प्राजापत्यं काण्डम्
प्रजापतिऋषिः ।
मूलम् (संयुक्तम्)
दे॒वा वै नर्चि न यजु॑ष्यश्रयन्त॒ ते साम॑न्ने॒वाश्र॑यन्त॒ हिङ्क॑रोति॒ सामै॒वाक॒र्हिङ्क॑रोति॒ यत्रै॒व दे॒वा अश्र॑यन्त॒ तत॑ ए॒वैना॒न्प्र यु॑ङ्क्ते॒ हिङ्क॑रोति
विश्वास-प्रस्तुतिः
दे॒वा वै नर्चि न यजु॑ष्यश्रयन्त ।
ते साम॑न्ने॒वाश्र॑यन्त ।
मूलम्
दे॒वा वै नर्चि न यजु॑ष्यश्रयन्त ।
ते साम॑न्ने॒वाश्र॑यन्त ।
भट्टभास्कर-टीका
1अतः परमग्निहोत्रस्य ब्राह्मणं प्राजापत्यमेव काण्डम् ॥ देवा वा इत्यादि ॥ ऋचि यजुषि च नाश्रयन्त नासेवन्त इति च स्तुतिः । यजनं च नानीयन्त सामन्येवाश्रयन्त । साम सान्त्वने । तस्माद्धिङ्करोति हिङ्कारं प्रयुङ्क्ते सामिधेनीनामनुवचनारम्भे होता ।
विश्वास-प्रस्तुतिः
हिङ्क॑रोति ।
सामै॒वाक॒र्हिङ्क॑रोति ।
मूलम्
हिङ्क॑रोति ।
सामै॒वाक॒र्हिङ्क॑रोति ।
भट्टभास्कर-टीका
हिनोति प्रीणयति वा सर्वमिति हिम् । हि गतौ, हिवि प्रीणने, ब्रह्मणो नामेदं, छान्दसी रूपसिद्धिः । सामैव अकः कृतं भवति सामभक्तित्वाद्धिंकारस्य । छान्दसो लुङ्, ‘मन्त्रे घस’ इति च्लेर्लुक् । असकृद्विधानं हिङ्कारस्य फलभेदप्रदर्शनार्थम् । यत्रैवेति ।
विश्वास-प्रस्तुतिः
यत्रै॒व दे॒वा अश्र॑यन्त ।
तत॑ ए॒वैना॒न्प्र यु॑ङ्क्ते॒ हिङ्क॑रोति ।
मूलम्
यत्रै॒व दे॒वा अश्र॑यन्त ।
तत॑ ए॒वैना॒न्प्र यु॑ङ्क्ते॒ हिङ्क॑रोति ।
भट्टभास्कर-टीका
यत्र स्थिताः देवाः तत एव एनान् देवानानीय इह प्रयुङ्क्ते ॥
मूलम् (संयुक्तम्)
वा॒च ए॒वैष योगो॒ हिङ्क॑रोति प्र॒जा ए॒व तद्यज॑मानस्सृजते
विश्वास-प्रस्तुतिः
वा॒च ए॒वैष योगो॒ हिङ्क॑रोति।
प्र॒जा ए॒व तद्यज॑मानस्सृजते ।
मूलम्
वा॒च ए॒वैष योगो॒ हिङ्क॑रोति।
प्र॒जा ए॒व तद्यज॑मानस्सृजते ।
भट्टभास्कर-टीका
2वाच इति ॥ वाग्योगः खल्ययम् । वाक् सामिधेनीलक्षणा अनेन युज्यते । प्रजा एवेति । एतेन हिङ्कारस्य पशव्यत्वमाह ॥
मूलम् (संयुक्तम्)
