०६ दर्शपूर्णमासयोः सोमयागेन सह पौर्वापर्यम्

प्रजापतिऋषिः ।

मूलम् (संयुक्तम्)

ए॒ष वै दे॑वर॒थो यद्द॑र्शपूर्णमा॒सौ यो द॑र्शपूर्णमा॒सावि॒ष्ट्वा सोमे॑न॒ यज॑ते॒ रथ॑स्पष्ट ए॒वाव॒साने॒ वरे॑ दे॒वाना॒मव॑ स्यति

विश्वास-प्रस्तुतिः

ए॒ष वै दे॑वर॒थो यद्द॑र्शपूर्णमा॒सौ ।

यो द॑र्शपूर्णमा॒सावि॒ष्ट्वा सोमे॑न॒ यज॑ते।

मूलम्

ए॒ष वै दे॑वर॒थो यद्द॑र्शपूर्णमा॒सौ ।

यो द॑र्शपूर्णमा॒सावि॒ष्ट्वा सोमे॑न॒ यज॑ते।

भट्टभास्कर-टीका

1एष वा इत्यादि ॥ देवरथः देवानां रथस्थानम् । रथस्पष्टः रथेन प्रकाशितः क्षुण्णः । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् ।

विश्वास-प्रस्तुतिः

रथ॑स्पष्ट ए॒वाव॒साने॒ वरे॑ दे॒वाना॒मव॑ स्यति ।

मूलम्

रथ॑स्पष्ट ए॒वाव॒साने॒ वरे॑ दे॒वाना॒मव॑ स्यति ।

भट्टभास्कर-टीका

तत्र देवानां वरे उत्कृष्टे अवसाने देवानां स्वभूते देवानां गृहे अवस्यति देवयजनमध्यवस्यति । तादृशे देवैः स्वभ्यस्ते देवयजनेऽनेनेष्टं भवति ॥

विश्वास-प्रस्तुतिः

ए॒तानि॒ वा अङ्गा॒परूꣳ॑षि ।

मूलम्

ए॒तानि॒ वा अङ्गा॒परूꣳ॑षि ।

भट्टभास्कर-टीका

2अङ्गापरूंषि अङ्गानि च परूंषि पर्वाणि च संवत्सरस्थितिहेतुत्वात् । ‘परादिश्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् । प्रतिधानं अविचलितस्थापनम् ॥

मूलम् (संयुक्तम्)

सव्ँवथ्स॒रस्य॒ यद्द॑र्शपूर्णमा॒सौ य ए॒वव्ँवि॒द्वान्द॑र्शपूर्णमा॒सौ यज॒तेऽङ्गा॒परूꣳ॑ष्ये॒व स॑व्ँवथ्स॒रस्य॒ प्रति॑ दधाति ए॒ते वै स॑व्ँवथ्स॒रस्य॒ चख्षु॑षी॒ यद्द॑र्शपूर्णमा॒सौ य ए॒वव्ँवि॒द्वान्द॑र्शपूर्णमा॒सौ यज॑ते॒ ताभ्या॑मे॒व सु॑व॒र्गल्ँलो॒कमनु॑ पश्यति

विश्वास-प्रस्तुतिः

स॒व्ँव॒थ्स॒रस्य यद्द॑र्शपूर्णमा॒सौ।
य ए॒वव्ँवि॒द्वान्द॑र्शपूर्णमा॒सौ यज॑ते ।
अङ्गा॒परूꣳ॑ष्ये॒व स॑व्ँवथ्स॒रस्य॒ प्रति॑ दधाति ।
ए॒ते वै स॑व्ँवथ्स॒रस्य॒ चख्षु॑षी॒ यद्द॑र्शपूर्णमा॒सौ ।
य ए॒वव्ँवि॒द्वान्द॑र्शपूर्णमा॒सौ यज॑ते ।
ताभ्या॑मे॒व सु॑व॒र्गल्ँलो॒कमनु॑ पश्यति।

3संवत्सरनिबन्धनाश्च सर्वेऽर्थाः । संवत्सरात्मनः चक्षुस्स्थानीयाख्यां साक्षादव्यवधानेन स्वर्गमनुक्रमेण पश्यति स्वर्गोस्य प्रकाशितो भवति ॥

मूलम् (संयुक्तम्)

ए॒षा वै दे॒वाना॒व्ँविक्रा᳚न्ति॒र्यद्द॑र्शपूर्णमा॒सौ य ए॒वव्ँवि॒द्वान्द॑र्शपूर्णमा॒सौ यज॑ते दे॒वाना॑मे॒व विक्रा᳚न्ति॒मनु॒ वि क्र॑मते

