०८ द्वितीयादिसामिधेनीमन्त्रव्याख्यानम्

प्रजापतिऋषिः ।

मूलम् (संयुक्तम्)

अय॑ज्ञो॒ वा ए॒ष यो॑ऽसा॒माऽग्न॒ आ या॑हि वी॒तय॒ इत्या॑ह रथन्त॒रस्यै॒ष वर्ण॒स्तन्त्वा॑ स॒मिद्भि॑रङ्गिर॒ इत्या॑ह वामदे॒व्यस्यै॒ष वर्णो॑ बृ॒हद॑ग्ने सु॒वीर्य॒मित्या॑ह बृह॒त ए॒ष वर्णो॒ यदे॒तन्तृ॒चम॒न्वाह॑ य॒ज्ञमे॒व तथ्साम॑न्वन्तङ्करोति

विश्वास-प्रस्तुतिः

अय॑ज्ञो॒ वा ए॒ष यो॑ऽसा॒मा ।
अग्न॒ आ या॑हि वी॒तय॒ इत्या॑ह ।

मूलम्

अय॑ज्ञो॒ वा ए॒ष यो॑ऽसा॒मा ।
अग्न॒ आ या॑हि वी॒तय॒ इत्या॑ह ।

भट्टभास्कर-टीका

1अयज्ञो वा इत्यादि ॥ द्वितीयप्रभृतेः ऋचः स्तुतिः क्रियते ।

विश्वास-प्रस्तुतिः

र॒थ॒न्त॒रस्यै॒ष वर्णः॑ ।

तन्त्वा॑ स॒मिद्भि॑रङ्गिर॒ इत्या॑ह ।
वा॒म॒दे॒व्यस्यै॒ष वर्णः॑ ।

मूलम्

र॒थ॒न्त॒रस्यै॒ष वर्णः॑ ।

तन्त्वा॑ स॒मिद्भि॑रङ्गिर॒ इत्या॑ह ।
वा॒म॒दे॒व्यस्यै॒ष वर्णः॑ ।

भट्टभास्कर-टीका

रथन्तरस्येति । पूर्ववत्प्राथम्यादिना रथन्तरादिरूपत्वं तिसृणामृचाम् । ‘वामदेवाड्ड्यड्यौ’ ।

विश्वास-प्रस्तुतिः

बृ॒हद॑ग्ने सु॒वीर्य॒मित्या॑ह ।
बृह॒त ए॒ष वर्णः॑ ।

मूलम्

बृ॒हद॑ग्ने सु॒वीर्य॒मित्या॑ह ।
बृह॒त ए॒ष वर्णः॑ ।

भट्टभास्कर-टीका

बृहदग्न इति । बृहच्छब्दसम्बन्धेन बार्हतत्वं दर्शयितुं तृतीयस्य पदस्योपादानम् ।

विश्वास-प्रस्तुतिः

यदे॒तन्तृ॒चम॒न्वाह॑ ।

मूलम्

यदे॒तन्तृ॒चम॒न्वाह॑ ।

भट्टभास्कर-टीका

तृचमिति । तिसृणामृचां समाहारस्तृचम् । ‘ऋक्पूः’ इति समासान्तः । त्रेस्सम्प्रसारणं, उत्तरपदलोपश्च ।

विश्वास-प्रस्तुतिः

य॒ज्ञमे॒व तथ्साम॑न्वन्तङ्करोति ।

मूलम्

य॒ज्ञमे॒व तथ्साम॑न्वन्तङ्करोति ।

भट्टभास्कर-टीका

सामन्वन्तमिति । ‘अनो नुट्’ इति नुट् ॥

मूलम् (संयुक्तम्)

अ॒ग्निर॒मुष्मि॑ल्ँलो॒क आसी॑दादि॒त्यो᳚ऽस्मिन्तावि॒मौ लो॒कावशा᳚न्तौ [44] आ॒स्ता॒न्ते दे॒वा अ॑ब्रुव॒न्नेते॒मौ वि पर्यू॑हा॒मेत्यग्न॒ आ या॑हि वी॒तय॒ इत्य॒स्मिल्ँ लो॒के᳚ऽग्निम॑दधुर्बृ॒हद॑ग्ने सु॒वीर्य॒मित्य॒मुष्मि॑ल्ँलो॒क आ॑दि॒त्यन्ततो॒ वा इ॒मौ लो॒काव॑शाम्यता॒य्ँयदे॒वम॒न्वाहा॒नयो᳚र्लो॒कयो॒श्शान्त्यै॒ शाम्य॑तोऽस्मा इ॒मौ लो॒कौ य ए॒वव्ँवेद