त्रिᳶ प्र॑थ॒मामन्वा॑ह॒ त्रिरु॑त्त॒माय्ँय॒ज्ञस्यै॒व तद्ब॒र्सम् [39] न॒ह्य॒त्यप्र॑स्रꣳसाय
विश्वास-प्रस्तुतिः
त्रिᳶ प्र॑थ॒मामन्वा॑ह॒ त्रिरु॑त्त॒माम् ।
य॒ज्ञस्यै॒व तद्ब॒र्सन्न॑ह्य॒त्यप्र॑स्रꣳसाय ।
मूलम्
त्रिᳶ प्र॑थ॒मामन्वा॑ह॒ त्रिरु॑त्त॒माम् ।
य॒ज्ञस्यै॒व तद्ब॒र्सन्न॑ह्य॒त्यप्र॑स्रꣳसाय ।
भट्टभास्कर-टीका
3त्रिः प्रथमामित्यादि ॥ ‘प्र वो वाजाः’ इत्याद्या एकादशर्चः । आद्यन्तयोर्व [योः पुनर्व] चनेन पञ्चदशसामिधेन्यः क्रियन्ते । तेन सामिधेनीनाम् [नीनां आद्यन्तयोरभ्यासेन यज्ञस्य बर्सम् आ] वरणं नह्यति बध्नाति । बृ आवरणे, औणादिकस्सप्रत्ययः । तत् यज्ञस्य अप्रस्रंसनाय भवति ॥
मूलम् (संयुक्तम्)
सन्त॑त॒मन्वा॑ह प्रा॒णाना॑म॒न्नाद्य॑स्य॒ सन्त॑त्या॒ अथो॒ रख्ष॑सा॒मप॑हत्यै
विश्वास-प्रस्तुतिः
सन्त॑त॒मन्वा॑ह ।
मूलम्
सन्त॑त॒मन्वा॑ह ।
भट्टभास्कर-टीका
4सन्ततमिति ॥ पूर्वस्यां उत्तरमर्धर्चं उत्तरस्याश्च पूर्वं संहितं कुर्यात् । प्रथमायां च हिङ्कारेण मध्यमाया अर्धर्चमालभेत । न हिंकृत्येति केचित् । अविशेषात् सर्वेषां सन्ततत्वम् । ऋचावन्तराऽनुच्छ्वासः सन्ततत्वं श्रूयते ‘नान्तरार्चा व्यन्यात्’ इति ।
विश्वास-प्रस्तुतिः
प्रा॒णाना॑म॒न्नाद्य॑स्य॒ सन्त॑त्यै ।
मूलम्
प्रा॒णाना॑म॒न्नाद्य॑स्य॒ सन्त॑त्यै ।
भट्टभास्कर-टीका
एकेनोच्छासेनोच्चार्यैव क्रियमाणं प्राणानामन्नाद्यस्य चाविच्छेदाय भवति ।
विश्वास-प्रस्तुतिः
अथो॒ रख्ष॑सा॒मप॑हत्यै ।
मूलम्
अथो॒ रख्ष॑सा॒मप॑हत्यै ।
भट्टभास्कर-टीका
अथो अपि च रक्षसामपहत्यै भवति, सामिधेनीनां अनुच्छ्वासेन रक्षसामनुच्छ्वासः क्रियत इति । केचिदाहुः - प्रथमोत्तमयोरेवेदं सन्ततत्वविधानमिति ॥
मूलम् (संयुक्तम्)
राथ॑न्तरीम्प्रथ॒मामन्वा॑ह॒ राथ॑न्तरो॒ वा अ॒यल्ँलो॒क इ॒ममे॒व लो॒कम॒भि ज॑यति
विश्वास-प्रस्तुतिः
राथ॑न्तरीम्प्रथ॒मामन्वा॑ह।
मूलम्
राथ॑न्तरीम्प्रथ॒मामन्वा॑ह।