विश्वास-प्रस्तुतिः

ए॒षा वै दे॒वाना॒व्ँविक्रा᳚न्ति॒र्यद्द॑र्शपूर्णमा॒सौ ।
य ए॒वव्ँवि॒द्वान्द॑र्शपूर्णमा॒सौ यज॑ते ।

मूलम्

ए॒षा वै दे॒वाना॒व्ँविक्रा᳚न्ति॒र्यद्द॑र्शपूर्णमा॒सौ ।
य ए॒वव्ँवि॒द्वान्द॑र्शपूर्णमा॒सौ यज॑ते ।

भट्टभास्कर-टीका

4विक्रान्तिर्विशिष्टं क्रम्णं आभ्यां देवा हि विक्रमवन्तो वीरा भवन्ति धारकत्वात्तेषाम् ।

विश्वास-प्रस्तुतिः

दे॒वाना॑मे॒व विक्रा᳚न्ति॒मनु॒ वि क्र॑मते ।

मूलम्

दे॒वाना॑मे॒व विक्रा᳚न्ति॒मनु॒ वि क्र॑मते ।

भट्टभास्कर-टीका

अनु विक्रमते इति । यत्रयत्र देवा विक्रमन्ते तत्रतत्रायमप्रतिबन्धेन विक्रमते । लक्षणेनोः कर्मप्रवचनीयत्वम् । ‘वृत्तिसर्गतायनेषु क्रमः’ इति वृत्तावात्मनेपदम् ॥

मूलम् (संयुक्तम्)

ए॒ष वै दे॑व॒यान॒ᳶ पन्था॒ यद्द॑र्शपूर्णमा॒सौ य ए॒वव्ँवि॒द्वान्द॑र्शपूर्णमा॒सौ यज॑ते॒ य ए॒व दे॑व॒यान॒ᳶ पन्था॒स्तꣳ स॒मारो॑हति

विश्वास-प्रस्तुतिः

ए॒ष वै दे॑व॒यान॒ᳶ पन्था॒ यद्द॑र्शपूर्णमा॒सौ ।
य ए॒वव्ँवि॒द्वान्द॑र्शपूर्णमा॒सौ यज॑ते ।
य ए॒व दे॑व॒यान॒ᳶ पन्था॒स्तꣳ स॒मारो॑हति ।

मूलम्

ए॒ष वै दे॑व॒यान॒ᳶ पन्था॒ यद्द॑र्शपूर्णमा॒सौ ।
य ए॒वव्ँवि॒द्वान्द॑र्शपूर्णमा॒सौ यज॑ते ।
य ए॒व दे॑व॒यान॒ᳶ पन्था॒स्तꣳ स॒मारो॑हति ।

भट्टभास्कर-टीका

5देवयान इति ॥ देवा येन यान्ति स देवप्रयातो मार्गो देवयानः । देवैस्सदा मुक्तमार्ग एवेति ॥

मूलम् (संयुक्तम्)

ए॒तौ वै दे॒वाना॒ꣳ॒ हरी॒ यद्द॑र्शपूर्णमा॒सौ य ए॒वव्ँवि॒द्वान्द॑र्शपूर्णमा॒सौ यज॑ते॒ यावे॒व दे॒वाना॒ꣳ॒ हरी॒ ताभ्या᳚म् [34] ए॒वैभ्यो॑ ह॒व्यव्ँव॑हति ।

विश्वास-प्रस्तुतिः

ए॒तौ वै दे॒वाना॒ꣳ॒ हरी॒ यद्द॑र्शपूर्णमा॒सौ ।
य ए॒वव्ँवि॒द्वान्द॑र्शपूर्णमा॒सौ यज॑ते ।
यावे॒व दे॒वाना॒ꣳ॒ हरी॒ ताभ्या᳚मे॒वैभ्यो॑ ह॒व्यव्ँव॑हति ।

मूलम्

ए॒तौ वै दे॒वाना॒ꣳ॒ हरी॒ यद्द॑र्शपूर्णमा॒सौ ।
य ए॒वव्ँवि॒द्वान्द॑र्शपूर्णमा॒सौ यज॑ते ।
यावे॒व दे॒वाना॒ꣳ॒ हरी॒ ताभ्या᳚मे॒वैभ्यो॑ ह॒व्यव्ँव॑हति ।

