प्रवरमन्त्रनिगदस्य, ९-१५ स्रुगादापननिगदस्य च व्याख्यानम्
प्रजापतिऋषिः ।
मूलम् (संयुक्तम्)
अग्ने॑ म॒हाꣳ अ॒सीत्या॑ह म॒हान्ह्ये॑ष यद॒ग्निर्ब्रा᳚ह्म॒णेत्या॑ह ब्राह्म॒णो ह्ये॑ष भा॑र॒तेत्या॑है॒ष हि दे॒वेभ्यो॑ ह॒व्यम्भर॑ति
विश्वास-प्रस्तुतिः
अग्ने॑ म॒हाꣳ अ॒सीत्या॑ह ।
म॒हान्ह्ये॑ष यद॒ग्निर्ब्रा᳚ह्म॒णेत्या॑ह ।
मूलम्
अग्ने॑ म॒हाꣳ अ॒सीत्या॑ह ।
म॒हान्ह्ये॑ष यद॒ग्निर्ब्रा᳚ह्म॒णेत्या॑ह ।
भट्टभास्कर-टीका
1अग्ने महानसीत्यादिना प्रवरमन्त्रपदानि व्याचष्टे ॥ महान् ह्येष इति । स्वभावत एवेति भावः ।
विश्वास-प्रस्तुतिः
ब्रा॒ह्म॒णो ह्ये॑ष भा॑र॒तेत्या॑ह ।
मूलम्
ब्रा॒ह्म॒णो ह्ये॑ष भा॑र॒तेत्या॑ह ।
भट्टभास्कर-टीका
ब्राह्मणो ह्येष इति । यदग्निरेव जात्या ब्राह्मणः, ब्रह्मणो मुखाद्द्वयोरपि जातत्वात् । ब्रह्मणोपत्यत्वेन वा स्तुतिः । ‘ब्राह्मोऽजातौ’ इति व्यत्ययेन प्रवर्तते ।
विश्वास-प्रस्तुतिः
ए॒ष हि दे॒वेभ्यो॑ ह॒व्यम्भर॑ति।
मूलम्
ए॒ष हि दे॒वेभ्यो॑ ह॒व्यम्भर॑ति।
भट्टभास्कर-टीका
एष हीति । हविषां भरणात् भारतः, भरतानामृत्विजामपत्यत्वात् भारतः ॥
मूलम् (संयुक्तम्)
दे॒वेद्ध॒ इत्या॑ह दे॒वा ह्ये॑तमैन्ध॑त॒ मन्वि॑द्ध॒ इत्या॑ह॒ मनु॒र्ह्ये॑तमुत्त॑रो दे॒वेभ्य॒ ऐन्द्धर्षि॑ष्टुत॒ इत्या॒हर्ष॑यो॒ ह्ये॑तमस्तु॑व॒न्विप्रा॑नुमदित॒ इत्या॑ह [51]
विश्वास-प्रस्तुतिः
दे॒वेद्ध॒ इत्या॑ह ।
दे॒वा ह्ये॑तमैन्ध॑त ।
मन्वि॑द्ध॒ इत्या॑ह ।
मूलम्
दे॒वेद्ध॒ इत्या॑ह ।
दे॒वा ह्ये॑तमैन्ध॑त ।
मन्वि॑द्ध॒ इत्या॑ह ।
भट्टभास्कर-टीका
2अथ प्रवरमुक्त्वा निविदोन्वाह - देवेद्ध इत्याद्याः ॥ ता व्याचष्टे - देवा हीति । देवा ऋत्विज इन्द्रादयो वा एतमैन्धत दीपयन्ति, तस्माद्देवेद्धः । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् ।
विश्वास-प्रस्तुतिः
मनु॒र्ह्ये॑तमुत्त॑रो दे॒वेभ्य॒ ऐन्ध॑ ।
मूलम्
मनु॒र्ह्ये॑तमुत्त॑रो दे॒वेभ्य॒ ऐन्ध॑ ।
भट्टभास्कर-टीका
मनुर्ह्येतं इति । मनुर्ह्येतं देवतार्थमैन्ध । देवेभ्योऽपि वा मनुरुत्तरो मनुरेतस्मात् मन्विद्धः । पूर्ववत्स्वरः । एवं सर्वत्र ।