भट्टभास्कर-टीका
5राथन्तरीमिति ॥ सामविशेषसम्बन्धेन ऋचस्स्तुतिः । रथन्तरसामसम्बन्धिनी प्रथमा ऋक्, प्रथम्याद्द्वयोरुदात्तस्वरत्वाच्च । उत्सादित्वादञ् ।
विश्वास-प्रस्तुतिः
राथ॑न्तरो॒ वा अ॒यल्ँलो॒क इ॒ममे॒व लो॒कम॒भि ज॑यति ।
मूलम्
राथ॑न्तरो॒ वा अ॒यल्ँलो॒क इ॒ममे॒व लो॒कम॒भि ज॑यति ।
भट्टभास्कर-टीका
अयं लोको भूलोकः राथन्तरः, स एव हेतुः ॥
मूलम् (संयुक्तम्)
त्रिर्वि गृ॑ह्णाति॒ त्रय॑ इ॒मे लो॒का इ॒माने॒व लो॒कान॒भि ज॑यति
विश्वास-प्रस्तुतिः
त्रिर्वि गृ॑ह्णाति ।
त्रय॑ इ॒मे लो॒का इ॒माने॒व लो॒कान॒भि ज॑यति ।
मूलम्
त्रिर्वि गृ॑ह्णाति ।
त्रय॑ इ॒मे लो॒का इ॒माने॒व लो॒कान॒भि ज॑यति ।
भट्टभास्कर-टीका
6अस्यास्त्रिर्विच्छेदो विग्रहः । तृतीयां त्रिर्विगृह्णातीत्येके ॥
मूलम् (संयुक्तम्)
बार्ह॑तीमुत्त॒मामन्वा॑ह॒ बार्ह॑तो॒ वा अ॒सौ लो॒को॑ऽमुमे॒व लो॒कम॒भि ज॑यति
विश्वास-प्रस्तुतिः
बार्ह॑तीमुत्त॒मामन्वा॑ह ।
बार्ह॑तो॒ वा अ॒सौ लो॒को॑ऽमुमे॒व लो॒कम॒भि ज॑यति ।
मूलम्
बार्ह॑तीमुत्त॒मामन्वा॑ह ।
बार्ह॑तो॒ वा अ॒सौ लो॒को॑ऽमुमे॒व लो॒कम॒भि ज॑यति ।
भट्टभास्कर-टीका
7बार्हतीमिति ॥ “तं त्वा समिद्भिः’ इति तृतीया तिसृणामुत्तमा । बृहच्छब्दोप्युत्सादिः । बृहत्सामवत्त्वं पूर्ववत्सम्बन्धि, उभयोस्तृतीयत्वात् ॥
मूलम् (संयुक्तम्)
प्र वः॑ [40] वाजा॒ इत्यनि॑रुक्ताम्प्राजाप॒त्यामन्वा॑ह य॒ज्ञो वै प्र॒जाप॑तिर्य॒ज्ञमे॒व प्र॒जाप॑ति॒मा र॑भते॒ प्र वो॒ वाजा॒ इत्यन्वा॒हान्न॒व्ँवै वाजोऽन्न॑मे॒वाव॑ रुन्द्धे॒ प्र वो॒ वाजा॒ इत्यन्वा॑ह॒ तस्मा᳚त्प्रा॒चीन॒ꣳ॒ रेतो॑ धीय॒ते
विश्वास-प्रस्तुतिः
प्र वो॒ वाजा॒ इत्यनि॑रुक्ताम्प्राजाप॒त्यामन्वा॑ह ।
य॒ज्ञो वै प्र॒जाप॑तिर्य॒ज्ञमे॒व प्र॒जाप॑ति॒मा र॑भते ।
प्र वो॒ वाजा॒ इत्यन्वा॑ह ।
अन्न॒व्ँवै वाजः॑ ।
अन्न॑मे॒वाव॑ रुन्द्धे ।
प्र वो॒ वाजा॒ इत्यन्वा॑ह ।
मूलम्
