ।
स्तोमा॑नाम्प्रति॒ष्ठा प्रति॑ष्ठित्यै ।

भट्टभास्कर-टीका

6एकविंशतिमिति ॥ पञ्चदशत्वान्वयात्प्रथमोत्तमावृत्तिवत् एतासामेवावृत्त्या एकविंशत्याद्यभिमतसङ्ख्यापूरणमिति केचित् । ‘युक्ष्वा हि’ इत्यादिनवसामिधेनीति केचित् । स्तोमानां प्रतिष्ठेति । त्रिवृत्पञ्चदशसप्तदशानां प्रधानस्तोमानां, तत्र अनुगतत्वात् ॥

मूलम् (संयुक्तम्)

चतु॑र्विꣳशति॒मनु॑ ब्रूयाद्ब्रह्मवर्च॒सका॑मस्य॒ चतु॑र्विꣳशत्यख्षरा गाय॒त्री गा॑य॒त्री ब्र॑ह्मवर्च॒सङ्गायत्रि॒यैवास्मै᳚ ब्रह्मवर्च॒समव॑ रुन्द्धे

विश्वास-प्रस्तुतिः

चतु॑र्विꣳशति॒मनु॑ ब्रूयाद्ब्रह्मवर्च॒सका॑मस्य ।

चतु॑र्विꣳशत्यख्षरा गाय॒त्री ।

गा॑य॒त्री ब्र॑ह्मवर्च॒सङ्गायत्रि॒यैवास्मै᳚ ब्रह्मवर्च॒समव॑ रुन्द्धे ।

मूलम्

चतु॑र्विꣳशति॒मनु॑ ब्रूयाद्ब्रह्मवर्च॒सका॑मस्य ।

चतु॑र्विꣳशत्यख्षरा गाय॒त्री ।

गा॑य॒त्री ब्र॑ह्मवर्च॒सङ्गायत्रि॒यैवास्मै᳚ ब्रह्मवर्च॒समव॑ रुन्द्धे ।

भट्टभास्कर-टीका

7चतुर्विंशतिमित्यादि ॥ गतम् ॥

मूलम् (संयुक्तम्)

त्रि॒ꣳ॒शत॒मनु॑ ब्रूया॒दन्न॑कामस्य त्रि॒ꣳ॒शद॑ख्षरा वि॒राडन्न॑व्ँवि॒राड्वि॒राजै॒वास्मा॑ अ॒न्नाद्य॒मव॑ रुन्द्धे

विश्वास-प्रस्तुतिः

त्रि॒ꣳ॒शत॒मनु॑ ब्रूयात् ।
अन्न॑कामस्य त्रि॒ꣳ॒शद॑ख्षरा वि॒राट् ।
अन्न॑व्ँवि॒राड्वि॒राजै॒वास्मा॑ अ॒न्नाद्य॒मव॑ रुन्द्धे ।

मूलम्

त्रि॒ꣳ॒शत॒मनु॑ ब्रूयात् ।
अन्न॑कामस्य त्रि॒ꣳ॒शद॑ख्षरा वि॒राट् ।
अन्न॑व्ँवि॒राड्वि॒राजै॒वास्मा॑ अ॒न्नाद्य॒मव॑ रुन्द्धे ।

भट्टभास्कर-टीका

8त्रिंशदक्षरा विराडिति ॥ त्रिभिः दशकैः विराडिति ॥

मूलम् (संयुक्तम्)

द्वात्रिꣳ॑शत॒मनु॑ब्रूयात्प्रति॒ष्ठाका॑मस्य॒ द्वात्रिꣳ॑शदख्षराऽनु॒ष्टु॑गनु॒ष्टुप्छन्द॑साम्प्रति॒ष्ठा प्रति॑ष्ठित्यै

विश्वास-प्रस्तुतिः

द्वात्रिꣳ॑शत॒मनु॑ब्रूयात् प्रति॒ष्ठाका॑मस्य।
द्वात्रिꣳ॑शदख्षराऽनु॒ष्टु॑गनु॒ष्टुप्छन्द॑साम्प्रति॒ष्ठा प्रति॑ष्ठित्यै ।

मूलम्

द्वात्रिꣳ॑शत॒मनु॑ब्रूयात् प्रति॒ष्ठाका॑मस्य।
द्वात्रिꣳ॑शदख्षराऽनु॒ष्टु॑गनु॒ष्टुप्छन्द॑साम्प्रति॒ष्ठा प्रति॑ष्ठित्यै ।

भट्टभास्कर-टीका

9छन्दसां प्रतिष्ठेति ॥ ‘वाग्वा अनुष्टुप्’ इति तस्याः सर्ववाङ्मयत्वात् ॥

मूलम् (संयुक्तम्)

षट्त्रिꣳ॑शत॒मनु॑ ब्रूयात्प॒शुका॑मस्य॒ षट्त्रिꣳ॑शदख्षरा बृह॒ती बार्ह॑ताᳶ प॒शवो॑ बृह॒त्यैवास्मै॑ प॒शून् [59]
अव॑ रुन्द्धे

विश्वास-प्रस्तुतिः

षट्त्रिꣳ॑शत॒मनु॑ ब्रूयात्प॒शुका॑मस्य । षट्त्रिꣳ॑शदख्षरा बृह॒ती बार्ह॑ताᳶ प॒शवः॑ ।
बृह॒त्यैवास्मै॑ प॒शूनव॑ रुन्द्धे ।