विश्वास-प्रस्तुतिः
ऋषि॑ष्टुत॒ इत्या॑ह।
ऋष॑यो॒ ह्ये॑तमस्तु॑वन् ।
विप्रा॑नुमदित॒ इत्या॑ह ।
मूलम्
ऋषि॑ष्टुत॒ इत्या॑ह।
ऋष॑यो॒ ह्ये॑तमस्तु॑वन् ।
विप्रा॑नुमदित॒ इत्या॑ह ।
भट्टभास्कर-टीका
ऋषयो दर्शनवन्तोप्येनमस्तुववन् ।
विश्वास-प्रस्तुतिः
विप्रा॒ ह्ये॑ते यच्छु॑श्रु॒वाꣳस॑ᳵ कविश॒स्त इत्या॑ह ।
मूलम्
विप्रा॒ ह्ये॑ते यच्छु॑श्रु॒वाꣳस॑ᳵ कविश॒स्त इत्या॑ह ।
भट्टभास्कर-टीका
विप्रा हीति । विप्रा मेधाविनः ये शुश्रुवांसः श्रुतार्थाः गृहीतवेदार्थाः तैरप्यनुमदितः अनुमोदितः अनुक्रमेण वा स्तुतः । मद तृप्तियोगे; मन्दतेर्वा, छान्दसो नुमभावः ॥
मूलम् (संयुक्तम्)
क॒वयो॒ ह्ये॑ते यच्छु॑श्रु॒वाꣳसो॒ ब्रह्म॑सꣳशित॒ इत्या॑ह॒ ब्रह्म॑सꣳशितो॒ ह्ये॑ष घृ॒ताह॑वन॒ इत्या॑ह घृताहु॒तिर्ह्य॑स्य प्रि॒यत॑मा प्र॒णीर्य॒ज्ञाना॒मित्या॑ह प्र॒णीर्ह्ये॑ष य॒ज्ञानाꣳ॑ र॒थीर॑ध्व॒राणा॒मित्या॑ह
विश्वास-प्रस्तुतिः
क॒वयो॒ ह्ये॑ते यच्छु॑श्रु॒वाꣳसो॒ ब्रह्म॑सꣳशित॒ इत्या॑ह ।
मूलम्
क॒वयो॒ ह्ये॑ते यच्छु॑श्रु॒वाꣳसो॒ ब्रह्म॑सꣳशित॒ इत्या॑ह ।
भट्टभास्कर-टीका
3कवयो हीति ॥ कवयः क्रान्तदर्शनाः सूक्ष्मदृशः तेऽपि श्रुतवन्तः एव । तैरपि शस्तः स्तुतः ।
विश्वास-प्रस्तुतिः
ब्रह्म॑सꣳशितो॒ ह्ये॑ष घृ॒ताह॑वन॒ इत्या॑ह ।
मूलम्
ब्रह्म॑सꣳशितो॒ ह्ये॑ष घृ॒ताह॑वन॒ इत्या॑ह ।
भट्टभास्कर-टीका
ब्रह्मसंशितो हीति ॥ ब्रह्मणा ऋगादिना मन्त्रेण परवस्तुनैव वा संशितः सम्यक् तीक्ष्णीकृतः ।
विश्वास-प्रस्तुतिः
घृ॒ता॒हु॒तिर्ह्य॑स्य प्रि॒यत॑मा प्र॒णीर्य॒ज्ञाना॒मित्या॑ह ।
मूलम्
घृ॒ता॒हु॒तिर्ह्य॑स्य प्रि॒यत॑मा प्र॒णीर्य॒ज्ञाना॒मित्या॑ह ।
भट्टभास्कर-टीका
घृताहुतिर्हीति । घृतमाहवनमाहुतिः प्रीतिहेतुरस्येति घृताहवनः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ।
विश्वास-प्रस्तुतिः
प्र॒णीर्ह्ये॑ष य॒ज्ञानाꣳ॑ र॒थीर॑ध्व॒राणा॒मित्या॑ह ।
मूलम्
प्र॒णीर्ह्ये॑ष य॒ज्ञानाꣳ॑ र॒थीर॑ध्व॒राणा॒मित्या॑ह ।
भट्टभास्कर-टीका
प्रणीरिति । प्रकर्षेण यज्ञानां नेता उत्पादयिता ॥