विश्वास-प्रस्तुतिः

अ॒ग्निर॒मुष्मि॑ल्ँलो॒क आसी॑त् ।
आ॒दित्यो᳚ऽस्मिन् ।
तावि॒मौ लो॒कावशा᳚न्तावास्ताम् ।

मूलम्

अ॒ग्निर॒मुष्मि॑ल्ँलो॒क आसी॑त् ।
आ॒दित्यो᳚ऽस्मिन् ।
तावि॒मौ लो॒कावशा᳚न्तावास्ताम् ।

भट्टभास्कर-टीका

2अग्निरमुष्मिन्नित्यादि ॥ स्वर्लोके अग्निरासीत्, पृथिव्यामादित्यः । तत इमौ लोकौ अशान्तौ असुखौ आस्तां अभवताम् ।

विश्वास-प्रस्तुतिः

ते दे॒वा अ॑ब्रुवन् ।
एते॒मौ वि पर्यू॑हा॒मेति॑ ।
अग्न॒ आ या॑हि वी॒तय॒ इत्य॒स्मिल्ँ लो॒के᳚ऽग्निम॑दधुः ।

मूलम्

ते दे॒वा अ॑ब्रुवन् ।
एते॒मौ वि पर्यू॑हा॒मेति॑ ।
अग्न॒ आ या॑हि वी॒तय॒ इत्य॒स्मिल्ँ लो॒के᳚ऽग्निम॑दधुः ।

भट्टभास्कर-टीका

अथ च ते तथा पश्यन्तो देवाः परस्परमब्रुवन् - एत आगच्छत सर्वेऽपि यूयमिमौ अग्न्यादित्यौ विपर्यूहाम विपरिवृत्तलोकौ स्थापयाम । अग्न आयहीति बर्हिषि निषीदेति लिङ्गं नीचैरवस्थानस्य । ऋचश्च प्रथमत्वात् प्रथमलोकपरिग्रहः । तत्र तृतीयदेशस्यापि प्रथमपादादावग्नि शब्दोपादानादग्नेः प्रथमलोकावस्थानं सूच्यते ।

विश्वास-प्रस्तुतिः

बृ॒हद॑ग्ने सु॒वीर्य॒मित्य॒मुष्मि॑ल्ँलो॒क आ॑दि॒त्यम् ।
ततो॒ वा इ॒मौ लो॒काव॑शाम्यताम् ।

यदे॒वम॒न्वाहा॒नयो᳚र्लो॒कयो॒श्शान्त्यै॒ शाम्य॑तः ।

अ॒स्मा इ॒मौ लो॒कौ य ए॒वव्ँवेद।

मूलम्

बृ॒हद॑ग्ने सु॒वीर्य॒मित्य॒मुष्मि॑ल्ँलो॒क आ॑दि॒त्यम् ।
ततो॒ वा इ॒मौ लो॒काव॑शाम्यताम् ।

यदे॒वम॒न्वाहा॒नयो᳚र्लो॒कयो॒श्शान्त्यै॒ शाम्य॑तः ।

अ॒स्मा इ॒मौ लो॒कौ य ए॒वव्ँवेद।

भट्टभास्कर-टीका

बृहदग्न इति । विवासनकारित्वमादित्यात्मन एव । अग्नेरिति । तस्योच्चैरवस्थानलिङ्गविशेषः । ऋचस्तृतीयत्वात् तृतीयलोकपरिग्रहः । तत्र तृतीयदेशत्वम् ॥

मूलम् (संयुक्तम्)

पञ्च॑दश सामिधे॒नीरन्वा॑ह॒ पञ्च॑दश [45] वा अ॑र्धमा॒सस्य॒ रात्र॑योऽर्धमास॒शस्स॑व्ँवथ्स॒र आ᳚प्यते॒ तासा॒न्त्रीणि॑ च श॒तानि॑ ष॒ष्टिश्चा॒ख्षरा॑णि॒ ताव॑तीस्सव्ँवथ्स॒रस्य॒ रात्र॑योऽख्षर॒श ए॒व स॑व्ँवथ्स॒रमा᳚प्नोति