प्र वो॒ वाजा॒ इत्यनि॑रुक्ताम्प्राजाप॒त्यामन्वा॑ह ।
य॒ज्ञो वै प्र॒जाप॑तिर्य॒ज्ञमे॒व प्र॒जाप॑ति॒मा र॑भते ।
प्र वो॒ वाजा॒ इत्यन्वा॑ह ।
अन्न॒व्ँवै वाजः॑ ।
अन्न॑मे॒वाव॑ रुन्द्धे ।
प्र वो॒ वाजा॒ इत्यन्वा॑ह ।
भट्टभास्कर-टीका
8अनिरुक्तामिति ॥ अस्पष्टदेवताकां अतः प्राजापत्यां नीचैस्स्वरत्वाच्च बृहच्छब्दसम्बन्धित्वाच्च । यज्ञात्मानं प्रजापतिमादौ परिगृह्णाति । विशिष्टदेवतासम्बन्धेन स्तुतिरेषा । अन्नं वै वाज इति । वाजपदसम्बन्धेन स्तुतिः ।
विश्वास-प्रस्तुतिः
तस्मा᳚त्प्रा॒चीन॒ꣳ॒ रेतो॑ धीयते ।
मूलम्
तस्मा᳚त्प्रा॒चीन॒ꣳ॒ रेतो॑ धीयते ।
भट्टभास्कर-टीका
प्राचीनमिति । उपसर्गविशेषसम्बन्धेन स्तुतिः । प्रगतं प्राचीनम् । ‘विभाषाञ्चेरदिक्स्त्रियाम्’ इति खः ॥
मूलम् (संयुक्तम्)
अग्न॒ आ या॑हि वी॒तय॒ इत्या॑ह॒ तस्मा᳚त्प्र॒तीचीः᳚ प्र॒जा जा॑यन्ते॒ प्र वो॒ वाजाः᳚ [41] इत्यन्वा॑ह
विश्वास-प्रस्तुतिः
अग्न॒ आ या॑हि वी॒तय॒ इत्या॑ह ।
तस्मा᳚त्प्र॒तीचीः᳚ प्र॒जा जा॑यन्ते ।
प्र वो॒ वाजा इत्यन्वा॑ह ।
मूलम्
अग्न॒ आ या॑हि वी॒तय॒ इत्या॑ह ।
तस्मा᳚त्प्र॒तीचीः᳚ प्र॒जा जा॑यन्ते ।
प्र वो॒ वाजा इत्यन्वा॑ह ।
भट्टभास्कर-टीका
9अग्न आ याहीति द्वितीया ऋक् ॥ आयाहीति वचनात् प्राचीनं निहितं रेतः प्राचीनं प्रजात्वेन परिणतं निर्गच्छति । प्रतिकूलाः प्रतीच्यः । ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम् । ‘चौ’ इति पूर्वपदस्य दीर्घत्वम्, अन्तोदात्तत्वं च ॥
मूलम् (संयुक्तम्)
मासा॒ वै वाजा॑ अर्धमा॒सा अ॒भिद्य॑वो दे॒वा ह॒विष्म॑न्तो॒ गौर्घृ॒ताची॑ य॒ज्ञो दे॒वाञ्जि॑गाति॒ यज॑मानस्सुम्न॒युरि॒दम॑सी॒दम॒सीत्ये॒व य॒ज्ञस्य॑ प्रि॒यन्धामाव॑ रुन्द्धे
विश्वास-प्रस्तुतिः
मासा॒ वै वाजाः᳚ ,
मूलम्
मासा॒ वै वाजाः᳚ ,
भट्टभास्कर-टीका
10मासा वा इत्यादि ॥ मन्त्रपदानां सर्वेषां स्तुतिः । हे ऋत्विग्यजमानाः वाजादयो युष्माकमभिमतसिद्धये भवन्तु । वाजाः मासाः अन्नहेतवः; गतिमन्तो वा सर्वक्रियाणामाधाराः ।