मूलम् (संयुक्तम्)
ए॒ष हि दे॑वर॒थो॑ऽतूर्तो॒ होतेत्या॑ह॒ न ह्ये॑तङ्कश्च॒न [52] तर॑ति॒ तूर्णि॑र्हव्य॒वाडित्या॑ह॒ सर्व॒ꣵ॒ ह्ये॑ष तर॒त्यास्पात्र॑ञ्जु॒हूर्दे॒वाना॒मित्या॑ह जु॒हूर्ह्ये॑ष दे॒वाना᳚ञ्चम॒सो दे॑व॒पान॒ इत्या॑ह
विश्वास-प्रस्तुतिः
ए॒ष हि दे॑वर॒थो॑ऽतूर्तो॒ होतेत्या॑ह ।
मूलम्
ए॒ष हि दे॑वर॒थो॑ऽतूर्तो॒ होतेत्या॑ह ।
भट्टभास्कर-टीका
4देवरथ इति ॥ अध्वराणां देवान् प्रति रंहयिता देवरथः । रंहणात् रथिः । औणादिक इप्रत्ययो वर्णविकारः ।
विश्वास-प्रस्तुतिः
न ह्ये॑तङ्कश्च॒न तर॑ति ।
तूर्णि॑र्हव्य॒वाडित्या॑ह ।
मूलम्
न ह्ये॑तङ्कश्च॒न तर॑ति ।
तूर्णि॑र्हव्य॒वाडित्या॑ह ।
भट्टभास्कर-टीका
न हीति । कश्चिदप्येनं न तरति नातिक्रमते । तरतेः कर्मणि निष्ठायां छान्दसो नत्वाभावः । नञ्समासे ‘परादिश्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् । केन चिदप्यतिक्रमितुं न शक्तः । होता देवानामाह्वाता ।
विश्वास-प्रस्तुतिः
सर्व॒ꣵ॒ ह्ये॑ष तर॑ति ।
मूलम्
सर्व॒ꣵ॒ ह्ये॑ष तर॑ति ।
भट्टभास्कर-टीका
सर्वं हीति । तरतेः कर्तरि औणादिको निन्प्रत्ययः, क्तिन्येव वा ‘ऋकारल्वादिभ्यः क्तिन्निष्ठावद्भवति’ इति निष्ठावद्भावः, ‘रदाभ्यां’ इति णत्वम् । सर्वं तरितुमतिक्रमितुं समर्थो हविषां वोढारम् ।
विश्वास-प्रस्तुतिः
आ॒स्पा॒त्र॑ञ्जु॒हूर्दे॒वाना॒मित्या॑ह ।
जु॒हूर्ह्ये॑ष दे॒वाना᳚म् ।
च॒म॒सो दे॑व॒पान॒ इत्या॑ह ।
मूलम्
आ॒स्पा॒त्र॑ञ्जु॒हूर्दे॒वाना॒मित्या॑ह ।
जु॒हूर्ह्ये॑ष दे॒वाना᳚म् ।
च॒म॒सो दे॑व॒पान॒ इत्या॑ह ।
भट्टभास्कर-टीका
जुहूर्हीति । जुहूस्थानीयोऽयं देवानां, यथा जुह्वाऽग्नौ हविः प्राप्यते एवमग्निना देवेषु हविः प्राप्स्यते इति । विशेषस्त्वस्यास्पात्रत्वम् । अयस्पात्रवत् दृढतरा अग्निलक्षणा जुहूरिति ॥
मूलम् (संयुक्तम्)
चम॒सो ह्ये॑ष दे॑व॒पानो॒ऽराꣳ इ॑वाग्ने ने॒मिर्दे॒वाꣳ स्त्वम्प॑रि॒भूर॒सीत्या॑ह दे॒वान्ह्ये॑ष प॑रि॒भूः
विश्वास-प्रस्तुतिः
च॒म॒सो ह्ये॑ष दे॑व॒पानः॑ ।
अराꣳ इ॑वाग्ने ने॒मिः,
दे॒वाꣳ स्त्वम्प॑रि॒भूर॒सीत्या॑ह ।
मूलम्
च॒म॒सो ह्ये॑ष दे॑व॒पानः॑ ।