विश्वास-प्रस्तुतिः

पञ्च॑दश सामिधे॒नीरन्वा॑ह ।

पञ्च॑दश॒ वा अ॑र्धमा॒सस्य॒ रात्र॑यः ।

अ॒र्ध॒मा॒स॒शस्स॑व्ँवथ्स॒र आ᳚प्यते ।

तासा॒न्त्रीणि॑ च श॒तानि॑ ष॒ष्टिश्चा॒ख्षरा॑णि ।

ताव॑तीस्सव्ँवथ्स॒रस्य॒ रात्र॑यः ।

अ॒ख्ष॒र॒श ए॒व स॑व्ँवथ्स॒रमा᳚प्नोति।

मूलम्

पञ्च॑दश सामिधे॒नीरन्वा॑ह ।

पञ्च॑दश॒ वा अ॑र्धमा॒सस्य॒ रात्र॑यः ।

अ॒र्ध॒मा॒स॒शस्स॑व्ँवथ्स॒र आ᳚प्यते ।

तासा॒न्त्रीणि॑ च श॒तानि॑ ष॒ष्टिश्चा॒ख्षरा॑णि ।

ताव॑तीस्सव्ँवथ्स॒रस्य॒ रात्र॑यः ।

अ॒ख्ष॒र॒श ए॒व स॑व्ँवथ्स॒रमा᳚प्नोति।

भट्टभास्कर-टीका

3अर्धमासशः [अर्धमासेन] अक्षरशः अक्षरेण संवत्सरमाप्नोति ।
अक्षराणां रात्रीणां च समसङ्ख्याकारेण संवत्सरावाप्तिः । पूर्ववच्छस् ॥

मूलम् (संयुक्तम्)

नृ॒मेध॑श्च॒ परु॑च्छेपश्च ब्रह्म॒वाद्य॑मवदेताम॒स्मिन्दारा॑वा॒र्द्रे᳚ऽग्निञ्ज॑नयाव यत॒रो नौ॒ ब्रह्मी॑या॒निति॑

विश्वास-प्रस्तुतिः

नृ॒मेध॑श्च॒ परु॑च्छेपश्च ब्रह्म॒वाद्य॑मवदेताम् ।
अ॒स्मिन्दारा॑वा॒र्द्रे᳚ऽग्निञ्ज॑नयाव ।

मूलम्

नृ॒मेध॑श्च॒ परु॑च्छेपश्च ब्रह्म॒वाद्य॑मवदेताम् ।
अ॒स्मिन्दारा॑वा॒र्द्रे᳚ऽग्निञ्ज॑नयाव ।

भट्टभास्कर-टीका

4नृमेधश्चेत्यादिना ॥ ब्रह्मवादित्वं ब्रह्मवाद्यम् । ब्रह्म वेदं वदितुमिष्टे विषये नियोक्तुं सामर्थ्यं ब्रह्मवादः, तदेव ब्रह्मवाद्यम् । स्वार्थिको यत् ‘परादिश्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् । यद्वा - ब्रह्मणो वदनसामर्थ्यं ब्रह्मवाद्यम् । ‘वदस्सुपि क्यप्च’ इति यत्, वर्णविकारश्छान्दसः, कृदुत्तरपदप्रकृतिस्वरत्वेन ‘यतोऽनावः’ इत्याद्युदात्तत्वम् । श्यन्वा व्यत्ययेन प्रवर्तते । पूर्वं नृमेधपरुच्छेपनामानावृषी ब्रह्मवाद्ये विप्रतिपन्नावभवताम्, अहं ब्रह्मतरोऽहं ब्रह्मतर इति । तौ तथा विप्रतिपन्नौ इत्थं ब्रह्मवाद्यमवदेतां वैमत्येन अवदताम् । ‘भासन’ इत्यादिना विमतावात्मनेपदम् ।

विश्वास-प्रस्तुतिः

यत॒रो नौ॒ ब्रह्मी॑या॒निति॑ ।

मूलम्

यत॒रो नौ॒ ब्रह्मी॑या॒निति॑ ।

भट्टभास्कर-टीका

कथमित्याह - नौ आवयोर्मध्ये यतरो ब्रह्मीयान् ब्रह्मतरः अस्मिन्नार्द्रे दारौ अग्निं जनयाव अहं वा त्वं वा । तन्त्रेण द्वयोरभिधानं, यतरो नौ ब्रह्मीयान् त्वं वाऽहं वा तावावामत्राग्निं जनयावेति । विशिष्टज्ञाननिमित्तत्वेन ब्रह्मशब्दस्य गुणवचनत्वात् ‘अजादी गुणवचनादेव’ इति ईयसुन् प्रत्यये अलोपः । ‘किंयत्तदो निर्धारणे’ इति यच्छब्दात् डतरच्प्रत्ययः ॥