भट्टभास्कर-टीका

6देवा येन प्राप्यन्ते देवप्राप्तिहेतुत्वात् हरी अश्वौ हविषां वाहनस्थानीयत्वात् ॥

मूलम् (संयुक्तम्)

ए॒तद्वै दे॒वाना॑मा॒स्य॑य्ँयद्द॑र्शपूर्णमा॒सौ य ए॒वव्ँवि॒द्वान्द॑र्शपूर्णमा॒सौ यज॑ते सा॒ख्षादे॒व दे॒वाना॑मा॒स्ये॑ जुहोति

विश्वास-प्रस्तुतिः

ए॒तद्वै दे॒वाना॑मा॒स्य॑य्ँयद्द॑र्शपूर्णमा॒सौ ।
य ए॒वव्ँवि॒द्वान्द॑र्शपूर्णमा॒सौ यज॑ते ।

सा॒ख्षादे॒व दे॒वाना॑मा॒स्ये॑ जुहोति ।

मूलम्

ए॒तद्वै दे॒वाना॑मा॒स्य॑य्ँयद्द॑र्शपूर्णमा॒सौ ।
य ए॒वव्ँवि॒द्वान्द॑र्शपूर्णमा॒सौ यज॑ते ।

सा॒ख्षादे॒व दे॒वाना॑मा॒स्ये॑ जुहोति ।

भट्टभास्कर-टीका

7आस्यमिति ॥ अभ्यवहतर्व्याधारत्वात् । साक्षादव्यवधानेन देवानामास्ये हुतं भवति ॥

मूलम् (संयुक्तम्)

ए॒ष वै ह॑विर्धा॒नी यो द॑र्शपूर्णमासया॒जी सा॒यम्प्रा॑तरग्निहो॒त्रञ्जु॑होति॒ यज॑ते दर्शपूर्णमा॒सावह॑रहर्हविर्धा॒निनाꣳ॑ सु॒तः

विश्वास-प्रस्तुतिः

ए॒ष वै ह॑विर्धा॒नी यो द॑र्शपूर्णमासया॒जी सा॒यम्प्रा॑तरग्निहो॒त्रञ्जु॑होति ।

मूलम्

ए॒ष वै ह॑विर्धा॒नी यो द॑र्शपूर्णमासया॒जी सा॒यम्प्रा॑तरग्निहो॒त्रञ्जु॑होति ।

भट्टभास्कर-टीका

8हविर्धानी ॥ सोमस्य हविराधारदर्शपूर्णमासवत्त्वात् दर्शपूर्णमासयाजी हविर्धानी ।

विश्वास-प्रस्तुतिः

यज॑ते दर्शपूर्णमा॒सावह॑रहर्हविर्धा॒निनाꣳ॑ सु॒तः ।

मूलम्

यज॑ते दर्शपूर्णमा॒सावह॑रहर्हविर्धा॒निनाꣳ॑ सु॒तः ।

भट्टभास्कर-टीका

किञ्च - यदयं सायं प्रातरग्निहोर्त्रं जुहोति दर्शपूर्णमासावेवाहरहर्यजते । यस्मादयं हविर्धानिनां सुतोपि हविर्धानीभिस्सुन्वानैरनुज्ञातः । हविर्धानित्वं पर्वणिपर्वण्यसुन्वानत्वमस्यानुमन्यते । पर्वणि सुन्वानः अहरहर्दर्शपूर्णमासयाजी भवति ॥

मूलम् (संयुक्तम्)

य ए॒वव्ँवि॒द्वान्द॑र्शपूर्णमा॒सौ यज॑ते हविर्धा॒न्य॑स्मीति॒ सर्व॑मे॒वास्य॑ बर्हि॒ष्य॑न्द॒त्तम्भ॑वति

विश्वास-प्रस्तुतिः

य ए॒वव्ँवि॒द्वान्द॑र्शपूर्णमा॒सौ यज॑ते ।
ह॒वि॒र्धा॒न्य॑स्मीति॑ ।
सर्व॑मे॒वास्य॑ बर्हि॒ष्य॑न्द॒त्तम्भ॑वति ।

मूलम्

य ए॒वव्ँवि॒द्वान्द॑र्शपूर्णमा॒सौ यज॑ते ।
ह॒वि॒र्धा॒न्य॑स्मीति॑ ।
सर्व॑मे॒वास्य॑ बर्हि॒ष्य॑न्द॒त्तम्भ॑वति ।