विश्वास-प्रस्तुतिः
अ॒र्ध॒मा॒सा अ॒भिद्य॑वः .. ,
मूलम्
अ॒र्ध॒मा॒सा अ॒भिद्य॑वः .. ,
भट्टभास्कर-टीका
अर्धमासाः अभिद्यवः दिवसैरभिगतदीप्तित्वात् साभिप्रायेण क्रियाप्रवर्तकाः ।
विश्वास-प्रस्तुतिः
दे॒वा ह॒विष्म॑न्तः .. ,
मूलम्
दे॒वा ह॒विष्म॑न्तः .. ,
भट्टभास्कर-टीका
हविष्मन्तो देवाः क्रियया आराध्याः ।
विश्वास-प्रस्तुतिः
गौर्घृ॒ताची॑ .. ,
मूलम्
गौर्घृ॒ताची॑ .. ,
भट्टभास्कर-टीका
घृताची घृतमञ्चतीति । घृतहेतुर्गौः हविःप्रदानेन क्रियाप्रवृत्तिहेतुः । पूर्ववत् ‘चौ’ इति दीर्घत्वम्, अन्तोदात्तत्वं च ।
विश्वास-प्रस्तुतिः
य॒ज्ञो दे॒वाञ्जि॑गाति ।
मूलम्
य॒ज्ञो दे॒वाञ्जि॑गाति ।
भट्टभास्कर-टीका
स यज्ञो देवान् जिगाति गच्छति तृप्तिहेतुत्वेन । गाङ् गतौ, व्यत्ययेन परस्मैपदं, शपः श्लुः, अभ्यासस्य चेत्वम् ।
विश्वास-प्रस्तुतिः
यज॑मानस्सुम्न॒युः ।
मूलम्
यज॑मानस्सुम्न॒युः ।
भट्टभास्कर-टीका
सुम्नयुः सुखमात्मन इच्छतीति सुम्नयुर्यजमानः फलभाक् । एवमेते यज्ञस्याधाराः ।
विश्वास-प्रस्तुतिः
इ॒दम॑सी॒दम॒सीत्ये॒व य॒ज्ञस्य॑ प्रि॒यन्धामाव॑ रुन्द्धे ।
मूलम्
इ॒दम॑सी॒दम॒सीत्ये॒व य॒ज्ञस्य॑ प्रि॒यन्धामाव॑ रुन्द्धे ।
भट्टभास्कर-टीका
एभिस्ताद्रूप्येण इदमसीदमसीति यज्ञं स्तुत्वा यज्ञस्य प्रियं धाम स्थानं वाजादिकमवरुन्धे ॥
मूलम् (संयुक्तम्)
यङ्का॒मये॑त॒ सर्व॒मायु॑रिया॒दिति॒ प्र वो॒ वाजा॒ इति॒ तस्या॒नूच्याग्न॒ आ या॑हि वी॒तय॒ इति॒ सन्त॑त॒मुत्त॑रमर्ध॒र्चमा ल॑भेत [42] प्रा॒णेनै॒वास्या॑पा॒नन्दा॑धार॒ सर्व॒मायु॑रेति
विश्वास-प्रस्तुतिः
यङ्का॒मये॑त॒ सर्व॒मायु॑रिया॒दिति॑ ..
प्र वो॒ वाजा॒ इति॑ ..
तस्या॒नूच्याग्न॒ आ या॑हि वी॒तय॒ इति॒ सन्त॑त॒मुत्त॑रमर्ध॒र्चमा ल॑भेत ।
मूलम्
यङ्का॒मये॑त॒ सर्व॒मायु॑रिया॒दिति॑ ..
प्र वो॒ वाजा॒ इति॑ ..