मूलम् (संयुक्तम्)

नृ॒मेधो॒ऽभ्य॑वद॒थ्स धू॒मम॑जनय॒त्परु॑च्छेपो॒ऽभ्य॑वद॒थ्सो᳚ऽग्निम॑जनय॒दृष॒ इत्य॑ब्रवीत् [46] यथ्स॒माव॑द्वि॒द्व क॒था त्वम॒ग्निमजी॑जनो॒ नाहमिति॑ सामिधे॒नीना॑मे॒वाहव्ँवर्ण॑व्ँवे॒देत्य॑ब्रवीत्

विश्वास-प्रस्तुतिः

नृ॒मेधो॒ऽभ्य॑वदत् ।
स धू॒मम॑जनयत् ।

मूलम्

नृ॒मेधो॒ऽभ्य॑वदत् ।
स धू॒मम॑जनयत् ।

भट्टभास्कर-टीका

5नृमेधोऽभ्यवदत् ॥ आर्द्रं दारुमभिलक्ष्य अग्निं जनयितुकामो ब्रह्म वदन् स धूममेवाजनयत् नाग्निम् ।

विश्वास-प्रस्तुतिः

परु॑च्छेपो॒ऽभ्य॑वदत् ।
सो᳚ऽग्निम॑जनयत् ।

मूलम्

परु॑च्छेपो॒ऽभ्य॑वदत् ।
सो᳚ऽग्निम॑जनयत् ।

भट्टभास्कर-टीका

परुच्छेपस्त्वग्निमजनयत् ।

विश्वास-प्रस्तुतिः

ऋृष॒ इत्य॑ब्रवीत् ।

मूलम्

ऋृष॒ इत्य॑ब्रवीत् ।

भट्टभास्कर-टीका

अथ तं दृष्टातिशयप्रतिपत्यर्थं ऋषिशब्देन प्रेम्णाऽऽमन्त्र्य नृमेधोब्रवीत् ।

विश्वास-प्रस्तुतिः

यथ्स॒माव॑द्वि॒द्व क॒था त्वम॒ग्निमजी॑जनो॒ नाहमिति॑ ।

मूलम्

यथ्स॒माव॑द्वि॒द्व क॒था त्वम॒ग्निमजी॑जनो॒ नाहमिति॑ ।

भट्टभास्कर-टीका

यत् यदा समावत् विद्व सममेवावयोर्वेदनं सर्वत्र तदा कथा केन हेतुना त्वमग्निमजीजनः नाहमिति । समादावतुप् स्वार्थीकः, ‘था हेतौ च’ इति थाप्रत्ययः ।

विश्वास-प्रस्तुतिः

सा॒मि॒धे॒नीना॑मे॒॒वाहव्ँवर्ण॑व्ँवे॒देत्य॑ब्रवीत् ।

मूलम्

सा॒मि॒धे॒नीना॑मे॒॒वाहव्ँवर्ण॑व्ँवे॒देत्य॑ब्रवीत् ।

भट्टभास्कर-टीका

अथ परुच्छेपोऽब्रवीत् - सामिधेनीनां वर्णं स्वरूपमहं वेद जानामि न त्वमिति ॥

मूलम् (संयुक्तम्)

यद्घृ॒तव॑त्प॒दम॑नू॒च्यते॒ स आ॑सा॒व्ँवर्ण॒स्तन्त्वा॑ स॒मिद्भि॑रङ्गिर॒ इत्या॑ह सामिधे॒नीष्वे॒व तज्ज्योति॑र्जनयति॒ स्त्रिय॒स्तेन॒ यदृच॒स्स्त्रिय॒स्तेन॒ यद्गा॑य॒त्रिय॒स्स्त्रिय॒स्तेन॒ यथ्सा॑मिधे॒न्यो॑

विश्वास-प्रस्तुतिः

यद्घृ॒तव॑त्प॒दम॑नू॒च्यते॒ स आ॑सा॒व्ँवर्णः॑ ।

मूलम्

यद्घृ॒तव॑त्प॒दम॑नू॒च्यते॒ स आ॑सा॒व्ँवर्णः॑ ।

भट्टभास्कर-टीका

6इदानीं तं वार्णं स्वयमेव परुच्छेप आह - यदिति ॥ घृतेनाभिधेयेन तद्वत्पदं घृतवत् घृतशब्द एव । यद्वा - घृतशब्दवत्पदं ‘तं त्वा समिद्भिः’ इत्यस्याः द्वितीयः पादः । तस्य यदनुवचनं स एव तासां एको वर्णः ।