भट्टभास्कर-टीका

9य एवमित्यादि ॥ एवं हविर्धान्यस्मीति विद्वान् य एतौ यजते अस्य सम्बन्धि यद्दत्तं यावान् कश्चिदस्य धनव्ययः स सर्वो बर्हिषि यज्ञे विनियुक्तो भवति । सहविर्धानत्वात् सर्वो व्ययो यज्ञे व्ययो भवतीति ॥

मूलम् (संयुक्तम्)

दे॒वा वा अहः॑ [35] य॒ज्ञिय॒न्नावि॑न्द॒न्ते द॑र्शपूर्णमा॒साव॑पुन॒न्तौ वा ए॒तौ पू॒तौ मेध्यौ॒ यद्द॑र्शपूर्णमा॒सौ य ए॒वव्ँवि॒द्वान्द॑र्शपूर्णमा॒सौ यज॑ते पू॒तावे॒वैनौ॒ मेध्यौ॑ यजते॒

विश्वास-प्रस्तुतिः

दे॒वा वा अह॑र्य॒ज्ञिय॒न्नावि॑न्दन् ।

मूलम्

दे॒वा वा अह॑र्य॒ज्ञिय॒न्नावि॑न्दन् ।

भट्टभास्कर-टीका

10देवा वा इत्यादि ॥ यज्ञार्हं यज्ञियं ‘यज्ञर्त्विभ्यां घखञौ’ ।

विश्वास-प्रस्तुतिः

ते द॑र्शपूर्णमा॒साव॑पुनन् ।

तौ वा ए॒तौ पू॒तौ मेध्यौ॒ यद्द॑र्शपूर्णमा॒सौ ।

मूलम्

ते द॑र्शपूर्णमा॒साव॑पुनन् ।

तौ वा ए॒तौ पू॒तौ मेध्यौ॒ यद्द॑र्शपूर्णमा॒सौ ।

भट्टभास्कर-टीका

दर्शपूर्णमासाविति । कालवचनाविमाविदानीम् ।

विश्वास-प्रस्तुतिः

य ए॒वव्ँवि॒द्वान्द॑र्शपूर्णमा॒सौ यज॑ते । पू॒तावे॒वैनौ॒ मेध्यौ॑ यजते ।

मूलम्

य ए॒वव्ँवि॒द्वान्द॑र्शपूर्णमा॒सौ यज॑ते । पू॒तावे॒वैनौ॒ मेध्यौ॑ यजते ।

भट्टभास्कर-टीका

य एवमिति । एवं वेदितुरेव एतौ पूता भवतः ॥

विश्वास-प्रस्तुतिः

नामा॑वा॒स्या॑याञ्च पौर्णमा॒स्याञ्च॒ स्त्रिय॒मुपे॑यात् ।

मूलम्

नामा॑वा॒स्या॑याञ्च पौर्णमा॒स्याञ्च॒ स्त्रिय॒मुपे॑यात् ।

भट्टभास्कर-टीका

11नामावास्यायां चेति ॥ गतम् ॥

मूलम् (संयुक्तम्)

यदु॑पे॒यात्निरि॑न्द्रियस्स्या॒थ्सोम॑स्य॒ वै राज्ञो᳚ऽर्धमा॒सस्य॒ रात्र॑य॒ᳶ पत्न॑य आस॒न्तासा॑ममावा॒स्या᳚ञ्च पौर्णमा॒सीञ्च॒ नोपै᳚त् [36]
ते ए॑नम॒भि सम॑नह्येता॒न्तय्ँयख्ष्म॑ आर्च्छत्

विश्वास-प्रस्तुतिः

यदु॑पे॒यात् निरि॑न्द्रियस्स्यात् ।
सोम॑स्य॒ वै राज्ञो᳚ऽर्धमा॒सस्य॒ रात्र॑य॒ᳶ पत्न॑य आसन् ।
तासा॑ममावा॒स्या᳚ञ्च पौर्णमा॒सीञ्च॒ नोपै᳚त् ।

मूलम्

यदु॑पे॒यात् निरि॑न्द्रियस्स्यात् ।
सोम॑स्य॒ वै राज्ञो᳚ऽर्धमा॒सस्य॒ रात्र॑य॒ᳶ पत्न॑य आसन् ।
तासा॑ममावा॒स्या᳚ञ्च पौर्णमा॒सीञ्च॒ नोपै᳚त् ।