अराꣳ इ॑वाग्ने ने॒मिः,
दे॒वाꣳ स्त्वम्प॑रि॒भूर॒सीत्या॑ह ।
भट्टभास्कर-टीका
5चमसो हीति ॥ देवा येन सोमं पिबन्ति स देवपानश्चमसः । तत्स्थनीयोऽयमग्निः ।
विश्वास-प्रस्तुतिः
दे॒वान्ह्ये॑ष प॑रि॒भूः ।
मूलम्
दे॒वान्ह्ये॑ष प॑रि॒भूः ।
भट्टभास्कर-टीका
देवान् हीति । एष हि देवान् परितः सर्वतो भवति परिगृह्णाति व्याप्नोति अरानिव नेमिः, तस्माद्देवान् परिभूरसीत्युच्यते । ‘अभितःपरितः’ इति द्वितीया; छान्दसस्तसिलोपः ॥
मूलम् (संयुक्तम्)
यद्ब्रू॒यादा व॑ह दे॒वान्दे॑वय॒ते यज॑माना॒येति॒ भ्रातृ॑व्यमस्मै [53] ज॒न॒ये॒दा व॑ह दे॒वान्यज॑माना॒येत्या॑ह॒ यज॑मानमे॒वैतेन॑ वर्धयत्य॒ग्निम॑ग्न॒ आ व॑ह॒ सोम॒मा व॒हेत्या॑ह दे॒वता॑ ए॒व तत्
विश्वास-प्रस्तुतिः
यद्ब्रू॒यात् ..
आ व॑ह दे॒वान्दे॑वय॒ते यज॑माना॒येति॑।
भ्रातृ॑व्यमस्मै जनयेत् ।
आ व॑ह दे॒वान्यज॑माना॒येत्या॑ह ।
यज॑मानमे॒वैतेन॑ वर्धयति ।
अ॒ग्निम॑ग्न॒ आ व॑ह॒ सोम॒मा व॒हेत्या॑ह ।
दे॒वता॑ ए॒व तत् ।
मूलम्
यद्ब्रू॒यात् ..
आ व॑ह दे॒वान्दे॑वय॒ते यज॑माना॒येति॑।
भ्रातृ॑व्यमस्मै जनयेत् ।
आ व॑ह दे॒वान्यज॑माना॒येत्या॑ह ।
यज॑मानमे॒वैतेन॑ वर्धयति ।
अ॒ग्निम॑ग्न॒ आ व॑ह॒ सोम॒मा व॒हेत्या॑ह ।
दे॒वता॑ ए॒व तत् ।
भट्टभास्कर-टीका
6यद्ब्रूयादिति ॥ आवह देवान् यजमानाय इत्यन्ता निवित् । शाखान्तरेषु तु ‘आवह देवान् देवयते यजमानाय’ इति पाठः । सोऽनेन निन्द्यते । यदि ब्रूयात् देवयते यजमानायेति भ्रातृव्यमस्मै यजमानाय जनयेत् । तथाहि - यजमानाय देवानावहेत्येव यावद्देवानामुपादाने सिद्धे पुनः देवानात्मन इच्छते यजमानायेति विशेषणोपादानं देवव्यतिरिक्तानामनिष्यमाणतया यजमानस्य भ्रातृव्यवत्त्वं सूचयति । ततश्च भ्रातृव्यवान् यजमानश्च स्यात् ।तस्माद्देवयते इति पदं नोपादेयम् । ततश्च भ्रातृव्यशङ्काया अभावात् यजमानं वर्धयत्येवैश्वर्येण ॥
मूलम् (संयुक्तम्)
य॑थापू॒र्वमुप॑ ह्वयत॒ आ चा᳚ग्ने दे॒वान्वह॑ सु॒यजा॑ च यज जातवेद॒ इत्या॑हा॒ग्निमे॒व तथ्सꣵ श्य॑ति॒ सो᳚ऽस्य॒ सꣳशि॑तो दे॒वेभ्यो॑ ह॒व्यव्ँव॑हत्य॒ग्निर्होता᳚ [54] इत्या॑हा॒ग्निर्वै दे॒वाना॒ꣳ॒ होता॒ य ए॒व दे॒वाना॒ꣳ॒ होता॒ तव्ँवृ॑णीते॒ स्मो व॒यमित्या॑हा॒त्मान॑मे॒व स॒त्त्वङ्ग॑मयति