मूलम्

षट्त्रिꣳ॑शत॒मनु॑ ब्रूयात्प॒शुका॑मस्य । षट्त्रिꣳ॑शदख्षरा बृह॒ती बार्ह॑ताᳶ प॒शवः॑ ।
बृह॒त्यैवास्मै॑ प॒शूनव॑ रुन्द्धे ।

भट्टभास्कर-टीका

10बृहतीशब्दोऽप्युत्सादिः । वृहत्याः पशव्यत्वात् बार्हतत्वं पशूनाम् ॥

मूलम् (संयुक्तम्)

चतु॑श्चत्वारिꣳशत॒मनु॑ ब्रूयादिन्द्रि॒यका॑मस्य॒ चतु॑श्चत्वारिꣳशदख्षरा त्रि॒ष्टुगि॑न्द्रि॒यन्त्रि॒ष्टुप्त्रि॒ष्टुभै॒वास्मा॑ इन्द्रि॒यमव॑ रुन्द्धे

विश्वास-प्रस्तुतिः

चतु॑श्चत्वारिꣳशत॒मनु॑ ब्रूयादिन्द्रि॒यका॑मस्य ।
चतु॑श्चत्वारिꣳशदख्षरा त्रि॒ष्टुक् .. ,
इ॑न्द्रि॒यन्त्रि॒ष्टुप्, .. त्रि॒ष्टुभै॒वास्मा॑ इन्द्रि॒यमव॑ रुन्द्धे।

मूलम्

चतु॑श्चत्वारिꣳशत॒मनु॑ ब्रूयादिन्द्रि॒यका॑मस्य ।
चतु॑श्चत्वारिꣳशदख्षरा त्रि॒ष्टुक् .. ,
इ॑न्द्रि॒यन्त्रि॒ष्टुप्, .. त्रि॒ष्टुभै॒वास्मा॑ इन्द्रि॒यमव॑ रुन्द्धे।

भट्टभास्कर-टीका

11इन्द्रिर्यं त्रिष्टुबिति ॥ इन्द्रियत्रिष्टुभोस्समानप्रभवत्वात् ॥

मूलम् (संयुक्तम्)

अष्टाच॑त्वारिꣳशत॒मनु॑ ब्रूयात्प॒शुका॑मस्या॒ष्टाच॑त्वारिꣳशदख्षरा॒ जग॑ती॒ जाग॑ताᳶ प॒शवो॒ जग॑त्यै॒वास्मै॑ प॒शूनव॑ रुन्द्धे

विश्वास-प्रस्तुतिः

अष्टाच॑त्वारिꣳशत॒मनु॑ ब्रूयात्प॒शुका॑मस्य ।
अ॒ष्टाच॑त्वारिꣳशदख्षरा॒ जग॑ती ।
जाग॑ताᳶ प॒शवो॒ जग॑त्यै॒वास्मै॑ प॒शूनव॑ रुन्द्धे ।

मूलम्

अष्टाच॑त्वारिꣳशत॒मनु॑ ब्रूयात्प॒शुका॑मस्य ।
अ॒ष्टाच॑त्वारिꣳशदख्षरा॒ जग॑ती ।
जाग॑ताᳶ प॒शवो॒ जग॑त्यै॒वास्मै॑ प॒शूनव॑ रुन्द्धे ।

भट्टभास्कर-टीका

12जगत्या इति ॥ जगत्याः पशव्यत्वात् ॥

मूलम् (संयुक्तम्)

सर्वा॑णि॒ छन्दा॒ꣳ॒स्यनु॑ ब्रूयाद्बहुया॒जिन॒स्सर्वा॑णि॒ वा ए॒तस्य॒ छन्दा॒ꣳ॒स्यव॑रुन्द्धानि॒ यो ब॑हुया॒ज्यप॑रिमित॒मनु॑ ब्रूया॒दप॑रिमित॒स्याव॑रुद्ध्यै ॥ [60]

विश्वास-प्रस्तुतिः

सर्वा॑णि॒ छन्दा॒ꣳ॒स्यनु॑ ब्रूयाद्बहुया॒जिनः॑ ।

सर्वा॑णि॒ वा ए॒तस्य॒ छन्दा॒ꣳ॒स्यव॑रुन्द्धानि ।

मूलम्

सर्वा॑णि॒ छन्दा॒ꣳ॒स्यनु॑ ब्रूयाद्बहुया॒जिनः॑ ।

सर्वा॑णि॒ वा ए॒तस्य॒ छन्दा॒ꣳ॒स्यव॑रुन्द्धानि ।

भट्टभास्कर-टीका

13बहुयाजिन इति ॥ सोमयाजी बहूयाजी, तस्य सर्वाणि गायत्र्यादीनि जगत्यन्तानि छन्दांस्यवरुद्धानि ।

विश्वास-प्रस्तुतिः

यो ब॑हुया॒ज्यप॑रिमित॒मनु॑ ब्रूया॒दप॑रिमित॒स्याव॑रुद्ध्यै ॥

मूलम्

यो ब॑हुया॒ज्यप॑रिमित॒मनु॑ ब्रूया॒दप॑रिमित॒स्याव॑रुद्ध्यै ॥

भट्टभास्कर-टीका

अपरिमितमिति । नवाद्यष्टाचत्वारिंशदन्तोक्तसङ्ख्यापरिच्छेदरहितं अपरिच्छिन्नस्य फलस्याप्यै भवति ॥

इति द्वितीये पञ्चमे दशमोऽनुवाकः ॥