भट्टभास्कर-टीका

12रात्रय इति ॥ पञ्चदश तिथयः । पत्नय इति छान्दसो वर्णविकारः ।

विश्वास-प्रस्तुतिः

ते ए॑नम॒भि सम॑नह्येताम् ।

मूलम्

ते ए॑नम॒भि सम॑नह्येताम् ।

भट्टभास्कर-टीका

अभी समनह्येतामिति । सोमेन राज्ञा अनुपेते त्यक्ते एते तिथी एनमभिभूय आभिमुख्येन वा भोकृत्वेन गृहीतवत्यौ ।

विश्वास-प्रस्तुतिः

तय्ँयख्ष्म॑ आर्च्छत्।

मूलम्

तय्ँयख्ष्म॑ आर्च्छत्।

भट्टभास्कर-टीका

ततस्तं तथा ताभ्यां भुज्यमानं यक्ष्मः क्षयरोग आर्छत् आर्तमकरोत् ॥

मूलम् (संयुक्तम्)

राजा॑न॒य्ँयख्ष्म॑ आर॒दिति॒ तद्रा॑जय॒ख्ष्मस्य॒ जन्म॒ यत्पापी॑या॒नभ॑व॒त्तत्पा॑पय॒ख्ष्मस्य॒ यज्जा॒याभ्या॒मवि॑न्द॒त्तज्जा॒येन्य॑स्य॒ य ए॒वमे॒तेषा॒य्ँयख्ष्मा॑णा॒ञ्जन्म॒ वेद॒ नैन॑मे॒ते यख्ष्मा॑ विन्दन्ति

विश्वास-प्रस्तुतिः

राजा॑न॒य्ँयख्ष्म॑ आर॒दिति॑ ..
तद्रा॑जय॒ख्ष्मस्य॒ जन्म ।

यत्पापी॑या॒नभ॑व॒त् ..
तत्पा॑पय॒ख्ष्मस्य+++(जन्म)+++ ।
यज्जा॒याभ्या॒मवि॑न्द॒त् ..
तज्जा॒येन्य॑स्य +++(जन्म)+++ ।
य ए॒वमे॒तेषा॒य्ँयख्ष्मा॑णा॒ञ्जन्म॒॒ वेद॑ ।
नैन॑मे॒ते यख्ष्मा॑ विन्दन्ति ।

13राजानं यक्ष्म आरदित्यादि ॥ व्याख्यातममावास्यायामिति शेषः ॥

मूलम् (संयुक्तम्)

स ए॒ते ए॒व न॑म॒स्यन्नुपा॑धाव॒त्ते अ॑ब्रूता॒व्ँवर॑व्ँवृणावहा आ॒वन्दे॒वाना᳚म्भाग॒धे अ॑साव [37] आ॒वदधि॑ दे॒वा इ॑ज्यान्ता॒ इति॒

विश्वास-प्रस्तुतिः

स ए॒ते ए॒व न॑म॒स्यन्नुपा॑धावत् ।
ते अ॑ब्रूता॒व्ँवर॑व्ँवृणावहै ।

मूलम्

स ए॒ते ए॒व न॑म॒स्यन्नुपा॑धावत् ।
ते अ॑ब्रूता॒व्ँवर॑व्ँवृणावहै ।

भट्टभास्कर-टीका

14स एते इत्यादि ॥ गतम् ।

विश्वास-प्रस्तुतिः

आ॒वन्दे॒वाना᳚म्भाग॒धे अ॑साव ।

मूलम्

आ॒वन्दे॒वाना᳚म्भाग॒धे अ॑साव ।

भट्टभास्कर-टीका

भागधे इति । भागानां हविषां धात्र्यौ आवां असाव भवाव ।

विश्वास-प्रस्तुतिः

आ॒वदधि॑ दे॒वा इ॑ज्यान्ता॒ इति॑ ।

मूलम्

आ॒वदधि॑ दे॒वा इ॑ज्यान्ता॒ इति॑ ।

भट्टभास्कर-टीका

आवदधि आवयोरेव उपरिष्टात् देवाः इज्यान्ता इति । पूर्ववल्लेट् ॥

मूलम् (संयुक्तम्)

तस्मा᳚थ्स॒दृशी॑ना॒ꣳ॒ रात्री॑णाममावा॒स्या॑याञ्च पौर्णमा॒स्याञ्च॑ दे॒वा इ॑ज्यन्त ए॒ते हि दे॒वाना᳚म्भाग॒धे भा॑ग॒धा अ॑स्मै मनु॒ष्या॑ भवन्ति॒ य ए॒वव्ँवेद॑