विश्वास-प्रस्तुतिः

तन्त्वा॑ स॒मिद्भि॑रङ्गिर॒ इत्या॑ह ।
सा॒मि॒धे॒नीष्वे॒व तज्ज्योति॑र्जनयति ।

मूलम्

तन्त्वा॑ स॒मिद्भि॑रङ्गिर॒ इत्या॑ह ।
सा॒मि॒धे॒नीष्वे॒व तज्ज्योति॑र्जनयति ।

भट्टभास्कर-टीका

तमेवार्थं समर्थयते - तं त्वेति । ज्योतिष्मत्त्वमासां घृतसम्बन्धेन क्रियते तेजो घृतमिति ।

विश्वास-प्रस्तुतिः

स्त्रिय॒स्तेन॒ यदृचः॑ ।
स्त्रिय॒स्तेन॒ यद्गा॑य॒त्रियः॑ ।
स्त्रिय॒स्तेन॒ यथ्सा॑मिधे॒न्यः॑ ।

मूलम्

स्त्रिय॒स्तेन॒ यदृचः॑ ।
स्त्रिय॒स्तेन॒ यद्गा॑य॒त्रियः॑ ।
स्त्रिय॒स्तेन॒ यथ्सा॑मिधे॒न्यः॑ ।

भट्टभास्कर-टीका

अथ वर्णान्तराण्याह - स्त्रियस्तेनेत्यादि । ऋक्त्वेन गायत्रीत्वेन सामिधेनीत्वेन त्रिप्रकारं स्त्रीत्वमासाम् ॥

मूलम् (संयुक्तम्)

वृष॑ण्वती॒मन्वा॑ह [47] तेन॒ पुꣵस्व॑ती॒स्तेन॒ सेन्द्रा॒स्तेन॑ मिथु॒ना

विश्वास-प्रस्तुतिः

वृष॑ण्वती॒मन्वा॑ह ।
तेन॒ पुꣵस्व॑तीः ।
तेन॒ सेन्द्राः᳚ ।
तेन॑ मिथु॒नाः ।

मूलम्

वृष॑ण्वती॒मन्वा॑ह ।
तेन॒ पुꣵस्व॑तीः ।
तेन॒ सेन्द्राः᳚ ।
तेन॑ मिथु॒नाः ।

भट्टभास्कर-टीका

7वृषण्वतीमिति ॥ ‘वृषणं त्वा वयं वृषन्’ इत्येतत्सम्बन्धेनैताः पुंस्त्ववत्यः सेन्द्रा मिथुनाश्च भवन्ति । वृषा सेक्ता पुमान् । ‘तसौ मत्वर्थ्’ इति भत्वम् । वृषा इन्द्रः प्रधानत्वाद्देवतानाम् । स्त्रीत्वात् पुंसि योगाच्च मिथुनत्वमासामस्तीति मिथुनाः । पामादित्वान्नप्रत्ययः ।

केचिदाहुः - ‘स नः पृथु श्रवाय्यम्’ इत्यन्तानां चतसृणां पूर्वं स्तुतिः कृता । ‘अग्निं दूतं’ इत्यादीनां स्तुतिः क्रियते । ‘ईडेन्यः’ इत्यादीनां तिसृणां वृषण्वतीमन्वाहेत्यादिका स्तुतिः क्रियते इति । ‘अनो नुट्’ इति नुट् । अयस्मयादित्वेन भत्वात्पदकालेऽपि तस्य णत्वं न निवर्तते ॥

मूलम् (संयुक्तम्)

अ॒ग्निर्दे॒वाना᳚न्दू॒त आसी॑दु॒शना॑ का॒व्योऽसु॑राणा॒न्तौ प्र॒जाप॑तिम्प्र॒श्ञमै॑ता॒ꣳ॒ स प्र॒जाप॑तिर॒ग्निन्दू॒तव्ँवृ॑णीमह॒ इत्य॒भि प॒र्याव॑र्तत॒ ततो॑ दे॒वा अभ॑वन्प॒रासु॑रा॒

विश्वास-प्रस्तुतिः

अ॒ग्निर्दे॒वाना᳚न्दू॒त आसी॑त् ।

मूलम्

अ॒ग्निर्दे॒वाना᳚न्दू॒त आसी॑त् ।

भट्टभास्कर-टीका

8अग्निर्देवानामित्यादि ॥ दूतो हविषां देवसकाशं प्रापयिता । देवानामग्निर्दूतोऽभवत् ।