विश्वास-प्रस्तुतिः
य॑थापू॒र्वमुप॑ ह्वयते ।
मूलम्
य॑थापू॒र्वमुप॑ ह्वयते ।
भट्टभास्कर-टीका
7अथ निविद उक्त्वा अग्निमग्न आवहेत्यादिना देवता आवाहयति - यथापूर्वमिति ॥ अग्न्याद्या यागदेवता अनुक्रमेणाग्निनाऽऽवाहयति ।
विश्वास-प्रस्तुतिः
आ चा᳚ग्ने दे॒वान्वह॑ , सु॒यजा॑ च यज जातवेद॒ इत्या॑ह ।
अ॒ग्निमे॒व तथ्सꣵ श्य॑ति ।
सो᳚ऽस्य॒ सꣳशि॑तो दे॒वेभ्यो॑ ह॒व्यव्ँव॑हति ।
मूलम्
आ चा᳚ग्ने दे॒वान्वह॑ , सु॒यजा॑ च यज जातवेद॒ इत्या॑ह ।
अ॒ग्निमे॒व तथ्सꣵ श्य॑ति ।
सो᳚ऽस्य॒ सꣳशि॑तो दे॒वेभ्यो॑ ह॒व्यव्ँव॑हति ।
भट्टभास्कर-टीका
आचाग्न इति । आवह देवान् सुयजा त्वं अभिन्नेन च शोभनेन च यागेन च देवान् यज हे जातवेदः त्वं खलु जातानां वेदिता जातवेदा जातधनो वेत्येवं उपश्लोकनेनाग्निं संश्यति सम्यक् तीक्ष्णीकरोतीत्येव ।
विश्वास-प्रस्तुतिः
अ॒ग्निर्होता᳚ इत्या॑ह ।
अ॒ग्निर्वै दे॒वाना॒ꣳ॒ होता᳚ ।
य ए॒व दे॒वाना॒ꣳ॒ होता᳚ ।
तव्ँवृ॑णीते॒ स्मो व॒यमित्या॑ह ।
आ॒त्मान॑मे॒व स॒त्त्वङ्ग॑मयति ।
मूलम्
अ॒ग्निर्होता᳚ इत्या॑ह ।
अ॒ग्निर्वै दे॒वाना॒ꣳ॒ होता᳚ ।
य ए॒व दे॒वाना॒ꣳ॒ होता᳚ ।
तव्ँवृ॑णीते॒ स्मो व॒यमित्या॑ह ।
आ॒त्मान॑मे॒व स॒त्त्वङ्ग॑मयति ।
भट्टभास्कर-टीका
स चाग्निः तथोज्ज्वलीकृतः तुष्टो देवस्थानं प्रापयति ॥
मूलम् (संयुक्तम्)
सा॒धु ते॑ यजमान दे॒वतेत्या॑हा॒शिष॑मे॒वैतामा शा᳚स्ते॒ यद्ब्रू॒याद्यो᳚ऽग्निꣳ होता॑र॒मवृ॑था॒ इत्य॒ग्निनो॑भ॒यतो॒ यज॑मान॒म्परि॑ गृह्णीयात्प्र॒मायु॑कस्स्यात्
विश्वास-प्रस्तुतिः
सा॒धु ते॑ यजमान दे॒वतेत्या॑ह ।
आ॒शिष॑मे॒वैतामा शा᳚स्ते ।
यद्ब्रू॒याद् यो᳚ऽग्निꣳ होता॑र॒मवृ॑था॒ इति॑ ।
मूलम्
सा॒धु ते॑ यजमान दे॒वतेत्या॑ह ।
आ॒शिष॑मे॒वैतामा शा᳚स्ते ।
यद्ब्रू॒याद् यो᳚ऽग्निꣳ होता॑र॒मवृ॑था॒ इति॑ ।
भट्टभास्कर-टीका