विश्वास-प्रस्तुतिः

तस्मा᳚थ्स॒दृशी॑ना॒ꣳ॒ रात्री॑णाममावा॒स्या॑याञ्च पौर्णमा॒स्याञ्च॑ दे॒वा इ॑ज्यन्ते ।
ए॒ते हि दे॒वाना᳚म्भाग॒धे ।
भा॑ग॒धा अ॑स्मै मनु॒ष्या॑ भवन्ति ।
य ए॒वव्ँवेद॑ ।

मूलम्

तस्मा᳚थ्स॒दृशी॑ना॒ꣳ॒ रात्री॑णाममावा॒स्या॑याञ्च पौर्णमा॒स्याञ्च॑ दे॒वा इ॑ज्यन्ते ।
ए॒ते हि दे॒वाना᳚म्भाग॒धे ।
भा॑ग॒धा अ॑स्मै मनु॒ष्या॑ भवन्ति ।
य ए॒वव्ँवेद॑ ।

भट्टभास्कर-टीका

15तस्मादित्यादि ॥ गतम् ॥

मूलम् (संयुक्तम्)

भू॒तानि॒ ख्षुध॑मघ्नन्थ्स॒द्यो म॑नु॒ष्या॑ अर्धमा॒से दे॒वा मा॒सि पि॒तर॑स्सव्ँवथ्स॒रे वन॒स्पत॑य॒स्तस्मा॒दह॑रहर्मनु॒ष्या॑ अश॑नमिच्छन्तेऽर्धमा॒से दे॒वा इ॑ज्यन्ते मा॒सि पि॒तृभ्य॑ᳵ क्रियते सव्ँवथ्स॒रे वन॒स्पत॑य॒ᳶ फल॑ङ्गृह्णन्ति॒ य ए॒वव्ँवेद॒ हन्ति॒ ख्षुध॒म्भ्रातृ॑व्यम् ॥ [38]

विश्वास-प्रस्तुतिः

भू॒तानि॒ ख्षुध॑मघ्नन् ।

स॒द्यो म॑नु॒ष्याः᳚ +++(क्षुधं घ्नन्ति)+++ ..

मूलम्

भू॒तानि॒ ख्षुध॑मघ्नन् ।

स॒द्यो म॑नु॒ष्याः᳚ +++(क्षुधं घ्नन्ति)+++ ..

भट्टभास्कर-टीका

16भूतानीत्यादि ॥ सर्वाणि भूतानि क्षुधं बुभुक्षां घ्नन्ति तदुपघातहेतुभिरुपशमयन्ति सद्यस्समानेह्नि एत[क]स्मिन्नह्नि सकृदुपघातहेतुशमनं कृत्वा क्षुधं हन्ति ।

विश्वास-प्रस्तुतिः

अ॒र्ध॒मा॒से दे॒वाः +++(क्षुधं घ्नन्ति)+++ ..

मूलम्

अ॒र्ध॒मा॒से दे॒वाः +++(क्षुधं घ्नन्ति)+++ ..

भट्टभास्कर-टीका

अर्धमासे देवाः क्षुधं घ्नन्ति हविर्भिर्यागप्रभवैः ।

विश्वास-प्रस्तुतिः

मा॒सि पि॒तरः॑ +++(क्षुधं घ्नन्ति)+++ ..

मूलम्

मा॒सि पि॒तरः॑ +++(क्षुधं घ्नन्ति)+++ ..

भट्टभास्कर-टीका

मासि पितरः श्राद्धेन ।

विश्वास-प्रस्तुतिः

स॒व्ँव॒थ्स॒रे वन॒स्पत॑यः +++(क्षुधं घ्नन्ति)+++ ।

तस्मा॒दह॑रहर्मनु॒ष्या॑ अश॑नमिच्छन् ।
तेऽर्धमा॒से दे॒वा इ॑ज्यन्ते ।
मा॒सि पि॒तृभ्य॑ᳵ क्रियते ।
स॒व्ँव॒थ्स॒रे वन॒स्पत॑य॒ᳶ फल॑ङ्गृह्णन्ति ।
य ए॒वव्ँवेद॑ ।
हन्ति॒ ख्षुध॒म्भ्रातृ॑व्यम् ॥

वनस्पतयः संवत्सरे फलग्रहणेन तृप्ताः क्षुधं घ्नन्ति । तस्मात्पर्वणिपर्वणि यष्टव्या देवा इति ॥

इति द्वितीये पञ्चमे षष्ठोनुवाकः ॥