विश्वास-प्रस्तुतिः

उ॒शना॑ का॒व्योऽसु॑राणाम् +++(दूत आसीत्)+++।

मूलम्

उ॒शना॑ का॒व्योऽसु॑राणाम् +++(दूत आसीत्)+++।

भट्टभास्कर-टीका

असुराणां कवेः पुत्र उशना शुक्रो दूतोऽभवत् । अवन्ती [असीदिति?] छान्दसमन्तोदात्तत्वम् । ‘ऋदुशनस्पुरदंशः’ इत्युशनसोऽनङादेशः ।

विश्वास-प्रस्तुतिः

तौ प्र॒जाप॑तिम्प्र॒श्ञमै॑ताम् ।

मूलम्

तौ प्र॒जाप॑तिम्प्र॒श्ञमै॑ताम् ।

भट्टभास्कर-टीका

अथ तौ प्रजापतिं प्रश्नमैतां आवयोः को यागे दूत्यमर्हतीति प्रजापतिसकाशमगच्छताम् । ‘यजयाच’ इति कर्मणि नङ्प्रत्ययः । विभक्तिव्यत्ययो वा प्रश्नार्थं प्रजापतिमैतामिति ।

विश्वास-प्रस्तुतिः

स प्र॒जाप॑तिर॒ग्निन्दू॒तव्ँवृ॑णीमह॒ इत्य॒भि प॒र्याव॑र्तत ।

मूलम्

स प्र॒जाप॑तिर॒ग्निन्दू॒तव्ँवृ॑णीमह॒ इत्य॒भि प॒र्याव॑र्तत ।

भट्टभास्कर-टीका

अथ पृच्छ्यमानः प्रजापतिः ‘अग्निं दूतं वृणीमहे’ इतीमामृचं ब्रुवन्, अग्निमेवाभिपर्यावर्तत अग्निमेवालक्ष्य पर्यावृत्तोऽभवत् ।

विश्वास-प्रस्तुतिः

ततो॑ दे॒वा अभ॑वन्प॒रासु॑राः ।

मूलम्

ततो॑ दे॒वा अभ॑वन्प॒रासु॑राः ।

भट्टभास्कर-टीका

ततोऽग्नेरेव दूत्यार्हत्वात् तद्दूतका एवाभवन्, असुराश्च पराभूताः ॥

मूलम् (संयुक्तम्)

यस्यै॒वव्ँवि॒दुषो॒ऽग्निन्दू॒तव्ँवृ॑णीमह॒ इत्य॒न्वाह॒ भव॑त्या॒त्मना॒ परा᳚स्य॒ भ्रातृ॑व्यो भवति

विश्वास-प्रस्तुतिः

यस्यै॒वव्ँवि॒दुषो॒ऽग्निन्दू॒तव्ँवृ॑णीमह॒ इत्य॒न्वाह॑ ।
भव॑त्या॒त्मना᳚ ।
परा᳚स्य॒ भ्रातृ॑व्यो भवति ।

मूलम्

यस्यै॒वव्ँवि॒दुषो॒ऽग्निन्दू॒तव्ँवृ॑णीमह॒ इत्य॒न्वाह॑ ।
भव॑त्या॒त्मना᳚ ।
परा᳚स्य॒ भ्रातृ॑व्यो भवति ।

भट्टभास्कर-टीका

9यस्यैवमित्यादि ॥ गतम् ॥

मूलम् (संयुक्तम्)

अध्व॒रव॑ती॒मन्वा॑ह॒ भ्रातृ॑व्यमे॒वैतया᳚ [48] ध्व॒र॒ति॒ शो॒चिष्के॑श॒स्तमी॑मह॒ इत्या॑ह प॒वित्र॑मे॒वैतद्यज॑मानमे॒वैतया॑ पवयति॒ समि॑द्धो अग्न आहु॒तेत्या॑ह

विश्वास-प्रस्तुतिः

अ॒ध्व॒रव॑ती॒मन्वा॑ह ।
भ्रातृ॑व्यमे॒वैतया᳚ ध्वरति ।
शो॒चिष्के॑श॒स्तमी॑मह॒ इत्या॑ह ।

मूलम्

अ॒ध्व॒रव॑ती॒मन्वा॑ह ।
भ्रातृ॑व्यमे॒वैतया᳚ ध्वरति ।
शो॒चिष्के॑श॒स्तमी॑मह॒ इत्या॑ह ।