8स्मः स्याम वयं होतारः सर्वदा तवेति मन्त्रार्थं दर्शयति - आशिषमिति ॥ हे यजमान इज्यमाना देवता तव साधयित्री अभिमतानां इत्येतामाशिषमनेनाशास्ते । भवत्येव च तत्फलमिति । अत्र ‘साधु ते यजमान देवता योऽग्निं होतारमवृथाः’ इत्यध्वर्युप्रवरानुवाकेन शाखान्तरीयपाठः । सोनेन निन्द्यते ।
विश्वास-प्रस्तुतिः
अ॒ग्निनो॑भ॒यतो॒ यज॑मान॒म्परि॑ गृह्णीयात् ।
प्र॒मायु॑कस्स्यात् ।
मूलम्
अ॒ग्निनो॑भ॒यतो॒ यज॑मान॒म्परि॑ गृह्णीयात् ।
प्र॒मायु॑कस्स्यात् ।
भट्टभास्कर-टीका
एवं हि ब्रुवन्नग्निना यजमानमुभयतः परिगृह्णीयात् ‘अग्निर्होता वेत्वग्निः’ ‘अग्निं होतारमवृथाः’ इत्येतयोर्मध्ये यजमानस्य श्रवणात्; ततोयं प्रमायुकः मरणशीलः स्यात् । तस्मात्तथा न कर्तव्यमिति । मीयतेश्छान्दस उकञ् ॥
मूलम् (संयुक्तम्)
यजमानदेव॒त्या॑ वै जु॒हूर्भ्रा॑तृव्यदेव॒त्यो॑प॒भृत् [55] यद्द्वे इ॑व ब्रू॒याद्भ्रातृ॑व्यमस्मै जनयेद्घृ॒तव॑तीमध्वर्यो॒ स्रुच॒मास्य॒स्वेत्या॑ह॒ यज॑मानमे॒वैतेन॑ वर्धयति देवा॒युव॒मित्या॑ह
विश्वास-प्रस्तुतिः
य॒ज॒मा॒न॒ दे॒व॒त्या॑ वै जु॒हूः ।
भ्रा॒तृ॒व्य॒दे॒व॒त्यो॑प॒भृत् ।
यद्द्वे इ॑व ब्रू॒याद् भ्रातृ॑व्यमस्मै जनयेत् ।
घृ॒तव॑तीमध्वर्यो॒ स्रुच॒मास्य॒ स्वेत्या॑ह ।
यज॑मानमे॒वैतेन॑ वर्धयति ।
दे॒वा॒युव॒मित्या॑ह ।
मूलम्
य॒ज॒मा॒न॒ दे॒व॒त्या॑ वै जु॒हूः ।
भ्रा॒तृ॒व्य॒दे॒व॒त्यो॑प॒भृत् ।
यद्द्वे इ॑व ब्रू॒याद् भ्रातृ॑व्यमस्मै जनयेत् ।
घृ॒तव॑तीमध्वर्यो॒ स्रुच॒मास्य॒ स्वेत्या॑ह ।
यज॑मानमे॒वैतेन॑ वर्धयति ।
दे॒वा॒युव॒मित्या॑ह ।
भट्टभास्कर-टीका
9यजमानदेवत्येत्यादि ॥ अत्र ‘घृतवतीमध्वर्यो स्रुचम्’ इत्येकवचनेन स्रुक् निर्दिश्यते । ‘द्वे’ इति जुहूपभृतौ आदीयेते । तस्माद्द्वित्वादानस्याभिप्रायं ब्राह्मणमिदमिति दर्शयति - यद्द्वे इव ब्रूयात् सामान्यविवक्षां कृत्वा घृतवत्यौ स्रुचाविति । यदि द्वे एव जुहूपभृतौ पृथङ्निर्दिशेत्तदा भ्रातृव्यदेवत्याया उपभृतोप्युद्भूतरूपत्वाद्यजमानाय भ्रातृव्यं जनयेत् । एकवचनेन निर्देशात् यजमानदेवत्या वै जुहूरेव उद्भूतरूपा भवतीति भ्रातृव्याभावादैश्वर्येणैनं वर्धयतीति ।
नन्वेकवचनेन सामान्याद्द्वयोरपि निर्देशात्पुनरप्युद्भूतैवोपभृत्स्यात् ।