तस्या॒नूच्याग्न॒ आ या॑हि वी॒तय॒ इति॒ सन्त॑त॒मुत्त॑रमर्ध॒र्चमा ल॑भेत ।
भट्टभास्कर-टीका
11यं इत्यादि ॥ एतेन प्रथमद्वितीययोः सन्तानस्य विशेषणात् आयुर्हेतुत्वेन स्तुतिः क्रियते । ‘प्र वो वाजाः’ इत्येतामनूच्य अस्या उत्तरमर्धर्चं ‘अग्न आ याहि वीतये’ इत्यनया सन्ततमालभेत । ऋचोर्धमर्धर्चम् । ‘ऋक्पूः’ इति समासान्तः ।
विश्वास-प्रस्तुतिः
प्रा॒णेनै॒वास्या॑पा॒नन्दा॑धार ।
सर्व॒मायु॑रेति ।
मूलम्
प्रा॒णेनै॒वास्या॑पा॒नन्दा॑धार ।
सर्व॒मायु॑रेति ।
भट्टभास्कर-टीका
प्राणेनैवेति । द्वयोः अर्धर्चयोः प्राणापानस्थानीयत्वात् । दाधारेति छान्दसो लिट्, तुजादित्वादभ्यासस्य दीर्घत्वम् ॥
मूलम् (संयुक्तम्)
यो वा अ॑र॒त्निꣳ सा॑मिधे॒नीना॒व्ँवेदा॑र॒त्नावे॒व भ्रातृ॑व्यङ्कुरुतेऽर्ध॒र्चौ सन्द॑धात्ये॒ष वा अ॑र॒त्निस्सा॑मिधे॒नीना॒य्ँय ए॒वव्ँवेदा॑र॒त्नावे॒व भ्रातृ॑व्यङ्कुरुते
विश्वास-प्रस्तुतिः
यो वा अ॑र॒त्निꣳ सा॑मिधे॒नीना॒व्ँवेद॑ ।
मूलम्
यो वा अ॑र॒त्निꣳ सा॑मिधे॒नीना॒व्ँवेद॑ ।
भट्टभास्कर-टीका
12यो वा इत्यादिना सन्तानस्य फलान्तरं दर्शयति । समिधामाधानमन्त्रास्सामिधेन्यः । ‘समिधामाधाने’ इति षेण्यण्प्रत्ययः, ‘षिद्गौरादिभ्यश्च’ इति ङीष्, ‘यस्य’ इति लोपे ‘हलस्तद्धितस्य’ इति यलोपः । तासामरत्निः अरमणम् । नञ्पूर्वादमेर्निप्रत्ययेऽन्त्यविकारः । यद्वा - अरणमरत्निः सामिधेनीनां गमनविशेषः । अर्तेरत्निप्रत्ययः । अथवा - द्वौ प्रादेशौ संहितावरत्निः, प्रदेशस्थानीययोरर्धर्चयोस्सन्धानम् । तावेवारत्निरित्युपचर्यते । प्रमाणलक्षणाद्वा सामीधेनीनामुच्छ्बासप्रमाणं यो वेदेति ।
विश्वास-प्रस्तुतिः
अ॒र॒त्नावे॒व भ्रातृ॑व्यङ्कुरुते ।
मूलम्
अ॒र॒त्नावे॒व भ्रातृ॑व्यङ्कुरुते ।
भट्टभास्कर-टीका
अरत्नाविति । सन्धानस्यारत्निशब्देनाभिधानस्येदं फलम् । अरमणे अरमणशीलत्वे प्रादेशद्वयपरिमितत्वे वा शत्रून् कुरुते ।
विश्वास-प्रस्तुतिः
अ॒र्ध॒र्चौ सन्द॑धाति ।
ए॒ष वा अ॑र॒त्निस्सा॑मिधे॒नीना॒य्ँय ए॒वव्ँवेद ।