भट्टभास्कर-टीका

10अध्वरवतीमिति ॥ ‘समिध्यमानो अध्वरे’ इत्येताम् । ध्वरति हिनस्तीति ध्वृ मूर्छने ।

विश्वास-प्रस्तुतिः

प॒वित्र॑मे॒वैतद्यज॑मानमे॒वैतया॑ पवयति ।
समि॑द्धो अग्न आहु॒तेत्या॑ह ।

मूलम्

प॒वित्र॑मे॒वैतद्यज॑मानमे॒वैतया॑ पवयति ।
समि॑द्धो अग्न आहु॒तेत्या॑ह ।

भट्टभास्कर-टीका

पवित्रमिति । शोचिस्सम्बन्धेन शुचित्वात् पवित्रमियमृक् ॥

मूलम् (संयुक्तम्)

परि॒धिमे॒वैतम्परि॑ दधा॒त्यस्क॑न्दाय॒ यदत॑ ऊ॒र्ध्वम॑भ्याद॒ध्याद्यथा॑ बहिᳶपरि॒धि स्कन्द॑ति ता॒दृगे॒व तत्

विश्वास-प्रस्तुतिः

प॒रि॒धिमे॒वैतम्परि॑ दधाति ।
अस्क॑न्दाय॒ यदत॑ ऊ॒र्ध्वम॑भ्याद॒ध्यात् ।
यथा॑ बहिᳶपरि॒धि स्कन्द॑ति , ता॒दृगे॒व तत् ।

मूलम्

प॒रि॒धिमे॒वैतम्परि॑ दधाति ।
अस्क॑न्दाय॒ यदत॑ ऊ॒र्ध्वम॑भ्याद॒ध्यात् ।
यथा॑ बहिᳶपरि॒धि स्कन्द॑ति , ता॒दृगे॒व तत् ।

भट्टभास्कर-टीका

11परिधिमिति ॥ ‘समिद्धो अग्न आहुत’ इतीयमृक्परिधिस्थानीया । परिधानं विधानसमापनम् । समिद्ध इति च समाप्तिलिङ्गम् । अत एवानूयाजे वेदितव्या । परिधेर्बहिः बहिःपरिधि । ‘अपपरिबहिरञ्चवः’ इत्यव्ययीभावः ॥

मूलम् (संयुक्तम्)

त्रयो॒ वा अ॒ग्नयो॑ हव्य॒वाह॑नो दे॒वाना᳚ङ्कव्य॒वाह॑नᳶ पितृ॒णाꣳ स॒हर॑ख्षा॒ असु॑राणा॒न्त ए॒तर्ह्या शꣳ॑सन्ते॒ माव्ँव॑रिष्यते॒ माम् [49] इति॑ वृणी॒ध्वꣳ ह॑व्य॒वाह॑न॒मित्या॑ह

विश्वास-प्रस्तुतिः

त्रयो॒ वा अ॒ग्नयः॑ ।
हव्य॒वाह॑नो दे॒वाना᳚म् , कव्य॒वाह॑नᳶ पितृ॒णाम् , स॒हर॑ख्षा असु॑राणाम् ।

मूलम्

त्रयो॒ वा अ॒ग्नयः॑ ।
हव्य॒वाह॑नो दे॒वाना᳚म् , कव्य॒वाह॑नᳶ पितृ॒णाम् , स॒हर॑ख्षा असु॑राणाम् ।

भट्टभास्कर-टीका

12त्रयो वा इत्यादि ॥ ‘हव्येनन्तःपादम्’ इत्युभयत्र ञ्युट् ‘कव्यपुरीषपुरीष्येषु ञ्युट्’ ।

विश्वास-प्रस्तुतिः

त ए॒तर्ह्या शꣳ॑सन्ते -
“माव्ँ व॑रिष्यते, माम्” इति॑।

“वृणी॒ध्वꣳ ह॑व्य॒वाह॑न॒म्” इत्या॑ह ।

य ए॒व दे॒वाना॒न्, तव्ँ वृ॑णीते ।

मूलम्

त ए॒तर्ह्या शꣳ॑सन्ते -
“माव्ँ व॑रिष्यते, माम्” इति॑।

“वृणी॒ध्वꣳ ह॑व्य॒वाह॑न॒म्” इत्या॑ह ।

य ए॒व दे॒वाना॒न्, तव्ँ वृ॑णीते ।

भट्टभास्कर-टीका

त्रयो ऽप्य् एते ऽग्नयो ऽस्मिन्काले आशंसन्ते प्रार्थयन्ते मामयं वरिष्यते इति । तत्र ‘वृणीध्वं हव्यवाहनम्’ इति वचनेन कव्यवाहादिव्युदासेन देवानामग्निर्हव्यवाहन एव वृतो भवति ॥