यद्यपि गुणभूतत्वादुपपभृतः स्वातन्त्र्येण ग्रहणं नास्ति । तथाऽपि तुल्यप्रतिपत्ती स्याताम् । नैष दोषः । द्वे इति द्विवचनान्तस्यैव प्रतिषेधो विवक्षितः । इवशब्देन हि शब्दप्रतिपन्नयोः द्वयोस्समत्वं प्रतिद्योत्यते; तस्माद्धोमसाधनभूता जुहूरेव उपभृता गृह्यते ॥
मूलम् (संयुक्तम्)
दे॒वान्ह्ये॑षाव॑ति वि॒श्ववा॑रा॒मित्या॑ह॒ विश्व॒ꣵ॒ ह्ये॑षाव॒तीडा॑महै दे॒वाꣳ ई॒डेन्या᳚न्नम॒स्याम॑ नम॒स्यान्॑यजा॑म य॒ज्ञिया॒नित्या॑ह मनु॒ष्या॑ वा ई॒डेन्याः᳚ पि॒तरो॑ नम॒स्या॑ दे॒वा य॒ज्ञिया॑ दे॒वता॑ ए॒व तद्य॑थाभा॒गय्ँय॑जति ॥ [56]
विश्वास-प्रस्तुतिः
दे॒वान्ह्ये॑षाव॑ति वि॒श्ववा॑रा॒मित्या॑ह ।
मूलम्
दे॒वान्ह्ये॑षाव॑ति वि॒श्ववा॑रा॒मित्या॑ह ।
भट्टभास्कर-टीका
10देवान् ह्येषेति ॥ देवानात्मन इच्छति रक्षितुमेवेति भावः ।
विश्वास-प्रस्तुतिः
विश्व॒ꣵ॒ ह्ये॑षाव॒तीडा॑महै ।
दे॒वाꣳ ई॒डेन्या᳚न्नम॒स्याम॑ ।
न॒म॒स्यान्॑, यजा॑म य॒ज्ञिया॒नित्या॑ह ।
मूलम्
विश्व॒ꣵ॒ ह्ये॑षाव॒तीडा॑महै ।
दे॒वाꣳ ई॒डेन्या᳚न्नम॒स्याम॑ ।
न॒म॒स्यान्॑, यजा॑म य॒ज्ञिया॒नित्या॑ह ।
भट्टभास्कर-टीका
विश्वं हीति । विश्वकालप्रतिपत्तित्वात् विश्वमियं रक्षति ।
विश्वास-प्रस्तुतिः
मनु॒ष्या॑ वा ई॒डेन्याः᳚ ।
मूलम्
मनु॒ष्या॑ वा ई॒डेन्याः᳚ ।
भट्टभास्कर-टीका
मनुष्या वा इत्यादि । मनुष्यादयोपि देवताः । तत्र मनुष्यात्मिका ईडेन्याः स्तुत्याः । औणादिक एन्यप्रत्ययः ।
विश्वास-प्रस्तुतिः
पि॒तरो॑ नम॒स्याः᳚ ।
मूलम्
पि॒तरो॑ नम॒स्याः᳚ ।
भट्टभास्कर-टीका
पित्रात्मिका नमस्याः । ‘नमोवरिवश्चित्रङः क्यच्’, तदन्तादचो यत् ।
विश्वास-प्रस्तुतिः
दे॒वा य॒ज्ञियाः᳚ ।
मूलम्
दे॒वा य॒ज्ञियाः᳚ ।
भट्टभास्कर-टीका
देवतात्मिका यज्ञिया यज्ञार्हा यष्टव्याः । ‘यज्ञर्त्विग्भ्यां घखञौ’ ।
विश्वास-प्रस्तुतिः
दे॒वता॑ ए॒व तद्य॑थाभा॒गय्ँय॑जति ॥
मूलम्
दे॒वता॑ ए॒व तद्य॑थाभा॒गय्ँय॑जति ॥
भट्टभास्कर-टीका
यथाभागमिति । या देवता यस्यां प्रतिपत्तौ तत्तदनतिक्रमेण तां यजति पूरयति ॥
इति द्वितीये पञ्चमे नवमोनुवाकः ॥