अ॒र॒त्नावेव भ्रातृ॑व्यङ्कुरुते ।
मूलम्
अ॒र्ध॒र्चौ सन्द॑धाति ।
ए॒ष वा अ॑र॒त्निस्सा॑मिधे॒नीना॒य्ँय ए॒वव्ँवेद ।
अ॒र॒त्नावेव भ्रातृ॑व्यङ्कुरुते ।
भट्टभास्कर-टीका
कः पुनस्स आसामरत्निरित्याह - अर्धर्चाविति । यजमानव्यतिरिक्तवेदित्रर्थं य एवं वेदेत्यादेः पुनर्वचनम् ॥
मूलम् (संयुक्तम्)
ऋषेर्॑ऋषे॒र्वा ए॒ता निर्मि॑ता॒ यथ्सा॑मिधे॒न्य॑स्ता यदस॑य्ँयुक्ता॒स्स्युᳶ प्र॒जया॑ प॒शुभि॒र्यज॑मानस्य॒ वि ति॑ष्ठेरन्नर्ध॒र्चौ सन्द॑धाति॒ सय्ँयु॑नक्त्ये॒वैना॒स्ता अ॑स्मै॒ सय्ँयु॑क्ता॒ अव॑रुद्धा॒स्सर्वा॑मा॒शिष॑न्दुह्रे ॥43॥
विश्वास-प्रस्तुतिः
ऋषेर्॑ऋषे॒र्वा ए॒ता निर्मि॑ता॒ यथ्सा॑मिधे॒न्यः॑ ।
मूलम्
ऋषेर्॑ऋषे॒र्वा ए॒ता निर्मि॑ता॒ यथ्सा॑मिधे॒न्यः॑ ।
भट्टभास्कर-टीका
13ऋषीणां सम्बन्धिभ्य आविर्भूताः एताः ।
विश्वास-प्रस्तुतिः
ता यदस॑य्ँयुक्ता॒स्स्युᳶ प्र॒जया॑ प॒शुभि॒र्यज॑मानस्य॒ वि ति॑ष्ठेरन् ।
मूलम्
ता यदस॑य्ँयुक्ता॒स्स्युᳶ प्र॒जया॑ प॒शुभि॒र्यज॑मानस्य॒ वि ति॑ष्ठेरन् ।
भट्टभास्कर-टीका
ता यदि परस्परं असंयुक्ताः स्युः तदा या एता ऋषिभ्यो गोत्रकृद्भ्यः भृग्वादिभ्यः उत्पन्नाः प्रजाः पशवश्च; तैरपि सर्वैरेता वितिष्ठेरन् विश्लिष्टाः स्युः यजमानस्य प्रजापशुसिद्धिहेतवो न स्युरित्यर्थः ।
विश्वास-प्रस्तुतिः
अ॒र्ध॒र्चौ सन्द॑धाति ।
सय्ँयु॑नक्त्ये॒वैनाः᳚।
मूलम्
अ॒र्ध॒र्चौ सन्द॑धाति ।
सय्ँयु॑नक्त्ये॒वैनाः᳚।
भट्टभास्कर-टीका
तस्मादर्धर्चसन्धानेन एतास्संयुनक्ति ।
विश्वास-प्रस्तुतिः
ता अ॑स्मै॒ सय्ँयु॑क्ता॒ अव॑रुद्धा॒स्सर्वा॑मा॒शिष॑न्दुह्रे ।
मूलम्
ता अ॑स्मै॒ सय्ँयु॑क्ता॒ अव॑रुद्धा॒स्सर्वा॑मा॒शिष॑न्दुह्रे ।
भट्टभास्कर-टीका
ताश्च संयुक्तवत्सा गाव इव गोष्ठेऽवरुद्धाः अस्मै यजमानाय सर्वामाशिषमाभिमतमर्थं दुह्रे स्वयमेव दुहन्ते । कर्मकर्तरि ‘न दुहस्नुनमाम्’ इति यगभावः, ‘बहुलं छन्दसि’ इति लट्, ‘लोपस्य आत्मनेपदेषु इति तलोपः, अतो गुणे पररूपत्वम् ॥
इति द्वितीये पञ्चमे सप्तमोनुवाकः ॥