मूलम् (संयुक्तम्)

य ए॒व दे॒वाना॒न्तव्ँवृ॑णीत आर्षे॒यव्ँवृ॑णीते॒ बन्धो॑रे॒व नैत्यथो॒ सन्त॑त्यै

विश्वास-प्रस्तुतिः

आ॒र्षे॒यव्ँ वृ॑णीते ।

मूलम्

आ॒र्षे॒यव्ँ वृ॑णीते ।

भट्टभास्कर-टीका

13आर्षेयमिति ॥ ऋषेरपत्यमार्षेयम् । ‘इतश्चानिञः’ इति ढक् । आत्मीय-गोत्र ऋषिः । तद्धितप्रत्ययान्तानामामन्त्रितविभक्त्या यथाप्रवरं वृणीते सामिधेन्यनन्तरम् । यथा भृगूणां ‘अग्ने महाꣳ असि ब्राह्मण भारत भार्गवच्यावनाप्नुवानौर्वजामदग्न्य’ इति पञ्चार्षेयः प्रवरः व्रियते । अत्र भृग्वादिभिरिष्टोऽग्निरेव तत्तदपत्यतयोपचर्यते ।

विश्वास-प्रस्तुतिः

बन्धो॑र् ए॒व नैति॑ ।

मूलम्

बन्धो॑र् ए॒व नैति॑ ।

भट्टभास्कर-टीका

बन्धोरिति । बन्धुभ्यो भृग्वादिभ्य एवं वृणानो नैति न च्युतो भवति ।

विश्वास-प्रस्तुतिः

अथो॒ सन्त॑त्यै ।

मूलम्

अथो॒ सन्त॑त्यै ।

भट्टभास्कर-टीका

अथो अपि च इदमार्षेयवरणं अस्य पुत्रादिसन्तानसमृद्ध्यै भवति । यद्वा - ‘ऋषिणा हि देवाः पुरुषम् अनुबुद्ध्यन्ते’ इति भृग्वादिभिः प्रसिद्धैः मन्त्रकृद्भिः बन्धुभिः व्रीयमाणैर् अयं बन्धुमान् भवति । ततो देवैर् अनुबुद्धो भवति, सन्तान-वृद्धिश् च भवति ॥

मूलम् (संयुक्तम्)

प॒रस्ता॑द॒र्वाचो॑ वृणीते॒ तस्मा᳚त्प॒रस्ता॑द॒र्वाञ्चो॑ मनु॒ष्या᳚न्पित॒रोऽनु॒ प्र पि॑पते ॥ [50]

विश्वास-प्रस्तुतिः

प॒रस्ता॑द् अ॒र्वाचो॑ वृणीते ।

मूलम्

प॒रस्ता॑द् अ॒र्वाचो॑ वृणीते ।

भट्टभास्कर-टीका

14परस्तादिति ॥ परस्तात् पुरुषाद् आरभ्य अर्वाचः अधस्ताद् अवस्थितान् ऋषीन् वृणीते यथा - भृग्वादयो जमदग्न्यन्ताः । परशब्दात्पञ्चम्यन्तात् ‘दिक्छन्ब्देभ्यः’ इत्यादिना अस्तातिप्रत्ययः ।

विश्वास-प्रस्तुतिः

तस्मा᳚त् प॒रस्ता॑द् अ॒र्वाञ्चो॑ मनु॒ष्या᳚न् पित॒रो ऽनु॒ प्र पि॑पते ॥

मूलम्

तस्मा᳚त् प॒रस्ता॑द् अ॒र्वाञ्चो॑ मनु॒ष्या᳚न् पित॒रो ऽनु॒ प्र पि॑पते ॥

भट्टभास्कर-टीका

तस्मादिति । परस्ताद् अर्वाञ्चः पितरो मनुष्यान् प्रपिपते प्रकर्षेण विद्याभागितया अनुक्रमेण रक्षन्ति ।
अपरे परे पुरुषान् भजन्ते, अपरे परित्यजन्ति । छान्दसश् श्लुर् आत्मनेपदं च ॥

इति द्वितीये पञ्चमे अष्टमोऽनुवाकः ॥